(परिशिष्ट_५०. चन्द्रप्रातिपदिकम्)
(५०,१.१) ओं वृत्तं प्रातरमावास्यां पश्चाद्दृश्येत चन्द्रमाः । तस्य वर्णं गतिं रूपं स्थानं चैवोच्चनीचताम् ॥
(५०,१.२) ह्रासवृद्धिं च शृङ्गाणां नक्षत्रं यच्च योजयेत् । तानि लक्षेत सोमस्य वर्षावर्षं भयाभयम् ॥
(५०,१.३) प्रथमे दर्शने त्विन्दोः समासाद्य यदा ग्रहम् । उत्तरं वर्धते शृङ्गं नीचीभवति दक्षिणम् ॥
(५०,१.४) एवमेव श्रविष्ठाभ्यस्तेषामन्ते च चन्द्रमाः । उद्यच्छेद्दक्षिणं शृङ्गं नीचीभवति चोत्तरम् ॥
(५०,१.५) अनुपश्येत राष्ट्रं च अन्तर्गिरिमहागिरिम् । विदर्भान्मद्रकांश्चैव भरतांश्चापि सर्वतः ॥
(५०,२.१) साराणां विजराणां च समुद्रे ये च दक्षिणे । एताञ्जनपदान् हन्ति यदा स्यादुत्तरोन्नतः ॥
(५०,२.२) काश्मीरान् दरदान् दर्वाञ्शूरसेनान् ययावरान् । शाल्वानां च विराजानां समुद्रे ये च पश्चिमे ॥
(५०,२.३) एताज्जनपदान् हन्ति यदा स्याद्दक्षिनोन्नतः । पुरुषः स्त्रीनृपं हन्ति अपरान्तो विनश्यति ॥
(५०,२.४) बाल्हिकान् यवनकाम्बोजाञ्शाल्वान्मद्रानुशीनरान् । गोधांश्च भद्रकांश्चैव मध्यं च कुरुभिः सह ॥
(५०,२.५) सौराष्ट्रान् सिन्धुसौवीरान् वानेयांश्चापि सिंसकान् । क्षुद्रकान्मालवान्मत्स्यान्म्लेच्छान् सह पुलिन्दकैः ॥
(५०,२.६) शस्त्रोपजीजिकुड्यांश्च ब्राह्मणा योधिनश्च ये । एताञ्जनपदान् हन्ति सोमः पुरुषलक्षणः ॥
(५०,३.१) लक्षणाद्वा भवेत्स्थूलः काये शृङ्गे च हीयते । अल्पे शरीरे दुर्भिक्षं भयं रोगं विनिर्दिशेत् ॥
(५०,३.२) यदा प्रतिपदश्चन्द्रः प्रकृत्या विकृतो भवेत् । अनुद्भिन्नो विलूनो वा राजमृत्युं विनिर्दिशेत् ॥
(५०,३.३) षष्ठ्यां मध्यं यदा गच्छेद्राजा वध्येत पार्थिवः । अवन्तीनां च पूर्वार्धं मागधाश्च विशेषतः ॥
(५०,३.४) परं कुमारेष्वष्टम्यां राजानं दशमी परम् । एवं च पक्षापचये मध्ये दृश्येत द्वादशी ॥
(५०,३.५) हन्ति पञ्चनदं तत्र राजानं सुमहद्बलम् । सर्वांश्च कुर्याद्राज्ञस्तु तस्मिन्नुत्पातदर्शने ॥
(५०,४.१) अद्भुतानि च दृश्यन्ते तस्मिन्नुत्पातदर्शने । वैश्वानरपथं प्राप्तः समुद्रमपि शोषयेत् ॥
(५०,४.२) कृत्तिकानां मघानां च रोहिण्याश्च विशाखयोः । एतेषामुत्तरो मार्गो राजवीथीति तां विदुः ॥
(५०,४.३) यदीमं मार्गमास्थाय चन्द्रमा विनिवर्तते । नावर्षा उत्तमा ज्ञेया योगक्षेमं तथैव च ॥
(५०,४.४) गजवीथीं नागवीथीं यदि गच्छति चन्द्रमाः । ….. गोवीथीति तदाप्याहुर्गर्गस्य वचनं यथा ॥
(५०,४.५) अष्टौ स्थानानि चन्द्रस्य क्रोष्टुकिर्यानि वेद वै । नौस्थायी लाङ्गली चैव तृतीयश्चोत्तरोन्नतः ॥
(५०,४.६) दण्डस्थायी चतुर्थस्तु दण्डशायी तु पञ्चमः । षष्थस्तु यूपस्थायी स्यात्पार्श्वशायी तु सप्तमः ॥
(५०,४.७) अष्टमोऽवाङ्शिराश्चैव फलमस्य निबोधत । राजानः स्वेषु राष्ट्रेषु युक्तदण्डाः प्रशासति ॥
