Valmiki Ramayana first kandam [Sanskrit]

Part [Kandam] – 1  2  3  5  6

१.००१.००१ तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम्
१.००१.००१ नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुंगवम्
१.००१.००२ को न्वस्मिन् साम्प्रतं लोके गुणवान् कश्च वीर्यवान्
१.००१.००२ धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः
१.००१.००३ चारित्रेण च को युक्तः सर्वभूतेषु को हितः
१.००१.००३ विद्वान् कः कः समर्थश्च कश्चैकप्रियदर्शनः
१.००१.००४ आत्मवान् को जितक्रोधो मतिमान् कोऽनसूयकः
१.००१.००४ कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे
१.००१.००५ एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे
१.००१.००५ महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम्
१.००१.००६ श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः
१.००१.००६ श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत्
१.००१.००७ बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः
१.००१.००७ मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः
१.००१.००८ इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः
१.००१.००८ नियतात्मा महावीर्यो द्युतिमान् धृतिमान् वशी
१.००१.००९ बुद्धिमान्नीतिमान् वाग्मी श्रीमाञ्शत्रुनिबर्हणः
१.००१.००९ विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः
१.००१.०१० महोरस्को महेष्वासो गूढजत्रुररिंदमः
१.००१.०१० आजानुबाहुः सुशिराः सुललाटः सुविक्रमः
१.००१.०११ समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान्
१.००१.०११ पीनवक्षा विशालाक्षो लक्ष्मीवाञ्शुभलक्षणः
१.००१.०१२ धर्मज्ञः सत्यसंधश्च प्रजानां च हिते रतः
१.००१.०१२ यशस्वी ज्ञानसंपन्नः शुचिर्वश्यः समाधिमान्
१.००१.०१३ रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता
१.००१.०१३ वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः
१.००१.०१४ सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान्
१.००१.०१४ सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः
१.००१.०१५ सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः
१.००१.०१५ आर्यः सर्वसमश्चैव सदैकप्रियदर्शनः
१.००१.०१६ स च सर्वगुणोपेतः कौसल्यानन्दवर्धनः
१.००१.०१६ समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव
१.००१.०१७ विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः
१.००१.०१७ कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः
१.००१.०१८ धनदेन समस्त्यागे सत्ये धर्म इवापरः
१.००१.०१८ तमेवंगुणसंपन्नं रामं सत्यपराक्रमम्
१.००१.०१९ ज्येष्ठं श्रेष्ठगुणैर्युक्तं प्रियं दशरथः सुतम्
१.००१.०१९ यौवराज्येन संयोक्तुमैच्छत्प्रीत्या महीपतिः
१.००१.०२० तस्याभिषेकसंभारान् दृष्ट्वा भार्याथ कैकयी
१.००१.०२० पूर्वं दत्तवरा देवी वरमेनमयाचत
१.००१.०२० विवासनं च रामस्य भरतस्याभिषेचनम्
१.००१.०२१ स सत्यवचनाद्राजा धर्मपाशेन संयतः
१.००१.०२१ विवासयामास सुतं रामं दशरथः प्रियम्
१.००१.०२२ स जगाम वनं वीरः प्रतिज्ञामनुपालयन्
१.००१.०२२ पितुर्वचननिर्देशात्कैकेय्याः प्रियकारणात्
१.००१.०२३ तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह
१.००१.०२३ स्नेहाद्विनयसंपन्नः सुमित्रानन्दवर्धनः
१.००१.०२४ सर्वलक्षणसंपन्ना नारीणामुत्तमा वधूः
१.००१.०२४ सीताप्यनुगता रामं शशिनं रोहिणी यथा
१.००१.०२५ पौरैरनुगतो दूरं पित्रा दशरथेन च
१.००१.०२५ शृङ्गवेरपुरे सूतं गङ्गाकूले व्यसर्जयत्
१.००१.०२६ ते वनेन वनं गत्वा नदीस्तीर्त्वा बहूदकाः
१.००१.०२६ चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात्
१.००१.०२७ रम्यमावसथं कृत्वा रममाणा वने त्रयः
१.००१.०२७ देवगन्धर्वसंकाशास्तत्र ते न्यवसन् सुखम्
१.००१.०२८ चित्रकूटं गते रामे पुत्रशोकातुरस्तदा
१.००१.०२८ राजा दशरथः स्वर्गं जगाम विलपन् सुतम्
१.००१.०२९ मृते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः
१.००१.०२९ नियुज्यमानो राज्याय नैच्छद्राज्यं महाबलः
१.००१.०२९ स जगाम वनं वीरो रामपादप्रसादकः
१.००१.०३० पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः
१.००१.०३० निवर्तयामास ततो भरतं भरताग्रजः
१.००१.०३१ स काममनवाप्यैव रामपादावुपस्पृशन्
१.००१.०३१ नन्दिग्रामेऽकरोद्राज्यं रामागमनकाङ्क्षया
१.००१.०३२ रामस्तु पुनरालक्ष्य नागरस्य जनस्य च
१.००१.०३२ तत्रागमनमेकाग्रे दण्डकान् प्रविवेश ह
१.००१.०३३ विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह
१.००१.०३३ सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्य भ्रातरं तथा
१.००१.०३४ अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम्
१.००१.०३४ खड्गं च परमप्रीतस्तूणी चाक्षयसायकौ
१.००१.०३५ वसतस्तस्य रामस्य वने वनचरैः सह
१.००१.०३५ ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम्
१.००१.०३६ तेन तत्रैव वसता जनस्थाननिवासिनी
१.००१.०३६ विरूपिता शूर्पणखा राक्षसी कामरूपिणी
१.००१.०३७ ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान्
१.००१.०३७ खरं त्रिशिरसं चैव दूषणं चैव राक्षसं
१.००१.०३८ निजघान रणे रामस्तेषां चैव पदानुगान्
१.००१.०३८ रक्षसां निहतान्यासन् सहस्राणि चतुर्दश
१.००१.०३९ ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः
१.००१.०३९ सहायं वरयामास मारीचं नाम राक्षसं
१.००१.०४० वार्यमाणः सुबहुशो मारीचेन स रावणः
१.००१.०४० न विरोधो बलवता क्षमो रावण तेन ते
१.००१.०४१ अनादृत्य तु तद्वाक्यं रावणः कालचोदितः
१.००१.०४१ जगाम सहमरीचस्तस्याश्रमपदं तदा
१.००१.०४२ तेन मायाविना दूरमपवाह्य नृपात्मजौ
१.००१.०४२ जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम्
१.००१.०४३ गृध्रं च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम्
१.००१.०४३ राघवः शोकसंतप्तो विललापाकुलेन्द्रियः
१.००१.०४४ ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम्
१.००१.०४४ मार्गमाणो वने सीतां राक्षसं संददर्श ह
१.००१.०४५ कबन्धं नाम रूपेण विकृतं घोरदर्शनम्
१.००१.०४५ तं निहत्य महाबाहुर्ददाह स्वर्गतश्च सः
१.००१.०४६ स चास्य कथयामास शबरीं धर्मचारिणीम्
१.००१.०४६ श्रमणीं धर्मनिपुणामभिगच्छेति राघव
१.००१.०४६ सोऽभ्यगच्छन्महातेजाः शबरीं शत्रुसूदनः
१.००१.०४७ शबर्या पूजितः सम्यग्रामो दशरथात्मजः
१.००१.०४७ पम्पातीरे हनुमता संगतो वानरेण ह
१.००१.०४८ हनुमद्वचनाच्चैव सुग्रीवेण समागतः
१.००१.०४८ सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः
१.००१.०४९ ततो वानरराजेन वैरानुकथनं प्रति
१.००१.०४९ रामायावेदितं सर्वं प्रणयाद्दुःखितेन च
१.००१.०४९ वालिनश्च बलं तत्र कथयामास वानरः
१.००१.०५० प्रतिज्ञातं च रामेण तदा वालिवधं प्रति
१.००१.०५० सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे
१.००१.०५१ राघवः प्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम्
१.००१.०५१ पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम्
१.००१.०५२ बिभेद च पुनः सालान् सप्तैकेन महेषुणा
१.००१.०५२ गिरिं रसातलं चैव जनयन् प्रत्ययं तदा
१.००१.०५३ ततः प्रीतमनास्तेन विश्वस्तः स महाकपिः
१.००१.०५३ किष्किन्धां रामसहितो जगाम च गुहां तदा
१.००१.०५४ ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः
१.००१.०५४ तेन नादेन महता निर्जगाम हरीश्वरः
१.००१.०५५ ततः सुग्रीववचनाद्धत्वा वालिनमाहवे
१.००१.०५५ सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत्
१.००१.०५६ स च सर्वान् समानीय वानरान् वानरर्षभः
१.००१.०५६ दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम्
१.००१.०५७ ततो गृध्रस्य वचनात्संपातेर्हनुमान् बली
१.००१.०५७ शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम्
१.००१.०५८ तत्र लङ्कां समासाद्य पुरीं रावणपालिताम्
१.००१.०५८ ददर्श सीतां ध्यायन्तीमशोकवनिकां गताम्
१.००१.०५९ निवेदयित्वाभिज्ञानं प्रवृत्तिं च निवेद्य च
१.००१.०५९ समाश्वास्य च वैदेहीं मर्दयामास तोरणम्
१.००१.०६० पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि
१.००१.०६० शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत्
१.००१.०६१ अस्त्रेणोन्मुहमात्मानं ज्ञात्वा पैतामहाद्वरात्
१.००१.०६१ मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया
१.००१.०६२ ततो दग्ध्वा पुरीं लङ्कामृते सीतां च मैथिलीम्
१.००१.०६२ रामाय प्रियमाख्यातुं पुनरायान्महाकपिः
१.००१.०६३ सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम्
१.००१.०६३ न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः
१.००१.०६४ ततः सुग्रीवसहितो गत्वा तीरं महोदधेः
१.००१.०६४ समुद्रं क्षोभयामास शरैरादित्यसंनिभैः
१.००१.०६५ दर्शयामास चात्मानं समुद्रः सरितां पतिः
१.००१.०६५ समुद्रवचनाच्चैव नलं सेतुमकारयत्
१.००१.०६६ तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे
१.००१.०६६ अभ्यषिञ्चत्स लङ्कायां राक्षसेन्द्रं विभीषणम्
१.००१.०६७ कर्मणा तेन महता त्रैलोक्यं सचराचरम्
१.००१.०६७ सदेवर्षिगणं तुष्टं राघवस्य महात्मनः
१.००१.०६८ तथा परमसंतुष्टैः पूजितः सर्वदैवतैः
१.००१.०६८ कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह
१.००१.०६९ देवताभ्यो वरान् प्राप्य समुत्थाप्य च वानरान्
१.००१.०६९ पुष्पकं तत्समारुह्य नन्दिग्रामं ययौ तदा
१.००१.०७० नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः
१.००१.०७० रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान्
१.००१.०७१ प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः
१.००१.०७१ निरायमो अरोगश्च दुर्भिक्षभयवर्जितः
१.००१.०७२ न पुत्रमरणं के चिद्द्रक्ष्यन्ति पुरुषाः क्व चित्
१.००१.०७२ नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः
१.००१.०७३ न वातजं भयं किं चिन्नाप्सु मज्जन्ति जन्तवः
१.००१.०७३ न चाग्रिजं भयं किं चिद्यथा कृतयुगे तथा
१.००१.०७४ अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः
१.००१.०७४ गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम्
१.००१.०७५ राजवंशाञ्शतगुणान् स्थापयिष्यति राघवः
१.००१.०७५ चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति
१.००१.०७६ दशवर्षसहस्राणि दशवर्षशतानि च
१.००१.०७६ रामो राज्यमुपासित्वा ब्रह्मलोकं गमिष्यति
१.००१.०७७ इदं पवित्रं पापघ्नं पुण्यं वेदैश्च संमितम्
१.००१.०७७ यः पठेद्रामचरितं सर्वपापैः प्रमुच्यते
१.००१.०७८ एतदाख्यानमायुष्यं पठन् रामायणं नरः
१.००१.०७८ सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते
१.००१.०७९ पठन् द्विजो वागृषभत्वमीयात्॑ स्यात्क्षत्रियो भूमिपतित्वमीयात्
१.००१.०७९ वणिग्जनः पण्यफलत्वमीयाज्॑ जनश्च शूद्रोऽपि महत्त्वमीयात्
१.००२.००१ नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः
१.००२.००१ पूजयामास धर्मात्मा सहशिष्यो महामुनिः
१.००२.००२ यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा
१.००२.००२ आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसं
१.००२.००३ स मुहूतं गते तस्मिन् देवलोकं मुनिस्तदा
१.००२.००३ जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः
१.००२.००४ स तु तीरं समासाद्य तमसाया महामुनिः
१.००२.००४ शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्
१.००२.००५ अकर्दममिदं तीर्थं भरद्वाज निशामय
१.००२.००५ रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा
१.००२.००६ न्यस्यतां कलशस्तात दीयतां वल्कलं मम
१.००२.००६ इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्
१.००२.००७ एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना
१.००२.००७ प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः
१.००२.००८ स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः
१.००२.००८ विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम्
१.००२.००९ तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्
१.००२.००९ ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिःस्वनम्
१.००२.०१० तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः
१.००२.०१० जघान वैरनिलयो निषादस्तस्य पश्यतः
१.००२.०११ तं शोणितपरीताङ्गं वेष्टमानं महीतले
१.००२.०११ भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्
१.००२.०१२ तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम्
१.००२.०१२ ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत
१.००२.०१३ ततः करुणवेदित्वादधर्मोऽयमिति द्विजः
१.००२.०१३ निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्
१.००२.०१४ मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीं समाः
१.००२.०१४ यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्
१.००२.०१५ तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः
१.००२.०१५ शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया
१.००२.०१६ चिन्तयन् स महाप्राज्ञश्चकार मतिमान्मतिम्
१.००२.०१६ शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः
१.००२.०१७ पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः
१.००२.०१७ शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा
१.००२.०१८ शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्
१.००२.०१८ प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः
१.००२.०१९ सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि
१.००२.०१९ तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः
१.००२.०२० भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः
१.००२.०२० कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह
१.००२.०२१ स प्रविश्याश्रमपदं शिष्येण सह धर्मवित्
१.००२.०२१ उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः
१.००२.०२२ आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः
१.००२.०२२ चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम्
१.००२.०२३ वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः
१.००२.०२३ प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः
१.००२.०२४ पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः
१.००२.०२४ प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम्
१.००२.०२५ अथोपविश्य भगवानासने परमार्चिते
१.००२.०२५ वाल्मीकये महर्षये संदिदेशासनं ततः
१.००२.०२६ उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे
१.००२.०२६ तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः
१.००२.०२७ पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना
१.००२.०२७ यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्
१.००२.०२८ शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः
१.००२.०२८ जगावन्तर्गतमना भूत्वा शोकपरायणः
१.००२.०२९ तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम्
१.००२.०२९ श्लोक एव त्वया बद्धो नात्र कार्या विचारणा
१.००२.०३० मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती
१.००२.०३० रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम
१.००२.०३१ धर्मात्मनो गुणवतो लोके रामस्य धीमतः
१.००२.०३१ वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम्
१.००२.०३२ रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः
१.००२.०३२ रामस्य सह सौमित्रे राक्षसानां च सर्वशः
१.००२.०३३ वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः
१.००२.०३३ तच्चाप्यविदितं सर्वं विदितं ते भविष्यति
१.००२.०३४ न ते वागनृता काव्ये का चिदत्र भविष्यति
१.००२.०३४ कुरु राम कथां पुण्यां श्लोकबद्धां मनोरमाम्
१.००२.०३५ यावत्स्थास्यन्ति गिरयः सरितश्च महीतले
१.००२.०३५ तावद्रामायणकथा लोकेषु प्रचरिष्यति
१.००२.०३६ यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति
१.००२.०३६ तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि
१.००२.०३७ इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत
१.००२.०३७ ततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ
१.००२.०३८ तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः
१.००२.०३८ मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः
१.००२.०३९ समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा
१.००२.०३९ सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः
१.००२.०४० तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः
१.००२.०४० कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्
१.००२.०४१ उदारवृत्तार्थपदैर्मनोरमैस्॑ तदास्य रामस्य चकार कीर्तिमान्
१.००२.०४१ समाक्षरैः श्लोकशतैर्यशस्विनो॑ यशस्करं काव्यमुदारधीर्मुनिः
१.००३.००१ श्रुत्वा वस्तु समग्रं तद्धर्मात्मा धर्मसंहितम्
१.००३.००१ व्यक्तमन्वेषते भूयो यद्वृत्तं तस्य धीमतः
१.००३.००२ उपस्पृश्योदकं संयन्मुनिः स्थित्वा कृताञ्जलिः
१.००३.००२ प्राचीनाग्रेषु दर्भेषु धर्मेणान्वेषते गतिम्
१.००३.००३ जन्म रामस्य सुमहद्वीर्यं सर्वानुकूलताम्
१.००३.००३ लोकस्य प्रियतां क्षान्तिं सौम्यतां सत्यशीलताम्
१.००३.००४ नानाचित्राः कथाश्चान्या विश्वामित्रसहायने
१.००३.००४ जानक्याश्च विवाहं च धनुषश्च विभेदनम्
१.००३.००५ रामरामविवादं च गुणान् दाशरथेस्तथा
१.००३.००५ तथाभिषेकं रामस्य कैकेय्या दुष्टभावताम्
१.००३.००६ व्याघातं चाभिषेकस्य रामस्य च विवासनम्
१.००३.००६ राज्ञः शोकं विलापं च परलोकस्य चाश्रयम्
१.००३.००७ प्रकृतीनां विषादं च प्रकृतीनां विसर्जनम्
१.००३.००७ निषादाधिपसंवादं सूतोपावर्तनं तथा
१.००३.००८ गङ्गायाश्चाभिसंतारं भरद्वाजस्य दर्शनम्
१.००३.००८ भरद्वाजाभ्यनुज्ञानाच्चित्रकूटस्य दर्शनम्
१.००३.००९ वास्तुकर्मनिवेशं च भरतागमनं तथा
१.००३.००९ प्रसादनं च रामस्य पितुश्च सलिलक्रियाम्
१.००३.०१० पादुकाग्र्याभिषेकं च नन्दिग्राम निवासनम्
१.००३.०१० दण्डकारण्यगमनं सुतीक्ष्णेन समागमम्
१.००३.०११ अनसूयासमस्यां च अङ्गरागस्य चार्पणम्
१.००३.०११ शूर्पणख्याश्च संवादं विरूपकरणं तथा
१.००३.०१२ वधं खरत्रिशिरसोरुत्थानं रावणस्य च
१.००३.०१२ मारीचस्य वधं चैव वैदेह्या हरणं तथा
१.००३.०१३ राघवस्य विलापं च गृध्रराजनिबर्हणम्
१.००३.०१३ कबन्धदर्शनं चैव पम्पायाश्चापि दर्शनम्
१.००३.०१४ शर्बर्या दर्शनं चैव हनूमद्दर्शनं तथा
१.००३.०१४ विलापं चैव पम्पायां राघवस्य महात्मनः
१.००३.०१५ ऋष्यमूकस्य गमनं सुग्रीवेण समागमम्
१.००३.०१५ प्रत्ययोत्पादनं सख्यं वालिसुग्रीवविग्रहम्
१.००३.०१६ वालिप्रमथनं चैव सुग्रीवप्रतिपादनम्
१.००३.०१६ ताराविलापसमयं वर्षरात्रिनिवासनम्
१.००३.०१७ कोपं राघवसिंहस्य बलानामुपसंग्रहम्
१.००३.०१७ दिशः प्रस्थापनं चैव पृथिव्याश्च निवेदनम्
१.००३.०१८ अङ्गुलीयकदानं च ऋक्षस्य बिलदर्शनम्
१.००३.०१८ प्रायोपवेशनं चैव संपातेश्चापि दर्शनम्
१.००३.०१९ पर्वतारोहणं चैव सागरस्य च लङ्घनम्
१.००३.०१९ रात्रौ लङ्काप्रवेशं च एकस्यापि विचिन्तनम्
१.००३.०२० आपानभूमिगमनमवरोधस्य दर्शनम्
१.००३.०२० अशोकवनिकायानं सीतायाश्चापि दर्शनम्
१.००३.०२१ अभिज्ञानप्रदानं च सीतायाश्चापि भाषणम्
१.००३.०२१ राक्षसीतर्जनं चैव त्रिजटास्वप्नदर्शनम्
१.००३.०२२ मणिप्रदानं सीताया वृक्षभङ्गं तथैव च
१.००३.०२२ राक्षसीविद्रवं चैव किंकराणां निबर्हणम्
१.००३.०२३ ग्रहणं वायुसूनोश्च लङ्कादाहाभिगर्जनम्
१.००३.०२३ प्रतिप्लवनमेवाथ मधूनां हरणं तथा
१.००३.०२४ राघवाश्वासनं चैव मणिनिर्यातनं तथा
१.००३.०२४ संगमं च समुद्रस्य नलसेतोश्च बन्धनम्
१.००३.०२५ प्रतारं च समुद्रस्य रात्रौ लङ्कावरोधनम्
१.००३.०२५ विभीषणेन संसर्गं वधोपायनिवेदनम्
१.००३.०२६ कुम्भकर्णस्य निधनं मेघनादनिबर्हणम्
१.००३.०२६ रावणस्य विनाशं च सीतावाप्तिमरेः पुरे
१.००३.०२७ बिभीषणाभिषेकं च पुष्पकस्य च दर्शनम्
१.००३.०२७ अयोध्यायाश्च गमनं भरतेन समागमम्
१.००३.०२८ रामाभिषेकाभ्युदयं सर्वसैन्यविसर्जनम्
१.००३.०२८ स्वराष्ट्ररञ्जनं चैव वैदेह्याश्च विसर्जनम्
१.००३.०२९ अनागतं च यत्किं चिद्रामस्य वसुधातले
१.००३.०२९ तच्चकारोत्तरे काव्ये वाल्मीकिर्भगवानृषिः
१.००४.००१ प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः
१.००४.००१ चकार चरितं कृत्स्नं विचित्रपदमात्मवान्
१.००४.००२ कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम्
१.००४.००२ चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः
१.००४.००३ तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः
१.००४.००३ अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ
१.००४.००४ कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ
१.००४.००४ भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ
१.००४.००५ स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ
१.००४.००५ वेदोपबृह्मणार्थाय तावग्राहयत प्रभुः
१.००४.००६ काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत्
१.००४.००६ पौलस्त्य वधमित्येव चकार चरितव्रतः
१.००४.००७ पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम्
१.००४.००७ जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम्
१.००४.००८ हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः
१.००४.००८ बीभत्सादिरसैर्युक्तं काव्यमेतदगायताम्
१.००४.००९ तौ तु गान्धर्वतत्त्वज्ञौ स्थान मूर्च्छन कोविदौ
१.००४.००९ भ्रातरौ स्वरसंपन्नौ गन्धर्वाविव रूपिणौ
१.००४.०१० रूपलक्षणसंपन्नौ मधुरस्वरभाषिणौ
१.००४.०१० बिम्बादिवोद्धृतौ बिम्बौ रामदेहात्तथापरौ
१.००४.०११ तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम्
१.००४.०११ वाचो विधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ
१.००४.०१२ ऋषीणां च द्विजातीनां साधूनां च समागमे
१.००४.०१२ यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ
१.००४.०१२ महात्मानौ महाभागौ सर्वलक्षणलक्षितौ
१.००४.०१३ तौ कदा चित्समेतानामृषीणां भावितात्मनाम्
१.००४.०१३ आसीनानां समीपस्थाविदं काव्यमगायताम्
१.००४.०१४ तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः
१.००४.०१४ साधु साध्वित्य्तावूचतुः परं विस्मयमागताः
१.००४.०१५ ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः
१.००४.०१५ प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ
१.००४.०१६ अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः
१.००४.०१६ चिरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्
१.००४.०१७ प्रविश्य तावुभौ सुष्ठु तदा भावमगायताम्
१.००४.०१७ सहितौ मधुरं रक्तं संपन्नं स्वरसंपदा
१.००४.०१८ एवं प्रशस्यमानौ तौ तपःश्लाघ्यैर्महर्षिभिः
१.००४.०१८ संरक्ततरमत्यर्थं मधुरं तावगायताम्
१.००४.०१९ प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ
१.००४.०१९ प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महायशाः
१.००४.०२० आश्चर्यमिदमाख्यानं मुनिना संप्रकीर्तितम्
१.००४.०२० परं कवीनामाधारं समाप्तं च यथाक्रमम्
१.००४.०२१ प्रशस्यमानौ सर्वत्र कदा चित्तत्र गायकौ
१.००४.०२१ रथ्यासु राजमार्गेषु ददर्श भरताग्रजः
१.००४.०२२ स्ववेश्म चानीय ततो भ्रातरौ सकुशीलवौ
१.००४.०२२ पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः
१.००४.०२३ आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः
१.००४.०२३ उपोपविष्टैः सचिवैर्भ्रातृभिश्च परंतपः
१.००४.०२४ दृष्ट्वा तु रूपसंपन्नौ तावुभौ वीणिनौ ततः
१.००४.०२४ उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा
१.००४.०२५ श्रूयतामिदमाख्यानमनयोर्देववर्चसोः
१.००४.०२५ विचित्रार्थपदं सम्यग्गायतोर्मधुरस्वरम्
१.००४.०२६ इमौ मुनी पार्थिवलक्ष्मणान्वितौ॑ कुशीलवौ चैव महातपस्विनौ
१.००४.०२६ ममापि तद्भूतिकरं प्रचक्षते॑ महानुभावं चरितं निबोधत
१.००४.०२७ ततस्तु तौ रामवचः प्रचोदिताव्॑ अगायतां मार्गविधानसंपदा
१.००४.०२७ स चापि रामः परिषद्गतः शनैर्॑ बुभूषयासक्तमना बभूव
१.००५.००१ सर्वापूर्वमियं येषामासीत्कृत्स्ना वसुंधरा
१.००५.००१ प्रजापतिमुपादाय नृपाणां जयशालिनाम्
१.००५.००२ येषां स सगरो नाम सागरो येन खानितः
१.००५.००२ षष्टिः पुत्रसहस्राणि यं यान्तं पर्यवारयन्
१.००५.००३ इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम्
१.००५.००३ महदुत्पन्नमाख्यानं रामायणमिति श्रुतम्
१.००५.००४ तदिदं वर्तयिष्यामि सर्वं निखिलमादितः
१.००५.००४ धर्मकामार्थसहितं श्रोतव्यमनसूयया
१.००५.००५ कोसलो नाम मुदितः स्फीतो जनपदो महान्
१.००५.००५ निविष्टः सरयूतीरे प्रभूतधनधान्यवान्
१.००५.००६ अयोध्या नाम नगरी तत्रासील्लोकविश्रुता
१.००५.००६ मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्
१.००५.००७ आयता दश च द्वे च योजनानि महापुरी
१.००५.००७ श्रीमती त्रीणि विस्तीर्णा सुविभक्तमहापथा
१.००५.००८ राजमार्गेण महता सुविभक्तेन शोभिता
१.००५.००८ मुक्तपुष्पावकीर्णेन जलसिक्तेन नित्यशः
१.००५.००९ तां तु राजा दशरथो महाराष्ट्रविवर्धनः
१.००५.००९ पुरीमावासयामास दिवि देवपतिर्यथा
१.००५.०१० कपाटतोरणवतीं सुविभक्तान्तरापणाम्
१.००५.०१० सर्वयन्त्रायुधवतीमुपेतां सर्वशिल्पिभिः
१.००५.०११ सूतमागधसंबाधां श्रीमतीमतुलप्रभाम्
१.००५.०११ उच्चाट्टालध्वजवतीं शतघ्नीशतसंकुलाम्
१.००५.०१२ वधूनाटकसङ्घैश्च संयुक्तां सर्वतः पुरीम्
१.००५.०१२ उद्यानाम्रवणोपेतां महतीं सालमेखलाम्
१.००५.०१३ दुर्गगम्भीरपरिघां दुर्गामन्यैर्दुरासदाम्
१.००५.०१३ वाजिवारणसंपूर्णां गोभिरुष्ट्रैः खरैस्तथा
१.००५.०१४ सामन्तराजसङ्घैश्च बलिकर्मभिरावृताम्
१.००५.०१४ नानादेशनिवासैश्च वणिग्भिरुपशोभिताम्
१.००५.०१५ प्रसादै रत्नविकृतैः पर्वतैरुपशोभिताम्
१.००५.०१५ कूटागारैश्च संपूर्णामिन्द्रस्येवामरावतीम्
१.००५.०१६ चित्रामष्टापदाकारां वरनारीगणैर्युताम्
१.००५.०१६ सर्वरत्नसमाकीर्णां विमानगृहशोभिताम्
१.००५.०१७ गृहगाढामविच्छिद्रां समभूमौ निवेशिताम्
१.००५.०१७ शालितण्डुलसंपूर्णामिक्षुकाण्डरसोदकाम्
१.००५.०१८ दुन्दुभीभिर्मृदङ्गैश्च वीणाभिः पणवैस्तथा
१.००५.०१८ नादितां भृशमत्यर्थं पृथिव्यां तामनुत्तमाम्
१.००५.०१९ विमानमिव सिद्धानां तपसाधिगतं दिवि
१.००५.०१९ सुनिवेशितवेश्मान्तां नरोत्तमसमावृताम्
१.००५.०२० ये च बाणैर्न विध्यन्ति विविक्तमपरापरम्
१.००५.०२० शब्दवेध्यं च विततं लघुहस्ता विशारदाः
१.००५.०२१ सिंहव्याघ्रवराहाणां मत्तानां नदतां वने
१.००५.०२१ हन्तारो निशितैः शस्त्रैर्बलाद्बाहुबलैरपि
१.००५.०२२ तादृशानां सहस्रैस्तामभिपूर्णां महारथैः
१.००५.०२२ पुरीमावासयामास राजा दशरथस्तदा
१.००५.०२३ तामग्निमद्भिर्गुणवद्भिरावृतां॑ द्विजोत्तमैर्वेदषडङ्गपारगैः
१.००५.०२३ सहस्रदैः सत्यरतैर्महात्मभिर्॑ महर्षिकल्पैरृषिभिश्च केवलैः
१.००६.००१ पुर्यां तस्यामयोध्यायां वेदवित्सर्वसंग्रहः
१.००६.००१ दीर्घदर्शी महातेजाः पौरजानपदप्रियः
१.००६.००२ इक्ष्वाकूणामतिरथो यज्वा धर्मरतो वशी
१.००६.००२ महर्षिकल्पो राजर्षिस्त्रिषु लोकृषु विश्रुतः
१.००६.००३ बलवान्निहतामित्रो मित्रवान् विजितेन्द्रियः
१.००६.००३ धनैश्च संचयैश्चान्यैः शक्रवैश्रवणोपमः
१.००६.००४ यथा मनुर्महातेजा लोकस्य परिरक्षिता
१.००६.००४ तथा दशरथो राजा वसञ्जगदपालयत्
१.००६.००५ तेन सत्याभिसंधेन त्रिवर्गमनुतिष्ठता
१.००६.००५ पालिता सा पुरी श्रेष्ठेन्द्रेण इवामरावती
१.००६.००६ तस्मिन् पुरवरे हृष्टा धर्मात्मना बहु श्रुताः
१.००६.००६ नरास्तुष्टाधनैः स्वैः स्वैरलुब्धाः सत्यवादिनः
१.००६.००७ नाल्पसंनिचयः कश्चिदासीत्तस्मिन् पुरोत्तमे
१.००६.००७ कुटुम्बी यो ह्यसिद्धार्थोऽगवाश्वधनधान्यवान्
१.००६.००८ कामी वा न कदर्यो वा नृशंसः पुरुषः क्व चित्
१.००६.००८ द्रष्टुं शक्यमयोध्यायां नाविद्वान्न च नास्तिकः
१.००६.००९ सर्वे नराश्च नार्यश्च धर्मशीलाः सुसंयताः
१.००६.००९ मुदिताः शीलवृत्ताभ्यां महर्षय इवामलाः
१.००६.०१० नाकुण्डली नामुकुटी नास्रग्वी नाल्पभोगवान्
१.००६.०१० नामृष्टो नानुलिप्ताङ्गो नासुगन्धश्च विद्यते
१.००६.०११ नामृष्टभोजी नादाता नाप्यनङ्गदनिष्कधृक्
१.००६.०११ नाहस्ताभरणो वापि दृश्यते नाप्यनात्मवान्
१.००६.०१२ नानाहिताग्निर्नायज्वा विप्रो नाप्यसहस्रदः
१.००६.०१२ कश्चिदासीदयोध्यायां न च निर्वृत्तसंकरः
१.००६.०१३ स्वकर्मनिरता नित्यं ब्राह्मणा विजितेन्द्रियाः
१.००६.०१३ दानाध्ययनशीलाश्च संयताश्च प्रतिग्रहे
१.००६.०१४ न नास्तिको नानृतको न कश्चिदबहुश्रुतः
१.००६.०१४ नासूयको न चाशक्तो नाविद्वान् विद्यते तदा
१.००६.०१५ न दीनः क्षिप्तचित्तो वा व्यथितो वापि कश्चन
१.००६.०१५ कश्चिन्नरो वा नारी वा नाश्रीमान्नाप्यरूपवान्
१.००६.०१५ द्रष्टुं शक्यमयोध्यायां नापि राजन्यभक्तिमान्
१.००६.०१६ वर्णेष्वग्र्यचतुर्थेषु देवतातिथिपूजकाः
१.००६.०१६ दीर्घायुषो नराः सर्वे धर्मं सत्यं च संश्रिताः
१.००६.०१७ क्षत्रं ब्रह्ममुखं चासीद्वैश्याः क्षत्रमनुव्रताः
१.००६.०१७ शूद्राः स्वधर्मनिरतास्त्रीन् वर्णानुपचारिणः
१.००६.०१८ सा तेनेक्ष्वाकुनाथेन पुरी सुपरिरक्षिता
१.००६.०१८ यथा पुरस्तान्मनुना मानवेन्द्रेण धीमता
१.००६.०१९ योधानामग्निकल्पानां पेशलानाममर्षिणाम्
१.००६.०१९ संपूर्णाकृतविद्यानां गुहाकेसरिणामिव
१.००६.०२० काम्बोजविषये जातैर्बाह्लीकैश्च हयोत्तमैः
१.००६.०२० वनायुजैर्नदीजैश्च पूर्णाहरिहयोपमैः
१.००६.०२१ विन्ध्यपर्वपजैर्मत्तैः पूर्णा हैमवतैरपि
१.००६.०२१ मदान्वितैरतिबलैर्मातङ्गैः पर्वतोपमैः
१.००६.०२२ अञ्जनादपि निष्क्रान्तैर्वामनादपि च द्विपैः
१.००६.०२२ भद्रमन्द्रैर्भद्रमृगैर्मृगमन्द्रैश्च सा पुरी
१.००६.०२३ नित्यमत्तैः सदा पूर्णा नागैरचलसंनिभैः
१.००६.०२३ सा योजने च द्वे भूयः सत्यनामा प्रकाशते
१.००६.०२४ तां सत्यनामां दृढतोरणार्गलाम्॑ गृहैर्विचित्रैरुपशोभितां शिवाम्
१.००६.०२४ पुरीमयोध्यां नृसहस्रसंकुलां॑ शशास वै शक्रसमो महीपतिः
१.००७.००१ अष्टौ बभूवुर्वीरस्य तस्यामात्या यशस्विनः
१.००७.००१ शुचयश्चानुरक्ताश्च राजकृत्येषु नित्यशः
१.००७.००२ धृष्टिर्जयन्तो विजयः सिद्धार्थो अर्थसाधकः
१.००७.००२ अशोको मन्त्रपालश्च सुमन्त्रश्चाष्टमोऽभवत्
१.००७.००३ ऋत्विजौ द्वावभिमतौ तस्यास्तामृषिसत्तमौ
१.००७.००३ वसिष्ठो वामदेवश्च मन्त्रिणश्च तथापरे
१.००७.००४ श्रीमन्तश्च महात्मानः शास्त्रज्ञा दृढविक्रमाः
१.००७.००४ कीर्तिमन्तः प्रणिहिता यथा वचनकारिणः
१.००७.००५ तेजःक्षमायशःप्राप्ताः स्मितपूर्वाभिभाषिणः
१.००७.००५ क्रोधात्कामार्थहेतोर्वा न ब्रूयुरनृतं वचः
१.००७.००६ तेषामविदितं किं चित्स्वेषु नास्ति परेषु वा
१.००७.००६ क्रियमाणं कृतं वापि चारेणापि चिकीर्षितम्
१.००७.००७ कुशला व्यवहारेषु सौहृदेषु परीक्षिताः
१.००७.००७ प्राप्तकालं यथा दण्डं धारयेयुः सुतेष्वपि
१.००७.००८ कोशसंग्रहणे युक्ता बलस्य च परिग्रहे
१.००७.००८ अहितं चापि पुरुषं न विहिंस्युरदूषकम्
१.००७.००९ वीरांश्च नियतोत्साहा राज शास्त्रमनुष्ठिताः
१.००७.००९ शुचीनां रक्षितारश्च नित्यं विषयवासिनाम्
१.००७.०१० ब्रह्मक्षत्रमहिंसन्तस्ते कोशं समपूरयन्
१.००७.०१० सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम्
१.००७.०११ शुचीनामेकबुद्धीनां सर्वेषां संप्रजानताम्
१.००७.०११ नासीत्पुरे वा राष्ट्रे वा मृषावादी नरः क्व चित्
१.००७.०१२ कश्चिन्न दुष्टस्तत्रासीत्परदाररतिर्नरः
१.००७.०१२ प्रशान्तं सर्वमेवासीद्राष्ट्रं पुरवरं च तत्
१.००७.०१३ सुवाससः सुवेशाश्च ते च सर्वे सुशीलिनः
१.००७.०१३ हितार्थं च नरेन्द्रस्य जाग्रतो नयचक्षुषा
१.००७.०१४ गुरौ गुणगृहीताश्च प्रख्याताश्च पराक्रमैः
१.००७.०१४ विदेशेष्वपि विज्ञाताः सर्वतो बुद्धिनिश्चयात्
१.००७.०१५ ईदृशैस्तैरमात्यैस्तु राजा दशरथोऽनघः
१.००७.०१५ उपपन्नो गुणोपेतैरन्वशासद्वसुंधराम्
१.००७.०१६ अवेक्षमाणश्चारेण प्रजा धर्मेण रञ्जयन्
१.००७.०१६ नाध्यगच्छद्विशिष्टं वा तुल्यं वा शत्रुमात्मनः
१.००७.०१७ तैर्मन्त्रिभिर्मन्त्रहितैर्निविष्टैर्॑ वृतोऽनुरक्तैः कुशलैः समर्थैः
१.००७.०१७ स पार्थिवो दीप्तिमवाप युक्तस्॑ तेजोमयैर्गोभिरिवोदितोऽर्कः
१.००८.००१ तस्य त्वेवं प्रभावस्य धर्मज्ञस्य महात्मनः
१.००८.००१ सुतार्थं तप्यमानस्य नासीद्वंशकरः सुतः
१.००८.००२ चिन्तयानस्य तस्यैवं बुद्धिरासीन्महात्मनः
१.००८.००२ सुतार्थं वाजिमेधेन किमर्थं न यजाम्यहम्
१.००८.००३ स निश्चितां मतिं कृत्वा यष्टव्यमिति बुद्धिमान्
१.००८.००३ मन्त्रिभिः सह धर्मात्मा सर्वैरेव कृतात्मभिः
१.००८.००४ ततोऽब्रवीदिदं राजा सुमन्त्रं मन्त्रिसत्तमम्
१.००८.००४ शीघ्रमानय मे सर्वान् गुरूंस्तान् सपुरोहितान्
१.००८.००५ एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत्
१.००८.००५ ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः
१.००८.००६ सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम्
१.००८.००६ ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति
१.००८.००७ काश्यपस्य तु पुत्रोऽस्ति विभाण्डक इति श्रुतः
१.००८.००७ ऋष्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति
१.००८.००८ स वने नित्यसंवृद्धो मुनिर्वनचरः सदा
१.००८.००८ नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात्
१.००८.००९ द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः
१.००८.००९ लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा
१.००८.०१० तस्यैवं वर्तमानस्य कालः समभिवर्तत
१.००८.०१० अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम्
१.००८.०११ एतस्मिन्नेव काले तु रोमपादः प्रतापवान्
१.००८.०११ अङ्गेषु प्रथिता राजा भविष्यति महाबलः
१.००८.०१२ तस्य व्यतिक्रमाद्राज्ञो भविष्यति सुदारुणा
१.००८.०१२ अनावृष्टिः सुघोरा वै सर्वभूतभयावहा
१.००८.०१३ अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः
१.००८.०१३ ब्राह्मणाञ्श्रुतवृद्धांश्च समानीय प्रवक्ष्यति
१.००८.०१४ भवन्तः श्रुतधर्माणो लोके चारित्रवेदिनः
