Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Sarvarthapedia

Architects of Civilization: 100 Foundational Minds Behind Human Society

Global Biographical Dictionary of Intelligence (50-Volume): Espionage and Counterintelligence

Glossary of 500 Key Concepts Across All Subjects (Part 1 – Part 13)

Biographical Dictionary of 200 Essential Thinkers (Appendix E)

Glossary of Nepali Politics: Constitution, Ethnic Identities, and Coalition Dynamics

  •  ऋग्वेदः 
  • सामवेदः
  • यजुर्वेदः
  • अथर्ववेदः
  • वेदाङ्गकल्पसूत्रम्
  • वेदाङ्गछन्दसूत्रम्
  • वेदाङ्गनिरुक्तम्
  • वेदाङ्गव्याकरणम्
  • वेदाङ्गशिक्षा
  • वेदाङ्गज्यौतिषम्
  • काठकसंहिता
  • तैत्तिरीयसंहिता
  • मैत्रायणीसंहिता
  • ऐतरेय ब्राह्मणम्
  • कौषीतकिब्राह्मणम्
  • शतपथब्राह्मणम्
  • तैत्तिरीयब्राह्मणम्
  • छान्दोग्यब्राह्मणम्
  • गोपथब्राह्मणम्
  • काठकब्राह्मणम्
  • पञ्चविंशब्राह्मणम्
  • जैमिनीयोपनिषद्ब्राह्मणम्
  • ऐतरेय आरण्यकम्
  • तैत्तिरीयारण्यकम्
  • शाङ्खायनारण्यकम्
  • ऐतरेयोपनिषद्
  • तैत्तिरीयोपनिषदत्
  • प्रश्नोपनिषत्
  • मुण्डकोपनिषद्
  • मुण्डकोपनिषद्
  • काठकोपनिषत्
  • केनोपनिषद्
  • छान्दोग्योपनिषद्
  • बृहदारण्यकोपनिषद्
  • कौटिल्यस्य अर्थशास्त्रम्
  • मनुस्मृतिः
  • याज्ञवल्क्यस्मृतिः
  • चरकसंहिता
  • सुश्रुतसंहिता
  • रामायणम्
  • महाभारतम्
  • मीमांसासूत्राणि
  • वैशेषिकसूत्रम्
  • न्यायसूत्राणि
  • श्रीविष्णुपुराणम्
  • अष्टाध्यायी-गणपाठः
  • अष्टाध्यायी-धातुपाठः
  • नाट्यशास्त्रम्
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Charak Samhita Sharir Sthanam
  • Vedic Sanskrit Culture

Charak Samhita Sharir Sthanam

advtanmoy 30/04/2019

चरकसंहिता शारीरस्थान

अथातः कतिधापुरुषीयं शारीरं व्याख्यास्यामः ।। चसं-५,१.१ ।।

इति ह स्माह भगवान् आत्रेयः ।। चसं-५,१.२ ।।

कतिधा पुरुषो धीमन् धातुभेदेन भिद्यते ।
पुरुषः कारणं कस्मात् प्रभवः पुरुषस्य कः ।। चसं-५,१.३ ।।

किम् अज्ञो ज्ञः स नित्यः किं किम् अनित्यो निदर्शितः ।
प्रकृतिः का विकाराः के किं लिङ्गं पुरुषस्य च ।। चसं-५,१.४ ।।

निष्क्रियं च स्वतन्त्रं च वशिनं सर्वगं विभुम् ।
वदन्त्य् आत्मानम् आत्मज्ञाः क्षेत्रज्ञं साक्षिणं तथा ।। चसं-५,१.५ ।।

निष्क्रियस्य क्रिया तस्य भगवन् विद्यते कथम् ।
स्वतन्त्रश् चेद् अनिष्टासु कथं योनिषु जायते ।। चसं-५,१.६ ।।

वशी यद्य् असुखैः कस्माद् भावैर् आक्रम्यते बलात् ।
सर्वाः सर्वगतत्वाच् च वेदनाः किं न वेत्ति सः ।। चसं-५,१.७ ।।

