Skip to content

Advocatetanmoy Law Library

Research & Library Database

Yuddha Gita (1st Vol): The First Question of Human Civilization

Search

  • Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System
  • West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta
  • Encyclopedia of Physical Measurement (3-Volume)
  • West Bengal Day, 20 June: History of the Formation of West Bengal in 1947
  • Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal
  • Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)
  • Deep Grammar of Civilization (13-Volume): What Are the Irreducible Components of Civilization?
  • Good Life (3-Volume): An encyclopedia of everything humanity seeks when it speaks of “a better life”
  • Smallest Library for the Largest Understanding: 10 Books that give the Highest Intellectual Return per page read
  • Life After Death (Part-III)
Primary Menu
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • Legal Brief
    • Legal Eagal
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Sarvarthapedia Vedic Dictionary » उपनयनं – Upanayanam
  • Sarvarthapedia Vedic Dictionary

उपनयनं – Upanayanam

advtanmoy 14/08/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

उपनयनं विद्यार्थस्य श्रुतितः संस्कारः

८ उपनयनं विद्यार्थस्य श्रुतितः संस्कारः ९ सर्वेभ्यो वेदेभ्यः सावित्र् यनूच्यत इति हि ब्राह्मणम् १० तमसो वा एष तमः प्रविशति यमविद्वानुपनयते यश्चाविद्वानिति हि ब्राह्मनम् ११ तस्मिन्नभिजनविद्यासमुदेतं समाहितं संस्कर्तारमीप्सेत् १२ तस्मिंश्चैव विद्याकर्मान्तमविप्रतिपन्ने धर्मेभ्यः १३ यस्माद्धर्मानाचिनोति स आचार्यः १४ तस्मै न द्रुह्येत्कदा चन १५ स हि विद्यातस्तं जनयति १६ तच्छ्रेष्ठं जन्म १७ शरीरमेव मातापितरौ जनयतः १८ वसन्ते ब्राह्मणमुपनयीत रीष्मे राजन्यं शरदि वैश्यं गर्भाष्टमेषु ब्राह्मणं गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् १९ अथ काम्यानि २० सप्तमे ब्रह्मवर्चसकामम् २१ अष्टम आयुष्कामम् २२ नवमे तेजस्कामम् २३ दशमेऽन्नाद्यकामम् २४ एकादश इन्द्रि यकामम् २५ द्वादशे पशुकामम् २६ आ षोडशाद्ब्राह्मणस्यानात्यय आ द्वाविंशात्क्षत्रियस्या चतुर्विंशाद्वैश्यस्य यथा व्रतेषु समर्थः स्याद्यानि वक्ष्यामः २७ अतिक्रान्ते सावित्र्याः काल ऋतुं त्रैविद्यकं ब्रह्मचर्यं चरेत् २८ अथोपनयनम् २९ ततः संवत्सरमुदकोपस्पर्शनम् ३० अथाध्याप्यः

Source: आपस्तम्ब-धर्मसूत्रम्


उपनयनं व्याख्यास्यामः

सप्तमे वर्षे ब्राह्मणमुपनयीतैकादशवर्षे राजन्यं द्वादशे वर्षे वैश्यम् । वसन्ते ब्राह्मणं ग्रीष्मे राजन्यं शरदि वैश्यम् ।

