Sanskrit

Charak Samhita: Sutra Sthanam

चरकसंहिता, सूत्रस्थान, १

अथातो दीर्घंजीवितीयम् अध्यायं व्याख्यास्यामः ।। चसं-१,१.१ ।।

आयुर्वेददीपिका

गुणत्रयविभेदेन मूर्तित्रयम् उपैयुषे ।
त्रयीभुवे त्रिनेत्राय त्रिलोकीपतये नमः ।। १ ।।

सरस्वत्यै नमो यस्याः प्रसादात् पुण्यकर्मभिः ।
बुद्धिदर्पणसंक्रान्तं जगदध्यक्षम् ईक्ष्यते ।। २ ।।

ब्रह्मदक्षाश्विदेवेशभरद्वाजपुनर्वसु ।।

हुताशवेशचरकप्रभृतिभ्यो नमो नमः ।। ३ ।।

पातञ्जलमहाभाष्यचरकप्रतिसंस्कृतैः ।
मनोवाक्कायदोषाणां हर्त्रे ऽहिपतये नमः ।। ४ ।।

नरदत्तगुरूद्दिष्टचरकार्थानुगामिनी ।
क्रियते चक्रदत्तेन टीकायुर्वेददीपिका ।। ५ ।।

सभ्याः सद्गुरुवाक्सुधास्रुतिपरिस्फीतश्रुतीन् अस्मि वो नालं तोषयितुं पयोदपयसा नाम्भोनिधिस् तृप्यति ।
व्याख्याभासरसप्रकाशनम् इदं त्व् अस्मिन् यदि प्राप्यते क्वापि क्वापि कणो गुणस्य तदसौ कर्णे क्षणं धीयताम् ।। ६ ।।

इह हि धर्मार्थकाममोक्षपरिपन्थिरोगोपशमाय ब्रह्मप्रभृतिभिः प्रणीतायुर्वेदतन्त्रेष्वतिविस्तरत्वेन सम्प्रति वर्तमानाल्पायुर्मेधसां पुरुषाणां न सम्यगर्थाधिगमः तदनधिगमाच्च तद्विहितार्थानामननुष्ठाने तथैवोपप्लवो रुजामिति मन्वानः परमकारुणिको ऽत्रभवान् अग्निवेशोऽल्पायुर्मेधसामपि सुरोपलम्भार्थं नातिसंक्षेपविस्तरं कायचिकित्साप्रधानम् आयुर्वेदतन्त्रं प्रणेतुम् आरब्धवान् ।। ७ ।।

तस्मिंश्च श्लोकनिदानविमानशारीरेन्द्रियचिकित्सितकल्पसिद्धिस्थानात्मके ऽभिधातव्ये निखिलतन्त्रप्रधानार्थाभिधाय ।। ८ ।।

क्ता इत्यादिवाक्याभिधायकेन दर्शितं मन्तव्यम् ।। ९ ।।

ननु प्रयोजनाभिधानं शास्त्रप्रवृत्त्यर्थमिति यदुक्तं तन्न युक्तं यतो न प्रयोजनाभिधानमात्रेण प्रयोजनवत्तावधारणं विप्रलम्भकसंसारमोचनप्रतिपादकादिशास्त्रेषु प्रयोजनाभिधानेऽपि निष्प्रयोजनत्वदर्शनात् ।। १० ।।

अथ मन्यसे आप्तप्रयोजनाभिधानमेतदतोऽत्र यथार्थत्वं ननु भो कथमयं प्रयोजनाभिधायी आप्तः तदभिहितशास्त्रस्य यथार्थत्वादिति चेत् हन्त न यावच्छास्त्रस्य प्रयोजनवत्तावधारणं न तावच्छास्त्रप्रवृत्तिः न यावच्छास्त्रप्रवृत्तिर् न तावच्छास्त्रस्य यथार्थत्वावधारणं न यावच्छास्त्रस्य यथार्थत्वावधारणं न तावच्छास्त्रस्य कर्तुराप्तत्वमवधार्यते आप्तत्वानवधृतौ च कुतस् तदभिहितप्रयोजनवत्तावधारणम् इति चक्रकमापद्यते अथ मन्यसे मा भवतु प्रयोजनवत्तावधारणम् अर्थरूपप्रयोजनवत्तासंदेह एव प्रवर्तको भविष्यति कृष्यादाव् अपि हि प्रवृत्तिर् अर्थसंदेहादेव न हि तत्र कृषीवलानां फललाभावधारणं विद्यते अन्तरावग्रहादेरपिसंभाव्यमानत्वात् नन्वेवमसत्यपि प्रयोजनाभिधाने सप्रयोजननिष्प्रयोजनशास्त्रदर्शनाच्छास्त्रत्वम् एव प्रयोजनवत्तासंदेहोपदर्शकम् अस्तु तथाप्यलं प्रयोजनाभिधानेन ।। ११ ।।

नैवं नहि सामान्येन प्रयोजनसंदेहः प्रयोजनविशेषार्थिनं तथा प्रवर्तयति यथाभिप्रेतप्रयोजनविशेषविषयः संदेहः अभिप्रेतविशेषविषयश्च संदेहो न विशेषविषयस्मरणमन्तरा भवति अतो ये तावद् अनवधृताग्निवेशप्रामाण्यास् तेषां धातुसाम्यसाधनमिदं शास्त्रं न वेत्येवम् आकारविशेषसंदेहोत्पादनार्थं प्रयोजनविशेषाभिधानं ये पुनः परमर्षेरग्निवेशस्याद्यत एवावधृतप्रामाण्यास्तेषां तदभिहितप्रयोजनवत्तावधारणेनैव प्रवृत्तिर् इति युक्तं प्रयोजनाभिधानम् ।। १२ ।।

प्रयोजनाभिधायिवाक्ये तु स्वल्पप्रयत्नबोध्ये प्रयोजनसामान्यसंदेहादेव प्रवृत्तिरुपपन्ना न पुनरनेकसंवत्सरक्लेशबोध्ये शास्त्रे ।। १३ ।।

तदेवं यदुच्यते प्रयोजनाभिधायिवाक्यप्रवृत्ताव् अपि प्रयोजनमभिधातव्यं तथा चानवस्था इति तन्निरस्तं भवति ।। १४ ।।

अथेत्यादि सूत्रे ऽथशब्दो ब्रह्मादिप्रणीततन्त्रेष्व् अल्पायुर्मेधसामर्थानवधारणस्य तथाभीष्टदेवतानमस्कारशास्त्रकरणार्थगुर्वाज्ञालाभयोर् आनन्तर्ये प्रयुक्तोऽपि शास्त्रादौ स्वरूपेण मङ्गलं भवत्युदकाहरणप्रवृत्तोदकुम्भदर्शनम् इव प्रस्थितानाम् ।। १५ ।।

ग्रन्थादौ मङ्गलसेवानिरस्तान्तरायाणां ग्रन्थकर्तृश्रोत्ःणाम् अविघ्नेनेष्टलाभो भवतीति युक्तं मङ्गलोपादानम् ।। १६ ।।

अथशब्दस्य मङ्गलत्वे स्मृतिर् ओंकारश् चाथशब्दश्च द्वाव् एतौ ब्रह्मणः पुरा ।। १७ ।।

कण्ठं भित्त्वा विनिर्यातौ तेन माङ्गलिकाव् उभौ इति ।। १८ ।।

शास्त्रान्तरे चादौ मङ्गलत्वेन दृष्टोऽयमथशब्दः ।। १९ ।।

यथा अथ शब्दानुशासनम् अथातो धर्मं व्याख्यास्यामः वै इत्यादौ ।। २० ।।

अभीष्टदेवतानमस्कारस्तु ग्रन्थादौ शिष्टाचारप्राप्तः परमशिष्टेनाग्निवेशेन कृत एव अन्यथा शिष्टाचारलङ्घनेन शिष्टत्वमेव न स्याद् व्याख्यानान्तरायभयश्च तथा ग्रन्थाविनिवेशितस्यापि नमस्कारस्य प्रत्यवायापहत्वाच्च न ग्रन्थनिवेशनम् ।। २१ ।।

यथा च गुर्वाज्ञालाभानन्तरम् एतत् तन्त्रकरणं तथा अथ मैत्रीपरः पुण्यम् इत्यादौ स्फुटमेव ।। २२ ।।

ग्रन्थकरणे च गुर्वनुमतिप्रतिपादनेन ग्रन्थस्योपादेयता प्रदर्शिता भवति ।। २३ ।।

यत् पुनः शिष्यप्रश्नानन्तर्यार्थत्वम् अथशब्दस्य वर्ण्यते तन्न मां धिनोति नहि शिष्यान् पुरो व्यवस्थाप्य शास्त्रं क्रियते श्रोतृबुद्धिस्थीकारे तु शास्त्रकरणं युक्तं न च बुद्धिस्थीकृताः प्रष्टारो भवन्ति ।। २४ ।।

अतःशब्दो ऽधिकारप्रागवध्युपदर्शकः अत ऊर्ध्वं यद् उपदेक्ष्यामो दीर्घंजीवितीयं तदिति यदि वा हेतौ येन ब्रह्मादिप्रणीतायुर्वेदतन्त्राणाम् उक्तेन न्यायेनोत्सम्बन्धत्वम् इव अतो हेतोर् दीर्घंजीवितीयं व्याख्यास्याम इति योजनीयम् ।। २५ ।।

दीर्घंजीवितीयम् इत्यत्र दीर्घंजीवितशब्दो ऽस्मिन्न् अस्तीति मत्वर्थे अध्यायानुवाकयोर् लुक् च इति छप्रत्ययः ।। २६ ।।

यदि वा दीर्घंजीवितशब्दम् अधिकृत्य कृतो ग्रन्थो ऽध्यायरूपस्तन्त्ररूपो वा इत्यस्यां विवक्षायाम् अधिकृत्य कृते ग्रन्थे इत्यधिकारात् शिशुक्रन्दयमसभ इत्यादिना छः ।। २७ ।।

एवमन्यत्राप्येवंजातीये मन्तव्यम् ।। २८ ।।

अत्र च सत्यपि शब्दान्तरे दीर्घंजीवितशब्देनैव संज्ञा कृता दीर्घंजीवितशब्दस्यैव प्रवचनादौ निवेशात् प्रशस्तत्वाच्च ।। २९ ।।

दीर्घंजीवितशब्दो ऽस्मिन्न् अस्ति इति दीर्घंजीवितशब्दम् अधिकृत्य कृतो वा इत्यनया व्युत्पत्त्या दीर्घंजीवितीयशब्दस् तन्त्रे ऽध्याये च प्रवर्तनीयः ।। ३० ।।

तेन दीर्घंजीवितीयं व्याख्यास्याम इत्यनेन तन्त्रं प्रति व्याख्यानप्रतिज्ञा लब्धा भवति पुनर् दीर्घंजीवितीयम् इति पदम् आवर्त्याध्यायपदसमभिव्याहृतम् अध्यायव्याख्यानप्रतिज्ञां लम्भयति ।। ३१ ।।

दृष्टं चावृत्य पदस्य योजनं यथा अपामार्गतण्डुलीये गौरवे शिरसः शूले पीनसे इत्यादौ शिरस इति पदं गौरवे इत्यनेन युज्यते आवृत्य शूले इत्यनेन च ।। ३२ ।।

अतश्च यदुच्यते अकृततन्त्रप्रतिज्ञस्याध्यायप्रतिज्ञा ऊनकायमानेति तन्निरस्तं भवति ।। ३३ ।।

यदि वा अध्यायप्रतिज्ञैवास्तु तयैव तन्त्रप्रतिज्ञाप्यर्थलब्धैव न ह्य् अध्यायस् तन्त्रव्यतिरिक्तः तेनावयवव्याख्याने तन्त्रस्याप्यवयविनो व्याख्या भवत्येव यथा अङ्गुलीग्रहणेन देवदत्तोऽपि गृहीतो भवति ।। ३४ ।।

अवयवान्तरव्याख्यानप्रतिज्ञा तु न लभ्यते तां तु प्रत्यध्यायमेव करिष्यति ।। ३५ ।।

अध्यायमिति अधिपूर्वादिङः इङश्च इति कर्मणि घञा साध्यम् ।। ३६ ।।

तेन अधीयते इत्यध्यायः ।। ३७ ।।

न चानया व्युत्पत्त्या प्रकरणचतुष्कस्थानादिष्वतिप्रसङ्गः यतो योगरूढेयम् अध्यायसंज्ञाध्यायस्य प्रकरणसमूहविशेष एव दीर्घंजीवितीयादिलक्षणे पङ्कजशब्दवद्वर्तते न योगमात्रेण वर्तते ।। ३८ ।।

वक्ष्यति हि अधिकृत्येयमध्यायनामसंज्ञा प्रतिष्ठिता इति नामसंज्ञा योगरूढसंज्ञेत्यर्थः ।। ३९ ।।

यदि वा करणाधिकरणयोर् अर्थयोः ।। ४० ।।

अध्यायन्यायोद्यावसंहाराश् च इतिसूत्रेण निपातनाद् अध्यायपदसिद्धिः ।। ४१ ।।

अधीयतेऽस्मिन्ननेन वार्थविशेष इत्यध्यायः ।। ४२ ।।

अतिप्रसक्तिनिषेधस् तूक्तन्यायः ।। ४३ ।।

व्याख्यास्याम इति व्याङ्पूर्वात् ख्यातेऌर्टा साध्यम् ।। ४४ ।।

चक्षिङो हि प्रयोगेऽनिच्छतो ऽपि व्याख्यातुः क्रियाफलसम्बन्धस्य दुर्निवारत्वेन स्वरितञित इत्यादिनात्मनेपदं स्यादिति ।। ४५ ।।

वि इति विशेषे विशेषाश्च व्याससमासादयः ।। ४६ ।।

आङयं क्रियायोगे ये तु मर्यादायाम् अभिविधौ वा आङ्प्रयोगं मन्यन्ते तेषाम् अभिप्रायं न विद्मः ।। ४७ ।।

यतो मर्यादायामभिविधौ चाङः प्रातिपदिकेन योगः स्यात् यथा आसमुद्रक्षितीशानाम् आपाटलीपुत्राद् वृष्टो देव इत्यादौ इहापि च तथा ।। ४८ ।।

क्रियायोगविरहे उपसर्गाः क्रियायोगे इति नियमाद् आङ उपसर्गत्वं न स्यात् ततश्चानुपसर्गेणाङा व्यवधानाद् वेर् उपसर्गस्य प्रयोगो न स्यात् ।। ४९ ।।

येनाव्यवहितः सजातीयव्यवहितो वा धातोर् उपसर्गो भवति ।। ५० ।।

व्याङोर् उभयोर् अप्यनुपसर्गत्वे तत्सम्बन्धोचितभूरिप्रातिपदिककल्पनागौरवप्रसङ्गः स्यात् तस्मात् क्रियायोगित्वम् एवाङो न्याय्यम् ।। ५१ ।।

अथ अतः दीर्घं जीवितीयम् अध्यायं विआख्यास्याम इत्यष्टपदत्वम् ।। ५२ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-१,१.२ ।।

आयुर्वेददीपिका

ननु कथमग्निवेशः सकलपदार्थाशेषविशेषज्ञानव्याख्येयम् आयुर्वेदं व्याख्यास्यति यतो न तावद् भेषजादीनाम् अशेषविशेषप्रत्यक्षज्ञेयः सर्वपदार्थानां विशेषाणां प्रत्यक्षाविषयत्वात् अन्वयव्यतिरेकाभ्यां तु सर्वपदार्थावधारणं दुष्करमेव यत एकम् एव मधु स्वरूपेण जीवयति मारयति चोष्णं समघृतं च कफप्रकृतेर्हितमहितं वातप्रकृतेः अनूपे सात्म्यमसात्म्यं मरौ शीते सेव्यमसेव्यं ग्रीष्मे हितम् अवृद्धे वृद्धे चाहितम् अल्पं गुणकरम् आबाधकरम् अत्युपयुक्तम् आमतां गतम् उदरे उपक्रमविरोधित्वाद् अतिविभ्रमकरं काकमाचीयुक्तं पक्वनिकुचेन च सहोपयुक्तं मरणाय अथवा बलवर्णवीर्यतेजौपघाताय भवति इत्येवमादि तत्तद् युक्तं तत्तच्छतशः करोति अत एवैकस्यैव मधुनो रूपं यदानेन प्रकारेण दुरधिगमं तदात्र कैव कथा निखिलपदार्थाशेषविशेषज्ञानस्य अजानंश्च व्याचक्षाणः कथमुपादेयवचन इति कृत्वा गुरोर् आप्तात् प्रतिपन्नं प्रतिपादयिष्याम इति दर्शयन् तामिमां शङ्कां निराचिकीर्षुर् गुरूक्तानुवादरूपतां स्वग्रन्थस्य दर्शयन्नाह इति ह स्माह भगवानात्रेय इति ।। १ ।।

अत्र इतिशब्दो वक्ष्यमाणार्थपरामर्शकः हशब्दोऽवधारणे यथा न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति अत्र न हेति नैवेत्यर्थः ।। २ ।।

अत्र स्माह इति स्मशब्दप्रयोगेन भूतमात्र एव लिडर्थे लट् स्मे इति लट् न भूतानद्यतनपरोक्षे आत्रेयोपदेशस्याग्निवेशं प्रत्यपरोक्षत्वात् ।। ३ ।।

यथा च भूतमात्रे लिड् भवति तथाच दर्शयिष्यामः ।। ४ ।।

भगं पूजितं ज्ञानं तद्वान् यथोक्तम् उत्पत्तिं प्रलयं चैव भूतानाम् आगतिं गतिम् ।। ५ ।।

वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति यदि वा भगशब्दः समस्तैश्वर्यमाहात्म्यादिवचनः यथोक्तम् ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।। ६ ।।

ज्ञानवैराग्ययोश्चैव षण्णां भग इतीङ्गनाः इति ।। ७ ।।

अत्रेरपत्यमात्रेयः अनेन विशुद्धवंशत्वं दर्शितं भवति ।। ८ ।।

अत्रान्ये वर्णयन्ति चतुर्विधं सूत्रं भवति गुरुसूत्रं शिष्यसूत्रं प्रतिसंस्कर्तृसूत्रम् एकीयसूत्रं चेति ।। ९ ।।

तत्र गुरुसूत्रं यथा नैतद् बुद्धिमता द्रष्टव्यम् अग्निवेश इत्यादि प्रतिसंस्कर्तृसूत्रं यथा तमुवाच भगवानात्रेयः इत्यादि शिष्यसूत्रं यथा नैतानि भगवन् पञ्चकषायशतानि पूर्यन्ते इत्यादि एकीयसूत्रं यथा कुमारस्य शिरः पूर्वमभिनिर्वर्तत इति कुमारशिरा भरद्वाजः इत्यादि ।। १० ।।

तेनाद्यं व्याख्यानप्रतिज्ञासूत्रं गुरोरेव शिष्यस्याग्निवेशस्य व्याख्याने ऽनधिकारत्वात् ।। ११ ।।

द्वितीयं च सूत्रं प्रतिसंस्कर्तुः ।
इतिशब्देन च प्रकारवाचिना दीर्घंजीवितीयं व्याख्यास्याम इति परामृश्यते तेनाह स्मेति भूतानद्यतनपरोक्ष एव भवति प्रतिसंस्कर्तारं प्रत्यात्रेयोपदेशस्य परोक्षत्वात् ।। १२ ।।

अनेन च न्यायेन तमुवाच भगवानात्रेय इत्यादाव् अपि लिड्विधिर् उपपन्नो भवति ।। १३ ।।

सुश्रुते च यथोवाच भगवान् धन्वन्तरिः इति प्रतिसंस्कर्तृसूत्रमिति कृत्वा टीकाकृता लिड्विधिर् उपपादितः इति ।। १४ ।।

अत्र ब्रूमः यत्तावदुक्तं शिष्यस्याग्निवेशस्य व्याख्यानानधिकारादिदं गुरोः सूत्रं तन्न नहि जात्या गुरुत्वम् अस्ति यतः स एवात्रेयः स्वगुरुम् अपेक्ष्य शिष्यः अग्निवेशादीन् अपेक्ष्य गुरुः एवमग्निवेशो ऽपि ग्रन्थकरणकाले स्वबुद्धिस्थीकृताञ्शिष्यान् प्रति गुरुरिति न कश्चिद् दोषः ।। १५ ।।

यत्पुनर्द्वितीयस्य प्रतिसंस्कर्तृसूत्रतया भूतानद्यतनपरोक्षे लिड्विधिर् उपपाद्यते तत्र विचार्यं किम् इदं द्वितीयं सूत्रं पूर्ववाक्यैकतापन्नं न वा यद्येकवाक्यतापन्नं तदा सुश्रुते तथा व्याख्यास्यामो यथोवाच धन्वन्तरिर् इति योजनीयं तथाच तथा व्याख्यास्याम इति क्रियैकवाक्यतापन्नम् उवाचेतिपदं न भिन्नकर्तृकं भवितुम् अर्हति तथा च कुतो लिड्विधिः अथ नैकतापन्नं तदा गौर् अश्वः पुरुषो हस्तीतिवन्नार्थसंगतिः ।। १६ ।।

किंच जतूकर्णादौ प्रतिसंस्कर्तृश्रुतिगन्धो ऽपि नास्ति तत् कथं नानाश्रुतपरिपूर्णकण्ठः शिष्यो जतूकर्णः प्राञ्जलिर् अधिगम्योवाच इत्यादौ लिड्विधिः ।। १७ ।।

अनेन न्यायेन चरके ऽपि प्रतिसंस्कर्तृसूत्रपक्षे लिड्विधिर्नास्ति तस्माच्चरके ऽग्निवेशः सुश्रुते सुश्रुत एव सूत्राणां प्रणेता क्वचित् किंचिदर्थं स्तोतुं निन्दितुं वाख्यायिकारूपं पुराकल्पं दर्शयन् किमपि सूत्रं गुरूक्तानुवादरूपतया किमप्येकीयमतानुवादरूपतया लिखति प्रतिसंस्कर्ता त्व् अयं ग्रन्थं पूरयति तदाद्यग्रन्थकर्तृतयैव ।। १८ ।।

लिड्विधिस्तु भूतानद्यतनमात्र एव छन्दोविहितो भाषायामपि वर्णनीयः अन्यथा उवाचेति पदं जतूकर्णादौ न स्यात् तथा च हरिवंशे धन्योपाख्याने मामुवाच इति तथा अहमुवाच इति च न स्यात् यथा स मामुवाचाम्बुचरः कूर्मो मानुषवत् स्वयम् ।। १९ ।।

किमाश्चर्यं मयि मुने धन्यश्चाहं कथं विभो इति तथा स्व्यम्भुवचनात् सो ऽहं वेदान् वै समुपस्थितः ।। २० ।।

उवाच चैनांश्चतुरः इति ।। २१ ।।

यदपि इति ह स्माह इत्यत्र इतिशब्देन पूर्वसूत्रं परामृश्यते तन्न येन दीर्घंजीवितीयादिसूत्रमात्रस्य तदर्थस्य वा गुरूक्तत्वप्रतिपादने सति नैवोत्तरत्राभिधेयाभिधानेन निखिलतन्त्रस्य गुरूक्तानुवादरूपतया करणं श्रोतृश्रद्धाकरणं प्रतिपादितं भवति ।। २२ ।।

भवति तु भावयितुं यथा पुरा व्याख्यातं तस्मात्तदेव न्याय्यमिति ।। २३ ।।

अग्निवेशस्य व्याख्यास्याम इति बहुवचनम् एकस्मिन्न् अप्य् अस्मदः प्रयोगाद्बहुवचनप्रयोगस्य साधुत्वात् साधु हि वदन्ति वक्तारो वयं करिष्यामः इति ।। २४ ।।

भगवानात्रेय इत्यत्र त्व् एकवचननिर्देशः कृतः भगवानित्यनेनैवात्रेयस्य गुरोर्गौरवस्य दर्शितत्वात् ।। २५ ।।
)

दीर्घं जीवितमन्विच्छन्भरद्वाज उपागमत् ।
इन्द्रमुग्रतपा बुद्ध्वा शरण्यममरेश्वरम् ।। चसं-१,१.३ ।।

ब्रह्मणा हि यथाप्रोक्तम् आयुर्वेदं प्रजापतिः ।
जग्राह निखिलेनादाव् अश्विनौ तु पुनस् ततः ।। चसं-१,१.४ ।।

अश्विभ्यां भगवाञ्छक्रः प्रतिपेदे ह केवलम् ।
ऋषिप्रोक्तो भरद्वाजस् तस्माच्छक्रम् उपागमत् ।। चसं-१,१.५ ।।

विघ्नभूता यदा रोगाः प्रादुर्भूताः शरीरिणाम् ।
तपोपवासाध्ययनब्रह्मचर्यव्रतायुषाम् ।। चसं-१,१.६ ।।

तदा भूतेष्वनुक्रोशं पुरस्कृत्य महर्षयः ।
समेताः पुण्यकर्माणः पार्श्वे हिमवतः शुभे ।। चसं-१,१.७ ।।

अङ्गिरा जमदग्निश्च वसिष्ठः कश्यपो भृगुः ।
आत्रेयो गौतमः सांख्यः पुलस्त्यो नारदोऽसितः ।। चसं-१,१.८ ।।

अगस्त्यो वामदेवश्च मार्कण्डेयाश्वलायनौ ।
पारिक्षिर्भिक्षुर् आत्रेयो भरद्वाजः कपिञ्जलः ।। चसं-१,१.९ ।।

विश्वामित्राश्मरथ्यौ च भार्गवश्च्यवनोऽभिजित् ।
गार्ग्यः शाण्डिल्यकौण्डिन्यौ वार्क्षिर् देवलगालवौ ।। चसं-१,१.१० ।।

सांकृत्यो बैजवापिश्च कुशिको बादरायणः ।
बडिशः शरलोमा च काप्यकात्यायनाव् उभौ ।। चसं-१,१.११ ।।

काङ्कायनः कैकशेयो धौम्यो मारीचकाश्यपौ ।
शर्कराक्षो हिरण्याक्षो लोकाक्षः पैङ्गिरेव च ।। चसं-१,१.१२ ।।

शौनकः शाकुनेयश्च मैत्रेयो मैमतायनिः ।
वैखानसा वालखिल्यास्तथा चान्ये महर्षयः ।। चसं-१,१.१३ ।।

ब्रह्मज्ञानस्य निधयो दमस्य नियमस्य च ।
तपसस्तेजसा दीप्ता हूयमाना इवाग्नयः ।। चसं-१,१.१४ ।।

सुखोपविष्टास्ते तत्र पुण्यां चक्रुः कथामिमाम् ।
आयुर्वेददीपिका
(
के ते महर्षय इत्याहाङ्गिरा इत्यादि ।। १ ।।

बह्वृषीणाम् अत्र कीर्तनं ग्रन्थादौ पापक्षयहेतुत्वेन तथायुर्वेदस्यैवंविधमहापुरुषसेवितत्वेन सेव्यत्वोपदर्शनार्थं चेति ।। २ ।।

एषु च मध्ये केचिद् यायावराः केचिच्छालीनाः केचिदयोनिजाः एवंप्रकाराश्च सर्वे मीलिता बोद्धव्याः ।। ३ ।।

भिक्षुरित्यात्रेयविशेषणं वक्ष्यति हि तन्नेति भिक्षुर् आत्रेयः इति ।। ४ ।।

वैखानसा इति कर्मविशेषप्रयुक्ता संज्ञा ।। ५ ।।

वालखिल्यास्तु स्वल्पप्रमाणाः केचिद् ऋषयः ।। ६ ।।

निधय इव निधयो ऽक्षयस्थानत्वेन ।। ७ ।।

दमो दान्तत्वम् ।। ८ ।।

इमामिति अग्रे वक्ष्यमाणाम् ।। ९ ।।
)

धर्मार्थकाममोक्षाणामारोग्यं मूलम् उत्तमम् ।। चसं-१,१.१५ ।।

रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च ।
प्रादुर्भूतो मनुष्याणामन्तरायो महान् अयम् ।। चसं-१,१.१६ ।।

कः स्यात्तेषां शमोपाय इत्युक्त्वा ध्यानमास्थिताः ।
अथ ते शरणं शक्रं ददृशुर्ध्यानचक्षुषा ।। चसं-१,१.१७ ।।

स वक्ष्यति शमोपायं यथावद् अमरप्रभुः ।
आयुर्वेददीपिका
(
धारणाद्धर्मः स चात्मसमवेतः कार्यदर्शनानुमेयः अर्थः सुवर्णादिः काम्यत इत कामो वनितापरिष्वङ्गादिः मोक्षः संसारविमोक्षः ।। १ ।।

आरोग्यं रोगाभावाद् धातुसाम्यम् ।। २ ।।

मूलं कारणम् ।। ३ ।।

उत्तममिति प्रधानं तेनारोग्यं चतुर्वर्गे प्रधानं कारणं रोगगृहीतस्य क्वचिदपि पुरुषार्थे ऽसमर्थत्वाद् इत्युक्तम् ।। ४ ।।

तस्यापहर्तार इति आरोग्यस्यापहर्तारः इदम् एव च रोगाणाम् आरोग्यापहरणं यद् अनर्थलाभः न पुनर् उत्पन्नो रोगः पश्चाद् आरोग्यम् अपहरति भावाभावयोः परस्पराभावात्मकत्वात् ।। ५ ।।

श्रेयसो जीवितस्य चेति श्रेयोवज्जीवितं हितत्वेन सुखत्वेन चार्थे दशमहामूलीये वक्ष्यमाणं तस्य जीवितस्यापहर्तार इति योजनीयम् अश्रेयोजीवितमहितत्वेन दुःखहेतुतया चानुपादेयम् इति कृत्वा तदपहरणमिह नोक्तम् ।। ६ ।।

अत्र सुखितजीवितोपघातो धर्माद्युपघातेनैव लब्धः तेन वयं पश्यामः श्रेयःशब्देन सामान्ये नाभ्युदयवाचिना धर्मादयो ऽभिधीयन्ते जीवितशब्देन च जीवितमात्रं यतो जीवितं स्वरूपेणैव सर्वप्राणिनां निरुपाध्युपादेयं वचनं हि आचकमे च ब्रह्मण इयमात्मा आशीः आयुष्मान् भूयासम् इति ।। ७ ।।

यत्त्वत्यन्तदुःखगृहीतस्य जीवितं जिहासितं तत्र दुःखस्यात्यन्तजिहासितस्यान्यथा हातुम् अशक्यत्वात् प्रियमपि जीवितं त्यक्तुम् इच्छति न स्वरूपेण ।। ८ ।।

अन्तराय इति धर्मादिसाधने बोद्धव्यः ।। ९ ।।

अयमिति रोगप्रादुर्भावरूपः ।। १० ।।

तेषामिति रोगाणाम् ।। ११ ।।

शरणमिति रक्षितारम् ।। १२ ।।

शक्तत्वाच्छक्र उच्यते ।। १३ ।।

ध्यानं समाधिविशेषः तदुपलब्धिसाधनत्वाच्चक्षुर् इव ध्यानचक्षुः तेन स वक्ष्यति शमोपायं यथावद् अमरप्रभुः इति ध्यानचक्षुषा ददृशुरिति योजना ।। १४ ।।
)

कः सहस्राक्षभवनं गच्छेत् प्रष्टुं शचीपतिम् ।। चसं-१,१.१८ ।।

अहमर्थे नियुज्येयम् अत्रेति प्रथमं वचः ।
भरद्वाजोऽब्रवीत्तस्मादृषिभिः स नियोजितः ।। चसं-१,१.१९ ।।

स शक्रभवनं गत्वा सुरर्षिगणमध्यगम् ।
ददर्श बलहन्तारं दीप्यमानमिवानलम् ।। चसं-१,१.२० ।।

सो ऽभिगम्य जयाशीर्भिरभिनन्द्य सुरेश्वरम् ।
प्रोवाच विनयाद्धीमान् ऋषीणां वाक्यम् उत्तमम् ।। चसं-१,१.२१ ।।

व्याधयो हि समुत्पन्नाः सर्वप्राणिभयंकराः ।
तद्ब्रूहि मे शमोपायं यथावदमरप्रभो ।। चसं-१,१.२२ ।।

तस्मै प्रोवाच भगवानायुर्वेदं शतक्रतुः ।
पदैरल्पैर्मतिं बुद्ध्वा विपुलां परमर्षये ।। चसं-१,१.२३ ।।

आयुर्वेददीपिका
(
अथैतेषु मध्ये भरद्वाजः कथम् इन्द्रम् उपागमद् इत्याह क इत्यादि ।। १ ।।

शचीपतिम् इत्यनेन शचीसम्भोगव्यासक्तम् अप्यहम् उपासितुं क्षम इति भरद्वाजो दर्शयति ।। २ ।।

अर्थे प्रयोजने ।। ३ ।।

नियुज्येयं व्यापारयेयम् ।। ४ ।।

अत्रेति प्रकृतप्रयोजन एव अत्रेतिशब्दो यस्मादर्थे ।। ५ ।।

यथा सुभिक्षम् इत्यागतः यस्मात् सुभिक्षं तस्मादागत इत्यर्थः ।। ६ ।।

नियोजित इति चौरादिको णिच न हेतौ ।। ७ ।।

अनेन प्रकरणेन भरद्वाजस्यायुर्वेदागमे विशेषेणार्थित्वान्न प्रेरणमिति दर्शितं भवति ।। ८ ।।

प्रोवाचेति सम्यगुवाच न तु प्रशब्दः प्रपञ्चार्थः पदैरल्पैर् इत्युक्तत्वात् ।। ९ ।।

कस्मात् पदैर् अल्पैर् उवाचेत्याह मतिं बुद्ध्वा विपुलाम् इति यस्माद् विपुलमतिं भरद्वाजं प्रतिपन्नवान् तस्मात् पदैर् अल्पैर् उवाचेति भावः मतिश् च बहुविषयत्वेनोपचाराद् विपुलेत्य् उच्यते सा च मतिः शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशवतीह विपुला बोद्धव्या ।। १० ।।

अत्र चेन्द्रेण दिव्यदृशा भरद्वाजाभिप्रायम् अग्रत एव बुद्ध्वायुर्वेद उपदिष्टः तेन भरद्वाजस्येन्द्रपृच्छादीह न दर्शितं किंवा भूतम् अपीन्द्रपृच्छादि ग्रन्थविस्तरभयाद् इह न लिखितम् ।। ११ ।।
)

हेतुलिङ्गौषधज्ञानं स्वस्थातुरपरायणम् ।
त्रिसूत्रं शाश्वतं पुण्यं बुबुधे यं पितामहः ।। चसं-१,१.२४ ।।

आयुर्वेददीपिका
(
यादृशो ऽसाव् अल्पपदैर् उपदिष्ट आयुर्वेदस्तमाह हेत्वित्यादि ।। १ ।।

हेतुलिङ्गौषधज्ञानमिति हेत्वादीनि ज्ञायन्ते ऽनेनेति हेतुलिङ्गौषधज्ञानं यावच् चायुर्वेदवाच्यं तावद्धेत्वाद्यन्तर्भूतम् इत्यर्थः ।। २ ।।

हेतुग्रहणेन संनिकृष्टविप्रकृष्टव्याधिहेतुग्रहणं लिङ्गग्रहणेन च व्याधेर् आरोग्यस्य च कृत्स्नं लिङ्गमुच्यते तेन व्याध्यारोग्ये ऽपि लिङ्गशब्दवाच्ये यतस्ताभ्यामपि हि तल्लिङ्गं लिङ्ग्यत एव वक्ष्यति हि विषमारम्भमूलानां ज्वर एको हि लक्षणम् ।। ३ ।।

विषमारम्भमूलाद्यैर् ज्वर एको निगद्यते इत्यादि औषधग्रहणेन च सर्वपथ्यावरोधः ।। ४ ।।

शरीरं चात्र हेतौ लिङ्गे चान्तर्भवति ।। ५ ।।

स्वस्थातुरयोः परमुत्कृष्टमयनं मार्ग इति स्वस्थातुरपरायणम् ।। ६ ।।

किमन्योऽयं हेतुलिङ्गौषधज्ञानरूप आयुर्वेदो ब्रह्मबुद्धादायुर्वेदाद् उतानन्य इत्याह त्रिसूत्रम् इत्यादि ।। ७ ।।

पितामहोऽपि यं त्रिसूत्रं बुबुधे तमिन्द्रः प्रोवाच ।। ८ ।।

त्रीणि हेत्वादीनि सूत्र्यन्ते यस्मिन् येन वा तन्त्रिसूत्रम् ।। ९ ।।

तत्र सूचनात् सूत्रणाच्चार्थसंततेः सूत्रम् ।। १० ।।

एतेन तं यथा ब्रह्मा त्रिसूत्रं बुबुधे तथैव हेतुलिङ्गौषधज्ञानम् इन्द्रः प्रोवाचेत्यविप्लुतमागमं दर्शयति ।। ११ ।।

बुबुध इति न कृतवान् ।। १२ ।।

अत एवोक्तं शाश्वतं नित्यम् इत्यर्थः ।। १३ ।।

तच्च नित्यत्वं सूत्रस्थानान्ते व्युत्पादनीयम् ।। १४ ।।
)

सो ऽनन्तपारं त्रिस्कन्धमायुर्वेदं महामतिः ।
यथावदचिरात् सर्वं बुबुधे तन्मना मुनिः ।। चसं-१,१.२५ ।।

तेनायुर् अमितं लेभे भरद्वाजः सुखान्वितम् ।
ऋषिभ्योऽनधिकं तच्च शशंसानवशेषयन् ।। चसं-१,१.२६ ।।

आयुर्वेददीपिका
(
अथोद्दिष्टम् आयुर्वेदं कथं गृहीतवान् भरद्वाज इत्याह सो ऽनन्तेत्यादि ।। १ ।।

अविद्यमानाव् अन्तपारौ यस्यासाव् अनन्तपारः अत्र पारशब्देन गोबलीवर्दन्यायेनादिर् उच्यते पारशब्दो ह्य् उभयोर् अपि नदीकूलयोर् विवक्षावशाद् वर्तते किंवा अनन्तो मोक्षः पारम् उत्कृष्टं फलं यस्यायुर्वेदस्यासाव् अनन्तपारः ।। २ ।।

वक्ष्यति हि चिकित्सा तु नैष्ठिकी या विनोपधाम् इति ।। ३ ।।

अत्र नैष्ठिकी मोक्षसाधनहेतुः ।। ४ ।।

त्रयो हेत्वादयः स्कन्धरूपा यस्य स त्रिस्कन्धः स्कन्धश्च स्थूलावयवः प्रविभागो वा ।। ५ ।।

तत्रैवायुर्वेदग्रहणे मनो यस्य स तन्मनाः ।। ६ ।।

मननाज्ज्ञानप्रकर्षशालित्वान् मुनिः ।। ७ ।।

एतेन यस्मादयं महामतिस् तन्मनाः मुनिश्च तेनानन्तपारमप्यायुर्वेदं हेत्वादिस्कन्धत्रयमालम्बनं कृत्वा यथावदचिरादेव प्रतिपन्नवान् इत्याशयः ।। ८ ।।

अचिरादिति अचिरेण ।। ९ ।।

अत्र च यथा ब्रह्मा त्रिसूत्रं बुबुधे यथा चेन्द्रो हेतुलिङ्गौषधज्ञानं प्रोवाच तथैव भरद्वाजोऽपि त्रिस्कन्धं तं बुबुधे इत्यनेनायुर्वेदस्याविप्लुतागमत्वम् उपदर्श्यते तेन त्रिसूत्रत्रिस्कन्धयोर् न पुनरुक्तिः ।। १० ।।

तेनेति इन्द्राद् गृहीतेनायुर्वेदेन ।। ११ ।।

अमितमिति अमितमिवामितम् अतिदीर्घत्वात् ।। १२ ।।

आयुःशब्दश्चायुःकारणे रसायनज्ञाने बोद्धव्यः येनोत्तरकालं हि रसायनोपयोगाद् अयं भरद्वाजोऽमितमायुरवाप्स्यति न ऋषिभ्य आयुर्वेदकथनात् पूर्वं रसायनमाचरति स्म किंवा सर्वप्राण्युपकारार्थाधीतायुर्वेदजनितधर्मवशात् तत्कालम् एवामितमायुर् लेभे भरद्वाज इति बोद्धव्यम् ।। १३ ।।

तच्चेति श्रुतं यदा तमिति पाठः तदा तम् आयुर्वेदम् ।। १४ ।।

अनवशेषयन्निति कार्त्स्न्येनेत्यर्थः ।। १५ ।।

आयुर्वेदम् अधीत्यानन्तरम् एवायं तमृषिभ्यो दत्तवान् ।। १६ ।।
)

ऋषयश्च भरद्वाजाज्जगृहुस् तं प्रजाहितम् ।
दीर्घमायुश्चिकीर्षन्तो वेदं वर्धनमायुषः ।। चसं-१,१.२७ ।।

महर्षयस्ते ददृशुर्यथावज्ज्ञानचक्षुषा ।
सामान्यं च विशेषं च गुणान् द्रव्याणि कर्म च ।। चसं-१,१.२८ ।।

समवायं च तज्ज्ञात्वा तन्त्रोक्तं विधिमास्थिताः ।
लेभिरे परमं शर्म जीवितं चाप्यनित्वरम् ।। चसं-१,१.२९ ।।

आयुर्वेददीपिका
(
दीर्घमायुश्चिकीर्षन्त इति प्राणिनाम् आत्मनश् च ।। १ ।।

ज्ञानार्थं ज्ञानरूपं वा चक्षुर् ज्ञानचक्षुः तेन ज्ञानचक्षुषा ।। २ ।।

गृहीतेन तेनायुर्वेदेन किं ददृशुरित्याह सामान्यं चेत्यादि ।। ३ ।।

एषां चोत्तरत्र लक्षणं षण्णां पदार्थानां विश्वरूपाणां भविष्यति तेनैतत् तत्रैव व्याकरणीयम् ।। ४ ।।

तद् इति सामान्यादि ।। ५ ।।

तन्त्रोक्तं विधिम् इति अपथ्यपरिहारपथ्योपादानरूपम् ।। ६ ।।

शर्म सुखम् ।। ७ ।।

परम् इति दुःखानाक्रान्तम् ।। ८ ।।

अनित्वरम् इति अगत्वरम् ।। ९ ।।
)

अथ मैत्रीपरः पुण्यमायुर्वेदं पुनर्वसुः ।
शिष्येभ्यो दत्तवान् षड्भ्यः सर्वभूतानुकम्पया ।। चसं-१,१.३० ।।

अग्निवेशश्च भेलश् च जतूकर्णाः पराशरः ।
हारीतः क्षारपाणिश्च जगृहुस्तन्मुनेर्वचः ।। चसं-१,१.३१ ।।

आयुर्वेददीपिका
(
अथेत्यादिना भरद्वाजशिष्यस्यात्रेयस्य पुनर्वस्वपरनाम्नो ऽग्निवेशादिगुरुतां दर्शयति ।। १ ।।