न पश्यति विभुः कस्माच् छैलकुड्यतिरस्कृतम् ।
क्षेत्रज्ञः क्षेत्रम् अथवा किं पूर्वम् इति संशयः ।। चसं-५,१.८ ।।

ज्ञेयं क्षेत्रं विना पूर्वं क्षेत्रज्ञो हि न युज्यते ।
क्षेत्रं च यदि पूर्वं स्यात् क्षेत्रज्ञः स्याद् अशाश्वतः ।। चसं-५,१.९ ।।

साक्षिभूतश् च कस्यायं कर्ता ह्य् अन्यो न विद्यते ।
स्यात् कथं चाविकारस्य विशेषो वेदनाकृतः ।। चसं-५,१.१० ।।

अथ चार्तस्य भगवंस् तिसृणां कां चिकित्सति ।
अतीतां वेदनां वैद्यो वर्तमानां भविष्यतीम् ।। चसं-५,१.११ ।।

भविष्यन्त्या असंप्राप्तिर् अतीताया अनागमः ।
सांप्रतिक्या अपि स्थानं नास्त्य् अर्तेः संशयो ह्य् अतः ।। चसं-५,१.१२ ।।

कारणं वेदनानां किं किम् अधिष्ठानम् उच्यते ।
क्व चैता वेदनाः सर्वा निवृत्तिं यान्त्य् अशेषतः ।। चसं-५,१.१३ ।।

सर्ववित् सर्वसंन्यासी सर्वसंयोगनिःसृतः ।
एकः प्रशान्तो भूतात्मा कैर् लिङ्गैर् उपलभ्यते ।। चसं-५,१.१४ ।।

इत्य् अग्निवेशस्य वचः श्रुत्वा मतिमतां वरः ।
सर्वं यथावत् प्रोवाच प्रशान्तात्मा पुनर्वसुः ।। चसं-५,१.१५ ।।

खादयश् चेतनाषष्ठा धातवः पुरुषः स्मृतः ।
चेतनाधातुर् अप्य् एकः स्मृतः पुरुषसंज्ञकः ।। चसं-५,१.१६ ।।

पुनश् च धातुभेदेन चतुर्विंशतिकः स्मृतः ।
मनो दशेन्द्रियाण्य् अर्थाः प्रकृतिश् चाष्टधातुकी ।। चसं-५,१.१७ ।।

लक्षणं मनसो ज्ञानस्याभावो भाव एव च ।
सति ह्य् आत्मेन्द्रियार्थानां सन्निकर्षे न वर्तते ।। चसं-५,१.१८ ।।

वैवृत्त्यान् मनसो ज्ञानं सान्निध्यात् तच् च वर्तते ।
अणुत्वम् अथ चैकत्वं द्वौ गुणौ मनसः स्मृतौ ।। चसं-५,१.१९ ।।

चिन्त्यं विचार्यम् ऊह्यं च ध्येयं संकल्प्यम् एव च ।
यत् किंचिन् मनसो ज्ञेयं तत् सर्वं ह्य् अर्थसंज्ञकम् ।। चसं-५,१.२० ।।

इन्द्रियाभिग्रहः कर्म मनसः स्वस्य निग्रहः ।
ऊहो विचारश् च ततः परं बुद्धिः प्रवर्तते ।। चसं-५,१.२१ ।।


आयुर्वेददीपिका

मनोगुणमभिधाय मनोविषयमाह चिन्त्यमित्यादि ।। १ ।।

चिन्त्यं कर्तव्यतया अकर्तव्यतया वा यन्मनसा चिन्त्यते ।। २ ।।

विचार्यम् उपपत्त्यनुपपत्तिभ्यां यद्विमृश्यते ।। ३ ।।

ऊह्यं च यत् सम्भावनया ऊह्यते एवमेतद्भविष्यति इति ।। ४ ।।

ध्येयं भावनाज्ञानविषयम् ।। ५ ।।

संकल्प्यं गुणवत्तया दोषवत्तया वावधारणाविषयम् ।। ६ ।।

यत् किंचिदित्यनेन सुखाद्यनुक्तविषयावरोधः ।। ७ ।।

मनसो ज्ञेयमिति इन्द्रियनिरपेक्षमनोग्राह्यम् ।। ८ ।।

एते च मनोऽर्थाः शब्दादिरूपा एव तेन षष्ठार्थकल्पनया न चतुर्विंशतिसंख्यातिरेकः ।। ९ ।।