१.००८.०१४ समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत्
१.००८.०१५ वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः
१.००८.०१५ विभाण्डकसुतं राजन् सर्वोपायैरिहानय
१.००८.०१६ आनाय्य च महीपाल ऋष्यशृङ्गं सुसत्कृतम्
१.००८.०१६ प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः
१.००८.०१७ तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते
१.००८.०१७ केनोपायेन वै शक्यमिहानेतुं स वीर्यवान्
१.००८.०१८ ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान्
१.००८.०१८ पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान्
१.००८.०१९ ते तु राज्ञो वचः श्रुत्वा व्यथिता वनताननाः
१.००८.०१९ न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम्
१.००८.०२० वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान् क्षमान्
१.००८.०२० आनेष्यामो वयं विप्रं न च दोषो भविष्यति
१.००८.०२१ एवमङ्गाधिपेनैव गणिकाभिरृषेः सुतः
१.००८.०२१ आनीतोऽवर्षयद्देवः शान्ता चास्मै प्रदीयते
१.००८.०२२ ऋष्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति
१.००८.०२२ सनत्कुमारकथितमेतावद्व्याहृतं मया
१.००८.०२३ अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत
१.००८.०२३ यथर्ष्यशृङ्गस्त्वानीतो विस्तरेण त्वयोच्यताम्
१.००९.००१ सुमन्त्रश्चोदितो राज्ञा प्रोवाचेदं वचस्तदा
१.००९.००१ यथर्ष्यशृङ्गस्त्वानीतः शृणु मे मन्त्रिभिः सह
१.००९.००२ रोमपादमुवाचेदं सहामात्यः पुरोहितः
१.००९.००२ उपायो निरपायोऽयमस्माभिरभिचिन्तितः
१.००९.००३ ऋष्यशृङ्गो वनचरस्तपःस्वाध्यायने रतः
१.००९.००३ अनभिज्ञः स नारीणां विषयाणां सुखस्य च
१.००९.००४ इन्द्रियार्थैरभिमतैर्नरचित्त प्रमाथिभिः
१.००९.००४ पुरमानाययिष्यामः क्षिप्रं चाध्यवसीयताम्
१.००९.००५ गणिकास्तत्र गच्छन्तु रूपवत्यः स्वलंकृताः
१.००९.००५ प्रलोभ्य विविधोपायैरानेष्यन्तीह सत्कृताः
१.००९.००६ श्रुत्वा तथेति राजा च प्रत्युवाच पुरोहितम्
१.००९.००६ पुरोहितो मन्त्रिणश्च तथा चक्रुश्च ते तदा
१.००९.००७ वारमुख्यास्तु तच्छ्रुत्वा वनं प्रविविशुर्महत्
१.००९.००७ आश्रमस्याविदूरेऽस्मिन् यत्नं कुर्वन्ति दर्शने
१.००९.००८ ऋषिपुत्रस्य घोरस्य नित्यमाश्रमवासिनः
१.००९.००८ पितुः स नित्यसंतुष्टो नातिचक्राम चाश्रमात्
१.००९.००९ न तेन जन्मप्रभृति दृष्टपूर्वं तपस्विना
१.००९.००९ स्त्री वा पुमान् वा यच्चान्यत्सत्त्वं नगर राष्ट्रजम्
१.००९.०१० ततः कदा चित्तं देशमाजगाम यदृच्छया
१.००९.०१० विभाण्डकसुतस्तत्र ताश्चापश्यद्वराङ्गनाः
१.००९.०११ ताश्चित्रवेषाः प्रमदा गायन्त्यो मधुरस्वरैः
१.००९.०११ ऋषिपुत्रमुपागम्य सर्वा वचनमब्रुवन्
१.००९.०१२ कस्त्वं किं वर्तसे ब्रह्मञ्ज्ञातुमिच्छामहे वयम्
१.००९.०१२ एकस्त्वं विजने घोरे वने चरसि शंस नः
१.००९.०१३ अदृष्टरूपास्तास्तेन काम्यरूपा वने स्त्रियः
१.००९.०१३ हार्दात्तस्य मतिर्जाता आख्यातुं पितरं स्वकम्
१.००९.०१४ पिता विभाण्डकोऽस्माकं तस्याहं सुत औरसः
१.००९.०१४ ऋष्यशृङ्ग इति ख्यातं नाम कर्म च मे भुवि
१.००९.०१५ इहाश्रमपदोऽस्माकं समीपे शुभदर्शनाः
१.००९.०१५ करिष्ये वोऽत्र पूजां वै सर्वेषां विधिपूर्वकम्
१.००९.०१६ ऋषिपुत्रवचः श्रुत्वा सर्वासां मतिरास वै
१.००९.०१६ तदाश्रमपदं द्रष्टुं जग्मुः सर्वाश्च तेन ह
१.००९.०१७ गतानां तु ततः पूजामृषिपुत्रश्चकार ह
१.००९.०१७ इदमर्घ्यमिदं पाद्यमिदं मूलं फलं च नः
१.००९.०१८ प्रतिगृह्य तु तां पूजां सर्वा एव समुत्सुकाः
१.००९.०१८ ऋषेर्भीताश्च शीघ्रं तु गमनाय मतिं दधुः
१.००९.०१९ अस्माकमपि मुख्यानि फलानीमानि वै द्विज
१.००९.०१९ गृहाण प्रति भद्रं ते भक्षयस्व च मा चिरम्
१.००९.०२० ततस्तास्तं समालिङ्ग्य सर्वा हर्षसमन्विताः
१.००९.०२० मोदकान् प्रददुस्तस्मै भक्ष्यांश्च विविधाञ्शुभान्
१.००९.०२१ तानि चास्वाद्य तेजस्वी फलानीति स्म मन्यते
१.००९.०२१ अनास्वादितपूर्वाणि वने नित्यनिवासिनाम्
१.००९.०२२ आपृच्छ्य च तदा विप्रं व्रतचर्यां निवेद्य च
१.००९.०२२ गच्छन्ति स्मापदेशात्ता भीतास्तस्य पितुः स्त्रियः
१.००९.०२३ गतासु तासु सर्वासु काश्यपस्यात्मजो द्विजः
१.००९.०२३ अस्वस्थहृदयश्चासीद्दुःखं स्म परिवर्तते
१.००९.०२४ ततोऽपरेद्युस्तं देशमाजगाम स वीर्यवान्
१.००९.०२४ मनोज्ञा यत्र ता दृष्टा वारमुख्याः स्वलंकृताः
१.००९.०२५ दृष्ट्वैव च तदा विप्रमायान्तं हृष्ट मानसाः
१.००९.०२५ उपसृत्य ततः सर्वास्तास्तमूचुरिदं वचः
१.००९.०२६ एह्याश्रमपदं सौम्य अस्माकमिति चाब्रुवन्
१.००९.०२६ तत्राप्येष विधिः श्रीमान् विशेषेण भविष्यति
१.००९.०२७ श्रुत्वा तु वचनं तासां सर्वासां हृदयंगमम्
१.००९.०२७ गमनाय मतिं चक्रे तं च निन्युस्तदा स्त्रियः
१.००९.०२८ तत्र चानीयमाने तु विप्रे तस्मिन्महात्मनि
१.००९.०२८ ववर्ष सहसा देवो जगत्प्रह्लादयंस्तदा
१.००९.०२९ वर्षेणैवागतं विप्रं विषयं स्वं नराधिपः
१.००९.०२९ प्रत्युद्गम्य मुनिं प्रह्वः शिरसा च महीं गतः
१.००९.०३० अर्घ्यं च प्रददौ तस्मै न्यायतः सुसमाहितः
१.००९.०३० वव्रे प्रसादं विप्रेन्द्रान्मा विप्रं मन्युराविशेत्
१.००९.०३१ अन्तःपुरं प्रविश्यास्मै कन्यां दत्त्वा यथाविधि
१.००९.०३१ शान्तां शान्तेन मनसा राजा हर्षमवाप सः
१.००९.०३२ एवं स न्यवसत्तत्र सर्वकामैः सुपूजितः
१.००९.०३२ ऋष्यशृङ्गो महातेजाः शान्तया सह भार्यया
१.०१०.००१ भूय एव च राजेन्द्र शृणु मे वचनं हितम्
१.०१०.००१ यथा स देवप्रवरः कथयामास बुद्धिमान्
१.०१०.००२ इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः
१.०१०.००२ राजा दशरथो नाम्ना श्रीमान् सत्यप्रतिश्रवः
१.०१०.००३ अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति
१.०१०.००३ कन्या चास्य महाभागा शान्ता नाम भविष्यति
१.०१०.००४ पुत्रस्त्वङ्गस्य राज्ञस्तु रोमपाद इति श्रुतः
१.०१०.००४ तं स राजा दशरथो गमिष्यति महायशाः
१.०१०.००५ अनपत्योऽस्मि धर्मात्मञ्शान्ता भार्या मम क्रतुम्
१.०१०.००५ आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च
१.०१०.००६ श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च
१.०१०.००६ प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान्
१.०१०.००७ प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः
१.०१०.००७ आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना
१.०१०.००८ तं च राजा दशरथो यष्टुकामः कृताञ्जलिः
१.०१०.००८ ऋष्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित्
१.०१०.००९ यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः
१.०१०.००९ लभते च स तं कामं द्विज मुख्याद्विशां पतिः
१.०१०.०१० पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः
१.०१०.०१० वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः
१.०१०.०११ एवं स देवप्रवरः पूर्वं कथितवान् कथाम्
१.०१०.०११ सनत्कुमारो भगवान् पुरा देवयुगे प्रभुः
१.०१०.०१२ स त्वं पुरुषशार्दूल तमानय सुसत्कृतम्
१.०१०.०१२ स्वयमेव महाराज गत्वा सबलवाहनः
१.०१०.०१३ अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च
१.०१०.०१३ सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः
१.०१०.०१४ वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः
१.०१०.०१४ अभिचक्राम तं देशं यत्र वै मुनिपुंगवः
१.०१०.०१५ आसाद्य तं द्विजश्रेष्ठं रोमपादसमीपगम्
१.०१०.०१५ ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम्
१.०१०.०१६ ततो राजा यथान्यायं पूजां चक्रे विशेषतः
१.०१०.०१६ सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना
१.०१०.०१७ रोमपादेन चाख्यातमृषिपुत्राय धीमते
१.०१०.०१७ सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत्
१.०१०.०१८ एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः
१.०१०.०१८ सप्ताष्टदिवसान् राजा राजानमिदमब्रवीत्
१.०१०.०१९ शान्ता तव सुता राजन् सह भर्त्रा विशाम्पते
१.०१०.०१९ मदीयं नगरं यातु कार्यं हि महदुद्यतम्
१.०१०.०२० तथेति राजा संश्रुत्य गमनं तस्य धीमतः
१.०१०.०२० उवाच वचनं विप्रं गच्छ त्वं सह भार्यया
१.०१०.०२१ ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा
१.०१०.०२१ स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया
१.०१०.०२२ तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा
१.०१०.०२२ ननन्दतुर्दशरथो रोमपादश्च वीर्यवान्
१.०१०.०२३ ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः
१.०१०.०२३ पौरेभ्यः प्रेषयामास दूतान् वै शीघ्रगामिनः
१.०१०.०२३ क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम्
१.०१०.०२४ ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्
१.०१०.०२४ तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा
१.०१०.०२५ ततः स्वलंकृतं राजा नगरं प्रविवेश ह
१.०१०.०२५ शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम्
१.०१०.०२६ ततः प्रमुदिताः सर्वे दृष्ट्वा वै नागरा द्विजम्
१.०१०.०२६ प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा
१.०१०.०२७ अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः
१.०१०.०२७ कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्
१.०१०.०२८ अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्
१.०१०.०२८ सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन्
१.०१०.०२९ पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः
१.०१०.०२९ उवास तत्र सुखिता कं चित्कालं सह द्विजा
१.०११.००१ ततः काले बहुतिथे कस्मिंश्चित्सुमनोहरे
१.०११.००१ वसन्ते समनुप्राप्ते राज्ञो यष्टुं मनोऽभवत्
१.०११.००२ ततः प्रसाद्य शिरसा तं विप्रं देववर्णिनम्
१.०११.००२ यज्ञाय वरयामास संतानार्थं कुलस्य च
१.०११.००३ तथेति च स राजानमुवाच च सुसत्कृतः
१.०११.००३ संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम्
१.०११.००४ ततो राजाब्रवीद्वाक्यं सुमन्त्रं मन्त्रिसत्तमम्
१.०११.००४ सुमन्त्रावाहय क्षिप्रमृत्विजो ब्रह्मवादिनः
१.०११.००५ ततः सुमन्त्रस्त्वरितं गत्वा त्वरितविक्रमः
१.०११.००५ समानयत्स तान् विप्रान् समस्तान् वेदपारगान्
१.०११.००६ सुयज्ञं वामदेवं च जाबालिमथ काश्यपम्
१.०११.००६ पुरोहितं वसिष्ठं च ये चान्ये द्विजसत्तमाः
१.०११.००७ तान् पूजयित्वा धर्मात्मा राजा दशरथस्तदा
१.०११.००७ इदं धर्मार्थसहितं श्लक्ष्णं वचनमब्रवीत्
१.०११.००८ मम लालप्यमानस्य पुत्रार्थं नास्ति वै सुखम्
१.०११.००८ तदर्थं हयमेधेन यक्ष्यामीति मतिर्मम
१.०११.००९ तदहं यष्टुमिच्छामि शास्त्रदृष्टेन कर्मणा
१.०११.००९ ऋषिपुत्रप्रभावेन कामान् प्राप्स्यामि चाप्यहम्
१.०११.०१० ततः साध्विति तद्वाक्यं ब्राह्मणाः प्रत्यपूजयन्
१.०११.०१० वसिष्ठप्रमुखाः सर्वे पार्थिवस्य मुखाच्च्युतम्
१.०११.०११ ऋष्यशृङ्गपुरोगाश्च प्रत्यूचुर्नृपतिं तदा
१.०११.०११ संभाराः संभ्रियन्तां ते तुरगश्च विमुच्यताम्
१.०११.०१२ सर्वथा प्राप्यसे पुत्रांश्चतुरोऽमितविक्रमान्
१.०११.०१२ यस्य ते धार्मिकी बुद्धिरियं पुत्रार्थमागताः
१.०११.०१३ ततः प्रीतोऽभवद्राजा श्रुत्वा तद्द्विजभाषितम्
१.०११.०१३ अमात्यांश्चाब्रवीद्राजा हर्षेणेदं शुभाक्षरम्
१.०११.०१४ गुरूणां वचनाच्छीघ्रं संभाराः संभ्रियन्तु मे
१.०११.०१४ समर्थाधिष्ठितश्चाश्वः सोपाध्यायो विमुच्यताम्
१.०११.०१५ सरय्वाश्चोत्तरे तीरे यज्ञभूमिर्विधीयताम्
१.०११.०१५ शान्तयश्चाभिवर्धन्तां यथाकल्पं यथाविधि
१.०११.०१६ शक्यः कर्तुमयं यज्ञः सर्वेणापि महीक्षिता
१.०११.०१६ नापराधो भवेत्कष्टो यद्यस्मिन् क्रतुसत्तमे
१.०११.०१७ छिद्रं हि मृगयन्तेऽत्र विद्वांसो ब्रह्मराक्षसाः
१.०११.०१७ विधिहीनस्य यज्ञस्य सद्यः कर्ता विनश्यति
१.०११.०१८ तद्यथाविधि पूर्वं मे क्रतुरेष समाप्यते
१.०११.०१८ तथाविधानं क्रियतां समर्थाः करणेष्विह
१.०११.०१९ तथेति च ततः सर्वे मन्त्रिणः प्रत्यपूजयन्
१.०११.०१९ पार्थिवेन्द्रस्य तद्वाक्यं यथाज्ञप्तमकुर्वत
१.०११.०२० ततो द्विजास्ते धर्मज्ञमस्तुवन् पार्थिवर्षभम्
१.०११.०२० अनुज्ञातास्ततः सर्वे पुनर्जग्मुर्यथागतम्
१.०११.०२१ गतानां तु द्विजातीनां मन्त्रिणस्तान्नराधिपः
१.०११.०२१ विसर्जयित्वा स्वं वेश्म प्रविवेश महा द्युतिः
१.०१२.००१ पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत्
१.०१२.००१ अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च
१.०१२.००२ अब्रवीत्प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम्
१.०१२.००२ यज्ञो मे क्रियतां विप्र यथोक्तं मुनिपुंगव
१.०१२.००३ यथा न विघ्नः क्रियते यज्ञाङ्गेषु विधीयताम्
१.०१२.००३ भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो भवान्
१.०१२.००४ वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः
१.०१२.००४ तथेति च स राजानमब्रवीद्द्विजसत्तमः
१.०१२.००५ करिष्ये सर्वमेवैतद्भवता यत्समर्थितम्
१.०१२.००५ ततोऽब्रवीद्द्विजान् वृद्धान् यज्ञकर्मसु निष्ठितान्
१.०१२.००६ स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान्
१.०१२.००६ कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि
१.०१२.००७ गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान्
१.०१२.००७ तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान्
१.०१२.००८ यज्ञकर्म समीहन्तां भवन्तो राजशासनात्
१.०१२.००८ इष्टका बहुसाहस्री शीघ्रमानीयतामिति
१.०१२.००९ औपकार्याः क्रियन्तां च राज्ञां बहुगुणान्विताः
१.०१२.००९ ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः
१.०१२.०१० भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः
१.०१२.०१० तथा पौरजनस्यापि कर्तव्या बहुविस्तराः
१.०१२.०११ आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः
१.०१२.०११ तथा जानपदस्यापि जनस्य बहुशोभनम्
१.०१२.०१२ दातव्यमन्नं विधिवत्सत्कृत्य न तु लीलया
१.०१२.०१२ सर्ववर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः
१.०१२.०१३ न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि
१.०१२.०१३ यज्ञकर्मसु येऽव्यग्राः पुरुषाः शिल्पिनस्तथा
१.०१२.०१४ तेषामपि विशेषेण पूजा कार्या यथाक्रमम्
१.०१२.०१४ यथा सर्वं सुविहितं न किं चित्परिहीयते
१.०१२.०१५ तथा भवन्तः कुर्वन्तु प्रीतिस्निग्धेन चेतसा
१.०१२.०१५ ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन्
१.०१२.०१६ यथोक्तं तत्करिष्यामो न किं चित्परिहास्यते
१.०१२.०१६ ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत्
१.०१२.०१७ निमन्त्रयस्य नृपतीन् पृथिव्यां ये च धार्मिकाः
१.०१२.०१७ ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः
१.०१२.०१८ समानयस्व सत्कृत्य सर्वदेशेषु मानवान्
१.०१२.०१८ मिथिलाधिपतिं शूरं जनकं सत्यविक्रमम्
१.०१२.०१९ निष्ठितं सर्वशास्त्रेषु तथा वेदेषु निष्ठितम्
१.०१२.०१९ तमानय महाभागं स्वयमेव सुसत्कृतम्
१.०१२.०१९ पूर्वसंबन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते
१.०१२.०२० तथा काशिपतिं स्निग्धं सततं प्रियवादिनम्
१.०१२.०२० सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह
१.०१२.०२१ तथा केकयराजानं वृद्धं परमधार्मिकम्
१.०१२.०२१ श्वशुरं राजसिंहस्य सपुत्रं तमिहानय
१.०१२.०२२ अङ्गेश्वरं महाभागं रोमपादं सुसत्कृतम्
१.०१२.०२२ वयस्यं राजसिंहस्य तमानय यशस्विनम्
१.०१२.०२३ प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान्
१.०१२.०२३ दाक्षिणात्यान्नरेन्द्रांश्च समस्तानानयस्व ह
१.०१२.०२४ सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले
१.०१२.०२४ तानानय यथाक्षिप्रं सानुगान् सहबान्धवान्
१.०१२.०२५ वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितस्तदा
१.०१२.०२५ व्यादिशत्पुरुषांस्तत्र राज्ञामानयने शुभान्
१.०१२.०२६ स्वयमेव हि धर्मात्मा प्रययौ मुनिशासनात्
१.०१२.०२६ सुमन्त्रस्त्वरितो भूत्वा समानेतुं महीक्षितः
१.०१२.०२७ ते च कर्मान्तिकाः सर्वे वसिष्ठाय च धीमते
१.०१२.०२७ सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम्
१.०१२.०२८ ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् पुनरब्रवीत्
१.०१२.०२८ अवज्ञया न दातव्यं कस्य चिल्लीलयापि वा
१.०१२.०२८ अवज्ञया कृतं हन्याद्दातारं नात्र संशयः
१.०१२.०२९ ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः
१.०१२.०२९ बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह
१.०१२.०३० ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत्
१.०१२.०३० उपयाता नरव्याघ्र राजानस्तव शासनात्
१.०१२.०३१ मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः
१.०१२.०३१ यज्ञियं च कृतं राजन् पुरुषैः सुसमाहितैः
१.०१२.०३२ निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात्
१.०१२.०३२ सर्वकामैरुपहृतैरुपेतं वै समन्ततः
१.०१२.०३३ तथा वसिष्ठवचनादृष्यशृङ्गस्य चोभयोः
१.०१२.०३३ शुभे दिवस नक्षत्रे निर्यातो जगतीपतिः
१.०१२.०३४ ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः
१.०१२.०३४ ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा
१.०१३.००१ अथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे
१.०१३.००१ सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत
१.०१३.००२ ऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः
१.०१३.००२ अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः
१.०१३.००३ कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः
१.०१३.००३ यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः
१.०१३.००४ प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः
१.०१३.००४ चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः
१.०१३.००५ अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि
१.०१३.००५ प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः
१.०१३.००६ न चाहुतमभूत्तत्र स्खलितं वापि किं चन
१.०१३.००६ दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे
१.०१३.००७ न तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते
१.०१३.००७ नाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा
१.०१३.००८ ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते
१.०१३.००८ तापसा भुजते चापि श्रमणा भुञ्जते तथा
१.०१३.००९ वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च
१.०१३.००९ अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते
१.०१३.०१० दीयतां दीयतामन्नं वासांसि विविधानि च
१.०१३.०१० इति संचोदितास्तत्र तथा चक्रुरनेकशः
१.०१३.०११ अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः
१.०१३.०११ दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा
१.०१३.०१२ अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः
१.०१३.०१२ अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः
१.०१३.०१३ स्वलंकृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन्
१.०१३.०१३ उपासते च तानन्ये सुमृष्टमणिकुण्डलाः
१.०१३.०१४ कर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि
१.०१३.०१४ प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया
१.०१३.०१५ दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः
१.०१३.०१५ सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः
१.०१३.०१६ नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः
१.०१३.०१६ सदस्यस्तस्य वै राज्ञो नावादकुशलो द्विजः
१.०१३.०१७ प्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा
१.०१३.०१७ तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे
१.०१३.०१८ श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा
१.०१३.०१८ द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ
१.०१३.०१९ कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः
१.०१३.०१९ शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन्
१.०१३.०२० विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः
१.०१३.०२० अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः
१.०१३.०२१ आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः
१.०१३.०२१ सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि
१.०१३.०२२ इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः
१.०१३.०२२ चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि
१.०१३.०२२ स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः
१.०१३.०२३ गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः
१.०१३.०२३ नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्
१.०१३.०२४ उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः
१.०१३.०२४ शामित्रे तु हयस्तत्र तथा जल चराश्च ये
१.०१३.०२५ ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा
१.०१३.०२५ पशूनां त्रिशतं तत्र यूपेषु नियतं तदा
१.०१३.०२५ अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह
१.०१३.०२६ कौसल्या तं हयं तत्र परिचर्य समन्ततः
१.०१३.०२६ कृपाणैर्विशशासैनं त्रिभिः परमया मुदा
१.०१३.०२७ पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा
१.०१३.०२७ अवसद्रजनीमेकां कौसल्या धर्मकाम्यया
१.०१३.०२८ होताध्वर्युस्तथोद्गाता हयेन समयोजयन्
१.०१३.०२८ महिष्या परिवृत्थ्याथ वावातामपरां तथा
१.०१३.०२९ पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः
१.०१३.०२९ ऋत्विक्परम संपन्नः श्रपयामास शास्त्रतः
१.०१३.०३० धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः
१.०१३.०३० यथाकालं यथान्यायं निर्णुदन् पापमात्मनः
१.०१३.०३१ हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः
१.०१३.०३१ अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः
१.०१३.०३२ प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः
१.०१३.०३२ अश्वमेधस्य चैकस्य वैतसो भाग इष्यते
१.०१३.०३३ त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः
१.०१३.०३३ चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्
१.०१३.०३४ उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम्
१.०१३.०३४ कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात्
१.०१३.०३५ ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ
१.०१३.०३५ अभिजिद्विश्वजिच्चैव अप्तोर्यामो महाक्रतुः
१.०१३.०३६ प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः
१.०१३.०३६ अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्
१.०१३.०३७ उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता
१.०१३.०३७ अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा
१.०१३.०३८ क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः
१.०१३.०३८ ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः
१.०१३.०३९ ऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकल्मषम्
१.०१३.०३९ भवानेव महीं कृत्स्नामेको रक्षितुमर्हति
१.०१३.०४० न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने
१.०१३.०४० रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप
१.०१३.०४० निष्क्रयं किं चिदेवेह प्रयच्छतु भवानिति
१.०१३.०४१ गवां शतसहस्राणि दश तेभ्यो ददौ नृपः
१.०१३.०४१ दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम्
१.०१३.०४२ ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु
१.०१३.०४२ ऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते
१.०१३.०४३ ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः
१.०१३.०४३ सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम्
१.०१३.०४४ ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्
१.०१३.०४४ पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः
१.०१३.०४५ ततोऽब्रवीदृष्यशृङ्गं राजा दशरथस्तदा
१.०१३.०४५ कुलस्य वर्धनं तत्तु कर्तुमर्हसि सुव्रत
१.०१३.०४६ तथेति च स राजानमुवाच द्विजसत्तमः
१.०१३.०४६ भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः
१.०१४.००१ मेधावी तु ततो ध्यात्वा स किं चिदिदमुत्तमम्
१.०१४.००१ लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत्
१.०१४.००२ इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात्
१.०१४.००२ अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः
१.०१४.००३ ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्र कारणात्
१.०१४.००३ जुहाव चाग्नौ तेजस्वी मन्त्रदृष्टेन कर्मणा
१.०१४.००४ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
१.०१४.००४ भागप्रतिग्रहार्थं वै समवेता यथाविधि
१.०१४.००५ ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः
१.०१४.००५ अब्रुवंल्लोककर्तारं ब्रह्माणं वचनं महत्
१.०१४.००६ भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः
१.०१४.००६ सर्वान्नो बाधते वीर्याच्छासितुं तं न शक्नुमः
१.०१४.००७ त्वया तस्मै वरो दत्तः प्रीतेन भगवन् पुरा
१.०१४.००७ मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे
१.०१४.००८ उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः
१.०१४.००८ शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति
१.०१४.००९ ऋषीन् यक्षान् सगन्धर्वानसुरान् ब्राह्मणांस्तथा
१.०१४.००९ अतिक्रामति दुर्धर्षो वरदानेन मोहितः
१.०१४.०१० नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः
१.०१४.०१० चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते
१.०१४.०११ तन्मनन्नो भयं तस्माद्राक्षसाद्घोरदर्शनात्
१.०१४.०११ वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि
१.०१४.०१२ एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत्
१.०१४.०१२ हन्तायं विहितस्तस्य वधोपायो दुरात्मनः
१.०१४.०१३ तेन गन्धर्वयक्षाणां देवदानवरक्षसाम्
१.०१४.०१३ अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया
१.०१४.०१४ नाकीर्तयदवज्ञानात्तद्रक्षो मानुषांस्तदा
१.०१४.०१४ तस्मात्स मानुषाद्वध्यो मृतुर्नान्योऽस्य विद्यते
१.०१४.०१५ एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम्
१.०१४.०१५ देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा
१.०१४.०१६ एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः
१.०१४.०१६ ब्रह्मणा च समागम्य तत्र तस्थौ समाहितः
१.०१४.०१७ तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः
१.०१४.०१७ त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया
१.०१४.०१८ राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो
१.०१४.०१८ धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः
१.०१४.०१८ तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च
१.०१४.०१८ विष्णो पुत्रत्वमागच्छ कृत्वात्मानं चतुर्विधम्
१.०१४.०१९ तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम्
१.०१४.०१९ अवध्यं दैवतैर्विष्णो समरे जहि रावणम्
१.०१४.०२० स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान्
१.०१४.०२० राक्षसो रावणो मूर्खो वीर्योत्सेकेन बाधते
१.०१४.०२१ तदुद्धतं रावणमृद्धतेजसं॑ प्रवृद्धदर्पं त्रिदशेश्वरद्विषम्
१.०१४.०२१ विरावणं साधु तपस्विकण्टकं॑ तपस्विनामुद्धर तं भयावहम्
१.०१५.००१ ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः
१.०१५.००१ जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत्
१.०१५.००२ उपायः को वधे तस्य राक्षसाधिपतेः सुराः
१.०१५.००२ यमहं तं समास्थाय निहन्यामृषिकण्टकम्
१.०१५.००३ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम्
१.०१५.००३ मानुषीं तनुमास्थाय रावणं जहि संयुगे
१.०१५.००४ स हि तेपे तपस्तीव्रं दीर्घकालमरिंदम
१.०१५.००४ येन तुष्टोऽभवद्ब्रह्मा लोककृल्लोकपूजितः
१.०१५.००५ संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः
१.०१५.००५ नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात्
१.०१५.००६ अवज्ञाताः पुरा तेन वरदानेन मानवाः
१.०१५.००६ तस्मात्तस्य वधो दृष्टो मानुषेभ्यः परंतप
१.०१५.००७ इत्येतद्वचनं श्रुत्वा सुराणां विष्णुरात्मवान्
१.०१५.००७ पितरं रोचयामास तदा दशरथं नृपम्
१.०१५.००८ स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः
१.०१५.००८ अयजत्पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः
१.०१५.००९ ततो वै यजमानस्य पावकादतुलप्रभम्
१.०१५.००९ प्रादुर्भूतं महद्भूतं महावीर्यं महाबलम्
१.०१५.०१० कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम्
१.०१५.०१० स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम्
१.०१५.०११ शुभलक्षणसंपन्नं दिव्याभरणभूषितम्
१.०१५.०११ शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम्
१.०१५.०१२ दिवाकरसमाकारं दीप्तानलशिखोपमम्
१.०१५.०१२ तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम्
१.०१५.०१३ दिव्यपायससंपूर्णां पात्रीं पत्नीमिव प्रियाम्
१.०१५.०१३ प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव
१.०१५.०१४ समवेक्ष्याब्रवीद्वाक्यमिदं दशरथं नृपम्
१.०१५.०१४ प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप
१.०१५.०१५ ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः
१.०१५.०१५ भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते
१.०१५.०१६ अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत्
१.०१५.०१६ राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया
१.०१५.०१७ इदं तु नरशार्दूल पायसं देवनिर्मितम्
१.०१५.०१७ प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम्
१.०१५.०१८ भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै
१.०१५.०१८ तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप
१.०१५.०१९ तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्यताम्
१.०१५.०१९ पात्रीं देवान्नसंपूर्णां देवदत्तां हिरण्मयीम्
१.०१५.०२० अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम्
१.०१५.०२० मुदा परमया युक्तश्चकाराभिप्रदक्षिणम्
१.०१५.०२१ ततो दशरथः प्राप्य पायसं देवनिर्मितम्
१.०१५.०२१ बभूव परमप्रीतः प्राप्य वित्तमिवाधनः
१.०१५.०२२ ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम्
१.०१५.०२२ संवर्तयित्वा तत्कर्म तत्रैवान्तरधीयत
१.०१५.०२३ हर्षरश्मिभिरुद्योतं तस्यान्तःपुरमाबभौ
१.०१५.०२३ शारदस्याभिरामस्य चन्द्रस्येव नभोऽंशुभिः
१.०१५.०२४ सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत्
१.०१५.०२४ पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः
१.०१५.०२५ कौसल्यायै नरपतिः पायसार्धं ददौ तदा
१.०१५.०२५ अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः
१.०१५.०२६ कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्
१.०१५.०२६ प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्
१.०१५.०२७ अनुचिन्त्य सुमित्रायै पुनरेव महीपतिः
१.०१५.०२७ एवं तासां ददौ राजा भार्याणां पायसं पृथक्
१.०१५.०२८ तास्त्वेतत्पायसं प्राप्य नरेन्द्रस्योत्तमाः स्त्रियः
१.०१५.०२८ संमानं मेनिरे सर्वाः प्रहर्षोदितचेतसः
१.०१६.००१ पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य महात्मनः
१.०१६.००१ उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम्
१.०१६.००२ सत्यसंधस्य वीरस्य सर्वेषां नो हितैषिणः
१.०१६.००२ विष्णोः सहायान् बलिनः सृजध्वं कामरूपिणः
१.०१६.००३ मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे
१.०१६.००३ नयज्ञान् बुद्धिसंपन्नान् विष्णुतुल्यपराक्रमान्
१.०१६.००४ असंहार्यानुपायज्ञान् दिव्यसंहननान्वितान्
१.०१६.००४ सर्वास्त्रगुणसंपन्नानमृतप्राशनानिव
१.०१६.००५ अप्सरःसु च मुख्यासु गन्धर्वीणां तनूषु च
१.०१६.००५ यक्षपन्नगकन्यासु ऋष्कविद्याधरीषु च
१.०१६.००६ किंनरीणां च गात्रेषु वानरीणां तनूषु च
१.०१६.००६ सृजध्वं हरिरूपेण पुत्रांस्तुल्यपराक्रमान्
१.०१६.००७ ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम्
१.०१६.००७ जनयामासुरेवं ते पुत्रान् वानररूपिणः
१.०१६.००८ ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः
१.०१६.००८ चारणाश्च सुतान् वीरान् ससृजुर्वनचारिणः
१.०१६.००९ ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यताः
१.०१६.००९ अप्रमेयबला वीरा विक्रान्ताः कामरूपिणः
१.०१६.०१० ते गजाचलसंकाशा वपुष्मन्तो महाबलाः
१.०१६.०१० ऋक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे
१.०१६.०११ यस्य देवस्य यद्रूपं वेषो यश्च पराक्रमः
१.०१६.०११ अजायत समस्तेन तस्य तस्य सुतः पृथक्
१.०१६.०१२ गोलाङ्गूलीषु चोत्पन्नाः के चित्संमतविक्रमाः
१.०१६.०१२ ऋक्षीषु च तथा जाता वानराः किंनरीषु च
१.०१६.०१३ शिलाप्रहरणाः सर्वे सर्वे पादपयोधिनः
१.०१६.०१३ नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः
१.०१६.०१४ विचालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान्
१.०१६.०१४ क्षोभयेयुश्च वेगेन समुद्रं सरितां पतिम्
१.०१६.०१५ दारयेयुः क्षितिं पद्भ्यामाप्लवेयुर्महार्णवम्
१.०१६.०१५ नभस्तलं विशेयुश्च गृह्णीयुरपि तोयदान्
१.०१६.०१६ गृह्णीयुरपि मातङ्गान्मत्तान् प्रव्रजतो वने
१.०१६.०१६ नर्दमानांश्च नादेन पातयेयुर्विहंगमान्
१.०१६.०१७ ईदृशानां प्रसूतानि हरीणां कामरूपिमाम्
१.०१६.०१७ शतं शतसहस्राणि यूथपानां महात्मनाम्
१.०१६.०१७ बभूवुर्यूथपश्रेष्ठा वीरांश्चाजनयन् हरीन्
१.०१६.०१८ अन्ये ऋक्षवतः प्रस्थानुपतस्थुः सहस्रशः
१.०१६.०१८ अन्ये नानाविधाञ्शैलान् काननानि च भेजिरे
१.०१६.०१९ सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम्
१.०१६.०१९ भ्रातरावुपतस्थुस्ते सर्व एव हरीश्वराः
१.०१६.०२० तैर्मेघवृन्दाचलतुल्यकायैर्॑ महाबलैर्वानरयूथपालैः
१.०१६.०२० बभूव भूर्भीमशरीररूपैः॑ समावृता रामसहायहेतोः
