Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Sarvarthapedia

Architects of Civilization: 100 Foundational Minds Behind Human Society

Global Biographical Dictionary of Intelligence (50-Volume): Espionage and Counterintelligence

Glossary of 500 Key Concepts Across All Subjects (Part 1 – Part 13)

Biographical Dictionary of 200 Essential Thinkers (Appendix E)

Glossary of Nepali Politics: Constitution, Ethnic Identities, and Coalition Dynamics

  •  ऋग्वेदः 
  • सामवेदः
  • यजुर्वेदः
  • अथर्ववेदः
  • वेदाङ्गकल्पसूत्रम्
  • वेदाङ्गछन्दसूत्रम्
  • वेदाङ्गनिरुक्तम्
  • वेदाङ्गव्याकरणम्
  • वेदाङ्गशिक्षा
  • वेदाङ्गज्यौतिषम्
  • काठकसंहिता
  • तैत्तिरीयसंहिता
  • मैत्रायणीसंहिता
  • ऐतरेय ब्राह्मणम्
  • कौषीतकिब्राह्मणम्
  • शतपथब्राह्मणम्
  • तैत्तिरीयब्राह्मणम्
  • छान्दोग्यब्राह्मणम्
  • गोपथब्राह्मणम्
  • काठकब्राह्मणम्
  • पञ्चविंशब्राह्मणम्
  • जैमिनीयोपनिषद्ब्राह्मणम्
  • ऐतरेय आरण्यकम्
  • तैत्तिरीयारण्यकम्
  • शाङ्खायनारण्यकम्
  • ऐतरेयोपनिषद्
  • तैत्तिरीयोपनिषदत्
  • प्रश्नोपनिषत्
  • मुण्डकोपनिषद्
  • मुण्डकोपनिषद्
  • काठकोपनिषत्
  • केनोपनिषद्
  • छान्दोग्योपनिषद्
  • बृहदारण्यकोपनिषद्
  • कौटिल्यस्य अर्थशास्त्रम्
  • मनुस्मृतिः
  • याज्ञवल्क्यस्मृतिः
  • चरकसंहिता
  • सुश्रुतसंहिता
  • रामायणम्
  • महाभारतम्
  • मीमांसासूत्राणि
  • वैशेषिकसूत्रम्
  • न्यायसूत्राणि
  • श्रीविष्णुपुराणम्
  • अष्टाध्यायी-गणपाठः
  • अष्टाध्यायी-धातुपाठः
  • नाट्यशास्त्रम्
  • News
    • Editorial
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • JudgmentSupreme Court
  • Podcast
  • HLJLaw Digests
    • Supreme Court Case Notes
    • Daily Digest
  • SarvarthapediaKnowledgebase
    • Sarvarthapedia (Twelve Core Areas): Macro Structure
    • Systemic-and-systematic
    • Volume One
    • Volume Two
    • Volume Three
    • Volume Four
    • Volume Five
    • Volume Six
  • Subjects
    • Knowledge Graph
    • Glossary
  • Indian Law
  • EncyclopediaCollection
Home » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Introduction to Valmiki Ramayana
  • Culture, Value & Civilisation

Introduction to Valmiki Ramayana

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् | नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्.......को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् | धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः > इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः | नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी...
advtanmoy 01/07/2020
Ramayana

DATE-1450- 1500 BCE

Valmiki

तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् | नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् || १||

को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् | धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः || २||

चारित्रेण च को युक्तः सर्वभूतेषु को हितः | विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः || ३||

आत्मवान्को जितक्रोधो मतिमान्कोऽनसूयकः | कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे || ४||

एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे |महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् || ५||

Narada

श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः | श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् || ६||

बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः | मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः || ७||

इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः | नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी || ८||

बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्शत्रुनिबर्हणः | विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः || ९||

महोरस्को महेष्वासो गूढजत्रुररिन्दमः | आजानुबाहुः सुशिराः सुललाटः सुविक्रमः || १०||

समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् |पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः || ११||

धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः | यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् || १२||

रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता | वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः || १३||

सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान्प्रतिभानवान् | सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः || १४||

सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः | आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः || १५||

स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः | समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव || १६||

विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः | कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः || १७||

धनदेन समस्त्यागे सत्ये धर्म इवापरः | तमेवङ्गुणसम्पन्नं रामं सत्यपराक्रमम् || १८||

ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम् |यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः || १९||

Narad continued

तस्याभिषेकसम्भारान्दृष्ट्वा भार्याथ कैकयी |पूर्वं दत्तवरा देवी वरमेनमयाचत |
विवासनं च रामस्य भरतस्याभिषेचनम् || २०||

स सत्यवचनाद्राजा धर्मपाशेन संयतः |विवासयामास सुतं रामं दशरथः प्रियम् || २१||

स जगाम वनं वीरः प्रतिज्ञामनुपालयन् |पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात् || २२||

तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह |स्नेहाद्विनयसम्पन्नः सुमित्रानन्दवर्धनः || २३||

सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः |सीताप्यनुगता रामं शशिनं रोहिणी यथा || २४||

पौरैरनुगतो दूरं पित्रा दशरथेन च |शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत् || २५||

ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः |चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् || २६||

रम्यमावसथं कृत्वा रममाणा वने त्रयः | देवगन्धर्वसङ्काशास्तत्र ते न्यवसन्सुखम् || २७||

चित्रकूटं गते रामे पुत्रशोकातुरस्तदा |राजा दशरथः स्वर्गं जगाम विलपन्सुतम् || २८||

मृते तु तस्मिन्भरतो वसिष्ठप्रमुखैर्द्विजैः | नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः |
स जगाम वनं वीरो रामपादप्रसादकः || २९||

पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः |निवर्तयामास ततो भरतं भरताग्रजः || ३०||

स काममनवाप्यैव रामपादावुपस्पृशन् |नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया || ३१||

रामस्तु पुनरालक्ष्य नागरस्य जनस्य च |तत्रागमनमेकाग्रे दण्डकान्प्रविवेश ह || ३२||

विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह |सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा || ३३||

अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् |खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ || ३४||

वसतस्तस्य रामस्य वने वनचरैः सह |ऋषयोऽभ्यागमन्सर्वे वधायासुररक्षसाम् || ३५||

Surpanakha

तेन तत्रैव वसता जनस्थाननिवासिनी |विरूपिता शूर्पणखा राक्षसी कामरूपिणी || ३६||

ततः शूर्पणखावाक्यादुद्युक्तान्सर्वराक्षसान् |खरं त्रिशिरसं चैव दूषणं चैव राक्षसं || ३७||

निजघान रणे रामस्तेषां चैव पदानुगान् |रक्षसां निहतान्यासन्सहस्राणि चतुर्दश || ३८||

ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः |सहायं वरयामास मारीचं नाम राक्षसं || ३९||

वार्यमाणः सुबहुशो मारीचेन स रावणः | न विरोधो बलवता क्षमो रावण तेन ते || ४०||

अनादृत्य तु तद्वाक्यं रावणः कालचोदितः | जगाम सहमरीचस्तस्याश्रमपदं तदा || ४१||

तेन मायाविना दूरमपवाह्य नृपात्मजौ |जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् || ४२||

गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् |राघवः शोकसन्तप्तो विललापाकुलेन्द्रियः || ४३||

ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् |मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह || ४४||

कबन्धं नाम रूपेण विकृतं घोरदर्शनम् |तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः || ४५||

Sabari

स चास्य कथयामास शबरीं धर्मचारिणीम् |श्रमणीं धर्मनिपुणामभिगच्छेति राघव |
सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः || ४६||

शबर्या पूजितः सम्यग्रामो दशरथात्मजः |पम्पातीरे हनुमता सङ्गतो वानरेण ह || ४७||

Sugriv

हनुमद्वचनाच्चैव सुग्रीवेण समागतः |सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः || ४८||

ततो वानरराजेन वैरानुकथनं प्रति |रामायावेदितं सर्वं प्रणयाद्दुःखितेन च |
वालिनश्च बलं तत्र कथयामास वानरः || ४९||

प्रतिज्ञातं च रामेण तदा वालिवधं प्रति |सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे || ५०||

राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् |पादाङ्गुष्ठेन चिक्षेप सम्पूर्णं दशयोजनम् || ५१||

बिभेद च पुनः सालान्सप्तैकेन महेषुणा |गिरिं रसातलं चैव जनयन्प्रत्ययं तदा || ५२||

ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः |किष्किन्धां रामसहितो जगाम च गुहां तदा || ५३||

ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः |तेन नादेन महता निर्जगाम हरीश्वरः || ५४||

ततः सुग्रीववचनाद्धत्वा वालिनमाहवे |सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् || ५५||

स च सर्वान्समानीय वानरान्वानरर्षभः |दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् || ५६||

ततो गृध्रस्य वचनात्सम्पातेर्हनुमान्बली |शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् || ५७||

Lanka

तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् |ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम् || ५८||

निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च |समाश्वास्य च वैदेहीं मर्दयामास तोरणम् || ५९||

पञ्च सेनाग्रगान्हत्वा सप्त मन्त्रिसुतानपि |शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् || ६०||

अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात् |मर्षयन्राक्षसान्वीरो यन्त्रिणस्तान्यदृच्छया || ६१||

ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम् |रामाय प्रियमाख्यातुं पुनरायान्महाकपिः || ६२||

सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् |न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः || ६३||

ततः सुग्रीवसहितो गत्वा तीरं महोदधेः |समुद्रं क्षोभयामास शरैरादित्यसंनिभैः || ६४||