सुखादयस् तु शब्दादिव्यतिरिक्ता मनोऽर्था बुद्धिभेदग्रहणेनैव ग्राह्याः ।। १० ।।

मनोविषयमभिधाय मनःकर्माह इन्द्रियेत्यादि ।। ११ ।।

इन्द्रियाभिग्रहः इन्द्रियाधिष्ठानं मनसः कर्म तथा स्वस्य निग्रहो मनसः कर्म मनो ह्य् अनिष्टविषयप्रसृतं मनसैव नियम्यते मनश्च गुणान्तरयुक्तं सद्विषयान्तरान् नियमयति इत्याहुरेके ।। १२ ।।

यदुक्तम् विषयप्रवणं चित्तं धृतिभ्रंशान्न शक्यते ।। १३ ।।

नियन्तुम् अहिताद् अर्थाद् धृतिर्हि नियमात्मिका इति ।। १४ ।।

तेन धृत्या कारणभूतया आत्मानं नियमयतीति न स्वात्मनि क्रियाविरोधः ।। १५ ।।

मनःकर्मान्तरम् आह ऊहो विचारश् चेति ।। १६ ।।

अत्रोह आलोचनज्ञानं निर्विकल्पकम् विचारो हेयोपादेयतया विकल्पनम् ।। १७ ।।

चतुर्विधं हि विकल्पकारणं सांख्या मन्यन्ते तत्र बाह्यम् इन्द्रियरूपम् आभ्यन्तरं तु मनोऽहंकारो बुद्धिश्चेति त्रितयम् ।। १८ ।।

तत्रेन्द्रियाण्यालोचयन्ति निर्विकल्पेन गृह्णन्तीत्यर्थः मनस्तु संकल्पयति हेयोपादेयतया कल्पयतीत्यर्थः अहंकारो ऽभिमन्यते ममेदमहमत्राधिकृत इति मन्यत इत्यर्थः बुद्धिर् अध्यवस्यति त्यजाम्येनं दोषवन्तम् उपाददाम्येनं गुणवन्तम् इत्यध्यवसायं करोतीत्यर्थः ।। १९ ।।

ऊहस् तु यद्यपि बाह्यचक्षुरादिकर्म तथापि तत्रापि मनोऽधिष्ठानम् अस्तीति मनःकर्मतयोक्तः ।। २० ।।

वचनं हि सान्तःकरणा बुद्धिः सर्वं विषयम् अवगाहते यस्मात् ।। २१ ।।

तस्मात् त्रिविधं करणं द्वारि द्वाराणि शेषाणि इति ।। २२ ।।

ततः परं बुद्धिः प्रवर्तत इति ऊहविचारानन्तरं बुद्धिर् अध्यवसायं करोतीत्यर्थः ।। २३ ।।

अहंकारव्यापारश् चाभिमननम् इहानुक्तो ऽपि बुद्धिव्यापारेणैव सूचितो ज्ञेयः ।। २४ ।।

बुद्धिर्हि त्यजाम्येनमुपाददामीति वाध्यवसायं कुर्वती अहंकाराभिमत एव विषये भवति तेन बुद्धिव्यापारेणैवाहंकारव्यापारो ऽपि गृह्यते ।। २५ ।।

बुद्धौ हि सर्वकरणव्यापारार्पणं भवति ।। २६ ।।

यदुक्तम् एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः ।
कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ।। २७ ।।


इन्द्रियेणेन्द्रियार्थो हि समनस्केन गृह्यते ।
कल्प्यते मनसा तूर्ध्वं गुणतो दोषतोऽथवा ।। चसं-५,१.२२ ।।

