१ काण्ड [ Kanda-1]
अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।
विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ १.१ ॥
एकमेव यदाम्नातं भिन्नशक्तिव्यपाश्रयात् ।
अपृथक्त्वेऽपि शक्तिभ्यः पृथक्त्वेनेव वर्तते ॥ १.२ ॥
अध्याहितकलां यस्य कालशक्तिमुपाश्रिताः ।
जन्मादयो विकाराः षड्भावभेदस्य योनयः ॥ १.३ ॥
एकस्य सर्वबीजस्य यस्य चेयमनेकधा ।
भोक्तृभोक्तव्यरूपेण भोगरूपेण च स्थितिः ॥ १.४ ॥
प्राप्त्युपायोऽनुकारश्च तस्य वेदो महर्षिभिः ।
एकोऽप्यनेकवर्त्मेव समाम्नातः पृथक्पृथक् ॥ १.५ ॥
भेदानां बहुमार्गत्वं कर्मण्येकत्र चाण्गता ।
शब्दानां यतशक्तित्वं तस्य शाखासु दृष्यते ॥ १.६ ॥
स्मृतयो बहुरूपास्च दृष्टादृष्टप्रयोजनाः ।
तमेवाश्रित्य लिङ्गेभ्यो वेदविद्भिः प्रकल्पिताः ॥ १.७ ॥
तस्यार्थवादरूपाणि निश्रिताः स्वविकल्पजाः ।
एकत्विनां द्वैतिनां च प्रवादा बहुधागता ॥ १.८ ॥
सत्या विसुद्धिस्तत्रोक्ता विद्यैवेकपदागमा ।
युक्ता प्रणवरूपेण सर्ववादाविरोधिना ॥ १.९ ॥
विधातुस्तस्य लोकानामङ्गोपाङ्गनिबन्धनाः ।
विद्याभेदाः प्रतायन्ते ज्नानसंस्कारहेतवः ॥ १.१० ॥
आसन्नं ब्रह्मणस्तस्य तपसामुत्तमं तपः ।
प्रथमं छन्दसामङ्गमाहुर्व्याकरणं बुधाः ॥ १.११ ॥
प्राप्तरूपविभागाया यो वाचः परमो रसः ।
यत्तत्पुण्यतमं ज्योतिस्तस्य मार्गोऽयमान्जसस्ः ॥ १.१२ ॥
अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम् ।
तत्त्वावबोद्जः शब्दानं नास्ति व्याकरणादृते ॥ १.१३ ॥
तद्द्वारमपवर्गस्य वाङ्मलानां चिकित्सितम् ।
पवित्रं सर्वविद्यानामधिविद्यं प्रकासते ॥ १.१४ ॥
यथार्थजातयः सर्वाः सबाकृतिनिबन्धनाः ।
तथैव लोके विद्यानामेसा विद्या परायनम् ॥ १.१५ ॥
इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम् ।
इयं सा मोक्षमाणानामजिह्मा राजपद्धतिः ॥ १.१६ ॥
अत्रातीतविपर्यासः केवलामनुपस्यति ।
छन्दस्यस्छन्दसां योनिमात्मा छन्दोमयीं तनुम् ॥ १.१७ ॥
प्रत्यस्थमितभेदाया यद्वाचो रूपमुत्तमम् ।
यदस्मिन्नेव तमसि ज्योतिः सुद्धं विवर्तते ॥ १.१८ ॥
वैकृतं समति क्रान्ता मूर्तिव्यापारदर्शनम् ।
व्यतीत्यालोकतमसी प्रकाशं यमुपासते ॥ १.१९ ॥
यत्र वाचो निमेत्तानि चिह्नानीवाक्षरस्मृतेः ।
शब्दपूर्वेण योगेन भासन्ते प्रतिबिम्बवत् ॥ १.२० ॥
अथर्वणामङ्गिरसां सांनामृग्यजुषस्य च ।
यस्मिन्नुच्चावचा वर्णाः पृथक्स्थितपरिग्रहाः ॥ १.२१ ॥
यदेकं प्रक्रियाभेदैर्बहुधा प्रविभज्यते ।
तद्व्याकरणमागम्य परं ब्रह्माधिगम्यते ॥ १.२२ ॥
नित्याः शब्दार्थसंबन्धास्तत्राम्नाता महर्षिभिः ।
सूत्राणां सानुतन्त्राणां भाष्याणां च प्रणेतृभिः ॥ १.२३ ॥
अपोद्धारपदार्थाः ये ये चार्थाः स्थितलक्षणाः ।
अन्वाख्येयाश्च ये शब्दा ये चापि प्रतिपादकाः ॥ १.२४ ॥
कार्यकारणभावेन योग्यभावेन च स्थिताः ।
धर्मे ये प्रत्यये चाङ्गं संबन्धाः साध्वसाधुषु ॥ १.२५ ॥
ते लिङ्गैश्च स्वशब्दैश्च शास्त्रेऽस्मिन्नुपवर्णिताः ।
स्मृत्यर्थमनुगम्यन्ते के चिदेव यथागमम् ॥ १.२६ ॥
शिष्टेभ्य आगमात्सिद्धाः साधवो धर्मसाधनम् ।
अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधवः ॥ १.२७ ॥
नित्यत्वे कृतकत्वे वा तेषामादिर्न विद्यते ।
प्राणिनामिव सा चैषा व्यवस्थानित्यतोच्यते ॥ १.२८ ॥
नानर्थिकामिमां कश्चिद्व्यवस्थां कर्तुमर्हति ।
तस्मान्निबध्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १.२९ ॥
न चागमादृते धर्मस्तर्केण व्यवतिष्ठते ।
ऋषीणामपि यज्ज्ञानं तदप्यागमपूर्वकम् ॥ १.३० ॥
धर्मस्य चाव्यवच्छिन्नाः पन्थानो ये व्यवस्थिताः ।
न तांल्लोकप्रसिद्धत्वात्कश्चित्तर्केण बाधते ॥ १.३१ ॥
अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।
भावानामनुमानेन प्रसिद्धिरतिदुर्लभा ॥ १.३२ ॥
निर्ज्ञातशक्तेर्द्रव्यस्य तां तानर्थक्रियां प्रति ।
विशिष्टद्रव्यसंबन्धे सा शक्तिः प्रतिबध्यते ॥ १.३३ ॥
यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।
अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ १.३४ ॥
परेषामसमाख्येयमभ्यासादेव जायते ।
मणिरूप्यादिविज्ञानं तद्विदां नानुमानिकम् ॥ १.३५ ॥
प्रत्यक्षमनुमानं च व्यतिक्रम्य व्यवस्थिताः ।
पितृरक्षःपिशाचानां कर्मजा एव सिद्धयः ॥ १.३६ ॥
आविर्भूतप्रकाशानामनुपप्लुतचेतसाम् ।
अतीतानागतज्ञानं प्रत्यक्षान्न विशिष्यते ॥ १.३७ ॥
अतीन्द्रियानसंवेद्यान् पश्यन्त्यार्षेण चक्षुषा ।
ये भावान् वचनं तेषां नानुमानेन बाधते ॥ १.३८ ॥
यो यस्य स्वमिव ज्ञानं दर्शनं नातिशङ्कते ।
स्थितं प्रत्यक्षपक्षे तं कथमन्यो निवर्तयेत् ॥ १.३९ ॥
इदं पुण्यमिदं पापमित्येतस्मिन् पदद्वये ।
आचण्डालमनुष्याणामल्पं शास्त्रप्रयोजनम् ॥ १.४० ॥
चैतन्यमिव यश्चायमविच्छेदेन वर्तते ।
आगमस्तमुपासीनो हेतुवादैर्न बाध्यते ॥ १.४१ ॥
हस्तस्पर्शादिवान्धेन विषमे पथि धावता ।
अनुमानप्रधानेन विनिपातो न दुर्लभः ॥ १.४२ ॥
तस्मादकृतकं शास्त्रं स्मृतिं च सनिबन्धनाम् ।
आश्रित्यारभ्यते शिष्टैः साधुत्वविषया स्मृतिः ॥ १.४३ ॥
द्वावुपादानशब्देषु शब्दौ शब्दविदो विदुः ।
एको निमित्तं शब्दानामपरोऽर्थे प्रयुज्यते ॥ १.४४ ॥
अविभक्तो विभक्तेभ्यो जायतेऽर्थस्य वाचकः ।
शब्दस्तत्रार्थरूपात्मा संबन्धमुपगच्छति ॥ १.४५ ॥
आत्मभेदं तयोः के चिदस्तीत्याहुः पुराणगाः ।
बुद्धिभेदादभिन्नस्य भेदमेके प्रचक्षते ॥ १.४६ ॥
अरणिस्थं यथा ज्योतिः प्रकाशान्तरकारणम् ।
तद्वच्छब्दोऽपि बुद्धिस्थः श्रुतीनां कारणं पृथक् ॥ १.४७ ॥
वितर्कितः पुरा बुद्ध्या क्व चिदर्थे निवेशितः ।
करणेभ्यो विवृत्तेन ध्वनिना सोऽनुगृह्यते ॥ १.४८ ॥
नादस्य क्रमजातत्वान्न पूर्वो न परश्च सः ।
अक्रमः क्रमरूपेण भेदवानिव जायते ॥ १.४९ ॥
प्रतिबिम्बं यथान्यत्र स्थितं तोयक्रियावशात् ।
तत्प्रवृत्तिमिवान्वेति स धर्मः स्फोटनादयोः ॥ १.५० ॥
आत्मरूपं यथा ज्ञाने ज्ञेयरूपं च दृश्यते ।
अर्थरूपं तथा शब्दे स्वरूपं च प्रकाशते ॥ १.५१ ॥
आण्डभावमिवापन्नो यः क्रतुः शब्दसंज्ञकः ।
वृत्तिस्तस्य क्रियारूपा भागशो भजते क्रमम् ॥ १.५२ ॥
यथैकबुद्धिविषया मूर्तिराक्रियते पटे ।
मूर्त्यन्तरस्य त्रितयमेवं शब्देऽपि दृश्यते ॥ १.५३ ॥
यथा प्रयोक्तुः प्राग्बुद्धिः शब्देष्वेव प्रवर्तते ।
व्यवसायो ग्रहीतॄणामेवं तेष्वेव जायते ॥ १.५४ ॥
अर्थोपसर्जनीभूतानभिधेयेषु केषु चित् ।
चरितार्थान् परार्थत्वान्न लोकः प्रतिपद्यते ॥ १.५५ ॥
ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।
तथैव सर्वशब्दानामेते पृथगवस्थिते ॥ १.५६ ॥
विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते ।
न सत्तयैव तेऽर्थानामगृहीताः प्रकाशकाः ॥ १.५७ ॥
अतोऽनिर्ज्ञातरूपत्वात्किमाहेत्यभिधीयते ।
नेन्द्रियाणां प्रकाश्येऽर्थे स्वरूपं गृह्यते तथा ॥ १.५८ ॥
भेदेनावगृहीतौ द्वौ शब्दधर्मावपोद्धृतौ ।
भेदकारेषु हेतुत्वमविरोधेन गच्छतः ॥ १.५९ ॥
वृद्ध्यादयो यथा शब्दाः स्वरूपोपनिबन्धनाः ।
आदैच्प्रत्यायितैः शब्दैः संबन्धं यान्ति संज्ञिभिः ॥ १.६० ॥
अग्निशब्दस्तथैवायमग्निशब्दनिबन्धनः ।
अग्निश्रुत्यैति संबन्धमग्निशब्दाभिधेयया ॥ १.६१ ॥
यो य उच्चार्यते शब्दो नियतं न स कार्यभाक् ।
अन्यप्रत्यायने शक्तिर्न तस्य प्रतिबध्यते ॥ १.६२ ॥
उच्चरन् परतन्त्रत्वाद्गुणः कार्यैर्न युज्यते ।
तस्मात्तदर्थैः कार्याणां संबन्धः परिकल्प्यते ॥ १.६३ ॥
सामान्यमाश्रितं यद्यदुपमानोपमेययोः ।
तस्य तस्योपमानेषु धर्मोऽन्यो व्यतिरिच्यते ॥ १.६४ ॥
गुणः प्रकर्षहेतुर्यः स्वातन्त्र्येणोपदिश्यते ।
तस्याश्रिताद्गुणादेव प्रकृष्टत्वं प्रतीयते ॥ १.६५ ॥
तस्याभिधेयभावेन यः शब्दः समवस्थितः ।
तसाप्युच्चारणे रूपमन्यत्तस्माद्विविच्यते ॥ १.६६ ॥
प्राक्सम्ज्ञिनाभिसंबन्धात्संज्ञा रूपपदार्थिका ।
षष्ट्याश्च प्रथमायाश्च निमित्तत्वाय कल्पते ॥ १.६७ ॥
तत्रार्थवत्त्वात्प्रथमा संज्ञाशब्दाद्विधीयते ।
अस्येते व्यतिरेकश्च तदर्थादेव जायते ॥ १.६८ ॥
स्वं रूपमिति कैश्चित्तु व्यक्तिः संज्ञोपदिश्यते ।
जातेः कार्याणि संसृष्टा जातिस्तु प्रतिपद्यते ॥ १.६९ ॥
संज्ञिनीं व्यक्तिमिच्छन्ति सूत्रे ग्राह्यामथापरे ।
जातिप्रत्यायिता व्यक्तिः प्रदेशेषूपतिष्ठते ॥ १.७० ॥
कार्यत्वे नित्यतायां वा के चिदेकत्ववादिनः ।
कार्यत्वे नित्यतायां वा के चिन्नानात्ववादिनः ॥ १.७१ ॥
पदभेदेऽपि वर्णानामेकत्वं न निवर्तते ।
वाक्येषु पदमेकं च भिन्नेष्वप्युपलभ्यते ॥ १.७२ ॥
न वर्णव्यतिरेकेण पदमन्यच्च विद्यते ।
वाक्यं वर्णपदाभ्यां च प्रविभागो न कश्चन ॥ १.७३ ॥
पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।
वाक्यात्पदानामत्यन्तं प्रविभागो न कश्चन ॥ १.७४ ॥
भिन्नदर्शनमाश्रित्य व्यवहारोऽनुगम्यते ।
तत्र यन्मुख्यमेकेषां तत्रान्येषां विपर्ययः ॥ १.७५ ॥
स्फोतस्याभिन्नकालस्य ध्वनिकालानुपातिनः ।
ग्रहणोपाधिभेदेन वृत्तिभेदं प्रचक्षते ॥ १.७६ ॥
स्वभावभेदान्नित्यत्वे ह्रस्वदीर्घप्लुतादिषु ।
प्राकृतस्य ध्वनेः कालः शब्दस्येत्युपचर्यते ॥ १.७७ ॥
शब्दस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।
स्थितिभेदनिमित्तत्वं वैकृतः प्रतिपद्यते ॥ १.७८ ॥
शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदं तु वैकृतः ।
ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥ १.७९ ॥
इन्द्रियस्यैवसंस्कारः शब्दस्यैवोभवस्य वा ।
क्रियते ध्वनिभिर्वादास्त्रयोऽभिव्यक्तिवादिनाम् ॥ १.८० ॥
इन्द्रियस्यैव संस्कारः समाधानाञ्जनादिभिः ।
विषयस्य तु संस्कारः तद्गन्धप्रतिपत्तये ॥ १.८१ ॥
चक्षुषः प्राप्यकारित्वे तेजसा तु द्वयोरपि ।
विषयेन्द्रिययोरिष्टा संस्कारः स क्रमो ध्वनेः ॥ १.८२ ॥
स्फोटरूपाविभागेन ध्वनेर्ग्रहणमिष्यते ।
कैश्चित्ध्वनिरसंवेद्यः स्वतन्त्रोऽन्यैः प्रकल्पितः ॥ १.८३ ॥
यथानुवाकः श्लोको वा सोढत्वमुपगच्छते ।
आवृत्त्या न तु स ग्रन्थः प्रत्यावृत्ति निरूप्यते ॥ १.८४ ॥
प्रत्ययैरनुपाख्येयैर्ग्रहणानुगुणैस्तथा ।
ध्वनिप्रकाशिते शब्दे स्वरूपमवधार्यते ॥ १.८५ ॥
नादैराहितबीजायामन्त्येन ध्वनिना सह ।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ १.८६ ॥
असतश्चान्तराले याञ्छब्दानस्तीति मन्यते ।
प्रतिपत्तुरशक्तिः सा ग्रहणोपाय एव सः ॥ १.८७ ॥
भेदानुकारो ज्ञानस्य वाचश्चोपप्लवो ध्रुवः ।
क्रमोपसृष्टरूपा वाग्ज्ञानं ज्ञेयव्यपाश्रयम् ॥ १.८८ ॥
*ज्ञेयेन न विना ज्ञानं व्यवहारेऽवतिष्ठते ।
नालब्धक्रमया वाचा कश्चिदर्थोऽभिधीयते ॥ १.८९ *॥
यथाद्यसंख्याग्रहणमुपायः प्रतिपत्तये ।
संख्यान्तराणां भेदेऽपि तथा शब्दान्तरश्रुतिः ॥ १.९० ॥
प्रत्येकं व्यञ्जका भिन्न वर्णवाक्यपदेषु ये ।
तेषामत्यन्तभेदेऽपि संकीर्णा इव शक्तयः ॥ १.९१ ॥
यथैव दर्शनैः पूर्वैर्दूरात्संतमसेऽपि वा ।
अन्यथाकृत्य विषयमन्यथैवाध्यवस्यति ॥ १.९२ ॥
व्यज्यमाने तथा वाक्ये वाक्याभिव्यक्तिहेतुभिः ।
भागावग्रहरूपेण पूर्वं बुद्धिः प्रवर्तते ॥ १.९३ ॥
यथानुपूर्वीनियमो विकारे क्षीरबीजयोः ।
तथैव प्रतिपत्तॄणां नियतो बुद्धिषु क्रमः ॥ १.९४ ॥
भागवत्स्वपि तेष्वेव रूपभेदो ध्वनेः क्रमात् ।
निर्भागेष्वभ्युपायो वा भागभेदप्रकल्पनम् ॥ १.९५ ॥
अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता ।
कैश्चित्व्यक्तय एवास्य ध्वनित्वेन प्रकल्पिताः ॥ १.९६ ॥
अविकारस्य शब्दस्य निमित्तैर्विकृतो ध्वनिः ।
उपलब्धौ निमित्तत्वमुपयाति प्रकाशवत् ॥ १.९७ ॥
न चानित्येष्वभिव्यक्तिर्नियमेन व्यवस्थिता ।
आश्रयैरपि नित्यानां जातीनां व्यक्तिरिष्यते ॥ १.९८ ॥
देशादिभिश्च संबन्धो दृष्टः कायवतामपि ।
देशभेदविकल्पेऽपि न भेदो ध्वनिशब्दयोः ॥ १.९९ ॥
ग्रहणग्राह्ययोः सिद्धा योग्यता नियता यथा ।
व्यङ्ग्यव्यञ्जकभावेऽपि तथैव स्फोटनादयोः ॥ १.१०० ॥
सदृशग्रहणानां च गन्धादीनां प्रकाशकम् ।
निमित्तं नियतं लोके प्रतिद्रव्यमवस्थितम् ॥ १.१०१ ॥
प्रकाशकानां भेदांश्च प्रकाश्योऽर्थोऽनुवर्तते ।
तैलोदकादिभेदे तत्प्रत्यक्षं प्रतिबिम्बके ॥ १.१०२ ॥
विरुद्धपरिमाणेषु वज्रादर्शतलादिषु ।
पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥ १.१०३ ॥
तस्मादभिन्नकालेषु वर्णवाक्यपदादिषु ।
वृत्तिकालः स्वकालश्च नादभेदाद्विभज्यते ॥ १.१०४ ॥
यः संयोगविभागाभ्यां करणैरुपजन्यते ।
स स्फोटः शब्दजाः शब्दा ध्वनयोऽन्यैरुदाहृताः ॥ १.१०५ ॥
अल्पे महति वा शब्दे स्फोटकालो न भिद्यते ।
परस्तु शब्दसंतानः प्रचयापचयात्मकः ॥ १.१०६ ॥
दूरात्प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते ।
घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥ १.१०७ ॥
द्रव्याभिघातात्प्रचितौ भिन्नौ दीर्घप्लुतावपि ।
कम्पे तूपरते जाता नादा वृत्तेर्विशेषकाः ॥ १.१०८ ॥
अनवस्थितकम्पेऽपि करणे ध्वनयोऽपरे ।
स्फोटादेवोपजायन्ते ज्वाला ज्वालान्तरादिव ॥ १.१०९ ॥
वायोरणूनां ज्ञानस्य शब्दत्वापत्तिरिष्यते ।
कैश्चिद्दर्शनभेदो हि प्रवादेष्वनवस्थितः ॥ १.११० ॥
*लब्धक्रियाः प्रयत्नेन वक्तुरिच्च्चानुवर्तिना ।
स्थानेष्वभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥ १.१११ *॥
*तस्य कारणसामर्थ्याद्वेगप्रचयधर्मणः ।
संनिपाताद्विभज्यन्ते सारवत्योऽपि मूर्तयः ॥ १.११२ *॥
*अणवः सर्वशक्तित्वाद्भेदसंसर्गवृत्तयः ।
छायातपतमःशब्द- भावेन परिणामिनः ॥ १.११३ *॥
*स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।
अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥ १.११४ *॥
*अथायमान्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः ।
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥ १.११५ *॥
*स मनोभावमापद्य तेजसा पाकमागतः ।
वायुमाविशति प्राणमथासौ समुदीर्यते ॥ १.११६ *॥
*अन्तःकरणतत्त्वस्य वायुराश्रयतां गतः ।
तद्धर्मेण समाविष्टस्तेजसैव विवर्तते ॥ १.११७ *॥
*विभजन् स्वात्मनो ग्रन्थीञ्छ्रुतिरूपैः पृथग्विधैः ।
प्राणो वर्णानभिव्यज्य वर्णेष्वेवोपलीयते ॥ १.११८ *॥
*आत्मा बुद्ध्या समर्थ्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥ १.११९ *॥
अजस्रवृत्तिर्यः शब्दः सूक्ष्मत्वान्नोपलभ्यते ।
व्यजनाद्वायुरिव स स्वनिमित्तात्प्रतीयते ॥ १.१२० ॥
तस्य प्राणे च या शक्तिर्या च बुद्धौ व्यवस्थिता ।
विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते ॥ १.१२१ ॥
शब्देष्वेवाश्रिता शक्तिर्विश्वस्यास्य निबन्धनी ।
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥ १.१२२ ॥
शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः ।
तस्मादर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥ १.१२३ ॥
(षड्गादिभेदः अ)
शब्दस्यपरिणामोऽयमित्याम्नायविदो विदुः ।
छन्दोभ्य एव प्रथममेतद्विश्वं प्रवर्तते ॥ १.१२४ ॥
विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः ।
छन्दोमयीभिर्मात्राभिर्बहुधैव विवेश तम् ॥ १.१२५ ॥
साध्वी वाग्भूयसी येषु पुरुषेषु व्यवस्थिता ।
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥ १.१२६ ॥
प्राजापत्यं महत्तेजस्तत्पात्रैरिव संवृत्तम् ।
शरीरभेदे विदुषां स्वां योनिमुपधावति ॥ १.१२७ ॥
यदेतन्मण्डलं भास्वद्धाम चित्रस्य राधसः ।
तद्भावमभिसंभूय विद्यायां प्रविलीयते ॥ १.१२८ ॥
इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते ॥ १.१२९ ॥
आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानामभिघातश्च न विना शब्दभावनाम् ॥ १.१३० ॥
न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ १.१३१ ॥
वाग्रूपता चेतुत्क्रामेदवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ १.१३२ ॥
सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।
तद्वशादभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥ १.१३३ ॥
सैषा संसारिणां संज्ञा बहिरन्तश्च वर्तते ।
तन्मात्रामव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥ १.१३४ ॥
अर्थक्रियासु वाक्सर्वान् समीहयति देहिनः ।
तदुत्क्रान्तौ विसंज्ञोऽयं दृश्यते काष्टकुड्यवत् ॥ १.१३५ ॥
*भेदोद्ग्राहविवर्तेन लब्धाकारपरिग्रहा ।
आम्नाता सर्वविद्यासु वागेव प्रकृतिः परा ॥ १.१३६ *॥
*एकत्वमनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः ।
पृथक्प्रत्यवभासन्ते वाग्विभागा गवादयः ॥ १.१३७ *॥
*षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम् ।
ते मृत्युमतिवर्तन्ते ये वै वाचमुपासते ॥ १.१३८ *॥
प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते ।
अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥ १.१३९ ॥
*प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् ।
सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥ १.१४० *॥
स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा ।
तथैव रूढतामेति तया ह्यर्थो विधीयते ॥ १.१४१ ॥
अत्यन्तमतथाभूते निमित्ते श्रुत्यपाश्रयात् ।
दृश्यतेऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥ १.१४२ ॥
अपि प्रयोक्तुरात्मानं शब्दमन्तरवस्थितम् ।
प्राहुर्महान्तमृषभं येन सायुज्यमिष्यते ॥ १.१४३ ॥
तस्माद्यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।
तस्य प्रवृत्तितत्त्वज्ञस्तद्ब्रह्मामृतमश्नुते ॥ १.१४४ ॥
*प्राणवृत्तिमतिक्रान्ते वाचस्तत्त्वे व्यवस्थितः ।
क्रमसंहारयोगेन संहृत्यात्मानमात्मनि ॥ १.१४५ *॥
*वाचः संस्कारमाधाय वाचं ज्ञाने निवेश्य च ।
विभज्य बन्धनान्यस्याः कृत्वा तां छिन्नबन्धनाम् ॥ १.१४६ *॥
*ज्योतिरान्तरमासाद्य च्छिन्नग्रन्थिपरिग्रहः ।
कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥ १.१४७ *॥
न जात्वकर्तृकं कश्चिदागमं प्रतिपद्यते ।
बीजं सर्वागमापाये त्रय्येवातो व्यवस्थिता ॥ १.१४८ ॥
अस्तं यातेषु वादेषु कर्तृष्वन्येष्वसत्स्वपि ।
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥ १.१४९ ॥
ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश्चन विद्यते ।
धर्मो ज्ञानस्य हेतुश्चेत्तस्याम्नायो निबन्धनम् ॥ १.१५० ॥
वेदशास्त्राविरोधी च तर्कश्चक्शुरपश्यताम् ।
रूपमात्राद्धि वाक्यार्थः केवलं नातितिष्ठति ॥ १.१५१ ॥
सतोऽविवक्षा पारार्थ्यं व्यक्तिरर्थस्य लैङ्गिकी ।
इति न्यायो बहुविधस्तर्केण प्रविभज्यते ॥ १.१५२ ॥
शब्दानामेव सा शक्तिस्तर्को यः पुरुषाश्रयः ।
स शब्दानुगतो न्यायोऽनागमेष्वनिबन्धनः ॥ १.१५३ ॥
*यदुदुम्बरवर्णानां घटीनां मण्डलं महत् ।
पीतं न गमयेत्स्वर्गं किं तत्क्रतुगतं नयेत् ॥ १.१५४ *॥
रूपादयो यथा दृष्टाः पर्यर्थं यतशक्तयः ।
शब्दास्तथैव दृश्यन्ते विषापहरणादिषु ॥ १.१५५ ॥
यथैषां तत्र सामर्थ्यं धर्मेऽप्येवं प्रतीयताम् ।
साधूनां साधुभिस्तस्माद्वाच्यमभ्युदयार्थिनाम् ॥ १.१५६ ॥
सर्वोऽदृष्टफलानर्थानागमात्प्रतिपद्यते ।
विपरीतं च सर्वत्र शक्यते वक्तुमागमे ॥ १.१५७ ॥
साधुत्वज्ञानविषया सेयं व्याकरणस्मृतिः ।
अविच्छेदेन शिष्टानामिदं स्मृतिनिबन्धनम् ॥ १.१५८ ॥
वैखर्या मध्यमायाश्च पश्यन्त्याश्चैतदद्भुतम् ।
अनेकतीर्थभेदायास्त्रय्या चाचः परं परम् ॥ १.१५९ ॥
*गौरिव प्रक्षरत्येका रसमुत्तमशालिनी ।
दिव्यादिव्येन रूपेण भारती गौः शुचिस्मिता ॥ १.१६० *॥
*एतयोरन्तरं पश्य सूक्ष्मयोः स्पन्दमानयोः ।
प्राणापानान्तरे नित्यमेका सर्वस्य तिष्ठति ॥ १.१६१ *॥
*अन्या त्वप्रेर्यमाणैव विना प्राणेन वर्तते ।
जायते हि ततः प्राणो वाचमाप्याययन् पुनः ॥ १.१६२ *॥
*प्राणेनाप्यायिता सैवं व्यवहारनिबन्धनी ।
सर्वस्योच्छ्वासमासाद्य न वाग्वदति कर्हि चित् ॥ १.१६३ *॥
*घोषिणी जातनिर्घोषा अघोषा च प्रवर्तते ।
तयोरपि च घोषिण्या निर्घोषैव गरीयसी ॥ १.१६४ *॥
*स्थानेषु विवृते वायौ कृतवर्णपरिग्रहा ।
वैखरी वाक्प्रयोक्तॄणां प्राणवृत्तिनिबन्धना ॥ १.१६५ *॥
*केवलं बुद्ध्युपादान- क्रमरूपानुपातिनी ।
प्राणवृत्तिमतिक्रम्य मध्यमा वाक्प्रवर्तते ॥ १.१६६ *॥
*अविभागा तु पश्यन्ती सर्वतः संहृतक्रमा ।
स्वरूपज्योतिरेवान्तः सूक्ष्मा वागनपायिनी ॥ १.१६७ *॥
*पीयूषापूर्यमाणापि नित्यमागन्तुभिर्मलैः ।
अन्त्या कलेव सोमस्य नात्यन्तमभिधीयते ॥ १.१६८ *॥
*यस्यां दृष्टस्वरूपायामधिकारो निवर्तते ।
पुरुषे षोडशकले तामाहुरमृतां कलाम् ॥ १.१६९ *॥
*प्राप्तोपरागरूपा सा विप्लवैरनुषङ्गिभिः ।
वैखरी सत्त्वमात्रेव गुणैर्न व्यवकीर्यते ॥ १.१७० *॥
तद्विभागाविभागाभ्यां क्रियमाणामवस्थितम् ।
स्वभावज्ञैस्तु भावानां दृश्यन्ते शब्दशक्तयः ॥ १.१७१ ॥
अनादिमव्यवच्छिन्नां श्रुतिमाहुरकर्तृकाम् ।
शिष्टैर्निबध्यमाना तु न व्यवच्छिद्यते स्मृतिः ॥ १.१७२ ॥
अविभागाद्विवृत्तानामभिख्या स्वप्नवच्छ्रुतौ ।
भावतत्त्वं तु विज्ञाय लिङ्गेभ्यो विहिता स्मृतिः ॥ १.१७३ ॥
कायवाग्बुद्धिविषया ये मलाः समवस्थिताः ।
चिकित्सालक्षणाध्यात्म- शास्त्रैस्तेषां विशुद्धयः ॥ १.१७४ ॥
शब्दः संस्कारहीनो यो गौरिति प्रयुयुक्ष्यते ।
तमपभ्रंशमिच्छन्ति विशिष्टार्थनिवेशिनम् ॥ १.१७५ ॥
अस्वगोण्यादयः शब्दाः साधवो विषयान्तरे ।
निमित्तभेदात्सर्वत्र साधुत्वं च व्यवस्थितम् ॥ १.१७६ ॥
ते साधुष्वनुमानेन प्रत्ययोत्पत्तिहेतवः ।
तादात्म्यमुपगम्येव शब्दार्थस्य प्रकाशकाः ॥ १.१७७ ॥
न शिष्टैरनुगम्यन्ते पर्याया इव साधवः ।
ते यतः स्मृतिशास्त्रेण तस्मात्साक्षादवाचकाः ॥ १.१७८ ॥
अंब्वंब्विति यथा बालः शिक्षमाणोऽपभाषते ।
अव्यक्तं तद्विदां तेन व्यक्तौ भवति निश्चयः ॥ १.१७९ ॥
एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते ।
तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ १.१८० ॥
पारंपर्यादपभ्रंशा विगुणेष्वभिधातृषु ।
प्रसिद्धिमागता येन तेषां साधुरवाचकः ॥ १.१८१ ॥
दैवी वाग्व्यतिकीर्णेयमशक्तैरभिधातृभिः ।
अनित्यदर्शिनां त्वस्मिन् वादे बुद्धिविपर्ययः ॥ १.१८२ ॥
उभयेषामविच्छेदादन्यशब्दविवक्षया ।
योऽन्यः प्रयुज्यते शब्दो न सोऽर्थस्याभिधायकः ॥ १.१८३ ॥
_______________________________________
आख्यातं शब्दसंघातो जातिः संघातवर्तिनी ।
एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः ॥ २.१ ॥
पदमाद्यं पृथक्सर्वं पदं सापेक्षमित्यपि ।
वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् ॥ २.२ ॥
निघातादिव्यवस्थार्थं शास्त्रे यत्परिभाषितम् ।
साकाङ्क्षावयवं तेन न सर्वं तुल्यलक्षणं ॥ २.३ ॥
साकाङ्क्षावयवं भेदे परानाकाङ्क्षशब्दकम् ।
कर्मप्रधानं गुणवदेकार्थं वाक्यमुच्यते ॥ २.४ ॥
संबोधनपदं यच्च तत्क्रियाया विशेषकम् ।
तथा तिङन्तं तत्राहुस्तिङन्तस्य विशेषकम् ॥ २.५ ॥
यथानेकमपि क्त्वान्तं तिङन्तस्य विशेषकम् ।
तथा तिङन्तं तत्राहुस्तिङन्तस्य विशेषकम् ॥ २.६ ॥
यथैक एव सर्वार्थ- प्रकाशः प्रविभज्यते ।
दृश्यभेदानुकारेण वाक्यार्थावगमस्तथा ॥ २.७ ॥
चित्रस्यैकस्य रूपस्य यथा भेदनिदर्शनैः ।
नीलादिभिः समाख्यानं क्रियते भिन्नलक्षणैः ॥ २.८ ॥
तथैवैकस्य वाक्यस्य निराकाङ्क्षस्य सर्वतः ।
शब्दान्तरैः समाख्यानं साकाङ्क्षैरनुगम्यते ॥ २.९ ॥
यथा पदे विभज्यन्ते प्रकृतिप्रत्ययादयः ।
अपोद्धारस्तथा वाक्ये पदानामुपपद्यते ॥ २.१० ॥
वर्णान्तरसरूपत्वं वर्णभागेषु दृष्यते ।
पदान्तरसरूपाश्च पदभागा इव स्थिताः ॥ २.११ ॥
भागैरनर्थकैर्युक्ता वृषभोदकयावकाः ।
अन्वयव्यतिरेकौ तु व्यवहारनिबन्धनम् ॥ २.१२ ॥
शब्दस्य न विभागोऽस्ति कुतोऽर्थस्य भविष्यति ।
विभागैः प्रक्रियाभेदमविद्वान् प्रतिपद्यते ॥ २.१३ ॥
ब्राह्मणार्थो यथा नास्ति कश्चिद्ब्राह्मणकम्बले ।
देवदत्तादयो वाक्ये थतैव स्युरनर्थकाः ॥ २.१४ ॥
सामान्यार्थस्तिरोभूतो न विशेषेऽवतिष्ठते ।
उपात्तस्य कुतस्त्यागो निवृत्तः क्वावतिष्ठताम् ॥ २.१५ ॥
अशाब्दो यदि वाक्यार्थः पदार्थोऽपि तथा भवेत् ।
एवं सति च संबन्धः शब्दस्यार्थेन हीयते ॥ २.१६ ॥
विशेशशब्दाः केषां चित्सामान्यप्रतिरूपकाः ।
शब्दान्तराभिसंबन्धाद्व्यज्यन्ते प्रतिपत्तृषु ॥ २.१७ ॥
तेषां तु कृत्स्नो वाक्यार्थः प्रतिभेदं समाप्यते ।
व्यक्तोपव्यञ्जना सिद्धिरर्थस्य प्रतिपतृषु ॥ २.१८ ॥
स व्यक्तः क्रमवाञ्छब्द उपांशु यमधीयते ।
अक्रमस्तु वितत्येव बुद्धिर्यत्रावतिष्ठते ॥ २.१९ ॥
यथोत्क्षेपविशेषेऽपि कर्मभेदो न गृह्यते ।
आवृत्तौ व्यज्यते जातिः कर्मभिर्भ्रमणादिभिः ॥ २.२० ॥
वर्णवाक्यपदेष्वेवं तुल्योपव्यञ्जना श्रुतिः ।
अत्यन्तभेदे तत्त्वस्य सरूपेव प्रतीयते ॥ २.२१ ॥
नित्येषु च कुतः पूर्वं परं वा परमार्थतः ।
एकस्यैव तु सा शक्तिर्यदेवमवभासते ॥ २.२२ ॥
चिरं क्षिप्रमिति ज्ञाने कालभेदादृते यथा ।
भिन्नकाले प्रकाशेते स धर्मो ह्रस्वदीर्घयोः ॥ २.२३ ॥
न नित्यः क्रममात्राभिः कालो भेदमिहार्हति ।
व्यावर्तिनीनां मात्राणामभावे कीदृशः क्रमः ॥ २.२४ ॥
ताभ्यो या जायते बुद्धिरेका सा भागवर्जिता ।
सा हि स्वशक्त्या भिन्नेव क्रमप्रत्यवमर्शिनी ॥ २.२५ ॥
क्रमोल्लेखानुषङ्गेण तस्यां यद्बीजमाहितम् ।
तत्त्वनानात्वयोस्तस्य निरुक्तिर्नावतिष्ठते ॥ २.२६ ॥
भावनासमये त्वेतत्क्रमसामर्थ्यमक्रमम् ।
व्यावृत्तभेदो येनार्थो भेदवानुपलभ्यते ॥ २.२७ ॥
पदानि वाक्ये तान्येव वर्णास्ते च पदे यदि ।
वर्णेषु वर्णभागानां भेदः स्यात्परमाणुवत् ॥ २.२८ ॥
भागानामनुपश्लेषान्न वर्णो न पदं भवेत् ।
तेषामव्यपदेश्यत्वात्किमन्यद्व्यपदिश्यताम् ॥ २.२९ ॥
यदन्तःशब्दतत्त्वं तु भागैरेकं प्रकाशितम् ।
तमाहुरपरे शब्दं तस्य वाक्ये तथैकताम् ॥ २.३० ॥
अर्थभागैस्तथा तेषामन्तरोऽर्थः प्रकाश्यते ।
एकस्यैवात्मनो भेदौ शब्दार्थावपृथक्स्थितौ ॥ २.३१ ॥
प्रकाशकप्रकाश्यत्वं कार्यकारणरूपता ।
अन्तर्मात्रात्मनस्तस्य शब्दतत्त्वस्य सर्वदा ॥ २.३२ ॥
तस्यैवास्तित्वनास्तित्वे सामर्थ्ये समवस्थिते ।
अक्रमे क्रमनिर्भासे व्यवहारनिबन्धने ॥ २.३३ ॥
संप्रत्ययप्रमाणत्वात्पदार्थास्तित्वकल्पने ।
पदार्थाभ्युच्चये त्यागादानर्थक्यं प्रसज्यते ॥ २.३४ ॥
राजशब्देन राजार्थो भिन्नरूपेण गम्यते ।
वृत्तावाख्यातसदृशं पदमन्यत्प्रयुज्यते ॥ २.३५ ॥
यथाश्वकर्ण इत्युक्ते विनैवाश्वेन गम्यते ।
कश्चिदेव विशिष्टोऽर्थः सर्वेषु प्रत्ययस्तथा ॥ २.३६ ॥
वाक्येषु अर्थान्तरगतः सादृश्यपरिकल्पने ।
केषां चित्रूढिशब्दत्वं शास्त्र एवानुगम्यते ॥ २.३७ ॥
उपादायापि ये हेयास्तानुपायान् प्रचक्षते ।
उपायानां च नियमो नावश्यमवतिष्ठते ॥ २.३८ ॥
अर्थं कथं चित्पुरुषः कश्चित्संप्रतिपद्यते ।
संसृष्टा वा विभक्ता चा भेदा वाक्यनिबन्धनाः ॥ २.३९ ॥
सोऽयमित्यभिसंबन्धो बुद्ध्या प्रक्रम्यते यदा ।
वाक्यार्थस्य तदैकोऽपि वर्णः प्रत्यायकः क्व चित् ॥ २.४० ॥
केवलेन पदेनार्थो यावानेवाभिधीयते ।
वाक्यस्थं तावतोऽर्थस्य तदाहुरभिधायकम् ॥ २.४१ ॥
संबन्धे सति यत्त्वन्यदाधिक्यमुपजायते ।
वाक्यार्तमेव तं प्राहुरनेकपदसंश्रयम् ॥ २.४२ ॥
स त्वनेकपदस्थोऽपि प्रतिभेदं समाप्यते ।
जातिवत्समुदायेऽपि संख्यावत्कल्प्यतेऽपरैः ॥ २.४३ ॥
सर्वभेदानुगुण्यं तु सामान्यमपरे विदुः ।
तदर्थान्तरसंसर्गाद्भजते भेदरूपताम् ॥ २.४४ ॥
भेदानाकाङ्क्षतस्तस्य या परिप्लवमामता ।
अवच्छिनत्ति संबन्धस्तां विशेषे निवेशयन् ॥ २.४५ ॥
कार्यानुमेयः संबन्धो रूपं तस्य न विद्यते ।
असत्त्वभूतमत्यन्तमतस्तं प्रतिजानते ॥ २.४६ ॥
नियतं साधने साध्यं क्रिया नियतसाधना ।
स संनिधानमात्रेण नियमः संप्रकाशते ॥ २.४७ ॥
गुणभावेन साकाङ्क्षं तत्र नाम प्रवर्तते ।
साध्यत्वेन निमित्तानि क्रियापदमपेक्षते ॥ २.४८ ॥
सन्त एव विशेषा ये पदार्थेष्वविभाविताः ।
ते क्रमादनुगम्यन्ते न वाक्यमभिधायकम् ॥ २.४९ ॥
शब्दानां क्रममात्रे च नान्यः शब्दोऽस्ति वाचकः ।
क्रमो हि धर्मः कालस्य तेन वाक्यं न विद्यते ॥ २.५० ॥
ये च संभविनो भेदाः पदार्थेष्वविभाविताः ।
ते संनिधाने व्यज्यन्ते न तु वर्णेष्वयं क्रमः ॥ २.५१ ॥
वर्णानां च पदानां च क्रममात्रनिवेशिनी ।
पदाख्या वाक्यसंज्ञा च शब्दत्वं नेष्यते तयोः ॥ २.५२ ॥
समानेऽपि तु शब्दत्वे दृष्टः संप्रत्ययः पदात् ।
प्रतिवर्णं त्वसौ नास्ति पदस्यार्थमतो विदुः ॥ २.५३ ॥
यथा सावयवा वर्णा विना वाच्येन केन चित् ।
अर्थवन्तः समुदिता वाक्यमप्येवमिष्यते ॥ २.५४ ॥
अनर्थकान्यपायत्वात्पदार्थेनार्थवन्ति वा ।
क्रमेणोच्चरितान्याहुर्वाक्यार्थं भिन्नलक्षणम् ॥ २.५५ ॥
नित्यत्वे समुदायानां जातेर्वा परिकल्पने ।
एकस्यैकार्थतामाहुर्वाक्यस्याव्यभिचारिणीम् ॥ २.५६ ॥
अभेदपूर्वकाभेदाः कल्पिता वाक्यवादिभिः ।
भेदपूर्वानभेदांस्तु मन्यन्ते पददर्शिनः ॥ २.५७ ॥
पदप्रकृतिभावश्च वृत्तिभेदेन वर्ण्यते ।
पदानां संहिता योनिः संहिता वा पदाश्रया ॥ २.५८ ॥
पदाम्नायश्च यद्यन्यः संहिताया निदर्शकः ।
नित्यस्तत्र कथं कार्यं पदं लक्षणदर्शनात् ॥ २.५९ ॥
प्रतिवर्णमसंवेद्यः पदार्थप्रत्ययो यथा ।
पदेश्वेवमसंवेद्यं वाक्यार्थस्य निरूपणम् ॥ २.६० ॥
वाक्यार्थः संनिविशते पदेषु सहवृत्तिषु ।
यथा तथैव वर्णेषु पदार्थः सहवृत्तिषु ॥ २.६१ ॥
सूक्ष्मं ग्राह्यं यथान्येन संसृष्टं सह गृह्यते ।
वर्णोऽप्यन्येन वर्णेन संबद्धो वाचकस्तथा ॥ २.६२ ॥
पदस्योच्चारणादर्थो यथा कश्चिन्निरूप्यते ।
वर्णानामपि सांनिध्यात्तथा सोऽर्थः प्रतीयते ॥ २.६३ ॥
प्राप्तस्य यस्य सामर्थ्यान्नियमार्था पुनः श्रुतिः ।
तेनात्यन्तं विशेषेण सामान्यं यदि बाध्यते ॥ २.६४ ॥
यजेतेति ततो द्रव्यं प्राप्तं सामर्थ्यलक्षणम् ।
व्रीहिश्रुत्या निवर्तेत न स्यात्प्रतिनिधिस्तथा ॥ २.६५ ॥
तस्माद्व्रीहित्वमधिकं व्रीहिशब्दः प्रकल्पयेत् ।
द्रव्यत्वमविरुद्धत्वात्प्राप्त्यर्थः सन्न बाधते ॥ २.६६ ॥
तेन चापि व्यवच्छिन्ने द्रव्यत्वे सहचारिणि ।
असंभवाद्विशेषाणां तत्रान्येषामदर्शनम् ॥ २.६७ ॥
न च सामान्यवत्सर्वे क्रियाशब्देन लक्षिताः ।
विशेषा न हि सर्वेषां सतां शब्दोऽभिधायकः ॥ २.६८ ॥
