';

GitaSankar

निष्ठा ज्ञानस्य या परा सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे । समासेनैव कौन्तेय निष्ठा ज्ञानस्य या...
नाहङ्कृतो भावो बुद्धि:   कः पुनः सुमतिः यः सम्यक् पश्यतीति, उच्यते — यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न...
मेधावी च्छिन्नसंशयः न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । त्यागी सत्त्वसमाविष्टो मेधावी च्छिन्नसंशयः ॥ Gita 18/10 ॥ न द्वेष्टि अकुशलम् अशोभनं काम्यं कर्म, शरीरारम्भद्वारेण संसारकारणम् , ‘किमनेन ? ’ इत्येवम्  कुशले शोभने नित्ये कर्मणि सत्त्वशुद्धिज्ञानोत्पत्तितन्निष्ठाहेतुत्वेन ‘मोक्षकारणम् इदम्’ इत्येवं न अनुषज्जते अनुषङ्गं प्रीतिं न करोति इत्येतत् । कः पुनः असौ ? त्यागी पूर्वोक्तेन सङ्गफलत्यागेन तद्वान् त्यागी, यः कर्मणि सङ्गं त्यक्त्वा तत्फलं च नित्यकर्मानुष्ठायी सः त्यागी । कदा पुनः असौ अकुशलं कर्म न द्वेष्टि, कुशले च न अनुषज्जते इति, उच्यते — सत्त्वसमाविष्टः यदा सत्त्वेन आत्मानात्मविवेकविज्ञानहेतुना समाविष्टः संव्याप्तः, संयुक्त इत्येतत् । अत एव च मेधावी मेधया आत्मज्ञानलक्षणया प्रज्ञया संयुक्तः तद्वान् मेधावी । मेधावित्वादेव च्छिन्नसंशयः छिन्नः अविद्याकृतः संशयः यस्य...
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः   कः पुनः सात्त्विकः त्यागः इति, आह — कार्यमित्येव...
यज्ञदानतपःकर्म न त्याज्यम् त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ Gita 18/3॥   त्याज्यं त्यक्तव्यं दोषवत् दोषः अस्य अस्तीति दोषवत् । किं तत् ? कर्म बन्धहेतुत्वात् सर्वमेव । अथवा, दोषः यथा रागादिः त्यज्यते, तथा त्याज्यम् इति एके कर्म प्राहुः मनीषिणः पण्डिताः साङ्ख्यादिदृष्टिम् आश्रिताः, अधिकृतानां कर्मिणामपि इति । तत्रैव यज्ञदानतपःकर्म न त्याज्यम् इति च अपरे ॥ कर्मिणः एव अधिकृताः, तान् अपेक्ष्य एते विकल्पाः, न तु ज्ञाननिष्ठान् व्युत्थायिनः संन्यासिनः अपेक्ष्य । ‘ज्ञानयोगेन साङ्ख्यानां निष्ठा मया पुरा प्रोक्ता’ (भ. गी....
काम्यानां कर्मणां न्यासं संन्यासं काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः । सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ Gita 18/2...