जायते विषये तत्र या बुद्धिर्निश्चयात्मिका ।
व्यवस्यति तया वक्तुं कर्तुं वा बुद्धिपूर्वकम् ।। चसं-५,१.२३ ।।


आयुर्वेददीपिका

एतदेवोहविचारपूर्वकत्वं बुद्धेर् विवृणोति इन्द्रियेणेत्यादि ।। १ ।।

गृह्यते इति ऊहमात्रेण निर्विकल्पेन गृह्यते ।। २ ।।

गुणत इति उपादेयतया ।। ३ ।।

दोषत इति हेयतया ।। ४ ।।

बुद्ध्यध्यवसायं विवृणोति जायत इत्यादि ।। ५ ।।

विषये तत्रेति मनसा कल्पिते विषये ।। ६ ।।

निश्चयात्मिकेति स्थिरस्वरूपा अध्यवसायरूपेत्यर्थः ।। ७ ।।

व्यवस्यतीति अनुष्ठानं करोति उद्युक्तो भवतीत्यर्थः बुद्ध्यध्यवसितमर्थं वक्तुं कर्तुं वानुतिष्ठतीति यावत् ।। ८ ।।

बुद्धिपूर्वकमित्यनेन यदेव बुद्धिपूर्वकम् अनुष्ठानं तद् एवैवंविधं भवति नोन्मत्ताद्यनुष्ठानमिति दर्शयति ।। ९ ।।


एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु ।
पञ्च कर्मानुमेयानि येभ्यो बुद्धिः प्रवर्तते ।। चसं-५,१.२४ ।।


आयुर्वेददीपिका

मनोऽभिधायेन्द्रियाण्यभिधत्ते तत्रापि ज्यायस्त्वाद् बुद्धीन्द्रियाणि प्रागाह एकैकेत्यादि ।। १ ।।

खादीनां मध्ये एकैकेनाधिकेन भूतेन युक्तानीन्द्रियाणि पञ्च चक्षुरादीनि एकैकाधिकपदेन पञ्चापि पाञ्चभौतिकानि परं चक्षुषि तेजोऽधिकमित्याद्युक्तं सूचयति ।। २ ।।

कर्मानुमेयानीति कार्यानुमेयानि कार्यं चक्षुर्बुद्ध्यादि ।। ३ ।।

येभ्यो बुद्धिः प्रवर्तत इति यानि बुद्धीन्द्रियाणि तानीमानि पञ्चेति दर्शयति ।। ४ ।।

यद्यपि च सांख्ये आहंकारिकाणीन्द्रियाणि यदुक्तं सात्त्विक एकादशकः प्रवर्तते वैकृताद् अहंकाराद् इति तथापि मतभेदाद्भौतिकत्वम् इन्द्रियाणां ज्ञेयं किंवा औपचारिकम् एतद्भौतिकत्वम् इन्द्रियाणां ज्ञेयम् उपचारबीजं च यद् गुणभूयिष्ठं यद् इन्द्रियं गृह्णाति तत्तद्भूयिष्ठम् इत्युच्यते चक्षुस्तेजो गृह्णाति तेन तैजसम् उच्यते इत्यादि ज्ञेयम् ।। ५ ।।


हस्तौ पादौ गुदोपस्थं वागिन्द्रियमथापि च ।
कर्मेन्द्रियाणि पञ्चैव पादौ गमनकर्मणि ।। चसं-५,१.२५ ।।

पायूपस्थं विसर्गार्थं हस्तौ ग्रहणधारणे ।
जिह्वावागिन्द्रियं वाक् च सत्या ज्योतिस्तमोऽनृता ।। चसं-५,१.२६ ।।


आयुर्वेददीपिका

अथ कर्मेन्द्रियाण्याह हस्ताव् इत्यादि ।। १ ।।

हस्ताव् एकं पादौ चैकमिन्द्रियमेकरूपकर्मकर्तृतया ।। २ ।।

गुदोपस्थं चैकैकम् ।। ३ ।।

वाच उपादानहानार्थं भेदमाह वाक् चेत्यादि ।। ४ ।।

ज्योतिरिव ज्योतिः धर्मकर्तृत्वेनोभयलोकप्रकाशकारित्वात् एतद्विपर्ययेण तमः अनृता ।। ५ ।।