अत्र केचिद्भरद्वाजात्रेययोरैक्यं मन्यन्ते तन्न भरद्वाजसंज्ञया आत्रेयस्य क्वचिद् अपि तन्त्रप्रदेशे ऽकीर्तनात् हारीते चात्रेयादिगुरुतया भरद्वाज उक्तः शक्राद् अहम् अधीतवान् इत्यादिना मत्तः पुनरसंख्येयास् त्रिसूत्रं त्रिप्रयोजनम् ।। २ ।।

अत्रात्रेयादिपर्यन्ता विदुः सप्त महर्षयः ।। ३ ।।

आत्रेयाद्धारीत ऋषिर् इत्यन्तेन ।। ४ ।।

वाग्भटेन तु यदुक्तं ब्रह्मा स्मृत्वायुषो वेदं प्रजापतिम् अजिग्रहत् ।। ५ ।।

सो ऽश्विनौ तौ सहस्राक्षं सो ऽत्रिपुत्रादिकान् मुनीन् वा इत्यनेनात्रेयस्येन्द्रशिष्यत्वं तदायुर्वेदसमुत्थानीयरसायनपादे आदिशब्देन वक्ष्यमाणेन्द्रशिष्यतायोगात् समर्थनीयम् ।। ६ ।।

तत्र हीन्द्रेण पुनर्महर्षीणाम् आयुर्वेद उपदिष्ट इति वक्तव्यम् ।। ७ ।।

मैत्रीपरो मैत्रीप्रधानः मैत्री च सर्वप्राणिष्वात्मनीव बुद्धिः ।। ८ ।।
)

बुद्धेर् विशेषस् तत्रासीन्नोपदेशान्तरं मुनेः ।
तन्त्रस्य कर्ता प्रथमम् अग्निवेशो यतो ऽभवत् ।। चसं-१,१.३२ ।।

अथ भेलादयश् चक्रुः स्वं स्वं तन्त्रं कृतानि च ।
श्रावयामासुर् आत्रेयं सर्षिसंघं सुमेधसः ।। चसं-१,१.३३ ।।

श्रुत्वा सूत्रणम् अर्थानाम् ऋषयः पुण्यकर्मणाम् ।
यथावत् सूत्रितम् इति प्रहृष्टास् ते ऽनुमेनिरे ।। चसं-१,१.३४ ।।

सर्व एवास्तुवंस् तांश् च सर्वभूतहितैषिणः ।
साधु भूतेष्वनुक्रोश इत्युच्चैर् अब्रुवन् समम् ।। चसं-१,१.३५ ।।

तं पुण्यं शुश्रुवुः शब्दं दिवि देवर्षयः स्थिताः ।
सामराः परमर्षीणां श्रुत्वा मुमुदिरे परम् ।। चसं-१,१.३६ ।।

अहो साध्विति निर्घोषो लोकांस् त्रीन् अन्ववादयत् ।
नभसि स्निग्धगम्भीरो हर्षाद्भूतैर् उदीरितः ।। चसं-१,१.३७ ।।

शिवो वायुर् ववौ सर्वा भाभिर् उन्मीलिता दिशः ।
निपेतुः सजलाश् चैव दिव्याः कुसुमवृष्टयः ।। चसं-१,१.३८ ।।

अथाग्निवेशप्रमुखान् विविशुर् ज्ञानदेवताः ।
बुद्धिः सिद्धिः स्मृतिर् मेधा धृतिः कीर्तिः क्षमादयः ।। चसं-१,१.३९ ।।

तानि चानुमतान्येषाम् तन्त्राणि परमर्षिभिः ।
भवाय भूतसंघानां प्रतिष्ठां भुवि लेभिरे ।। चसं-१,१.४० ।।

हिताहितं सुखं दुःखम् आयुस् तस्य हिताहितम् ।
मानं च तच्च यत्रोक्तम् आयुर्वेदः स उच्यते ।। चसं-१,१.४१ ।।

शरीरेन्द्रियसत्त्वात्मसंयोगो धारि जीवितम् ।
नित्यगश् चानुबन्धश् च पर्यायैर् आयुर् उच्यते ।। चसं-१,१.४२ ।।

तस्यायुषः पुण्यतमो वेदो वेदविदां मतः ।
वक्ष्यते यन् मनुष्याणां लोकयोर् उभयोर् हितम् ।। चसं-१,१.४३ ।।

चरकसंहिता, सूत्रस्थान, १२
अथातो वातकलाकलीयम् अध्यायं व्याख्यास्यामः ।। चसं-१,१२.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-१,१२.२ ।।

आयुर्वेददीपिका
(
पूर्वाध्याये रोगाः स्वरूपमार्गबाह्यकारणभेषजैर् अभिहिताः उपयुक्तज्ञानास् तत्कारणवातादयो बहुवाच्यत्वान् नोक्ताः अतः सम्प्रति पृथक्प्रकरणे ते ऽभिधीयन्ते वातकलाकलीये तत्रापि प्राधान्याद् वायुरेव प्रथममुच्यते ।
कला गुणः यदुक्तं षोडशकलम् इति अकला गुणविरुद्धो दोषः तेन वातकलाकलीयो वातगुणदोषीय इत्यर्थः यदि वा कला सूक्ष्मो भागस् तस्यापि कला कलाकला तस्यापि सूक्ष्मो भाग इत्यर्थः ।। १ ।।
)

वातकलाकलाज्ञानमधिकृत्य परस्परमतानि जिज्ञासमानाः समुपविश्य महर्षयः पप्रच्छुरन्योऽन्यं किंगुणो वायुः किमस्य प्रकोपणम् उपशमनानि वास्य कानि कथं चैनम् असंघातवन्तम् अनवस्थितम् अनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा कानि चास्य कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वेति ।। चसं-१,१२.३ ।।

आयुर्वेददीपिका
(
अत्रानेकर्षिवचनरूपतया वातादिगुणवचनं बह्वृषिसम्मतिदर्शनार्थं तन्त्रधर्मैतिह्ययुक्तत्वकरणार्थं च ।
असंघातमिति पित्तश्लेष्मवद् अवयवसंघातरहितम् ।
अनवस्थितमिति चलस्वभावम् ।
अनासाद्येति चलत्वेनानिबिडावयत्वेन चेति मन्तव्यम् ।। १ ।।
)

अत्रोवाच कुशः सांकृत्यायनः रूक्षलघुशीतदारुणखरविशदाः षडिमे वातगुणा भवन्ति ।। चसं-१,१२.४ ।।

आयुर्वेददीपिका
(
रूक्षादयो भावप्रधानाः तेन रूक्षत्वादयो गुणा मन्तव्याः ।

दारुणत्वं चलत्वं चलत्वात् एवं दीर्घंजीवितीयोक्तं चलत्वमुक्तं भवति यदि वा दारुणत्वं शोषणत्वात्काठिन्यं करोतीति ।

।।

तच्छ्रुत्वा वाक्यं कुमारशिरा भरद्वाज उवाच एवमेतद्यथा भगवानाह एत एव वातगुणा भवन्ति स त्व् एवंगुणैर् एवंद्रव्यैर् एवम्प्रभावैश्च कर्मभिरभ्यस्यमानैर् वायुः प्रकोपमापद्यते समानगुणाभ्यासो हि धातूनां वृद्धिकारणमिति ।। चसं-१,१२.५ ।।

आयुर्वेददीपिका
(
कुमारशिरा इति भरद्वाजविशेषणम् आत्रेयगुरुभरद्वाजनिषेधार्थम् ।
एवम्प्रभावैरिति प्रभावाद् रौक्ष्यादिकारकैर् धावनजागरणादिभिः प्रभावाभिधानं च कर्मणां निर्गुणत्वात् ।
अभ्यस्यमानैरिति असकृत्प्रयुक्तैः ।। १ ।।
)

तच्छ्रुत्वा वाक्यं काङ्कायनो वाह्लीकभिषग् उवाच एवमेतद्यथा भगवानाह एतान्येव वातप्रकोपणानि भवन्ति अतो विपरीतानि वातस्य प्रशमनानि भवन्ति प्रकोपणविपर्ययो हि धातूनां प्रशमकारणमिति ।। चसं-१,१२.६ ।।

तच्छ्रुत्वा वाक्यं बडिशो धामार्गव उवाच एवमेतद्यथा भगवानाह एतान्येव वातप्रकोपप्रशमनानि भवन्ति ।
यथा ह्य् एनम् असंघातम् अनवस्थितमनासाद्य प्रकोपणप्रशमनानि प्रकोपयन्ति प्रशमयन्ति वा तथानुव्याख्यास्यामः वातप्रकोपणानि खलु रूक्षलघुशीतदारुणखरविशदशुषिरकराणि शरीराणां तथाविधेषु शरीरेषु वायुराश्रयं गत्वाप्यायमानः प्रकोपमापद्यते वातप्रशमनानि पुनः स्निग्धगुरूष्णश्लक्ष्णमृदुपिच्छिलघनकराणि शरीराणां तथाविधेषु शरीरेषु वायुर् असज्यमानश् चरन् प्रशान्तिमापद्यते ।। चसं-१,१२.७ ।।

आयुर्वेददीपिका
(
शरीराणामिति शरीरावयवानाम् ।
शुषिरकराणि रन्ध्रकराणि ।
आश्रयमिति समानगुणस्थानम् ।
आप्यायमानः चीयमानः ।
दारुणविपरीतो मृदुः शुषिरविपरीतो घनः ।
असज्यमानः अनवतिष्ठमानः क्षीयमाणावयव इति यावत् ।
एतेनैतदुक्तं भवति यद्यपि वायुना वातकारणानां वातशमनानां वा तथा सम्बन्धो नास्ति तथापि शरीरसम्बद्धैस् तैर् वातस्य शरीरचारिणः सम्बन्धो भवति ततश्च वातस्य समानगुणयोगाद्वृद्धिर् विपरीतगुणयोगाच्च ह्रास उपपन्न एवेति ।। १ ।।
)

तच्छ्रुत्वा बडिशवचनम् अवितथम् ऋषिगणैर् अनुमतमुवाच वायोर्विदो राजर्षिः एवमेतत् सर्वम् अनपवादं यथा भगवानाह ।
यानि तु खलु वायोः कुपिताकुपितस्य शरीराशरीरचरस्य शरीरेषु चरतः कर्माणि बहिःशरीरेभ्यो वा भवन्ति तेषामवयवान् प्रत्यक्षानुमानोपदेशैः साधयित्वा नमस्कृत्य वायवे यथाशक्ति प्रवक्ष्यामः वायुस्तन्त्रयन्त्रधरः प्राणोदानसमानव्यानापानात्मा प्रवर्तकश् चेष्टानाम् उच्चावचानां नियन्ता प्रणेता च मनसः सर्वेन्द्रियाणाम् उद्योजकः सर्वेन्द्रियानाम् अभिवोढा सर्वशरीरधातुव्यूहकरः संधानकरः शरीरस्य प्रवर्तको वाचः प्रकृतिः स्पर्शशब्दयोः श्रोत्रस्पर्शनयोर्मूलं हर्षोत्साहयोर् योनिः समीरणोऽग्नेः दोषसंशोषणः क्षेप्ता बहिर्मलानां स्थूलाणुस्रोतसां भेत्ता कर्ता गर्भाकृतीनाम् आयुषोऽनुवृत्तिप्रत्ययभूतो भवत्यकुपितः ।
कुपितस्तु खलु शरीरे शरीरं नानाविधैर्विकारैर् उपतपति बलवर्णसुखायुषाम् उपघाताय मनो व्याहर्षयति सर्वेन्द्रियाण्य् उपहन्ति विनिहन्ति गर्भान् विकृतिमापादयत्य् अतिकालं वा धारयति भयशोकमोहदैन्यातिप्रलापाञ् जनयति प्राणांश्चोपरुणद्धि ।
प्रकृतिभूतस्य खल्वस्य लोके चरतः कर्माणीमानि भवन्ति तद्यथा धरणीधारणं ज्वलनोज्ज्वालनम् आदित्यचन्द्रनक्षत्रग्रहगणानां संतानगतिविधानं सृष्टिश्च मेघानाम् अपां विसर्गः प्रवर्तनं स्रोतसां पुष्पफलानां चाभिनिर्वर्तनम् उद्भेदनं चौद्भिदानाम् ऋतूनां प्रविभागः विभागो धातूनां धातुमानसंस्थानव्यक्तिः बीजाभिसंस्तारः शस्याभिवर्धनम् अविक्लेदोपशोषणे अवैकारिकविकारश्चेति ।
प्रकुपितस्य खल्वस्य लोकेषु चरतः कर्माणीमानि भवन्ति तद्यथा शिखरिशिखरावमथनम् उन्मथनमनोकहानाम् उत्पीडनं सागराणाम् उद्वर्तनं सरसां प्रतिसरणमापगानाम् आकम्पनं च भूमेः आधमनम् अम्बुदानां नीहारनिर्ह्रादपांशुसिकतामत्स्यभेकोरगक्षाररुधिराश्माशनिविसर्गः व्यापादनं च षण्णामृतूनां शस्यानामसंघातः भूतानां चोपसर्गः भावानां चाभावकरणं चतुर्युगान्तकराणां मेघसूर्यानलानिलानां विसर्गः स हि भगवान् प्रभवश्चाव्ययश्च भूतानां भावाभावकरः सुखासुखयोर् विधाता मृत्युः यमः नियन्ता प्रजापतिः अदितिः विश्वकर्मा विश्वरूपः सर्वगः सर्वतन्त्राणां विधाता भावानामणुः विभुः विष्णुः क्रान्ता लोकानां वायुरेव भगवानिति ।। चसं-१,१२.८ ।।

आयुर्वेददीपिका
(
शरीराशरीरचरस्येति वातस्वरूपकथनं तेन शरीरेषु चरत इति बहिः शरीरेभ्यो वेति च पुनरुक्तं न भवति ।। १ ।।

अत्रावयवानिति वदन् कार्त्स्न्याभिधानमशक्यं बहुप्रपञ्चत्वादिति दर्शयति ।। २ ।।

साधयित्वा प्रतिपाद्य ।। ३ ।।

वातकर्मसु प्रत्यक्षाणि वचनादीनि मनःप्रेरणाद्यनुमेयं गर्भाकृतिकरणाद्यागमगम्यम् ।। ४ ।।

तन्त्रं शरीरं यद् उक्तं तन्त्रयन्त्रेषु भिन्नेषु तमोऽन्त्यं प्रविविक्षताम् इति तदेव यन्त्रं यदि वा तन्त्रस्य यन्त्रं संधयः ।। ५ ।।

प्राणाद्यात्मा प्राणादिस्वरूपः ।। ६ ।।

चेष्टाविशेषणम् उच्चावचानां विविधानाम् इत्यर्थः किंवा शुभाशुभानामित्यर्थः ।। ७ ।।

नियन्ता अनीप्सिते विषये प्रवर्तमानस्य मनसः प्रणेता च मनस एवेप्सिते ऽर्थे ।। ८ ।।

उद्योजकः प्रेरकः किंवा उद्योगकारक इति पाठः सो ऽप्यभिन्नार्थः ।। ९ ।।

अभिवोढेवाभिवोढा सर्वेन्द्रियार्थग्राहकत्वेन तच्चास्य वायुमयेन स्पर्शनेन्द्रियेण सर्वेन्द्रियाणां व्यापकत्वात् पूर्वाध्यायप्रतिपादितेन न्यायेन बोद्धव्यम् ।। १० ।।

व्यूहकरः संघातकरो रचनाकर इति यावत् ।। ११ ।।

प्रकृतिः कारणं शब्दकारणत्वं च वायोर्नित्यम् आकाशानुप्रवेशात् उक्तं हि खादीन्यभिधाय तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे इति ।। १२ ।।

तथा पुनरुक्तं खादीन्यभिधाय विष्टं ह्य् अपरं परेण इति ।। १३ ।।

श्रवणमूलत्वं वायोः कर्णशष्कुलीरचनाविशेषे व्याप्रियमाणत्वात् मूलं प्रधानकारणम् ।। १४ ।।

उत्साहः कार्येषूद्योगो मनसः ।। १५ ।।

योनिः अभिव्यक्तिकारणम् ।। १६ ।।

दोषसंशोषणः शरीरक्लेदसंशोषणः ।। १७ ।।

भेत्ता कर्ता एतच्च शरीरोत्पत्तिकाले ।। १८ ।।

भूतशब्दः स्वरूपवचनः ।। १९ ।।

उपघातायेति छेदः ।। २० ।।

गर्भानिति विकृतिम् आपादयत्यतिकालं धारयतीत्यनेन च सम्बध्यते ।। २१ ।।

आदित्यादीनां संतानेनाविच्छेदेन गतिविधानं संतानगतिविधानम् ।। २२ ।।

स्रोतसामिति नदीनाम् ।। २३ ।।

प्रविभागो विभक्तलक्षणम् ।। २४ ।।

धातूनामिति पृथिव्यादीनां धातवः कार्यद्रव्याणि प्रस्तरादीनि मानं परिमाणं संस्थानमाकृतिः तयोर्व्यक्तिरभिव्यक्तिः तत्र कारणमिति यावत् ।। २५ ।।

बीजस्य शाल्यादेः अभिसंस्कारोऽङ्कुरजननशक्तिः ।। २६ ।।

अविक्लेदः पाककालाद् अर्वाग् अविक्लिन्नत्वम् उपशोषणं च पाकेन यवादीनामार्द्राणामेव अविक्लेदोपशोषणे शस्यानामेव ।। २७ ।।

अवैकारिकविकारेण सर्वस्मिन्नेव जगति प्रकृतिरूपे कारणत्वं ब्रूते ।। २८ ।।

शिखरी पर्वतः ।। २९ ।।

अनोकहो वृक्षः ।। ३० ।।

ऊर्ध्वं वर्तनम् उद्वर्तनम् ।। ३१ ।।

प्रतिसरणं प्रतीपगमनम् ।। ३२ ।।

विसर्जनं विसर्गः स च पृथङ्नीहारादिभिः सम्बध्यते नीहारः शिशिरसमूहः निर्ह्रादो मेघं विना गर्जितम् अशनिः वज्रभेदोऽग्निः ।। ३३ ।।

असंघातः अनुत्पादो ऽनुपचयो वा ।। ३४ ।।

उपसर्गः मरकादिप्रादुर्भावः ।। ३५ ।।

मेघसूर्येत्यादौ विसर्गः सृष्टिः ।। ३६ ।।

वायुर् इह देवतारूपोऽभिप्रेतः तेन तस्य भूतलचतुर्युगान्तकरानिलकरणमविरुद्धम् एवं यदन्यद् अप्य् अनुपपद्यमानं वायोस् तदपि देवतारूपत्वेनैव समाधेयम् ।। ३७ ।।

सम्प्रति सामान्येन पुनः कुपिताकुपितस्य वायोः स्वरूपमुच्यते स हि भगवानित्यादि ।। ३८ ।।

प्रभवः कारणम् ।। ३९ ।।

अव्ययः अक्षयः ।। ४० ।।

भूतानाम् इत्युत्तरेण सम्बध्यते ।। ४१ ।।

मृत्युयमादिभेदाश्चागमे ज्ञेयाः ।। ४२ ।।

सर्वतन्त्राणां सर्वकर्मणां तन्त्रशब्दः कर्मवचनोऽप्यस्ति यदुक्तं वस्तिस्तन्त्राणां कर्मणामित्यर्थः ।। ४३ ।।
)

तच्छ्रुत्वा वायोर्विदवचो मरीचिरुवाच यद्यप्येवम् एतत् किमर्थस्यास्य वचने विज्ञाने वा सामर्थ्यमस्ति भिषग्विद्यायां भिषग्विद्याम् अधिकृत्येयं कथा प्रवृत्तेति ।। चसं-१,१२.९ ।।

वायोर्विद उवाच भिषक् पवनम् अतिबलम् अतिपरुषम् अतिशीघ्रकारिणम् आत्ययिकं चेन् नानुनिशाम्येत् सहसा प्रकुपितम् अतिप्रयतः कथमग्रेऽभिरक्षितुमभिधास्यति प्रागेवैनम् अत्ययभयात् वायोर्यथार्था स्तुतिर् अपि भवत्यारोग्याय बलवर्णविवृद्धये वर्चस्वित्वायोपचयाय ज्ञानोपपत्तये परमायुःप्रकर्षाय चेति ।। चसं-१,१२.१० ।।

मरीचिरुवाच अग्निरेव शरीरे पित्तान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथा पक्तिमपक्तिं दर्शनमदर्शनं मात्रामात्रत्वम् ऊष्मणः प्रकृतिविकृतिवर्णौ शौर्यं भयं क्रोधं हर्षं मोहं प्रसादम् इत्येवमादीनि चापराणि द्वंद्वानीति ।। चसं-१,१२.११ ।।

आयुर्वेददीपिका
(
पित्तान्तर्गत इति वचनेन शरीरे ज्वालादियुक्तवह्निनिषेधेन पित्तोष्मरूपस्य वह्नेः सद्भावं दर्शयति न तु पित्तादभेदं पित्ते नाग्निमान्द्यस्य ग्रहण्यध्याये वक्ष्यमाणत्वात् तथा पित्तहरस्य सर्पिषोऽग्निवर्धनत्वेनोक्तत्वात् ।। १ ।।

पक्तिमपक्तिमिति अविकृतिविकृतिभेदेन पाचकस्याग्नेः कर्म दर्शनादर्शने नेत्रगतस्यालोचकस्य ऊष्मणो मात्रामात्रत्वं वर्णभेदौ च त्वग्गतस्य भ्राजकस्य भयशौर्यादयो हृदयस्थस्य साधकस्य रञ्जकस्य तु बहिःस्फुटकार्यादर्शनाद् उदाहरणं न कृतम् ।। २ ।।
)

तच्छ्रुत्वा मरीचिवचः काप्य उवाच सोम एव शरीरे श्लेष्मान्तर्गतः कुपिताकुपितः शुभाशुभानि करोति तद्यथा दार्ढ्यं शैथिल्यमुपचयं कार्श्यम् उत्साहमालस्यं वृषतां क्लीबतां ज्ञानमज्ञानं बुद्धिं मोहमेवमादीनि चापराणि द्वंद्वानीति ।। चसं-१,१२.१२ ।।

आयुर्वेददीपिका
(
सोमो जलदेवता यदि वा चन्द्रः ।। १ ।।
)

तच्छ्रुत्वा काप्यवचो भगवान् पुनर्वसुरात्रेय उवाच सर्व एव भवन्तः सम्यग् आहुर् अन्यत्रैकान्तिकवचनात् सर्व एव खलु वातपित्तश्लेष्माणः प्रकृतिभूताः पुरुषमव्यापन्नेन्द्रियं बलवर्णसुखोपपन्नम् आयुषा महतोपपादयन्ति सम्यगेवाचरिता धर्मार्थकामा इव निःश्रेयसेन महता पुरुषमिह चामुष्मिंश् च लोके विकृतास्त्वेनं महता विपर्ययेणोपपादयन्ति क्रतवस् त्रय इव विकृतिमापन्ना लोकमशुभेनोपघातकाल इति ।। चसं-१,१२.१३ ।।

तदृषयः सर्व एवानुमेनिरे वचनमात्रेयस्य भगवतोऽभिननन्दुश् चेति ।। चसं-१,१२.१४ ।।

तदात्रेयवचः श्रुत्वा सर्व एवानुमेनिरे ।
ऋषयोऽभिननन्दुश्च यथेन्द्रवचनं सुराः ।। चसं-१,१२.१५ ।।

गुणाः षड् द्विविधो हेतुर् विविधं कर्म यत् पुनः ।
वायोश्चतुर्विधं कर्म पृथक् च कफपित्तयोः ।। चसं-१,१२.१६ ।।

महर्षीणां मतिर्या या पुनर्वसुमतिश्च या ।
कलाकलीये वातस्य तत् सर्वं संप्रकाशितम् ।। चसं-१,१२.१७ ।।

चरकसंहिता, सूत्रस्थान, २६ (आत्रेयभद्रकाप्यीय)
अथात आत्रेयभद्रकाप्यीयम् अध्यायं व्याख्यास्यामः ।। चसं-१,२६.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-१,२६.२ ।।

आयुर्वेददीपिका
(
हिताहितैकदेशम् अभिधाय कृत्स्नद्रव्यहिताहितत्वज्ञानार्थं रसवीर्यविपाकाभिधायक आत्रेयभद्रकाप्यीयो ऽभिधीयते ।। १ ।।

तत्रापि विपाकादीनामपि रसेनैव प्रायो लक्षणीयत्वाद्रसप्रकरणम् आदौ कृतम् ।। २ ।।
)

आत्रेयो भद्रकाप्यश्च शाकुन्तेयस् तथैव च ।
पूर्णाक्षश्चैव मौद्गल्यो हिरण्याक्षश्च कौशिकः ।। चसं-१,२६.३ ।।

यः कुमारशिरा नाम भरद्वाजः स चानघः ।
श्रीमान् वायोर्विदश्चैव राजा मतिमतां वरः ।। चसं-१,२६.४ ।।

निमिश्च राजा वैदेहो बडिशश्च महामतिः ।
काङ्कायनश्च वाह्लीको वाह्लीकभिषजां वरः ।। चसं-१,२६.५ ।।

एते श्रुतवयोवृद्धा जितात्मानो महर्षयः ।
वने चैत्ररथे रम्ये समीयुर्विजिहीर्षवः ।। चसं-१,२६.६ ।।

तेषां तत्रोपविष्टानाम् इयमर्थवती कथा ।
बभूवार्थविदां सम्यग्रसाहारविनिश्चये ।। चसं-१,२६.७ ।।

आयुर्वेददीपिका
(
मुनिमतैः पूर्वपक्षं कृत्वा सिद्धान्तव्यवस्थापनं शिष्यव्युत्पत्त्यर्थम् ।। १ ।।

रसेनाहारविनिश्चयो रसाहारविनिश्चयः किंवा अयं रसविनिश्चयः तथा परं चातो विपाकानाम् इत्यादिराहारविनिश्चयः ।। २ ।।
)

एक एव रस इत्युवाच भद्रकाप्यः यं पञ्चानाम् इन्द्रियार्थानाम् अन्यतमं जिह्वावैषयिकं भावमाचक्षते कुशलाः स पुनरुदकादनन्य इति ।
द्वौ रसाव् इति शाकुन्तेयो ब्राह्मणः छेदनीय उपशमनीयश्चेति ।
त्रयो रसा इति पूर्णाक्षो मौद्गल्यः छेदनीयोपशमनीयसाधारणा इति ।
चत्वारो रसा इति हिरण्याक्षः कौशिकः स्वादुर्हितश्च स्वादुर् अहितश् चास्वादुर् हितश्चास्वादुर् अहितश्चेति ।
पञ्च रसा इति कुमारशिरा भरद्वाजः भौमौदकाग्नेयवायव्यान्तरिक्षाः ।
षड्रसा इति वायोर्विदो राजर्षिः गुरुलघुशीतोष्णस्निग्धरूक्षाः ।
सप्त रसा इति निमिर्वैदेहः मधुराम्ललवणकटुतिक्तकषायक्षाराः ।
अष्टौ रसा इति बडिशो धामार्गवः मधुराम्ललवणकटुतिक्तकषायक्षाराव्यक्ताः ।
अपरिसंख्येया रसा इति काङ्कायनो वाह्लीकभिषक् आश्रयगुणकर्मसंस्वादविशेषाणाम् अपरिसंख्येयत्वात् ।। चसं-१,२६.८ ।।

आयुर्वेददीपिका
(
एक एवेत्यादि ।। १ ।।

इन्द्रियार्थानामिति निर्धारणे षष्ठी ।। २ ।।

अन्यतमम् इति एकम् अन्यशब्दो ह्य् अयमेकवचनः यथान्यो दक्षिणेन गतो ऽन्य उत्तरेण एक इत्यर्थः तम् अप्प्रत्ययश्च स्वार्थिकः ।। ३ ।।

जिह्वावैषयिकमिति जिह्वाग्राह्यम् ।। ४ ।।

रसाभावोऽपि जिह्वया गूह्यते ऽत आह भावमिति ।। ५ ।।

उदकादनन्य इति रसोदकयोर् एकत्वख्यापनार्थं पूर्वपक्षत्वाद् अदुष्टम् ।। ६ ।।

पूर्वपक्षश्च कपिलमतेन ते ।। ७ ।।

हि रसतन्मात्रं गन्धतन्मात्रम् इत्यादिवचनेन गुणाव्यतिरिक्तं द्रव्यमिति ब्रुवते ।। ८ ।।

छेदनीय इति अपतर्पणकारकः ।। ९ ।।

उपशमनीय इति बृंहणः ।। १० ।।

साधारण इत्याग्नेयसौम्यसामान्याद् उभयोर् अपि लङ्घनबृंहणयोः कर्ता परस्परविरोधादकर्ता वा ।। ११ ।।

स्वादुरिति अभीष्टः हित इति आयताव् अनपकारी ।। १२ ।।

आश्रीयत इत्याश्रयो द्रव्यं गुणाः स्निग्धगुर्वादयः कर्म धातुवर्धनक्षपणादि संस्वादः रसानाम् अवान्तरभेदः एषां विशेषाणां भेदानाम् इत्यर्थः ।। १३ ।।

तत्र द्रव्यभेदाद् आधारभेदेनाश्रितस्यापि रसस्य भेदो भवति आश्रयो हि कारणं कारणभेदाच्च कार्यभेदो ऽवश्यं भवतीत्यर्थः ।। १४ ।।

गुर्वादिगुणभेदस् तथा कर्मभेदाश्च रसकृता एव ।। १५ ।।

ततश् च कार्यभेदादवश्यं कारणभेद इति पूर्वपक्षाभिप्रायः ।। १६ ।।

संस्वादभेदस्तु एकस्याम् अपि मधुरजाताव् इक्षुक्षीरगुडादिगतः प्रत्यक्षमेव भेदो दृश्यते स तु संस्वादभेदः स्वसंवेद्य एव यदुक्तम् इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।। १७ ।।

भेदस्तथापि नाख्यातुं सरस्वत्यापि शक्यते इति ।। १८ ।।
)

षडेव रसा इत्युवाच भगवानात्रेयः पुनर्वसुः मधुराम्ललवणकटुतिक्तकषायाः ।
तेषां षण्णां रसानां योनिरुदकं छेदनोपशमने द्वे कर्मणी तयोर् मिश्रीभावात् साधारणत्वं स्वाद्वस्वादुता भक्तिः हिताहितौ प्रभावौ पञ्चमहाभूतविकारास् त्व् आश्रयाः प्रकृतिविकृतिविचारदेशकालवशाः तेष्वाश्रयेषु द्रव्यसंज्ञकेषु गुणा गुरुलघुशीतोष्णस्निग्धरूक्षाद्याः क्षरणात् क्षारः नासौ रसः द्रव्यं तदनेकरससमुत्पन्नम् अनेकरसं कटुकलवणभूयिष्ठम् अनेकेन्द्रियार्थसमन्वितं करणाभिनिर्वृत्तम् अव्यक्तीभावस्तु खलु रसानां प्रकृतौ भवत्यनुरसे ऽनुरससमन्विते वा द्रव्ये अपरिसंख्येयत्वं पुनस् तेषाम् आश्रयादीनां भावानां विशेषापरिसंख्येयत्वान्न युक्तम् एकैको ऽपि ह्य् एषाम् आश्रयादीनां भावानां विशेषान् आश्रयते विशेषापरिसंख्येयत्वात् न च तस्माद् अन्यत्वम् उपपद्यते परसारसंसृष्टभूयिष्ठत्वान्न चैषाम् अभिनिर्वृत्तेर् गुणप्रकृतीनाम् अपरिसंख्येयत्वं भवति तस्मान्न संसृष्टानां रसानां कर्मोपदिशन्ति बुद्धिमन्तः ।
तच्चैव कारणमपेक्षमाणाः षण्णां रसानां परस्परेणासंसृष्टानां लक्षणपृथक्त्वम् उपदेक्ष्यामः ।। चसं-१,२६.९ ।।

आयुर्वेददीपिका
(
सिद्धान्तं पुनर्वसुवचनेनाह षड् एवेत्यादि ।। १ ।।

पूर्वपक्षोक्तरसैकत्वादिव्यवस्थाम् आह तेषां षण्णामित्यादि ।। २ ।।

योनिः आधारकारणं कार्यकारणयोश्च भेदात् सिद्ध उदकाद्रसभेदः प्रत्यक्ष एवेति भावः ।। ३ ।।

क्षितिव्यतिरिक्तम् उदकमेव यथा रसयोनिस्तथा रसनार्थो रसस्तस्य इत्यादौ विवृतमेव दीर्घंजीवितीये ।। ४ ।।

तयोर्मिश्रीभावादिति कर्मणोर् अमूर्तयोर् मिश्रीभावानुपपत्तौ तदाधारयोर् द्रव्ययोर् मिश्रीभावादिति बोद्धव्यम् ।। ५ ।।

साधारणम् इति साधारणकार्ययोगित्वम् ।। ६ ।।

भक्तिः इच्छेत्यर्थः ।। ७ ।।

तेन यो यमिच्छति स तस्य स्वादुरस्वादुरितर इति पुरुषापेक्षौ धर्मौ न रसभेदकार्याव् इत्यर्थः ।। ८ ।।

पञ्चमहाभूतेत्यादौ तुशब्दो ऽवधारणे तेन आश्रया एव न रसा इत्यर्थः ।। ९ ।।

किंभूता भौमादयो भूतविकारा आश्रया इत्याह प्रकृतिविकृतिविचारदेशकालवशा इति वशशब्दो ऽधीनार्थः स च प्रकृत्यादिभिः प्रत्येकं योज्यः ।। १० ।।

तत्र प्रकृतिवशा यथा मुद्गाः कषाया मधुराश्च सन्तः प्रकृत्या लघवः एतद्धि लाघवं न रसवशं तथाहि सति कषायमधुरत्वाद् गुरुत्वं स्यात् विकृतिवशं च व्रीहेर् लाजानां लघुत्वं तथा सक्तुसिद्धपिण्डकानां च गुरुत्वं विचारणा विचारो द्रव्यान्तरसंयोग इत्यर्थः तेन विचारणावशं यथा मधुसर्पिषी संयुक्ते विषं तथा विषं चागदसंयुक्तं स्वकार्यव्यतिरिक्तकार्यकारि देशो द्विविधो भूमिर् आतुरश्च तत्र भूमौ श्वेतकापोती वल्मीकाधिरूढा विषहरी तथा हिमवति भेषजानि महागुणानि भवन्ति शरीरदेशे यथा सक्थिमांसाद् गुरुतरं स्कन्धक्रोडशिरस्पदाम् इत्यादि कालवशं तु यथा मूलकमधिकृत्योक्तं तद्बालं दोषहरं वृद्धं त्रिदोषं तथा यथर्तुपुष्पफलम् आददीत इत्यादि ।। ११ ।।

अत्र चैकप्रकरणोक्ता ये ऽनुक्तास् ते चकारात् स्वभावादिष्वेवान्तर्भावनीयाः ।। १२ ।।

यदुक्तं चरः शरीरावयवाः स्वभावो धातवः क्रियाः ।। १३ ।।

लिङ्गं प्रमाणं संस्कारो मात्रा चास्मिन् परीक्ष्यते इति ।। १४ ।।

तत्र चरशरीरावयवधातूनां देशेन ग्रहणं मात्रा विचारे प्रविशति शेषं स्वभावे तथा रसविमाने वक्ष्यमाणं चात्राप्रविष्टम् आहारविशेषायतनम् अन्तर्भावनीयं यथासम्भवम् ।। १५ ।।

स्निग्धरूक्षाद्या इत्यत्रादिग्रहणेनानुक्ता अपि तीक्ष्णमृद्वादयो न रसाः किंतु द्रव्यगुणाः पृथगेवेति दर्शयति ।। १६ ।।

क्षरणात् अधोगमनक्रियायोगात् क्षारो द्रव्यं नासौ रसः रसस्य हि निष्क्रियस्य क्रियानुपपन्नेत्यर्थः ।। १७ ।।

क्षरणं च क्षारस्य पानीययुक्तस्याधोगमनेन वदन्ति हि लौकिकाः क्षारं स्रावयामः इति शास्त्रं च छित्त्वा छित्त्वाशयात् क्षारः क्षरत्वात् क्षारयत्यधः इति ।। १८ ।।

हेत्वन्तरम् आह द्रव्यं तदनेकरसोत्पन्नम् इति अनेकरसेभ्यो मुष्ककापामार्गादिभ्य उत्पन्नम् अनेकरसोत्पन्नं यतश् चानेकरसोत्पन्नम् अत एवानेकरसं कारणगुणानुविधायित्वात् कार्यगुणस्येति भावः ।। १९ ।।

अनेकरसत्वमेवाह कटुकलवणभूयिष्ठम् इति ।। २० ।।

भूयिष्ठशब्देनाप्रधानरसान्तरसम्बन्धो ऽस्तीति दर्शयति ।। २१ ।।

हेत्वन्तरम् आह अनेकेन्द्रियार्थसमन्वितम् इति ।। २२ ।।

क्षारो हि स्पर्शेन गन्धेन चान्वितः तेन द्रव्यं रसे हि गुणे न स्पर्शो नापि गन्ध इति भावः ।। २३ ।।

हेत्वन्तरमाह करणाभिनिर्वृत्तमिति करणेन भस्मपरिस्रावणादिनाभिनिर्वृत्तं कृतम् इत्यर्थः न रसो ऽनेन प्रकारेण क्रियत इति भावः ।। २४ ।।

अव्यक्तरसपक्षं निषेधयति अव्यक्तीभाव इत्यादि ।। २५ ।।

अव्यक्तीभाव इत्यभूततद्भावे च्विप्रत्ययेन रसानां मधुरादीनां व्यक्तानाम् एव क्वचिदाधारे ऽव्यक्तत्वं नान्यो मधुरादिभ्यो ऽव्यक्तरस इत्यर्थः ।। २६ ।।

रसानामिति मधुरादीनां षण्णाम् ।। २७ ।।

प्रकृताव् इत्यादि ।। २८ ।।

प्रकृतौ कारणे जल इत्यर्थः ।। २९ ।।

अव्यक्तत्वं च रससामान्यमात्रोपलब्धिर् मधुरादिविशेषशून्या सा च जले भवति यत उक्तं जलगुणकथने सुश्रुते व्यक्तरसता रसदोषः इति इहापि च अव्यक्तरसं च इति वक्ष्यति लोकेऽपि चाव्यक्तरसं द्रव्यमास्वाद्य वक्तारो वदन्ति जलस्येवास्य रसो न कश्चिन् मधुरादिर् व्यक्त इति ।। ३० ।।

विशेषमधुराद्यनुपलब्धिश् चानुद्भूतत्वेन ।। ३१ ।।

यथा दूराद् अविज्ञायमानविशेषवर्णे वस्तुनि रूपसामान्यप्रतीतिर् भवति न शुक्लत्वादिविशेषबुद्धिः तथानुरसे ऽव्यक्तीभावो भवति प्रधानं व्यक्तं रसमनुगतो ऽव्यक्तत्वेनेत्यनुरसः यथा वेणुयवे मधुरे कषायो ऽनुरसः ।। ३२ ।।

यदुक्तं रूक्षः कषायानुरसो मधुरः कफपित्तहा इति ।। ३३ ।।

अनुरससमन्वित इति सर्वानुरसयुक्ते यथा विषे वचनं हि उष्णम् अनिर्देश्यरसम् इत्यादि ।। ३४ ।।

किंवा अणुरससमन्विते इति पाठस् तेन अणुरसेनैकेन मरिचेन शर्करापानके कटुत्वम् अव्यक्तं स्यात् ।। ३५ ।।

अपरिसंख्येयपक्षं दूषयति अपरीत्यादि ।। ३६ ।।

तेषामिति रसानाम् अपरिसंख्येयत्वं न युक्तम् आश्रयादीनां भावानामिति आश्रयगुणकर्मसंस्वादानाम् विशेषापरिसंख्येयत्वादिति आश्रयादिभेदस्यापरिसंख्येयत्वात् ।। ३७ ।।

अत्र हेतुमाह एकैकोऽपि हीत्यादि ।। ३८ ।।

एषामाश्रयगुणकर्मसंस्वादानां विशेषान् एकैको ऽपि मधुरादिर् आश्रयते न च तस्माद् आश्रयादिभेदाद् अन्यत्वम् आश्रितस्य मधुरादेर् भवति ।। ३९ ।।

एवं मन्यते यद्यपि शालिमुद्गघृतक्षीरादयो मधुरस्याश्रया भिन्नाः तथापि तत्र मधुरत्वजात्याक्रान्त एक एव रसो भवति बलाकाक्षीरकार्पासादिषु शुक्लवर्ण इव ।। ४० ।।

तथा गुणानां गुरुपिच्छिलस्निग्धादीनामन्यत्वे ऽपि कर्मणां वा रसादिवर्धनायुर्जननवर्णकरत्वादीनां भिन्नत्वे सत्यपि न मधुररसस्यान्यत्वं यत एक एव मधुरस् तत्तद्गुणयुक्तो भवति तत्कर्मकारी चेति को विरोधः ।। ४१ ।।

तथा मधुरस्यावान्तरास्वादभेदे ऽपि मधुरत्वजात्यनतिक्रमः कृष्णवर्णावान्तरभेदे यथा कृष्णत्वानतिक्रमः ।। ४२ ।।

ननु मैवं भवत्व् अपरिसंख्येयत्वं रसानां परस्परसंयोगात् तु य आस्वादविशेषः स कार्यविशेषकरो ऽपि न हि यन्मधुराम्लेन क्रियते तन्मधुरेण वाम्लेन वा शक्यम् अतस्तेन परस्परसंयोगेनापरिसंख्येयत्वं भविष्यतीत्याह परस्परेत्यादि ।। ४३ ।।

संसृष्टम् इति भावे क्तः तेन परस्परसंसर्गभूयिष्ठत्वाद् एषां मधुरादीनाम् अभिनिर्वृत्तेर्न गुणप्रकृतीनाम् असंख्येयत्वम् इति योजना अयमर्थः यद्यपि रसाः परस्परसंसर्गेणातिभूयसा युक्ताः सन्तो ऽभिनिर्वृत्ता द्विरसादौ द्रव्ये भवन्ति तथापि न तेषां गुणा गुरुलघ्वादयः प्रकृतयो वा मधुरादीनां या या आयुष्यत्वरसाभिवर्धकत्वाद्यास् ता असंख्येया भवन्ति किंतु य एव मधुरादीनां प्रत्येकं गुणाः प्रकृतयश्च उद्दिष्टास्त एव मिश्रा भवन्ति ।। ४४ ।।

किंवा गुणप्रकृतीनामिति मधुरादिषड्गुणस्वरूपाणाम् इत्यर्थः तेन रसस्य रसान्तरसंसर्गे दोषाणामिव दोषान्तरसंसर्गे रसानां नापरिसंख्येयत्वम् इत्यर्थः ।। ४५ ।।

