दहनविधिः – Dahan Bidhi
अथातो दहनविधिः ।
आहिताग्नेरनाहिताग्नेः स्त्रियाश्चैव मरणसंशये शुचौ समे देशे गोमयेनोपलिप्य अवोक्ष्य सिकताभिरवकीर्य तासु दक्षिणाग्रान् दर्भान् संस्तीर्य तेषु दक्षिणाशिरसमेनं निधायास्वधायुक्ता ब्रह्माण्यभिश्रावयेत् आयुषः प्राणँ सन्तनु इति । अथ प्राणेषूत्क्रान्तेषु प्राचीनावीत्यवाचीनपाणिः हिरण्यशकलमास्ये प्रत्यस्याङ्गुष्ठबन्धं प्रबध्य ग्राम्येणालङ्कारेणालङ्कृत्य पत्तोदशेनाहतेन वाससा प्रच्छाद्य सायमाहुतिं हुत्वा मातराहुतिं हुत्वा पौर्णमास्येनेष्ट्वामावास्येनेष्ट्वाथ गार्हपत्य आज्यं विलाप्योत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा प्रागुदेत्य समिद्वत्याहवनीये जुहोति मृत्योरधिष्ठानाय स्वाहा इति । चतुरो ब्राह्मणान् बाहयित्वा ग्रामाभिमुखेन चतुष्पथे निधाय मुखं दर्शयित्वा श्मशानाभिमुखेन वाहयित्वा श्मशानं निर्हृत्य सहाग्निभिः प्रेतं तत्रैनं निधाय दहनं जोषयेत् दक्षिणाप्रत्यक्प्रवणमभङ्गुरमनिरिणमसुषिरं समं वा । अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः ।
अहोभिरद्भिरक्तुभिर्व्यक्तैर्यमो ददात्ववसानमस्मै इति हरिण्या पलाशशाखयौदुम्बरशाखया वा सतं सम्मृज्य दक्षिणतः शाखां निरस्य अप उपस्पृश्याद्भिरवोक्ष्य हिरण्यशकलमवधाय अपसर्पत प्रेता ये के चेह पूर्वजाः स्वस्ति नः कुरुत माश्रुपातः पुनरागमत् इति दक्षिणापवर्गाः स्फ्येन परशुना वा तिस्रः कर्षूः खात्वाद्भिरवोक्ष्य तिलतण्डुलानां मुष्टिं पूरयित्वा यमाय पितृपतये पितृभ्यः स्वधा नम इति प्रथमायां निवपति । एवं द्वितीयायां तथा तृतीयायाम् । शेषांस्तिलतण्डुलान् यद्याहिताग्निर्भवति तस्य कृष्णाजिनं छित्त्वा दक्षिणाग्रीवमधरलोमास्तृणाति । एतस्मिन् काले स्नात्वोदकेनौषधीभिश्च कुम्भं पूरयित्वा तेन दशहोत्रा पत्तोग्रात् स्नापयेत् । अथाहतं वासः परिधाप्यालङ्कृत्य ततश्चितामारोप्याथ सप्तप्राणायतनेषु सप्त हिरण्यशकलान् प्रत्यस्यालाभ आज्यबिन्दून्वा मुखे प्रथममास्ये दधितण्डुलांश्च तिलांश्च जुहोति इदं त आत्मनः शरीरमयं त आत्मनस्त आत्मानं शरीराद् ब्रह्म निर्भिनद्मि भूर्भुवःस्वरसौ स्वर्गाय लोकाय स्वाहा इति । दशहोतारं चित्तिः स्रुग् इत्यादि ग्रहवर्जमेवमेवाग्रे नासिकाच्छिद्रयोर्द्विर्जपेत् । आसीदिति सर्वेषु होतृपदेष्वनुषजत्यन्यत्र षड्ढोतृपदेभ्यः । आस्तामिति द्विवचनादिषु । चतुर्होतारं पृथिवी होता इति मुखे सृक्किकटयोर्द्विः पञ्चहोतारम् अग्निर्होता इति कर्णयोर्द्विष्षड्ढोतारं सूर्यम् त इति कीकसासु द्विस्सप्तहोतारं महाहविर्होता इति १
