हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् (Hiranyagarva)
Home » Law Library Updates » Law Library » हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् (Hiranyagarva)
हिरण्यगर्भः सूक्तम्-ऋग्वेद -10/121/1
कस्मै देवाय हविषा विधेम
यः ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम
Hiranyagarvaha samavartatagre bhutasya jataha patireka aasit
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्॥ स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥ १ ॥
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः॥ यस्य छायामृतम् यस्य मृत्युः कस्मै देवाय हविषा विधेम॥ २ ॥
यः प्राणतो निमिषतो महित्वै क इद्राजा जगतो बभूव॥ यः ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम॥ ३ ॥
यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः॥ यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम॥ ४ ॥
येन द्यौरुग्रा पृथिवी च दृळहा येन स्वः स्तभितं येन नाकः॥ यो अंतरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥ ५ ॥
यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने॥ यत्राधि सूर उदतो विभाति कस्मै देवाय हविषा विधेम॥ ६ ॥
आपो ह यद् बृहतीर्विश्वमायन् गर्भं दधाना जनयन्तीरग्निम्॥ ततो देवानाम् समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥ ७ ॥
यश्चिदापो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर्यज्ञम्॥ यो देवेष्वधि देवः एक आसीत कस्मै देवाय हविषा विधेम ॥ ८ ॥
मा नो हिंसीज्जनिताः यः पृथिव्या यो वा दिव सत्यधर्मा जजान॥ यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥ ९ ॥
प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव॥ यत् कामास्ते जुहुमस्तन्नो अस्तु वयं सरयाम पतयो रयीणाम्॥ १० ॥
ॐ शान्तिः शान्तिः शान्तिः॥
हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् |
स दाधार पृथिवीं घामुतेमां कस्मै देवाय हविषा विधेम | यजु. १३/४
Hiranyagarbha was the only one at the beginning of the Universe who was the guardian of everything. He/it used to hold the earth and space, let us worship that Deity by offering Havi.
Read also
हिरण्य गर्भः (क:)
क: अस्मै देवाय
Isavasyopanishad as per Madhyandina Shakha