प्रकृतिशब्देन कर्म वोच्यते तेन गुणकर्मणाम् इत्यर्थः ।। ४६ ।।

मधुरादीनाम् अवान्तरास्वादविशेषोऽपि परस्परसंसर्गकृतो ज्ञेयः ।। ४७ ।।

यत एव हेतो रसानां संसृष्टानां नान्ये गुणकर्मणी भवतः अत एव संसृष्टानां रसानां पृथक्कर्म शास्त्रान्तरे ऽपि नोक्तम् इत्याह तस्माद् इत्यादि ।। ४८ ।।

कर्मशब्देनेह गौरवलाघवादिकारका गुरुत्वादयो रसरक्तादिजननादयश् चापि बोद्धव्याः ।। ४९ ।।

न केवलम् अन्यशास्त्रकारै रसानां संसृष्टानां कर्म नोपदिष्टं किंतु वयमपि नोपदेक्ष्याम इत्याह तच्चैवेत्यादि ।। ५० ।।

तच्चैव कारणमिति परस्परसंसर्गेऽपि रसानाम् अनधिकगुणकर्मत्वम् ।। ५१ ।।

लक्षणेन पृथक्त्वं लक्षणपृथक्त्वम् ।। ५२ ।।

तत्र लक्ष्यते येन तल्लक्षणम् अतस्तु मधुरो रसः इत्यादिना ग्रन्थेन तथा स्नेहनप्रीणनह्लादन इत्यादिना च यद्वाच्यं तत् सर्वं गृह्यते ।। ५३ ।।

किंवा लक्षणशब्देन मधुरो रस इत्यादिग्रन्थवाच्यं लक्षणम् उच्यते पृथक्त्वं च रसभेदज्ञानार्थं यद् वक्ष्यति स्नेहनप्रीणन इत्यादि तद् गृह्यते ।। ५४ ।।
)

अग्रे तु तावद् द्रव्यभेदम् अभिप्रेत्य किंचिद् अभिधास्यामः ।
सर्वं द्रव्यं पाञ्चभौतिकमस्मिन्नर्थे तच्चेतनावदचेनं च तस्य गुणाः शब्दादयो गुर्वादयश् च द्रवान्ताः कर्म पञ्चविधमुक्तं वमनादि ।। चसं-१,२६.१० ।।

आयुर्वेददीपिका
(
अग्रे त्व् इत्यादि ।
रसेषु वाच्येषु द्रव्यभेदम् अभिप्रेत्य प्रतिपादनीयतया परिगृह्य रसानां द्रव्यज्ञानाधीनज्ञानत्वाद् द्रव्याभिधानम् अग्रे कृतम् इत्यर्थः ।। १ ।।

किंचिदिति आयुर्वेदोपयोगिद्रव्यस्वरूपं न सर्वम् अप्रसङ्गदोषाद् इति भावः ।। २ ।।

सर्वद्रव्यम् इति कार्यद्रव्यम् ।। ३ ।।

अस्मिन्न् अर्थे अस्मिन् प्रकरणे ।। ४ ।।

द्रवान्ता इति वचनेन पूर्वोक्तान् विंशतिगुणान् आह ।। ५ ।।

अत्र च परत्वापरत्वादीनाम् इहानभिधानेन चिकित्सायां परत्वादीनाम् अप्राधान्यं दर्शयति ये ऽपि तत्रापि युक्तिसंयोगपरिमाणसंस्काराभ्यासा अत्यर्थचिकित्सोपयोगिनो ऽपि न ते पार्थिवादिद्रव्याणां शब्दादिवत् सांसिद्धिकाः किं तर्ह्य् आधेयाः अत इह नैसर्गिकगुणकथने नोक्ताः ।। ६ ।।

उक्तम् इति अपामार्गतण्डुलीये ।। ७ ।।

एतच्च प्राधान्यादुच्यते तेन बृंहणाद्यपि बोद्धव्यम् ।। ८ ।।
)

तत्र द्रव्याणि गुरुखरकठिनमन्दस्थिरविशदसान्द्रस्थूलगन्धगुणबहुलानि पार्थिवानि तान्युपचयसंघातगौरवस्थैर्यकराणि द्रवस्निग्धशीतमन्दमृदुपिच्छिलरसगुणबहुलान्य् आप्यानि तान्य् उपक्लेदस्नेहबन्धविष्यन्दमार्दवप्रह्लादकराणि उष्णतीक्ष्णसूक्ष्मलघुरूक्षविशदरूपगुणबहुलान्य् आग्नेयानि तानि दाहपाकप्रभाप्रकाशवर्णकराणि लघुशीतरूक्षखरविशदसूक्ष्मस्पर्शगुणबहुलानि वायव्यानि तानि रौक्ष्यग्लानिविचारवैशद्यलाघवकराणि मृदुलघुसूक्ष्मश्लक्ष्णशब्दगुणबहुलान्य् आकाशात्मकानि तानि मार्दवसौषिर्यलाघवकराणि ।। चसं-१,२६.११ ।।

आयुर्वेददीपिका
(
बहुलशब्दो गुर्वादिभिः प्रत्येकं सम्बध्यते किंवा गन्धेनैव यतो गन्धगुणबहुला पृथिव्येव भवति अत एव द्रव्यान्तरलक्षणे ऽपि वैशेषिकगुणो ऽन्त एव पठ्यते रसगुणबहुलानि इत्यादि तेन तत्रापि रसादिभिर् एव बहुलशब्दो योज्यः ।। १ ।।

सर्वकार्यद्रव्याणां पाञ्चभौतिकत्वे ऽपि पृथिव्याद्युत्कर्षेण पार्थिवत्वादि ज्ञेयम् ।। २ ।।

संघातः काठिन्यं स्थैर्यम् अविचाल्यम् ।। ३ ।।

बन्धनं परस्परयोजनं प्रह्लादः शरीरेन्द्रियतर्पणम् ।। ४ ।।

सूक्ष्मं सूक्ष्मस्रोतोऽनुसारि ।। ५ ।।

प्रभा वर्णप्रकाशिनी दीप्तिः यदुक्तं वर्णमाक्रामति छाया प्रभा वर्णप्रकाशिका इत्यादि ।। ६ ।।

विचरणं विचारो गतिर् इत्यर्थः ।। ७ ।।

सौषिर्यं रन्ध्रबहुलता ।। ८ ।।

अत्राकाशबाहुल्यं द्रव्यस्य पृथिव्यादिभूतान्तराल्पत्वेन भूरिव्यक्ताकाशत्वेन च ज्ञेयं यदेव भूरिशुषिरं तन्नाभसं किंवा आकाशगुणबहुलत्वेन नाभसं द्रव्यम् इत्युच्यते ।। ९ ।।
)

अनेनोपदेशेन नानौषधिभूतं जगति किंचिद् द्रव्यम् उपलभ्यते तां तां युक्तिम् अर्थं च तं तम् अभिप्रेत्य ।। चसं-१,२६.१२ ।।

आयुर्वेददीपिका
(
अनेनेति प्रतिनियतद्रव्यगुणोपदेशेन यत् पार्थिवादि द्रव्यं यद्गुणं तद्गुणे देहे संपाद्ये तद् भेषजं भवतीत्यर्थः ।। १ ।।

तच्च पार्थिवादि द्रव्यं न सर्वथा न च सर्वस्मिन् व्याधौ भेषजमित्याह तां तां युक्तिम् इत्यादि ।। २ ।।

युक्तिम् इति उपायम् अर्थमिति प्रयोजनम् अभिप्रेत्येति अधिकृत्य तेन केनचिदुपायेन क्वचित् प्रयोजने किंचिद् द्रव्यमौषधं भवति न सर्वत्र ।। ३ ।।

तेन यदुच्यते वैरोधिकानां सर्वदापथ्यत्वेन नानौषधं द्रव्यम् इति वचो विरोधि तन्न भवति वैरोधिकानि हि संयोगसंस्कारदेशकालाद्यपेक्षाणि भवन्ति वैरोधिकसंयोगाद्यभावे तु पथ्यान्यपि क्वचित् स्युः ।। ४ ।।

यान्यपि सर्वदापि स्वभावादेव विषमन्दकादीन्यपथ्यानि तान्यप्य् उपाययुक्तानि क्वचित् पथ्यानि भवन्ति यथा उदरे विषस्य तिलं दद्यात् इत्यादि ।। ५ ।।

यत्तु तृणपांशुप्रभृतीनि नोपयुज्यन्ते अतो न तानि भेषजानीत्युच्यते तन्न तेषामपि भेषजस्वेदाद्युपायत्वेन भेषजत्वात् ।। ६ ।।
)

न तु केवलं गुणप्रभावादेव द्रव्याणि कार्मुकाणि भवन्ति द्रव्याणि हि द्रव्यप्रभावाद् गुणप्रभावाद् द्रव्यगुणप्रभावाच् च तस्मिंस्तस्मिन् काले तत्तदधिकरणम् आसाद्य तां तां च युक्तिमर्थं च तं तमभिप्रेत्य यत् कुर्वन्ति तत् कर्म येन कुर्वन्ति तद्वीर्यं यत्र कुर्वन्ति तदधिकरणं यदा कुर्वन्ति स कालः यथा कुर्वन्ति स उपायः यत् साधयन्ति तत् फलम् ।। चसं-१,२६.१३ ।।

आयुर्वेददीपिका
(
पार्थिवादिद्रव्याणां गुरुखरादिगुणयोगाद् भेषजत्वम् उक्तं तेन गुणप्रभावादेव भेषजं स्यादिति शङ्कां निरस्यन्न् आह न तु केवलम् इत्यादि ।। १ ।।

द्रव्यप्रभावाद् यथा दन्त्या विरेचकत्वं तथा मणीनां विषादिहन्तृत्वम् इत्यादि ।। २ ।।

गुणप्रभावाद्यथा ज्वरे तिक्तको रसः शीते ऽग्निर् इत्यादि ।। ३ ।।

द्रव्यगुणप्रभावाद् यथा कृष्णाजिनस्योपरीति अत्रापि कृष्णत्वं गुणोऽजिनं च द्रव्यमभिप्रेतं यथा वा मण्डलैर् जातरूपस्य तस्या एव पयः शृतम् तत्र मण्डलगुणयुक्तस्यैव जातरूपस्य कार्मुकत्वम् ।। ४ ।।

कथं कुर्वन्तीत्याह तस्मिंस् तस्मिन्न् इत्यादि ।। ५ ।।

तां तां युक्तिमासाद्येति तां तां योजनां प्राप्य ।। ६ ।।

यत् कुर्वन्तीत्यादाव् उदाहरणं यथा शिरोविरेचनद्रव्याणि यच्छिरोविरेचनं कुर्वन्ति तच् छिरोविरेचनं कर्म येनोष्णत्वादिकारणेन शिरोविरेचनं कुर्वन्ति तद्वीर्यं वीर्यं शक्तिः सा च द्रव्यस्य गुणस्य वा यत्र शिरोविरेचनं कुर्वन्ति तदधिकरणं शिरः नान्यत्राधिकरणे शिरोविरेचनद्रव्यं प्रभवतीत्यर्थः यदेति वसन्तादौ शिरोगौरवादियुक्ते च काले एतेनाकाले शीते शिरोविरेचनं स्तब्धत्वान्न कार्मुकं किंतु स्वकाल एव यथा येन प्रकारेण प्रधमनावपीडनादिना तथा प्रसारिताङ्गमुत्तानं शयने संस्तरास्तृते ।। ७ ।।

ईषत् प्रलम्बशिरसं संवेश्य चावृतेक्षणम् इत्यादिना विधिना कुर्वन्ति स उपायः यत् साधयन्ति शिरोगौरवशूलाद्युपरमं तत् फलं फलम् उद्देश्यम् ।। ८ ।।

कर्म कार्यं साधनम् उद्देश्यं फलं साध्यं यथा यागनिष्पाद्यो धर्मः कार्यतया कर्म तज्जन्यस्तु स्वर्गादिर् उद्देश्यः फलम् एवं वमनादिष्वपि कर्माधिकरणाद्युन्नेयम् ।। ९ ।।
)

भेदश् चैषां त्रिषष्टिविधविकल्पो द्रव्यदेशकालप्रभावाद् भवति तम् उपदेक्ष्यामः ।। चसं-१,२६.१४ ।।

आयुर्वेददीपिका
(
सम्प्रति द्रव्यम् अभिधाय विकृतानां रसानाम् एव भेदम् आह भेदश् चैषाम् इत्यादि ।। १ ।।

प्रभावशब्दो द्रव्यदेशकालैः प्रत्येकं युज्यते तत्र द्रव्यप्रभावाद् यथा सोमगुणातिरेकान् मधुरः इत्यादि देशप्रभावाद् यथा हिमवति द्राक्षादाडिमादीनि मधुराणि भवन्त्यन्यत्राम्लानीत्यादि कालप्रभावाद्यथा बालाम्रं सकषायं तरुणमम्लं पक्वं मधुरं तथा हेमन्ते ओषध्यो मधुरा वर्षास्व् अम्ला इत्यादि ।। २ ।।

अग्निसंयोगादयो ये ऽन्ये रसहेतवस् ते ऽपि काले द्रव्ये वान्तर्भावनीयाः ।। ३ ।।
)

स्वादुरम्लादिभिर्योगं शेषैरम्लादयः पृथक् ।
यान्ति पञ्चदशैतानि द्रव्याणि द्विरसानि तु ।। चसं-१,२६.१५ ।।

आयुर्वेददीपिका
(
भेदमाह स्वादुर् इत्यादि ।। १ ।।

तत्र स्वादोरम्लादियोगात् पञ्च शेषैर् इति आदित्वेनोपयुक्ताद् अन्यैः तेनाम्लस्य लवणादियोगाच् चत्वारि एवं लवणस्य कट्वादियोगात् त्रीणि कटुकस्य तिक्तकषाययोगाद् द्वे तिक्तस्य कषाययोगाद् एकम् एवं पञ्चदश द्विरसानि ।। २ ।।
)

पृथगम्लादियुक्तस्य योगः शेषैः पृथग्भवेत् ।
मधुरस्य तथाम्लस्य लवणस्य कटोस् तथा ।। चसं-१,२६.१६ ।।

त्रिरसानि यथासंख्यं द्रव्याण्युक्तानि विंशतिः ।
आयुर्वेददीपिका
(
त्रिरसम् आह पृथग् इत्यादि ।। १ ।।

मधुरस्याम्लादिरसचतुष्टयेन पृथग् इत्येकैकशो युक्तस्य शेषैर्लवणादिभिर् योगो भवति तत्र मधुरस्याम्लयुक्तस्य शेषलवणादियोगाच् चत्वारि तथा मधुरस्य लवणयुक्तस्य कट्वादियोगात् त्रीणि तथा कटुयुक्तस्य तिक्तादियोगाद् द्वे तथा तिक्तयुक्तस्य कषाययोगाद् एकम् एवं मधुरेणादिस्थितेन दश ।। २ ।।

एवमम्लस्यादिस्थितस्य लवणयुक्तस्य कट्वादियोगात् त्रीणि तथा कटुकयुक्तस्य शेषाभ्यां योगाद् द्वे एवं तिक्तयुक्तस्य कषाययोगाद् एकम् एवम् अम्लस्य षट् ।। ३ ।।

अनेनैव न्यायेन लवणस्य त्रीणि कटोश् चैकमेव एवं मिलित्वा त्रिरसानि विंशतिः ।। ४ ।।
)

वक्ष्यन्ते तु चतुष्केण द्रव्याणि दश पञ्च च ।। चसं-१,२६.१७ ।।

स्वाद्वम्लौ सहितौ योगं लवणाद्यैः पृथग्गतौ ।
योगं शेषैः पृथग्यातश्चतुष्करससंख्यया ।। चसं-१,२६.१८ ।।

सहितौ स्वादुलवणौ तद्वत् कट्वादिभिः पृथक् ।
युक्तौ शेषैः पृथग्योगं यातः स्वादूषणौ तथा ।। चसं-१,२६.१९ ।।

कट्वाद्यैरम्ललवणौ संयुक्तौ सहितौ पृथक् ।
यातः शेषैः पृथग्योगं शेषैरम्लकटू तथा ।। चसं-१,२६.२० ।।

युज्येते तु कषायेण सतिक्तौ लवणोषणौ ।
आयुर्वेददीपिका
(
चतूरसे स्वाद्वम्लाव् आदिस्थितौ लवणादिभिर् एकैकश्येन युक्तौ शेषैः कट्वादिभिर् योगात् षड् भवन्ति ।। १ ।।

स्वादुलवणौ सहितौ आदिस्थितौ कट्वादिभिरिति कटुतिक्ताभ्यां पृथग्युक्तौ शेषैर् इति तिक्तकषायाभ्यां तेनेह बहुवचनं जातौ बोद्धव्यम् एवं त्रीणि ।। २ ।।

स्वादूषणौ तथेत्यनेन स्वादुकटुकतिक्तकषायरूपम् एकम् ।। ३ ।।

कट्वाद्यैर् इत्यादाव् अपि बहुवचनं जातौ ।। ४ ।।

अम्ललवणौ संयुक्तौ कटुना सहितौ शेषाभ्यां योगाद् द्वे तथाम्ललवणौ तिक्तयुक्तौ शेषयोगाद् एकम् ।। ५ ।।

अम्लकटू तथेत्यनेनाम्लकटुतिक्तकषायरूपम् एकम् ।। ६ ।।

युज्येते त्व् इत्यादिना चैकम् ।। ७ ।।

एवं पञ्चदश चतूरसानि ।। ८ ।।
)

षट् तु पञ्चरसान्याहुरेकैकस्यापवर्जनात् ।। चसं-१,२६.२१ ।।

षट् चैवैकरसानि स्युर् एकं षड्रसमेव तु ।
आयुर्वेददीपिका
(
अपवर्जनादिति त्यागात् ।। १ ।।

अत्र च रसानां गुणत्वेनैकस्मिन् द्रव्ये समवायो योगशब्देनोच्यते ।। २ ।।
)

इति त्रिषष्टिर्द्रव्याणां निर्दिष्टा रससंख्यया ।। चसं-१,२६.२२ ।।

त्रिषष्टिः स्यात्त्वसंख्येया रसानुरसकल्पनात् ।
रसास्तरतमाभ्यां तां संख्याम् अतिपतन्ति हि ।। चसं-१,२६.२३ ।।

आयुर्वेददीपिका
(
रससंसर्गस्य प्रकारान्तरेणासंख्येयताम् आह त्रिषष्टिः स्याद् इत्यादि ।। १ ।।

अनुरसोऽग्रे वक्ष्यमाणः ।। २ ।।

अत्र च त्रिषष्ट्यात्मकरसे रसानुरसकल्पना नास्ति केवले मधुरादौ तदभावात् तेन यथासम्भवं सप्तपञ्चाशत्संयोगविषयं रसानुरसकल्पनं ज्ञेयम् ।। ३ ।।

किंवा एकरसेऽप्यनुरसोऽस्त्येवाव्यपदेश्यः ।। ४ ।।

प्रकारान्तरेणाप्य् असंख्येयताम् आह रसास् तरतमाभ्याम् इत्यादि ।। ५ ।।

मधुरमधुरतरमधुरतमादिभेदाद् असंख्येयता रसानां भवतीति भावः ।। ६ ।।

किंवा रसानुरसत्वेनैव यासंख्येयता तत्रैवायं हेतुः रसास् तरतमाभ्यामित्यादिः ।। ७ ।।
)

संयोगाः सप्तपञ्चाशत् कल्पना तु त्रिषष्टिधा ।
रसानां तत्र योग्यत्वात्कल्पिता रसचिन्तकैः ।। चसं-१,२६.२४ ।।

आयुर्वेददीपिका
(
एवमसंख्येयत्वेऽपि त्रिषष्टिविधैव कल्पना चिकित्साव्यवहारार्थम् इहाचार्यैः कल्पितेत्याह संयोगा इत्यादि ।। १ ।।

तत्र योग्यत्वाद् इति तत्र स्वस्थातुरहितचिकित्साप्रयोगे ऽनतिसंक्षेपविस्तररूपतया हितत्वाद् इत्यर्थः ।। २ ।।
)

क्वचिदेको रसः कल्प्यः संयुक्ताश् च रसाः क्वचित् ।
दोषौषधादीन् संचिन्त्य भिषजा सिद्धिमिच्छता ।। चसं-१,२६.२५ ।।

द्रव्याणि द्विरसादीनि संयुक्तांश्च रसान् बुधाः ।
रसान् एकैकशो वापि कल्पयन्ति गदान् प्रति ।। चसं-१,२६.२६ ।।

आयुर्वेददीपिका
(
तमेव चिकित्साप्रयोगम् आह क्वचिदित्यादि ।। १ ।।

अत्रादिग्रहणाद् देशकालबलादीनाम् अनुक्तानां ग्रहणम् ।। २ ।।

एतदेव संयुक्तासंयुक्तरसकल्पनं भिन्नरसद्रव्यमेलकाद् वानेकरसैकद्रव्यप्रयोगाद् एकरसद्रव्यप्रयोगाद्वा भवतीति दर्शयन्नाह द्रव्याणीत्यादि ।। ३ ।।

द्विरसादीनि उत्पत्तिसिद्धद्विरसत्रिरसादीनि द्विरसं यथा कषायमधुरो मुद्गः त्रिरसं यथा मधुराम्लकषायं च विष्टम्भि गुरु शीतलम् ।। ४ ।।

पित्तश्लेष्महरं भव्यम् इत्यादि चतूरसस् तिलः यद् उक्तं स्निग्धोष्णमधुरस् तिक्तः कषायः कटुकस् तिलः पञ्चरसं त्व् आमलकं हरीतकी च शिवा पञ्चरसा इत्यादिवचनात् व्यक्तषड्रसं तु द्रव्यम् इहानुक्तं विषं त्व् अव्यक्तषड्रससंयुक्तं हारीते त्व् एणमांसं व्यक्तषड्रससंयुक्तम् उक्तम् ।। ५ ।।

एवं द्विरसादिद्रव्ययोगाद् द्विरसाद्युपयोगः ।। ६ ।।

तथा संयुक्तांश्च रसानिति एकैकरसादिद्रव्यमेलकात् संयुक्तान् रसान् एकैकशः कल्पयन्ति प्रयोजयन्ति ।। ७ ।।

गदान् प्रतीति प्राधान्येन तेन स्वस्थवृत्ते ऽपि बोद्धव्यं किंवा द्विरसादिभेदो गद एव स्वस्थे तु सर्वरसप्रयोग एव यदुक्तं समसर्वरसं सात्म्यं समधातोः प्रशस्यते इति ।। ८ ।।

एवं च व्याख्याने सति क्वचिदेको रस इत्यादिना सममस्य न पौनरुक्त्यम् ।। ९ ।।

किंवा क्वचिद् एको रसः इत्यादिना स्वमतम् उक्तम् अत्रैवार्थे द्रव्याणि द्विरसादीनि इत्यादिनाचार्यान्तरसम्मतिं दर्शयति अत एवान्याचार्यान्तराभिप्रायेण कल्पयन्तीत्युक्तं तेन न पौनरुक्त्यम् ।। १० ।।
)

यः स्याद् रसविकल्पज्ञः स्याच्च दोषविकल्पवित् ।
न स मुह्येद् विकाराणां हेतुलिङ्गोपशान्तिषु ।। चसं-१,२६.२७ ।।

आयुर्वेददीपिका
(
रसज्ञानफलमाह यः स्याद् इत्यादि ।। १ ।।

अत्र रसविकल्पज्ञानादेव व्याधिहेतुद्रव्यज्ञानं कृत्स्नमवरुद्धं रसज्ञानेनैव प्रायः सकलद्रव्यगुणस्य वक्ष्यमाणत्वात् ।। २ ।।

दोषविकल्पज्ञानाच्च लिङ्गज्ञानं यावद्धि लिङ्गं तत् सर्वं दोषविकल्पसम्बद्धम् ।। ३ ।।

रसदोषविकल्पज्ञानात् तु भेषजज्ञानं यतो रसतः स्वरूपज्ञानं भेषजद्रव्यस्य दोषतश्च भेषजप्रयोगविषयविज्ञानम् ।। ४ ।।

किंवा रसविकल्पाच् च तथा दोषविकल्पाच् च हेत्वादिज्ञानं पृथगेव वक्तव्यं रसभेदाद्धि तत्कार्यं लिङ्गमपि ज्ञायते हेतुभेषजविज्ञानं तु ।। ५ ।।

रसभेदविज्ञानादेव वक्तव्यं यतो रसभेदवद् द्रव्यमेव विकाराणां हेतुर्भेषजं च भवतीति एवं दोषभेदं ज्ञात्वा च तस्य समानं हेतुं प्रत्येति दोषविरोधि च द्रव्यं भेषजमिति ।। ६ ।।

तद् युक्तम् उक्तं न स मुह्येद्विकाराणां हेतुलिङ्गोपशान्तिष्विति ।। ७ ।।
)

व्यक्तः शुष्कस्य चादौ च रसो द्रव्यस्य लक्ष्यते ।
विपर्ययेणानुरसो रसो नास्ति हि सप्तमः ।। चसं-१,२६.२८ ।।

आयुर्वेददीपिका
(
पूर्वोक्तरसानुरसलक्षणमाह व्यक्त इत्यादि ।। १ ।।

शुष्कस्य चेति चकाराद् आर्द्रस्य च आदौ चेति चकारादन्ते च तेन शुष्कस्य वार्द्रस्य वा प्रथमजिह्वासम्बन्धे वास्वादान्ते वा यो व्यक्तत्वेन मधुरो ऽयम् अम्लो ऽयम् इत्यादिना विकल्पेन गृह्यते स व्यक्तः यस् तूक्तावस्थाचतुष्टये ऽपि व्यक्तो नोपलभ्यते किं तर्ह्य् अव्यपदेश्यतया छायामात्रेण कार्यदर्शनेन वा मीयते सो ऽनुरस इति वाक्यार्थः ।। २ ।।

यतश्च मधुरादय एव व्यक्तत्वाव्यक्तत्वाभ्यां रसानुरसरूपाः अतोऽव्यक्तो नाम सप्तमो रसो नास्ति ।। ३ ।।

अयं चार्थः पूर्वं प्रतिषिद्धो ऽप्यनुगुणस्पष्टहेतुप्राप्त्या पुनर् निषिध्यते ।। ४ ।।

अन्ये त्व् आहुः शुष्कस्य चेत्यनेन यस्य द्रव्यस्य शुष्कस्य चार्द्रस्य चोपयोगः तत्र शुष्कावस्थायां यो ऽव्यक्तः स रस उच्यते यस्त्वार्द्रावस्थायां व्यक्तः सन् शुष्कावस्थायां नानुयाति नासौ रसः किंत्व् अनुरसः ।। ५ ।।

यथा पिप्पल्या आर्द्राया मधुरो रसो व्यक्तः शुष्कायास्तु पिप्पल्याः कटुकः तेन कटुक एव रसः पिप्पल्याः मधुरस्त्वनुरसः यस्तु द्राक्षादीनाम् आर्द्रावस्थायां शुष्कावस्थायां च मधुर एव तत्र विप्रतिपत्तिरपि नास्ति तेन तत्र मधुर एव रसः नित्यार्द्रप्रयोज्यानां तु काञ्जिकतक्रादीनामादौ व्यक्तो य उपलभ्यते रसः अनु चोपलभ्यते यः सो ऽनुरसो युक्तस् तिक्तत्वादिः तथा आर्द्रावस्थायां शुष्कावस्थाविपरीतो यः पिप्पल्या इव मधुरः सो ऽनुरस इति ।। ६ ।।

किंत्व् आर्द्रापि पिप्पली मधुररसैवेति पश्यामः यतो वक्ष्यति श्लेष्मला मधुरा चार्द्रा गुर्वी स्निग्धा च पिप्पली इति मधुरस्य तत्रानुरसत्वे गुरुत्वश्लेष्मकर्तृत्वान्य् अनुपपन्नानि तेन आर्द्रा पिप्पली व्यक्तमधुररसैव शुष्का तु मधुरानुरसेति युक्तम् ।। ७ ।।
)

परापरत्वे युक्तिश्च संख्या संयोग एव च ।
विभागश्च पृथक्त्वं च परिमाणमथापि च ।। चसं-१,२६.२९ ।।

संस्कारोऽभ्यास इत्येते गुणा ज्ञेयाः परादयः ।
सिद्ध्युपायाश् चिकित्साया लक्षणैस्तान् प्रचक्ष्महे ।। चसं-१,२६.३० ।।

देशकालवयोमानपाकवीर्यरसादिषु ।
परापरत्वे युक्तिश्च योजना या तु युज्यते ।। चसं-१,२६.३१ ।।

संख्या स्याद्गणितं योगः सह संयोग उच्यते ।
द्रव्याणां द्वंद्वसर्वैककर्मजो ऽनित्य एव च ।। चसं-१,२६.३२ ।।

विभागस्तु विभक्तिः स्याद्वियोगो भागशो ग्रहः ।
पृथक्त्वं स्यादसंयोगो वैलक्षण्यमनेकता ।। चसं-१,२६.३३ ।।

परिमाणं पुनर्मानं संस्कारः करणं मतम् ।
भावाभ्यसनमभ्यासः शीलनं सततक्रिया ।। चसं-१,२६.३४ ।।

इति स्वलक्षणैरुक्ता गुणाः सर्वे परादयः ।
चिकित्सा यैर् अविदितैर् न यथावत् प्रवर्तते ।। चसं-१,२६.३५ ।।

आयुर्वेददीपिका
(
सम्प्रति पूर्वोक्तगुर्वादिगुणातिरिक्तान् परत्वापरत्वादीन् दश गुणान् रसधर्मत्वेनोपदेष्टव्यानाह परेत्यादि ।। १ ।।

तच्च परत्वं प्रधानत्वम् अपरत्वम् अप्रधानत्वम् ।। २ ।।

तद्विवरणं देशकालेत्यादि ।। ३ ।।

तत्र देशो मरुः परः अनूपो ऽपरः कालो विसर्गः परः आदानमपरः वयस्तरुणं परम् अपरम् इतरन् मानं च शरीरस्य यथा वक्ष्यमाणं शरीरे परं ततोऽन्यदपरं पाकवीर्यरसास्तु ये यस्य योगिनस्ते तं प्रति पराः अयौगिकास् त्व् अपराः ।। ४ ।।

आदिग्रहणात् प्रकृतिबलादीनां ग्रहणम् ।। ५ ।।

किंवा परत्वापरत्वे वैशेषिकोक्ते ज्ञेये तत्र देशापेक्षया संनिकृष्टदेशसम्बन्धिनम् अपेक्ष्य विदूरदेशसम्बन्धिनि परत्वं संनिकृष्टदेशसम्बन्धिनि चापरत्वं भवति एवं संनिकृष्टविप्रकृष्टकालापेक्षया च स्थविरे परत्वं यूनि चापरत्वं भवति ।। ६ ।।

वयःप्रभृतिषु परत्वापरत्वं यथासम्भवं कालदेशकृतम् एवेहोपयोगाद् उपचरितम् अप्यभिहितं यतो न गुणे मानादौ गुणान्तरसम्भवः ।। ७ ।।

युक्तिश्चेत्यादौ योजना दोषाद्यपेक्षया भेषजस्य समीचीनकल्पना अत एवोक्तं या तु युज्यते या कल्पना यौगिकी भवति सा तु युक्तिर् उच्यते अयौगिकी तु कल्पनापि सती युक्तिर् नोच्यते पुत्रो ऽप्यपुत्रवत् ।। ८ ।।

युक्तिश्चेयं संयोगपरिमाणसंस्काराद्यन्तर्गताप्य् अत्युपयुक्तत्वात् पृथगुच्यते ।। ९ ।।

संख्यां लक्षयति संख्येत्यादि ।। १० ।।

गणितम् इहैकद्वित्र्यादि ।। ११ ।।

संयोगमाह योग इत्यादि ।। १२ ।।

सहेति मिलितानां द्रव्याणां योगः प्राप्तिरित्यर्थः सहेत्यनेनेहाकिंचित्करं परस्परसंयोगं निराकरोति ।। १३ ।।

तद्भेदमाह द्वंद्वेत्यादि ।। १४ ।।

तत्र द्वंद्वकर्मजो यथा युध्यमानयोर् मेषयोः सर्वकर्मजो यथा भाण्डे प्रक्षिप्यमाणानां माषाणां बहुलमाषक्रिया योगजः एककर्मजो यथा वृक्षवायसयोः ।। १५ ।।

अनित्य इति संयोगस्य कर्मजत्वेनानित्यत्वं दर्शयति ।। १६ ।।

विभागमाह विभागस् त्व् इत्यादि ।। १७ ।।

विभक्तिः विभजनम् ।। १८ ।।

विभक्तिमेव विवृणोति वियोग इति संयोगस्य विगमो वियोगः ।। १९ ।।

तत् किं संयोगाभाव एव वियोग इत्याह भागशो ग्रह इति ।। २० ।।

विभागशो विभक्तत्वेन ग्रहणं यतो भवतीति भावः तेन विभक्तिरित्येषा भावरूपा प्रतीतिर् न संयोगाभावमात्रं भवति किंतर्हि भावरूपविभागगुणयुक्ता इत्यर्थः ।। २१ ।।

पृथक्त्वं तु इदं द्रव्यं पटलक्षणं घटात् पृथग् इत्यादिका बुद्धिर्यतो भवति तत् पृथक्त्वं भवति ।। २२ ।।

तच्चाचार्यस् त्रैविध्येनाह पृथक्त्वमित्यादि ।। २३ ।।

तत्र यत् सर्वथासंयुज्यमानयोरिव मेरुहिमाचलयोः पृथक्त्वम् एतदसंयोग इत्यनेनोक्तम् ।। २४ ।।

तथा संयुज्यमानानामपि पृथक्त्वं विजातीयानां महिषवराहादीनां तदाह वैलक्षण्यमित्यादि ।। २५ ।।

विशिष्टलक्षणयुक्तत्वलक्षितं विजातीयानां पृथक्त्वम् इत्यर्थः ।। २६ ।।

तथैकजातीयानामप्य् अविलक्षणानां माषाणां पृथक्त्वं भवतीत्याह अनेकतेति ।। २७ ।।

एकजातीयेषु हि संयुक्तेषु न वैलक्षण्यं नाप्यसंयोगः अथ चानेकता पृथक्त्वरूपा भवतीति भावः ।। २८ ।।

किंवा पृथक्त्वं गुणान्तरमिच्छन् लोकव्यवहारार्थम् असंयोगवैलक्षण्यानेकतारूपमेव यथोदाहृतं पृथक्त्वं दर्शयति ।। २९ ।।

मानं प्रस्थाढकादितुलादिमेयम् ।
करणं गुणान्तराधायकत्वं संस्करणमित्यर्थः यद्वक्ष्यति संस्कारो हि गुणान्तराधानमुच्यते इति ।। ३० ।।

भावस्य षष्टिकादेर्व्यायामादेश् चाभ्यसनम् अभ्यासः ।। ३१ ।।

अभ्यसनमेव लोकप्रसिद्धाभ्यां पर्यायाभ्यां विवृणोति शीलनं सततक्रियेति यं लोकाः शीलनसततक्रियाभ्याम् अभिदधति सो ऽभ्यास इति भावः ।। ३२ ।।

अयं च संयोगसंस्कारविशेषरूपो ऽपि विशेषेण चिकित्सोपयुक्तत्वात् पृथगुच्यते ।। ३३ ।।

न यथावत् प्रवर्तत इति वचनेन शब्दादिषु च गुर्वादिषु च परादीनामप्राधान्यं सूचयति ।। ३४ ।।
)

गुणा गुणाश्रया नोक्तास्तस्माद् रसगुणान् भिषक् ।
विद्याद् द्रव्यगुणान् कर्तुरभिप्रायाः पृथग्विधाः ।। चसं-१,२६.३६ ।।

आयुर्वेददीपिका
(
सम्प्रति रसानां परस्परसंयोगो गुण उक्तः तथाग्रे च स्निग्धत्वादिर्गुणो वाच्यः स च गुणरूपरसे न सम्भवतीति यथा रसानां गुणनिर्देशो बोद्धव्यस् तदाह गुणा इत्यादि ।। १ ।।

गुणा गुणाश्रया नोक्ता इति दीर्घंजीवितीये समवायी तु निश्चेष्टः कारणं गुणः इत्यनेन ।। २ ।।

रसगुणानिति रसे स्निग्धादीन् गुणान् निर्दिष्टान् तद् रसाधारद्रव्यगुणान् एव विद्यात् ।। ३ ।।

ननु यदि द्रव्यगुणा एव ते तत् किमिति रसगुणत्वेनोच्यन्त इत्याह कर्तुरित्यादि कर्तुरिति तन्त्रकर्तुः ।। ४ ।।

अभिप्राया इति तत्र तत्रोपचारेण तथा सामान्यशब्दादिप्रयोगेण तन्त्रकरणबुद्धयः सामान्यशब्दोपचारादिप्रयोगश् च प्रकरणादिवशाद् एव स्फुटत्वात् तथा प्रयोजनवशाच् च क्रियते ।। ५ ।।

तच्च प्रकरणादि अतश्च प्रकृतं बुद्ध्वा इत्यादौ दर्शयिष्यामः ।। ६ ।।

इह च द्रव्यगुणानां रसेषु यदुपचरणं तस्यायमभिप्रायो यत् मधुरादिनिर्देशेनैव स्निग्धशीतादिगुणा अपि प्रायो मधुराद्यव्यभिचारिणो द्रव्ये निर्दिष्टा भवन्तीति न मधुरत्वं निर्दिश्य स्निग्धत्वादिप्रतिपादनं पुनः पृथक् क्रियत इति ।। ७ ।।
)

अतश्च प्रकृतं बुद्ध्वा देशकालान्तराणि च ।
तन्त्रकर्तुर् अभिप्रायानुपायांश् चार्थमादिशेत् ।। चसं-१,२६.३७ ।।

आयुर्वेददीपिका
(
अभिप्रायपृथक्त्वे सति यथा ग्रन्थो बोद्धव्यस् तदाह अतश् चेत्यादि ।। १ ।।

तत्र प्रकृतं बुद्ध्वा यथा क्षाराः क्षीरं फलं पुष्पम् इत्यत्रोद्भिदगणस्य प्रकृतत्वात् क्षीरमिति स्नुह्यादिक्षीरम् एव क्षीरशब्देन वदेत् ।। २ ।।

देशान्तरं बुद्ध्वेति यथा शिरसि शोधने ऽभिधीयमाने क्रिमिव्याधौ इति तच्छिरोगतक्रिमिव्याधाव् एव भवति ।। ३ ।।

कालान्तरे यथा वमनकाले ऽभिहितं प्रतिग्रहांश् चोपहारयेद् इति तत्र प्रतिग्रहशब्देन पात्रमुच्यते न तु ग्रहणं प्रतिग्रहः ।। ४ ।।

तन्त्रकर्तुर् अभिप्रायान् इति यथोक्तं रसेषु गुणारोपणे तद् बोद्धव्यम् ।। ५ ।।

उपायान् इति शास्त्रोपायान् तन्त्रयुक्तिरूपान् ।। ६ ।।

अर्थम् अभिधेयम् ।। ७ ।।

यद्यपि प्रकृतादयो ऽपि तन्त्रकर्तुर् अभिप्राया एव तथापि यत्र प्रकृतत्वादि न स्फुटं प्रतीयते तत्र तन्त्रकर्तुर् अभिप्रायत्वेन बोद्धव्यम् ।। ८ ।।
)

षड्विभक्तीः प्रवक्ष्यामि रसानामत उत्तरम् ।
षट् पञ्चभूतप्रभवाः संख्याताश्च यथा रसाः ।। चसं-१,२६.३८ ।।

आयुर्वेददीपिका
(
षड्विभक्तीर् इति मधुरादिषड्विभागान् इत्यर्थः ।। १ ।।

षट् पञ्चभूतप्रभवा इति पञ्चभूतप्रभवाः सन्तो यथोक्तेन प्रकारेण सोमगुणातिरेकात् इत्यादिना यथा षट् संख्याताः षट्संख्यापरिच्छिन्ना भवन्ति तथा वक्ष्यामीति योजना ।। २ ।।
)

सौम्याः खल्वापोऽन्तरिक्षप्रभवाः प्रकृतिशीता लघ्व्यश् चाव्यक्तरसाश्च तास्त्वन्तरिक्षाद्भ्रश्यमाना भ्रष्टाश्च पञ्चमहागुणसमन्विता जङ्गमस्थावराणां भूतानां मूर्तीर् अभिप्रीणयन्ति तासु मूर्तिषु षड् अभिमूर्छन्ति रसाः ।। चसं-१,२६.३९ ।।

आयुर्वेददीपिका
(
सम्प्रति रसानाम् आदिकारणमेव तावद् आह सौम्या इत्यादि ।। १ ।।

सौम्याः सोमदेवताकाः ।। २ ।।

भ्रश्यमाना इति वदता भूमिसम्बन्धव्यतिरेकेणान्तरीक्षेरितैः पृथिव्यादिपरमाण्वादिभिः सम्बन्धो रसारम्भको भवतीति दर्श्यते ।। ३ ।।

मूर्तीर् इति व्यक्तीः ।। ४ ।।

अभिप्रीणयन्तीति तर्पयन्ति किंवा जनयन्ति ।। ५ ।।

अभिमूर्छन्ति रसा इति व्यक्तिं यान्ति ।। ६ ।।

अत्र चान्तरीक्षमुदकं रसकारणत्वे प्रधानत्वादुक्तं तेन क्षितिस्थम् अपि स्थावरजङ्गमोत्पत्तौ रसकारणं भवत्येव ।। ७ ।।
)

तेषां षण्णां रसानां सोमगुणातिरेकान्मधुरो रसः पृथिव्यग्निभूयिष्ठत्वादम्लः सलिलाग्निभूयिष्ठत्वाल् लवणः वाय्वग्निभूयिष्ठत्वात्कटुकः वाय्वाकाशातिरिक्तत्वात् तिक्तः पवनपृथिवीव्यतिरेकात् कषाय इति ।
एवमेषां रसानां षट्त्वम् उपपन्नं न्यूनातिरेकविशेषान् महाभूतानां भूतानामिव स्थावरजङ्गमानां नानावर्णाकृतिविशेषाः षडृतुकत्वाच्च कालस्योपपन्नो महाभूतानां न्यूनातिरेकविशेषः ।। चसं-१,२६.४० ।।

आयुर्वेददीपिका
(
सोमगुणातिरेकादिति अतिरेकशब्देन सर्वेष्वेव रसेषु सर्वभूतसांनिध्यम् अस्ति क्वचित् तु कस्यचिद् भूतगुणस्यातिरेकाद् रसविशेषे भवतीति दर्शयति एतच्च मधुरं प्रति अब्गुणातिरिक्तत्वं विशेषोत्पत्तौ कारणत्वेन ज्ञेयं यच्चाधारकारणत्वम् अपां तत् सर्वसाधारणम् ।। १ ।।