अथाज्यानि गृह्णीते दर्शपूर्णमासवत् तूष्णीं जुह्वां घृतं दध्युपभृति दधि मधु घृतमिति ध्रुवायां पयोऽग्निहोत्रहवण्याम् । अपिवाज्यमेव सर्वासु । अत्र पात्राण्युपचिनोति । यानि पात्राण्यासेचनवन्ति तानि सम्पूरयित्वाभ्युक्षतीतराण्यरिक्तताया इति विज्ञायते । तस्य दक्षिणहस्ते जुहूं स्फ्यं चादधाति । सव्य उपभृतमुरसि ध्रुवामुपवेषमरणीं च मुखेऽग्निहोत्रहवणीं नासिकयोः स्रुवावाज्यस्रुवौ वा कर्णयोः प्राशित्रहरणं भित्त्वैकैकम् । हन्वोरुलूखलमुसले दत्सु ग्रावाणो भवन्ति । शिरसि कपालानि । ललाट एककपालमुदरे ड्ष्टिसंयवनीं पात्रीं नाभ्यामाज्यस्थालीं पत्त उपावहरणीयं कूर्चं शिरस्त उपसादनीयं कूर्चं पार्श्वयोः शूर्पं छित्त्वैकैकं वा घ्राणयोः सान्नाय्यकुम्भ्यौ यदि सन्नयन् भवति अण्डयोर्दृषदुपले शिश्ने वृषरवं शम्यां च पृष्ठयोरग्निहोत्रस्थालीमन्वाहार्यस्थालीम् इडापात्रं वेदं शिखायाम् । अथवावशिष्टान्यन्तरेण सक्थिनी निवपति । तस्य कृष्णाजिनशेषेण दक्षिणाग्रीवमुत्तरलोम्ना प्रच्छाद्य बान्धवाः सिग्वातेनोपवीजयन्ति । त्रयः सिग्वाता भवन्ति ग्रामे पथि चितायां च । वातास्ते वान्तु पथि पुण्यगन्धा मनःशुभा गात्रशुभा अनुलोमाः । त्वचस्सुखा मांससुखा अस्थिसौख्या वहन्तु त्वा मरुतः सुकृतां यत्र लोकाः इति २
यद्याहिताग्निर्भवति अप नः शोशुचदघम् इत्यङ्गुष्ठबन्धं विसृज्य पत्न्युदकुम्भमादायाध्वर्युर्वा शीर्षन्नधिनिधाय त्रिरपसलैः परिषिञ्चन् पर्येति । किञ्चित् परशुना प्रहरति । अथ धारामनुमन्त्रयते इमा आपो मधुमत्योऽस्मिंस्ते लोक उपदुह्यन्ताम् इति । द्वितीयं परिगतायां पश्चात् प्रहरति इमा आपो मधुमत्योऽन्तरिक्षे ते लोक उपदुह्यन्ताम् इति । तृतीयं परिगतायां पश्चात् प्रहरति इमा आपो मधुमत्यः स्वर्गे ते लोक उपदुह्यन्ताम् इति । भिनत्ति कृम्भम् । यदि पुरस्तात् पतति पापीयान् भवति यदि पश्चात् पतति वसीयान् भवति इति । अथ कपालशेषा अपः प्रेतस्य प्राणस्थानेषु निनयति दिवि जाता अप्सु जाता इति । आर्द्रा ओषधीरालभ्योत्तिष्ठति । गां पश्यति । ब्राह्मणान् पश्यति । हिरण्यमालभते । अत्र गुरवे वरं ददाति ३
अथास्मा अध्वर्युर्दक्षिणपूर्वस्यां दिश्याहवनीयमादीपयति नैरृत्यामन्वाहार्यपचनं वायव्यां गार्हपत्यमुत्तरतः सभ्यावसक्थ्यौ । संभारैः अग्निर्यजुर्भिः पत्नीभिः सेनेन्द्रस्य इत्येतैः उपोषयेत् । ग्रहैः वाचस्पते विधे नामन् वाचस्पते वाचो वीर्येण सोमः सोमस्य वाचस्पतेऽच्छिद्रया वाचा वाचस्पते हृदिधे नामन् इत्येतैः ऋतुमुखीयेन वाग्घोता इत्येतेन ब्राह्मण एकहोता इति चोपस्थानम् । आहवनीय एकेषां कपालः । सन्तपनाग्निना