शुक्लादयो गुणाः सन्तो यथा तत्राविवक्षिताः ।
तथाविवक्षा भेदानां द्रव्यत्वसहचारिणाम् ॥ २.६९ ॥
असंनिधौ प्रतिनिधिर्मा भून्नित्यस्य कर्मणः ।
काम्यस्य वा प्रवृत्तस्य लोप इत्युपपद्यते ॥ २.७० ॥
विशिष्टैव क्रिया येन वाक्यार्थः परिकल्प्यते ।
द्रव्याभावे प्रतिनिधौ तस्य तत्स्यात्क्रियान्तरम् ॥ २.७१ ॥
निर्ज्ञातार्थं पदं यच्च तदर्थे प्रतिपादिते ।
पिकादि यदविज्ञातं तत्किमित्यनुयुज्यते ॥ २.७२ ॥
सामर्थ्यप्रापितं यच्च व्यक्त्यर्थमनुषज्यते ।
श्रुतिरेवानुषङ्गेण बाधिका लिङ्गवाक्ययोः ॥ २.७३ ॥
अप्राप्तो यस्तु शुक्लादिः संनिधानेन गम्यते ।
स यत्नप्रापितो वाक्ये श्रुतिधर्मविलक्षणः ॥ २.७४ ॥
अभिन्नमेव वाक्यं तु यद्यभिन्नार्थमिष्यते ।
तत्सर्वं श्रुतिभूतत्वान्न श्रुत्यैव विरोत्स्यते ॥ २.७५ ॥
वाक्यानां समुदायश्च य एकार्थप्रसिद्धये ।
साकाङ्क्षावयवस्तत्र वाक्यार्थोऽपि न विद्यते ॥ २.७६ ॥
प्रासङ्गिकमिदं कार्यमिदं तन्त्रेण लभ्यते ।
इदमावृत्तिभेदाभ्यामत्र बाधसमुच्चयौ ॥ २.७७ ॥
ऊहोऽस्मिन् विषये न्याय्यः संबन्धोऽस्य न बाध्यते ।
सामान्यस्यातिदेशोऽयं विशेषोऽत्रातिदिश्यते ॥ २.७८ ॥
अर्थित्वमत्र सामर्थ्यमस्मिन्नर्थो न भिद्यते ।
शास्त्रात्प्राप्ताधिकारोऽयं व्युदासोऽस्य क्रियान्तरे ॥ २.७९ ॥
इयं श्रुत्या क्रमप्राप्तिरियमुच्चारणादिति ।
क्रमोऽयमत्र बलवानस्मिंस्तु न विवक्षितः ॥ २.८० ॥
इदं पराङ्गैः संबद्धमङ्गानामप्रयोजकम् ।
प्रयोजकमिदं तेषामत्रेदं नान्तरीयकम् ॥ २.८१ ॥
इदं प्रधानं शेषोऽयं विनियोगक्रमस्त्वयम् ।
साक्षादस्योपकारीदमिदमाराद्विशेषकम् ॥ २.८२ ॥
शक्तिव्यापारभेदोऽस्मिन् फलमत्र तु भिद्यते ।
संबन्धाज्जातभेदोऽयं भेदस्तत्राविवक्षितः ॥ २.८३ ॥
प्रसज्यप्रतिषेधोऽयं पर्युदासोऽयमत्र तु ।
इदं गौणमिदं मुख्यं व्यापीदं गुरु लघ्विदम् ॥ २.८४ ॥
भेदेनाङ्गाङ्गिभावोऽस्य बहुभेदं विकल्प्यते ।
इदं नियम्यतेऽस्यात्र योग्यत्वमुपजायते ॥ २.८५ ॥
अस्य वाक्यान्तरे दृष्टाल्लिङ्गाद्भेदोऽनुमीयते ।
अयं शब्दैरपोद्धृत्य पदार्थः प्रविभज्यते ॥ २.८६ ॥
इति वाक्येषु ये धर्माः पदार्थोपनिबन्धनाः ।
सर्वे तेन प्रकल्पेरन् पदं चेत्स्यदवाचकम् ॥ २.८७ ॥
अविभक्तेऽपि वाक्यार्थे शक्तिभेदादपोद्धृते ।
वाक्यान्तरविभागेन यथोक्तं न विरुध्यते ॥ २.८८ ॥
यथैवैकस्य गन्धस्य भेदेन परिकल्पना ।
पुष्पादिषु तथा वाक्येऽप्यर्थभेदोऽभिधीयते ॥ २.८९ ॥
गवये नरसिंहे वाप्येकज्ञानावृते यथा ।
भागं जात्यन्तरस्यैव सदृशं प्रतिपद्यते ॥ २.९० ॥
अप्रसिद्धं तु यं भागमदृष्टमनुपश्यति ।
तावत्यसंविदं मूढः सर्वत्र प्रतिपद्यते ॥ २.९१ ॥
तथा पिकादियोगेन वाक्येऽत्यन्तविलक्षणे ।
सदृशस्येव संज्ञानमसतोऽर्थस्य मन्यते ॥ २.९२ ॥
एकस्य भागे सादृश्यं भागे भेदश्च लक्ष्यते ।
निर्भागस्य प्रकाशस्य निर्भागेणैव चेतसा ॥ २.९३ ॥
तथैव भागे सादृश्यं भागे भेदोऽवसीयते ।
भागाभावेऽपि वाक्यानामत्यन्तं भिन्नधर्मणाम् ॥ २.९४ ॥
रूपनाशे पदानां स्यात्कथं चावधिकल्पना ।
अगृहीतावधौ शब्दे कथं चार्थो विविच्यते ॥ २.९५ ॥
संसर्ग इव रूपाणां शब्देऽन्यत्र व्यवस्थितः ।
नानारूपेषु तद्रूपं तन्त्रेणापरमिष्यते ॥ २.९६ ॥
तस्मिन्नभेदे भेदानां संसर्ग इव वर्तते ।
रूपं रूपान्तरात्तस्मादनन्यत्प्रविभज्यते ॥ २.९७ ॥
शास्त्रे प्रत्यायकस्यापि क्वचिदेकत्वमाश्रितम् ।
प्रत्याय्येन क्वचिद्भेदो ग्रहणग्राह्ययोः स्थितः ॥ २.९८ ॥
ऊ इत्यभेदमाश्रित्य यथासंख्यं प्रकल्पितम् ।
लृलुटोर्ग्रहणे भेदो ग्राह्याभ्यां परिकल्पितः ॥ २.९९ ॥
यस्येत्येतदणो रूपं संज्ञिनामभिधायकम् ।
न हि प्रतीयमानेन ग्रहणस्यास्ति संभवः ॥ २.१०० ॥
ऊ इत्येतदभिन्नं च भिन्नवाक्यनिबन्धनम् ।
भेदेन ग्रहणं यस्य पररूपमिव द्वयोः ॥ २.१०१ ॥
प्लुतस्याङ्गविवृद्धिं च समाहारमचोस्तथा ।
व्युदस्यता पुनर्भेदः शब्देष्वत्यन्तमाश्रितः ॥ २.१०२ ॥
अर्धर्चादिषु शब्देषु रूपभेदः क्रमाद्यथा ।
तन्त्रात्तथैकशब्दत्वे भिन्नानां श्रुतिरन्यथा ॥ २.१०३ ॥
संहिताविषये वर्णाः स्वरूपेणाविकारिणः ।
शब्दान्तरत्वं यान्तीव शक्त्यन्तरपरिग्रहात् ॥ २.१०४ ॥
इन्द्रियादिविकारेण दृष्टं ग्राह्येषु वस्तुषु ।
आत्मत्यागादृते भिन्नं ग्रहणं स क्रमः श्रुतौ ॥ २.१०५ ॥
अभिधानक्रियाभेदाच्छब्देष्वविकृतेष्वपि ।
रूपमत्यन्तभेदेन तदेवैकं प्रकाशते ॥ २.१०६ ॥
ऋचो वा गीतिमात्रं वा साम द्रव्यान्तरं न तु ।
गीतिभेदात्तु गृह्यन्ते ता एव विकृता ऋचः ॥ २.१०७ ॥
उपायाच्छ्रुतिसंहारे भिन्नानामेकशेषिणाम् ।
तन्त्रेणोच्चारणे तेषां शास्त्रे साधुत्वमुच्यते ॥ २.१०८ ॥
परिगृह्य श्रुतिं चैकां रूपभेदवतामपि ।
तन्त्रेणोच्चारणं कार्यमन्यथा ते न साधवः ॥ २.१०९ ॥
सरूपाणां च वाक्यानां शास्त्रेणाप्रतिपादितम् ।
तन्त्रेणोच्चारणादेकं रूपं साधूपलभ्यते ॥ २.११० ॥
एकस्यानेकरूपत्वं नालिकादिपरिग्रहात् ।
यथा तथैव तन्त्रात्स्याद्बहूनामेकरूपता ॥ २.१११ ॥
यथा पदसरूपाणां वाक्यानां संभवः पृथक् ।
तथा वाक्यान्तराभावे स्यादेषां पृथगर्थता ॥ २.११२ ॥
अभिधेयः पदस्यार्थो वाक्यस्यार्थः प्रयोजनम् ।
यस्य तस्य न संबन्धो वाक्यानामुपपद्यते ॥ २.११३ ॥
तत्र क्रियापदान्येव व्यपेक्षन्ते परस्परम् ।
क्रियापदानुषक्तस्तु संबन्धोऽथ प्रतीयते ॥ २.११४ ॥
आवृत्तिरनुवादो वा पदार्थव्यक्तिकल्पने ।
प्रत्येकं तु समाप्तोऽर्थः सहभूतेषु वर्तते ॥ २.११५ ॥
अविकल्पितवाक्यार्थे विकल्पा भावनाश्रयाः ।
अत्राधिकरणे वादाः पूर्वेषां बहुधा मताः ॥ २.११६ ॥
अभ्यासात्प्रतिभाहेतुः सर्वः शब्दोऽपरैः स्मृतः ।
बालानां च तिरश्चां च यथार्थप्रतिपादने ॥ २.११७ ॥
अनागमश्च सोऽभ्यासः समयः कैश्चिदिष्यते ।
अनन्तरमिदं कार्यमस्मादित्युपदर्शकः ॥ २.११८ ॥
अस्त्यर्थः सर्वशब्दानामिति प्रत्याय्यलक्षणम् ।
अपूर्वदेवतास्वर्गैः सममाहुर्गवादिषु ॥ २.११९ ॥
प्रयोगदर्शनाभ्यासादाकारावग्रहस्तु यः ।
न स शब्दस्य विषयः स हि यत्नान्तराश्रयः ॥ २.१२० ॥
के चिद्भेदाः प्रकाश्यन्ते शब्दैस्तदभिधायिभिः ।
अनुनिष्पादिनः कांश्चिच्छब्दार्थानिति मन्यते ॥ २.१२१ ॥
जातेः प्रत्यायके शब्दे या व्यक्तिरनुषङ्गिणी ।
न तद्व्यक्तिगतान् भेदाञ्जातिशब्दोऽवलम्बते ॥ २.१२२ ॥
घटादीनां न चाकारान् प्रत्याययति वाचकः ।
वस्तुमात्रनिवेशित्वात्तद्गतिर्नान्तरीयका ॥ २.१२३ ॥
क्रिया विना प्रयोगेण न दृष्टा शब्दचोदिता ।
प्रयोगस्त्वनुनिष्पादी शब्दार्थ इति गम्यते ॥ २.१२४ ॥
नियतास्तु प्रयोगा ये नियतं यच्च साधनम् ।
तेषां शब्दाभिधेयत्वमपरैरनुगम्यते ॥ २.१२५ ॥
समुदायोऽभिधेयो वाप्यविकल्पसमुच्चयः ।
असत्यो वापि संसर्गः शब्दार्थः कैश्चिदिष्यते ॥ २.१२६ ॥
असत्योपाधि यत्सत्यं तद्वा शब्दनिबन्धनाम् ।
शब्दो वाप्यभिजल्पत्वमागतो याति वाच्यताम् ॥ २.१२७ ॥
सोऽयमित्यभिसंबन्धाद्रूपमेकीकृतं यता ।
शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ २.१२८ ॥
तयोरपृथगात्मत्वे रूढिरव्यभिचारिणी ।
किं चिदेव क्व चिद्रूपं प्राधान्येनावतिष्ठते ॥ २.१२९ ॥
लोकेऽर्थरूपतां शब्दः प्रतिपन्नः प्रवर्तते ।
शास्त्रे तूभयरूपत्वं प्रविभक्तं विवक्षया ॥ २.१३० ॥
अशक्तेः सर्वशक्तेर्वा शब्दैरेव प्रकल्पिता ।
एकस्यार्थस्य नियता क्रियादिपरिकल्पना ॥ २.१३१ ॥
यो वार्थो बुद्धिविषयो बाह्यवस्तुनिबन्धनः ।
स बाह्यं वस्त्विति ज्ञातः शब्दार्थ इति गम्यते ॥ २.१३२ ॥
आकारवन्तः संवेद्या व्यक्तिस्मृतिनिबन्धनाः ।
एते प्रत्यवभासन्ते संविन्ंात्रं त्वतोऽन्यथा ॥ २.१३३ ॥
यथेन्द्रियं संनिपतद्वैचित्रेणोपदर्शकं ।
तथैव शब्दादर्थस्य प्रतिपत्तिरनेकधा ॥ २.१३४ ॥
वक्त्रान्यथैव प्रक्रान्तो भिन्नेषु प्रतिपत्तृषु ।
स्वप्रत्ययानुकारेण शब्दार्थः प्रविभज्यते ॥ २.१३५ ॥
एकस्मिन्नपि दृश्येऽर्थे दर्शनं भिद्यते पृथक् ।
कालान्तरेण चैकोऽपि तं पश्यत्यन्यथा पुनः ॥ २.१३६ ॥
एकस्यापि च शब्दस्य निमित्तैरव्यवस्थितैः ।
एकेन बहुभिश्चार्थो बहुधा परिकल्प्यते ॥ २.१३७ ॥
तस्माददृष्टतत्त्वानां सापराधं बहुच्छलं ।
दर्शनं वचनं वापि नित्यमेवानवस्थितम् ॥ २.१३८ ॥
ऋषीणां दर्शनं यच्च तत्त्वे किं चिदवस्थितम् ।
न तेन व्यवहारोऽस्ति न तच्छब्दनिबन्धनं ॥ २.१३९ ॥
तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।
नैव चास्ति तलं व्योम्नि न खद्योते हुताशनः ॥ २.१४० ॥
तस्मात्प्रत्यक्षमप्यर्थं विद्वानीक्षेत युक्तितः ।
न दर्शनस्य प्रामाण्याद्दृश्यमर्थं प्रकल्पयेत् ॥ २.१४१ ॥
असमाख्येयतत्त्वानामर्थानां लौकिकैर्यथा ।
व्यवहारे समाख्यानं तत्प्रज्ञो न विकल्पयेत् ॥ २.१४२ ॥
विच्छेदग्रहणेऽर्थानां प्रतिभान्यैव जायते ।
वाक्यार्थ इति तामाहुः पदार्थैरुपपादिताम् ॥ २.१४३ ॥
इदं तदिति सान्येषामनाक्येया कथं चन ।
प्रत्यात्मवृत्ति सिद्धा सा कर्त्रापि न निरूप्यते ॥ २.१४४ ॥
उपश्लेषमिवार्थानां सा करोत्यविचारिता ।
सार्वरूप्यमिवापन्ना विषयत्वेन वर्तते ॥ २.१४५ ॥
साक्शाच्छब्देन जनितां भावनानुगमेन वा ।
इतिकर्तव्यतायां तां न कश्चिदतिवर्तते ॥ २.१४६ ॥
प्रमाणत्वेन तां लोकः सर्वः समनुगच्छति ।
समारम्भाः प्रतायन्ते तिरश्चामपि तद्वशात् ॥ २.१४७ ॥
यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः ।
मदादिशक्तयो दृष्टाः प्रतिभास्तद्वतां तथा ॥ २.१४८ ॥
स्वरवृत्तिं विकुरुते मधौ पुंस्कोकिलस्य कः ।
जन्त्वादयः कुलायादि- करणे शिक्षिताः कथम् ॥ २.१४९ ॥
आहारप्रीत्यपद्वेष- प्लवनादिक्रियासु कः ।
जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ २.१५० ॥
भावनानुगतादेतदागमादेव जायते ।
आसत्तिविप्रकर्षाभ्यामागमस्तु विशिष्यते ॥ २.१५१ ॥
स्वभाववरणाभास- योगादृष्टोपपादिताम् ।
विशिष्टोपहितां चेति प्रतिभां षड्विधां विदुः ॥ २.१५२ ॥
यथा संयोगिभिर्द्रव्यैर्लक्षितेऽर्थे प्रयुज्यते ।
गोशब्दो न त्वसौ तेषां विशेशाणां प्रकाशकः ॥ २.१५३ ॥
आकारवर्णावयवैः संसृष्टेषु गवादिषु ।
शब्दः प्रवर्तमानोऽपि न तानङ्गीकरोत्यसौ ॥ २.१५४ ॥
संस्थानवर्णावयवैर्विशिष्टेऽर्थे प्रयुज्यते ।
शब्दो न तस्यावयवे प्रवृत्तिरुपलभ्यते ॥ २.१५५ ॥
दुर्लभं कस्य चिल्लोके सर्वावयवदर्शनं ।
कैश्चित्त्ववयवैर्दृष्टैरर्थः कृत्सोऽनुमीयते ॥ २.१५६ ॥
तथा जात्युत्पलादीनां गन्धेन सहचारिणाम् ।
नित्यसंबन्धिनां दृष्टं गुणानामवधारणम् ॥ २.१५७ ॥
संख्याप्रमाणसंस्थान- निरपेक्षः प्रवर्तते ।
बिन्दौ च समुदाये च वाचकः सलिलादिषु ॥ २.१५८ ॥
संस्कारादिपरिच्छिन्ने तैलादौ यो व्यवस्थितः ।
आहैकदेशं तत्त्वेन तस्यावयववर्तिना ॥ २.१५९ ॥
येनार्थेनाभिसंबद्धमभिधानं प्रयुज्यते ।
तदर्थापगमे तस्य प्रयोगो विनिवर्तते ॥ २.१६० ॥
यांस्तु संभविनो धर्मानन्तर्णीय प्रयुज्यते ।
शब्दस्तेषां न सांनिध्यं नियमेन व्यपेक्षते ॥ २.१६१ ॥
यथा रोमशफादीनां व्यभिचारेऽपि दृश्यते ।
गोशब्दो न तथा जातेर्विप्रयोगे प्रवर्तते ॥ २.१६२ ॥
तस्मात्संभविनोऽर्थस्य शब्दात्संप्रत्यये सति ।
अदृष्टविप्रयोगार्थः संबन्धित्वेन गम्यते ॥ २.१६३ ॥
वाचिका द्योतिका व स्युर्द्वित्वादीनां विभक्तयः ।
स्याद्वा संख्यावतोऽर्थस्य समुदायोऽभिधायकः ॥ २.१६४ ॥
विना संख्याभिधानाद्वा संख्याभेदसमन्वितान् ।
अर्थान् स्वरूपभेदेन काम्श्चिदाहुर्गवादयः ॥ २.१६५ ॥
ये शब्दा नित्यसंबन्धा विवेके ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां तेषामर्थो विभज्यते ॥ २.१६६ ॥
यावच्चाव्यभिचारेण तयोः शक्यं प्रकल्पनम् ।
नियमस्तत्र न त्वेवं नियमो नुट्शबादिषु ॥ २.१६७ ॥
संभवे नाभिधानस्य लक्षणत्वं प्रकल्पते ।
आपेक्षिक्यो हि संसर्गे नियताः शब्दशक्तयः ॥ २.१६८ ॥
न कूपसूपयूपानामन्वयोऽर्थस्य दृश्यते ।
अतोऽर्थान्तरवाचित्वं संघातस्यैव गम्यते ॥ २.१६९ ॥
अन्वाख्यानानि भिद्यन्ते शब्दव्युत्पत्तिकर्मसु ।
बहूनां संभवेऽर्थानां निमित्तं किं चिदिष्यते ॥ २.१७० ॥
वैरवासिष्ठगिरिशास्तथैकागारिकादयः ।
कैश्चित्कथं चिदाख्याता निमित्तावधिसंकरैः ॥ २.१७१ ॥
यथा पथः समाख्यानं वृक्षवल्मीकपर्वतैः ।
अविरुद्धं गवादीनां भिन्नैश्च सहचारिभिः ॥ २.१७२ ॥
अन्यथा च समाख्यानमवस्थाभेददर्शिभिः ।
क्रियते किंशुकादीनामेकदेशावधारणं ॥ २.१७३ ॥
कैश्चिन्निर्वचनं भिन्नं गिरतेर्गर्जतेर्गमेः ।
गवतेर्गदतेर्वापि गौरित्यत्रानुदर्शितम् ॥ २.१७४ ॥
गौरित्येव स्वरूपाद्वा गोशब्दो गोषु वर्तते ।
व्युत्पाद्यते न वा सर्वं कैश्चिच्चोभयथेष्यते ॥ २.१७५ ॥
सामान्येनोपदेशश्च शास्त्रे लघ्वर्थमाश्रितः ।
जात्यन्तरवदन्यस्य विशेषाः प्रतिपादकाः ॥ २.१७६ ॥
अर्थान्तरे च यद्वृत्तं तत्प्रकृत्यन्तरं विदुः ।
तुल्यरूपं न तद्रूढावन्यस्मिन्ननुषज्यते ॥ २.१७७ ॥
भिन्नाविजियजी धातू नियतौ विषयान्तरे ।
कैश्चित्कथं चिदुद्दिष्टौ चित्रं हि प्रतिपादनम् ॥ २.१७८ ॥
एवं च वालवायादि जित्वरीवदुपाचरेत् ।
भेदाभेदाभ्युपगमे न विरोधोऽस्ति कश्चन ॥ २.१७९ ॥
अडादीनां व्यवस्थार्थं पृथक्त्वेन प्रकल्पनम् ।
धातूपसर्गयोः शास्त्रे धातुरेव तु तादृशः ॥ २.१८० ॥
तथा हि संग्रामयतेः सोपसर्गाद्विधिः स्मृतः ।
क्रियाविशेषाः सम्घाते प्रक्रम्यन्ते तथाविधाः ॥ २.१८१ ॥
कार्याणामन्तरङ्गत्वमेवं धातूपसर्गयोः ।
साधनैर्याति संबन्धं तथाभूतैव सा क्रिया ॥ २.१८२ ॥
प्रयोगार्थेषु सिद्धः सन् भेत्तव्योऽर्थो विशिष्यते ।
प्राक्च साधनसंबन्धात्क्रिया नैवोपजायते ॥ २.१८३ ॥
धातोः साधनयोगस्य भाविनः प्रक्रमाद्यथा ।
धातुत्वं कर्मभावश्च तथान्यदपि दृश्यताम् ॥ २.१८४ ॥
बीजकालेषु संबन्धाद्यथा लाक्षारसादयः ।
वर्णादिपरिणामेन फलानामुपकुर्वते ॥ २.१८५ ॥
बुद्धिस्थादभिसंबन्धात्तथा धातूपसर्गयोः ।
अभ्यन्तरीकृताद्भेदः पदकाले प्रकाशते ॥ २.१८६ ॥
क्व चित्संभविनो भेदाः केवलैरनिदर्शिताः ।
उपसर्गेण संबन्धे व्यज्यन्ते प्रनिरादिना ॥ २.१८७ ॥
स वाचको विशेषाणां संभवाद्द्योतकोऽपि वा ।
शक्त्याधानाय वा धातोः सहकारी प्रयुज्यते ॥ २.१८८ ॥
स्थादिभिः केवलैर्यच्च गमनादि न गम्यते ।
तत्रानुमानाद्द्विविधात्तद्धर्मा प्रादिरुच्यते ॥ २.१८९ ॥
अप्रयोगेऽधिपर्योश्च यावद्दृष्टं क्रियान्तरम् ।
तस्याभिधायको धातुः सह ताभ्यामनर्थकः ॥ २.१९० ॥
तथैव स्वार्थिकाः के चित्संघातान्तरवृत्तयः ।
अनर्थकेन संसृष्टाः प्रकृत्यर्थानुवादिनः ॥ २.१९१ ॥
निपाता द्योतकाः के चित्पृथगर्थप्रकल्पने ।
आगमा इव के चित्तु संभूयार्थस्य साधकाः ॥ २.१९२ ॥
उपरिष्टात्पुरस्ताद्वा द्योतकत्वं न भिद्यते ।
तेषु प्रयुज्यमानेषु भिन्नार्थेष्वपि सर्वथा ॥ २.१९३ ॥
चादयो न प्रयुज्यन्ते पदत्वे सति केवलाः ।
प्रत्ययो वाचकत्वेऽपि केवलो न प्रयुज्यते ॥ २.१९४ ॥
समुच्चिताभिधाने तु व्यतिरेको न विद्यते ।
असत्त्वभूतो भावश्च तिङ्पदैरभिधीयते ॥ २.१९५ ॥
समुच्चिताभिधानेऽपि विशिष्टार्थाभिधायिनाम् ।
गुणैर्पदानां संबन्धः परतन्त्रास्तु चादयः ॥ २.१९६ ॥
जनयित्वा क्रिया का चित्संबन्धं विनिवर्तते ।
श्रूयमाणे क्रियाशब्दे संबन्धो जायते क्व चित् ॥ २.१९७ ॥
तत्र षष्ठी प्रतिपदं समासस्य निवृत्तये ।
विहिता दर्शनार्थं तु कारकं प्रत्युदाहृतम् ॥ २.१९८ ॥
स चोपजातः संबन्धो विनिवृत्ते क्रियापदे ।
कर्मप्रवचनीयेन तत्र तत्र नियम्यते ॥ २.१९९ ॥
येन क्रियापदाक्षेपः स कारकविभक्तिभिः ।
युज्यते विर्यथा तस्य लिखावनुपसर्गता ॥ २.२०० ॥
तिष्ठतेरप्रयोगश्च दृष्टोऽप्रत्यजयन्निति ।
सुन्वभीत्याभिमुख्ये च केवलोऽपि प्रयुज्यते ॥ २.२०१ ॥
कर्मप्रवचनीयत्वं क्रियायोगे विधीयते ।
षत्वादिविनिवृत्त्यर्थं स्वत्यादीनां विधर्मणाम् ॥ २.२०२ ॥
हेतुहेतुमतोर्योग- परिच्छेदेऽनुना कृते ।
आरम्भाद्बाध्यते प्राप्ता तृतीया हेतुलक्षणा ॥ २.२०३ ॥
क्रियाया द्योतको नायं न संबन्धस्य वाचकः ।
नापि क्रियापदाक्षेपि संबन्धस्य तु भेदकः ॥ २.२०४ ॥
अनर्थकानां संघातः सार्थकोऽनर्थकस्तथा ।
वर्णानां पदमर्थेन युक्तं नावयवाः पदे ॥ २.२०५ ॥
पदानामर्थयुक्तानां संघातो भिद्यते पुनः ।
अर्थान्तरावबोधेन संबन्धविगमेन च ॥ २.२०६ ॥
सार्थकानर्थकौ भेदे संबन्धं नाधिगच्छतः ।
अधिगच्छत इत्येके कुटीरादिनिदर्शनात् ॥ २.१०७ ॥
अर्थवद्भ्यो विशिष्टार्थः संघात उपजायते ।
नोपजायत इत्येके समासस्वार्थिकादिषु ॥ २.२०८ ॥
के चिद्धि युतसिद्धार्था भेदे निर्ज्ञातशक्तयः ।
अन्वयव्यतिरेकाभ्यां के चित्कल्पितशक्तयः ॥ २.२०९ ॥
शास्त्रार्थ एव वर्णानामर्थवत्त्वे प्रदर्शितः ।
धात्वादीनां हि शुद्धानां लौकिकोऽर्थो न विद्यते ॥ २.२१० ॥
कृत्तद्धितानामर्थश्च केवलानामलौकिकः ।
प्राग्विभक्तेस्तदन्तस्य तथैवार्थो न विद्यते ॥ २.२११ ॥
अभिव्यक्ततरो योऽर्थः प्रत्ययान्तेषु लक्ष्यते ।
अर्थवत्ताप्रकरणादाश्रितः स तथाविधः ॥ २.२१२ ॥
आत्मभेदो न चेत्कश्चिद्वर्णेभ्यः पदवाक्ययोः ।
अन्योन्यापेक्षया शक्त्या वर्णः स्यादभिधायकः ॥ २.२१३ ॥
वर्णेन केन चिन्न्यूनः संघातो योऽभिधायकः ।
न चेच्छब्दान्तरमसावन्यूनस्तेन गम्यते ॥ २.२१४ ॥
स तस्मिन् वाचके शब्दे निमित्तात्स्मृतिमादधत् ।
साक्षादिव व्यवहितं शब्देनार्थमुपोहते ॥ २.२१५ ॥
पदवाच्यो यथा नार्थः कश्चिद्गौरखरादिषु ।
सत्यपि प्रत्ययेऽत्यन्तं समुदाये न गम्यते ॥ २.२१६ ॥
समन्वित इवार्थात्मा पदार्थैर्यः प्रतीयते ।
पदार्थदर्शनं तत्र तथैवानुपकारकम् ॥ २.२१७ ॥
समुदायावयवयोर्भिन्नार्थत्वे च वृत्तिषु ।
युगपद्भेदसंसर्गौ विरुद्धावनुषङ्गिणौ ॥ २.२१८ ॥
कश्च साधनमात्रार्थानध्यादीन् परिकल्पयेत् ।
अप्रयुक्तपदश्चार्थो बहुव्रीहौ कथं भवेत् ॥ २.२१९ ॥
प्रज्ञुसंज्ञ्वाद्यवयवैर्न चास्त्यर्थावधारणम् ।
तस्मात्संघात एवैको विशिष्टार्थनिबन्धनम् ॥ २.२२० ॥
गर्गा इत्येक एवायं बहुष्वर्थेषु वर्तते ।
द्वन्द्वसंज्ञोऽपि संघातो बहूनामभिधायकः ॥ २.२२१ ॥
यथैकशेषे भुज्यादिः प्रत्येकमवतिष्ठते ।
क्रियैवं द्वन्द्ववाच्येऽर्थे प्रत्येकं प्रविभज्यते ॥ २.२२२ ॥
यच्च द्वन्द्वपदार्थस्य तच्छब्देन व्यपेक्षणम् ।
सापि व्यावृत्तरूपेऽर्थे सर्वनामसरूपता ॥ २.२२३ ॥
यथा च खदिरच्छेदे भागेषु क्रमवांस्छिदिः ।
तथा द्वन्द्वपदार्थस्य भागेषु क्रमदर्शनम् ॥ २.२२४ ॥
सङ्घैकदेशे प्रक्रान्तान् यथा सङ्घानुपातिनः ।
क्रियाविशेषान्मन्यन्ते स द्वन्द्वावयवे क्रमः ॥ २.२२५ ॥
प्रतिपादयता वृत्तिमबुद्धान् वाक्यपूर्विकाम् ।
वृत्तौ पदार्थभेदेन प्राधान्यमुपदर्शितम् ॥ २.२२६ ॥
अभेदादभिधेयस्य नञ्समासे विकल्पितम् ।
प्राधान्यं बहुधा भाष्ये दोषास्तु प्रक्रियागताः ॥ २.२२७ ॥
जहत्स्वार्थविकल्पे च सर्वार्थत्यागमिच्छता ।
बहुव्रीहिपदार्थस्य त्यागः सर्वस्य दर्शितः ॥ २.२२८ ॥
शास्त्रे क्व चित्प्रकृत्यर्थः प्रत्ययेनाभिधीयते ।
प्रकृतौ विनिवृत्तायां प्रत्ययार्थश्च धातुभिः ॥ २.२२९ ॥
यमर्थमाहतुर्भिन्नौ प्रत्ययावेक एव तम् ।
क्व चिदाह पचन्तीति धातुस्ताभ्यां विना क्व चित् ॥ २.२३० ॥
अन्वाख्यानस्मृतेर्ये च प्रत्ययार्था निबन्धनम् ।
निर्दिष्टास्ते प्रकृत्यर्थाः स्मृत्यन्तर उदाहृताः ॥ २.२३१ ॥
प्रसिद्धेरुद्वमिकरीत्येवं शास्त्रेऽभिधीयते ।
व्यवहाराय मन्यन्ते शास्त्रार्थप्रक्रिया यतः ॥ २.२३२ ॥
शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते ।
अनागमविकल्पा तु स्वयं विद्योपवर्तते ॥ २.२३३ ॥
अनिबद्धं निमित्तेषु निरुपाख्यं फलं यथा ।
तथा विद्याप्यनाख्येया शास्त्रोपायेव लक्ष्यते ॥ २.२३४ ॥
यथाभ्यासं हि वागर्थे प्रतिपत्तिं समीहते ।
स्वभाव इव चानादिर्मिथ्याभ्यासो व्यवस्थितः ॥ २.२३५ ॥
उत्प्रेक्षते सावयवं परमाणुमपण्डितः ।
तथावयविनं युक्तमन्यैरवयवैः पुनः ॥ २.२३६ ॥
घटादिदर्शनाल्लोकः परिच्छिन्नोऽवसीयते ।
समारम्भाच्च भावानामादिमद्ब्रह्म शाश्वतम् ॥ २.२३७ ॥
उपायाः शिक्षमाणानां बालानामुपलापनाः ।
असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते ॥ २.२३८ ॥
अन्यथा प्रतिपद्यार्थं पदग्रहणपूर्वकम् ।
पुनर्वाक्ये तमेवार्थमन्यथा प्रतिपद्यते ॥ २.२३९ ॥
उपात्ता बहवोऽप्यर्था येष्वन्ते प्रतिषेधनम् ।
क्रियते ते निवर्तन्ते तस्मात्तांस्तत्र नाश्रयेत् ॥ २.२४० ॥
वृक्षो नास्तीति वाक्यं च विशिष्टाभावलक्षणम् ।
नार्थे न बुद्धौ संबन्धो निवृत्तेरवतिष्ठते ॥ २.२४१ ॥
विच्छेदप्रतिपत्तौ च यद्यस्तीत्यवधार्यते ।
अशब्दवाच्या सा बुद्धिर्निवर्त्येत स्थिता कथम् ॥ २.२४२ ॥
अथ यज्ज्ञानमुत्पन्नं तन्मिथ्येति नञा कृतम् ।
नञो व्यापारभेदेऽस्मिन्नभावावगतिः कथम् ॥ २.२४३ ॥
निराधारप्रवृत्तौ च प्राक्प्रवृत्तिर्नञो भवेत् ।
अथाधारः स एवास्य नियमार्था श्रुतिर्भवेत् ॥ २.२४४ ॥
नियमद्योतनार्था वाप्यनुवादो यथा भवेत् ।
कश्चिदेवार्थवांस्तत्र शब्दः शेषास्त्वनर्थकाः ॥ २.२४५ ॥
विरुद्धं चाभिसंबन्धमुदाहार्यादिभिः कृतम् ।
वाक्ये समाप्ते वाक्यार्थमन्यथा प्रतिपद्यते ॥ २.२४६ ॥
स्तुतिनिन्दाप्रधानेषु वाक्येष्वर्थो न तादृशः ।
पदानां प्रविभागेन यादृशः परिकल्प्यते ॥ २.२४७ ॥
अथासंसृष्ट एवार्थः पदेषु समवस्थितः ।
वाक्यार्थस्याभ्युपायोऽसावेकस्य प्रतिपादने ॥ २.२४८ ॥
पूर्वं पदेष्वसंसृष्टो यः क्रमादुपचीयते ।
छिन्नग्रथितकल्पत्वात्तद्विशिष्टतरं विदुः ॥ २.२४९ ॥
एकमाहुरनेकार्थं शब्दमन्ये परीक्षकाः ।
निमित्तभेदादेकस्य सार्वार्थ्यं तस्य भिद्यते ॥ २.२५० ॥
यौगपद्यमतिक्रम्य पर्याये व्यवतिष्ठते ।
अर्थप्रकरणाभ्यां वा योगाच्छब्दान्तरेण वा ॥ २.२५१ ॥
यथा सास्नादिमान् पिण्डो गोशब्देनाभिधीयते ।
तथा स एव गोशब्दो वाहीकेऽपि व्यवस्थितः ॥ २.२५२ ॥
सर्वशक्तेस्तु तस्यैव शब्दस्यानेकधर्मणः ।
प्रसिद्धिभेदाद्गौणत्वं मुख्यत्वं चोपजायते ॥ २.२५३ ॥
एको मन्त्रस्तथाध्यात्ममधिदैवमधिक्रतु ।
असंकरेण सर्वार्थो भिन्नशक्तिरवस्थितः ॥ २.२५४ ॥
गोत्वानुषङ्गो वाहीके निमित्तात्कैश्चिदिष्यते ।
अर्थमात्रं विपर्यस्तं शब्दः स्वार्थे व्यवस्थितः ॥ २.२५५ ॥
तथा स्वरूपं शब्दानां सर्वार्थेष्वनुषज्यते ।
अर्थमात्रं विपर्यस्तं स्वरूपे तु श्रुतिः स्थिता ॥ २.२५६ ॥
एकत्वं तु सरूपत्वाच्छब्दयोर्गौणमुख्ययोः ।
प्राहुरत्यन्तभेदेऽपि भेदमार्गानुदर्शिनः ॥ २.२५७ ॥
सामिधेन्यन्तरं चैवमावृत्तावनुषज्यते ।
मन्त्रास्च विनियोगेन लभन्ते भेदमूहवत् ॥ २.२५८ ॥
तान्याम्नायान्तराण्येव पठ्यते किं चिदेव तु ।
अनर्थकानां पाठो वा शेषस्त्वन्यः प्रतीयते ॥ २.२५९ ॥
शब्दस्वरूपमर्थस्तु पाठेऽन्यैरुपवर्ण्यते ।
अत्यन्तभेदः सर्वेषां तत्संबन्धात्तु तद्वताम् ॥ २.२६० ॥
अन्या संस्कारसावित्री कर्मण्यन्या प्रयुज्यते ।
अन्या जपप्रबन्धेषु सा त्वेकैव प्रतीयते ॥ २.२६१ ॥
अर्थस्वरूपे शब्दानां स्वरूपाद्वृत्तिमिच्छतः ।
वाक्यरूपस्य वाक्यार्थे वृत्तिरन्यानपेक्षया ॥ २.२६२ ॥
अनेकार्थत्वमेकस्य यैः शब्दस्यानुगम्यते ।
सिद्ध्यसिद्धिकृता तेषां गौणमुख्यप्रकल्पना ॥ २.२६३ ॥
अर्थप्रकरणापेक्षो यो वा शब्दान्तरैः सह ।
युक्तः प्रत्याययत्यर्थं तं गौणमपरे विदुः ॥ २.२६४ ॥
शुद्धस्योच्चारणे स्वार्थः प्रसिद्धो यस्य गम्यते ।
स मुख्य इति विज्ञेयो रूपमात्रनिबन्धनः ॥ २.२६५ ॥
यस्त्वन्यस्य प्रयोगेण यत्नादिव नियुज्यते ।
तमप्रसिद्धं मन्यन्ते गौणार्थाभिनिवेशिनम् ॥ २.२६६ ॥
स्वार्थे प्रवर्तमानोऽपि यस्यार्थं योऽवलम्बते ।
निमित्तं तत्र मुख्यं स्यान्निमित्ती गौण इष्यते ॥ २.२६७ ॥
पुरारादिति भिन्नेऽर्थे यौ वर्तेते विरोधिनि ।
अर्थप्रकरणापेक्षं तयोरप्यवधारणम् ॥ २.२६८ ॥
वाक्यस्यार्थात्पदार्थानामपोद्धारे प्रकल्पिते ।
शब्दान्तरेण संबन्धः कस्यैकस्योपपद्यते ॥ २.२६९ ॥
यच्चाप्येकं पदं दृष्टं चरितास्तिक्रियं क्व चित् ।
तद्वाक्यान्तरमेवाहुर्न तदन्येन युज्यते ॥ २.२७० ॥
यच्च कोऽयमिति प्रश्ने गौरश्व इति चोच्यते ।
प्रश्न एव क्रिया तत्र प्रक्रान्ता दर्शनादिका ॥ २.२७१ ॥
नैवाधिकत्वं धर्माणां न्यूनता वा प्रयोजिका ।
आधिक्यमपि मन्यन्ते प्रसिद्धेर्न्यूनतां क्व चित् ॥ २.२७२ ॥
जातिशब्दोऽन्तरेणापि जातिं यत्र प्रयुज्यते ।
संबन्धिसदृशाद्धर्मात्तं गौणमपरे विदुः ॥ २.२७३ ॥
विपर्यासादिवार्थस्य यत्रार्थान्तरतामिव ।
मन्यन्ते स गवादिस्तु गौण इत्युच्यते क्व चित् ॥ २.२७४ ॥
नियताः साधनत्वेन रूपशक्तिसमन्विताः ।
यथा कर्मसु गम्यन्ते सीरासिमुसलादयः ॥ २.२७५ ॥
क्रियान्तरे न चैतेषां विभवन्ति न शक्तयः ।
रूपादेव तु तादर्थ्यं नियमेन प्रतीयते ॥ २.२७६ ॥
तथैव रूपशक्तिभ्यामुत्पत्त्या समवस्थितः ।
शब्दो नियततादर्थ्यः शक्त्यान्यत्र प्रयुज्यते ॥ २.२७७ ॥
श्रुतिमात्रेण यत्रास्य सामर्थ्यमवसीयते ।
तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥ २.२७८ ॥
गोयुष्मन्महतां च्व्यर्थे स्वार्थादर्थान्तरे स्थितौ ।
अर्थान्तरस्य तद्भावस्तत्र मुख्योऽपि दृश्यते ॥ २.२७९ ॥
महत्त्वं शुक्लभावं च प्रकृतिः प्रतिपद्यते ।
भेदेनापेक्षिता सा तु गौणत्वस्य प्रसाधिका ॥ २.२८० ॥
अग्निसोमादयः शब्दा ये स्वरूपपदार्थकाः ।
संज्ञिभिः संप्रयुज्यन्तेऽप्रसिद्धेस्तेषु गौणता ॥ २.२८१ ॥
अग्निदत्तस्तु योऽग्निः स्यात्तत्र स्वार्थोपसर्जनः ।
शब्दो दत्तार्थवृत्तित्वाद्गौणत्वं प्रतिपद्यते ॥ २.२८२ ॥
निमित्तभेदात्प्रक्रान्ते शब्दव्युत्पत्तिकर्मणि ।
हरिश्चन्द्रादिषु सुटो भावाभावौ व्यवस्थितौ ॥ २.२८३ ॥
ऋष्यादौ प्राप्तसंस्कारो यः शब्दोऽन्येन युज्यते ।
तत्रान्तरङ्गसंस्कारो बाह्येऽर्थे न निवर्तते ॥ २.२८४ ॥
अत्यन्तविपरीतोऽपि यथा योऽर्थोऽवधार्यते ।
यथासंप्रत्ययं शब्दस्तत्र मुख्यः प्रयुज्यते ॥ २.२८५ ॥
यद्यपि प्रत्ययाधीनमर्थतत्त्वावधारणम् ।
न सर्वः प्रत्ययस्तस्मिन् प्रसिद्ध इव जायते ॥ २.२८६ ॥
दर्शनं सलिले तुल्यं मृगतृष्णादिदर्शनैः ।
भेदात्तु स्पर्शनादीनां न जलं मृगतृष्णिका ॥ २.२८७ ॥
यदसाधारणं कार्यं प्रसिद्धं रज्जुसर्पयोः ।
तेन भेदपरिच्छेदस्तयोस्तुल्येऽपि दर्शने ॥ २.२८८ ॥
प्रसिद्धार्थविपर्यास- निमित्तं यच्च दृश्यते ।
यस्तस्माल्लक्ष्यते भेदस्तमसत्यं प्रचक्षते ॥ २.२८९ ॥
यच्च निम्नोन्नतं चित्रे सरूपं पर्वतादिभिः ।
न तत्र प्रतिघातादि कार्यं तद्वत्प्रवर्तते ॥ २.२९० ॥
स्पर्शप्रबन्धो हस्तेन यथा चक्रस्य संततः ।
न तथालातचक्रस्य विच्छिन्नं स्पृश्यते हि तत् ॥ २.२९१ ॥
वप्रप्राकारकल्पैश्च स्पर्शनावरणे यथा ।
नगरेषु न ते तद्वद्गन्धर्वनगरेष्वपि ॥ २.२९२ ॥
मृगपश्वादिभिर्यावान्मुख्यैरर्थः प्रसाध्यते ।
तावान्न मृन्मयेष्वस्ति तस्मात्ते विषयः कनः ॥ २.२९३ ॥
महानाव्रियते देशः प्रसिद्धैः पर्वतादिभिः ।
अल्पदेशान्तरावस्थं प्रतिबिम्बं तु दृश्यते ॥ २.२९४ ॥
मरणादिनिमित्तं च यथा मुख्या विषादयः ।
न ते स्वप्नादिषु स्वस्य तद्वदर्थस्य साधकाः ॥ २.२९५ ॥
देशकालेन्द्रियगतैर्भेदैर्यद्दृश्यतेऽन्यथा ।
यथा प्रसिद्धिर्लोकस्य तथा तदवसीयते ॥ २.२९६ ॥
यच्चोपघातजं ज्ञानं यच्च ज्ञानमलौकिकम् ।
न ताभ्यां व्यवहारोऽस्ति शब्दा लोकनिबन्धनाः ॥ २.२९७ ॥
घटादिषु यथा दीपो येनार्थेन प्रयुज्यते ।
ततोऽन्यस्यापि सांनिध्यात्स करोति प्रकाशनम् ॥ २.२९८ ॥
संसर्गिषु तथार्थेषु शब्दो येन प्रयुज्यते ।
तस्मात्प्रयोजकादन्यानपि प्रत्याययत्यसौ ॥ २.२९९ ॥
निर्मन्थनं यथारण्योरग्न्यर्थमुपपादितम् ।
धूममप्यनभिप्रेतं जनयत्येकसाधनम् ॥ २.३०० ॥
तथा शब्दोऽपि कस्मिंश्चित्प्रत्याय्येऽर्थे विवक्षिते ।
अविवक्षितमप्यर्थं प्रकाशयते संनिधेः ॥ २.३०१ ॥
यथैवात्यन्तसंसृष्टस्त्यक्तुमर्थो न शक्यते ।
तथा शब्दोऽपि संबन्धी प्रविवक्तुं न शक्यते ॥ २.३०२ ॥
अर्थानां संनिधानेऽपि सति चैषां प्रकाशने ।
प्रयोजकोऽर्थः शब्दस्य रूपाभेदेऽपि गम्यते ॥ २.३०३ ॥
क्व चिद्गुणप्रधानत्वमर्थानामविवक्षितम् ।
क्व चित्सांनिध्यमप्येषां प्रतिपत्तावकारणम् ॥ २.३०४ ॥
*यच्चानुपात्तं शब्देन तत्कस्मिंश्चित्प्रतीयते ।
क्व चित्प्रधानमेवार्थो भवत्ययस्य लक्षणम् ॥ २.३०५ *॥
*आख्यातं तद्धितार्थस्य यत्किं चिदुपदर्शकम् ।
गुणप्रधानभावस्य तत्र दृष्टो विपर्ययः ॥ २.३०६ *॥
*निर्देशे लिङ्गसंख्यानां संनिधानमकारणम् ।
प्रमाणमर्धह्रसादावनुपात्तं प्रतीयते ॥ २.३०७ ॥
ह्रस्वस्यार्धं च यद्दृष्टं तत्तस्यासंनिधावपि ।
ह्रस्वस्य लक्षणार्थत्वात्तद्वदेवाभिधीयते ॥ २.३०८ ॥
दीर्घप्लुताभ्यां तस्य स्यान्मात्रया वा विशेषणम् ।
जातेर्वा लक्षणाय स्यात्सर्वथा सप्तपर्णवत् ॥ २.३०९ ॥
गन्तव्यं दृश्यतां सूर्य इति कालस्य लक्षणे ।
ज्ञायतां काल इत्येतत्सोपायमभिधीयते ॥ २.३१० ॥
विध्यत्यधनुषेत्यत्र विशेषेण निदर्श्यते ।
सामान्यमाश्रयः शक्तेर्यः कश्चित्प्रतिपादकः ॥ २.३११ ॥
काकेभ्यो रक्ष्यतां सर्पिरिति बालोऽपि चोदितः ।
उपघातपरे वाक्ये न श्वादिभ्यो न रक्षति ॥ २.३१२ ॥
प्रक्षालने शरावाणां स्थाननिर्मार्जनं तथा ।
अनुक्तमपि रूपेण भुज्यङ्गत्वात्प्रतीयते ॥ २.३१३ ॥
वाक्यात्प्रकरणादर्थादौचित्याद्देशकालतः ।
शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ॥ २.३१४ ॥
संसर्गो विप्रयोगश्च साहचर्यं विरोधिता ।
अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ २.३१५ ॥
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ २.३१६ ॥
भेदपक्षेऽपि सारूप्याद्भिन्नार्थाः प्रतिपत्तृषु ।
नियता यान्त्यभिव्यक्तिं शब्दाः प्रकरणादिभिः ॥ २.३१७ ॥
नामाख्यातसरूपा ये कार्यान्तरनिबन्धनाः ।
शब्दा वाक्यस्य तेष्वर्थो न रूपादधिगम्यते ॥ २.३१८ ॥
या प्रवृत्तिनिवृत्त्यर्था स्तुतिनिन्दाप्रकल्पना ।
कुशलः प्रतिपत्ता तामयथार्थां समीहते ॥ २.३१९ ॥
विधीयमानं यत्क्रर्म दृष्टादृष्टप्रयोजनम् ।
स्तूयते सा स्तुतिस्तस्य कर्तुरेव प्रयोजिका ॥ २.३२० ॥
व्याघ्रादिव्यपदेशेन यथा बालो निवर्त्यते ।
असत्योऽपि तथा कश्चित्प्रत्यवायोऽभिधीयते ॥ २.३२१ ॥
न संविधानां कृत्वापि प्रत्यवाये तथाविधे ।
शास्त्रेण प्रतिषिद्धेऽर्थे विद्वान् कश्चित्प्रवर्तते ॥ २.३२२ ॥
सर्पेषु संविधायापि सिद्धैर्मन्त्रौषधादिभिः ।
नान्यथा प्रतिपत्तव्यं न दतो गमयेदिति ॥ २.३२३ ॥
क्व चित्तत्त्वसमाख्यानं क्रियते स्तुतिनिन्दयोः ।
तत्रापि च प्रवृत्तिश्च निवृत्तिश्चोपदिश्यते ॥ २.३२४ ॥