आपूर्यमाणपक्षे पुण्ये नक्षत्रे विशेषेण पुंनामधेये युग्मान् ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा अशितस्य कुमारस्य केशान् वापयित्वा स्नातयलङ्कृतमहतं वासः परिधाप्य प्राचीनप्रवण उदीचीनप्रवने प्रागुदक्प्रवणे समे वा देशे उद्धत्यावोक्ष्य सिकताभिः स्थण्डिलं कृत्वोल्लिख्याग्निं मथित्वा लौकिकं वाहृत्य निधाप्योपसमादधाति । प्रागग्रैर्दर्भैः परिस्तृणात्यपिवोदगग्राः पश्चात् पुरस्ताच्च भवन्ति । दक्षिणानुत्तरान् करोत्युत्तरानधरान् यदि प्रागुदगग्राः । दक्षिणेनाग्निं ब्रह्मायतने दर्भान् सँस्तीर्य मयि गृह्णामि यो नो अग्निः इति द्वाभ्यामात्मानमग्निं गृहीत्वोत्तरेणाग्निं दर्भान् सँस्तीर्याथास्य द्रव्याणि प्रयुनक्ति । अश्मानमहतं वासोऽजिनं मौञ्जीमेखलां त्रिवृतां ब्राह्मणस्य ज्यां राजन्यस्य आविकं वैश्यस्य बैल्वं पालाशं वा दण्डं ब्राह्मणस्य नैयग्रोधं राजन्यस्यौदुम्बरं वैश्यस्यैकविंशतिदारुमिध्ममस्येत्याहुतिपरिमाणं वा । एतस्मिन् शम्याः परिधीनिध्म उपसन्नह्यति । दर्वीं कूर्चमाज्यस्थालीं प्रणीताप्रणयं येन चान्यानि प्रोक्ष्यते तच्च सकृदेवसर्वाणि यथोपपदं वा एतस्मिन् काले ब्रह्मा यज्ञोपवीतं कृत्वाप आचम्यापरेणाग्निं दक्षिणातिक्रम्य ब्रह्मासनात् तृणं निरस्याप उपस्पृश्याग्निमभिमुखमुपविशति । समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रे पवित्रे कृत्वा अन्येन नखाच्छित्त्वाद्भिरनुमृज्य पवित्रान्तर्हिते पात्रेऽप आनीयोपबिलं पूरयित्वा उदगग्राभ्यां पवित्राभ्यां त्रिरुत्पूयोत्तरेणाग्निं दर्भेषु सादयित्वा दर्भैरपिदधाति । तिरःपवित्रं प्रोक्षणीः संस्कृत्य यथा पुरस्ताद् बिलवन्त्युत्तानानि कृत्वा विषायेध्मं त्रिः सर्वाभिः प्रोक्षति । दर्वीं निष्टप्य सम्मृज्य पुनर्निष्टप्य निदधाति ।

समाग्रानभ्युक्ष्याग्नावादधाति । आज्यं विलाप्य पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्योदीचोऽङ्गारान्निरूह्य तेष्वधिश्रित्य अवद्योत्य दर्भतृणाभ्यां प्रत्यस्य त्रिः पर्यग्नि कृत्वा उदगुद्वास्याङ्गारान् प्रत्यूह्य उदगग्राभ्यां पवित्राभ्यां पुनराहार माज्यं त्रिरुत्पूय पवित्रे अग्नावादधाति । शम्याभिः परिधिभिः परिदधात्यपरेणाग्निजुदीचीनकुम्भां मध्यमां निदधाति । दक्षीणेनाग्निं संस्पृष्ट्वा मध्यमया प्राचीनकुम्बाम् उत्तरेणाग्निं संस्पृष्ट्वा मध्यमया प्राचीनकुम्बाम् अपरेणाग्निं प्राङ्मुख उपविशति । दक्षिणतो यज्ञोपवीत्याचान्तः कुमार उपविश्यान्वारभते । अथ परिषिञ्चति । अदितेऽनुमन्यस्व इति दक्षिणतः प्राचीनम् अनुमतेऽनुमन्यस्व इति पश्चादुदीचीनं सरस्वतेऽनुयन्यस्व इति उत्तरतः प्राचीनं देव सवितः प्रसुव इति सर्वतः प्रदक्षिणं परिषिच्येध्यमाज्येनाभ्यज्याभ्यादधाति । अयं त इध्म आत्मा जातवेदस्तेनेध्यस्व वर्धस्व चेद्ध वर्धय चास्मान् प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इति अथ दर्व्या जुहोति ।

उत्तरं परिधिसन्धिमन्ववहृत्य प्रजापतये यनसे स्वाहा इति मनसा ध्यायन् दक्षिणाप्राञ्चमुदञ्चमृजुं सन्ततं जुहोति । दक्षिणं परिधिसन्धिमन्ववहृत्य इन्द्राय स्वाहा इति प्राञ्चमुदञ्चमृजुम् आघारावाघार्याज्यभागौ जुहोति । अग्नये स्वाहा इत्युत्तरार्धपूर्वार्धे । सोमाय स्वाहा इति दक्षिणार्धपूर्वार्धे । तावन्तरेणेतराहुतीर्जुहोति । युक्तो वह जातवेदः पुरस्तादग्ने विद्धि कर्म क्रियमाणं यथेदम् । त्वं भिषग् भेषजस्यासि कर्ता त्वया गा अश्वान् पुरुषान् सनेमि स्वाहा । या तिरश्ची निपद्यसेऽहं विधरणी इति । तां त्वा घृतस्य धारयाग्नौ सँराधन्यै यजे स्वाहा । संराधन्यै देव्यै स्वाहा । प्रसाधन्यै देव्यै स्वाहा । भूः स्वाहा । भुवः स्वाहा । स्वः स्वाहा । भूर्भुवःस्वः स्वाहा इति । सर्वदर्वीहोमानामेष कल्पः [1]

