Home » Law Library Updates » छान्दोग्योपनिषद् – Chhandogya Upanishad
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति ।
तस्योपव्याख्यानम् ॥ १,१.१ ॥
एषां भूतानां पृथिवी रसः ।
पृथिव्या आपो रसः ।
अपामोषधयो रसः ।
ओषधीनां पुरुषो रसः ।
पुरुषस्य वाग्रसः ।
वाच ऋग्रसः ।
ऋचः साम रसः ।
साम्न उद्गीथो रसः ॥ १,१.२ ॥
स एष रसानां रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ॥ १,१.३ ॥
कतमा कतम र्क्कतमत्कतमत्साम कतमः कतम उद्गीथ इति विमृष्टं भवति ॥ १,१.४ ॥
वागेवर्क् ।
प्राणः साम ।
ओमित्येतदक्षरमुद्गीथः ।
तद्वा एतन्मिथुनं यद्वाक्च प्राणश्चर्क्च साम च ॥ १,१.५ ॥
तदेतन्मिथुनमोमित्येतस्मिन्नक्षरे संसृज्यते ।
यदा वै मिथुनौ समागच्छत आपयतो वै तावन्योऽन्यस्य कामम् ॥ १,१.६ ॥
आपयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १,१.७ ॥
तद्वा एतदनुज्ञाक्षरम् ।
यद्धि किंचानुजानात्योमित्येव तदाह ।
एषो एव समृद्धिर्यदनुज्ञा ।
समर्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ॥ १,१.८ ॥
तेनेयं त्रयी विद्या वर्तते ।
ओमित्याश्रावयति ।
ओमिति शंसति ।
ओमित्युद्गायति ।
एतस्यैव अक्षरस्यापचित्यै महिम्ना रसेन ॥ १,१.९ ॥
तेनोभौ कुरुतः ।
यश्चैतदेवं वेद यश्च न वेद ।
नाना तु विद्या चाविद्या च ।
यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ॥ १,१.१० ॥
देवासुरा ह वै यत्र संयेतिरे ।
उभये प्राजापत्यास्तद्ध देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति ॥ १,२.१ ॥
ते ह नासिक्यं प्राणमुद्गीथमुपासां चक्रिरे ।
तं ह असुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ।
पाप्मना ह्येष विद्धः ॥ १,२.२ ॥
अथ ह वाचमुद्गीथमुपासां चक्रिरे ।
तां हासुराः पाप्मना विविधुः ।
तस्मात्तयोभयं वदति सत्यं चानृतं च ।
पाप्मना ह्येषा विद्धा ॥ १,२.३ ॥
अथ ह चक्षुरुद्गीथमुपासां चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं पश्यति दर्शनीयं चादर्शनीयं च ।
पाप्मना ह्येतद्विद्धम् ॥ १,२.४ ॥
अथ ह श्रोत्रमुद्गीथमुपासां चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं शृणोति श्रवणीयं चाश्रवणीयं च ।
पाप्मना ह्येतद्विद्धम् ॥ १,२.५ ॥
अथ ह मन उद्गीथमुपासां चक्रिरे ।
तद्धासुराः पाप्मना विविधुः ।
तस्मात्तेनोभयं संकल्पयते संकल्पनीयं च ।
पाप्मना ह्येतद्विद्धम् ॥ १,२.६ ॥
अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासां चक्रिरे ।
तं हासुरा ऋत्वा विदध्वंसुर्यथाश्मानमाखणमृत्वा विध्वंसेतैवम् ॥ १,२.७ ॥
एवं यथाश्मानमाखणमृत्वा विध्वंसत एवं हैव स विध्वंसते य एवंविदि पापं कामयते यश्चैनमभिदासति ।
स एषोऽश्माखणः ॥ १,२.८ ॥
नैवैतेन सुरभि न दुर्गन्धि विजानाति ।
अपहतपाप्मा ह्येषः ।
तेन यदश्नाति यत्पिबति तेनेतरान् प्राणानवति ।
एतमु एवान्ततोऽवित्त्वोत्क्रामति ।
व्याददात्येवान्तत इति ॥ १,२.९ ॥
तं हाङ्गिरा उद्गीथमुपासां चक्रे ।
एतमु एवाङ्गिरसं मन्यन्तेऽङ्गानां यद्रसः ॥ १,२.१० ॥
तेन तं ह बृहस्पतिरुद्गीथमुपासां चक्रे ।
एतमु एव बृहस्पतिं मन्यन्ते ।
वाग्घि बृहती तस्या एषपतिः ॥ १,२.११ ॥
तेन तं हायास्य उद्गीथमुपासां चक्रे ।
एतमु एवायास्यं मन्यन्ते ।
आस्याद्यदयते ॥ १,२.१२ ॥
तेन तं ह बको दाल्भ्यो विदां चकार ।
स ह नैमिशीयानामुद्गाता बभूव ।
स ह स्मैभ्यः कामानागायति ॥ १,२.१३ ॥
आगाता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।
इत्यध्यात्मम् ॥ १,२.१४ ॥
अथाधिदैवतम् ।
य एवासौ तपति तमुद्गीथमुपासीत ।
उद्यन् वा एष प्रजाभ्य उद्गायति ।
उद्यंस्तमो भयमपहन्ति ।
अपहन्ता ह वै भयस्य तमसो भवति य एवं वेद ॥ १,३.१ ॥
समान उ एवायं चासौ च ।
उष्णोऽयमुष्णोऽसौ ।
स्वर इतीममाचक्षते स्वर इति प्रत्यास्वर इत्यमुम् ।
तस्माद्वा एतमिमममुं च उद्गीथमुपासीत ॥ १,३.२ ॥
अथ खलु व्यानमेवोद्गीथमुपासीत ।
यद्वै प्राणिति स प्राणः ।
यदपानिति सोऽपानः ।
अथ यः प्राणापानयोः संधिः स व्यानः ।
यो व्यानः सा वाक् ।
तस्मादप्राणन्ननपानन् वाचमभिव्याहरति ॥ १,३.३ ॥
या वाक्सर्क् ।
तस्मादप्राणन्ननपानन्नृचमभिव्याहरति ।
यर्क्तत्साम ।
तस्मादप्राणन्ननपानन् साम गायति ।
यत्साम स उद्गीथः ।
तस्मादप्रानन्ननपानन्नुद्गायति ॥ १,३.४ ॥
अतो यान्यन्यानि वीर्यवन्ति कर्माणि यथाग्नेर्मन्थनमाजेः सरणं दृढस्य धनुष आयमनमप्राणन्ननपानंस्तानि करोति ।
एतस्य हेतोर्व्यानमेवोद्गीथमुपासीत ॥ १,३.५ ॥
अथ खलूद्गीथाक्षराण्युपासीत उद्गीथ इति ।
प्राण एवोत् ।
प्राणेन ह्युत्तिष्ठति ।
वग्गीः ।
वाचो ह गिर इत्याचक्षते ।
अन्नं थम् ।
अन्ने हीदं सर्वं स्थितम् ॥ १,३.६ ॥
द्यौरेवोत् ।
अन्तरिक्षं गीः ।
पृथिवी थम् ।
आदित्य एवोत् ।
वायुर्गीः ।
अग्निस्थम् ।
सामवेद एवोत् ।
यजुर्वेदो गीः ।
ऋग्वेदस्थम् ।
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः ।
अन्नवानन्नादो भवति ।
य एतान्येवं विद्वानुद्गीथाक्षराण्युपास्त उद्गीथ इति ॥ १,३.७ ॥
अथ खल्वाशीः समृद्धिः ।
उपसरणानीत्युपासीत ।
येन साम्ना स्तोष्यन् स्यात्तत्सामोपधावेत् ॥ १,३.८ ॥
यस्यामृचि तामृचं, यदार्षेयं तमृषिं, यां देवतामभिष्टोष्यन् स्यात्तां देवतामुपधावेत् ॥ १,३.९ ॥
येन च्छन्दसा स्तोष्यन् स्यात्तच्छन्द उपधावेत् ।
येन स्तोमेन स्तोष्यमाणः स्यात्तं स्तोममुपधावेत् ॥ १,३.१० ॥
यां दिशमभिष्टोष्यन् स्यात्तां दिशमुपधावेत् ॥ १,३.११ ॥
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन्नप्रमत्तः ।
अभ्याशो ह यदस्मै स कामः स्मृध्येत यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ॥ १,३.१२ ॥
ओमित्येतदक्षरमुद्गीथमुपासीत ।
ओमिति ह्युद्गायति ।
तस्योपव्याख्यानम् ॥ १,४.१ ॥
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ।
ते छन्दोभिरच्छादयन् ।
यदेभिरच्छादयंस्तच्छन्दसां छन्दस्त्वम् ॥ १,४.२ ॥
तानु तत्र मृत्युर्यथा मत्स्यमुदके परिपश्येदेवं पर्यपश्यदृचि साम्नि यजुषि ।
ते नु वित्त्वोर्ध्वा ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ॥ १,४.३ ॥
यदा वा ऋचमाप्नोत्योमित्येवातिस्वरति एवं सामैवं यजुः ।
एष उ स्वरो यदेतदक्षरमेतदमृतमभयम् ।
तत्प्रविश्य देवा अमृता अभवन् ॥ १,४.४ ॥
स य एतदेवं विद्वानक्षरं प्रणौत्येतदेवाक्षरं स्वरममृतमभयं प्रविशति ।
तत्प्रविश्य यदमृता देवास्तदमृतो भवति ॥ १,४.५ ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
असौ वा आदित्य उद्गीथ एष प्रणवः ।
ओमिति ह्येष स्वरन्नेति ॥ १,५.१ ॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच ।
रश्मींस्त्वं पर्यावर्तयात् ।
बहवो वै ते भविष्यन्ति ।
इत्यधिदैवतम् ॥ १,५.२ ॥
अथाध्यात्मम् ।
य एवायं मुख्यः प्राणस्तमुद्गीथमुपासित ।
ओमिति ह्येष स्वरन्नेति ॥ १,५.३ ॥
एतमु एवाहमभ्यगासिषं तस्मान्मम त्वमेकोऽसीति ह कौषीतकिः पुत्रमुवाच ।
प्राणांस्त्वं भूमानमभिगायताद्बहवो वै मे भविष्यन्तीति ॥ १,५.४ ॥
अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति ।
होतृषदनाद्ध एवापि दुरुद्गीथमनुसमाहरतीत्यनुसमाहरतीति ॥ १,५.५ ॥
इयमेवर्क् ।
अग्निः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
इयमेव सा ।
अग्निरमः ।
तत्साम ॥ १,६.१ ॥
अन्तरिक्षमेवर्क् ।
वायुः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
अन्तरिक्षमेव सा ।
वायुरमः ।
तत्साम ॥ १,६.२ ॥
द्यौरेवर्क् ।
आदित्यः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
द्यौरेव सा ।
आदित्योऽमः ।
तत्साम ॥ १,६.३ ॥
नक्षत्रान्येवर्क् ।
चन्द्रमाः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
नक्षत्राण्येव सा ।
चन्द्रमा अमः ।
तत्साम ॥ १,६.४ ॥
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क् ।
अथ यन्नीलं परःकृष्णं तत्साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मदृच्यध्यूढं साम गीयते ॥ १,६.५ ॥
अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा ।
अथ यन्नीलं परःकृष्णं तदमः ।
तत्साम ।
अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुर्हिरण्यकेश आ प्रणखात्सर्व एव सुवर्नः ॥ १,६.६ ॥
तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी ।
तस्योदिति नाम ।
स एष सर्वेभ्यः पाप्मभ्य उदितः ।
उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद ॥ १,६.७ ॥
तस्यर्क्च साम च गेष्णौ ।
तस्मादुद्गीथः ।
तस्मात्त्वेव उद्गाता ।
एतस्य हि गाता ।
स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ट देवकामानां च ।
इत्यधिदैवतम् ॥ १,६.८ ॥
अथाध्यात्मम् ।
वागेवर्क् ।
प्राणः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
वागेव सा ।
प्राणोऽमः ।
तत्साम ॥ १,७.१ ॥
चक्षुरेवर्क् ।
आत्मा साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
चक्षुरेव सा ।
आत्मामः ।
तत्साम ॥ १,७.२ ॥
श्रोत्रमेवर्क् ।
मनः साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
श्रोत्रमेव सा ।
मनोऽमः ।
तत्साम ॥ १,७.३ ॥
अथ यदेतदक्ष्नः शुक्लं भाः सैवर्क् ।
अथ यन्नीलं परःकृष्णं तत्साम ।
तदेतदेतस्यामृच्यध्यूढं साम ।
तस्मादृच्यध्यूढं साम गीयते ।
अथ यदेवैतदक्ष्णः शुक्लं भाः सैव सा ।
अथ यन्नीलं परःकृष्णं तदमः ।
तत्साम ॥ १,७.४ ॥
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते सैवर्क् ।
तत्साम ।
तदुक्थम् ।
तद्यजुः ।
तद्ब्रह्म ।
तस्य एतस्य तदेव रूपं यदमुष्य रूपम् ।
यावमुष्य गेष्णौ तौ तौ गोष्णौ ।
यन्नाम तन्नाम ॥ १,७.५ ॥
स एष ये चैतस्मादर्वाञ्चो लोकास्तेषां चेष्टे मनुष्यकामानां चेति ।
तद्य इमे वीणायां गायन्त्येतं ते गायन्ति ।
तस्मात्ते धनसनयः ॥ १,७.६ ॥
अथ य एतदेवं विद्वान् साम गायत्युभौ स गायति ।
सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च ॥ १,७.७ ॥
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्च ।
तस्मादु हैवंविदुद्गाता ब्रूयात् ॥ १,७.८ ॥
कं ते काममागायानीति ।
एष ह्येव कामागानस्येष्टे य एवं विद्वान् साम गायति साम गायति ॥ १,७.९ ॥
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो दाल्भ्यः प्रवाहणो जैवलिरिति ।
ते होचुरुद्गीथे वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति ॥ १,८.१ ॥
तथेति ह समुपविविशुः ।
स ह प्रावहणो जैवलिरुवाच ।
भगवन्तावग्रे वदताम् ।
भ्रामणयोर्वदतोर्वाचं श्रोष्यामीति ॥ १,८.२ ॥
स ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाच हन्त त्वा पृच्छानीति ।
पृच्छेति होवाच ॥ १,८.३ ॥
का साम्नो गतिरिति ।
स्वर इति होवाच ।
स्वरस्य का गतिरिति ।
प्राण इति होवाच ।
अन्नस्य का गतिरिति ।
अन्नमिति होवाच ।
अन्नस्य का गतिरिति ।
आप इति होवाच ॥ १,८.४ ॥
अपां का गतिरिति ।
असौ लोक इति होवाच ।
अमुष्य लोकस्य का गतिरिति ।
न स्वर्गं लोकमतिनयेदिति होवाच ।
स्वर्गं वयं लोकं सामाभिसंस्थापयामः ।
स्वर्गसंस्तावं हि सामेति ॥ १,८.५ ॥
तं ह शिलकः शालावत्यश्चैकितायनं दाल्भ्यमुवाचाप्रतिष्ठितं वै किल ते दाल्भ्य साम ।
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ॥ १,८.६ ॥
हन्ताहमेतद्भगवत्तो वेदानीति ।
विद्धीति होवाच ।
अमुष्य लोकस्य का गतिरिति ।
अयं लोक इति होवाच ।
अस्य लोकस्य का गतिरिति ।
न प्रतिष्ठां लोकमतिनयेदिति होवाच ।
प्रतिष्ठां वयं लोकं सामाभिसंस्थापयामः ।
प्रतिष्ठासंस्तावं हि सामेति ॥ १,८.७ ॥
तं ह प्रवाहणो जैवलिरुवाच ।
अन्तवद्वै किल ते शालावत्य साम ।
यस्त्वेतर्हि ब्रूयान्मूर्धा ते विपतिष्यतीति मूर्धा ते विपतेदिति ।
हन्ताहमेतद्भगवत्तो वेदानीति ।
विद्धीति होवाच ॥ १,८.८ ॥
अस्य लोकस्य का गतिरिति ।
आकाश इति होवाच ।
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।
आकाशं प्रत्यस्तं यन्ति ।
आकाशो ह्येवैभ्यो ज्यायान् ।
आकाशः परायणम् ॥ १,९.१ ॥
स एष परोवरीयानुद्गीथः ।
स एषोऽनन्तः ।
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान् परोवरीयांसमुद्गीथमुपास्ते ॥ १,९.२ ॥
तं हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच ।
यावत्त एनं प्रजायामुद्गीथं वेदिष्यन्ते परोवरीयो हैभ्यस्तावदस्मिंल्लोके जीवनं भविष्यति ॥ १,९.३ ॥
तथामुष्मिंल्लोके लोक इति ।
स य एतमेव विद्वानुपास्ते परोवरीय एव हास्यामुष्मिंल्लोके जीवनं भवति तथामुष्मिंल्लोके लोक इति लोके लोक इति ॥ १,९.४ ॥
मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास ॥ १,१०.१ ॥
स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे ।
तं होवाच ।
नेतोऽन्ये विद्यन्ते यच्च ये म इम उपनिहिता इति ॥ १,१०.२ ॥
एतेषां मे देहीति होवाच ।
तानस्मै प्रददौ ।
हन्तानुपानमिति ।
उच्छिष्टं वै मे पीतं स्यादिति होवाच ॥ १,१०.३ ॥
न स्विदेतेऽप्युच्छिष्टा इति ।
न वा अजीविष्यमिमानखादन्निति होवाच ।
कामो म उदपानमिति ॥ १,१०.४ ॥
स ह खादित्वातिशेषाञ्जायाया आजहार ।
साग्र एव सुभिक्षा बभूव ।
तान् प्रतिगृह्य निदधौ ॥ १,१०.५ ॥
स ह प्रातः संजिहान उवाच ।
यद्बतान्नस्य लभेमहि लभेमहि धनमात्राम् ।
राजासौ यक्ष्यते ।
स मा सर्वैरार्त्विज्यैर्वृणीतेति ॥ १,१०.६ ॥
तं जायोवाच ।
हन्त पत इम एव कुल्माषा इति ।
तान् खादित्वामुं यज्ञं विततमेयाय ॥ १,१०.७ ॥
तत्रोद्गात्ःनास्तावे स्तोष्यमाणानुपोपविवेश ।
स ह प्रस्तोतरमुवाच ॥ १,१०.८ ॥
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति ॥ १,१०.९ ॥
एवमेवोद्गातारमुवाच ।
उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति ॥ १,१०.१० ॥
एवमेव प्रतिहर्तारमुवाच ।
प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति ।
ते ह समारतास्तूष्णीमासां चक्रिरे ॥ १,१०.११ ॥
अथ हैनं यजमान उवाच ।
भगवन्तं वा अहं विविदिषाणीति ।
उषस्तिरस्मि चाक्रायण इति होवाच ॥ १,११.१ ॥
स होवाच ।
भगवन्तं वा अहमेभिः सर्वैरार्त्विज्यैः पर्यैषिषम् ।
भगवतो वा अहमवित्त्यान्यानवृषि ॥ १,११.२ ॥
भगवांस्त्वेव मे सर्वैरार्त्विज्यैरिति ।
तथेति ।
अथ तर्ह्येत एव समतिसृष्टाः स्तुवताम् ।
यावत्त्वेभ्यो धनं दद्यास्तावन्मम दद्या इति ।
तथेति ह यजमान उवाच ॥ १,११.३ ॥
अथ हैनं प्रस्तोतोपससाद ।
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
कतमा सा देवतेति ॥ १,११.४ ॥
प्राण इति होवाच ।
सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति ।
प्राणमभ्युज्जिहते ।
सैषा देवता प्रस्तावमन्वायत्ता ।
तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते विपतिष्यत्तथोक्तस्य मयेति ॥ १,११.५ ॥
अथ हैनमुद्गातोपससाद ।
उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
कतमा सा देवता इति ॥ १,११.६ ॥
आदित्य इति होवाच ।
सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति ।
सैषा देवतोद्गीथमन्वायत्ता ।
तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ॥ १,११.७ ॥
अथ हैनं प्रतिहर्तोपससाद ।
प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ।
कतमा सा देवतेति ॥ १,११.८ ॥
अन्नमिति होवाच ।
सर्वाणि ह वा इमानि भूतन्यन्नमेव प्रतिहरमाणानि जीवन्ति ।
सैषा देवता प्रतिहारमन्वायत्ता ।
तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति तथोक्तस्य मयेति ॥ १,११.९ ॥
अथातः शौव उद्गीथः ।
तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ॥ १,१२.१ ॥
तस्मै श्वा श्वेतः प्रादुर्बभूव ।
तमन्ये श्वान उपसमेत्योचुः ।
अन्नं नो भगवानागायतु ।
अशनायाम वा इति ॥ १,१२.२ ॥
तान् होवाचेहैव मा प्रातरुपसमीयतेति ।
तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयां चकार ॥ १,१२.३ ॥
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुः ।
ते ह समुपविश्य हिञ्चक्रुः ॥ १,१२.४ ॥
ओ३ अदा३ अ ।
ओं३ पिबा३ अ ।
ओं३ देवो वरुणः प्रजापतिः सविता२ऽन्नमिहा२ऽहरत् ।
अन्नपते३ऽन्नमिहा२ऽऽहरा२ऽऽहरो३ इति ॥ १,१२.५ ॥
अयं वाव लोको हाउकारः ।
वायुर्हाइकारः ।
चन्द्रमा अथकारः ।
आत्मेहकारः ।
अग्निरीकारः ॥ १,१३.१ ॥
आदित्य ऊकारः ।
निहव एकारः ।
विश्वे देवा औहोयिकारः ।
प्रजपतिर्हिङ्कारः ।
प्राणः स्वरः ।
अन्नं या ।
वाग्विराट् ॥ १,१३.२ ॥
अनिरुक्तस्त्रयोदशः स्तोभः संचरो हुङ्कारः ॥ १,१३.३ ॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः ।
अन्नवानन्नादो भवति ।
य एतामेवं साम्नामुपनिषदं वेदोपनिषदं वेद ॥ १,१३.४ ॥
समस्तस्य खलु साम्न उपासनं साधु ।
यत्खलु साधु तत्सामेत्याचक्षते ।
यदसाधु तदसामेति ॥ २,१.१ ॥
तदुताप्याहुः ।
साम्नैनमुपागादिति साधुनैनमुपागादित्येव तदाहुः ।
असाम्नैनमुपागादित्येव तदाहुः ॥ २,१.२ ॥
अथोताप्याहुः ।
साम नो बतेति यत्साधु भवति साधु बतेत्येव तदाहुः ।
असाम नो बतेति यदसाधु भवत्यसाधु बतेत्येव तदाहुः ॥ २,१.३ ॥
स य एतदेवं विद्वान् साधु सामेत्युपास्तेऽभ्याशो ह यदेनं साधवो धर्मा आ च गच्छेयुरुप च नमेयुः ॥ २,१.४ ॥
लोकेषु पञ्चविधं सामोपासीत ।
पृथिवी हिङ्कारः ।
अग्निः प्रस्तावः ।
अन्तरिक्षमुद्गीथः ।
आदित्यः प्रतिहारः ।
द्यौर्निधनम् ।
इत्यूर्ध्वेषु ॥ २,२.१ ॥
अथावृत्तेषु ।
द्यौर्हिङ्कारः ।
आदित्यः प्रस्तावः ।
अन्तरिक्षमुद्गीथः ।
अग्निः प्रतिहारः ।
पृथिवी निधनम् ॥ २,२.२ ॥
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चावृत्तश्च य एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्ते ॥ २,२.३ ॥
वृष्टौ पञ्चविधं सामोपासीत ।
पुरोवातो हिङ्कारः ।
मेघो जायते स प्रस्तावः ।
वर्षति स उद्गीथः ।
विद्योतते स्तनयति स प्रतिहारः ॥ २,३.१ ॥
उद्गृह्णाति तन्निधनं वर्षयति ह य एतदेवं विद्वान् वृष्टौ पञ्चविधं सामोपास्ते ॥ २,३.२ ॥
सर्वास्वप्सु पञ्चविधं सामोपासीत ।
मेघो यत्संप्लवते स हिङ्कारः ।
यद्वर्षति स प्रस्तावः ।
याः प्राच्यः स्यन्दन्ते स उद्गीथः ।
याः प्रतीच्यः स प्रतिहारः ।
समुद्रो निधनम् ॥ २,४.१ ॥
न हाप्सु प्रैत्यप्सुमान् भवति य एतदेवं विद्वान् सर्वास्वप्सु पञ्चविधं सामोपास्ते ॥ २,४.२ ॥
ऋतुषु पञ्चविधं सामोपासीत ।
वसन्तो हिङ्कारः ।
ग्रीष्मः प्रस्तावः ।
वर्षा उद्गीथः ।
शरत्प्रतिहारः ।
हेमन्तो निधनम् ॥ २,५.१ ॥
कल्पन्ते हास्मा ऋतव ऋतुमान् भवति य एतदेवं विद्वानृतुषु पञ्चविधं सामोपास्ते ॥ २,५.२ ॥
पशुषु पञ्चविधं सामोपासीत ।
अजा हिङ्कारः ।
अवयः प्रस्तावः ।
गाव उद्गीथः ।
अश्वः प्रतिहारः ।
पुरुषो निधनम् ॥ २,६.१ ॥
भवन्ति हास्य पशवः पशुमान् भवति य एतदेवं विद्वान् पशुषु पञ्चविधं सामोपास्ते ॥ २,६.२ ॥
प्राणेषु पञ्चविधं परोवरीयः सामोपासीत ।
प्राणो हिङ्कारः ।
वाक्प्रस्तावः ।
चक्षुरुद्गीथः ।
श्रोत्रं प्रतिहारः ।
मनो निधनम् ।
परोवरीयांसि वा एतानि ॥ २,७.१ ॥
परोवरीयो हास्य भवति परोवरीयसो ह लोकाञ्जयति य एतदेवं विद्वान् प्राणेषु पञ्चविधं परोवरीयः सामोपास्ते ।
इति तु पञ्चविधस्य ॥ २,७.२ ॥
अथ सप्तविधस्य ।
वाचि सप्तविध्.अं सामोपासीत ।
यत्किंच वाचो हुमिति स हिङ्कारः ।
यत्प्रेति स प्रस्तावः ।
यदेति स आदिः ॥ २,८.१ ॥
यदुदिति स उद्गीथः ।
यत्प्रतीति स प्रतिहारः ।
यदुपेति स उपद्रवः ।
यन्नीति तन्निधनम् ॥ २,८.२ ॥
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः ।
अन्नवानन्नादो भवति ।
य एतदेवं विद्वान् वाचि सप्तविधं सामोपास्ते ॥ २,८.३ ॥
अथ खल्वमुमादित्यं सप्तविधं सामोपासीत ।
सर्वदा समस्तेन साम ।
मां प्रति मां प्रतीति सर्वेण समस्तेन साम ॥ २,९.१ ॥
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्तानीति विद्यात् ।
तस्य यत्पुरोदयात्स हिङ्कारः ।
तदस्य पशवोऽन्वायत्ताः ।
तस्मात्ते हिङ्कुर्वन्ति ।
हिङ्कारभाजिनो ह्येतस्य साम्नः ॥ २,९.२ ॥
अथ यत्प्रथमोदिते स प्रस्तावः ।
तदस्य मनुष्या अन्वायत्ताः ।
तस्मात्ते प्रस्तुतिकामाः प्रशंसाकामाः ।
प्रस्तावभाजिनो ह्येतस्य साम्नः ॥ २,९.३ ॥
अथ यत्संगववेलायां स आदिः ।
तदस्य वयांस्यन्वायत्तानि ।
तस्मात्तान्यन्तरिक्षेऽनारम्भणान्यादायात्मानं परिपतन्ति ।
आदिभाजीनि ह्येतस्य साम्नः ॥ २,९.४ ॥
अथ यत्संप्रति मध्यंदिने स उद्गीथः ।
तदस्य देवा अन्वायत्ताः ।
तस्मात्ते सत्तमाः प्राजापत्यानाम् ।
उद्गीथभाजिनो ह्येतस्य साम्नः ॥ २,९.५ ॥
अथ यदूर्ध्वं मध्यंदिनात्प्रागपराह्णात्स प्रतिहारः ।
तदस्य गर्भा अन्वायत्ताः ।
तस्मात्ते प्रतिहृता नावपद्यन्ते ।
प्रतिहारभाजिनो ह्येतस्य साम्नः ॥ २,९.६ ॥
अथ यदूर्ध्वमपराह्णात्प्रागस्तमयात्स उपद्रवः ।
तदस्यारण्या अन्वायत्ताः ।
तस्मात्ते पुरुषं दृष्ट्वा कक्षं श्वभ्रमित्युपद्रवन्ति ।
उपद्रवभाजिनो ह्येतस्य साम्नः ॥ २,९.७ ॥
अथ यत्प्रथमास्तमिते तन्निधनम् ।
तदस्य पितरोऽन्वायत्ताः ।
तस्मात्तान्निदधति ।
निधनभाजिनो ह्येतस्य साम्नः ।
एवं खल्वमुमादित्यं सप्तविधं सामोपास्ते ॥ २,९.८ ॥
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधं सामोपासीत ।
हिङ्कार इति त्र्यक्षरम् ।
प्रस्ताव इति त्र्यक्षरम् ।
तत्समम् ॥ २,१०.१ ॥
आदिरिति द्व्यक्षरम् ।
प्रतिहार इति चतुरक्षरम् ।
तत इहैकम् ।
तत्समम् ॥ २,१०.२ ॥
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति ।
अक्षरमतिशिष्यते त्र्यक्षरम् ।
तत्समम् ॥ २,१०.३ ॥
निधनमिति त्र्यक्षरम् ।
तत्सममेव भवति ।
तानि ह वा एतानि द्वाविंशतिरक्षराणि ॥ २,१०.४ ॥
एकविंशत्यादित्यमाप्नोति ।
एकविंशो वा इतोऽसावादित्यः ।
द्वाविंशेन परमादित्याज्जयति ।
तन्नाकम् ।
तद्विशोकम् ॥ २,१०.५ ॥
आप्नोतीहादित्यस्य जयम् ।
परो हास्यादित्यजयाज्जयो भवति य एतदेवं विद्वानात्मसंमितमतिमृत्यु सप्तविधं सामोपास्ते सामोपास्ते ॥ २,१०.६ ॥
मनो हिङ्कारः ।
वाक्प्रस्तावः ।
चक्षुरुद्गीथः ।
श्रोत्रं प्रतिहारः ।
प्राणो निधनम् ।
एतद्गायत्रं प्राणेषु प्रोतम् ॥ २,११.१ ॥
स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद ।
प्राणी भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
महामनाः स्यात् ।
तद्व्रतम् ॥ २,११.२ ॥
अभिमन्थति स हिङ्कारः ।
धूमो जायते स प्रस्तावः ।
ज्वलति स उद्गीथः ।
अङ्गारा भवन्ति स प्रतिहारः ।
उपशाम्यति तन्निधनम् ।
संशाम्यति तन्निधनम् ।
एतद्रथंतरमग्नौ प्रोतम् ॥ २,१२.१ ॥
स य एवमेतद्रथंतरमग्नौ प्रोतं वेद ।
ब्रह्मवर्चस्यन्नादो भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
न प्रत्यङ्ङग्निमाचामेन्न निष्ठीवेत् ।
तद्व्रतम् ॥ २,१२.२ ॥
उपमन्त्रयते स हिङ्कारः ।
ज्ञपयते स प्रस्तावः ।
स्त्रिया सह शेते स उद्गीथः ।
प्रति स्त्रीं सह शेते स प्रतिहारः ।
कालं गच्छति तन्निधनम् ।
पारं गच्छति तन्निधनम् ।
एतद्वामदेव्यं मिथुने प्रोतम् ॥ २,१३.१ ॥
स य एवमेतद्वामदेव्यं मिथुने प्रोतं वेद ।
मिथुनी भवति ।
मिथुनान्मिथुनात्प्रजायते ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
न कांचन परिहरेत् ।
तद्व्रतम् ॥ २,१३.२ ॥
उद्यन् हिङ्कारः ।
उदितः प्रस्तावः ।
मध्यंदिन उद्गीथः ।
अपराह्णः प्रतिहारः ।
अस्तं यन्निधनम् ।
एतद्बृहदादित्ये प्रोतम् ॥ २,१४.१ ॥
स य एवमेतद्बृहदादित्ये प्रोतं वेद ।
तेजस्व्यन्नादो भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
तपन्तं न निन्देत् ।
तद्व्रतम् ॥ २,१४.२ ॥
अभ्राणि संप्लवन्ते स हिङ्कारः ।
मेघो जायते स प्रस्तावः ।
वर्षति स उद्गीथः ।
विद्योतते स्तनयति स प्रतिहारः ।
उद्गृह्णाति तन्निधनम् ।
एतद्वैरूपं पर्जन्ये प्रोतम् ॥ २,१५.१ ॥
स य एवमेतद्वैरूपं पर्जन्ये प्रोतं वेद ।
विरूपांश्च सुरूपंश्च पशूनवरुन्धे ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
वर्षन्तं न निन्देत् ।
तद्व्रतम् ॥ २,१५.२ ॥
वसन्तो हिङ्कारः ।
ग्रीष्मः प्रस्तावः ।
वर्षा उद्गीथः ।
शरत्प्रतिहारः ।
हेमन्तो निधनम् ।
एतद्वैराजमृतुषु प्रोतम् ॥ २,१६.१ ॥
स य एवमेतद्वैराजमृतुषु प्रोतं वेद ।
विराजति प्रजया ।
पशुभिर्ब्रह्मवर्चसेन ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
ऋतून्न निन्देत् ।
तद्व्रतम् ॥ २,१६.२ ॥
पृथिवी हिङ्कारः ।
अन्तरिक्षं प्रस्तावः ।
द्यौरुद्गीथः ।
दिशः प्रतिहारः ।
समुद्रो निधनम् ।
एताः शक्वर्यो लोकेषु प्रोताः ॥ २,१७.१ ॥
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद ।
लोकी भवति सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
लोकान्न निन्देत् ।
तद्व्रतम् ॥ २,१७.२ ॥
अजा हिङ्कारः ।
अवयः प्रस्तावः ।
गाव उद्गीथः ।
अश्वाः प्रतिहारः ।
पुरुषो निधनम् ।
एता रेवत्यः पशुषु प्रोताः ॥ २,१८.१ ॥
स य एवमेता रेवत्यः पशुषु प्रोता वेद ।
पशुमान् भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
पशून्न निन्देत् ।
तद्व्रतम् ॥ २,१८.२ ॥
लोम हिङ्कारः ।
त्वक्प्रस्तावः ।
मांसमुद्गीथः ।
अस्थि प्रतिहारः ।
मज्जा निधनम् ।
एतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् ॥ २,१९.१ ॥
स य एवमेतद्यज्ञायज्ञीयमङ्गेषु प्रोतं वेद ।
अङ्गी भवति ।
नाङ्गेन विहूर्छति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
संवत्सरं मज्ज्ञो नाश्नीयात् ।
तद्व्रतम् ।
मज्ज्ञो नाश्नीयादिति वा ॥ २,१९.२ ॥
अग्निर्हिङ्कारः ।
वायुः प्रस्तावः ।
आदित्य उद्गीथः ।
नक्षत्राणि प्रतिहारः ।
चन्द्रमा निधनम् ।
एतद्राजनं देवतासु प्रोतम् ॥ २,२०.१ ॥
स य एवमेतद्राजनं देवतासु प्रोतं वेद ।
एतासामेव देवतानां सलोकतां सर्ष्टितां सायुज्यं गच्छति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
महान् प्रजया पशुभिर्भवति ।
महान् कीर्त्या ।
ब्राह्मणान्न निन्देत् ।
तद्व्रतम् ॥ २,२०.२ ॥
त्रयी विद्या हिङ्कारः ।
त्रय इमे लोकाः स प्रस्तावः ।
अग्निर्वायुरादित्यः स उद्गीथः ।
नक्षत्राणि वयांसि मरीचयः स प्रतिहारः ।
सर्पा गन्धर्वाः पितरस्तन्निधनम् ।
एतत्साम सर्वस्मिन् प्रोतम् ॥ २,२१.१ ॥
स य एवमेतत्साम सर्वस्मिन् प्रोतं वेद सर्वं ह भवति ॥ २,२१.२ ॥
तदेष श्लोकः ।
यानि पञ्चधा त्रीणि त्रीणि ।
तेभ्यो न ज्यायः परमन्यदस्ति ॥ २,२१.३ ॥
यस्तद्वेद स वेद सर्वम् ।
सर्वा दिशो बलिमस्मै हरन्ति ।
सर्वमस्मीत्युपासित ।
तद्व्रतं तद्व्रतम् ॥ २,२१.४ ॥
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथः ।
अनिरुक्तः प्रजापतेः ।
निरुक्तः सोमस्य ।
मृदु श्लक्ष्णं वायोः ।
श्लक्ष्णं बलवदिन्द्रस्य ।
क्रौञ्चं बृहस्पतेः ।
अपध्वान्तं वरुणस्य ।
तान् सर्वानेवोपसेवेत ।
वारुणं त्वेव वर्जयेत् ॥ २,२२.१ ॥
अमृतत्वं देवेभ्य आगायानीत्यागायेत् ।
स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः स्वर्गं लोकं यजमानायान्नमात्मन आगायानीत्येतानि मनसा ध्यायन्नप्रमत्तः स्तुवीत ॥ २,२२.२ ॥
सर्वे स्वरा इन्द्रस्यात्मानः ।
सर्व ऊष्माणः प्रजापतेरात्मानः ।
सर्वे स्पर्शा मृत्योरात्मानः ।
तं यदि स्वरेषूपालभेत ।
इन्द्रं शरणं प्रपन्नोऽभूवं स त्वा प्रति वक्ष्यतीत्येनं ब्रूयात् ॥ २,२२.३ ॥
अथ यद्येनमूष्मासूपालभेत ।
प्रजापतिं शरणं प्रपन्नोऽभूवं स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयात् ।
अथ यद्येनं स्पर्शेषूपालभेत ।
मृत्युं शरणं प्रपन्नोऽभूवं स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् ॥ २,२२.४ ॥
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्या इन्द्रे बलं ददानीति ।
सर्व ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः प्रजापतेरात्मानं परिददानीति ।
सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्या मृत्योरात्मानं परिहराणीति ॥ २,२२.५ ॥
त्रयो धर्मस्कन्धाः ।
यज्ञोऽध्ययनं दानमिति प्रथमः ।
तप एव द्वितीयः ।
ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् ।
सर्व एते पुण्यलोका भवन्ति ।
ब्रह्मसंस्थोऽमृतत्वमेति ॥ २,२३.१ ॥
प्रजापतिर्लोकानभ्यतपत् ।
तेभ्योऽभितप्तेभ्यस्त्रयी विद्या संप्रास्रवत् ।
तामभ्यतपत् ।
तस्या अभितप्ताया एतान्यक्षराणि संप्रस्र्वन्त भूर्भुवः स्वरिति ॥ २,२३.२ ॥
तान्यभ्यतपत् ।
तेभ्योऽभितप्तेभ्य ओंकारः संप्रास्रवत् ।
तद्यथा शङ्कुना सर्वाणि पर्णानि संतृण्णान्येवमोंकारेण सर्वा वाक्संतृण्णा ।
ओंकार एवेदं सर्वमोंकार एव इदं सर्वम् ॥ २,२३.३ ॥
ब्रह्मवादिनो वदन्ति ।
यद्वसूनां प्रातःसवनम् ।
रुद्राणां माध्यंदिनं सवनम् ।
आदित्यानां च विश्वेषां च देवानां तृतीयसवनम् ॥ २,२४.१ ॥
क्व तर्हि यजमानस्य लोक इति ।
स यस्तं न विद्यात्कथं कुर्यात् ।
अथ विद्वान् कुर्यात् ॥ २,२४.२ ॥
पुरा प्रातरनुवाकस्योपाकरणाज्जघनेन गार्हपत्यस्योदाङ्मुख उपविश्य स वासवं सामाभिगायति ॥ २,२४.३ ॥
लो ३ कद्वारमपावा ३ र्णू ३३ ।
पश्येम त्वा वयं रा ३३३३३ हु ३ मा ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ २,२४.४ ॥
अथ जुहोति ।
नमोऽग्नये पृथिवीक्षिते लोकक्षिते ।
लोकं मे यजमानाय विन्द ।
एष वै यजमानस्य लोकः ।
एता अस्मि ॥ २,२४.५ ॥
अत्र यजमानः परस्तादायुषः स्वाहा ।
अपजहि परिघमित्युक्त्वोत्तिष्ठति ।
तस्मै वसवः प्रातःसवनं संप्रयच्छन्ति ॥ २,२४.६ ॥
पुरा माध्यन्दिनस्य सवनस्योपाकरणाज्जघनेनाग्नीध्रीयस्योदङ्मुख उपविश्य स रौद्रं सामाभिगायति ॥ २,२४.७ ॥
लो ३ कद्वारमपावार्३ णू ३३ ।
पश्येम त्वा वयं वैरा ३३३३३ हु ३ मा ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ २,२४.८ ॥