रूपं सर्वपदार्थानां वाक्यार्थोपनिबन्धनम् ।
सापेक्षा ये तु वाक्यार्थाः पदार्थैरेव ते समाः ॥ २.३२५ ॥
वाक्यं तदपि मन्यन्ते यत्पदं चरितक्रियम् ।
अन्तरेण क्रियाशब्दं वाक्यादेर्द्वित्वदर्शनात् ॥ २.३२६ ॥
आख्यातशब्दे नियतं साधनं यत्र गम्यते ।
तदप्येकं समाप्तार्थं वाक्यमित्यभिधीयते ॥ २.३२७ ॥
शब्दव्यवहिता बुद्धिरप्रयुक्तपदाश्रया ।
अनुमानं तदर्थस्य प्रत्यये हेतुरुच्यते ॥ २.३२८ ॥
[थिस्वेर्से इसोन्ल्यिन् रौ]
अपरे तु पदस्यैव तमर्थं प्रतिजानते ।
शब्दान्तराभिसंबन्धमन्तरेण व्यवस्थितम् ॥ २.३२९ ॥
यस्मिन्नुच्चरिते शब्दे यदा योऽर्थः प्रतीयते ।
तमाहुरर्थं तस्यैव नान्यदर्थस्य लक्षणम् ॥ २.३३० ॥
क्रियार्थोपपदेश्वेवं स्थानिनां गम्यते क्रिया ।
वृत्तौ निरादिभिश्चैवं क्रान्ताद्यर्थः प्रतीयते ॥ २.३३१ ॥
तानि शब्दान्तराण्येव पर्याया इव लौकिकाः ।
अर्थप्रकरणाभ्यां तु तेषां स्वार्थो नियम्यते ॥ २.३३२ ॥
प्रतिबोधाभ्युपायास्तु ये तं तं पुरुषं प्रति ।
नावश्यं तेऽभिसंबद्धाः शब्दा ज्ञेयेन वस्तुना ॥ २.३३३ ॥
असत्यां प्रतिपत्तौ वा मिथ्या वा प्रतिपादने ।
स्वैरर्थैर्नित्यसंबन्धास्ते ते शब्दा व्यवस्थिताः ॥ २.३३४ ॥
यथाप्रकरणं द्वारमित्यस्यां कर्मणः श्रुतौ ।
बधान देहि वेत्येतदुपायादवगम्यते ॥ २.३३५ ॥
तत्र साधनवृत्तिर्यः शब्दः सत्त्वनिबन्धनः ।
न स प्रधानभूतस्य साध्यस्यार्थस्य वाचकः ॥ २.३३६ ॥
स्वार्थमात्रं प्रकाश्यासौ सापेक्षो विनिवर्तते ।
अर्थस्तु तस्य संबन्धी प्रकल्पयति संनिधिम् ॥ २.३३७ ॥
पारार्थ्यस्याविशिष्टत्वान्न शब्दाच्छब्दसंनिधिः ।
नार्थाच्छब्दस्य सांनिध्यं न शब्दादर्थसंनिधिः ॥ २.३३८ ॥
नष्टरूपमिवाख्यातमाक्षिप्तं कर्मवाचिना ।
यदि प्राप्तं प्रधानत्वं युगपद्भावसत्त्वयोः ॥ २.३३९ ॥
तैस्तु नामसरूपत्वमाख्यातस्यास्य वर्ण्यते ।
अन्वयव्यतिरेकाभ्यां व्यवहारो विभज्यते ॥ २.३४० ॥
न चापि रूपात्संदेहे वाचकत्वं निवर्तते ।
अर्धं पशोरिति यथा सामर्थ्यात्तद्धि कल्पते ॥ २.३४१ ॥
सर्वं सत्त्वपदं शुद्धं यदि भावनिबन्धनम् ।
संसर्गे च विभक्तोऽस्य तस्यार्थो न पृथग्यदि ॥ २.३४२ ॥
क्रियाप्रधानमाख्यातं नाम्नां सत्त्वप्रधानता ।
चत्वारि पदजातानि सर्वमेतद्विरुध्यते ॥ २.३४३ ॥
वाक्यस्य बुद्धौ नित्यत्वमर्थयोगं च लौकिकम् ।
दृष्ट्वा चतुष्ट्वं नास्तीति वदत्यौदुम्बरायणः ॥ २.३४४ ॥
व्याप्तिमांश्च लघुश्चैव व्यवहारः पदाश्रयः ।
लोके शास्त्रे च कार्यार्थं विभागेनैव कल्पितः ॥ २.३४५ ॥
न लोके प्रतिपत्तॄणामर्थयोगात्प्रसिद्धयः ।
तस्मादलौकिको वाक्यादन्यः कश्चिन्न विद्यते ॥ २.३४६ ॥
अन्यत्र श्रूयमाणैश्च लिङ्गैर्वाक्यैश्च सूचिताः ।
स्वार्था एव प्रतीयन्ते रूपाभेदादलक्षिताः ॥ २.३४७ ॥
उत्सर्गवाक्ये यत्त्यक्तमशब्दमिव शब्दवत् ।
तद्बाधकेषु वाक्येषु श्रुतमन्यत्र गम्यते ॥ २.३४८ ॥
ब्राह्मणानां श्रुतिर्दध्नि प्रक्रान्ता माठराद्विना ।
माठरस्तक्रसंबन्धात्तत्राचष्टे यथार्थताम् ॥ २.३४९ ॥
अनेकाख्यातयोगेऽपि वाक्यं न्यायापवादयोः ।
एकमेवेष्यते कैश्चिद्भिन्नरूपमिव स्थितम् ॥ २.३५० ॥
नियमः प्रतिषेधश्च विधिशेषस्तथा सति ।
द्वितीये यो लुगाख्यातस्तच्छेषमलुकं विदुः ॥ २.३५१ ॥
निराकाङ्क्षाणि निर्वृत्तौ प्रधानानि परस्परम् ।
तेषामनुपकारित्वात्कथं स्यादेकवाक्यता ॥ २.३५२ ॥
विशेषविधिनार्थित्वाद्वाक्यशेषोऽनुमीयते ।
विधेयवन्निवर्त्येऽर्थे तस्मात्तुल्यं व्यपेक्षणम् ॥ २.३५३ ॥
संज्ञाशब्दैकदेशो यस्तस्य लोपो न विद्यते ।
विशिष्टरूपा सा संज्ञा कृता च न निवर्तते ॥ २.३५४ ॥
संज्ञान्तराच्च दत्तादेर्नान्या संज्ञा प्रतीयते ।
संज्ञिनं देवदत्ताख्यं दत्तशब्दः कथं वदेत् ॥ २.३५५ ॥
सर्वैरवयवैस्तुल्यं संबन्धं समुदायवत् ।
के चिच्छब्दस्वरूपाणां मन्यन्ते सर्वसंज्ञिभिः ॥ २.३५६ ॥
वर्णानामर्थवत्त्वं तु संज्ञानां संज्ञिभिर्भवेत् ।
संबद्धोऽवयवः संज्ञा- प्रविवेके न कल्पते ॥ २.३५७ ॥
सर्वस्वरूपैर्युगपत्संबन्धे सति संज्ञिनः ।
नैकदेशसरूपेभ्यस्तत्प्रत्यायनसंभवः ॥ २.३५८ ॥
एकदेशात्तु संघाते केषां चिज्जायते स्मृतिः ।
स्मृतेस्तु विषयाच्छब्दात्संघातार्थः प्रतीयते ॥ २.३५९ ॥
एकदेशात्स्मृतिर्भिन्ने संघाते नियता कथम् ।
कथं प्रतीयमानः स्याच्छब्दोऽर्थस्याभिधायकः ॥ २.३६० ॥
एकदेशसरूपास्तु तैस्तैर्भेदैः समन्विताः ।
अनुनिष्पादिनः शब्दाः संज्ञासु समवस्थिताः ॥ २.३६१ ॥
साधारणत्वात्संधिग्धाः सामर्थ्यान्नियताश्रयाः ।
तेषां ये साधवस्तेषु शास्त्रे लोपादि शिष्यते ॥ २.३६२ ॥
तुल्यायामनुनिष्पत्तौ ज्ये-द्रा-घा इत्यसाधवः ।
न ह्यन्वाख्यायके शास्त्रे तेषु दत्तादिवत्स्मृतिः ॥ २.३६३ ॥
कृतणत्वाश्च ये शब्दा नित्याः खरणसादयः ।
एकद्रव्योपदेशित्वात्तान् साधून् संप्रचक्षते ॥ २.३६४ ॥
गोत्राण्येव तु तान्याहुः संज्ञाशक्तिसमन्वयात् ।
निमित्तापेक्षणं तेषु स्वार्थे नावश्यमिष्यते ॥ २.३६५ ॥
व्यवहाराय नियमः संज्ञानां संज्ञिनि क्व चित् ।
नित्य एव तु संबन्धो डित्थादिषु गवादिवत् ॥ २.३६६ ॥
कृतकत्वादनित्यत्वं संबन्धस्योपपद्यते ।
संज्ञायां सा हि पुरुषैर्यथाकामं नियुज्यते ॥ २.३६७ ॥
यथा हि पांसुलेखानां बालकैर्मधुक्रादयः ।
संज्ञाः क्रियन्ते सर्वासु संज्ञास्वेषैव कल्पना ॥ २.३६८ ॥
वृद्ध्यादीनां च शास्त्रेऽस्मिञ्छक्त्यवच्छेदलक्षणः ।
अकृत्रिमो हि संबन्धो विशेषणविशेष्यवत् ॥ २.३६९ ॥
संज्ञा स्वरूपमाश्रित्य निमित्ते सति लौकिकी ।
का चित्प्रवर्तते का चिन्निमित्तासंनिधावपि ॥ २.३७० ॥
शास्त्रेऽपि महती संज्ञा स्वरूपोपनिबन्धना ।
अनुमानं निमित्तस्य संनिधाने प्रतीयते ॥ २.३७१ ॥
आवृत्तेरनुमानं वा सारूप्यात्तत्र गम्यते ।
शब्दभेदानुमानं वा शक्तिभेदस्य वा गतिः ॥ २.३७२ ॥
क्व चिद्विषयभेदेन कृत्रिमा व्यवतिष्ठते ।
संख्यायामेकविषयं व्यवस्थानं द्वयोरपि ॥ २.३७३ ॥
विषयं कृत्रिमस्यापि लौकिकः क्व चिदुच्चरन् ।
व्याप्नोति दूरात्संबुद्धौ तथा हि ग्रहणं द्वयोः ॥ २.३७४ ॥
सङ्घैकशेषद्वन्द्वेषु के चित्सामर्थ्यलक्षणम् ।
प्रत्याश्रयमवस्थानं क्रियाणां प्रतिजानते ॥ २.३७५ ॥
भोजनं फलरूपाभ्यामेकैकस्मिन् समाप्यते ।
अन्यथा हि व्यवस्थाने न तदर्थः प्रकल्प्यते ॥ २.३७६ ॥
अन्नादानादि रूपां च सर्वे तृप्तिफलां भुजिम् ।
प्रत्येकं प्रतिपद्यन्ते न तु नाट्यक्रियामिव ॥ २.३७७ ॥
पाद्यवत्सा विभागेन सामर्थ्यादवतिष्ठते ।
भुजिः करोति भुज्यर्थं न तन्त्रेण प्रदीपवत् ॥ २.३७८ ॥
दृश्यादिस्तु क्रियैकापि तथाभूतेषु कर्मसु ।
आवृत्तिमन्तरेणापि समुदायाश्रया भवेत् ॥ २.३७९ ॥
भिन्नव्यापाररूपाणां व्यवहारादिदर्शने ।
कर्तॄणां दर्शनं भिन्नं संभूयार्थस्य साधकम् ॥ २.३८० ॥
लक्ष्यस्य लोकसिद्धत्वाच्छास्त्रे लिङ्गस्य दर्शनात् ।
अर्थिष्वादैक्षु भेदेन वृद्धिसंज्ञा समाप्यते ॥ २.३८१ ॥
शतादानप्रधानत्वाद्दण्डने शतकर्मके ।
अर्थिनां गुणभेदेऽपि संख्येयोऽर्थो न भिद्यते ॥ २.३८२ ॥
सङ्घस्यैव विधेयत्वात्कार्यवत्प्रतिपादने ।
तत्र तन्त्रेण संबन्धः समासाभ्यस्तसंज्ञयोः ॥ २.३८३ ॥
लक्षणार्था श्रुतिर्येषां कां चिदेव क्रियां प्रति ।
तैर्व्यस्तैश्च समस्तैश्च स धर्म उपलक्ष्यते ॥ २.३८४ ॥
वृषलैर्न प्रवेष्टव्यमित्येतस्मिन् गृहे यथा ।
प्रत्येकं संहतानां च प्रवेशः प्रतिषिध्यते ॥ २.३८५ ॥
संभूय त्वर्थलिप्सादि- प्रतिषेधोपदेशने ।
पृथगप्रतिषिद्धत्वात्प्रवृत्तिर्न विरुध्यते ॥ २.३८६ ॥
व्यवायलक्षणार्थात्वादट्कुप्वाङादिभिस्तथा ।
प्रत्येकं वा समस्तैर्वा णत्वं न प्रतिषिध्यते ॥ २.३८७ ॥
अनुग्रहार्था भोक्तॄणां भुजिरारभ्यते यदा ।
देशकालाद्यभेदेन नानुगृह्णाति तानसौ ॥ २.३८८ ॥
पात्रादिभेदान्नानात्वं यस्यैकस्योपदिश्यते ।
विपर्यये वा भिन्नस्य तस्यैकत्वं प्रकल्प्यते ॥ २.३८९ ॥
संहत्यापि च कुर्वाणा भेदेन प्रतिपादिताः ।
स्वं स्वं भोज्यं विभागेन प्राप्तं संभूय भुञ्जते ॥ २.३९० ॥
वीप्साया विषयाभावाद्विरोधादन्यसंख्यया ।
द्विधा समाप्त्ययोगाच्च शतं सङ्घेऽवतिष्ठते ॥ २.३९१ ॥
भुजिर्द्वन्द्वैकशेषाभ्यां यत्रान्यैः सह शिष्यते ।
तत्रापि लक्षणार्थत्वाद्द्विधा वाक्यं समाप्यते ॥ २.३९२ ॥
वाक्यान्तराणां प्रत्येकं समाप्तिः कैश्चिदिष्यते ।
रूपान्तरेण युक्तानां वाक्यनां तेन संग्रहः ॥ २.३९३ ॥
न वाक्यस्याभिधेयानि भेदवाक्यानि कानि चित् ।
तस्मिंस्तूच्चरिते भेदांस्तथान्यान् प्रतिपद्यते ॥ २.३९४ ॥
येषां समस्तो वाक्यार्थः प्रतिभेदं समाप्यते ।
तेषां तदानीं भिन्नस्य किं पदार्थस्य सत्तया ॥ २.३९५ ॥
अथ तैरेव जनितः सोऽर्थो भिन्नेषु वर्तते ।
पूर्वस्यार्थस्य तेन स्याद्विरोधः सह वा स्थितिः ॥ २.३९६ ॥
सहस्थितौ विरोधित्वं स्याद्विशिष्टाविशिष्टयोः ।
व्यभिचारी तु संबन्धस्त्यागेऽर्थस्य प्रसज्यते ॥ २.३९७ ॥
एकः साधारणो वाच्यः प्रतिशब्दमवस्थितः ।
सङ्घे सङ्घिषु चार्थात्मा सन्निधाननिदेशकः ॥ २.३९८ ॥
यथा साधारणे स्वत्वं त्यागस्य च फलं धने ।
प्रीतिश्चाविकला तद्वत्संबन्धोऽर्थेन तद्वताम् ॥ २.३९९ ॥
वर्णानामर्थवत्तायां तेनैवार्थेन तद्वति ।
समुदाये न चैकत्वं भेदेन व्यवतिष्ठते ॥ २.४०० ॥
एकेनैव प्रदीपेन सर्वे साधारणं धनम् ।
पश्यन्ति तद्वदेकेन सुपा संख्याभिधीयते ॥ २.४०१ ॥
नार्थवत्ता पदे वर्णे वाक्ये चैवं विशिष्यते ।
अभ्यासात्प्रक्रमोऽन्यस्तु विरुद्ध इव दृश्यते ॥ २.४०२ ॥
विनियोगादृते शब्दो न स्वार्थस्य प्रकाशकः ।
अर्थाभिधानसंबन्धमुक्तिद्वारं प्रचक्षते ॥ २.४०३ ॥
यथा प्रणिहितं चक्षुर्दर्शनायोपकल्पते ।
तथाभिसंहितः शब्दो भवत्यर्थस्य वाचकः ॥ २.४०४ ॥
क्रियाव्यवेतः संबन्धो दृष्टः करणकर्मभिः ।
अभिधानियमस्तस्मादभिधानाभिधेययोः ॥ २.४०५ ॥
बहुष्वेकाभिधानेषु सर्वेष्वेकार्थकारिषु ।
यत्प्रयोक्ताभिसंधत्ते शब्दस्तत्रावतिष्ठते ॥ २.४०६ ॥
आम्नायशब्दानभ्यासे के चिदाहुरनर्थकान् ।
स्वरूपमात्रवृत्तींश्च परेषां प्रतिपादने ॥ २.४०७ ॥
अभिधानक्रियायोगादर्थस्य प्रतिपादकान् ।
नियोगभेदान्मन्यन्ते तानेवैकत्वदर्शिनः ॥ २.४०८ ॥
तेषामत्यन्तनानात्वं नानात्वव्यवहारिणः ।
अक्षादीनामिव प्राहुरेकजातिसमन्वयात् ॥ २.४०९ ॥
प्रयोगादभिसंधानमन्यदेषु न विद्यते ।
विषये यतशक्तित्वात्स तु तत्र व्यवस्थितः ॥ २.४१० ॥
नानात्वस्यैव संज्ञानमर्थप्रकरणादिभिः ।
न जात्वर्थान्तरे वृत्तिरन्यार्थानां कथं चन ॥ २.४११ ॥
पदरूपं च यद्वाक्यमस्तित्वोपनिबन्धनम् ।
कामं विमर्शस्तत्रायं न वाक्यावयवे पदे ॥ २.४१२ ॥
यथैवानर्थकैर्वर्णैर्विशिष्टोऽर्थोऽभिधीयते ।
पदैरनर्थकैरेवं विशिष्टोऽर्थोऽभिधीयते ॥ २.४१३ ॥
यदन्तराले ज्ञानं तु पदार्थेषूपजायते ।
प्रतिपत्तेरुपायोऽसौ प्रक्रमानवधारणात् ॥ २.४१४ ॥
पूर्वैरर्थैरनुगतो यथार्थात्मा परः परः ।
संसर्ग एव प्रक्रान्तस्तथान्येष्वर्थवस्तुषु ॥ २.४१५ ॥
अङ्गीकृते तु केषां चित्साध्येनार्थेन साधने ।
आराधनियमार्थैव साधनानां पुनः श्रुतिः ॥ २.४१६ ॥
आधारे नियमाभावात्तदाक्षेपो न विद्यते ।
सामर्थ्यात्संभवस्तस्य श्रुतिस्त्वन्यनिवृत्तये ॥ २.४१७ ॥
क्रिया क्रियान्तराद्भिन्ना नियताधारसाधना ।
प्रक्रान्ता प्रतिपत्तॄणां भेदाः संबोधहेतवः ॥ २.४१८ ॥
अविभागं तु शब्देभ्यः क्रमवद्भ्योऽपदक्रमम् ।
प्रकाशते तदन्येषां वाक्यं वाक्यार्थ एव च ॥ २.४१९ ॥
स्वरूपं विद्यते यस्य तस्यात्मा न निरूप्यते ।
नास्ति यस्य स्वरूपं तु तस्यैवात्मा निरूप्यते ॥ २.४२० ॥
अशब्दमपरेऽर्थस्य रूपनिर्धारणं विदुः ।
अर्थावभासरूपा च शब्देभ्यो जायते स्मृतिः ॥ २.४२१ ॥
अन्यथैवाग्निसंबन्धाद्दाहं दग्धोऽभिमन्यते ।
अन्यथा दाहशब्देन दाहार्थः संप्रतीयते ॥ २.४२२ ॥
पृथङ्निविष्टतत्त्वानां पृथगर्थानुपातिनाम् ।
इन्द्रियाणां यथा कार्यमृते देहान्न कल्पते ॥ २.४२३ ॥
तथा पदानां सर्वेषां पृथगर्थनिवेशिनाम् ।
वाक्येभ्यः प्रविभक्तानामर्थवत्ता न विद्यते ॥ २.४२४ ॥
संसर्गरूपं संसृष्टेष्वर्थवस्तुषु गृह्यते ।
नात्रोपाख्यायते तत्त्वमपदार्थस्य दर्शनात् ॥ २.४२५ ॥
दर्शनस्यापि यत्सत्यं न तथा दर्शनं स्थितम् ।
वस्तु संसर्गरूपेण तदरूपं निरूप्यते ॥ २.४२६ ॥
अस्तित्वेनानुषक्तो वा निवृत्त्यात्मनि वा स्थितः ।
अर्थोऽभिधीयते यस्मादतो वाक्यं प्रयुज्यते ॥ २.४२७ ॥
क्रियानुषङ्गेण विना न पदार्थः प्रतीयते ।
सत्यो वा विपरीतो वा व्यवहारे न सोऽस्त्यतः ॥ २.४२८ ॥
सदित्येतत्तु यद्वाक्यं तदभूदस्ति नेति वा ।
क्रियाभिधानसंबन्धमन्तरेण न गम्यते ॥ २.४२९ ॥
आख्यातपदवाच्येऽर्थे साधनोपनिबन्धने ।
विना सत्त्वाभिधानेन नाकाङ्क्षा विनिवर्तते ॥ २.४३० ॥
प्राधान्यात्तु क्रिया पूर्वमर्थस्य प्रविभज्यते ।
साध्यप्रयुक्तान्यङ्गानि फलं तस्य प्रयोजकम् ॥ २.४३१ ॥
प्रयोक्तैवाभिसंधत्ते साध्यसाधनरूपताम् ।
अर्थस्य चाभिसंबन्ध- कल्पनां प्रसमीहते ॥ २.४३२ ॥
पचिक्रियां करोतीति कर्मत्वेनाभिधीयते ।
पक्तिः करणरूपं तु साध्यत्वेन प्रतीयते ॥ २.४३३ ॥
योऽंशो येनोपकारेण प्रयोक्तॄणां विवक्षितः ।
अर्थस्य सर्वशक्तित्वात्स तथैव व्यवस्थितः ॥ २.४३४ ॥
आराद्वृत्तिषु संबन्धः कदा चिदभिधीयते ।
आश्लिष्टो योऽनुपश्लिष्टः स कदा चित्प्रतीयते ॥ २.४३५ ॥
संसृष्टानां विभक्तत्वं संसर्गश्च विवेकिनाम् ।
नानात्मकानामेकत्वं नानात्वं च विपर्यये ॥ २.४३६ ॥
सर्वात्मकत्वादर्थस्य नैरात्म्याद्वा व्यवस्थितम् ।
अत्यन्तयतशक्तित्वाच्छब्द एव निबन्धनम् ॥ २.४३७ ॥
वस्तूपलक्षणः शब्दो नोपकारस्य वाचकः ।
न स्वशक्तिः पदार्थानां संस्प्रष्टुं तेन शक्यते ॥ २.४३८ ॥
संबन्धिधर्मा संयोगः स्वशब्देनाभिधीयते ।
संबन्धः समवायस्तु संबन्धित्वेन गम्यते ॥ २.४३९ ॥
लक्षणाद्व्यवतिष्ठन्ते पदार्था न तु वस्तुतः ।
उपकारात्स एवार्थः कथं चिदनुगम्यते ॥ २.४४० ॥
वाक्यार्थो योऽभिसंबन्धो न तस्यात्मा क्व चित्स्थितः ।
व्यवहारे पदार्थानां तमात्मानं प्रचक्षते ॥ २.४४१ ॥
पदार्थे समुदाये वा समाप्तो नैव वा क्व चित् ।
पदार्थरूपभेदेन तस्यात्मा प्रविभज्यते ॥ २.४४२ ॥
अन्वाख्यानाय यो भेदः प्रतिपत्तिनिबन्धनम् ।
साकाङ्क्षावयवं भेदे तेनान्यदुपवर्ण्यते ॥ २.४४३ ॥
अनेकशक्तेरेकस्य प्रविभागोऽनुगम्यते ।
एकार्थत्वं हि वाक्यस्य मात्रयापि प्रतीयते ॥ २.४४४ ॥
संप्रत्ययार्थाद्बाह्योऽर्थः सन्नसन् वा विभज्यते ।
बाह्यीकृत्य विभागस्तु शक्त्यपोद्धारलक्षणः ॥ २.४४५ ॥
प्रत्ययार्थात्मनियताः शक्तयो न व्यवस्थिताः ।
अन्यत्र च ततो रूपं न तासामुपलभ्यते ॥ २.४४६ ॥
बहुश्वपि तिङन्तेषु साकाङ्क्षेष्वेकवाक्यता ।
तिङा तिङ्भ्यो निघातस्य पर्युदासस्तथार्थवान् ॥ २.४४७ ॥
एकतिङ्यस्य वाक्यं तु शास्त्रे नियतलक्षणम् ।
तस्यातिङ्ग्रहणेनार्थो वाक्यभेदान्न विद्यते ॥ २.४४८ ॥
तिङन्तान्तरयुक्तेषु युक्तयुक्तेषु वा पुनः ।
मृगः पश्यत यातीति भेदाभेदौ न तिष्ठतः ॥ २.४४९ ॥
इतिकर्तव्यतार्थस्य सामर्थ्याद्यत्र काङ्क्ष्यते ।
अशब्दलक्षणाकाङ्क्षं समाप्तार्थं तदुच्यते ॥ २.४५० ॥
तत्त्वान्वाख्यानमात्रे तु यावानर्थोऽनुषज्यते ।
विनापि तत्प्रयोगेण श्रुतेर्वाक्यं समाप्यते ॥ २.४५१ ॥
चिङ्क्रम्यमाणोऽधीष्वात्र जपंश्चङ्क्रमणं कुरु ।
तादर्थ्यस्याविशेषेऽपि शब्दाद्भेदः प्रतीयते ॥ २.४५२ ॥
फलवन्तः क्रियाभेदाः क्रियान्तरनिबन्धनाः ।
असंख्याताः क्रमोद्देशैरेकाख्यातनिदर्शिताः ॥ २.४५३ ॥
निवृतभेदा सर्वैव क्रियाख्यातेऽभिधीयते ।
श्रुतेरशक्या भेदानां प्रविभागप्रकल्पना ॥ २.४५४ ॥
अश्वमेधेन यक्ष्यन्ते राजानः सत्त्रमासते ।
ब्राह्मणा इति नाख्यात- रूपाद्भेदः प्रतीयते ॥ २.४५५ ॥
सकृच्छ्रुता सप्तदशस्वनावृत्तापि या क्रिया ।
प्रजापत्येषु सामर्थ्यात्सा भेदं प्रतिपद्यते ॥ २.४५६ ॥
देवदत्तादिषु भुजिः प्रत्येकमवतिष्ठते ।
प्रतिस्वतन्त्रं वाक्यं वा भेदेन प्रतिपद्यते ॥ २.४५७ ॥
उच्चारणे तु वाक्यानामन्यद्रूपं न गृह्यते ।
प्रतिपत्तौ तु भिन्नानामन्यद्रूपं प्रतीयते ॥ २.४५८ ॥
एकं ग्रहणवाक्यं च सामान्येनाभिधीयते ।
कर्तरीति यथा तच्च पश्वादिषु विभज्यते ॥ २.४५९ ॥
यदि आकाङ्क्षा निवर्तेत तद्भूतस्य सकृच्छ्रुतौ ।
नैवान्येनाभिसंबन्धं तदुपेयात्कथं चन ॥ २.४६० ॥
एकरूपमनेकार्थं तस्मादुपनिबन्धनम् ।
योनिर्विभागवाक्यानां तेभ्योऽनन्यदिव स्थितम् ॥ २.४६१ ॥
क्व चित्क्रिया व्यक्तिभागैरुपकारे प्रवर्तते ।
सामान्यभाग एवास्याः क्व चिदर्थस्य साधकः ॥ २.४६२ ॥
कालभिन्नाश्च ये भेदा ये चाप्युष्ट्रासिकादिषु ।
प्रक्रमे जातिभागस्य शब्दात्मा तैर्न भिद्यते ॥ २.४६३ ॥
एकसंख्येषु भेदेषु भिन्ना जात्यादिभिः क्रियाः ।
भेदेन विनियुज्यन्ते तच्छब्दस्य सकृच्छ्रुतौ ॥ २.४६४ ॥
अक्षादेषु यथा भिन्ना भक्षिभञ्जिदिविक्रियाः ।
प्रयोगकालाभेदेऽपि प्रतिभेदं पृथक्स्थिताः ॥ २.४६५ ॥
अक्षिणां तन्त्रिणां तन्त्रमुपायस्तुल्यरूपता ।
एषां क्रमो विभक्तानां तन्निबद्धा सकृच्छ्रुतिः ॥ २.४६६ ॥
द्वावप्युपायौ शब्दानां प्रयोगे समवस्थितौ ।
क्रमो वा यौगपद्यं वा यौ लोको नातिवर्तते ॥ २.४६७ ॥
क्रमे विभज्यते रूपं यौगपद्ये न भिद्यते ।
क्रिया तु यौगपद्येऽपि क्रमरूपानुपातिनी ॥ २.४६८ ॥
भेदसंसर्गशक्ती द्वे शब्दाद्भिन्ने इव स्थिते ।
यौगपद्येऽप्यनेकेन प्रयोगे भिद्यते श्रुतिः ॥ २.४६९ ॥
अभिन्नो रूपभेदेन य एकोऽर्थो विवक्षितः ।
तस्यावयवधर्मेण समुदायोऽनुगम्यते ॥ २.४७० ॥
भेदनिर्वचने त्वस्य प्रत्येदं वा समाप्यते ।
श्रुतिर्वचनभिन्ना वा वाक्यभेदेऽवतिष्ठते ॥ २.४७१ ॥
तत्रैकवचनान्तो वा सोऽक्षशब्दः प्रयुज्यते ।
प्रत्येकं वा बहुत्वेन प्रविभागो यथाश्रुति ॥ २.४७२ ॥
द्विष्ठानि यानि वाक्यानि तेष्वप्येकत्वदर्शिनाम् ।
अनेकशक्तेरेकस्य स्वशक्तिः प्रविभज्यते ॥ २.४७३ ॥
अत्यन्तभिन्नयोर्वा स्यात्प्रयोगे तन्त्रलक्षणः ।
उपायस्तत्र संसर्गः प्रतिपत्तृषु भिद्यते ॥ २.४७४ ॥
भेदेनाधिगतौ पूर्वं शब्दौ तुल्यश्रुती पुनः ।
तन्त्रेण प्रतिपत्तारः प्रयोक्त्रा प्रतिपादिताः ॥ २.४७५ ॥
एकस्यापि विवक्षायामनुनिष्पद्यते परः ।
विनाभिसंधिना शब्दः शक्तिरूपः प्रकाशते ॥ २.४७६ ॥
अनेका शक्तिरेकस्य युगपच्छ्रूयते क्व चित् ।
अग्निः प्रकाशदाहाभ्यामेकत्रापि नियुज्यते ॥ २.४७७ ॥
आवृत्तिशक्तिभिन्नार्थे वाक्ये सकृदपि श्रुते ।
लिङ्गाद्वा तन्त्रधर्माद्वा विभागो व्यवतिष्ठते ॥ २.४७८ ॥
संप्रसारणसंज्ञायां लिङ्गाभ्यां वर्णवाक्ययोः ।
प्रविभागस्तथा सूत्र एकस्मिन्नेव जायते ॥ २.४७९ ॥
तथा द्विर्वचनेऽचीति तन्त्रोपायादलक्षणः ।
एकशेषेण निर्देशो भाष्य एव प्रदर्शितः ॥ २.४८० ॥
प्रायेण संक्षेपरुचीनल्पविद्यापरिग्रहान् ।
संप्राप्य वैयाकरणान् संग्रहेऽस्तमुपागते ॥ २.४८१ ॥
कृतेऽथ पातञ्जलिना गुरुणा तीर्थदर्शिना ।
सर्वेसं न्यायबीजानां महाभाष्ये निबन्धने ॥ २.४८२ ॥
अलब्धगाधे गाम्भीर्यादुत्तान इव सौष्ठवात् ।
तस्मिन्नकृतबुद्धीनां नैवावास्थित निश्चयः ॥ २.४८३ ॥
वैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः ।
आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ॥ २.४८४ ॥
यः पातञ्जलिशिष्येभ्यो भ्रष्टो व्याकरणागमः ।
कालेन दाक्षिणात्येषु ग्रन्थमात्रो व्यवस्थितः ॥ २.४८५ ॥
पर्वतादागमं लब्ध्वा भाष्यबीजानुसारिभिः ।
स नीतो बहुशाखत्वं चान्द्राचार्यादिभिः पुनः ॥ २.४८६ ॥
न्यायप्रस्थानमार्गांस्तानभ्यस्य स्वं च दर्शनम् ।
प्रणीतो गुरुणास्माकमयमागमसंग्रहः ॥ २.४८७ ॥
वर्त्मनामत्र केषां चिद्वस्तुमात्रमुदाहृतम् ।
काण्डे तृतीये न्यक्षेन भविष्यति विचारणा ॥ २.४८८ ॥
प्रज्ञा विवेकं लभते भिन्नैरागमदर्शनैः ।
कियद्वा शक्यमुन्नेतुं स्वतर्कमनुधावता ॥ २.४८९ ॥
तत्तदुत्प्रेक्षमाणानां पुराणैरागमैर्विना ।
अनुपासितवृद्धानां विद्या नातिप्रसीदति ॥ २.४९० ॥
___________________________________
३,१: जातिसमुद्देश
द्विधा कैश्चित्पदं भिन्नं चतुर्धा पञ्चधापि वा ।
अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ ३,१.१ ॥
पदार्थानामपोद्धारे जातिर्वा द्रव्यमेव वा ।
पदार्थौ सर्वशब्दानां नित्यावेवोपवर्णितौ ॥ ३,१.२ ॥
केषां चित्साहचर्येण जातिः शक्त्युपलक्षणम् ।
खदिरादिष्वशक्तेषु शक्तः प्रतिनिधीयते ॥ ३,१.३ ॥
अस्वातन्त्र्यफलो बन्धिः प्रमाणादीव शिष्यते ।
अतो जात्यभिधानेऽपि शक्तिहीनं न गृह्यते ॥ ३,१.४ ॥
संश्लेषमात्रं बध्नातिर्यदि स्यात्तु विवक्षितः ।
शक्त्याश्रये ततो लिङ्गं प्रमाणाद्यनुशासनम् ॥ ३,१.५ ॥
स्वा जातिः प्रथमं शब्दैः सर्वैरेवाभिधीयते ।
ततोऽर्थजातिरूपेषु तदध्यारोपकल्पना ॥ ३,१.६ ॥
यथा रक्ते गुणे तत्त्वं कषाये व्यपदिश्यते ।
संयोगिसन्निकर्षाच्च वस्त्रादिष्वपि गृह्यते ॥ ३,१.७ ॥
तथा शब्दार्थसंबन्धाच्छब्दे जातिरवस्थिता ।
व्यपदेशेऽर्थजातीनां जातिकार्याय कल्पते ॥ ३,१.८ ॥
जातिशब्दैकशेषे सा जातीनां जातिरिष्यते ।
शब्दजातय इत्यत्र तज्जातिः शब्दजातिषु ॥ ३,१.९ ॥
या शब्दजातिः शब्देषु शब्देभ्यो भिन्नलक्षणा ।
जातिः सा शब्दजातित्वमव्यतिक्रम्य वर्तते ॥ ३,१.१० ॥
अर्थजात्यभिधानेऽपि सर्वे जात्यभिधायिनः ।
व्यापारलक्षणा यस्मात्पदार्थाः समवस्थिताः ॥ ३,१.११ ॥
जातौ पदार्थे जातिर्वा विशेषो वापि जातिवत् ।
शब्दैरपेक्ष्यते यस्मादतस्ते जातिवाचिनः ॥ ३,१.१२ ॥
द्रव्यधर्मा पदार्थे तु द्रव्ये सर्वोऽर्थ उच्यते ।
द्रव्यधर्माश्रयाद्द्रव्यमतः सर्वोऽर्थ इष्यते ॥ ३,१.१३ ॥
अनुप्रवृत्तिधर्मो वा जातिः स्यात्सर्वजातिषु ।
व्यावृत्तिधर्मसामान्यं विशेषे जातिरिष्यते ॥ ३,१.१४ ॥
संयोगिधर्मभेदेन देशे च परिकल्पिते ।
तेषु देशेषु सामान्यमाकाशस्यापि विद्यते ॥ ३,१.१५ ॥
अदेशानां घटादीनां देशाः संबन्धिनो यथा ।
आकाशस्याप्यदेशस्य देशाः संबन्धिनस्तथा ॥ ३,१.१६ ॥
भिन्नवस्त्वाश्रया बुद्धिः संयोगिष्वनुवर्तते ।
समवायिषु भेदस्य ग्रहणं विनिवर्तते ॥ ३,१.१७ ॥
अतः संयोगिदेशानां गौणत्वं परिकल्प्यते ।
अविवेकात्प्रदेशेभ्यो मुख्यत्वं समवायिनाम् ॥ ३,१.१८ ॥
अनुप्रवृत्तिरूपा या प्रख्या तामाकृतिं विदुः ।
के चिद्व्यावृत्तिरूपां तु द्रव्यत्वेन प्रचक्षते ॥ ३,१.१९ ॥
भिन्ना इति परोपाधिरभिन्ना इति वा पुनः ।
भावात्मसु प्रपञ्चोऽयं संसृष्टेष्वेव जायते ॥ ३,१.२० ॥
नैकत्वं नापि नानात्वं न सत्त्वं न च नास्तिता ।
आत्मतत्त्वेषु भावानामसंसृष्टेषु विद्यते ॥ ३,१.२१ ॥
सर्वशक्त्यात्मभूतत्वमेकस्यैवेति निर्णये ।
भावानामात्मभेदस्य कल्पना स्यादनर्थिका ॥ ३,१.२२ ॥
तस्माद्द्रव्यादयः सर्वाः शक्तयो भिन्नलक्षणाः ।
संसृष्टाः पुरुषार्थस्य साधिका न तु केवलाः ॥ ३,१.२३ ॥
यथैव चेन्द्रियादीनामात्मभूता समग्रता ।
तथा संबन्धिसंबन्ध- संसर्गेऽपि प्रतीयते ॥ ३,१.२४ ॥
न तदुत्पद्यते किं चिद्यस्य जातिर्न विद्यते ।
आत्माभिव्यक्तये जातिः कारणानां प्रयोजिका ॥ ३,१.२५ ॥
कारणेषु पदं कृत्वा नित्यानित्येषु जातयः ।
क्व चित्कार्येष्वभिव्यक्तिमुपयान्ति पुनः पुनः ॥ ३,१.२६ ॥
निर्वर्त्त्यमानं यत्कर्म जातिस्तत्रापि साधनम् ।
स्वाश्रयस्याभिनिष्पत्त्यै सा क्रियाणां प्रयोजिका ॥ ३,१.२७ ॥
विधौ वा प्रतिषेधे वा ब्राह्मणत्वादि साधनम् ।
व्यक्त्याश्रितास्रिता जातेः संख्याजातिर्विशेषिका ॥ ३,१.२८ ॥
यथा जलादिभिर्व्यक्तं मुखमेवाभिधीयते ।
तथा द्रव्यैरभिव्यक्ता जातिरेवाभिधीयते ॥ ३,१.२९ ॥
यथेन्द्रियगतो भेद इन्द्रियग्रहणादृते ।
इन्द्रियार्थेष्वदृश्योऽपि ज्ञानभेदाय कल्पते ॥ ३,१.३० ॥
तथात्मरूपग्रहणात्केषां चिद्व्यक्तयो विना ।
सामान्यज्ञानभेदानामुपयान्ति निमित्तताम् ॥ ३,१.३१ ॥
सत्यासत्यौ तु यौ भागौ प्रतिभावं व्यवस्थितौ ।
सत्यं यत्तत्र सा जातिरसत्या व्यक्तयः स्मृताः ॥ ३,१.३२ ॥
संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु ।
जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ ३,१.३३ ॥
तां प्रातिपदिकार्थं च धात्वर्थं च प्रचक्षते ।
सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ ३,१.३४ ॥
प्राप्तक्रमा विशेषेषु क्रिया सैवाभिधीयते ।
क्रमरूपस्य संहारे तत्सत्त्वमिति कथ्यते ॥ ३,१.३५ ॥
सैव भावविकारेषु षडवस्थाः प्रपद्यते ।
क्रमेण शक्तिभिः स्वाभिरेवं प्रत्यवभासते ॥ ३,१.३६ ॥
आत्मभूतः क्रमोऽप्यस्या यत्रेदं कालदर्शनम् ।
पौर्वापर्यादिरूपेण प्रविभक्तमिव स्थितम् ॥ ३,१.३७ ॥
तिरोभावाभ्युपगमे भावानां सैव नास्तिता ।
लब्धक्रमे तिरोभावे नश्यतीति प्रतीयते ॥ ३,१.३८ ॥
पूर्वस्मात्प्रच्युता धर्मादप्राप्ता चोत्तरं पदम् ।
तदन्तराले भेदानामाश्रयाज्जन्म कथ्यते ॥ ३,१.३९ ॥
आश्रयः स्वात्ममात्रा वा भावा वा व्यतिरेकिनः ।
स्वशक्तयो वा सत्ताया भेददर्शनहेतवः ॥ ३,१.४० ॥
पृथिव्यादिष्वभिव्यक्तौ न संस्थानमपेक्षते ।
अनुच्छिन्नाश्रयाज्जातिरनित्येऽप्याश्रये स्थिता ॥ ३,१.४१ ॥
अनुच्छेद्याश्रयामेके सर्वां जातिं प्रचक्षते ।
न यौगपद्यं प्रलये सर्वस्येति व्यवस्थिताः ॥ ३,१.४२ ॥
प्रकृतौ प्रविलीनेषु भेदेष्वेकत्वदर्शिनाम् ।
द्रव्यसत्त्वं प्रपद्यन्ते स्वाश्रया एव जातयः ॥ ३,१.४३ ॥
ब्राह्मणत्वादयो भावाः सर्वप्राणिष्ववस्थिताः ।
अभिव्यक्ताः स्वकार्याणां साधका इत्यपि स्मृतिः ॥ ३,१.४४ ॥
चित्रादिष्वप्यभिव्यक्तिर्जातीनां कैश्चिदिष्यते ।
प्राण्याश्रितास्तु ताः प्राप्तौ निमित्तं पुण्यपापयोः ॥ ३,१.४५ ॥
ज्ञानं त्वस्मद्विशिष्टानां तासु सर्वेन्द्रियं विदुः ।
आभ्यासान्मणिरूप्यादि- विशेषेष्विव तद्विदाम् ॥ ३,१.४६ ॥
जात्युत्पलादिगन्धादौ भेदतत्त्वं यदाश्रितम् ।
तद्भावप्रत्ययैर्लोकेऽनित्यत्वान्नाभिधीयते ॥ ३,१.४७ ॥
अस्वशब्दाभिधानास्तु नरसिंहादिजातयः ।
सरूपावयवेवान्या तासु श्रुतिरवस्थिता ॥ ३,१.४८ ॥
जात्यवस्थापरिच्छेदे संख्या संख्यात्वमेव वा ।
विप्रकर्षेऽपि संसर्गादुपकाराय कल्पते ॥ ३,१.४९ ॥
लक्षणा शब्दसंस्कारे व्यापारः कार्यसिद्धये ।
संख्याकर्मादिशक्तीनां श्रुतिसाम्येऽपि दृश्यते ॥ ३,१.५० ॥
न विना संख्यया कश्चित्सत्त्वभूतोऽर्थ उच्यते ।
अतः सर्वस्य निर्देशे संख्या स्यादविवक्षिता ॥ ३,१.५१ ॥
एकत्वं वा बहुत्वं वा केषां चिदविवक्षितम् ।
तद्धि जात्यभिधानाय द्वित्वं तु स्याद्विवक्षितम् ॥ ३,१.५२ ॥
यद्येतौ व्याधितौ स्यातां देयं स्यादिदमौषधम् ।
इत्येवं लक्षणेऽर्थस्य द्वित्वं स्यादविवक्षितम् ॥ ३,१.५३ ॥
एकादिशब्दवाच्यायाः कर्मस्वङ्गत्वमिष्यते ।
संख्यायाः खनति द्वाभ्यामिति रूपाद्धि साश्रिता ॥ ३,१.५४ ॥
यजेत पशुनेत्यत्र संस्कारस्यापि संभवे ।
यथा जातिस्तथैकत्वं साधनत्वेन गम्यते ॥ ३,१.५५ ॥
लिङ्गात्तु स्यात्द्वितीयादेस्तदेकत्वं विवक्षितम् ।
एकार्थविषयत्वे च तल्लिङ्गं जातिसंख्ययोः ॥ ३,१.५६ ॥
अन्यत्राविहितस्यैव स विधिः प्रथमं पशोः ।
क्रियायामङ्गभावश्च तत्त्वेतस्माद्विवक्षितम् ॥ ३,१.५७ ॥
ग्रहास्त्वन्यत्र विहिता भिन्नसंख्याः पृथक्पृथक् ।
प्राजापत्या नवेत्येवम्- आदिभेदसमन्विताः ॥ ३,१.५८ ॥
अङ्गत्वेन प्रतीतानां संमार्गे त्वङ्गिनां पुनः ।
निर्देशं प्रति या संख्या सा कथं स्याद्विवक्षिता ॥ ३,१.५९ ॥
नान्यत्र विधिरस्तीति संस्कारो नापि चाङ्गिता ।
हेतुः संख्याविवक्षाया यत्नात्सा हि विवक्षिता ॥ ३,१.६० ॥
संमार्जने विशेषश्च न ग्रहे क्व चिदाश्रितः ।
विहितास्ते च संस्कार्याः सर्वेषामाश्रयस्ततः ॥ ३,१.६१ ॥
प्रत्याश्रयं समाप्तायां जातावेकेन चेत्क्रिया ।
पशुना न प्रकल्पेत तत्स्यादेव प्रकल्पनम् ॥ ३,१.६२ ॥
एकेन च प्रसिद्धायां क्रियायां यदि संभवात् ।
पश्वन्तरमुपादेयमुपादानमनर्थकम् ॥ ३,१.६३ ॥
यथैवाहितगर्भायां गर्भाधानामनर्थकम् ।
तथैकेन प्रसिद्धायां पश्वन्तरमनर्थकम् ॥ ३,१.६४ ॥
तावतार्थस्य सिद्धत्वादेकत्वस्याव्यतिक्रमम् ।
के चिदिच्छन्ति न त्वत्र संख्याङ्गत्वेन गृह्यते ॥ ३,१.६५ ॥
द्वितीयादि तु यल्लिङ्गमुक्तन्यायानुवादि तत् ।
न संख्या साधनत्वेन जातिवत्तेन गम्यते ॥ ३,१.६६ ॥
अन्वयव्यतिरेकाभ्यां संख्याभ्युपगमे सति ।
युक्तं यत्साधनत्वं स्यान्न त्वन्यार्थोपलक्षणं ॥ ३,१.६७ ॥
साधनत्वे पदार्थस्य सामर्थ्यं न प्रहीयते ।
संख्याव्यापारधर्मोऽतस्तेन लिङ्गेन गम्यते ॥ ३,१.६८ ॥
अपूर्वस्य विधेयत्वात्प्राधान्यमवसीयते ।
विहितस्य परार्थत्वाच्छेशभावः प्रतीयते ॥ ३,१.६९ ॥
संमार्गस्य विधेयत्वातन्यत्र विहिते ग्रहे ।
विधिवाक्ये श्रुता संख्या लक्षणायां न बाध्यते ॥ ३,१.७० ॥
विधिवाक्यान्तरे संख्या पशोर्नास्ति विरोधिनी ।
तस्मात्सगुण एवासौ सहैकत्वेन गम्यते ॥ ३,१.७१ ॥
निर्ज्ञातद्रव्यसंबन्धे यः कर्मण्युपदिश्यते ।
गुनस्तेनार्थिता तस्य द्रव्येणेव प्रतीयते ॥ ३,१.७२ ॥
कश्चिदेव गुणो द्रव्ये यथा सामर्थ्यलक्षणः ।
आधारोऽपि गुणस्यैवं प्राप्तः सामर्थ्यलक्षणः ॥ ३,१.७३ ॥
तयोस्तु पृथगर्थित्वे संबन्धो यः प्रतीयते ।
न तस्मिन्नुपघातोऽस्ति कल्प्यमन्यन्न चाश्रुतम् ॥ ३,१.७४ ॥
क्रियया योऽभिसंबन्धः स श्रुतिप्रापितस्तयोः ।
आश्रयाश्रयिणोर्वाक्यान्नियमस्त्ववतिष्ठते ॥ ३,१.७५ ॥
तत्र द्रव्यगुणाभावे प्रत्येकं स्याद्विकल्पनम् ।
श्रुतिप्राप्तो हि संबन्धो बलवान् वाक्यलक्षणात् ॥ ३,१.७६ ॥
यदा तु जातिः शक्तिर्वा क्रियां प्रत्युपदिश्यते ।
सामर्थ्यात्संनिधीयेते तत्र द्रव्यगुणौ तदा ॥ ३,१.७७ ॥
जातीनां च गुणानां च तुल्येऽङ्गत्वे क्रियां प्रति ।
गुणाः प्रतिनिधीयन्ते छागादीनां न जातयः ॥ ३,१.७८ ॥
व्यक्तिशक्तेः समासन्ना जातयो न तथा गुणाः ।
साक्षाद्द्रव्यं क्रियायोगि गुणस्तस्माद्विकल्पते ॥ ३,१.७९ ॥
साम्येनान्यतराभावे विकल्पः कैश्चिदिष्यते ।
अतद्गुणोऽतश्छागः स्यान्मेषो वा तद्गुणो भवेत् ॥ ३,१.८० ॥
जातेराश्रितसंख्यायाः प्रवृत्तिरुपलभ्यते ।
संख्याविशेषमुत्सृज्य क्वचित्सैव प्रवर्तते ॥ ३,१.८१ ॥
पराङ्गभूतं सामान्यं युज्यते द्रव्यसंख्यया ।
स्वार्थं प्रवर्तमानं तु न संख्यामवलम्बते ॥ ३,१.८२ ॥
यजेत पशुनेत्यत्र यज्यर्थायां पशुश्रुतौ ।
कृतार्थैकेन पशुना प्रधानं भवति क्रिया ॥ ३,१.८३ ॥
यावतां संभवो यस्य स कुर्यात्तावतां यदि ।
आलम्भनं गुणैस्तेन प्रधानं स्यात्प्रयोजितम् ॥ ३,१.८४ ॥
