1-Vyakarana Mahabhashya (शब्द स्वरूप निर्णयाधिकरणम्)
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » 1-Vyakarana Mahabhashya (शब्द स्वरूप निर्णयाधिकरणम्)
200 BCE
व्याकरण महाभाष्य
अथ शब्दानुशासनम् ।
अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते। शब्दानुशासनं नाम शास्त्रमधिकृतं वेदितव्यम् ॥
Read Next
केषां शब्दानाम्?
लौकिकानां वैदिकानां च।
Read Next
तत्र लौकिकास्तावत् – गौः- अश्वः- पुरुषः- हस्ती- शकुनिः- मृगः- ब्राह्मण इति ॥
वैदिकाः खल्वपि- शन्नो देवीरभिष्टये (अ.सं.१,१,१), इषे त्वोर्जे त्वा (तै.सं.१,१,१,१), अग्निमीळे पुरोहितम् (ऋ.सं.१,१,१), अग्न आयाहि वीतये (सा. सं. १,१,१) इति ॥
Read Next
अथ गौरित्यत्र कः शब्दः?
किं यत्तत्सास्ना-लाङ्गूल-ककुद-खुर-विषाण्यर्थरूपं, स शब्दः ?
नेत्याह। द्रव्यं नाम तत् ॥
यत्तर्हि तदिङ्गितं चेष्टितं निमिषितमिति, स शब्दः? नेत्याह। क्रिया नाम सा ॥
यत्तर्हि तच्छुक्लो नीलः कपिलः कपोत इति, स शब्दः? नेत्याह। गुणो नाम सः ॥
यत्तर्हि तद्भिन्नेष्वभिन्नं छिन्नेष्वच्छिन्नं सामान्यभूतं स शब्दः ? नेत्याह। आकृतिर्नाम सा ॥
कस्तर्हि शब्दः?
येनोच्चारितेन सास्ना-लाङ्गूल-ककुद-खुर-विषाणिनां सम्प्रत्ययो भवति, स शब्दः ॥
अथवा प्रतीतपदार्थको लोके ध्वनिः शब्द इत्युच्यते। तद्यथा- शब्दं कुरु, मा शब्दं कार्षीः, शब्दकार्ययं माणवकः, इति ध्वनिं कुर्वन्नेवमुच्यते। तस्माद् ध्वनिः शब्दः ॥
Read also
Patanjali Yoga Sutram (महर्षि पतञ्जलि प्रणीतं योगदर्शनम्)