Charan Bhuhya (चरणव्यूहः) – Atharva Veda Parisista
Home » Law Library Updates » Law Library » Sanskrit Documents » Charan Bhuhya (चरणव्यूहः) – Atharva Veda Parisista
(परिशिष्ट_४९. चरणव्यूहः)
(४९,१.१) ओमथातश्चरणव्यूहं व्याख्यास्यामः ॥
(४९,१.२) तत्र चत्वारो वेदा भवन्ति । ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेदश्चेति ॥
(४९,१.३) तत्र ऋग्वेदस्यार्थशास्त्रमुपवेदः । यजुर्वेदस्य धनुर्वेदोपवेदः । सामवेदस्य गान्धर्ववेदोपवेदः । ब्रह्मवेदस्यायुर्वेदोपवेदः । अभिचारकार्थशास्त्रमित्युच्यते ॥
(४९,१.४) ऋग्वेद आत्रेयसगोत्रोऽग्निर्देवता । यजुर्वेदः काश्यपसगोत्रो वायुर्देवता । सामवेदो भारद्वाजसगोत्रो विष्णुर्देवता । ब्रह्मवेदो वैतायनसगोत्रो ब्रह्मा देवता ॥
(४९,१.५) अथात ऋग्वेदः पीतवर्णः पद्मपत्त्राक्षः सुविभक्तग्रीवः कुञ्चितकेशश्मश्रुः सुप्रतिष्ठितजानुजङ्घः । प्रमाणेन स वितस्तयः पञ्च ॥
(४९,१.६) तत्र ऋग्वेदस्य सप्त शाखा भवन्ति । तद्यथा । आश्वलायनाः । शाङ्खायनाः । साध्यायनाः । शाकलाः । बाष्कलाः । औदुम्बराः । माण्डूकाश्चेति ॥
(४९,१.७) तेषामध्ययनम् । ऋचां दश सहस्राणि ऋचां पञ्च शतानि च । ऋचामशीतिः पादश्च एतत्पारणमुच्यते ॥
(४९,२.१) तत्र यजुर्वेदस्य चतुर्विंशतिर्भेदा भवन्ति ॥ तद्यथा । काण्वाः । माध्यंदिनाः । जाबालाः । शापेयाः । श्वेताः । श्वेततराः । ताम्रायणीयाः । पौर्णवत्साः । आवटिकाः । परमावटिकाः । हौष्याः । धौष्याः । खाडिकाः । आह्वरकाः । चरकाः मैत्राः । मैत्रायणीयाः । हारितकर्णाः । शालायनीयाः । मर्चकठाः । प्राच्यकठाः । कपिष्ठलकठाः । उपलाः । तैत्तिरीयाश्चेति ॥
(४९,२.२) तेषामध्ययनम् । द्वे सहस्रे शते न्यूने वेदे वाजसनेयके । सकलं परिसंख्यातं ब्राह्मणं तु चतुर्गुणम् ॥
(४९,२.३) अष्टादश शतानि भवन्ति । तान्येव त्रिगुणमधीत्य क्रमपारो भवति । सप्तसु वीराश्चेति ॥
(४९,२.४) शाखास्तिस्रो भवन्ति । तद्यथा । वार्चिकमर्थाध्ययनीयाः । पारश्चर्याः । पारश्रमणीयाः । पारक्रमवटः । क्रमपारश्चेति ॥
(४९,२.५) षडङ्गान्यधीत्य षडङ्गविद्भवति । शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति षडङ्गानि ॥
(४९,२.६) अथ यजुर्वेदः प्रांशुः प्रलम्बजठरः स्थूलगलकपालो रक्तो वर्णेन प्रादेशाः षड्दीर्घत्वेन यजुर्वेदस्यैतद्रूपं भवति ॥
(४९,३.१) तत्र सामवेदस्य शाखासहस्रमासीदनध्यायेष्वधीयानाः सर्वे ते शक्रेण विनिहताः । [प्रविलीनास्]
(४९,३.२) तत्र के चिदवशिष्टाः प्रचरन्ति । तद्यथा । राणायनीयाः । साद्यमुग्राः । कालपाः । महाकालपाः । कौथुमाः । लाङ्गलिकाश्चेति ॥
(४९,३.३) कौथुमानां षड्भेदा भवन्ति । तद्यथा । सारायणीयाः । वातरायणीयाः । वैतधृताः । प्राचीनास्तेजसाः । अनिष्टकाश्चेति ॥