एवं लवणे ऽप्य् अपां कारणत्वं ज्ञेयम् ।। २ ।।

लवणस्तु सुश्रुते पृथिव्यग्न्यतिरेकात् पठितः अस्मिंश् च विरोधे कार्यविरोधो नास्त्येव ।। ३ ।।

ननु उष्णशीताभ्यामग्निसलिलाभ्यां कृतस्य लवणस्याप्य् उष्णशीतत्वेन भवितव्यं तल् लवणं कथम् उष्णं भवति नैवं यतो भूतानाम् अयं स्वभावो यत् केनचित् प्रकारेण संनिविष्टाः कंचिद् गुणम् आरभन्ते न सर्वम् ।। ४ ।।

यथा मकुष्ठके ऽद्भिर् मधुरो रसः क्रियते न स्नेहः तथा सैन्धवे वह्निनापि नोष्णत्वम् आरभ्यते ।। ५ ।।

अयं च भूतानां संनिवेशो ऽदृष्टप्रभावकृत एव स च संनिवेशः कार्यदर्शनेनोन्नेयः ।। ६ ।।

तेन यत्र कार्यं दृश्यते तत्र कल्प्यते यथा लवणे उष्णत्वाद् अग्निर् विष्यन्दित्वाच्च जलमनुमीयते ।। ७ ।।

आगमवेदनीयश्चायमर्थो नात्रास्मद्विधानां कल्पनाः प्रसरन्ति ।। ८ ।।

एतेन यदुच्यते तोयवत् पृथिव्यादयोऽपि किमिति पृथग्रसान्तरं न कुर्वन्ति तथा तोयवातादिसंयोगादिभ्यः किमिति रसान्तराणि नोत्पद्यन्त इति तदपि भूतस्वभावापर्यनुयोगाद् एव प्रत्युक्तम् ।। ९ ।।

इह च कारणत्वं भूतानां रसस्य मधुरत्वादिविशेष एव निमित्तकारणरूपम् उच्यते तेन नीरसानाम् अपि हि दहनादीनां कारणत्वमुपपन्नम् एव व्युत्पादितम् ।। १० ।।

रसभेदं दृष्टान्तेन साधयन्नाह एवम् इत्यादि ।। ११ ।।

रसानां षट्त्वं महाभूतानां न्यूनातिरेकविशेषात् सोमगुणातिरेकपृथिव्यग्न्यतिरेकादेः षडुत्पादकारणादुपपन्नं षड्भ्यः कारणेभ्यः षट् कार्याणि भवन्तीति युक्तमेवेति भावः ।। १२ ।।

भूतानां यथा नानावर्णाकृतिविशेषा महाभूतानां न्यूनातिरेकविशेषात् तथा रसानाम् अपीति ।। १३ ।।

भूतानां यथोक्तानाम् अतिरेकविशेषहेतुम् आह षडृतुकत्वाद् इत्यादि ।। १४ ।।

षडृतुकत्वेन कालो नानाहेमन्तादिरूपतया कंचिद्भूतविशेषं क्वचिद्वर्धयति स चात्मकार्यं रसं पुष्टं करोति यथा हेमन्तकाले सोमगुणातिरेको भवति शिशिरे वाय्वाकाशातिरेकः एवं तस्याशितीयोक्तरसोत्पादक्रमेण वसन्तादाव् अपि भूतोत्कर्षो ज्ञेयः षडृतुकाच्चेति चकारेणाहोरात्रकृतो ऽपि भूतोत्कर्षो ज्ञेयः तथादृष्टकृतश् च तेन हेमन्तादाव् अपि रसान्तरोत्पादः क्वचिद्वस्तुन्य् उपपन्नो भवति ।। १५ ।।

यद्यपि च ऋतुभेदेऽपि भूतोत्कर्षविशेष एव कारणं यदुक्तं ताव् एताव् अर्कवायू इत्यादि तथापि बीजाङ्कुरकार्यकारणभाववत् संसारानादितयैव भूतविशेषर्त्वोः कार्यकारणभावो वाच्यः ।। १६ ।।
)

तत्राग्निमारुतात्मका रसाः प्रायेणोर्ध्वभाजः लाघवादुत्प्लवनत्वाच् च वायोरूर्ध्वज्वलनत्वाच्च वह्नेः सलिलपृथिव्यात्मकास्तु प्रायेणाधोभाजः पृथिव्या गुरुत्वान् निम्नगत्वाच् चोदकस्य व्यामिश्रात्मकाः पुनर् उभयतोभाजः ।। चसं-१,२६.४१ ।।

आयुर्वेददीपिका
(
भूतविशेषकृतं रसानां धर्मान्तरम् आह तत्रेत्यादि ।। १ ।।

प्रायेणेति न सर्वे ।। २ ।।

रसा इति रसयुक्तानि द्रव्याणि ।। ३ ।।

प्लवनत्वादिति गतिमत्त्वात् यद्यपि गतिरधोऽपि स्यात् तथापि लघुत्वपरिगतगतिर् इह वायोरूर्ध्वम् एव गमनं करोति यथा शाल्मलीतुलानाम् ।। ४ ।।

हेत्वन्तरम् आह ऊर्ध्वज्वलनत्वाच् चाग्नेरिति अग्नेर् अप्यूर्ध्वगतित्वाद् इत्यर्थः ।। ५ ।।

निम्नगत्वमधोगत्वमेव ।। ६ ।।
)

तेषां षण्णां रसानामेकैकस्य यथाद्रव्यं गुणकर्माण्यनुव्याख्यास्यामः ।। चसं-१,२६.४२ ।।

आयुर्वेददीपिका
(
यथाद्रव्यमिति यद्यस्य रसस्य द्रव्यम् आधारस् तदनतिक्रमेण ।। १ ।।

एतेन रसानां गुणकर्मणी रसाधारे द्रव्ये बोद्धव्ये इति दर्शयति ।। २ ।।
)

तत्र मधुरो रसः शरीरसात्म्याद् रसरुधिरमांसमेदोऽस्थिमज्जौजःशुक्राभिवर्धन आयुष्यः षडिन्द्रियप्रसादनो बलवर्णकरः पित्तविषमारुतघ्नस् तृष्णादाहप्रशमनस् त्वच्यः केश्यः कण्ठ्यो बल्यः प्रीणनो जीवनस्तर्पणो बृंहणः स्थैर्यकरः क्षीणक्षतसंधानकरो घ्राणमुखकण्ठौष्ठजिह्वाप्रह्लादनो दाहमूर्छाप्रशमनः षट्पदपिपीलिकानाम् इष्टतमः स्निग्धः शीतो गुरुश्च ।
आयुर्वेददीपिका
(
तत्रेत्यादि ।। १ ।।

मधुर आदाव् उच्यते प्रशस्तायुष्यादिगुणतया प्रायः प्राणिप्रियतया च ।। २ ।।

षडिन्द्रियाणि मनसा समम् ।। ३ ।।

जीवनः अभिघातादिमूर्छितस्य जीवनः ।। ४ ।।

आयुष्यस्तु आयुःप्रकर्षकारित्वेन ।। ५ ।।

क्षीणस्य संधानकरो धातुपोषकत्वेन किंवा क्षीणश्चासौ क्षतश्चेति तेन क्षीणक्षतस्य उरःक्षतं संदधाति ।। ६ ।।

षट्पदाद्यभीष्टत्वगुणकथनं प्रमेहरूपादिज्ञानोपयुक्तम् ।। ७ ।।

यदुक्तं मूत्रे ऽभिधावन्ति पिपीलिकाश्च इति तथा रिष्टे वक्ष्यति यस्मिन् गृध्नन्ति मक्षिकाः इति अनेन च मधुरत्वं ज्ञायते ।। ८ ।।

अक्ष्यामयेनैवाभिष्यन्दे लब्धे विशेषोपादानार्थं पुनर्वचनं किंवा अभिष्यन्दो नासादिष्वपि ज्ञेयः ।। ९ ।।
)

स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानः स्थौल्यं मार्दवम् आलस्यम् अतिस्वप्नं गौरवमनन्नाभिलाषम् अग्नेर्दौर्बल्यमास्यकण्ठयोर्मांसाभिवृद्धिं श्वासकासप्रतिश्यायालसकशीतज्वरानाहास्यमाधुर्यवमथुसंज्ञास्वरप्रणाशगलगण्डगण्डमालाश्लीपदगलशोफबस्तिधमनीगलोपलेपाक्ष्यामयाभिष्यन्दान् इत्येवंप्रभृतीन् कफजान् विकारानुपजनयति अम्लो रसो भक्तं रोचयति अग्निं दीपयति देहं बृंहयति ऊर्जयति मनो बोधयति इन्द्रियाणि दृढीकरोति बलं वर्धयति वातमनुलोमयति हृदयं तर्पयति आस्यमास्रावयति भुक्तमपकर्षयति क्लेदयति जरयति प्रीणयति लघुरुष्णः स्निग्धश्च ।
।।

आयुर्वेददीपिका
(
हृदयं तर्पयतीति हृद्यो भवति ।। १ ।।

भुक्तम् अपकर्षयतीति सारयति क्लेदयति तथा जरयति भुक्तमेव ।। २ ।।

अवमूत्रितं मूत्रविषैर्जन्तुभिः परिसर्पितं च स्पर्शविशेषैः कारण्डादिभिः ।। ३ ।।
)

स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो दन्तान् हर्षयति तर्षयति संमीलयत्यक्षिणी संवेजयति लोमानि कफं विलापयति पित्तमभिवर्धयति रक्तं दूषयति मांसं विदहति कायं शिथिलीकरोति क्षीणक्षतकृशदुर्बलानां श्वयथुम् आपादयति अपि च क्षताभिहतदष्टदग्धभग्नशूनप्रच्युतावमूत्रितपरिसर्पितमर्दितच्छिन्नभिन्नविश्लिष्टोद्विद्धोत्पिष्टादीनि पाचयत्याग्नेयस्वभावात् परिदहति कण्ठमुरो हृदयं च लवणो रसः पाचनः क्लेदनो दीपनश्च्यावनश्छेदनो भेदनस् तीक्ष्णः सरो विकास्य् अधःस्रंस्य् अवकाशकरो वातहरः स्तम्भबन्धसंघातविधमनः सर्वरसप्रत्यनीकभूतः आस्यमास्रावयति कफं विष्यन्दयति मार्गान् विशोधयति सर्वशरीरावयवान् मृदूकरोति रोचयत्याहारम् आहारयोगी नात्यर्थं गुरुः स्निग्ध उष्णश्च ।
।।

आयुर्वेददीपिका
(
विकासी क्लेदछेदनः ।। १ ।।

अधःस्रंसी विष्यन्दनशीलः ।। २ ।।

सर्वरसप्रत्यनीकभूत इति यत्र मात्रातिरिक्तो लवणो भवति तत्र नान्यो रस उपलक्ष्यते ।। ३ ।।

आहारयोगीति आहारे सदा युज्यते ।। ४ ।।

मोहयति वैचित्त्यं कुरुते ।। ५ ।।

मूर्छयतीति संज्ञानाशं करोति ।। ६ ।।
)

स एवंगुणोऽप्येक एवात्यर्थम् उपयुज्यमानः पित्तं कोपयति रक्तं वर्धयति तर्षयति मूर्छयति तापयति दारयति कुष्णाति मांसानि प्रगालयति कुष्ठानि विषं वर्धयति शोफान् स्फोटयति दन्तांश्च्यावयति पुंस्त्वमुपहन्ति इन्द्रियाण्युपरुणद्धि वलिपलितखालित्यमापादयति अपि च लोहितपित्ताम्लपित्तवीसर्पवातरक्तविचर्चिकेन्द्रलुप्तप्रभृतीन् विकारान् उपजनयति कटुको रसो वक्त्रं शोधयति अग्निं दीपयति भुक्तं शोषयति घ्राणमास्रावयति चक्षुर्विरेचयति स्फुटीकरोतीन्द्रियाणि अलसकश्वयथूपचयोदर्दाभिष्यन्दस्नेहस्वेदक्लेदमलान् उपहन्ति रोचयत्यशनं कण्डूर्विनाशयति व्रणान् अवसादयति क्रिमीन् हिनस्ति मांसं विलिखति शोणितसंघातं भिनत्ति बन्धांश्छिनत्ति मार्गान् विवृणोति श्लेष्माणं शमयति लघुरुष्णो रूक्षश्च ।
स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो विपाकप्रभावात् पुंस्त्वमुपहन्ति रसवीर्यप्रभावान्मोहयन्ति ग्लापयति सादयति कर्शयति मूर्छयति नमयति तमयति भ्रमयति कण्ठं परिदहति शरीरतापमुपजनयति बलं क्षिणोति तृष्णां जनयति अपि च वाय्वग्निगुणबाहुल्याद् भ्रमदवथुकम्पतोदभेदैश् चरणभुजपार्श्वपृष्ठप्रभृतिषु मारुतजान् विकारान् उपजनयति तिक्तो रसः स्वयमरोचिष्णुर् अप्यरोचकघ्नो विषघ्नः क्रिमिघ्नो मूर्छादाहकण्डूकुष्ठतृष्णाप्रशमनस् त्वङ्मांसयोः स्थिरीकरणो ज्वरघ्नो दीपनः पाचनः स्तन्यशोधनो लेखनः क्लेदमेदोवसामज्जलसीकापूयस्वेदमूत्रपुरीषपित्तश्लेष्मोपशोषणो रूक्षः शीतो लघुश्च ।
स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमानो रौक्ष्यात् खरविषदस्वभावाच् च रसरुधिरमांसमेदोऽस्थिमज्जशुक्राण्य् उच्छोषयति स्रोतसां खरत्वमुपपादयति बलम् आदत्ते कर्शयति ग्लपयति मोहयति भ्रमयति वदनम् उपशोषयति अपरांश्च वातविकारानुपजनयति कषायो रसः संशमनः संग्राही संधानकरः पीडनो रोपणः शोषणः स्तम्भनः श्लेष्मरक्तपित्तप्रशमनः शरीरक्लेदस्योपयोक्ता रूक्षः शीतोऽलघुश्च ।
स एवंगुणोऽप्येक एवात्यर्थमुपयुज्यमान आस्यं शोषयति हृदयं पीडयति उदरम् आध्मापयति वाचं निगृह्णाति स्रोतांस्य् अवबध्नाति श्यावत्वमापादयति पुंस्त्वमुपहन्ति विष्टभ्य जरां गच्छति वातमूत्रपुरीषरेतांस्यवगृह्णाति कर्शयति ग्लपयति तर्षयति स्तम्भयति खरविशदरूक्षत्वात् पक्षवधग्रहापतानकार्दितप्रभृतींश् च वातविकारानुपजनयति ।। ४३ ।।

आयुर्वेददीपिका
(
विपाकस्य प्रभावो विपाकप्रभावः विपाकश्च कटूनां कटुरेव रसस्य वीर्यस्य च प्रभावो रसवीर्यप्रभावः अयं च वक्ष्यमाणे सर्वत्र हेतुः ।। १ ।।

चरणादीनां साक्षाद्ग्रहणं तत्रैव प्रायो वातविकारभावात् ।। २ ।।

अत्र च विपाकप्रभावादिकथनम् उदाहरणार्थं तेन मधुरादिषु विपाकादिकार्यम् उन्नेयम् ।। ३ ।।

ग्लपयति हर्षक्षयं करोति ।। ४ ।।

पीडनो व्रणपीडनः ।। ५ ।।

शरीरक्लेदस्योपयोक्तेति आचूषकः ।। ६ ।।

शीतोऽलघुश्च इत्यकारप्रश्लेषाद् अलघुः ।। ७ ।।

अवगृह्णातीति बद्धानि करोति ।। ८ ।।
)

इत्येवमेते षड्रसाः पृथक्त्वेनैकत्वेन वा मात्रशः सम्यगुपयुज्यमाना उपकाराय भवन्त्यध्यात्मलोकस्य अपकारकराः पुनरतोऽन्यथा भवन्त्युपयुज्यमानाः तान् विद्वानुपकारार्थमेव मात्रशः सम्यगुपयोजयेदिति ।। चसं-१,२६.४४ ।।

आयुर्वेददीपिका
(
पृथक्त्वेनेति एकैकशो मात्रशः ।। १ ।।

एकत्वेनेति एकीकृत्य समुदायमात्रश इत्यर्थः ।। २ ।।

मात्रश इति मात्रया ।। ३ ।।

तच्चैकीकरणं द्वित्र्यादिभिः सर्वैर् ज्ञेयम् ।। ४ ।।

अध्यात्मलोकस्येति सर्वप्राणिजनस्य ।। ५ ।।

अन्यथेति अमात्रया ।। ६ ।।
)

शीतं वीर्येण यद् द्रव्यं मधुरं रसपाकयोः ।
तयोरम्लं यदुष्णं च यद्द्रव्यं कटुकं तयोः ।। चसं-१,२६.४५ ।।

आयुर्वेददीपिका
(
सम्प्रति रसद्वारेणैव द्रव्याणां वीर्यम् आह शीतमित्यादि ।। १ ।।

यद्द्रव्यं रसे पाके च मधुरं तच्छीतं वीर्येण ज्ञेयं तथा तयोरिति रसपाकयोर् यदम्लं द्रव्यं तदुष्णं वीर्येण तथा यच्च द्रव्यं तयोरिति रसपाकयोः कटुकम् उक्तं तच्चोष्णं वीर्येण भवति इति शेषः ।। २ ।।

किंवा यच्चोष्णं कटुकं तयोः इति पाठः ।। ३ ।।

तत्र यद्रसतो मधुरं तद् वीर्यतः शीतमिति वक्तव्ये यद् रसपाकयोर् इति करोति तन् मधुररसोचितपाकस्यैव मधुरद्रव्यस्य शीतवीर्यताप्राप्त्यर्थम् एवम् अम्लकटुकयोर् अपि वाच्यम् ।। ४ ।।
)

तेषां रसोपदेशेन निर्देश्यो गुणसंग्रहः ।
वीर्यतोऽविपरीतानां पाकतश्चोपदेक्ष्यते ।। चसं-१,२६.४६ ।।

यथा पयो यथा सर्पिर् यथा वा चव्यचित्रकौ ।
एवमादीनि चान्यानि निर्दिशेद्रसतो भिषक् ।। चसं-१,२६.४७ ।।

आयुर्वेददीपिका
(
तेषाम् इति मधुरपाकादीनां रसोपदेशेनेति रसमात्रकथनेनैव यतो विपाको ऽपि रसत एव प्रायो ज्ञायते यद् वक्ष्यति कटुतिक्तकषायाणां विपाकः प्रायशः कटुर् इत्यादि ।। १ ।।

एतच्च न सर्वत्रेत्याह वीर्यत इत्यादि ।। २ ।।

वीर्यतोऽविपरीतानां रसद्वारा वीर्यज्ञानं न तु रसविरुद्धवीर्याणां महापञ्चमूलादीनां न केवलं रसेन किं तर्हि पाकतश्च य उपदेक्ष्यते गुणसंग्रहः शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः इत्यादिना स च वीर्यतो ऽविरुद्धानां विज्ञेयः यदि तत्र वीर्यं विरोधि भवति तदा विपाकोऽपि यथोक्तगुणकरी न स्यात् ।। ३ ।।

किंवा पाकतश्चाविपरीतानां रसोपदेशेन गुणसंग्रहः शीतोष्णलक्षणो निर्देश्यः यस्यास्तु पिप्पल्याः कटुकाया अपि विपरीतमधुरपाकित्वं न तत्र कटु रसत्वेनोष्णत्वम् इत्यर्थः ।। ४ ।।

अस्मिंश्च पक्षे उपदेक्ष्यते इति यथा पयः इत्यादिना सम्बध्यते ।। ५ ।।

तान्येवाविपरीतवीर्यविपाकान्याह यथा पय इत्यादि ।। ६ ।।

पयःप्रभृतीनि हि द्रव्यगुणकथने ऽविरुद्धवीर्यविपाकान्युपदेष्टव्यानि ।। ७ ।।
)

।।

[{Cओम्म्. ओन् Cष्} ।।

सम्प्रति मधुरतिक्तकषायाणां शीतत्वं तथा कट्वम्ललवणानां चोष्णत्वं तथा कटुतिक्तकषायाणां चावृष्यत्वमित्यादयो रसद्वारेण द्रव्याणां ये गुणा उक्तास्तदपवादम् आह तेषामित्यादि ।। १ ।।

रसोपदेशेन रसगुणकथनद्वारेण द्रव्याणां यः शीतोष्णादिगुणसंग्रहः कृतः स वीर्यतः पाकतश्चाविपरीतानां तेषां वक्ष्यमाणक्षीरादिद्रव्याणामेव निर्देष्टुं शक्यः न तु रसविपरीतवीर्यविपाकानाम् इत्यर्थः ।। २ ।।

तेष्वविपरीतवीर्यविपाकान् उपदिशत्युपदेक्ष्यत इत्यादि ।। ३ ।।

उपदेक्ष्यत इति यथा पय इत्यादिभिः सम्बध्यते ।। ४ ।।

एतानि हि द्रव्यगुणकथनप्रसङ्गे रसाविपरीतवीर्यविपाकतयैवोपदेष्टव्यानीति रसानुरूपगुणत्वम् एषां ज्ञातव्यम् इत्यर्थः ।। ५ ।।

इदं तूदाहरणैकदेशमात्रं तेनापराण्य् अप्येवंजातीयान्य् उदाहर्तव्यानीत्याह एवमादीनीत्यादि ।। ६ ।।

एवमादीनि एवंप्रकाराणि गोधूमादीनीत्यर्थः ।। ७ ।।
)

मधुरं किंचिदुष्णं स्यात् कषायं तिक्तमेव च ।
यथा महत्पञ्चमूलं यथाब्जानूपम् आमिषम् ।। चसं-१,२६.४८ ।।

लवणं सैन्धवं नोष्णमम्लमामलकं तथा ।
अर्कागुरुगुडूचीनां तिक्तानामुष्णमुच्यते ।। चसं-१,२६.४९ ।।

आयुर्वेददीपिका
(
सम्प्रति यत्र विरुद्धवीर्यत्वेन रसेनोष्णत्वादि न निर्देश्यं तद् आह मधुरम् इत्यादि ।। १ ।।

किंचित् कषायं चोष्णं तिक्तं चोष्णम् इति योजना कषायतिक्तलवणानाम् उदाहरणम् असूत्रितानाम् अपि प्रकरणात् कृतम् ।। २ ।।

महत्पञ्चमूलं बिल्वादिपञ्चमूलम् इह ।। ३ ।।

एतच्च तिक्तस्य कषायस्य चोष्णतायाम् उदाहरणम् अब्जानूपामिषं तु मधुरस्योष्णवीर्यत्वे ।। ४ ।।
)

किंचिदम्लं हि संग्राहि किंचिदम्लं भिनत्ति च ।
यथा कपित्थं संग्राहि भेदि चामलकं तथा ।। चसं-१,२६.५० ।।

पिप्पली नागरं वृष्यं कटु चावृष्यमुच्यते ।
कषायः स्तम्भनः शीतः सो ऽभयायाम् अतोऽन्यथा ।। चसं-१,२६.५१ ।।

तस्माद्रसोपदेशेन न सर्वं द्रव्यम् आदिशेत् ।
दृष्टं तुल्यरसेऽप्येवं द्रव्ये द्रव्ये गुणान्तरम् ।। चसं-१,२६.५२ ।।

आयुर्वेददीपिका
(
वीर्यप्रसङ्गाद् अन्यम् अप्यम्लादीनां विरुद्धगुणम् आह किंचिद् इत्यादि ।। १ ।।

अभयायाम् अतोऽन्यथेति अभयायां कषायो रसो भेदनश् चोष्णश् चेत्यर्थः ।। २ ।।
)

रौक्ष्यात्कषायो रूक्षाणामुत्तमो मध्यमः कटुः ।
तिक्तोऽवरस्तथोष्णानाम् उष्णत्वाल्लवणः परः ।। चसं-१,२६.५३ ।।

मध्योऽम्लः कटुकश् चान्त्यः स्निग्धानां मधुरः परः ।
मध्योऽम्लो लवणश्चान्त्यो रसः स्नेहान्निरुच्यते ।। चसं-१,२६.५४ ।।

मध्योत्कृष्टावराः शैत्यात् कषायस्वादुतिक्तकाः ।
स्वादुर्गुरुत्वादधिकः कषायाल्लवणोऽवरः ।। चसं-१,२६.५५ ।।

अम्लात्कटुस् ततस्तिक्तो लघुत्वाद् उत्तमोत्तमः ।
केचिल् लघूनाम् अवरमिच्छन्ति लवणं रसम् ।। चसं-१,२६.५६ ।।

गौरवे लाघवे चैव सो ऽवरस् तूभयोरपि ।
आयुर्वेददीपिका
(
रौक्ष्याद् इत्यादि ।। १ ।।

रौक्ष्येण कषाय उत्तम इति रूक्षतमः तिक्तो रूक्षः कटुस्तु मध्यो रूक्षतरः एवम् अन्यत्रापि ।। २ ।।

कटुकश्चान्त्य इति अवर इत्यर्थः ।। ३ ।।

एवं लवणश्चान्त्य इति अवर इत्यर्थः ।। ४ ।।

लवणोऽवर इति गुरुत्वेनेत्यर्थः ।। ५ ।।

अम्लात् कटुर् इत्यादौ अम्लात्कटुर्लघुः ततः कटुकाद् उत्तमात् तिक्तो लघुत्वेनोत्तमोत्तमः उत्तमात् कटुकादुत्तम उत्तमोत्तमः ।। ६ ।।

एकीयमतमाह केचिद् इत्यादि ।। ७ ।।

एकीयमतं वचनभङ्ग्या स्वीकुर्वन्नाह गौरव इत्यादि ।। ८ ।।

एतेन गौरवे लाघवे चावरत्वं लवणस्य स्वीकुर्वन् गौरवे ऽवर इत्यनेनाम्लकटुतिक्तेभ्यो गुरुत्वं स्वीकरोति लवणस्य लाघवे चावर इत्यनेनाम्लादपि लघुनो ऽल्पं लाघवं लवणस्य स्वीकरोति ।। ९ ।।

न च वाच्यम् अम्ले पृथिवी कारणं लवणे तु तोयं ततः पृथिव्यपेक्षया तोयजन्यस्य लवणस्यैव लाघवमुचितमिति यतो न निवेशेन गौरवलाघवे शक्येते ऽवधारयितुं तथाहि तोयातिरेककृतो मधुरः पृथिव्यतिरेककृतात् कषायाद्गुरुर्भवति ।। १० ।।
)

परं चातो विपाकानां लक्षणं सम्प्रवक्ष्यते ।। चसं-१,२६.५७ ।।

कटुतिक्तकषायाणां विपाकः प्रायशः कटुः ।
अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ।। चसं-१,२६.५८ ।।

आयुर्वेददीपिका
(
सम्प्रति विपाकस्यापि रसरूपत्वाल्लक्षणम् आह परमित्यादि ।। १ ।।

प्रायोग्रहणात् पिप्पलीकुलत्थादीनां रसाननुगुणपाकितां दर्शयति ।। २ ।।

कटुकादिशब्देन च तदाधारं द्रव्यमुच्यते यतो न रसाः पच्यन्ते किंतु द्रव्यम् एव ।। ३ ।।

लवणस्तथेति लवणोऽपि मधुरविपाकः प्राय इत्यर्थः ।। ४ ।।

विपाकलक्षणं तु जठराग्नियोगाद् आहारस्य निष्ठाकाले यो गुण उत्पद्यते स विपाकः वचनं हि ।
जाठरेणाग्निना योगाद् यदुदेति रसान्तरम् ।
आहारपरिणामान्ते स विपाकः प्रकीर्तितः ।। ५ ।।
)

मधुरो लवणाम्लौ च स्निग्धभावात् त्रयो रसाः ।
वातमूत्रपुरीषाणां प्रायो मोक्षे सुखा मताः ।। चसं-१,२६.५९ ।।

कटुतिक्तकषायास्तु रूक्षभावात् त्रयो रसाः ।
दुःखाय मोक्षे दृश्यन्ते वातविण्मूत्ररेतसाम् ।। चसं-१,२६.६० ।।

आयुर्वेददीपिका
(
सम्प्रति वक्ष्यमाणविपाकलक्षणे मधुराम्लपाकयोर् वातमूत्रपुरीषान् अवरोधकत्वे तथा कटोर्विपाकस्य वातमूत्रपुरीषविबन्धकत्वे हेतुम् आह मधुर इत्यादि ।। १ ।।

अत्र मधुराम्ललवणा निष्ठापाकं गता अपि सन्तः स्नेहगुणयोगाद् वातपुरीषाणां विसर्गं सुखेन कुर्वन्तीति वाक्यार्थः ।। २ ।।

तेन मधुराम्लपाकयोरेतत्समानं लक्षणम् ।। ३ ।।

एवं कटुतिक्तकषायेष्वपि विपर्ययेऽपि वाक्यार्थः ।। ४ ।।
)

शुक्रहा बद्धविण्मूत्रो विपाको वातलः कटुः ।
मधुरः सृष्टविण्मूत्रो विपाकः कफशुक्रलः ।। चसं-१,२६.६१ ।।

पित्तकृत् सृष्टविण्मूत्रः पाकोऽम्लः शुक्रनाशनः ।
तेषां गुरुः स्यान्मधुरः कटुकाम्लाव् अतो ऽन्यथा ।। चसं-१,२६.६२ ।।

आयुर्वेददीपिका
(
सम्प्रति विपाकलक्षणं हेतुव्युत्पादितं शुक्रहत्वादिविशेषयुक्तं वक्तुम् आह शुक्रहेत्यादि ।। १ ।।

अतोऽन्यथेति लघुः ।। २ ।।
)

विपाकलक्षणस्याल्पमध्यभूयिष्ठतां प्रति ।
द्रव्याणां गुणवैशेष्यात्तत्र तत्रोपलक्षयेत् ।। चसं-१,२६.६३ ।।

आयुर्वेददीपिका
(
सम्प्रति यथोक्तविपाकलक्षणानां द्रव्यभेदे क्वचिदल्पत्वं क्वचिन्मध्यत्वं क्वचिच् चोत्कृष्टत्वं यथा भवति तद् आह विपाकेत्यादि ।। १ ।।

विपाकलक्षणस्याल्पमध्यभूयिष्ठताम् उपलक्षयेत् प्रति प्रति द्रव्याणां गुणवैशेष्याद्धेतोर् इत्यर्थः ।। २ ।।

एतेन द्रव्येषु यद् गुणवैशेष्यं मधुरत्वमधुरतरत्वमधुरतमत्वादि ततो हेतोर् विपाकानामल्पत्वादयो विशेषा भवन्तीत्युक्तं भवति ।। ३ ।।

अत्र केचिद्ब्रुवते प्रतिरसं पाको भवति यथा मधुरादीनां षण्णां षण्मधुरादयः पाका इति केचिद् ब्रुवते बलवतां रसानामबलवन्तो रसा वशतां यान्ति ततश् चानवस्थितः पाकः ।। ४ ।।

तत्रैतद्द्वितयमपि पाके व्यवस्थाकरणम् अनादृत्य सुश्रुतेन द्विविधः पाको मधुरः कटुश् चाङ्गीकृतः ।। ५ ।।

द्वैविध्यं च पञ्चभूतात्मके द्रव्ये गुरुभूतपृथिवीतोयातिरेकान्मधुरः पाको भवति शेषलघुभूतातिरेकात् तु कटुकः पाको भवति यदुक्तं द्रव्येषु पच्यमानेषु येष्व् अम्बुपृथिवीगुणाः ।। ६ ।।

निर्वर्तन्तेऽधिकास्तत्र पाको मधुर उच्यते ।। ७ ।।

तेजोऽनिलाकाशगुणाः पच्यमानेषु येषु तु ।। ८ ।।

निर्वर्तन्तेऽधिकास्तत्र पाकः कटुक उच्यते इति ।। ९ ।।

प्रतिरसपाके तथानवस्थितपाके च द्रव्यं रसगुणेनैव तुल्यं पाकावस्थायामपि भवति तेन न कश्चिद्विशेषो विपाकेन तत्र बोध्यत इति सुश्रुतेन तत्पक्षद्वयम् उपेक्षितमिति साधु कृतम् ।। १० ।।

तृतीयाम्लपाकनिरासस्तु दोषम् आवहति यतो व्रीहिकुलत्थादीनाम् अम्लपाकतया पित्तकर्तृत्वमुपलभ्यते अथ मन्यसे व्रीह्यादेर् उष्णवीर्यत्वेन तत्र पित्तकर्तृत्वं तन्न मधुरस्य व्रीहेस्तन्मते मधुरविपाकस्योष्णवीर्यतायामपि सत्यां न पित्तकर्तृत्वमुपपद्यते रसविपाकाभ्याम् एकस्य वीर्यस्य बाधनीयत्वात् ।। ११ ।।

किंच अम्लपाकत्वाद् व्रीह्यादेः पित्तमम्लगुणमुत्पद्यते यदि तु तद् उष्णवीर्यताकृतं स्यात्तदा कटुगुणभूयिष्ठं पित्तं स्यात् दृश्यते च व्रीहिभक्षणाद् अम्लोद्गारादिनाम्लगुणभूयिष्ठतैवेति ।। १२ ।।

किंच पृथिवीसोमगुणातिरेकान् मधुरः पाको भवति वाय्वग्न्याकाशातिरेकाच्च कटुर् भवतीति पक्षे यदा व्यामिश्रगुणातिरेकता भवति तदा सोमाग्न्यात्मकस्याम्लस्योत्पादः कथं प्रतिक्षेपणीयः ।। १३ ।।

अथवा तन्त्रकारयोः किम् अनयोर् अनेन वचनमात्रविरोधेन कर्तव्यं यतो यदम्लपाकं चरको ब्रूते तत्सुश्रुतेन वीर्योष्णम् इति कृत्वा समाधीयते तेन न कश्चिद् द्रव्यगुणे विरोधः ।। १४ ।।

यत्तु सुश्रुतेऽम्लपाकनिरासार्थं दूषणम् उच्यते पित्तं हि विदग्धमम्लतामुपैति इत्यादिना तदनभ्युपगमादेव निरस्तम् ।। १५ ।।

ननु लवणस्य मधुरपाकित्वे पित्तरक्तादिकर्तृत्वमनुपपन्नं तथा तिक्तकषाययोः कटुपाकित्वे पित्तहन्तृत्वमनुपपन्नं नैवं सत्यपि लवणस्य मधुरपाकित्वे तत्र लवणरस उष्णं च वीर्यं यदस्ति तेन तत् पित्तरक्तादिकारकं विपाकस्तु तत्र पित्तरक्तहरणलक्षणे कार्ये बाधितः सन् सृष्टविण्मूत्र इत्यादिना लक्षणेन लक्ष्यत एव ।। १६ ।।

एतेन यदुच्यते लवणे मधुरो विपाकश्चेद्रसवीर्याभ्यां बाधितः सन् स्वकार्यकरो न भवति तत्किं तेनोपदिष्टेनेति तन्निरस्तं भवति ।। १७ ।।

यतोऽस्त्येव सृष्टविण्मूत्रतादिना तत्र लवणे मधुरविपाकित्वं लक्षणीयम् ।। १८ ।।

अनया दिशा तिक्तकषाययोरपि पूर्वपक्षपरिहारः ।। १९ ।।

अन्ये त्व् एतद्दोषभयाल् लवणोऽप्यम्लं पच्यत इति व्याख्यानयन्ति लवणस्तथेत्यत्र तथाशब्देन विप्रकृष्टस्याम्लमित्यस्य कर्षणादिति ।। २० ।।

तन्न कट्वादीनां कटुर्विपाकोऽम्लोऽम्लस्य शेषयोर् मधुरः इति जतूकर्णवचनात् ।। २१ ।।

नच वाच्यं कस्मात् त्रय एव विपाका भवन्ति न पुनस्तिक्तादयोऽपीति यतो भूतस्वभाव एवैषः येन मधुरादयस् त्रय एव भवन्ति भूतस्वभावाश् चापर्यनुयोज्याः ।। २२ ।।

ननु यश्च रसविपरीतः पाको यथा लवणस्य मधुरः तिक्तकषाययोश् च कटुः स उच्यतां यस्तु समानगुणो मधुरस्य मधुरोऽम्लस्याम्लः कटुकस्य वा कटुकः तत्कथने किं प्रयोजनं यतो रसगुणैर् एव तत्र विपाकगुणोऽपि ज्ञास्यते ।। २३ ।।

नैवं येन लवणादिवद् विसदृशरसान्तरोत्पादशङ्कानिरारासार्थम् अपि तत्रानुगुणोऽपि विपाको वक्तव्य एव विपाकजश्च रस आहारपरिणामान्ते भवति प्राकृतस्तु रसो विपाकविरुद्धः परिणामकालं वर्जयित्वा ज्ञेयः तेन पिप्पल्याः कटुकरसत्वम् आदौ कण्ठस्थश्लेष्मक्षपणमुखशोधनादिकर्तृत्वेन सप्रयोजनं मधुरविपाकत्वं तु परिणामेन वृष्यत्वादिज्ञापनेन सप्रयोजनम् ।। २४ ।।

तथा यत्र विपाकस्य रसाः समानगुणतयानुगुणा भवन्ति तत्र बलवत् कार्यं भवति विपर्यये तु दुर्बलम् इति ज्ञेयम् ।। २५ ।।

एतच्च पाकत्रयं द्रव्यनियतं तेन ग्रहण्यध्याये वक्ष्यमाणाहारावस्थापाकाद्भिन्नम् एव तत्र ह्य् अविशेषेण सर्वेषामेव रसानाम् अवस्थावशात् त्रयः पाका वाच्याः अन्नस्य भुक्तमात्रस्य षड्रसस्य प्रपाकतः इत्यादिना ग्रन्थेन ।। २६ ।।
)

मृदुतीक्ष्णगुरुलघुस्निग्धरूक्षोष्णशीतलम् ।
वीर्यमष्टविधं केचित् केचिद्द्विविधमास्थिताः ।। चसं-१,२६.६४ ।।

शीतोष्णमिति वीर्यं तु क्रियते येन या क्रिया ।
नावीर्यं कुरुते किंचित् सर्वा वीर्यकृता क्रिया ।। चसं-१,२६.६५ ।।

आयुर्वेददीपिका
(
एकीयमतेन वीर्यलक्षणम् आह मृद्वित्यादि ।। १ ।।

एतच्चैकीयमतद्वयं पारिभाषिकीं वीर्यसंज्ञां पुरस्कृत्य प्रवृत्तम् ।। २ ।।

वैद्यके हि रसविपाकप्रभावव्यतिरिक्ते प्रभूतकार्यकारिणि गुणे वीर्यमिति संज्ञा तेनाष्टविधवीर्यवादिमते पिच्छिलविशदादयो गुणा न रसादिविपरीतं कार्यं प्रायः कुर्वन्ति तेन तेषां रसाद्युपदेशेनैव ग्रहणं मृद्वादीनां तु रसाद्यभिभावकत्वमस्ति यथा पिप्पल्यां कटुरसकार्यं पित्तकोपनमभिभूय तद्गते मृदुशीतवीर्ये पित्तमेव शमयतीति तथा कषाये तिक्तानुरसे महति पञ्चमूले तत्कार्यं वातकोपनम् अभिभूयोष्णेन वीर्येण तद्विरुद्धं वातशमनमेव क्रियते तथा मधुरेऽपीक्षौ शीतवीर्यत्वेन वातवृद्धिर् इत्यादि ।। ३ ।।

यदुक्तं सुश्रुते एतानि खलु वीर्याणि स्वबलगुणोत्कर्षाद् रसम् अभिभूयात्मकर्म दर्शयन्ति इत्यादि ।। ४ ।।

शीतोष्णवीर्यवादिमतं त्व् अग्नीषोमीयत्वाज् जगतः शीतोष्णयोरेव प्राधान्याज्ज्ञेयम् ।। ५ ।।

उक्तं च ।
नानात्मकमपि द्रव्यमग्नीषोमौ महाबलौ ।
व्यक्ताव्यक्तं जगदिव नातिक्रामति जातुचित् वा ।। ६ ।।

एतच्च मतद्वयम् अप्याचार्यस्य परिभाषासिद्धमनुमतमेव येनोत्तरत्र रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते इत्यादौ पारिभाषिकम् एव वीर्यं निर्देक्ष्यति ।। ७ ।।

पारिभाषिकवीर्यसंज्ञापरित्यागेन तु शक्तिपर्यायस्य वीर्यस्य लक्षणमाह वीर्यं त्व् इत्यादि ।। ८ ।।

वीर्यमिति शक्तिः ।। ९ ।।

येनेति रसेन वा विपाकेन वा प्रभावेन वा गुर्वादिपरादिभिर्वा गुणैर्या क्रिया तर्पणह्लादनशमनादिरूपा क्रियते तस्यां क्रियायां तद् रसादि वीर्यम् ।। १० ।।

अत एवोक्तं सुश्रुते येन कुर्वन्ति तद्वीर्यम् इति ।। ११ ।।

अत्रैव लोकप्रसिद्धाम् उपपत्तिम् आह नावीर्यम् इत्यादि ।। १२ ।।

अवीर्यम् अशक्तमित्यर्थः ।। १३ ।।

वीर्यकृतेति वीर्यवता कृता वीर्यकृता ।। १४ ।।
)

रसो निपाते द्रव्याणां विपाकः कर्मनिष्ठया ।
वीर्यं यावद् अधीवासान् निपाताच्चोपलभ्यते ।। चसं-१,२६.६६ ।।

आयुर्वेददीपिका
(
रसादीनामेकद्रव्यनिविष्टानां भेदेन नार्थं लक्षणमाह रसो निपात इत्यादि ।। १ ।।

निपात इति रसनायोगे ।। २ ।।

कर्मनिष्ठयेति कर्मणो निष्ठा निष्पत्तिः कर्मनिष्ठा क्रियापरिसमाप्तिः रसोपयोगे सति यो ऽन्त्याहारपरिणामकृतः कर्मविशेषः कफशुक्राभिवृद्ध्यादिलक्षणः तेन विपाको निश्चीयते ।। ३ ।।

अधीवासः सहावस्थानं यावद् अधीवासादिति यावच्छरीरनिवासात् एतच्च विपाकात्पूर्वं निपाताच्चोर्ध्वं ज्ञेयम् ।। ४ ।।

निपाताच्चेति शरीरसंयोगमात्रात् तेन किंचिद् वीर्यम् अधीवासाद् उपलभ्यते यथानूपमांसादेर् उष्णत्वं किंचिच् च निपातादेव लभ्यते यथा मरीचादीनां तीक्ष्णत्वादि किंचिच् च निपाताधीवासाभ्यां यथा मरीचादीनामेव ।। ५ ।।