अथ जुहोति ।
नामो वायवेऽन्तरिक्षक्षिते लोकक्षिते ।
लोकं मे यजमानाय विन्द ।
एष वै यजमानस्य लोकः ।
एतास्मि ॥ २,२४.९ ॥
अत्र यजमानः परस्तादायुषः स्वाहा ।
अपजहि परिघमित्युक्त्वोत्तिष्ठति ।
तस्मै रुद्रा माध्यन्दिनं सवनं संप्रयच्छन्ति ॥ २,२४.१० ॥
पुरा तृतीयसवनस्योपाकरणाज्जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यं स वैश्वदेवं सामाभिगायति ॥ २,२४.११ ॥
अथ वैश्वदेवम् ।
लो३ अद्वारमपावा३ णू३३ ।
पश्येम त्वा वयं साम्रा ३३३३३ हु३ आ ३३ ज्या ३ यो ३ आ ३२१११ इति ॥ २,२४.१३ ॥
अथ जुहोति ।
नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षिद्भ्यो लोकक्षिद्भ्यः ।
लोकं मे यजमानाय विन्दत ॥ २,२४.१४ ॥
एष वै यजमानस्य लोकः ।
एतास्म्यत्र यजमानः परस्तादायुषः स्वाहा ।
अपहत परिघमित्युक्त्वोत्तिष्ठति ॥ २,२४.१५ ॥
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनं संप्रयच्छन्ति ।
एष ह वै यज्ञस्य मात्रां वेद य एवं वेद य एवं वेद ॥ २,२४.१६ ॥
असौ वा आदित्यो देवमधु ।
तस्य द्यौरेव तिरश्चीनवंशः ।
अन्तरिक्षमपूपः ।
मरीचयः पुत्राः ॥ ३,१.१ ॥
तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः ।
ऋच एव मधुकृतः ।
ऋग्वेद एव पुष्पम् ।
ता अमृता आपः ।
ता वा एता ऋचः ॥ ३,१.२ ॥
एतमृग्वेदमभ्यतपन् ।
तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३,१.३ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य रोहितं रूपम् ॥ ३,१.४ ॥
अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाड्यः ।
यजूंष्येव मधुकृतः ।
यजुर्वेद एव पुष्पम् ।
ता अमृता आपः ॥ ३,२.१ ॥
तानि वा एतानि यजूंष्येतं यजुर्वेदमभ्यतपन् ।
तस्य अभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३,२.२ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३,२.३ ॥
अथ येऽस्य प्रत्यञ्चो रश्मायस्ता एवास्य प्रतीच्यो मधुनाड्यः ।
सामान्येव मधुकृतः ।
सामवेद एव पुष्पम् ।
ता अमृता आपः ॥ ३,३.१ ॥
तानि वा एतानि सामान्येतं सामवेदमभ्यतपन् ।
तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३,३.२ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य कृष्णं रूपम् ॥ ३,३.३ ॥
अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्यः ।
अथर्वाङ्गिरस एव मधुकृतः ।
इतिहासपुराणं पुष्पम् ।
ता अमृता आपः ॥ ३,४.१ ॥
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपन् ।
तस्याभितप्तस्य यशस्तेज इन्द्रियां वीर्यमन्नाद्यं रसोऽजायत ॥ ३,४.२ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य परःकृष्णं रूपम् ॥ ३,४.३ ॥
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यः ।
गुह्या एवादेशा मधुकृतः ।
ब्रह्मैव पुष्पम् ।
ता अमृता आपः ॥ ३,५.१ ॥
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपन् ।
तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ॥ ३,५.२ ॥
तद्व्यक्षरत् ।
तदादित्यमभितोऽश्रयत् ।
तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३,५.३ ॥
ते वा एते रसानां रसाः ।
वेदा हि रसाः ।
तेषामेते रसाः ।
तानि वा एतान्यमृतानाममृतानि ।
वेदा ह्यमृताः ।
तेषामेतान्यमृतानि ॥ ३,५.४ ॥
तद्यत्प्रथमममृतं तद्वसव उपजीवन्त्यग्निना मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,६.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,६.२ ॥
स य एतदेवममृतं वेद वसूनामेवैको भूत्वाग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,६.३ ॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,६.४ ॥
अथ यद्द्वितीयममृतं तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,७.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,७.२ ॥
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,७.३ ॥
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,७.४ ॥
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,८.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,८.२ ॥
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,८.३ ॥
स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,८.४ ॥
अथ यच्चतुर्थममृतं तन्मरुत उपजीवन्ति सोमेन मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,९.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,९.२ ॥
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,९.३ ॥
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,९.४ ॥
अथ यत्पञ्चमममृतं तत्साध्या उपजीवन्ति ब्रह्मणा मुखेन ।
न वै देवा अश्नन्ति न पिबन्ति ।
एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३,१०.१ ॥
त एतदेव रूपमभिसंविशन्ति ।
एतस्माद्रूपादुद्यन्ति ॥ ३,१०.२ ॥
स य एतदेवममृतं वेद साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति ।
स एतदेव रूपमभिसंविशति ।
एतस्माद्रूपादुदेति ॥ ३,१०.३ ॥
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता द्विस्तावदूर्ध्वमुदेतार्वागस्तमेता साध्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता ॥ ३,१०.४ ॥
अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता ।
तदेष श्लोकः ॥ ३,११.१ ॥
न वै तत्र न निम्लोच ।
नोदियाय कदाचन ।
देवास्तेनाहं सत्येन ।
मा विराधिषि ब्रह्मणेति ॥ ३,११.२ ॥
न ह वा अस्मा उदेति न निम्लोचति ।
सकृद्दिवा हैवास्मै भवति ।
य एतामेवं ब्रह्मोपनिषदं वेद ॥ ३,११.३ ॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच ।
प्रजापतिर्मनवे ।
मनुः प्रजाभ्यः ।
तद्धैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ॥ ३,११.४ ॥
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात्प्रणाय्याय वान्तेवासिने ॥ ३,११.५ ॥
नान्यस्मै कस्मैचन ।
यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णां दद्यादेतदेव ततो भूय इति ॥ ३,११.६ ॥
गायत्री वा इदं सर्वं भूतं यदिदं किञ्च ।
वाग्वै गायत्री ।
वाग्वा इदं सर्वं भूतं गायति च त्रायते च ॥ ३,१२.१ ॥
या वै सा गायत्रीयं वाव सा येयं पृथिवी ।
अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् ।
एतामेव नातिशीयते ॥ ३,१२.२ ॥
या वै सा पृथिवीयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् ।
अस्मिन् हीमे प्राणाः प्रतिष्ठिताः ।
एतदेव नातिशीयन्ते ॥ ३,१२.३ ॥
यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे हृदयम् ।
अस्मिन् हीमे प्राणाः प्रतिष्ठिताः ।
एतदेव नातिशीयन्ते ॥ ३,१२.४ ॥
सैषा चतुष्पदा षड्विधा गायत्री ।
तदेतदृचाभ्यनूक्तम् ॥ ३,१२.५ ॥
तावानस्य महिमा ततो ज्यायांश्च पुरुषः ।
पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति ॥ ३,१२.६ ॥
यद्वै तद्ब्रह्मेतीदं वाव तद्योऽयं बहिर्धा पुरुषादाकाशः ।
यो वै स बहिर्धा पुरुषादाकाशः ॥ ३,१२.७ ॥
अयं वाव स योऽयमन्तः पुरुष आकाशः ।
यो वै सोऽन्तः पुरुष आकाशः ॥ ३,१२.८ ॥
अयं वाव स योऽयमन्तर्हृदय आकाशः ।
तदेतत्पूर्णमप्रवर्ति ।
पूर्णमप्रवर्तिनीं श्रियं लभते य एवं वेद ॥ ३,१२.९ ॥
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः ।
स योऽस्य प्राङ्सुषिः स प्राणः ।
तच्चक्षुः ।
स आदित्यः ।
तदेतत्तेजोऽन्नाद्यमित्युपासीत ।
तेजस्व्यन्नादो भवति य एवं वेद ॥ ३,१३.१ ॥
अथ योऽस्य दक्षिणः सुषिः स व्यानः ।
तच्छ्रोत्रम् ।
स चन्द्रमाः ।
तदेतच्छ्रीश्च यशश्चेत्युपासीत ।
श्रीमान् यशस्वी भवति य एवं वेद ॥ ३,१३.२ ॥
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः ।
सा वाक् ।
सोऽग्निः ।
तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ।
ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३,१३.३ ॥
अथ योऽस्योदङ्सुषिः स समानः ।
तन्मनः ।
स पर्जन्यः ।
तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत ।
कीर्तिमान् व्युष्टिमान् भवति य एवं वेद ॥ ३,१३.४ ॥
अथ योऽस्योर्ध्वः सुषिः स उदानः ।
स वायुः ।
स आकाशः ।
तदेतदोजश्च महश्चेत्युपासीत ।
ओजस्वी महस्वान् भवति य एवं वेद ॥ ३,१३.५ ॥
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः ।
स य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदास्य कुले वीरो जायते ।
प्रतिपद्यते स्वर्गं लोकं य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ॥ ३,१३.६ ॥
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतःपृष्ठेषु सर्वतःपृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः ।
तस्यैषा दृष्टिर्यत्रैतदस्मिञ्छरीरे संस्पर्शेनोष्णिमानं विजानाति ।
तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृनोति ।
तदेतद्दृष्टं च श्रुतं चेत्युपासीत ।
चक्षुष्यः श्रुतो भवति य एवं वेद य एवं वेद ॥ ३,१३.७ ॥
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत ।
अथ खलु क्रतुमयः पुरुषो यथाक्रतुरस्मिंल्लोके पुरुषो भवति तथेतः प्रेत्य भवति ।
स क्रतुं कुर्वीत ॥ ३,१४.१ ॥
मनोमयः प्राणशरीरो भारूपः सत्यसंकल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ॥ ३,१४.२ ॥
एष म आत्मा अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा ।
एष म आत्मा अन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३,१४.३ ॥
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यत्तोऽवाक्यनादरः ।
एष म आत्मा अन्तर्हृदये ।
एतद्ब्रह्म ।
एतमितः प्रेत्याभिसंभविता अस्मीति यस्य स्यादद्धा न विचिकित्सा अस्ति ।
इति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३,१४.४ ॥
अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति ।
दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् ।
स एष कोशो वसुधानस्तस्मिन् विश्वमिदं श्रितम् ॥ ३,१५.१ ॥
तस्य प्राची दिग्जुहूर्नाम ।
सहमाना नाम दक्षिणा ।
राज्ञी नाम प्रतीची ।
सुभूता नामोदीची ।
तासां वायुर्वत्सः ।
स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति ।
सोऽहमेतमेवं वायुं दिशां वत्सं वेद ।
मा पुत्ररोदं रुदम् ॥ ३,१५.२ ॥
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना ।
प्राणं प्रपद्येऽमुनामुनामुना ।
भूः प्रपद्येऽमुनामुनामुना ।
भुवः प्रपद्येऽमुनामुनामुना ।
स्वः प्रपद्येऽमुनामुनामुना ॥ ३,१५.३ ॥
स यदवोचं प्राणं प्रपद्य इति ।
प्रानो वा इदं सर्वं भूतं यदिदं किंच ।
तमेव तत्प्रापत्सि ॥ ३,१५.४ ॥
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३,१५.६ ॥
अथ यदवोचं स्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचम् ॥ ३,१५.७ ॥
पुरुषो वाव यज्ञः ।
तस्य यानि चतुर्विंशतिवर्षाणि तत्प्रातःसवनम् ।
चतुर्विंशत्यक्षरा गायत्री ।
गायत्रं प्रातःसवनम् ।
तदस्य वसवोऽन्वायत्ताः ।
प्राणा वाव वसवः ।
एते हीदं सर्वं वासयन्ति ॥ ३,१६.१ ॥
तं चेदेतस्मिन् वयसि किंचिदुपतपेत्स ब्रूयात् ।
प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनं सवनमनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेति ।
उद्धैव तत एत्यगदो ह भवति ॥ ३,१६.२ ॥
अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यंदिनं सवनम् ।
चतुश्चत्वारिंशदक्षरा त्रिष्टुप् ।
त्रैष्टुभं माध्यंदिनं सवनम् ।
तदस्य रुद्रा अन्वायत्ताः ।
प्राणा वाव रुद्राः ।
एते हीदं सर्वं रोदयन्ति ॥ ३,१६.३ ॥
तं चेदेतस्मिन् वयसि किंचिदुपतपेत्स ब्रूयात् ।
प्राणा रुद्रा इदं मे माध्यंदिनं सवनं तृतीयसवनमनुसंतनुतेति माहं प्राणानां रुद्राणां मध्ये यज्ञो विलोप्सीयेति ।
उद्धैव तत एत्यगदो ह भवति ॥ ३,१६.४ ॥
अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयसवनम् ।
अष्टाचत्वारिंशदक्षरा जगती ।
जागतं तृतीयसवनम् ।
तदस्यादित्या अन्वायत्ताः ।
प्राणा वावादित्याः ।
एते हीदं सर्वमाददते ॥ ३,१६.५ ॥
तं चेदेतस्मिन् वयसि किंचिदुपतपेत्स ब्रूयात् ।
प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेति ।
उद्धैव तत एत्यगदो हैव भवति ॥ ३,१६.६ ॥
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः ।
स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामिति ।
स ह षोडशं वर्षशतमजीवत् ।
प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ३,१६.७ ॥
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ ३,१७.१ ॥
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३,१७.२ ॥
अथ यद्धसति यज्जक्षति यन्मैथुनं चरति स्तुतशस्त्रैरेव तदेति ॥ ३,१७.३ ॥
अथ यत्तपो दानमार्जवमहिंसा सत्यवचनमिति ता अस्य दक्षिणाः ॥ ३,१७.४ ॥
तस्मादाहुः सोष्यत्यसोष्टेति ।
पुनरुत्पादनमेवास्य तत् ।
मरणमेवावभृथः ॥ ३,१७.५ ॥
तद्धैतद्घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच ।
अपिपास एव स बभूव ।
सोऽन्तवेलायामेतत्त्रयं प्रतिपद्येताक्षितमस्यच्युतमसि प्राणसंशितमसीति ।
तत्रैते द्वे ऋचौ भवतः ॥ ३,१७.६ ॥
आदित्प्रत्नस्य रेतसः ।
उद्वयं तमसस्परि ।
ज्योतिः पश्यन्त उत्तरम् ।
स्वः पश्यन्त उत्तरम् ।
देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तममिति ज्योतिरुत्तममिति ॥ ३,१७.७ ॥
मनो ब्रह्मेत्युपासीत ।
इत्यध्यात्मम् ।
अथाधिदैवतम् ।
आकाशो ब्रह्म ।
इत्युभयमादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३,१८.१ ॥
तदेतच्चतुष्पाद्ब्रह्म ।
वाक्पादः प्राणः पादश्चक्षुः पादः श्रोत्रं पादः ।
इत्यध्यात्मम् ।
अथाधिदैवतम् ।
अग्निः पादो वायुः पाद आदित्यः पादो दिशः पादः ।
इत्युभयमेवादिष्टं भवत्यध्यात्मं चाधिदैवतं च ॥ ३,१८.२ ॥
वागेव ब्रह्मणश्चतुर्थः पादः ।
सोऽग्निना ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३,१८.३ ॥
प्राण एव ब्रह्मणश्चतुर्थः पादः ।
स वायुना ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३,१८.४ ॥
चक्षुरेव ब्रह्मणश्चतुर्थः पादः ।
स आदित्येन ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद ॥ ३,१८.५ ॥
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः ।
स दिग्भिर्ज्योतिषा भाति च तपति च ।
भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद य एवं वेद ॥ ३,१८.६ ॥
आदित्यो ब्रह्मेत्यादेशः ।
तस्योपव्याख्यानम् ।
असदेवेदमग्र आसीत् ।
तत्सदासीत् ।
तत्समभवत् ।
तदाण्डं निरवर्तत ।
तत्संवत्सरस्य मात्रामशयत ।
तन्निरभिद्यत ।
ते आण्डकपाले रजतं च सुवर्णं चाभवताम् ॥ ३,१९.१ ॥
तद्यद्रजतं सेयं पृथिवी ।
यत्सुवर्णं सा द्यौः ।
यज्जरायु ते पर्वताः ।