(४९,३.४) तेषामध्ययनम् । अष्टौ सामसहस्राणि सामानि च चतुर्दश । सोह्यानि सरहस्यानि एतत्सामगणं स्मृतम् ॥
(४९,३.५) अथ सामवेदः सुवर्चाः सुगन्धिस्तेजस्वी मृदुवक्ता ब्रह्मण्यः प्रलम्बबाहुर्दुश्चर्मी कृष्णो वर्णेन कातरः स्वरेणेति ॥
(४९,३.६) षडरत्निः प्रमाणेन च स्मृतः । स्तुवन्त्यृषयो ब्रह्मा सामानि तिष्ठति संनिधौ स भगवान् सामवेदो महेश्वरभक्तः ॥
(४९,४.१) तत्र ब्रह्मवेदस्य नव भेदा भवन्ति । तद्यथा । पैप्पलादाः । स्तौदाः । मौदाः । शौनकीयाः । जाजलाः । जलदाः । ब्रह्मवदाः । देवदर्शाः । चारणवैद्याश्चेति ।
(४९,४.२) तेषामध्ययनम् । ऋचां द्वादश सहस्राण्यशीतिस्त्रिशतानि च । पर्यायिकं द्विसहस्राण्यन्यांस्चैवार्चिकान् बहूनित्य्
(४९,४.३) एतद्ग्राम्यारण्यकानि षट्सहस्राणि भवन्ति ॥
(४९,४.४) तत्र ब्रह्मवेदस्याष्टाविंशतिरुपनिषदो भवन्ति । मुण्डका प्रश्नका ब्रह्मविद्या क्षुरिका चूलिका अथर्वशिरो अथर्वशिखा गर्भोपनिषन्महोपनिषद्ब्रह्मोपनिषत्प्राणाग्निहोत्रं माण्डुक्यं नादबिन्दु ब्रह्मबिन्दु अमृतबिन्दु ध्यानबिन्दु तेजोबिन्दु योगशिखा योगतत्त्वं नीलरुद्रः पञ्चतापिनी एकदण्डी संन्यासविधिः अरुणिः हंसः परमहंसः नारायणोपनिषद्वैतथ्यं चेति ॥
(४९,४.५) तत्र गोपथः शतप्रपाठकं ब्राह्मणमासीत्तस्यावशिष्टे द्वे ब्राह्मणे पूर्वमुत्तरं चेति ॥
(४९,४.६) तत्र षडङ्गान्यधीत्य षडङ्गविद्भवति षडङ्गानि भवन्ति, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति ॥
(४९,४.७) प-च कल्पा भवन्ति । नक्षत्रकल्पो वैतानकल्पस्तृतीयः संहिताविधिः । चतुर्थ आङ्गिरसः कल्पः शान्तिकल्पस्तु पञ्चमः ॥
(४९,४.८) लक्षणग्रन्था भवन्ति । चतुराध्यायिका प्रातिशाख्यं पञ्चपटलिका दन्त्योष्ठविधिर्बृहत्सर्वानुक्रमणी चेति ॥
(४९,४.९) तत्र द्वासप्ततिः परिशिष्टानि भवन्ति कौशिकोक्तानि । कृत्तिकारोहिणी । राष्ट्रसंवर्गः । राजप्रथमाभिषेकः । पुरोहितकर्माणि । पुष्याभिषेकः । पिष्टरात्र्याः कल्पः । आरात्रिकम् । घृतावेक्षणम् । तिलधेनुः । भूमिदानम् । तुलापुरुषः । आदित्यमण्डकः । हिरण्यगर्भः । हस्तिरथः । अश्वरथः । गोसहस्रदानम् । हस्तिदीक्षा । अश्वदीक्षा । वृषोत्सर्गः । इन्द्रोत्सवः । ब्रह्मयागः । स्कन्दयागाः । संभारलक्षणम् । अरणिलक्षणम् । यज्ञपात्रलक्षणम् । वेदिलक्षणम् । कुण्डलक्षणम् । समिल्लक्षणम् । स्रुवलक्षणम् । हस्तलक्षणम् । ज्वालालक्षणम् । लक्षहोमः । काङ्कायनोक्तो बृहल्लक्षहोमः । कोटिहोमः । गणमाला । घृतकम्बलम् । अनुलोमकल्पः । आसुरीकल्पः । उच्छुष्मकल्पः । समुच्चयप्रायश्चित्तानि । ब्रह्मकूर्चविधिः । पैठीनसितडागविधिः । पाशुपतव्रतविधिः । संध्योपासनविधिः । स्नानविधिः । तर्पणविधिः । श्राद्धविधिः । अग्निहोत्रविधिः । उत्तमपटलम् । वर्णपटलम् । निघण्तुः । चरणव्यूहः । चन्द्रप्रातिपदिकम् । ग्रहयुद्धम् । ग्रहसंग्रहः । राहुचारः । केतुचारः । ऋतुकेतुलक्षणम् । कूर्मविभागः । मण्डलानि । दिग्दाहलक्षणम् । उल्कालक्षणम् । विद्युल्लक्षणम् । निर्घातलक्षणम् । परिवेषलक्षणम् । भूमिकम्पलक्षणम् । नक्षत्रग्रहोत्पातलक्षणम् । उत्पातलक्षणम् । सद्योवृष्टिलक्षणम् । गोशान्तिः । अद्भुतशान्तिः । स्वप्नाध्यायः । अथर्वहृदयम् ।
भार्गवीयगार्ग्यबार्हस्पत्योशनसाद्भुतानि । महाद्भुतानि बृहत्सर्वानुक्रमणी चेति ॥
(४९,४.१०) तत्र पञ्चदशोपनिषदो भवन्ति । मुण्डका । प्रश्नका । ब्रह्मविद्या । क्षुरिका । चूलिका । अथर्वशिरः । अथर्वशिखा । गर्भोपनिषत् । महोपनिषत् । ब्रह्मोपनिषत् । प्राणाग्निहोत्रम् । माण्डूक्यम् । वैतथ्यम् । अद्वैतम् । अलातशान्तिश्चेति ॥
(४९,४.११) तत्र ब्रह्मवेदेऽष्टादश व्रतानि चरिष्यन् सावित्रीव्रतम् । वेदव्रतम् । वेदोत्तरव्रतम् । मैलव्रतम् । मैलोत्तरव्रतम् । मृगारव्रतम् । रोहितव्रतम् । विषासहिव्रतम् । यमव्रतम् । शान्तिव्रतम् । शिखिव्रतम् । गणव्रतम् । शिरोव्रतम् । शिखाव्रतम् । मरुद्व्रतम् । अधिव्रतम् । अङ्गिरोव्रतम् । पाशुपतव्रतं चरेत् ॥
(४९,४.१२) कृच्छ्रम् । तप्तकृच्छ्रम् । अतिकृच्छ्रम् । सर्वकृच्छ्रम् । मौन्दभायः । तुलापुरुषः । सांतपनम् । महासांतपनं चेति ॥
(४९,५.१) यो वै ब्रह्मवेदेषूपनीतः स सर्ववेदेषूपनितो
(४९,५.२) यो वै ब्रह्मवेदेष्वनुपनीतः स सर्ववेदेष्वनुपनीतः ॥
(४९,५.३) अन्यवेदे द्विजो यो ब्रह्मवेदमधीतुकामः स पुनरुपनेयो
(४९,५.४) देवाश्च ऋषयश्च ब्रह्माणमूचुः ॥
(४९,५.५) को नो [स्मो] ज्येष्ठः । क उपनेता । क आचार्यः । को ब्रह्मत्वं चेति ॥
(४९,५.६) तान् ब्रह्माब्रवीत् ॥
(४९,५.७) अथर्वा वो ज्येष्ठोऽथर्वोपनेताथर्वाचार्योऽथर्वा ब्रह्मत्वं चेति ॥
(४९,५.८) तदप्येतदृचोक्तम् । ब्रह्मज्येष्ठेति एतया ।
(४९,५.९) इति तस्यार्हं ब्रह्मवेदश्चतुर्णां वेदानां साङ्गोपाङ्गानाम् [तम्] सवाकोवाक्यानां सेतिहासपुराणानाम् ॥
(४९,५.१०) अथातो ब्रह्मवेदः कपिलो वर्णेन तीक्ष्णः प्रचण्डः कामरूपी विश्वात्मा जितेन्द्रियः । स तस्मिन् भगवति दुर्वारज्वालः ।
(४९,५.११) क्षुद्रकर्मा स च भगवान् ब्रह्मवेदश्चतुर्मुखो द्विपक्षो दान्तो धर्मी बलवान् प्राज्ञः कृतोत्थापनीयः क्रूरः षड्रात्राणि विमृशी [षड्रात्राणि षड्] वैतायनो गोत्रेण
(४९,५.१२) य एकैकस्मिन् वेदानां नामवर्णगोत्ररूपप्रमाणं च कीर्तयेद्यो विद्वान् जातिस्मरो भवति मृतः स ब्रह्मलोकं गच्छति ॥
Charan Bhuhya (चरणव्यूहः) – Atharva Veda Parisista
Om. Now the arrangement of the schools will be explained.