१.०१७.००१ निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः
१.०१७.००१ प्रतिगृह्य सुरा भागान् प्रतिजग्मुर्यथागतम्
१.०१७.००२ समाप्तदीक्षानियमः पत्नीगणसमन्वितः
१.०१७.००२ प्रविवेश पुरीं राजा सभृत्यबलवाहनः
१.०१७.००३ यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः
१.०१७.००३ मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम्
१.०१७.००४ गतेषु पृथिवीशेषु राजा दशरथः पुनः
१.०१७.००४ प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान्
१.०१७.००५ शान्तया प्रययौ सार्धमृष्यशृङ्गः सुपूजितः
१.०१७.००५ अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता
१.०१७.००६ कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम्
१.०१७.००६ विष्णोरर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम्
१.०१७.००७ कौसल्या शुशुभे तेन पुत्रेणामिततेजसा
१.०१७.००७ यथा वरेण देवानामदितिर्वज्रपाणिना
१.०१७.००८ भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः
१.०१७.००८ साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः
१.०१७.००९ अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ
१.०१७.००९ वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ
१.०१७.०१० राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक्
१.०१७.०१० गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः
१.०१७.०११ अतीत्यैकादशाहं तु नाम कर्म तथाकरोत्
१.०१७.०११ ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्
१.०१७.०१२ सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा
१.०१७.०१२ वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा
१.०१७.०१२ तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्
१.०१७.०१३ तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः
१.०१७.०१३ बभूव भूयो भूतानां स्वयम्भूरिव संमतः
१.०१७.०१४ सर्वे वेदविदः शूराः सर्वे लोकहिते रताः
१.०१७.०१४ सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः
१.०१७.०१५ तेषामपि महातेजा रामः सत्यपराक्रमः
१.०१७.०१५ बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः
१.०१७.०१६ रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः
१.०१७.०१६ सर्वप्रियकरस्तस्य रामस्यापि शरीरतः
१.०१७.०१७ लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः
१.०१७.०१७ न च तेन विना निद्रां लभते पुरुषोत्तमः
१.०१७.०१७ मृष्टमन्नमुपानीतमश्नाति न हि तं विना
१.०१७.०१८ यदा हि हयमारूढो मृगयां याति राघवः
१.०१७.०१८ तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन्
१.०१७.०१९ भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः
१.०१७.०१९ प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः
१.०१७.०२० स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः
१.०१७.०२० बभूव परमप्रीतो देवैरिव पितामहः
१.०१७.०२१ ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः
१.०१७.०२१ ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः
१.०१७.०२२ अथ राजा दशरथस्तेषां दारक्रियां प्रति
१.०१७.०२२ चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः
१.०१७.०२३ तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः
१.०१७.०२३ अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः
१.०१७.०२४ स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह
१.०१७.०२४ शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्
१.०१७.०२५ तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः
१.०१७.०२५ संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः
१.०१७.०२६ ते गत्वा राजभवनं विश्वामित्रमृषिं तदा
१.०१७.०२६ प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा
१.०१७.०२७ तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः
१.०१७.०२७ प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः
१.०१७.०२८ स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्
१.०१७.०२८ प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्
१.०१७.०२९ स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्ट्तेन कर्मणा
१.०१७.०२९ कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्
१.०१७.०३० वसिष्ठं च समागम्य कुशलं मुनिपुंगवः
१.०१७.०३० ऋषींश्च तान् यथा न्यायं महाभागानुवाच ह
१.०१७.०३१ ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्
१.०१७.०३१ विविशुः पूजितास्तत्र निषेदुश्च यथार्थतः
१.०१७.०३२ अथ हृष्टमना राजा विश्वामित्रं महामुनिम्
१.०१७.०३२ उवाच परमोदारो हृष्टस्तमभिपूजयन्
१.०१७.०३३ यथामृतस्य संप्राप्तिर्यथा वर्षमनूदके
१.०१७.०३३ यथा सदृशदारेषु पुत्रजन्माप्रजस्य च
१.०१७.०३३ प्रनष्टस्य यथा लाभो यथा हर्षो महोदये
१.०१७.०३३ तथैवागमनं मन्ये स्वागतं ते महामुने
१.०१७.०३४ कं च ते परमं कामं करोमि किमु हर्षितः
१.०१७.०३४ पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि धार्मिक
१.०१७.०३४ अद्य मे सफलं जन्म जीवितं च सुजीवितम्
१.०१७.०३५ पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः
१.०१७.०३५ ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया
१.०१७.०३६ तदद्भुतमिदं विप्र पवित्रं परमं मम
१.०१७.०३६ शुभक्षेत्रगतश्चाहं तव संदर्शनात्प्रभो
१.०१७.०३७ ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति
१.०१७.०३७ इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये
१.०१७.०३८ कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक
१.०१७.०३८ कर्ता चाहमशेषेण दैवतं हि भवान्मम
१.०१७.०३९ इति हृदयसुखं निशम्य वाक्यं॑ श्रुतिसुखमात्मवता विनीतमुक्तम्
१.०१७.०३९ प्रथितगुणयशा गुणैर्विशिष्टः॑ परम ऋषिः परमं जगाम हर्षम्
१.०१८.००१ तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्
१.०१८.००१ हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत
१.०१८.००२ सदृशं राजशार्दूल तवैतद्भुवि नान्यतः
१.०१८.००२ महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः
१.०१८.००३ यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्
१.०१८.००३ कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः
१.०१८.००४ अहं नियममातिष्ठ सिद्ध्यर्थं पुरुषर्षभ
१.०१८.००४ तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ
१.०१८.००५ व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ
१.०१८.००५ मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ
१.०१८.००५ तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम्
१.०१८.००६ अवधूते तथा भूते तस्मिन्नियमनिश्चये
१.०१८.००६ कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे
१.०१८.००७ न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव
१.०१८.००७ तथाभूता हि सा चर्या न शापस्तत्र मुच्यते
१.०१८.००८ स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम्
१.०१८.००८ काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि
१.०१८.००९ शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा
१.०१८.००९ राक्षसा ये विकर्तारस्तेषामपि विनाशने
१.०१८.०१० श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः
१.०१८.०१० त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति
१.०१८.०११ न च तौ राममासाद्य शक्तौ स्थातुं कथं चन
१.०१८.०११ न च तौ राघवादन्यो हन्तुमुत्सहते पुमान्
१.०१८.०१२ वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ
१.०१८.०१२ रामस्य राजशार्दूल न पर्याप्तौ महात्मनः
१.०१८.०१३ न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव
१.०१८.०१३ अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ
१.०१८.०१४ अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्
१.०१८.०१४ वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः
१.०१८.०१५ यदि ते धर्मलाभं च यशश्च परमं भुवि
१.०१८.०१५ स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि
१.०१८.०१६ यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः
१.०१८.०१६ वसिष्ठ प्रमुखाः सर्वे ततो रामं विसर्जय
१.०१८.०१७ अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि
१.०१८.०१७ दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्
१.०१८.०१८ नात्येति कालो यज्ञस्य यथायं मम राघव
१.०१८.०१८ तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः
१.०१८.०१९ इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः
१.०१८.०१९ विरराम महातेजा विश्वामित्रो महामुनिः
१.०१८.०२० इति हृदयमनोविदारणं॑ मुनिवचनं तदतीव शुश्रुवान्
१.०१८.०२० नरपतिरगमद्भयं महद्॑ व्यथितमनाः प्रचचाल चासनात्
१.०१९.००१ तच्छ्रुत्वा राजशार्दूल विश्वामित्रस्य भाषितम्
१.०१९.००१ मुहूर्तमिव निःसंज्ञः संज्ञावानिदमब्रवीत्
१.०१९.००२ ऊनषोडशवर्षो मे रामो राजीवलोचनः
१.०१९.००२ न युद्धयोग्यतामस्य पश्यामि सह राक्षसैः
१.०१९.००३ इयमक्षौहिणी पूर्णा यस्याहं पतिरीश्वरः
१.०१९.००३ अनया संवृतो गत्वा योधाहं तैर्निशाचरैः
१.०१९.००४ इमे शूराश्च विक्रान्ता भृत्या मेऽस्त्रविशारदाः
१.०१९.००४ योग्या रक्षोगणैर्योद्धुं न रामं नेतुमर्हसि
१.०१९.००५ अहमेव धनुष्पाणिर्गोप्ता समरमूर्धनि
१.०१९.००५ यावत्प्राणान् धरिष्यामि तावद्योत्स्ये निशाचरैः
१.०१९.००६ निर्विघ्ना व्रतवर्या सा भविष्यति सुरक्षिता
१.०१९.००६ अहं तत्र गमिष्यामिल्न राम नेतुमर्हसि
१.०१९.००७ बालो ह्यकृतविद्यश्च न च वेत्ति बलाबलम्
१.०१९.००७ न चास्त्रबलसंयुक्तो न च युद्धविशारदः
१.०१९.००७ न चासौ रक्षसां योग्यः कूटयुद्धा हि ते ध्रुवम्
१.०१९.००८ विप्रयुक्तो हि रामेण मुहूर्तमपि नोत्सहे
१.०१९.००८ जीवितुं मुनिशार्दूल न रामं नेतुमर्हसि
१.०१९.००९ यदि वा राघवं ब्रह्मन्नेतुमिच्छसि सुव्रत
१.०१९.००९ चतुरङ्गसमायुक्तं मया सह च तं नय
१.०१९.०१० षष्टिर्वर्षसहस्राणि जातस्य मम कौशिकः
१.०१९.०१० दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि
१.०१९.०११ चतुर्णामात्मजानां हि प्रीतिः परमिका मम
१.०१९.०११ ज्येष्ठं धर्मप्रधानं च न रामं नेतुमर्हसि
१.०१९.०१२ किं वीर्या राक्षसास्ते च कस्य पुत्राश्च के च ते
१.०१९.०१२ कथं प्रमाणाः के चैतान् रक्षन्ति मुनिपुंगव
१.०१९.०१३ कथं च प्रतिकर्तव्यं तेषां रामेण रक्षसाम्
१.०१९.०१३ मामकैर्वा बलैर्ब्रह्मन्मया वा कूटयोधिनाम्
१.०१९.०१४ सर्वं मे शंस भगवन् कथं तेषां मया रणे
१.०१९.०१४ स्थातव्यं दुष्टभावानां वीर्योत्सिक्ता हि राक्षसाः
१.०१९.०१५ तस्य तद्वचनं श्रुत्वा विश्वामित्रोऽभ्यभाषत
१.०१९.०१५ पौलस्त्यवंशप्रभवो रावणो नाम राक्षसः
१.०१९.०१६ स ब्रह्मणा दत्तवरस्त्रैलोक्यं बाधते भृशम्
१.०१९.०१६ महाबलो महावीर्यो राक्षसैर्बहुभिर्वृतः
१.०१९.०१७ श्रूयते हि महावीर्यो रावणो राक्षसाधिपः
१.०१९.०१७ साक्षाद्वैश्रवणभ्राता पुत्रो विश्वरसो मुनेः
१.०१९.०१८ यदा स्वयं न यज्ञस्य विघ्नकर्ता महाबलः
१.०१९.०१८ तेन संचोदितौ तौ तु राक्षसौ सुमहा बलौ
१.०१९.०१८ मारीचश्च सुबाहुश्च यज्ञविघ्नं करिष्यतः
१.०१९.०१९ इत्युक्तो मुनिना तेन राजोवाच मुनिं तदा
१.०१९.०१९ न हि शक्तोऽस्मि संग्रामे स्थातुं तस्य दुरात्मनः
१.०१९.०२० स त्वं प्रसादं धर्मज्ञ कुरुष्व मम पुत्रके
१.०१९.०२० देवदानवगन्धर्वा यक्षाः पतग पन्नगाः
१.०१९.०२१ न शक्ता रावणं सोढुं किं पुनर्मानवा युधि
१.०१९.०२१ स हि वीर्यवतां वीर्यमादत्ते युधि राक्षसः
१.०१९.०२२ तेन चाहं न शक्तोऽस्मि संयोद्धुं तस्य वा बलैः
१.०१९.०२२ सबलो वा मुनिश्रेष्ठ सहितो वा ममात्मजैः
१.०१९.०२३ कथमप्यमरप्रख्यं संग्रामाणामकोविदम्
१.०१९.०२३ बालं मे तनयं ब्रह्मन्नैव दास्यामि पुत्रकम्
१.०१९.०२४ अथ कालोपमौ युद्धे सुतौ सुन्दोपसुन्दयोः
१.०१९.०२४ यज्ञविघ्नकरौ तौ ते नैव दास्यामि पुत्रकम्
१.०१९.०२५ मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ
१.०१९.०२५ तयोरन्यतरेणाहं योद्धा स्यां ससुहृद्गणः
१.०२०.००१ तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम्
१.०२०.००१ समन्युः कौशिको वाक्यं प्रत्युवच महीपतिम्
१.०२०.००२ पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि
१.०२०.००२ रागवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः
१.०२०.००३ यदिदं ते क्षमं राजन् गमिष्यामि यथागतम्
१.०२०.००३ मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सबान्धवः
१.०२०.००४ तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः
१.०२०.००४ चचाल वसुधा कृत्स्ना विवेश च भयं सुरान्
१.०२०.००५ त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः
१.०२०.००५ नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत्
१.०२०.००६ इक्ष्वाकूणां कुले जातः साक्षाद्धर्म इवापरः
१.०२०.००६ धृतिमान्सुव्रतः श्रीमान्न धर्मं हातुमर्हसि
१.०२०.००७ त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः
१.०२०.००७ स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि
१.०२०.००८ संश्रुत्यैवं करिष्यामीत्यकुर्वाणस्य राघव
१.०२०.००८ इष्टापूर्तवधो भूयात्तस्माद्रामं विसर्जय
१.०२०.००९ कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः
१.०२०.००९ गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा
१.०२०.०१० एष विग्रहवान् धर्म एष वीर्यवतां वरः
१.०२०.०१० एष बुद्ध्याधिको लोके तपसश्च परायणम्
१.०२०.०११ एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे
१.०२०.०११ नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति के चन
१.०२०.०१२ न देवा नर्षयः के चिन्नासुरा न च राक्षसाः
१.०२०.०१२ गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः
१.०२०.०१३ सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः
१.०२०.०१३ कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति
१.०२०.०१४ तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः
१.०२०.०१४ नकरूपा महावीर्या दीप्तिमन्तो जयावहाः
१.०२०.०१५ जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे
१.०२०.०१५ ते सुवातेऽस्त्रशस्त्राणि शतं परम भास्वरम्
१.०२०.०१६ पञ्चाशतं सुतांल्लेभे जया नाम वरान् पुरा
१.०२०.०१६ वधायासुरसैन्यानाममेयान् कामरूपिणः
१.०२०.०१७ सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः
१.०२०.०१७ संहारान्नाम दुर्धर्षान् दुराक्रामान् बलीयसः
१.०२०.०१८ तानि चास्त्राणि वेत्त्येष यथावत्कुशिकात्मजः
१.०२०.०१८ अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित्
१.०२०.०१९ एवं वीर्यो महातेजा विश्वामित्रो महातपाः
१.०२०.०१९ न रामगमने राजन् संशयं गन्तुमर्हसि
१.०२१.००१ तथा वसिष्ठे ब्रुवति राजा दशरथः सुतम्
१.०२१.००१ प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम्
१.०२१.००२ कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च
१.०२१.००२ पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम्
१.०२१.००३ स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरथः प्रियम्
१.०२१.००३ ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना
१.०२१.००४ ततो वायुः सुखस्पर्शो विरजस्को ववौ तदा
१.०२१.००४ विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम्
१.०२१.००५ पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनः
१.०२१.००५ शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि
१.०२१.००६ विश्वामित्रो ययावग्रे ततो रामो महायशाः
१.०२१.००६ काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात्
१.०२१.००७ कलापिनौ धनुष्पाणी शोभयानौ दिशो दश
१.०२१.००७ विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ
१.०२१.००७ अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ
१.०२१.००८ बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती
१.०२१.००८ स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी
१.०२१.००९ अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे
१.०२१.००९ रामेति मधुरा वाणीं विश्वामित्रोऽभ्यभाषत
१.०२१.०१० गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः
१.०२१.०१० मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा
१.०२१.०११ न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः
१.०२१.०११ न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैरृताः
१.०२१.०१२ न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन
१.०२१.०१२ त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव
१.०२१.०१३ न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये
१.०२१.०१३ नोत्तरे प्रतिपत्तव्यो समो लोके तवानघ
१.०२१.०१४ एतद्विद्याद्वये लब्धे भविता नास्ति ते समः
१.०२१.०१४ बला चातिबला चैव सर्वज्ञानस्य मातरौ
१.०२१.०१५ क्षुत्पिपासे न ते राम भविष्येते नरोत्तम
१.०२१.०१५ बलामतिबलां चैव पठतः पथि राघव
१.०२१.०१५ विद्याद्वयमधीयाने यशश्चाप्यतुलं भुवि
१.०२१.०१६ पितामहसुते ह्येते विद्ये तेजःसमन्विते
१.०२१.०१६ प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि धार्मिक
१.०२१.०१७ कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः
१.०२१.०१७ तपसा संभृते चैते बहुरूपे भविष्यतः
१.०२१.०१८ ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः
१.०२१.०१८ प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः
१.०२१.०१८ विद्यासमुदितो रामः शुशुभे भूरिविक्रमः
१.०२१.०१९ गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे
१.०२१.०१९ ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः
१.०२२.००१ प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः
१.०२२.००१ अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे
१.०२२.००२ कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते
१.०२२.००२ उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम्
१.०२२.००३ तस्यर्षेः परमोदारं वचः श्रुत्वा नृपात्मजौ
१.०२२.००३ स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम्
१.०२२.००४ कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम्
१.०२२.००४ अभिवाद्याभिसंहृष्टौ गमनायोपतस्थतुः
१.०२२.००५ तौ प्रयाते महावीर्यौ दिव्यं त्रिपथगां नदीम्
१.०२२.००५ ददृशाते ततस्तत्र सरय्वाः संगमे शुभे
१.०२२.००६ तत्राश्रमपदं पुण्यमृषीणामुग्रतेजसाम्
१.०२२.००६ बहुवर्षसहस्राणि तप्यतां परमं तपः
१.०२२.००७ तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम्
१.०२२.००७ ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः
१.०२२.००८ कस्यायमाश्रमः पुण्यः को न्वस्मिन् वसते पुमान्
१.०२२.००८ भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ
१.०२२.००९ तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुंगवः
१.०२२.००९ अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः
१.०२२.०१० कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः
१.०२२.०११ तपस्यन्तमिह स्थाणुं नियमेन समाहितम्
१.०२२.०११ कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम्
१.०२२.०११ धर्षयामास दुर्मेधा हुंकृतश्च महात्मना
१.०२२.०१२ दग्धस्य तस्य रौद्रेण चक्षुषा रघुनन्दन
१.०२२.०१२ व्यशीर्यन्त शरीरात्स्वात्सर्वगात्राणि दुर्मतेः
१.०२२.०१३ तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना
१.०२२.०१३ अशरीरः कृतः कामः क्रोधाद्देवेश्वरेण ह
१.०२२.०१४ अनङ्ग इति विख्यातस्तदा प्रभृति राघव
१.०२२.०१४ स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह
१.०२२.०१५ तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा
१.०२२.०१५ शिष्या धर्मपरा वीर तेषां पापं न विद्यते
१.०२२.०१६ इहाद्य रजनीं राम वसेम शुभदर्शन
१.०२२.०१६ पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम्
१.०२२.०१७ तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा
१.०२२.०१७ विज्ञाय परमप्रीता मुनयो हर्षमागमन्
१.०२२.०१८ अर्घ्यं पाद्यं तथातिथ्यं निवेद्यकुशिकात्मजे
१.०२२.०१८ रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम्
१.०२२.०१९ सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन्
१.०२२.०१९ न्यवसन् सुसुखं तत्र कामाश्रमपदे तदा
१.०२३.००१ ततः प्रभाते विमले कृताह्निकमरिंदमौ
१.०२३.००१ विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ
१.०२३.००२ ते च सर्वे महात्मानो मुनयः संशितव्रताः
१.०२३.००२ उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन्
१.०२३.००३ आरोहतु भवान्नावं राजपुत्रपुरस्कृतः
१.०२३.००३ अरिष्टं गच्छ पन्थानं मा भूत्कालस्य पर्ययः
१.०२३.००४ विश्वामित्रस्तथेत्युक्त्वा तानृषीनभिपूज्य च
१.०२३.००४ ततार सहितस्ताभ्यां सरितं सागरं गमाम्
१.०२३.००५ अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम्
१.०२३.००५ वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः
१.०२३.००६ राघवस्य वचः श्रुत्वा कौतूहल समन्वितम्
१.०२३.००६ कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम्
१.०२३.००७ कैलासपर्वते राम मनसा निर्मितं सरः
१.०२३.००७ ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः
१.०२३.००८ तस्मात्सुस्राव सरसः सायोध्यामुपगूहते
१.०२३.००८ सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता
१.०२३.००९ तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते
१.०२३.००९ वारिसंक्षोभजो राम प्रणामं नियतः कुरु
१.०२३.०१० ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ
१.०२३.०१० तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ
१.०२३.०११ स वनं घोरसंकाशं दृष्ट्वा नृपवरात्मजः
१.०२३.०११ अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुंगवम्
१.०२३.०१२ अहो वनमिदं दुर्गं झिल्लिकागणनादितम्
१.०२३.०१२ भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः
१.०२३.०१३ नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः
१.०२३.०१३ सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम्
१.०२३.०१४ धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः
१.०२३.०१४ संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम्
१.०२३.०१५ तमुवाच महातेजा विश्वामित्रो महामुनिः
१.०२३.०१५ श्रूयतां वत्स काकुत्स्थ यस्यैतद्दारुणं वनम्
१.०२३.०१६ एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम
१.०२३.०१६ मलदाश्च करूषाश्च देवनिर्माण निर्मितौ
१.०२३.०१७ पुरा वृत्रवधे राम मलेन समभिप्लुतम्
१.०२३.०१७ क्षुधा चैव सहस्राक्षं ब्रह्महत्या यदाविशत्
१.०२३.०१८ तमिन्द्रं स्नापयन् देवा ऋषयश्च तपोधनाः
१.०२३.०१८ कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन्
१.०२३.०१९ इह भूम्यां मलं दत्त्वा दत्त्वा कारुषमेव च
१.०२३.०१९ शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे
१.०२३.०२० निर्मलो निष्करूषश्च शुचिरिन्द्रो यदाभवत्
१.०२३.०२० ददौ देशस्य सुप्रीतो वरं प्रभुरनुत्तमम्
१.०२३.०२१ इमौ जनपदौ स्थीतौ ख्यातिं लोके गमिष्यतः
१.०२३.०२१ मलदाश्च करूषाश्च ममाङ्गमलधारिणौ
१.०२३.०२२ साधु साध्विति तं देवाः पाकशासनमब्रुवन्
१.०२३.०२२ देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता
१.०२३.०२३ एतौ जनपदौ स्थीतौ दीर्घकालमरिंदम
१.०२३.०२३ मलदाश्च करूषाश्च मुदितौ धनधान्यतः
१.०२३.०२४ कस्य चित्त्वथ कालस्य यक्षी वै कामरूपिणी
१.०२३.०२४ बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्
१.०२३.०२५ ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः
१.०२३.०२५ मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः
१.०२३.०२६ इमौ जनपदौ नित्यं विनाशयति राघव
१.०२३.०२६ मलदांश्च करूषांश्च ताटका दुष्टचारिणी
१.०२३.०२७ सेयं पन्थानमावार्य वसत्यत्यर्धयोजने
१.०२३.०२७ अत एव च गन्तव्यं ताटकाया वनं यतः
१.०२३.०२८ स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम्
१.०२३.०२८ मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः
१.०२३.०२९ न हि कश्चिदिमं देशं शक्रोत्यागन्तुमीदृशम्
१.०२३.०२९ यक्षिण्या घोरया राम उत्सादितमसह्यया
१.०२३.०३० एतत्ते सर्वमाख्यातं यथैतद्दरुणं वनम्
१.०२३.०३० यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते
१.०२४.००१ अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्
१.०२४.००१ श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम्
१.०२४.००२ अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव
१.०२४.००२ कथं नागसहस्रस्य धारयत्यबला बलम्
१.०२४.००३ विश्वामित्रोऽब्रवीद्वाक्यं शृणु येन बलोत्तरा
१.०२४.००३ वरदानकृतं वीर्यं धारयत्यबला बलम्
१.०२४.००४ पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान्
१.०२४.००४ अनपत्यः शुभाचारः स च तेपे महत्तपः
१.०२४.००५ पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा
१.०२४.००५ कन्यारत्नं ददौ राम ताटकां नाम नामतः
१.०२४.००६ ददौ नागसहस्रस्य बलं चास्याः पितामहः
१.०२४.००६ न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः
१.०२४.००७ तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम्
१.०२४.००७ जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम्
१.०२४.००८ कस्य चित्त्वथ कालल्स्य यक्षी पुत्रं व्यजायत
१.०२४.००८ मारीचं नाम दुर्धर्षं यः शापाद्राक्षसोऽभवत्
१.०२४.००९ सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम्
१.०२४.००९ ताटका सह पुत्रेण प्रधर्षयितुमिच्छति
१.०२४.०१० राक्षसत्वं भजस्वेति मारीचं व्याजहार सः
१.०२४.०१० अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान्
१.०२४.०११ पुरुषादी महायक्षी विरूपा विकृतानना
१.०२४.०११ इदं रूपमपहाय दारुणं रूपमस्तु ते
१.०२४.०१२ सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता
१.०२४.०१२ देशमुत्सादयत्येनमगस्त्यचरितं शुभम्
१.०२४.०१३ एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम्
१.०२४.०१३ गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम्
१.०२४.०१४ न ह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान्
१.०२४.०१४ निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन
१.०२४.०१५ न हि ते स्त्रीवधकृते घृणा कार्या नरोत्तम
१.०२४.०१५ चातुर्वर्ण्यहितार्थाय कर्तव्यं राजसूनुना
१.०२४.०१६ राज्यभारनियुक्तानामेष धर्मः सनातनः
१.०२४.०१६ अधर्म्यां जहि काकुत्स्ह धर्मो ह्यस्या न विद्यते
१.०२४.०१७ श्रूयते हि पुरा शक्रो विरोचनसुतां नृप
१.०२४.०१७ पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत्
१.०२४.०१८ विष्णुना च पुरा राम भृगुपत्नी दृढव्रता
१.०२४.०१८ अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता
१.०२४.०१९ एतैश्चान्यैश्च बहुभी राजपुत्रमहात्मभिः
१.०२४.०१९ अधर्मनिरता नार्यो हताः पुरुषसत्तमैः
१.०२५.००१ मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः
१.०२५.००१ राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः
१.०२५.००२ पितुर्वचननिर्देशात्पितुर्वचनगौरवात्
१.०२५.००२ वचनं कौशिकस्येति कर्तव्यमविशङ्कया
१.०२५.००३ अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना
१.०२५.००३ पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः
१.०२५.००४ सोऽहं पितुर्वचः श्रुत्वा शासनाद्ब्रह्म वादिनः
१.०२५.००४ करिष्यामि न संदेहस्ताटकावधमुत्तमम्
१.०२५.००५ गोब्राह्मणहितार्थाय देशस्यास्य सुखाय च
१.०२५.००५ तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः
१.०२५.००६ एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिंदमः
१.०२५.००६ ज्याशब्दमकरोत्तीव्रं दिशः शब्देन पूरयन्
१.०२५.००७ तेन शब्देन वित्रस्तास्ताटका वनवासिनः
१.०२५.००७ ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता
१.०२५.००८ तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता
१.०२५.००८ श्रुत्वा चाभ्यद्रवद्वेगाद्यतः शब्दो विनिःसृतः
१.०२५.००९ तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम्
१.०२५.००९ प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत
१.०२५.०१० पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः
१.०२५.०१० भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च
१.०२५.०११ एनां पश्य दुराधर्षां माया बलसमन्विताम्
१.०२५.०११ विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम्
१.०२५.०१२ न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम्
१.०२५.०१२ वीर्यं चास्या गतिं चापि हनिष्यामीति मे मतिः
१.०२५.०१३ एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता
१.०२५.०१३ उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत
१.०२५.०१४ तामापतन्तीं वेगेन विक्रान्तामशनीमिव
१.०२५.०१४ शरेणोरसि विव्याध सा पपात ममार च
१.०२५.०१५ तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा
१.०२५.०१५ साधु साध्विति काकुत्स्थं सुराश्च समपूजयन्
१.०२५.०१६ उवाच परमप्रीतः सहस्राक्षः पुरंदरः
१.०२५.०१६ सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन्
१.०२५.०१७ मुने कौशिके भद्रं ते सेन्द्राः सर्वे मरुद्गणाः
१.०२५.०१७ तोषिताः कर्मणानेन स्नेहं दर्शय राघवे
१.०२५.०१८ प्रजापतेर्भृशाश्वस्य पुत्रान् सत्यपराक्रमान्
१.०२५.०१८ तपोबलभृतान् ब्रह्मन् राघवाय निवेदय
१.०२५.०१९ पात्रभूतश्च ते ब्रह्मंस्तवानुगमने धृतः
१.०२५.०१९ कर्तव्यं च महत्कर्म सुराणां राजसूनुना
१.०२५.०२० एवमुक्त्वा सुराः सर्वे हृष्टा जग्मुर्यथागतम्
१.०२५.०२० विश्वामित्रं पूजयित्वा ततः संध्या प्रवर्तते
१.०२५.०२१ ततो मुनिवरः प्रीतिस्ताटका वधतोषितः
१.०२५.०२१ मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत्
१.०२५.०२२ इहाद्य रजनीं राम वसेम शुभदर्शन
१.०२५.०२२ श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम
१.०२६.००१ अथ तां रजनीमुष्य विश्वामिरो महायशाः
१.०२६.००१ प्रहस्य राघवं वाक्यमुवाच मधुराक्षरम्
१.०२६.००२ पतितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः
१.०२६.००२ प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः
१.०२६.००३ देवासुरगणान् वापि सगन्धर्वोरगानपि
१.०२६.००३ यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि
१.०२६.००४ तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः
१.०२६.००४ दण्डचक्रं महद्दिव्यं तव दास्यामि राघव
१.०२६.००५ धर्मचक्रं ततो वीर कालचक्रं तथैव च
१.०२६.००५ विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च
१.०२६.००६ वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा
१.०२६.००६ अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव
१.०२६.००७ ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम्
१.०२६.००७ गदे द्वे चैव काकुत्स्थ मोदकी शिखरी उभे
१.०२६.००८ प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज
१.०२६.००८ धर्मपाशमहं राम कालपाशं तथैव च
१.०२६.००९ वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम्
१.०२६.००९ अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन
१.०२६.०१० ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा
१.०२६.०१० आग्नेयमस्त्र दयितं शिखरं नाम नामतः
१.०२६.०११ वायव्यं प्रथमं नाम ददामि तव राघव
१.०२६.०११ अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च
१.०२६.०१२ शक्ति द्वयं च काकुत्स्थ ददामि तव चानघ
१.०२६.०१२ कङ्कालं मुसलं घोरं कापालमथ कङ्कणम्
१.०२६.०१३ धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः
१.०२६.०१३ वैद्याधरं महास्त्रं च नन्दनं नाम नामतः
१.०२६.०१४ असिरत्नं महाबाहो ददामि नृवरात्मज
१.०२६.०१४ गान्धर्वमस्त्रं दयितं मानवं नाम नामतः
१.०२६.०१५ प्रस्वापनप्रशमने दद्मि सौरं च राघव
१.०२६.०१५ दर्पणं शोषणं चैव संतापनविलापने
१.०२६.०१६ मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा
१.०२६.०१६ पैशाचमस्त्रं दयितं मोहनं नाम नामतः
१.०२६.०१६ प्रतीच्छ नरशार्दूल राजपुत्र महायशः
१.०२६.०१७ तामसं नरशार्दूल सौमनं च महाबलम्
१.०२६.०१७ संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज
१.०२६.०१८ सत्यमस्त्रं महाबाहो तथा मायाधरं परम्
१.०२६.०१८ घोरं तेजःप्रभं नाम परतेजोऽपकर्षणम्
१.०२६.०१९ सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदामनम्
१.०२६.०१९ दारुणं च भगस्यापि शीतेषुमथ मानवम्
१.०२६.०२० एतान्नाम महाबाहो कामरूपान्महाबलान्
१.०२६.०२० गृहाण परमोदारान् क्षिप्रमेव नृपात्मज
१.०२६.०२१ स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्निवरतस्तदा
१.०२६.०२१ ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम्
१.०२६.०२२ जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः
१.०२६.०२२ उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम्
१.०२६.०२३ ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा
१.०२६.०२३ इमे स्म परमोदार किंकरास्तव राघव
१.०२६.०२४ प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना
१.०२६.०२४ मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत्
१.०२६.०२५ ततः प्रीतमना रामो विश्वामित्रं महामुनिम्
१.०२६.०२५ अभिवाद्य महातेजा गमनायोपचक्रमे
१.०२७.००१ प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः
१.०२७.००१ गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत्
१.०२७.००२ गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि
१.०२७.००२ अस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव
१.०२७.००३ एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः
१.०२७.००३ संहारं व्याजहाराथ धृतिमान् सुव्रतः शुचिः
१.०२७.००४ सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च
१.०२७.००४ प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम्
१.०२७.००५ लक्षाक्षविषमौ चैव दृढनाभसुनाभकौ
१.०२७.००५ दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ
१.०२७.००६ पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ
१.०२७.००६ ज्योतिषं कृशनं चैव नैराश्य विमलावुभौ
१.०२७.००७ यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा
१.०२७.००७ पित्र्यं सौमनसं चैव विधूतमकरावुभौ
१.०२७.००८ करवीरकरं चैव धनधान्यौ च राघव
१.०२७.००८ कामरूपं कामरुचिं मोहमावरणं तथा
१.०२७.००९ जृम्भकं सर्वनाभं च सन्तानवरणौ तथा
१.०२७.००९ भृशाश्वतनयान् राम भास्वरान् कामरूपिणः
१.०२७.०१० प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव
१.०२७.०१० दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः
१.०२७.०११ रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणः
१.०२७.०११ इमे स्म नरशार्दूल शाधि किं करवाम ते
१.०२७.०१२ गम्यतामिति तानाह यथेष्टं रघुनन्दनः
१.०२७.०१२ मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ
१.०२७.०१३ अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम्
१.०२७.०१३ एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम्
१.०२७.०१४ स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्
१.०२७.०१४ गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्
१.०२७.०१५ किं न्वेतन्मेघसंकाशं पर्वतस्याविदूरतः
१.०२७.०१५ वृक्षषण्डमितो भाति परं कौतूहलं हि मे
१.०२७.०१६ दर्शनीयं मृगाकीर्णं मनोहरमतीव च
१.०२७.०१६ नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम्
१.०२७.०१७ निःसृताः स्म मुनिश्रेष्ठ कान्ताराद्रोमहर्षणात्
१.०२७.०१७ अनया त्ववगच्छामि देशस्य सुखवत्तया
१.०२७.०१८ सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम्
१.०२७.०१८ संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः
१.०२८.००१ अथ तस्याप्रमेयस्य तद्वनं परिपृच्छतः
१.०२८.००१ विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे
१.०२८.००२ एष पूर्वाश्रमो राम वामनस्य महात्मनः
१.०२८.००२ सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः
१.०२८.००३ एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः
१.०२८.००३ निर्जित्य दैवतगणान् सेन्द्रांश्च समरुद्गणान्
१.०२८.००३ कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः
१.०२८.००४ बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः
१.०२८.००४ समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे
१.०२८.००५ बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम्
१.०२८.००५ असमाप्ते क्रतौ तस्मिन् स्वकार्यमभिपद्यताम्
१.०२८.००६ ये चैनमभिवर्तन्ते याचितार इतस्ततः
१.०२८.००६ यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति
१.०२८.००७ स त्वं सुरहितार्थाय मायायोगमुपाश्रितः
१.०२८.००७ वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम्
१.०२८.००८ अयं सिद्धाश्रमो नाम प्रसादात्ते भविष्यति
१.०२८.००८ सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः
१.०२८.००९ अथ विष्णुर्महातेजा अदित्यां समजायत
१.०२८.००९ वामनं रूपमास्थाय वैरोचनिमुपागमत्
१.०२८.०१० त्रीन् क्रमानथ भिक्षित्वा प्रतिगृह्य च मानतः
१.०२८.०१० आक्रम्य लोकांल्लोकात्मा सर्वभूतहिते रतः
१.०२८.०११ महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा
१.०२८.०११ त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः
१.०२८.०१२ तेनैष पूर्वमाक्रान्त आश्रमः श्रमनाशनः
१.०२८.०१२ मयापि भक्त्या तस्यैष वामनस्योपभुज्यते
१.०२८.०१३ एतमाश्रममायान्ति राक्षसा विघ्नकारिणः
१.०२८.०१३ अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः
१.०२८.०१४ अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्
१.०२८.०१४ तदाश्रमपदं तात तवाप्येतद्यथा मम
१.०२८.०१५ तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः
१.०२८.०१५ उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन्
१.०२८.०१६ यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते
१.०२८.०१६ तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम्
१.०२८.०१७ मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ
१.०२८.०१७ प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ
१.०२८.०१८ अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुंगव
१.०२८.०१८ सिद्धाश्रमोऽयं सिद्धः स्यात्सत्यमस्तु वचस्तव
१.०२८.०१९ एवमुक्तो महातेजा विश्वामित्रो महामुनिः
१.०२८.०१९ प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः
१.०२८.०२० कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ
१.०२८.०२० प्रभातकाले चोत्थाय विश्वामित्रमवन्दताम्
१.०२९.००१ अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ
१.०२९.००१ देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः
१.०२९.००२ भगवञ्श्रोतुमिच्छावो यस्मिन् काले निशाचरौ
१.०२९.००२ संरक्षणीयौ तौ ब्रह्मन्नातिवर्तेत तत्क्षणम्
१.०२९.००३ एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया
१.०२९.००३ सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ
१.०२९.००४ अद्य प्रभृति षड्रात्रं रक्षतं राघवौ युवाम्
१.०२९.००४ दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति
१.०२९.००५ तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ
१.०२९.००५ अनिद्रौ षडहोरात्रं तपोवनमरक्षताम्
१.०२९.००६ उपासां चक्रतुर्वीरौ यत्तौ परमधन्विनौ
१.०२९.००६ ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ
१.०२९.००७ अथ काले गते तस्मिन् षष्ठेऽहनि समागते
१.०२९.००७ सौमित्रमब्रवीद्रामो यत्तो भव समाहितः
१.०२९.००८ रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया
१.०२९.००८ प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता
१.०२९.००९ मन्त्रवच्च यथान्यायं यज्ञोऽसौ संप्रवर्तते
१.०२९.००९ आकाशे च महाञ्शब्दः प्रादुरासीद्भयानकः
१.०२९.०१० आवार्य गगनं मेघो यथा प्रावृषि निर्गतः
१.०२९.०१० तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम्
१.०२९.०११ मारीचश्च सुबाहुश्च तयोरनुचरास्तथा
१.०२९.०११ आगम्य भीमसंकाशा रुधिरौघानवासृजन्
१.०२९.०१२ तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः
१.०२९.०१२ लक्ष्मणं त्वभिसंप्रेक्ष्य रामो वचनमब्रवीत्
१.०२९.०१३ पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान्
१.०२९.०१३ मानवास्त्रसमाधूताननिलेन यथाघनान्
१.०२९.०१४ मानवं परमोदारमस्त्रं परमभास्वरम्
१.०२९.०१४ चिक्षेप परमक्रुद्धो मारीचोरसि राघवः
१.०२९.०१५ स तेन परमास्त्रेण मानवेन समाहितः
१.०२९.०१५ संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे
१.०२९.०१६ विचेतनं विघूर्णन्तं शीतेषुबलपीडितम्
१.०२९.०१६ निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत्
१.०२९.०१७ पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम्
१.०२९.०१७ मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते
१.०२९.०१८ इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः
१.०२९.०१८ राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान्
१.०२९.०१९ विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः
१.०२९.०१९ सुबाहुरसि चिक्षेप स विद्धः प्रापतद्भुवि
१.०२९.०२० शेषान् वायव्यमादाय निजघान महायशाः
१.०२९.०२० राघवः परमोदारो मुनीनां मुदमावहन्
१.०२९.०२१ स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः
१.०२९.०२१ ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा
१.०२९.०२२ अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः
१.०२९.०२२ निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत्
१.०२९.०२३ कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया
१.०२९.०२३ सिद्धाश्रममिदं सत्यं कृतं राम महायशः
१.०३०.००१ अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ
१.०३०.००१ ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना
१.०३०.००२ प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ
१.०३०.००२ विश्वामित्रमृषींश्चान्यान् सहितावभिजग्मतुः
१.०३०.००३ अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्
१.०३०.००३ ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ
१.०३०.००४ इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ
१.०३०.००४ आज्ञापय यथेष्टं वै शासनं करवाव किम्
१.०३०.००५ एवमुक्ते ततस्ताभ्यां सर्व एव महर्षयः
१.०३०.००५ विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन्
१.०३०.००६ मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति
१.०३०.००६ यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम्
१.०३०.००७ त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि
१.०३०.००७ अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि
१.०३०.००८ तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः
१.०३०.००८ अप्रमेयबलं घोरं मखे परमभास्वरम्
१.०३०.००९ नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः
१.०३०.००९ कर्तुमारोपणं शक्ता न कथं चन मानुषाः
१.०३०.०१० धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः
१.०३०.०१० न शेकुरारोपयितुं राजपुत्रा महाबलाः
१.०३०.०११ तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः
१.०३०.०११ तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम्
१.०३०.०१२ तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः
१.०३०.०१२ याचितं नरशार्दूल सुनाभं सर्वदैवतैः
१.०३०.०१३ एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा
१.०३०.०१३ सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः
१.०३०.०१४ स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम्
१.०३०.०१४ उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्
१.०३०.०१५ प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम्
१.०३०.०१५ उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे
१.०३०.०१६ तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम्
१.०३०.०१६ शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम्
१.०३०.०१७ मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः
१.०३०.०१७ अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम्
१.०३०.०१८ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे
१.०३०.०१८ वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः
१.०३०.०१९ तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः
१.०३०.०१९ विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः
१.०३०.०२० रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च
१.०३०.०२० अग्रतो निषसादाथ विश्वामित्रस्य धीमतः
१.०३०.०२१ अथ रामो महातेजा विश्वामित्रं महामुनिम्
१.०३०.०२१ पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः
१.०३०.०२२ भगवन् को न्वयं देशः समृद्धवनशोभितः
१.०३०.०२२ श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः
१.०३०.०२३ चोदितो रामवाक्येन कथयामास सुव्रतः
१.०३०.०२३ तस्य देशस्य निखिलमृषिमध्ये महातपाः
१.०३१.००१ ब्रह्मयोनिर्महानासीत्कुशो नाम महातपाः
१.०३१.००१ वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान्
१.०३१.००२ कुशाम्बं कुशनाभं च आधूर्त रजसं वसुम्
१.०३१.००२ दीप्तियुक्तान्महोत्साहान् क्षत्रधर्मचिकीर्षया
१.०३१.००२ तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः
१.०३१.००३ कुशस्य वचनं श्रुत्वा चत्वारो लोकसंमताः
१.०३१.००३ निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा
१.०३१.००४ कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत्पुरीम्
१.०३१.००४ कुशनाभस्तु धर्मात्मा परं चक्रे महोदयम्
१.०३१.००५ आधूर्तरजसो राम धर्मारण्यं महीपतिः
१.०३१.००५ चक्रे पुरवरं राजा वसुश्चक्रे गिरिव्रजम्
१.०३१.००६ एषा वसुमती राम वसोस्तस्य महात्मनः
१.०३१.००६ एते शैलवराः पञ्च प्रकाशन्ते समन्ततः
१.०३१.००७ सुमागधी नदी रम्या मागधान् विश्रुताययौ
१.०३१.००७ पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते
१.०३१.००८ सैषा हि मागधी राम वसोस्तस्य महात्मनः
१.०३१.००८ पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी
१.०३१.००९ कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम्
१.०३१.००९ जनयामास धर्मात्मा घृताच्यां रघुनन्दन
१.०३१.०१० तास्तु यौवनशालिन्यो रूपवत्यः स्वलंकृताः
१.०३१.०१० उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः
१.०३१.०११ गायन्त्यो नृत्यमानाश्च वादयन्त्यश्च राघव
१.०३१.०११ आमोदं परमं जग्मुर्वराभरणभूषिताः
१.०३१.०१२ अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि
१.०३१.०१२ उद्यानभूमिमागम्य तारा इव घनान्तरे
१.०३१.०१३ ताः सर्वगुणसंपन्ना रूपयौवनसंयुताः
१.०३१.०१३ दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत्
१.०३१.०१४ अहं वः कामये सर्वा भार्या मम भविष्यथ
१.०३१.०१४ मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ
१.०३१.०१५ तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः
१.०३१.०१५ अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत्
१.०३१.०१६ अन्तश्चरसि भूतानां सर्वेषां त्वं सुरोत्तम
१.०३१.०१६ प्रभावज्ञाश्च ते सर्वाः किमस्मानवमन्यसे
१.०३१.०१७ कुशनाभसुताः सर्वाः समर्थास्त्वां सुरोत्तम
१.०३१.०१७ स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम्
१.०३१.०१८ मा भूत्स कालो दुर्मेधः पितरं सत्यवादिनम्
१.०३१.०१८ नावमन्यस्व धर्मेण स्वयंवरमुपास्महे
१.०३१.०१९ पिता हि प्रभुरस्माकं दैवतं परमं हि सः
१.०३१.०१९ यस्य नो दास्यति पिता स नो भर्ता भविष्यति
१.०३१.०२० तासां तद्वचनं श्रुत्वा वायुः परमकोपनः
१.०३१.०२० प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः
१.०३१.०२१ ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम्
१.०३१.०२१ दृष्ट्वा भग्नास्तदा राजा संभ्रान्त इदमब्रवीत्
१.०३१.०२२ किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते
१.०३१.०२२ कुब्जाः केन कृताः सर्वा वेष्टन्त्यो नाभिभाषथ
१.०३२.००१ तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः
१.०३२.००१ शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत
१.०३२.००२ वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति
१.०३२.००२ अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते
१.०३२.००३ पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः
१.०३२.००३ पितरं नो वृणीष्व त्वं यदि नो दास्यते तव
१.०३२.००४ तेन पापानुबन्धेन वचनं न प्रतीच्छता
१.०३२.००४ एवं ब्रुवन्त्यः सर्वाः स्म वायुना निहता भृषम्
१.०३२.००५ तासां तद्वचनं श्रुत्वा राजा परमधार्मिकः
१.०३२.००५ प्रत्युवाच महातेजाः कन्याशतमनुत्तमम्
१.०३२.००६ क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत्कृतम्
१.०३२.००६ ऐकमत्यमुपागम्य कुलं चावेक्षितं मम
१.०३२.००७ अलंकारो हि नारीणां क्षमा तु पुरुषस्य वा
१.०३२.००७ दुष्करं तच्च वः क्षान्तं त्रिदशेषु विशेषतः
१.०३२.००८ यादृशीर्वः क्षमा पुत्र्यः सर्वासामविशेषतः
१.०३२.००८ क्षमा दानं क्षमा यज्ञः क्षमा सत्यं च पुत्रिकाः
१.०३२.००९ क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत्
१.०३२.००९ विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः
१.०३२.०१० मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः
१.०३२.०१० देशे काले प्रदानस्य सदृशे प्रतिपादनम्
१.०३२.०११ एतस्मिन्नेव काले तु चूली नाम महामुनिः
१.०३२.०११ ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत्
१.०३२.०१२ तप्यन्तं तमृषिं तत्र गन्धर्वी पर्युपासते
१.०३२.०१२ सोमदा नाम भद्रं ते ऊर्मिला तनया तदा
१.०३२.०१३ सा च तं प्रणता भूत्वा शुश्रूषणपरायणा
१.०३२.०१३ उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद्गुरुः
१.०३२.०१४ स च तां कालयोगेन प्रोवाच रघुनन्दन
१.०३२.०१४ परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम्
१.०३२.०१५ परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम्
१.०३२.०१५ उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम्
१.०३२.०१६ लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः
१.०३२.०१६ ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम्
१.०३२.०१७ अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्य चित्
१.०३२.०१७ ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम्
१.०३२.०१८ तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ पुत्रमनुत्तमम्
१.०३२.०१८ ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम्
१.०३२.०१९ स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत्तदा
१.०३२.०१९ काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम्
१.०३२.०२० स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः
१.०३२.०२० ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा
१.०३२.०२१ तमाहूय महातेजा ब्रह्मदत्तं महीपतिः
१.०३२.०२१ ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना
१.०३२.०२२ यथाक्रमं ततः पाणिं जग्राह रघुनन्दन
१.०३२.०२२ ब्रह्मदत्तो मही पालस्तासां देवपतिर्यथा
१.०३२.०२३ स्पृष्टमात्रे ततः पाणौ विकुब्जा विगतज्वराः
१.०३२.०२३ युक्ताः परमया लक्ष्म्या बभुः कन्याशतं तदा
१.०३२.०२४ स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः
१.०३२.०२४ बभूव परमप्रीतो हर्षं लेभे पुनः पुनः
१.०३२.०२५ कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिः
१.०३२.०२५ सदारं प्रेषयामास सोपाध्याय गणं तदा
१.०३२.०२६ सोमदापि सुसंहृष्टा पुत्रस्य सदृशीं क्रियाम्
१.०३२.०२६ यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत
१.०३३.००१ कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव
१.०३३.००१ अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत्
१.०३३.००२ इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम्
१.०३३.००२ उवाच परमप्रीतः कुशो ब्रह्मसुतस्तदा
१.०३३.००३ पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः
१.०३३.००३ गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम्
१.०३३.००४ एवमुक्त्वा कुशो राम कुशनाभं महीपतिम्
१.०३३.००४ जगामाकाशमाविश्य ब्रह्मलोकं सनातनम्
१.०३३.००५ कस्य चित्त्वथ कालस्य कुशनाभस्य धीमतः
१.०३३.००५ जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः
१.०३३.००६ स पिता मम काकुत्स्थ गाधिः परमधार्मिकः
१.०३३.००६ कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन
१.०३३.००७ पूर्वजा भगिनी चापि मम राघव सुव्रता
१.०३३.००७ नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता
१.०३३.००८ सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी
१.०३३.००८ कौशिकी परमोदारा सा प्रवृत्ता महानदी
१.०३३.००९ दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता
१.०३३.००९ लोकस्य हितकामार्थं प्रवृत्ता भगिनी मम
१.०३३.०१० ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्
१.०३३.०१० भगिन्याः स्नेहसंयुक्तः कौशिक्या रघुनन्दन
१.०३३.०११ सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता
१.०३३.०११ पतिव्रता महाभागा कौशिकी सरितां वरा
१.०३३.०१२ अहं हि नियमाद्राम हित्वा तां समुपागतः
१.०३३.०१२ सिद्धाश्रममनुप्राप्य सिद्धोऽस्मि तव तेजसा
१.०३३.०१३ एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता
१.०३३.०१३ देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि
१.०३३.०१४ गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम
१.०३३.०१४ निद्रामभ्येहि भद्रं ते मा भूद्विघ्नोऽध्वनीह नः
१.०३३.०१५ निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः
१.०३३.०१५ नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन
१.०३३.०१६ शनैर्वियुज्यते संध्या नभो नेत्रैरिवावृतम्
१.०३३.०१६ नक्षत्रतारागहनं ज्योतिर्भिरवभासते
१.०३३.०१७ उत्तिष्ठति च शीतांशुः शशी लोकतमोनुदः
१.०३३.०१७ ह्लादयन् प्राणिनां लोके मनांसि प्रभया विभो
१.०३३.०१८ नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः
१.०३३.०१८ यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः
१.०३३.०१९ एवमुक्त्वा महातेजा विरराम महामुनिः
१.०३३.०१९ साधु साध्विति तं सर्वे मुनयो ह्यभ्यपूजयन्
१.०३३.०२० रामोऽपि सह सौमित्रिः किं चिदागतविस्मयः
१.०३३.०२० प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते
१.०३४.००१ उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः
१.०३४.००१ निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत
१.०३४.००२ सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते
१.०३४.००२ उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय
१.०३४.००३ तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम्
१.०३४.००३ गमनं रोचयामास वाक्यं चेदमुवाच ह
१.०३४.००४ अयं शोणः शुभजलो गाधः पुलिनमण्डितः
१.०३४.००४ कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम्
१.०३४.००५ एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम्
१.०३४.००५ एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः
१.०३४.००६ ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा
१.०३४.००६ जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम्
१.०३४.००७ तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम्
१.०३४.००७ बभूवुर्मुदिताः सर्वे मुनयः सहराघवाः
१.०३४.००७ तस्यास्तीरे ततश्चक्रुस्ते आवासपरिग्रहम्
१.०३४.००८ ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः
१.०३४.००८ हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः
१.०३४.००९ विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः
१.०३४.००९ विश्वामित्रं महात्मानं परिवार्य समन्ततः
१.०३४.०१० संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत्
१.०३४.०१० भगवञ्श्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम्
१.०३४.०१० त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम्
१.०३४.०११ चोदितो राम वाक्येन विश्वामित्रो महामुनिः
१.०३४.०११ वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे
१.०३४.०१२ शैलेन्द्रो हिमवान्नाम धातूनामाकरो महान्
१.०३४.०१२ तस्य कन्या द्वयं राम रूपेणाप्रतिमं भुवि
१.०३४.०१३ या मेरुदुहिता राम तयोर्माता सुमध्यमा
१.०३४.०१३ नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया
१.०३४.०१४ तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता
१.०३४.०१४ उमा नाम द्वितीयाभूत्कन्या तस्यैव राघव
१.०३४.०१५ अथ ज्येष्ठां सुराः सर्वे देवतार्थचिकीर्षया
१.०३४.०१५ शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम्
१.०३४.०१६ ददौ धर्मेण हिमवांस्तनयां लोकपावनीम्
१.०३४.०१६ स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया
१.०३४.०१७ प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकारिणः
१.०३४.०१७ गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना
१.०३४.०१८ या चान्या शैलदुहिता कन्यासीद्रघुनन्दन
१.०३४.०१८ उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना
१.०३४.०१९ उग्रेण तपसा युक्तां ददौ शैलवरः सुताम्
१.०३४.०१९ रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम्
१.०३४.०२० एते ते शैल राजस्य सुते लोकनमस्कृते
१.०३४.०२० गङ्गा च सरितां श्रेष्ठा उमा देवी च राघव
१.०३४.०२१ एतत्ते धर्ममाख्यातं यथा त्रिपथगा नदी
१.०३४.०२१ खं गता प्रथमं तात गतिं गतिमतां वर
१.०३५.००१ उक्त वाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ
१.०३५.००१ प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुंगवम्
१.०३५.००२ धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया
१.०३५.००२ दुहितुः शैलराजस्य ज्येष्ठाय वक्तुमर्हसि
१.०३५.००३ विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसंभवम्
१.०३५.००३ त्रीन् पथो हेतुना केन पावयेल्लोकपावनी
१.०३५.००४ कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा
१.०३५.००४ त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता
१.०३५.००५ तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः
१.०३५.००५ निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत्
१.०३५.००६ पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः
१.०३५.००६ दृष्ट्वा च स्पृहया देवीं मैथुनायोपचक्रमे
१.०३५.००७ शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम्
१.०३५.००७ न चापि तनयो राम तस्यामासीत्परंतप
१.०३५.००८ ततो देवाः समुद्विग्नाः पितामहपुरोगमाः
१.०३५.००८ यदिहोत्पद्यते भूतं कस्तत्प्रतिसहिष्यते
१.०३५.००९ अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन्
१.०३५.००९ देवदेव महादेव लोकस्यास्य हिते रत
१.०३५.००९ सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि
१.०३५.०१० न लोका धारयिष्यन्ति तव तेजः सुरोत्तम
१.०३५.०१० ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर
१.०३५.०११ त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय
१.०३५.०११ रक्ष सर्वानिमांल्लोकान्नालोकं कर्तुमर्हसि
१.०३५.०१२ देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः
१.०३५.०१२ बाढमित्यब्रवीत्सर्वान् पुनश्चेदमुवाच ह
१.०३५.०१३ धारयिष्याम्यहं तेजस्तेजस्येव सहोमया
१.०३५.०१३ त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु
१.०३५.०१४ यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम्
१.०३५.०१४ धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः
१.०३५.०१५ एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम्
१.०३५.०१५ यत्तेजः क्षुभितं ह्येतत्तद्धरा धारयिष्यति
१.०३५.०१६ एवमुक्तः सुरपतिः प्रमुमोच महीतले
१.०३५.०१६ तेजसा पृथिवी येन व्याप्ता सगिरिकानना
१.०३५.०१७ ततो देवाः पुनरिदमूचुश्चाथ हुताशनम्
१.०३५.०१७ प्रविश त्वं महातेजो रौद्रं वायुसमन्वितः
१.०३५.०१८ तदग्निना पुनर्व्याप्तं संजातः श्वेतपर्वतः
१.०३५.०१८ दिव्यं शरवणं चैव पावकादित्यसंनिभम्
१.०३५.०१८ यत्र जातो महातेजाः कार्तिकेयोऽग्निसंभवः
१.०३५.०१९ अथोमां च शिवं चैव देवाः सर्षि गणास्तदा
१.०३५.०१९ पूजयामासुरत्यर्थं सुप्रीतमनसस्ततः
१.०३५.०२० अथ शैल सुता राम त्रिदशानिदमब्रवीत्
१.०३५.०२० समन्युरशपत्सर्वान् क्रोधसंरक्तलोचना
१.०३५.०२१ यस्मान्निवारिता चैव संगता पुत्रकाम्यया
१.०३५.०२१ अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ
१.०३५.०२१ अद्य प्रभृति युष्माकमप्रजाः सन्तु पत्नयः
१.०३५.०२२ एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि
१.०३५.०२२ अवने नैकरूपा त्वं बहुभार्या भविष्यसि
१.०३५.०२३ न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषी कृता
१.०३५.०२३ प्राप्स्यसि त्वं सुदुर्मेधे मम पुत्रमनिच्छती
१.०३५.०२४ तान् सर्वान् व्रीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा
१.०३५.०२४ गमनायोपचक्राम दिशं वरुणपालिताम्
१.०३५.०२५ स गत्वा तप आतिष्ठत्पार्श्वे तस्योत्तरे गिरेः
१.०३५.०२५ हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः
१.०३५.०२६ एष ते विस्तरो राम शैलपुत्र्या निवेदितः
१.०३५.०२६ गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मणः
१.०३६.००१ तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा
१.०३६.००१ सेनापतिमभीप्सन्तः पितामहमुपागमन्
१.०३६.००२ ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम्
१.०३६.००२ प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः
१.०३६.००३ यो नः सेनापतिर्देव दत्तो भगवता पुरा
१.०३६.००३ स तपः परमास्थाय तप्यते स्म सहोमया
१.०३६.००४ यदत्रानन्तरं कार्यं लोकानां हितकाम्यया
१.०३६.००४ संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः
१.०३६.००५ देवतानां वचः श्रुत्वा सर्वलोकपितामहः
१.०३६.००५ सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्
१.०३६.००६ शैलपुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु
१.०३६.००६ तस्या वचनमक्लिष्टं सत्यमेव न संशयः
१.०३६.००७ इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः
१.०३६.००७ जनयिष्यति देवानां सेनापतिमरिंदमम्
१.०३६.००८ ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम्
१.०३६.००८ उमायास्तद्बहुमतं भविष्यति न संशयः
१.०३६.००९ तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन
१.०३६.००९ प्रणिपत्य सुराः सर्वे पितामहमपूजयन्
१.०३६.०१० ते गत्वा पर्वतं राम कैलासं धातुमण्डितम्
१.०३६.०१० अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः
१.०३६.०११ देवकार्यमिदं देव समाधत्स्व हुताशन
१.०३६.०११ शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज
१.०३६.०१२ देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः
१.०३६.०१२ गर्भं धारय वै देवि देवतानामिदं प्रियम्
१.०३६.०१३ इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत्
१.०३६.०१३ स तस्या महिमां दृष्ट्वा समन्तादवकीर्यत
१.०३६.०१४ समन्ततस्तदा देवीमभ्यषिञ्चत पावकः
१.०३६.०१४ सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन
१.०३६.०१५ तमुवाच ततो गङ्गा सर्वदेवपुरोहितम्
१.०३६.०१५ अशक्ता धारणे देव तव तेजः समुद्धतम्
१.०३६.०१५ दह्यमानाग्निना तेन संप्रव्यथितचेतना
१.०३६.०१६ अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः
१.०३६.०१६ इह हैमवते पा
दे गर्भोऽयं संनिवेश्यताम्
१.०३६.०१७ श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम्
१.०३६.०१७ उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ
१.०३६.०१८ यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम्
१.०३६.०१८ काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम्
१.०३६.०१९ ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत
१.०३६.०१९ मलं तस्याभवत्तत्र त्रपुसीसकमेव च
१.०३६.०२० तदेतद्धरणीं प्राप्य नानाधातुरवर्धत
१.०३६.०२१ निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्
१.०३६.०२१ सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम्
१.०३६.०२२ जातरूपमिति ख्यातं तदा प्रभृति राघव
१.०३६.०२२ सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्
१.०३६.०२३ तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः
१.०३६.०२३ क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन्
१.०३६.०२४ ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्
१.०३६.०२४ ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः
१.०३६.०२५ ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्
१.०३६.०२५ पुत्रस्त्रैलोक्य विख्यातो भविष्यति न संशयः
१.०३६.०२६ तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे
१.०३६.०२६ स्नापयन् परया लक्ष्म्या दीप्यमानमिवानलम्
१.०३६.०२७ स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात्
१.०३६.०२७ कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम्
१.०३६.०२८ प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम्
१.०३६.०२८ षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः
१.०३६.०२९ गृहीत्वा क्षीरमेकाह्ना सुकुमार वपुस्तदा
१.०३६.०२९ अजयत्स्वेन वीर्येण दैत्यसैन्यगणान् विभुः
१.०३६.०३० सुरसेनागणपतिं ततस्तममलद्युतिम्
१.०३६.०३० अभ्यषिञ्चन् सुरगणाः समेत्याग्निपुरोगमाः
१.०३६.०३१ एष ते राम गङ्गाया विस्तरोऽभिहितो मया
१.०३६.०३१ कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च
१.०३७.००१ तां कथां कौशिको रामे निवेद्य मधुराक्षरम्
१.०३७.००१ पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत्
१.०३७.००२ अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः
१.०३७.००२ सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः
१.०३७.००३ वैदर्भदुहिता राम केशिनी नाम नामतः
१.०३७.००३ ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी
१.०३७.००४ अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि
१.०३७.००४ द्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता
१.०३७.००५ ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः
१.०३७.००५ हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ
१.०३७.००६ अथ वर्ष शते पूर्णे तपसाराधितो मुनिः
१.०३७.००६ सगराय वरं प्रादाद्भृगुः सत्यवतां वरः
१.०३७.००७ अपत्यलाभः सुमहान् भविष्यति तवानघ
१.०३७.००७ कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ
१.०३७.००८ एका जनयिता तात पुत्रं वंशकरं तव
१.०३७.००८ षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति
१.०३७.००९ भाषमाणं नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम्
१.०३७.००९ ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा
१.०३७.०१० एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति
१.०३७.०१० श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव
१.०३७.०११ तयोस्तद्वचनं श्रुत्वा भृगुः परम धार्मिकः
१.०३७.०११ उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम्
१.०३७.०१२ एको वंशकरो वास्तु बहवो वा महाबलाः
१.०३७.०१२ कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति
१.०३७.०१३ मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन
१.०३७.०१३ पुत्रं वंशकरं राम जग्राह नृपसंनिधौ
१.०३७.०१४ षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा
१.०३७.०१४ महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान्
१.०३७.०१५ प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च
१.०३७.०१५ जगाम स्वपुरं राजा सभार्या रघुनन्दन
१.०३७.०१६ अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायत
१.०३७.०१६ असमञ्ज इति ख्यातं केशिनी सगरात्मजम्
१.०३७.०१७ सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत
१.०३७.०१७ षष्टिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः
१.०३७.०१८ घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन्
१.०३७.०१८ कालेन महता सर्वे यौवनं प्रतिपेदिरे
१.०३७.०१९ अथ दीर्घेण कालेन रूपयौवनशालिनः
१.०३७.०१९ षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा
१.०३७.०२० स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः
१.०३७.०२० बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन
१.०३७.०२० प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान्निरीक्ष्य वै
१.०३७.०२१ पौराणामहिते युक्तः पित्रा निर्वासितः पुरात्
१.०३७.०२२ तस्य पुत्रोऽंशुमान्नाम असमञ्जस्य वीर्यवान्
१.०३७.०२२ संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः
१.०३७.०२३ ततः कालेन महता मतिः समभिजायत
१.०३७.०२३ सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता
१.०३७.०२४ स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा
१.०३७.०२४ यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे
१.०३८.००१ विश्वामित्रवचः श्रुत्वा कथान्ते रघुनन्दन
१.०३८.००१ उवाच परमप्रीतो मुनिं दीप्तमिवानलम्
१.०३८.००२ श्रोतुमिछामि भद्रं ते विस्तरेण कथामिमाम्
१.०३८.००२ पूर्वको मे कथं ब्रह्मन् यज्ञं वै समुपाहरत्
१.०३८.००३ विश्वामित्रस्तु काकुत्स्थमुवाच प्रहसन्निव
१.०३८.००३ श्रूयतां विस्तरो राम सगरस्य महात्मनः
१.०३८.००४ शंकरश्वशुरो नाम हिमवानचलोत्तमः
१.०३८.००४ विन्ध्यपर्वतमासाद्य निरीक्षेते परस्परम्
१.०३८.००५ तयोर्मध्ये प्रवृत्तोऽभूद्यज्ञः स पुरुषोत्तम
१.०३८.००५ स हि देशो नरव्याघ्र प्रशस्तो यज्ञकर्मणि
१.०३८.००६ तस्याश्वचर्यां काकुत्स्थ दृढधन्वा महारथः
१.०३८.००६ अंशुमानकरोत्तात सगरस्य मते स्थितः
१.०३८.००७ तस्य पर्वणि तं यज्ञं यजमानस्य वासवः
१.०३८.००७ राक्षसीं तनुमास्थाय यज्ञियाश्वमपाहरत्
१.०३८.००८ ह्रियमाणे तु काकुत्स्थ तस्मिन्नश्वे महात्मनः
१.०३८.००८ उपाध्याय गणाः सर्वे यजमानमथाब्रुवन्
१.०३८.००९ अयं पर्वणि वेगेन यज्ञियाश्वोऽपनीयते
१.०३८.००९ हर्तारं जहि काकुत्स्थ हयश्चैवोपनीयताम्
१.०३८.०१० यज्ञच्छिद्रं भवत्येतत्सर्वेषामशिवाय नः
१.०३८.०१० तत्तथा क्रियतां राजन् यथाछिद्रः क्रतुर्भवेत्
१.०३८.०११ उपाध्याय वचः श्रुत्वा तस्मिन् सदसि पार्थिवः
१.०३८.०११ षष्टिं पुत्रसहस्राणि वाक्यमेतदुवाच ह
१.०३८.०१२ गतिं पुत्रा न पश्यामि रक्षसां पुरुषर्षभाः
१.०३८.०१२ मन्त्रपूतैर्महाभागैरास्थितो हि महाक्रतुः
१.०३८.०१३ तद्गच्छत विचिन्वध्वं पुत्रका भद्रमस्तु वः
१.०३८.०१३ समुद्रमालिनीं सर्वां पृथिवीमनुगच्छत
१.०३८.०१४ एकैकं योजनं पुत्रा विस्तारमभिगच्छत
१.०३८.०१५ यावत्तुरगसंदर्शस्तावत्खनत मेदिनीम्
१.०३८.०१५ तमेव हयहर्तारं मार्गमाणा ममाज्ञया
१.०३८.०१६ दीक्षितः पौत्रसहितः सोपाध्यायगणो ह्यहम्
१.०३८.०१६ इह स्थास्यामि भद्रं वो यावत्तुरगदर्शनम्
१.०३८.०१७ इत्युक्त्वा हृष्टमनसो राजपुत्रा महाबलाः
१.०३८.०१७ जग्मुर्महीतलं राम पितुर्वचनयन्त्रिताः
१.०३८.०१८ योजनायामविस्तारमेकैको धरणीतलम्
१.०३८.०१८ बिभिदुः पुरुषव्याघ्र वज्रस्पर्शसमैर्भुजैः
१.०३८.०१९ शूलैरशनिकल्पैश्च हलैश्चापि सुदारुणैः
१.०३८.०१९ भिद्यमाना वसुमती ननाद रघुनन्दन
१.०३८.०२० नागानां वध्यमानानामसुराणां च राघव
१.०३८.०२० राक्षसानां च दुर्धर्षः सत्त्वानां निनदोऽभवत्
१.०३८.०२१ योजनानां सहस्राणि षष्टिं तु रघुनन्दन
१.०३८.०२१ बिभिदुर्धरणीं वीरा रसातलमनुत्तमम्
१.०३८.०२२ एवं पर्वतसंबाधं जम्बूद्वीपं नृपात्मजाः
१.०३८.०२२ खनन्तो नृपशार्दूल सर्वतः परिचक्रमुः
१.०३८.०२३ ततो देवाः सगन्धर्वाः सासुराः सहपन्नगाः
१.०३८.०२३ संभ्रान्तमनसः सर्वे पितामहमुपागमन्
१.०३८.०२४ ते प्रसाद्य महात्मानं विषण्णवदनास्तदा
१.०३८.०२४ ऊचुः परमसंत्रस्ताः पितामहमिदं वचः
१.०३८.०२५ भगवन् पृथिवी सर्वा खन्यते सगरात्मजैः
१.०३८.०२५ बहवश्च महात्मानो वध्यन्ते जलचारिणः
१.०३८.०२६ अयं यज्ञहनोऽस्माकमनेनाश्वोऽपनीयते
१.०३८.०२६ इति ते सर्वभूतानि निघ्नन्ति सगरात्मजः
१.०३९.००१ देवतानां वचः श्रुत्वा भगवान् वै पितामहः
१.०३९.००१ प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान्
१.०३९.००२ यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः
१.०३९.००२ कापिलं रूपमास्थाय धारयत्यनिशं धराम्
१.०३९.००३ पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः
१.०३९.००३ सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम्
१.०३९.००४ पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमः
१.०३९.००४ देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम्
१.०३९.००५ सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम्
१.०३९.००५ पृथिव्यां भिद्यमानायां निर्घात सम निःस्वनः
१.०३९.००६ ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम्
१.०३९.००६ सहिताः सगराः सर्वे पितरं वाक्यमब्रुवन्
१.०३९.००७ परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः
१.०३९.००७ देवदानवरक्षांसि पिशाचोरगकिंनराः
१.०३९.००८ न च पश्यामहेऽश्वं तमश्वहर्तारमेव च
१.०३९.००८ किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम्
१.०३९.००९ तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः
१.०३९.००९ समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन
१.०३९.०१० भूयः खनत भद्रं वो निर्भिद्य वसुधातलम्
१.०३९.०१० अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ
१.०३९.०११ पितुर्वचनमास्थाय सगरस्य महात्मनः
१.०३९.०११ षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन्
१.०३९.०१२ खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम्
१.०३९.०१२ दिशागजं विरूपाक्षं धारयन्तं महीतलम्
१.०३९.०१३ सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन
१.०३९.०१३ शिरसा धारयामास विरूपाक्षो महागजः
१.०३९.०१४ यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः
१.०३९.०१४ खेदाच्चालयते शीर्षं भूमिकम्पस्तधा भवेत्
१.०३९.०१५ तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम्
१.०३९.०१५ मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम्
१.०३९.०१६ ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः
१.०३९.०१६ दक्षिणस्यामपि दिशि ददृशुस्ते महागजम्
१.०३९.०१७ महापद्मं महात्मानं सुमहापर्वतोपमम्
१.०३९.०१७ शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम्
१.०३९.०१८ ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः
१.०३९.०१८ षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम्
१.०३९.०१९ पश्चिमायामपि दिशि महान्तमचलोपमम्
१.०३९.०१९ दिशागजं सौमनसं ददृशुस्ते महाबलाः
१.०३९.०२० तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम्
१.०३९.०२० खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा
१.०३९.०२१ उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम्
१.०३९.०२१ भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम्
१.०३९.०२२ समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम्
१.०३९.०२२ षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम्
१.०३९.०२३ ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम्
१.०३९.०२३ रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः
१.०३९.०२४ ददृशुः कपिलं तत्र वासुदेवं सनातनम्
१.०३९.०२४ हयं च तस्य देवस्य चरन्तमविदूरतः
१.०३९.०२५ ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः
१.०३९.०२५ अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन्
१.०३९.०२६ अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि
१.०३९.०२६ दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान्
१.०३९.०२७ श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन
१.०३९.०२७ रोषेण महताविष्टो हुंकारमकरोत्तदा
१.०३९.०२८ ततस्तेनाप्रमेयेन कपिलेन महात्मना
१.०३९.०२८ भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः
१.०४०.००१ पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन
१.०४०.००१ नप्तारमब्रवीद्राजा दीप्यमानं स्वतेजसा
१.०४०.००२ शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा
१.०४०.००२ पित्ःणां गतिमन्विच्छ येन चाश्वोऽपहारितः
१.०४०.००३ अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च
१.०४०.००३ तेषां त्वं प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम्
१.०४०.००४ अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि
१.०४०.००४ सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः
१.०४०.००५ एवमुक्तोऽंशुमान् सम्यक्सगरेण महात्मना
१.०४०.००५ धनुरादाय खड्गं च जगाम लघुविक्रमः
१.०४०.००६ स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः
१.०४०.००६ प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः
१.०४०.००७ दैत्यदानवरक्षोभिः पिशाचपतगोरगैः
१.०४०.००७ पूज्यमानं महातेजा दिशागजमपश्यत
१.०४०.००८ स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम्
१.०४०.००८ पित्ःन् स परिपप्रच्छ वाजिहर्तारमेव च
१.०४०.००९ दिशागजस्तु तच्छ्रुत्वा प्रीत्याहांशुमतो वचः
१.०४०.००९ आसमञ्जकृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि
१.०४०.०१० तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान्
१.०४०.०१० यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे
१.०४०.०११ तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः
१.०४०.०११ पूजितः सहयश्चैव गन्तासीत्यभिचोदितः
१.०४०.०१२ तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः
१.०४०.०१२ भस्मराशीकृता यत्र पितरस्तस्य सागराः
१.०४०.०१३ स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा
१.०४०.०१३ चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः
१.०४०.०१४ यज्ञियं च हयं तत्र चरन्तमविदूरतः
१.०४०.०१४ ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः
१.०४०.०१५ ददर्श पुरुषव्याघ्रो कर्तुकामो जलक्रियाम्
१.०४०.०१५ सलिलार्थी महातेजा न चापश्यज्जलाशयम्
१.०४०.०१६ विसार्य निपुणां दृष्टिं ततोऽपश्यत्खगाधिपम्
१.०४०.०१६ पित्ःणां मातुलं राम सुपर्णमनिलोपमम्
१.०४०.०१७ स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः
१.०४०.०१७ मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः
१.०४०.०१८ कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः
१.०४०.०१८ सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम्
१.०४०.०१९ गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ
१.०४०.०१९ भस्मराशीकृतानेतान् पावयेल्लोकपावनी
१.०४०.०२० तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया
१.०४०.०२० षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति
१.०४०.०२१ गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ
१.०४०.०२१ यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि
१.०४०.०२२ सुपर्णवचनं श्रुत्वा सोऽंशुमानतिवीर्यवान्
१.०४०.०२२ त्वरितं हयमादाय पुनरायान्महायशाः
१.०४०.०२३ ततो राजानमासाद्य दीक्षितं रघुनन्दन
१.०४०.०२३ न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा
१.०४०.०२४ तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः
१.०४०.०२४ यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि
१.०४०.०२५ स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः
१.०४०.०२५ गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत
१.०४०.०२६ अगत्वा निश्चयं राजा कालेन महता महान्
१.०४०.०२६ त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः
१.०४१.००१ कालधर्मं गते राम सगरे प्रकृतीजनाः
१.०४१.००१ राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्
१.०४१.००२ स राजा सुमहानासीदंशुमान् रघुनन्दन
१.०४१.००२ तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः
१.०४१.००३ तस्मिन् राज्यं समावेश्य दिलीपे रघुनन्दन
१.०४१.००३ हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम्
१.०४१.००४ द्वाद्त्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः
१.०४१.००४ तपोवनगतो राजा स्वर्गं लेभे तपोधनः
१.०४१.००५ दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम्
१.०४१.००५ दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत
१.०४१.००६ कथं गङ्गावतरणं कथं तेषां जलक्रिया
१.०४१.००६ तारयेयं कथं चैतानिति चिन्ता परोऽभवत्
१.०४१.००७ तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः
१.०४१.००७ पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः
१.०४१.००८ दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्
१.०४१.००८ त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्
१.०४१.००९ अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति
१.०४१.००९ व्याधिना नरशार्दूल कालधर्ममुपेयिवान्
१.०४१.०१० इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा
१.०४१.०१० रम्ये भगीरथं पुत्रमभिषिच्य नरर्षभः
१.०४१.०११ भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन
१.०४१.०११ अनपत्यो महातेजाः प्रजाकामः स चाप्रजः
१.०४१.०१२ स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन
१.०४१.०१२ ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः
१.०४१.०१३ तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः
१.०४१.०१३ सुप्रीतो भगवान् ब्रह्मा प्रजानां पतिरीश्वरः
१.०४१.०१४ ततः सुरगणैः सार्धमुपागम्य पितामहः
१.०४१.०१४ भगीरथं महात्मानं तप्यमानमथाब्रवीत्
१.०४१.०१५ भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर
१.०४१.०१५ तपसा च सुतप्तेन वरं वरय सुव्रत
१.०४१.०१६ तमुवाच महातेजाः सर्वलोकपितामहम्
१.०४१.०१६ भगीरथो महाभागः कृताञ्जलिरवस्थितः
१.०४१.०१७ यृअदि मे भगवान् प्रीतो यद्यस्ति तपसः फलम्
१.०४१.०१७ सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः
१.०४१.०१८ गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्
१.०४१.०१८ स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः
१.०४१.०१९ देया च संततोर्देव नावसीदेत्कुलं च नः
१.०४१.०१९ इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः
१.०४१.०२० उक्तवाक्यं तु राजानं सर्वलोकपितामहः
१.०४१.०२० प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्
१.०४१.०२१ मनोरथो महानेष भगीरथ महारथ
१.०४१.०२१ एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन
१.०४१.०२२ इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता
१.०४१.०२२ तां वै धारयितुं राजन् हरस्तत्र नियुज्यताम्
१.०४१.०२३ गङ्गायाः पतनं राजन् पृथिवी न सहिष्यते
१.०४१.०२३ तौ वै धारयितुं वीर नान्यं पश्यामि शूलिनः
१.०४१.०२४ तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्
१.०४१.०२४ जगाम त्रिदिवं देवः सह सर्वैर्मरुद्गणैः
१.०४२.००१ देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम्
१.०४२.००१ कृत्वा वसुमतीं राम संवत्सरमुपासत
१.०४२.००२ अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः
१.०४२.००२ उमापतिः पशुपती राजानमिदमब्रवीत्
१.०४२.००३ प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम्
१.०४२.००३ शिरसा धारयिष्यामि शैलराजसुतामहम्
१.०४२.००४ ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता
१.०४२.००४ तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम्
१.०४२.००४ आकाशादपतद्राम शिवे शिवशिरस्युत
१.०४२.००५ नैव सा निर्गमं लेखे जटामण्डलमोहिता
१.०४२.००५ तत्रैवाबभ्रमद्देवी संवत्सरगणान् बहून्
१.०४२.००६ अनेन तोषितश्चासीदत्यर्थं रघुनन्दन
१.०४२.००६ विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति
१.०४२.००७ गगनाच्छंकरशिरस्ततो धरणिमागता
१.०४२.००७ व्यसर्पत जलं तत्र तीव्रशब्दपुरस्कृतम्
१.०४२.००८ ततो देवर्षिगन्धर्वा यक्षाः सिद्धगणास्तथा
१.०४२.००८ व्यलोकयन्त ते तत्र गगनाद्गां गतां तदा
१.०४२.००९ विमानैर्नगराकारैर्हयैर्गजवरैस्तथा
१.०४२.००९ पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः
१.०४२.०१० तदद्भुततमं लोके गङ्गा पतनमुत्तमम्
१.०४२.०१० दिदृक्षवो देवगणाः समेयुरमितौजसः
१.०४२.०११ संपतद्भिः सुरगणैस्तेषां चाभरणौजसा
१.०४२.०११ शतादित्यमिवाभाति गगनं गततोयदम्
१.०४२.०१२ शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः
१.०४२.०१२ विद्युद्भिरिव विक्षिप्तैराकाशमभवत्तदा
१.०४२.०१३ पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा
१.०४२.०१३ शारदाभ्रैरिवाक्रीत्णं गगनं हंससंप्लवैः
१.०४२.०१४ क्व चिद्द्रुततरं याति कुटिलं क्व चिदायतम्
१.०४२.०१४ विनतं क्व चिदुद्धूतं क्व चिद्याति शनैः शनैः
१.०४२.०१५ सलिलेनैव सलिलं क्व चिदभ्याहतं पुनः
१.०४२.०१५ मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः
१.०४२.०१६ तच्छंकरशिरोभ्रष्टं भ्रष्टं भूमितले पुनः
१.०४२.०१६ व्यरोचत तदा तोयं निर्मलं गतकल्मषम्
१.०४२.०१७ तत्रर्षिगणगन्धर्वा वसुधातलवासिनः
१.०४२.०१७ भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः
१.०४२.०१८ शापात्प्रपतिता ये च गगनाद्वसुधातलम्
१.०४२.०१८ कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः
१.०४२.०१९ धूपपापाः पुनस्तेन तोयेनाथ सुभास्वता
१.०४२.०१९ पुनराकाशमाविश्य स्वांल्लोकान् प्रतिपेदिरे
१.०४२.०२० मुमुदे मुदितो लोकस्तेन तोयेन भास्वता
१.०४२.०२० कृताभिषेको गङ्गायां बभूव विगतक्लमः
१.०४२.०२१ भगीरथोऽपि राजर्षिर्दिव्यं स्यन्दनमास्थितः
१.०४२.०२१ प्रायादग्रे महातेजास्तं गङ्गा पृष्ठतोऽन्वगात्
१.०४२.०२२ देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः
१.०४२.०२२ गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः
१.०४२.०२३ सर्वाश्चाप्सरसो राम भगीरथरथानुगाः
१.०४२.०२३ गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये
१.०४२.०२४ यतो भगीरथो राजा ततो गङ्गा यशस्विनी
१.०४२.०२४ जगाम सरितां श्रेष्ठा सर्वपापविनाशिनी
१.०४३.००१ स गत्वा सागरं राजा गङ्गयानुगतस्तदा
१.०४३.००१ प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः
१.०४३.००२ भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै
१.०४३.००२ सर्व लोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्
१.०४३.००३ तारिता नरशार्दूल दिवं याताश्च देववत्
१.०४३.००३ षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः
१.०४३.००४ सागरस्य जलं लोके यावत्स्थास्यति पार्थिव
१.०४३.००४ सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत्
१.०४३.००५ इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति
१.०४३.००५ त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता
१.०४३.००६ गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च
१.०४३.००६ त्रिपथो भावयन्तीति ततस्त्रिपथगा स्मृता
१.०४३.००७ पितामहानां सर्वेषां त्वमत्र मनुजाधिप
१.०४३.००७ कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय
१.०४३.००८ पूर्वकेण हि ते राजंस्तेनातियशसा तदा
१.०४३.००८ धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः
१.०४३.००९ तथैवांशुमता तात लोकेऽप्रतिमतेजसा
१.०४३.००९ गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता
१.०४३.०१० राजर्षिणा गुणवता महर्षिसमतेजसा
१.०४३.०१० मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च
१.०४३.०११ दिलीपेन महाभाग तव पित्रातितेजसा
१.०४३.०११ पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ
१.०४३.०१२ सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ
१.०४३.०१२ प्राप्तोऽसि परमं लोके यशः परमसंमतम्
१.०४३.०१३ यच्च गङ्गावतरणं त्वया कृतमरिंदम
१.०४३.०१३ अनेन च भवान् प्राप्तो धर्मस्यायतनं महत्
१.०४३.०१४ प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते
१.०४३.०१४ सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव
१.०४३.०१५ पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम्
१.०४३.०१५ स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप
१.०४३.०१६ इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः
१.०४३.०१६ यथागतं तथागच्छद्देवलोकं महायशाः
१.०४३.०१७ भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम्
१.०४३.०१७ यथाक्रमं यथान्यायं सागराणां महायशाः
१.०४३.०१७ कृतोदकः शुची राजा स्वपुरं प्रविवेश ह
१.०४३.०१८ समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह
१.०४३.०१८ प्रमुमोद च लोकस्तं नृपमासाद्य राघव
१.०४३.०१८ नष्टशोकः समृद्धार्थो बभूव विगतज्वरः
१.०४३.०१९ एष ते राम गङ्गाया विस्तरोऽभिहितो मया
१.०४३.०१९ स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते
१.०४३.०२० धन्यं यशस्यमायुष्यं स्वर्ग्यं पुत्र्यमथापि च
१.०४३.०२० इदमाख्यानमाख्यातं गङ्गावतरणं मया
१.०४४.००१ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः
१.०४४.००१ विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्
१.०४४.००२ अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया
१.०४४.००२ गङ्गावतरणं पुण्यं सागरस्य च पूरणम्
१.०४४.००३ तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा
१.०४४.००३ जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम्
१.०४४.००४ ततः प्रभाते विमले विश्वामित्रं महामुनिम्
१.०४४.००४ उवाच राघवो वाक्यं कृताह्निकमरिंदमः
१.०४४.००५ गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्
१.०४४.००५ क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः
१.०४४.००५ इमां चिन्तयतः सर्वां निखिलेन कथां तव
१.०४४.००६ तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्
१.०४४.००६ नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्
१.०४४.००६ भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता
१.०४४.००७ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
१.०४४.००७ संतारं कारयामास सर्षिसंघः सराघवः
१.०४४.००८ उत्तरं तीरमासाद्य संपूज्यर्षिगणं तथ
१.०४४.००८ गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्
१.०४४.००९ ततो मुनिवरस्तूर्णं जगाम सहराघवः
१.०४४.००९ विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा
१.०४४.०१० अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्
१.०४४.०१० पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्
१.०४४.०११ कतरो राजवंशोऽयं विशालायां महामुने
१.०४४.०११ श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे
१.०४४.०१२ तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः
१.०४४.०१२ आख्यातुं तत्समारेभे विशालस्य पुरातनम्
१.०४४.०१३ श्रूयतां राम शक्रस्य कथां कथयतः शुभाम्
१.०४४.०१३ अस्मिन् देशे हि यद्वृत्तं शृणु तत्त्वेन राघव
१.०४४.०१४ पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः
१.०४४.०१४ अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः
१.०४४.०१५ ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम्
१.०४४.०१५ अमरा निर्जराश्चैव कथं स्याम निरामयाः
१.०४४.०१६ तेषां चिन्तयतां राम बुद्धिरासीद्विपश्चिताम्
१.०४४.०१६ क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै
१.०४४.०१७ ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्
१.०४४.०१७ मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः
१.०४४.०१८ अथ धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः
१.०४४.०१८ अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः
१.०४४.०१८ उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्
१.०४४.०१९ षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्
१.०४४.०१९ असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः
१.०४४.०२० न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः
१.०४४.०२० अप्रतिग्रहणाच्चैव तेन साधारणाः स्मृताः
१.०४४.०२१ वरुणस्य ततः कन्या वारुणी रघुनन्दन
१.०४४.०२१ उत्पपात महाभागा मार्गमाणा परिग्रहम्
१.०४४.०२२ दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्
१.०४४.०२२ अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्
१.०४४.०२३ असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः
१.०४४.०२३ हृष्टाः प्रमुदिताश्चासन् वारुणी ग्रहणात्सुराः
१.०४४.०२४ उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्
१.०४४.०२४ उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्
१.०४४.०२५ अथ तस्य कृते राम महानासीत्कुलक्षयः
१.०४४.०२५ अदितेस्तु ततः पुत्रा दितेः पुत्राण सूदयन्
१.०४४.०२६ अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे
१.०४४.०२६ तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्
१.०४४.०२७ निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः
१.०४४.०२७ शशास मुदितो लोकान् सर्षिसंघान् सचारणान्
१.०४५.००१ हतेषु तेषु पुत्रेषु दितिः परमदुःखिता
१.०४५.००१ मारीचं काश्यपं राम भर्तारमिदमब्रवीत्
१.०४५.००२ हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः
१.०४५.००२ शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम्
१.०४५.००३ साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि
१.०४५.००३ ईदृशं शक्रहन्तारं त्वमनुज्ञातुमर्हसि
१.०४५.००४ तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा
१.०४५.००४ प्रत्युवाच महातेजा दितिं परमदुःखिताम्
१.०४५.००५ एवं भवतु भद्रं ते शुचिर्भव तपोधने
१.०४५.००५ जनयिष्यसि पुत्रं त्वं शक्र हन्तारमाहवे
१.०४५.००६ पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि
१.०४५.००६ पुत्रं त्रैलोक्य हन्तारं मत्तस्त्वं जनयिष्यसि
१.०४५.००७ एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम्
१.०४५.००७ समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ
१.०४५.००८ गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता
१.०४५.००८ कुशप्लवनमासाद्य तपस्तेपे सुदारुणम्
१.०४५.००९ तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह
१.०४५.००९ सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा
१.०४५.०१० अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च
१.०४५.०१० न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम्
१.०४५.०११ गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा
१.०४५.०११ शक्रः सर्वेषु कालेषु दितिं परिचचार ह
१.०४५.०१२ अथ वर्षसहस्रेतु दशोने रघु नन्दन
१.०४५.०१२ दितिः परमसंप्रीता सहस्राक्षमथाब्रवीत्
१.०४५.०१३ तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर
१.०४५.०१३ अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः
१.०४५.०१४ तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम्
१.०४५.०१४ त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः
१.०४५.०१५ एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे
१.०४५.०१५ निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः
१.०४५.०१६ दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम्
१.०४५.०१६ शिरःस्थाने कृतौ पादौ जहास च मुमोद च
१.०४५.०१७ तस्याः शरीरविवरं विवेश च पुरंदरः
१.०४५.०१७ गर्भं च सप्तधा राम बिभेद परमात्मवान्
१.०४५.०१८ बिध्यमानस्ततो गर्भो वज्रेण शतपर्वणा
१.०४५.०१८ रुरोद सुस्वरं राम ततो दितिरबुध्यत
१.०४५.०१९ मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत
१.०४५.०१९ बिभेद च महातेजा रुदन्तमपि वासवः
१.०४५.०२० न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत्
१.०४५.०२० निष्पपात ततः शक्रो मातुर्वचनगौरवात्
१.०४५.०२१ प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत
१.०४५.०२१ अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा
१.०४५.०२२ तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे
१.०४५.०२२ अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि
१.०४६.००१ सप्तधा तु कृते गर्भे दितिः परमदुःखिता
१.०४६.००१ सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्
१.०४६.००२ ममापराधाद्गर्भोऽयं सप्तधा विफलीकृतः
१.०४६.००२ नापराधोऽस्ति देवेश तवात्र बलसूदन
१.०४६.००३ प्रियं तु कृतमिच्छामि मम गर्भविपर्यये
१.०४६.००३ मरुतां सप्तं सप्तानां स्थानपाला भवन्त्विमे
१.०४६.००४ वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रकाः
१.०४६.००४ मारुता इति विख्याता दिव्यरूपा ममात्मजाः
१.०४६.००५ ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः
१.०४६.००५ दिवि वायुरिति ख्यातस्तृतीयोऽपि महायशाः
१.०४६.००६ चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्
१.०४६.००६ संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः
१.०४६.००६ त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः
१.०४६.००७ तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः
१.०४६.००७ उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः
१.०४६.००८ सर्वमेतद्यथोक्तं ते भविष्यति न संशयः
१.०४६.००८ विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः
१.०४६.००९ एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने
१.०४६.००९ जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्
१.०४६.०१० एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा
१.०४६.०१० दितिं यत्र तपः सिद्धामेवं परिचचार सः
१.०४६.०११ इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः
१.०४६.०११ अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः
१.०४६.०१२ तेन चासीदिह स्थाने विशालेति पुरी कृता
१.०४६.०१३ विशालस्य सुतो राम हेमचन्द्रो महाबलः
१.०४६.०१३ सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः
१.०४६.०१४ सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः
१.०४६.०१४ धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत
१.०४६.०१५ सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्
१.०४६.०१५ कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः
१.०४६.०१६ कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्
१.०४६.०१६ सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः
१.०४६.०१७ तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम्
१.०४६.०१७ आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः
१.०४६.०१८ इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः
१.०४६.०१८ दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः
१.०४६.०१९ इहाद्य रजनीं राम सुखं वत्स्यामहे वयम्
१.०४६.०१९ श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि
१.०४६.०२० सुमतिस्तु महातेजा विश्वामित्रमुपागतम्
१.०४६.०२० श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः
१.०४६.०२१ पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः
१.०४६.०२१ प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्
१.०४६.०२२ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने
१.०४६.०२२ संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम
१.०४७.००१ पृष्ट्वा तु कुशलं तत्र परस्परसमागमे
१.०४७.००१ कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्
१.०४७.००२ इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ
१.०४७.००२ गजसिंहगती वीरौ शार्दूलवृषभोपमौ
१.०४७.००३ पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ
१.०४७.००३ अश्विनाविव रूपेण समुपस्थितयौवनौ
१.०४७.००४ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ
१.०४७.००४ कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने
१.०४७.००५ भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्
१.०४७.००५ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः
१.०४७.००६ किमर्थं च नरश्रेष्ठौ संप्राप्तौ दुर्गमे पथि
१.०४७.००६ वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः
१.०४७.००७ तस्य तद्वचनं श्रुत्वा यथावृत्थं न्यवेदयत्
१.०४७.००७ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा
१.०४७.००८ विश्वामित्रवचः श्रुत्वा राजा परमहर्षितः
१.०४७.००८ अतिथी परमौ प्राप्तौ पुत्रौ दशरथस्य तौ
१.०४७.००८ पूजयामास विधिवत्सत्कारार्हौ महाबलौ
१.०४७.००९ ततः परमसत्कारं सुमतेः प्राप्य राघवौ
