Aa No Vhadra Suktam (Aano Bhadra Suktam Rig 1.89)
Home » Law Library Updates » Law Library » Aa No Vhadra Suktam (Aano Bhadra Suktam Rig 1.89)
Rigveda Samhita 1.89
आ नो भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ ।
दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रायुवो रक्षि॒तारो दि॒वेदि॑वे ॥ १.०८९.०१
दे॒वानां भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां रा॒तिर॒भि नो॒ नि व॑र्तताम् ।
दे॒वानां स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्रति॑रन्तु जी॒वसे॑ ॥ १.०८९.०२
तान्पूर्व॑या नि॒विदा हूमहे व॒यं भगं मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिधम् ।
अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ॥ १.०८९.०३
तन्नो॒ वातो मयो॒भुवातु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः ।
तद् ग्रावाणः सोम॒सुतो मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ॥ १.०८९.०४
तमीशानं॒ जग॑तस्त॒स्थुष॒स्पतिं धियंजि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये ॥ १.०८९.०५
स्व॒स्ति न॒ इन्द्रो वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववेदाः ।
स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ॥ १.०८९.०६
पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावानो वि॒दथेषु॒ जग्म॑यः ।
अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे नो दे॒वा अव॒सा ग॑मन्नि॒ह ॥ १.०८९.०७
भ॒द्रं कर्णेभिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि॑र्यजत्राः ।
स्थि॒रैरङ्गैस्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ॥ १.०८९.०८
श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा नश्च॒क्रा ज॒रसं त॒नूनाम् ।
पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भवन्ति॒ मा नो म॒ध्या रीरिष॒तायु॒र्गन्तोः ॥ १.०८९.०९
अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः ।
विश्वे दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ॥ १.०८९.१०
ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
Alternative Reading without Swara marks
आ नो भद्राः
Read Next
१,०८९.०१ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
१,०८९.०१ देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥
१,०८९.०२ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् ।
१,०८९.०२ देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥
१,०८९.०३ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
१,०८९.०३ अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥
१,०८९.०४ तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
१,०८९.०४ तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥
१,०८९.०५ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
१,०८९.०५ पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
१,०८९.०६ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
१,०८९.०६ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
१,०८९.०७ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
१,०८९.०७ अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
१,०८९.०८ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
१,०८९.०८ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
१,०८९.०९ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
१,०८९.०९ पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
१,०८९.१० अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
१,०८९.१० विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥
Rig Veda