यदुल्बं (स) समेघो नीहारः ।
या धमनयस्ता नद्यः ।
यद्वास्तेयमुदकं स समुद्रः ॥ ३,१९.२ ॥
अथ यत्तदजायत सोऽसावादित्यः ।
तं जायमानं घोषा उलूलवोऽनूदतिष्ठन्त्सर्वाणि च भूतानि सर्वे च कामाः ।
तस्मात्तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनूत्तिष्ठन्ति सर्वाणि च भूतानि सर्वे च कामाः ॥ ३,१९.३ ॥
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते ।
अभ्याशो ह यदेनं साधवो घोषा आ च गच्छेयुरुप च निम्रेडेरन्निम्रेडेरन् ॥ ३,१९.४ ॥
जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस ।
स ह सर्वत आवसथान्मापयां चक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ ४,१.१ ॥
अथ ह हंसा निशायामतिपेतुः ।
तद्धैवं हंसो हंसमभ्युवाद ।
हो होऽयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाङ्क्षीस्तत्त्वां मा प्रधाक्षीरिति ॥ ४,१.२ ॥
तमु ह परः प्रत्युवाच कं वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ इति ।
यो नु कथं सयुग्वा रैक्व इति ॥ ४,१.३ ॥
यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किंच प्रजाः साधु कुर्वन्ति ।
यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४,१.४ ॥
तदु ह जानश्रुतिः पौत्रायण उपशुश्राव ।
स ह संजिहान एव क्षत्तारमुवाचाङ्गारे ह सयुग्वानमिव रैक्वमात्थेति ।
यो नु कथं सयुग्वा रैक्व इति ॥ ४,१.५ ॥
यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्वं तदभिसमेति यत्किंच प्रजाः साधु कुर्वन्ति ।
यस्तद्वेद यत्स वेद स मयैतदुक्त इति ॥ ४,१.६ ॥
स ह क्षत्तान्विष्य नाविदमिति प्रत्येयाय ।
तं होवाच यत्रारे ब्राह्मणस्यान्वेषणा तदेनमर्च्छेति ॥ ४,१.७ ॥
सोऽधस्ताच्छकटस्य पामानं कषमाणमुपोपविवेश ।
तं हाभ्युवाद त्वं नु भगवः सयुग्वा रैक्व इति ।
अहं ह्यरा ३ इति ह प्रतिजज्ञे ।
स ह क्षत्ताविदमिति प्रत्येयाय ॥ ४,१.८ ॥
तदु ह जानश्रुतिः पौत्रायणः षट्शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे ।
तं हाभ्युवाद ॥ ४,२.१ ॥
रैक्वेमानि षट्शतानि गवामयं निष्कोऽयमश्वतरीरथः ।
अनु म एतां भगवो देवतां शाधि यां देवतामुपास्स इति ॥ ४,२.२ ॥
तमु ह परः प्रत्युवाचाह हारेत्वा शूद्र तवैव सह गोभिरस्त्विति ।
तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां निष्कमश्वतरीरथं दुहितरं तदादाय प्रतिचक्रमे ॥ ४,२.३ ॥
तं हाभ्युवाद ।
रैक्वेदं सहस्रं गवामयं निष्कोऽयमश्वतरीरथ इयं जायायं ग्रामो यस्मिन्नास्सेऽन्वेव मा भगवः शाधीति ॥ ४,२.४ ॥
तस्या ह मुखमुपोद्गृह्णन्नुवाचाजहारेमाः शूद्रानेनैव मुखेनालापयिष्यथा इति ।
ते हैते रैक्वपर्णा नाम महावृषेषु यत्रास्मा उवास ।
तस्मै होवाच ॥ ४,२.५ ॥
वायुर्वाव संवर्गः ।
यदा वा अग्निरुद्वायति वायुमेवाप्येति ।
यदा सूर्योऽस्तमेति वायुमेवाप्येति ।
यदा चन्द्रोऽस्तमेति वायुमेवाप्येति ॥ ४,३.१ ॥
यदाप उच्छुष्यन्ति वायुमेवापियन्ति ।
वायुर्ह्येवैतान् सर्वान् संवृङ्क्ते ।
इत्यधिदैवतम् ॥ ४,३.२ ॥
अथाध्यात्मम् ।
प्राणो वाव सम्वर्गः ।
स यदा स्वपिति प्राणमेव वागप्येति ।
प्राणं चक्षुः ।
प्राणं श्रोत्रम् ।
प्राणं मनः ।
प्राणो ह्येवैतान् सर्वान् संवृङ्क्त इति ॥ ४,३.३ ॥
तौ वा एतौ द्वौ सम्वर्गौ ।
वायुरेव देवेषु प्राणः प्राणेषु ॥ ४,३.४ ॥
अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे ।
तस्मा उ ह न ददतुः ॥ ४,३.५ ॥
स होवाच ।
महात्मनश्चतुरो देव एकः कः स जगार भुवनस्य गोपाः ।
तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तम् ।
यस्मै वा एतदन्नं तस्मा एतन्न दत्तमिति ॥ ४,३.६ ॥
तदु ह शौनकः कापेयः प्रतिमन्वानः प्रत्येयाय ।
आत्मा देवानां जनिता प्रजानां हिरङ्यदंष्ट्रो बभसोऽनसूरिः ।
महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्ति ।
इति वै वयं ब्रह्मचारिन्नेदमुपास्महे दत्तास्मै भिक्षामिति ॥ ४,३.७ ॥
तस्मै उ ह ददुः ।
ते वा एते पञ्चान्ये पञ्चान्ये दश सन्तस्तत्कृतम् ।
तस्मात्सर्वासु दिक्ष्वन्नमेव दश कृतम् ।
सैषा विराडन्नादी ।
तयेदं सर्वं दृष्टम् ।
सर्वमस्य इदं दृष्टं भवत्यन्नादो भवति य एवं वेद य एवं वेद ॥ ४,३.८ ॥
सत्यकामो ह जाबालो जबालां मातरमामन्त्रयां चक्रे ।
ब्रह्मचर्यं भवति विवत्स्यामि किंगोत्रो न्वहमस्मीति ॥ ४,४.१ ॥
सा हैनमुवाच ।
नाहमेतद्वेद तात यद्गोत्रस्त्वमसि ।
बह्वहं चरन्ती परिचारिणी यौवने त्वामलभे ।
साहमेतन्न वेद यद्गोत्रस्त्वमसि ।
जबाला तु नामाहमस्मि ।
सत्यकामो नाम त्वमसि ।
स सत्यकाम एव जाबालो ब्रुवीथा इति ॥ ४,४.२ ॥
स ह हारिद्रुमतं गौतममेत्योवाच ।
ब्रह्मचर्यं भगवति वत्स्यामि ।
उपेयां भगवन्तमिति ॥ ४,४.३ ॥
तं होवाच किंगोत्रो नु सोम्यासीति ।
स होवाच ।
नाहमेतद्वेद भो यद्गोत्रोऽहमस्मि ।
अपृच्छं मातरम् ।
सा मा प्रत्यब्रवीद्बह्वहं चरन्ती परिचरिणी यौवने त्वामलभे ।
साहमेतन्न वेद यद्गोत्रस्त्वमसि ।
जबाला तु नामाहमस्मि ।
सत्यकामो नाम त्वमसीति ।
सोऽहं सत्यकामो जाबालोऽस्मि भो इति ॥ ४,४.४ ॥
तं होवाच ।
नैतदब्रह्मणो विवक्तुमर्हति ।
समिधं सोम्याहर ।
उप त्वा नेष्ये न सत्यादगा इति ।
तमुपनीय कृशानामबलानां चतुःशता गा निराकृत्य उवाचेमाः सोम्यानुसंव्रजेति ।
ता अभिप्रस्थापयन्नुवाच ।
नासहस्रेणावर्तेयेति ।
स ह वर्षगणं प्रोवास ।
ता यदा सहस्रं सम्पेदुः ॥ ४,४.५ ॥
अथ हैनमृषभोऽभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ।
प्राप्ताः सोम्य सहस्रं स्मः ।
प्रापय न आचार्यकुलम् ॥ ४,५.१ ॥
ब्रह्मणश्च ते पादं ब्रवाणि इति ।
ब्रवीतु मे भगवानिति ।
तस्मै होवाच ।
प्राची दिक्कला ।
प्रतिची दिक्कला ।
दक्षिणा दिक्कला ।
उदीची दिक्कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणः प्रकाशवान्नाम ॥ ४,५.२ ॥
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते प्रकाशवानस्मिंल्लोके भवति ।
प्रकाशवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणः प्रकाशवानित्युपास्ते ॥ ४,५.३ ॥
अग्निष्टे पादं वक्तेति ।
स ह श्वो भूते गा अभिप्रस्थापयां चकार ।
ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४,६.१ ॥
तमग्निरभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ॥ ४,६.२ ॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवानिति ।
तस्मै ह उवाच ।
पृथिवी कला ।
अन्तरिक्षं कला ।
द्यौः कला ।
समुद्रः कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम ॥ ४,६.३ ॥
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्तेऽनन्तवानस्मिंल्लोके भवति ।
अनन्तवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणोऽनन्तवानित्युपास्ते ॥ ४,६.४ ॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवानिति ।
तस्मै होवाच ।
अग्निः कला ।
सूर्यः कला ।
चन्द्रः कला ।
विद्युत्कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम ॥ ४,७.३ ॥
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ज्योतिष्मानस्मिंल्लोके भवति ।
ज्योतिष्मतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मणो ज्योतिष्मानित्युपास्ते ॥ ४,७.४ ॥
मद्गुष्टे पादं वक्तेति ।
स ह श्वो भूते गा अभिप्रस्थापयां चकार ।
ता यत्राभिसायं बभूवुस्तत्राग्निमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चादग्नेः प्राङुपोपविवेश ॥ ४,८.१ ॥
तं मद्गुरुपनिपत्याभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ॥ ४,८.२ ॥
ब्रह्मणः सोम्य ते पादं ब्रवाणीति ।
ब्रवीतु मे भगवानिति ।
तस्मै होवाच ।
प्राणः कला ।
चक्षुः कला ।
श्रोत्रं कला ।
मनः कला ।
एष वै सोम्य चतुष्कलः पादो ब्रह्मण आयतनवान्नाम ॥ ४,८.३ ॥
स य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्त आयतनवानस्मिंल्लोके भवति ।
आयतनवतो ह लोकाञ्जयति य एतमेवं विद्वांश्चतुष्कलं पादं ब्रह्मण आयतनवानित्युपास्ते ॥ ४,८.४ ॥
प्राप हाचर्यकुलम् ।
तमाचर्योऽभ्युवाद सत्यकाम ३ इति ।
भगव इति ह प्रतिशुश्राव ॥ ४,९.१ ॥
ब्रह्मविदिव वै सोम्य भासि ।
को नु त्वानुशशासेति ।
अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे ।
भगवांस्त्वेव मे कामे ब्रूयात् ॥ ४,९.२ ॥
श्रुतं ह्येव मे भगवद्दृशेभ्य आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापतीति ।
तस्मै ह एतदेव उवाच ।
अत्र ह न किंचन वीयायेति वीयायेति ॥ ४,९.३ ॥
उपकोसलो ह वै कामलायनः सत्यकामे जाबाले ब्रह्मचार्यमुवास ।
तस्य ह द्वादश वार्षान्यग्नीन् परिचचार ।
स ह स्मान्यानन्तेवासिनः समावर्तयंस्तं ह स्मैव न समावर्तयति ॥ ४,१०.१ ॥
तं जायोवाच तप्तो ब्रह्मचारी कुशलमग्नीन् परिचचारीत् ।
मा त्वा अग्नयः परिप्रवोचन् ।
प्रब्रूह्यस्मा इति ।
तस्मै हाप्रोच्यैव प्रवासां चक्रे ॥ ४,१०.२ ॥
स ह व्याधिना अनशितुं दध्रे ।
तमाचार्यजाया उवाच ब्रह्मचारिन्नशान ।
किं नु न अश्नासि इति ।
स ह उवाच बहव इमेऽस्मिन् पुरुषे कामा नानात्यायाः ।
व्याधीभीः प्रतिपूर्णोऽस्मि ।
न अस्।िष्यामि इति ॥ ४,१०.३ ॥
अथ हाग्नयः समूदिरे ।
तप्तो ब्रह्मचारी कुशलं नः पर्यचारीत् ।
हन्तास्मै प्रब्रवामेति तस्मै होचुः ।
प्राणो ब्रह्म कं ब्रह्म खं ब्रह्मेति ॥ ४,१०.४ ॥
स होवाच ।
विजानाम्यहं यत्प्राणो ब्रह्म ।
कं च तु खं च न विजानामीति ।
ते होचुः ।
यद्वाव कं तदेव खम् ।
यदेव खं तदेव कमिति ।
प्राणं च हास्मै तदाकाशं चोचुः ॥ ४,१०.५ ॥
अथ हैनं गार्हपत्योऽनुशशास पृथिव्यग्निरन्नमादित्य इति ।
य एष आदित्ये पुरुषो दृश्यते सोऽहमस्मि स एव अहमस्मि इति ॥ ४,११.१ ॥
स य एतमेवं विद्वानुपास्ते ।
अपहते पापकृत्याम् ।
लोकी भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
न अस्य अवरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च ।
य एतमेवं विद्वानुपास्ते ॥ ४,११.२ ॥
अथ ह एनमन्वाहार्यपचनोऽनुशशास आपो दिशो नक्षत्राणि चन्द्रमा इति ।
य एष चन्द्रमसि पुरुषो दृष्यते सोऽहमस्मि स एव अहमस्मि इति ॥ ४,१२.१ ॥
स य एतमेवं विद्वानुपास्ते ।
अपहते पापकृत्याम् ।
लोकी भवति ।
सर्वमायुरेति ।
ज्योग्जीवति ।
न अस्य अवरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च ।
य एतमेवं विद्वानुपास्ते ॥ ४,१२.२ ॥
अथ हैनमाहवनीयोऽनुशशास प्राण आकाशो द्यौर्विद्युदिति ।
य एष विद्युति पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मीति ॥ ४,१३.१ ॥
स य एतमेवं विद्वानुपास्ते ।
अपहते पापकृत्याम् ।
लोकी भवति ।
सर्वमयुरेति ।
ज्योग्जीवति ।
नास्यावरपुरुषाः क्षीयन्ते ।
उप वयं तं भुञ्जामोऽस्मिंश्च लोकेऽमुष्मिंश्च ।
य एतमेवं विद्वानुपास्ते ॥ ४,१३.२ ॥
ते होचुः ।
उपकोसलैषा सोम्य तेऽस्मद्विद्यात्मविद्या च ।
आचार्यस्तु ते गतिं वक्तेति ।
आजगाम हास्याचार्यः ।
तमाचार्योऽभ्युवादोपकोसल ३ इति ॥ ४,१४.१ ॥
भगव इति ह प्रतिशुश्राव ।
ब्रह्मविद इव सोम्य मुखं भाति ।
को नु त्वानुशशासेति ।
को नु मानुशिश्याद्भो इतीहापेव निह्नुते ।
इमे नूनमीदृशा अन्यादृशा इतीहाग्नीनभ्यूदे ।
किं नु सोम्य किल तेऽवोचन्निति ॥ ४,१४.२ ॥
इदमिति ह प्रतिजज्ञे ।
लोकान् वाव किल सोम्य तेऽवोचन् ।
अहं तु ते तद्वक्ष्यामि यथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यत इति ।
ब्रवीतु मे भगवानिति ।
तस्मै होवाच ॥ ४,१४.३ ॥
य एषोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिञ्चति वर्त्मनी एव गच्छति ॥ ४,१५.१ ॥
एतं संयद्वाम इत्याचक्षते ।
एतं हि सर्वाणि वामान्यभिसंयन्ति ।
सर्वाण्येनं वामान्यभिसंयन्ति य एवं वेद ॥ ४,१५.२ ॥
एष उ एव वामनीः ।
एष हि सर्वाणि वामानि नयति ।
सर्वाणि वामानि नयति य एवं वेद ॥ ४,१५.३ ॥
एष उ एव भामनीः ।
एष हि सर्वेषु लोकेषु भाति ।
सर्वेषु लोकेषु भाति य एवं वेद ॥ ४,१५.४ ॥
अथ यदु चैवास्मिञ्छव्यं कुर्वन्ति यदि च नार्चिषमेवाभिसंभवन्ति ।
अर्चिषोऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् ।
मासेभ्यः संवत्सरम् ।
संवत्सरादादित्यम् ।
आदित्याच्चन्द्रमसम् ।
चन्द्रमसो विद्युतम् ।
तत्पुरुषोऽमानवः ।
स एनान् ब्रह्म गमयति ।
एष देवपथो ब्रह्मपथः ।
एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते ॥ ४,१५.५ ॥
एष ह वै यज्ञो योऽयं पवते ।
एष ह यन्निदं सर्वं पुनाति ।
यदेष यन्निदं सर्वं पुनाति ।
तस्मादेष एव यज्ञः ।
तस्य मनश्च वाक्च वर्तनी ॥ ४,१६.१ ॥
तयोरन्यतरां मनसा संस्करोति ब्रह्मा ।
वाचा होताध्वर्युरुद्गातान्यतराम् ।
स यत्रोपाकृते प्रातरनुवाके पुरा परिधानीयाया ब्रह्मा व्यववदति ॥ ४,१६.२ ॥
अन्यतरामेव वर्तनीं संस्करोति ।
हीयतेऽन्यतरा ।
स यथैकपाद्व्रजन् रथो वैकेन चक्रेण वर्तमानो रिष्यत्येवमस्य यज्ञो रिष्यति ।
यज्ञं रिष्यन्तं यजमानोऽनु रिष्यति ।
स इष्ट्वा पापीयान् भवति ॥ ४,१६.३ ॥
अथ यत्र उपाकृते प्रातरनुवाके न पुरा परिधानीयाया ब्रह्मा व्यववदत्युभे एव वर्तनी संस्कुर्वन्ति ।
न हीयतेऽन्यतरा ॥ ४,१६.४ ॥
स यथोभयपाद्व्रजन् रथो वोभाभ्यां चक्राभ्यां वर्तमानः प्रतितिष्ठत्येवमस्य यज्ञः प्रतितिष्ठति यज्ञं प्रतितिष्ठन्तं यजमानोऽनु प्रतितिष्ठति ।
स इष्ट्वा श्रेयान् भवति ॥ ४,१६.५ ॥
प्रजापतिर्लोकानभ्यतपत् ।
तेषां तप्यमानानां रसान् प्रावृहत् ।
अग्निं पृथिव्याः ।
वायुमन्तरिक्षात् ।
आदित्यं दिवः ॥ ४,१७.१ ॥
स एतास्तिस्रो देवता अभ्यतपत् ।
तासां तप्यमानानां रसान् प्रावृहत् ।
अग्नेरृचः ।
वायोर्यजूंषि ।
सामान्यादित्यात् ॥ ४,१७.२ ॥
स एतां त्रयीं विद्यामभ्यतपत् ।
तस्यास्तप्यमानाया रसान् प्रावृहत् ।
भूरित्यृग्भ्यः ।
भुवरिति यजुर्भ्यः ।
स्वरिति सामभ्यः ॥ ४,१७.३ ॥
तद्यद्यृक्तो रिष्येद्भूः स्वाहेति गार्हपत्ये जुहुयात् ।
ऋचामेव तद्रसेनर्चां वीर्येणर्चां यज्ञस्य विरिष्टं संदधाति ॥ ४,१७.४ ॥
अथ यदि यजुष्टो रिष्येद्भुवः स्वाहेति दक्षिणाग्नौ जुहुयात् ।
यजुषामेव तद्रसेन यजुषां वीर्येण यजुषां यज्ञस्य विरिष्टं संदधाति ॥ ४,१७.५ ॥
अथ यदि सामतो रिष्येत्स्वः स्वाहेत्याहवनीये जुहुयात् ।
साम्नामेव तद्रसेन साम्नां वीर्येण साम्नां यज्ञस्य विरिष्टं संदधाति ॥ ४,१७.६ ॥
तद्यथा लवणेन सुवर्णं संदध्यात् ।
सुवर्णेन रजतं रजतेन त्रपु त्रपुणा सीसं सीसेन लोहं लोहेन दारु दारु चर्मणा ॥ ४,१७.७ ॥
एवमेषां लोकानामासां देवतानामस्यास्त्रय्या विद्याया वीर्येण यज्ञस्य विरिष्टं संदधाति ।
भेषजकृतो ह वा एष यज्ञो यत्रैवंविद्ब्रह्मा भवति ॥ ४,१७.८ ॥
एष ह वा उदक्प्रवणो यज्ञो यत्रैवंविद्ब्रह्मा भवति ।
एवंविदं ह वा एषा ब्रह्माणमनु गाथा ।
यतो यत आवर्तते तत्तद्गच्छति ॥ ४,१७.९ ॥
मानवः ।
ब्रह्मैवैक ऋत्विक्कुरूनश्वाभिरक्षति ।
एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति ।
तस्मादेवंविदमेव ब्रह्माणं कुर्वीत नानेवंविदं नानेवंविदम् ॥ ४,१७.१० ॥
यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति ।
प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ॥ ५,१.१ ॥
यो ह वै वसिष्ठं वेद वसिष्ठो ह स्वानां भवति ।
वाग्वाव वसिष्ठः ॥ ५,१.२ ॥
यो ह वै प्रतिष्ठां वेद प्रति ह तिष्ठत्यस्मिंश्च लोकेऽमुष्मिंश्च ।
चक्षुर्वाव प्रतिष्ठा ॥ ५,१.३ ॥
यो ह वै संपदं वेद सं हास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च ।
श्रोत्रं वाव संपत् ॥ ५,१.४ ॥
यो ह वा आयतनं वेदायतनं ह स्वानां भवति ।
मनो ह वा आयतनम् ॥ ५,१.५ ॥
अथ ह प्राणा अहंश्रेयसि व्यूदिरे ।
अहं श्रेयानस्म्यहं श्रेयानस्मीति ॥ ५,१.६ ॥
ते ह प्राणाः प्रजापतिं पितरमेत्योचुः भगवन् को नः श्रेष्ठ इति ।
तान् होवाच ।
यस्मिन् व उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत स वः श्रेष्ठ इति ॥ ५,१.७ ॥
सा ह वागुच्चक्राम ।
सा संवत्सरं प्रोष्य पर्येत्योवाच ।
कथमशकतर्ते मज्जीवितुमिति ।
यथा कला अवदन्तः प्राणन्तः प्राणेन पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति ।
प्रविवेश ह वाक् ॥ ५,१.८ ॥
चक्षुर्होच्चक्राम ।
तत्संवत्सरं प्रोष्य पर्येत्योवाच ।
कथमशकतर्ते मज्जीवितुमिति ।
यथान्धा अपश्यन्तः प्राणन्तः प्राणेन वदन्तो वाचा शृण्वन्तः श्रोत्रेण ध्यायन्तो मनसैवमिति ।
प्रविवेश ह चक्षुः ॥ ५,१.९ ॥
श्रोत्रं होच्चक्राम ।
तत्संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति ।
यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा ध्यायन्तो मनसैवमिति ।
प्रविवेश ह श्रोत्रम् ॥ ५,१.१० ॥
मनो होच्चक्राम ।
तत्संवत्सरं प्रोष्य पर्येत्योवाच ।
कथमशकतर्ते मज्जीवितुमिति ।
यथा बाला अमनसः प्राणन्तः प्राणेन वदन्तो वाचा पश्यन्तश्चक्षुषा शृण्वन्तः श्रोत्रेणैवमिति ।
प्रविवेश ह मनः ॥ ५,१.११ ॥
अथ ह प्राण उच्चिक्रमिषन् स यथा सुहयः पड्वीशशङ्कून् संखिदेदेवमितरान् प्राणान् समखिदत् ।
तं हाभिसमेत्योचुः ।
भगवन्नेधि ।
त्वं नः श्रेष्ठोऽसि ।
मोत्क्रमीरिति ॥ ५,१.१२ ॥
अथ हैनं वागुवाच ।
यदहं वसिष्ठोऽस्मि त्वं तद्वसिष्ठोऽसीति ।
अथ हैनं चक्षुरुवाच ।
यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठासीति ॥ ५,१.१३ ॥
अथ हैनं श्रोत्रमुवाच ।
यदहं संपदस्मि त्वं तत्संपदसीति ।
अथ हैनं मन उवाच ।
यदहमायतनमस्मि त्वं तदायतनमसीति ॥ ५,१.१४ ॥
न वै वाचो न चक्षूंषि न श्रोत्राणि न मनांसीत्याचक्षते ।
प्राणा इत्येवाचक्षते ।
प्राणो ह्येवैतानि सर्वाणि भवति ॥ ५,१.१५ ॥
स होवाच किं मेऽन्नं भविष्यतीति ।
यत्किंचिदिदमा श्वभ्य आ शकुनिभ्य इति होचुः ।
तद्वा एतदनस्यान्नम् ।
अनो ह वै नाम प्रत्यक्षम् ।
न ह वा एवंविदि किंचनानन्नं भवतीति ॥ ५,२.१ ॥
स होवाच किं मे वासो भविष्यतीति ।
आप इति होचुः ।
तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चाद्भिः परिदधति ।
लम्भुको ह वासो भवति ।
अनग्नो ह भवति ॥ ५,२.२ ॥
तद्धैतत्सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच ।
यद्यप्येनच्छुष्काय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानीति ॥ ५,२.३ ॥
अथ यदि महज्जिगमिषेत्, अमावास्यायां दीक्षित्वा पौर्णमास्यां रात्रौ सर्वौषधस्य मन्थं दधिमधुनोरुपमथ्य ज्येष्ठाय श्रेष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ५,२.४ ॥
वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।
प्रतिष्ठायै स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।
संपदे स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।
आयतनाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ॥ ५,२.५ ॥
अथ प्रतिसृप्याञ्जलौ मन्थमाधाय जपति ।
अमो नामासि ।
अमा हि ते सर्वमिदम् ।
स हि ज्येष्ठः श्रेष्ठो राजाधिपतिः ।
स मा ज्यैष्ठ्यं श्रैष्ठ्यं राज्यमाधिपत्यं गमयतु ।
अहमेवेदं सर्वमसानीति ॥ ५,२.६ ॥
अथ खल्वेतयर्चा पच्छ आचामति ।
तत्सवितुर्वृणीमह इत्याचामति ।
वयं देवस्य भोजनमित्याचामति ।
श्रेष्ठं सर्वधातममित्याचामति ।
तुरं भगस्य धीमहीति सर्वं पिबति ।
निर्णिज्य कंसं चमसं वा पश्चादग्नेः संविशति ।
चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः ।
स यदि स्त्रियं पश्येत्समृद्धं कर्मेति विद्यात् ॥ ५,२.७ ॥
तदेष श्लोकः ।
यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।
समृद्धिं तत्र जानीयात्तस्मिन् स्वप्ननिदर्शने तस्मिन् स्वप्ननिदर्शने ॥ ५,२.८ ॥
श्वेतकेतुर्हारुणेयः पञ्चालानां समितिमेयाय ।
तं ह प्रवाहणो जैवलिरुवाच ।
कुमारानु त्वा अशिषत्पितेति ।
अनु हि भगव इति ॥ ५,३.१ ॥
वेत्थ यदितोऽधि प्रजाः प्रयन्तीति ।
न भगव इति ।
वेत्थ यथा पुनरावर्तन्त ३ इति ।
न भगव इति ।
वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तना ३ इति ।
न भगव इति ॥ ५,३.२ ॥
वेत्थ यथासौ लोको न संपूर्यत ३ इति ।
न भगव इति ।
वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति ।
नैव भगव इति ॥ ५,३.३ ॥
अथानु किमनु शिष्ठोऽवोचथा यो हीमानि न विद्यात् ।
कथं सोऽनुशिष्टो ब्रुवीतेति ।
स हायस्तः पितुरर्धमेयाय ।
तं होवाचाननुशिष्य वाव किल मा भगवानब्रवीदनु त्वाशिषमिति ॥ ५,३.४ ॥
पञ्च मा राजन्यबन्धुः प्रश्नानप्राक्षीत् ।
तेषां नैकंचनाशकं विवक्तुमिति ।
स होवाच यथा मा त्वं तदैतानवदो यथाहमेषां नैकंचन वेद ।
यद्यहमिमानवेदिष्यं कथं ते नावक्ष्यमिति ॥ ५,३.५ ॥
स ह गौतमो राज्ञोऽर्धमेयाय ।
तस्मै ह प्राप्तायार्हां चकार ।
स ह प्रातः सभाग उदेयाय ।
तं होवाच ।
मानुषस्य भगवन् गौतम वित्तस्य वरं वृणीथा इति ।
स होवाच ।
तवैव राजन्मानुषं वित्तम् ।
यामेव कुमारस्यान्ते वाचमभाषथास्तामेव मे ब्रूहीति ।
स ह कृच्छ्री बभूव ॥ ५,३.६ ॥
तं ह चिरं वसेत्याज्ञापयां चकार ।
तं होवाच ।
यथा मा त्वं गौतमावदः ।
यथेयं न प्राक्त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति ।
तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूदिति ।
तस्मै होवाच ॥ ५,३.७ ॥
असौ वाव लोको गौतमाग्निः ।
तस्यादित्य एव समित् ।
रश्मयो धूमः ।
अहरर्चिः ।
चन्द्रमा अङ्गाराः ।
नक्षत्राणि विस्फुलिङ्गाः ॥ ५,४.१ ॥
तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति ।
तस्या आहुतेः सोमो राजा संभवति ॥ ५,४.२ ॥
पर्जन्यो वाव गौतमाग्निः ।
तस्य वायुरेव समित् ।
अभ्रं धूमः ।
विद्युदर्चिः ।
अशनिरङ्गाराः ।
ह्रादुनयो विस्फुलिङ्गाः ॥ ५,५.१ ॥
तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं राजानं जुह्वति ।
तस्या आहुतेर्वर्षं संभवति ॥ ५,५.२ ॥
पृथिवी वाव गौतमाग्निः ।
तस्याः सम्वत्सर एव समित् ।
आकाशो धूमः ।
रात्रिरर्चिः ।
दिशोऽङ्गाराः ।
अवान्तरदिशो विस्फुलिङ्गाः ॥ ५,६.१ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति ।
तस्या आहुतेरन्नं संभवति ॥ ५,६.२ ॥
पुरुषो वाव गौतमाग्निः ।
तस्य वागेव समित् ।
प्राणो धूमः ।
जिह्वार्चिः ।
चक्षुरङ्गाराः ।
श्रोत्रं विस्फुलिङ्गाः ॥ ५,७.१ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति ।
तस्या आहुतेर्रेतः सम्भवति ॥ ५,७.२ ॥
योषा वाव गौतमाग्निः ।
तस्या उपस्थ एव समित् ।
यदुपमन्त्रयते स धूमः ।
योनिरर्चिः ।
यदन्तः करोति तेऽङ्गाराः ।
अभिनन्दा विस्फुलिङ्गाः ॥ ५,८.१ ॥
तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति ।
तस्या आहुतेर्गर्भः संभवति ॥ ५,८.२ ॥
इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति ।
स उल्बावृतो गर्भो दश वा नव वा मासानन्तः शयित्वा यावद्वाथ जायते ॥ ५,९.१ ॥
स जातो यावदायुषं जीवति ।
तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः संभूतो भवति ॥ ५,९.२ ॥
तद्य इत्थं विदुः ।
ये चेमेऽरण्ये श्रद्धा तप इत्युपासते ।
तेऽर्चिषमभिसंभवन्ति ।
अर्चिषोऽहः ।
अह्न आपूर्यमाणपक्षम् ।
आपूर्यमाणपक्षाद्यान् षडुदङ्ङेति मासांस्तान् ॥ ५,१०.१ ॥
मासेभ्यः संवत्सरम् ।
संवत्सरादादित्यम् ।
आदित्याच्चन्द्रमसम् ।
चन्द्रमसो विद्युतम् ।
तत्पुरुषोऽमानवः ।
स एनान् ब्रह्म गमयति ।
एष देवयानः पन्था इति ॥ ५,१०.२ ॥
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ।
ते धूममभिसंभवन्ति ।
धूमाद्रात्रिम् ।
रात्रेरपरपक्षम् ।
अपरपक्षाद्यान् षड्दक्षिणैति मासांस्तान् ।
नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५,१०.३ ॥
मासेभ्यः पितृलोकम् ।
पितृलोकादाकाशम् ।
आकासाच्चन्द्रमसम् ।
एष सोमो राजा ।
तद्देवानामन्नम् ।
तं देवा भक्षयन्ति ॥ ५,१०.४ ॥
तस्मिन् यवात्संपातमुषित्वाथैतमेवाध्वानं पुनर्निवर्तन्ते ।
आकाशम् ।
आकाशाद्वायुम् ।
वायुर्भूत्वा धूमो भवति ।
धूमो भूत्वाभ्रं भवति ॥ ५,१०.५ ॥
अभ्रं भूत्वा मेघो भवति ।
मेघो भूत्वा प्रवर्षति ।
त इह व्रीहियवा ओषधिवनस्पतयस्तिलमासा इति जायन्तेऽतो वै खलु दुर्निष्प्रपतरम् ।
यो यो ह्यन्नमत्ति यो रेतः सिञ्चति तद्भूय एव भवति ॥ ५,१०.६ ॥
तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा ।
अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरञ्श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ॥ ५,१०.७ ॥
अथैतयोः पथोर्न कतरेणचन तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेति ।
एतत्तृतीयं स्थानम् ।
तेनासौ लोको न संपूर्यते ।
तस्माज्जुगुप्सेत ।
तदेष श्लोकः ॥ ५,१०.८ ॥
स्तेनो हिरण्यस्य सुरां पिबंश्च ।
गुरोस्तल्पमावसन् ब्रह्महा च ।
एते पतन्ति चत्वारः पञ्चमश्चाचरंस्तैरिति ॥ ५,१०.९ ॥
अथ ह य एतानेवं पञ्चाग्नीन् वेद न सह तैरप्याचरन् पाप्मना लिप्यते ।
शुद्धः पूतः पुण्यलोको भवति य एवं वेद य एवं वेद ॥ ५,१०.१० ॥
प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यो बुडिल आश्वतराश्विस्ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसां चक्रुः ।
को न आत्मा किं ब्रह्मेति ॥ ५,११.१ ॥
ते ह संपादयां चक्रुः ।
उद्दालको वै भगवन्तोऽयमारुणिः संप्रतीममात्मानं वैश्वानरमध्येति ।
तं हन्ताभ्यागच्छामेति ।
तं हाभ्याजग्मुः ॥ ५,११.२ ॥
स ह संपादयां चकार ।
प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियाः ।
तेभ्यो न सर्वमिव प्रतिपत्स्ये ।
हन्ताहमन्यमभ्यनुशासानीति ॥ ५,११.३ ॥
तान् होवाच ।
अश्वपतिर्वै भगवन्तोऽयं कैकेयः संप्रतीममात्मानं वैश्वानरमध्येति ।
तं हन्ताभ्यागच्छामेति ।
तं हाभ्याजग्मुः ॥ ५,११.४ ॥
तेभ्यो ह प्राप्तेभ्यः पृथगर्हाणि कारयां चकार ।
स ह प्रातः संजिहान उवाच ।
न मे स्तेनो जनपदे न कदर्यो न मद्यपः ।
नानाहिताग्निर्नाविद्वान्न स्वैरी स्वैरिणी कुतः ।
यक्ष्यमाणो वै भगवन्तोऽहमस्मि ।
यावदेकैकस्मा ऋत्विजे धनं दास्यामि तावद्भगवद्भ्यो दास्यामि ।
वसन्तु भगवन्त इति ॥ ५,११.५ ॥
ते होचुः ।
येन हैवार्थेन पुरुषश्चरेत्तं हैव वदेत् ।
आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि ।
तमेव नो ब्रूहीति ॥ ५,११.६ ॥
तान् होवाच ।
प्रातर्वः प्रतिवक्तास्मीति ।
ते ह समित्पाणयः पूर्वाह्णे प्रतिचक्रमिरे ।
तान् हानुपनीयैवैतदुवाच ॥ ५,११.७ ॥
औपमन्यव कं त्वमात्मानमुपास्स इति ।
दिवमेव भगवो राजन्निति होवाच ।
एष वै सुतेजा आत्मा वैश्वानरो यं त्वमात्मानमुपास्से ।
तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ॥ ५,१२.१ ॥
अत्स्यन्नं पश्यसि प्रियम् ।
अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले ये एतमेवमात्मानं वैश्वानरमुपास्ते ।
मूधा त्वेष आत्मन इति होवाच ।
मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्य इति ॥ ५,१२.२ ॥
अथ होवाच सत्ययज्ञं पौलुषिम् ।
प्राचीनयोग्य कं त्वमात्मानमुपास्स इति ।
आदित्यमेव भगवो राजन्निति होवाच ।
एष वै विश्वरूप आत्मा वैश्वानरो यं त्वमात्मानमुपास्ते ।
तस्मात्तव बहु विश्वरूपं कुले दृश्यते ॥ ५,१३.१ ॥
प्रवृत्तोऽश्वतरीरथो दासी निष्कः ।
अत्स्यन्नं पश्यसि प्रियम् ।
अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।
चक्षुष्ट्वेतदात्मन इति होवाच ।
अन्धोऽभविष्यो यन्मां नागमिष्य इति ॥ ५,१३.२ ॥
अथ होवाचेन्द्रद्युम्नं भाल्लवेयम् ।
वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति ।
वायुमेव भगवो राजन्निति होवाच ।
एष वै पृथग्वर्त्मात्मा वैश्वानरो यं त्वमात्मानमुपास्से ।
तस्मात्त्वां पृथग्बलय आयन्ति पृथग्रथश्रेणयोऽनुयन्ति ॥ ५,१४.१ ॥
अत्स्यन्नं पश्यसि प्रियम् ।
अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।
प्राणस्त्वेष आत्मन इति होवाच ।
प्राणस्त उदक्रमिष्यद्यन्मां नागमिष्य इति ॥ ५,१४.२ ॥
अथ होवाच जनं शार्कराक्ष्यम् ।
शार्कराक्ष्य कं त्वमात्मानमुपास्स इति ।
आकाशमेव भगवो राजन्निति होवाच ।
एष वै बहुल आत्मा वैश्वानरो यं त्वमात्मानमुपस्से ।
तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च ॥ ५,१५.१ ॥
अत्स्यन्नं पश्यसि प्रियम् ।
अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।
संदेहस्त्वेष आत्मन इति होवाच ।
संदेहस्ते व्यशीर्यद्यन्मां नागमिष्य इति ॥ ५,१५.२ ॥
अथ होवाच बुडिलमाश्वतराश्विम् ।
वैयाघ्रपद्य कं त्वमात्मानमुपास्स इति ।
अप एव भगवो राजन्निति होवाच ।
एष वै रयिरात्मा वैश्वानरो यं त्वमात्मानमुपास्से ।
तस्मात्त्वं रयिमान् पुष्टिमानसि ॥ ५,१६.१ ॥
अत्स्यन्नं पश्यसि प्रियम् ।
अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।
बस्तिस्त्वेष आत्मन इति होवाच ।
बस्तिस्ते व्यभेत्स्यद्यन्मां नागमिष्य इति ॥ ५,१६.२ ॥
अथ होवाचोद्दालकमारुणिम् ।
गौतम कं त्वमात्मानमुपस्स इति ।
पृथिवीमेव भगवो राजन्निति होवाच ।
एष वै प्रतिष्ठात्मा वैश्वानरो यं त्वमात्मानमुपास्से ।
तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च ॥ ५,१७.१ ॥
अत्स्यन्नं पश्यसि प्रियम् ।
अत्त्यन्नं पश्यति प्रियं भवत्यस्य ब्रह्मवर्चसं कुले य एतमेवमात्मानं वैश्वानरमुपास्ते ।
पादौ त्वेतावात्मन इति होवाच ।
पादौ ते व्यम्लास्येतां यन्मां नागमिष्य इति ॥ ५,१७.२ ॥
तान् होवाच ।
एते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ ।
यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते ।
स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति ॥ ५,१८.१ ॥
तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः पृथिव्येव पादावुर एव वेदिर्लोमाणि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ॥ ५,१८.२ ॥