एतेन रसः प्रत्यक्षेणैव विपाकस्तु नित्यपरोक्षः तत्कार्येणानुमीयते वीर्यं तु किंचिदनुमानेन यथा सैन्धवगतं शैत्यम् आनूपमांसगतं वा औष्ण्यं किंचिच् च वीर्यं प्रत्यक्षेणैव यथा राजिकागतम् औष्ण्यं घ्राणेन पिच्छिलविशदस्निग्धरूक्षादयः चक्षुःस्पर्शनाभ्यां निश्चीयन्त इति वाक्यार्थः ।। ६ ।।

एतच्च वीर्यं सहजं कृत्रिमं च ज्ञेयम् ।। ७ ।।

एतच्च यथासम्भवं गुरुलघ्वादिषु वीर्येषु लक्षणं ज्ञेयम् ।। ८ ।।

द्रव्याणामिति उपयुज्यमानद्रव्याणाम् ।। ९ ।।

तच्च वीर्यलक्षणं पारिभाषिकवीर्यविषयमेव ।। १० ।।
)

रसवीर्यविपाकानां सामान्यं यत्र लक्ष्यते ।
विशेषः कर्मणां चैव प्रभावस्तस्य स स्मृतः ।। चसं-१,२६.६७ ।।

आयुर्वेददीपिका
(
प्रभावलक्षणमाह रसवीर्येत्यादि ।। १ ।।

सामान्यमिति तुल्यता ।। २ ।।

विशेषः कर्मणामिति दन्त्याद्याश्रयाणां विरेचनत्वादीनाम् ।
सामान्यं लक्ष्यत इत्यनेन रसादिकार्यत्वेन यन्नावधारयितुं शक्यते कार्यं तत् प्रभावकृतम् इति सूचयति अत एवोक्तंप्रभावो ऽचिन्त्य उच्यते रसवीर्यविपाककार्यतयाचिन्त्य इत्यर्थः ।। ३ ।।
)

कटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः ।
तद्वद्दन्ती प्रभावात्तु विरेचयति मानवम् ।। चसं-१,२६.६८ ।।

विषं विषघ्नमुक्तं यत् प्रभावस्तत्र कारणम् ।
ऊर्ध्वानुलोमिकं यच्च तत्प्रभावप्रभावितम् ।। चसं-१,२६.६९ ।।

मणीनां धारणीयानां कर्म यद्विविधात्मकम् ।
तत् प्रभावकृतं तेषां प्रभावोऽचिन्त्य उच्यते ।। चसं-१,२६.७० ।।

सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः ।
किंचिद्रसेन कुरुते कर्म वीर्येण चापरम् ।। चसं-१,२६.७१ ।।

द्रव्यं गुणेन पाकेन प्रभावेण च किंचन ।
रसं विपाकस्तौ वीर्यं प्रभावस्तानपोहति ।। चसं-१,२६.७२ ।।

बलसाम्ये रसादीनामिति नैसर्गिकं बलम् ।
आयुर्वेददीपिका
(
अस्यैव दुरभिगमत्वाद् उदाहरणानि बहून्याह कटुक इत्यादिना ।। १ ।।

तद्वदिति चित्रकसमानगुणा ।। २ ।।

विषघ्नमुक्तम् इति तस्माद्दंष्ट्राविषं मौलम् इत्यादिना ।। ३ ।।

ऊर्ध्वानुलोमिकमिति युगपद् उभयभागहरं किंवा ऊर्ध्वहरं तथानुलोमहरं च ।। ४ ।।

कर्म यद्विविधात्मकमिति विषहरणशूलहरणादि ।। ५ ।।

एतच्चोदाहरणमात्रं तेन जीवनमेध्यादिद्रव्यस्य रसाद्यचिन्त्यं सर्वं प्रभाव इति ज्ञेयम् ।। ६ ।।

प्रभावश्चेह द्रव्यशक्तिर् अभिप्रेता सा च द्रव्याणां सामान्यविशेषः दन्तीत्वादियुक्ता व्यक्तिरेव यतः शक्तिर्हि स्वरूपमेव भावानां नातिरिक्तं किंचिद्धर्मान्तरम् एवं प्रदेशान्तरोक्तगुणप्रभावादिष्वपि वाच्यम् यथोक्तं द्रव्याणि हि द्रव्यप्रभावाद्गुणप्रभावाम् इत्यादि ।। ७ ।।

न च वाच्यं दन्त्यादिः स्वरूपत एव विरेचयति तेन किमिति जलाद्युपहता दन्ती न विरेचयतीति प्रतिबन्धकाभावविशिष्टस्यैव प्रभावस्य कारणत्वात् जलोपहतायां दन्त्यां जलोपघातः प्रतिबन्धक इत्याद्यनुसरणीयम् ।। ८ ।।

नैयायिकशक्तिवादे या च विषस्य विषघ्नत्वे उपपत्तिर् उक्ता ऊर्ध्वाधोगामित्वविरोधलक्षणा सान्तर्भागत्वात् प्रभावाद् एव भवति ।। ९ ।।

एवम् ऊर्ध्वानुलोमिकत्वादौ पार्थिवत्वादिकथने ऽपि वाच्यम् ।। १० ।।
)

षण्णां रसानां विज्ञानमुपदेक्ष्याम्यतः परम् ।। चसं-१,२६.७३ ।।

स्नेहनप्रीणनाह्लादमार्दवैर् उपलभ्यते ।
मुखस्थो मधुरश्चास्यं व्याप्नुवंल्लिम्पतीव च ।। चसं-१,२६.७४ ।।

दन्तहर्षान् मुखास्रावात् स्वेदनान्मुखबोधनात् ।
विदाहाच्चास्यकण्ठस्य प्राश्यैवाम्लं रसं वदेत् ।। चसं-१,२६.७५ ।।

प्रलीयन् क्लेदविष्यन्दमार्दवं कुरुते मुखे ।
यः शीघ्रं लवणो ज्ञेयः स विदाहान्मुखस्य च ।। चसं-१,२६.७६ ।।

संवेजयेद्यो रसानां निपाते तुदतीव च ।
विदहन्मुखनासाक्षि संस्रावी स कटुः स्मृतः ।। चसं-१,२६.७७ ।।

प्रतिहन्ति निपाते यो रसनं स्वदते न च ।
स तिक्तो मुखवैशद्यशोषप्रह्लादकारकः ।। चसं-१,२६.७८ ।।

वैशद्यस्तम्भजाड्यैर्यो रसनं योजयेद्रसः ।
बध्नातीव च यः कण्ठं कषायः स विकास्यपि ।। चसं-१,२६.७९ ।।

आयुर्वेददीपिका
(
विज्ञायतेऽनेनेति विज्ञानं लक्षणमित्यर्थः ।। १ ।।

प्रलीयन्निति विलीनो भवन् ।। २ ।।

संस्रावयतीति संस्रावी ।। ३ ।।

विकासीति हृदयविकसनशील उक्तं हि सुश्रुते हृदयं पीडयति इति ।। ४ ।।
)

एवमुक्तवन्तं भगवन्तमात्रेयमग्निवेश उवाच भगवन् श्रुतमेतदवितथम् अर्थसम्पद्युक्तं भगवतो यथावद् द्रव्यगुणकर्माधिकारे वचः परं त्व् आहारविकाराणां वैरोधिकानां लक्षणम् अनतिसंक्षेपेणोपदिश्यमानं शुश्रूषामह इति ।। चसं-१,२६.८० ।।

आयुर्वेददीपिका
(
सम्प्रति विरुद्धाहारं वक्तुम् आहैवम् इत्यादि ।। १ ।।

शरीरधातुविरोधं कुर्वन्तीति वैरोधिकाः लक्ष्यते वैरोधिकमनेनेति लक्षणं वैरोधिकाभिधायको ग्रन्थ एव ।। २ ।।

यत् किंचिद्दोषमास्राव्य इत्यादि वैरोधिकलक्षणं ज्ञेयम् ।। ३ ।।
)

तम् उवाच भगवान् आत्रेयः देहधातुप्रत्यनीकभूतानि द्रव्याणि देहधातुभिर्विरोधम् आपद्यन्ते परस्परगुणविरुद्धानि कानिचित् कानिचित् संयोगात् संस्काराद् अपराणि देशकालमात्रादिभिश् चापराणि तथा स्वभावादपराणि ।। चसं-१,२६.८१ ।।

आयुर्वेददीपिका
(
देहधातुप्रत्यनीकभूतानीति देहधातूनां रसादीनां वातादीनां च प्रकृतिस्थानां प्रत्यनीकस्वरूपाणि ।। १ ।।

विरोधमापद्यन्त इति देहधातूनां विरोधमाचरन्ति दूषयन्तीति यावत् ।। २ ।।

यथाभूतानि द्रव्याणि देहधातुभिर्विरोधमापद्यन्ते तदाह परस्परविरुद्धानि कानिचिद् इत्यादि ।। ३ ।।

तत्र परस्परगुणविरुद्धानि यथा न मत्स्यान् पयसाभ्यवहरेत् उभयं ह्य् एतद् इत्यादिनोक्तानि ।। ४ ।।

संयोगविरुद्धं यथा तदेव निकुचं पक्वं न माष इत्यादिनोक्तं यत् संस्कारादिविरुद्धगुणकथनं विना साहित्यमात्रेण विरुद्धम् उच्यते तत् संयोगविरुद्धम् ।। ५ ।।

मत्स्यपयसोस् तु यद्यपि सहोपयोगो विरुद्धत्वेनोक्तः तथाप्यसौ गुणविरुद्धत्वेन कथित इति गुणविरोधकस्यैवोदाहरणम् ।
विरोधश्च विरुद्धगुणत्वे सत्यपि क्वचिद् एव द्रव्यप्रभावाद् भवति तेन षड्रसाहारोपयोगे मधुराम्लयोर् विरुद्धशीतोष्णवीर्ययोर् विरोधो नोद्भावनीयः ।। ६ ।।

संस्कारतो विरुद्धं यथा न कपोतान् सर्षपतैलभृष्टान् इत्यादि ।। ७ ।।

देशो द्विविधः भूमिः शरीरं च ।। ८ ।।

तत्र भूमिविरुद्धं यथा तदेव भस्मपांशुपरिध्वस्तम् किंवा यत् किंचिदगोचरभृतं तद्देशविरुद्धं शरीरविरुद्धं यथा उष्णार्तस्य मधु मरणाय ।। ९ ।।

कालविरुद्धं यथा पर्युषिता काकमाची मरणाय ।। १० ।।

मात्राविरुद्धं यथा समधृते मधुसर्पिषी मरणाय ।। ११ ।।

आदिग्रहणाद्दोषप्रकृत्यादिविरुद्धानां ग्रहणम् ।। १२ ।।

स्वभावविरुद्धं यथा विषम् ।। १३ ।।
)

तत्र यान्याहारमधिकृत्य भूयिष्ठम् उपयुज्यन्ते तेषाम् एकदेशं वैरोधिकम् अधिकृत्योपदेक्ष्यामः न मत्स्यान् पयसा सहाभ्यवहरेत् उभयं ह्य् एतन्मधुरं मधुरविपाकं महाभिष्यन्दि शीतोष्णत्वाद्विरुद्धवीर्यं विरुद्धवीर्यत्वाच्छोणितप्रदूषणाय महाभिष्यन्दित्वान्मार्गोपरोधाय च ।। चसं-१,२६.८२ ।।

तन्निशम्यात्रेयवचनमनु भद्रकाप्यो ऽग्निवेशम् उवाच सर्वानेव मत्स्यान् पयसा सहाभ्यवहरेद् अन्यत्रैकस्माच् चिलिचिमात् स पुनः शकली लोहितनयनः सर्वतो लोहितराजी रोहिताकारः प्रायो भूमौ चरति तं चेत् पयसा सहाभ्यवहरेन्निःसंशयं शोणितजानां विबन्धजानां च व्याधीनामन्यतममथवा मरणं प्राप्नुयादिति ।। चसं-१,२६.८३ ।।

आयुर्वेददीपिका
(
वैरोधिकमधिकृत्येति वैरोधिकम् उद्दिश्य ।। १ ।।

शीतोष्णत्वादिति पयः शीतम् उष्णवीर्याश्च मत्स्याः शेषं मधुरत्वादि समानम् ।। २ ।।

एतच्च द्रव्यप्रभावादेव विरोधि ।। ३ ।।

स पुनः शकली इत्यादिना नान्दिनिः इति ख्यातो मत्स्य उच्यते ।। ४ ।।
)

नेति भगवानात्रेयः सर्वानेव मत्स्यान्न पयसा सहाभ्यवहरेद्विशेषतस्तु चिलिचिमं स हि महाभिष्यन्दित्वात् स्थूललक्षणतरान् एतान् व्याधीन् उपजनयत्यामविषम् उदीरयति च ।
ग्राम्यानूपौदकपिशितानि च मधुतिलगुडपयोमाषमूलकबिसैर् विरूढधान्यैर्वा नैकध्यमद्यात् तन्मूलं हि बाधिर्यान्ध्यवेपथुजाड्यकलमूकतामैण्मिण्यम् अथवा मरणमाप्नोति ।
न पौष्करं रोहिणीकं शाकं कपोतान् वा सर्षपतैलभ्रष्टान् मधुपयोभ्यां सहाभ्यवहरेत् तन्मूलं हि शोणिताभिष्यन्दधमनीप्रविचयापस्मारशङ्खकगलगण्डरोहिणीनाम् अन्यतमं प्राप्नोत्यथवा मरणमिति ।
न मूलकलशुनकृष्णगन्धार्जकसुमुखसुरसादीनि भक्षयित्वा पयः सेव्यं कुष्ठाबाधभयात् ।
न जातुकशाकं न निकुचं पक्वं मधुपयोभ्यां सहोपयोज्यम् एतद्धि मरणायाथवा बलवर्णतेजोवीर्योपरोधायालघुव्याधये षाण्ढ्याय चेति ।
तदेव निकुचं पक्वं न माषसूपगुडसर्पिर्भिः सहोपयोज्यं वैरोधिकत्वात् ।
तथाम्राम्रातकमातुलुङ्गनिकुचकरमर्दमोचदन्तशठबदरकोशाम्रभव्यजाम्बवकपित्थतिन्तिडीकपारावताक्षोडपनसनालिकेरदाडिमामलकान्येवंप्रकाराणि चान्यानि द्रव्याणि सर्वं चाम्लं द्रवमद्रवं च पयसा सह विरुद्धम् ।
तथा कङ्गुवनकमकुष्ठककुलत्थमाषनिष्पावाः पयसा सह विरुद्धाः ।
पद्मोत्तरिकाशाकं शार्करो मैरेयो मधु च सहोपयुक्तं विरुद्धं वातं चातिकोपयति ।
हारिद्रकः सर्षपतैलभृष्टो विरुद्धः पित्तं चातिकोपयति ।
पायसो मन्थानुपानो विरुद्धः श्लेष्माणं चातिकोपयति ।
उपोदिका तिलकल्कसिद्धा हेतुरतीसारस्य ।
बलाका वारुण्या सह कुल्माषैरपि विरुद्धा सैव शूकरवसापरिभृष्टा सद्यो व्यापादयति ।
मयूरमांसम् एरण्डसीसकावसक्तम् एरण्डाग्निप्लुष्टम् एरण्डतैलयुक्तं सद्यो व्यापादयति ।
हारिद्रकमांसं हारिद्रसीसकावसक्तं हारिद्राग्निप्लुष्टं सद्यो व्यापादयति तदेव भस्मपांशुपरिध्वस्तं सक्षौद्रं सद्यो मरणाय ।
मत्स्यनिस्तालनसिद्धाः पिप्पल्यस्तथा काकमाची मधु च मरणाय ।
मधु चोष्णम् उष्णार्तस्य च मधु मरणाय ।
मधुसर्पिषी समधृते चान्तरिक्षं समधृतं मधु पुष्करबीजं मधु पीत्वोष्णोदकं भल्लातकोष्णोदकं तक्रसिद्धः कम्पिल्लकः पर्युषिता काकमाची अङ्गारशूल्यो भासश्चेति विरुद्धानि ।
इत्येतद्यथाप्रश्नम् अभिनिर्दिष्टं भवतीति ।। चसं-१,२६.८४ ।।

आयुर्वेददीपिका
(
ग्राम्यपिशितादीनि मध्वादीनामन्यतरेणापि विरुद्धानि ।। १ ।।

कलमूकतेति कलमूकता अव्यक्तवचनता ।। २ ।।

पौष्करादीनां मधुपयोभ्यां सहाभ्यवहारो विरुद्धः पौष्करं पुष्करत्रत्ररूपं शाकं रोहिणी कटुरोहिणी ।। ३ ।।

धमनीप्रतिचयः सिराजग्रन्थिः ।। ४ ।।

जातुशाकं वंशपत्त्रिका ।। ५ ।।

वैरोधिकत्वादित्यनेन प्रकरणलब्धस्यापि वैरोधिकत्वस्य पुनरभिधानं सामान्योक्तषाण्ढ्यादिव्याधिकर्तृतोपदर्शनार्थम् एवमन्यत्रापि सामान्येऽपि वैरोधिकत्वमात्राभिधाने वक्तव्यम् ।
तथाम्लेत्यादौ अम्लग्रहणेन लब्धानाप्य् अम्लाम्रातकादीनाम् अभिधानं विशेषविरोधसूचनार्थम् ।। ६ ।।

सर्वग्रहणेनैव द्रवाद्रवाम्ले प्राप्ते पुनर्द्रवाद्रववचनं सर्वशब्दस्य द्रवाद्रवाम्लकार्त्स्न्यार्थताप्रतिषेधार्थं भवति हि प्रकरणाद् एकदेशे ऽपि सर्वव्यपदेशः यथा सर्वान् भोजयेदिति किंवा सर्वग्रहणम् अम्लविपाकानां व्रीह्यादीनां ग्रहणार्थम् ।। ७ ।।

पयसेति तृतीययेव सहार्थे लब्धे पुनः सहेत्यभिधानं केवलाम्लादियुक्तस्यैव विरोधितोपदर्शनार्थं तेन अम्लपयःसंयोगे गुडादिसंयोगे सति विरुद्धत्वं न दुग्धाम्रादीनाम् ।। ८ ।।

वनको वनकोद्रवः ।। ९ ।।

पद्मोत्तरिका कुसुम्भः ।। १० ।।

शार्कर इति मैरेयविशेषणम् ।। ११ ।।

वातं चातिकोपयतीति वचनेन पित्तकफाव् अल्पं कोपयतीति बोधयति एवं पित्तं चातिकोपयति कफं चातिकोपयतीत्येतयोरपि वाच्यम् ।। १२ ।।

हारिद्रको हरिताल इति ख्यातः पक्षी ।। १३ ।।

बलाका वारुण्या सह विरुद्धा तथा कुल्माषैश्च बलाका विरुद्धा ।। १४ ।।

एरण्डसीसकावसक्तमिति एरण्डकाष्ठावसक्तं सीसको हि भटित्रकरणकाष्ठम् उच्यते ।। १५ ।।

तदेवेति हारिद्रकमांसम् ।। १६ ।।

मत्स्या निस्ताल्यन्ते पच्यन्ते यस्मिन् तन्मत्स्यनिस्तालनं किंवा निस्तालनं वसा जतूकर्णेऽप्युक्तं मत्स्यवसा सिद्धाः पिप्पल्यः इति ।। १७ ।।

काकमाची मधु चेति संयोगविरुद्धम् ।। १८ ।।

भासो गोष्ठकुक्कुटः ।। १९ ।।
)

यत् किंचिद् दोषमास्राव्य न निर्हरति कायतः ।
आहारजातं तत् सर्वमहितायोपपद्यते ।। चसं-१,२६.८५ ।।

आयुर्वेददीपिका
(
अनुक्तवैरोधिकसंग्रहार्थमाह यत् किंचिदित्यादि ।। १ ।।

आह्रियत इत्याहारो भेषजमपि ।। २ ।।

दोषमास्राव्येति दोषानुत्क्लिष्टरूपान् जनयित्वा न निर्हरतीति ।। ३ ।।

अनेन वमनविरेचनद्रव्याणि निराकरोति तानि हि दोषानास्राव्य निर्हरन्ति ।। ४ ।।
)

यच्चापि देशकालाग्निमात्रासात्म्यानिलादिभिः ।
संस्कारतो वीर्यतश्च कोष्ठावस्थाक्रमैरपि ।। चसं-१,२६.८६ ।।

परिहारोपचाराभ्यां पाकात् संयोगतोऽपि च ।
विरुद्धं तच्च न हितं हृत्सम्पद्विधिभिश्च यत् ।। चसं-१,२६.८७ ।।

विरुद्धं देशतस्तावद् रूक्षतीक्ष्णादि धन्वनि ।
आनूपे स्निग्धशीतादि भेषजं यन्निषेव्यते ।। चसं-१,२६.८८ ।।

कालतोऽपि विरुद्धं यच्छीतरूक्षादिसेवनम् ।
शीते काले तथोष्णे च कटुकोष्णादिसेवनम् ।। चसं-१,२६.८९ ।।

विरुद्धमनले तद्वदन्नपानं चतुर्विधे ।
मधुसर्पिः समधृतं मात्रया तद्विरुध्यते ।। चसं-१,२६.९० ।।

कटुकोष्णादिसात्म्यस्य स्वादुशीतादिसेवनम् ।
यत्तत्सात्म्यविरुद्धं तु विरुद्धं त्व् अनिलादिभिः ।। चसं-१,२६.९१ ।।

या समानगुणाभ्यासविरुद्धान्नौषधक्रिया ।
संस्कारतो विरुद्धं तद्यद्भोज्यं विषवद्भवेत् ।। चसं-१,२६.९२ ।।

एरण्डसीसकासक्तं शिखिमांसं यथैव हि ।
विरुद्धं वीर्यतो ज्ञेयं वीर्यतः शीतलात्मकम् ।। चसं-१,२६.९३ ।।

तत्संयोज्योष्णवीर्येण द्रव्येण सह सेव्यते ।
क्रूरकोष्ठस्य चात्यल्पं मन्दवीर्यम् अभेदनम् ।। चसं-१,२६.९४ ।।

मृदुकोष्ठस्य गुरु च भेदनीयं तथा बहु ।
एतत्कोष्ठविरुद्धं तु विरुद्धं स्यादवस्थया ।। चसं-१,२६.९५ ।।

श्रमव्यवायव्यायामसक्तस्यानिलकोपनम् ।
निद्रालसस्यालसस्य भोजनं श्लेष्मकोपनम् ।। चसं-१,२६.९६ ।।

यच्चानुत्सृज्य विण्मूत्रं भुङ्क्ते यश् चाबुभुक्षितः ।
तच्च क्रमविरुद्धं स्याद्यच् चातिक्षुद्वशानुगः ।। चसं-१,२६.९७ ।।

परिहारविरुद्धं तु वराहादीन्निषेव्य यत् ।
सेवेतोष्णं घृतादींश्च पीत्वा शीतं निषेवते ।। चसं-१,२६.९८ ।।

विरुद्धं पाकतश्चापि दुष्टदुर्दारुसाधितम् ।
अपक्वतण्डुलात्यर्थपक्वदग्धं च यद्भवेत् ।
संयोगतो विरुद्धं तद्यथाम्लं पयसा सह ।। चसं-१,२६.९९ ।।

अमनोरुचितं यच्च हृद्विरुद्धं तदुच्यते ।
सम्पद्विरुद्धं तद्विद्याद् असंजातरसं तु यत् ।। चसं-१,२६.१०० ।।

अतिक्रान्तरसं वापि विपन्नरसमेव वा ।
ज्ञेयं विधिविरुद्धं तु भुज्यते निभृते न यत् ।
तदेवंविधमन्नं स्याद्विरुद्धमुपयोजितम् ।। चसं-१,२६.१०१ ।।

आयुर्वेददीपिका
(
यच्चापि देशकालाग्नीत्यादिग्रन्थं केचित् पठन्ति स च व्यक्त एव ।। १ ।।
)

षाण्ढ्यान्ध्यवीसर्पदकोदराणां विस्फोटकोन्मादभगंदराणाम् ।
मूर्छामदाध्मानगलग्रहाणां पाण्ड्वामयस्यामविषस्य चैव ।। चसं-१,२६.१०२ ।।

किलासकुष्ठग्रहणीगदानां शोथाम्लपित्तज्वरपीनसानाम् ।
संतानदोषस्य तथैव मृत्योर् विरुद्धमन्नं प्रवदन्ति हेतुम् ।। चसं-१,२६.१०३ ।।

आयुर्वेददीपिका
(
षाण्ढ्यं नपुंसकता ।। १ ।।

संतानदोषो मृतवत्सत्वादिः ।। २ ।।

एतच्च वैरोधिककथनं विशेषवचनेन बाध्यते तेन लशुनस्य क्षीरेण पानं क्वचिन् न विरोधि यदुक्तं साधयेच्छुद्धशुष्कस्य लशुनस्य चतुष्पलम् ।। ३ ।।

क्षीरोदकेऽष्टगुणिते क्षीरशेषं च पाययेत् तथा मूलकस्वरसं क्षीरम् इत्यादिप्रयोगेषून्नेयम् ।। ४ ।।

किंवा अनेकद्रव्यसंयोगाद् अत्र विरोधिनाम् अविरोधः विरोधिमात्रसंयोग एव विरोधी भवति ।। ५ ।।

यत्तु मधुन उष्णेन वमनेन संयुक्तस्य सत्यपि मदनफलादिद्रव्यसंयोगे ऽविरोधार्थमुक्तम् अपक्वगमनादि तन्मधुनो द्रव्यान्तरसंयोगे ऽप्युष्णसम्बन्धत्वे विरोधित्वोपदर्शनार्थं यतो विषान्वयं मधु विषस्य चोष्णविरोधि ।। ६ ।।

लशुनादीनां तु द्रव्यान्तरासंयोगे सत्येव मेलको विरुद्ध इति शास्त्रवचनादुन्नीयते ।। ७ ।।
)

एषां खल्वपरेषां च वैरोधिकनिमित्तानां व्याधीनामिमे भावाः प्रतिकारा भवन्ति ।
तद्यथा वमनं विरेचनं च तद्विरोधिनां च द्रव्याणां संशमनार्थम् उपयोगः तथाविधैश्च द्रव्यैः पूर्वम् अभिसंस्कारः शरीरस्येति ।। चसं-१,२६.१०४ ।।

विरुद्धाशनजान् रोगान् प्रतिहन्ति विवेचनम् ।
वमनं शमनं चैव पूर्वं वा हितसेवनम् ।। चसं-१,२६.१०५ ।।

सात्म्यतोऽल्पतया वापि दीप्ताग्नेस्तरुणस्य च ।
स्निग्धव्यायामबलिनां विरुद्धं वितथं भवेत् ।। चसं-१,२६.१०६ ।।

आयुर्वेददीपिका
(
तद्विरोधिनामिति षाण्ढ्यादिहराणाम् ।। १ ।।

तथाविधैरिति विरुद्धाहारजव्याधिविरुद्धैः ।। २ ।।

अभिसंस्कार इति सततोपयोगेन शरीरभावनम् ।। ३ ।।

किंवा तथाविधैर् इति रसायनप्रयोगैः ।। ४ ।।

एतच्चानागताबाधचिकित्सितं ज्ञेयम् ।। ५ ।।
)

मतिरासीन्महर्षीणां या या रसविनिश्चये ।
द्रव्याणि गुणकर्मभ्यां द्रव्यसंख्या रसाश्रया ।। चसं-१,२६.१०७ ।।

कारणं रससंख्याया रसानुरसलक्षणम् ।
परादीनां गुणानां च लक्षणानि पृथक्पृथक् ।। चसं-१,२६.१०८ ।।

पञ्चात्मकानां षट्त्वं च रसानां येन हेतुना ।
ऊर्ध्वानुलोमभाजश्च यद्गुणातिशयाद्रसाः ।। चसं-१,२६.१०९ ।।

षण्णां रसानां षट्त्वे च सविभक्ता विभक्तयः ।
उद्देशश्चापवादश्च द्रव्याणां गुणकर्मणि ।। चसं-१,२६.११० ।।

प्रवरावरमध्यत्वं रसानां गौरवादिषु ।
पाकप्रभावयोर्लिङ्गं वीर्यसंख्याविनिश्चयः ।। चसं-१,२६.१११ ।।

षण्णामास्वाद्यमानानां रसानां यत्स्वलक्षणम् ।
यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ।। चसं-१,२६.११२ ।।

वैरोधिकनिमित्तानां व्याधीनामौषधं च यत् ।
आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः ।। चसं-१,२६.११३ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते श्लोकस्थाने आत्रेयभद्रकाप्यीयो नाम षड्विंशोऽध्यायः ।। चसं-१,२६.११४ ।।

आयुर्वेददीपिका
(
संग्रहे द्रव्यसंख्या रसाश्रया इति भेदश्चैषाम् इत्यादिना रससंख्या हि परमार्थतो द्रव्यसंख्यैव निर्गुणत्वाद् रसानाम् इति भावः ।। १ ।।

कारणं रससंख्याया इति रसानां तत्र योग्यत्वाद् इत्यादिना विभक्तयो भेदः तत्र मधुर इत्यादिना ।। २ ।।

उद्देशो द्रव्याणां शीतं वीर्येण इत्यादिना अपवादो द्रव्याणां मधुरं किंचित् इत्यादिना ।। ३ ।।
)

चरकसंहिता, सूत्रस्थान, २७ (आन्नपानविधि)
अथातोऽन्नपानविधिम् अध्यायं व्याख्यास्यामः ।। चसं-१,२७.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-१,२७.२ ।।

आयुर्वेददीपिका
(
सम्प्रति सामान्येनोक्तानां गुणकर्मभ्यां प्रतिव्यक्त्यनुक्तानां प्रतिव्यक्तिप्राय उपयोगिद्रव्यस्य विशिष्टगुणकर्मकथनार्थम् अन्नपानविधिर् अध्यायोऽभिधीयते ।। १ ।।

अत्रोत्पन्नस्य छप्रत्ययस्य लुक् ।। २ ।।

अत्रान्ने काठिन्यसामान्यात् खाद्यं पाने च द्रवत्वसामान्याल्लेह्यम् अवरुद्धं ज्ञेयम् ।। ३ ।।

अन्नपानं विधीयते विशिष्टगुणकर्मयोगितया प्रतिपाद्यते ऽनेनेत्यन्नपानविधिः द्रव्याणां गुणकर्मकथनम् एव चान्नपानविधिः यतस्तद्धि ज्ञात्वान्नपानं विधीयते ।। ४ ।।
)

इष्टवर्णगन्धरसस्पर्शं विधिविहितमन्नपानं प्राणिनां प्राणिसंज्ञकानां प्राणमाचक्षते कुशलाः प्रत्यक्षफलदर्शनात् तदिन्धना ह्य् अन्तरग्नेः स्थितिः तत् सत्त्वम् ऊर्जयति तच्छरीरधातुव्यूहबलवर्णेन्द्रियप्रसादकरं यथोक्तमुपसेव्यमानं विपरीतमहिताय सम्पद्यते ।। चसं-१,२७.३ ।।

आयुर्वेददीपिका
(
किं तदन्नपानं करोतीत्याह इष्टेत्यादि ।। १ ।।

इष्टमिति अभिमतं हितं च किंवा इष्टं प्रियं हितं तु विधिविहितशब्देनैव प्राप्यते ।। २ ।।

विधिर् वक्ष्यमाणरसविमाने तदेतदाहारविधानम् इत्यादिग्रन्थवाच्यः तथेन्द्रियोपक्रमणीये नारत्नपाणिः इत्यादिनोक्तं विधानं तेन विधिना विहितं विधिविहितम् ।। ३ ।।

अत्र वर्णादिषु शब्दाग्रहणमन्नपाने प्रायः शब्दस्याविद्यमानत्वात् ।। ४ ।।

वर्णादिषु यद्यत् प्रथमम् अन्नपाने गृह्यते तत्तत् पूर्वम् उक्तम् ।। ५ ।।

रसस्तु स्पर्शस्य पश्चाद्गृह्यमाणोऽपि प्राधान्यख्यापनार्थं स्पर्शस्याग्रे कृतः ।। ६ ।।

प्राणिनाम् इत्यनेनैव लब्धेऽपि प्राणिसंज्ञकानाम् इति वचनं स्थावरप्राणिप्रतिषेधार्थं वृक्षादयो हि वनस्पतिसत्त्वानुकारोपदेशाच्छस्त्रे प्राणिन उक्ताः न तु लोके प्राणिसंज्ञकाः किंतर्हि जङ्गमा एव ।। ७ ।।

इह च मनुष्यस्यैवाधिकृतत्वेऽपि सामान्येन सकलप्राणिप्राणहेतुतयाहारकथनं मनुषव्यतिरिक्तेऽपि प्राणिन्याहारस्य प्राणजनकत्वोपदर्शनार्थम् ।। ८ ।।

प्राणमिति प्राणहेतुत्वात् यथायुर् घृतम् ।। ९ ।।

अथ कथं तत् प्राणमाचक्षत इत्याह प्रत्यक्षफलदर्शनादिति ।। १० ।।

प्रत्यक्षेणैव ह्य् आहारं विधिना कुर्वतां प्राणा अनुवर्तन्त इति तथा निराहाराणां प्राणा नह्य् अवतिष्ठन्त इति दृश्यत इत्यर्थः ।। ११ ।।

प्रत्यक्षशब्दश् चेह स्फुटप्रमाणे वर्तते यतः प्राणानाम् अन्नकार्यत्वम् अनुमानगम्यमेव ।। १२ ।।

आन्नकार्यत्व एव प्राणानां हेतुमाह तदिन्धना हीत्यादिना ।। १३ ।।

यस्माद् अन्तरग्निस्थितिश् चान्नपानहेतुना अग्निस्थितिश्च प्राणहेतुः ततोऽन्नं प्राणा इति भावः उक्तं हि बलम् आरोग्यमायुश्च प्राणाश्चाग्नौ प्रतिष्ठिताः ।। १४ ।।

किंवा पूर्वमन्नपानस्य प्राणहेतुत्वमुक्तं तदिन्धना हीत्यादिनाग्निहेतुत्वं वर्ण्यते ।। १५ ।।

सत्त्वमूर्जयतीति मनोबलं करोति ।। १६ ।।

धातुव्यूहो धातुसंघातः ।। १७ ।।

विपरीतम् अविधिसेवितम् ।। १८ ।।
)

तस्माद्धिताहितावबोधनार्थम् अन्नपानविधिम् अखिले नोपदेक्ष्यामो ऽग्निवेश ।
तत् स्वभावाद् उदक्तं क्लेदयति लवणं विष्यन्दयति क्षारः पाचयति मधु संदधाति सर्पिः स्नेहयति क्षीरं जीवयति मांसं बृंहयति रसः प्रीणयति सुरा जर्जरीकरोति सीधुर् अवधमति द्राक्षासवो दीपयति फाणितमाचिनोति दधि शोफं जनयति पिण्याकशाकं ग्लपयति प्रभूतान्तर्मलो माषसूपः दृष्टिशुक्रघ्नः क्षारः प्रायः पित्तलम् अम्लम् अन्यत्र दाडिमामलकात् प्रायः श्लेष्मलं मधुरम् अन्यत्र मधुनः पुराणाच्च शालिषष्टिकयवगोधूमात् प्रायस्तिकं वातलमवृष्यं चान्यत्र वेगाग्रामृतापटोलपत्त्रात् प्रायः कटुकं वातलम् अवृष्यं चान्यत्र पिप्पलीविश्वभेषजात् ।। चसं-१,२७.४ ।।

आयुर्वेददीपिका
(
अन्नपानं विधीयते येन तं विधिं द्रव्यगुणकर्मरूपं तथा चरशरीरावयवादिरूपं चाखिलेन कार्त्स्न्येनोपदेक्ष्यामः ।। १ ।।

यद्यपि चेह द्रव्यं प्रति प्रति गुणकर्मभ्यां न निर्देक्ष्यति वक्ष्यति हि अन्नपानैकदेशोऽयमुक्तः प्रायोपयोगिकः इति तथाप्यनुक्तानाम् अपि द्रव्याणां चरशरीरावयवाद्युपदेशेन तथा पूर्वाध्यायोक्तपार्थिवादिद्रव्यगुणकर्मकथनेन च तद्विधानमप्युक्तं भवतीत्यत उक्तमखिलेनेति वक्ष्यति हि यथा नानौषधं किंचिद् देशजानां वचो यथा ।। २ ।।

द्रव्यं तु तत्तथा वाच्यमनुक्तमिह यद् भवेत् तथा चरः शरीरावयवाः इत्यादि किंवा विधिशब्दो ऽशितपीतलीढखादितप्रकारवाची तेन चाशितादयः सर्व एवाखिलेन वाच्यः तत्कारणभूतानि तु द्रव्याणि रक्तशाल्यादीन्येकदेशेनोक्तानि अतो वक्ष्यति अन्नपानैकदेशोऽयमुक्तः इति ।। ३ ।।

अन्नपाने च वक्तव्ये यद्द्रव्यं प्राय उपयुज्यते तस्य सामान्यगुणमभिधाय वर्गसंग्रहेण गुणमुपदेक्ष्यति ।। ४ ।।

उदकाभिधानं चाग्रे कृतम् उदकस्यान्ने पाने च व्याप्रियमाणत्वात् ।। ५ ।।

तद् इत्युदाहरणं किंवा स स्वभावो यस्य स तत्स्वभावः तस्मात् क्लेदनस्वभावाद् इत्यर्थः ।। ६ ।।

यद्यपि उदकमाश्वासकराणां जलं स्तम्भनानाम् इत्युक्तं तथापीहानुक्तक्लेदनकर्माभिधानार्थं पुनरुच्यते ।। ७ ।।

इह जललवणादीनां यत् कर्मोच्यते तत्तेषामितरकर्मभ्यः प्रधानं ज्ञेयम् अग्र्याधिकारे तु तत्कर्मकर्तृद्रव्यान्तरप्रशस्तता ज्ञेया ।। ८ ।।

क्षारः पचन्तमग्निं पाचयति तेन पाचयतीति हेतौ णिच् ।। ९ ।।

स्नेहयतीत्यादौ तु तत्करोति तदाचष्टे इति णिच् ।। १० ।।

संदधातीति विश्लिष्टानि त्वङ्मांसादीनि संश्लेषयति ।। ११ ।।

रसः मांसरसः ।। १२ ।।

प्रीणयतीति क्षीणान् पुष्णाति न त्व् अतिबृहत्त्वं करोति तेन मांसकर्मणा बृंहणेन समं नैक्यम् ।। १३ ।।

जर्जरीकरोतीति श्लथमांसाद्युपचयं करोति यद् उक्तं हारीते सुरा जर्जरीकरोत्यसृङ्मेदोबाहुल्यात् इति तथा ह्य् अत्रैवोक्तं सुरा कृशानां पुष्ट्यर्थम् इति ।। १४ ।।

अवधमयतीति विलिखतीत्यर्थः अनेकार्थत्वाद् धातूनां वचनं हि लेखनः शीतरसिकः इति तथा हारीते ऽप्युक्तं सीधुर् अवधमयति वाय्वग्निप्रबोधनात् इति ।। १५ ।।

आचिनोति दोषान् इति शेषः तन्त्रान्तरवचनं हि वातपित्तकफांस्तस्मादाचिनोति च फाणितम् इति ।। १६ ।।

पिण्याकः तिलकल्कः निघण्टुकारस् त्व् आह पिण्याको हरितशिग्रुः ।। १७ ।।

ग्लपयति हर्षक्षयं करोति ।। १८ ।।

प्रभूतान्तर्मलस्य पुरीषस्य कर्ता प्रभूतान्तर्मलः यद्यपि माषो बहुमलः इति वक्ष्यति तथापि माषविकृतेः सूपस्येह गुणकथनं तेन न पुनरुक्तं न चावश्यं प्रकृतिधर्मो विकृतिमनुगच्छति यतः सक्तूनां सिद्धपिण्डिका गुर्वी एव भवति तस्मान् माषविकृताव् अपि मलवृद्धिदर्शनार्थम् एतदभिधानम् ।। १९ ।।

क्षारस्य पाचनत्वं गुणोऽभिहितः इह तु दृष्टिशुक्रघ्नत्वं दोष इति पृथगुच्यते ।। २० ।।

प्रायः पित्तलमिति विशेषेणान्येभ्यो लवणकटुकेभ्योऽम्लं पित्तलम् ।। २१ ।।

एवमन्यत्रापि प्रायःशब्दो विशेषार्थो वाच्यः किंवा प्रायःशब्दोऽम्लेन सम्बध्यते ।। २२ ।।

अत्र पित्तम् आदाव् अम्लजन्यतयोक्तं दोषप्राधान्यस्यानियतत्वात् उक्तं हि न ते पृथक् पित्तकफानिलेभ्य इति तथा समपित्तानिलकफा इति किंवा पित्तोष्मा वह्निः स चेहान्नपानपचने प्रधानं यदुक्तं यदन्नं देहधात्वोजोबलवर्णादिपोषकम् ।। २३ ।।

तत्राग्निर् हेतुर् आहारान् नह्य् अपक्वाद् रसादयः इति तेनेह वह्निकारणपित्तजनकम् एवादाव् उच्यते यतश्च पित्तजनकमग्रे वक्तव्यम् अतो रसप्रधानमपि मधुरो नादाव् उक्तः ।। २४ ।।

मधुन इति विच्छेदपाठेन नवानवस्य मधुनः कफाकर्तृत्वं दर्शयति ।। २५ ।।

इह च षड्रसस्यैव कथनमेतत्त्रयेणैव अनुक्तानां लवणतिक्तकषायाणाम् अपि पाकद्वारा ग्रहणात् यतो लवणः पाकात् प्रायो मधुरः तिक्तकषायौ कटुकौ पाकतो भवतः ।। २६ ।।

प्रायः सर्वं तिक्तम् इत्यादिस्तु ग्रन्थो हारीतीयः इह केनापि प्रमादाल् लिखितः ।। २७ ।।
)

परमतो वर्गसंग्रहेणाहारद्रव्याण्य् अनुव्याख्यास्यामः ।। चसं-१,२७.५ ।।

शूकधान्यशमीधान्यमांसशाकफलाश्रयान् ।
वर्गान् हरितमद्याम्बुगोरसेक्षुविकारिकान् ।। चसं-१,२७.६ ।।

दश द्वौ चापरौ वर्गौ कृतान्नाहारयोगिनाम् ।
रसवीर्यविपाकैश्च प्रभावैश्च प्रचक्ष्महे ।। चसं-१,२७.७ ।।

आयुर्वेददीपिका
(
वर्गेण शूकधान्यादीनाम् आहारद्रव्याणां संग्रहो वर्गसंग्रहः ।। १ ।।

रसवीर्येत्यादौ प्रभावोऽल्पविषयतया पृथक्पठितः ।। २ ।।

रसादिनिर्देशश्च यथायोग्यतया ज्ञेयः तेन न सर्वद्रव्ये सर्वरसाद्यभिधानं भविष्यति ।। ३ ।।