संमृज्यमानतन्त्रे तु ग्रहे यत्र क्रियाश्रुतिः ।
संख्याविशेषग्रहणं नैव तत्राद्रियामहे ॥ ३,१.८५ ॥
शिष्यमाणपरे वाक्ये यदेकग्रहणं कृतम् ।
शेषे विशिष्टसंख्येऽपि व्यक्तं तल्लिङ्गदर्शनम् ॥ ३,१.८६ ॥
समासप्रत्ययविधौ यथा निपतिता श्रुतिः ।
गुणानां परतन्त्राणां न्यायेनैवोपपद्यते ॥ ३,१.८७ ॥
गुणेऽपि नाङ्गीक्रियते प्रधानान्तरसिद्धये ।
संख्या कर्ता तथा कर्मण्यविशिष्टः प्रतीयते ॥ ३,१.८८ ॥
यस्यान्यस्य प्रसक्तस्य नियमार्था पुनः श्रुतिः ।
निवृत्तौ चरितार्थत्वात्संख्या तत्राविवक्षिता ॥ ३,१.८९ ॥
सरूपसमुदायात्तु विभक्तिर्या विधीयते ।
एकस्तत्रार्थवान् सिद्धः समुदायस्य वाचकः ॥ ३,१.९० ॥
प्रत्ययस्य प्रधानस्य समासस्यापि वा विधौ ।
सिद्धः संख्याविवक्षायां सर्वथानुग्रहो गुणे ॥ ३,१.९१ ॥
अभेदरूपं सादृश्यमात्मभूताश्च शक्तयः ।
जातिपर्यायवाचित्वमेषामप्युपवर्ण्यते ॥ ३,१.९२ ॥
दण्डोपादित्सया दण्डं यद्यपि प्रतिपद्यते ।
न तस्मादेव सामर्थ्यात्स दण्डीति प्रतीयते ॥ ३,१.९३ ॥
नेच्छानिमित्तादिच्छावानिति ज्ञानं प्रवर्तते ।
तस्मात्सत्यपि सामर्थ्ये बुद्धिरर्थान्तराश्रया ॥ ३,१.९४ ॥
स्वभावो व्यपदेश्यो वा सामर्थ्यं वावतिष्ठते ।
सर्वस्यान्ते यतस्तस्माद्व्यवहारो न कल्पते ॥ ३,१.९५ ॥
यदा भेदान् परित्यज्य बुद्ध्यैक इव गृह्यते ।
व्यक्त्यात्मैव तदा तत्र बुद्धिरेका प्रवर्तते ॥ ३,१.९६ ॥
भेदरूपैरनुस्यूतं यदैकमिव मन्यते ।
समूहावग्रहा बुद्धिर्बहुभ्यो जायते तदा ॥ ३,१.९७ ॥
*यदा सहविवक्षायामेकबुद्धिनिबन्धनः ।
बद्धावयवविच्छेदः समुदायोऽभिधीयते ॥ ३,१.९८ *॥
*प्रतिक्रियं समाप्तत्वादेको भेदसमन्वितः ।
द्वन्द्वे द्वित्वादिभेदेन तदासावुपगम्यते ॥ ३,१.९९ *॥
सकृत्प्रवृत्तावेकत्वमावृत्तौ सदृशात्मताम् ।
भिन्नात्मकानां व्यक्तीनां भेदापोहात्प्रपद्यते ॥ ३,१.१०० ॥
अनुप्रवृत्तेति यथा- भिन्ना बुद्धिः प्रतीयते ।
अर्थो व्यावृत्तरूपोऽपि तथा तत्त्वेन गृह्यते ॥ ३,१.१०१ ॥
सरूपाणां च सर्वेषां न भेदोपनिपातिनः ।
विद्यन्ते वाचकाः शब्दा नापि भेदोऽवधार्यते ॥ ३,१.१०२ ॥
ज्ञानशब्दार्थविषया विशेषा ये व्यवस्थिताः ।
तेषां दुरवधारत्वाज्ज्ञानाद्येकत्वदर्शनम् ॥ ३,१.१०३ ॥
ज्ञानेष्वपि यथार्थेषु तथा सर्वेषु जातयः ।
संसर्गदर्शने सन्ति ताश्चार्थस्य प्रसाधिकाः ॥ ३,१.१०४ ॥
ज्ञेयस्थमेव सामान्यं ज्ञानानामुपकारकम् ।
न जातु ज्ञेयवज्ज्ञानं पररूपेण रूप्यते ॥ ३,१.१०५ ॥
यथा ज्योतिः प्रकाशेन नान्येनाभिप्रकाश्यते ।
ज्ञानाकारस्तथान्येन न ज्ञानेनोपगृह्यते ॥ ३,१.१०६ ॥
*न चात्मसमवेतस्य सामान्यस्यावधारणे ।
ज्ञानशक्तिः समर्था स्याज्ज्ञातस्यान्यस्य वस्तुनः ॥ ३,१.१०७ *॥
*अयौगपद्ये ज्ञानानामस्येत्यग्रहणं न च ।
यथोपलब्धि स्मरणमुपलब्धे च जायते ॥ ३,१.१०८ *॥
घटज्ञानमिति ज्ञानं घटज्ञानविलक्षणम् ।
घट इत्यपि यज्ज्ञानं विषयोपनिपाति तत् ॥ ३,१.१०९ ॥
यतो विषयरूपेण ज्ञानरूपं न गृह्यते ।
अर्थरूपविविक्तं च स्वरूपं नावधार्यते ॥ ३,१.११० ॥
३,२: द्रव्यसमुद्देशः
आत्मा वस्तु स्वभावश्च शरीरं तत्त्वमित्यपि ।
द्रव्यमित्यस्य पर्यायास्तच्च नित्यमिति स्मृतम् ॥ ३,२.१ ॥
सत्यं वस्तु तदाकारैरसत्यैरवधार्यते ।
असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ॥ ३,२.२ ॥
अध्रुवेण निमित्तेन देवदत्तगृहं यथा ।
गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥ ३,२.३ ॥
सुवर्णादि यथा युक्तं स्वैराकारैरपायिभिः ।
रुचकाद्यभिधानानां शुद्धमेवैति वाच्यताम् ॥ ३,२.४ ॥
आकारैश्च व्यवच्छेदात्सार्वार्थ्यमवरुध्यते ।
यथैव चक्षुरादीनां सामर्थ्यं नालिकादिभिः ॥ ३,२.५ ॥
तेष्वाकारेषु यः शब्दस्तथाभूतेषु वर्तते ।
तत्त्वात्मकत्वात्तेनापि नित्यमेवाभिधीयते ॥ ३,२.६ ॥
न तत्त्वातत्त्वयोर्भेद इति वृद्धेभ्य आगमः ।
अतत्त्वमिति मन्यन्ते तत्त्वमेवाविचारितम् ॥ ३,२.७ ॥
विकल्परूपं भजते तत्त्वमेवाविकल्पितम् ।
न चात्र कालभेदोऽस्ति कालभेदश्चगृह्यते ॥ ३,२.८ ॥
यथा विषयधर्माणां ज्ञानेऽत्यन्तमसंभवः ।
तदात्मेव च तत्सिद्धमत्यन्तमतदात्मकम् ॥ ३,२.९ ॥
तथा विकाररूपाणां तत्त्वेऽत्यन्तमसंभवः ।
तदात्मेव च तत्तत्त्वमत्यम्न्तमतदात्मकम् ॥ ३,२.१० ॥
सत्यमाकृतिसंहारे यदन्ते व्यवतिष्ठते ।
तन्नित्यं शब्दवाच्यं तच्छब्दात्तच्च न भिद्यते ॥ ३,२.११ ॥
न तदस्ति न तन्नास्ति न तदेकं न तत्पृथक् ।
न संसृष्टं विभक्तं वा विकृतं न च नान्यथा ॥ ३,२.१२ ॥
तन्नास्ति विद्यते तच्च तदेकं तत्पृथक्पृथक् ।
संसृष्टं च विभक्तं च विकृतं तत्तदन्यथा ॥ ३,२.१३ ॥
तस्य शब्दार्थसंबन्ध- रूपमेकस्य दृश्यते ।
तद्दृश्यं दर्शनं द्रष्टा दर्शने च प्रयोजनम् ॥ ३,२.१४ ॥
विकारापगमे सत्यं सुवर्णं कुण्डले यथा ।
विकारापगमे सत्यां तथाहुः प्रकृतिं पराम् ॥ ३,२.१५ ॥
वाच्या सा सर्वशब्दानां शब्दाश्च न पृथक्ततः ।
अपृथक्त्वे च संबन्धस्तयोर्नानात्मनोरिव ॥ ३,२.१६ ॥
आत्मा परः प्रियो द्वेष्यो वक्ता वाच्यं प्रयोजनम् ।
विरुद्धानि यथैकस्य स्वप्ने रूपाणि चेतसः ॥ ३,२.१७ ॥
अजन्मनि तथा नित्ये पौर्वापर्यविवर्जिते ।
तत्त्वे जन्मादिरूपत्वं विरुद्धमुपलभ्यते ॥ ३,२.१८ ॥
३.३: संबन्धसमुद्देश
ज्ञानं प्रयोक्तुर्बाह्योऽर्थः स्वरूपं च प्रतीयते ।
शब्दैरुच्चरितैस्तेषां संबन्धः समवस्थितः ॥ ३,३.१ ॥
प्रतिपत्तुर्भवत्यर्थे ज्ञाने वा संशयः क्वचित् ।
स्वरूपेषूपलभ्येषु व्यभिचारो न विद्यते ॥ ३,३.२ ॥
अस्यायं वाचको वाच्य इति षष्ठ्या प्रतीयते ।
योगः शब्दार्थयोस्तत्त्वमप्यतो व्यपदिश्यते ॥ ३,३.३ ॥
नाभिधानं स्वधर्मेण संबन्धस्यास्ति वाचकम् ।
अत्यन्तपरतन्त्रत्वाद्रूपं नास्यापदिश्यते ॥ ३,३.४ ॥
उपकारात्स यत्रास्ति धर्मस्तत्रानुगम्यते ।
शक्तीनामपि सा शक्तिर्गुणानामप्यसौ गुणः ॥ ३,३.५ ॥
तद्धर्मणोस्तु ताच्छब्द्यं संयोगसमवाययोः ।
तयोरप्युपकारार्था नियतास्तदुपाधयः ॥ ३,३.६ ॥
का चिदेव हि सावस्था कार्यप्रसवसूचिता ।
कस्य चित्केन चिद्यस्यां संयोग उपजायते ॥ ३,३.७ ॥
निरात्मकानामुत्पत्तौ नियमः क्वचिदेव यः ।
तेनैवाव्यपवर्गश्च प्राप्तभेदे स यत्कृतः ॥ ३,३.८ ॥
आत्मान्तरस्य येनात्मा तदात्मेवावधार्यते ।
यतश्चैकत्वनानात्वं तत्त्वं नाध्यवसीयते ॥ ३,३.९ ॥
तां शक्तिं समवायाख्यां शक्तीनामुपकारिणीम् ।
हेदाभेदावतिक्रान्तामन्यथैव व्यवस्थिताम् ॥ ३,३.१० ॥
धर्मं सर्वपदार्थानामतीतः सर्वलक्षणः ।
अनुगृह्णाति संबन्ध इति पूर्वेभ्य आगमः ॥ ३,३.११ ॥
पदार्थीकृत एवान्यैः सर्वत्राभ्युपगम्यते ।
संबन्धस्तेन शब्दार्थः प्रविभक्तुं न शक्यते ॥ ३,३.१२ ॥
समवायात्स्व आधारः स्वा च जातिः प्रतीयते ।
एकार्थसमवायात्तु गुणाः स्वाधार एव ये ॥ ३,३.१३ ॥
द्रव्यत्वसत्तासंयोगाः स्वान्याधारोपबन्धनाः ।
तत्प्रदेशविभागाश्च गुणा द्वित्वादयश्च ये ॥ ३,३.१४ ॥
के चित्स्वाश्रयसंयुक्ताः के चित्तत्समवायिनः ।
संयुक्तसमवेतेषु समवेतास्तथापरे ॥ ३,३.१५ ॥
स्वाश्रयेण तु संयुक्तैः संयुक्तं विभु गम्यते ।
समवायस्य संबन्धो नापरस्तत्र दृश्यते ॥ ३,३.१६ ॥
संबन्धस्याविशिष्टत्वान्न चात्र नियमो भवेत् ।
तस्माच्छब्दार्थयोर्नैवं संबन्धः परिकल्प्यते ॥ ३,३.१७ ॥
अदृष्टवृत्तिलाभेन यथा संयोग आत्मनः ।
क्व चित्स्वस्वामियोगाख्योऽभेदेऽन्यत्रापि स क्रमः ॥ ३,३.१८ ॥
प्राप्तिं तु समवायाख्यां वाच्यधर्मातिवर्तिनीम् ।
प्रयोक्ता प्रतिपत्ता वा न शब्दैरनुगच्छति ॥ ३,३.१९ ॥
अवाच्यमिति यद्वाच्यं तदवाच्यतया यदा ।
वाच्यमित्यवसीयेत वाच्यमेव तदा भवेत् ॥ ३,३.२० ॥
अथाप्यवाच्यमित्येवं, न तद्वाच्यं प्रतीयते ।
विवक्षितास्य यावस्था सैव नाध्यवसीयते ॥ ३,३.२१ ॥
तथान्यथा सर्वथा च यस्यावाच्यत्वमुच्यते ।
तत्रापि नैव सावस्था तैः शब्दैः प्रतिषिध्यते ॥ ३,३.२२ ॥
न हि संशयरूपेऽर्थे शेषत्वेन व्यवस्थिते ।
अव्युदासे स्वरूपस्य संशयोऽन्यः प्रवर्तते ॥ ३,३.२३ ॥
यदा च निर्णयज्ञाने निर्णयत्वेन निर्णयः ।
प्रक्रम्यते तदा ज्ञानं स्वधर्मे नावतिष्ठते ॥ ३,३.२४ ॥
सर्वं मिथ्या ब्रवीमीति नैतद्वाक्यं विवक्ष्यते ।
तस्य मिथ्याभिधाने हि प्रक्रान्तोऽर्थो न गम्यते ॥ ३,३.२५ ॥
न च वाचकरूपेण प्रवृत्तस्यास्ति वाच्यता ।
प्रतिपाद्यं न तत्तत्र येनान्यत्प्रतिपाद्यते ॥ ३,३.२६ ॥
असाधिका प्रतिज्ञेति नेयमेवाभिधीयते ।
यथा, तथास्य धर्मोऽपि नात्र कश्चित्प्रतीयते ॥ ३,३.२७ ॥
व्यापारस्यापरो यस्मान्न व्यापारोऽस्ति कश्चन ।
विरोधमनवस्थां वा तस्मात्सर्वत्र नाश्रयेत् ॥ ३,३.२८ ॥
इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा ।
अनादिरर्थैः शब्दानां संबन्धो योग्यता तथा ॥ ३,३.२९ ॥
असाधुरनुमानेन वाचकः कैश्चिदिष्यते ।
वाचकत्वाविशेषे वा नियमः पुण्यपापयोः ॥ ३,३.३० ॥
संबन्धशब्दे संबन्धो योग्यताञ्ं प्रति योग्यता ।
समयाद्योग्यतासंविन्मातापुत्रादियोगवत् ॥ ३,३.३१ ॥
शब्दः कारणमर्थस्य स हि तेनोपजन्यते ।
तथा च बुद्धिविषयादर्थाच्छब्दः प्रतीयते ॥ ३,३.३२ ॥
भोजनाद्यपि मन्यन्ते बुद्ध्यर्थे यदसंभवि ।
बुद्ध्यर्थादेव बुद्ध्यर्थे जाते तदपि दृश्यते ॥ ३,३.३३ ॥
अनित्येष्वपि नित्यत्वमभिधेयात्मना स्थितम् ।
अनित्यत्वं स्वशक्तिर्वा सा च नित्यान्न भिद्यते ॥ ३,३.३४ ॥
शब्देनार्थस्य संस्कारो दृष्टादृष्टप्रयोजनः ।
क्रियते सोऽभिसंबन्धमन्तरेण कथं भवेत् ॥ ३,३.३५ ॥
नावश्यमभिधेयेषु संस्कारः स तथाविधः ।
दृस्यते न च संबन्धस्तथाभूतो विवक्षितः ॥ ३,३.३६ ॥
सति प्रत्ययहेतुत्वं संबन्ध उपपद्यते ।
शब्दस्यार्थे यतस्तत्र संबन्धोऽस्तीति गम्यते ॥ ३,३.३७ ॥
नित्येऽनित्येऽपि वाप्यर्थे पुरुषेण कथंचन ।
संबन्धोऽकृतसंबन्धैः शब्दैः कर्तुं न शक्यते ॥ ३,३.३८ ॥
व्यपदेशे पदार्थानामन्या सत्तौपचारिकी ।
सर्वावस्थासु सर्वेषामात्मरूपस्य दर्शिका ॥ ३,३.३९ ॥
स्फटिकादि यथा द्रव्यं भिन्नरूपैरुपाश्रयैः ।
स्वशक्तियोगात्संबन्धं ताद्रूप्येणेव गच्छति ॥ ३,३.४० ॥
तद्वच्छब्दोऽपि सत्तायामस्यां पूर्वं व्यवस्थितः ।
धर्मैरुपैति संबन्धमविरोधिविरोधिभिः ॥ ३,३.४१ ॥
एवं च प्रतिषेध्येषु प्रतिषेधप्रकॢप्तये ।
आश्रितेषूपचारेण प्रतिषेधः प्रवर्तते ॥ ३,३.४२ ॥
आत्मलाभस्य जन्माख्या सता लभ्यं च लभ्यते ।
यदि सज्जायते कस्मादथासज्जायते कथम् ॥ ३,३.४३ ॥
सतो हि गन्तुर्गमनं, सति गम्ये प्रवर्तते ।
गन्तृवच्चेन्न जन्मार्थो, न चेत्तद्वन्न जायते ॥ ३,३.४४ ॥
उपचर्य तु कर्तारमभिधानप्रवृत्तये ।
पुनश्च कर्मभावेन तां क्रियां च तदाश्रयाम् ॥ ३,३.४५ ॥
अथोपचारसत्तैवं विधेयस्तत्र लादयः ।
जन्मना तु विरोधित्वान्मुख्या सत्ता न विद्यते ॥ ३,३.४६ ॥
आत्मानमात्मना बिभ्रदस्तीति व्यपदिश्यते ।
अन्तर्भावाच्च तेनासौ कर्मणा न सकर्मकः ॥ ३,३.४७ ॥
प्राक्च सत्ताभिसंबन्धान्मुख्या सत्ता कथं भवेत् ।
असंश्च नास्तेः कर्ता स्यादुपचारस्तु पूर्ववत् ॥ ३,३.४८ ॥
तस्माद्भिन्नेषु धर्मेषु विरोधिष्वविरोधिनीम् ।
विरोधिख्यापनायैव शब्दैस्तैस्तैरुपाश्रिताम् ॥ ३,३.४९ ॥
अभिन्नकालामर्थेषु भिन्नकालेष्ववस्थिताम् ।
प्रवृत्तिहेतुं सर्वेषां शब्दानामौपचारिकीम् ॥ ३,३.५० ॥
एतां सत्तां पदार्थो हि न कश्चिदतिवर्तते ।
सा च संप्रतिसत्तायाः पृथग्भाश्ये निदर्शिता ॥ ३,३.५१ ॥
प्रदेशस्यैकदेशं वा परतो वा निरूपणम् ।
विपर्ययमभावं वा व्यवहारोऽनुवर्तते ॥ ३,३.५२ ॥
यथेन्द्रियस्य वैगुण्यान्मात्राध्यारोपवानिव ।
जायते प्रत्ययोऽर्थेभ्यस्तथैवोद्देशजा मतिः ॥ ३,३.५३ ॥
अकृत्स्नविषयाभासं शब्दः प्रत्ययमाश्रितः ।
अर्थमाहान्यरूपेण स्वरूपेणानिरूपितम् ॥ ३,३.५४ ॥
रूपणव्यपदेशाभ्यां लौकिके वर्त्मनि स्थितौ ।
ज्ञानं प्रत्यभिलापं च सदृशौ बालपण्डितौ ॥ ३,३.५५ ॥
सर्वार्थरूपता शुद्धिर्ज्ञानस्य निरुपाश्रया ।
ततोऽप्यस्य परां शुद्धिमेके प्राहुररूपिकाम् ॥ ३,३.५६ ॥
उपप्लवो हि ज्ञानस्य बाह्याकारानुपातिता ।
कालुष्यमिव तत्तस्य संसर्गे व्यतिभेदजम् ॥ ३,३.५७ ॥
यथा च ज्ञानमालेखादशुद्धौ व्यवतिष्ठते ।
तथोपाश्रयवानर्थः स्वरूपाद्विप्रकृष्यते ॥ ३,३.५८ ॥
एवमर्थस्य शब्दस्य ज्ञानस्य च विपर्यये ।
भावाभावावभेदेन व्यवहारानुपातिनौ ॥ ३,३.५९ ॥
यथा भावमुपाश्रित्य तदभावोऽनुगम्यते ।
तथाभावमुपाश्रित्य तद्भावोऽप्यनुगम्यते ॥ ३,३.६० ॥
नाभावो जायते भावो नैति भावोऽनुपाख्यताम् ।
एकस्मादात्मनोऽनन्यौ भावाभावौ विकल्पितौ ॥ ३,३.६१ ॥
अभावस्यानुपाख्यत्वात्कारणं न प्रसाधकम् ।
सोपाख्यस्य तु भावस्य कारणं किं करिश्यति ॥ ३,३.६२ ॥
तस्मात्सर्वमभावो वा भावो वा सर्वमिष्यते ।
न त्ववस्थान्तरं किं चिदेकस्मात्सत्यतः स्थितम् ॥ ३,३.६३ ॥
तस्मान्नाभावमिच्छन्ति ये लोके भाववादिनः ।
अभाववादिनो वापि न भावं तत्त्वलक्षणम् ॥ ३,३.६४ ॥
अद्वये चैव सर्वस्मिन् स्वभावादेकलक्षणे ।
परिकल्पेषु मर्यादा विचित्रैवोपलभ्यते ॥ ३,३.६५ ॥
चतस्रो हि यथावस्था निरुपाख्ये प्रकल्पिताः ।
एवं द्वैविध्यमप्येतद्भावाभावव्यपाश्रयम् ॥ ३,३.६६ ॥
अविरोधी विरोधी वा सन्नसन् वापि युक्तितः ।
क्रमवानक्रमो वापि नाभाव उपपद्यते ॥ ३,३.६७ ॥
अविरोधी विरोधी वा सन्नसन् वापि तत्त्वतः ।
क्रमवानक्रमो वापि तेन भावो न विद्यते ॥ ३,३.६८ ॥
अभावे त्रिषु कालेषु न भेदस्यास्ति संभवः ।
तस्मिन्नसति भावेऽपि त्रैकाल्यं नावतिष्ठते ॥ ३,३.६९ ॥
आत्मतत्त्वपरित्यागः परतो नोपपद्यते ।
आत्मतत्त्वं तु परतः स्वतो वा नोपकल्पते ॥ ३,३.७० ॥
तत्त्वे विरोधो नानात्व उपकारो न कश्चन ।
तत्त्वान्यत्वपरित्यागे व्यवहारो निवर्तते ॥ ३,३.७१ ॥
यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् ।
तस्यैवार्थस्य सत्यत्वं श्रितास्त्रय्यन्तवेदिनः ॥ ३,३.७२ ॥
सामान्यं वा विशेषं वा यस्मादाहुर्विशेषवत् ।
शब्दास्तस्मादसत्येषु भेदेष्वेव व्यवस्थिताः ॥ ३,३.७३ ॥
न ह्यभावस्य सद्भावे भावस्यात्मा प्रहीयते ।
न चाभावस्य नास्तित्वे भावस्यात्मा प्रसूयते ॥ ३,३.७४ ॥
न शाबलेयस्यास्तित्वं बाहुलेयस्य बाधकम् ।
न शाबलेयो नास्तीति बाहुलेयः प्रकल्पते ॥ ३,३.७५ ॥
अभावो यदि वस्तु स्यात्तत्रेयं स्यात्विचारणा ।
ततश्च तदभावेऽपि स्याद्विचार्यमिदं पुनः ॥ ३,३.७६ ॥
अवस्तु स्यादतीतं यद्व्यवहारस्य गोचरम् ।
तत्र वस्तुगतो भेदो न निर्वचनमर्हति ॥ ३,३.७७ ॥
अपदेऽर्थे पदन्यासः कारणस्य न विद्यते ।
अथ च प्रागसद्भावः कारणे सति दृष्यते ॥ ३,३.७८ ॥
का तस्य प्रागवस्थेति वस्त्वाश्रितमिदं पुनः ।
प्रागवस्थेति न ह्येतद्द्वयमप्यस्त्यवस्तुनि ॥ ३,३.७९ ॥
न चोर्ध्वमस्ति नास्तीति वचनायानिबन्धनम् ।
अलं स्यादपदस्थानमेतद्वाचः प्रचक्षते ॥ ३,३.८० ॥
अत्यद्भुता त्वियं वृत्तिर्यदभागं यदक्रमम् ।
भावानां प्रागभूतानामात्मतत्त्वं प्रकाशते ॥ ३,३.८१ ॥
विकल्पोत्थापितेनैव सर्वो भावेन लौकिकः ।
मुख्येनेव पदार्थेन व्यवहारो विधीयते ॥ ३,३.८२ ॥
भावशक्तिमतश्चैनां मन्यन्ते नित्यवादिनः ।
भावमेव क्रमं प्राहुर्न भावादपरः क्रमः ॥ ३,३.८३ ॥
क्रमान्न यौगपद्यस्य कश्चिद्भेदोऽस्ति तत्त्वतः ।
यथैव भावान्नाभावः कश्चिदन्योऽवसीयते ॥ ३,३.८४ ॥
कालस्याप्यपरं कालं निर्दिशन्त्येव लौकिकाः ।
न च निर्देशमात्रेण व्यतिरेकोऽनुगम्यते ॥ ३,३.८५ ॥
आधारं कल्पयन् बुद्ध्या नाभावे व्यवतिष्ठते ।
अवस्तुष्वपि नोत्प्रेक्षा कस्य चित्प्रतिबध्यते ॥ ३,३.८६ ॥
तस्माच्छक्तिविभागेन नित्यः सदसदात्मकः ।
एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥ ३,३.८७ ॥
व्यवहारश्च लोकस्य पदार्थैः परिकल्पितैः ।
शास्त्रे पदार्थः कार्यार्थं लौकिकः प्रविभज्यते ॥ ३,३.८८ ॥
३,४: भूयोद्रव्यसमुद्देशः
संसर्गरूपात्संभूताः संविद्रूपादपोद्धृताः ।
शास्त्रे विभक्ता वाक्यार्थात्प्रकृतिप्रत्ययार्थवत् ॥ ३,४.१ ॥
निमित्तभूताः साधुत्वे शास्त्रादनुमितात्मकाः ।
के चित्पदार्था वक्ष्यन्ते संक्शेपेण यथागमम् ॥ ३,४.२ ॥
वस्तूपलक्षणं यत्र सर्वनाम प्रयुज्यते ।
द्रव्यमित्युच्यते सोऽर्तो भेद्यत्वेन विवक्शितः ॥ ३,४.३ ॥
३,५: गुणसमुदेश
संसर्गि भेदकं यद्यत्सव्यापारं प्रतीयते ।
गुणत्वं परतन्त्रत्वात्तस्य शास्त्र उदाहृतम् ॥ ३,५.१ ॥
द्रव्यस्याव्यपदेशस्य य उपादीयते गुणः ।
भेदको व्यपदेशाय तत्प्रकर्षोऽभिधीयते ॥ ३,५.२ ॥
सर्वस्यैव प्रधानस्य न विना भेदहेतुना ।
प्रकर्षो विद्यते नापिऽशब्दस्योपैति वाच्यताम् ॥ ३,५.३ ॥
विद्यमानाः प्रधानेषु न सर्वे भेदहेतवः ।
विशेषशब्दैरुच्यन्ते व्यावृत्तार्थाभिधायिभिः ॥ ३,५.४ ॥
वस्तूपलक्षणे तत्र विशेषो व्यापृतो यदि ।
प्रकर्षो नियमाभावात्स्यादविज्ञातहेतुकः ॥ ३,५.५ ॥
सर्वं च सर्वतोऽवश्यं नियमेन प्रकृष्यते ।
संसर्गिणा निमित्तेन निकृष्टेनाधिकेन वा ॥ ३,५.६ ॥
नापेक्षते निमित्तं च प्रकर्षे व्यापृतं यदि ।
द्रव्यस्य स्यादुपादानं प्रकर्षं प्रत्यनर्थकं ॥ ३,५.७ ॥
सव्यापारो गुणस्तस्मात्स्वप्रकर्षनिबन्धनः ।
द्रव्यात्मानं भिनत्त्येव स्वप्रकर्षं निवेशयन् ॥ ३,५.८ ॥
अरूपं पररूपेण द्रव्यमाख्यायते यथा ।
अप्रकर्षं प्रकर्षेण गुणस्याविश्यते तथा ॥ ३,५.९ ॥
३,६: दिक्समुद्देश
दिक्साधनं क्रिया काल इति वस्त्वभिधायिनः ।
शक्तिरूपे पदार्थानामत्यन्तमनवस्थिताः ॥ ३,६.१ ॥
व्यतिरेकस्य यो हेतुरवधिप्रतिपाद्ययोः ।
ऋज्वित्येवं यतोऽन्येन विना बुद्धिः प्रवर्तते ॥ ३,६.२ ॥
कर्मनो जातिभेदानामभिव्यक्तिर्यदाश्रया ।
सा स्वैरुपाधिभिर्भिन्ना शक्तिर्दिगिति कथ्यते ॥ ३,६.३ ॥
परापरत्वे मूर्तिनां देशभेदनिबन्धने ।
तत एव प्रकल्पेते क्रमरूपे तु कालतः ॥ ३,६.४ ॥
आकाशस्य प्रदेशेन भागैश्चान्यैः पृथक्पृथक् ।
सा संयोगविभागानामुपाधित्वाय कल्पते ॥ ३,६.५ ॥
दिशो व्यवस्था देशानां दिग्व्यवस्था न विद्यते ।
शक्तयः खलु भावानामुपकारप्रभाविताः ॥ ३,६.६ ॥
प्रत्यस्तरूपा भावेषु दिक्पूर्वेत्यभिधीयते ।
पूर्वबुद्धिर्यतो दिक्सा समाख्यामात्रमन्यथा ॥ ३,६.७ ॥
स्वाङ्गाद्व्यवस्था या लोके न तस्यां नियता दिशः ।
प्रत्यङ्मुखस्य यत्पश्चात्तत्पुरस्ताद्विपर्यये ॥ ३,६.८ ॥
देशव्यवस्थानियमो दिक्षु न व्यवतिष्ठते ।
रूढमप्यपरत्वेन पूर्वमित्यभिधीयते ॥ ३,६.९ ॥
अतो भाषितपुंस्कत्वात्पुंवद्भावो न सिध्यति ।
अस्मिन्नर्थे न शब्देन प्रसवः क्व चिदुच्यते ॥ ३,६.१० ॥
दिक्शक्तेरभिधाने तु नियतं दिशि दर्शनम् ।
पूर्वादिनां यथा षष्टेर्जीवितस्यावधारणे ॥ ३,६.११ ॥
छायाभाभ्यां नगादीनां भागभेदः प्रकल्पते ।
अतद्धर्मसु भावेषु भागभेदो न कल्पते ॥ ३,६.१२ ॥
परमाणोरभागस्य दिशा भागो विधीयते ।
भागप्रकल्पनाशक्तिं प्रथमां तां प्रचक्षते ॥ ३,६.१३ ॥
अदेशाश्चाप्यभागाश्च निष्क्रमा निरुपाश्रयाः ।
भावाः संसर्गिरूपात्तु शक्तिभेदः प्रकल्पते ॥ ३,६.१४ ॥
निर्भागात्मकता तुल्या परमाणोर्घटस्य च ।
भागः शक्त्यन्तरं तत्र परिमाणं च यत्तयोः ॥ ३,६.१५ ॥
यतः प्रकल्पते भेदो भेदस्तत्रापि दृश्यते ।
अदृष्टोपरतिं भेदमतोऽयुक्ततरं विदुः ॥ ३,६.१६ ॥
सर्वत्र तस्य कार्यस्य दर्शनाद्विभुरिष्यते ।
विभुत्वमेतदेवाहुरन्यः कायवतां विधिः ॥ ३,६.१७ ॥
चैतन्यवत्स्थिता लोके दिक्कालपरिकल्पना ।
प्रकृतिं प्राणिनां तां हि कोऽन्यथा स्थापयिष्यति ॥ ३,६.१८ ॥
संकरो व्यवहाराणां प्रकृतेः स्याद्विपर्यये ।
तस्मात्त्यजन्निमान् भावान् पुनरेवावलम्बते ॥ ३,६.१९ ॥
तस्यास्तु शक्तेः पूर्वादि- भेदो भावान्तराश्रयः ।
भिन्ना दिक्तेन भेदेन भेदायैवोपकल्पते ॥ ३,६.२० ॥
अवधित्वेन चापेक्षा- योगे दिग्लक्षणो विधिः ।
पूर्वमस्येति षष्ठ्येव दृष्टा धर्मान्तराश्रये ॥ ३,६.२१ ॥
पूर्वादिनां विपर्यासोऽदृष्टश्चावध्यसंकरे ।
ऋज्वेतदस्येत्येतच्च लिङ्गं न व्यतिकीर्यते ॥ ३,६.२२ ॥
अन्तःकरणधर्मो वा बहिरेवं प्रकाशते ।
अस्यां त्वन्तर्बहिर्भावः प्रक्रियायां न विद्यते ॥ ३,६.२३ ॥
एकत्वमासां शक्तीनां नानात्वं वेति कल्पने ।
अवस्तुपतिते ज्ञात्वा सत्यतो न परामृशेत् ॥ ३,६.२४ ॥
विकल्पातीततत्त्वेषु संकेतोपनिबन्धनाः ।
भावेषु व्यवहारा ये लोकस्तत्रानुगम्यते ॥ ३,६.२५ ॥
नैकत्वमस्त्यनानात्वं विनैकत्वेन नेतरत् ।
परमार्थे तयोरेष भेदोऽत्यन्तं न विद्यते ॥ ३,६.२६ ॥
न शक्तीनां तथा भेदो यथा शक्तिमतां स्थितिः ।
न च लौकिकमेकत्वं तासामात्मसु विद्यते ॥ ३,६.२७ ॥
नैकत्वं व्यवतिष्ठेत नानात्वं चेन्न कल्पयेत् ।
नानात्वं चावहीयेत यद्येकत्वं न कल्पयेत् ॥ ३,६.२८ ॥
३,७: साधनसमुद्देश
स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे ।
क्रियाणामभिनिष्पत्तौ सामर्थ्यं साधनं विदुः ॥ ३,७.१ ॥
शक्तिमात्रासमूहस्य विश्वस्यानेकधर्मणः ।
सर्वदा सर्वथा भावात्क्व चित्किं चिद्विवक्ष्यते ॥ ३,७.२ ॥
साधनव्यवहारश्च बुद्ध्यवस्थानिबन्धनः ।
सन्नसन् वार्थरूपेषु भेदो बुद्ध्या प्रकल्प्यते ॥ ३,७.३ ॥
बुद्ध्या समीहितैकत्वान् पञ्चालान् कुरुभिर्यदा ।
पुनर्विभजते वक्ता तदापायः प्रतीयते ॥ ३,७.४ ॥
शब्दोपहितरूपांश्च बुद्धेर्विषयतां गतान् ।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥ ३,७.५ ॥
बुद्धिप्रवृत्तिरूपं च समारोप्याभिधातृभिः ।
अर्थेषु शक्तिभेदानां क्रियते परिकल्पना ॥ ३,७.६ ॥
व्यक्तौ पदार्थे शब्दादेर्जन्यमानस्य कर्मणः ।
साधनत्वं तथा सिद्धं बुद्धिरूपप्रकल्पितम् ॥ ३,७.७ ॥
स्वतन्त्रपरतन्त्रत्वे क्रमरूपं च दर्शितम् ।
निरीहेष्वपि भावेषु कल्पनोपनिबन्धनम् ॥ ३,७.८ ॥
शक्तयः शक्तिमन्तश्च सर्वे संसर्गवादिनाम् ।
भावास्तेष्वस्वशब्देषु साधनत्वं निरूप्यते ॥ ३,७.९ ॥
घटस्य दृशिकर्मत्वे महत्त्वादीनि साधनम् ।
रूपस्य दृशिकर्मत्वे रूपत्वादीनि साधनम् ॥ ३,७.१० ॥
स्वैः सामान्यविशेषैश्च शक्तिमन्तो रसादयः ।
नियतग्रहणा लोके शक्तयस्तास्तथाश्रयैः ॥ ३,७.११ ॥
इन्द्रियार्थमनःकर्तृ- संबन्धः साधनं क्व चित् ।
यद्यदा यदनुग्राहि तत्तदा तत्र साधनम् ॥ ३,७.१२ ॥
स्वशब्दैरभिधाने तु स धर्मो नाभिधीयते ।
विभक्त्यादिभिरेवासावुपकारः प्रतीयते ॥ ३,७.१३ ॥
निमित्तभावो भावानामुपकारार्थमाश्रितः ।
नतिरावर्जनेत्येवं सिद्धः साधनमिष्यते ॥ ३,७.१४ ॥
स तेभ्यो व्यतिरिक्तो वा तेषामात्मैव वा तथा ।
व्यतिरेकमुपाश्रित्य साधनत्वेन कल्प्यते ॥ ३,७.१५ ॥
संदर्शनं प्रार्थनायां व्यवसाये त्वनन्तरा ।
व्यवसायस्तथारम्भे साधनत्वाय कल्पते ॥ ३,७.१६ ॥
पूर्वस्मिन् या क्रिया सैव परस्मिन् साधनं मता ।
संदर्शने तु चैतन्यं विशिष्टं साधनं विदुः ॥ ३,७.१७ ॥
निष्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारभेदापेक्षायां करणत्वादिसंभवः ॥ ३,७.१८ ॥
पुत्रस्य जन्मनि यथा पित्रोः कर्तृत्वमुच्यते ।
अयमस्यामियं त्वस्मादिति भेदो विवक्षया ॥ ३,७.१९ ॥
गुणक्रियाणां कर्तारः कर्त्रा न्यक्कृतशक्तयः ।
न्यक्तायामपि संपूर्णैः स्वैर्व्यापारैः समन्विताः ॥ ३,७.२० ॥
करणत्वादिभिर्ज्ञाताः क्रियाभेदानुपातिभिः ।
स्वातन्त्र्यमुत्तरं लब्ध्वा प्रधाने यान्ति कर्तृताम् ॥ ३,७.२१ ॥
यथा राज्ञा नियुक्तेषु योद्धृत्वं योद्धृषु स्थितम् ।
तेषु वृत्तौ तु लभते राजा जयपराजयौ ॥ ३,७.२२ ॥
तथा कर्त्रा नियुक्तेषु सर्वेष्वेकार्थकारिषु ।
कर्तृत्वं करणत्वादेरुत्तरं न विरुध्यते ॥ ३,७.२३ ॥
अनाश्रिते तु व्यापारे निमित्तं हेतुरिष्यते ।
आश्रितावधिभावं तु लक्षणे लक्षणं विदुः ॥ ३,७.२४ ॥
द्रव्यादिविषयो हेतुः कारकं नियतक्रियम् ।
कर्ता कर्त्रन्तरापेक्षः क्रियायां हेतुरिष्यते ॥ ३,७.२५ ॥
क्रियायै करणं तस्य दृष्टः प्रतिनिधिस्तथा ।
हेत्वर्था तु क्रिया तस्मान्न स प्रतिनिधीयते ॥ ३,७.२६ ॥
प्रातिलोम्यानुलोम्याभ्यां हेतुरर्थस्य साधकः ।
तादर्थ्यमानुलोम्येन हेतुत्वानुगतं तु तत् ॥ ३,७.२७ ॥
सर्वत्र सहजा शक्तिर्यावद्द्रव्यमवस्थिता ।
क्रियाकाले त्वभिव्यक्तेराश्रयादुपकारिणी ॥ ३,७.२८ ॥
कुड्यस्यावरणे शक्तिरस्यादीनां विदारणे ।
सर्वदा स तु सन् धर्मः क्रियाकाले निरूप्यते ॥ ३,७.२९ ॥
स्वा"न्गसंयोगिनः पाशा दैत्यानां वारुणा यथा ।
व्यज्यन्ते विजिगीषूणां द्रव्याणां शक्तयस्तथा ॥ ३,७.३० ॥
तैक्ष्ण्यगौरवकाठिन्य- संस्थानैः स्वैरसिर्यदा ।
छेद्यं प्रति व्याप्रियते शक्तिमान् गृह्यते तदा ॥ ३,७.३१ ॥
प्रा"न्निमित्तान्तरोद्भूतं क्रियायाः कैश्चिदिष्यते ।
साधनं सहजं कैश्चित्क्रियान्यैः पूर्वमिष्यते ॥ ३,७.३२ ॥
प्रवृत्तिरेव प्रथमं क्व चिदप्यनपाश्रिता ।
शक्तीरेकाधिकरणे स्रोतोवदपकर्षति ॥ ३,७.३३ ॥
अपूर्वं कालशक्तिं वा क्रियां वा कालमेव वा ।
तमेवम्लक्सनं भावं के चिदाहुह्कथं च न ॥ ३,७.३४ ॥
नित्याः षट्शक्तयोऽअन्येषां भेदाभेदसमन्विताः ।
क्रियासंसिद्धयेऽर्थेषु जातिवत्समवस्थिताः ॥ ३,७.३५ ॥
द्रव्याकारादिभेदेन ताश्चापरिमिता इव ।
दृश्यन्ते तत्त्वमासां तु षट्शक्तीर्नातिवर्तते ॥ ३,७.३६ ॥
निमित्तभेदादेकैव भिन्ना शक्तिः प्रतीयते ।
षोढा कर्तृत्वमेवाहुस्तत्प्रवृत्तेर्निबन्धनम् ॥ ३,७.३७ ॥
तत्त्वे वा व्यतिरेके वा व्यतिरिक्तं तदुच्यते ।
शब्दप्रमाणको लोकः स शास्त्रेणानुगम्यते ॥ ३,७.३८ ॥
परमार्थे तु नैकत्वं पृथक्त्वाद्भिन्नलक्षणम् ।
पृथक्त्वैकत्वरूपेण तत्त्वमेव प्रकाशते ॥ ३,७.३९ ॥
यत्पृथक्त्वमसंदिग्धं तदेकत्वान्न भिद्यते ।
यदेकत्वमसंदिग्धं तत्पृथक्त्वान्न भिद्यते ॥ ३,७.४० ॥
द्यौः क्षमा वायुरादित्यः सागराः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिरवस्थिताः ॥ ३,७.४१ ॥
कालविच्छेदरूपेण तदेवैकमवस्थितम् ।
स ह्यपूर्वापरो भावः क्रमरूपेण लक्ष्यते ॥ ३,७.४२ ॥
दृष्टो ह्यव्यतिरेकेऽपि व्यतिरेकोऽन्वयेऽसति ।
वृक्षाद्यर्थान्वयस्तस्माद्विभक्त्यर्थोऽन्य इष्यते ॥ ३,७.४३ ॥
सामान्यं कारकं तस्य सप्ताद्या भेदयोनयः ।
षट्कर्माख्यादिभेदेन शेषभेदस्तु सप्तमी ॥ ३,७.४४ ॥
[अथ कर्माधिकारः]
निर्वर्त्यं च विकार्यं च प्राप्यं चेति त्रिधा मतम् ।
तत्रेप्सिततमं कर्म चतुर्धान्यत्तु कल्पितम् ॥ ३,७.४५ ॥
औदासीन्येन यत्प्राप्यं यच्च कर्तुरनीप्सितम् ।
संज्ञान्तरैरनाख्यातं यद्यच्चाप्यन्यपूर्वकम् ॥ ३,७.४६ ॥
सती वाविद्यमाना वा प्रकृतिः परिणामिनी ।
यस्य नाश्रियते तस्य निर्वर्त्यत्वं प्रचक्षते ॥ ३,७.४७ ॥
प्रकृतेस्तु विवक्षायां विकार्यं कैश्चिदन्यथा ।
निर्वर्त्यं च विकार्यं च कर्म शास्त्रे प्रदर्शितम् ॥ ३,७.४८ ॥
यदसज्जायते सद्वा जन्मना यत्प्रकाश्यते ।
तन्निर्वर्त्यं विकार्यं च कर्म द्वेधा व्यवस्थितम् ॥ ३,७.४९ ॥
प्रकृत्युच्छेदसंभूतं किं चित्काष्ठादिभस्मवत् ।
किं चिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत् ॥ ३,७.५० ॥
क्रियाकृता विशेषाणां सिद्धिर्यत्र न गम्यते ।
दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते ॥ ३,७.५१ ॥
विशेषलाभः सर्वत्र विद्यते दर्शनादिभिः ।
केषां चित्तदभिव्यक्ति- सिद्धिर्दृष्टिविषादिषु ॥ ३,७.५२ ॥
आभासोपगमो व्यक्तिः सोढत्वमिति कर्मणः ।
विशेषाः प्राप्यमाणस्य क्रियासिद्धौ व्यवस्थिताः ॥ ३,७.५३ ॥
निर्वर्त्यादिषु तत्पूर्वमनुभूय स्वतन्त्रताम् ।
कर्त्रन्तराणां व्यापारे कर्म संपद्यते ततः ॥ ३,७.५४ ॥
तद्व्यापारविवेकेऽपि स्वव्यापारे व्यवस्थितम् ।
कर्मापदिष्टांल्लभते क्व चिच्छास्त्राश्रयान् विधीन् ॥ ३,७.५५ ॥
निवृत्तप्रेषणं कर्म स्वक्रियावयवे स्थितम् ।
निवर्तमाने कर्मत्वे स्वे कर्तृत्वेऽवतिष्ठते ॥ ३,७.५६ ॥
तानि धात्वन्तराण्येव पचिसिध्यतिवद्विदुः ।
भेदेऽपि तुल्यरूपत्वादेकत्वपरिकल्पना ॥ ३,७.५७ ॥
एकदेशे समूहे च व्यापाराणां पचादयः ।
स्वभावतः प्रवर्तन्ते तुल्यरूपसमन्विताः ॥ ३,७.५८ ॥
न्यग्भावना न्यग्भवनं रुहौ शुद्धे प्रतीयते ।
न्यग्भावना न्यग्भवनं ण्यन्तेऽपि प्रतिपद्यते ॥ ३,७.५९ ॥
अवस्थां पञ्चमीमाहुर्ण्यन्ते तां कर्मकर्तरि ।
निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजुच्यते ॥ ३,७.६० ॥
ब्रवीति पचतेरर्थं सिध्यतिर्न विना णिचा ।
स ण्यन्तः पचतेरर्थे प्राकृते व्यवतिष्ठते ॥ ३,७.६१ ॥
केषां चिद्देवदत्तादेर्व्यापारो यः सकर्मके ।
स विना देवदत्तादेः कटादिषु विवक्ष्यते ॥ ३,७.६२ ॥
निवृत्तप्रेषणं कर्म स्वस्य कर्तुः प्रयोजकम् ।
प्रेषणान्तरसंबन्धे ण्यन्ते लेनाभिधीयते ॥ ३,७.६३ ॥
सदृशादिषु यत्कर्म- कर्तृत्वं प्रतिपद्यते ।
आपत्त्यापादने तत्र विषयत्वं प्रति क्रिये ॥ ३,७.६४ ॥
कुतश्चिदाहृत्य पदमेवं च परिकल्पने ।
कर्मस्थभावकत्वं स्याद्दर्शनाद्यभिधायिनाम् ॥ ३,७.६५ ॥
विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।
क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकाश्यते ॥ ३,७.६६ ॥
कालभावाध्वदेशानामन्तर्भूतक्रियान्तरैः ।
सर्वैरकर्मकैर्योगे कर्मत्वमुपजायते ॥ ३,७.६७ ॥
आधारत्वमिव प्राप्तास्ते पुनर्द्रव्यकर्मसु ।
कालादयो भिन्नकक्ष्यं यान्ति कर्मत्वमुत्तरम् ॥ ३,७.६८ ॥
अतस्तैः कर्मभिर्धातुर्युक्तोऽद्रव्यैरकर्मकः ।
लस्य कर्मणि भावे च निमित्तत्वाय कल्पते ॥ ३,७.६९ ॥
सर्वं चाकथितं कर्म भिन्नकक्ष्यं प्रतीयते ।
धात्वर्थोद्देशभेदेन तन्नेप्सिततमं किल ॥ ३,७.७० ॥
प्रधानकर्म कथितं यत्क्रियायाः प्रयोजकम् ।
तत्सिद्धये क्रियायुक्तमन्यत्त्वकथितं स्मृतम् ॥ ३,७.७१ ॥
दुह्यादिवन्नयत्यादौ कर्मत्वमकथाश्रयम् ।
आख्यातानुपयोगे तु नियमाच्छेष इष्यते ॥ ३,७.७२ ॥
अन्तर्भूतणिजर्थानां दुह्यादीनां णिजन्तवत् ।
सिद्धं पूर्वेण कर्मत्वं णिजन्तनियमस्तथा ॥ ३,७.७३ ॥
करणस्य स्वकक्ष्यायां न प्रकर्षाश्रयो यथा ।
कर्मणोऽपि स्वकक्ष्यायां न स्यादतिशयस्तथा ॥ ३,७.७४ ॥
कर्मणस्त्वाप्तुमिष्टत्व आश्रितेऽतिशयो यतः ।
आश्रीयते ततोऽत्यन्तं भेदः पूर्वेण कर्मणा ॥ ३,७.७५ ॥
णिजन्ते च यथा कर्ता सक्रियः सन् प्रयुज्यते ।
न दुह्यादौ तथा कर्ता निष्क्रियोऽपि प्रयुज्यते ॥ ३,७.७६ ॥
भेदवाक्यं तु यन् ण्यन्ते नीदुहिप्रकृतौ च यत् ।
शब्दान्तरत्वान्नैवास्ति संस्पर्शस्तस्य धातुना ॥ ३,७.७७ ॥
यथैवैकमपादानं शास्त्रे भेदेन दर्शितम् ।
तथैकमेव कर्मापि भेदेन प्रतिपादितम् ॥ ३,७.७८ ॥
निर्वर्त्यो वा विकार्यो वा प्राप्यो वा साधनाश्रयः ।
क्रियाणामेव साध्यत्वात्सिद्धरूपोऽभिधीयते ॥ ३,७.७९ ॥
अहितेषु यथा लौल्यात्कर्तुरिच्छोपजायते ।