There are four Vedas: the Rig Veda, the Yajur Veda, the Sama Veda, and the Brahma Veda. The subsidiary Veda of the Rig Veda is political science and statecraft. The subsidiary Veda of the Yajur Veda is the science of archery and warfare. The subsidiary Veda of the Sama Veda is the science of music and performance. The subsidiary Veda of the Brahma Veda is the science of life and medicine, also associated with rites of pacification and ritual action.
The Rig Veda belongs to the lineage of Atri and has Agni as its deity. The Yajur Veda belongs to the lineage of Kashyapa and has Vayu as its deity. The Sama Veda belongs to the lineage of Bharadvaja and has Vishnu as its deity. The Brahma Veda belongs to the Vaitayana lineage and has Brahma as its deity.
The Rig Veda is described as yellow in color, lotus-eyed, well-proportioned in neck, with curled hair and beard, firm knees and legs, and of balanced stature. It has seven branches, including those associated with Ashvalayana, Shankhayana, Shakalya, Baskala, Audumbara, and Manduka traditions. Its recitation consists of thousands of verses arranged in specific measures.
The Yajur Veda has many divisions, transmitted through numerous schools. Its study encompasses extensive ritual texts and prose explanations, with layered recitation methods and auxiliary disciplines. One who masters its six limbs—phonetics, ritual procedure, grammar, etymology, meter, and astronomy—is known as a knower of the limbs of the Veda. The Yajur Veda is described as tall, broad-bodied, red in color, and formidable in appearance.
The Sama Veda once had a thousand branches, most of which were lost. A few lineages remain, including Ranayaniya, Kauthuma, and others. Its recitation consists of thousands of melodies, both secret and revealed. The Sama Veda is described as radiant, fragrant, gentle in speech, devoted to sacred knowledge, dark in complexion, and powerful in voice. It is said to be beloved of the great Lord and praised by sages.
The Brahma Veda has multiple divisions and extensive bodies of hymns, ritual texts, forest treatises, and many Upanishads. These include teachings on ultimate knowledge, breath, sound, meditation, renunciation, discipline, and non-duality. It also contains elaborate ritual manuals, supplementary texts, observances, vows, expiations, and descriptions of cosmic and terrestrial signs, omens, and rites of pacification.
One who studies the Brahma Veda is considered to have studied all the Vedas. One who has not been initiated into it is regarded as uninitiated into all. A twice-born person wishing to study it must undergo initiation again. The gods and sages once asked who was supreme, who was the initiator, who was the teacher, and who embodied sacred knowledge. Brahma replied that Atharva was the eldest, the initiator, the teacher, and the bearer of sacred wisdom.
The Brahma Veda is thus declared the worthy culmination of all four Vedas, together with their limbs, auxiliaries, narratives, and traditions. It is described as tawny in color, fierce, radiant, all-pervading, self-mastered, and blazing with irresistible energy. One who knows the names, colors, lineages, forms, and measures of the Vedas with understanding becomes a bearer of remembered births, and after death attains the world of Brahma.