अत्र शूकधान्यम् आदाव् आहारप्रधानत्वात् शूकवन्ति धान्यानि शूकधान्यानि ।। ४ ।।
)

रक्तशालिर् महाशालिः कलमः शकुनाहृतः ।
तूर्णको दीर्घशूकश् च गौरः पाण्डुकलाङ्गुलौ ।। चसं-१,२७.८ ।।

सुगन्धको लोहवालः सारिवाख्यः प्रमोदकः ।
पतंगस् तपनीयश्च ये चान्ये शालयः शुभाः ।। चसं-१,२७.९ ।।

शीता रसे विपाके च मधुराश्चाल्पमारुताः ।
बद्धाल्पवर्चसः स्निग्धा बृंहणाः शुक्रलाः ।। चसं-१,२७.१० ।।

रक्तशालिर्वरस्तेषां तृष्णाघ्नस् त्रिमलापहः ।
महांस्तस्यानु कलमस्तस्याप्यनु ततः परे ।। चसं-१,२७.११ ।।

यवका हायनाः पांसुवाप्यनैषधकादयः ।
शालीनां शालयः कुर्वन्त्यनुकारं गुणागुणैः ।। चसं-१,२७.१२ ।।

आयुर्वेददीपिका
(
इह च द्रव्यनामानि नानादेशप्रसिद्धानि तेन नामज्ञाने सामर्थ्यं तथाभूतं नास्त्येवान्येषाम् अपि टीकाकृतां तेन देशान्तरिभ्यो नाम प्रायशो ज्ञेयं यत्तु प्रचरति गौडे तल् लिखिष्यामो ऽन्यदेशप्रसिद्धं च किंचित् ।। १ ।।

कलमो वेदाग्रहारेषु स्वनामप्रसिद्धः ।। २ ।।

शकुनाहृतः श्रावस्त्यां वक्रनाम्ना प्रसिद्धः ।। ३ ।।

रक्तशालिः प्रसिद्ध एव ।। ४ ।।

महाशालिर्मगधे प्रसिद्धः ।। ५ ।।

अत्र च शालिर्हैमन्तिकं धान्यं षष्टिकादयश्च ग्रैष्मिकाः व्रीहयः शारदा इति व्यवस्था ।। ६ ।।

रक्तशाल्यादीनां मधुरपाकित्वेऽपि बद्धवर्चस्त्वं प्रभावादेव ।। ७ ।।

महांस्तस्यान्विति रक्तशालेरनु तेन रक्तशालिगुणा महाशालेर् मनागल्पाः एवं तस्यानु कलम इत्यत्रापि वाच्यम् ।। ८ ।।

तस्येति महाशालेः ।। ९ ।।

ततः परे इति शकुनाहृतादयः उत्तरोत्तरमल्पगुणा इत्यर्थः ।। १० ।।

गुणागुणैर् इति शालीनां रक्तशाल्यादीनां ये गुणास् तृष्णाघ्नत्वत्रिमलापहत्वादयः तेषाम् अगुणैस् तद्गुणविपरीतैर् दोषैर् यवकादयो ऽनुकारं कुर्वन्ति ततश्च यवकास् तृष्णात्रिमलादिकरा इति ।। ११ ।।

गुणशब्दश्चेह प्रशंसायाम् ।। १२ ।।
)

शीतः स्निग्धोऽगुरुः स्वादुस् त्रिदोषघ्नः स्थिरात्मकः ।
षष्टिकः प्रवरो गौरः कृष्णगौरस्ततोऽनु च ।। चसं-१,२७.१३ ।।

वरकोद्दालकौ चीनशारदोज्ज्वलदर्दुराः ।
गन्धनाः कुरुविन्दाश्च षष्टिकाल्पान्तरा गुणैः ।। चसं-१,२७.१४ ।।

मधुरश्चाम्लपाकश्च व्रीहिः पित्तकरो गुरुः ।
बहुपुरीषोष्मा त्रिदोषस् त्व् एव पाटलः ।। चसं-१,२७.१५ ।।

आयुर्वेददीपिका
(
षष्टिकगुणे ऽकारप्रश्लेषाद् अगुरुरिति बोद्धव्यं मात्राशितीये षष्टिको लघुः पठितः ।। १ ।।

ततोऽनु चेति गौरषष्टिकाद् अल्पान्तरगुणः ।। २ ।।

वरकोद्दालकादयः षष्टिकविशेषाः केचित् कुधान्यानि वरकादीनि वदन्ति ।। ३ ।।

व्रीहिरिति शारदाशुधान्यस्य संज्ञा ।। ४ ।।

पाटलो व्रीहिविशेषः ।। ५ ।।

तन्त्रान्तरेऽपि पठ्यते त्रिदोषस्त्वेव पाटलः इति सुश्रुते पाटलशब्देनैतद्व्यतिरिक्तो धान्यविशेषो ज्ञेयः तेन तद्गुणकथनेन नेह विरोधः ।। ६ ।।
)

सकोरदूषः श्यामाकः कषायमधुरो लघुः ।
वातलः कफपित्तघ्नः शीतः संग्राहिशोषणः ।। चसं-१,२७.१६ ।।

हस्तिश्यामाकनीवारतोयपर्णीगवेधुकाः ।
प्रशान्तिकाम्भःस्यामाकलौहित्याणुप्रियङ्गवः ।। चसं-१,२७.१७ ।।

मुकुन्दो झिण्टिगर्मूटी वरुका वरकास्तथा ।
शिबिरोत्कटजूर्णाह्वाः श्यामाकसदृशा गुणैः ।। चसं-१,२७.१८ ।।

आयुर्वेददीपिका
(
कोरदूषादयः कुधान्यविशेषाः ।। १ ।।

कोरदूषः कोद्रवः कोरदूषस्य केवलस्य श्लेष्मपित्तघ्नत्वं तेन यदुक्तं रक्तपित्तनिदाने यदा जन्तुर्यवकोद्दालककोरदूषप्रायाण्य् अन्नानि भुङ्क्ते इत्यादिना पित्तकर्तृत्वं कोरदूषस्य तत् तत्रैवोक्तनिष्पावकाञ्जिकादियुक्तस्य संयोगमहिम्ना बोद्धव्यम् ।। २ ।।

श्यामाकादयोऽपि तृणधान्यविशेषाः ।। ३ ।।

हस्तिश्यामाकः श्यामाकभेद एव नीवार उडिका गवेधुको घुलुञ्चः स ग्राम्यारण्यभेदेन द्विविधः ।। ४ ।।

प्रशान्तिका उडिकैव स्थलजा रक्तशूका अम्भःश्यामाका जलजा ओडिका लोके डे इत्युच्यते प्रियङ्गुः काङ्गनी इति प्रसिद्धा ।। ५ ।।

मुकुन्दो वाकसतृण इति वरुकः शणबीजं वरकः श्यामबीजं शिबिरस् तीरभुक्तौ सिद्धक इत्युच्यते जूर्णाह्वो जोनार इति ख्यातः ।। ६ ।।
)

रूक्षः शीतोऽगुरुः स्वादुर्बहुवातशकृद्यवः ।
स्थैर्यकृत्सकषायश्च बल्यः श्लेष्मविकारनुत् ।। चसं-१,२७.१९ ।।

रूक्षः कषायानुरसो मधुरः कफपित्तहा ।
मेदःक्रिमिविषघ्नश्च बल्यो वेणुयवो मतः ।। चसं-१,२७.२० ।।

आयुर्वेददीपिका
(
यवस्य गुरोरपि बहुवातत्वं रूक्षत्वात् किंवा सुश्रुते यवो लघुः पठितः तेनात्राप्यगुरुरिति मन्तव्यं बल्यश्च स्रोतःशुद्धिकरत्वात् प्रभावाद्वा ।। १ ।।

अस्य च शीतमधुरकषायत्वेनानुक्तमपि पित्तहन्तृत्वं लभ्यत एव तेन सुश्रुते कफपित्तहन्ता इत्युक्तमुपपन्नम् ।। २ ।।
)

संधानकृद् वातहरो गोधूमः स्वादुशीतलः ।
जीवनो बृंहणो वृष्यः स्निग्धः स्थैर्यकरो गुरुः ।। चसं-१,२७.२१ ।।

नान्दीमुखी मधूली च मधुरस्निग्धशीतले ।
इत्ययं शूकधान्यानां पूर्वो वर्गः समाप्यते ।। चसं-१,२७.२२ ।।

आयुर्वेददीपिका
(
गोधूमस्य स्वादुशीतस्निग्धादिगुणोपयोगाच् छ्लेष्मकर्तृत्वं भवत्येव अत एव सुश्रुते श्लेष्मकर इत्युक्तम् ।। १ ।।

यत्तु वसन्ते कफप्रधाने यवगोधूमभोजनः इत्युक्तं तत् पुराणगोधूमाभिप्रायेण पुराणश्च गोधूमः कफं न करोतीत्युक्तम् एव प्रायः श्लेष्मलं मधुरम् इत्यादिना ग्रन्थेनात्रैवाध्याये ।। २ ।।

नन्दीमुखी यविका मधूली गोधूमभेदः ।
इत्ययमत्र ।। ३ ।।

इति प्रकारार्थः ।। ४ ।।

समाप्त इति वक्तव्ये समाप्यत इति यत् करोति तेन ज्ञापयति यत् बहुद्रव्यत्वान् नायं समाप्तो गणः किंतु यथा कथंचित् प्रसिद्धगुणकथनेन समाप्यते ।। ५ ।।

एवमन्यत्रापि षष्ठो वर्गः समाप्यत इत्यादौ व्याख्येयम् ।। ६ ।।
)

कषायमधुरो रूक्षः शीतः पाके कटुर् लघुः ।
विशदः श्लेष्मपित्तघ्नो मुद्गः सूप्योत्तमो मतः ।। चसं-१,२७.२३ ।।

वृष्यः परं वातहरः स्निग्धोष्णो मधुरो गुरुः ।
बल्यो बहुमलः पुंस्त्वं माषः शीघ्रं ददाति च ।। चसं-१,२७.२४ ।।

राजमाषः सरो रुच्यः कफशुक्राम्लपित्तनुत् ।
तत्स्वादुर्वातलो रूक्षः कषायो विशदो गुरुः ।। चसं-१,२७.२५ ।।

उष्णाः कषायाः पाकेऽम्लाः कफशुक्रानिलापहाः ।
कुलत्था ग्राहिणः कासहिक्काश्वासार्शसां हिताः ।। चसं-१,२७.२६ ।।

मधुरा मधुराः पाके ग्राहिणो रूक्षशीतलाः ।
मकुष्ठकाः प्रशस्यन्ते रक्तपित्तज्वरादिषु ।। चसं-१,२७.२७ ।।

चणकाश्च मसूराश्च खण्डिकाः सहरेणवः ।
लघवः शीतमधुराः सकषाया विरूक्षणाः ।। चसं-१,२७.२८ ।।

पित्तश्लेष्मणि शस्यन्ते सूपेष्वालेपनेषु च ।
तेषां मसूरः संग्राही कलायो वातलः परम् ।। चसं-१,२७.२९ ।।

स्निग्धोष्णो मधुरस्तिक्तः कषायः कटुकस्तिलः ।
त्वच्यः केश्यश्च बल्यश्च वातघ्नः कफपित्तकृत् ।। चसं-१,२७.३० ।।

मधुराः शीतला गुर्व्यो बलघ्न्यो रूक्षणात्मिकाः ।
सस्नेहा बलिभिर् भोज्या विविधाः शिम्बिजातयः ।। चसं-१,२७.३१ ।।

शिम्बी रूक्षा कषाया च कोष्ठे वातप्रकोपिनी ।
न च वृष्या न चक्षुष्या विष्टभ्य च विपच्यते ।। चसं-१,२७.३२ ।।

आढकी कफपित्तघ्नी वातला कफवातनुत् ।
अवल्गुजः सैडगजो निष्पावा वातपित्तलाः ।। चसं-१,२७.३३ ।।

काकाण्डोमात्मगुप्तानां माषवत् फलम् आदिशेत् ।
द्वितीयोऽयं शमीधान्यवर्गः प्रोक्तो महर्षिणा ।। चसं-१,२७.३४ ।।

आयुर्वेददीपिका
(
धान्यत्वेन शमीधान्यवर्गेऽभिधातव्ये प्रधानत्वान्मुद्गो निरुच्यते ।। १ ।।

सूप्यं सूपयोग्यं शमीधान्यं तत्रोत्तमः सूप्योत्तमः ।। २ ।।

वृष्य इत्यादिमाषगुणे स्निग्धोष्णमधुरत्वादिगुणयोगादेव वातहरत्वे लब्धे पुनस्तदभिधानं विशेषवातहन्तृत्वप्रतिपादनार्थम् एवमन्यत्राप्येवंजातीये व्याख्येयम् ।। ३ ।।

पुंस्त्वं शुक्रम् ।। ४ ।।

शीघ्रमिति वचनेन शुक्रस्रुतिकरत्वलक्षणमपि वृष्यत्वं माषस्य दर्शयति शुक्रस्रुतिकरं च वृष्यशब्देनोच्यत एव वचनं हि शुक्रस्रुतिकरं किंचित् किंचित् शुक्रविवर्धनम् ।। ५ ।।

स्रुतिवृद्धिकरं किंचित्त्रिविधं वृष्यमुच्यते इति तदेवं सम्पूर्णवृष्यत्वं माषे बोद्धव्यम् ।। ६ ।।

राजमाषगुणकथने तत्स्वादुरिति माषवत्स्वादुः किंवा रूक्षश्चेत्यादि पाठान्तरम् ।। ७ ।।

उष्ण इत्यादिना कुलत्थगुणः कुलत्थश्च शुक्लकृष्णचित्रलोहितभेदेन चतुर्विधो भवति तथा ग्राम्यवन्यभेदेन च द्विविधोऽपि अत एव तन्त्रान्तरे वन्यः कुलत्थस्तद्वच्च विशेषान् नेत्ररोगनुत् इत्युक्तम् ।। ८ ।।

मकुष्टको मोठ इति ख्यातः ।। ९ ।।

चणकः प्रसिद्धः ।। १० ।।

खण्डिका त्रिपुटकलायः हरेणुः वर्तुलकलायः ।। ११ ।।

कलायो वातल इति त्रिपुटकलायः ।। १२ ।।

तिलगुणो यद्यपि विशेषेण नोक्तः तथापि प्रधाने कृष्णतिले ज्ञेयः उक्तं हि सुश्रुते तिलेषु सर्वेष्वसितः प्रधानो मध्यः सितो हीनतरास् ततोऽन्ये इति ।। १३ ।।

विविधाः शिम्बीजातय इति कृष्णपीतरक्तश्वेतकुशिम्बीभेदा इत्यर्थः ।
शिम्बी रूक्षा इत्यादि केचित् पठन्ति ।। १४ ।।

आढकी तुवरी वातलेति छेदः ।। १५ ।।

कफवातनुद् अवल्गुजैडगजयोर् बीजस्य गुणः ।। १६ ।।

निष्पावो वल्लः ।। १७ ।।

काकाण्डः शूकरशिम्बिः उमा अतसी ऊर्णांपाठपक्षे तस्यैवोर्णा ।। १८ ।।

शमीधान्यवर्ग इत्यत्र शमी शिम्बिः तदन्तर्गतं धान्यम् ।। १९ ।।
)

गोखराश्वतरोष्ट्राश्वद्वीपिसिंहर्क्षवानराः ।
वृको व्याघ्रस्तरक्षुश्च बभ्रुमार्जारमूषिकाः ।। चसं-१,२७.३५ ।।

लोपाको जम्बुकः श्येनो वान्तादश्चाषवायसौ ।
शशघ्नी मधुहा भासो गृध्रोलूककुलिङ्गकाः ।। चसं-१,२७.३६ ।।

धूमिका कुररश्चेति प्रसहा मृगपक्षिणः ।
आयुर्वेददीपिका
(
सूप्यानन्तरं मांसस्य व्यञ्जनत्वेन प्राधान्यान् मांसवर्गाभिधानम् ।। १ ।।

खरः गर्दभः अश्वतरः वेगसरः स चाश्वायां खराज्जातः द्वीपी चित्रव्याघ्रः ऋक्षः भल्लूकः ।। २ ।।

वृकः कुक्कुरानुकारी पशुशत्रुः तरक्षुः व्याघ्रभेदः तरच्छ इति ख्यातः बभ्रुः अतिलोमशः कुक्कुरः पर्वतोपकण्ठे भवति केचिद् बृहन्नकुलम् आहुः ।। ३ ।।

लोपाकः स्वल्पशृगालो महालाङ्गूलः ।। ४ ।।

श्येनः पक्षी प्रसिद्धः ।। ५ ।।

वान्तादः कुक्कुरः ।। ६ ।।

चाषः कनकवायस इति ख्यातः ।। ७ ।।

शशघ्नी पाञ्जिः इति ख्याता ।। ८ ।।

भासः भस्मवर्णः पक्षी शिखावान् प्रसहवर्गे ।। ९ ।।

कुलिङ्गः कालचटकः ।। १० ।।
)

श्वेतः श्यामश्चित्रपृष्ठः कालकः काकुलीमृगः ।। चसं-१,२७.३७ ।।

कूर्चिका चिल्लटो भेको गोधा शल्लकगण्डकौ ।
कदली नकुलः श्वाविदिति भूमिशयाः स्मृताः ।। चसं-१,२७.३८ ।।

आयुर्वेददीपिका
(
काकुलीमृगः मालुयासर्प इति ख्यातः तस्य श्वेत इत्यादयश् चत्वारो भेदाः ।। १ ।।

कूर्चिका संकुचः ।। २ ।।

चिल्लटः चियारः ।। ३ ।।

शल्लको महाशकली शलक इति ख्यातः गण्डकः गोधाभेदः ।। ४ ।।

कदली कदलीहट्ट इति ख्यातः ।। ५ ।।

श्वावित् सेज्जक इति ख्यातः ।। ६ ।।

भूमिशया बिलेशयाः ।। ७ ।।
)

सृमरश्चमरः खड्गो महिषो गवयो गजः ।
न्यङ्कुर् वराहश्चानूपा मृगाः सर्वे रुरुस्तथा ।। चसं-१,२७.३९ ।।

आयुर्वेददीपिका
(
सृमरः महाशूकरः ।। १ ।।

चमरः केशमृत्युः ।। २ ।।

खड्गः गण्डकः ।। ३ ।।

गवयः गवाकारः ।। ४ ।।

न्यङ्कुः न्यङ्कुशो हरिणः ।। ५ ।।

रुरुः बहुशृङ्गो हरिणः ।। ६ ।।
)

कूर्मः कर्कटको मत्स्यः शिशुमारस् तिमिङ्गिलः ।
शुक्तिशङ्खोद्रकुम्भीरचुलुकीमकरादयः ।। चसं-१,२७.४० ।।

।।

आयुर्वेददीपिका
(
शिशुमारः गोतुण्डनक्रः ।। १ ।।

तिमिङ्गिलः सामुद्रो महामत्स्यः ।। २ ।।

शुक्तिः मुक्ताप्रभवो जन्तुः ऊद्रः जलबिडालः कुम्भीरः घटिकावान् चुलुकी शुशु इति ख्यातः ।। ३ ।।

शिशुमारादीनां मत्स्यग्रहणेन ग्रहणे प्राप्ते विशेषव्यवहारार्थं पुनरभिधानम् ।। ४ ।।
)

इति वारिशयाः प्रोक्ता वक्ष्यन्ते वारिचारिणः ।
हंसः क्रौञ्चो बलाका च बकः कारण्डवः प्लवः ।। चसं-१,२७.४१ ।।

शरारिः पुष्कराह्वश्च केसरी मणितुण्डकः ।
मृणालकण्ठो मद्गुश्च कादम्बः काकतुण्डकः ।। चसं-१,२७.४२ ।।

उत्क्रोशः पुण्डरीकाक्षो मेघरावो ऽम्बुकुक्कुटी ।
आरा नन्दीमुखी वाटी सुमुखाः सहचारिणः ।। चसं-१,२७.४३ ।।

रोहिणी कामकाली च सारसो रक्तशीर्षकः ।
चक्रवाकस्तथान्ये च खगाः सन्त्यम्बुचारिणः ।। चसं-१,२७.४४ ।।

आयुर्वेददीपिका
(
हंसश् चतुर्विधो ऽपि राजहंसादिर् ग्राह्यः ।। १ ।।

क्रौञ्चः कोञ्च इति ख्यातः ।। २ ।।

बकः पाण्डुरपक्षः ।। ३ ।।

बलाका शुक्ला ।। ४ ।।

कारण्डवः काकवक्त्रः ।। ५ ।।

प्लवः स्वनामप्रसिद्धः प्रसेवगलः ।। ६ ।।

शरारिः शराली इति लोके ।। ७ ।।

मद्गुः पानीयकाकः ।। ८ ।।

कादम्बः कलहंसः ।। ९ ।।

काकतुण्डकः श्वेतकारण्डवः ।। १० ।।

उत्क्रोशः कुरल इति ख्यातः ।। ११ ।।

पुण्डरीकाक्षः पुण्डरः ।। १२ ।।

मेघरावः मेघनादः ।। १३ ।।

मेघरावश्चातक इत्यन्ये तन्न तस्य वारिचरत्वाभावात् ।। १४ ।।

अम्बुकुक्कुटी जलकुक्कुटी ।। १५ ।।

आरा स्वनामख्याता ।। १६ ।।

नन्दीमुखी पत्राटी ।। १७ ।।

सारसः प्रसिद्धः ।। १८ ।।

रक्तशीर्षकः सारसभेदो लोहितशिराः ।। १९ ।।

अम्बुचारिण इति जले प्लवन्त इत्यर्थः ।। २० ।।
)

पृषतः शरभो रामः श्वदंष्ट्रो मृगमातृका ।
शशोरणौ कुरङ्गश्च गोकर्णः कोट्टकारकः ।। चसं-१,२७.४५ ।।

चारुष्को हरिणैणौ च शम्बरः कालपुच्छकः ।
ऋष्यश्च वरपोतश्च विज्ञेया जाङ्गला मृगाः ।। चसं-१,२७.४६ ।।

आयुर्वेददीपिका
(
पृषतः चित्रहरिणः ।। १ ।।

शरभः अष्टापद उष्ट्रप्रमाणो महाशृङ्गः पृष्ठगतचतुष्पादः काश्मीरे प्रसिद्धः ।। २ ।।

रामः हिमालये महामृगः ।। ३ ।।

श्वदंष्ट्रः चतुर्दंष्ट्रः कार्त्तिकपुरे प्रसिद्धः ।। ४ ।।

मृगमातृका स्वल्पा पृथूदरा हरिणजातिः ।। ५ ।।

कुरङ्गः हरिणभेदः ।। ६ ।।

गोकर्णः गोमुखहरिणविशेषः ।। ७ ।।

हरिणः ताम्रवर्णः एणः कृष्णसारः ।। ८ ।।

ऋष्यः नीलाण्डो हरिणः ।। ९ ।।

चारुष्कादयोऽपि हरिणभेदा एव ।। १० ।।

शशस्तु सुश्रुते बिलेशयेषु पठितः तददूरान्तरार्थम् ।। ११ ।।
)

लावो वर्तीरकश्चैव वार्तीकः सकपिञ्जलः ।
चकोरश्चोपचक्रश्च कुक्कुभो रक्तवर्त्मकः ।। चसं-१,२७.४७ ।।

लावाद्या विष्किरास्त्वेते वक्ष्यन्ते वर्तकादयः ।
वर्तको वर्तिका चैव बर्ही तित्तिरिकुक्कुटौ ।। चसं-१,२७.४८ ।।

कङ्कशारपदेन्द्राभगोनर्दगिरिवर्तकाः ।
क्रकरोऽवकरश्चैव वारडश्चेति विष्किराः ।। चसं-१,२७.४९ ।।

आयुर्वेददीपिका
(
लावः प्रसिद्धः ।। १ ।।

वर्तीरः कपिञ्जलभेदः ।। २ ।।

कपिञ्जलो गौरतित्तिरिः ।। ३ ।।

वार्तीकः चटकभेदः संघातचारी ।। ४ ।।

उपचक्रः चकोरभेदः ।। ५ ।।

कुक्कुभः प्रसिद्धः रक्तवर्त्मक इति कुक्कुभविशेषणं तेन स्थूलकुक्कुभो गृह्यते ।। ६ ।।

वर्तकः वट्टही इति ख्यातः ।। ७ ।।

वार्तिका स्वल्पप्रमाणा जात्यन्तरमेव केचित् तु वर्तकस्त्रियं वर्तिकां वदन्ति अस्याश्च ग्रहणं स्त्रीलिङ्गभेदेऽपि विशेषलाघवप्रतिषेधार्थम् अन्यथा स्त्रीत्वेन वर्तिकाद्वर्तिकाया लाघवं स्यात् ।। ८ ।।

बर्ही मयूरः ।। ९ ।।

शारपदेन्द्राभः मल्लकङ्कः ।। १० ।।

गोनर्दो घोडाकङ्क इति ख्यातः ।। ११ ।।

क्रकरः प्रसिद्धः ।। १२ ।।

लावादिवर्तिकादिविष्किरगणद्वयकरणं गुणभेदकथनार्थम् ।। १३ ।।
)

शतपत्त्रो भृङ्गराजः कोयष्टिर् जीवजीवकः ।
कैरातः कोकिलोऽत्यूहो गोपापुत्रः प्रियात्मजः ।। चसं-१,२७.५० ।।

लट्टा लटूषको बभ्रुर् वटहा डिण्डिमानकः ।
जटी दुन्दुभिपाक्कारलोहपृष्ठकुलिङ्गकाः ।। चसं-१,२७.५१ ।।

कपोतशुकसारङ्गाश् चिरटीकङ्कुयष्टिकाः ।
सारिका कलविङ्कश्च चटकोऽङ्गारचूडकः ।। चसं-१,२७.५२ ।।

पारावतः पाण्डविक इत्युक्ताः प्रतुदा द्विजाः ।
आयुर्वेददीपिका
(
शतपत्त्रः काष्ठकुक्कुटकः ।। १ ।।

भृङ्गराजः प्रसिद्धो भ्रमरवर्णः कोयष्टिः कोडा इति ख्यातः ।। २ ।।

जीवञ्जीवकः विषदर्शनमृत्युः ।। ३ ।।

अत्यूहः डाहुकः दात्यूह इति वा पाठः स च प्रसिद्धः ।। ४ ।।

लट्टा फेञ्चाको रक्तपुच्छाधोभागः लटूषकोऽपि तद्भेदः ।। ५ ।।

डिण्डिमानकः डिण्डिमवद् उत्कटध्वनिः ।। ६ ।।

कुलिङ्ग इति वनचटकाकारः पीतमस्तकः वाए इति लोके ।। ७ ।।

कलविङ्कः ग्राम्यचटकः ।। ८ ।।

चटकस्तु देवकुलचटकः स्वल्पप्रमाणः ।। ९ ।।

यान्यत्रानुक्तान्यप्रसिद्धानि तानि तद्विद्भ्यो देशान्तरेभ्यश्च ज्ञेयानि ।। १० ।।
)

प्रसह्य भक्षयन्तीति प्रसहास्तेन संज्ञिताः ।। चसं-१,२७.५३ ।।

भूशया बिलवासित्वाद् आनूपानूपसंश्रयात् ।
जले निवासाज्जलजा जलेचर्याज् जलेचराः ।। चसं-१,२७.५४ ।।

स्थलजा जाङ्गलाः प्रोक्ता मृगा जाङ्गलचारिणः ।
विकीर्य विष्किराश्चेति प्रतुद्य प्रतुदाः स्मृताः ।। चसं-१,२७.५५ ।।

योनिरष्टविधा त्व् एषा मांसानां परिकीर्तिता ।
आयुर्वेददीपिका
(
प्रसहादिसंज्ञानिरुक्त्या लक्षणमाह ।। १ ।।

प्रसह्येति हठात् ।। २ ।।

आनूपानूपसंश्रयादिति पूर्वत्रासिद्धविधेर् अनित्यत्वेनानूपा इत्यत्र यलोपस्य सिद्धत्वेनैव संहिता ज्ञेया ।। ३ ।।

जलेचर्यादिति जलवासिनाम् एव हंसादीनां जले चरणमात्रत्वं बोद्धव्यम् ।। ४ ।।

स्थलजा इत्युक्ते गजादिष्वपि स्थलजातेषु प्रसक्तिः स्यादित्याह जाङ्गलचारिण इति ।। ५ ।।

विकीर्येत्यत्र भक्षयन्ति इति शेषः एवं प्रतुद्येत्यत्रापि प्रतुद्येति बहुधाभिहत्य ।। ६ ।।
)

प्रसहा भूशयानूपवारिजा वारिचारिणः ।। चसं-१,२७.५६ ।।

गुरूष्णस्निग्धमधुरा बलोपचयवर्धनाः ।
वृष्याः परं वातहराः कफपित्तविवर्धनाः ।। चसं-१,२७.५७ ।।

हिता व्यायामनित्येभ्यो नरा दीप्ताग्नयश्च ये ।
प्रसहानां विशेषेण मांसं मांसाशिनां भिषक् ।। चसं-१,२७.५८ ।।

जीर्णार्शोग्रहणीदोषशोषार्तानां प्रयोजयेत् ।
लावाद्यो वैष्किरो वर्गः प्रतुदा जाङ्गला मृगाः ।। चसं-१,२७.५९ ।।

लघवः शीतमधुराः सकषाया हिता नृणाम् ।
पित्तोत्तरे वातमध्ये संनिपाते कफानुगे ।। चसं-१,२७.६० ।।

विष्किरा वर्तकाद्यास्तु प्रसहाल्पान्तरा गुणैः ।
आयुर्वेददीपिका
(
प्रसहा द्विविधा मांसादा व्याघ्रश्येनादयः तथा अमांसादाश्च गवादयः तेन मांसादानां विशेषमाह प्रसहानाम् इत्यादि ।। १ ।।

जीर्णत्वेनार्शःप्रभृतीनां चिरानुबन्धं दर्शयति ।। २ ।।

प्रतुदा इत्यत्र तथा जाङ्गला इत्यत्र चकारो लुप्तनिर्दिष्टः ।। ३ ।।

कफानुगे इति छेदः ।। ४ ।।
)

नातिशीतगुरुस्निग्धं मांसम् आजम् अदोषलम् ।। चसं-१,२७.६१ ।।

शरीरधातुसामान्याद् अनभिष्यन्दि बृंहणम् ।
मांसं मधुरशीतत्वाद् गुरु बृंहणमाविकम् ।। चसं-१,२७.६२ ।।

योनाव् अजाविके मिश्रगोचरत्वादनिश्चिते ।
आयुर्वेददीपिका
(
शरीरधातुसामान्यादिति मनुष्यमांससमानत्वात् ।। १ ।।

एतेन शीतगुरुस्निग्धत्वेन युक्तम् अप्याजमांसं शरीरधातुसाम्यात् कफं न करोतीत्युक्तं भवति ।। २ ।।

आविकं मांसं मधुरशीतत्वेन पित्तहरमपि बोद्धव्यम् अत एव शरद्विधाव् अप्युक्तम् उरभ्रशरभान् इति ।। ३ ।।

रक्तपित्तनिदाने तु वराहमहिषेत्यादिना द्रव्यान्तरसंयुक्तस्यैवाविकमांसस्य रक्तपित्तकर्तृत्वं ज्ञेयम् ।। ४ ।।

योनाव् इति प्रसहाद्यष्टविधजातौ ।। ५ ।।

मिश्रगोचरत्वादिति कदाचिदनूपसेवनात् कदाचिद् धन्वसेवनात् कदाचिद् उभयसेवनाद् अजाव्योर् अनिश्चितयोनित्वम् इत्यर्थः ।। ६ ।।

अत्र अनिश्चिते इति योनिविशेषणं किंवा अजा च अवी च एते अनिश्चिते ।। ७ ।।

ननु यद्येवं तदा तित्तिरिरपि धन्वानूपसेवनान्न विष्किरगणे पठनीयः ।। ८ ।।

नैवं तित्तिरिजातिविशेषस्य धन्वानूपयोर् नियमेन निषेवणाद् गुणनियमः पार्यते कर्तुम् अव्यजयोस्तु नियमोऽयं नास्ति यतः केचिदजावी धन्वमात्रचरे केचिच्चानूपमात्रचरे केचिच्चोभयमात्रचरे तेन तयोर् नियमचरकृतो योनिभेदः कर्तुं न पार्यते ।। ९ ।।
)

सामान्येनोपदिष्टानां मांसानां स्वगुणैः पृथक् ।। चसं-१,२७.६३ ।।

केषांचिद् गुणवैशेष्याद् विशेष उपदेक्ष्यते ।
दर्शनश्रोत्रमेधाग्निवयोवर्णस्वरायुषाम् ।। चसं-१,२७.६४ ।।

बर्ही हिततमो बल्यो वातघ्नो मांसशुक्रलः ।
गुरूष्णस्निग्धमधुराः स्वरवर्णबलप्रदाः ।। चसं-१,२७.६५ ।।

बृंहणाः शुक्रलाश्चोक्ता हंसा मारुतनाशनाः ।
स्निग्धाश्चोष्णाश्चवृष्याश् च बृंहणाः स्वरबोधनाः ।। चसं-१,२७.६६ ।।

बल्याः परं वातहराः स्वेदनाश्चरणायुधाः ।
गुरूष्णो मधुरो नातिधन्वानूपनिषेवणात् ।। चसं-१,२७.६७ ।।

तित्तिरिः संजयेच्छीघ्रं त्रीन् दोषाननिलोल्बणान् ।
पित्तश्लेष्मविकारेषु सरक्तेषु कपिञ्जलाः ।। चसं-१,२७.६८ ।।

मन्दवातेषु शस्यन्ते शैत्यमाधुर्यलाघवात् ।
लावाः कषायमधुरा लघवोऽग्निविवर्धनाः ।। चसं-१,२७.६९ ।।

संनिपातप्रशमनाः कटुकाश्च विपाकतः ।
गोधा विपाके मधुरा कषायकटुका रसे ।। चसं-१,२७.७० ।।

वातपित्तप्रशमनी बृंहणी बलवर्धनी ।
शल्लको मधुराम्लश्च विपाके कटुकः स्मृतः ।। चसं-१,२७.७१ ।।

वातपित्तकफघ्नश्च कासश्वासहरस्तथा ।
कषायविशदाः शीता रक्तपित्तनिबर्हणाः ।। चसं-१,२७.७२ ।।

विपाके मधुराश्चैव कपोता गृहवासिनः ।
तेभ्यो लघुतराः किंचित्कपोता वनवासिनः ।। चसं-१,२७.७३ ।।

शीताः संग्राहिणश्चैव स्वल्पमूत्रकराश्च ते ।
शुकमांसं कषायाम्लं विपाके रूक्षशीतलम् ।। चसं-१,२७.७४ ।।

शोषकासक्षयहितं संग्राहि लघु दीपनम् ।
चटका मधुराः स्निग्धा बलशुक्रविवर्धनाः ।। चसं-१,२७.७५ ।।

संनिपातप्रशमनाः शमना मारुतस्य च ।
कषायो विशदो रूक्षः शीतः पाके कटुर्लघुः ।। चसं-१,२७.७६ ।।

शशः स्वादुः प्रशस्तश्च संनिपाते ऽनिलावरे ।
मधुरा मधुराः पाके त्रिदोषशमनाः शिवाः ।। चसं-१,२७.७७ ।।

लघवो बद्धविण्मूत्राः शीताश्चैणाः प्रकीर्तिताः ।
स्नेहनं बृंहणं वृष्यं श्रमघ्नमनिलापहम् ।। चसं-१,२७.७८ ।।

वराहपिशितं बल्यं रोचनं स्वेदनं गुरु ।
गव्यं केवलवातेषु पीनसे विषमज्वरे ।। चसं-१,२७.७९ ।।

शुष्ककासश्रमात्यग्निमांसक्षयहितं च तत् ।
स्निग्धोष्णं मधुरं वृष्यं माहिषं गुरु तर्पणम् ।। चसं-१,२७.८० ।।

दार्ढ्यं बृहत्त्वमुत्साहं स्वप्नं च जनयत्यपि ।
गुरूष्णा मधुरा बल्या बृंहणाः पवनापहाः ।। चसं-१,२७.८१ ।।

मत्स्याः स्निग्धाश्च वृष्याश्च बहुदोषाः प्रकीर्तिताः ।
शैवालशष्पभोजित्वात्स्वप्नस्य च विवर्जनात् ।। चसं-१,२७.८२ ।।

रोहितो दीपनीयश्च लघुपाको महाबलः ।
वर्ण्यो वातहरो वृष्यश्चक्षुष्यो बलवर्धनः ।। चसं-१,२७.८३ ।।

मेधास्मृतिकरः पथ्यः शोषघ्नः कूर्म उच्यते ।
खड्गमांसम् अभिष्यन्दि बलकृन्मधुरं स्मृतम् ।। चसं-१,२७.८४ ।।

स्नेहनं बृंहणं वर्ण्यं श्रमघ्नमनिलापहम् ।
धार्तराष्ट्रचकोराणां दक्षाणां शिखिनामपि ।। चसं-१,२७.८५ ।।

चटकानां च यानि स्युर् अण्डानि च हितानि च ।
क्षीणरेतःसु कासेषु हृद्रोगेषु क्षतेषु च ।। चसं-१,२७.८६ ।।

मधुराण्यविदाहीनि सद्योबलकराणि च ।
शरीरबृंहणे नान्यत्खाद्यं मांसाद्विशिष्यते ।। चसं-१,२७.८७ ।।

इति वर्गस्तृतीयोऽयं मांसानां परिकीर्तितः ।
आयुर्वेददीपिका
(
केषांचिदिति वक्ष्यमाणमयूरादीनाम् ।। १ ।।

गुणवैशेष्यादिति विशिष्टगुणशालित्वात् ।। २ ।।

मयूरस्य गुरुत्वस्निग्धत्वं वर्तकादिगणपठितत्वेनैव लब्धं सत् पुनरुच्यते विशेषार्थम् ।। ३ ।।

एवमन्यत्रापि गणोक्तगुणकथनेन लब्धस्य पुनः कथने व्याख्येयम् ।। ४ ।।

चरणायुधः कुक्कुटः ।। ५ ।।

धन्वानूपनिषेवणादिति हेतुकथनेन य एव धन्वानूपनिषेवी तित्तिरिः स एव यथोक्तगुण इति ज्ञेयम् ।। ६ ।।

एवमन्ये ऽपि ये गवादयो धन्वानूपनिषेविणस् ते ऽपि तित्तिरिसमानगुणा भवन्ति तित्तिरिस्तु विशेषेणेति तित्तिरिः साक्षादुक्तः ।। ७ ।।

किंवा तित्तिरेरेव एवंगुणत्वे धन्वानूपनिषेवणं हेतुः नान्यत्र गवादेर् अनूपदेशादेर् इति ज्ञेयम् ।। ८ ।।

कपोता गृहवासिन इति पारावताः ।। ९ ।।

चटका मधुरा इत्यादि केचित् पठन्त्येव ये तु न पठन्ति तेषां मते चटकस्य प्रतुदसामान्यगुणलब्धं वृष्यत्वं तृप्तिं चटकमांसानां गत्वा यो ऽनुपिबेत् पयः इत्यादिवृष्यप्रयोगादेव लभ्यते ।। १० ।।

मयूरादीनां तु बहवो गुणा गणोक्तगुणाधिका इति पृथक् पाठः कृतः ।। ११ ।।

मांसं बृंहणानाम् इत्यनेनैवाग्र्याधिकारवचनेन मांसस्य बृंहणत्वे लब्धे शरीरबृंहणे नान्य इत्यादिवचनं प्रकरणप्राप्तत्वेन तथा तस्यैवार्थस्य दार्ढ्यार्थं च ज्ञेयम् ।। १२ ।।
)

पाठाशुषाशटीशाकं वास्तुकं सुनिषण्णकम् ।। चसं-१,२७.८८ ।।

विद्याद्ग्राहि त्रिदोषघ्नं भिन्नवर्चस्तु वास्तुकम् ।
त्रिदोषशमनी वृष्या काकमाची रसायनी ।। चसं-१,२७.८९ ।।

नात्युष्णशीतवीर्या च भेदिनी कुष्ठनाशिनी ।
राजक्षवकशाकं तु त्रिदोषशमनं लघु ।। चसं-१,२७.९० ।।

ग्राहि शस्तं विशेषेण ग्रहण्यर्शोविकारिणाम् ।
कालशाकं तु कटुकं दीपनं गरशोफजित् ।। चसं-१,२७.९१ ।।

लघूष्णं वातलं रूक्षं कालायं शाकमुच्यते ।
दीपनी चोष्णवीर्या च ग्राहिणी कफमारुते ।। चसं-१,२७.९२ ।।

प्रशस्यतेऽम्लचाङ्गेरी ग्रहण्यर्शोहिता च सा ।
मधुरा मधुरा पाके भेदिनी श्लेष्मवर्धनी ।। चसं-१,२७.९३ ।।

वृष्या स्निग्धा च शीता च मदघ्नी चाप्युपोदिका ।
रूक्षो मदविषघ्नश्च प्रशस्तो रक्तपित्तिनाम् ।। चसं-१,२७.९४ ।।

मधुरो मधुरः पाके शीतलस्तण्डुलीयकः ।
मण्डूकपर्णी वेत्राग्रं कुचेला वनतिक्तकम् ।। चसं-१,२७.९५ ।।

कर्कोटकावल्गुजकौ पटोलं शकुलादनी ।
वृषपुष्पाणि शार्ङ्गेष्टा केम्बूकं सकठिल्लकम् ।। चसं-१,२७.९६ ।।

नाडी कलायं गोजिह्वा वार्ताकं तिलपर्णिका ।
कौलकं कार्कशं नैम्बं शाकं पार्पटकं च यत् ।। चसं-१,२७.९७ ।।

कफपित्तहरं तिक्तं शीतं कटु विपच्यते ।
आयुर्वेददीपिका
(
शाकानामपि व्यञ्जनत्वेनानन्तरमुपदेशः ।। १ ।।

शुषा कासमर्दः ।। २ ।।

शटी स्वनामप्रसिद्धा ।। ३ ।।

वास्तुकं टङ्कवास्तुकम् ।। ४ ।।

नात्युष्णशीतवीर्येति नोष्णत्वं प्रकर्षप्राप्तमस्या नापि शीतत्वम् इत्यर्थः ।। ५ ।।

यत्तु सुश्रुते तिक्ता काकमाची वातं शमयति उष्णवीर्यत्वात् इत्युक्तं तद्वीर्यवादिमतेन अत एव द्रव्यगुणे सुश्रुतेऽपि नात्युष्णशीता इत्येवमेव पठितम् ।। ६ ।।

राजक्षवकः दुग्धिका ।। ७ ।।

कालशाकं कालिया इति ख्यातं कालाख्यम् इति कालशाकम् एवोच्यते पुनः अन्ये तु कालायम् इति पठन्ति ।। ८ ।।