(५०,५.१) लाङ्गली ग्रसते लोकान् युगान्तं प्रतिपादयेत् । मारीं समधिकामाहुर्यदा स्यादुत्तरोन्नतः ॥
(५०,५.२) दण्डस्थायी त्वमात्यानां भयं रोगं विनिर्दिशेत् । शक्तिछेदा ग्रन्थिछेदा गोस्तेनाः पारदारिकाः ॥
(५०,५.३) एते देशान् विलुम्पन्ति दण्डस्थायी यदा भवेत् । दण्डशायी तु विप्राणां भयं तत्र विनिर्दिशेत् ॥
(५०,५.४) यूपस्थायी तु धान्यानां भयं तत्र विनिर्दिशेत् । हरिते शरीरे सोमस्य पशूनां वधमादिशेत् ॥
(५०,५.५) कृष्णे शरीरे सोमस्य शूद्राणां वधमादिशेत् । पीते शरीरे सोमस्य वैश्यानां वधमादिशेत्
(५०,५.६) रक्ते शरीरे सोमस्य राज्ञां तु वधमादिशेत् । शुक्ले शरीरे सोमस्य ब्रह्मवृद्धिं विनिर्दिशेत् ॥
(५०,६.१) स्निग्धः पीतः सुवर्णाभः पक्षादौ यदि चन्द्रमाः । गोस्थायी संप्रदृश्येत विप्रवृद्धिं विनिर्दिशेत् ॥
(५०,६.२) उच्चस्थाने यदा पीतः समशृङ्गः शशी भवेत् । नागवीथीगतः स्निग्धः स सर्वगुणपूजितः ॥
(५०,६.३) धूम्राभो लाङ्गलस्थायी श्रीमान् सलक्ष्ममण्डलः । पक्षादौ यदि दृश्येत ब्रह्मक्षत्रसुखावः ॥
(५०,६.४) राजवीथीं तु संप्राप्त उग्रदण्डी यदा भवेत् । हरिद्राकुङ्कुमाभश्च श्मशानमवलोकयेत् ॥
(५०,६.५) मृत्युं संयोजयेत्सोमो बालाकृतिरवाङ्छिराः । लाक्षारुधिरसंकाशो धनुःस्थायी यदा भवेत् ॥
(५०,७.१) संग्रामं योजयेत्सोमो लोके तु तुमुलं भयम् । द्विचन्द्रं गगनं दृष्ट्वा ब्रूयाद्ब्रह्मवधो महान् ॥
(५०,७.२) द्वौ सूर्यौ वा यदा स्यातां तदा क्षत्रवधो महान् । दृष्ट्वा तु चतुरः सूर्यानुदितान् सर्वतोदिशम् ॥
(५०,७.३) शस्त्रेण जनमारेण तद्युगान्तस्य लक्षणम् । आदित्ये पाण्डुरं छत्त्रं संध्यावेलां यदा भवेत् ॥
(५०,७.४) देशस्य विद्रवं सूर्यो राजमृत्युं विनिर्दिशेत् । आदित्यस्य रथः श्वेतः संध्यावेलां यदा भवेत् ॥
(५०,७.५) प्रत्यासन्नं भयं विद्यात्तस्मिन्नुत्पातदर्शने ॥
(५०,८.१) आदित्यः सर्वतश्छिन्नो द्वैधीभुतः प्रदृश्यते. देशस्य विद्रवं सूर्यो राजमृत्युं विनिर्दिशेत् ॥
(५०,९.१) क्षेमं विकुक्षिले ब्रूयात्स्थालीपिठरसंस्थिते । संक्षिप्ते क्षीयते लोको दुर्भिक्षं वज्रसंस्थिते ॥
(५०,९.२) दिवा ह्यस्मिन् पतत्युल्का सततं कम्पते मही । अपर्वाशनिनिर्घोषाः संध्या च ज्वलनच्छवा ॥
(५०,९.३) नक्षत्रपातस्योत्पत्तिर्धूमस्य रजसोऽपि वा । शृङ्गं भवत्यादित्यस्य तृणकाष्ठं च शुष्यति ॥
(५०,९.४) राजानो ह्यशिवास्तत्र चित्रं वर्षति माधवः । द्वादशानां तु मासानां मध्ये नश्यति पार्थिवः ॥
(५०,९.५) कार्त्तिक्यां शुक्लपक्षस्य बहुलस्य त्रयोदशीम् । विद्यात्तु स्वातिसंपातं दिवसानेकविंशतिम् ॥
(५०,९.६) सप्ताहं तु भवेद्गोषु सप्ताहं मृगपक्षिषु । मानुषेषु च सप्ताहं ततः श्रेयस्तु कल्पयेत् ॥