मन्त्रान्ते नित्यः स्वाहाकारोऽमन्त्रास्वमुष्मै स्वाहेति । यथादैवतम् भूर्भुवस्स्वरिति व्याहृतिभिर्जुहोत्येकैकशः समस्ताभिश्च । आयुर्दा अग्न इत्येषः । आयुर्दा देव जरसं गृणानो घृतप्रतीको घृतपृष्ठो अग्ने । घृतं पिवन्नमृतं चारु गव्यं पितेव पुत्रं जरसे नयेमं स्वाहा इति । इमं मे वरुण तत्त्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयास्ययासन्मनसा हितः अयासन् हव्यमूहिषे अयानो धेहि भेषजं स्वाहा । प्रजापतय इत्येषा । यदस्य कर्मणोऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत् स्विष्टकृद्विद्वान् सर्वं स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्धयित्रे स्वाहा । इत्युत्तरार्धपूर्वार्धेऽसंसक्तामितराभिराहुतिभिर्जुहोति । अत्रैके जयाभ्यातानान् राष्ट्रभृत इत्युयजुह्वति पुरस्तात् स्विष्टकृतः । चित्तं च स्वाहा चित्तिश्च स्वाहा । इति जयाञ्जुहोति । चित्ताय स्वाहा । चित्तये स्वाहा इति वा । अग्निर्भूतानामधिपतिस्स मावतु इत्यभ्यातानान् । अस्मिन् ब्रह्मन्नस्मिन् क्षत्र इत्यभ्यातानेष्वनुयुञ्जति । पितरः पितामहाः परेऽवरे इति प्राचीनावीती जुहोत्युपतिष्ठति । ऋताषाड् ऋतधामा इति राष्ट्रभृतः । पर्यायमनुद्रुत्य तस्मै स्वाहा इति पूर्वामाहुतीं जुहोति । ताभ्यस्स्वाहा इत्युत्तराम् । अग्रेणोत्तरं परिधिसन्धिमश्मानं निधाय दक्षिणेन पादेन कुमारमास्थापयति आतिष्ठेममश्मानमश्मेव त्वँ स्थिरो भव । प्रमृणीहि दुरस्यून् सहस्व पृतनायतः । इत्येतेन । अहतं वासः परिधापयति पूर्वं निधाय या अकृन्तन्नवयन् या अतन्वत याश्च देवीरन्तानभितोऽददन्त । तास्त्वा देवीर्जरसे संव्ययन्त्वायुष्मानिदं परिधत्स्व वासः । परिधत्त धत्त वाससैनं शतायुषं कृणुत दीर्घमायुः । बृहस्पतिः प्रायच्छद्वास एतत् सोमाय राज्ञे परिधातवा उ । जरां गच्छासि परिधत्स्व वासो भवा कृष्टीनामभिशस्तिपावा । शतं च जीव शरदः सुवर्चा रायश्च पोषमुपसंव्ययस्व इति । परिधाप्याभिमन्त्रयते परीदं वासो अधिता स्वस्तयेऽभूरापीनामभिशस्तिपावा । शतं च जीव शरदः पुरूचीर्वसूनि चार्यो विभजासि जीवन् ॥ इत्येनं मेखलया त्रिः प्रदक्षिणं परिदधाति । द्विरित्येके । या दुरितात् परिबाधमाना शर्म वरूथं पुनती न आगात् । प्राणापानाभ्यां बलमावहन्ती स्वसा देवानां सुभगा मेखलेयम् । इत्युत्तरतो नाभेस्त्रिवृतं ग्रन्थिं कृत्वा दक्षिणतो नाभेः परिकर्षति । अथास्मा अजिनमुत्तरीयं करोति । मित्रस्य चक्षुर्धरुणं बलीयस्तेजो यशस्वि स्थविरं समिद्धम् । अनाहनस्यं वसनं जरिष्णु परीदं वाज्यजिनं दधत्स्व । असावदितिस्ते कक्ष्यां वध्नातु वेदस्यानुवक्तवै मेधायै श्रद्धाया अनूक्तस्यानिराकरणाय ब्रह्मणे ब्रह्मवर्चसाय इति । कृष्णाजिनं ब्राह्मणस्य रौरवं राजन्यस्य वस्ताजिनं वैश्यस्य । अथैनं परिददाति । परीयमिन्द्रं ब्रह्मणे महे श्रोत्राय दध्यसि । यथैनं जरिमाणे यो ज्योक् श्रोत्रे अधिजागरत् । इति ब्राह्मणम् । परीममिन्द्रं ब्रह्मणे महे राष्ट्राय दध्मसि । यथैनं जरिमाणे यो ज्योग्राष्ट्रे अधिजागरत् । इति राजन्यम् । परीममिन्द्रं ब्रह्मणे महे पोषाय दध्मसि । यथैनं जरिमाणे यो ज्योक् पोषे अधिजागरत् । इति वैश्यम् अप्रेणाग्निमुदञ्चम् उपवेश्याहुतोच्छेषं प्राशयति । त्वयि मेधां त्वयि प्रजां त्वय्यग्निस्तेजो दधातु । इत्येतैः सन्नद्धैः । पृषदाज्यमेके प्राशयति । योगे योगे तवस्तरम् । इममग्न आयुषे वर्चसे कृधि इति प्राश्नन्तं समीक्षते । प्राशयत्येके । आचान्तमुपस्पर्शयित्वाभिमन्त्रयते शतमिन्नु शरदो अन्ति देवा यत्रानश्चक्रा जरसम् तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः । इति [2]