विषादिषु भयादिभ्यस्तथैवासौ प्रवर्तते ॥ ३,७.८० ॥
प्रधानेतरयोर्यत्र द्रव्यस्य क्रिययोः पृथक् ।
शक्तिर्गुणाश्रया तत्र प्रधानमनुरुध्यते ॥ ३,७.८१ ॥
प्रधानविषया शक्तिः प्रत्ययेनाभिधीयते ।
यदा गुणे तदा तद्वदनुक्तापि प्रकाशते ॥ ३,७.८२ ॥
पचावनुक्तं यत्कर्म क्त्वान्ते भावाभिधायिनि ।
भुजौ शक्त्यन्तरेऽप्युक्ते तत्तद्धर्म प्रकाशते ॥ ३,७.८३
॥
इषेश्च गमिसंस्पर्शाद्ग्रामे यो लो विधीयते ।
तत्रेषिणैव निर्भोगः क्रियते गमिकर्मणः ॥ ३,७.८४ ॥
पक्त्वा भुज्यत इत्यत्र केषां चिन्न व्यपेक्षते ।
ओदनं पचतिः सोऽसावनुमानात्प्रतीयते ॥ ३,७.८५ ॥
तथाभिनिविशौ कर्म यत्ति"नन्तेऽभिधीयते ।
क्त्वान्तेऽधिकरणत्वेऽपि न तत्रेच्छन्ति सप्तमीम् ॥ ३,७.८६ ॥
यन्निर्वृत्ताश्रयं कर्म प्राप्तेरप्रचितं पुनः ।
भक्ष्यादिविषयापत्त्या भिद्यमानं तदीप्सितम् ॥ ३,७.८७ ॥
धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥ ३,७.८८ ॥
भेदा य एते चत्वारः सामान्येन प्रदर्शिताः ।
ते निमित्तादिभेदेन भिद्यन्ते बहुधा पुनः ॥ ३,७.८९ ॥
[इति कर्माधिकारः]
[अथ करणाधिकारः]
क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ।
विवक्ष्यते यदा तत्र करणत्वं तदा स्मृतम् ॥ ३,७.९० ॥
वस्तुतस्तदनिर्देश्यं न हि वस्तु व्यवस्थितम् ।
स्थाल्या पच्यत इत्येषा विवक्षा दृश्यते यतः ॥ ३,७.९१ ॥
करणेषु तु संस्कारमारभन्ते पुनः पुनः ।
विनियोगविशेषांश्च प्रधानस्य प्रसिद्धये ॥ ३,७.९२ ॥
स्वकक्ष्यासु प्रकर्षश्च करणानां न विद्यते ।
आश्रितातिशयत्वं तु परतस्तत्र लक्षणम् ॥ ३,७.९३ ॥
स्वातन्त्र्येऽपि प्रयोक्तार आरादेवोपकुर्वते ।
करणेन हि सर्वेषां व्यापारो व्यवधीयते ॥ ३,७.९४ ॥
क्रियासिद्धौ प्रकर्षोऽयं न्यग्भावस्त्वेव कर्तरि ।
सिद्धौ सत्यां हि सामान्यं साधकत्वं प्रकृष्यते ॥ ३,७.९५ ॥
अस्यादीनां तु कर्तृत्वे तैक्ष्ण्यादि करणं विदुः ।
तैक्ष्ण्यादीनां स्वतन्त्रत्वे द्वेधात्मा व्यवतिष्ठते ॥ ३,७.९६ ॥
आत्मभेदेऽपि सत्येवमेकोऽर्थः स तथा स्थितः ।
तदाश्रयत्वाद्भेदेऽपि कर्तृत्वं बाधकं ततः ॥ ३,७.९७ ॥
यथा च संनिधानेन करणत्वं प्रतीयते ।
तथैवासंनिधानेऽपि क्रियासिद्धेः प्रतीयते ॥ ३,७.९८ ॥
स्तोकस्य वाभिनिर्वृत्तेरनिर्वृत्तेश्च तस्य वा ।
प्रसिद्धिं करणत्वस्य स्तोकादीनां प्रचक्षते ॥ ३,७.९९ ॥
धर्माणां तद्वता भेदादभेदाच्च विशिष्यते ।
क्रियावधेरवच्छेद- विशेषाद्भिद्यते यथा ॥ ३,७.१०० ॥
[इति करणाधिकारः]
[अथ कर्त्रधिकारः]
प्रागन्यतः शक्तिलाभान्न्यग्भावापादनादपि ।
तदधीनप्रवृत्तित्वात्प्रवृत्तानां निवर्तनात् ॥ ३,७.१०१ ॥
अदृष्टत्वात्प्रतिनिधेः प्रविवेके च दर्शनात् ।
आरादप्युपकारित्वे स्वातन्त्र्यं कर्तुरुच्यते ॥ ३,७.१०२ ॥
धर्मैरभ्युदितैः शब्दे नियमो न तु वस्तुनि ।
कर्तृधर्मविवक्षायां शब्दात्कर्ता प्रतीयते ॥ ३,७.१०३ ॥
एकस्य बुद्ध्यवस्थाभिर्भेदे च परिकल्पिते ।
कर्तृत्वं करणत्वं च कर्मत्वं चोपजायते ॥ ३,७.१०४ ॥
उत्पत्तेः प्रागसद्भावो बुद्ध्यवस्थानिबन्धनः ।
अविशिष्टः सतान्येन कर्ता भवति जन्मनः ॥ ३,७.१०॰ ॥
कारणं कार्यभावेन यदा वाव्यवतिष्ठते ।
कार्यशब्दं तदा लब्ध्वा कार्यत्वेनोपजायते ॥ ३,७.१०६ ॥
यथाहेः कुण्डलीभावो व्यग्राणां वा समग्रता ।
तथैव जन्मरूपत्वं सतामेके प्रचक्षते ॥ ३,७.१०७ ॥
विभक्तयोनि यत्कार्यं कारणेभ्यः प्रवर्तते ।
स्वा जातिर्व्यक्तिरूपेण तस्यापि व्यवतिष्ठते ॥ ३,७.१०८ ॥
भावेष्वेव पदन्यासः प्रज्ञाया वाच एव वा ।
नास्तीत्यप्यपदे नास्ति न च सद्भिद्यते ततः ॥ ३,७.१०९ ॥
बुद्धिशब्दौ प्रवर्तेते यथाभूतेषु वस्तुषु ।
तेषामन्येन तत्त्वेन व्यवहारो न विद्यते ॥ ३,७.११० ॥
आकाशस्य यथा भेदश्छायायाश्चलनं यथा ।
जन्मनाशावभेदेऽपि तथा कैश्चित्प्रकल्पितौ ॥ ३,७.१११ ॥
यथैवाकाशनास्तित्वमसन्मूर्तिनिरूपितम् ।
तथैव मूर्तिनास्तित्वमसदाकाशनिश्रयम् ॥ ३,७.११२ ॥
यथा तदर्थैर्व्यापारैः क्रियात्मा व्यपदिश्यते ।
अभेदग्रहणादेष कार्यकारणयोः क्रमः ॥ ३,७.११३ ॥
विकारो जन्मनः कर्ता प्रकृतिर्वेति संशये ।
भिद्यते प्रतिपत्तृणां दर्शनं लि"न्गदर्शनैः ॥ ३,७.११४ ॥
कॢपि संपद्यमाने या चतुर्थी सा विकारतः ।
सुवर्णपिण्डे प्रकृतौ वचनं कुण्डलाश्रयम् ॥ ३,७.११५ ॥
वाक्ये संपद्यतेः कर्ता स"न्घश्च्व्यन्तस्य कथ्यते ।
वृत्तौ सङ्घीभवन्तीति ब्राह्मणानां स्वतन्त्रता ॥ ३,७.११६ ॥
अत्वं संपद्यते यस्त्वं न तस्मिन् युष्मदाश्रया ।
प्रवृत्तिः पुरुषस्यास्ति प्राकृतः स विधीयते ॥ ३,७.११७ ॥
पूर्वावस्थामविजहत्संस्पृशन् धर्ममुत्तरम् ।
संमूर्छित इवार्थात्मा जायमानोऽभिधीयते ॥ ३,७.११८ ॥
सव्यापारतरः कश्चित्क्व चिद्धर्मः प्रतीयते ।
संसृज्यन्ते च भावानां भेदवत्योऽपि शक्तयः ॥ ३,७.११९ ॥
विपरीतार्थवृत्तित्वं पुरुषस्य विपर्यये ।
गम्येत साधनं ह्यत्र सव्यापारं प्रतीयते ॥ ३,७.१२० ॥
त्वमन्यो भवसीत्येषा तत्र स्यात्परिकल्पना ।
राज्ञि भृत्यत्वमापन्ने यथा तद्वद्गतिर्भवेत् ॥ ३,७.१२१ ॥
संभावनात्क्रियासिद्धौ कर्तृत्वेन समाश्रितः ।
क्रियायामात्मसाध्यायां साधनानां प्रयोजकः ॥ ३,७.१२२ ॥
प्रयोगमात्रे न्यग्भावं स्वातन्त्र्यादेव निश्रितः ।
अविशिष्टो भवत्यन्यैः स्वतन्त्रैर्मुक्तसंशयैः ॥ ३,७.१२३ ॥
निमित्तेभ्यः प्रवर्तन्ते सर्व एव स्वभूतये ।
अभिप्रायानुरोधोऽपि स्वार्थस्यैव प्रसिद्धये ॥ ३,७.१२४ ॥
[इति कर्त्रधिकारः][अथ हेत्वधिकारः]
प्रेषणाध्येषणे कुर्वंस्तत्समर्थानि चाचरन् ।
कर्तैव विहितां शास्त्रे हेतुसंज्ञां प्रपद्यते ॥ ३,७.१२५ ॥
द्रव्यमात्रस्य तु प्रैषे पृच्छ्यादेर्लोड्विधीयते ।
सक्रियस्य प्रयोगस्तु यदा स विषयो णिचः ॥ ३,७.१२६ ॥
गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः ।
नियमात्कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥ ३,७.१२७ ॥
क्रियायाः प्रेरकं कर्म हेतुः कर्तुः प्रयोजकः ।
कर्मार्था च क्रियोत्पत्ति- संस्कारप्रतिपत्तिभिः ॥ ३,७.१२८ ॥
[इति हेत्वधिकारः]
[अथ संप्रदानाधिकारः]
अनिराकरणात्कर्तुस्त्यागा"न्गं कर्मणेप्सितम् ।
प्रेरणानुमतिभ्यां च लभते संप्रदानताम् ॥ ३,७.१२९ ॥
हेतुत्वे कर्मसंज्ञायां शेषत्वे वापि कारकम् ।
रुच्यर्थादिषु शास्त्रेण संप्रदानाख्यमुच्यते ॥ ३,७.१३० ॥
भेदस्य च विवक्षायां पूर्वां पूर्वां क्रियां प्रति ।
परस्या"न्गस्य कर्मत्वान्न क्रियाग्रहणं कृतम् ॥ ३,७.१३१ ॥
क्रियाणां समुदाये तु यदैकत्वं विवक्षितम् ।
तदा कर्म क्रियायोगात्स्वाख्ययैवोपचर्यते ॥ ३,७.१३२ ॥
भेदाभेदविवक्षा च स्वभावेन व्यवस्थिता ।
तस्माद्गत्यर्थकर्मत्वे व्यभिचारो न दृश्यते ॥ ३,७.१३३ ॥
विकल्पेनैव सर्वत्र संज्ञे स्यातामुभे यदि ।
आरम्भेण न योगस्य प्रत्याख्यानं समं भवेत् ॥ ३,७.१३४ ॥
त्यागरूपं प्रहातव्ये प्राप्ये संसर्गदर्शनम् ।
आस्थितं कर्म यत्तत्र द्वैरूप्यं भजते क्रिया ॥ ३,७.१३५ ॥
[इति संप्रदानाधिकारः]
[अथापादानाधिकारः]
निर्दिष्टविषयं किं चिदुपात्तविषयं तथा ।
अपेक्षितक्रियं चेति त्रिधापादानमुच्यते ॥ ३,७.१३६ ॥
संयोगभेदाद्भिन्नात्मा गमिरेव भ्रमिर्यथा ।
ध्रुवावधिरपायोऽपि समवेतस्तथाध्रुवे ॥ ३,७.१३७ ॥
द्रव्यस्वभावो न ध्रौव्यमिति सूत्रे प्रतीयते ।
अपायविषयं ध्रौव्यं यत्तु तावद्विवक्षितम् ॥ ३,७.१३८ ॥
सरणे देवदत्तस्य ध्रौव्यं पाते तु वाजिनः ।
आविष्टं यदपायेन तस्याध्रौव्यं प्रचक्षते ॥ ३,७.१३९ ॥
उभावप्यध्रुवौ मेषौ यद्यप्युभयकर्मजे ।
विभागे प्रविभक्ते तु क्रिये तत्र विवक्षिते ॥ ३,७.१४० ॥
मेषान्तरक्रियापेक्षमवधित्वं पृथक्पृथक् ।
मेषयोः स्वक्रियापेक्षं कर्तृत्वं च पृथक्पृथक् ॥ ३,७.१४१ ॥
अभेदेन क्रियैका तु द्विसाध्या चेद्विवक्षिता ।
मेषावपाये कर्तारौ यद्यन्यो विद्यतेऽवधिः ॥ ३,७.१४२ ॥
गतिर्विना त्ववधिना नापाय इति गम्यते ।
वृक्षस्य पर्णं पततीत्येवं भाष्ये निदर्शितम् ॥ ३,७.१४३ ॥
भेदाभेदौ पृथग्भावः स्थितिश्चेति विरोधिनः ।
युगपन्न विवक्ष्यन्ते सर्वे धर्मा बलाहके ॥ ३,७.१४४ ॥
धनुषा विध्यतीत्यत्र विनापायविवक्षया ।
करणत्वं यतो नास्ति तस्मात्तदुभयं सह ॥ ३,७.१४५ ॥
एकैव वा सती शक्तिर्द्विरूपा व्यवतिष्ठते ।
निमित्तं संज्ञयोस्तत्र परया बाध्यतेऽपरा ॥ ३,७.१४६ ॥
निर्धारणे विभक्ते यो भीत्रादीनां च यो विधिः ।
उपात्तापेक्षितापायः सोऽबुधप्रतिपत्तये ॥ ३,७.१४७ ॥
[इत्यपादानाधिकारः]
[अथाधिकरणाधिकारः]
कर्तृकर्मव्यवहितामसाक्षाद्धारयत्क्रियाम् ।
उपकुर्वत्क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ ३,७.१४८ ॥
उपश्लेषस्य चाभेदस्तिलाकाशकटादिषु ।
उपकारास्तु भिद्यन्ते संयोगिसमवायिनाम् ॥ ३,७.१४९ ॥
अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता ।
दिग्विशेषादवच्छेद इत्याद्या भेदहेतवः ॥ ३,७.१५० ॥
आकाशमेव केषां चिद्देशभेदप्रकल्पनात् ।
आधारशक्तिः प्रथमा सर्वसंयोगिनां मता ॥ ३,७.१५१ ॥
इदमत्रेति भावानामभावान्न प्रकल्पते ।
व्यपदेशस्तमाकाश- निमित्तं संप्रचक्षते ॥ ३,७.१५२ ॥
कालात्क्रिया विभज्यन्त आकाशात्सर्वमूर्तयः ।
एतावांश्चैव भेदोऽयमभेदोपनिबन्धनः ॥ ३,७.१५३ ॥
यद्यप्युपवसिर्देश- विशेषमनुरुध्यते ।
शब्दप्रवृत्तिधर्मात्तु कालमेवावलम्बते ॥ ३,७.१५४ ॥
वसतावप्रयुक्तेऽपि देशोऽधिकरणं ततः ।
अप्रयुक्तं त्रिरात्रादि कर्म चोपवसौ स्मृतम् ॥ ३,७.१५५ ॥
[इत्यधिकरणाधिकारः]
[अथ शेषाधिकारः]
संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः ।
श्रुतायामश्रुतायां वा क्रियायां सोऽभिधीयते ॥ ३,७.१५६ ॥
द्विष्ठोऽप्यसौ परार्थत्वाद्गुणेषु व्यतिरिच्यते ।
तत्राभिधीयमानः सन् प्रधानेऽप्युपयुज्यते ॥ ३,७.१५७ ॥
निमित्तनियमः शब्दात्संबन्धस्य न गृह्यते ।
कर्मप्रवचनीयैस्तु स विशेषोऽवरुध्यते ॥ ३,७.१५८ ॥
साधनैर्व्यपदिष्टे च श्रूयमाणक्रिये पुनः ।
प्रोक्ता प्रतिपदं षष्ठी समासस्य निवृत्तये ॥ ३,७.१५९ ॥
निष्ठायां कर्मविषया षष्थी च प्रतिषिध्यते ।
शेषलक्षणया षष्ठ्या समासस्तत्र नेष्यते ॥ ३,७.१६० ॥
अन्येन व्यपदिष्टस्य यस्यान्यत्रोपजायते ।
व्यतिरेकः स धर्मौ द्वौ लभते विषयान्तरे ॥ ३,७.१६१ ॥
प्राधान्यं स्वगुणे लब्ध्वा प्रधाने याति शेषताम् ।
सहयोगे स्वयोगेऽतः प्रधानत्वं न हीयते ॥ ३,७.१६२ ॥
[इति शेषाधिकारः]
सिद्धस्याभिमुखीभाव- मात्रं संबोधनं विदुः ।
प्राप्ताभिमुख्यो ह्यर्थात्मा क्रियासु विनियुज्यते ॥ ३,७.१६३ ॥
संबोधनं न वाक्यार्थ इति पूर्वेभ्य आगमः ।
उद्देशेन विभक्त्यर्था वाक्यार्थात्समपोद्धृताः ॥ ३,७.१६४ ॥
विभक्त्यर्थेऽव्ययीभाव- वचनादवसीयताम् ।
अन्यो द्रव्याद्विभक्त्यर्थः सोऽव्ययेनाभिधीयते ॥ ३,७.१६५ ॥
द्रव्यं तु यद्यथाभूतं तदत्यन्तं तथा भवेत् ।
क्रियायोगेऽपि तस्यासौ द्रव्यात्मा नापहीयते ॥ ३,७.१६६ ॥
तस्माद्यत्करणं द्रव्यं तत्कर्म न पुनर्भवेत् ।
सर्वस्य वान्यथाभावस्तस्य द्रव्यात्मनो भवेत् ॥ ३,७.१६७ ॥
३,८: क्रियासमुद्देश
यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।
आश्रितक्रमरूपत्वात्तत्क्रियेति प्रतियते ॥ ३,८.१ ॥
कार्यकारणभावेन ध्वनतीत्याश्रितक्रमः ।
ध्वनिः क्रमनिवृत्तौ तु ध्वनिरित्येव कथ्यते ॥ ३,८.२ ॥
श्वेते श्वेतत इत्येतच्छ्वेतत्वेन प्रकाशते ।
आश्रितक्रमरूपत्वादभिधानं प्रवर्तते ॥ ३,८.३ ॥
गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥ ३,८.४ ॥
समूहः स तत्बाभूतः प्रतिभेदं समूहिसु ।
समाप्यते ततो भेदे कालभेदस्य संभवः ॥ ३,८.५ ॥
क्रमात्सदसतां तेषामात्मानो न समूहिनाम् ।
सद्वस्तुविषयैर्यान्ति संबन्धं चक्षुरादिभिः ॥ ३,८.६ ॥
यथा गौरिति सम्घातः सर्वो नेन्द्रियगोचरः ।
भागशस्तूपलब्धस्य बुद्धौ रूपं निरूप्यते ॥ ३,८.७ ॥
इन्द्रियैरन्यथाप्राप्तौ भेदाम्शोपनिपातिभिः ।
अलातचक्रवद्रूपं क्रियाणां परिकल्प्यते ॥ ३,८.८ ॥
यथा च भागाः पचतेरुदकासेचनादयः ।
उदकासेचनादिनां ज्ञेया भागास्तथापरे ॥ ३,८.९ ॥
यश्चापकर्षपर्यन्तमनुप्राप्तः प्रतीयते ।
तत्रैकस्मिन् क्रियाशब्दः केवले न प्रयुज्यते ॥ ३,८.१० ॥
पूर्वोत्तरैस्तथा भागैः समवस्थापितक्रमः ।
एकः सोऽप्यसदध्यासादाख्यातैरभिधीयते ॥ ३,८.११ ॥
कालानुपाति यद्रूपं तदस्तीत्यनुगम्यते ।
परितस्तु परिच्छिन्नं भाव इत्येव कथ्यते ॥ ३,८.१२ ॥
व्यवहारस्य सिद्धत्वान्न चेयं गुणकल्पना ।
उपचारो हि मुख्यस्य संभवादवतिष्ठते ॥ ३,८.१३ ॥
आहितोत्तरशक्तित्वात्प्रत्येकं वा समूहिनः ।
अनेकरूपा लक्ष्यन्ते क्रमवन्त इवाक्रमाः ॥ ३,८.१४ ॥
अनन्तरं फलं यस्याः कल्पते तां क्रियां विदुः ।
प्रधानभूतां तादर्थ्यादन्यासां तु तदाख्यता ॥ ३,८.१५ ॥
*क्रियाप्रवृत्तौ यो हेतुस्तदर्थं यद्विचेष्टितम् ।
अनपेक्ष्य प्रयुञ्जीत गच्छतीत्यवधारयन् ॥ ३,८.१६ *॥
सत्सु प्रत्ययरूपोऽसौ भावो यावन्न जायते ।
तावत्परेषां रूपेण साध्यः सन्नभिधीयते ॥ ३,८.१७ ॥
सिद्धे तु साधनाकाङ्क्षा कृतार्थत्वान्निवर्तते ।
न क्रियावाचिनां तस्मात्प्रयोगस्तत्र विद्यते ॥ ३,८.१८ ॥
स चापूर्वापरिभूत एकत्वादक्रमात्मकः ।
पूर्वापराणां धर्मेण तदर्थेनानुगम्यते ॥ ३,८.१९ ॥
असन्निवर्तते तस्माद्यत्सत्तदुपलभ्यते ।
तयोः सदसतोश्चासावात्मैक इव गृह्यते ॥ ३,८.२० ॥
जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् ।
असाध्या व्यक्तिरूपेण सा साध्येवोपलभ्यते ॥ ३,८.२१ ॥
अन्ते या वा क्रियाभागे जातिः सैव क्रिया स्मृता ।
सा व्यक्तेरनुनिष्पादे जायमानेव गम्यते ॥ ३,८.२२ ॥
स्वव्यापारविशिष्टानां सत्ता वा, कर्तृकर्मनाम् ।
क्रिया व्यापारभेदेषु सत्ता वा समवायिनी ॥ ३,८.२३ ॥
अन्त्ये वात्मनि या सत्ता सा क्रिया कैश्चिदिष्यते ।
भाव एव हि धात्वर्थ इत्यविच्छिन्न आगमः ॥ ३,८.२४ ॥
बुद्धिं तज्जातिमन्ये तु बुद्धिसत्तामथापरे ।
प्रत्यस्तरूपां भावेषु क्रियेति प्रतिजानते ॥ ३,८.२५ ॥
आविर्भावतिरोभावौ जन्मनाशौ तथापरैः ।
षट्सु भावविकारेषु कल्पितौ व्यावहारिकौ ॥ ३,८.२६ ॥
ताभ्यां सर्वप्रवृत्तीनामभेदेनोपसम्ग्रहः ।
जन्मैवाश्रितसारूप्यं स्थितिरित्यभिधीयते ॥ ३,८.२७ ॥
*जायमानान्न जन्र्नान्यद्विनाशेऽप्यपदार्थता ।
अतो भावविकारेषु सत्तैका व्यवतिष्ठते ॥ ३,८.२८ *॥
*पूर्वभागस्तु यज्जातात्तज्जन्मेत्यपदिश्यते ।
आश्रितक्रमरूपेण निमित्तत्वे विवक्षिते ॥ ३,८.२९ ॥
आख्यातशब्दैरर्थोऽसावेवंभूतोऽभिधीयते ।
नामशब्दाः प्रवर्तन्ते संहरन्त इव क्रमम् ॥ ३,८.३० ॥
फलं फलापदेशो वा वस्तु वा तद्विरोधि यत् ।
तदन्यदेव पूर्वेषां नाग इत्यपदिश्यते ॥ ३,८.३१ ॥
नैवास्ति नैव नास्तीति वस्तुनो ग्रहनाद्विना ।
कल्पते पररूपेण वस्त्वन्यदनुगम्यते ॥ ३,८.३२ ॥
भावाभावौ घटादिनामस्पृशन्नपि पाणिना ।
कश्चिद्वेदाप्रकाशेऽपि प्रकाशे तत एव वा ॥ ३,८.३३ ॥
व्यापि सौक्ष्म्यं क्व चिद्याति क्व चित्संहन्यते पुनः ।
अकुर्वाणोऽथ वा किं चित्स्वशक्त्यैवं प्रकाशते ॥ ३,८.३४ ॥
सर्वरूपस्य तत्त्वस्य यत्क्रमेणेव दर्शनम् ।
भागैरिव प्रकॢप्तिश्च तां क्रियामपरे विदुः ॥ ३,८.३५ ॥
सत्ता स्वशक्तियोगेन सर्वरूपा व्यवस्थिता ।
साध्या च साधनं चैव फलं भोक्ता फलस्य च ॥ ३,८.३६ ॥
क्रियामन्ये तु मन्यन्ते क्व चिदप्यनपाश्रिताम् ।
साधनैकार्थकारित्वे प्रवृत्तिमनपायिनीम् ॥ ३,८.३७ ॥
सामान्यभूता सा पूर्वं भागशः प्रविभज्यते ।
ततो व्यापाररूपेण साध्येव व्यवतिष्ठते ॥ ३,८.३८ ॥
प्रकृतिः साधनानां सा प्रथमं तच्च कारकम् ।
व्यापाराणां ततोऽन्यत्वमपरैरुपवर्ण्यते ॥ ३,८.३९ ॥
बहूनां संभवेऽर्थानां के चिदेवोपकारिनः ।
संसर्गे कश्चिदेसां तु प्राधान्येन प्रतीयते ॥ ३,८.४० ॥
साध्यत्वात्तत्र चाख्यातैर्व्यापाराः सिद्धसाधनाः ।
प्राधान्येनाभिधीयन्ते फलेनापि प्रवर्तिताः ॥ ३,८.४१ ॥
एकत्वावृत्तिभावाभ्यां भेदाभेदसमन्वये ।
संख्यास्तत्रोपलभ्यन्ते संख्येयावयवक्रियाः ॥ ३,८.४२ ॥
सिद्धस्यार्थस्य पाकादेः कथं साधनयोगिता ।
साध्यत्वे वा तिङन्तेन कृतां भेदो न कश्चन ॥ ३,८.४३ ॥
तत्र कारकयोगाया यद्याख्यातं निबन्धनम् ।
षष्ठ्वाः सा लेन संबन्धे व्युदस्ता कर्तृकर्मनोः ॥ ३,८.४४ ॥
एकाभिधान एकोऽर्थो युगपच्च द्विधर्मभाक् ।
न संभवति सिद्धत्वे स साध्यः स्यात्कथं पुनः ॥ ३,८.४५ ॥
एतावत्साधनं साध्यमेतावदिति कल्पना ।
शास्त्र एव न वाक्येऽस्ति विभागः परमार्थतः ॥ ३,८.४६ ॥
आख्यातशब्दे भागाभ्यां साध्यसाधनवर्तिता ।
प्रकल्पिता यथा शास्त्रे स घञादिस्वपि क्रमः ॥ ३,८.४७ ॥
साध्यत्वेन क्रिया तत्र धातुरूपनिबन्धना ।
सत्त्वभावस्तु यस्तस्याः स घञादिनिबन्धनः ॥ ३,८.४८ ॥
बन्धुताभेदरूपेण बन्धुशब्दे व्यवस्थिता ।
समूहो बन्ध्ववस्था तु प्रत्ययेनाभिधीयते ॥ ३,८.४९ ॥
तत्र यं प्रति साध्यत्वमसिद्धा तं प्रति क्रिया ।
सिद्धा तु यस्मिन् साध्यत्वं न तमेव पुनः प्रति ॥ ३,८.५० ॥
राज्ञः पुत्रस्य नप्तेति न राज्ञि व्यतिरिच्यते ।
पुत्रस्यार्थः प्रधानत्वं न चास्य विनिवर्तते ॥ ३,८.५१ ॥
मृगो धावति पश्येति साध्यसाधनरूपता ।
तथा विषयभेदेन सरणस्योपपद्यते ॥ ३,८.५२ ॥
लकृत्यक्तखलर्थानां तथाव्ययकृतामपि ।
रूढिनिष्ठाघञादिनां धातुः साध्यस्य वाचकः ॥ ३,८.५३ ॥
साध्यस्यापरिनिष्पत्तेः सोऽयमित्यनुपग्रहः ।
तिङन्तैरन्तरेणेवमुपमानं ततो न तैः ॥ ३,८.५४ ॥
साधनत्वं प्रसिद्धं च तिङ्क्षु संबन्धिनां यतः ।
तेनाध्यारोप एव स्यादुपमा तु न विद्यते ॥ ३,८.५५ ॥
न्यूनेषु च समाप्तार्थमुपमानं विधीयते ।
क्रिया चैवाश्रये सर्वा तत्र तत्र समाप्यते ॥ ३,८.५६ ॥
येनैव हेतुना हंसः पततीत्यभिधीयते ।
आतौ तस्य समाप्तत्वादुपमार्थो न विद्यते ॥ ३,८.५७ ॥
क्रियाणां जातिभिन्नानां सादृश्यं नावधार्यते ।
सिद्धेश्च प्रक्रमे साध्यमुपमातुं न शक्यते ॥ ३,८.५८ ॥
वनं वृक्षा इति यथा भेदाभेदव्यपाश्रयात् ।
अर्थात्मा भिद्यते भावे स बाह्याभ्यन्तरे क्रमः ॥ ३,८.५९ ॥
सामान्ये भाव इत्यत्र यल्लिङ्गमुपलभ्यते ।
भेदानामनुमेयत्वान्न तत्तेषु विवक्ष्यते ॥ ३,८.६० ॥
निर्देशे चरितार्थत्वाल्लिङ्गं भावेऽविवक्सितम् ।
उपमानविधित्वाच्च भावादन्यत्पचादिसु ॥ ३,८.६१ ॥
भवतौ यत्पचादिनां तावदत्रोपदिश्यते ।
न च लिङ्गं पचादिनां भवतौ समवस्थितम् ॥ ३,८.६२ ॥
एकश्च सोऽर्थः सत्ताख्यः कथं चित्कैश्चिदुच्यते ।
लिङ्गानि चास्य भिद्यन्ते पचिरूपादिभेदवत् ॥ ३,८.६३ ॥
आचार्यो मातुलश्चेति यथैको व्यपदिश्यते ।
सम्बन्धिभेदादर्थात्मा स विधिः पक्तिभावयोः ॥ ३,८.६४ ॥
३,९: कालसमुद्देशः
व्यापारव्यतिरेकेण कालमेके प्रचक्षते ।
नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ ३,९.१ ॥
दिष्टिप्रस्थसुवर्णादि मूर्तिभेदाय कल्पते ।
क्रियाभेदाय कालस्तु संख्या सर्वस्य भेदिका ॥ ३,९.२ ॥
उत्पत्तौ च स्थितौ चैव विनाशे चापि तद्वताम् ।
निमित्तं कालमेवाहुर्विभक्तेनात्मना स्थितम् ॥ ३,९.३ ॥
तमस्य लोकयन्त्रस्य सूत्रधारं प्रचक्षते ।
प्रतिबन्धाभ्यनुज्ञाभ्यां तेन विश्वं विभज्यते ॥ ३,९.४ ॥
यदि न प्रतिबध्नीयात्प्रतिबन्धं च नोत्सृजेत् ।
अवस्था व्यतिकीर्येरन् पौर्वापर्यविनाकृताः ॥ ३,९.५ ॥
तस्यात्मा बहुधा भिन्नो भेदैर्धर्मान्तराश्रयैः ।
न हि भिन्नमभिन्नं वा वस्तु किं चन विद्यते ॥ ३,९.६ ॥
नैको न चाप्यनेकोऽस्ति न शुक्लो नापि चासितः ।
द्रव्यात्मा स तु संसर्गादेवंरूपः प्रकाशते ॥ ३,९.७ ॥
संसर्गिनां तु ये भेदा विशेषास्तस्य ते मताः ।
स भिन्नस्तैर्व्यवस्थानां कालो भेदाय कल्पते ॥ ३,९.८ ॥
विशिष्टकालसंबन्धाद्वृत्तिलाभः प्रकल्पते ।
शक्तीनां संप्रयोगस्य हेतुत्वेनावतिष्ठते ॥ ३,९.९ ॥
जन्माभिव्यक्तिनियमाः प्रयोगोपनिबन्धनाः ।
नित्याधीनस्थितित्वाच्च स्थितिर्नियमपूर्विका ॥ ३,९.१० ॥
स्थितस्यानुग्रहस्तैस्तैर्धर्मैः संसर्गिभिस्ततः ।
प्रतिबन्धस्तिरोभावः प्रहाणमिति चात्मनः ॥ ३,९.११ ॥
प्रत्यवस्थं तु कालस्य व्यापारोऽत्र व्यवस्थितः ।
काल एव हि विश्वात्मा व्यापार इति कथ्यते ॥ ३,९.१२ ॥
मूर्तीनां तेन भिन्नानामाचयापचयाः पृथक् ।
लक्ष्यन्ते परिणामेन सर्वासां भेदयोगिना ॥ ३,९.१३ ॥
जलयन्त्रभ्रमावेश- सदृशीभिः प्रवृत्तिभिः ।
स कलाः कलयन् सर्वाः कालाख्यां लभते विभुः ॥ ३,९.१४ ॥
प्रतिभद्धाश्च यास्तेन चित्रा विश्वस्य वृत्तयः ।
ताः स एवानुजानाति यथा तन्तुः शकुन्तिकाः ॥ ३,९.१५ ॥
विशिष्टकालसंबन्धाल्लब्धपाकासु शक्तिषु ।
क्रियाभिव्यज्यते नित्या प्रयोगाख्येन कर्मणा ॥ ३,९.१६ ॥
जातिप्रयुक्ता तस्यां तु फलव्यक्तिः प्रजायते ।
कुतोऽप्यद्भुतया वृत्त्या शक्तिभिः सा नियम्यते ॥ ३,९.१७ ॥
ततस्तु समवायाख्या शक्तिर्भेदस्य बाधिका ।
एकत्वमिव ता व्यक्तीरापादयति कारणैः ॥ ३,९.१८ ॥
अथास्मान्नियमादूर्ध्वं जातयो याः प्रयोजिकाः ।
ताः सर्वा व्यक्तिमायान्ति स्वच्छे छाया इवाम्भसि ॥ ३,९.१९ ॥
कारणानुविधायित्वादथ कारण पूर्वकाः ।
गुणास्तत्रोपजायन्ते स्वजातिव्यक्तिहेतवः ॥ ३,९.२० ॥
आश्रयाणां च नित्यत्वमाश्रितानां च नित्यता ।
ता व्यक्तीरनुगृह्णाति स्थितिस्तेन प्रकल्पते ॥ ३,९.२१ ॥
अनित्यस्य यथोत्पादे पारतन्त्र्यं तथा स्थितौ ।
विनाशायैव तत्शृष्टमस्वाधीनस्थितिं विदुः ॥ ३,९.२२ ॥
स्थितः संसर्गिभिर्भावैः स्वक्रियास्वनुगृह्यते ।
नैषां सत्तामनुद्गृह्य वृत्तिर्जन्मवतां स्मृता ॥ ३,९.२३ ॥
जराख्या कालशक्तिर्या शक्त्यन्तरविरोधिनी ।
सा शक्तीः प्रतिबध्नाति जायन्ते च विरोधिनः ॥ ३,९.२४ ॥
प्रयोजकास्तु ये भावाः स्थितिभागस्य हेतवः ।
तिरोभवन्ति ते सर्वे यत आत्मा प्रहीयते ॥ ३,९.२५ ॥
यथैवाद्बुतया वृत्त्या निष्क्रमं निर्निबन्धनम् ।
अपदं जायते सर्वं तथास्यात्मा प्रहीयते ॥ ३,९.२६ ॥
क्रिययोरपवर्गिण्योर्नानार्थसमवेतयोः ।
संबन्धिना विनैकेन परिच्छेदः कथं भवेत् ॥ ३,९.२७ ॥
यथा तुलायां हस्ते वा नानाद्रव्यव्यवस्थितम् ।
गुरुत्वं परिमीयेत कालादेवं क्रियागतिः ॥ ३,९.२८ ॥
जहाति सहवृत्ताश्च क्रियाः स समवस्थिताः ।
व्रीहिर्यथोदकं तेन हायनाख्यां प्रपद्यते ॥ ३,९.२९ ॥
प्रतिबन्धाभ्यनुज्ञाभ्यां वृत्तिर्या तस्य शास्वती ।
तया विभज्यमानोऽसौ भजते क्रमरूपतां ॥ ३,९.३० ॥
कर्तृभेदात्तदर्थेषु प्रचयापचयौ गतः ।
समत्वं विषमत्वं वा स एकः प्रतिपद्यते ॥ ३,९.३१ ॥
क्रियाभेदाद्यथैकस्मिंस्तक्षाद्याख्या प्रवर्तते ।
क्रियाभेदात्तथैकस्मिन्नृत्वाद्याख्योपजायते ॥ ३,९.३२ ॥
आरम्भश्च क्रिया चैव निष्ठा चेत्यभिधीयते ।
धर्मान्तराणामध्यास- भेदात्सदसदात्मनः ॥ ३,९.३३ ॥
यावांश्च द्व्यणुकादीनां तावान् हिमवतोऽप्यसौ ।
न ह्यात्मा कस्य चिद्भेत्तुं प्रचेतुं वापि शक्यते ॥ ३,९.३४ ॥
अन्यैस्तु भावैरन्येषां प्रचयः परिकल्प्यते ।
शनैरिदमिदं क्षिप्रमिति तेन प्रतीयते ॥ ३,९.३५ ॥
असतश्च क्रमो नास्ति स हि भेत्तुं न शक्यते ।
सतोऽपि चात्मतत्त्वं यत्तत्तथैवावतिष्ठते ॥ ३,९.३६ ॥
क्रियोपाधिश्च सन् भूत- भविष्यद्वर्तमानताः ।
एकादशाभिराकारैर्विभक्ताः प्रतिपद्यते ॥ ३,९.३७ ॥
भूतः पञ्चविधस्तत्र भविष्यंश्च चतुर्विधः ।
वर्तमानो द्विधाख्यात इत्येकादश कल्पनाः ॥ ३,९.३८ ॥
काले निधाय स्वं रूपं प्रज्ञया यन्निगृह्यते ।
भावास्ततो निवर्तन्ते तत्र संक्रान्तशक्तयः ॥ ३,९.३९ ॥
भाविनां चैव यद्रूपं तस्य च प्रतिबिम्बकम् ।
सुनिर्मृष्ट इवादर्शे काल एवोपपद्यते ॥ ३,९.४० ॥
तृणपर्णलतादीनि यथा स्रोतोऽनुकर्षति ।
प्रवर्तयति कालोऽपि मात्रा मात्रावतां तथा ॥ ३,९.४१ ॥
आविश्येवानुसंधत्ते यथा गतिमतां गतीः ।
वायुस्तत्रैव कालात्मा विधत्ते क्रमरूपताम् ॥ ३,९.४२ ॥
अयनप्रविभागश्च गतीश्च ज्योतिषां ध्रुवा ।
निवृत्तिप्रभवाश्चैव भूतानां तन्निबन्धनाः ॥ ३,९.४३ ॥
मात्राणां परिणामा ये कालवृत्त्यनुपातिनः ।
नक्षत्राख्या पृथक्तेषु चिह्नमात्रं तु तारकाः ॥ ३,९.४४ ॥
रुतैर्मृगशकुन्तानां स्थावराणां च वृत्तिभिः ।
छायादिपरिणामैश्च ऋतुधामा निरूप्यते ॥ ३,९.४५ ॥
निर्भासोपगमो योऽयं क्रमवानिव दृश्यते ।
अक्रमस्यापि विश्वस्य तत्कालस्य विचेष्टितम् ॥ ३,९.४६ ॥
दूरान्तिकव्यवस्थानमध्वाधिकरणं यथा ।
चिरक्षिप्रव्यवस्थानं कालाधिकरणं तथा ॥ ३,९.४७ ॥
तस्याभिन्नस्य कालस्य व्यवहारे क्रियाकृताः ।
भेदा इव त्रयः सिद्धा यांल्लोको नातिवर्तते ॥ ३,९.४८ ॥
एकस्य शक्तयस्तिस्रः कालस्य समवस्थिताः ।
यत्संबन्धेन भावानां दर्शनादर्शने सताम् ॥ ३,९.४९ ॥
द्वाभ्यां स किल शक्तिभ्यां भावानां वरणात्मकः ।
शक्तिस्तु वर्तमानाख्या भावरूपप्रकाशिनी ॥ ३,९.५० ॥
अनागता जन्मशक्तेः शक्तिरप्रतिबन्धिका ।
अतीताख्या तु या शक्तिस्तया जन्म विरुध्यते ॥ ३,९.५१ ॥
तमःप्रकाशवत्त्वेते त्रयोऽध्वानो व्यवस्थिताः ।
अक्रमास्तेषु भावानां क्रमः समुपलभ्यते ॥ ३,९.५२ ॥
द्वौ तु तत्र तमोरूपावेकस्यालोकवत्स्थितिः ।
अतीतमपि केषां चित्पुनर्विपरिवर्तते ॥ ३,९.५३ ॥
युगपद्वर्तमानत्वं तद्धर्मा प्रतिपद्यते ।
केषां चिद्वर्तमानत्वाच्चैति तद्वदतीतताम् ॥ ३,९.५४ ॥
हेतुपकारादाक्षिप्तो वर्तमानत्वमागतः ।
शान्तहेतूपकारः सन् पुनर्नोपैति दर्शनम् ॥ ३,९.५५ ॥
द्वे एव कालस्य विभोः केषां चिच्छक्तिवर्त्मनी ।
करोति याभ्यां भावानामुन्मीलननिमीलने ॥ ३,९.५६ ॥
कलाभिः पृथगर्थाभिः प्रविभक्तं स्वभावतः ।
के चिद्बुद्ध्यनुसंहार- लक्षणं तं प्रचक्षते ॥ ३,९.५७ ॥
ज्ञानानुगतशक्तिं वा बाह्यं वा सत्यतः स्थितम् ।
कालात्मानमनाश्रित्य व्यवहर्तुं न शक्यते ॥ ३,९.५८ ॥
तिस्रो भावस्य भावस्य केषां चिद्भावशक्तयः ।
ताभिः स्वशक्तिभिः सर्वं सदैवास्ति च नास्ति च ॥ ३,९.५९ ॥
सत्त्वादव्यतिरेकेण तास्तिस्रोऽपि व्यवस्थिताः ।
क्रमस्तास्तदभेदाच्च सदसत्त्वं न भिद्यते ॥ ३,९.६० ॥
दर्शनादर्शनेनैकं दृष्टादृष्टं तदेव तु ।
अध्वनामेकता नास्ति न च किं चिन्निवर्तते ॥ ३,९.६१ ॥
शक्त्यात्मदेवतापक्षैर्भिन्नं कालस्य दर्शनम् ।
प्रथमं तदविद्यायां यद्विद्यायां न विद्यते ॥ ३,९.६२ ॥
अभेदे यदि कालस्य ह्रस्वदीर्घप्लुतादिषु ।
दृश्यते भेदनिर्भासः स चिरक्षिप्रबुद्धिवत् ॥ ३,९.६३ ॥
ह्रस्वदीर्घप्लुतावृत्त्या नालिकासलिलादिषु ।
कथं प्रचययोगः स्यात्कल्पनामात्रहेतुकः ॥ ३,९.६४ ॥
अभिव्यक्तिनिमित्तस्य प्रचयेन प्रचीयते ।
अभिन्नमपि शब्दस्य तत्त्वमप्रचयात्मकम् ॥ ३,९.६५ ॥
एवं मात्रातुरीयस्य भेदो दाशतयस्य वा ।
परिमाणविकल्पेन शब्दात्मनि न विद्यते ॥ ३,९.६६ ॥
अनुनिष्पादिकल्पेन येऽन्तराल इव स्थिताः ।
शब्दास्ते प्रतिपत्तॄणामुपायाः प्रतिपत्तये ॥ ३,९.६७ ॥
विशिष्टमवधिं तं तमुपादाय प्रकल्पते ।
कालः कालवतामेकः क्षणमासर्तुभेदभाक् ॥ ३,९.६८ ॥
बुद्ध्यवग्रहभेदाच्च व्यवहारात्मनि स्थितः ।
तावानेव क्षणः कालो युगमन्वन्तराणि वा ॥ ३,९.६९ ॥
प्रतिबन्धाभ्यनुज्ञाभ्यां नालिकाविवराश्रिते ।
यदम्भसि प्रक्षरणं तत्कालस्यैव चेष्टितम् ॥ ३,९.७० ॥
अल्पे महति वा छिद्रे तत्संबन्धे न भिद्यते ।
कालस्य वृत्तिरात्मापि तमेवास्यानुवर्तते ॥ ३,९.७१ ॥
आक्रीड इव कालस्य दृश्यते यः स्वशक्तिभिः ।
बहुरूपस्य भावेषु बहुधा तेन भिद्यते ॥ ३,९.७२ ॥
त्वचिसारस्य वा वृद्धिं तृणराजस्य वा दधत् ।
तावत्तद्वृद्धियोगेन कालतत्त्वं विकल्पते ॥ ३,९.७३ ॥
व्यतिक्रमेऽपि मात्राणां तस्य नास्ति व्यतिक्रमः ।
न गन्तृगतिभेदेन मार्गभेदोऽस्ति कश्चन ॥ ३,९.७४ ॥
उदयास्तमयावृत्त्या ज्योतिषां लोकसिद्धया ।
कालस्याव्यतिपातेऽपि ताद्धर्म्यमिव लक्ष्यते ॥ ३,९.७५ ॥
आदित्यग्रहनक्षत्र- परिस्पन्दमथापरे ।
भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥ ३,९.७६ ॥
क्रियान्तरपरिच्छेद- प्रवृत्ता या क्रियां प्रति ।
निर्ज्ञातपरिमाणा सा काल इत्यभिधीयते ॥ ३,९.७७ ॥
ज्ञाने रूपस्य संक्रान्तिर्ज्ञानेनैवानुसंहृतिः ।
अतः क्रियान्तराभावे सा क्रिया काल इष्यते ॥ ३,९.७८ ॥
भूतो घट इतीयं च सत्ताया एव भूतता ।
भूता सत्तेति सत्तायाः सत्ता भूताभिधीयते ॥ ३,९.७९ ॥
परतो भिद्यते सर्वमात्मा तु न विकल्प्यते ।
पर्वतादिस्थितिस्तस्मात्पररूपेण भिद्यते ॥ ३,९.८० ॥
प्रसिद्धभेदा व्यापारा विरूपावयवक्रियाः ।
साहचर्येण भिद्यन्ते सरूपावयवक्रियाः ॥ ३,९.८१ ॥
*व्यवधानमिवोपैति निवृत्त इव दृश्यते ।
क्रियासमूहो भुज्यादिरन्तरालप्रवृत्तिभिः ॥ ३,९.८२ *॥
*न च विच्छिन्नरूपोऽपि सोऽविरामान्निवर्तते ।
सर्वैव हि क्रियान्येन सम्कीर्णेवोपलभ्यते ॥ ३,९.८३ *॥
*तदन्तरालदृष्टा वा सर्वैवावयवक्रिया *।
सादृश्यात्सति भेदे तु तदङ्गत्वेन गृह्यते ॥ ३,९.८४ ॥
सदसद्वापि वस्तु स्यात्तृतीयं नास्ति किं चन ।
तेन भूतभविष्यन्तौ मुक्त्वा मध्यं न विद्यते ॥ ३,९.८५ ॥
निर्वृत्तिरूपमेकस्य भेदाभावान्न कल्पते ।
सदसद्वापि तेनैकं क्रमरूपं कथं भवेत् ॥ ३,९.८६ ॥
बहूनां चानवस्थानादेकमेवोपलभ्यते ।
यथोपलब्धि स्मरणं तत्र चाप्युपपद्यते ॥ ३,९.८७ ॥
सदसद्रूपमेकं स्याद्सर्वस्यैकत्वकल्पने ।
निर्वृत्तिरूपं निर्वृत्तेः सामान्यमथ वा भवेत् ॥ ३,९.८८ ॥
कार्योत्पत्तौ समर्थं वा स्वेन धर्मेण तत्तथा ।
आत्मतत्त्वेन गृह्येत सा चास्मिन् वर्तमानता ॥ ३,९.८९ ॥
क्रियाप्रबन्धरूपं यदध्यात्मं विनिगृह्यते ।
संक्रान्तरूपमेकत्र तामाहुर्वर्तमानताम् ॥ ३,९.९० ॥
क्रियातिपत्तिरत्यन्तं क्रियानुत्पत्तिलक्षणा ।
न च भूतमनुत्पन्नं न भविष्यत्तथाविधम् ॥ ३,९.९१ ॥
प्राग्विरुद्धक्रियोत्पादान्निर्वृत्ते वा विरोधिनि ।
व्यापारेऽवधिभेदेन विषयस्तत्र भिद्यते ॥ ३,९.९२ ॥
व्यभिचारे निमित्तस्य साधुत्वं न प्रकल्पते ।
भाव्यासीदिति सूत्रेण तत्कालेऽन्यत्र शिष्यते ॥ ३,९.९३ ॥
स्वकाल एव साधुत्वे कालभेदे गतिः कथम् ।
वाक्यार्थादतदर्थेषु विशिष्टत्वं न सिध्यति ॥ ३,९.९४ ॥
तदर्थश्चेदवयवो भाविनो भूततागतिः ।
न स्यादत्यन्तभूतत्वमेवैकं तत्र संभवेत् ॥ ३,९.९५ ॥
विशिष्टकालता पूर्वं तथापि तु विशेषणे ।
आश्रयात्सोऽन्तरङ्गत्वात्तत्र साधुर्भविष्यति ॥ ३,९.९६ ॥
आमिश्र एव प्रक्रान्तः स पदार्थस्तथाविधः ।
केवलस्य विमिश्रत्वं नित्येऽर्थे नोपपद्यते ॥ ३,९.९७ ॥
शुद्धे च काले व्याख्यातमामिश्रे न प्रसिध्यति ।
साधुत्वमयथाकालं तत्सूत्रेणोपदिश्यते ॥ ३,९.९८ ॥
आख्यातपदवाच्येऽर्थे निर्वर्त्यत्वात्प्रधानता ।
विशेषणं तदाक्षेपात्तत्काले व्यवतिष्ठते ॥ ३,९.९९ ॥
संप्रत्ययानुकारो वा शब्दव्यापार एव वा ।
अध्यस्यते विरुद्धेऽर्थे न च तेन विरुध्यते ॥ ३,९.१०० ॥
भूतं भविष्यदित्येतौ प्रत्ययौ वर्तमानताम् ।
अत्यजन्तौ प्रपद्येते विरुद्धाश्रयरूपताम् ॥ ३,९.१०१ ॥
अध्वनो वर्तमानस्य विषयेण भविष्यता ।
भाष्ये भविष्यत्कालेति कार्यार्थं व्यपदिश्यते ॥ ३,९.१०३ ॥
इच्छा चिकीर्शतीत्यत्र स्वकालमनुरुध्यते ।
भविष्यति प्रकृत्यर्थे तत्कालं नानुरुध्यते ॥ ३,९.१०४ ॥
आशास्यमानतन्त्रत्वादाशंसायां विपर्ययः ।
प्रयोक्तृधर्मः शब्दार्थे शब्दैरेवानुशज्यते ॥ ३,९.१०५ ॥
अप्छालिबीजसंयोगे वर्तते निष्पदिर्यदा ।
तत्रावयववृत्तित्वाद्भविष्यत्प्रतिषेधनम् ॥ ३,९.१०६ ॥
फलप्रसवरूपे तु निष्पदौ भूतकालता ।
धर्मान्तरेषु तद्रूपमध्यस्य परिकल्प्यते ॥ ३,९.१०७ ॥
उपयुक्ते निमित्तानां व्यापारे फलसिद्धये ।
तत्र रूपं यदध्यस्तं तत्कालं तत्प्रतीयते ॥ ३,९.१०८ ॥
निष्पत्ताववधिः कश्चित्कश्चित्प्रतिविवक्षितः ।
हेतुजन्मव्यपेक्षातः फलजन्मेति चोच्यते ॥ ३,९.१०९ ॥
अबहिःसाधनाधीना सिद्धिर्यत्र विवक्षिता ।
तत्साधनान्तराभावात्सिद्धमित्यपदिश्यते ॥ ३,९.११० ॥
तस्मादवधिभेदेन सिद्धा मुख्यैव भूतता ।
अनागतत्वमस्तित्वं हेतुधर्मव्यपेक्षणे ॥ ३,९.१११ ॥
सतामिन्द्रियसंबन्धात्सैव सत्ता विशिष्यते ।
भेदेन व्यवहारो हि वस्त्वन्तरनिबन्धनः ॥ ३,९.११२ ॥
अस्तित्वं वस्तुमात्रस्य बुद्ध्या तु परिगृह्यते ।
यः समासादनाद्भेदः स तत्र न विवक्षितः ॥ ३,९.११३ ॥
योगाद्वा स्त्रीत्वपुंस्त्वाभ्यां न किं चिदवतिष्ठते ।
स्वस्मिन्नात्मनि तत्रान्यद्भूतं भावि च कथ्यते ॥ ३,९.११४ ॥
३,१०: पुरुषसमुद्देश
प्रत्यक्ता परभावश्चाप्युपाधी कर्तृकर्मनोः ।
तयोः श्रुतिविशेषेण वाचकौ मध्यमोत्तमौ ॥ ३,१०.१ ॥
सदसद्वापि चैतन्यमेताभ्यामवगम्यते ।
चैतन्यभागे प्रथमः पुरुषो न तु वर्तते ॥ ३,१०.२ ॥
बुधिजानातिचितिभिः प्रथमे पुरुषे सति ।
सम्ज्ञानार्थैर्न चैतन्य- स्योपयोगः प्रकाश्यते ॥ ३,१०.३ ॥
संबोधनार्थः सर्वत्र मध्यमे कैश्चिदिष्यते ।
तथा संबोधने सर्वां प्रथमां युष्मदो विदुः ॥ ३,१०.४ ॥
संबोधनं न लोकेऽस्ति विधातव्येन वस्तुना ।
स्वाहेन्द्रशत्रुर्वर्धस्व यथा राजा भवेति च ॥ ३,१०.५ ॥
युष्मदर्थस्य सिद्धत्वान्नियता चाद्युदात्तता ।
युष्मदः प्रथमान्तस्य परश्चेन्न पदादसौ ॥ ३,१०.६ ॥
गुणप्रधानताभेदः पुरुशादिविपर्ययः ।
निर्देशश्चान्यथा शास्त्रे नित्यत्वान्न विरुध्यते ॥ ३,१०.७ ॥
यथानिर्देशमर्थाः स्युर्येसां शास्त्रं विधायकम् ।
किं चित्सामान्यमाश्रित्य स्थिते तु प्रतिपादनम् ॥ ३,१०.८ ॥
योऽश्वे यः पीठ इत्यत्र भूतयोरश्वपीठयोः ।
यथोपलक्षणार्थत्वं तथार्थेष्वनुशासनम् ॥ ३,१०.९ ॥
३,११: संख्यासमुद्देश
संख्यावान् सत्त्वभूतोऽर्थः सर्व एवाभिधीयते ।
भेदाभेदविभागो हि लोके संख्यानिबन्धनः ॥ ३,११.१ ॥
स धर्मो व्यतिरिक्तो वा तेषामात्मैव वा तथा ।
भेदहेतुत्वमाश्रित्य संख्येति व्यपदिश्यते ॥ ३,११.२ ॥
समवेता परिच्छेद्ये क्व चिदन्यत्र सा स्थिता ।
प्रकल्पयति भावानां संख्या भेदं तथात्मनः ॥ ३,११.३ ॥
परत्वे चापरत्वे च भेदे तुल्या श्रुतिर्यथा ।
संख्याशब्दाभिधेयत्वं भेदहेतोस्तथा गुणे ॥ ३,११.४ ॥
अस्वतन्त्रे स्वतन्त्रत्वं परधर्मो यथा गुणे ।
अभेद्ये भेद्यभावोऽपि द्रव्यधर्मस्तथा गुणे ॥ ३,११.५ ॥
स्वबुद्ध्या तमपोद्धृत्य लोकोऽप्यागममाश्रितः ।
स्वधर्मादन्यधर्मेण व्याचष्टे प्रतिपत्तये ॥ ३,११.६ ॥
परोपकारतत्त्वानां स्वातन्त्र्येनाभिधायकः ।
शब्दः सर्वपदार्थाना स्वधर्मद्विप्रकृष्यते ॥ ३,११.७ ॥
यथैवाविषयं ज्ञानं न किं चिदवभासते ।
तथा भावोऽप्यसंसृष्टो न कश्चिदुपलभ्यते ॥ ३,११.८ ॥
भेदेन तु समाख्यातं यल्लोकोऽप्यनुवर्तते ।
आगमाच्छास्त्रसदृशो व्यवहारः स वर्ण्यते ॥ ३,११.९ ॥
बुद्धौ स्थितेषु तेष्वेवमध्यारोपो न दुर्लभः ।
परधर्मस्य न ह्यत्र सदसत्त्वं प्रयोजकम् ॥ ३,११.१० ॥
सामान्येष्वपि सामान्यं विशेषेषु विशिष्टता ।
संख्यासु संख्या लिङ्गेषु लिङ्गमेवं प्रकल्पते ॥ ३,११.११ ॥
अतो द्रव्याश्रितां संख्यामाहुः संसर्गवादिनः ।
भेदाभेदव्यतीतेषु भेदाभेदविधायिनीम् ॥ ३,११.१२ ॥
आत्मान्तरानां येनात्मा तद्रूप इव लक्ष्यते ।
अतद्रूपेण संसर्गात्सा निमित्तसरूपता ॥ ३,११.१३ ॥
संसृष्टेष्वपि निर्भागे भूतेष्वर्थक्रिया यथा ।
सत्त्वादिषु च मात्रासु सर्वास्वेवं प्रतीयते ॥ ३,११.१४ ॥
द्वित्वादियोनिरेकत्वं भेदास्तत्पूर्वका यतः ।
विना तेन न संख्यानामन्यासामस्ति संभवः ॥ ३,११.१५ ॥
एकत्वे बुद्धिसहिते निमित्तं द्वित्वजन्मनि ।
एकत्वाभ्यां समुत्पन्नमेवं वा तत्प्रतीयते ॥ ३,११.१६ ॥
एकत्वसमुदायो वा सापेक्षे वा पृथक्पृथक् ।
एकत्वे द्वित्वमित्येवं तयोर्द्विवचनं भवेत् ॥ ३,११.१७ ॥
एकोऽपि गुणभेदेन सङ्घो भेदं प्रकल्पयेत् ।
आश्रयाश्रयिभेदो हि तदाश्रयनिबन्धनः ॥ ३,११.१८ ॥
संख्येयसङ्घसंख्यान- सङ्घः संख्येति कथ्यते ।
विम्शत्यादिसु सान्यस्व द्रव्यसङ्घस्य भेदिका ॥ ३,११.१९ ॥
एकविंशतिसंख्वावां संख्यान्तरसरूपयोः ।
एकस्यां बुद्ध्यनावृत्त्या, भागयोरिव कल्पना ॥ ३,११.२० ॥
असंख्यासमुदायत्वात्संख्याकार्यं विधीयते ।
समूहत्वे तु तन्न स्यात्स्वाङ्गादिसमुदायवत् ॥ ३,११.२१ ॥
संख्येयान्तरतन्त्रासु या संख्यासु प्रवर्तते ।
आवृत्तिवर्गसंख्येया तां संख्यां तादृशीं विदुः ॥ ३,११.२२ ॥
न संख्यायां न संख्येये द्वौ दशेत्यस्ति संभवः ।
भेदाभावान्न संख्यायां विरोधान्न तदाश्रये ॥ ३,११.२३ ॥
संख्यायेते दशद्वर्गौ द्विदशा इति संख्यया ।
तद्रूपे वापि संख्येय आवृत्तिः परिगण्यते ॥ ३,११.२४ ॥
संख्या नाम न संख्यास्ति संज्ञैषेति यथोच्यते ।
रूपं न रूपमप्येवं सम्ज्ञा सा हि सितादिषु ॥ ३,११.२५ ॥
संख्यानजातियोगात्तु संख्या संख्येति कथ्यते ।
रूपत्वजातियोगाच्च रूपे रूपमिति स्मृतम् ॥ ३,११.२६ ॥
निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते ।
तद्वतस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥ ३,११.२७ ॥
एकस्य प्रचयो दृष्टः समूहश्च द्वयोस्तथा ।
निमित्तव्यतिरेकेण संख्यान्या भेदिका ततः ॥ ३,११.२८ ॥
तदेकमपि चैकत्वं विभक्तिश्रवणादृते ।
नोच्यते तेन शब्देन विभक्त्या तु सहोच्यते ॥ ३,११.२९ ॥
अन्वयव्यतिरेकौ च यदि स्याद्वचनान्तरम् ।
स्यातामसति तस्मिम्श्च प्रकृत्यर्थो न कल्प्यते ॥ ३,११.३० ॥
एकत्वमेक इत्यत्र शुद्धद्रव्यविशेषणम् ।
सगुणस्तु प्रकृत्यर्थो विभक्त्यर्थेन भिद्यते ॥ ३,११.३१ ॥
द्व्येकयोरिति निर्देशात्संख्यामात्रेऽपि संभवः ।
एकादीनां प्रसिद्ध्या तु संख्येयार्थत्वमुच्यते ॥ ३,११.३२ ॥
३,१२: उपग्रहसमुद्देश
य आत्मनेपदाद्भेदः क्व चिदर्थस्य गम्यते ।
अन्यतश्चापि लादेशान्मन्यन्ते तमुपग्रहम् ॥ ३,१२.१ ॥
क्व चित्साधनमेवासौ क्व चित्तस्य विशेषणम् ।
साधनं तत्र कर्मादि व्यक्तवाचो विशेषणम् ॥ ३,१२.२ ॥
क्रिया विषयभेदेन जीविकादिषु भिद्यते ।
लादेशैः स क्रियाभेदो वाक्येष्वपि नियम्यते ॥ ३,१२.३ ॥
धात्वर्थस्तद्विशेषश्चाप्युक्तः क्व चिदुपग्रहः ।
धात्वर्थो गन्धनादिः स्याद्व्यतिहारो विशेषणम् ॥ ३,१२.४ ॥
क्रियाप्रवृत्तावाख्याता कैश्चित्स्वार्थपरार्थता ।
असति वा सति वापि विवक्षितनिबन्धना ॥ ३,१२.५ ॥
केसां चित्कर्त्रभिप्राये णिचा सह विकल्पते ।
आत्मनेपदमन्येसां तदर्था प्रकृतिर्यथा ॥ ३,१२.६ ॥
क्रीणीष्व वपते धत्ते चिनोति चिनुतेऽपि च ।
आप्तप्रयोगा दृश्यन्ते येषु ण्यर्थोऽभिधीयते ॥ ३,१२.७ ॥
संविधानं पचादिनां क्व चिदर्थः प्रतीयते ।
तन्निमित्ता यथान्यापि क्रियाधिश्रयणादिका ॥ ३,१२.८ ॥
कर्त्रभिप्रायता सूत्रे क्रियाभेदोपलक्षणम् ।
तथाभूता क्रिया या हि तत्कर्ता फलभाग्यतः ॥ ३,१२.९ ॥
यथोपलक्ष्यते कालस्तारकादर्शनादिभिः ।
तथा फलविशेषेण क्रियाभेदो निदर्श्यते ॥ ३,१२.१० ॥
क्रियाविशेषवचने सामर्थ्यमुपरुध्यते ।
केसां चिदन्ये तु कृताः स्वरितेतो ञितस्तथा ॥ ३,१२.११ ॥
अनुबन्धश्च सिद्धेऽर्थे स्मृत्यर्थमनुषज्यते ।
तुल्यार्थेष्वपि चावश्यं न सर्वेष्वेकधर्मता ॥ ३,१२.१२ ॥
दृशीक्ष्योः सदृशेऽप्यर्थे नाभेदः प्रतिपूर्वयोः ।
ण्यर्थोपादायिनस्तस्मान्न तुल्यार्थाः पचादिभिः ॥ ३,१२.१३ ॥
उम्भ्यर्थे वर्तमानस्य करोतेर्भिन्नधर्मणः ।
ण्यर्थोपादायिता तस्मान्नियताः शब्दशक्तयः ॥ ३,१२.१४ ॥
तथा ह्यनुप्रयोगस्य करोतेरात्मनेपदे ।
पूर्ववद्ग्रहणं प्राप्ते स्वरितं समुपस्थितम् ॥ ३,१२.१५ ॥
एकत्वेऽपि क्रियाख्याते साधनाश्रयसंख्यया ।
भिद्यते न तु लिङ्गाख्यो भेदस्तत्र तदाश्रितः ॥ ३,१२.१६ ॥
तस्मादवस्थितेऽप्यर्थे कस्य चित्प्रतिबध्यते ।
शब्दस्य शक्तिः स त्वेष शास्त्रेऽन्वाख्यायते विधिः ॥ ३,१२.१७ ॥
यस्यार्थस्य प्रसिद्ध्यर्थमारभ्यन्ते पचादयः ।
तत्प्रधानं फलं तेषां न लाभादि प्रयोजनम् ॥ ३,१२.१८ ॥
यत्रोभौ स्वामिदासौ तु प्रारभेते सह क्रियाम् ।
युगपद्धर्मभेदेन धातुस्तत्र न वर्तते ॥ ३,१२.१९ ॥
यत्र प्रतिविधानार्थः पचिस्तत्रात्मनेपदम् ।
परस्मैपदमन्यत्र संस्काराद्यभिधायिनि ॥ ३,१२.२० ॥
संविधातुश्च सांनिध्याद्दासे धर्मोऽनुसज्यते ।
प्लक्षशब्दस्य सांनिध्यान्न्यग्रोधे प्लक्षता यथा ॥ ३,१२.२१ ॥
पुरोडाशाभिधानं च धानादिषु यथा स्थितम् ।
छत्त्रिणा चाभिसंबन्धाच्छत्त्रिशब्दाभिधेयता ॥ ३,१२.२२ ॥
अर्थात्प्रतीतमन्योन्यं पारार्थ्यमविवक्षितम् ।
इत्ययं शेषविषयः कैश्चिदत्रानुवर्ण्यते ॥ ३,१२.२३ ॥
अथ प्रतिविधाता यो हलैः कृषति पञ्चभिः ।
भाष्ये नोदाहृतं कस्मात्प्राप्तं तत्रात्मनेपदम् ॥ ३,१२.२४ ॥
प्रतीतत्वात्तदर्थस्य शेषत्वं यदि कल्प्यते ।
न स्यात्प्राप्तविभाषासौ स्वरितेतां निवर्तिका ॥ ३,१२.२५ ॥
शुद्धे तु संविधानार्थे कैश्चिदत्रेष्यते कृषिः ।
तद्धर्मा यजिरित्येवं न स्यात्तत्रात्मनेपदम् ॥ ३,१२.२६ ॥
अत्र तूपपदेनायमर्थभेदः प्रतीयते ।
प्राप्ते विभाषा क्रियते तस्मान्नात्रात्मनेपदम् ॥ ३,१२.२७ ॥
३,१३: लिङ्गसमुद्देश
स्तनकेशादिसंबन्धो विशिष्टा वा स्तनादयः ।
तदुपव्यञ्जना जातिर्गुणावस्था गुणास्तथा ॥ ३,१३.१ ॥
शब्दोपजनितोऽर्थात्मा शब्दसंस्कार इत्यपि ।
लिङ्गानां लिङ्गतत्त्वज्ञैर्विकल्पाः सप्त दर्शिताः ॥ ३,१३.२ ॥
उपादानविकल्पाश्च लिङ्गानां सप्त वर्णिताः ।
विकल्पसंनियोगाभ्यां ये शब्देषु व्यवस्थिताः ॥ ३,१३.३ ॥
तिस्रो जातय एवैताः केसां चित्समवस्थिताः ।
अविरुद्धा, विरुद्धाभिर्गोमहिष्यादिजातिभिः ॥ ३,१३.४ ॥
हस्तिन्यां वडवायां च स्त्रीति बुद्धेः समन्वयः ।
अतस्तां जातिमिच्छन्ति द्रव्यादिसमवायिनीम् ॥ ३,१३.५ ॥
परतन्त्रस्य यल्लिङ्गमपोद्धारे विवक्षिते ।
तत्रासौ शब्दसंस्कारः शब्दैरेव व्यपाश्रितः ॥ ३,१३.६ ॥
बुद्ध्या कल्पितरूपेषु लिङ्गेष्वपि च संभवः ।
स्त्रीत्वादीनां व्यवस्था हि सा लिङ्गैर्व्यपदिश्यते ॥ ३,१३.७ ॥
यथा सलिलनिर्भासा मृगतृष्णासु जायते ।
जलोपलब्ध्यनुगुणाद्बीजाद्बुद्धिर्जलेऽसति ॥ ३,१३.८ ॥
तथैवाव्यपदेश्येभ्यो हेतुभ्यस्तारकादिषु ।
मुख्येभ्य इव लिङ्गेभ्यो भेदा लोके व्यवस्थिताः ॥ ३,१३.९ ॥
व्यक्तेषु व्यक्तरूपाणां स्तनादीनां तु दर्शनात् ।
अव्यक्तव्यञ्जनाव्यक्तेर्जातिर्न परिकल्प्यते ॥ ३,१३.१० ॥
अस्तित्वं च प्रतिज्ञाय सदादर्शनमिच्छतः ।
अत्यन्तादर्शने न स्यादसत्त्वं प्रति निश्चयः ॥ ३,१३.११ ॥
न चालमनुमानाय शब्दोऽदर्शनपूर्वकः ।
सिद्धे हि दर्शने किं स्यादनुमानप्रयोजनम् ॥ ३,१३.१२ ॥
आविर्भावस्तिरोभावः स्थितिश्चेत्यनपायिनः ।
धर्मा मूर्तिषु सर्वासु लिङ्गत्वेनानुदर्शिताः ॥ ३,१३.१३ ॥
सर्वमूर्त्यात्मभूतानां शब्दादिनां गुणे गुणे ।
त्रयः सत्त्वादिधर्मास्ते सर्वत्र समवस्थिताः ॥ ३,१३.१४ ॥
रूपस्य चात्ममात्रानां शुक्लादिनां प्रतिक्षणम् ।
का चित्प्रलीयते का चित्कथं चिदभिवर्धते ॥ ३,१३.१५ ॥
क्वथितोदकवच्चैषामनवस्थितवृत्तिता ।
अजस्रं सर्वभावानां भाष्य एवोपवर्णिता ॥ ३,१३.१६ ॥
प्रवृत्तेरेकरूपत्वं साम्यं वा स्थितिरुच्यते ।
अविर्भावतिरोभाव- प्रवृत्त्या वावतिष्ठते ॥ ३,१३.१७ ॥
गुणा इत्येव बुद्धेर्वा निमित्तत्वं स्थितिर्मता ।
स्थितेश्च सर्वलिङ्गानां सर्वनामत्वमुच्यते ॥ ३,१३.१८ ॥
स्थितेषु सर्वलिङ्गेषु विवक्षानियमाश्रयः ।
कस्य चिच्छब्दसंस्कारे व्यापारः क्व चिदिष्यते ॥ ३,१३.१९ ॥
संनिधाने निमित्तानां किं चिदेव प्रवर्तकम् ।
यथा तक्षादिशब्दानां लिन्गेषु नियमस्तथा ॥ ३,१३.२० ॥
भावतत्त्वदृशः शिष्टाः शब्दार्थेषु व्यवस्थिताः ।
यद्यद्धर्मेऽङ्गतामेति लिङ्गं तत्तत्प्रचक्षते ॥ ३,१३.२१ ॥
स्वरभेदाद्यथा शब्दाः साधवो विषयान्तरे ।
लिङ्गभेदात्तथा सिद्धात्साधुत्वमनुगम्यते ॥ ३,१३.२२ ॥
प्रयोगो विप्रयोगश्च लोके यत्रोपलभ्यते ।
शास्त्रमारभ्यते तत्र न प्रयोगाविपर्यये ॥ ३,१३.२३ ॥
उपाधिभेदादर्थेषु गुणधर्मस्य कस्य चित् ।
निमित्तभावः साधुत्वे विवक्षा च व्यवस्थिता ॥ ३,१३.२४ ॥
हिमारण्ये महत्त्वेन युक्ते स्त्रीत्वमवस्थितम् ।
ह्रस्वोपाधिविशिष्टायाः कुट्याः प्रसवयोगिता ॥ ३,१३.२५ ॥
शब्दान्तरानां भिन्नेऽर्थ उपायाः प्रतिपत्तये ।
एकतामिव निश्चित्य लघ्वर्थमुपदर्शिताः ॥ ३,१३.२६ ॥
उत्पत्तिः प्रसवोऽन्येषां नाशः संस्त्यानमित्यपि ।
आत्मरूपं तु भावानां स्थितिरित्यपदिश्यते ॥ ३,१३.२७ ॥
दृष्टं निमित्तं केसां चिज्जात्यादिवदवस्थितम् ।
दृष्टवच्छब्दसंस्कार- मात्रं तु परिकल्पितम् ॥ ३,१३.२८ ॥
यथा प्रसिद्धेऽप्येकत्वे नानात्वाभिनिवेशिनः ।
नानात्वं जनयन्तीव शब्दा लिङ्गेऽपि स क्रमः ॥ ३,१३.२९ ॥
इदं वेयमयं वेति शब्दसंस्कारमात्रकम् ।
निमित्तदर्शनादर्थे कैश्चित्सर्वत्र वर्ण्यते ॥ ३,१३.३० ॥
नावश्यं विषयत्वेन निमित्तं व्यवतिष्ठते ।
इन्द्रियादि यथादृष्टं भेदहेतुस्तदिष्यते ॥ ३,१३.३१ ॥
३,१४: वृत्तिसमुद्देश
कुत्साप्रशंसातिशयैः समाप्तार्थं तु युज्यते ।
पदं स्वार्थादयः सर्वे यस्मात्कुत्सादिहेतवः ॥ ३,१४.१ ॥
देवदत्तादिकुत्सायां वर्तते कुत्सितश्रुतिः ।
कुत्सितस्था तु या कुत्सा तदर्थः को विधीयते ॥ ३,१४.२ ॥
प्रकृष्ट इति शुक्लादि- प्रकर्षस्याभिधायकः ।
प्रकृष्टस्य प्रकर्षे तु तरबादिर्विधीयते ॥ ३,१४.३ ॥
कुत्सितत्वेन कुत्स्यो वा न सम्यग्वापि कुत्सितः ।
स्वशब्दाभिहिते केन विशिष्टोऽर्थः प्रतीयते ॥ ३,१४.४ ॥
न च सांप्रतिकी कुत्सा भेदाभावात्प्रतीयते ।
पूज्यते कुत्सितत्वेन प्रशस्तत्वेन कुत्स्यते ॥ ३,१४.५ ॥
विशेषणविशेष्यत्वं पदयोरुपजायते ।
न प्रातिपदिकार्थश्च तत्रैव व्यतिरिच्यते ॥ ३,१४.६ ॥
विशेष्यं स्यादनिर्ज्ञातं निर्ज्ञातोऽर्थो विशेषणम् ।
परार्थत्वेन शेषत्वं सर्वेषामुपकारिणाम् ॥ ३,१४.७ ॥
विभक्तिभेदो नियमाद्गुणगुण्यभिधायिनोः ।
सामानाधिकरण्यस्य प्रसिद्धिर्द्रव्यशब्दयोः ॥ ३,१४.८ ॥
द्रव्येऽनिर्ज्ञातजातीये कृष्णशब्दः प्रयुज्यते ।
अनिर्ज्ञातगुणे चैवं तिलशब्दः प्रवर्तते ॥ ३,१४.९ ॥
सामान्यानामसंबन्धात्तौ विशेषे व्यवस्थितौ ।
रूपाभेदाद्विशेषं तमभिव्यङ्क्तुं न शक्नुतः ॥ ३,१४.१० ॥
तावेव संनिपतितौ भेदेन प्रतिपादने ।
अवच्छेदमिवाधाय संशयं व्यपकर्षतः ॥ ३,१४.११ ॥
द्रव्यात्मा गुणसंसर्ग- भेदादाश्रीयते पृथक् ।
जातिसंबन्धभेदाच्च द्वितीय इव गृह्यते ॥ ३,१४.१२ ॥
निमित्तैरभिसंबन्धाद्या निमित्तसरूपता ।
तयैकस्यापि नानात्वं रूपभेदात्प्रकल्पते ॥ ३,१४.१३ ॥
द्रव्यावस्था तृतीया तु यस्यां संसृज्यते द्वयम् ।
तयोरवस्थयोर्भेदादाश्रयत्वे नियुज्यते ॥ ३,१४.१४ ॥
बुद्ध्यैकं भिद्यते भिन्नमेकत्वं चोपगच्छति ।
बुद्ध्यावस्था विभज्यन्ते सा ह्यर्थस्य विधायिका ॥ ३,१४.१५ ॥
व्यपदेशिवदेकस्मिन् बुद्ध्या नानात्वकल्पना ।
तया कल्पितभेदः सन्नर्थात्मा व्यपदिश्यते ॥ ३,१४.१६ ॥
क्रियाभेदेन दृष्टानामश्मादीनां पुनः पुनः ।
किं चिद्दर्शनमन्येन दर्शनेनापदिश्यते ॥ ३,१४.१७ ॥
प्रयोगभेदाद्धातूनां प्रकल्प्य बहुरूपताम् ।
भेदाभेदावुपादाय क्व चिदेकाच्त्वमुच्यते ॥ ३,१४.१८ ॥
अन्वयव्यतिरेकाभ्यामर्थवान् परिकल्पितः ।
एको धात्वर्थविगमाद्वर्णत्वेनोपचर्यते ॥ ३,१४.१९ ॥
द्रव्यात्मानस्त्रयस्तस्माद्बुद्धौ नाना व्यवस्थिताः ।
आश्रयाश्रयिधर्मेणेत्ययं पूर्वेभ्य आगमः ॥ ३,१४.२० ॥
सामानाधिकरण्यं च शब्दयोः कैश्चिदिष्यते ।
विशेषणविशेष्यत्वं संज्ञासंज्ञित्वमेव च ॥ ३,१४.२१ ॥
केषां चिज्जातिगुणयोरेकार्थसमवेतयोः ।
वृत्तिः कृष्णतिलेष्विष्टा शब्दे द्रव्याभिधायिनि ॥ ३,१४.२२ ॥
संस्तु रूपरसादिनामाश्रयो नाभिधीयते ।
द्रव्याभिधानेन विना ततस्ते द्वन्द्वभाविनः ॥ ३,१४.२३ ॥
द्रव्याभिधायी कृष्णादिराकाङ्क्षावान् प्रवर्तते ।
निमित्तानुविधायित्वात्तत्तिलादौ न विद्यते ॥ ३,१४.२४ ॥
एवं जातिमति द्रव्ये प्रत्यासन्ने क्रियां प्रति ।
गुणधर्म गुणाविष्टं द्रव्यं भेदाय कल्पते ॥ ३,१४.२५ ॥
गुणमात्राभिधायित्वं के चिदिच्छन्ति वृत्तिषु ।
अजाश्वादिषु संबन्धाद्रूढीनामिव रूढिभिः ॥ ३,१४.२६ ॥
तिले पूर्वमुपात्ते वा तत्रैव मतुबिष्यते ।
स च धर्मः समासेषु गुणस्तस्माद्विशेषणम् ॥ ३,१४.२७ ॥
[पट्वीमृद्व्योः समासे तु यद्यप्येकार्थवृत्तिता ।
भिन्नमत्राधिकरणं प्राग्वृत्तेस्तच्च गृह्यते ॥ ३,१४.२८ *॥
अनुस्यूतेव भेदाभ्यामेका प्रख्योपजायते ।
यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ ३,१४.२९ ॥
इतरेतरयोगस्तु भिन्नसङ्घाभिधायिनाम् ।
प्रत्येकं च समूहोऽसौ समूहिषु समाप्यते ॥ ३,१४.३० ॥
व्यापारसमुदायस्य यथाधिश्रयणादिषु ।
प्रत्येकं जातिवद्वृत्तिस्तथा द्वन्द्वपदेष्वपि ॥ ३,१४.३१ ॥
शौण्डार्धर्चपुरोडाश- च्छत्त्रिणोऽत्र निदर्शनम् ।
ते विष्णुमित्रा इति च भिन्नेषु सहचारिषु ॥ ३,१४.३२ ॥
अर्थान्तराभिधायित्वं तथार्थान्तरवर्तिनाम् ।
याभ्यां चैकमनेकार्थं ताभ्यामेवापरं पदम् ॥ ३,१४.३३ ॥
समुदायान्तरत्वाच्च तादृशोऽर्थो न लौकिकः ।
अन्वयव्यतिरेकाभ्यां शास्त्रार्थोऽपि न दृश्यते ॥ ३,१४.३४ ॥
दुःखा दुरुपपादा च तस्माद्भाष्येऽप्युदाहृता ।
युगपद्वाचिता सा तु व्यवहारार्थमाश्रिता ॥ ३,१४.३५ ॥
समुदायमुपक्रम्य पदं तस्यां प्रयुज्यते ।
विभागेन समाख्याने ततस्तद्द्व्यर्थमुच्यते ॥ ३,१४.३६ ॥
वाक्येऽपि नियता धर्माः के चिद्वृत्तौ द्वयोस्तथा ।
ते त्वभेदेन सामर्थ्य- मात्र एवोपवर्णिताः ॥ ३,१४.३७ ॥
वृत्तौ विशेषवृत्तित्वाद्भेदे सामान्यवाचिता ।
उपमानसमासादौ श्यामादीनामुदाहृता ॥ ३,१४.३८ ॥
वृत्तिरन्यपदार्थे या तस्या वाक्येष्वसंभवः ।
चार्थे द्वन्द्वपदानां च भेदे वृत्तिर्न विद्यते ॥ ३,१४.३९ ॥
भेदे सति निरादीनां क्रान्ताद्यर्थेष्वसंभवः ।
प्राग्वृत्तेर्जातिवाचित्वं न च गौरखरादिषु ॥ ३,१४.४० ॥
क्रीडाया, जीविकायाश्च वाक्येनावचनात्तथा ।
न नित्यग्रहणं युक्तं कौटिल्ये यङ्विधौ यथा ॥ ३,१४.४१ ॥
निर्धारणादिविषये व्यपेक्षैव यतः स्थिता ।
समासप्रतिषेधानां ततो नास्ति प्रयोजनम् ॥ ३,१४.४२ ॥
विधिभिः प्रतिषेधैश्च भेदाभेदनिदर्शनम् ।
कृतं द्वन्द्वैकवद्भावे सङ्घवृत्त्युपदेशवत् ॥ ३,१४.४३ ॥
सामर्थ्यमविशेषोक्तमपि लोकव्यवस्थया ।
वृत्त्यवृत्त्योः प्रयोगज्ञैर्विभक्तं प्रतिपत्तृभिः ॥ ३,१४.४४ ॥
अर्थस्य विनिवृत्तत्वाल्लुगादि न विरुध्यते ।
एकार्थीभाव एवातः समासाख्या विधीयते ॥ ३,१४.४५ ॥
व्यवस्थितविभाषा च सामान्ये कैश्चिदिष्यते ।
तथा वाक्यं व्यपेक्षायां समासोऽन्यत्र शिष्यते ॥ ३,१४.४६ ॥
तुल्यश्रुतित्वात्तत्त्वेऽपि राजादीनामुपाश्रिते ।
वृत्तौ विशेषणाकाङ्क्षा- गमकत्वान्निवर्तते ॥ ३,१४.४७ ॥
संबन्धिशब्दः सापेक्षो नित्यं सर्वः प्रयुज्यते ।
स्वार्थवत्सा व्यपेक्षास्य वृत्तावपि न हीयते ॥ ३,१४.४८ ॥
समुदायेन संबन्धो येसां गुरुकुलादिना ।
संस्पृश्यावयवांस्तेऽपि युज्यन्ते तद्वता सह ॥ ३,१४.४९ ॥
अबुधान् प्रत्युपायाश्च विचित्राः प्रतिपत्तये ।
शब्दान्तरत्वादत्यन्त- भेदो वाक्यसमासयोः ॥ ३,१४.५० ॥
असमासे समासे च गोरथादिष्वदर्शनात् ।
युक्तादिनां न शास्त्रेण निवृत्त्यनुगमः कृतः ॥ ३,१४.५१ ॥
शब्दान्तरत्वाद्युक्तादिः क्व चिद्वाक्ये प्रयुज्यते ।
प्रपर्णप्रपलाशादौ गतशब्दश्च वृत्तिषु ॥ ३,१४.५२ ॥
विशेषणविशेस्यत्वं कैश्चिदेकस्तथाश्रयः ।
उपाये तत्त्वदर्शित्वादिष्यते वृत्तिवाक्ययोः ॥ ३,१४.५३ ॥
पदं यथैव वृक्षादि विशिष्टेऽर्थे व्यवस्थितम् ।
नीलोत्पलाद्यपि तथा भागाभ्यां वर्तते विना ॥ ३,१४.५४ ॥
श्रोत्रियक्षेत्रियादिनां न च वासिष्ठगार्ग्यवत् ।
भेदेन प्रत्ययो लोके तुल्यरूपासमन्वयात् ॥ ३,१४.५५ ॥
सप्तपर्णादिवद्भेदो न वृत्तौ विद्यते क्व चित् ।
रूढ्यरूढिविभागोऽपि क्रियते प्रतिपत्तये ॥ ३,१४.५६ ॥
या सामान्याश्रया संज्ञा विशेषविषया च या ।
बहुलग्रहणान्नास्ति प्रवृत्तिरुभयोस्तयोः ॥ ३,१४.५७ ॥
सुसूक्ष्मजटकेशादौ समासोऽवयवे यदि ।
स्यात्स्यात्तत्रान्तरङ्गत्वाद्बाधकोऽवयवस्वरः ॥ ३,१४.५८ ॥
समुदायस्य वृत्तौ च नैकदेशो विभाष्यते ।
भेद एव विभाषाया नियतो विषयो यतः ॥ ३,१४.५९ ॥
यतश्चाविषयः सोऽस्यास्तस्मान्नास्त्यकृतार्थता ।
अभेदप्रक्रमेऽत्यन्तं भेदानामपसारणात् ॥ ३,१४.६० ॥
महाकष्टश्रितेत्येवं न स्याद्भेदः पदत्रये ।
वृत्ताववयवस्यात्त्वं यस्मान्न प्रतिषिध्यते ॥ ३,१४.६१ ॥
महारण्यमतीते तु त्रिपदाद्भिद्यते स्वरः ।
यस्मात्तत्रान्तरङ्गत्वाद्बाधकोऽवयवस्वरः ॥ ३,१४.६२ ॥
सतिशिष्टबलियस्त्वात्थाथादिस्वर एव तु ।
द्विपदे तेन यगपत्त्रितयं न समस्यते ॥ ३,१४.६३ ॥
येषामपूज्यमानत्वं परार्थानुगमात्मके ।
विशेषणविशेष्यत्वमपि तेषां न कल्पते ॥ ३,१४.६४ ॥
विशेषः श्रूयमाणोऽपि प्रधानेषु गुणेषु वा ।
शब्दान्तरत्वाद्वाक्ये तु वृत्तौ नित्यं न विद्यते ॥ ३,१४.६५ ॥
विशेषकर्मसंबन्धे निर्भुक्तेऽपि कृतादिभिः ।
विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्तते ॥ ३,१४.६६ ॥
अकर्मकत्वे सत्येवं क्तान्तं भावाभिधायि तत् ।
ततः क्रियावता कर्त्रा योगो भवति कर्मणाम् ॥ ३,१४.६७ ॥
अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः ।
संबध्यते क्रिया तद्वत्कृतपूर्व्यादिषु स्थिता ॥ ३,१४.६८ ॥
मुण्डिसूत्र्वादयोऽसद्भिर्भागैरनुगता इव ।
विभक्ताः कल्पितात्मानो धातवः कुट्टिचर्चिवत् ॥ ३,१४.६९ ॥
पुत्रीयतौ न पुत्रोऽस्ति विशेषेच्छा तु तादृशी ।
विनैव पुत्रानुगमाद्या पुत्रे व्यवतिष्ठते ॥ ३,१४.७० ॥
प्राणैर्विना यथा धारिर्जीवतौ प्राणकर्मकः ।
न चात्र धारिर्न प्राणा जीवतिस्तु क्रियान्तरम् ॥ ३,१४.७१ ॥
तथा विनेषिपुत्राभ्यां पुत्रीयायां क्रियान्तरम् ।
अन्वाख्यानाय भेदास्तु सदृशाः प्रतिपादकाः ॥ ३,१४.७२ ॥
आक्षेपाच्च प्रयोगे.न विषयान्तरवर्तिना ।
सदपीच्छाक्यचः कर्म वाक्य एव प्रयुज्यते ॥ ३,१४.७३ ॥
प्रसिद्धेन हृतः शब्दो भावगर्हाभिधायिना ।
अभ्यासे तुल्यरूपत्वान्न यङन्तः प्रयुज्यते ॥ ३,१४.७४ ॥
शब्दा यथा विभज्यन्ते भागैरिव विकल्पितैः ।
अन्वाख्येयास्तथा शास्त्रमतिदूरे व्यवस्थितम् ॥ ३,१४.७५ ॥
अर्थस्यानुगमं कं चिद्दृष्ट्वैव परिकल्पितम् ।
पदं वाक्ये पदे धातुर्धातौ भागश्च मुण्डिवत् ॥ ३,१४.७६ ॥
अविप्रयोगः साधुत्वे व्युत्पत्तिरनवस्थिता ।
उपायान् प्रतिपत्तीनां नाभिमन्येत सत्यतः ॥ ३,१४.७७ ॥
यथैव डित्थे दवतिः पाचके पचतिस्तथा ।
डयतिश्च पचिश्चैव द्वावप्येतावलौकिकौ ॥ ३,१४.७८ ॥
प्रकृतिप्रत्ययावूह्यौ पदात्ताभ्यां पदं तथा ।
अनुबन्धस्वरादिभ्यः शिष्टैः शास्त्रं न तान् प्रति ॥ ३,१४.७९ ॥
शास्त्रदृष्टिस्तु शास्त्रस्य प्राप्तिमात्रेऽप्यनिश्चिते ।
युज्यते प्रत्यवायेन शास्त्रं चक्षुरपश्यताम् ॥ ३,१४.८० ॥
अर्थान्तराभिधानाच्च पौर्वापर्यं न भिद्यते ।
राजदन्ताहिताग्न्यादि- राजाश्वादिषु सर्वथा ॥ ३,१४.८१ ॥
विनैव प्रत्ययैर्वृत्तौ ये भिन्नार्थाभिधायिनः ।
गर्गादयो लुका तेषां साधुत्वमनुगम्यते ॥ ३,१४.८२ ॥
[सोऽयमित्यभिसंबन्धात्प्रत्ययेन विना यदि ।
भृग्वादयः प्रयुज्येरन्नापत्ये नियमो भवेत् ॥ ३,१४.८३ *॥
सोऽयमित्यभिसंबन्धे लिङ्गोपव्यञ्जनादृते ।
प्रष्ठादिषु न जायैव नियमेन प्रतीयते ॥ ३,१४.८४ ॥
मानमेयाभिसंबन्ध- विशेषेऽङ्गीकृते तथा ।
प्रस्थादीनामसाधुत्वं तद्धितेन विना भवेत् ॥ ३,१४.८५ ॥
तद्धितो योगभेदेन वाक्यं वा स्याद्विभाषितम् ।
परिमाणाधिके तत्र प्रथमा शिष्यते पुनः ॥ ३,१४.८६ ॥
व्यतिरिक्तस्य साधुत्वे तदेव च निदर्शनम् ।
युज्यतेऽङ्गीकृताधिक्यं तत्सर्वाभिर्विभक्तिभिः ॥ ३,१४.८७ ॥
शुक्लादिषु मतुब्लोपो व्यतिरेकस्य दर्शनात् ।
असाधुत्वनिवृत्त्यर्थं साधवस्ते बिदादिवत् ॥ ३,१४.८८ ॥
विशेषणाद्विशेष्येऽर्थे तद्भावाभ्युच्चये सति ।
पुनश्च प्रतिसंहारे वृत्तिमेके प्रचक्षते ॥ ३,१४.८९ ॥
निमित्ते प्रत्ययः पूर्वो नानुप्राप्तो निमित्तिना ।
निमित्तवति बुद्धेश्च न निमित्तसरूपता ॥ ३,१४.९० ॥
संस्कारसहिताज्ज्ञानान्नोपश्लेसः स्मृतेरपि ।
व्यापारे तन्निमित्तानां न ग्राह्यं स्यात्तथा स्थितम् ॥ ३,१४.९१ ॥
अन्तःकरणवृत्तौ च व्यर्था बाह्यार्थकल्पना ।
तस्मादनुपकारे वा ग्राह्यं वा न तथा स्थितम् ॥ ३,१४.९२ ॥
अनुस्यूतेव संसृष्टैरर्थे बुद्धिः प्रवर्तते ।
व्याख्यातारो विभज्यार्थांस्तान् भेदेन प्रचक्षते ॥ ३,१४.९३ ॥
तदात्मन्यविभक्ते च बुद्ध्यन्तरमुपाश्रिताः ।
विभागमिव मन्यन्ते विशेषणविशेष्ययोः ॥ ३,१४.९४ ॥
अबुधान् प्रति वृत्तिं च वर्तयन्तः प्रकल्पिताम् ।
आहुः परार्थवचने त्यागाभ्युच्चयधर्मताम् ॥ ३,१४.९५ ॥
अन्वयाद्गम्यते सोऽर्थो विरोधी वा निवर्तते ।
द्व्यर्थमर्थान्तरे वापि तत्राहुरुपसर्जनम् ॥ ३,१४.९६ ॥
उपायमात्रं नानात्वं समूहस्त्वेक एव सः ।
विकल्पाभ्युच्चयाभ्यां वा भेदसंसर्गकल्पना ॥ ३,१४.९७ ॥
वृत्तिं वर्तयतामेवमबुधप्रतिपत्तये ।
भिन्नाः संबोधनोपायाः पुरुषेष्वनवस्थिताः ॥ ३,१४.९८ ॥
वाचिका द्योतिका वापि संख्यानां वा विभक्तयः ।
तद्रूपेऽवयवे वृत्तौ संख्याभेदो निवर्तते ॥ ३,१४.९९ ॥
अभेदैकत्वसंख्या वा तत्रान्यैवोपजायते ।
संसर्गरुपं सैंख्यानामविभक्तं तदुच्यते ॥ ३,१४.१०० ॥
यथौषधिरसाः सर्वे मधुन्याहितशक्तयः ।
अविभागेन वर्तन्ते तां संख्यां तादृशीं विदुः ॥ ३,१४.१०१ ॥
भेदानां वा परित्यागात्संख्यात्मा स तथाविधः ।
व्यापाराज्जातिभागस्य भेदापोहेन वर्तते ॥ ३,१४.१०२ ॥
अगृहीतविशेषेण यथा रूपेण रूपवान् ।
प्रख्यायते न शुक्लादि- भेदरूपस्तु गृह्यते ॥ ३,१४.१०३ ॥
भेदरूपसमावेशे तथा सत्यविवक्षिते ।
भागः प्रकाशितः कश्चिच्छास्त्रेऽङ्गत्वेन गृह्यते ॥ ३,१४.१०४ ॥
संक्ःयासामान्यरूपेण तदा सोऽम्शः प्रतीयते ।
अर्थस्यानेकशक्तित्वे शब्दैर्नियतशक्तिभिः ॥ ३,१४.१०५ ॥
अव्ययानां च यो धर्मो यश्च भेदवतां क्रमः ।
अभिन्नव्यपदेशार्हमन्तरालं तदेतयोः ॥ ३,१४.१०६ ॥
अलुकश्चैकवद्भावस्तस्मिन् सति न शिष्यते ।
स च गोषुचरादीनां धर्मोऽस्ति वचनान्तरे ॥ ३,१४.१०७ ॥
जातौ द्विवचनाभावात्तद्वृत्तिषु न विद्यते ।
प्रत्याख्याने तु योगस्य द्रव्ये गोषुचरादयः ॥ ३,१४.१०८ ॥
आश्रयाद्भेदवत्तायाः सर्वभेदसमन्वयः ।
द्रव्याभिधानपक्षोऽपि जात्याख्यायां न विद्यते ॥ ३,१४.१०९ ॥
सर्वद्रव्यगतिश्चैवमेकशेषश्च नोच्यते ।
प्रत्याख्यातेऽन्यथा सूत्रे भिन्नद्रव्यगतिर्भवेत् ॥ ३,१४.११० ॥
वृत्तौ यो युक्तवद्भावो वरणादिषु शिष्यते ।
अभेदैकत्वसंख्यायां गोदौ तत्र न सिध्यति ॥ ३,१४.१११ ॥
प्राग्वृत्तेर्युक्तवद्भावे षष्ठी भेदाश्रया भवेत् ।
वृत्तौ संख्याविशेषाणां त्यागाद्भेदो निवर्तते ॥ ३,१४.११२ ॥
विद्यमानासु संख्यासु के चित्संख्यान्तरं विदुः ।
अभेदाख्यमुपग्राहि वृत्तौ तच्चोपजायते ॥ ३,१४.११३ ॥
व्यापारं याति भेदाख्यैस्तत्स्वैरवयवैः क्व चित् ।
आत्मा भेदानपेक्षोऽस्य क्व चिदेति निमित्तताम् ॥ ३,१४.११४ ॥
दास्याः पतिरिति व्यक्तो गोदाविति च दृश्यते ।
व्यापारभेदः संख्यायास्तस्मादेव व्यवस्थितः ॥ ३,१४.११५ ॥
द्व्यादिनां च द्विपुत्रादौ बाह्यो भेदो निवर्तते ।
विभक्तिवाच्यः स्वार्थत्वान्निमित्तं त्ववतिष्ठते ॥ ३,१४.११६ ॥
द्वित्वोपसर्जने सङ्घे द्विशब्दस्तत्र वर्तते ।
सोऽयमित्यभिसंबन्धादुभशब्दे न तत्तथा ॥ ३,१४.११७ ॥
उभयस्तत्र तुल्यार्थो वृत्तौ नित्यं प्रयुज्यते ।
सूत्रेऽपि नित्यग्रहणं तदर्थमभिधीयते ॥ ३,१४.११८ ॥
आपि के चापरार्थत्वान्नाभेद उपजायते ।
उभे इति ततः स्वार्थे भेदे वृत्तिः प्रयुज्यते ॥ ३,१४.११९ ॥
स्त्रीत्वाभिधानपक्षेऽपि गुणभावविपर्ययः ।
स्वभावादपरार्थत्वात्तत्र भेदो न हीयते ॥ ३,१४.१२० ॥
तस्माद्द्विवचनाट्टापश्चोभयोऽन्यत्र दृश्यते ।
प्रत्ययं तयपं हित्वा नास्त्युत्तरपदे पुनः ॥ ३,१४.१२१ ॥
प्राप्तिः प्रगृह्यसंज्ञाया न स्यात्प्रत्ययलक्षणात् ।
कुमार्यगारे न ह्यस्ति समासो वचनान्तरे ॥ ३,१४.१२२ ॥
एकद्वयोर्यञादिनां विभाषा लुङ्न कल्पते ।
यौष्माकस्तावकश्चेति भेदाभावान्न सिध्यति ॥ ३,१४.१२३ ॥
दृष्टो गार्ग्यतरे भेदस्तथा गर्गतरा इति ।
युष्मत्पिता त्वत्पितेति तथादेशौ व्यवस्थितौ ॥ ३,१४.१२४ ॥
उपाधिभूता या संख्या प्रकृतौ समवस्थिता ।
आदेशैः सम्ज्नया वापि विभक्त्या व्यज्यते विना ॥ ३,१४.१२५ ॥
शौर्पिके मासजाते च परिमाणं स्वभावतः ।
उपाधिभूतामाश्रित्य संख्यां भेदेन वर्तते ॥ ३,१४.१.२६ ॥
वयस्विनि परिच्छेदः क्रीते चापि न गम्यते ।
इष्टोऽभेदादृते तत्र पतिमाणमनर्थकम् ॥ ३,१४.१२७ ॥
भिन्नस्याभेदवचनात्प्रस्थादिभ्यः शसो विधिः ।
तद्धर्मत्वादभेदात्तु घटादिभ्यो न दृश्यते ॥ ३,१४.१२८ ॥
श्रूयते वचनं यत्र भावस्तत्र विशिष्यते ।
निवर्तते यद्वचनं तस्य भावो न विद्यते ॥ ३,१४.१२९ ॥
कार्यं सत्ताश्रयं शास्त्रादप्रवृत्तिरदर्शनम् ।
वाक्ये दृष्टं यदत्यन्तमभावस्तस्य वृत्तिषु ॥ ३,१४.१३० ॥
सम्ज्ञाविषयभेदार्थं प्रसक्तादर्शनं स्मृतम् ।
श्रूयमानं तु वचनं विशिष्टमुपलभ्यते ॥ ३,१४.१३१ ॥
अभावो वा लुको यत्र रूपवान् वा विधीयते ।
व्यभिचारान्निमित्तस्य तत्रासाधुः प्रसज्यते ॥ ३,१४.१३२ ॥
भेदः संख्याविशेषो वा व्याख्यातो वृत्तिवाक्ययोः ।
सर्वत्रैव विशेषस्तु नावश्यं तादृशो भवेत् ॥ ३,१४.१३३ ॥
आतेश्च भेदहेतुत्वान्न लिङ्गेन विशेष्यते ।