दर्शयामास चात्मानं समुद्रः सरितां पतिः |समुद्रवचनाच्चैव नलं सेतुमकारयत् || ६५||

तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे |अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम् || ६६||

कर्मणा तेन महता त्रैलोक्यं सचराचरम् |सदेवर्षिगणं तुष्टं राघवस्य महात्मनः || ६७||

तथा परमसन्तुष्टैः पूजितः सर्वदैवतैः |कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह || ६८||

The Rama

देवताभ्यो वरान्प्राप्य समुत्थाप्य च वानरान् |पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा || ६९||

नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः |रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् || ७०||

प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः |निरायमो अरोगश्च दुर्भिक्षभयवर्जितः || ७१||

न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्व चित् |नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः || ७२||

न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः |न चाग्रिजं भयं किं चिद्यथा कृतयुगे तथा || ७३||

अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः |गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् || ७४||

राजवंशाञ्शतगुणान्स्थापयिष्यति राघवः |चातुर्वर्ण्यं च लोकेऽस्मिन्स्वे स्वे धर्मे नियोक्ष्यति || ७५||

दशवर्षसहस्राणि दशवर्षशतानि च |रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति || ७६||

Ramayana

इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम् |यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते || ७७||

एतदाख्यानमायुष्यं पठन्रामायणं नरः |सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते || ७८||

पठन्द्विजो वागृषभत्वमीयात्
स्यात्क्षत्रियो भूमिपतित्वमीयात् |
वणिग्जनः पण्यफलत्वमीयाज्
जनश्च शूद्रोऽपि महत्त्वमीयात् || ७९||


SOURCE:  वाल्मीकि रामायण – बालकाण्ड  [ सर्ग – १]


READ ALSO

Ramayana of Valmiki – Griffith English Translation

Vedic Ramayana of Valmiki [Sanskrit]

Like this:

Like Loading…
Tags: Ramayana

Post navigation

Previous National Policies Government of India
Next अष्टांगहृदयम्- वाग्भट Astanga Hridayam of Bagvatt

More Stories

28 September 2026 Sarvarthapedia Global Historical Record Encyclopedia of Contemporary World History
  • Culture, Value & Civilisation

28 September 2026 Sarvarthapedia Global Historical Record

28/09/2026
Dhumkuriya (धुमकुड़िया): Dharma Kutiya of Indian Tribes, Dharma-Karma, and Knowledge Dhumkuriya
  • Culture, Value & Civilisation

Dhumkuriya (धुमकुड़िया): Dharma Kutiya of Indian Tribes, Dharma-Karma, and Knowledge

26/09/2026
Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation Encyclopedia of Rashtriya Swayamsevak Sangh
  • Culture, Value & Civilisation

Encyclopedia of Rashtriya Swayamsevak Sangh (13-Volume): History, Ideology and Organisation

24/08/2026
  • Average American Household Expenses in New York 2026: Rent, Food, Utilities, Transport and Real Expenses
  • Home Loan in US: Mortgage Rates, Types, Eligibility, Costs and Laws
  • Guaranteed Return Investment Plans in America: U.S. Treasuries, CDs, Annuities and Safe Investments
  • Legislative Subject Terms: Complete United States Legislative Index
  • Title 2 – The Congress (U.S. State Code): Congress, Elections, Committees, Budget and Congressional Administration

More Updates

Average American Household Expenses in New York 2026: Rent, Food, Utilities, Transport and Real Expenses Average American Household Expenses in New York 2026
  • North America

Average American Household Expenses in New York 2026: Rent, Food, Utilities, Transport and Real Expenses

06/10/2026
Home Loan in US: Mortgage Rates, Types, Eligibility, Costs and Laws Home Loan in USA
  • Money and Banking

Home Loan in US: Mortgage Rates, Types, Eligibility, Costs and Laws

05/10/2026
Guaranteed Return Investment Plans in America: U.S. Treasuries, CDs, Annuities and Safe Investments Guaranteed Return Investment Plans in America
  • Business and Industry

Guaranteed Return Investment Plans in America: U.S. Treasuries, CDs, Annuities and Safe Investments

05/10/2026
Legislative Subject Terms: Complete United States Legislative Index Encyclopedia of American Law
  • Sarvarthapedia

Legislative Subject Terms: Complete United States Legislative Index

02/10/2026
  • Anosh Ekka v. CBI (2026 INSC 357): SC Grants Bail to Former Jharkhand Minister in CBI DA Case
  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Indian Constitution
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Encyclopedia of Contemporary World History

28 September 2026 Sarvarthapedia Global Historical Record

28 September 2026 — World History and Current Affairs records the day’s major developments across war, geopolitics, maritime trade, energy security, artificial intelligence, aviation, finance, science, climate, law, religion, tourism and global ...
  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subjects
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia Meta-Concept
  • Contact Us
  • Privacy Policy
  • FAQs
  • NEET
  • Library Updates
Legal Database and Encyclopedia | © 2026 by Advocatetanmoy Law Library.
%d