मण्डूकपर्णी मणिमणीति ख्याता ।। ९ ।।

कुचेला अकर्णविद्धिकाभेदः ।। १० ।।

वनतिक्तकं पथ्यसुन्दरम् ।। ११ ।।

अवल्गुजो वाल्गुजी ।। १२ ।।

शकुलादनी कटुरोहिणी ।। १३ ।।

शार्ङ्गेष्टा काकतिक्ता ।। १४ ।।

कठिल्लकः पुनर्नवा ।। १५ ।।

नाडी नाडीचः ।। १६ ।।

कलायो वर्तुलकलायः ।। १७ ।।

तिलपर्णिका हुलहुलिका ।। १८ ।।

गोजिह्वा दार्विपत्त्रिका ।। १९ ।।

कुलकः कारवेल्लकः केचित् तु कुलकं पटोलभेदम् आहुः ।। २० ।।

कर्कशः स्वल्पकर्कोटकः ।। २१ ।।
)

सर्वाणि सूप्यशाकानि फञ्जी चिल्ली कुतुम्बकः ।। चसं-१,२७.९८ ।।

आलुकानि च सर्वाणि सपत्त्राणि कुटिञ्जरम् ।
शणशाल्मलिपुष्पाणि कर्बुदारः सुवर्चला ।। चसं-१,२७.९९ ।।

निष्पावः कोविदारश्च पत्तूरश् चुच्चुपर्णिका ।
कुमारजीवो लोट्टाकः पालङ्क्या मारिषस् तथा ।। चसं-१,२७.१०० ।।

कलम्बनालिकासूर्यः कुसुम्भवृकधूमकौ ।
लक्ष्मणा च प्रपुन्नाटो नलिनीका कुठेरकः ।। चसं-१,२७.१०१ ।।

लोणिका यवशाकं च कुष्माण्डकम् अवल्गुजम् यातुकः शालकल्याणी त्रिपर्णी पीलुपर्णिका ।। चसं-१,२७.१०२ ।।

शाकं गुरु च रूक्षं च प्रायो विष्टभ्य जीर्यति ।
मधुरं शीतवीर्यं च पुरीषस्य च भेदनम् ।। चसं-१,२७.१०३ ।।

स्विन्नं निष्पीडितरसं स्नेहाढ्यं तत् प्रशस्यते ।
शणस्य कोविदारस्य कर्बुदारस्य शाल्मलेः ।। चसं-१,२७.१०४ ।।

पुष्पं ग्राहि प्रशस्तं च रक्तपित्ते विशेषतः ।
न्यग्रोधोदुम्बराश्वत्थप्लक्षपद्मादिपल्लवाः ।। चसं-१,२७.१०५ ।।

कषायाः स्तम्भनाः शीता हिताः पित्तातिसारिणाम् ।
वायुं वत्सादनी हन्यात्कफं गण्डीरचित्रकौ ।। चसं-१,२७.१०६ ।।

श्रेयसी बिल्वपर्णी च बिल्वपत्त्रं तु वातनुत् ।
भण्डी शतावरीशाकं बला जीवन्तिकं च यत् ।। चसं-१,२७.१०७ ।।

पर्वण्याः पर्वपुष्प्याश्च वातपित्तहरं स्मृतम् ।
लघु भिन्नशकृत्तिक्तं लाङ्गलक्युरुवूकयोः ।। चसं-१,२७.१०८ ।।

तिलवेतसशाकं च शाकं पञ्चाङ्गुलस्य च ।
वातलं कटुतिक्ताम्लमधोमार्गप्रवर्तनम् ।। चसं-१,२७.१०९ ।।

रूक्षाम्लमुष्णं कौसुम्भं कफघ्नं पित्तवर्धनम् ।
त्रपुसैर्वारुकं स्वादु गुरु विष्टम्भि शीतलम् ।। चसं-१,२७.११० ।।

मुखप्रियं च रूक्षं च मूत्रलं त्रपुसं त्व् अति ।
एर्वारुकं च सम्पक्वं दाहतृष्णाक्लमार्तिनुत् ।। चसं-१,२७.१११ ।।

वर्चोभेदीन्यलाबूनि रूक्षशीतगुरूणि च ।
चिर्भटैर्वारुके तद्वद्वर्चोभेदहिते तु ते ।। चसं-१,२७.११२ ।।

सक्षारं पक्वकूष्माण्डं मधुराम्लं तथा लघु ।
सृष्टमूत्रपुरीषं च सर्वदोषनिबर्हणम् ।। चसं-१,२७.११३ ।।

आयुर्वेददीपिका
(
सूप्यशाकानि माषपर्ण्यादीनि ।। १ ।।

फञ्जी ब्राह्मणयष्टिका ।। २ ।।

चिल्ली गौडवास्तुकः ।। ३ ।।

कुतुम्बकः द्रोणपुष्पिका ।। ४ ।।

आलुकानि पिण्डालुकादीनि ।। ५ ।।

कर्बुदारः काञ्चनः ।। ६ ।।

सुवर्चला सूर्यभक्तिका केचित् फप्पुकम् आहुः ।। ७ ।।

पत्तूरः शालिञ्चः ।। ८ ।।

चुच्चुपर्णिका नाडीचभेदः ।। ९ ।।

कुमारजीवः जीवशाकम् ।। १० ।।

लोट्टाकः लोट्टामारिषः ।। ११ ।।

नालिका गोनाडीचः ।। १२ ।।

आसुरी राजिका मण्डको वा ।। १३ ।।

वृकधूमकः भूमिशिरीषः ।। १४ ।।

लक्ष्मणा स्वनामख्याता ।। १५ ।।

नलिनी पद्ममृणालं नीलिनीति पाठपक्षे बुह्ना ।। १६ ।।

यवशाकं क्षेत्रवास्तुकम् ।। १७ ।।

कूष्माण्डः सर्पच्छत्त्रम् ।। १८ ।।

अवल्गुजमिति अवल्गुजभेदः ।। १९ ।।

यातुकः शुक्ला शालपर्णी ।। २० ।।

शालकल्याणी शालिञ्चभेदः ।। २१ ।।

त्रिपर्णी हंसपादिका ।। २२ ।।

पीलुपर्णी मोरटकः ।। २३ ।।

गण्डीरः शमठः ।। २४ ।।

बिल्वपर्णी बिल्वार्जकम् ।। २५ ।।

भण्डी स्वनामख्याता ।। २६ ।।

पर्वणी पर्वशाकम् ।। २७ ।।

पर्वपुष्पी कुक्कुटी ।। २८ ।।

पञ्चाङ्गुलः चित्रैरण्डः ।। २९ ।।

एर्वारुकं राजकर्कटी ।। ३० ।।

कूष्माण्डकं सुश्रुते बाल्याद्यावस्थाभेदेन पठितं तद् अप्यविरुद्धम् एव यतो बालमध्ययोस् तत्र पित्तहरत्वं कफकरत्वं चोक्तं तदपीह पित्तोत्तरे कफोत्तरे संनिपाते बोद्धव्यम् ।। ३१ ।।
)

केलूटं च कदम्बं च नदीमाषकम् ऐन्दुकम् ।
विशदं गुरु शीतं च समभिष्यन्दि चोच्यते ।। चसं-१,२७.११४ ।।

उत्पलानि कषायाणि रक्तपित्तहराणि च ।
तथा तालप्रलम्बं स्याद् उरःक्षतरुजापहम् ।। चसं-१,२७.११५ ।।

खर्जूरं तालशस्यं च रक्तपित्तक्षयापहम् ।
तरूटबिसशालूकक्रौञ्चादनकशेरुकम् ।। चसं-१,२७.११६ ।।

शृङ्गाटकाङ्कलोड्यं च गुरु विष्टम्भि शीतलम् ।
कुमुदोत्पलनालास्तु सपुष्पाः सफलाः स्मृताः ।। चसं-१,२७.११७ ।।

शीताः स्वादुकषायास्तु कफमारुतकोपनाः ।
कषायमीषद्विष्टम्भि रक्तपित्तहरं स्मृतम् ।। चसं-१,२७.११८ ।।

पौष्करं तु भवेद्बीजं मधुरं रसपाकयोः ।
बल्यः शीतो गुरुः स्निग्धस्तर्पणो बृंहणात्मकः ।। चसं-१,२७.११९ ।।

वातपित्तहरः स्वादुर्वृष्यो मुञ्जातकः परम् ।
जीवनो बृंहणो वृष्यः कण्ठ्यः शस्तो रसायने ।। चसं-१,२७.१२० ।।

विदारीकन्दो बल्यश्च मूत्रलः स्वादुशीतलः ।
अम्लिकायाः स्मृतः कन्दो ग्रहण्यर्शोहितो लघुः ।। चसं-१,२७.१२१ ।।

नात्युष्णः कफवातघ्नो ग्राही शस्तो मदात्यये ।
त्रिदोषं बद्धविण्मूत्रं सार्षपं शाकमुच्यते ।। चसं-१,२७.१२२ ।।

तद्वत् स्याद्रक्तनालस्य रूक्षमम्लं विशेषतः ।
तद्वत् पिण्डालुकं विद्यात् कन्दत्वाच्च मुखप्रियम् ।
सर्पच्छत्त्रकवर्ज्यास् तु बह्व्यो ऽन्याश् छत्त्रजातयः ।। चसं-१,२७.१२३ ।।

शीताः पीनसकर्त्र्यश्च मधुरा गुर्व्य एव च ।
चतुर्थः शाकवर्गो ऽयं पत्त्रकन्दफलाश्रयः ।। चसं-१,२७.१२४ ।।

आयुर्वेददीपिका
(
केलूटे हारीतवचनं केलूटं स्वादु विटपं तत्कन्दः स्वादुशीतलः इति ।। १ ।।

कदम्बं कदम्बिकां वदन्ति केचित् तु स्वल्पकदम्बकम् आहुः ।। २ ।।

नदीमाषकः उदीमानक इति ख्यातः ।। ३ ।।

ऐन्दुकं निक्षारः ।। ४ ।।

तालप्रलम्बः तालाङ्कुरः ।। ५ ।।

शस्यशब्देनेह मस्तकमज्जा गृह्यते ।। ६ ।।

तरुटः कह्लारकन्दः ।। ७ ।।

क्रौञ्चादनं धिञ्चुलिका ।। ८ ।।

कशेरुकशब्देन चिञ्चोडका राजकशेरुकश्च गृह्यते ।। ९ ।।

अङ्कालोड्यं ह्रस्वोत्पलकन्दः ।। १० ।।

मुञ्जातक औत्तरापथिककन्दः ।। ११ ।।

अम्लिका स्वल्पविटपा प्रायः कामरूपादौ भवति ।। १२ ।।

सर्पच्छत्त्रं सर्पफणाकारं छत्त्रकम् ।। १३ ।।

अन्याश् छत्त्रजातयः करीषपलालादिजा बहुला ज्ञेयाः ।। १४ ।।

पत्त्रकन्दफलाश्रय इति प्राधान्येन तेन पुष्पाद्याश्रयत्वम् अपि शाकवर्गस्य ज्ञेयम् ।। १५ ।।
)

तृष्णादाहज्वरश्वासरक्तपित्तक्षतक्षयान् ।
वातपित्तमुदावर्तं स्वरभेदं मदात्ययम् ।। चसं-१,२७.१२५ ।।

तिक्तास्यताम् आस्यशोषं कासं चाशु व्यपोहति ।
मृद्वीका बृंहणी वृष्या मधुरा स्निग्धशीतला ।। चसं-१,२७.१२६ ।।

मधुरं बृंहणं वृष्यं खर्जूरं गुरु शीतलम् ।
क्षयेऽभिघाते दाहे च वातपित्ते च तद्धितम् ।। चसं-१,२७.१२७ ।।

तर्पणं बृंहणं फल्गु गुरु विष्टम्भि शीतलम् ।
परूषकं मधूकं च वातपित्ते च शस्यते ।। चसं-१,२७.१२८ ।।

मधुरं बृंहणं बल्यम् आम्रातं तर्पणं गुरु ।
सस्नेहं श्लेष्मलं शीतं वृष्यं विष्टभ्य जीर्यति ।। चसं-१,२७.१२९ ।।

तालशस्यानि सिद्धानि नारिकेलफलानि च ।
बृंहणस्निग्धशीतानि बल्यानि मधुराणि च ।। चसं-१,२७.१३० ।।

मधुराम्लकषायं च विष्टम्भि गुरु शीतलम् ।
पित्तश्लेष्मकरं भव्यं ग्राहि वक्त्रविशोधनम् ।। चसं-१,२७.१३१ ।।

अम्लं परूषकं द्राक्षा बदराण्यारुकाणि च ।
पित्तश्लेष्मप्रकोपीणि कर्कन्धुनिकुचान्यपि ।। चसं-१,२७.१३२ ।।

नात्युष्णं गुरु सम्पक्वं स्वादुप्रायं मुखप्रियम् ।
बृंहणं जीर्यति क्षिप्रं नातिदोषलमारुकम् ।। चसं-१,२७.१३३ ।।

द्विविधं शीतमुष्णं च मधुरं चाम्लमेव च ।
गुरु पारावतं ज्ञेयमरुच्यत्यग्निनाशनम् ।। चसं-१,२७.१३४ ।।

भव्यादल्पान्तरगुणं काश्मर्यफलमुच्यते ।
तथैवाल्पान्तरगुणं तूदम् अम्लं परूषकात् ।। चसं-१,२७.१३५ ।।

कषायमधुरं टङ्कं वातलं गुरु शीतलम् ।
कपित्थमामं कण्ठघ्नं विषघ्नं ग्राहि वातलम् ।। चसं-१,२७.१३६ ।।

मधुराम्लकषायत्वात्सौगन्ध्याच्च रुचिप्रदम् ।
परिपक्वं च दोषघ्नं विषघ्नं ग्राहि गुर्वपि ।। चसं-१,२७.१३७ ।।

बिल्वं तु दुर्जरं पक्वं दोषलं पूतिमारुतम् ।
स्निग्धोष्णतीक्ष्णं तद्बालं दीपनं कफवातजित् ।। चसं-१,२७.१३८ ।।

रक्तपित्तकरं बालमापूर्णं पित्तवर्धनम् ।
पक्वमाम्रं जयेद्वायुं मांसशुक्रबलप्रदम् ।। चसं-१,२७.१३९ ।।

कषायमधुरप्रायं गुरु विष्टम्भि शीतलम् ।
जाम्बवं कफपित्तघ्नं ग्राहि वातकरं परम् ।। चसं-१,२७.१४० ।।

बदरं मधुरं स्निग्धं भेदनं वातपित्तजित् ।
तच्छुष्कं कफवातघ्नं पित्ते न च विरुध्यते ।। चसं-१,२७.१४१ ।।

कषायमधुरं शीतं ग्राहि सिम्बितिकाफलम् ।
गाङ्गेरुकी करीरं च बिम्बी तोदनधन्वनम् ।। चसं-१,२७.१४२ ।।

मधुरं सकषायं च शीतं पित्तकफापहम् ।
सम्पक्वं पनसं मोचं राजादनफलानि च ।। चसं-१,२७.१४३ ।।

स्वादूनि सकषायाणि स्निग्धशीतगुरूणि च ।
कषायविशदत्वाच्च सौगन्ध्याच्च रुचिप्रदम् ।। चसं-१,२७.१४४ ।।

अवदंशक्षमं हृद्यं वातलं लवलीफलम् ।
नीपं शताह्वकं पीलु तृणशून्यं विकङ्कतम् ।। चसं-१,२७.१४५ ।।

प्राचीनामलकं चैव दोषघ्नं गरहारि च ।
ऐङ्गुदं तिक्तमधुरं स्निग्धोष्णं कफवातजित् ।। चसं-१,२७.१४६ ।।

तिन्दुकं कफपित्तघ्नं कषायं मधुरं लघु ।
विद्याद् आमलके सर्वान् रसांल्लवणवर्जितान् ।। चसं-१,२७.१४७ ।।

रूक्षं स्वादु कषायं कफपित्तहरं परम् ।
रसासृङ्मांसमेदोजान्दोषान् हन्ति विभीतकम् ।। चसं-१,२७.१४८ ।।

स्वरभेदकफोत्क्लेदपित्तरोगविनाशनम् ।
अम्लं कषायमधुरं वातघ्नं ग्राहि दीपनम् ।। चसं-१,२७.१४९ ।।

स्निग्धोष्णं दाडिमं हृद्यं कफपित्तविरोधि च ।
रूक्षाम्लं दाडिमं यत्तु तत्पित्तानिलकोपनम् ।। चसं-१,२७.१५० ।।

मधुरं पित्तनुत्तेषां पूर्वं दाडिममुत्तमम् ।
वृक्षाम्लं ग्राहि रूक्षोष्णं वातश्लेष्मणि शस्यते ।। चसं-१,२७.१५१ ।।

अम्लिकायाः फलं पक्वं तस्मादल्पान्तरं गुणैः ।
गुणैस् तैर् एव संयुक्तं भेदनं त्व् अम्लवेतसम् ।। चसं-१,२७.१५२ ।।

शूले ऽरुचौ विबन्धे च मन्दे ऽग्नौ मद्यविप्लवे ।
हिक्काश्वासे च कासे च वम्यां वर्चोगदेषु च ।। चसं-१,२७.१५३ ।।

वातश्लेष्मसमुत्थेषु सर्वेष्वेवोपदिश्यते ।
केसरं मातुलुङ्गस्य लघु शेषमतोऽन्यथा ।। चसं-१,२७.१५४ ।।

रोचनो दीपनो हृद्यः सुगन्धिस्त्वग्विवर्जितः ।
कर्चूरः कफवातघ्नः श्वासहिक्कार्शसां हितः ।। चसं-१,२७.१५५ ।।

मधुरं किंचिदम्लं च हृद्यं भक्तप्ररोचनम् ।
दुर्जरं वातशमनं नागरङ्गफलं गुरु ।। चसं-१,२७.१५६ ।।

वातामाभिषुकाक्षोटमुकूलकनिकोचकाः ।
गुरूष्णस्निग्धमधुराः सोरुमाणा बलप्रदाः ।। चसं-१,२७.१५७ ।।

वातघ्ना बृंहणा वृष्याः कफपित्ताभिवर्धनाः ।
प्रियालमेषां सदृशं विद्यादौष्ण्यं विना गुणैः ।। चसं-१,२७.१५८ ।।

श्लेष्मलं मधुरं शीतं श्लेष्मातकफलं गुरु ।
श्लेष्मलं गुरु विष्टम्भि चाङ्कोटफलमग्निजित् ।। चसं-१,२७.१५९ ।।

गुरूष्णं मधुरं रूक्षं केशघ्नं च शमीफलम् ।
विष्टम्भयति कारञ्जं वातश्लेष्माविरोधि च ।। चसं-१,२७.१६० ।।

आम्रातकं दन्तशठम् अम्लं सकरमर्दकम् ।
रक्तपित्तकरं विद्यादैरावतकम् एव च ।। चसं-१,२७.१६१ ।।

वातघ्नं दीपनं चैव वार्ताकं कटु तिक्तकम् ।
वातलं कफपित्तघ्नं विद्यात्पर्पटकीफलम् ।। चसं-१,२७.१६२ ।।

पित्तश्लेष्मघ्नमम्लं च वातलं चाक्षिकीफलम् ।
मधुराण्यम्लपाकीनि पित्तश्लेष्महराणि च ।। चसं-१,२७.१६३ ।।

अश्वत्थोदुम्बरप्लक्षन्यग्रोधानां फलानि च ।
कषायमधुराम्लानि वातलानि गुरूणि च ।। चसं-१,२७.१६४ ।।

भल्लातकास्थ्यग्निसमं तन्मांसं स्वादु शीतलम् ।
पञ्चमः फलवर्गो ऽयमुक्तः प्रायोपयोगिकः ।। चसं-१,२७.१६५ ।।

आयुर्वेददीपिका
(
फलानामपि केषांचिच्छाकवद् उपयोगात् फलवर्गम् आह ।। १ ।।

मृद्वीकाग्रे ऽभिधीयते श्रेष्ठगुणत्वात् ।। २ ।।

फल्गु औदुम्बरम् ।। ३ ।।

मधूकशब्देन समानगुणत्वात् फलं कुसुमं च ज्ञेयम् ।। ४ ।।

परूषकं चेह मधुरपरूषकं ज्ञेयम् ।। ५ ।।

आम्रातम् आमडा इति ख्यातमाम्रफलसदृशम् इति चन्द्रिका एतच्च द्विविधं मधुरमम्लं च अत्र मधुरस्यैव गुणः अम्लस्य वक्ष्यमाणत्वात् ।। ६ ।।

तालशस्यानीति तालफलानि यथा हरीतकीनां शस्यानि इत्यत्र फलमेव शस्यम् उच्यते ।। ७ ।।

सिद्धानि पक्वानि तेन पक्वतालस्य ग्रहणम् ।। ८ ।।

भव्यं कर्मरङ्गफलं केचित् त्वक्संहितमात्रफलं वदन्ति ।। ९ ।।

आरुकं कार्त्तिकेयपुरे प्रसिद्धम् ।। १० ।।

कर्कन्धूः शृगालबदरी कर्कन्धूनिकुचयोर् विच्छिद्य पाठेन नित्यं पित्तश्लेष्मकर्तृत्वं तयोर् दर्शयति ।। ११ ।।

परूषकादीनां तु मधुराम्लभेदेन द्विरूपाणां य एव परूषकादयो ऽम्लास्त एव पित्तश्लेष्मकरा इति ।। १२ ।।

पारावतः कामरूपप्रसिद्धः ।। १३ ।।

अत्र यो मधुरः स शीतः यश्चाम्लः स उष्ण इति ज्ञेयम् ।। १४ ।।

एवं रसनिर्देशेनैव वीर्ये लब्धेऽपि पुनर्वीर्याख्यानमम्लस्यामलकस्य शीततादर्शनाद् बोद्धव्यम् ।। १५ ।।

टङ्कं काश्मीरप्रसिद्धम् ।। १६ ।।

सिद्धम् इति कालवशात् पक्वम् ।। १७ ।।

कपित्थबिल्वाम्राणाम् अवस्थाभेदेन गुणकथनं सर्वावस्थासु तेषामुपयोज्यत्वात् ।। १८ ।।

बदरं मध्यप्रमाणं तद्धि मधुरमेव भवति ।। १९ ।।

गाङ्गेरुकं नागबलाफलम् ।। २० ।।

करीरो मरुजो द्रुमः ।। २१ ।।

तोदनं धन्वनभेदः ।। २२ ।।

राजादनं क्षीरी ।। २३ ।।

अवदंशक्षममिति लवलीफलं प्राश्य द्रव्यान्तरे रुचिर् भवति ।। २४ ।।

नीपं कदम्बकम् ।। २५ ।।

शताह्वकफलं सेह इति ख्यातम् ।। २६ ।।

पीलु औत्तरापथिकम् ।। २७ ।।

तृणशून्यं केतकीफलम् ।। २८ ।।

प्राचीनामलकं पानीयामलकम् ।। २९ ।।

तिन्दुकं केन्दुः ।। ३० ।।

दाडिमगुणे कफपित्ताविरोधीति अम्लदाडिमं पित्ताविरोधि मधुरं तु कफाविरोधि एवं च त्रिदोषहरत्वमस्योपपन्नं यद् उक्तं सुश्रुते द्विविधं तत्तु विज्ञेयं मधुरं चाम्लमेव च ।। ३१ ।।

त्रिदोषघ्नं तु मधुरमम्लं वातकफापहम् इति ।। ३२ ।।

वृक्षाम्लं महार्द्रकम् ।। ३३ ।।

अम्लिका तिन्तिडी ।। ३४ ।।

शेषमिति त्वङ्मांसम् अतोऽन्यथेति गुरु किंवा शूले ऽरुचाव् इत्याद्युक्तकेसरगुणविपरीतम् ।। ३५ ।।

वातामादय औत्तरापथिकाः ।। ३६ ।।

प्रियालोऽयं मगधप्रसिद्धः ।। ३७ ।।

दन्तशठः जम्बीरः केचिद् अम्लोटं वदन्ति ।। ३८ ।।

इहाम्रातकमम्लं ग्राह्यं पूर्वं तु मधुरमाम्रातकम् उक्तम् ।। ३९ ।।

करमर्दं द्विविधं ग्रामजं वनजं च ।। ४० ।।

ऐरावतम् अम्लातकं किंवा नागरङ्गम् ।। ४१ ।।

वार्ताकं दक्षिणापथे फलवत् खाद्यते यद् गोष्ठवार्ताकसंज्ञकं तस्येह गुणः किंवा फलवदसिद्धस्यैव वार्ताकस्योपयोज्यस्यायं गुणः ।। ४२ ।।

आक्षिकी लता तस्याः फलम् आक्षिकम् ।। ४३ ।।

अनुपाकि अनुया इति ख्याता ।। ४४ ।।

अग्निसमम् इति स्फोटादिजनकत्वात् ।। ४५ ।।
)

रोचनं दीपनं वृष्यम् आर्द्रकं विश्वभेषजम् ।
वातश्लेष्मविबन्धेषु रसस्तस्योपदिश्यते ।। चसं-१,२७.१६६ ।।

रोचनो दीपनस् तीक्ष्णः सुगन्धिर्मुखशोधनः ।
जम्बीरः कफवातघ्नः क्रिमिघ्नो भक्तपाचनः ।। चसं-१,२७.१६७ ।।

बालं दोषहरं वृद्धं त्रिदोषं मारुतापहम् ।
स्निग्धसिद्धं विशुष्कं तु मूलकं कफवातजित् ।। चसं-१,२७.१६८ ।।

हिक्काकासविषश्वासपार्श्वशूलविनाशनः ।
पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धहा ।। चसं-१,२७.१६९ ।।

यवानी चार्जकश्चैव शिग्रुशालेयमृष्टकम् ।
हृद्यान्य् आस्वादनीयानि पित्तमुत्क्लेशयन्ति च ।। चसं-१,२७.१७० ।।

गण्डीरो जलपिप्पल्यस्तुम्बरुः शृङ्गवेरिका ।
तीक्ष्णोष्णकटुरूक्षाणि कफवातहराणि च ।। चसं-१,२७.१७१ ।।

पुंस्त्वघ्नः कटुरूक्षोष्णो भूस्तृणो वक्त्रशोधनः ।
खराह्वा कफवातघ्नी वस्तिरोगरुजापहा ।। चसं-१,२७.१७२ ।।

धान्यकं चाजगन्धा च सुमुखश्चेति रोचनाः ।
सुगन्धा नातिकटुका दोषानुत्क्लेशयन्ति च ।। चसं-१,२७.१७३ ।।

ग्राही गृञ्जनकस्तीक्ष्णो वातश्लेष्मार्शसां हितः ।
स्वेदनेऽभ्यवहारे च योजयेत् तम् अपित्तिनाम् ।। चसं-१,२७.१७४ ।।

श्लेष्मलो मारुतघ्नश्च पलाण्डुर्न च पित्तनुत् ।
आहारयोगी बल्यश्च गुरुर्वृष्योऽथ रोचनः ।। चसं-१,२७.१७५ ।।

क्रिमिकुष्ठकिलासघ्नो वातघ्नो गुल्मनाशनः ।
स्निग्धश्चोष्णश्च वृष्यश्च लशुनः कटुको गुरुः ।। चसं-१,२७.१७६ ।।

शुष्काणि कफवातघ्नान्य् एतान्य् एषां फलानि च ।
हरितानामयं चैष षष्ठो वर्गः समाप्यते ।। चसं-१,२७.१७७ ।।

आयुर्वेददीपिका
(
हरितानाम् अप्यार्द्रकादीनां फलवदग्निपाकम् अन्तरेण भोजनस्य प्राक् पश्चाच्चोपयोगात् फलम् अनु हरितकथनं फलेभ्यस्तु पश्चादभिधानं हरितस्य तृप्त्यनाधायकत्वात् ।। १ ।।

आर्द्रकमिति विशेषणं शुण्ठीव्यावृत्त्यर्थं शुण्ठीगुणश्चाहारसंयोगिवर्गे भविष्यति ।। २ ।।

जम्बीरः पर्णासभेदः जम्बीरफलं सुगन्धि ।। ३ ।।

बालं दोषहरमिति तरुणावस्थायामव्यक्तरसायां त्रिदोषहरम् ।। ४ ।।

तन्त्रान्तरवचनं हि यावद्धि चाव्यक्तरसान्वितानि नवप्ररूढानि च मूलकानि भवन्ति तावल्लघुदीपनानि पित्तानिलश्लेष्महराणि चैव ।। ५ ।।

वृद्धं त्रिदोषमिति तदेवप्रवृद्धम् एनामेव मूलकावस्थाम् अभिप्रेत्य चोक्तं मूलकं कन्दानामपथ्यत्वे प्रकृष्टतमम् इति मारुतापहं स्निग्धसिद्धमिति सामान्येन बालं वृद्धं च ।। ६ ।।

शुष्काणि कफवातघ्नान्येतानि इति वक्ष्यमाणग्रन्थेनैव शुष्ककस्य कफवातहन्तृत्वे लब्धे पुनर्वचनं प्रकर्षप्राप्त्यर्थम् ।। ७ ।।

पूतिगन्धहेति शरीरस्य तथा व्यञ्जनार्थं मांसस्य च पूतिगन्धतां हन्ति ।। ८ ।।

अर्जकः श्वेतपर्णासः ।। ९ ।।

शिग्रुः विटपशोभाञ्जनः शालेयश् चाणक्यमूलं मरौ प्रसिद्धं किंवा शालेयम् इति मिस्तेयं पाटकप्रसिद्धं वचनं हि चाणक्यमूलमिस्तेये शालेयाभिख्यया जगुः इति मृष्टकं राजिका ।। १० ।।

गण्डीरो द्विविधो रक्तः शुक्लश्च तत्र यो रक्तः स हि कटुत्वेन हरितवर्गे पठ्यते यस्तु शुक्लो जलजः स शाकवर्गे पठित इति नैकस्य वर्गद्वये पाठः ।। ११ ।।

जलपिप्पली जले पिप्पल्याकारा भवति ।। १२ ।।

शृङ्गवेरी गोजिह्विका किंवा आर्द्रकाकृतिः शृङ्गवेरी यदुक्तं शृङ्गवेरवद् आकृत्या शृङ्गवेरीति भाषिता ।। १३ ।।

कुस्तुम्बुरुसमाकृत्या तुम्बुरूणि वदन्ति च इति ।। १४ ।।

भूस्तृणो गन्धतृणः ।। १५ ।।

खराह्वा कृष्णजीरकम् ।। १६ ।।

अजगन्धा वनयवानी ।। १७ ।।

सुमुखः पर्णासभेदः ।। १८ ।।

अयं च धान्यकादीनाम् आर्द्राणां गुणः शुष्काणां त्व् आहारयोगिगणे कारवी कुञ्चिका इत्यादिना गुणं निर्देक्ष्यति ।। १९ ।।

गृञ्जनकः स्वल्पनालपत्त्रः पलाण्डुर् एव ।। २० ।।

एतानीति हरितवर्गोक्तानि ।। २१ ।।

शुष्काणीत्यादिना यद्यपि शुष्काणाम् अपि शुण्ठीप्रभृतीनां गुण उक्तो भवति तथापि विशेषगुणान्तरकथनार्थं पुनस्तदभिधानम् आहारसंयोगिवर्गे भविष्यतीति न पौनरुक्त्यम् ।। २२ ।।
)

चरकसंहिता, सूत्रस्थान, २८ [विविधाशितपीतीय)
अथातो विविधाशितपीतीयमध्यायं व्याख्यास्यामः ।। चसं-१,२८.१ ।।

इति ह स्माह भगवानात्रेयः ।। चसं-१,२८.२ ।।

आयुर्वेददीपिका
(
पूर्वाध्याये अन्नं प्राणाः इत्युक्तं तद्येन प्रकारेणान्नं प्राणहेतुर् भवति तदभिधानार्थं विविधाशितपीतीयो ऽभिधीयते ।। १ ।।

इयम् अप्यर्थपरा संज्ञा ।। २ ।।
)

विविधम् अशितं पीतं लीढं खादितं जन्तोर्हितम् अन्तरग्निसंधुक्षितबलेन यथास्वेनोष्मणा सम्यग्विपच्यमानं कालवद् अनवस्थितसर्वधातुपाकम् अनुपहतसर्वधातूष्ममारुतस्रोतः केवलं शरीरमुपचयबलवर्णसुखायुषा योजयति शरीरधातून् ऊर्जयति च ।
धातवो हि धात्वाहाराः प्रकृतिमनुवर्तन्ते ।। चसं-१,२८.३ ।।

आयुर्वेददीपिका
(
विविधमित्यादि ।। १ ।।

विविधमिति अनेनाशितादीनामवान्तरभेदं दर्शयति अशितादिषु यो यः प्राय उपयुज्यते स पूर्वम् उक्तः ।। २ ।।

जन्तोर् हितम् इति वचनम् अहितस्याशितादेर् बलवर्णादिकर्तृत्वाभावात् ।। ३ ।।

अन्तरग्निना जाठरेण वह्निना संधुक्षितं बलं यस्य तेनान्तरग्निसंधुक्षितबलेन ।। ४ ।।

यथास्वेनोष्मणेति पृथिव्यादिरूपाशितादेयस्य य ऊष्मा पार्थिवाग्न्यादिरूपस्तेन वचनं हि भौमाप्याग्नेयवायव्याः पञ्चोष्माणः सनाभसाः ।। ५ ।।

पञ्चाहारगुणान् स्वान् स्वान् पार्थिवादीन् पचन्ति हि इति ।। ६ ।।

सम्यग्विपच्यमानम् इति अशितादि ।। ७ ।।

किंवा यथास्वेनोष्मणेति यस्य रुधिरादेर् य ऊष्मा धात्वग्निरूपस्तेन सम्यग्विपच्यमानमशितादि रसताम् आपन्नं यदा रक्तादिधातून् प्रतिपद्यते तदा रक्ताद्यूष्मणैव पच्यते एवं विपच्यमानमशितादि शरीरमुपचयादिना योजयत्यूर्जयति वर्धयतीति योजना ।। ८ ।।

किंविशिष्टं शरीरम् इत्याह कालवद् इत्यादि ।। ९ ।।

यथा कालो नित्यगत्वेनानवस्थितः तथानवस्थितः अविश्रान्तः सर्वधातूनां पाको यस्मिन् शरीरे तत्तथा एतेन सर्वदा स्वाग्निपाकक्षीयमाणधातोः शरीरस्याशितादिनोपचयादियोजनम् उपपन्नमिति दर्शयति यदि हि पाकक्षीयमाणं शरीरं न स्यात्तदा स्वतः सिद्धे उपचयादौ किमशितादि कुर्याद् इति भावः ।। १० ।।

किंवा कालवदित्यशितादिविशेषणं तेन यथोक्तकालकृतम् अशितादीत्यर्थः अकालभोजनस्योपचयाद्यकारकत्वात् ।। ११ ।।

तथा अनवस्थितसर्वधातुपाकमित्येतदपि अशितादिविशेषणं तेन अनवस्थितः सर्वधातुषु पाको यस्याशितादेस्तत्तथा एतेन क्वचिदपि धातौ स्थगितस्याशितादे रसरूपस्य पाकविगमनान् नोपचयादिर् भवतीति दर्शयति ।। १२ ।।

एतच्च व्याख्यानं नातिसुन्दरम् अस्यार्थस्य अनुपहतेत्यादिशरीरविशेषणेनैव लब्धत्वात् पुनः शरीरविशेषणम् अनुपपन्नम् ।। १३ ।।

अनुपहतेत्यादि अनुपहतानि सर्वधातूनाम् ऊष्ममारुतस्रोतांसि यस्य तत्तथा यदा हि एको ऽपि धातुपाचकोऽग्निरुपहतः मारुतो वा धातुपोषकरसवाही व्यानरूपः क्वचिद् उपहतो भवति तथा स्रोतो वा धातुपोषकरसवहम् उपहतं स्यात् तदा अशितादिकं धातूनाम् अवर्धकत्वान्नोपचयादिकारकम् इति भावः ।। १४ ।।

केवलमिति कृत्स्नं शरीरं किंवा केवलमिति अधर्मरहितम् अधर्मयुक्ते हि शरीरे विफलमशितादि भवतीति ।। १५ ।।

ननु शरीरधातूनां प्रकृतिस्थितानां स्वत एवोपचयाद्यस्ति तत् किमशितादिना क्रियत इत्याह धातवो हीत्यादि ।। १६ ।।

धातुराहारो येषां ते धात्वाहाराः धातवो रसादयो नित्यं क्षीयमाणा अशितादिजनितधात्वाहारा एव सन्तः परं स्वास्थ्यमनुवर्तन्ते नान्यथेत्यर्थः ।। १७ ।।
)

तत्राहारप्रसादाख्यो रसः किट्टं च मलाख्यम् अभिनिर्वर्तते ।
किट्टात् स्वेदपुरीषवातपित्तश्लेष्माणः कर्णाक्षिनासिकास्यलोमकूपप्रजननमलाः केशश्मश्रुलोमनखादयश् चावयवाः पुष्यन्ति ।
पुष्यन्ति त्व् आहाररसाद् रसरुधिरमांसमेदोऽस्थिमज्जशुक्रौजांसि पञ्चेन्द्रियद्रव्याणि धातुप्रसादसंज्ञकानि शरीरसंधिबन्धपिच्छादयश् चावयवाः ।
ते सर्व एव धातवो मलाख्याः प्रसादाख्याश्च रसमलाभ्यां पुष्यन्तः स्वं मानमनुवर्तन्ते यथावयःशरीरम् ।
एवं रसमलौ स्वप्रमाणावस्थिताव् आश्रयस्य समधातोर्धातुसाम्यम् अनुवर्तयतः ।
निमित्ततस्तु क्षीणवृद्धानां प्रसादाख्यानां धातूनां वृद्धिक्षयाभ्याम् आहारमूलाभ्यां रसः साम्यम् उत्पादयत्यारोग्याय किट्टं च मलानामेवमेव ।
स्वमानातिरिक्ताः पुनरुत्सर्गिणः शीतोष्णपर्यायगुणैश् चोपचर्यमाणा मलाः शरीरधातुसाम्यकराः समुपलभ्यन्ते ।। चसं-१,२८.४ ।।

आयुर्वेददीपिका
(
यो ऽसौ धातूनामाहारस्तमाह तत्रेत्यादि ।। १ ।।

तत्रेति अशितादौ ।। २ ।।

रसः किट्टं चाभिनिवर्तत इत्यन्वयः ।। ३ ।।

आहारप्रसाद इत्याख्या यस्य स तथा प्रसादः सारः ।। ४ ।।

किट्टम् असारभागः ।। ५ ।।

किट्टाद् इति किट्टांशात् तेन अन्नाद्यः किट्टांशस् ततो मूत्रपुरीषे भवतो वायुश्च रसात् पच्यमानान्मलः कफः एवमादि ग्रहण्यध्याये वक्ष्यमाणम् अनुसर्तव्यं वक्ष्यति हि ।
किट्टमन्नस्य विण्मूत्रं रसस्य तु कफो ऽसृजः ।
पित्तं मांसस्य स्वमलो मलः स्वेदस्तु मेदसः ।। ६ ।।

स्यात् किट्टं केशलोमास्थ्नो मज्ज्ञः स्नेहोऽक्षिविट् त्वचाम् ।
इति ।। ७ ।।

आदिग्रहणाद् अक्षिस्नेहादि ग्राह्यम् ।। ८ ।।

यद्यपि च वातोऽनशनाद् अप्युपलभ्यते तथापि रूक्षकिट्टादिभोजनमलांशाद् अप्युत्पद्यत एवेति किट्टाद्वातोत्पत्तिर्युक्तैव न चायं नियमो यन्मलादेवोत्पद्यत इति व्यायामादवगाहादेरपि च वातादिसद्भावात् ।। ९ ।।

प्रजननं लिङ्गम् ।। १० ।।

रसपोष्यम् आह पुष्यन्ति त्व् इत्यादि ।। ११ ।।

पञ्चेन्द्रियद्रव्याणीति पृथिव्यादीनि घ्राणादीनीन्द्रियकारणानि ।। १२ ।।

धातुप्रसादसंज्ञकाणीति अत्यर्थशुद्धेनैव धातुप्रसादेनेन्द्रियाण्यारभ्यन्त इति दर्शयति ।। १३ ।।

शरीरं बध्नातीति शरीरबन्धः स्नायुसिरादिभिः ।। १४ ।।

आदिग्रहणाद् आर्तवस्तन्यादिग्रहणम् ।। १५ ।।

अत्राहाररसाद् रक्तादिपोषणे केचिद् ब्रुवते यत् रसो रक्तरूपतया परिणमति रक्तं च मांसरूपतया एवं मांसादयो ऽप्युत्तरोत्तरधातुरूपतया परिणमन्ति ।। १६ ।।

अत्रापि च पक्षे केचिद् ब्रुवते क्षीराद् यथा सर्वात्मना दधि भवति तथा कृत्स्नो रसो रक्तं भवति एवं रक्तादयोऽपि मांसादिरूपा भवन्ति ।। १७ ।।

अन्ये त्व् आहुः केदारीकुल्यान्यायेन रसस्य धातुपोषणं तत्रान्नादुत्पन्नो रसो धातुरूपं रसमधिगम्य कियताप्यंशेन तं रसं वर्धयति अपरश्च रसराशिस्तत्र गतः सन् शोणितगन्धवर्णयुक्तत्वाच्छोणितम् इव भूत्वा कियतापि शोणितसमानेनांशेन धातुरूपं शोणितं पुष्णाति शेषश्च भागो मांसं याति तत्रापि शोणितवद्व्यवस्था तथा मेदःप्रभृतिष्वपीति ।। १८ ।।

अत एव च मुख्यार्थो ऽयं ग्रन्थो भवति यथा ।
रसाद् रक्तं ततो मांसं मांसान्मेदस्ततोऽस्थि च ।
अस्थ्नो मज्जा ततः शुक्रं शुक्राद्गर्भः प्रसादजः ।। १९ ।।

इति तथा हारीतेऽप्युक्तं रसः सप्ताहादर्वाक् परिवर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश् चायं यथाक्रमं दिवसपरिवर्ताद् वर्णपरिवर्तम् आपद्यमानः पित्तोष्मोपरागाच्छोणितत्वम् आपद्यते इति तथा सुश्रुते ऽप्युक्तं स खल्वाप्यो रस एकैकस्मिन् धातौ त्रीणि त्रीणि कलासहस्राणि पञ्चदश च कला अवतिष्ठते एवं मासेन रसः शुक्रीभवति इति ।। २० ।।