प्रधानं मृगदुग्धादौ गार्गीपुत्रे न स क्रमः ॥ ३,१४.१३४ ॥
अभेदे लिङ्गसंख्याभ्यां योगाच्छुक्लं पटा इति ।
प्रसक्ते शास्त्रमारब्धं सिद्धये लिङ्गसंख्ययोः ॥ ३,१४.१३५ ॥
परार्थं शेषभावं यो वृत्तिषु प्रतिपद्यते ।
गुणो विशेषणत्वेन स सूत्रे व्यपदिश्यते ॥ ३,१४.१३६ ॥
शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः ।
वृत्तेरभिन्नरूपत्वात्तेषु वृत्तिर्न विद्यते ॥ ३,१४.१३७ ॥
रूपाच्च शब्दसंस्कारः सामान्यविषयो यतः ।
तस्मात्तदाश्रयं लिङ्गं वचनं च प्रसज्यते ॥ ३,१४.१३८ ॥
सलिङ्गं च ससंख्यं च ततो द्रव्याभिधायिना ।
संबध्यते पदं तत्र तयोर्भिन्ना श्रुतिर्भवेत् ॥ ३,१४.१३९ ॥
भाविनो बहिरङ्गस्य वचनादाश्रयस्य ये ।
लिङ्गसंख्ये गुणानां ते सूत्रेण प्रतिपादिते ॥ ३,१४.१४० ॥
विशेषवृत्तेरपि च रूपाभेदादलक्षितः ।
यस्माद्विशेषस्तेनात्र भेदकार्यं न कल्पते ॥ ३,१४.१४१ ॥
विशेष एव सामान्यं विशेसाद्भिद्यते यतः ।
अभेदो हि विशेषाणामाश्रितो विनिवर्तकः ॥ ३,१४.१४२ ॥
यद्यदाश्रीयते तत्तदन्यस्य विनिवर्तकम् ।
भेदाभेदविभागस्तु सामान्ये न निरूप्यते ॥ ३,१४.१४३ ॥
अपोद्धारश्च सामान्यमिति तस्योपकारिनः ।
निमित्तावस्थमेवातस्तत्स्वधर्मेण गृह्यते ॥ ३,१४.१४४ ॥
अनिर्धारितधर्मत्वाद्भेदा एव विकल्पिताः ।
निमित्तैर्व्यपदिश्यन्ते सामान्याख्याविशेसिताः ॥ ३,१४.१४५ ॥
यदा तु व्यपदिश्येते लिङ्गसंख्ये स्वभावतः ।
प्रयोगेष्वेव साधुत्वं वाक्ये प्रक्रम्यते तदा ॥ ३,१४.१४६ ॥
तत्र प्रयोगोऽनियतो गुणानामाश्रयैः सह ।
सामान्यं यत्तदत्यन्तं तत्रैव समवस्थितम् ॥ ३,१४.१४७ ॥
न गोत्वं शाबलेयस्य गौरिति व्यपदिश्यते ।
शुक्लत्वं बाहुलेयस्य शुक्ल इत्यपदिश्यते ॥ ३,१४.१४८ ॥
व्यतिरेके च सत्येवं मतुपः श्रवनं भवेत् ।
लुगन्वाख्यायते तस्माद्रसादिभ्यश्च नास्ति सः ॥ ३,१४.१४९ ॥
यत्सोऽयमिति संबन्धाद्रूपाभेदेन वर्तते ।
शुक्लादिवत्ततो लोपस्तद्रसादौ न विद्यते ॥ ३,१४.१५० ॥
आवेशो लिङ्गसंख्याभ्यां क्व चिन्मञ्चादिवत्स्थितह् ।
सोऽयमित्यभिसंबन्धे स प्रस्थादौ न विद्यते ॥ ३,१४.१५१ ॥
लिङ्गं लिङ्गपरित्यागे सूत्रं प्रत्ययशासनम् ।
सोऽयमित्यभिसंबन्धात्पुंशब्दे स्त्र्यभिधायिनि ॥ ३,१४.१५२ ॥
आश्रये लिङ्गसंख्याभ्यामाश्रितं व्यपदिश्यते ।
विशेषणानां चाजातेरिति शास्त्रव्यवस्थया ॥ ३,१४.१५३ ॥
निमित्तानुविधायित्वाद्ये धर्मा भेदहेतुषु ।
त आश्रयेऽपि विद्यन्त इति बुद्धिर्निवर्त्यते ॥ ३,१४.१५४ ॥
आख्यायते च शास्त्रेण लोकरूढा स्वभावतः ।
निमित्ततुल्या गोदादौ प्रवृत्तिर्लिङ्गसंख्ययोः ॥ ३,१४.१५५ ॥
हरितक्यादिषु व्यक्तिः संख्या खलतिकादिषु ।
मनुष्यलुब्विशेषाणामभिधेयाश्रयं द्वयम् ॥ ३,१४.१५६ ॥
जातिप्रयोगे जात्या चेत्संबन्धमुपगच्छति ।
विशेषणं ततो धर्माञ्जातेस्तत्प्रतिपद्यते ॥ ३,१४.१५७ ॥
लुबन्ते संनिपतितं जातेरन्यद्विशेषणम् ।
लुबन्तस्य प्रधानत्वात्तद्धर्मैर्व्यपदिश्यते ॥ ३,१४.१५८ ॥
नञ्समासबहुव्रीहि- द्वन्द्वस्त्र्यतिशयेषु ये ।
भेदा भाष्यानुसारेण वाच्यास्ते लिङ्गसंख्ययोः ॥ ३,१४.१५९ ॥
यदि षष्ठीद्वितीयान्तान्निकृष्टात्तमबादयः ।
न्यक्कारिणि स्युरुत्कृष्टे प्रकृतेः स्याद्विलिङ्गता ॥ ३,१४.१६० ॥
काल्यां कालाद्द्वितीयान्तात्काले काल्यास्तरब्भवेत् ।
न्यक्कारिणि तथा गार्ग्ये गर्गेभ्यः प्रत्ययो भवेत् ॥ ३,१४.१६१ ॥
न्यक्कर्तृषु च गर्गेषु गार्ग्यात्स्यात्तच्च नेष्यते ।
कुमार्याः स्वार्थिके ङीप्स्यात्प्रकृत्यर्थो हि नाधिकः ॥ ३,१४.१६२ ॥
षष्ठ्यन्तादधिके तस्माद्गुणे स्वाश्रयवर्तिनि ।
उत्कृष्टसमवेतायां क्रियायां वा विधीयते ॥ ३,१४.१६३ ॥
उपात्तं च प्रकृत्यर्थो द्रव्यमेवाश्रयस्तयोः ।
सोऽयमित्यभिसंबन्धादभेदेन प्रतीयते ॥ ३,१४.१६४ ॥
रूपाभेदाच्च तद्द्रव्यमाकाङ्क्षावत्प्रतीयते ।
विशेषैर्भिन्नरूपैस्तदाश्रयैरिव युज्यते ॥ ३,१४.१६५ ॥
भिन्नरूपेसु यल्लिङ्गं विशेषेसु व्यवस्थितम् ।
संख्या च ताभ्यां द्रव्यात्मा सोऽभिन्नो व्यपदिश्यते ॥ ३,१४.१६६ ॥
आश्रयः समवायि च निमित्तं लिङ्गसंख्ययोः ।
कर्तृस्थभावकः शेतिरतो भाष्य उदाहृतः ॥ ३,१४.१६७ ॥
निमित्तमाश्रयत्वेन गृह्येत यदि साधनम् ।
कर्मापदिष्टयोः प्राप्तिस्तत्र स्याल्लिङ्गसंख्ययोः ॥ ३,१४.१६८ ॥
शास्त्रे निमित्तभावेन समुदायादपोद्धृतः ।
स्त्र्यर्थस्तस्येच्छया योगः प्रकृत्या प्रत्ययेन वा ॥ ३,१४.१६९ ॥
स्त्रीशब्दो गुणशब्दत्वात्तुल्यधर्मा सितादिभिः ।
गुणमात्रे प्रयुज्येत संस्त्यानवति वाश्रये ॥ ३,१४.१७० ॥
स्त्र्यर्थः संस्त्यानवद्द्रव्यं प्रकृत्यर्थश्च यद्यसौ ।
द्रव्योपलक्षणार्थत्वं संस्त्यानस्य तथा सति ॥ ३,१४.१७१ ॥
संस्त्यानेन क्व चिद्द्रव्यं दृष्टं यद्युपलक्षितम् ।
अनङ्गीकृतसंस्त्यानात्तद्वृत्तेः प्रत्ययो भवेत् ॥ ३,१४.१७२ ॥
भूतादयः षडाख्याश्च संस्त्यानेनोपलक्षिते ।
ब्राह्मण्यादौ यदा वृत्तास्तेभ्यः स्युः प्रत्ययास्तदा ॥ ३,१४.१७३ ॥
तद्वन्तो हि प्रधानत्वात्प्रत्ययाणां प्रयोजकाः ।
सामानाधिकरैण्येऽपि तस्माट्टाबादिसंभवः ॥ ३,१४.१७४ ॥
गुणमात्राभिधायित्वं स्त्रीशब्दे वर्ण्यते यदा ।
प्रकृत्यर्थश्च संस्त्यानं स्वार्थिकाः प्रत्ययास्तदा ॥ ३,१४.१७५ ॥
संस्त्याने केवले वृत्तिः प्रकृतीनां न विद्यते ।
तदाविष्टे ततो द्रव्ये गृह्यन्ते समवस्थिताः ॥ ३,१४.१७६ ॥
उपकारि च संस्त्यानं येषु शब्देष्वपेक्षितम् ।
तेभ्यष्टाबादयस्तच्च भूतादिष्वविवक्षितम् ॥ ३,१४.१७७ ॥
संस्त्यानं प्रत्ययस्यार्थः शुद्धमाश्रीयते यदा ।
तदा द्विवचनानेक- प्रत्ययत्वं न सिध्यति ॥ ३,१४.१७८ ॥
जातिश्चेत्स्त्रीत्वमेवासौ भेदोऽन्यत्राविवक्षितः ।
यस्माद्भिन्नैरपि द्रव्यैस्तदेकं सद्विशिष्यते ॥ ३,१४.१७९ ॥
मात्राणां हि तिरोभावे परिमाणं न विद्यते ।
कुमार्य इति तेन स्यात्कुमार्यां भेदसंभवात् ॥ ३,१४.१८० ॥
जातिसंख्यासमाहारैर्यथैव सहचारिणि ।
द्रव्ये क्रियाः प्रवर्तन्त एकात्मत्वे व्यपेक्षिते ॥ ३,१४.१८१ ॥
मूर्तिभ्यो मूर्तिधर्माणां तथाभेदस्य दर्शनात् ।
सामानाधिकरण्यं च क्रियायोगश्च कल्पते ॥ ३,१४.१८२ ॥
सामानाधिकरण्ये तु मतुब्लोपादपेक्षिते ।
लुक्तद्धितलुकीति स्याल्लुक्तत्राप्युपलक्षणम् ॥ ३,१४.१८३ ॥
केसां चित्त्यक्तभेदेषु द्रव्येष्वेव विधीयते ।
संस्त्यानवत्सु टाबादिरभेदेन समन्वयात् ॥ ३,१४.१८४ ॥
सामान्यभूतो द्रव्यात्मा परिच्छिन्नपरिग्रहः ।
क्रियाभिर्युज्यते भेदैर्भागशश्चावतिष्ठते ॥ ३,१४.१८५ ॥
शुक्लादिष्वाश्रयद्रव्यं प्राधान्येनाभिधीयते ।
स्त्रीत्वं तु प्रत्ययार्थत्वादभिधाविषयो यतः ॥ ३,१४.१८६ ॥
सोऽयमित्यभिसंबन्धादाश्रयं प्रतिपद्यते ।
स्त्रीत्वं स्वभावसिद्धो वा गुणभावविपर्ययः ॥ ३,१४.१८७ ॥
साकाङ्क्षत्वाद्गुणत्वेन सामान्यं वोपदिश्यते ।
व्यक्तीनामात्मधर्मोऽसावेकप्रख्यानिबन्धनः ॥ ३,१४.१८८ ॥
एवम्भूता च सावस्था भागभेदपरिग्रहे ।
कृते बुद्ध्यैव भेदानामाश्रयत्वे च कल्पिते ॥ ३,१४.१८९ ॥
निस्कृष्टेष्वपि भेदेषु व्यक्तिरूपाश्रये ततः ।
लिङ्गप्रत्यवमर्शेन लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.१९० ॥
अन्तरेन चशब्दस्य प्रयोगं द्वन्द्वभाविनाम् ।
अविशिष्टार्थवृत्तित्वं रूपाभेदात्प्रतीयते ॥ ३,१४.१९१ ॥
विकल्पवति वा वृत्तिर्निवर्त्येऽथ समुच्चिते ।
तेषामज्ञातशक्तीनां द्योतकेन नियम्यते ॥ ३,१४.१९२ ॥
वृत्तौ विशिष्टरूपत्वाच्चशब्दो विनिवर्तते ।
अर्थभेदेऽपि सारूप्यात्तच्चार्थेनापदिश्यते ॥ ३,१४.१९३ ॥
चस्य चासत्त्वभूतोऽर्थः स एवाश्रियते यदि ।
तद्धर्मत्वं ततो द्वन्द्वे चादिष्वर्थकृतं हि तत् ॥ ३,१४.१९४ ॥
चार्थः शब्दे क्व चिद्भेदात्कथं चित्समवस्थितः ।
द्योतकाश्चादयस्तस्य वक्ता द्वन्द्वस्तु तद्वताम् ॥ ३,१४.१९५ ॥
विकल्पाद्यभिधेयस्य चार्थस्यान्यपदार्थता ।
द्योतकत्वान्न कल्पेत तस्मात्सदुपलक्ष्यते ॥ ३,१४.१९६ ॥
तत्र स्वाभाविकं लिङ्गं शब्दधर्मे व्यपेक्षिते ।
शब्दः कश्चित्तमेवार्थं कथं चित्प्रतिपद्यते ॥ ३,१४.१९७ ॥
शब्दादर्थाः प्रतायन्ते स भेदानां विधायकः ।
अनुमानं विवक्षायाः शब्दादन्यन्न विद्यते ॥ ३,१४.१९८ ॥
समुच्चितः स्याद्द्वन्द्वार्थो गुणभूतसमुच्चयः ।
समुच्चयो वापि भवेद्गुणभूतसमुच्चितः ॥ ३,१४.१९९ ॥
समुच्चितस्य प्राधान्ये लिङ्गसंख्ये स्वभावतः ।
समुच्चयस्य प्राधान्ये शास्त्रं स्यात्प्रतिपादकम् ॥ ३,१४.२०० ॥
समुच्चयवतोऽर्थस्य प्राधान्येऽप्यपरे विदुः ।
निमित्तानुविधायित्वादसिद्धिं लिङ्गसंख्ययोः ॥ ३,१४.२०१ ॥
समुच्चयो निमित्तं चेत्स्यान्निमित्तानुवर्तनम् ।
अन्वयव्यतिरेकाभ्यां चार्थो द्वन्द्वनिबन्धनः ॥ ३,१४.२०२ ॥
समुच्चितनिमित्तत्वे चार्थस्यापगमेऽपि वा ।
स्वभावसिद्धे द्वन्द्वस्य लिङ्गसंख्ये व्यवस्थिते ॥ ३,१४.२०३ ॥
पदान्तरस्थस्यार्थस्य द्योतकत्वान्न युज्यते ।
निपातो लिङ्गसंख्याभ्यां द्वन्द्वस्त्वर्थस्य वाचकः ॥ ३,१४.२०४ ॥
निमित्तानुविधाने च द्रव्यधर्मानपेक्षणात् ।
गुणप्रधानभावेन क्रियायोगो न कल्पते ॥ ३,१४.२०५ ॥
यस्य नास्ति क्रियायोगः स्वतन्त्रोऽसौ न विद्यते ।
अर्थो द्वन्द्वस्य तत्र स्यादुपादानमनर्थकम् ॥ ३,१४.२०६ ॥
समुच्चयवतोऽर्थस्य वाचको नानुवर्तते ।
निमित्तमपि चास्यार्थः स्वधर्मैर्युज्यते ततः ॥ ३,१४.२०७ ॥
बाह्यो नास्त्याश्रयो द्वन्द्वे विशेषौ तत्र हि श्रुतौ ।
समुच्चयस्तदाधारस्तद्धर्मैर्व्यपदिश्यते ॥ ३,१४.२०८ ॥
यो वावयवभेदाभ्यां भेदवद्भ्यामिवान्वितः ।
एकः समूहो धर्मान् स भागयोः प्रतिपद्यते ॥ ३,१४.२०९ ॥
एकश्च द्व्यात्मकोऽर्थोऽसौ भेदाभेदसमन्वितः ।
यौ भेदावाश्रितस्तत्स्थे लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.२१० ॥
यथा स्वशब्दाभिहिते चैत्रार्थे न प्रयुज्यते ।
चैत्रशब्दो बहुव्रिहावप्रयोगस्तथा भवेत् ॥ ३,१४.२११ ॥
यथा गौरिति शुक्लादेरभिधानं न विद्यते ।
एवं यस्याभिसंबन्धो गोभिस्तावत्प्रतीयते ॥ ३,१४.२१२ ॥
संबन्धी नियतो रूढश्चित्राणां न च विद्यते ।
गवां यथा वज्रपाणिस्त्र्यक्षे वाऽपि व्यवस्थितः ॥ ३,१४.२१३ ॥
शब्दान्तरत्वाद्वाक्येषु विशेषा यद्यपि श्रुताः ।
वृत्तिशब्दोऽन्य एवायं सामान्यस्याभिधायकः ॥ ३,१४.२१४ ॥
अगोरचित्रगोश्चैव रूपभेदान्निवर्तकः ।
न चित्रगुर्विशेषाणां रूपाभेदात्तु वाचकः ॥ ३,१४.२१५ ॥
यथा चित्रगुरित्येतत्प्रयुक्ते न प्रयुज्यते ।
एवं यदि स्यात्सामान्यं तस्य न स्यात्प्रतिश्रुतिः ॥ ३,१४.२१६ ॥
सर्वादयो विशेषास्तु प्रदेशानां निवर्तकाः ।
यथा प्रदेशाः सामान्य- प्रदेशान्तरबाधकाः ॥ ३,१४.२१७ ॥
विभक्त्यर्थाभिधानाद्वा षष्ठी नानुप्रयुज्यते ।
द्रव्यस्यानभिधानात्तु तच्छब्दोऽनुप्रयुज्यते ॥ ३,१४.२१८ ॥
सामानाधिकरण्यं चेन्मतुब्लोपात्प्रकल्पते ।
मतुपोऽपि तदर्थत्वादनवस्था प्रसज्यते ॥ ३,१४.२१९ ॥
संबन्धस्य च संबन्दी संबन्धोऽन्यः प्रसज्यते ।
विभक्त्यर्थप्रधाने च क्रियायोगो न कल्पते ॥ ३,१४.२२० ॥
विभक्त्यर्थप्रधानत्वात्ततस्तत्रेति न क्रिया ।
दृश्यादिः कर्मकर्त्रादि- निमित्तत्वाय कल्पते ॥ ३,१४.२२१ ॥
अन्तर्भवेच्च संबन्धः प्राधान्याभिहितः कथम् ।
स प्रातिपदिकार्थश्च तथाभूतः कथं भत्वेत् ॥ ३,१४.२२२ ॥
असंभवात्तु संबन्धे संबन्धसहचारिणि ।
जातिसंख्यासमाहार- कार्याणामिव संभवः ॥ ३,१४.२२३ ॥
सोऽयमित्यभिसंबन्धाद्विशिष्टाश्रयवाचिनाम् ।
शुक्लादिवल्लिङ्गसंख्ये शास्त्रारम्भाद्भविष्यतः ॥ ३,१४.२२४ ॥
भेदेन तु विवक्षायां सामान्ये वा विवक्षिते ।
सलिङ्गस्य ससंख्यस्य पदार्थस्यागतिर्भवेत् ॥ ३,१४.२२५ ॥
साधुत्वं न विभक्त्यर्थ- मात्रे वृत्तस्य दृश्यते ।
कृत्स्नार्थवृत्तेः साधुत्वमित्यर्थग्रहणं कृतम् ॥ ३,१४.२२६ ॥
सोऽयमित्यभिसंबन्धाद्द्रव्यवृत्तिरयं यदा ।
सलिङ्गस्य ससंख्यस्य तदा साधुत्वमुच्यते ॥ ३,१४.२२७ ॥
अन्तर्भूतविभक्त्यर्थे षष्ठी न श्रूयते यथा ।
तथाश्रुतिः प्रसज्येत लिङ्गसंख्याभिधायिनाम् ॥ ३,१४.२२८ ॥
साधर्म्यमव्ययेन स्याद्बहुव्रीहेस्तथा सति ।
लिङ्गसंख्यानिमित्तस्य संस्कारस्यापवर्तनात् ॥ ३,१४.२२९ ॥
प्रयुक्तेन च संबन्धाच्चैत्रादिश्रवनं भवेत् ।
विना विभक्त्या संबन्धो विभक्त्या विद्यते विना ॥ ३,१४.२३० ॥
अभिधानेऽपि संख्यायाः संख्यात्वं न निवर्तते ।
षष्ठ्यर्थस्याभिधाने तु स्यात्प्रातिपदिकार्थता ॥ ३,१४.२३१ ॥
अनुप्रयोगसिद्ध्यर्थं न विभक्त्यर्थकल्पना ।
वस्त्वन्तरमुपक्षिप्तमिति के चित्प्रचक्षते ॥ ३,१४.२३२ ॥
संबन्दिभिर्विशिष्टानां संबन्धानां निमित्तता ।
संबन्धैर्वा विशिष्टानां तद्वतां स्यान्निमित्तता ॥ ३,१४.२३३ ॥
के चित्संयोगिनो दण्डाद्विषाणात्समवायिनः ।
तद्वति प्रत्ययानाहुर्बहुव्रीहिं तथैव च ॥ ३,१४.२३४ ॥
भिन्नं संबन्धिभेदेन संबन्धमपरे विदुः ।
निमित्तं स विभक्त्यर्थः समासेनाभिधीयते ॥ ३,१४.२३५ ॥
प्रधानमन्यार्थतया भिन्नं स्वैरुपसर्जनैः ।
निमित्तमब्बिधेयं वा सर्वपश्चादपेक्ष्यते ॥ ३,१४.२३६ ॥
स्वामिनि व्यतिरेकश्च वाक्ये यद्यपि दृश्यते ।
प्राधान्य एव तस्येष्टो बहुव्रीहिर्विवक्षिते ॥ ३,१४.२३७ ॥
गवां विशेषणत्वेन यदा तद्वान् प्रवर्तते ।
अस्यैता इति तत्रार्थे बहुव्रीहिर्न विद्यते ॥ ३,१४.२३८ ॥
यदा प्रत्यवमर्शस्तु तासां स्वामी गवामिति ।
गोभिस्तदाभिसंबन्धो निमित्तत्वाय कल्पते ॥ ३,१४.२३९ ॥
अपेक्षमानः संबन्धं रूढित्वस्य निवृत्तये ।
निमित्तानुविधायित्वात्तद्धर्मार्थः प्रसज्यते ॥ ३,१४.२४० ॥
नाना चित्रा इति यथा निमित्तमनुरुध्यते ।
नानाभूतेऽपि वृत्तः सन् बहुव्रीहिस्तथा भवेत् ॥ ३,१४.२४१ ॥
संबन्धिनि निमित्ते तु द्रव्यधर्मो न हीयते ।
लिङ्गाभावो हि लिङ्गस्य विरोधित्वेन वर्तते ॥ ३,१४.२४२ ॥
संख्वावांल्लिङ्गवाम्श्चार्थोऽभिन्नधर्मा, निमित्ततः ।
आसन्न एव द्रव्यत्वात्तद्धर्मैर्न विरुध्यते ॥ ३,१४.२४३ ॥
विभक्त्यर्थेन चाविष्टं शुद्धं चेति द्विधा स्थितम् ।
द्रव्यं शुद्धस्य यो धर्मः स न स्यादन्यधर्मणः ॥ ३,१४.२४४ ॥
द्रव्यमात्रस्य निर्देशे भेदोऽयमविवक्षितः ।
ग्रन्थे पूर्वत्र भेदस्तु द्वितीयेऽनुप्रदर्शितः ॥ ३,१४.२४५ ॥
द्रव्यस्य ग्रहणं चात्र लिङ्गसंख्याविशेषणम् ।
द्रव्याश्रितत्वं हि तयोस्ततोऽन्यस्य न सिध्यतः ॥ ३,१४.२४६ ॥
संबन्धिभिन्नसंबन्ध- परिछिन्ने प्रवर्तते ।
समासो द्रव्यसामान्ये विशिष्टार्थानुपातिनि ॥ ३,१४.२४७ ॥
द्रव्यधर्मानतिक्रान्तो भेदधर्मेष्ववस्थितः ।
भविष्यदाश्रयापेक्षे लिङ्गसंख्ये प्रपद्यते ॥ ३,१४.२४८ ॥
शास्त्रप्रवृत्तिभेदेऽपि लौकिकोऽर्थो न भिद्यते ।
नञ्समसे यतस्तत्र त्रयः पक्षा विचारिताः ॥ ३,१४.२४९ ॥
शब्दान्तरेऽपि चैकत्वमाश्रित्यैवं विचारणा ।
अब्रह्मणादिषु नञः प्रयोगो न हि विद्यते ॥ ३,१४.२५० ॥
प्राक्समासात्पदार्थानां निवृत्तिर्द्योत्यते नञा ।
स्वभावतो निवृत्तानां रूपाभेदादलक्षिता ॥ ३,१४.२५१ ॥
ब्राह्मणादिस्थया वाक्येष्वाख्यातपदवाच्यया ।
क्रियया यस्य संबन्धो वृत्तिस्तस्य न विद्यते ॥ ३,१४.२५२ ॥
पाचकादिपदस्था चेन्नञा संबध्यते क्रिया ।
तत्र सत्तानुपादानात्त्रिपक्षी नोपपद्यते ॥ ३,१४.२५३ ॥
सत्तयैवाभिसंबन्धो यदि सर्वत्र कल्प्यते ।
असन्निति समासेऽस्मिन् सत्तान्या परिकल्प्यताम् ॥ ३,१४.२५४ ॥
क्त्वान्ते च तुमुनन्ते च नञ्समासे न दृश्यते ।
विशेषणविशेष्यत्वं नञासत्ताभिधायिना ॥ ३,१४.२५५ ॥
क्रियायाः साधनाधार- सामान्ये नञ्व्यवस्थितः ।
ततो विशिष्टैराधारैर्युज्यते ब्राह्मणादिभिः ॥ ३,१४.२५६ ॥
वृत्तौ यथा गताद्यर्थमुपादाय निरादयः ।
युज्यन्ते साधनाधारैर्नञ्समासेऽपि स क्रमः ॥ ३,१४.२५७ ॥
तत्रासति नञो वृत्तेर्ब्राह्मणक्षत्रियादिभिः ।
विशेषणविशेष्यत्वं कल्प्यते कुब्जखञ्जवत् ॥ ३,१४.२५८ ॥
कामचारे च सत्येवमसतः स्यात्प्रधानता, ।
गुणत्वमितरेषां च तेषां वा स्यात्प्रधानता ॥ ३,१४.२५९ ॥
प्राधान्येनाश्रिताः पूर्वं श्रुतेः सामान्यवृत्तयः ।
विशेष एव प्रक्रान्ता ब्राह्मणक्षत्रिवादवः ॥ ३,१४.२६० ॥
यथा गौरादिभिस्तेषामवच्छेदो विधीयते ।
असताप्यनभिव्यक्तं तादात्म्यं व्यज्यते तथा ॥ ३,१४.२६१ ॥
यथा सत्ताभिधानाय सन्नर्थः परिकल्प्यते ।
तथासत्ताभिधानाय निरुपाख्योऽपि कल्पते ॥ ३,१४.२६२ ॥
क्षत्रियादौ पदं कृत्वा बुद्धिः सत्तान्तराश्रया ।
जात्या भिन्नां ततः सत्तां प्रसक्तामपकर्षति ॥ ३,१४.२६३ ॥
अभाव इति भावस्य प्रतिषेधे विवक्षिते ।
सोपाख्यत्वमनाश्रित्य प्रतिषेधो न कल्पते ॥ ३,१४.२६४ ॥
अनेकधर्मवचनाः शब्दाः सङ्घाभिधायिनः ।
एकदेशेषु वर्तन्ते तुल्यरूपाः स्वभावतः ॥ ३,१४.२६५ ॥
यथैकदेशकरणात्कृत इत्वभिधीयते ।
अकृतश्चेति संघातः स एवाब्राह्मणे क्रमः ॥ ३,१४.२६६ ॥
ब्राह्मणोऽब्राह्मणस्तस्मादुपन्यासात्प्रसज्यते ।
अकृते वा कृतासङ्गादविशिष्टं कृताकृतात् ॥ ३,१४.२६७ ॥
अमुख्यसंभवे तत्र मुख्यस्य विनिवृत्तये ।
शास्त्रान्वाख्यानसमये नञ्प्रयुक्तो विशेषकः ॥ ३,१४.२६८ ॥
पदार्थानुपघातेन दृश्यतेऽन्यविशेषणम् ।
अथ जातिमतोऽर्थस्य कश्चिद्धर्मो निवर्तितः ॥ ३,१४.२६९ ॥
अवश्यं ब्राह्मणे कश्चित्क्व चिद्धर्मो न विद्यते ।
विशेषावचनात्तत्र नञः श्रुतिरनर्थिका ॥ ३,१४.२७० ॥
अविशिष्टस्य पर्यायो नञ्विशिष्टः प्रसज्यते ।
अन्वाख्यानाद्धि साधुत्वमेवंभूते प्रतीयते ॥ ३,१४.२७१ ॥
पदार्थानुपघातेन यद्यप्यत्र विशेषणम् ।
उपचारसतोऽर्थस्य सावस्था द्योत्यते नञा ॥ ३,१४.२७२ ॥
विशेष्येषु यथाभूतः पदार्थः समवस्थितः ।
तथाभूते तथाभावो गम्यते भेदहेतुभिः ॥ ३,१४.२७३ ॥
निवृत्तेऽवयवस्तस्मिन् पदार्थे वर्तते कथम् ।
नानिमित्ता हि शब्दस्य प्रवृत्तिरुपपद्यते ॥ ३,१४.२७४ ॥
आराच्छब्दवदेकस्य विरुद्धेऽर्थे स्वभावतः ।
शब्दस्य वृत्तिर्यद्यस्ति नञः श्रुतिरनर्थिका ॥ ३,१४.२७५ ॥
अथ स्वभावो वचनादन्वाख्येयत्वमर्हति ।
तद्वाच्यमप्रसिद्धत्वान्नञार्थो विनिवर्त्यते ॥ ३,१४.२७६ ॥
यद्यप्युभयवृत्तित्वं प्रधानं तु प्रतीयते ।
प्रस्थानं गम्यते शुद्धे तदर्थेऽपि न तिष्ठतौ ॥ ३,१४.२७७ ॥
किमर्थमतथाभूतेऽसति मुख्यार्थसंभवे ।
भेदे ब्राह्मणशब्दस्य वृत्तिरभ्युपगम्यते ॥ ३,१४.२७८ ॥
अयं पदार्थ एतस्मिन् क्षत्रियादौ न विद्यते ।
इति तद्वचनः शब्दः प्रत्ययाय प्रयुज्यते ॥ ३,१४.२७९ ॥
बुद्धेर्विषयतां प्राप्ते शब्दादर्थे प्रतीयते ।
प्रवृत्तिर्वा निवृत्तिर्वा ग्रुत्या ह्यर्थोऽनुसज्यते ॥ ३,१४.२८० ॥
असम्यगुपदेशाद्वा निमित्तात्संशयस्य वा ।
शब्दप्रवृत्तिर्न त्वस्ति लोष्टादिषु विपर्ययात् ॥ ३,१४.२८१ ॥
अनेकस्मादस इति प्राधान्ये सति सिध्यति ।
सापेक्षत्वं प्रधानानामेवं युक्तं त्वतल्विधौ ॥ ३,१४.२८२ ॥
एकस्य च प्रधानत्वात्तद्विशेषणसंनिधौ ।
प्रधानधर्माव्यावृत्तिरतो न वचनान्तरम् ॥ ३,१४.२८३ ॥
प्रधानमत्र भेद्यत्वादेकार्थो विकृतो नञा ।
हित्वा स्वधर्मान् वर्तन्ते द्व्यादयोऽप्येकतां गताः ॥ ३,१४.२८४ ॥
ब्राह्मणत्वं यथापन्ना नञ्युक्ताः क्षत्रियादयः ।
द्वित्वादिषु तथैकत्वं नञ्योगादुपचर्यते ॥ ३,१४.२८५ ॥
एकत्वयोगमासाद्य स धर्मः प्रतिषिध्यते ।
द्व्यादिभ्यस्तेषु तच्छब्दो वर्तते ब्राह्मणादिवत् ॥ ३,१४.२८६ ॥
आविष्टसंख्यो वाक्येऽसौ यथा द्व्यादौ प्रयुज्यते ।
वृत्तौ तस्य प्रधानत्वात्सा संख्या न निवर्तते ॥ ३,१४.२८७ ॥
प्रतिषेध्यो यथाभूतस्तथाभूतोऽनुषज्यते ।
वचनान्तरयोगे हि न सोऽर्थः प्रतिषिध्यते ॥ ३,१४.२८८ ॥
अशुक्ल इति कृष्णादिर्यथार्थः संप्रतीयते ।
संख्यान्तरं तथानेक इत्यत्राप्यभिधीयते ॥ ३,१४.२८९ ॥
क्रियाप्रसङ्गात्सर्वेषु कर्मस्वङ्गीकृतेषु च ।
एकस्मिन् प्रतिषिद्धेऽपि प्राप्तमन्यत्प्रतीयते ॥ ३,१४.२९० ॥
क्रियाश्रुतिश्च प्रक्रान्ते प्रसज्यप्रतिषेधने ।
पर्युदासे तु नियतं संख्येयान्तरमुच्यते ॥ ३,१४.२९१ ॥
धात्वर्थः कर्मविषयो व्यपदिष्टः स्वसाधनैः ।
अर्थात्सर्वाणि कर्माणि प्रागाक्षिप्यावतिष्ठते ॥ ३,१४.२९२ ॥
निर्ज्ञातसाधनाधारे यत्राख्याते प्रयुज्यते ।
अनेक इति पश्चाच्च तिष्ठतीत्यनुषज्यते ॥ ३,१४.२९३ ॥
साध्यत्वात्तत्र सिद्धेन क्रिया द्रव्येण लक्ष्यते ।
प्रागेवाङ्गीकृतं द्रव्यमतः पूर्वेण भिद्यते ॥ ३,१४.२९४ ॥
संख्यैव प्रतिषेधेन संख्यान्तरमपेक्षते ।
वाक्येऽपि तेन नैकत्व- मात्रमेव निवर्त्यते ॥ ३,१४.२९५ ॥
स्नेहान्तरादवच्छेदस्तथासत्तेः प्रतीयते ।
तैलेन भोजनेऽप्राप्ते न त्वन्यदुपसेचनम् ॥ ३,१४.२९६ ॥
एकार्थे वर्तमानाभ्यामसता ब्राह्मणेन च ।
यदा जात्यन्तरं बाह्यं क्षत्रियाद्यपदिश्यते ॥ ३,१४.२९७ ॥
श्यामेव शस्त्री कन्येति यथान्यद्व्यपदिश्यते ।
असन् ब्राह्मण इत्याभ्यां तथान्ये क्षत्रियादयः ॥ ३,१४.२९८ ॥
असास्नो गौरिति यथा, गवयो व्यपदिश्यते ।
जात्यन्तरं न गोरेव सस्नाभावः प्रतीयते ॥ ३,१४.२९९ ॥
तुल्यरूपं यथाख्यातं कण्टकैर्भेदहेतुभिः ।
खदिरं जातिभेदेन खर्जूरात्प्रतिपद्यते ॥ ३,१४.३०० ॥
अविद्यमानब्राह्मण्यो यादृशो ब्राह्मणो भवेत् ।
अङ्गीकृतोपमानेन तथान्योऽर्थोऽभिधीयते ॥ ३,१४.३०१ ॥
अवृष्टयो यथा वर्सा नीहाराभ्रसमावृताः ।
तद्रूपत्वात्स हेमन्त इत्यभिन्नः प्रतीयते ॥ ३,१४.३०२ ॥
अपरे ब्राह्मणादीनां सर्वेषां जातिवाचिनाम् ।
द्रव्यस्यान्यपदार्थत्वे नञा योगं प्रचक्षते ॥ ३,१४.३०३ ॥
न चैवंविषयः कश्चिद्बहुव्रीहिः प्रकल्पते ।
अगुरश्व इति व्याप्तिर्नञ्समासेन यस्य न ॥ ३,१४.३०४ ॥
द्वन्द्वैकदेशिनोरुक्ता परवल्लिङ्गता यतः ।
अवर्षासु ततोऽसिद्धिरिष्टयोर्लिङ्गसंख्ययोः ॥ ३,१४.३०५ ॥
विशेषणं ब्राह्मणादि क्रियासंबन्धिनोऽसतः ।
यदा विषयभिन्नं तत्तदासत्त्वं प्रतीयते ॥ ३,१४.३०६ ॥
ब्राह्मणत्वेन चासत्त्वादुच्यते सत्तदन्यथा ।
असदित्यपि सत्त्वेन सतः सत्ता निवर्त्यते ॥ ३,१४.३०७ ॥
समन्यद्रव्यवृत्तित्वान्निमित्तानुविधायिनः ।
अयोगो लिङ्गसंख्याभ्यां स्याद्वा सामान्यधर्मता ॥ ३,१४.३०८ ॥
प्रागसत्त्वाभिधायित्वं समासे द्रव्यवाचिता ।
निमित्तानुविधानं च न सर्वत्र स्वभावतः ॥ ३,१४.३०९ ॥
निमित्तानुविधाने च क्रियायोगो न कल्पते ।
तथा चाव्यपदेश्यत्वादुपादानमनर्थकम् ॥ ३,१४.३१० ॥
असत्सामान्यवृत्तिर्वा विशेषैः क्षत्रियादिभिः ।
प्रयुक्तैराश्रयैर्भिन्नो याति तल्लिङ्गसंख्यताम् ॥ ३,१४.३११ ॥
प्रागाश्रयो हि भेदाय प्रधानेऽभ्यन्तरीकृतः ।
पुनः प्रत्यवमर्शेन विभक्त इव दृश्यते ॥ ३,१४.३१२ ॥
समासे श्रूयते स्वार्थो येन तद्वांस्तदाश्रयः ।
द्रव्यं तु लिङ्गसंख्यावदसताभ्यन्तरीकृतम् ॥ ३,१४.३१३ ॥
एकार्थविषयौ शब्दौ तस्मिन्नन्यार्थवर्तिनौ ।
असतैव तु भेदानां सर्वेषामुपसंग्रहः ॥ ३,१४.३१४ ॥
ते क्षत्रियादिभिर्वाच्या वाच्या वा सर्वनामभिः ।
यान्तीवान्यपदार्थत्वं नञो रूपाविकल्पनात् ॥ ३,१४.३१५ ॥
विशेषस्याप्रयोगे तु लिङ्गसंख्ये न सिध्यतः ।
अवर्षादिषु दोसश्च हेमन्तोऽन्याश्रयो यतः ॥ ३,१४.३१६ ॥
आकृतिः सर्वशब्दानां यदा वाच्या प्रतीयते ।
एकत्वादेकशब्दत्वं न्याय्यं तस्याश्च वर्ण्यते ॥ ३,१४.३१७ ॥
आविष्टलिङ्गता तस्यां स्याद्ग्राम्यपगुसङ्घवत् ।
द्रव्यभेदेऽपि चैकत्वात्तत्रैकवचनं भवेत् ॥ ३,१४.३१८ ॥
आश्रयाणां हि लिङ्गैः सा नियतैरेव युज्यते ।
तथा च युक्तवद्भावे प्रतिषेधो निरर्थकः ॥ ३,१४.३१९ ॥
सर्वत्राविष्टलिङ्गत्वं लोकलिङ्गपरिग्रहे ।
विरोधित्वात्प्रसज्येत नाश्रितं तच्च लौकिकम् ॥ ३,१४.३२० ॥
सामान्यमाकृतिर्भावो जातिरित्यत्र लौकिकम् ।
लिङ्गं न संभवत्येव तेनान्यत्परिगृह्यते ॥ ३,१४.३२१ ॥
प्रवृत्तिरिति सामान्यं लक्षणं तस्य कथ्यते ।
आविर्भावस्तिरोभावः स्थितिश्चेत्यथ भिद्यते ॥ ३,१४.३२२ ॥
प्रवृत्तिमन्तः सर्वेऽर्थास्तिसृभिश्च प्रवृत्तिभिः ।
सततं न वियुज्यन्ते वाचश्चैवात्र संभवः ॥ ३,१४.३२३ ॥
यश्चाप्रवृत्तिधर्मार्थश्चितिरूपेण गृह्यते ।
अनुयातीव सोऽन्येषां प्रवृत्तीर्विश्वगाश्रयाः ॥ ३,१४.३२४ ॥
तेनास्य चितिरूपं च चितिकालश्च भिद्यते ।
तस्य स्वरूपभेदस्तु न कश्चिदपि विद्यते ॥ ३,१४.३२५ ॥
अचेतनेषु चैतन्यं संक्रान्तमिव दृश्यते ।
प्रतिबिम्बकधर्मेण यत्तच्छब्दनिबन्धनम् ॥ ३,१४.३२६ ॥
अवस्था तादृशी नास्ति या लिङ्गेन न युज्यते ।
क्व चित्तु शब्दसंस्कारो लिङ्गस्यानाश्रये सति ॥ ३,१४.३२७ ॥
कृत्तद्धिताभिधेयानां भावानां न विरुध्यते ।
शास्त्रे लिङ्गं गुणावस्था तथा चाकृतिरिष्यते ॥ ३,१४.३२८ ॥
लिङ्गं प्रति न भेदोऽस्ति द्रव्यपक्षेऽपि कश्चन ।
तस्मात्सप्त विकल्पा ये सैवात्राविष्टलिङ्गता ॥ ३,१४.३२९ ॥
वचने नियमः शास्त्राद्द्रव्यस्याभ्युपगम्यते ।
यतस्तदाकृतौ शास्त्रमन्यथैव समर्थ्यते ॥ ३,१४.३३० ॥
वर्तते यो बहुष्वर्थोऽभेदे तस्य विवक्षिते ।
स्वाश्रयैर्व्यपदिष्टस्य शास्त्रे वचनमुच्यते ॥ ३,१४.३३१ ॥
यदा त्वाश्रयभेदेन भेद एव प्रतीयते ।
आकृतेर्द्रव्यपक्षेन तदा भेदो न विद्यते ॥ ३,१४.३३२ ॥
अभेदे त्वेकशब्दत्वाच्छास्त्राच्च वचने सति ।
एकशेषो न वक्तव्यो वचनानां च संभवः ॥ ३,१४.३३३ ॥
ननु चानभिधेयत्वे द्रव्यस्य तदपाश्रयः ।
आकृतेरुपकारोऽयं द्रव्याभावान्न कल्पते ॥ ३,१४.३३४ ॥
व्यपदेशोऽभिधेयेन न शास्त्रे कश्चिदाश्रितः ।
द्रव्यं नाम पदार्थो यो न च स प्रतिषिध्यते ॥ ३,१४.३३५ ॥
गुणभावोऽभिधेयत्वं प्रति द्रव्यस्य नाश्रितः ।
उपकारि गुणः शेषः परार्थ इति कल्पना ॥ ३,१४.३३६ ॥
द्रव्ये न गुणभावोऽस्ति विनाद्रव्याभिधायिताम् ।
आकृतौ वा प्रधानत्वमत एवं समर्थ्यते ॥ ३,१४.३३७ ॥
कैश्चिद्गुणप्रधानत्वं नामाख्यातवदिष्यते ।
न वृत्तिवत्परार्थस्य गुणभावस्तु वर्ण्यते ॥ ३,१४.३३८ ॥
गुणभूतस्य नानात्वादाकृतेरेकशब्दता ।
सिद्धो वचनभेदश्च द्रव्यभेदसमन्वयात् ॥ ३,१४.३३९ ॥
साधनं गुणभावेन क्रियाया भेदकं यथा ।
आख्यातेष्वेकशब्दाया जातेर्द्रव्यं तथोच्यते ॥ ३,१४.३४० ॥
एकत्वे तुल्यरूपत्वाच्छब्दानां प्रतिपादने ।
निमित्तात्तद्वतोऽर्थस्य विशिष्टग्रहणे सति ॥ ३,१४.३४१ ॥
सोऽयमित्यभिसंबन्धादाश्रयैराकृतेः सह ।
प्रवृत्तौ भिन्नशब्दायां लिङ्गसंख्ये प्रसिध्यतः ॥ ३,१४.३४२ ॥
प्राक्च जात्यभिसंबन्धात्सर्वनामाभिधेयता ।
वस्तूपलक्षणं सत्त्वे प्रयुज्यन्ते त्यदादयः ॥ ३,१४.३४३ ॥
पाकौ पाका इति यथा भेदकः कैश्चिदाश्रयः ।
इष्यते चानुपादानो धर्मोऽसौ गुणवाचिनाम् ॥ ३,१४.३४४ ॥
आश्रयस्यानुपादाने केवलं लभते यदि ।
आधारधर्मान् सामान्यं पुरस्तात्तद्विचारितम् ॥ ३,१४.३४५ ॥
जातौ पूर्वं प्रवृत्तानां शब्दानां जातिवाचिनाम् ।
अशब्दवाच्यात्संबन्धाद्व्यक्तिरप्युपजायते ॥ ३,१४.३४६ ॥
सोऽयमित्यभिसंबन्धाज्जातिधर्मोपचर्यते ।
द्रव्यं तदाश्रयो भेदो जातेश्चाभ्युपगम्यते ॥ ३,१४.३४७ ॥
मञ्चशब्दो यथाधेयं मञ्चेष्वेव व्यवस्थितः ।
तत्त्वेनाह तथा जाति- शब्दो द्रव्येषु वर्तते ॥ ३,१४.३४८ ॥
तत्र जातिपदार्थत्वं तथैवाभ्युपगम्यते ।
जातिरुत्सृष्टसंख्या तु द्रव्यात्मन्यनुषज्यते ॥ ३,१४.३४९ ॥
अस्येदमिति वा यत्र सोऽयमित्यपि वा श्रुतिः ।
वर्तते परधर्मेण तदन्यदभिधीयते ॥ ३,१४.३५० ॥
यत्प्रधानं न तस्यास्ति स्वरूपमनिरूपनात् ।
गुणस्य चात्मना द्रव्यं तद्भावेनोपलक्ष्यते ॥ ३,१४.३५१ ॥
गुणस्य भेदकाले तु प्राधान्यमुपजायते ।
संसर्गश्रुतिरर्थेषु साक्षादेव न वर्तते ॥ ३,१४.३५२ ॥
जातौ वृत्तो यदा द्रव्ये स शब्दो वर्तते पुनः ।
जातेरेव पदार्थत्वं न तदाभ्युपगम्यते ॥ ३,१४.३५३ ॥
प्रवृत्तानां पुनर्वृत्तिरेकत्वेनोपवर्ण्यते ।
प्रतिपत्तेरुपायेषु न तत्त्वमनुगम्यते ॥ ३,१४.३५४ ॥
अपृथक्शब्दवाच्यस्य जातिराश्रीयते यदा ।
द्रव्यस्य सति संस्पर्शे तदा जातिपदार्थता ॥ ३,१४.३५५ ॥
द्रव्यस्य सति संस्पर्शे द्रव्यमाश्रीयते यदा ।
वाच्यं तेनैव शब्देन तदा द्रव्यपदार्थता ॥ ३,१४.३५६ ॥
अपृथक्शब्दवाच्यापि भेदमात्रे प्रवर्तते ।
यदा संबन्धवज्जातिः सापि द्रव्यपदार्थता ॥ ३,१४.३५७ ॥
अत्यन्तभिन्नयोरेव जातिद्रव्याभिधायिनोः ।
अवाच्यस्योपकारित्व आश्रिते तूभयार्थता ॥ ३,१४.३५८ ॥
आश्रिते त्वाश्रयकृतं भेदमभ्युपगच्छता ।
पुनश्चाप्येकशब्दत्वं जातिशब्देऽनुवर्णितम् ॥ ३,१४.३५९ ॥
अनिर्जातस्य निर्ज्ञानं येन तन्मानमुच्यते ।
प्रस्थादि तेन मेयात्मा साकल्येनावधार्यते ॥ ३,१४.३६० ॥
अनिर्ज्ञातं प्रसिद्धेन येन तद्धर्म गम्यते ।
साकल्येनापरिज्ञानादुपमानं तदुच्यते ॥ ३,१४.३६१ ॥
द्वयोः समानयोर्धर्म उपमानोपमेययोः ।
समास उपमानानां शब्दैस्तदभिधायिभिः ॥ ३,१४.३६२ ॥
आधारभेदाद्भेदो यः श्यामत्वे सोऽविवक्षितः ।
गुणोऽसावाश्रितैकत्वो भिन्नाधारः प्रतीयते ॥ ३,१४.३६३ ॥
गुणयोर्नियतो भेदो गुणजातेस्तथैकता ।
एकत्वेऽत्यन्तभेदे वा, नोपमानस्य संभवः ॥ ३,१४.३६४ ॥
जातिमात्रव्यपेक्षायामुपमार्थो न कश्चन ।
श्यामत्वमेकं गुणयोरुभयोरपि वर्तते ॥ ३,१४.३६५ ॥
येनैव हेतुना श्यामा शस्त्री तत्र प्रतीयते ।
स हेतुर्देवदत्तायाः प्रत्यये न विशिष्यते ॥ ३,१४.३६६ ॥
आश्रयाद्यो गुणे भेदो जातेर्या चाविशिष्टता ।
ताभ्यामुभाभ्यां द्रव्यात्मा सव्यापारः प्रतीयते ॥ ३,१४.३६७ ॥
सोऽयमेकत्वनानात्वे व्यवहारः समाश्रितः ।
भेदाभेदविमर्शेन व्यतिकीर्णेन वर्तते ॥ ३,१४.३६८ ॥
श्यामेत्येवाभिधियेत जातिमात्रे विवक्षिते ।
शस्त्र्यादिनामुपादाने तत्र नास्ति प्रयोजनम् ॥ ३,१४.३६९ ॥
अशब्दवाच्यो यो भेदः श्याममात्रे न वर्तते ।
श्यामेषु केषु चिद्वृत्तिर्यस्य सोऽत्र व्यपेक्ष्यते ॥ ३,१४.३७० ॥
श्यामेषु केषु चित्किं चित्किं चित्सर्वत्र वर्तते ।
सामान्यं कश्चिदेकस्मिञ्छ्यामे भेदो व्यवस्थितः ॥ ३,१४.३७१ ॥
तथा हि सति सौरभ्ये भेदो जात्युत्पलादिषु ।
गन्धानां सति भेदे तु सादृश्यमुपलभ्यते ॥ ३,१४.३७२ ॥
गुणानामाश्रयाद्भेदः स्वतो वाप्यनुगम्यते ।
अनिर्देश्याद्विशेषाद्वा संकराद्वा गुणान्तरैः ॥ ३,१४.३७३ ॥
उपमानं प्रसिद्धत्वात्सर्वत्र व्यतिरिच्यते ।
उपमेयत्वमाधिक्ये साम्ये वा न निवर्तते ॥ ३,१४.३७४ ॥
अन्यैस्तु मानं जात्यादि भेद्यस्यार्थस्य वर्ण्यते ।
अनिर्ज्ञातस्वरूपो हि ज्ञेयोऽर्थस्तेन मीयते ॥ ३,१४.३७५ ॥
मितस्तु स्वेन मानेन प्रसिद्धो यो गुणाश्रयः ।
आश्रयान्तरमानाय स्वधर्मेण प्रवर्तते ॥ ३,१४.३७६ ॥
रूपान्तरेण संस्पर्शो रूपान्तरवतां सताम् ।
भिन्नेन यस्य भेद्यानामुपमानं तदुच्यते ॥ ३,१४.३७७ ॥
धर्मः समानः श्यामादिरुपमानोपमेययोः ।