आगम्त्रा समगन्महि प्रसुमृत्युं युयोतन । अरिष्टास्सञ्चरेमहि स्वस्ति चरतादिह स्वस्त्या गृहेभ्यः इति प्रदक्षिनमग्निम् परिक्रामन्तमभिमन्त्रयते । अथैनमभिव्याहारयति ब्रह्मचर्यमागाम् उप मा नयस्व । ब्रह्मचारी भवानि देवेन सवित्रा प्रसूतः इति । तं पृच्छति । को नामासि इति । असौ इत्याचष्टे यथानामा भवति । स्वस्ति देव सवितरहं येनामुना ऋचमधीय इति नाम निगृह्णाति । शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः इत्यद्भिर्मार्जयते [3]

अथास्य दक्षिणेन हस्तेन दक्षिणमंसमन्वारभ्य सव्येन सव्यं व्याहृतिभिः सावित्र्येति दक्षिणं बाहुमध्यास्य न्नुपनयते । देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पुष्णो हस्ताभ्यामुपनयेऽसौ इति च । अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति । अग्निस्ते हस्तमग्रहीत् । सोमस्ते हस्तमग्रहीत् । सविता ते हस्तमग्रहीत् । सरस्वती ते हस्तमग्रहीत् । पूषा ते हस्तमग्रहीत् । बृहस्पतिस्ते हस्तमग्रहीत् । मित्रस्ते हस्तमग्रहीत् । वरुणस्ते हस्तमग्रहीत् । त्वष्टा ते हस्तमग्रहीत् । धाता ते हस्तमग्रहीत् । विष्णुस्ते हस्तमग्रहीत् । प्रजापतिस्ते हस्तमग्रहित् । इति मन्त्रैर्दक्षिणेन हस्तेन कुमारस्य दक्षिणं हस्तं साङ्गुष्ठं प्रतिमन्त्रं गृह्णाति । सविता त्वाभिरक्षतु । मित्रस्त्वमसि शर्मणा । अग्निराचार्यस्तव । देवेन सवित्रा प्रसूतो बृहस्पतेर्ब्रह्मचारी भवासौ । अपोऽशान सपिध आधेहि कर्म कुरु मा दिवा स्वाप्सीः इत्येनं संशास्ति ॥ अथास्य दक्षिणेन हस्तेन दक्षिणमंसमुपर्युपरि अन्ववमृश्य हृदयदेशमभिमृशति मम हृदयं हृदयं ते अस्तु । मम चित्तं चित्तेनान्वेहि । मम वाचमेकमना जुषस्व । बृहस्पतिस्त्वा नियुनक्तु मह्यं मामेवानुसंगृहस्व । मयि चित्तानि सन्तु ते । मयि सामीच्यमस्तु ते । मह्यं वाचं नियच्छतात् । इति । प्राणानां ग्रन्थिरसि । स मा विस्रस इति नाभिदेशम् । भूर्भुवःस्वःसुप्रजाः प्रजया भूयासम् । सुवीरो वीरैः सुवर्चा वर्चसा सुपोषा पोषैः सुमेधाः मेधया सुब्रह्मा ब्रह्मचारिभिः । इत्येनमभिमन्त्र्य भूरृक्षु त्वा अग्नौ पृथिव्यां वाचि ब्रह्मणि ददेऽसौ । भुवो