तद्यद्भक्तं प्रथममागच्छेत्तद्धोमीयम् ।
स यां प्रथमामाहुतिं जुहुयात्तां जुहुयात्प्राणाय स्वाहेति ।
प्राणस्तृप्यति ॥ ५,१९.१ ॥
प्राणे तृप्यति चक्षुस्तृप्यति ।
चक्षुषि तृप्यत्यादित्यस्तृप्यति ।
आदित्ये तृप्यति द्यौस्तृप्यति ।
दिवि तृप्यन्त्यां यत्किंच द्यौश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति ।
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,१९.२ ॥
अथ यां द्वितीयां जुहुयात्तां जुहुयाद्व्यानाय स्वाहेति ।
व्यानस्तृप्यति ॥ ५,२०.१ ॥
व्याने तृप्यति श्रोत्रं तृप्यति ।
श्रोत्रे तृप्यति चन्द्रमास्तृप्यति ।
चन्द्रमसि तृप्यति दिशस्तृप्यन्ति ।
दिक्षु तृप्यन्तीषु यत्किंच दिशश्चन्द्रमाश्चाधितिष्ठन्ति तत्तृप्यति ।
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,२०.२ ॥
अथ यां तृतीयां जुहुयात्तां जुहुयादपानाय स्वाहेति ।
अपानस्तृप्यति ॥ ५,२१.१ ॥
अपाने तृप्यति वाक्तृप्यति ।
वाचि तृप्यन्त्यामग्निस्तृप्यति ।
अग्नौ तृप्यति पृथिवी तृप्यति ।
पृथिव्यां तृप्यन्त्यां यत्किं च पृथिवी चाग्निश्चाधितिष्ठतस्तत्तृप्यति ।
तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,२१.२ ॥
अथ यां चतुर्थीं जुहुयात्तां जुहुयात्समानाय स्वाहेति ।
समानस्तृप्यति ॥ ५,२२.१ ॥
समाने तृप्यति मनस्तृप्यति ।
मनसि तृप्यति पर्जन्यस्तृप्यति ।
पर्जन्ये तृप्यति विद्युत्तृप्यति ।
विद्युति तृप्यन्त्यां यत्किं च विद्युच्च पर्जन्यश्चाधितिष्ठतस्तत्तृप्यति ।
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,२२.२ ॥
अथ यां पञ्चमीं जुहुयात्तां जुहुयातुदानाय स्वाहेति ।
उदानस्तृप्यति ॥ ५,२३.१ ॥
उदाने तृप्यति त्वक्तृप्यति त्वचि तृप्यन्त्यां वायुस्तृप्यति ।
वायौ तृप्यत्याकाशस्तृप्यति ।
आकाशे तृप्यति यत्किंच वायुश्चाकाशश्चाधितिष्ठतस्तत्तृप्यति ।
तस्यानु तृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ॥ ५,२३.२ ॥
स य इदमविद्वानग्निहोत्रं जुहोति यथाङ्गारानपोह्य भस्मनि जुहुयात्तादृक्तत्स्यात् ॥ ५,२४.१ ॥
अथ य एतदेवं विद्वानग्निहोत्रं जुहोति तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ॥ ५,२४.२ ॥
तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्ते य एतदेवं विद्वानग्निहोत्रं जुहोति ॥ ५,२४.३ ॥
तस्मादु हैवंविद्यद्यपि चण्डालाय उच्छिष्टं प्रयच्छेत् ।
आत्मनि हैवास्य तद्वैश्वानरे हुतं स्यादिति ।
तदेष श्लोकः ॥ ५,२४.४ ॥
यथेह क्षुधिता बाला मातरं पर्युपासते ।
एवं सर्वाणि भूतान्यग्निहोत्रमुपासत ॥ ५,२४.५ ॥
श्वेतकेतुर्हारुणेय आस ।
तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् ।
न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६,१.१ ॥
स ह द्वादशवर्ष उपेत्य चतुर्विंशतिवर्षः सर्वान् वेदानधीत्य महामना अनूचानमानी स्तब्ध एयाय ।
तं ह पितोवाच ॥ ६,१.२ ॥
श्वेतकेतो यन्नु सोम्येदं महामना अनूचानमानी स्तब्धोऽसि ।
उत तमादेशमप्राक्ष्यः येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातमिति ।
कथं नु भगवः स आदेशो भवतीति ॥ ६,१.३ ॥
यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ॥ ६,१.४ ॥
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं लोहमित्येव सत्यम् ॥ ६,१.५ ॥
यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं कृष्णायसमित्येव सत्यम् ।
एवं सोम्य स आदेशो भवतीति ॥ ६,१.६ ॥
न वै नूनं भगवन्तस्त एतदवेदिषुः ।
यद्ध्येतदवेदिष्यन् कथं मे नावक्ष्यन् ।
इति भगवांस्त्वेव मे ब्रवीत्विति ।
तथा सोम्येति होवाच ॥ ६,१.७ ॥
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ।
तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम् ।
तस्मादसतः सज्जायत ॥ ६,२.१ ॥
कुतस्तु खलु सोम्यैवं स्यादिति होवाच ।
कथमसतः सज्जायेत ।
सत्त्वेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् ॥ ६,२.२ ॥
तदैक्षत ।
बहु स्यां प्रजायेयेति ।
तत्तेजोऽसृजत ।
तत्तेज ऐक्षत ।
बहु स्यां प्रजायेयेति ।
तदपोऽसृजत ।
तस्माद्यत्र क्व च शोचति स्वेदते वा पुरुषस्तेजस एव तदध्यापो जायन्ते ॥ ६,२.३ ॥
तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्याण्डजं जीवजमुद्भिज्जमिति ॥ ६,३.१ ॥
सेयं देवतैक्षत ।
हन्ताहमिमास्तिस्रो देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ॥ ६,३.२ ॥
तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति ।
सेयं देवतेमास्तिस्रो देवता अनेनैव जीवेनात्मनानुप्रविश्य नामरूपे व्याकरोत् ॥ ६,३.३ ॥
तासां त्रिवृतं त्रिवृतमेकैकामकरोत् ।
यथा तु खलु सोम्येमास्तिस्रो देवतास्त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६,३.४ ॥
यदग्ने रोहितं रूपं तेजसस्तद्रूपम् ।
यच्छुक्लं तदपाम् ।
यत्कृष्णं तदन्नस्य ।
अपागादग्नेरग्नित्वम् ।
वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६,४.१ ॥
यदादित्यस्य रोहितं रूपं तेजसस्तद्रूपम् ।
यच्छुक्लं तदपाम् ।
यत्कृष्णं तदन्नस्य ।
अपागादादित्यादादित्यत्वम् ।
वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६,४.२ ॥
यच्चन्द्रमसो रोहितं रूपं तेजसस्तद्रूपम् ।
यच्छुक्लं तदपाम् ।
यत्कृष्णं तदन्नस्य ।
अपागाच्चन्द्राच्चन्द्रत्वम् ।
वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६,४.३ ॥
यद्विद्युतो रोहितं रूपं तेजसस्तद्रूपम् ।
यच्छुक्लं तदपाम् ।
यत्कृष्णं तदन्नस्य ।
अपागाद्विद्युतो विद्युत्त्वम् ।
वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यम् ॥ ६,४.४ ॥
एतद्ध स्म वै तद्विद्वांस आहुः पूर्वे महाशाला महाश्रोत्रियाः ।
न नोऽद्य कश्चनाश्रुतममतमविज्ञातमुदाहरिष्यति ।
इति ह्येभ्यो विदां चक्रुः ॥ ६,४.५ ॥
यदु रोहितमिवाभूदिति तेजसस्तद्रूपमिति तद्विदां चक्रुः ।
यदु शुक्लमिवाभूदित्यपां रूपमिति तद्विदां चक्रुः ।
यदु कृष्णमिवाभूदित्यन्नस्य रूपमिति तद्विदां चक्रुः ॥ ६,४.६ ॥
यद्वविज्ञातमिवाभूदित्येतासामेव देवतानां समास इति तद्विदां चक्रुः ।
यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तन्मे विजानीहीति ॥ ६,४.७ ॥
अन्नमशितं त्रेधा विधीयते ।
तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति ।
यो मध्यमस्तन्मांसम् ।
योऽणिष्ठस्तन्मनः ॥ ६,५.१ ॥
आपः पीतास्त्रेधा विधीयन्ते ।
तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति ।
यो मध्यमस्तल्लोहितम् ।
योऽणिष्ठः स प्राणः ॥ ६,५.२ ॥
तेजोऽशितं त्रेधा विधीयते ।
तस्य यः स्थविष्ठो धातुस्तदस्थि भवति ।
यो मध्यमः स मज्जा ।
योऽणिष्ठः सा वाक् ॥ ६,५.३ ॥
अन्नमयं हि सोम्य मनः ।
आपोमयः प्राणः ।
तेजोमयी वागिति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,५.४ ॥
दध्नः सोम्य मथ्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ।
तत्सर्पिर्भवति ॥ ६,६.१ ॥
एवमेव खलु सोम्यान्नस्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ।
तन्मनो भवति ॥ ६,६.२ ॥
अपां सोम्य पीयमानानां योऽणिमा स ऊर्ध्वः समुदीषति ।
सा प्रानो भवति ॥ ६,६.३ ॥
तेजसः सोम्याश्यमानस्य योऽणिमा स ऊर्ध्वः समुदीषति ।
सा वाग्भवति ॥ ६,६.४ ॥
अन्नमयं हि सोम्य मनः ।
आपोमयः प्राणः ।
तेजोमयी वागिति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,६.५ ॥
षोडशकलः सोम्य पुरुषः ।
पञ्चदशाहानि माशीः ।
काममपः पिब ।
आपोमयः प्राणो न पिबतो विच्छेत्स्यत इति ॥ ६,७.१ ॥
स ह पञ्चदशाहानि नाश ।
अथ हैनमुपससाद किं ब्रवीमि भो इति ।
ऋचः सोम्य यजूंषि सामानीति ।
स होवाच न वै मा प्रतिभान्ति भो इति ॥ ६,७.२ ॥
तं होवाच यथा सोम्य महतोऽभ्याहितस्यैकोऽङ्गारः खद्योतमात्रः परिशिष्टः स्यात् ।
तेन ततोऽपि न बहु दहेत् ।
एवं सोम्य ते षोडशानां कलानामेका कला अतिशिष्टा स्यात् ।
तयैतर्हि वेदान्नानुभवसि ।
अशान ।
अथ मे विज्ञास्यसीति ॥ ६,७.३ ॥
स हाश ।
अथ हैनमुपससाद ।
तं ह यत्किं च पप्रच्छ सर्वं ह प्रतिपेदे ॥ ६,७.४ ॥
तं होवाच ।
यथा सोम्य महतोऽभ्याहितस्यैकमङ्गारं खद्योतमात्रं परिशिष्टं तं तृनैरुपसमाधाय प्राज्वलयेत्तेन ततोऽपि बहु दहेत् ॥ ६,७.५ ॥
एवं सोम्य ते षोडशानां कलानामेका कलातिशिष्टाभूत् ।
सान्नेनोपसमाहिता प्राज्वाली ।
तयैतर्हि वेदाननुभवसि ।
अन्नमयं हि सोम्य मनः ।
आपोमयः प्राणः ।
तेजोमयी वागिति ।
तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६,७.६ ॥
उद्दालको हारुणिः श्वेतकेतुं पुत्रमुवाच स्वप्नान्तं मे सोम्य विजानीहीति ।
यत्रैतत्पुरुषः स्वपिति नाम सता सोम्य तदा संपन्नो भवति ।
स्वमपीतो भवति ।
तस्मादेनं स्वपितीत्याचक्षते ।
स्वं ह्यपीतो भवति ॥ ६,८.१ ॥
स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा बन्धनमेवोपश्रयते ।
एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वान्यत्रायतनमलब्ध्वा प्राणमेवोपश्रयते ।
प्राणबन्धनं हि सोम्य मन इति ॥ ६,८.२ ॥
अशनापिपासे मे सोम्य विजानीहीति ।
यत्रैतत्पुरुषोऽशिशिषति नामाप एव तदशितं नयन्ते ।
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तदप आचक्षतेऽशनायेति ।
तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि ।
नेदममूलं भविष्यतीति ॥ ६,८.३ ॥
तस्य क्व मूलं स्यादन्यत्रान्नात् ।
एवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छ ।
अद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ ।
तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ ।
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ॥ ६,८.४ ॥
अथ यत्रैतत्पुरुषः पिपासति नाम तेज एव तत्पीतं नयते ।
तद्यथा गोनायोऽश्वनायः पुरुषनाय इत्येवं तत्तेज आचष्ट उदन्येति ।
तत्रैतदेव शुङ्गमुत्पतितं सोम्य विजानीहि ।
नेदममूलं भविष्यतीति ॥ ६,८.५ ॥
तस्य क्व मूलं स्यादन्यत्राद्भ्यः ।
अद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ ।
तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ ।
सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः ।
यथा नु खलु सोम्येमास्तिस्रो देवताः पुरुषं प्राप्य त्रिवृत्त्रिवृदेकैका भवति तदुक्तं पुरस्तादेव भवति ।
अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् ॥ ६,८.६ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,८.७ ॥
यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसान् समवहारमेकतां रसं गमयन्ति ॥ ६,९.१ ॥
ते यथा तत्र न विवेकं लभन्तेऽमुष्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीति ।
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति संपद्य न विदुः सति संपद्यामह इति ॥ ६,९.२ ॥
त इह व्यघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६,९.३ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,९.४ ॥
इमाः सोम्य नद्यः पुरस्तात्प्राच्यः स्यन्दन्ते पश्चात्प्रतीच्यः ।
ताः समुद्रात्समुद्रमेवापियन्ति ।
स समुद्र एव भवति ।
ता यथा तत्र न विदुरियमहमस्मीयमहमस्मीति ॥ ६,१०.१ ॥
एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामह इति ।
त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशको वा यद्यद्भवन्ति तदाभवन्ति ॥ ६,१०.२ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,१०.३ ॥
अस्य सोम्य महतो वृक्षस्य यो मूलेऽभ्याहन्याज्जीवन् स्रवेद्यो मध्येऽभ्याहन्याज्जीवन् स्रवेद्योऽग्रेऽभ्याहन्याज्जीवन् स्रवेत् ।
स एष जीवेनात्मनानुप्रभूतः पेपीयमानो मोदमानस्तिष्ठति ॥ ६,११.१ ॥
अस्य यदेकां शाखां जीवो जहात्यथ सा शुष्यति ।
द्वितीयां जहात्यथ सा शुष्यति ।
तृतीयां जहात्यथ सा शुष्यति ।
सर्वं जहाति सर्वः शुष्यति ॥ ६,११.२ ॥
एवमेव खलु सोम्य विद्धीति ह उवाच ।
जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति ।
स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,११.३ ॥
न्यग्रोधफलमत आहरेति ।
इदं भगव इति ।
भिन्द्धीति ।
भिन्नं भगव इति ।
किमत्र पश्यसीति ।
अण्व्य इवेमा धाना भगव इति ।
आसामङ्गैकां भिन्द्धीति ।
भिन्ना भगव इति ।
किमत्र पश्यसीति ।
न किंचन भगव इति ॥ ६,१२.१ ॥
तं होवाच यं वै सोम्यैतमणिमानं न निभालयस एतस्य वै सोम्यैषोऽणिम्न एवं महान्यग्रोधस्तिष्ठति ।
श्रद्धत्स्व सोम्येति ॥ ६,१२.२ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,१२.३ ॥
लवणमेतदुदकेऽवधायाथ मा प्रातरुपसीदथा इति ।
स ह तथा चकार ।
तं होवाच ।
यद्दोषा लवणमुदकेऽवाधा अङ्ग तदाहरेति ।
तद्धावमृश्य न विवेद ॥ ६,१३.१ ॥
यथा विलीनमेव ।
अन्॑गास्यान्तादाचामेति ।
कथमिति ।
लवणमिति ।
मध्यादाचामेति ।
कथमिति ।
लवणमिति ।
अन्तादाचामेति ।
कथमिति ।
लवणमिति ।
अभिप्रास्यैतदथ मोपसीदथा इति ।
तद्ध तथा चकार ।
तच्छश्वत्संवर्तते ।
तं होवाचात्र वाव किल तत्सोम्य न निभालयसेऽत्रैव किलेति ॥ ६,१३.२ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,१३.३ ॥
यथा सोम्य पुरुषं गन्धारेभ्योऽभिनद्धाक्षमानीय तं ततोऽतिजने विसृजेत् ।
स यथा तत्र प्राङ्वोदङ्वा अधराङ्वा प्रत्यङ्वा प्रध्मायीताभिनद्धाक्ष आनीतोऽभिनद्धाक्षो विसृष्टः ॥ ६,१४.१ ॥
तस्य यथाभिनहनं प्रमुच्य प्रब्रूयादेतां दिशं गन्धारा एतां दिशं व्रजेति ।
स ग्रामाद्ग्रामं पृच्छन् पण्डितो मेधावी गन्धारानेवोपसंपद्येत ।
एवमेवेहाचार्यवान् पुरुषो वेद ।
तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्य इति ॥ ६,१४.२ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,१४.३ ॥
पुरुषं सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति ।
तस्य यावन्न वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ ६,१५.१ ॥
अथ यदास्य वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ ६,१५.२ ॥
स य एषोऽणिमैतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
भूय एव मा भगवान् विज्ञापयत्विति ।
तथा सोम्येति होवाच ॥ ६,१५.३ ॥
पुरुषं सोम्योत हस्तगृहीतमानयन्ति ।
अपहार्षीत्स्तेयमकार्षीत्परशुमस्मै तपतेति ।
स यदि तस्य कर्ता भवति तत एवानृतमात्मानं कुरुते ।
सोऽनृताभिसंधोऽनृतेनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति ।
स दह्यते ।
अथ हन्यते ॥ ६,१६.१ ॥
अथ यदि तस्याकर्ता भवति ।
तत एव सत्यमात्मानं कुरुते ।
स सत्याभिसन्धः सत्येनात्मानमन्तर्धाय परशुं तप्तं प्रतिगृह्णाति ।
स न दह्यते ।
अथ मुच्यते ॥ ६,१६.२ ॥
स यथा तत्र नादाह्येत ।
एतदात्म्यमिदं सर्वम् ।
तत्सत्यम् ।
स आत्मा ।
तत्त्वमसि श्वेतकेतो इति ।
तद्धास्य विजज्ञाविति विजज्ञाविति ॥ ६,१६.३ ॥