आश्रियमानप्राधान्यो धर्मेणान्येन भिद्यते ॥ ३,१४.३७८ ॥
शस्त्रीकुमार्योः सदृशः श्याम इत्येवमाश्रिते ।
व्यपदेश्यमनेनेति निमित्तं गुणयोः स्थितम् ॥ ३,१४.३७९ ॥
यदा निमित्तैस्तद्वन्तो गच्छन्तीव तदात्मताम् ।
भेदाश्रयं तदाख्यानमुपमानोपमेययोः ॥ ३,१४.३८० ॥
तत्त्वासङ्गविवक्षायां येषु भेदो निवर्तते ।
लुप्तोपमानि तान्याहुस्तद्धर्मेण समाश्रयात् ॥ ३,१४.३८१ ॥
शस्त्र्यां प्रसिद्धं श्यामत्वं मानं सा तेन मीयते ।
अन्या श्यामा तु तद्रूपा तेनात्यन्तं न मीयते ॥ ३,१४.३८२ ॥
शस्त्रिं स्वेन गुणेनातो मिमानामाश्रयान्तरम् ।
असमाप्तगुणं सिद्धेरुपमानं प्रचक्षते ॥ ३,१४.३८३ ॥
उपमेये स्थितो धर्मः श्रुतोऽन्यत्रानुमीयते ।
श्रुतोऽथ वोपमानस्थ उपमेयेऽनुमियते ॥ ३,१४.३८४ ॥
अधीयते ब्राह्मणवत्क्षत्रिया इति दृश्यते ।
उपमेयस्य भिन्नत्वाद्वचनं क्षत्रियाश्रयम् ॥ ३,१४.३८५ ॥
साधारणं ब्रुवन् धर्म क्व चिदेव व्यवस्थितम् ।
सामान्यवचनः शब्द इति सूत्रेऽपदिश्यते ॥ ३,१४.३८६ ॥
नाभेदेन न भेदेन गुणो द्विष्ठोऽभिधीयते ।
भिन्नयोर्धर्मयोरेकः श्रूयतेऽन्यः प्रतीयते ॥ ३,१४.३८७ ॥
नात्यन्ताय मिमीते यत्सामान्ये समवस्थितम् ।
सादृश्यादुपमेयार्थ- समीपे परिकल्प्यते ॥ ३,१४.३८८ ॥
मानं प्रति समीपं वा सादृश्येन प्रतीयते ।
परिच्छेदाद्धि सादृश्यमिह मानोपमानयोः ॥ ३,१४.३८९ ॥
एकजातिव्यपेक्षायां तदेवेत्यवसीयते ।
भेदस्यैव व्यपेक्षायामन्यदेवेति गम्यते ॥ ३,१४.३९० ॥
कर्मत्वं करणत्वं च भेदेनैवाश्रितं यतः ।
अत्यन्तैकत्वविषयो न स्यात्तेनात्र सम्शयः ॥ ३,१४.३९१ ॥
भेदेऽपि तुल्यरूपत्वाच्छालीम्ं तानिति दृश्यते ।
जात्यभेदात्स एवायमिति भिन्नोऽभिधीयते ॥ ३,१४.३९२ ॥
कथं ह्यवयवोऽन्यस्य स्यादन्य इति चोच्यते ।
अत्यन्तभेदे नानात्वं यत्र तत्त्वं न विद्यते ॥ ३,१४.३९३ ॥
अभेदस्य विवक्षायामेकत्वं सङ्घसङ्घिनोः ।
सङ्घिनोर्न त्वभेदोऽस्ति तथान्यत्वमुदाहृतम् ॥ ३,१४.३९४ ॥
तत्राभिन्नव्यपेक्षायामुपमार्थो न विद्यते ।
यो हि गौरिति विज्ञाने हेतुः सोऽस्ति गवान्तरे ॥ ३,१४.३९५ ॥
व्यावृत्तानां विशेषाणां व्यापारे तु विवक्षिते ।
न कश्चिदुपकारोऽस्ति बुद्धेर्बुद्ध्यन्तरं प्रति ॥ ३,१४.३९६ ॥
किं चिद्यत्रास्ति सामान्यं यदि भेदाश्च के चन ।
गोत्वं गोष्वस्ति सामान्यं भेदाश्च शबलादयः ॥ ३,१४.३९७ ॥
सामान्यं श्यामतान्यैव तद्धि साधारणं द्वयोः ।
तदेव सिद्ध्यसिद्धिभ्यां भेद इत्यपदिश्यते ॥ ३,१४.३९८ ॥
श्यामत्वमेव सामान्यमन्येषामुभयोः स्थितम् ।
संपूर्नत्वात्तदन्यस्माद्विशेष इति गम्यते ॥ ३,१४.३९९ ॥
आकृतौ वापि सामान्ये क्व चिदेव व्यवस्थिताः ।
श्यामादौ येऽवसीयन्ते विशेषास्त इहाश्रिताः ॥ ३,१४.४०० ॥
जातेरभेदे भेदे वा सादृश्यं तत्प्रचक्षते ।
कश्चित्कदा चितर्थात्मा तथाभूतोऽपदिश्यते ॥ ३,१४.४०१ ॥
यत्रार्थे प्रत्ययाभेदो न कदा चिद्विकल्पते ।
अविद्यमानभेदत्वात्स एक इति गम्यते ॥ ३,१४.४०२ ॥
योऽर्थ आश्रितनानात्वः स एवेत्यपदिश्यते ।
व्यापारं जातिभागस्य तत्रापि प्रतिजानते ॥ ३,१४.४०३ ॥
जातिभागाश्रया प्रख्या तत्राभिन्ना प्रवर्तते ।
व्यक्तिभागाश्रया बुद्धिस्तत्र भेदेन जायते ॥ ३,१४.४०४ ॥
अन्यत्र वर्तमानं सद्भेदाभेदसमन्वितम् ।
निमित्तं पुनरन्यत्र नानात्वेनेव गृह्यते ॥ ३,१४.४०५ ॥
आधारेषु पदन्यासं कृत्वोपैति तदाश्रयम् ।
स सादृश्यस्य विषय इत्यन्यैरपदिश्यते ॥ ३,१४.४०६ ॥
परापेक्षे यथा भावे कारणाख्या प्रवर्तते ।
तथान्याधिगमापेक्षमुपमानं प्रचक्षते ॥ ३,१४.४०७ ॥
गुरुगिश्यपितापुत्र- क्रियाकालादयो यथा ।
व्यवहारास्तथौपम्यमप्यपेक्षानिबन्धनम् ॥ ३,१४.४०८ ॥
श्यामत्वमुपमाने चेद्वृत्तं वृत्तौ प्रयुज्यते ।
उपमेयं समासेन बाह्यं तत्राभिधीयते ॥ ३,१४.४०९ ॥
टाबन्त एव चैत्रादौ श्यामाशब्दस्तथा भवेत् ।
सूत्रे च प्रथमाभावान्न श्यामाद्युपसर्जनम् ॥ ३,१४.४१० ॥
अथ त्वेकविभक्तित्वाद्गुणत्वाद्वोपसर्जनम् ।
नैवं तित्तिरिकल्माष्यामिष्टः स्त्रीप्रत्ययो भवेत् ॥ ३,१४.४११ ॥
सतिशिष्टबलीयस्त्वाद्बाह्ये ङिषि च सत्यपि ।
उपमानस्वरो न स्यात्तस्मात्स्त्र्यन्तः समस्यते ॥ ३,१४.४१२ ॥
गुणे न चोपमानस्थे सापेक्षत्वं प्रकल्पते ।
प्रधानस्य तथा न स्याद्व्याघ्रादौ लिङ्गदर्शनम् ॥ ३,१४.४१३ ॥
तस्मात्सति गुणत्वेऽपि प्राधान्यं विग्रहान्तरे ।
नैवंजातीयकं शास्त्रे संभवत्युपसर्जनम् ॥ ३,१४.४१४ ॥
उपमेयात्मनि श्यामो वर्तमानोऽभिधीयते ।
उपमानेष्वनिर्दिष्टः सामर्थ्यात्स प्रतीयते ॥ ३,१४.४१५ ॥
द्रव्यमात्रेऽपि निर्दिष्टे चन्द्रवक्त्रेऽनुगम्यते ।
विशिष्ट एव चन्द्रस्थो गुणो नोपप्लवादयः ॥ ३,१४.४१६ ॥
भेदभावनयैतच्च समासेऽप्युपवर्ण्यते ।
विशिष्टगुणभिन्नेऽर्थे पदमन्यत्प्रयुज्यते ॥ ३,१४.४१७ ॥
यदि भिन्नाधिकरणो वचनादनुगम्यते ।
मृगीव चपलेत्यत्र पुंवद्भावो न सिध्यति ॥ ३,१४.४१८ ॥
अस्त्रीपूर्वपदत्वात्तु पुंवद्भावो भविष्यति ।
यथैव मृगदुग्धादौ न चेत्स्त्र्यर्थो विवक्ष्यते ॥ ३,१४.४१९ ॥
शस्त्रीव शस्त्रीश्यामेति देवदत्तैव कथ्यते ।
तस्यामेवोभयं तस्मादुच्यते शास्त्रविग्रहे ॥ ३,१४.४२० ॥
पुंवद्भावस्य सिद्ध्यर्थं पक्षे स्त्रीप्रत्ययस्य च ।
बह्वपेक्ष्यमतस्तस्यामुभयप्रतिपादनम् ॥ ३,१४.४२१ ॥
श्यामा शस्त्री यथा श्यामा शस्त्रीकल्पेति चोच्यते ।
तत्रोपमानेतरयोः श्यामेत्येतदपेक्ष्यते ॥ ३,१४.४२२ ॥
अथ श्यामेव शस्त्रीयं श्यामेत्येवं प्रयुज्यते ।
शस्त्री यथेयं श्यामेति तावदेव प्रतीयते ॥ ३,१४.४२३ ॥
उपलक्षणमात्रार्था गुणस्यास्य यदि श्रुतिः ।
पृथग्द्वयोः श्रुतोऽप्येष नेष्टस्वार्थस्य वाचकः ॥ ३,१४.४२४ ॥
उपमेयं तु यद्वाच्यं तस्य चेत्प्रतिपादने ।
सव्यापारा गुणास्तत्र सर्वस्योक्तिः सकृच्छ्रुतौ ॥ ३,१४.४२५ ॥
प्रकाराधारभेदेन विशेषे समवस्थितः ।
शब्दान्तराभिसंबन्धे सामान्यवचनः कथम् ॥ ३,१४.४२६ ॥
सादृश्यमात्रं सामान्यं द्विष्ठं कैश्चित्प्रतीयते ।
गुणो भेदेऽप्यभेदेन द्विवृत्तिर्वा विवक्षितः ॥ ३,१४.४२७ ॥
व्यापारो जातिभागस्य द्रव्ययोर्वाभिधित्सितः ।
रूपात्सामान्यवाचित्वं प्राग्वा वृत्तेरुदाहृतम् ॥ ३,१४.४२८ ॥
व्याघ्रशब्दो यदा शौर्यात्पुरुषार्थेऽवतिष्ठते ।
तदाधिकरणाभेदात्समासस्यास्ति संभवः ॥ ३,१४.४२९ ॥
शूरशब्दप्रयोगे तु व्याघ्रशब्दो मृगे स्थितः ।
भिन्नेऽधिकरणे वृत्तेस्तत्र नैवास्ति संभवः ॥ ३,१४.४३० ॥
सामानाधिकरण्येऽपि गुणभेदस्य संभवात् ।
प्रयोगः शूरशब्दस्य समासेऽप्यनुषज्यते ॥ ३,१४.४३१ ॥
पूजोपाधिश्च यो दृष्टः कुत्सनोपाधयश्च ये ।
तेषां भिन्ननिमित्तत्वान्नियमार्था पुनः श्रुतिः ॥ ३,१४.४३२ ॥
असंभवेऽपि वा वृत्तेः स्यादेतल्लिङ्गदर्शनम् ।
अच्वेरिति यथा लिङ्गमभावेऽपि भृशादिषु ॥ ३,१४.४३३ ॥
वत्यन्तावयवे वाक्ये यदौपम्यं प्रतीयते ।
तत्प्रत्ययविधौ सूत्रे निर्देशोऽयं विचार्यते ॥ ३,१४.४३४ ॥
क्रियेत्युपाधिः प्राथम्यात्प्रकृत्यर्थस्य यद्यपि ।
न प्रातिपदिकं तत्र क्रियावाच्युपपद्यते ॥ ३,१४.४३५ ॥
सत्त्ववृत्तस्य शेषे वा तृतीया साधनेऽपि वा ।
तिङामसत्त्ववाचित्वादुभयं तन्न विद्यते ॥ ३,१४.४३६ ॥
पाकादयस्तृतीयान्ताः सत्त्वधर्मसमन्वयात् ।
न क्रियेत्यपदिश्यन्ते कृत्वोऽर्थप्रत्यये यथा ॥ ३,१४.४३७ ॥
ये चाव्ययकृतः के चित्क्रियाधर्मसमन्विताः ।
तेषामसत्त्ववाचित्वं तिङन्तैर्न विशिष्यते ॥ ३,१४.४३८ ॥
कृत्वसुज्विषया यापि शयितव्यादिषु क्रिया ।
उपमानोपमेयत्वं तत्रात्यन्तमसंभवि ॥ ३,१४.४३९ ॥
न केवलौ द्रव्यगुणौ तद्वान् वाप्युपमीयते ।
शयितव्यादिभिस्तेषु नोपमार्थोऽस्ति कश्चन ॥ ३,१४.४४० ॥
उपमानोपमेयत्वे द्रव्ये चानुक्तधर्मिणि ।
निमित्तत्वेन गम्यन्ते रूढयोगाः क्रियागुणाः ॥ ३,१४.४४१ ॥
होतव्यसदृशो होतेत्यत्राप्यर्थो न विद्यते ।
विरोधात्क्रियया तस्मात्क्रियावान्नोपमीयते ॥ ३,१४.४४२ ॥
क्रिया समानजातिया तद्भावान्नोपमीयते ।
जातिभेदेऽपि पाकेन भिन्नाः पाकादयः क्रियाः ॥ ३,१४.४४३ ॥
आधारभेदाद्भिन्नायामुपमानस्य संभवः ।
अध्येतव्येन विप्राणां तुल्यमध्ययनं विशाम् ॥ ३,१४.४४४ ॥
अर्थात्प्रकरणाद्वापि यत्रापेक्ष्यं प्रतीयते ।
सामर्थ्यादनपेक्षस्य तस्य वृत्तिः प्रसज्यते ॥ ३,१४.४४५ ॥
तैलपाकेन तुल्ये च घृतपाके विवक्षिते ।
क्रियावदपि कार्याणां दर्शनात्प्रत्ययो भवेत् ॥ ३,१४.४४६ ॥
अतिङ्ग्रहणमेवं तु समासस्य निवर्तकम् ।
गमनं कारकस्येति ण्वुल्यन्यस्मिन्न संभवेत् ॥ ३,१४.४४७ ॥
सर्वस्य परिहारार्थं समुदायत्वमाश्रितम् ।
शुद्धायाः संभवान्न स्यात्क्रियाया ब्राह्मणादिषु ॥ ३,१४.४४८ ॥
उपमानविवक्षायां स्वधर्मश्च निवर्तते ।
क्रियाया न श्रुताद्यस्मादुपमानं समाप्यते ॥ ३,१४.४४९ ॥
तृतीयोऽप्याश्रितो भेदो धर्मः साधारणो द्वयोः ।
व्यापारवान्न कृत्स्नस्य साम्यं कृत्स्नेन विद्यते ॥ ३,१४.४५० ॥
द्रव्ये वापि क्रियायां वा निमित्तात्तत्प्रकल्पते ।
क्रियाणां विद्यमानत्वाद्वृत्तिर्न स्याद्गवादिषु ॥ ३,१४.४५१ ॥
अभावात्केवलायास्तु तद्वानर्थः प्रतीयते ।
प्रधानासंभवे युक्ता लक्षणार्था क्रियाश्रुतिः ॥ ३,१४.४५२ ॥
क्रियान्तरेषु सापेक्षाः क्रियाशब्दाः क्रियान्तरे ।
उपकाराय गृह्यन्ते यथैव ब्राह्मणादयः ॥ ३,१४.४५३ ॥
यथा प्रकर्षः सर्वत्र निमित्तान्तरहेतुकः ।
द्रव्यवद्गुणशब्देऽपि स निमित्तमपेक्षते ॥ ३,१४.४५४ ॥
यो य उच्चार्यते शब्दः स स्वरूपनिबन्धनः ।
यथा तथोपमानेषु व्यपेक्ष न निवर्तते ॥ ३,१४.४५५ ॥
क्रियावृत्तेस्तृतीयान्तस्य्- ऐवं चासंभवे सति ।
प्रसिद्धन्यायकरणो भाष्ये युजिरुदाहृतः ॥ ३,१४.४५६ ॥
अन्तर्भूते तु करणे प्रयोगो न पुनर्भवेत् ।
न्यायेनायुक्तमित्यत्र जीवतौ प्राणकर्मवत् ॥ ३,१४.४५७ ॥
शास्त्राभ्यासाच्च भेदोऽयमयुक्तमिति वर्ण्यते ।
अशोभनमसंबद्धमिति रूढिर्व्यवस्थिता ॥ ३,१४.४५८ ॥
विविभक्तिः प्रकृत्यर्थं प्रत्युपाधिः कथं भवेत् ।
विभक्तिपरिणामे च प्रकल्प्यं विषयान्तरम् ॥ ३,१४.४५९ ॥
विभक्त्यन्तरयोगो हि यस्य तद्विषयान्तरे ।
विभक्त्यन्तरसंबन्धः सामर्थ्यादनुमीयते ॥ ३,१४.४६० ॥
सारूप्यात्तु तदेवेदमिति तत्रोपचर्यते ।
शब्दान्तरं विभक्त्या तु युक्तं शास्त्रे तदश्रुतम् ॥ ३,१४.४६१ ॥
प्रकृतिश्चेत्तृतीयान्ता तेनेत्यस्मात्प्रतीयते ।
क्रियेति प्रथमान्ता सा कथं भवितुमर्हति ॥ ३,१४.४६२ ॥
क्रिययेति तृतीया च प्रयोगे कस्य कल्प्यताम् ।
तेनेत्यस्य हि संबन्धः सूत्रस्थेन न विद्यते ॥ ३,१४.४६३ ॥
सोपस्कारेषु सूत्रेषु वाक्यशेषः समर्थ्यते ।
तेन यत्तत्तृतीयान्तं क्रिया चेत्सेति गम्यते ॥ ३,१४.४६४ ॥
उपाधेः कस्य चिद्वाक्ये प्रयोग उपलभ्यते ।
प्रतीयमानधर्मान्यो न कदा चित्प्रयुज्यते ॥ ३,१४.४६५ ॥
नीलमुत्पलमित्यत्र न विशेष्ये न भेदके ।
कश्चित्तद्धर्मवचनो वाक्ये शब्दः प्रयुज्यते ॥ ३,१४.४६६ ॥
अत्यन्तानुगमात्तत्र न सूत्रे न च विग्रहे ।
विभक्तिपरिणामेन किं चिदस्ति प्रयोजनम् ॥ ३,१४.४६७ ॥
तृतीयान्तं क्रियेत्येतद्विग्रहे न प्रयुज्यते ।
यथा दण्डः प्रहरणं क्रीडायामिति दृश्यते ॥ ३,१४.४६८ ॥
घविधौ यच्च संज्ञायामिति सूत्र उदाहृतम् ।
उपादानं प्रयोगेषु तस्यात्यन्तं न विद्यते ॥ ३,१४.४६९ ॥
यैरप्रयुक्तैः संस्कारः प्रधानेषु प्रतीयते ।
ते भेदेऽपि विभक्तीनां निर्दिश्यन्त उपाधयः ॥ ३,१४.४७० ॥
समुदायेषु वर्तन्ते भावानां सहचारिणाम् ।
शब्दास्तत्त्वविवक्षायां समुच्चयविकल्पयोः ॥ ३,१४.४७१ ॥
समुच्चयस्तु क्रियते येषु प्रत्यर्थवृत्तिषु ।
भेदाधिष्ठानया योगस्तेसां भवति संख्यया ॥ ३,१४.४७२ ॥
सर्वैर्विशिष्टास्तैरर्थैर्जन्यन्ते सहचारिभिः ।
बुद्धयः प्रतिपत्तॄणां शब्दार्थांस्तानतो विदुः ॥ ३,१४.४७३ ॥
संसृष्टाः प्रत्ययेष्वर्थाः सर्व एवोपकारिनः ।
तेषां प्रत्ययरूपेण सर्वेषां शब्दवाच्यता ॥ ३,१४.४७४ ॥
केवलानां तु भावानां न रूपमवधार्यते ।
अनिरूपितरूपेषु तेषु शब्दो न वर्तते ॥ ३,१४.४७५ ॥
पूर्वशब्दप्रयोगाच्च समूहान्न निवर्तते ।
वर्ततेऽवयवे नापि नोपात्तं त्यजते क्व चित् ॥ ३,१४.४७६ ॥
समुदायाभिधायि च यदि भेदं विशेषयेत् ।
तत्रातुल्यविभक्तित्वं पूर्वकायादिवद्भवेत् ॥ ३,१४.४७७ ॥
समूहे च प्रदेशे च पञ्चाला इति दृश्यते ।
तथा विशेषणं सर्व इत्येतदुपपद्यते ॥ ३,१४.४७८ ॥
तथार्धपिप्पलीत्यत्र जात्यन्तरनिवृत्तये ।
अर्धं च पिप्पली चेति खन्दे शब्दः प्रतीयते ॥ ३,१४.४७९ ॥
पञ्चालानां प्रदेशोऽपि भिन्नो जनपदान्तरात् ।
तत्रान्यस्य निवृत्त्यर्थे शब्दे भेदो न गम्यते ॥ ३,१४.४८० ॥
प्रसिद्धास्तु विशेषेण समुदाये व्यवस्थिताः ।
प्रदेशे दर्शनं तेषामर्थप्रकरणादिभिः ॥ ३,१४.४८१ ॥
यदुपव्यञ्जनं जातेः सहचारि च कर्मसु ।
तत्र वा रूढसंबन्धं यत्प्रायेणोपलक्षितम् ॥ ३,१४.४८२ ॥
समुदायः प्रदेशो वेत्येवं तस्मिन्ननाश्रिते ।
अर्थात्मन्यविशेषेण वर्तन्ते ब्राह्मणादयः ॥ ३,१४.४८३ ॥
यश्च तुल्यश्रुतिर्दृष्टः समुदाये व्यवस्थितः ।
तेनोपचरितैकत्वं प्रदेशेऽप्युपलभ्यते ॥ ३,१४.४८४ ॥
संस्कारादुपघाताद्वा वृत्तोऽक्तपरिमाणके ।
तैलादौ जातिशब्दोऽत्र सामर्थ्यादवसीयते ॥ ३,१४.४८५ ॥
न जातिगुणशब्देषु मूर्तिभेदो विवक्षितः ।
ते जातिगुणसंबन्ध- भेदमात्रनिबन्धनाः ॥ ३,१४.४८६ ॥
कृष्णादिव्यपदेशश्च सर्वावयववृत्तिभिः ।
गुणैस्तेऽप्येकदेशस्थाः पटादीनां विशेषकाः ॥ ३,१४.४८७ ॥
पटावयववृत्तास्तु यदा तत्र पटादयः ।
तदा तैलादिवत्तेषां जातिशब्दत्वमुच्यते ॥ ३,१४.४८८ ॥
निवृत्त्यर्था श्रुतिर्येषां भेदस्तेष्वनपेक्षितः ।
प्रदेशे समुदाये वा गुणोऽन्येषां निवर्तकः ॥ ३,१४.४८९ ॥
ब्राह्मणाध्ययने तत्र वर्तते ब्राह्मणश्रुतिः ।
सादृश्यं तत्र दृष्टं हि क्षत्रियाध्ययनादिभिः ॥ ३,१४.४९० ॥
ब्राह्मणाध्ययने वृत्तिर्यदि स्याद्ब्राह्मणश्रुतेः ।
वक्तव्यं केन धर्मेण तुल्यत्वं क्रिययोरिति ॥ ३,१४.४९१ ॥
अध्येतरि यदा वृत्तिरुच्यते ब्राह्मणश्रुतेः ।
निमित्तत्वं तदोपैति क्रियैवाध्येतरि स्थिता ॥ ३,१४.४९२ ॥
सिम्हशब्देन संबन्धे गौर्यमात्राभिधायिना ।
चैत्रात्षष्ठी प्रसज्येत योगे शत्त्र्यादिभिर्यथा ॥ ३,१४.४९३ ॥
ब्राह्मणायेव दातव्यं वैश्यायेत्येवमादिषु ।
संप्रदानादियोगश्च क्रियामात्रे न कल्पते ॥ ३,१४.४९४ ॥
क्रियामात्राभिधायित्वादव्ययेषु वतेर्न च ।
पाठः कदा चित्कर्तव्यस्तुल्यौ पक्षावुभौ यतः ॥ ३,१४.४९५ ॥
जहाति जातिं द्रव्यं वा तस्मान्नावयवे स्थितः ।
क्रियायास्तु श्रुतिर्यस्मात्तद्वत्यर्थेऽवतिष्ठते ॥ ३,१४.४९६ ॥
अक्रियाणां निवृत्त्यर्था, यतश्चात्र क्रियाश्रुतिः ।
क्रियोपलक्षिते तस्मात्क्रियाशब्दः प्रतीयते ॥ ३,१४.४९७ ॥
होतव्यादिषु यस्माच्च क्रियान्या ब्राह्मणादिवत् ।
अपेक्षणीया शुद्धेऽर्थे तस्माद्वृत्तिर्न कस्य चित् ॥ ३,१४.४९८ ॥
सर्वं वाप्येकदेशो वा यस्मिन्नाश्रियते क्व चित् ।
विशेषवृत्तिं तं सर्वमाहुर्भेदे व्यवस्थितम् ॥ ३,१४.४९९ ॥
समुच्चयो विकल्पो वा प्रकाराः सर्व एव वा ।
विशेषा इति वर्ण्यन्ते सामान्यं वाविकल्पितम् ॥ ३,१४.५०० ॥
न हि ब्राह्मण इत्यत्र भेदः कश्चिदपाश्रितः ।
अपाकृतो वा तेनायं समुदाये व्यवस्थितः ॥ ३,१४.५०१ ॥
क्रिया त्वाश्रीयते यस्मिन् स भेदोऽध्यवसीयते ।
तथान्यथा सर्वथा चेत्यप्रयोगे न विद्यते ॥ ३,१४.५०२ ॥
उपमाने क्रियावृत्तिमुपमेये क्रियाश्रुतिः ।
प्रत्याययन्ती भेदस्य करोतीव पदार्थताम् ॥ ३,१४.५०३ ॥
व्यापारेणैव सादृश्ये व्यापारस्य विवक्षिते ।
क्रियावद्वचनाच्छब्दात्प्रत्ययः प्रतिपाद्यते ॥ ३,१४.५०४ ॥
क्रियावतोऽपि सादृश्ये वक्तुमिष्टे क्रियावता ।
अध्येता ब्राह्मण इव प्रत्ययो न निवर्तते ॥ ३,१४.५०५ ॥
अधीते तुल्य इत्येवं पुंल्लिङ्गेन विशेषणम् ।
क्रियावति क्रियायां तु तुल्यशब्दे नपुंसकम् ॥ ३,१४.५०६ ॥
प्रकृत्यर्थे विशिष्टेऽपि प्रत्ययार्थाविशेषणात् ।
पुत्रेण तुल्यः कपिल इति वृत्तिः प्रसज्यते ॥ ३,१४.५०७ ॥
याः पुत्रे रूढसंबन्धाः क्रिया लोके विवक्षिताः ।
ताभिः क्रियावतः पुत्राद्गुणतुल्ये वतिर्भवेत् ॥ ३,१४.५०८ ॥
अन्तर्भूतं निमित्तं च रूढिशब्देषु यद्यपि ।
क्रियास्तु सहचारिण्यो रूढाः सन्ति पदार्थवत् ॥ ३,१४.५०९ ॥
क्रमं तु यदि बाधित्वा प्रत्ययार्थविशेषणम् ।
प्रधानानुग्रहात्साम्याद्विभक्तेश्चावतिष्ठते ॥ ३,१४.५१० ॥
प्रकृतेरविशिष्टत्वात्क्रियातुल्ये प्रसज्यते ।
पुत्रादौ गुणशब्देभ्यः पूर्वोक्तस्य विपर्यये ॥ ३,१४.५११ ॥
स्थूलेन तुल्यो यातीति बहिरङ्गा क्रियाश्रुतिः ।
अनिमित्तं वतेस्तुल्यं यातीत्यत्रेष्यते वतिः ॥ ३,१४.५१२ ॥
द्वयं विशेष्यते तेन यदेकत्र विशेषणं ।
तुल्यशब्दो हि तं धर्ममुभयस्थमपेक्षते ॥ ३,१४.५१३ ॥
एकः समानो धर्मश्चेदुपमानोपमेययोः ।
तुलया संमितं तुल्यमिति तत्रोपपद्यते ॥ ३,१४.५१४ ॥
सूत्रे श्रुतश्च द्विष्ठोऽसावभेदेन प्रतीयते ।
न च सामान्यशब्दत्वादश्रुता गम्यते क्रिया ॥ ३,१४.५१५ ॥
अश्रुताश्च प्रतीयन्ते निदेशस्थायितादयः ।
ये धर्मा नियतास्तेषां पुत्रादिषु न विद्यते ॥ ३,१४.५१६ ॥
अनाश्रितक्रियस्तस्मान्न तुल्योऽस्ति क्रियावता ।
क्रियायाः श्रवणे सापि क्रियावत्ता प्रतीयते ॥ ३,१४.५१७ ॥
द्वयोः प्रतिविधानाच्च ज्यायस्त्वमभिधीयते ।
नित्यासत्त्वाभिधायित्वात्प्रत्ययार्थविशेषणे ॥ ३,१४.५१८ ॥
असत्त्वभूतो व्यापारः केवलः प्रत्यये यतः ।
विद्यते लक्षणार्थत्वं नास्ति तेन क्रियाश्रुतेः ॥ ३,१४.५१९ ॥
क्रियावतस्तु ग्रहणात्प्रकृत्यर्थविशेषणे ।
क्रियामात्रेन तुल्यत्वे सिद्धासत्त्वाभिधायिता ॥ ३,१४.५२० ॥
यदा क्रियानिमित्तं तु सादृश्यं स्यात्क्रियावतोः ।
क्रियावतोऽभिधेयत्वात्तदा द्रव्याभिधायिता ॥ ३,१४.५२१ ॥
अव्ययेषु वतेः पाठः कार्यस्तत्र स्वरादिवत् ।
ब्राह्मणेन समोऽध्येतेत्यत्र च प्रत्ययो भवेत् ॥ ३,१४.५२२ ॥
सामानाधिकरण्यं च वत्यर्थेनापदिश्यते ।
तुल्यमित्यन्यथा कल्प्यो वाक्यशेषोऽश्रुतो भवेत् ॥ ३,१४.५२३ ॥
क्रियावतोश्च सादृश्ये प्रत्ययार्थविशेषणे ।
अध्येत्रा सदृशोऽध्येतेत्यत्र नास्ति वतेर्विधिः ॥ ३,१४.५२४ ॥
तुल्यार्थैरिति या तस्यास्तृतीयाया न भिद्यते ।
अर्थो भेदेऽपि सर्वाभिरितराभिर्विभक्तिभिः ॥ ३,१४.५२५ ॥
भोज्यते ब्राह्मण इव तुल्यं भुक्तं द्विजातिना ।
पश्यति ब्राह्मणमिव तुल्यं विप्रेण पश्यति ॥ ३,१४.५२६ ॥
ब्राह्मणेनेव विज्ञातं तुल्यं ज्ञातं द्विजातिना ।
दीयतां ब्राह्मणायेव तुल्यं विप्रेण दीयताम् ॥ ३,१४.५२७ ॥
ब्राह्मणादिव वैश्यात्त्वमधीष्वाध्ययनं बहु ।
इत्येवमादिभिर्भेदस्तृतीयाया न कश्चन ॥ ३,१४.५२८ ॥
तुल्यं मधुरयाधीये मात्रा तुल्यं स्मरामि ताम् ।
मधुरायाश्च मातुश्च कथं सादृश्यकल्पना ॥ ३,१४.५२९ ॥
मधुराविषयः पाठः स्मरणं मातृकर्मकम् ।
मधुरामातृशब्दाभ्यामभेदेनाभिधीयते ॥ ३,१४.५३० ॥
उष्ट्रावयवतुल्येषु मुखेषूष्ट्रश्रुतिर्यथा ।
वर्तते गृहतुल्ये च प्रासादे मधुराश्रुतिः ॥ ३,१४.५३१ ॥
यथाध्ययनयोः साम्यमध्येत्रोरपदिश्यते ।
तथा क्रियागतैर्धर्मैरुच्यन्ते साधनाश्रयाः ॥ ३,१४.५३२ ॥
इवार्थे यच्च वचनं पूर्वसूत्रे च यो विधिः ।
क्रियाशब्दश्रुतौ भेदो न कश्चिद्विद्यते तयोः ॥ ३,१४.५३३ ॥
यद्यप्युपाधिरन्यत्र नियतो न प्रयुज्यते ।
रूपाभेदात्त्वनिर्ज्ञाता क्रियात्र श्रूयते पुनः ॥ ३,१४.५३४ ॥
यथा व्युत्परयः पुच्छौ क्यङन्ते सुदुरादयः ।
सत्यपि प्रत्ययार्थत्वे भेदाभावादुदाहृताः ॥ ३,१४.५३५ ॥
एवं च सति पूर्वेण सिद्धोऽत्रापि वतेर्विधिः ।
नियमे वाभिधाने वा भिद्यते न क्रियाश्रुतिः ॥ ३,१४.५३६ ॥
इवे द्रव्यादिविषयः प्रत्ययः पुनरुच्यते ।
क्रियाणामेव सदृश्वे पूर्वसूत्रे विधीयते ॥ ३,१४.५३७ ॥
मधुरायामिव गृहा ब्राह्मणस्येव पाण्डुराः ।
इत्यत्र द्रव्यगुणयोः पूर्वेण न वतिर्भवेत् ॥ ३,१४.५३८ ॥
आरम्भस्याक्रियार्थत्वे नार्थो योगेन विद्यते ।
ऋते क्रियाया ग्रहणात्पूर्वयोगेन सिध्यति ॥ ३,१४.५३९ ॥
मधुरावयवे वृत्तिर्व्वाख्याता मधुराश्रुतेः ।
ब्राह्मणावयवान् दन्तान् वक्ष्यति ब्राह्मणश्रुतिः ॥ ३,१४.५४० ॥
न का चिदिवयोगे तु बाह्यात्संबन्धिनो ।
षष्ठी विधीयते तत्र पूर्वेण प्रत्ययो भवेत् ॥ ३,१४.५४१ ॥
आधिक्यं तुल्यशब्देन संबन्ध उपजायते ।
षष्ठीतृतीये तत्र स्तस्तुल्यशब्दो हि वाचकः ॥ ३,१४.५४२ ॥
इवशब्दप्रयोगे तु बाह्यात्संबन्धिनो विना ।
नाधिक्यमुपमानेऽस्ति द्योतकः स प्रयुज्यते ॥ ३,१४.५४३ ॥
इवे यो व्यतिरेकोऽत्र स प्रासादादिहेतुकः ।
तुल्ये तद्विषयापेक्षमाधिक्यमुपजायते ॥ ३,१४.५४४ ॥
गवयेन समोऽनद्वानिति वृत्तिस्तथा भवेत् ।
न त्वस्ति गौरिवेत्यत्र व्यतिरेक इवाश्रयः ॥ ३,१४.५४५ ॥
उपमेयेन संबन्धात्प्राक्प्रासादादिहेतुके ।
व्यतिरेके वतेर्भावो न तुल्यार्थत्वहेतुके ॥ ३,१४.५४६ ॥
इवशब्देन संबन्धे न तृतीया विधीयते ।
प्रकृतां तामतस्त्यक्त्वा विभक्त्यन्तरमाश्रितम् ॥ ३,१४.५४७ ॥
सप्तम्यपि न तत्रास्ति ज्ञापकार्था तु सा कृता ।
इष्टा सा शेषविषये नियतासु विभक्तिषु ॥ ३,१४.५४८ ॥
यदि तु व्यतिरेकेण विषयेऽस्मिन् विभक्तयः ।
प्रवर्तेरंस्तृतीयैव व्यभिचारं प्रदर्शयेत् ॥ ३,१४.५४९ ॥
व्यभिचारे तथा सिद्धे सप्तमीग्रहणाद्विना ।
सप्तम्येवोच्यते सर्वा न सन्त्यन्या विभक्तयः ॥ ३,१४.५५० ॥
अत्यन्तमत्र विषये सप्तम्या ज्ञापकार्थया ।
बाधिता विनिवर्तेत षष्ठी सा गृह्यते पुनः ॥ ३,१४.५५१ ॥
पूर्वाभ्यामेव योगाभ्यां विग्रहान्तरकल्पनात् ।
अर्हार्थेऽपि वतिः सिद्धः स त्वेकेन निदर्श्यते ॥ ३,१४.५५२ ॥
तेन तुल्यमिति प्राप्ते क्रियोपाधिः प्रसिध्यति ।
राजवद्वर्तते राजेत्यत्र भेदे विवक्षिते ॥ ३,१४.५५३ ॥
राजत्वेन प्रसिद्धा ये पृथुप्रभृतयो नृपाः ।
युधिष्ठिरान्तास्तेऽन्येषामुपमानं महीक्षिताम् ॥ ३,१४.५५४ ॥
सिद्ध्यसिद्धिकृतो भेद उपमानोपमेययोः ।
सर्वत्रैव यतोऽसिद्धं प्रसिद्धेनोपमीयते ॥ ३,१४.५५५ ॥
राजवद्रूपमस्येति राजन्येव विवक्षिते ।
अक्रियार्थेन योगेन द्वितीयेन भविष्यति ॥ ३,१४.५५६ ॥
उपमानाविवक्षायां नियमार्थोऽयमुच्यते ।
धर्मोऽर्हतिक्रियाकर्ता तदर्थं वचनं पुनः ॥ ३,१४.५५७ ॥
कृतहस्तवदित्येतत्प्रसिद्धेष्वेव दृश्यते ।
राजत्वेन प्रसिद्धे च राज्ञि राजवदित्यपि ॥ ३,१४.५५८ ॥
अराज्ञि येषां धर्माणां दृष्टोऽत्यन्तमसंभवः ।
ते राजनि नियम्यन्ते त्यज्यन्ते व्यभिचारिणः ॥ ३,१४.५५९ ॥
अर्हतेश्च क्रिया कर्त्री या तस्यां वतिरिष्यते ।
राजानमर्हति च्छत्त्रमिति न त्वेवमादिषु ॥ ३,१४.५६० ॥
प्रयुक्तानां हि शब्दानां शास्त्रेणानुगमः सताम् ।
छत्त्राद्यर्थे तु वचने प्रत्याख्यानं न संभवेत् ॥ ३,१४.५६१ ॥
तदर्हमिति नारब्धं सूत्रं व्याकरणान्तरे ।
संभवत्युपमात्रापि भेदस्य परिकल्पनात् ॥ ३,१४.५६२ ॥
एकस्य कार्यनिर्ज्ञानात्सिद्धस्य विषयान्तरे ।
तद्धर्मत्वविवक्षायां बुद्ध्या भेदः प्रकल्प्यते ॥ ३,१४.५६३ ॥
सूत्रारम्भान्न चैतस्मादिवशब्दस्य विद्यते ।
प्रयोगः सोऽपि चैतस्य विषये विद्यते वतेः ॥ ३,१४.५६४ ॥
दस्युहेन्द्र इवेत्येतदैन्द्रमन्त्रे प्रयुज्यते ।
अन्यत्र दृष्टकर्मेन्द्रो यथेत्यस्मिन् विवक्षिते ॥ ३,१४.५६५ ॥
पूर्वामवस्थामाश्रित्य यावस्था व्यपदिश्यते ।
सदृशस्त्वं तवैवेति तत्रैवमभिधीयते ॥ ३,१४.५६६ ॥
प्रसिद्धभेदं यत्रान्यदुपमानं न विद्यते ।
उपमेयस्य तत्रात्मा स्वबुद्ध्या प्रविभज्यते ॥ ३,१४.५६७ ॥
योऽपि स्वाभाविको भेदः सोऽपि बुद्धिनिबन्धनः ।
तेनास्मिन् विषये भिन्नमभिन्नं वा न विद्यते ॥ ३,१४.५६८ ॥
अङ्गदी कुण्डली चेति दर्शयन् भेदहेतुभिः ।
चैत्रमीदृशमित्याह बुद्ध्यवस्थापरिग्रहात् ॥ ३,१४.५६९ ॥
एतैः शब्दैर्यथाभूतः प्रत्ययात्मोपजायते ।
तत्प्रत्ययानुकारेण विषयोऽप्युपपद्यते ॥ ३,१४.५७० ॥
बुद्ध्यवस्थाविभागेन भेदकार्यं प्रतीयते ।
जन्यन्त इव शब्दानामर्थाः सर्वे विवक्षया ॥ ३,१४.५७१ ॥
तथाविधेऽपि बाह्येऽर्थे भिद्यन्ते यत्र बुद्धयः ।
न तत्र कश्चित्सादृश्यं सदपि प्रतिपद्यते ॥ ३,१४.५७२ ॥
अत्यन्तं विषये भिन्ने यावत्प्रख्या न भिद्यते ।
न तावत्प्रत्यभिज्ञानं कस्य चिद्विनिवर्तते ॥ ३,१४.५७३ ॥
अयमेव तु सूत्रेण भेदो भेदेन दर्शितः ।
प्रसिद्धमपि दुर्ज्ञानमबुधः प्रतिपद्यते ॥ ३,१४.५७४ ॥
वैयाकरणवद्ब्रूते न वैयाकरणः सदा ।
वैयाकरणवद्ब्रूष्वेत्यतः सोऽप्यभिधीयते ॥ ३,१४.५७५ ॥
के चित्पुमांसो भाषन्ते स्त्रीवत्पुंवच्च योषितः ।
व्यभिचारे स्वधर्मोऽपि पुनस्तेनोपदिश्यते ॥ ३,१४.५७६ ॥
सदृशस्त्वं तवैवेति लोके यदभिधीयते ।
उपमानान्तरं तत्र प्रसक्तं विनिवर्तते ॥ ३,१४.५७७ ॥
युक्तमौपयिकं राज्ञ इत्यर्थस्य निदर्शने ।
उपमानाविवक्षायां तदर्हमिति पठ्यते ॥ ३,१४.५७८ ॥
प्रसक्तानुप्रसक्तस्तु वतिशेषोऽभिधीयते ।
उपमानाभिसंबन्धादस्मिन् वतिरुदाहृतः ॥ ३,१४.५७९ ॥
प्रधानकल्पनाभावे गुणशब्दस्य दर्शनात् ।
उपसर्गाद्वतौ सिद्धा धातौ धात्वर्थकल्पना ॥ ३,१४.५८० ॥
स्वं रूपमिति चैतस्मिन्नर्थस्यापि परिग्रहः ।
रूपवज्ज्ञापितस्तस्मादासन्नोऽर्थो ग्रहीष्यते ॥ ३,१४.५८१ ॥
धात्वर्थेनोपजनितं साधनत्वेन साधनम् ।
धातुना कृतमित्येवमस्मिन् सूत्रे प्रतीयते ॥ ३,१४.५८२ ॥
यः शब्दश्चरितार्थत्वादत्यन्तं न प्रयुज्यते ।
विषयेऽदर्शनात्तत्र लोपस्तस्याभिधीयते ॥ ३,१४.५८३ ॥
क्रियायां साधने द्रव्ये प्रादयो ये व्यवस्थिताः ।
तेभ्यः सत्त्वाभिधायिभ्यो वतिः स्वार्थे विधीयते ॥ ३,१४.५८४ ॥
प्रत्ययेन विना प्रादिस्तत्रार्थे न प्रयुज्यते ।
भेदेन तु समाख्याने विभागः परिकल्पितः ॥ ३,१४.५८५ ॥
अनङ्गीकृतसत्त्वं तु यदि गृह्येत साधनम् ।
विभक्तिभिर्नियोगः स्याद्यथैव तसिलादिषु ॥ ३,१४.५८६ ॥
पाठाद्यैरविभक्तित्वं वत्यन्तेष्वनुगम्यते ।
तेषामुद्वत इत्यत्र वक्तव्या सविभक्तिता ॥ ३,१४.५८७ ॥
वत्यर्थं नावगाहेते पुंवदित्यस्य दर्शनात् ।
नञ्स्नञावपवादस्य बाधकं तन्निपातनम् ॥ ३,१४.५८८ ॥
एतमुत्क्रामतो नूनं वत्यर्थं नञ्स्नञाविति ।
तयोः प्रवृत्तावुत्सर्गो बाधनान्नोपपद्यते ॥ ३,१४.५८९ ॥
नञ्स्नञौ विहितौ येन स योगो नावगाहते ।
वतिप्रकरणं तद्धि लिङ्गमेवं समर्थ्यते ॥ ३,१४.५९० ॥
अभेदेनोपमानस्य भिन्नार्थोपनिपातिता ।
ऊहस्तथोपमानानामङ्गवन्नोपलभ्यते ॥ ३,१४.५९१ ॥
गावेधुके चरौ दृष्टा गोविकर्ताक्षवापयोः ।
पशू रुद्र इव ह्येतावित्येकवचनश्रुतिः ॥ ३,१४.५९२ ॥
उपमानस्य भेदाच्च बहुषु स्यादञो विधिः ।
काश्यपा इति लोपः स्यात्तथा प्रतिकृतिष्वपि ॥ ३,१४.५९३ ॥
एवं तु युक्तवद्भावादत्रैकवचनं भवेत् ।
लुं मनुष्ये तथोक्तं स्याल्लिङ्गस्यैकस्य सिद्धये ॥ ३,१४.५९४ ॥
उपमेयेषु भिन्नेषु किं चिदेकं प्रवर्तते ।
प्रत्ययस्य विधौ तत्र नित्यं युक्तवदिष्यते ॥ ३,१४.५९५ ॥
यदा प्रत्युपमेयं तु तदेकैकमवस्थितम् ।
तदा बाह्यार्थभेदेन तद्धितान्तं प्रचीयते ॥ ३,१४.५९६ ॥
यथा समूहप्रचये द्विगूनां भिन्नसंख्यता ।
पञ्चपूल्यादिषु तथा लुबन्तप्रचयो भवेत् ॥ ३,१४.५९७ ॥
प्रचये भिद्यमाने तु संख्या पूलेषु भिद्यते ।
अर्थभेदो लुबन्तेषु नैवं कश्चन दृश्यते ॥ ३,१४.५९८ ॥
येषूपमेयवचनः शब्दोऽन्यो न प्रयुज्यते ।
उपमानस्य तत्रान्यैः संख्याया भेद इष्यते ॥ ३,१४.५९९ ॥
यथा गुडतिलादीनां प्रयोगादेकसंख्यता ।
पाकादेरप्रयोगे तु भिन्ना संख्याभिधीयते ॥ ३,१४.६०० ॥
यः संबन्धिगतो भेदः स प्रयोगे प्रतीयते ।
संबन्धिनामतो भेद उपमेये न गम्यते ॥ ३,१४.६०१ ॥
तस्मात्सामान्यशब्दत्व- प्रसङ्गविनिवृत्तये ।
उपमेयगतो भेद उपमानेषु दृश्यते ॥ ३,१४.६०२ ॥
उपमानं समस्तानामभिन्नं श्रूयते क्व चित् ।
भिन्नानामुपमेयनामेकैकं वोपमीयते ॥ ३,१४.६०३ ॥
यथा गरुड इत्येतद्व्यूहापेक्षं प्रयुज्यते ।
एकेन यत्र सादृश्यं वैनतेयेन हस्तिनाम् ॥ ३,१४.६०४ ॥
एकस्यापि प्रतीयेत भिन्ना प्रतिकृतिः सह ।
काश्यपस्येति तेनायं प्रत्येकमवतिष्ठते ॥ ३,१४.६०५ ॥
मेघाः शैल इवेत्युक्ते समस्तानां प्रतीयते ।
सादृश्यं गिरिणैकेन प्रत्येकं तेन भिद्यते ॥ ३,१४.६०६ ॥
छापेक्षा तद्विषयता विधेयत्वान्न गम्यते ।
काकतालीयमित्यत्र प्रसिद्धं ह्युपलक्षणम् ॥ ३,१४.६०७ ॥
राजाश्वादिश्च विषयः स्यादन्यो वेत्यनिश्चितम् ।
तेन च्छस्य विधानात्प्राग्व्यपदेशो न विद्यते ॥ ३,१४.६०८ ॥
द्वयोरिवार्थयोरत्र निमित्तत्वं प्रतीयते ।
एकेनावयवो युक्तः प्रत्ययोऽन्येन युज्यते ॥ ३,१४.६०९ ॥
चैत्रस्य तत्रागमनं काकस्यागमनं यथा ।
दस्योरभिनिपातस्तु तालस्य पतनं यथा ॥ ३,१४.६१० ॥
संनिपाते तयोर्यान्या क्रिया तत्रोपजायते ।
वधादिरुपमेयेऽर्थे तया छविधिरिष्यते ॥ ३,१४.६११ ॥
क्रियायां समवेतायां द्रव्यशब्दोऽवतिष्ठते ।
पातागमनयोः काक- तालशब्दौ तथा स्थितौ ॥ ३,१४.६१२ ॥
यदन्वाख्यायकं वाक्यं तदेवं परिकल्प्यते ।
प्रयोगवाक्वं यल्लोके तदेवं न प्रयुज्यते ॥ ३,१४.६१३ ॥
ययोरतर्किता प्राप्तिर्दृश्यते काकतालवत् ।
तयोः समासप्रकृतेर्वृत्तिरभ्युपगम्यते ॥ ३,१४.६१४ ॥
काकस्य तालेन यथा वधो यस्य तु दस्युना ।
तत्र चित्रीकृतेऽन्यस्मिन्नुपमेये छ इष्यते ॥ ३,१४.६१५ ॥
चञ्चत्प्रकारश्चञ्चत्को बृहत्क इति चापरे ।
मणिमड्डूकखद्योतान् सादृश्वेन प्रचक्षते ॥ ३,१४.६१६ ॥
तत्रोन्मेषनिमेषाभ्यां खद्योत उपमीयते ।
श्वासप्रबन्धैर्मण्डूकः स्पन्दमानप्रभो मणिः ॥ ३,१४.६१७ ॥
प्रविकासिप्रभोऽल्पोऽपि महान् य उपलभ्यते ।
बृहत्क इति तत्रैष मणौ शब्दः प्रयुज्यते ॥ ३,१४.६१८ ॥
सादृश्यमेव सर्वत्र प्रकारः कैश्चिदिष्यते ।
भेदेऽपि तु प्रकाराख्या कैश्चिदभ्युपगम्यते ॥ ३,१४.६१९ ॥
प्रकारवचनः कश्चित्प्रकारवति संस्थितः ।
प्रकारमात्रे वर्तित्वा कश्चित्तद्वति वर्तते ॥ ३,१४.६२० ॥
सादृश्यग्रहणं सूत्रे सदृशस्योपलक्षणम् ।
तुल्ययोरव्ययीभावे सहशब्दोऽभिधायकः ॥ ३,१४.६२१ ॥
विप्सासादृश्ययोर्वृत्तिर्या यथार्थाभिधायिनः ।
स चायमव्ययीभावे भेदो भेदेन दर्शितः ॥ ३,१४.६२२ ॥
सादृश्यं योग्यता कैश्चिदनावभ्युपगम्यते ।
यत्तु मूर्तिगतं साम्यं तत्सहेनाभिधीयते ॥ ३,१४.६२३ ॥
इत्थंभावेऽपि सादृश्यं बुद्ध्यवस्थानिबन्धनम् ।
ग्रहणे भेदमात्रस्य तत्रान्यैवाभिधीयते ॥ ३,१४.६२४ ॥
गौर्वाहीक इति द्वित्वे सादृश्यं प्रत्युदाहृतम् ।
शुक्लादौ सति निष्पन्ने वाहीको न द्विरुच्यते ॥ ३,१४.६२५ ॥
इति भर्तृहरिकृतं वाक्यपदीयं समाप्तम्