महाभूतानि खं वायुर् अग्निर् आपः क्षितिस्तथा ।
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ।। चसं-५,१.२७ ।।


आयुर्वेददीपिका

सम्प्रत्युद्देशक्रमानुरोधादर्थे ऽभिधातव्ये ऽर्थानां प्रकृतिग्रहणगृहीतपञ्चभूतगुणतया पराधीनत्वाद् अष्टधातुप्रकृतिगृहीतानि भूतान्येव तावदाह महाभूतानीत्यादि ।। १ ।।

शब्दादयो यथासंख्यं खादीनां नैसर्गिका गुणा ज्ञेयाः ।। २ ।।

यस्तु गुणोत्कर्षो ऽभिधातव्यः स हि अनुप्रविष्टभूतसम्बन्धाद् एव ।। ३ ।।

तेन पृथिव्यां चतुर्भूतप्रवेशात् पञ्चगुणत्वम् एवं जलादाव् अपि चतुर्गुणत्वादि ज्ञेयम् ।। ४ ।।


तेषामेकगुणः पूर्वो गुणवृद्धिः परे परे ।
पूर्वः पूर्वगुणश्चैव क्रमशो गुणिषु स्मृतः ।। चसं-५,१.२८ ।।


आयुर्वेददीपिका

नैसर्गिकं गुणमभिधाय भूतान्तरप्रवेशकृतं गुणम् आह तेषाम् इत्यादि ।। १ ।।

एकगुणः पूर्व इति पूर्वो धातुः खरूपः शब्दैकगुणः ।। २ ।।

पुंलिङ्गता च खादीनां धातुरूपताबुद्धिस्थीकृतत्वात् उक्तं हि खादयश् चेतनाषष्ठा धातवः इति ।। ३ ।।

यथा यथा च परत्वं तथा तथा च गुणवृद्धिर् यथासंख्यम् ।। ४ ।।

ननु एतावता ऽप्य् एकगुणत्वद्विगुणत्वादि न नियमेन ज्ञायते को गुणः क्व भूते इत्याह पूर्व इत्यादि ।। ५ ।।

गुणिषु खादिषु धातुषु पूर्वो गुणः क्रमेण यथासंख्यं वर्तते न केवलं पूर्वः किंतु पूर्वस्यापि यो गुणः स च पूर्वगुण उत्तरे भूते वर्तते ।। ६ ।।

तेन खे पूर्वे पूर्वः शब्दगुणो वर्तते वायौ तु स्पर्शः क्रमप्राप्तः पूर्वो भवति पूर्वगुणश्च शब्द इति द्विगुणत्वम् एवमग्न्यादौ च ज्ञेयम् ।। ७ ।।

गन्धस् तूत्तरगुणान्तराभावान्न पूर्वो भवति तथापि गन्धश् च तद्गुणाः इति ग्रन्थे तद्गुणा इतिपदापेक्षया गन्धस्य पूर्वत्वं कल्पनीयं किंवा पूर्व इति छत्त्रिणो गच्छन्तीति न्यायेनोक्तं तेनापूर्वो ऽपि गन्धः क्रमागतः पृथिव्यां ज्ञेयः ।। ८ ।।


खरद्रवचलोष्णत्वं भूजलानिलतेजसाम् ।
आकाशस्याप्रतीघातो दृष्टं लिङ्गं यथाक्रमम् ।। चसं-५,१.२९ ।।

लक्षणं सर्वमेवैतत् स्पर्शनेन्द्रियगोचरम् ।
स्पर्शनेन्द्रियविज्ञेयः स्पर्शो हि सविपर्ययः ।। चसं-५,१.३० ।।


आयुर्वेददीपिका

भूतानाम् असाधारणं लक्षणमाह खरेत्यादि ।। १ ।।

अप्रतीघातः अप्रतिहननम् अस्पर्शत्वम् इति यावत् स्पर्शवद्धि गतिविघातकं भवति नाकाशः अस्पर्शवत्त्वात् ।। २ ।।

