परं पदम् – Param Padam

यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वं यतो जगत् ।२२.७४ स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ।। यमक्षरात्परतरात्परं प्राहुर्गुहश्रयम्।।२२.७५ आनन्दं परमं व्योम स वै नारायण स्मृतः।. नित्योदितो निर्विकल्पो नित्यानन्दो नरञ्जनः।।२२.७६ चतुर्व्यूहधरो विष्णुरव्यूहः प्रोच्यते स्वयम्। परमैत्मा परन्धाम परं व्योम परं पदम्।२२.७७ त्रिपादमक्षरं ब्रह्म तमाहुब्रह्मवादिनः। स…

सृस्टि क्रम: -Sristi kram

अव्यक्तं महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः । अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ।। ४.५ अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ।। ४.६ गन्धवर्णरसैर्हीनं शब्दस्पर्शविवर्जितम् । अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ।। ४.७ जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् । विग्रहः सर्वभूतानामात्मनाऽधिष्ठितं महत् ।। ४.८ अनाद्यन्तमजं सूक्ष्मं…

धर्मसाधनम् – Dharma sadhanam

त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते । अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ।। २.४९ ऐकाश्रम्यं गृहस्थस्य चतुर्णां श्रुतिदर्शनात् । तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ।। २.५० परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ।। २.५१ धर्मात् संजायते ह्यर्थो धर्मात् कामोऽभिजायते । धर्म…

पुराण लक्षणम् – Purana Lakshanam

सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ।। १.१२ ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च । शैवं भागवतं चैव भविष्यं नारदीयकम् ।। १.१३ मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च । लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ।। १.१४ कौर्म्मं…

नारी संगम

नाष्टमी चतुर्दशी पञ्चदशीषु स्त्रियं उपेयात् । । ६९.१ । । न श्राद्धं भुक्त्वा । । ६९.२ । । न दत्त्वा । । ६९.३ । । नोपनिमन्त्रितः श्राद्धे । । ६९.४ । । न व्रती । । ६९.५ । । न…

पङ्क्तिपावनाः- Pankti pabana

अथ पङ्क्तिपावनाः । । ८३.१ । । त्रिणाचिकेतः । । ८३.२ । । पञ्चाग्निः । । ८३.३ । । ज्येष्ठसामगः । । ८३.४ । । वेदपारगः । । ८३.५ । । वेदाङ्गस्याप्येकस्य पारगः । । ८३.६ । । पुराणेतिहासव्याकरणपारगः ।…

अक्षय श्राद्धं [पिण्डं] – akshya sraddhya

पितरि जीवति यः श्राद्धं कुर्यात्, स येषां पिता कुर्यात्तेषां कुर्यात् । । ७५.१ । । पितरि पितामहे च जीवति येषां पितामहः । । ७५.२ । । पितरि पितामहे प्रपितामहे च जीवति नैव कुर्यात् । । ७५.३ । । यस्य पिता…

प्रव्रज्याश्रमी – Prabajya Asrami

अथ त्रिष्वाश्रमेषु पक्वकषायः प्राजापत्यां इष्टिं कृत्वा सर्ववेदसं दक्षिणां दत्त्वा प्रव्रज्याश्रमी स्यात् । । ९६.१ । । आत्मन्यग्नीनारोप्य भिक्षार्थं ग्रामं इयात् । । ९६.२ । । सप्तागारिकं भैक्षं आचरेत् । । ९६.३ । । अलाभे न व्यथेत । । ९६.४ ।…

वानप्रस्थ – Bana prastha

गृही वलीपलितदर्शने वनाश्रयो भवेत् । । ९४.१ । । अपत्यस्य चापत्यदर्शने वा । । ९४.२ । । पुत्रेषु भार्यां निक्षिप्य तयानुग्म्यमानो वा । । ९४.३ । । तत्राप्यग्नीनुपचरेत् । । ९४.४ । । अफालकृष्टेन पञ्च यज्ञान्न हापयेत् । । ९४.५…

पुरुषध्यानं – Purusha Dhyanam

पुरुषध्यानं प्रशान्तात्मा चतुर्विंशत्या तत्त्वैर्व्यतीतं चिन्तयेत् । नित्यं अतीन्द्रियं अगुणं शब्दस्पर्शरूपरसगन्धातीतं सर्वज्ञं अतिस्थूलं । । ९७.२ । । सर्वगं अतिसूक्ष्मं । । ९७.३ । । सर्वतःपाणिपादं सर्वतोऽक्षिशिरोमुखं सर्वतः सर्वेन्द्रियशक्तिं । । ९७.४ । । एवं ध्यायेत् । । ९७.५ । ।…