वाजसनेयिनः समामनन्ति । तमभिनिवर्तते यं घर्मोऽग्निरभिजिहर्त्ति यां गतिं यान्ति युधि युद्धशूरा विधृतपापा विरजा विशोकास्तां गतिं याहि सुरभिर्नाकपृष्ठः स्वधा नम इति । यद्यनाहिताग्निर्भवति यां गतिं यान्ति युधि युद्धशुरास्तनुत्यजो मोक्षविदो मनीषिनः सुकृतिनोऽग्निहोत्रहविष्ठास्तां गतिं याहि सुरभिर्नाकपृष्ठः स्वधा नम इति । ततो यज्ञोपवीती सं त्वा सिञ्चामि यजुषा इति शान्तिं कृत्वा ज्योतिष्मत्या आदित्यमुपतिष्ठते उद्वयं तमसस्परि उदुत्यं चित्रम् इति । पुत्रभ्रातृसपिण्डाः संविशन्ति । अनवेक्षमाणास्तीर्थमायान्ति । राजपुरुषो वा तानसगोत्रो वा पर्णशाखया शमीशाखयौदुम्बरशाखया वारयति मा तरत इति । न पुनरागमिष्यामह इत्युक्त्वातुरव्यञ्जनानि कृत्वा केशान संप्रकीर्य पांसूनोप्यैकवाससोऽहतवाससो वा दक्षिणामुखाः सकृदुन्मज्ज्योत्तीर्य सव्यं जानुं भूमौ निधाय वासः पीडयित्वोत्थायाञ्जलिनोदकमादाय तिलमिश्रा अपस्तं प्रति असावेतत्त उदकम् इति एवं द्वितीयं तृतीयं च कृत्वा अथाप्रतीक्षा ग्राममायान्ति । कनिष्ठप्रथमाः पिपीलिका यान्ति । निवेशनद्वारे निम्बपत्रं प्राश्याप आचम्य गोमयं हिरण्यमपोऽग्निं सर्षपांस्तैर्लामत्युपस्पृश्य शिरः प्राणान् संमृश्याश्मानमाक्रम्य गृहं प्रविश्य यत् स्त्रिय आहुस्तत् कुर्वन्ति । यत्र प्राणा उत्क्रान्ता भवन्ति तस्मिन् गोमयेनोपलिप्य वत्सं प्रतिष्ठाप्य तिलतण्डुलान्युदकमिश्राणि संप्रकीर्य स्वस्त्यस्तु गृहाणां शेषे शिवमास्ताम् इति पवनं कृत्वापक्वाशी स्त्रिया अत ऊर्ध्वं ब्रह्मचर्यमा दशरात्रात् । सायंप्रातः सकृदुदकमुत्सिच्य दशमेऽहनि त्रिरुदकमुत्सिच्य दशम्यां विकृताहारम् ४
अथातोऽस्थिसंचयनं व्याख्यास्यामः । अनिवृत्तेऽग्नौकरणे द्व्यहे त्र्यहे चतुरहे पञ्चाहे सप्ताहे वा नवकुम्भमादाय श्मशानं नीत्वा पालाशशङ्कुना शमीशङ्कुनौदुम्बरशङ्कुना वाङ्गुष्ठोपकनिष्ठिकाभ्यां वा सर्वाभिरङ्गुलीभिर्वास्थीनि समुदायुत्य क्षीरेण प्लावयित्वा घृतं निनयेद् इदं त आत्मनः शरीरमयं त आत्मा आत्मनस्त आत्मानं शरीराद् ब्रह्म निर्भिनद्मि भूर्भुवःस्वरसौ स्वर्गाय लोकाय स्वाहा इति । अथ यदि न दहेयुरुल्मुकमादाय पुनर्दहेद् अस्मात्त्वमधिजातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय स्वर्गाय लोकाय स्वाहा इति । अथास्थ्यादाय नदीतीरेषु वा समुद्रतीरेषु वापाहरेयुः । अपि वा गजसम्मितं पुरुषसम्मितं वा गर्तं खात्वास्थिकुम्भमवधाय पुनरभ्यज्य पुरीषेण पूरयेत् यवदेव तद् भवति तावत् स्वर्गे लोके महीयते इति ५
आग्निवेश्यगृह्यसूत्रे तृतीयप्रश्ने चतुर्थोऽध्यायः