अधीहि भगव इति होपससाद सनत्कुमारं नारदः ।
तं होवाच यद्वेत्थ तेन मोपसीद ।
ततस्त ऊर्ध्वं वक्ष्यामीति ।
स होवाच ॥ ७,१.१ ॥
ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यामेतद्भगवोऽध्येमि ॥ ७,१.२ ॥
सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित् ।
श्रुतं ह्येव मे भगवद्दृशेभ्यस्तरति शोकमात्मविदिति ।
सोऽहं भगवः शोचामि ।
तं मा भगवाञ्छोकस्य पारं तारयत्विति ।
तं होवाच यद्वै किंचैतदध्यगीष्ठा नामैवैतत् ॥ ७,१.३ ॥
नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणश्चतुर्थ इतिहासपुराणः पञ्चमो वेदानां वेदः पित्र्यो राशिर्दैवो निधिर्वाकोवाक्यमेकायनं देवविद्या ब्रह्मविद्या भूतविद्या क्षत्रविद्या नक्षत्रविद्या सर्पदेवजनविद्या ।
नामैवैतत् ।
नामोपास्स्वेति ॥ ७,१.४ ॥
स यो नाम ब्रह्मेत्युपास्ते ।
यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति यो नाम ब्रह्मेत्युपास्ते ।
अस्ति भगवो नाम्नो भूय इति ।
नाम्नो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१.५ ॥
वाग्वाव नाम्नो भूयसी ।
वाग्वा ऋग्वेदं विज्ञापयति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्श्वापदान्याकीटपतङ्गपिपीलकं धर्मं चाधर्मम् ।
च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं च ।
यद्वै वाङ्नाभविष्यन्न धर्मो नाधर्मो व्यज्ञापयिष्यन्न सत्यं नानृतं न साधु नासाधु न हृदयज्ञो नाहृदयज्ञः ।
वागेवैतद्सर्वं विज्ञापयति वाचमुपास्स्वेति ॥ ७,२.१ ॥
स यो वाचं ब्रह्मेत्युपास्ते ।
यावद्वाचो गतं तत्रास्य यथाकामचारो भवति यो वाचं ब्रह्मेत्युपास्ते ।
अस्ति भगवो वाचो भूय इति ।
वाचो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,२.२ ॥
मनो वाव वाचो भूयः ।
यथा वै द्वे वामलके द्वे वा कोले द्वौ वाक्षौ मुष्टिरनुभवत्येवं वाचं च नाम च मनोऽनुभवति ।
स यदा मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते ।
कर्माणि कुर्वीयेत्यथ कुरुते ।
पुत्रांश्च पशूंश्चेच्छेयेत्यथेच्छते ।
इमं च लोकममुं चेच्छेयेत्यथेच्छते ।
मनो ह्यात्मा ।
मनो हि लोकः ।
मनो हि ब्रह्म ।
मन उपास्स्वेति ॥ ७,३.१ ॥
स यो मनो ब्रह्मेत्युपास्ते ।
यावन्मनसो गतं तत्रास्य यथाकामचारो भवति यो मनो ब्रह्मेत्युपास्ते ।
अस्ति भगवो मनसो भूय इति ।
मनसो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,३.२ ॥
संकल्पो वाव मनसो भूयान् ।
यदा वै संकल्पयतेऽथ मनस्यति ।
अथ वाचमीरयति ।
तामु नाम्नीयूअति ।
नाम्नि मन्त्रा एकं भवन्ति ।
मन्त्रेषु कर्माणि ॥ ७,४.१ ॥
तानि ह वा एतानि संकल्पैकायनानि संकल्पात्मकानि संकल्पे प्रतिष्ठितानि ।
समकॢपतां द्यावापृथिवी ।
समकल्पेतां वायुश्चाकाशं च ।
समकल्पन्तापश्च तेजश्च ।
तेषां संकॢप्त्यै वर्षं संकल्पते ।
वर्षस्य संकॢप्त्या अन्नं संकल्पते ।
अन्नस्य संकॢप्त्यै प्राणाः संकल्पन्ते ।
प्राणानां संकॢप्त्यै मन्त्राः संकल्पन्ते ।
मन्त्राणां संकॢप्त्यै कर्माणि संकल्पन्ते ।
कर्मणां संकॢप्त्यै लोकः संकल्पते ।
लोकस्य संकॢप्त्यै सर्वं संकल्पते ।
स एष संकल्पः ।
संकल्पमुपास्स्वेति ॥ ७,४.२ ॥
स यः संकल्पं ब्रह्मेत्युपास्ते ।
कॢप्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति ।
यावत्संकल्पस्य गतं तत्रास्य यथाकामचारो भवति यः संकल्पं ब्रह्मेत्युपास्ते ।
अस्ति भगवः संकल्पाद्भूय इति ।
संकल्पाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,४.३ ॥
चित्तं वाव संकल्पाद्भूयः ।
यदा वै चेतयतेऽथ संकल्पयते ।
अथ मनस्यति ।
अथ वाचमीरयति ।
तामु नाम्नीयूअति ।
नाम्नि मन्त्रा एकं भवन्ति ।
मन्त्रेषु कर्माणि ॥ ७,५.१ ॥
तानि ह वा एतानि चित्तैकायनानि चित्तात्मानि चित्ते प्रतिष्ठितानि ।
तस्माद्यद्यपि बहुविदचित्तो भवति नायमस्तीत्येवैनमाहुः ।
यदयं वेद यद्वा अयं विद्वान्नेत्थमचित्तः स्यादिति ।
अथ यद्यल्पविच्चित्तवान् भवति तस्मा एवोत शुश्रूषन्ते ।
चित्तं ह्येवैषामेकायनम् ।
चित्तमात्मा ।
चित्तं प्रतिष्ठा ।
चित्तमुपास्स्वेति ॥ ७,५.२ ॥
स यश्चित्तं ब्रह्मेत्युपास्ते ।
चित्तान् वै स लोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिध्यति ।
यावच्चित्तस्य गतं तत्रास्य यथाकामचारो भवति यश्चित्तं ब्रह्मेत्युपास्ते ।
अस्ति भगवश्चित्ताद्भूय इति ।
चित्ताद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,५.३ ॥
ध्यानं वाव चित्ताद्भूयः ।
ध्यायतीव पृथिवी ।
ध्यायतीवान्तरिक्षम् ।
ध्यायतीव द्यौः ।
ध्यायन्तीवापः ।
ध्यायन्तीव पर्वताः ।
ध्यायन्तीव देवमनुष्याः ।
तस्माद्य इह मनुष्याणां महत्तां प्राप्नुवन्ति ध्यानापादांशा इवैव ते भवन्ति ।
अथ येऽल्पाः कलहिनः पिशुना उपवादिनस्ते ।
अथ ये प्रभवो ध्यानापादांशा इवैव ते भवन्ति ।
ध्यानमुपास्स्वेति ॥ ७,६.१ ॥
स यो ध्यानं ब्रह्मेत्युपास्ते ।
यावद्ध्यानस्य गतं तत्रास्य यथाकामचारो भवति यो ध्यानं ब्रह्मेत्युपास्ते ।
अस्ति भगवो द्यानाद्भूय इति ।
ध्यानाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,६.२ ॥
विज्ञानं वाव ध्यानाद्भूयः ।
विज्ञानेन वा ऋग्वेदं विजानाति यजुर्वेदं सामवेदमाथर्वणं चतुर्थमितिहासपुराणं पञ्चमं वेदानां वेदं पित्र्यं राशिं दैवं निधिं वाकोवाक्यमेकायनं देवविद्यां ब्रह्मविद्यां भूतविद्यां क्षत्रविद्यां नक्षत्रविद्यां सर्पदेवजनविद्यां दिवं च पृथिवीं च वायुं चाकाशं चापश्च तेजश्च देवांश्च मनुष्यांश्च पशूंश्च वयांसि च तृणवनस्पतीञ्छ्वापदान्याकीटपतङ्गपिपीलकम् ।
धर्मं चाधर्मं च सत्यं चानृतं च साधु चासाधु च हृदयज्ञं चाहृदयज्ञं चान्नं च रसं चेमं च लोकममुं च विज्ञानेनैव विजानाति ।
विज्ञानमुपास्स्वेति ॥ ७,७.१ ॥
स यो विज्ञानं ब्रह्मेत्युपास्ते ।
विज्ञानवतो वै स लोकाञ्ज्ञानवतोऽभिसिध्यति ।
यावद्विज्ञानस्य गतं तत्रास्य यथाकामचारो भवति यो विज्ञानं ब्रह्मेत्युपास्ते ।
अस्ति भगवो विज्ञानाद्भूय इति ।
विज्ञानाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,७.२ ॥
बलं वाव विज्ञानाद्भूयः ।
अपि ह शतं विज्ञानवतामेको बलवानाकम्पयते ।
स यदा बली भवत्यथोत्थाता भवति ।
उत्तिष्ठन् परिचरिता भवति ।
परिचरन्नुपसत्ता भवति ।
उपसीदन् द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति ।
बलेन वै पृथिवी तिष्ठति बलेनान्तरिक्षं बलेन द्यौर्बलेन पर्वता बलेन देवमनुष्या बलेन पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकम् ।
बलेन लोकस्तिष्ठति ।
बलमुपास्स्वेति ॥ ७,८.१ ॥
स यो बलमुपास्ते ।
यावद्बलस्य गतं तत्रास्य यथाकामचारो भवति यो बलं ब्रह्मेत्युपास्ते ।
अस्ति भगवो बलाद्भूय इति ।
बलाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,८.२ ॥
अन्नं वाव बलाद्भूयः ।
तस्माद्यद्यपि दश रात्रीर्नाश्नीयात् ।
यद्यु ह जीवेत् ।
अथवाद्रष्टाश्रोतामन्ताबोद्धाकर्ताविज्ञाता भवति ।
अथान्नस्याये द्रष्टा भवति श्रोता भवति मन्ता भवति बोद्धा भवति कर्ता भवति विज्ञाता भवति ।
अन्नमुपास्स्वेति ॥ ७,९.१ ॥
स योऽन्नं ब्रह्मेत्युपास्ते ।
अन्नवतो वै स लोकान् पानवतोऽभिसिध्यति ।
यावदन्नस्य गतं तत्रास्य यथाकामचारो भवति योऽन्नं ब्रह्मेत्युपास्ते ।
अस्ति भगवोऽन्नाद्भूय इति ।
अन्नाद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,९.२ ॥
आपो वावान्नाद्भूयस्यः ।
तस्माद्यदा सुवृष्टिर्न भवति व्याधीयन्ते प्राणा अन्नं कनीयो भविष्यतीति ।
अथ यदा सुवृष्टिर्भवत्यानन्दिनः प्राणा भवन्त्यन्नं बहु भविष्यतीति ।
आप एवेमा मूर्ता येयं पृथिवी यदन्तरिक्षं यद्द्यौर्यत्पर्वता यद्देवमनुष्या यत्पशवश्च वयांसि च तृणवनस्पतयः श्वापदान्याकीटपतङ्गपिपीलकम् ।
आप एवेमा मूर्ताः ।
अप उपास्स्वेति ॥ ७,१०.१ ॥
स योऽपो ब्रह्मेत्युपास्ते ।
आप्नोति सर्वान् कामांस्तृप्तिमान् भवति ।
यावदपां गतं तत्रास्य यथाकामचारो भवति योऽपो ब्रह्मेत्युपास्ते ।
अस्ति भगवोऽद्भ्यो भूय इति ।
अद्भ्यो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१०.२ ॥
तेजो वावाद्भ्यो भूयः ।
तद्वा एतद्वायुमागृह्याकाशमभितपति तदाहुर्निशोचति नितपति वर्षिष्यति वा इति ।
तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते ।
तदेतदूर्ध्वाभिश्च तिरश्चीभिश्च विद्युद्भिराह्रादाश्चरन्ति तस्मादाहुर्विद्योतते स्तनयति वर्षिष्यति वा इति ।
तेज एव तत्पूर्वं दर्शयित्वाथापः सृजते ।
तेज उपास्स्वेति ॥ ७,११.१ ॥
स यस्तेजो ब्रह्मेत्युपास्ते ।
तेजस्वी वै स तेजस्वतो लोकान् भास्वतोऽपहततमस्कानभिसिध्यति ।
यावत्तेजसो गतं तत्रास्य यथाकामचारो भवति यस्तेजो ब्रह्मेत्युपास्ते ।
अस्ति भगवस्तेजसो भूय इति ।
तेजसो वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,११.२ ॥
आकाशो वाव तेजसो भूयान् ।
आकाशे वै सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राण्यग्निः ।
आकाशेनाह्वायति ।
आकाशेन सृणोति ।
आकाशेन प्रतिसृणोति ।
आकाशे रमते ।
आकाशे न रमते ।
आकाशे जायते ।
आकाशमभिजायते ।
आकाशमुपास्स्वेति ॥ ७,१२.१ ॥
स य आकाशं ब्रह्मेत्युपास्ते ।
आकाशवतो वै स लोकान् प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति ।
यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्ते ।
अस्ति भगव आकाशाद्भूय इति ।
आकाशद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१२.२ ॥
स्मरो वावाकाशाद्भूयः ।
तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन् ।
यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन् ।
स्मरेण वै पुत्रान् विजानाति स्मरेण पशून् ।
स्मरमुपास्स्वेति ॥ ७,१३.१ ॥
स यः स्मरं ब्रह्मेत्युपास्ते ।
यावत्स्मरस्य गतं तत्रास्य यथाकामचारो भवति यः स्मरं ब्रह्मेत्युपास्ते ।
अस्ति भगवः स्मराद्भूय इति ।
स्मराद्वाव भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१३.२ ॥
आशा वाव स्मराद्भूयसी ।
आशेद्धो वै स्मरो मन्त्रानधीते कर्माणि कुरुते पुत्रांश्च पशूंश्चेच्छत इमं च लोकं अमुं चेच्छते ।
आशामुपास्स्वेति ॥ ७,१४.१ ॥
स य आशां ब्रह्मेत्युपास्ते ।
आशयास्य सर्वे कामाः समृध्यन्ति ।
अमोघा हास्याशिषो भवन्ति ।
यावदाशाया गतं तत्रास्य यथाकामचारो भवति य आशां ब्रह्मेत्युपास्ते ।
अस्ति भगव आशाया भूय इति ।
आशाया भूयोऽस्तीति ।
तन्मे भगवान् ब्रवीत्विति ॥ ७,१४.२ ॥
प्राणो वाव आशाया भूयान् ।
यथा वा अरा नाभौ समर्पिता एवमस्मिन् प्राणे सर्वं समर्पितम् ।
प्राणः प्राणेन याति ।
प्राणः प्राणं ददाति ।
प्राणाय ददाति ।
प्राणो ह पिता ।
प्राणो माता ।
प्राणो भ्राता ।
प्राणः स्वसा ।
प्राण आचार्यः ।
प्राणो ब्राह्मणः ॥ ७,१५.१ ॥
स यदि पितरं वा मातरं वा भ्रातरं वा स्वसारं वाचार्यं वा ब्राह्मणं वा किंचिद्भृशमिव प्रत्याह ।
धिक्त्वास्त्वित्येवैनमाहुः ।
पितृहा वै त्वमसि मातृहा वै त्वमसि भ्रातृहा वै त्वमसि स्वसृहा वै त्वमस्याचार्यहा वै त्वमसि ब्राह्मणहा वै त्वमसीति ॥ ७,१५.२ ॥
अथ यद्यप्येनानुत्क्रान्तप्राणाञ्छूलेन समासं व्यतिषंदहेत् ।
नैवैनं ब्रूयुः पितृहासीति न मातृहासीति न भ्रातृहासीति न स्वसृहासीति नाचार्यहासीति न ब्राह्मणहासीति ॥ ७,१५.३ ॥
प्राणो ह्येवैतानि सर्वाणि भवति ।
स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी भवति ।
तं चेद्ब्रूयुरतिवाद्यसीति ।
अतिवाद्यस्मीति ब्रूयात् ।
नापह्नुवीत ॥ ७,१५.४ ॥
यदा वै विजानात्यथ सत्यं वदति ।
नाविजानन् सत्यं वदति ।
विजानन्नेव सत्यं वदति ।
विज्ञानं त्वेव विजिज्ञासितव्यमिति ।
विज्ञानं भगवो विजिज्ञास इति ॥ ७,१७.१ ॥
यदा वै मनुतेऽथ विजानाति ।
नामत्वा विजानाति ।
मत्वैव विजानाति ।
मतिस्त्वेव विजिज्ञासितव्येति ।
मतिं भगवो विजिज्ञास इति ॥ ७,१८.१ ॥
यदा वै श्रद्दधात्यथ मनुते ।
नाश्रद्दधन्मनुते ।
श्रद्दधदेव मनुते ।
श्रद्धा त्वेव विजिज्ञासितव्येति ।
श्रद्धां भगवो विजिज्ञास इति ॥ ७,१९.१ ॥
यदा वै निस्तिष्ठत्यथ श्रद्दधाति ।
नानिस्तिष्ठञ्छ्रद्दधाति ।
निस्तिष्ठन्नेव श्रद्दधाति ।
निष्ठा त्वेव विजिज्ञासितव्येति ।
निष्ठां भगवो विजिज्ञास इति ॥ ७,२०.१ ॥
यदा वै करोत्यथ निस्तिष्ठति ।
नाकृत्वा निस्तिष्ठति ।
कृत्वैव निस्तिष्ठति ।
कृतिस्त्वेव विजिज्ञासितव्येति ।
कृतिं भगवो विजिज्ञास इति ॥ ७,२१.१ ॥
यदा वै सुखं लभतेऽथ करोति ।
नासुखं लब्ध्वा करोति ।
सुखमेव लब्ध्वा करोति ।
सुखं त्वेव विजिज्ञासितव्यमिति ।
सुखं भगवो विजिज्ञास इति ॥ ७,२२.१ ॥
यो वै भूमा तत्सुखम् ।
नाल्पे सुखमस्ति ।
भूमैव सुखम् ।
भूमा त्वेव विजिज्ञासितव्य इति ।
भूमानं भगवो विजिज्ञास इति ॥ ७,२३.१ ॥
यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा ।
अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् ।
यो वै भूमा तदमृतम् ।
अथ यदल्पं तन्मर्त्यम् ।
स भगवः कस्मिन् प्रतिष्ठित इति ।
स्वे महिम्नि यदि वा न महिम्नीति ॥ ७,२४.१ ॥
गोऽश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभार्यं क्षेत्राण्यायतनानीति ।
नाहमेवं ब्रवीमि ।
ब्रवीमीति होवाच ।
अन्यो ह्यन्यस्मिन् प्रतिष्ठित इति ॥ ७,२४.२ ॥
स एवाधस्तात्स उपरिष्टात्स पश्चात्स पुरस्तात्स दक्षिणतः स उत्तरतः ।
स एवेदं सर्वमिति ।
अथातोऽहंकारादेश एव ।
अहमेवाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वमिति ॥ ७,२५.१ ॥
अथात आत्मादेश एव ।
आत्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वमिति ।
स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराड्भवति ।
तस्य सर्वेषु लोकेषु कामचारो भवति ।
अथ येऽन्यथातो विदुरन्यराजानस्ते क्षय्यलोका भवन्ति ।
तेषां सर्वेषु लोकेष्वकामचारो भवति ॥ ७,२५.२ ॥
तस्य ह वा एतस्यैवं पश्यत एवं मन्वानस्यैवं विजानत आत्मतः प्राण आत्मत आशात्मतः स्मर आत्मत आकाश आत्मतस्तेज आत्मत आप आत्मत आविर्भावतिरोभावावात्मतोऽन्नमात्मतो बलमात्मतो विज्ञानमात्मतो ध्यानमात्मतश्चित्तमात्मतः संकल्प आत्मतो मन आत्मतो वागात्मतो नामात्मतो मन्त्रा आत्मतः कर्माण्यात्मत एवेदं सर्वमिति ॥ ७,२६.१ ॥
तदेष श्लोकः ।
न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् ।
सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः ।
इति ।
स एकधा भवति त्रिधा भवति पञ्चधा ।
सप्तधा नवधा चैव पुनश्चैकादश स्मृतः ।
शतं च दश चैकश्च सहस्राणि च विंशतिः ।
आहारशुद्धौ सत्त्वशुद्धिः ।
सत्त्वशुद्धौ ध्रुवा स्मृतिः ।
स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः ।
तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान् सनत्कुमारः ।
