देवताः – Devata

आत्मैव देवताः सर्वाः सर्वं आत्मन्यवस्थितम् । आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम्

Hindu religion

When we think of the Hindu religion, we find it difficult, if not impossible, to define Hindu religion or even adequately describe it. Unlike other religions in the world, the Hindu religion does not claim anyone prophet; it does not worship anyone God;

ब्रह्म – Brahma

ब्रह्म वा इदमग्र आसीत्। तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तद्यो यो देवानां प्रत्यबुध्यत स सऽएव तदभवत्तथर्षीणां तथा मनुष्याणाम् - १४.४.२.[२१] तद्धैतत्पश्यन्नृषिर्वामदेवः प्रतिपेदे। अहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्चनाभूत्या ईशत आत्मा ह्येषां स भवत्यथ…

पति-पत्नी Pati Patni

आत्मैवेदमग्र आसीत्। पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत्सोऽहमस्मीत्यग्रे व्याहरत्ततोऽहं नामाऽभवत्तस्मादप्येतर्ह्यामन्त्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति - १४.४.२.[१] स यत्पूर्वोऽस्मात् सर्वस्मात्सर्वान्पाप्मन औषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद - १४.४.२.[२] सोऽबिभेत्। तस्मादेकाकी बिभेति स हायमीक्षां चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य…

पूर्णाहुति – Purnahuti

पूर्णाहुतिं जुहोति। सर्वं वै पूर्णं सर्वेणैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.२ स्वाहा प्राणेभ्यः साधिपतिकेभ्य इति। मनो वै प्राणानामधिपतिर्मनसि हि सर्वे प्राणाः प्रतिष्ठितास्तन्मनसैवैतद्भिषज्यति यत्किं च विवृढं यज्ञस्य - १४.३.२.३ पृथिव्यै स्वाहेति पृथिवी वै सर्वेषां देवानामायतनं तत्सर्वाभिरेवैतद्देवताभिर्भिषज्यति यत्किं च विवृढं यज्ञस्य…

धर्म – Dharma

अथ प्राङिवोदङ्ङुत्क्रामति धर्मासि सुधर्मेत्येष वै धर्मो य एष तपत्येष हीदं सर्वं धारयत्येतेनेदं सर्वं धृतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह धर्मासि सुधर्मेति - १४.२.२.[२९] शतपथब्राह्मणम्काण्डम् १४ अध्यायः २ ब्राह्मण २

गोपामनि – Gopamani

धर्ता दिवो विभाति तपसस्पृथिव्यामिति। धर्ता ह्येष दिवो विभाति तपसस्पृथिव्यां धर्ता देवो देवानाममर्त्यस्तपोजा इति धर्ता ह्येष देवो देवानाममर्त्यस्तपोजा वाचमस्मे नियच्छ देवायुवमिति यज्ञो वै वाग्यज्ञमस्मभ्यं प्रयच्छ येन देवान्प्रीणामेत्येवैतदाह - १४.१.४.[८] अपश्यं गोपामनिपद्यमानमिति। एष वै गोपा य एष तपत्येष हीदं सर्वं गोपायत्यथो न…

हरि – Hari

3.15 अनुवाक १५ हरि हरन्तमनुयन्ति देवाः । विश्वस्येशानं वृषभं मतीनाम् । ब्रह्म सरूपमनु मेद्मागात् । अयनं मा विवधीर्विक्रमस्व, इति । मा छिदो मृत्यो मा वधीः । मा मे बलं विवृहो मा प्रमोषीः । प्रजां मा मे रीरिष आयुरुग्र । नृचक्षसं त्वा…

सनातनः – Sanatana

मरीचयः स्वायंभुवाः । ये शरीराण्यकल्पयन् ।अष्टाचक्रा नवद्वारा  ।अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च ।स ह्येवास्मि सनातनः ।

देव – deva

देवशब्दो दानदीपनद्योतनानामन्यतममर्थमाचष्टे । यज्ञस्य दाता दीपयिता द्योतयितायमग्निरित्युक्तं भवति । दीपनद्योतनयोरेकार्थत्वेऽप्यस्ति धातुभेदः । यद्यप्यग्निः पृथिवीस्थानस्तथापि देवान् प्रति हविर्वहनात द्युस्थानो भवति । देवशब्ददेवताशब्दयोः पर्यायत्वान्मन्त्रप्रतिपाद्या काचिदग्निव्यतिरिक्ता देवता नान्वेषणीया ।

पाशुपत योग व्रत – Pasupat yoga vrata

ॐ नमो नीलकण्ठाय।। किरीटिनं गदिनं चित्रमालं पिनाकिनं शूलिनं देवदेवम् । शार्दूलचर्माम्बरसंवृताङ्गं देव्या महादेवमसौ ददर्श ।। 24.51 प्रभुं पुराणं पुरुषं पुरुस्तात्। सनातनं योगिनमीशतारम्।। अणोरणीयांसमनन्तशक्तिं प्राणेश्वरं शम्भमसौ ददर्श।।24.52 परश्वधासक्तकरं त्रिनेत्रं. नृसिंहचर्मावृतभस्मगात्रम् ।। समुद्गिरन्तं प्रणवं बृहन्तं। सहस्त्रसूर्यप्रतिमं ददर्श ।। 24.53 न यस्य देवा…