१.०४७.००९ उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः
१.०४७.०१० तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्
१.०४७.०१० साधु साध्विति शंसन्तो मिथिलां समपूजयन्
१.०४७.०११ मिथिलोपवने तत्र आश्रमं दृश्य राघवः
१.०४७.०११ पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुंगवम्
१.०४७.०१२ श्रीमदाश्रमसंकाशं किं न्विदं मुनिवर्जितम्
१.०४७.०१२ श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः
१.०४७.०१३ तच्छ्रुता राघवेणोक्तं वाक्यं वाक्य विशारदः
१.०४७.०१३ प्रत्युवाच महातेजा विश्वमित्रो महामुनिः
१.०४७.०१४ हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव
१.०४७.०१४ यस्यैतदाश्रमपदं शप्तं कोपान्महात्मना
१.०४७.०१५ गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः
१.०४७.०१५ आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः
१.०४७.०१६ स चेह तप आतिष्ठदहल्यासहितः पुरा
१.०४७.०१६ वर्षपूगान्यनेकानि राजपुत्र महायशः
१.०४७.०१७ तस्यान्तरं विदित्वा तु सहस्राक्षः शचीपतिः
१.०४७.०१७ मुनिवेषधरोऽहल्यामिदं वचनमब्रवीत्
१.०४७.०१८ ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते
१.०४७.०१८ संगमं त्वहमिच्छामि त्वया सह सुमध्यमे
१.०४७.०१९ मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन
१.०४७.०१९ मतिं चकार दुर्मेधा देवराजकुतूहलात्
१.०४७.०२० अथाब्रवीत्सुरश्रेष्ठं कृतार्थेनान्तरात्मना
१.०४७.०२० कृतार्थोऽसि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो
१.०४७.०२० आत्मानं मां च देवेश सर्वदा रक्ष मानदः
१.०४७.०२१ इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्
१.०४७.०२१ सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्
१.०४७.०२२ एवं संगम्य तु तया निश्चक्रामोटजात्ततः
१.०४७.०२२ स संभ्रमात्त्वरन् राम शङ्कितो गौतमं प्रति
१.०४७.०२३ गौतमं स ददर्शाथ प्रविशन्ति महामुनिम्
१.०४७.०२३ देवदानवदुर्धर्षं तपोबलसमन्वितम्
१.०४७.०२३ तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्
१.०४७.०२३ गृहीतसमिधं तत्र सकुशं मुनिपुङ्गवम्
१.०४७.०२४ दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत्
१.०४७.०२५ अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः
१.०४७.०२५ दुर्वृत्तं वृत्तसंपन्नो रोषाद्वचनमब्रवीत्
१.०४७.०२६ मम रूपं समास्थाय कृतवानसि दुर्मते
१.०४७.०२६ अकर्तव्यमिदं यस्माद्विफलस्त्वं भविष्यति
१.०४७.०२७ गौतमेनैवमुक्तस्य सरोषेण महात्मना
१.०४७.०२७ पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्
१.०४७.०२८ तथा शप्त्वा स वै शक्रं भार्यामपि च शप्तवान्
१.०४७.०२८ इह वर्षसहस्राणि बहूनि त्वं निवत्स्यसि
१.०४७.०२९ वायुभक्षा निराहारा तप्यन्ती भस्मशायिनी
१.०४७.०२९ अदृश्या सर्वभूतानामाश्रमेऽस्मिन्निवत्स्यसि
१.०४७.०३० यदा चैतद्वनं घोरं रामो दशरथात्मजः
१.०४७.०३० आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि
१.०४७.०३१ तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता
१.०४७.०३१ मत्सकाशे मुदा युक्ता स्वं वपुर्धारयिष्यसि
१.०४७.०३२ एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्
१.०४७.०३२ इममाश्रममुत्सृज्य सिद्धचारणसेविते
१.०४७.०३२ हिमवच्छिखरे रम्ये तपस्तेपे महातपाः
१.०४८.००१ अफलस्तु ततः शक्रो देवानग्निपुरोगमान्
१.०४८.००१ अब्रवीत्त्रस्तवदनः सर्षिसंघान् सचारणान्
१.०४८.००२ कुर्वता तपसो विघ्नं गौतमस्य महात्मनः
१.०४८.००२ क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्
१.०४८.००३ अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता
१.०४८.००३ शापमोक्षेण महता तपोऽस्यापहृतं मया
१.०४८.००४ तन्मां सुरवराः सर्वे सर्षिसंघाः सचारणाः
१.०४८.००४ सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ
१.०४८.००५ शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः
१.०४८.००५ पितृदेवानुपेत्याहुः सह सर्वैर्मरुद्गणैः
१.०४८.००६ अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः
१.०४८.००६ मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत
१.०४८.००७ अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति
१.०४८.००७ भवतां हर्षणार्थाय ये च दास्यन्ति मानवाः
१.०४८.००८ अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः
१.०४८.००८ उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेदयन्
१.०४८.००९ तदा प्रभृति काकुत्स्थ पितृदेवाः समागताः
१.०४८.००९ अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्
१.०४८.०१० इन्द्रस्तु मेषवृषणस्तदा प्रभृति राघव
१.०४८.०१० गौतमस्य प्रभावेन तपसश्च महात्मनः
१.०४८.०११ तदागच्छ महातेज आश्रमं पुण्यकर्मणः
१.०४८.०११ तारयैनां महाभागामहल्यां देवरूपिणीम्
१.०४८.०१२ विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः
१.०४८.०१२ विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह
१.०४८.०१३ ददर्श च महाभागां तपसा द्योतितप्रभाम्
१.०४८.०१३ लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः
१.०४८.०१४ प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव
१.०४८.०१४ धूमेनाभिपरीताङ्गीं पूर्णचन्द्रप्रभामिव
१.०४८.०१५ सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव
१.०४८.०१५ मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव
१.०४८.०१६ स हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह
१.०४८.०१६ त्रयाणामपि लोकानां यावद्रामस्य दर्शनम्
१.०४८.०१७ राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा
१.०४८.०१७ स्मरन्ती गौतमवचः प्रतिजग्राह सा च तौ
१.०४८.०१८ पाद्यमर्घ्यं तथातिथ्यं चकार सुसमाहिता
१.०४८.०१८ प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा
१.०४८.०१९ पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिनिस्वनैः
१.०४८.०१९ गन्धर्वाप्सरसां चापि महानासीत्समागमः
१.०४८.०२० साधु साध्विति देवास्तामहल्यां समपूजयन्
१.०४८.०२० तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्
१.०४८.०२१ गौतमोऽपि महातेजा अहल्यासहितः सुखी
१.०४८.०२१ रामं संपूज्य विधिवत्तपस्तेपे महातपाः
१.०४८.०२२ रामोऽपि परमां पूजां गौतमस्य महामुनेः
१.०४८.०२२ सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः
१.०४९.००१ ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह
१.०४९.००१ विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्
१.०४९.००२ रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः
१.०४९.००२ साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः
१.०४९.००३ बहूनीह सहस्राणि नानादेशनिवासिनाम्
१.०४९.००३ ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्
१.०४९.००४ ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः
१.०४९.००४ देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्
१.०४९.००५ रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः
१.०४९.००५ निवेशमकरोद्देशे विविक्ते सलिलायुते
१.०४९.००६ विश्वामित्रं मुनिश्रेष्ठं श्रुत्वा स नृपतिस्तदा
१.०४९.००६ शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितम्
१.०४९.००७ ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्
१.०४९.००७ विश्वामित्राय धर्मेण ददुर्मन्त्रपुरस्कृतम्
१.०४९.००८ प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः
१.०४९.००८ पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्
१.०४९.००९ स तांश्चापि मुनीन् पृष्ट्वा सोपाध्याय पुरोधसः
१.०४९.००९ यथान्यायं ततः सर्वैः समागच्छत्प्रहृष्टवान्
१.०४९.०१० अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत
१.०४९.०१० आसने भगवानास्तां सहैभिर्मुनिसत्तमैः
१.०४९.०११ जनकस्य वचः श्रुत्वा निषसाद महामुनिः
१.०४९.०११ पुरोधा ऋत्विजश्चैव राजा च सह मन्त्रिभिः
१.०४९.०१२ आसनेषु यथान्यायमुपविष्टान् समन्ततः
१.०४९.०१२ दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्
१.०४९.०१३ अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता
१.०४९.०१३ अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया
१.०४९.०१४ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव
१.०४९.०१४ यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह
१.०४९.०१५ द्वादशाहं तु ब्रह्मर्षे शेषमाहुर्मनीषिणः
१.०४९.०१५ ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक
१.०४९.०१६ इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा
१.०४९.०१६ पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः
१.०४९.०१७ इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ
१.०४९.०१७ गजसिंहगती वीरौ शार्दूलवृषभोपमौ
१.०४९.०१८ पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ
१.०४९.०१८ अश्विनाविव रूपेण समुपस्थितयौवनौ
१.०४९.०१९ यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ
१.०४९.०१९ कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने
१.०४९.०२० वरायुधधरौ वीरौ कस्य पुत्रौ महामुने
१.०४९.०२० भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्
१.०४९.०२१ परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः
१.०४९.०२१ काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः
१.०४९.०२२ तस्य तद्वचनं श्रुत्वा जनकस्य महात्मनः
१.०४९.०२२ न्यवेदयन्महात्मानौ पुत्रौ दशरथस्य तौ
१.०४९.०२३ सिद्धाश्रमनिवासं च राक्षसानां वधं तथा
१.०४९.०२३ तच्चागमनमव्यग्रं विशालायाश्च दर्शनम्
१.०४९.०२४ अहल्यादर्शनं चैव गौतमेन समागमम्
१.०४९.०२४ महाधनुषि जिज्ञासां कर्तुमागमनं तथा
१.०४९.०२५ एतत्सर्वं महातेजा जनकाय महात्मने
१.०४९.०२५ निवेद्य विररामाथ विश्वामित्रो महामुनिः
१.०५०.००१ तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः
१.०५०.००१ हृष्टरोमा महातेजाः शतानन्दो महातपाः
१.०५०.००२ गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः
१.०५०.००२ रामसंदर्शनादेव परं विस्मयमागतः
१.०५०.००३ स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ
१.०५०.००३ शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्
१.०५०.००४ अपि ते मुनिशार्दूल मम माता यशस्विनी
१.०५०.००४ दर्शिता राजपुत्राय तपो दीर्घमुपागता
१.०५०.००५ अपि रामे महातेजो मम माता यशस्विनी
१.०५०.००५ वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम्
१.०५०.००६ अपि रामाय कथितं यथावृत्तं पुरातनम्
१.०५०.००६ मम मातुर्महातेजो देवेन दुरनुष्ठितम्
१.०५०.००७ अपि कौशिक भद्रं ते गुरुणा मम संगता
१.०५०.००७ माता मम मुनिश्रेष्ठ रामसंदर्शनादितः
१.०५०.००८ अपि मे गुरुणा रामः पूजितः कुशिकात्मज
१.०५०.००८ इहागतो महातेजाः पूजां प्राप्य महात्मनः
१.०५०.००९ अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज
१.०५०.००९ इहागतेन रामेण प्रयतेनाभिवादितः
१.०५०.०१० तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः
१.०५०.०१० प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्
१.०५०.०११ नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया
१.०५०.०११ संगता मुनिना पत्नी भार्गवेणेव रेणुका
१.०५०.०१२ तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः
१.०५०.०१२ शतानन्दो महातेजा रामं वचनमब्रवीत्
१.०५०.०१३ स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव
१.०५०.०१३ विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्
१.०५०.०१४ अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः
१.०५०.०१४ विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम्
१.०५०.०१५ नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन
१.०५०.०१५ गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः
१.०५०.०१६ श्रूयतां चाभिदास्यामि कौशिकस्य महात्मनः
१.०५०.०१६ यथाबलं यथावृत्तं तन्मे निगदतः शृणु
१.०५०.०१७ राजाभूदेष धर्मात्मा दीर्घ कालमरिंदमः
१.०५०.०१७ धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः
१.०५०.०१८ प्रजापतिसुतस्त्वासीत्कुशो नाम महीपतिः
१.०५०.०१८ कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः
१.०५०.०१९ कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः
१.०५०.०१९ गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः
१.०५०.०२० विश्वमित्रो महातेजाः पालयामास मेदिनीम्
१.०५०.०२० बहुवर्षसहस्राणि राजा राज्यमकारयत्
१.०५०.०२१ कदा चित्तु महातेजा योजयित्वा वरूथिनीम्
१.०५०.०२१ अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्
१.०५०.०२२ नगराणि च राष्ट्राणि सरितश्च तथा गिरीन्
१.०५०.०२२ आश्रमान् क्रमशो राजा विचरन्नाजगामह
१.०५०.०२३ वसिष्ठस्याश्रमपदं नानापुष्पफलद्रुमम्
१.०५०.०२३ नानामृगगणाकीर्णं सिद्धचारणसेवितम्
१.०५०.०२४ देवदानवगन्धर्वैः किंनरैरुपशोभितम्
१.०५०.०२४ प्रशान्तहरिणाकीर्णं द्विजसंघनिषेवितम्
१.०५०.०२५ ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्
१.०५०.०२५ तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः
१.०५०.०२६ सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः
१.०५०.०२६ अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा
१.०५०.०२७ फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः
१.०५०.०२७ ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः
१.०५०.०२८ वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्
१.०५०.०२८ ददर्श जयतां श्रेष्ठ विश्वामित्रो महाबलः
१.०५१.००१ स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः
१.०५१.००१ प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम्
१.०५१.००२ स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना
१.०५१.००२ आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह
१.०५१.००३ उपविष्टाय च तदा विश्वामित्राय धीमते
१.०५१.००३ यथान्यायं मुनिवरः फलमूलमुपाहरत्
१.०५१.००४ प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः
१.०५१.००४ तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत
१.०५१.००५ विश्वामित्रो महातेजा वनस्पतिगणे तथा
१.०५१.००५ सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्
१.०५१.००६ सुखोपविष्टं राजानं विश्वामित्रं महातपाः
१.०५१.००६ पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः
१.०५१.००७ कच्चित्ते कुशलं राजन् कच्चिद्धर्मेण रञ्जयन्
१.०५१.००७ प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक
१.०५१.००८ कच्चित्ते सुभृता भृत्याः कच्चित्तिष्ठन्ति शासने
१.०५१.००८ कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन
१.०५१.००९ कच्चिद्बले च कोशे च मित्रेषु च परंतप
१.०५१.००९ कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ
१.०५१.०१० सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्
१.०५१.०१० विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः
१.०५१.०११ कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः
१.०५१.०११ मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्
१.०५१.०१२ ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन
१.०५१.०१२ विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव
१.०५१.०१३ आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल
१.०५१.०१३ तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे
१.०५१.०१४ सत्क्रियां तु भवानेतां प्रतीच्छतु मयोद्यताम्
१.०५१.०१४ राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः
१.०५१.०१५ एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः
१.०५१.०१५ कृतमित्यब्रवीद्राजा पूजावाक्येन मे त्वया
१.०५१.०१६ फलमूलेन भगवन् विद्यते यत्तवाश्रमे
१.०५१.०१६ पाद्येनाचमनीयेन भगवद्दर्शनेन च
१.०५१.०१७ सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः
१.०५१.०१७ गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा
१.०५१.०१८ एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि
१.०५१.०१८ न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः
१.०५१.०१९ बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह
१.०५१.०१९ यथा प्रियं भगवतस्तथास्तु मुनिसत्तम
१.०५१.०२० एवमुक्तो महातेजा वसिष्ठो जपतां वरः
१.०५१.०२० आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः
१.०५१.०२१ एह्येहि शबले क्षिप्रं शृणु चापि वचो मम
१.०५१.०२१ सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्
१.०५१.०२१ भोजनेन महार्हेण सत्कारं संविधत्स्व मे
१.०५१.०२२ यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्
१.०५१.०२२ तत्सर्वं कामधुग्दिव्ये अभिवर्षकृते मम
१.०५१.०२३ रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्
१.०५१.०२३ अन्नानां निचयं सर्वं सृजस्व शबले त्वर
१.०५२.००१ एवमुक्ता वसिष्ठेन शबला शत्रुसूदन
१.०५२.००१ विदधे कामधुक्कामान् यस्य यस्य यथेप्सितम्
१.०५२.००२ इक्षून्मधूंस्तथा लाजान्मैरेयांश्च वरासवान्
१.०५२.००२ पानानि च महार्हाणि भक्ष्यांश्चोच्चावचांस्तथा
१.०५२.००३ उष्णाढ्यस्यौदनस्यापि राशयः पर्वतोपमाः
१.०५२.००३ मृष्टान्नानि च सूपाश्च दधिकुल्यास्तथैव च
१.०५२.००४ नानास्वादुरसानां च षाडवानां तथैव च
१.०५२.००४ भाजनानि सुपूर्णानि गौडानि च सहस्रशः
१.०५२.००५ सर्वमासीत्सुसंतुष्टं हृष्टपुष्टजनाकुलम्
१.०५२.००५ विश्वामित्रबलं राम वसिष्ठेनाभितर्पितम्
१.०५२.००६ विश्वामित्रोऽपि राजर्षिर्हृष्टपुष्टस्तदाभवत्
१.०५२.००६ सान्तः पुरवरो राजा सब्राह्मणपुरोहितः
१.०५२.००७ सामात्यो मन्त्रिसहितः सभृत्यः पूजितस्तदा
१.०५२.००७ युक्तः परेण हर्षेण वसिष्ठमिदमब्रवीत्
१.०५२.००८ पूजितोऽहं त्वया ब्रह्मन् पूजार्हेण सुसत्कृतः
१.०५२.००८ श्रूयतामभिधास्यामि वाक्यं वाक्यविशारद
१.०५२.००९ गवां शतसहस्रेण दीयतां शबला मम
१.०५२.००९ रत्नं हि भगवन्नेतद्रत्नहारी च पार्थिवः
१.०५२.००९ तस्मान्मे शबलां देहि ममैषा धर्मतो द्विज
१.०५२.०१० एवमुक्तस्तु भगवान् वसिष्ठो मुनिसत्तमः
१.०५२.०१० विश्वामित्रेण धर्मात्मा प्रत्युवाच महीपतिम्
१.०५२.०११ नाहं शतसहस्रेण नापि कोटिशतैर्गवाम्
१.०५२.०११ राजन् दास्यामि शबलां राशिभी रजतस्य वा
१.०५२.०१२ न परित्यागमर्हेयं मत्सकाशादरिंदम
१.०५२.०१२ शाश्वती शबला मह्यं कीर्तिरात्मवतो यथा
१.०५२.०१३ अस्यां हव्यं च कव्यं च प्राणयात्रा तथैव च
१.०५२.०१३ आयत्तमग्निहोत्रं च बलिर्होमस्तथैव च
१.०५२.०१४ स्वाहाकारवषट्कारौ विद्याश्च विविधास्तथा
१.०५२.०१४ आयत्तमत्र राजर्षे सर्वमेतन्न संशयः
१.०५२.०१५ सर्व स्वमेतत्सत्येन मम तुष्टिकरी सदा
१.०५२.०१५ कारणैर्बहुभी राजन्न दास्ये शबलां तव
१.०५२.०१६ वसिष्ठेनैवमुक्तस्तु विश्वामित्रोऽब्रवीत्ततः
१.०५२.०१६ संरब्धतरमत्यर्थं वाक्यं वाक्यविशारदः
१.०५२.०१७ हैरण्यकक्ष्याग्रैवेयान् सुवर्णाङ्कुशभूषितान्
१.०५२.०१७ ददामि कुञ्जराणां ते सहस्राणि चतुर्दश
१.०५२.०१८ हैरण्यानां रथानां च श्वेताश्वानां चतुर्युजाम्
१.०५२.०१८ ददामि ते शतान्यष्टौ किङ्किणीकविभूषितान्
१.०५२.०१९ हयानां देशजातानां कुलजानां महौजसाम्
१.०५२.०१९ सहस्रमेकं दश च ददामि तव सुव्रत
१.०५२.०२० नानावर्णविभक्तानां वयःस्थानां तथैव च
१.०५२.०२० ददाम्येकां गवां कोटिं शबला दीयतां मम
१.०५२.०२१ एवमुक्तस्तु भगवान् विश्वामित्रेण धीमता
१.०५२.०२१ न दास्यामीति शबलां प्राह राजन् कथं चन
१.०५२.०२२ एतदेव हि मे रत्नमेतदेव हि मे धनम्
१.०५२.०२२ एतदेव हि सर्वस्वमेतदेव हि जीवितम्
१.०५२.०२३ दर्शश्च पूर्णमासश्च यज्ञाश्चैवाप्तदक्षिणाः
१.०५२.०२३ एतदेव हि मे राजन् विविधाश्च क्रियास्तथा
१.०५२.०२४ अदोमूलाः क्रियाः सर्वा मम राजन्न संशयः
१.०५२.०२४ बहूनां किं प्रलापेन न दास्ये कामदोहिनीम्
१.०५३.००१ कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः
१.०५३.००१ तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत
१.०५३.००२ नीयमाना तु शबला राम राज्ञा महात्मना
१.०५३.००२ दुःखिता चिन्तयामास रुदन्ती शोककर्शिता
१.०५३.००३ परित्यक्ता वसिष्ठेन किमहं सुमहात्मना
१.०५३.००३ याहं राजभृतैर्दीना ह्रियेयं भृशदुःखिता
१.०५३.००४ किं मयापकृतं तस्य महर्षेर्भावितात्मनः
१.०५३.००४ यन्मामनागसं भक्तामिष्टां त्यजति धार्मिकः
१.०५३.००५ इति सा चिन्तयित्वा तु निःश्वस्य च पुनः पुनः
१.०५३.००५ जगाम वेगेन तदा वसिष्ठं परमौजसं
१.०५३.००६ निर्धूय तांस्तदा भृत्याञ्शतशः शत्रुसूदन
१.०५३.००६ जगामानिलवेगेन पादमूलं महात्मनः
१.०५३.००७ शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्
१.०५३.००७ वसिष्ठस्याग्रतः स्थित्वा मेघदुन्दुभिराविणी
१.०५३.००८ भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत
१.०५३.००८ यस्माद्राजभृता मां हि नयन्ते त्वत्सकाशतः
१.०५३.००९ एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्
१.०५३.००९ शोकसंतप्तहृदयां स्वसारमिव दुःखिताम्
१.०५३.०१० न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया
१.०५३.०१० एष त्वां नयते राजा बलान्मत्तो महाबलः
१.०५३.०११ न हि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः
१.०५३.०११ बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च
१.०५३.०१२ इयमक्षौहिणीपूर्णा सवाजिरथसंकुला
१.०५३.०१२ हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः
१.०५३.०१३ एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्
१.०५३.०१३ वचनं वचनज्ञा सा ब्रह्मर्षिममितप्रभम्
१.०५३.०१४ न बलं क्षत्रियस्याहुर्ब्राह्मणो बलवत्तरः
१.०५३.०१४ ब्रह्मन् ब्रह्मबलं दिव्यं क्षत्रात्तु बलवत्तरम्
१.०५३.०१५ अप्रमेयबलं तुभ्यं न त्वया बलवत्तरः
१.०५३.०१५ विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम्
१.०५३.०१६ नियुङ्क्ष्व मां महातेजस्त्वद्ब्रह्मबलसंभृताम्
१.०५३.०१६ तस्य दर्पं बलं यत्तन्नाशयामि दुरात्मनः
१.०५३.०१७ इत्युक्तस्तु तया राम वसिष्ठः सुमहायशाः
१.०५३.०१७ सृजस्वेति तदोवाच बलं परबलारुजम्
१.०५३.०१८ तस्या हुम्भारवोत्सृष्टाः पह्लवाः शतशो नृप
१.०५३.०१८ नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः
१.०५३.०१९ स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः
१.०५३.०१९ पह्लवान्नाशयामास शस्त्रैरुच्चावचैरपि
१.०५३.०२० विश्वामित्रार्दितान् दृष्ट्वा पह्लवाञ्शतशस्तदा
१.०५३.०२० भूय एवासृजद्घोराञ्शकान् यवनमिश्रितान्
१.०५३.०२१ तैरासीत्संवृता भूमिः शकैर्यवनमिश्रितैः
१.०५३.०२१ प्रभावद्भिर्महावीर्यैर्हेमकिञ्जल्कसंनिभैः
१.०५३.०२२ दीर्घासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः
१.०५३.०२२ निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः
१.०५३.०२३ ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह
१.०५४.००१ ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्
१.०५४.००१ वसिष्ठश्चोदयामास कामधुक्सृज योगतः
१.०५४.००२ तस्या हुम्भारवाज्जाताः काम्बोजा रविसंनिभाः
१.०५४.००२ ऊधसस्त्वथ संजाताः पह्लवाः शस्त्रपाणयः
१.०५४.००३ योनिदेशाच्च यवनः शकृद्देशाच्छकास्तथा
१.०५४.००३ रोमकूपेषु मेच्छाश्च हरीताः सकिरातकाः
१.०५४.००४ तैस्तन्निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात्
१.०५४.००४ सपदातिगजं साश्वं सरथं रघुनन्दन
१.०५४.००५ दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना
१.०५४.००५ विश्वामित्रसुतानां तु शतं नानाविधायुधम्
१.०५४.००६ अभ्यधावत्सुसंक्रुद्धं वसिष्ठं जपतां वरम्
१.०५४.००६ हुंकारेणैव तान् सर्वान्निर्ददाह महानृषिः
१.०५४.००७ ते साश्वरथपादाता वसिष्ठेन महात्मना
१.०५४.००७ भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तदा
१.०५४.००८ दृष्ट्वा विनाशितान् पुत्रान् बलं च सुमहायशाः
१.०५४.००८ सव्रीडश्चिन्तयाविष्टो विश्वामित्रोऽभवत्तदा
१.०५४.००९ संदुर इव निर्वेगो भग्नदंष्ट्र इवोरगः
१.०५४.००९ उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः
१.०५४.०१० हतपुत्रबलो दीनो लूनपक्ष इव द्विजः
१.०५४.०१० हतदर्पो हतोत्साहो निर्वेदं समपद्यत
१.०५४.०११ स पुत्रमेकं राज्याय पालयेति नियुज्य च
१.०५४.०११ पृथिवीं क्षत्रधर्मेण वनमेवान्वपद्यत
१.०५४.०१२ स गत्वा हिमवत्पार्श्वं किंनरोरगसेवितम्
१.०५४.०१२ महादेवप्रसादार्थं तपस्तेपे महातपाः
१.०५४.०१३ केन चित्त्वथ कालेन देवेशो वृषभध्वजः
१.०५४.०१३ दर्शयामास वरदो विश्वामित्रं महामुनिम्
१.०५४.०१४ किमर्थं तप्यसे राजन् ब्रूहि यत्ते विवक्षितम्
१.०५४.०१४ वरदोऽस्मि वरो यस्ते काङ्क्षितः सोऽभिधीयताम्
१.०५४.०१५ एवमुक्तस्तु देवेन विश्वामित्रो महातपाः
१.०५४.०१५ प्रणिपत्य महादेवमिदं वचनमब्रवीत्
१.०५४.०१६ यदि तुष्टो महादेव धनुर्वेदो ममानघ
१.०५४.०१६ साङ्गोपाङ्गोपनिषदः सरहस्यः प्रदीयताम्
१.०५४.०१७ यानि देवेषु चास्त्राणि दानवेषु महर्षिषु
१.०५४.०१७ गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ
१.०५४.०१८ तव प्रसादाद्भवतु देवदेव ममेप्सितम्
१.०५४.०१८ एवमस्त्विति देवेशो वाक्यमुक्त्वा दिवं गतः
१.०५४.०१९ प्राप्य चास्त्राणि राजर्षिर्विश्वामित्रो महाबलः
१.०५४.०१९ दर्पेण महता युक्तो दर्पपूर्णोऽभवत्तदा
१.०५४.०२० विवर्धमानो वीर्येण समुद्र इव पर्वणि
१.०५४.०२० हतमेव तदा मेने वसिष्ठमृषिसत्तमम्
१.०५४.०२१ ततो गत्वाश्रमपदं मुमोचास्त्राणि पार्थिवः
१.०५४.०२१ यैस्तत्तपोवनं सर्वं निर्दग्धं चास्त्रतेजसा
१.०५४.०२२ उदीर्यमाणमस्त्रं तद्विश्वामित्रस्य धीमतः
१.०५४.०२२ दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः
१.०५४.०२३ वसिष्ठस्य च ये शिष्यास्तथैव मृगपक्षिणः
१.०५४.०२३ विद्रवन्ति भयाद्भीता नानादिग्भ्यः सहस्रशः
१.०५४.०२४ वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः
१.०५४.०२४ मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम्
१.०५४.०२५ वदतो वै वसिष्ठस्य मा भैष्टेति मुहुर्मुहुः
१.०५४.०२५ नाशयाम्यद्य गाधेयं नीहारमिव भास्करः
१.०५४.०२६ एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः
१.०५४.०२६ विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्
१.०५४.०२७ आश्रमं चिरसंवृद्धं यद्विनाशितवानसि
१.०५४.०२७ दुराचारोऽसि यन्मूढ तस्मात्त्वं न भविष्यसि
१.०५४.०२८ इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः
१.०५४.०२८ विधूम इव कालाग्निर्यमदण्डमिवापरम्
१.०५५.००१ एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः
१.०५५.००१ आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत्
१.०५५.००२ वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्
१.०५५.००३ क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय
१.०५५.००३ नाशयाम्येष ते दर्पं शस्त्रस्य तव गाधिज
१.०५५.००४ क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्
१.०५५.००४ पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन
१.०५५.००५ तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्
१.०५५.००५ ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा
१.०५५.००६ वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा
१.०५५.००६ ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः
१.०५५.००७ मानवं मोहनं चैव गान्धर्वं स्वापनं तथा
१.०५५.००७ जृम्भणं मोहनं चैव संतापनविलापने
१.०५५.००८ शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्
१.०५५.००८ ब्रह्मपाशं कालपाशं वारुणं पाशमेव च
१.०५५.००९ पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा
१.०५५.००९ दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथाइव च
१.०५५.०१० धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च
१.०५५.०१० वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा
१.०५५.०११ शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा
१.०५५.०११ वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्
१.०५५.०१२ त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्
१.०५५.०१२ एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन
१.०५५.०१३ वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्
१.०५५.०१३ तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः
१.०५५.०१४ तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः
१.०५५.०१४ तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः
१.०५५.०१५ देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः
१.०५५.०१५ त्रैलोक्यमासीत्संत्रस्तं ब्रह्मास्त्रे समुदीरिते
१.०५५.०१६ तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा
१.०५५.०१६ वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव
१.०५५.०१७ ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः
१.०५५.०१७ त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम्
१.०५५.०१८ रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः
१.०५५.०१८ मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः
१.०५५.०१९ प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः
१.०५५.०१९ विधूम इव कालाग्निर्यमदण्ड इवापरः
१.०५५.०२० ततोऽस्तुवन्मुनिगणा वसिष्ठं जपतां वरम्
१.०५५.०२० अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा
१.०५५.०२१ निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महातपाः
१.०५५.०२१ प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः
१.०५५.०२२ एवमुक्तो महातेजाः शमं चक्रे महातपाः
१.०५५.०२२ विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत्
१.०५५.०२३ धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्
१.०५५.०२३ एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे
१.०५५.०२४ तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसः
१.०५५.०२४ तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारकम्
१.०५६.००१ ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः
१.०५६.००१ विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना
१.०५६.००२ स दक्षिणां दिशं गत्वा महिष्या सह राघव
१.०५६.००२ तताप परमं घोरं विश्वामित्रो महातपाः
१.०५६.००२ फलमूलाशनो दान्तश्चचार परमं तपः
१.०५६.००३ अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः
१.०५६.००३ हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः
१.०५६.००४ पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः
१.०५६.००४ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्
१.०५६.००५ जिता राजर्षिलोकास्ते तपसा कुशिकात्मज
१.०५६.००५ अनेन तपसा त्वां हि राजर्षिरिति विद्महे
१.०५६.००६ एवमुक्त्वा महातेजा जगाम सह दैवतैः
१.०५६.००६ त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः
१.०५६.००७ विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किं चिदवाङ्मुखः
१.०५६.००७ दुःखेन महताविष्टः समन्युरिदमब्रवीत्
१.०५६.००८ तपश्च सुमहत्तप्तं राजर्षिरिति मां विदुः
१.०५६.००८ देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम्
१.०५६.००९ एवं निश्चित्य मनसा भूय एव महातपाः
१.०५६.००९ तपश्चचार काकुत्स्थ परमं परमात्मवान्
१.०५६.०१० एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः
१.०५६.०१० त्रिशङ्कुरिति विख्यात इक्ष्वाकु कुलनन्दनः
१.०५६.०११ तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव
१.०५६.०११ गच्छेयं स्वशरीरेण देवानां परमां गतिम्
१.०५६.०१२ स वसिष्ठं समाहूय कथयामास चिन्तितम्
१.०५६.०१२ अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना
१.०५६.०१३ प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्
१.०५६.०१३ वसिष्ठा दीर्घ तपसस्तपो यत्र हि तेपिरे
१.०५६.०१४ त्रिशङ्कुः सुमहातेजाः शतं परमभास्वरम्
१.०५६.०१४ वसिष्ठपुत्रान् ददृशे तप्यमानान् यशस्विनः
१.०५६.०१५ सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्
१.०५६.०१५ अभिवाद्यानुपूर्व्येण ह्रिया किं चिदवाङ्मुखः
१.०५६.०१५ अब्रवीत्सुमहातेजाः सर्वानेव कृताञ्जलिः
१.०५६.०१६ शरणं वः प्रपद्येऽहं शरण्याञ्शरणागतः
१.०५६.०१६ प्रत्याख्यातोऽस्मि भद्रं वो वसिष्ठेन महात्मना
१.०५६.०१७ यष्टुकामो महायज्ञं तदनुज्ञातुमर्थथ
१.०५६.०१७ गुरुपुत्रानहं सर्वान्नमस्कृत्य प्रसादये
१.०५६.०१८ शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्
१.०५६.०१८ ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः
१.०५६.०१८ सशरीरो यथाहं हि देवलोकमवाप्नुयाम्
१.०५६.०१९ प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः
१.०५६.०१९ गुरुपुत्रानृते सर्वान्नाहं पश्यामि कां चन
१.०५६.०२० इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः
१.०५६.०२० तस्मादनन्तरं सर्वे भवन्तो दैवतं मम
१.०५७.००१ ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्
१.०५७.००१ ऋषिपुत्रशतं राम राजानमिदमब्रवीत्
१.०५७.००२ प्रत्याख्यातोऽसि दुर्बुद्धे गुरुणा सत्यवादिना
१.०५७.००२ तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्
१.०५७.००३ इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः
१.०५७.००३ न चातिक्रमितुं शक्यं वचनं सत्यवादिनः
१.०५७.००४ अशक्यमिति चोवाच वसिष्ठो भगवानृषिः
१.०५७.००४ तं वयं वै समाहर्तुं क्रतुं शक्ताः कथं तव
१.०५७.००५ बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः
१.०५७.००५ याजने भगवाञ्शक्तस्त्रैलोक्यस्यापि पार्थिव
१.०५७.००६ तेषां तद्वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्
१.०५७.००६ स राजा पुनरेवैतानिदं वचनमब्रवीत्