सर्वमेवैतदिति खरत्वादि ।। ३ ।।

स्पर्शनेन्द्रियगोचरमिति स्पर्शनेन्द्रियज्ञेयम् ।। ४ ।।

कथमेतत्सर्वं स्पर्शनेन्द्रियज्ञेयम् इत्याह स्पर्शनेत्यादि ।। ५ ।।

सविपर्यय इति स्पर्शाभाव इत्यर्थः ।। ६ ।।

यद् इन्द्रियं यद्गृह्णाति तत्तस्याभावमपि गृह्णाति तेन आकाशस्यास्पर्शत्वम् अपि स्पर्शनेन्द्रियग्राह्यम् इति युक्तम् ।। ७ ।।

द्रवत्वं चलत्वं च सांख्यमते स्पर्शनग्राह्यत्वात् स्थूलभूतवातधर्मः स्पर्श एव यद्धि स्पर्शनेन गृह्यते तत् सर्वं महाभूतवातपरिणाम एव ।। ८ ।।

एतानि च खादीनि सूक्ष्माणि तन्मात्ररूपाणि ज्ञेयानि स्थूलभूतानि तु खादीनि विकारतया तत्रोक्तानि ।। ९ ।।

प्रकृतिवर्गे सूक्ष्मरूपास्तन्मात्रा उक्ताः ।। १० ।।

वचनं हि तन्मात्राण्यविशेषास् तेभ्यो भूतानि पञ्च पञ्चभ्यः ।। ११ ।।

एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च इति तेनेहापि खादीनि तन्मात्रशब्दोक्तानि सूक्ष्माणि बोद्धव्यानि ।। १२ ।।


 

Like this:

Like Loading…

Post navigation

Previous Charak Samhita: Sutra Sthanam
Next Charaka Samhita

More Stories

Sama Veda Samhita (SC Vol 1): Agna ā yāhi vītaye gṛṇāno havyadātaye Kouthumiya Sama Veda Samhita Scholastic Commentary
  • Vedic Sanskrit Culture

Sama Veda Samhita (SC Vol 1): Agna ā yāhi vītaye gṛṇāno havyadātaye

18/09/2026
Sama Veda Samhita (Index): Sarvarthapedia Commentary Kouthumiya Sama Veda Samhita Scholastic Commentary
  • Vedic Sanskrit Culture

Sama Veda Samhita (Index): Sarvarthapedia Commentary

18/09/2026
Kautsavya’s Nirukta Nighantu: The Ancient Vedic Concordance of Sanskrit Words Sarvarthapedia of Hindu Scriptures and Interpretation (10-Volume): From the Vedic Period up to 2026
  • Vedic Sanskrit Culture

Kautsavya’s Nirukta Nighantu: The Ancient Vedic Concordance of Sanskrit Words

10/09/2026
  • Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce
  • Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures
  • International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce
  • Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce
  • Historical Evolution of World Commerce (Volume 2): Encyclopedia of International Trade and Commerce

More Updates

Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

Global Production, Supply Chains and Industrial Networks (Volume 4): Encyclopedia of International Trade and Commerce

11/10/2026
Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures Global Encyclopedia of International Trade and Commerce
  • Law Library

Synopsis of Volume 3 of GEITAC: International Trade Theory and Economic Structures

11/10/2026
International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

International Trade Theory and Economic Structures (Volume 3): Encyclopedia of International Trade and Commerce

11/10/2026
Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce Global Encyclopedia of International Trade and Commerce
  • Law Library

Synopsis of Volume 2 of GEITAC: Historical Evolution of World Commerce

11/10/2026
  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Encyclopedia of Contemporary World History

28 September 2026 Sarvarthapedia Global Historical Record

28 September 2026 — World History and Current Affairs records the day’s major developments across war, geopolitics, maritime trade, energy security, artificial intelligence, aviation, finance, science, climate, law, religion, tourism and global ...
  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
Legal Database and Encyclopedia | © 2026 by Advocatetanmoy Law Library.
%d