यजुष्षु त्वा वायावन्तरिक्षे प्राणे ब्रह्मणि ददेऽसौ । स्वस्सामसु त्वा सूर्ये दिवि चक्षुषि ब्रह्मणि ददेऽसौ । विष्णुतस्ते प्रियोऽसान्यसौ । अनलस्य ते प्रियोऽसान्यसौ । इदं वत्स्यावः । प्राण आयुषि वत्स्यावः । प्राण आयुषि वसासौ इति च । अथास्य दक्षिणेन हस्तेन दक्षिणं हस्तं साङ्गुष्ठं गृह्णाति अग्निरायुष्मान् इति पञ्चभिः पर्यायैः । आयुष्टे विश्वतोदधाद् इति दक्षिणे कर्णे जपित्वा । आयुर्दा अग्न इत्युत्तरे । अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि याँ स्वस्तिमग्निर्वायुरादित्यश्चन्द्रमा आपोऽनुसञ्चरन्ति तां स्वस्तिमनुसञ्चरासौ प्राणस्य ब्रह्मचार्य
भूरसौ इत्युभयत्रानुषजति ।
मेधां म इन्द्रो दधातु मेधां देवी सरस्वती
मेधां मे अश्विनावुभावाधत्तां पुष्करस्रजौ
इति तस्य मुखेन मुखं सन्निधाय जपति । अथैनं परिददाति कशकाय त्वा
परिददामि । अन्तकाय त्वा परिददामि । अघोराय त्वा परिददामि । यमाय त्वा परिददामि । गदाय त्वा परिददामि । मखाय त्वा परिददामि । वशिन्यै त्वा परिददामि । पृथिव्यै त्वा सवैश्वानरायै परिददामि । अद्भ्यस्त्वा परिददामि । ओषधीभ्यस्त्वा परिददामि । वनस्पतिभ्यस्त्वा परिददामि । विश्वेभ्यस्त्वा भूतेभ्यः परिददामि । सर्वेभ्यस्त्वा देवेभ्यः परिददामि । सर्वाभ्यस्त्वा देवताभ्यः परिददामि । अत्र सावित्रीं वाचयति यदि पुरस्तादुपेतो भवति । यद्यनुपेतस्त्र्यहे पर्यपेते । सद्यः पुष्करसादिः । अप्रेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन् प्राङ्मुख उपविशति राष्ट्रभृदस्याचार्यासन्दी मा त्वद्योषम् इति । आदित्यायाञ्जलिं कृत्वा आचार्यम् उपसंगृह्य दक्षिणतः कुमार उपविश्य अधीहि भोः इत्युक्त्वा । अथासौ सावित्रीं भो अनुब्रूहि इति । गणानां त्वा गणपतिँ हवामह इत्येनमभिमन्त्र्य अथास्मै पच्छोऽग्रेऽन्वाहाथार्धर्चशोऽथ सन्तताम् । भूः तत् सवितुर्वरेण्यम् । भुवः भर्गो देवस्य धीमहि । स्वः धियो यो नः प्रचोदयात् । भूर्भुवः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि । स्वः धियो यो नः प्रचोदयात् । भूर्भुवः स्वः तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् इति ।

अथ सप्त पालाशीः समिध आर्द्रा अप्रच्छिन्नाग्राः प्रादेशमात्रा घृताक्ता अभ्याधापयति । अग्नये समिधमाहार्षं बृहते जातवेदसे । यथा त्वमग्ने समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा इत्येकाम् । अग्नये समिधौ इति द्वे । अग्नये समिध इति चतस्रः । अथ परिषिञ्चति यथा पुरस्ताद् अन्वमंस्थाः मासावीः इति मन्त्रान्तान् सन्नमयति । अथ देवता उपतिष्ठते अग्ने व्रतपते व्रतं चरिष्यामि इत्यग्निं वायो व्रतपत इति वायुम् आदित्य व्रतपत इत्यादित्यं व्रतानां व्रतपत इति व्रतपतिम् । अत्र गुरवे वरं ददाति । उदायुषा इत्युत्थाप्य सूर्यैष ते पुत्रस्तं ते परिददामि इति परिदाय तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् । पश्येम शरदश्शतम् । जीवेम शरदश्शतम् । नन्दाम शरदश्शतम् । मोदाम शरदश्शतम् । भवाम शरदश्शतम् । शृणवाम शरदश्शतम् । प्रब्रवाम शरदश्शतम् । अजीताः स्याम शरदश्शतम् । ज्योक् च सूर्यं दृशे इत्यादित्यमुपतिष्ठते । अग्निष्ट आयुः प्रतरां कृणोतु । अग्निष्टे पुष्टिं प्रतरां दधातु । इन्द्रो मरुद्भिरिह ते ददातु । आदित्यस्ते वसुभिरादधातु । इति दण्डं प्रदायामत्रं प्रयच्छति । अथाह भिक्षाचर्यं चर इति । स मातरमेवाग्रे भिक्षेत । अतोऽन्येषु रातिकुलेष्वाहृत्य भैक्षमिति प्राह । यस्य ते प्रथमवास्यं हरामस्तं त्वा विश्वे अवन्तु देवाः । तं त्वा भ्रातरः सुवृधो वर्धमानमनुजायन्तां बहवस्सुजातम् इति प्रथमवास्यमस्यादत्ते । उपस्थितेऽन्न ओदनस्पापूपानां सक्तूनां समवदाय सर्पिर्मिश्रस्य जुहोति । अग्नये स्वाहा । सोमाय स्वाहा । अग्नयेऽन्नादाय स्वाहा । अग्नयेऽन्नपतये स्वाहा । प्रजापतये स्वाहा । विश्वेभ्यो देवेभ्यः स्वाहा । सर्वाभ्यो देवताभ्यः स्वाहा । अग्नये स्विष्टकृते स्वाहा इति ।

सर्वत्रैवमनादिष्टदेवतममुष्मै स्वाहा अमुष्मै स्वाहेति । यथादैवतमादिष्टदैवतम् । एतेषामेवासां समवदाय प्रागग्रेषु दर्भेषु बलिं करोति वास्तुपतये स्वाहा इति । त्रिवृता अन्नेन ब्राह्मणान् परिविष्य पुण्याहं स्वस्त्ययनमृद्धिं वाचयित्वा त्र्यहव्रतं चरत्यक्षारलवणमशमीधान्यं भुञ्जानः अधश्शायी अमृण्मयपायी अशूद्रोच्छिष्टमधुमांसाशी अदिवास्वापी उभौ कालौ भिक्षाचर्यमुदकुम्भमित्याहरन्नहरहः काष्ठकलाम् । उभौ कालौ सायं सायं वा समिधोऽभ्यादधाति । यथाह तद्वसवो गौर्यम् इति प्रदक्षिणमग्निं परिमृज्य परिषिञ्चति । यथा पुरस्ताद्व्याहृतीभिः समिधोऽभ्यादधागि एकैकशः समस्ताभिश्च । एषा ते अग्न समित्तया वर्धस्व चाप्यायस्व वर्धिषिमहि च वयमा च प्यासिषीमहि स्वाहा । मेधां म इन्द्रो दधातु मेधां देवी सरस्वती । मेधां मे अश्विनावुधावाधत्तां पुष्करस्रजौ स्वाहा । अप्सरासु च या मेधा गन्धर्वेषु च यन्मनः । दैवी मेधा मनुष्यजा सा मां मेधा सुरभिर्जुषतां स्वाहा । आ मां मेधा सुरभिर्विश्वरूपा हिरण्यवर्णा जगती जगम्या । ऊर्जस्वती पयसा पिन्वमाना सा मां मेधा सुप्रतीका जुषन्तां स्वाहा इति । तथैव परिमृज्य परिषिञ्चति यथा पुरस्तात् । यत्ते अग्ने तेज इत्येतैः मन्त्रैः उपतिष्ठते मयि मेधां मयि प्रजाम् इति च । त्र्यहे पर्यपेते तथैव त्रिवृतान्नेन ब्राह्मणान् परिविष्य पुण्याहं स्वस्त्ययनमृद्धिमिति वाचयित्वा व्रतं विसृजते अग्ने व्रतपते व्रतमचारिषम् इत्येतैर्मन्त्रैः । एतद् व्रतमेवात ऊर्ध्वम् आचार्यकुलवास्य श्नात्यक्षारलवणमशमीधान्यमिति । दण्डी जटी मेखली शिखाजटो वा स्यात् । काषायमजिनं वा वस्ते न स्त्रियमुपैत्यष्टाचत्वारिंशद्वर्षाणि द्वादश यावद्ग्रहणं वा न त्वेवाव्रतः स्यात् । काण्डोपाकरणे काण्डविसर्गे च सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् । सनिं मेधामयासिषं स्वाहा इति काण्डर्षिद्वितीयम् इमं मे वरुण तत्त्वायामि त्वन्नो अग्ने स त्वन्नो अग्ने त्वमग्ने अयासि प्रजापते यदस्य कर्मणोऽत्यरीरिचम् इति च । अथैके जयाभ्यातानान् राष्ट्रभृत इत्युपजुह्वति यथा पुरस्तात्  [4]


आग्निवेश्यगृह्यसूत्रम्

Tags: Hindu Religion

Post navigation

Previous: दहनविधिः – Dahan Bidhi
Next: तपः – Tapaha

Related Stories

Sarvarthapedia
  • Sarvarthapedia Vedic Dictionary

Epistemology (3-Volume): What justifies belief, the difference between opinion and truth

advtanmoy 24/05/2026
Philosophy & Religion of Rigveda
  • Sarvarthapedia Vedic Dictionary

Rigveda (ऋग्वेदः, ऋक्, ऋच्): Meaning, Structure and Vedic Interpretation

advtanmoy 28/04/2026
Encyclopedia of Sanatan Dharma
  • Sarvarthapedia Vedic Dictionary

Isa (ईशा): Universal Controller, Karma-Phala-Data, and Inner Self

advtanmoy 19/04/2025
Islamic Pakistan

Fundamental Rights under Constitution of Pakistan 1973

Communism

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Iranian Foreign Minister Abbas Araghchi
Geo-Political

Islamabad MOU between Iran and the United States (17th June 2026): Framework agreement to end war with Iran

24/06/2026
On June 17, 2026, the U.S. and Iran signed a Memorandum of Understanding, mediated by Pakistan, to end military operations and negotiate a final deal within 60 days. Key points include terminating sanctions, ensuring safe…
USA

US and Sweden Technology Prosperity Deal (2026): Overview and Strategic Significance

Putin’s May 2026 Visit to China

Putin’s May 2026 Visit to China: Multipolar World Declaration in Beijing

China

China’s African Tariff Policy 2026: Zero Tariffs and the New Africa–China Trade Era

American-President-Donald-Trump

Trump’s 2026 Cuba Sanctions Order: History, Law, and Geopolitical Impact

  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders

Encyclopedia of Macroscopic Human Social System Analysis (6-Volume): Civilization as a Complex Adaptive System

West Bengal Govt Budget Statement In Bengali (2026-2027) by Swapan Dasgupta

Encyclopedia of Physical Measurement (3-Volume)

West Bengal Day, 20 June: History of the Formation of West Bengal in 1947

Noble Bengali Families of Kolkata (1760–1860): Rise of Abhijat Bhadralok in Colonial Bengal

Bishop’s College Kolkata: India’s Oldest Anglican Theological Institution (1820–2026)

Sarvarthapedia

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
2026 All rights reserved © Advocatetanmoy Law Library by advocatetanmoy.