१.०५७.००७ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च
१.०५७.००७ अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः
१.०५७.००८ ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्
१.०५७.००८ शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि
१.०५७.००८ एवमुक्त्वा महात्मानो विविशुस्ते स्वमाश्रमम्
१.०५७.००९ अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः
१.०५७.००९ नीलवस्त्रधरो नीलः परुषो ध्वस्तमूर्धजः
१.०५७.००९ चित्यमाल्यानुलेपश्च आयसाभरणोऽभवत्
१.०५७.०१० तं दृष्ट्वा मन्त्रिणः सर्वे त्यक्त्वा चण्डालरूपिणम्
१.०५७.०१० प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः
१.०५७.०११ एको हि राजा काकुत्स्थ जगाम परमात्मवान्
१.०५७.०११ दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्
१.०५७.०१२ विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्
१.०५७.०१२ चण्डालरूपिणं राम मुनिः कारुण्यमागतः
१.०५७.०१३ कारुण्यात्स महातेजा वाक्यं परम धार्मिकः
१.०५७.०१३ इदं जगाद भद्रं ते राजानं घोरदर्शनम्
१.०५७.०१४ किमागमनकार्यं ते राजपुत्र महाबल
१.०५७.०१४ अयोध्याधिपते वीर शापाच्चण्डालतां गतः
१.०५७.०१५ अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः
१.०५७.०१५ अब्रवीत्प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्
१.०५७.०१६ प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च
१.०५७.०१६ अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः
१.०५७.०१७ सशरीरो दिवं यायामिति मे सौम्यदर्शनम्
१.०५७.०१७ मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्
१.०५७.०१८ अनृतं नोक्त पूर्वं मे न च वक्ष्ये कदा चन
१.०५७.०१८ कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे
१.०५७.०१९ यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः
१.०५७.०१९ गुरवश्च महात्मानः शीलवृत्तेन तोषिताः
१.०५७.०२० धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः
१.०५७.०२० परितोषं न गच्छन्ति गुरवो मुनिपुंगव
१.०५७.०२१ दैवमेव परं मन्ये पौरुषं तु निरर्थकम्
१.०५७.०२१ दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः
१.०५७.०२२ तस्य मे परमार्तस्य प्रसादमभिकाङ्क्षतः
१.०५७.०२२ कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः
१.०५७.०२३ नान्यां गतिं गमिष्यामि नान्यः शरणमस्ति मे
१.०५७.०२३ दैवं पुरुषकारेण निवर्तयितुमर्हसि
१.०५८.००१ उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः
१.०५८.००१ अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालरूपिणम्
१.०५८.००२ इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्
१.०५८.००२ शरणं ते भविष्यामि मा भैषीर्नृपपुंगव
१.०५८.००३ अहमामन्त्रये सर्वान्महर्षीन् पुण्यकर्मणः
१.०५८.००३ यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः
१.०५८.००४ गुरुशापकृतं रूपं यदिदं त्वयि वर्तते
१.०५८.००४ अनेन सह रूपेण सशरीरो गमिष्यसि
१.०५८.००५ हस्तप्राप्तमहं मन्ये स्वर्गं तव नरेश्वर
१.०५८.००५ यस्त्वं कौशिकमागम्य शरण्यं शरणं गतः
१.०५८.००६ एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान्
१.०५८.००६ व्यादिदेश महाप्राज्ञान् यज्ञसंभारकारणात्
१.०५८.००७ सर्वाञ्शिष्यान् समाहूय वाक्यमेतदुवाच ह
१.०५८.००८ सर्वानृषिवरान् वत्सा आनयध्वं ममाज्ञया
१.०५८.००८ सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्
१.०५८.००९ यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः
१.०५८.००९ तत्सर्वमखिलेनोक्तं ममाख्येयमनादृतम्
१.०५८.०१० तस्य तद्वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया
१.०५८.०१० आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः
१.०५८.०११ ते च शिष्याः समागम्य मुनिं ज्वलिततेजसं
१.०५८.०११ ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम्
१.०५८.०१२ श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः
१.०५८.०१२ सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्
१.०५८.०१३ वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम्
१.०५८.०१३ यदाह वचनं सर्वं शृणु त्वं मुनिपुंगव
१.०५८.०१४ क्षत्रियो याजको यस्य चण्डालस्य विशेषतः
१.०५८.०१४ कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः
१.०५८.०१५ ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम्
१.०५८.०१५ कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः
१.०५८.०१६ एतद्वचनं नैष्ठुर्यमूचुः संरक्तलोचनाः
१.०५८.०१६ वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः
१.०५८.०१७ तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः
१.०५८.०१७ क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्
१.०५८.०१८ यद्दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्
१.०५८.०१८ भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः
१.०५८.०१९ अद्य ते कालपाशेन नीता वैवस्वतक्षयम्
१.०५८.०१९ सप्तजातिशतान्येव मृतपाः सन्तु सर्वशः
१.०५८.०२० श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः
१.०५८.०२० विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्
१.०५८.०२१ महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्
१.०५८.०२१ दूषिटः सर्वलोकेषु निषादत्वं गमिष्यति
१.०५८.०२२ प्राणातिपातनिरतो निरनुक्रोशतां गतः
१.०५८.०२२ दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति
१.०५८.०२३ एतावदुक्त्वा वचनं विश्वामित्रो महातपाः
१.०५८.०२३ विरराम महातेजा ऋषिमध्ये महामुनिः
१.०५९.००१ तपोबलहतान् कृत्वा वासिष्ठान् समहोदयान्
१.०५९.००१ ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत
१.०५९.००२ अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः
१.०५९.००२ धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः
१.०५९.००२ स्वेनानेन शरीरेण देवलोकजिगीषया
१.०५९.००३ यथायं स्वशरीरेण देवलोकं गमिष्यति
१.०५९.००३ तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह
१.०५९.००४ विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः
१.०५९.००४ ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम्
१.०५९.००५ अयं कुशिकदायादो मुनिः परमकोपनः
१.०५९.००५ यदाह वचनं सम्यगेतत्कार्यं न संशयः
१.०५९.००६ अग्निकल्पो हि भगवाञ्शापं दास्यति रोषितः
१.०५९.००६ तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम्
१.०५९.००६ गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा
१.०५९.००७ ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते
१.०५९.००८ एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा
१.०५९.००८ याजकाश्च महातेजा विश्वामित्रोऽभवत्क्रतौ
१.०५९.००९ ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः
१.०५९.००९ चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि
१.०५९.०१० ततः कालेन महता विश्वामित्रो महातपाः
१.०५९.०१० चकारावाहनं तत्र भागार्थं सर्वदेवताः
१.०५९.०११ नाह्यागमंस्तदाहूता भागार्थं सर्वदेवताः
१.०५९.०११ ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः
१.०५९.०१२ स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्
१.०५९.०१२ पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर
१.०५९.०१३ एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा
१.०५९.०१३ दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप
१.०५९.०१४ स्वार्जितं किं चिदप्यस्ति मया हि तपसः फलम्
१.०५९.०१४ राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज
१.०५९.०१५ उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः
१.०५९.०१५ दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा
१.०५९.०१६ देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः
१.०५९.०१६ सह सर्वैः सुरगणैरिदं वचनमब्रवीत्
१.०५९.०१७ त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः
१.०५९.०१७ गुरुशापहतो मूढ पत भूमिमवाक्शिराः
१.०५९.०१८ एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः
१.०५९.०१८ विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्
१.०५९.०१९ तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः
१.०५९.०१९ रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्
१.०५९.०२० ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः
१.०५९.०२० सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः
१.०५९.०२१ नक्षत्रमालामपरामसृजत्क्रोधमूर्छितः
१.०५९.०२१ दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः
१.०५९.०२२ सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः
१.०५९.०२२ अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः
१.०५९.०२२ दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे
१.०५९.०२३ ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः
१.०५९.०२३ विश्वामित्रं महात्मानमूचुः सानुनयं वचः
१.०५९.०२४ अयं राजा महाभाग गुरुशापपरिक्षतः
१.०५९.०२४ सशरीरो दिवं यातुं नार्हत्येव तपोधन
१.०५९.०२५ तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः
१.०५९.०२५ अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः
१.०५९.०२६ सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः
१.०५९.०२६ आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे
१.०५९.०२७ सर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः
१.०५९.०२७ नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ
१.०५९.०२८ यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः
१.०५९.०२८ मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ
१.०५९.०२९ एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्
१.०५९.०३० एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः
१.०५९.०३० गगने तान्यनेकानि वैश्वानरपथाद्बहिः
१.०५९.०३१ नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्
१.०५९.०३१ अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः
१.०५९.०३२ विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः
१.०५९.०३२ ऋषिभिश्च महातेजा बाढमित्याह देवताः
१.०५९.०३३ ततो देवा महात्मानो मुनयश्च तपोधनाः
१.०५९.०३३ जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम
१.०६०.००१ विश्वामित्रो महात्माथ प्रस्थितान् प्रेक्ष्य तानृषीन्
१.०६०.००१ अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः
१.०६०.००२ महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्
१.०६०.००२ दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः
१.०६०.००३ पश्चिमायां विशालायां पुष्करेषु महात्मनः
१.०६०.००३ सुखं तपश्चरिष्यामः परं तद्धि तपोवनम्
१.०६०.००४ एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः
१.०६०.००४ तप उग्रं दुराधर्षं तेपे मूलफलाशनः
१.०६०.००५ एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः
१.०६०.००५ अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे
१.०६०.००६ तस्य वै यजमानस्य पशुमिन्द्रो जहार ह
१.०६०.००६ प्रनष्टे तु पशौ विप्रो राजानमिदमब्रवीत्
१.०६०.००७ पशुरद्य हृतो राजन् प्रनष्टस्तव दुर्नयात्
१.०६०.००७ अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर
१.०६०.००८ प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ
१.०६०.००८ आनयस्व पशुं शीघ्रं यावत्कर्म प्रवर्तते
१.०६०.००९ उपाध्याय वचः श्रुत्वा स राजा पुरुषर्षभ
१.०६०.००९ अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः
१.०६०.०१० देशाञ्जनपदांस्तांस्तान्नगराणि वनानि च
१.०६०.०१० आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः
१.०६०.०११ स पुत्रसहितं तात सभार्यं रघुनन्दन
१.०६०.०११ भृगुतुन्दे समासीनमृचीकं संददर्श ह
१.०६०.०१२ तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च
१.०६०.०१२ ब्रह्मर्षिं तपसा दीप्तं राजर्षिरमितप्रभः
१.०६०.०१२ पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः
१.०६०.०१३ गवां शतसहस्रेण विक्रिणीषे सुतं यदि
१.०६०.०१३ पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव
१.०६०.०१४ सर्वे परिसृता देशा यज्ञियं न लभे पशुम्
१.०६०.०१४ दातुमर्हसि मूल्येन सुतमेकमितो मम
१.०६०.०१५ एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद्वचः
१.०६०.०१५ नाहं ज्येष्ठं नरश्रेष्ठं विक्रीणीयां कथं चन
१.०६०.०१६ ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्
१.०६०.०१६ उवाच नरशार्दूलमम्बरीषं तपस्विनी
१.०६०.०१७ ममापि दयितं विद्धि कनिष्ठं शुनकं नृप
१.०६०.०१८ प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः
१.०६०.०१८ मात्ःणां च कनीयांसस्तस्माद्रक्षे कनीयसं
१.०६०.०१९ उक्तवाक्ये मुनौ तस्मिन्मुनिपत्न्यां तथैव च
१.०६०.०१९ शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्
१.०६०.०२० पिता ज्येष्ठमविक्रेयं माता चाह कनीयसं
१.०६०.०२० विक्रीतं मध्यमं मन्ये राजन् पुत्रं नयस्व माम्
१.०६०.०२१ गवां शतसहस्रेण शुनःशेपं नरेश्वरः
१.०६०.०२१ गृहीत्वा परमप्रीतो जगाम रघुनन्दन
१.०६०.०२२ अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः
१.०६०.०२२ शुनःशेपं महातेजा जगामाशु महायशाः
१.०६१.००१ शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः
१.०६१.००१ व्यश्राम्यत्पुष्करे राजा मध्याह्ने रघुनन्दन
१.०६१.००२ तस्य विश्रममाणस्य शुनःशेपो महायशाः
१.०६१.००२ पुष्करं श्रेष्ठमागम्य विश्वामित्रं ददर्श ह
१.०६१.००३ विषण्णवदनो दीनस्तृष्णया च श्रमेण च
१.०६१.००३ पपाताङ्के मुने राम वाक्यं चेदमुवाच ह
१.०६१.००४ न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः
१.०६१.००४ त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव
१.०६१.००५ त्राता त्वं हि मुनिश्रेष्ठ सर्वेषां त्वं हि भावनः
१.०६१.००५ राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः
१.०६१.००६ स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्
१.०६१.००६ स मे नाथो ह्यनाथस्य भव भव्येन चेतसा
१.०६१.००६ पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्
१.०६१.००७ तस्य तद्वचनं श्रुत्वा विश्वामित्रो महातपाः
१.०६१.००७ सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह
१.०६१.००८ यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः
१.०६१.००८ परलोकहितार्थाय तस्य कालोऽयमागतः
१.०६१.००९ अयं मुनिसुतो बालो मत्तः शरणमिच्छति
१.०६१.००९ अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः
१.०६१.०१० सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः
१.०६१.०१० पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत
१.०६१.०११ नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्
१.०६१.०११ देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः
१.०६१.०१२ मुनेस्तु वचनं श्रुत्वा मधुष्यन्दादयः सुताः
१.०६१.०१२ साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्
१.०६१.०१३ कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो
१.०६१.०१३ अकार्यमिव पश्यामः श्वमांसमिव भोजने
१.०६१.०१४ तेषां तद्वचनं श्रुत्वा पुत्राणां मुनिपुंगवः
१.०६१.०१४ क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे
१.०६१.०१५ निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्
१.०६१.०१५ अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्
१.०६१.०१६ श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु
१.०६१.०१६ पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ
१.०६१.०१७ कृत्वा शापसमायुक्तान् पुत्रान्मुनिवरस्तदा
१.०६१.०१७ शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्
१.०६१.०१८ पवित्रपाशैरासक्तो रक्तमाल्यानुलेपनः
१.०६१.०१८ वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर
१.०६१.०१९ इमे तु गाथे द्वे दिव्ये गायेथा मुनिपुत्रक
१.०६१.०१९ अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि
१.०६१.०२० शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः
१.०६१.०२० त्वरया राजसिंहं तमम्बरीषमुवाच ह
१.०६१.०२१ राजसिंह महासत्त्व शीघ्रं गच्छावहे सदः
१.०६१.०२१ निवर्तयस्व राजेन्द्र दीक्षां च समुपाहर
१.०६१.०२२ तद्वाक्यमृषिपुत्रस्य श्रुत्वा हर्षं समुत्सुकः
१.०६१.०२२ जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः
१.०६१.०२३ सदस्यानुमते राजा पवित्रकृतलक्षणम्
१.०६१.०२३ पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्
१.०६१.०२४ स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ
१.०६१.०२४ इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः
१.०६१.०२५ ततः प्रीतः सहस्राक्षो रहस्यस्तुतितर्पितः
१.०६१.०२५ दीर्घमायुस्तदा प्रादाच्छुनःशेपाय राघव
१.०६१.०२६ स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्
१.०६१.०२६ फलं बहुगुणं राम सहस्राक्षप्रसादजम्
१.०६१.०२७ विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः
१.०६१.०२७ पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च
१.०६२.००१ पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्
१.०६२.००१ अभ्यागच्छन् सुराः सर्वे तपःफलचिकीर्षवः
१.०६२.००२ अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः
१.०६२.००२ ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः
१.०६२.००३ तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्
१.०६२.००३ विश्वामित्रो महातेजा भूयस्तेपे महत्तपः
१.०६२.००४ ततः कालेन महता मेनका परमाप्सराः
१.०६२.००४ पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे
१.०६२.००५ तां ददर्श महातेजा मेनकां कुशिकात्मजः
१.०६२.००५ रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा
१.०६२.००६ दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत्
१.०६२.००६ अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे
१.०६२.००६ अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम्
१.०६२.००७ इत्युक्ता सा वरारोहा तत्रावासमथाकरोत्
१.०६२.००७ तपसो हि महाविघ्नो विश्वामित्रमुपागतः
१.०६२.००८ तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव
१.०६२.००८ विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः
१.०६२.००९ अथ काले गते तस्मिन् विश्वामित्रो महामुनिः
१.०६२.००९ सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः
१.०६२.०१० बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन
१.०६२.०१० सर्वं सुराणां कर्मैतत्तपोऽपहरणं महत्
१.०६२.०११ अहोरात्रापदेशेन गताः संवत्सरा दश
१.०६२.०११ काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः
१.०६२.०१२ विनिःश्वसन्मुनिवरः पश्चात्तापेन दुःखितः
१.०६२.०१३ भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्
१.०६२.०१३ मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः
१.०६२.०१३ उत्तरं पर्वतं राम विश्वामित्रो जगाम ह
१.०६२.०१४ स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः
१.०६२.०१४ कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम्
१.०६२.०१५ तस्य वर्षसहस्रं तु घोरं तप उपासतः
१.०६२.०१५ उत्तरे पर्वते राम देवतानामभूद्भयम्
१.०६२.०१६ अमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः
१.०६२.०१६ महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः
१.०६२.०१७ देवतानां वचः श्रुत्वा सर्वलोकपितामहः
१.०६२.०१७ अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्
१.०६२.०१८ महर्षे स्वागतं वत्स तपसोग्रेण तोषितः
१.०६२.०१८ महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक
१.०६२.०१९ ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः
१.०६२.०१९ प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्
१.०६२.०२० ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः
१.०६२.०२० यदि मे भगवानाह ततोऽहं विजितेन्द्रियः
१.०६२.०२१ तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः
१.०६२.०२१ यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः
१.०६२.०२२ विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः
१.०६२.०२२ ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्
१.०६२.०२३ धर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः
१.०६२.०२३ शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः
१.०६२.०२४ एवं वर्षसहस्रं हि तपो घोरमुपागमत्
१.०६२.०२४ तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ
१.०६२.०२५ संभ्रमः सुमहानासीत्सुराणां वासवस्य च
१.०६२.०२५ रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः
१.०६२.०२६ उवाचात्महितं वाक्यमहितं कौशिकस्य च
१.०६३.००१ सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया
१.०६३.००१ लोभनं कौशिकस्येह काममोहसमन्वितम्
१.०६३.००२ तथोक्ता साप्सरा राम सहस्राक्षेण धीमता
१.०६३.००२ व्रीडिता प्राञ्जलिर्भूत्वा प्रत्युवाच सुरेश्वरम्
१.०६३.००३ अयं सुरपते घोरो विश्वामित्रो महामुनिः
१.०६३.००३ क्रोधमुत्स्रक्ष्यते घोरं मयि देव न संशयः
१.०६३.००३ ततो हि मे भयं देव प्रसादं कर्तुमर्हसि
१.०६३.००४ तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्
१.०६३.००४ मा भैषि रम्भे भद्रं ते कुरुष्व मम शासनम्
१.०६३.००५ कोकिलो हृदयग्राही माधवे रुचिरद्रुमे
१.०६३.००५ अहं कन्दर्पसहितः स्थास्यामि तव पार्श्वतः
१.०६३.००६ त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम्
१.०६३.००६ तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम्
१.०६३.००७ सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्
१.०६३.००७ लोभयामास ललिता विश्वामित्रं शुचिस्मिता
१.०६३.००८ कोकिलस्य तु शुश्राव वल्गु व्याहरतः स्वनम्
१.०६३.००८ संप्रहृष्टेन मनसा तत एनामुदैक्षत
१.०६३.००९ अथ तस्य च शब्देन गीतेनाप्रतिमेन च
१.०६३.००९ दर्शनेन च रम्भाया मुनिः संदेहमागतः
१.०६३.०१० सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुंगवः
१.०६३.०१० रम्भां क्रोधसमाविष्टः शशाप कुशिकात्मजः
१.०६३.०११ यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम्
१.०६३.०११ दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे
१.०६३.०१२ ब्राह्मणः सुमहातेजास्तपोबलसमन्वितः
१.०६३.०१२ उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम्
१.०६३.०१३ एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः
१.०६३.०१३ अशक्नुवन् धारयितुं कोपं संतापमागतः
१.०६३.०१४ तस्य शापेन महता रम्भा शैली तदाभवत्
१.०६३.०१४ वचः श्रुत्वा च कन्दर्पो महर्षेः स च निर्गतः
१.०६३.०१५ कोपेन स महातेजास्तपोऽपहरणे कृते
१.०६३.०१५ इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः
१.०६४.००१ अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः
१.०६४.००१ पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्
१.०६४.००२ मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्
१.०६४.००२ चकाराप्रतिमं राम तपः परमदुष्करम्
१.०६४.००३ पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्
१.०६४.००३ विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्
१.०६४.००४ ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः
१.०६४.००४ मोहितास्तेजसा तस्य तपसा मन्दरश्मयः
१.०६४.००४ कश्मलोपहताः सर्वे पितामहमथाब्रुवन्
१.०६४.००५ बहुभिः कारणैर्देव विश्वामित्रो महामुनिः
१.०६४.००५ लोभितः क्रोधितश्चैव तपसा चाभिवर्धते
१.०६४.००६ न ह्यस्य वृजिनं किं चिद्दृश्यते सूक्ष्ममप्यथ
१.०६४.००६ न दीयते यदि त्वस्य मनसा यदभीप्सितम्
१.०६४.००६ विनाशयति त्रैलोक्यं तपसा सचराचरम्
१.०६४.००६ व्याकुलाश्च दिशः सर्वा न च किं चित्प्रकाशते
१.०६४.००७ सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः
१.०६४.००७ प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः
१.०६४.००८ बुद्धिं न कुरुते यावन्नाशे देव महामुनिः
१.०६४.००८ तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः
१.०६४.००९ कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्
१.०६४.००९ देवराज्ये चिकीर्षेत दीयतामस्य यन्मतम्
१.०६४.०१० ततः सुरगणाः सर्वे पितामहपुरोगमाः
१.०६४.०१० विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्
१.०६४.०११ ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः
१.०६४.०११ ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक
१.०६४.०१२ दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः
१.०६४.०१२ स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्
१.०६४.०१३ पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम्
१.०६४.०१३ कृत्वा प्रणामं मुदितो व्याजहार महामुनिः
१.०६४.०१४ ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च
१.०६४.०१४ ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्
१.०६४.०१५ क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि
१.०६४.०१५ ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः
१.०६४.०१५ यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः
१.०६४.०१६ ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः
१.०६४.०१६ सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्
१.०६४.०१७ ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव
१.०६४.०१७ इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्
१.०६४.०१८ विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्
१.०६४.०१८ पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्
१.०६४.०१९ कृतकामो महीं सर्वां चचार तपसि स्थितः
१.०६४.०१९ एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना
१.०६४.०२० एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः
१.०६४.०२० एष धर्मः परो नित्यं वीर्यस्यैष परायणम्
१.०६४.०२१ शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ
१.०६४.०२१ जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्
१.०६४.०२२ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव
१.०६४.०२२ यज्ञं काकुत्स्थ सहितः प्राप्तवानसि धार्मिक
१.०६४.०२३ पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने
१.०६४.०२३ गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया
१.०६४.०२४ विस्तरेण च ते ब्रह्मन् कीर्त्यमानं महत्तपः
१.०६४.०२४ श्रुतं मया महातेजो रामेण च महात्मना
१.०६४.०२५ सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः
१.०६४.०२६ अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्
१.०६४.०२६ अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज
१.०६४.०२७ तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो
१.०६४.०२७ कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्
१.०६४.०२८ श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः
१.०६४.०२८ स्वागतं तपसां श्रेष्ठ मामनुज्ञातुमर्हसि
१.०६४.०२९ एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः
१.०६४.०२९ प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः
१.०६४.०३० विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः
१.०६४.०३० स्वं वाटमभिचक्राम पूज्यमानो महर्षिभिः
१.०६५.००१ ततः प्रभाते विमले कृतकर्मा नराधिपः
१.०६५.००१ विश्वामित्रं महात्मानमाजुहाव सराघवम्
१.०६५.००२ तमर्चयित्वा धर्मात्मा शास्त्रदृष्ट्तेन कर्मणा
१.०६५.००२ राघवौ च महात्मानौ तदा वाक्यमुवाच ह
१.०६५.००३ भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ
१.०६५.००३ भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम्
१.०६५.००४ एवमुक्तः स धर्मात्मा जनकेन महात्मना
१.०६५.००४ प्रत्युवाच मुनिर्वीरं वाक्यं वाक्यविशारदः
१.०६५.००५ पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ
१.०६५.००५ द्रष्टुकामौ धनुः श्रेष्ठं यदेतत्त्वयि तिष्ठति
१.०६५.००६ एतद्दर्शय भद्रं ते कृतकामौ नृपात्मजौ
१.०६५.००६ दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः
१.०६५.००७ एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्
१.०६५.००७ श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति
१.०६५.००८ देवरात इति ख्यातो निमेः षष्ठो महीपतिः
१.०६५.००८ न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मना
१.०६५.००९ दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्
१.०६५.००९ रुद्रस्तु त्रिदशान् रोषात्सलिलमिदमब्रवीत्
१.०६५.०१० यस्माद्भागार्थिनो भागान्नाकल्पयत मे सुराः
१.०६५.०१० वराङ्गानि महार्हाणि धनुषा शातयामि वः
१.०६५.०११ ततो विमनसः सर्वे देवा वै मुनिपुंगव
१.०६५.०११ प्रसादयन्ति देवेशं तेषां प्रीतोऽभवद्भवः
१.०६५.०१२ प्रीतियुक्तः स सर्वेषां ददौ तेषां महात्मनाम्
१.०६५.०१३ तदेतद्देवदेवस्य धनूरत्नं महात्मनः
१.०६५.०१३ न्यासभूतं तदा न्यस्तमस्माकं पूर्वके विभो
१.०६५.०१४ अथ मे कृषतः क्षेत्रं लाङ्गलादुत्थिता मम
१.०६५.०१४ क्षेत्रं शोधयता लब्ध्वा नाम्ना सीतेति विश्रुता
१.०६५.०१५ भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा
१.०६५.०१५ वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा
१.०६५.०१६ भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम्
१.०६५.०१६ वरयामासुरागम्य राजानो मुनिपुंगव
१.०६५.०१७ तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम्
१.०६५.०१७ वीर्यशुल्केति भगवन्न ददामि सुतामहम्
१.०६५.०१८ ततः सर्वे नृपतयः समेत्य मुनिपुंगव
१.०६५.०१८ मिथिलामभ्युपागम्य वीर्यं जिज्ञासवस्तदा
१.०६५.०१९ तेषां जिज्ञासमानानां वीर्यं धनुरुपाहृतम्
१.०६५.०१९ न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा
१.०६५.०२० तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने
१.०६५.०२० प्रत्याख्याता नृपतयस्तन्निबोध तपोधन
१.०६५.०२१ ततः परमकोपेन राजानो मुनिपुंगव
१.०६५.०२१ अरुन्धन्मिथिलां सर्वे वीर्यसंदेहमागताः
१.०६५.०२२ आत्मानमवधूतं ते विज्ञाय मुनिपुंगव
१.०६५.०२२ रोषेण महताविष्टाः पीडयन्मिथिलां पुरीम्
१.०६५.०२३ ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः
१.०६५.०२३ साधनानि मुनिरेष्ठ ततोऽहं भृशदुःखितः
१.०६५.०२४ ततो देवगणान् सर्वांस्तपसाहं प्रसादयम्
१.०६५.०२४ ददुश्च परमप्रीताश्चतुरङ्गबलं सुराः
१.०६५.०२५ ततो भग्ना नृपतयो हन्यमाना दिशो ययुः
१.०६५.०२५ अवीर्या वीर्यसंदिग्धा सामात्याः पापकारिणः
१.०६५.०२६ तदेतन्मुनिशार्दूल धनुः परमभास्वरम्
१.०६५.०२६ रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत
१.०६५.०२७ यद्यस्य धनुषो रामः कुर्यादारोपणं मुने
१.०६५.०२७ सुतामयोनिजां सीतां दद्यां दाशरथेरहम्
१.०६६.००१ जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः
१.०६६.००१ धनुर्दर्शय रामाय इति होवाच पार्थिवम्
१.०६६.००२ ततः स राजा जनकः सचिवान् व्यादिदेश ह
१.०६६.००२ धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम्
१.०६६.००३ जनकेन समादिष्ठाः सचिवाः प्राविशन् पुरीम्
१.०६६.००३ तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया
१.०६६.००४ नृपां शतानि पञ्चाशद्व्यायतानां महात्मनाम्
१.०६६.००४ मञ्जूषामष्टचक्रां तां समूहस्ते कथं चन
१.०६६.००५ तामादाय तु मञ्जूषामायतीं यत्र तद्धनुः
१.०६६.००५ सुरोपमं ते जनकमूचुर्नृपति मन्त्रिणः
१.०६६.००६ इदं धनुर्वरं राजन् पूजितं सर्वराजभिः
१.०६६.००६ मिथिलाधिप राजेन्द्र दर्शनीयं यदीच्छसि
१.०६६.००७ तेषां नृपो वचः श्रुत्वा कृताञ्जलिरभाषत
१.०६६.००७ विश्वामित्रं महात्मानं तौ चोभौ रामलक्ष्मणौ
१.०६६.००८ इदं धनुर्वरं ब्रह्मञ्जनकैरभिपूजितम्
१.०६६.००८ राजभिश्च महावीर्यैरशक्यं पूरितुं तदा
१.०६६.००९ नैतत्सुरगणाः सर्वे नासुरा न च राक्षसाः
१.०६६.००९ गन्धर्वयक्षप्रवराः सकिंनरमहोरगाः
१.०६६.०१० क्व गतिर्मानुषाणां च धनुषोऽस्य प्रपूरणे
१.०६६.०१० आरोपणे समायोगे वेपने तोलनेऽपि वा
१.०६६.०११ तदेतद्धनुषां श्रेष्ठमानीतं मुनिपुंगव
१.०६६.०११ दर्शयैतन्महाभाग अनयो राजपुत्रयोः
१.०६६.०१२ विश्वामित्रस्तु धर्मात्मा श्रुत्वा जनकभाषितम्
१.०६६.०१२ वत्स राम धनुः पश्य इति राघवमब्रवीत्
१.०६६.०१३ महर्षेर्वचनाद्रामो यत्र तिष्ठति तद्धनुः
१.०६६.०१३ मञ्जूषां तामपावृत्य दृष्ट्वा धनुरथाब्रवीत्
१.०६६.०१४ इदं धनुर्वरं ब्रह्मन् संस्पृशामीह पाणिना
१.०६६.०१४ यत्नवांश्च भविष्यामि तोलने पूरणेऽपि वा
१.०६६.०१५ बाढमित्येव तं राजा मुनिश्च समभाषत
१.०६६.०१५ लीलया स धनुर्मध्ये जग्राह वचनान्मुनेः
१.०६६.०१६ पश्यतां नृषहस्राणां बहूनां रघुनन्दनः
१.०६६.०१६ आरोपयत्स धर्मात्मा सलीलमिव तद्धनुः
१.०६६.०१७ आरोपयित्वा मौर्वीं च पूरयामास वीर्यवान्
१.०६६.०१७ तद्बभञ्ज धनुर्मध्ये नरश्रेष्ठो महायशाः
१.०६६.०१८ तस्य शब्दो महानासीन्निर्घातसमनिःस्वनः
१.०६६.०१८ भूमिकम्पश्च सुमहान् पर्वतस्येव दीर्यतः
१.०६६.०१९ निपेतुश्च नराः सर्वे तेन शब्देन मोहिताः
१.०६६.०१९ व्रजयित्वा मुनिवरं राजानं तौ च राघवौ
१.०६६.०२० प्रत्याश्वस्तो जने तस्मिन् राजा विगतसाध्वसः
१.०६६.०२० उवाच प्राञ्जलिर्वाक्यं वाक्यज्ञो मुनिपुंगवम्
१.०६६.०२१ भगवन् दृष्टवीर्यो मे रामो दशरथात्मजः
१.०६६.०२१ अत्यद्भुतमचिन्त्यं च अतर्कितमिदं मया
१.०६६.०२२ जनकानां कुले कीर्तिमाहरिष्यति मे सुता
१.०६६.०२२ सीता भर्तारमासाद्य रामं दशरथात्मजम्
१.०६६.०२३ मम सत्या प्रतिज्ञा च वीर्यशुल्केति कौशिक
१.०६६.०२३ सीता प्राणैर्बहुमता देया रामाय मे सुता
१.०६६.०२४ भवतोऽनुमते ब्रह्मञ्शीघ्रं गच्छन्तु मन्त्रिणः
१.०६६.०२४ मम कौशिक भद्रं ते अयोध्यां त्वरिता रथैः
१.०६६.०२५ राजानं प्रश्रितैर्वाक्यैरानयन्तु पुरं मम
१.०६६.०२५ प्रदानं वीर्यशुल्काः कथयन्तु च सर्वशः
१.०६६.०२६ मुनिगुप्तौ च काकुत्स्थौ कथयन्तु नृपाय वै
१.०६६.०२६ प्रीयमाणं तु राजानमानयन्तु सुशीघ्रगाः
१.०६६.०२७ कौशिकश्च तथेत्याह राजा चाभाष्य मन्त्रिणः
१.०६६.०२७ अयोध्यां प्रेषयामास धर्मात्मा कृतशासनात्
१.०६७.००१ जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः
१.०६७.००१ त्रिरात्रमुषित्वा मार्गे तेऽयोध्यां प्राविशन् पुरीम्
१.०६७.००२ ते राजवचनाद्दूता राजवेश्मप्रवेशिताः
१.०६७.००२ ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम्
१.०६७.००३ बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः
१.०६७.००३ राजानं प्रयता वाक्यमब्रुवन्मधुराक्षरम्
१.०६७.००४ मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः
१.०६७.००४ कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्
१.०६७.००५ मुहुर्मुहुर्मधुरया स्नेहसंयुक्तया गिरा
१.०६७.००५ जनकस्त्वां महाराज पृच्छते सपुरःसरम्
१.०६७.००६ पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः
१.०६७.००६ कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत्
१.०६७.००७ पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा
१.०६७.००७ राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः
१.०६७.००८ सेयं मम सुता राजन् विश्वामित्र पुरःसरैः
१.०६७.००८ यदृच्छयागतैर्वीरैर्निर्जिता तव पुत्रकैः
१.०६७.००९ तच्च राजन् धनुर्दिव्यं मध्ये भग्नं महात्मना
१.०६७.००९ रामेण हि महाराज महत्यां जनसंसदि
१.०६७.०१० अस्मै देया मया सीता वीर्यशुल्का महात्मने
१.०६७.०१० प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि
१.०६७.०११ सोपाध्यायो महाराज पुरोहितपुरस्कृतः
१.०६७.०११ शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ
१.०६७.०१२ प्रीतिं च मम राजेन्द्र निर्वर्तयितुमर्हसि
१.०६७.०१२ पुत्रयोरुभयोरेव प्रीतिं त्वमपि लप्स्यसे
१.०६७.०१३ एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्
१.०६७.०१३ विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः
१.०६७.०१४ दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः
१.०६७.०१४ वसिष्ठं वामदेवं च मन्त्रिणोऽन्यांश्च सोऽब्रवीत्
१.०६७.०१५ गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः
१.०६७.०१५ लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ
१.०६७.०१६ दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना
१.०६७.०१६ संप्रदानं सुतायास्तु राघवे कर्तुमिच्छति
१.०६७.०१७ यदि वो रोचते वृत्तं जनकस्य महात्मनः
१.०६७.०१७ पुरीं गच्छामहे शीघ्रं मा भूत्कालस्य पर्ययः
१.०६७.०१८ मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः
१.०६७.०१८ सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः
१.०६७.०१९ मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः
१.०६७.०१९ ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः
१.०६८.००१ ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः
१.०६८.००१ राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत्
१.०६८.००२ अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्
१.०६८.००२ व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः
१.०६८.००३ चतुरङ्गबलं चापि शीघ्रं निर्यातु सर्वशः
१.०६८.००३ ममाज्ञासमकालं च यानयुग्यमनुत्तमम्
१.०६८.००४ वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः
१.०६८.००४ मार्कण्डेयश्च दीर्घायुरृषिः कात्यायनस्तथा
१.०६८.००५ एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे
१.०६८.००५ यथा कालात्ययो न स्याद्दूता हि त्वरयन्ति माम्
१.०६८.००६ वचनाच्च नरेन्द्रस्य सा सेना चतुरङ्गिणी
१.०६८.००६ राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वगात्
१.०६८.००७ गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्
१.०६८.००७ राजा तु जनकः श्रीमाञ्श्रुत्वा पूजामकल्पयत्
१.०६८.००८ ततो राजानमासाद्य वृद्धं दशरथं नृपम्
१.०६८.००८ जनको मुदितो राजा हर्षं च परमं ययौ
१.०६८.००८ उवाच न नरश्रेष्ठो नरश्रेष्ठं मुदान्वितम्
१.०६८.००९ स्वागतं ते महाराज दिष्ट्या प्राप्तोऽसि राघव
१.०६८.००९ पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्
१.०६८.०१० दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः
१.०६८.०१० सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः
१.०६८.०११ दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम्
१.०६८.०११ राघवैः सह संबन्धाद्वीर्यश्रेष्ठैर्महात्मभिः
१.०६८.०१२ श्वः प्रभाते नरेन्द्रेन्द्र निर्वर्तयितुमर्हसि
१.०६८.०१२ यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसंमतम्
१.०६८.०१३ तस्य तद्वचनं श्रुत्वा ऋषिमध्ये नराधिपः
१.०६८.०१३ वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्
१.०६८.०१४ प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा
१.०६८.०१४ यथा वक्ष्यसि धर्मज्ञ तत्करिष्यामहे वयम्
१.०६८.०१५ तद्धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः
१.०६८.०१५ श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः
१.०६८.०१६ ततः सर्वे मुनिगणाः परस्परसमागमे
१.०६८.०१६ हर्षेण महता युक्तास्तां निशामवसन् सुखम्
१.०६८.०१७ राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः
१.०६८.०१७ उवास परमप्रीतो जनकेन सुपूजितः
१.०६८.०१८ जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्
१.०६८.०१८ यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह
१.०६९.००१ ततः प्रभाते जनकः कृतकर्मा महर्षिभिः
१.०६९.००१ उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम्
१.०६९.००२ भ्राता मम महातेजा यवीयानतिधार्मिकः
१.०६९.००२ कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम्
१.०६९.००३ वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्
१.०६९.००३ सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम्
१.०६९.००४ तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः
१.०६९.००४ प्रीतिं सोऽपि महातेजा इंमां भोक्ता मया सह
१.०६९.००५ शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः
१.०६९.००५ समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा
१.०६९.००६ आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः
१.०६९.००७ स ददर्श महात्मानं जनकं धर्मवत्सलम्
१.०६९.००७ सोऽभिवाद्य शतानन्दं राजानं चापि धार्मिकम्
१.०६९.००८ राजार्हं परमं दिव्यमासनं चाध्यरोहत
१.०६९.००८ उपविष्टावुभौ तौ तु भ्रातरावमितौजसौ
१.०६९.००९ प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्
१.०६९.००९ गच्छ मन्त्रिपते शीघ्रमैक्ष्वाकममितप्रभम्
१.०६९.००९ आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्
१.०६९.०१० औपकार्यां स गत्वा तु रघूणां कुलवर्धनम्
१.०६९.०१० ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्
१.०६९.०११ अयोध्याधिपते वीर वैदेहो मिथिलाधिपः
१.०६९.०११ स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्
१.०६९.०१२ मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तदा
१.०६९.०१२ सबन्धुरगमत्तत्र जनको यत्र वर्तते
१.०६९.०१३ स राजा मन्त्रिसहितः सोपाध्यायः सबान्धवः
१.०६९.०१३ वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्
१.०६९.०१४ विदितं ते महाराज इक्ष्वाकुकुलदैवतम्
१.०६९.०१४ वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः
१.०६९.०१५ विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः
१.०६९.०१५ एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्
१.०६९.०१६ तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः
१.०६९.०१६ उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोहितम्
१.०६९.०१७ अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः
१.०६९.०१७ तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः
१.०६९.०१८ विवस्वान् कश्यपाज्जज्ञे मनुर्वैवैवतः स्मृतः
१.०६९.०१८ मनुः प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः
१.०६९.०१९ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्
१.०६९.०१९ इक्ष्वाकोस्तु सुतः श्रीमान् विकुक्षिरुदपद्यत
१.०६९.०२० विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्
१.०६९.०२० बाणस्य तु महातेजा अनरण्यः प्रतापवान्
१.०६९.०२१ अनरण्यात्पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोः सुतः
१.०६९.०२१ त्रिशङ्कोरभवत्पुत्रो धुन्धुमारो महायशाः
१.०६९.०२२ धुन्धुमारान्महातेजा युवनाश्वो महारथः
१.०६९.०२२ युवनाश्वसुतः श्रीमान्मान्धाता पृथिवीपतिः
१.०६९.०२३ मान्धातुस्तु सुतः श्रीमान् सुसंधिरुदपद्यत
१.०६९.०२३ सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्
१.०६९.०२४ यशस्वी ध्रुवसंधेस्तु भरतो नाम नामतः
१.०६९.०२४ भरतात्तु महातेजा असितो नाम जायत
१.०६९.०२५ सह तेन गरेणैव जातः स सगरोऽभवत्
१.०६९.०२५ सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्
१.०६९.०२६ दिलीपोऽंशुमतः पुत्रो दिलीपस्य भगीरथः
१.०६९.०२६ भगीरथात्ककुत्स्थश्च ककुत्स्थस्य रघुस्तथा
१.०६९.०२७ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः
१.०६९.०२७ कल्माषपादो ह्यभवत्तस्माज्जातस्तु शङ्खणः
१.०६९.०२८ सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्
१.०६९.०२८ शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः
१.०६९.०२९ मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात्
१.०६९.०२९ अम्बरीषस्य पुत्रोऽभून्नहुषः पृथिवीपतिः
१.०६९.०३० नहुषस्य ययातिस्तु नाभागस्तु ययातिजः
१.०६९.०३० नाभागस्य भभूवाज अजाद्दशरथोऽभवत्
१.०६९.०३० तस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ
१.०६९.०३१ आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्
१.०६९.०३१ इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम्
१.०६९.०३२ रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप
१.०६९.०३२ सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि
१.०७०.००१ एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः
१.०७०.००१ श्रोतुमर्हसि भद्रं ते कुलं नः कीर्तितं परम्
१.०७०.००२ प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः
१.०७०.००२ वक्तव्यं कुलजातेन तन्निबोध महामुने
१.०७०.००३ राजाभूत्त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा
१.०७०.००३ निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः
१.०७०.००४ तस्य पुत्रो मिथिर्नाम जनको मिथि पुत्रकः
१.०७०.००४ प्रथमो जनको नाम जनकादप्युदावसुः
१.०७०.००५ उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः
१.०७०.००५ नन्दिवर्धन पुत्रस्तु सुकेतुर्नाम नामतः
१.०७०.००६ सुकेतोरपि धर्मात्मा देवरातो महाबलः
१.०७०.००६ देवरातस्य राजर्षेर्बृहद्रथ इति श्रुतः
१.०७०.००७ बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्
१.०७०.००७ महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः
१.०७०.००८ सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः
१.०७०.००८ धृष्टकेतोस्तु राजर्षेर्हर्यश्व इति विश्रुतः
१.०७०.००९ हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः
१.०७०.००९ प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः
१.०७०.०१० पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः
१.०७०.०१० देवमीढस्य विबुधो विबुधस्य महीध्रकः
१.०७०.०११ महीध्रकसुतो राजा कीर्तिरातो महाबलः
१.०७०.०११ कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत
१.०७०.०१२ महारोंणस्तु धर्मात्मा स्वर्णरोमा व्यजायत
१.०७०.०१२ स्वर्णरोंणस्तु राजर्षेर्ह्रस्वरोमा व्यजायत
१.०७०.०१३ तस्य पुत्रद्वयं जज्ञे धर्मज्ञस्य महात्मनः
१.०७०.०१३ ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः
१.०७०.०१४ मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य नराधिपः
१.०७०.०१४ कुशध्वजं समावेश्य भारं मयि वनं गतः
१.०७०.०१५ वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्
१.०७०.०१५ भ्रातरं देवसंकाशं स्नेहात्पश्यन् कुशध्वजम्
१.०७०.०१६ कस्य चित्त्वथ कालस्य सांकाश्यादगमत्पुरात्
१.०७०.०१६ सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः
१.०७०.०१७ स च मे प्रेषयामास शैवं धनुरनुत्तमम्
१.०७०.०१७ सीता कन्या च पद्माक्षी मह्यं वै दीयतामिति
१.०७०.०१८ तस्याप्रदानाद्ब्रह्मर्षे युद्धमासीन्मया सह
१.०७०.०१८ स हतोऽभिमुखो राजा सुधन्वा तु मया रणे
१.०७०.०१९ निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्
१.०७०.०१९ सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम्
१.०७०.०२० कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने
१.०७०.०२० ददामि परमप्रीतो वध्वौ ते मुनिपुंगव
१.०७०.०२१ सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय च
१.०७०.०२१ वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम्
१.०७०.०२२ द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः
१.०७०.०२२ ददामि परमप्रीतो वध्वौ ते रघुनन्दन
१.०७०.०२३ रामलक्ष्मणयो राजन् गोदानं कारयस्व ह
१.०७०.०२३ पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु
१.०७०.०२४ मघा ह्यद्य महाबाहो तृतीये दिवसे प्रभो
१.०७०.०२४ फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु
१.०७०.०२४ रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम्
१.०७१.००१ तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः
१.०७१.००१ उवाच वचनं वीरं वसिष्ठसहितो नृपम्
१.०७१.००२ अचिन्त्यान्यप्रमेयानि कुलानि नरपुंगव
१.०७१.००२ इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन
१.०७१.००३ सदृशो धर्मसंबन्धः सदृशो रूपसंपदा
१.०७१.००३ रामलक्ष्मणयो राजन् सीता चोर्मिलया सह
१.०७१.००४ वक्तव्यं न नरश्रेष्ठ श्रूयतां वचनं मम
१.०७१.००५ भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः
१.०७१.००५ अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि
१.०७१.००५ सुता द्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे
१.०७१.००६ भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः
१.०७१.००६ वरयेम सुते राजंस्तयोरर्थे महात्मनोः
१.०७१.००७ पुत्रा दशरथस्येमे रूपयौवनशालिनः
१.०७१.००७ लोकपालोपमाः सर्वे देवतुल्यपराक्रमाः
१.०७१.००८ उभयोरपि राजेन्द्र संबन्धेनानुबध्यताम्
१.०७१.००८ इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः
१.०७१.००९ विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा
१.०७१.००९ जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ
१.०७१.०१० सदृशं कुलसंबन्धं यदाज्ञापयथः स्वयम्
१.०७१.०१० एवं भवतु भद्रं वः कुशध्वजसुते इमे
१.०७१.०१० पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ
१.०७१.०११ एकाह्ना राजपुत्रीणां चतस्ःणां महामुने
१.०७१.०११ पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः
१.०७१.०१२ उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः
१.०७१.०१२ वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः
१.०७१.०१३ एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः
१.०७१.०१३ उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत्
१.०७१.०१४ परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोः सदा
१.०७१.०१४ इमान्यासनमुख्यानि आसेतां मुनिपुंगवौ
१.०७१.०१५ यथा दशरथस्येयं तथायोध्या पुरी मम
१.०७१.०१५ प्रभुत्वे नासित्संदेहो यथार्हं कर्तुमर्हथः
१.०७१.०१६ तथा ब्रुवति वैदेहे जनके रघुनन्दनः
१.०७१.०१६ राजा दशरथो हृष्टः प्रत्युवाच महीपतिम्
१.०७१.०१७ युवामसंख्येय गुणौ भ्रातरौ मिथिलेश्वरौ
१.०७१.०१७ ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः
१.०७१.०१८ स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम्
१.०७१.०१८ श्राद्धकर्माणि सर्वाणि विधास्य इति चाब्रवीत्
१.०७१.०१९ तमापृष्ट्वा नरपतिं राजा दशरथस्तदा
१.०७१.०१९ मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः
१.०७१.०२० स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः
१.०७१.०२० प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम्
१.०७१.०२१ गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः
१.०७१.०२१ एकैकशो ददौ राजा पुत्रानुद्धिश्य धर्मतः
१.०७१.०२२ सुवर्णशृङ्गाः संपन्नाः सवत्साः कांस्यदोहनाः
१.०७१.०२२ गवां शतसहस्राणि चत्वारि पुरुषर्षभः
१.०७१.०२३ वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः
१.०७१.०२३ ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः
१.०७१.०२४ स सुतैः कृतगोदानैर्वृतश्च नृपतिस्तदा
१.०७१.०२४ लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः
१.०७२.००१ यस्मिंस्तु दिवसे राजा चक्रे गोदानमुत्तमम्
१.०७२.००१ तस्मिंस्तु दिवसे शूरो युधाजित्समुपेयिवान्
१.०७२.००२ पुत्रः केकयराजस्य साक्षाद्भरतमातुलः
१.०७२.००२ दृष्ट्वा पृष्ट्वा च कुशलं राजानमिदमब्रवीत्
१.०७२.००३ केकयाधिपती राजा स्नेहात्कुशलमब्रवीत्
१.०७२.००३ येषां कुशलकामोऽसि तेषां संप्रत्यनामयम्
१.०७२.००४ स्वस्रीयं मम राजेन्द्र द्रष्टुकामो महीपते
१.०७२.००४ तदर्थमुपयातोऽहमयोध्यां रघुनन्दन
१.०७२.००५ श्रुत्वा त्वहय्मयोध्यायां विवाहार्थं तावात्मजान्
१.०७२.००५ मिथिलामुपयातास्तु त्वया सह महीपते
१.०७२.००६ त्वरयाभुपयातोऽहं द्रष्टुकामः स्वसुः सुतम्
१.०७२.००६ अथ राजा दशरथः प्रियातिथिमुपस्थिम
१.०७२.००७ दृष्ट्वा परमसत्कारैः पूजार्हं समपूजयत्
१.०७२.००७ ततस्तामुषितो रात्रिं सह पुत्रैर्महात्मभिः
१.०७२.००८ ऋषींस्तदा पुरस्कृत्य यज्ञवाटमुपागमत्
१.०७२.००८ युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः
१.०७२.००८ भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः
१.०७२.००९ वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि
१.०७२.०१० राजा रशरथो राजन् कृतकौतुकमङ्गलैः
१.०७२.०१० पुत्रैर्नरवरश्रेष्ठ दातारमभिकाङ्क्षते
१.०७२.०११ दातृप्रतिग्रहीतृभ्यां सर्वार्थाः प्रभवन्ति हि
१.०७२.०११ स्वधर्मं प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम्
१.०७२.०१२ इत्युक्तः परमोदारो वसिष्ठेन महात्मना
१.०७२.०१२ प्रत्युवाच महातेजा वाक्यं परमधर्मवित्
१.०७२.०१३ कः स्थितः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते
१.०७२.०१३ स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव
१.०७२.०१४ कृतकौतुकसर्वस्वा वेदिमूलमुपागताः
१.०७२.०१४ मम कन्या मुनिश्रेष्ठ दीप्ता वह्नेरिवार्चिषः
१.०७२.०१५ सज्जोऽहं त्वत्प्रतीक्षोऽस्मि वेद्यामस्यां प्रतिष्हितः
१.०७२.०१५ अविघ्नं कुरुतां राजा किमर्थं हि विलम्ब्यते
१.०७२.०१६ तद्वाक्यं जनकेनोक्तं श्रुत्वा दशरथस्तदा
१.०७२.०१६ प्रवेशयामास सुतान् सर्वानृषिगणानपि
१.०७२.०१७ अब्रवीज्जनको राजा कौसल्यानन्दवर्धनम्
१.०७२.०१७ इयं सीता मम सुता सहधर्मचरी तव
१.०७२.०१७ प्रतीच्छ चैनां भद्रं ते पाणिं गृह्णीष्व पाणिना
१.०७२.०१८ लक्ष्मणागच्छ भद्रं ते ऊर्मिलामुद्यतां मया
१.०७२.०१८ प्रतीच्छ पाणिं गृह्णीष्व मा भूत्कालस्य पर्ययः
१.०७२.०१९ तमेवमुक्त्वा जनको भरतं चाभ्यभाषत
१.०७२.०१९ गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन
१.०७२.०२० शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः
१.०७२.०२० श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना
१.०७२.०२१ सर्वे भवन्तः संयाश्च सर्वे सुचरितव्रताः
१.०७२.०२१ पत्नीभिः सन्तु काकुत्स्था मा भूत्कालस्य पर्ययः
१.०७२.०२२ जनकस्य वचः श्रुत्वा पाणीन् पाणिभिरस्पृशन्
१.०७२.०२२ चत्वारस्ते चतसृणां वसिष्ठस्य मते स्थिताः
१.०७२.०२३ अग्निं प्रदक्षिणं कृत्वा वेदिं राजानमेव च
१.०७२.०२३ ऋषींश्चैव महात्मानः सह भार्या रघूत्तमाः
१.०७२.०२३ यथोक्तेन तथा चक्रुर्विवाहं विधिपूर्वकम्
१.०७२.०२४ पुष्पवृष्टिर्महत्यासीदन्तरिक्षात्सुभास्वरा
१.०७२.०२४ दिव्यदुन्दुभिनिर्घोषैर्गीतवादित्रनिस्वनैः
१.०७२.०२५ ननृतुश्चाप्सरःसंघा गन्धर्वाश्च जगुः कलम्
१.०७२.०२५ विवाहे रघुमुख्यानां तदद्भुतमिवाभवत्
१.०७२.०२६ ईदृशे वर्तमाने तु तूर्योद्घुष्टनिनादिते
१.०७२.०२६ त्रिरग्निं ते परिक्रम्य ऊहुर्भार्या महौजसः
१.०७२.०२७ अथोपकार्यां जग्मुस्ते सदारा रघुनन्दनः
१.०७२.०२७ राजाप्यनुययौ पश्यन् सर्षिसंघः सबान्धवः
१.०७३.००१ अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः
१.०७३.००१ आपृच्छ्य तौ च राजानौ जगामोत्तरपर्वतम्
१.०७३.००२ विश्वामित्रो गते राजा वैदेहं मिथिलाधिपम्
१.०७३.००२ आपृच्छ्याथ जगामाशु राजा दशरथः पुरीम्
१.०७३.००३ अथ राजा विदेहानां ददौ कन्याधनं बहु
१.०७३.००३ गवां शतसहस्राणि बहूनि मिथिलेश्वरः
१.०७३.००४ कम्बलानां च मुख्यानां क्षौमकोट्यम्बराणि च
१.०७३.००४ हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम्
१.०७३.००५ ददौ कन्या पिता तासां दासीदासमनुत्तमम्
१.०७३.००५ हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च
१.०७३.००६ ददौ परमसंहृष्टः कन्याधनमनुत्तमम्
१.०७३.००६ दत्त्वा बहुधनं राजा समनुज्ञाप्य पार्थिवम्
१.०७३.००७ प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः
१.०७३.००७ राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः
१.०७३.००८ ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः
१.०७३.००८ गच्छन्तं तु नरव्याघ्रं सर्षिसंघं सराघवम्
१.०७३.००९ घोराः स्म पक्षिणो वाचो व्याहरन्ति ततस्ततः
१.०७३.००९ भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम्
१.०७३.०१० तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत
१.०७३.०१० असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः
१.०७३.०१० किमिदं हृदयोत्कम्पि मनो मम विषीदति
१.०७३.०११ राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः
१.०७३.०११ उवाच मधुरां वाणीं श्रूयतामस्य यत्फलम्
१.०७३.०१२ उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम्
१.०७३.०१२ मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्
१.०७३.०१३ तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह
१.०७३.०१३ कम्पयन्मेदिनीं सर्वां पातयंश्च द्रुमांः शुभान्
१.०७३.०१४ तमसा संवृतः सूर्यः सर्वा न प्रबभुर्दिशः
१.०७३.०१४ भस्मना चावृतं सर्वं संमूढमिव तद्बलम्
१.०७३.०१५ वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा
१.०७३.०१५ ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्
१.०७३.०१६ तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः
१.०७३.०१६ ददर्श भीमसंकाशं जटामण्डलधारिणम्
१.०७३.०१७ कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्
१.०७३.०१७ ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः
१.०७३.०१८ स्कन्धे चासज्य परशुं धनुर्विद्युद्गणोपमम्
१.०७३.०१८ प्रगृह्य शरमुख्यं च त्रिपुरघ्नं यथा हरम्
१.०७३.०१९ तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्
१.०७३.०१९ वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः
१.०७३.०१९ संगता मुनयः सर्वे संजजल्पुरथो मिथः
१.०७३.०२० कच्चित्पितृवधामर्षी क्षत्रं नोत्सादयिष्यति
१.०७३.०२० पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः
१.०७३.०२० क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम्
१.०७३.०२१ एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्
१.०७३.०२१ ऋषयो राम रामेति मधुरां वाचमब्रुवन्
१.०७३.०२२ प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्
१.०७३.०२२ रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत
१.०७४.००१ राम दाशरथे वीर वीर्यं ते श्रूयतेऽधुतम्
१.०७४.००१ धनुषो भेदनं चैव निखिलेन मया श्रुतम्
१.०७४.००२ तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया
१.०७४.००२ तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम्
१.०७४.००३ तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः
१.०७४.००३ पूरयस्व शरेणैव स्वबलं दर्शयस्व च
१.०७४.००४ तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे
१.०७४.००४ द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमिदं तव
१.०७४.००५ तस्य तद्वचनं श्रुत्वा राजा दशरतःस्तदा
१.०७४.००५ विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत्
१.०७४.००६ क्षत्ररोषात्प्रशान्तस्त्वं ब्राह्मणस्य महायशाः
१.०७४.००६ बालानां मम पुत्राणामभयं दातुमर्हसि
१.०७४.००७ भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्
१.०७४.००७ सहस्राक्षे प्रतिज्ञाय शस्त्रं निक्षिप्तवानसि
१.०७४.००८ स त्वं धर्मपरो भूत्वा काश्यपाय वसुंधराम्
१.०७४.००८ दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः
१.०७४.००९ मम सर्वविनाशाय संप्राप्तस्त्वं महामुने
१.०७४.००९ न चैकस्मिन् हते रामे सर्वे जीवामहे वयम्
१.०७४.०१० ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्
१.०७४.०१० अनादृत्यैव तद्वाक्यं राममेवाभ्यभाषत
१.०७४.०११ इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिविश्रुते
१.०७४.०११ दृढे बलवती मुख्ये सुकृते विश्वकर्मणा
१.०७४.०१२ अतिसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे
१.०७४.०१२ त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्ह यत्त्वया
१.०७४.०१३ इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः
१.०७४.०१३ समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्
१.०७४.०१४ तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्
१.०७४.०१४ शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया
१.०७४.०१५ अभिप्रायं तु विज्ञाय देवतानां पितामहः
१.०७४.०१५ विरोधं जनयामास तयोः सत्यवतां वरः
१.०७४.०१६ विरोधे च महद्युद्धमभवद्रोमहर्षणम्
१.०७४.०१६ शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः
१.०७४.०१७ तदा तज्जृम्भितं शैवं धनुर्भीमपराक्रमम्
१.०७४.०१७ हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः
१.०७४.०१८ देवैस्तदा समागम्य सर्षिसंघैः सचारणैः
१.०७४.०१८ याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ
१.०७४.०१९ जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः
१.०७४.०१९ अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तदा
१.०७४.०२० धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः
१.०७४.०२० देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्
१.०७४.०२१ इदं च विष्णवं राम धनुः परपुरंजयम्
१.०७४.०२१ ऋचीके भार्गवे प्रादाद्विष्णुः स न्यासमुत्तमम्
१.०७४.०२२ ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः
१.०७४.०२२ पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः
१.०७४.०२३ न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते
१.०७४.०२३ अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः
१.०७४.०२४ वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्
१.०७४.०२४ क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः
१.०७४.०२५ पृथिवीं चाखिलां प्राप्य काश्यपाय महात्मने
१.०७४.०२५ यज्ञस्यान्ते तदा राम दक्षिणां पुण्यकर्मणे
१.०७४.०२६ दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः
१.०७४.०२६ श्रुतवान् धनुषो भेदं ततोऽहं द्रुतमागतः
१.०७४.०२७ तदिदं वैष्णवं राम पितृपैतामहं महत्
१.०७४.०२७ क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्
१.०७४.०२८ योजयस्व धनुः श्रेष्ठे शरं परपुरंजयम्
१.०७४.०२८ यदि शक्नोषि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः
१.०७५.००१ श्रुत्वा तज्जामदग्न्यस्य वाक्यं दाशरथिस्तदा
१.०७५.००१ गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्
१.०७५.००२ श्रुतवानस्मि यत्कर्म कृतवानसि भार्गव
१.०७५.००२ अनुरुन्ध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः
१.०७५.००३ वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव
१.०७५.००३ अवजानामि मे तेजः पश्य मेऽद्य पराक्रमम्
१.०७५.००४ इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्
१.०७५.००४ शरं च प्रतिसंगृह्य हस्ताल्लघुपराक्रमः
१.०७५.००५ आरोप्य स धनू रामः शरं सज्यं चकार ह
१.०७५.००५ जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः
१.०७५.००६ ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च
१.०७५.००६ तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्
१.०७५.००७ इमां वा त्वद्गतिं राम तपोबलसमार्जितान्
१.०७५.००७ लोकान
प्रतिमान् वापि हनिष्यामि यदिच्छसि
१.०७५.००८ न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः
१.०७५.००८ मोघः पतति वीर्येण बलदर्पविनाशनः
१.०७५.००९ वरायुधधरं राम द्रष्टुं सर्षिगणाः सुराः
१.०७५.००९ पितामहं पुरस्कृत्य समेतास्तत्र संघशः
१.०७५.०१० गन्धर्वाप्सरसश्चैव सिद्धचारणकिंनराः
१.०७५.०१० यक्षराक्षसनागाश्च तद्द्रष्टुं महदद्भुतम्
१.०७५.०११ जडीकृते तदा लोके रामे वरधनुर्धरे
१.०७५.०११ निर्वीर्यो जामदग्न्योऽसौ रमो राममुदैक्षत
१.०७५.०१२ तेजोभिर्हतवीर्यत्वाज्जामदग्न्यो जडीकृतः
१.०७५.०१२ रामं कमल पत्राक्षं मन्दं मन्दमुवाच ह
१.०७५.०१३ काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा
१.०७५.०१३ विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्
१.०७५.०१४ सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्
१.०७५.०१४ इति प्रतिज्ञा काकुत्स्थ कृता वै काश्यपस्य ह
१.०७५.०१५ तदिमां त्वं गतिं वीर हन्तुं नार्हसि राघव
१.०७५.०१५ मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्
१.०७५.०१६ लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया
१.०७५.०१६ जहि ताञ्शरमुख्येन मा भूत्कालस्य पर्ययः
१.०७५.०१७ अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्
१.०७५.०१७ धनुषोऽस्य परामर्शात्स्वस्ति तेऽस्तु परंतप
१.०७५.०१८ एते सुरगणाः सर्वे निरीक्षन्ते समागताः
१.०७५.०१८ त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे
१.०७५.०१९ न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति
१.०७५.०१९ त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः
१.०७५.०२० शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत
१.०७५.०२० शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्
१.०७५.०२१ तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्
१.०७५.०२१ रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्
१.०७५.०२२ ततो वितिमिराः सर्वा दिशा चोपदिशस्तथा
१.०७५.०२२ सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्
१.०७५.०२३ रामं दाशरथिं रामो जामदग्न्यः प्रशस्य च
१.०७५.०२३ ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः
१.०७६.००१ गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः
१.०७६.००१ वरुणायाप्रमेयाय ददौ हस्ते ससायकम्
१.०७६.००२ अभिवाद्य ततो रामो वसिष्ठ प्रमुखानृषीन्
१.०७६.००२ पितरं विह्वलं दृष्ट्वा प्रोवाच रघुनन्दनः
१.०७६.००३ जामदग्न्यो गतो रामः प्रयातु चतुरङ्गिणी
१.०७६.००३ अयोध्याभिमुखी सेना त्वया नाथेन पालिता
१.०७६.००४ रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्
१.०७६.००४ बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम्
१.०७६.००५ गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः
१.०७६.००५ चोदयामास तां सेनां जगामाशु ततः पुरीम्
१.०७६.००६ पताकाध्वजिनीं रम्यां तूर्योद्घुष्टनिनादिताम्
१.०७६.००६ सिक्तराजपथां रम्यां प्रकीर्णकुसुमोत्कराम्
१.०७६.००७ राजप्रवेशसुमुखैः पौरैर्मङ्गलवादिभिः
१.०७६.००७ संपूर्णां प्राविशद्राजा जनौघैः समलंकृताम्
१.०७६.००८ कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा
१.०७६.००८ वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः
१.०७६.००९ ततः सीतां महाभागामूर्मिलां च यशस्विनीम्
१.०७६.००९ कुशध्वजसुते चोभे जगृहुर्नृपपत्नयः
१.०७६.०१० मङ्गलालापनैश्चैव शोभिताः क्षौमवाससः
१.०७६.०१० देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्
१.०७६.०११ अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा
१.०७६.०११ रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः
१.०७६.०१२ कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः
१.०७६.०१२ शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः
१.०७६.०१३ तेषामतियशा लोके रामः सत्यपराक्रमः
१.०७६.०१३ स्वयम्भूरिव भूतानां बभूव गुणवत्तरः
१.०७६.०१४ रामस्तु सीतया सार्धं विजहार बहूनृतून्
१.०७६.०१४ मनस्वी तद्गतस्तस्या नित्यं हृदि समर्पितः
१.०७६.०१५ प्रिया तु सीता रामस्य दाराः पितृकृता इति
१.०७६.०१५ गुणाद्रूपगुणाच्चापि प्रीतिर्भूयो व्यवर्धत
१.०७६.०१६ तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते
१.०७६.०१६ अन्तर्जातमपि व्यक्तमाख्याति हृदयं हृदा
१.०७६.०१७ तस्य भूयो विशेषेण मैथिली जनकात्मजा
१.०७६.०१७ देवताभिः समा रूपे सीता श्रीरिव रूपिणी
१.०७६.०१८ तया स राजर्षिसुतोऽभिरामया॑ समेयिवानुत्तमराजकन्यया
१.०७६.०१८ अतीव रामः शुशुभेऽतिकामया॑ विभुः श्रिया विष्णुरिवामरेश्वरः

Part [Kandam] – 1  2  3  5  6