तं स्कन्द इत्याचक्षते ॥ ७,२६.२ ॥
अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकासः ।
तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यमिति ॥ ८,१.१ ॥
तं चेद्ब्रूयुर्यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशः किं तदत्र विद्यते यदन्वेष्टव्यं यद्वाव विजिज्ञासितव्यमिति ।
स ब्रूयात् ॥ ८,१.२ ॥
यावान् वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशः ।
उभेऽस्मिन् द्यावापृथिवी अन्तरेव समाहिते ।
उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि ।
यच्चास्येहास्ति यच्च नास्ति सर्वं तदस्मिन् समाहितमिति ॥ ८,१.३ ॥
तं चेद्ब्रूयुरस्मिंश्चेदं ब्रह्मपुरे सर्वं समाहितं सर्वाणि च भूतानि सर्वे च कामा यदेनज्जरा वाप्नोति प्रध्वंसते वा किं ततोऽतिशिष्यत इति ॥ ८,१.४ ॥
स ब्रूयात् ।
नास्य जरयैतज्जीर्यति न वधेनास्य हन्यते ।
एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिताः ।
एष आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः ।
यथा ह्येवेह प्रजा अन्वाविशन्ति यथानुशासनम् ।
यं यमन्तमभिकामा भवन्ति यं जनपदं यं क्षेत्रभागं तं तमेवोपजीवन्ति ॥ ८,१.५ ॥
तद्यथेह कर्मजितो लोकः क्षीयत एवमेवामुत्र पुण्यजितो लोकः क्षीयते ।
तद्य इहात्मानमननुविद्य व्रजन्त्येतांश्च सत्यान् कामांस्तेषां सर्वेषु लोकेष्वकामचारो भवति ।
अथ य इहात्मानमनिवुद्य व्रजन्त्येतंश्च सत्यान् कामांस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८,१.६ ॥
स यदि पितृलोककामो भवति ।
संकल्पादेवास्य पितरः समुत्तिष्ठन्ति ।
तेन पितृलोकेन संपन्नो महीयते ॥ ८,२.१ ॥
अथ यदि मातृलोककामो भवति ।
संकल्पादेवास्य मातरः समुत्तिष्ठन्ति ।
तेन मातृलोकेन संपन्नो महीयते ॥ ८,२.२ ॥
अथ यदि भ्रातृलोककामो भवति ।
संकल्पादेवास्य भ्रातरः समुत्तिष्ठन्ति ।
तेन भ्रातृलोकेन संपन्नो महीयते ॥ ८,२.३ ॥
अथ यदि स्वसृलोककामो भवति ।
संकल्पादेवास्य स्वसारः समुत्तिष्ठन्ति ।
तेन स्वसृलोकेन संपन्नो महीयते ॥ ८,२.४ ॥
अथ यदि सखिलोककामो भवति ।
संकल्पादेवास्य सखायः समुत्तिष्ठन्ति ।
तेन सखिलोकेन संपन्नो महीयते ॥ ८,२.५ ॥
अथ यदि गन्धमाल्यलोककामो भवति ।
संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतः ।
तेन गन्धमाल्यलोकेन संपन्नो महीयते ॥ ८,२.६ ॥
अथ यद्यन्नपानलोककामो भवति ।
संकल्पादेवास्यान्नपाने समुत्तिष्ठतः ।
तेनान्नपानलोकेन संपन्नो महीयते ॥ ८,२.७ ॥
अथ यदि गीतवादितलोककामो भवति ।
संकल्पादेवास्य गीतवादिते समुत्तिष्ठतः ।
तेन गीतवादितलोकेन संपन्नो महीयते ॥ ८,२.८ ॥
अथ यदि स्त्रीलोककामो भवति ।
संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति ।
तेन स्त्रीलोकेन संपन्नो महीयते ॥ ८,२.९ ॥
यं यमन्तमभिकामो भवति ।
यं कामं कामयते ।
सोऽस्य संकल्पादेव समुत्तिष्ठति ।
तेन संपन्नो महीयते ॥ ८,२.१० ॥
त इमे सत्याः कामा अनृतापिधानाः ।
तेषां सत्यानां सतामनृतमपिधानम् ।
यो यो ह्यस्येतः प्रैति न तमिह दर्शनाय लभते ॥ ८,३.१ ॥
अथ ये चास्येह जीवा ये च प्रेता यच्चान्यदिच्छन्न लभते सर्वं तदत्र गत्वा विन्दते ।
अत्र ह्यस्यैते सत्याः कामा अनृतापिधानाः ।
तद्यथापि हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्देयुः ।
एवमेवेमाः सर्वाः प्रजा अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः ॥ ८,३.२ ॥
स वा एष आत्मा हृदि ।
तस्यैतदेव निरुक्तं हृद्ययमिति तस्माद्धृदयम् ।
अहरहर्वा एवंवित्स्वर्गं लोकमेति ॥ ८,३.३ ॥
अथ य एष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेनाभिनिष्पद्यत एष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति ॥ ८,३.४ ॥
अथ य आत्मा स सेतुर्धृतिरेषां लोकानामसंभेदाय ।
नैतं सेतुमहोरात्रे तरतो न जरा न मृत्युर्न शोको न सुकृतम् ।
सर्वे पाप्मानोऽतो निवर्तन्ते ।
अपहतपाप्मा ह्येष ब्रह्मलोकः ॥ ८,४.१ ॥
तस्माद्वा एतं सेतुं तीर्त्वा अन्धः सन्ननन्धो भवति ।
विद्धः सन्नविद्धो भवति ।
उपतापी सन्ननुपतापी भवति ।
तस्माद्वा एतं सेतुं तीर्त्वा अपि नक्तमहरेवाभिनिष्पद्यते ।
सकृद्विभातो ह्येवैष ब्रह्मलोकः ॥ ८,४.२ ॥
तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८,४.३ ॥
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तत् ।
ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दते ।
अथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तत् ।
ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८,५.१ ॥
अथ यत्सत्त्रायणमित्याचक्षते ब्रह्मचर्यमेव तत् ।
ब्रह्मचर्येण ह्येव सत आत्मनस्त्राणं विन्दते ।
अथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
ब्रह्मचर्येण ह्येवात्मानमनुविद्य मनुते ॥ ८,५.२ ॥
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
एष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दते ।
अथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तत् ।
ततरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि ।
तदैरंमदीयं सरः ।
तदश्वत्थः सोमसवनः ।
तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् ॥ ८,५.३ ॥
तद्य एवैतावरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकः ।
तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८,५.४ ॥
अथ या एता हृदयस्य नाड्यस्ताः पिङ्गलस्याणिम्नस्तिष्ठन्ति शुक्लस्य नीलस्य पीतस्य लोहितस्येति ।
असौ वादित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः ॥ ८,६.१ ॥
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च ।
अमुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ताः ।
आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ ८,६.२ ॥
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति ।
आसु तदा नाडीषु सृप्तो भवति ।
तं न कश्चन पाप्मा स्पृशति ।
तेजसा हि तदा संपन्नो भवति ॥ ८,६.३ ॥
अथ यत्रैतदबलिमानं नीतो भवति ।
तमभित आसीना आहुर्जानासि मां जानासि मामिति ।
स यावदस्माच्छरीरादनुत्क्रान्तो भवति ।
तावज्जानाति ॥ ८,६.४ ॥
अथ यत्रैतदस्माच्छरीरादुत्क्रामति ।
अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते ।
स ओमिति वा होद्वा मीयते ।
स यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति ।
एतद्वै खलु लोकद्वारं विदुषां प्रपदनं निरोधोऽविदुषाम् ॥ ८,६.५ ॥
तदेष श्लोकः ।
शतं चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका ।
तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्त्युत्क्रमणे भवन्ति ॥ ८,६.६ ॥
य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ।
स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति ह प्रजापतिरुवाच ॥ ८,७.१ ॥
तद्धोभये देवासुरा अनुबुबुधिरे ।
ते होचुर्हन्त तमात्मआनमन्वेच्छामो यमात्मानमन्विष्य सर्वांश्च लोकानाप्नोति सर्वांश्च कामानिति ।
इन्द्रो हैव देवानामभिप्रवव्राज विरोचनोऽसुराणाम् ।
तौ हासंविदानावेव समित्पाणी प्रजापतिसकाशमाजग्मतुः ॥ ८,७.२ ॥
तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः ।
तौ ह प्रजापतिरुवाच ।
किमिच्छन्ताववास्तमिति ।
तौ होचतुर्य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः ।
स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानातीति भगवतो वचो वेदयन्ते ।
तमिच्छन्ताववास्तमिति ॥ ८,७.३ ॥
तौ ह प्रजापतिरुवाच य एषोऽक्षिणि पुरुषो दृष्यत एष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
अथ योऽयं भगवोऽप्सु परिख्यायते यश्चायमादर्शे कतम एष इति ।
एष उ एवैषु सर्वेष्वन्न्तेषु परिख्यायत इति होवाच ॥ ८,७.४ ॥
उदशराव आत्मानमवेक्ष्य यदात्मनो न विजानीथस्तन्मे प्रब्रूतमिति ।
तौ होदशरावेऽवेक्षां चक्राते ।
तौ ह प्रजापतिरुवाच किं पश्यथ इति ।
तौ होचतुः सर्वमेवेदमावां भगव आत्मानं पश्याव आ लोमभ्यः आ नखेभ्यः प्रतिरूपमिति ॥ ८,८.१ ॥
तौ ह प्रजापतिरुवाच साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षेथामिति ।
तौ ह साध्वलंकृतौ सुवसनौ परिष्कृतौ भूत्वोदशरावेऽवेक्षां चक्राते ।
तौ ह प्रजापतिरुवाच किं पश्यथ इति ॥ ८,८.२ ॥
तौ होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ स्व एवमेवेमौ भगवः साध्वल्लंकृतौ सुवसनौ परिष्कृताविति ।
एष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
तौ ह शान्तहृदयौ प्रवव्रजतुः ॥ ८,८.३ ॥
तौ हान्वीक्ष्य प्रजापतिरुवाच ।
अनुपलभ्यात्मानमननुविद्य व्रजतो यतर एतदुपनिषदो भविष्यन्ति देवा वा असुरा वा ते पराभविष्यन्तीति ।
स ह शान्तहृदय एव विरोचनोऽसुराञ्जगाम ।
तेभ्यो हैतामुपनिषदं प्रोवाच आत्मैवेह महय्य आत्मा परिचर्यः ।
आत्मानमेवेह महयन्नात्मानं परिचरन्नुभौ लोकावाप्नोतीमं चामुं चेति ॥ ८,८.४ ॥
तस्मादप्यद्द्येहाददानमश्रद्दधानमयजमानमाहुरासुरो बतेति ।
असुराणां ह्येषोपनिषत् ।
प्रेतस्य शरीरं भिक्षया वसनेनालंकारेणेति संस्कुर्वन्ति ।
एतेन ह्यम्मुं लोकं जेष्यन्तो मन्यन्ते ॥ ८,८.५ ॥
अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श ।
यथैव खल्वयमस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः ।
अस्यैव शरीरस्य नाशमन्वेष नश्यति ।
नाहमत्र भोग्यं पश्यामीति ॥ ८,९.१ ॥
स समित्पाणिः पुनरेयाय ।
तं ह प्रजापतिरुवाच ।
मघवन् यच्छान्तहृदयः प्राव्राजीः सार्धं विरोचनेन किमिच्छन् पुनरागम इति ।
स होवाच यथा एव खल्वय्यं भगवोऽस्मिञ्छरीरे साध्वलंकृते साध्वलंकृतो भवति सुवसने सुवसनः परिष्कृते परिष्कृत एवमेवायमस्मिन्नन्धेऽन्धो भवति स्रामे स्रामः परिवृक्णे परिवृक्णः ।
अस्यैव शरीरस्य नाशमन्वेष नश्यति ।
नाहमत्र भोग्यं पश्यामीति ॥ ८,९.२ ॥
एवमेवैष मघवन्निति होवाच ।
एतं त्वेव ते भूयोऽनुव्याख्यास्यामि ।
वसापराणि द्वात्रिंशतं वर्षाणीति ।
स हापराणि द्वात्रिंशतं वर्षाण्युवास ।
तस्मै होवाच ॥ ८,९.३ ॥
य एष स्वप्ने महीयमानश्चरत्येष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
स ह शान्तहृदयः प्रवव्राज ।
स हाप्राप्यैव देवानेतद्भयं ददर्श ।
तद्यद्यपीदं शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामः ।
नैवैषोऽस्य दोषेण दुष्यति ॥ ८,१०.१ ॥
न वधेनास्य हन्यते ।
नास्य स्राम्येण स्रामः ।
घ्नन्ति त्वेवैनम् ।
विच्छादयन्तीव ।
अप्रियवेत्तेव भवति ।
अपि रोदितीव नाहमत्र भोग्यं पश्यामीति ॥ ८,१०.२ ॥
स समित्पाणिः पुनरेयाय ।
तं ह प्रजापतिरुवाच ।
मघवन् यच्छान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति ।
स होवाच ।
तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामः ।
नैवैषोऽस्य दोषेण दुष्यति ॥ ८,१०.३ ॥
न वधेनास्य हन्यते ।
नास्य स्राम्येण स्रामः ।
घ्नन्ति त्विवैनम् ।
विच्छादयन्तीव ।
अप्रियवेत्तेव भवति ।
अपि रोदितीव ।
नाहमत्र भोग्यं पश्यामीति ।
एवमेवैष मघवन्निति होवाच ।
एतं त्वेव ते भूयोऽनुव्याख्यास्यामि ।
वसापराणि द्वात्रिंशतं वर्षाणीति ।
स हापराणि द्वात्रिंशतं वर्षाण्युवास ।
तस्मै होवाच ॥ ८,१०.४ ॥
तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानात्येष आत्मेति होवाच ।
एतदमृतमभयमेतद्ब्रह्मेति ।
स ह शान्तहृदयः प्रवव्राज ।
स हाप्राप्यैव देवानेतद्भयं ददर्श ।
नाह खल्वयमेवं संप्रत्यात्मानं जानात्ययमहमस्मीति ।
नो एवेमानि भूतानि ।
विनाशमेवापीतो भवति ।
नाहमत्र भोग्यं पश्यामीति ॥ ८,११.१ ॥
स समित्पाणिः पुनरेयाय ।
तं ह प्रजापतिरुवाच मघवन् यच्छान्तहृदयः प्राव्राजीः किमिच्छन् पुनरागम इति ।
स होवाच नाह खल्वयं भगव एवं संप्रत्यात्मानं जानात्ययमहमस्मीति ।
नो एवेमानि भूतानि ।
विनाशमेवापीतो भवति ।
नाहमत्र भोग्यं पश्यामीति ॥ ८,११.२ ॥
एवमेवैष मघवन्निति होवाच ।
एतं त्वेव ते भूयोऽनुव्याख्यास्यामि ।
नो एवान्यत्रैतस्मात् ।
वसापराणि पञ्च वर्षाणीति ।
स हापराणि पञ्च वर्षाण्युवास ।
तान्येकशतं संपेदुः ।
एतत्तद्यदाहुः ।
एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास ।
तस्मै होवाच ॥ ८,११.३ ॥
मघवन्मर्त्यं वा इदं शरीरमात्तं मृत्युना ।
तदस्यामृतस्याशरीरस्यात्मनोऽधिष्ठानम् ।
आत्तो वै सशरीरः प्रियाप्रियाभ्याम् ।
न वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति ।
अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः ॥ ८,१२.१ ॥
अशरीरो वायुः ।
अभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि ।
तद्यथैतान्यमुष्मादाकाशात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यन्ते ॥ ८,१२.२ ॥
एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते ।
स उत्तमपुरुषः ।
स तत्र पर्येति जक्षत्क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरम् ।
स यथा प्रयोग्य आचरणे युक्त एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ८,१२.३ ॥
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुः ।
अथ यो वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्राणम् ।
अथ यो वेदेदमभिव्याहराणीति स आत्मा अभिव्याहाराय वाक् ।
अथ यो वेदेदं शृण्वानीति स आत्मा श्रवणाय श्रोत्रम् ॥ ८,१२.४ ॥
अथ यो वेदेदं मन्वानीति स आत्मा ।
मनोऽस्य दैवं चक्षुः ।
स वा एष एतेन दैवेन चक्षुषा मनसैतान् कामान् पश्यन् रमते य एते ब्रह्मलोके ॥ ८,१२.५ ॥
तं वा एतं देवा आत्मानमुपासते ।
तस्मात्तेषां सर्वे च लोका आत्ताः सर्वे च कामाः ।
स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान् यस्तमात्मानमनुविद्य विजानाति ।
इति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥ ८,१२.६ ॥
श्यामाच्छबलं प्रपद्ये ।
शबलाच्छ्यामं प्रपद्ये ।
अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामीत्यभिसंभवामीति ॥ ८,१३.१ ॥
आकाशो वै नाम नामरूपयोर्निर्वहिता ।
ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा ।
प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशाम् ।
यशोऽहमनुप्रापत्सि ।
स हाहं यशसां यशः ।
श्येतमदत्कमदत्कं श्येतं लिन्दु माभिगां लिन्दु माभिगाम् ॥ ८,१४.१ ॥
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः ।
आचार्यकुलाद्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धर्मिकान् विदधदात्मनि सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिंसन् सर्वभूतान्यन्यत्र तीर्थेभ्यः ।
स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते ।
न च पुनरावर्तते न च पुनरावर्तते ॥ ८,१५.१ ॥