अन्ये त्व् आहुः खलेकपोतन्यायेनायम् अन्नरसः पृथक् पृथग् धातुमार्गे गतः सन् रसादीन् पोषयति न त्व् अस्य धातुपोषको रसभागो धात्वन्तरेण समं सम्बन्धम् अप्यनुभवति रसादिपोषकानि स्रोतांस्युत्तरोत्तरं सूक्ष्ममुखानि दीर्घाणि च तेनैव रसपोषकरसभागो रसमार्गचारित्वाद् रसं पोषयति एवं रसपोषणकालाद् उत्तरकालं रक्तपोषको रसभागो रक्तं पोषयति तथा शोणितपोषणकालाद् उत्तरकालं मांसपोषको रसभागो मांसं पोषयति विदूरसूक्ष्ममार्गचारित्वात् एवं मेदःप्रभृतिपोषणेऽपि ज्ञेयम् ।। २१ ।।

तेन रसाद् रक्तं ततो मांसम् इत्यादेर् अयम् अर्थो यत्र रसपुष्टिकालाद् उत्तरकालं रक्तं जायते तथा रक्तपुष्टिकालाद् उत्तरकालं मांसं प्रजायते इत्यादि ।। २२ ।।

एवं सुश्रुतहरीतवचने अपि व्याख्येये ।। २३ ।।

यच्च रक्तं विबद्धमार्गत्वान् मांसादीन्न प्रपद्यते इति राजयक्ष्मणि वक्ष्यति तद्धृदयचारिशोणिताभिप्रायेण न तु पोषकशोणिताभिप्रायेण ।। २४ ।।

किंच परिणामपक्षे वृष्यप्रयोगस्य रक्तादिरूपतापत्तिक्रमेणातिचिरेण शुक्रं भवतीति क्षीरादयश्च सद्य एव वृष्या दृश्यन्ते खलेकपोतपक्षे तु वृष्योत्पन्नो रसः प्रभावाच्छीघ्रमेव शुक्रेण सम्बद्धः सन् तत्पुष्टिं करोतीति युक्तं तथा रसदुष्टौ सत्यां परिणामपक्षे तज्जन्मनां शोणितादीनां सर्वेषामेव दुष्टिः स्यात् दुष्टकारणजातत्वात् ।। २५ ।।

खलेकपोतपक्षे तु यद्धातुपोषको रसभागो दुष्टः स एव दुष्यति न सर्वे तदितरेषामदुष्टकारणत्वात् तथा मेदोवृद्धौ सत्यां भूरिकारणत्वेनास्थ्नापि भूयसा भवितव्यं दृश्यते च भूरिमेदस इतरधातुपरिक्षयः वचनं च मेदस्विनो मेद एवोपचीयते न तथेतरे धातवः इति एवमादि परिणामवादे दूषणम् ।। २६ ।।

एषु च पक्षेषु सर्वात्मपरिणामवादो विरुद्ध एव येन सर्वात्मपरिणामे त्रिचतुरोपवासेनैव नीरसत्वाच्छरीरस्य मरणं स्यात् मासोपवासे केवलं शुक्रमयं शरीरं स्यात् ।। २७ ।।

केदारीकुल्यान्यायस् तु तुल्यबल एव खलेकपोतन्यायेन यतो यद् उक्तं वृष्यप्रभावं प्रति तत् केदारीकुल्यापक्षेऽपि प्रभावादेव शीघ्रं रक्तादिधातूनभिगम्य शुक्रं जनयिष्यति वृष्यं यथा खलेकपोतपक्षेऽपि प्रभवादिति ।। २८ ।।

यत्तु रसदुष्टौ शोणितदूषणं तन्न भवति धातुभूतशोणितांशपोषकस्य रसभागस्यादुष्टत्वात् इति समानं पूर्वेण ।। २९ ।।

अत्रापि हि पक्षे न सर्वो रसो धातुरूपशोणितताम् आपद्यते किं तर्हि कश्चिदेव शोणितसमानो भागः शेषस्तु शोणितस्थानगतत्वेन किंचिच्छोणितसमानवर्णादित्वाच्च शोणितम् उच्यते अनेन न्यायेन मेदोवृद्धौ सत्यामस्थिवृद्धिर् अपि निरस्ता यतो न मेदसा अस्थि पोष्यते अपि तर्हि मेदःस्थानगतेनैव रसेन मेदोऽनुकारिणा ।। ३० ।।

एवमनयोः पक्षयोर्महाजनादृतत्वेन तुल्यन्यायत्वेन च नैकमपि निश्चितं बुद्धिविभवान्न पक्षबलाबलम् अत्र न कश्चित् कार्यविरोध इत्युपरम्यते ।। ३१ ।।

नन्वाहाररसादयः पुष्यन्तीति वदता धातुरसादाहाररसोत्पादः पृथक् स्वीक्रियते ततश्च तस्य किं स्थानं किंवा प्रमाणम् इति किमिति नोक्तम् उच्यते न तस्याहारोत्कर्षापकर्षाव् एवंविधौ उत्कर्षापकर्षस्य निश्चितप्रमाणत्वाभावात् स्थानं तु धमन्य एव ।। ३२ ।।

पोषकाहाररसस्य तस्य च पृथग्रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते रसादिकारणरूपतया रसादिग्रहणेनैव ग्रहणात् ।। ३३ ।।

अत्र यद्यप्योजः सप्तधातुसाररूपं तेन धातुग्रहणेनैव लभ्यते तथापि प्राणधारणकर्तृत्वेन पृथक् पठितं ये तु शुक्रजन्यमोज इच्छन्ति तेषामष्टमो धातुरोजः स्यादिति पक्षे चातिदेशं कृत्वा वक्ष्यति रसादीनां शुक्रान्तानां यत् परं तेजः तत् खल्वोजः इति ।। ३४ ।।

उपपादितपोषणानां धातुमलानां प्रकृत्यनुविधानम् उपसंहरति ते सर्व इत्यादि ।। ३५ ।।

मलाख्या अपि स्वेदमूत्रादयः स्वमानावस्थिता देहधारणाद्धातवो भवन्तीत्युक्तं धातवो मलाख्या इति ।। ३६ ।।

यथावयःशरीरम् इति यस्मिन् वयसि बाल्यादौ यादृशं मानं धातूनां तादृशं पुष्यन्तः तथा यस्मिन् शरीरे प्रकृत्या दीर्घे ह्रस्वे कृशे वा स्थूले वा यादृशं मानं धातूनां तादृशं पुष्यन्त इति योजना ।। ३७ ।।

एवम् इत्यादौ स्वप्रमाणावस्थिताव् इति अनतिरिक्ताव् अन्यूनौ च ।। ३८ ।।

आश्रयस्येति शरीरस्य यथावत्पक्वौ सर्वाश्रयं पश्चाद्धमनीभिः प्रपद्येते सर्वशरीरम् इत्यर्थः ।। ३९ ।।

समधातोर् इति समरसादेः समस्वेदमूत्रादेश् च ।। ४० ।।

निमित्तत इत्यादि ।। ४१ ।।

निमित्तत इत्यनेनानिमित्ते अरिष्टरूपे क्षयवृद्धी निराकरोति ।। ४२ ।।

वृद्धिक्षयाभ्याम् आहारमूलाभ्याम् इति यथासंख्यं वृद्धक्षीणाहारकृताभ्याम् एतेनाहारविशेषकृतवृद्धिक्षयो रसः साम्यं करोतीत्यर्थः ।। ४३ ।।

धातुसाम्यस्यारोग्यत्वे सिद्धेऽपि यदारोग्यायेति ब्रूते तेन प्राकृतधातूनां क्षयेण वातिवृद्ध्या वा साम्यं निराकरोति अस्य साम्यस्य रोगकर्तृत्वाद् एव ।। ४४ ।।

किट्टं च मलानामेवम् एवेति यथा रसस्तथा किट्टमप्यारोग्याय मलानां साम्यं प्रतिपादितरसक्रमेण करोति ।। ४५ ।।

वृद्धमलानां चिकित्सान्तरम् आह स्वमानेत्यादि ।। ४६ ।।

उत्सर्गो बहिर्निःसरणं संशोधनरूपमेषां शास्त्रोक्तमस्ति उत्सर्गं वा वहन्तीत्युत्सर्गिणः ।। ४७ ।।

वृद्धानां मलानां चिकित्सान्तरम् आह शीतोष्णेत्यादि ।। ४८ ।।

पर्ययः विपर्ययः तेन शीतोष्णविपरीतगुणैर् इत्यर्थः तेन शीतसमुत्थे मले उष्णं तथोष्णसमुत्थे शीतमुपचारो भवति ।। ४९ ।।

आदिशब्दश् चात्र लुप्तनिर्दिष्टः तेन स्निग्धरूक्षादीनामपि विपरीतगुणानां ग्रहणम् ।। ५० ।।

किंवा पर्ययगुणा द्वंद्वगुणाः स्निग्धरूक्षमृदुतीक्ष्णादयः तैश्च यथायोग्यतयोपचर्यमाणा इति ज्ञेयम् ।। ५१ ।।

एतेन वृद्धमलानां त्रिविधो ऽप्युपक्रमो निदानवर्जनशोधनशमनरूप उक्तो भवति तत्र निदानवर्जनं वृद्धमले मलवृद्धिहेत्वाहारपरित्यागाद् अल्पमलाहारोपयोगाद् वा बोद्धव्यं संशोधनं च उत्सर्गिण इत्यनेनोक्तं शमनं च शीतोष्णेत्यादि ग्रन्थेनोक्तम् ।। ५२ ।।
)

तेषां तु मलप्रसादाख्यानां धातूनां स्रोतांस्ययनमुखानि ।
तानि यथाविभागेन यथास्वं धातूनापूरयन्ति ।
एवमिदं शरीरमशितपीतलीढखादितप्रभवम् ।
अशितपीतलीढखादितप्रभवाश्चास्मिञ्शरीरे व्याधयो भवन्ति ।
हिताहितोपयोगविशेषास्त्वत्र शुभाशुभविशेषकरा भवन्तीति ।। चसं-१,२८.५ ।।

आयुर्वेददीपिका
(
अयनानि च तानि मुखानि चेत्ययनमुखानि अत्र आयान्त्यनेनेत्ययनानि मार्गाणि मुखानि तु यैः प्रविशन्ति एतेन मलानां धातूनां च यदेवायनं तदेव प्रवेशमुखमिति नान्येन प्रवेशो नान्येन च गमनम् इत्युक्तं भवति ।। १ ।।

रसादीनां यथास्वनाम स्रोतोमुखं चायनं च ।। २ ।।

किंवा अयनस्य गमनस्य मुखानि मार्गाणि तेन अयनमुखानि गतिमार्गाणीत्यर्थः ।। ३ ।।

तानि च स्रोतांसि मलप्रसादपूरितानि धातून् यथास्वमिति यद्यस्य पोष्यं तच्च तत् पूरयति ।। ४ ।।

यथाविभागेनेति यस्य धातोर्यो विभागः प्रमाणं तेनैव प्रमाणेन पूरयति तादृक्प्रमाणान्येव पुष्यन्ति नाधिकन्यूनानीत्यर्थः ।। ५ ।।

एतच्च प्रकृतिस्थानां कर्म विकृतानां तु न्यूनातिरिक्तधातुकरणम् अस्त्येवेति बोद्धव्यम् ।। ६ ।।

उक्तं चान्यत्र स्रोतसा च यथास्वेन धातुः पुष्यति धातुना इति ।। ७ ।।

उपसंहरत्येवम् इत्यादि ।। ८ ।।

कथमशितादेर्विरुद्धयोः शरीरतदुपघातकरोगयोर् उत्पाद इत्याह हिताहितेत्यादि ।। ९ ।।

हितरूपोऽशितादिविशेषः शुभरूपविशेषकारकः अहितरूपस्त्वशितादिविशेषो ऽशुभरूपविशेषकरो भवति तेन नैकरूपात् कारणाद् विरुद्धकार्योदय इति भावः ।। १० ।।
)

एवंवादिनं भगवन्तमात्रेयमग्निवेश उवाच दृश्यन्ते हि भगवन् हितसमाख्यातम् अप्याहारमुपयुञ्जाना व्याधिमन्तश् चागदाश् च तथैवाहितसमाख्यातम् एवं दृष्टे कथं हिताहितोपयोगविशेषात्मकं शुभाशुभविशेषम् उपलभामह इति ।। चसं-१,२८.६ ।।

आयुर्वेददीपिका
(
दृश्यन्ते हि भगवन्नित्यादौ तथैवाहितसमाख्यातम् उपयुञ्जाना व्याधिमन्तश् चागदाश्चेति सम्बन्धः ।। १ ।।

विशेषात्मकमिति विशेषोद्भवम् ।। २ ।।
)

तमुवाच भगवानात्रेयो न हिताहारोपयोगिनाम् अग्निवेश तन्निमित्ता व्याधयो जायन्ते न च केवलं हिताहारोपयोगादेव सर्वव्याधिभयम् अतिक्रान्तं भवति सन्ति ह्य् ऋते ऽप्यहिताहारोपयोगाद् अन्या रोगप्रकृतयः तद्यथा कालविपर्ययः प्रज्ञापराधः शब्दस्पर्शरूपरसगन्धाश्चासात्म्या इति ।
ताश्च रोगप्रकृतयो रसान् सम्यगुपयुञ्जानमपि पुरुषम् अशुभेनोपपादयन्ति तस्माद्धिताहारोपयोगिनोऽपि दृश्यन्ते व्याधिमन्तः ।
अहिताहारोपयोगिनां पुनः कारणतो न सद्यो दोषवान् भवत्यपचारः ।
न हि सर्वाण्यपथ्यानि तुल्यदोषाणि न च सर्वे दोषास्तुल्यबला न च सर्वाणि शरीराणि व्याधिक्षमत्वे समर्थानि भवन्ति ।
तदेव ह्य् अपथ्यं देशकालसंयोगवीर्यप्रमाणातियोगाद् भूयस्तरम् अपथ्यं सम्पद्यते ।
स एव दोष संसृष्टयोनिर्विरुद्धोपक्रमो गम्भीरानुगतश् चिरस्थितः प्राणायतनसमुत्थो मर्मोपघाती कष्टतमः क्षिप्रकारितमश्च सम्पद्यते ।
शरीराणि चातिस्थूलान्यतिकृशान्य् अनिविष्टमांसशोणितास्थीनि दुर्बलान्य् असात्म्याहारोपचितान्य् अल्पाहाराण्य् अल्पसत्त्वानि च भवन्त्यव्याधिसहानि विपरीतानि पुनर्व्याधिसहानि ।
एभ्यश् चैवापथ्याहारदोषशरीरविशेषेभ्यो व्याधयो मृदवो दारुणाः क्षिप्रसमुत्थाश्चिरकारिणश्च भवन्ति ।
एव वातपित्तश्लेष्माणः स्थानविशेषे प्रकुपिता व्याधिविशेषान् अभिनिवर्तयन्त्यग्निवेश ।। चसं-१,२८.७ ।।

आयुर्वेददीपिका
(
तन्निमित्ता इति हिताहारनिमित्ताः ।। १ ।।

न केवलमिति परम् ।। २ ।।

रोगप्रकृतय इति रोगकारणानि ।। ३ ।।

अहिताहारोपयोगिन इत्यादि ।। ४ ।।

कारणत इति निमित्तान्तरात् प्रतिबन्धात् तच्च कारणं तदेव ह्य् अपथ्यम् इत्यादिवक्ष्यमाणग्रन्थविपरीतं बोद्धव्यम् ।। ५ ।।

सद्य इति तत्कालम् ।। ६ ।।

अनेनापथ्यस्य रोगजननं प्रति कालान्तरविकारकर्तृत्वं प्रायो भवतीति दर्शयति अन्यथा सद्य इत्यनर्थकं स्यात् कालान्तरे ऽपि दोषाकर्तृत्वात् ।। ७ ।।

दोषवानिति व्याधिजनकः ।। ८ ।।

अपचार इति अहिताहारोपयोगः उक्ते कारणमाह नहीत्यादि ।
तुल्यदोषाणीति तुल्यदोषकराणि ।। ९ ।।

व्याधिक्षमत्वं व्याधिबलविरोधित्वं व्याध्युत्पादप्रतिबन्धकत्वमिति यावत् ।। १० ।।

तद् एवापथ्यतुल्यदोषतादि विवृणोति तदेवेत्यादि ।। ११ ।।

अत्र यद्यपि प्रस्तुतत्वाद् अपथ्यप्रतिबन्धकानि कारणानि वक्तव्यानि तथापि समानन्यायतयापथ्यशक्तिवर्धकान्युच्यन्ते ।। १२ ।।

तत्र देशादीनां योगादिति अनुगुणदेशादियोगात् यथा व्रीहिः पित्तकर्तृत्वेनापथ्यः स चानूपदेशयोगाद्भूयस्तरम् अपथ्यो भवति धन्वदेशे तु हीनबलो भवति तथा शरत्कालस्यानुगुणस्य योगाद्बलवान्भवति हेमन्ते दुर्बलः संयोगाद् यथा स व्रीहिर् दधिफाणितादियुक्तो बलवान् मध्वादियुक्तश्च दुर्बलः वीर्याद् यथा स एवोष्णीकृतो बलवान् शीतस्तु दुर्बलः स एव च प्रमाणातियोगाद् बली हीनमात्रस्त्वबलः इत्याद्यनुसर्तव्यम् ।। १३ ।।

दोषतुल्यबलतामाह स एव दोष इत्यादि ।। १४ ।।

संसृष्टा मिलिता बहवो योनयः कारणानि यस्य स तथा किंवा संसृष्टयोनिर् इति अनुगुणदूष्यः यथा पित्तस्य रक्तं दूष्यम् आसाद्य कष्टत्वं क्षिप्रकारित्वं च भवति ।। १५ ।।

विरुद्धोपक्रमो यथा पित्तं मेहारम्भकं वचनं हि पित्तमेहाः सर्व एव याप्याः विरुद्धोपक्रमत्वात् इति विरुद्धता चोपक्रमस्यात्र यत् पित्तहरं मधुरादि तन्मेहप्रधानदूष्यमेदसो विरुद्धं मेदोऽनुगुणं तु कट्वादि पित्ते विरुद्धम् इति ।। १६ ।।

गम्भीरानुगत इति गम्भीरमज्जादिधातुगतः वचनं हि त्वङ्मांसाश्रयमुत्तानं गम्भीरं त्व् अन्तराश्रयम् इति ।। १७ ।।

चिरस्थित इति देहे चिरकालावस्थानेन कृतमूलत्वात् कष्टसाध्यः ।। १८ ।।

प्राणायतनसमुत्थ इति अग्रे ऽध्याये वक्ष्यमाणशङ्खादिदशप्राणायतनाश्रयी ।। १९ ।।

मर्मोपघातीति प्राणायतनव्यतिरिक्तक्षिप्रतलहृदयादिमर्मोपघातकारी ।। २० ।।

मर्मघातित्वेनैव मर्मविशेषप्राणायतनसमुत्थत्वे लब्धे पुनस्तद्वचनं प्राणायतनमर्माश्रयिणो विशेषेण कष्टत्वप्रतिपादनार्थम् ।। २१ ।।

कष्टतम इति बहुदुःखकर्तृत्वेनासाध्यत्वेन च ।। २२ ।।

क्षिप्रकारितम इति आशुविकारकारितमः ।। २३ ।।

चकारात् संसृष्टयोनित्वादिहेतूनाम् अल्पत्वेन कष्टकष्टतरक्षिप्रकारिक्षिप्रकारितरादिविशेषाश् च भवन्तीति दर्शयति यथोक्तसर्वहेतुमेलके कष्टतमः क्षिप्रकारितमश् च भवतीति ज्ञेयं कष्टतमत्वादि च यथायोग्यतया ज्ञेयं विरुद्धोपक्रमो दोषः कष्ट एव भवति न क्षिप्रकारी ।। २४ ।।

व्याध्यक्षमशरीराण्याह शरीराणि चेत्यादि ।। २५ ।।

अनिविष्टानि श्लथानि मांसादीनि येषां शरीरिणां तानि तथा किंवा अनिविष्टानीति विषमाणि ।। २६ ।।

उपचितानीति संवर्धितानि असात्म्यपुष्टं हि शरीरं भूरिदोषभावितमेव भवतीति भावः ।। २७ ।।

विपरीतानीति अनतिस्थूलत्वादियुक्तानि ।। २८ ।।

व्याधिसहानीति व्याध्युत्पादकप्रतिबन्धकानि ।। २९ ।।

एतच्च शरीरमधिकृत्य वैपरीत्यं व्याधिसहत्वे उदाहरणार्थम् उपन्यस्तं तेन यथोक्तापथ्यबलवैपरीत्यं दोषबलवैपरीत्यं च न सद्यो व्याधिकारकं भवतीत्येतद् अप्युक्तं बोद्धव्यम् ।। ३० ।।

एतद् एवापथ्याहारदोषशरीराणाम् एवाबलवत्त्वबलवत्त्वाभ्यां लक्षणविशेषं यथायोग्यतया मृद्वादिव्याधिकारणत्वेनोपसंहरन्न् आह एभ्यश् चैवेत्यादि ।। ३१ ।।

विशेषा यथोक्ता उक्तविपरीताश्च तत्रोक्तविपरीतविशेषान् मृदवस्तथा चिरकारिणश्च भवन्ति यथोक्तापथ्यादिविशेषात्तु दारुणाः क्षिप्रकारिणश्च भवन्तीति मन्तव्यम् ।। ३२ ।।

अनेन प्रसङ्गेन वातादीनां रसादिस्थानविशेषेषु कुपितानां ये व्याधयो भवन्ति तान् दर्शयितुम् आह त एवेत्यादि ।। ३३ ।।
)

तत्र रसादिषु स्थानेषु प्रकुपितानां दोषाणां यस्मिन् स्थाने ये ये व्याधयः सम्भवन्ति तांस् तान् यथावद् अनुव्याख्यास्यामः ।। चसं-१,२८.८ ।।

आयुर्वेददीपिका
(
तत्र रसेत्यादौ प्रकुपितानां दोषाणामिति अनियमेन रसे कुपितो वायुर् वा पित्तं वा श्लेष्मा वा संसृष्टा वा अश्रद्धादीनि कुर्वन्ति ।। १ ।।

सत्यपि दोषभेदे ऽत्राश्रयस्याभेदाद् आश्रयप्रभावेणैवाश्रद्धादयो भवन्ति परं दोषभेदे अश्रद्धादाव् एव वातादिलिङ्गं विशिष्टं भवति ।। २ ।।

किंवा यथायोग्यतया रसाश्रयिणा वातादिना अश्रद्धादिकरणं बोद्धव्यं यतो न गौरवं वातदुष्टरसे भवितुमर्हति एतच्च नातिसुन्दरं तेन पूर्व एव पक्षो ज्यायान् ।। ३ ।।
)

अश्रद्धा चारुचिश् चास्यवैरस्यम् अरसज्ञता ।
हृल्लासो गौरवं तन्द्रा साङ्गमर्दो ज्वरस् तमः ।। चसं-१,२८.९ ।।

पाण्डुत्वं स्रोतसां रोधः क्लैब्यं सादः कृशाङ्गता ।
नाशोऽग्नेरयथाकालं वलयः पलितानि च ।। चसं-१,२८.१० ।।

।।

आयुर्वेददीपिका
(
अश्रद्धायां मुखप्रविष्टस्याहारस्याभ्यवहरणं भवत्येव परं त्व् अनिच्छा अरुचौ तु मुखप्रविष्टं नाभ्यवहरतीति भेदः ।। १ ।।

आस्यवैरस्यम् उचितादास्यरसादन्यथात्वम् ।। २ ।।

अरसज्ञता रसाप्रतिपत्तिः ।। ३ ।।

सादः अङ्गावसादः ।। ४ ।।
)

रसप्रदोषजा रोगा वक्ष्यन्ते रक्तदोषजाः ।
कुष्ठवीसर्पपिडका रक्तपित्तमसृग्दरः ।। चसं-१,२८.११ ।।

गुदमेढ्रास्यपाकश्च प्लीहा गुल्मोऽथ विद्रधिः ।
नीलिका कामला व्यङ्गः पिप्प्लवस् तिलकालकाः ।। चसं-१,२८.१२ ।।

दद्रुश्चर्मदलं श्वित्रं पामा कोठास्रमण्डलम् ।
।।

आयुर्वेददीपिका
(
रक्तप्रदोषजेषु कुष्ठग्रहणादेव दद्र्वादिलाभे सिद्धे पुनस्तद्वचनं विशेषप्रादुर्भावप्रदर्शनार्थम् ।। १ ।।

तिलकालकाः तिलाकृतयः ।। २ ।।

अस्रमण्डलं लोहितमण्डलम् ।। ३ ।।
)

रक्तप्रदोषाज्जायन्ते शृणु मांसप्रदोषजान् ।। चसं-१,२८.१३ ।।

अधिमांसार्बुदं कलिं गलशालूकशुण्डिके ।
पूतिमांसालजीगण्डगण्डमालोपजिह्विकाः ।। चसं-१,२८.१४ ।।

।।

आयुर्वेददीपिका
(
कीलशब्देनात्रार्श उच्यते ।। १ ।।
)

वेद्यान्मांसाश्रयान् मेदःसंश्रयांस्तु प्रचक्ष्महे ।
निन्दितानि प्रमेहाणां पूर्वरूपाणि यानि च ।। चसं-१,२८.१५ ।।

आयुर्वेददीपिका
(
निन्दितानि प्रमेहपूर्वरूपाणीति केशजटिलत्वादीनि तेषामेव निन्दितत्वात् न त्व् आस्यवैरस्यमधुरत्वादीनि ।। १ ।।

किंवा निन्दितानीति अतिस्थूलगतान्य् आयुर्ह्रासादीन्य् अष्टौनिन्दितीयोक्तानि तेषां च निन्दितत्वं निन्दितातिस्थूलसम्बद्धत्वेन ।। २ ।।

एवं पूर्वस्मिन्व्याख्याने यानि च इति चकारो नियमे उत्तरव्याख्याने तु समुच्चये ।। ३ ।।
)

अध्यस्थिदन्तौ दन्तास्थिभेदशूलं विवर्णता ।
केशलोमनखश्मश्रुदोषाश्चास्थिप्रदोषजाः ।। चसं-१,२८.१६ ।।

आयुर्वेददीपिका
(
अध्यस्थिदन्तशब्देन अध्यस्थ्यधिदन्तयोर्ग्रहणम् ।
शूलम् इति अस्थिशूलमेव बोद्धव्यम् ।। १ ।।
)

रुक् पर्वणां भ्रमो मूर्छा दर्शनं तमसस्तथा ।
अरुषां स्थूलमूलानां पर्वजानां च दर्शनम् ।। चसं-१,२८.१७ ।।

।।

आयुर्वेददीपिका
(
रुगित्यादि मज्जदोषाज्ज्ञेयम् ।। १ ।।

अरूंषीति व्रणानि ।। २ ।।
)

मज्जप्रदोषात् शुक्रस्य दोषात् क्लैब्यम् अहर्षणम् ।
रोगि वा क्लीबमल्पायुर् विरूपं वा प्रजायते ।। चसं-१,२८.१८ ।।

न चास्य जायते गर्भः पतति प्रस्रवत्यपि ।
शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरम् ।। चसं-१,२८.१९ ।।

आयुर्वेददीपिका
(
क्लैब्यम् इति ध्वजानुच्छ्रायः ।। १ ।।

अहर्षणं च सत्यपि ध्वजोत्थाने मैथुनाशक्तिः ।। २ ।।

शुक्रं हि दुष्टं सापत्यं सदारं बाधते नरमिति अत्रापत्यबाधा रोगिक्लीबाद्यपत्यजनकत्वेन दारबाधा तु स्राविगर्भादिजनकत्वेन ।। ३ ।।
)

इन्द्रियाणि समाश्रित्य प्रकुप्यन्ति यदा मलाः ।
उपघातोपतापाभ्यां योजयन्तीन्द्रियाणि ते ।। चसं-१,२८.२० ।।

आयुर्वेददीपिका
(
उपघातेत्यादौ उपघातो विनाशः उपतापस्तु किंचिद् वैकल्यम् ।। १ ।।
)

स्नायौ सिराकण्डराभ्यो दुष्टाः क्लिश्नन्ति मानवम् ।
स्तम्भसंकोचखल्लीभिर्ग्रन्थिस्फुरणसुप्तिभिः ।। चसं-१,२८.२१ ।।

आयुर्वेददीपिका
(
कण्डराभ्य इति सप्तम्यर्थे पञ्चमी ।। १ ।।

खल्ली करपदावमोटनम् ।। २ ।।

ग्रन्थिः स्नाय्वादिग्रन्थिरेव ।। ३ ।।
)

मलानाश्रित्य कुपिता भेदशोषप्रदूषणम् ।
दोषा मलानां कुर्वन्ति सङ्गोत्सर्गाव् अतीव च ।। चसं-१,२८.२२ ।।

आयुर्वेददीपिका
(
मलानित्यादौ भेदशोषप्रदूषणम् इति यथासम्भवं ज्ञेयं तत्र भेदः पुरीषस्य शोषस्तु विशेषेण सर्वमलेषु सम्भवति प्रदूषणं तु प्रदुष्टवर्णादियुक्तत्वेन प्राकृतवर्णाद्युपघातः ।। १ ।।

संगोत्सर्गाव् अतीव चेति अतीव सङ्गः अप्रवृत्तिः अत्युत्सर्गस्तु अतिप्रवृत्तिः ।। २ ।।
)

विविधाद् अशितात् पीताद् अहिताल्लीढखादितात् ।
भवन्त्येते मनुष्याणां विकारा य उदाहृताः ।। चसं-१,२८.२३ ।।

तेषामिच्छन्ननुत्पत्तिं सेवेत मतिमान् सदा ।
हितान्येवाशितादीनि न स्युस् तज्जास् तथामयाः ।। चसं-१,२८.२४ ।।

रसजानां विकाराणां सर्वं लङ्घनम् औषधम् ।
विधिशोणितिके ऽध्याये रक्तजानां भिषग्जितम् ।। चसं-१,२८.२५ ।।

मांसजानां तु संशुद्धिः शस्त्रक्षाराग्निकर्म च ।
अष्टौनिन्दितिके ऽध्याये मेदोजानां चिकित्सितम् ।। चसं-१,२८.२६ ।।

अस्थ्याश्रयाणां व्याधीनां पञ्चकर्माणि भेषजम् ।
वस्तयः क्षीरसर्पींषि तिक्तकोपहितानि च ।। चसं-१,२८.२७ ।।

मज्जशुक्रसमुत्थानामौषधं स्वादुतिक्तकम् ।
अन्नं व्यवायव्यायामौ शुद्धिः काले च मात्रया ।। चसं-१,२८.२८ ।।

शान्तिरिन्द्रियजानां तु त्रिमर्मीये प्रवक्ष्यते ।
स्नाय्वादिजानां प्रशमो वक्ष्यते वातरोगिके ।। चसं-१,२८.२९ ।।

नवेगान्धारणे ऽध्याये चिकित्सितसंग्रहः कृतः ।
मलजानां विकाराणां सिद्धिश् चोक्ता क्वचित्क्वचित् ।। चसं-१,२८.३० ।।

आयुर्वेददीपिका
(
सम्प्रत्यहिताहारजनितान् दोषान् दर्शयन् यथाकर्तव्यम् उपदिशति विविधादित्यादि ।। १ ।।

भिषग्जितम् उक्तम् इति शेषः ।। २ ।।

पञ्चकर्माणीत्यभिधायापि वस्तय इति वचनं तिक्तोपहितवस्तेर् विशेषेण हितत्वोपदर्शनार्थम् ।। ३ ।।

शुद्धिरिति वमनादिना ।। ४ ।।

सिद्धिः प्रोक्ता क्वचिदिति अतीसारग्रहण्यादौ ।। ५ ।।
)

व्यायामाद् ऊष्मणस् तैक्ष्ण्याद्धितस्यानवचारणात् ।
कोष्ठाच्छाखा मला यान्ति द्रुतत्वान्मरुतस्य च ।। चसं-१,२८.३१ ।।

तत्रस्थाश्च विलम्बन्ते कदाचिन् न समीरिताः ।
नादेशकाले कुप्यन्ति भूयो हेतुप्रतीक्षिणः ।। चसं-१,२८.३२ ।।

आयुर्वेददीपिका
(
सम्प्रति रसादीनां शाखारूपत्वात् कोष्ठाश्रयिणो दोषा यथा शाखां यान्ति तद् आह व्यायामेत्यादि ।। १ ।।

तत्र व्यायामक्षोभात् कोष्ठं परित्यज्य शाखां मला यान्ति ऊष्मणो वह्नेस्तीक्ष्णत्वाद् विलायिता दोषाः शाखां यान्ति हितस्यानवचारणयाहितसेवयातिसेवयातिमात्रवृद्धो दोषो जलापूरवद् वृद्धः स्वस्थानमाप्लाव्य स्थानान्तरं यातीति युक्तम् ।। २ ।।

द्रुतत्वान्मारुतस्येति चलत्वाद् वायोर् वायुना क्षिप्तो यातीत्यर्थः वाय्वन्तरेण च वायोर् आक्षेपणमुपपन्नम् एवेति अन्यथा मला इति बहुवचनम् असाधु ।। ३ ।।

अथ शाखागताः किं कुर्वन्तीत्याह तत्रस्थाश्चेत्यादि ।। ४ ।।

विलम्बन्ते कदाचिद् इति कदाचिद्व्याधिकरणे विलम्बं कुर्वन्ति ।। ५ ।।

कुतो विलम्बन्त इत्याह न समीरिताः ।। ६ ।।

ये दोषा अल्पत्वेनाबलवन्तस्ते हेत्वन्तरेण समीरिताः सन्तः कुप्यन्ति तथा त एव नादेश इत्यननुगुणदेशे तथा नाकाल इत्यननुगुणकाले कुप्यन्तीति योजना ।। ७ ।।

अत्रैव हेतुमाह भूय इत्यादि ।। ८ ।।

यस्माद्भूयो हेतुप्रतीक्षिणस् ते ऽल्पबला दोषास्तस्मादीरणाद्यपेक्षन्ते एतेन भूयो ये ऽहेतुप्रतीक्षिणो भवन्ति बलवत्त्वान्न ते ईरणाद्यपेक्षन्ते अत एवोक्तं कदाचिदिति ।। ९ ।।
)

वृद्ध्या विष्यन्दनात् पाकात् स्रोतोमुखविशोधनात् ।
शाखा मुक्त्वा मलाः कोष्ठं यान्ति वायोश्च निग्रहात् ।। चसं-१,२८.३३ ।।

आयुर्वेददीपिका
(
सम्प्रति शाखाभ्यः कोष्ठागमनहेतुं दोषाणाम् आह वृद्ध्येत्यादि ।। १ ।।

विष्यन्दनादिति विलयनात् विलीनश्च द्रवत्वादेव कोष्ठे निम्नं याति ।। २ ।।

पाकादिति पक्वो दोषो ऽबद्धत्वेनैव निम्नं कोष्ठं याति ।। ३ ।।

स्रोतोमुखविशोधनादिति अवरोधकापगमात् ।। ४ ।।

वायोर्निग्रहादिति क्षेप्तुर्वायोर्निग्रहात् प्राकृतं स्थानं कोष्ठं याति ।। ५ ।।
)

अजातानामनुत्पत्तौ जातानां विनिवृत्तये ।
रोगाणां यो विधिर्दृष्टः सुखार्थी तं समाचरेत् ।। चसं-१,२८.३४ ।।

सुखार्थाः सर्वभूतानां मताः सर्वाः प्रवृत्तयः ।
ज्ञानाज्ञानविशेषात्तु मार्गामार्गप्रवृत्तयः ।। चसं-१,२८.३५ ।।

आयुर्वेददीपिका
(
इदानीं संक्षेपेणाखिलव्याधिप्रतीकारं सूत्रयति अजातानामित्यादि ।। १ ।।

यो विधिर्दृष्ट इति कृत्स्ने तन्त्रे ।। २ ।।

ननु यदि सुखार्था सर्वप्राणिनां प्रवृत्तिस्तत्कथं को ऽपि अमार्गे प्रवर्तत इत्याह ज्ञानेत्यादि ।। ३ ।।

अज्ञानाद् एव सुखसाधनमिदम् इति कृत्वा अपरीक्षकाः प्रवर्तन्ते न तु दुःखकर्तृतासंधानाद् इति भावः ।। ४ ।।
)

हितमेवानुरुध्यन्ते प्रपरीक्ष्य परीक्षकाः ।
रजोमोहावृतात्मानः प्रियमेव तु लौकिकाः ।। चसं-१,२८.३६ ।।

श्रुतं बुद्धिः स्मृतिर्दाक्ष्यं धृतिर् हितनिषेवणम् ।
वाग्विशुद्धिः शमो धैर्यम् आश्रयन्ति परीक्षकम् ।। चसं-१,२८.३७ ।।

लौकिकं नाश्रयन्त्येते गुणा मोहरजःश्रितम् ।
तन्मूला बहवो यन्ति रोगाः शारीरमानसाः ।। चसं-१,२८.३८ ।।

आयुर्वेददीपिका
(
हितमेवेति आयतिविशुद्धम् एव तदात्वे दुःखकरम् अपि ।। १ ।।

प्रियमेवेति तदात्वे सुखकरम् आयतिविरुद्धम् ।। २ ।।

लौकिका अपरीक्षकाः ।। ३ ।।

परीक्षकं स्तौति श्रुतम् इत्यादि ।। ४ ।।

परीक्षकमाश्रयन्तीति परीक्षके भवन्ति किंवा बुद्ध्यादिदेवताः परीक्षकमाश्रयन्ते यद् उक्तं विविशुर् ज्ञानदेवताः इति ।। ५ ।।

तन्मूला इति रजस्तमोमूलाः ।। ६ ।।
)

प्रज्ञापराधाद्ध्यहितानर्थान् पञ्च निषेवते ।
संधारयति वेगांश्च सेवते साहसानि च ।। चसं-१,२८.३९ ।।

तदात्वसुखसंज्ञेषु भावेष्वज्ञोऽनुरज्यते ।
रज्यते न तु विज्ञाता विज्ञाने ह्य् अमलीकृते ।। चसं-१,२८.४० ।।

आयुर्वेददीपिका
(
यथा अपरीक्षके रजस्तमोमूला रोगा भवन्ति तदाह प्रज्ञापराधाद् इत्यादि ।। १ ।।

अहितार्थसेवादि च रोगं करोतीति भावः ।। २ ।।

तदात्वसुखेष्विति वक्तव्ये यत् सुखसंज्ञेषु इति करोति तत्तदात्वसुखस्यापथ्यस्य दुःखानुबन्धसुखकर्तृतया परमार्थतस् तदात्वे ऽप्यसुखत्वं दर्शयति यथा सुखसंज्ञकम् आरोग्यम् इत्यत्रोक्तम् ।। ३ ।।

विज्ञातेति परीक्षकः ।। ४ ।।
)

न रागान्नाप्यविज्ञानाद् आहारान् उपयोजयेत् ।
परीक्ष्य हितमश्नीयाद्देहो ह्य् आहारसंभवः ।। चसं-१,२८.४१ ।।

आयुर्वेददीपिका
(
न रागाद् इत्यादि ।। १ ।।

अहितत्वेन जानन्न् अपि रागादेव कश्चिद् दुष्टः प्रवर्तते अज्ञानाच्चाहितत्वाज्ञानाद् एव कश्चिद्धिताध्यवसायेन प्रवर्तते एतद्द्वयमपि निषिध्यते ।। २ ।।
)

आहरस्य विधाव् अष्टौ विशेषा हेतुसंज्ञकाः ।
शुभाशुभसमुत्पत्तौ तान् परीक्ष्य प्रयोजयेत् ।। चसं-१,२८.४२ ।।

आयुर्वेददीपिका
(
कथमाहारः परीक्ष्य इत्याह आहारस्येत्यादि ।। १ ।।

आहारस्य विधौ विधानेऽष्टौ विशेषाः प्रकृतिकरणसंयोगादयो रसविमाने वक्तव्या हेतुसंज्ञकाः क्व हेतुसंज्ञका इत्याह शुभेत्यादि ।। २ ।।

शुभाशुभसमुत्पत्तौ इति ते च प्रकृत्यादयः शुभाः शुभकराः अशुभा अशुभकराः इति ज्ञेयम् ।। ३ ।।
)

परिहार्याण्यपथ्यानि सदा परिहरन्नरः ।
भवत्यनृणतां प्राप्तः साधूनाम् इह पण्डितः ।। चसं-१,२८.४३ ।।

यत्तु रोगसमुत्थानमशक्यमिह केनचित् ।
परिहर्तुं न तत्प्राप्य शोचितव्यं मनीषिभिः ।। चसं-१,२८.४४ ।।

आयुर्वेददीपिका
(
ननु पथ्यसेवायां क्रियमाणायाम् अपि बलवत्प्राक्तनाधर्मवशादपि व्याधयो भवन्ति तत् किम् अनेन पथ्यसेवनेनेत्याह परिहार्याणीत्यादि ।। १ ।।

अनृणताम् इव प्राप्तोऽनृणतां प्राप्तः एतेन परिहार्यपरिहारेण पुरुषकारेऽनपराधः पुरुषो भवतीति दर्शयति ।। २ ।।

यस्तु दैवागतस्तस्य व्याधिस्तत्र साधवो नैवं पथ्यसेविनं गर्हयन्ति एतदेवाह यत्त्वित्यादि ।। ३ ।।

अशक्यं परिहर्तुम् इति बलवत्कर्मजन्यत्वाद् इत्यर्थः ।। ४ ।।

न शोचितव्यम् इति पुरुषकारस्य दैवजन्ये ऽवश्यम्भाविनि व्याधाव् अकिंचित्करत्वाद् इत्यर्थः ।। ५ ।।
)

आहारसंभवं यस्तु रोगाश्चाहारसंभवाः ।
हिताहितविशेषांश् च विशेषः सुखदुःखयोः ।। चसं-१,२८.४५ ।।

सहत्वे चासहत्वे च दुःखानां देहसत्त्वयोः ।
विशेषो रोगसंघाश् च धातुजा ये पृथक्पृथक् ।। चसं-१,२८.४६ ।।

तेषां चैव प्रशमनं कोष्ठाच्छाखा उपेत्य च ।
दोषा यथा प्रकुप्यन्ति शाखाभ्यः कोष्ठमेत्य च ।। चसं-१,२८.४७ ।।

प्राज्ञाज्ञयोर्विशेषश्च स्वस्थातुरहितं च यत् ।
विविधाशितपीतीये तत् सर्वं संप्रकाशितम् ।। चसं-१,२८.४८ ।।

इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते सूत्रस्थाने विविधाशितपीतीयो नामाष्टाविंशोऽध्यायः ।। चसं-१,२८.४९ ।।

आयुर्वेददीपिका
(
संग्रहे वस्त्विति शरीरम् ।। १ ।।

सहत्वे चासहत्वे चेत्यादिना शरीराणि चातिस्थूलानि इत्यादि विपरीतानि पुनर् व्याधिसहानि इत्यन्तं ग्रन्थं ज्ञापयति ।। २ ।।
)

Advertisements

Categories: Sanskrit

Tagged as: