Valmiki Ramayana Sixth Kandam

Part [Kandam] – 1  2  3  5  6

Sixth kandam is the last part of the Valmiki Ramayana

६.००१.००१ श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम्
६.००१.००१ रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत्
६.००१.००२ कृतं हनुमता कार्यं सुमहद्भुवि दुष्करम्
६.००१.००२ मनसापि यदन्येन न शक्यं धरणीतले
६.००१.००३ न हि तं परिपश्यामि यस्तरेत महार्णवम्
६.००१.००३ अन्यत्र गरुणाद्वायोरन्यत्र च हनूमतः
६.००१.००४ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्
६.००१.००४ अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम्
६.००१.००५ प्रविष्टः सत्त्वमाश्रित्य जीवन् को नाम निष्क्रमेत्
६.००१.००५ को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम्
६.००१.००५ यो वीर्यबलसंपन्नो न समः स्याद्धनूमतः
६.००१.००६ भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत्
६.००१.००६ एवं विधाय स्वबलं सदृशं विक्रमस्य च
६.००१.००७ यो हि भृत्यो नियुक्तः सन् भर्त्रा कर्मणि दुष्करे
६.००१.००७ कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम्
६.००१.००८ नियुक्तो नृपतेः कार्यं न कुर्याद्यः समाहितः
६.००१.००८ भृत्यो युक्तः समर्थश्च तमाहुः पुरुषाधमम्
६.००१.००९ तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता
६.००१.००९ न चात्मा लघुतां नीतः सुग्रीवश्चापि तोषितः
६.००१.०१० अहं च रघुवंशश्च लक्ष्मणश्च महाबलः
६.००१.०१० वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः
६.००१.०११ इदं तु मम दीनस्या मनो भूयः प्रकर्षति
६.००१.०११ यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम्
६.००१.०१२ एष सर्वस्वभूतस्तु परिष्वङ्गो हनूमतः
६.००१.०१२ मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः
६.००१.०१३ सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम्
६.००१.०१३ सागरं तु समासाद्य पुनर्नष्टं मनो मम
६.००१.०१४ कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः
६.००१.०१४ हरयो दक्षिणं पारं गमिष्यन्ति समाहिताः
६.००१.०१५ यद्यप्येष तु वृत्तान्तो वैदेह्या गदितो मम
६.००१.०१५ समुद्रपारगमने हरीणां किमिवोत्तरम्
६.००१.०१६ इत्युक्त्वा शोकसंभ्रान्तो रामः शत्रुनिबर्हणः
६.००१.०१६ हनूमन्तं महाबाहुस्ततो ध्यानमुपागमत्
६.००२.००१ तं तु शोकपरिद्यूनं रामं दशरथात्मजम्
६.००२.००१ उवाच वचनं श्रीमान् सुग्रीवः शोकनाशनम्
६.००२.००२ किं त्वं संतप्यसे वीर यथान्यः प्राकृतस्तथा
६.००२.००२ मैवं भूस्त्यज संतापं कृतघ्न इव सौहृदम्
६.००२.००३ संतापस्य च ते स्थानं न हि पश्यामि राघव
६.००२.००३ प्रवृत्तावुपलब्धायां ज्ञाते च निलये रिपोः
६.००२.००४ धृतिमाञ्शास्त्रवित्प्राज्ञः पण्डितश्चासि राघव
६.००२.००४ त्यजेमां पापिकां बुद्धिं कृत्वात्मेवार्थदूषणीम्
६.००२.००५ समुद्रं लङ्घयित्वा तु महानक्रसमाकुलम्
६.००२.००५ लङ्कामारोहयिष्यामो हनिष्यामश्च ते रिपुम्
६.००२.००६ निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः
६.००२.००६ सर्वार्था व्यवसीदन्ति व्यसनं चाधिगच्छति
६.००२.००७ इमे शूराः समर्थाश्च सर्वे नो हरियूथपाः
६.००२.००७ त्वत्प्रियार्थं कृतोत्साहाः प्रवेष्टुमपि पावकम्
६.००२.००८ एषां हर्षेण जानामि तर्कश्चास्मिन् दृढो मम
६.००२.००८ विक्रमेण समानेष्ये सीतां हत्वा यथा रिपुम्
६.००२.००९ सेतुरत्र यथा वध्येद्यथा पश्येम तां पुरीम्
६.००२.००९ तस्य राक्षसराजस्य तथा त्वं कुरु राघव
६.००२.०१० दृष्ट्वा तां हि पुरीं लङ्कां त्रिकूटशिखरे स्थिताम्
६.००२.०१० हतं च रावणं युद्धे दर्शनादुपधारय
६.००२.०११ सेतुबद्धः समुद्रे च यावल्लङ्का समीपतः
६.००२.०११ सर्वं तीर्णं च वै सैन्यं जितमित्युपधार्यताम्
६.००२.०१२ इमे हि समरे शूरा हरयः कामरूपिणः
६.००२.०१२ तदलं विक्लवा बुद्धी राजन् सर्वार्थनाशनी
६.००२.०१३ पुरुषस्य हि लोकेऽस्मिञ्शोकः शौर्यापकर्षणः
६.००२.०१३ यत्तु कार्यं मनुष्येण शौण्डीर्यमवलम्बता
६.००२.०१३ शूराणां हि मनुष्याणां त्वद्विधानां महात्मनाम्
६.००२.०१४ विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः
६.००२.०१४ त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थकोविदः
६.००२.०१५ मद्विधैः सचिवैः सार्थमरिं जेतुमिहार्हसि
६.००२.०१५ न हि पश्याम्यहं कं चित्त्रिषु लोकेषु राघव
६.००२.०१६ गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे
६.००२.०१६ वानरेषु समासक्तं न ते कार्यं विपत्स्यते
६.००२.०१७ अचिराद्द्रक्ष्यसे सीतां तीर्त्वा सागरमक्षयम्
६.००२.०१७ तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते
६.००२.०१८ निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति
६.००२.०१८ लङ्गनार्थं च घोरस्य समुद्रस्य नदीपतेः
६.००२.०१९ सहास्माभिरिहोपेतः सूक्ष्मबुद्धिर्विचारय
६.००२.०१९ इमे हि समरे शूरा हरयः कामरूपिणः
६.००२.०२० तानरीन् विधमिष्यन्ति शिलापादपवृष्टिभिः
६.००२.०२० कथं चित्परिपश्यामस्ते वयं वरुणालयम्
६.००२.०२१ किमुक्त्वा बहुधा चापि सर्वथा विजयी भवान्
६.००३.००१ सुग्रीवस्य वचः श्रुत्वा हेतुमत्परमार्थवित्
६.००३.००१ प्रतिजग्राह काकुत्स्थो हनूमन्तमथाब्रवीत्
६.००३.००२ तरसा सेतुबन्धेन सागरोच्छोषणेन वा
६.००३.००२ सर्वथा सुसमर्थोऽस्मि सागरस्यास्य लङ्घने
६.००३.००३ कति दुर्गाणि दुर्गाया लङ्कायास्तद्ब्रवीहि मे
६.००३.००३ ज्ञातुमिच्छामि तत्सर्वं दर्शनादिव वानर
६.००३.००४ बलस्य परिमाणं च द्वारदुर्गक्रियामपि
६.००३.००४ गुप्ति कर्म च लङ्काया रक्षसां सदनानि च
६.००३.००५ यथासुखं यथावच्च लङ्कायामसि दृष्टवान्
६.००३.००५ सरमाचक्ष्व तत्त्वेन सर्वथा कुशलो ह्यसि
६.००३.००६ श्रुत्वा रामस्य वचनं हनूमान्मारुतात्मजः
६.००३.००६ वाक्यं वाक्यविदां श्रेष्ठो रामं पुनरथाब्रवीत्
६.००३.००७ श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः
६.००३.००७ गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः
६.००३.००८ परां समृद्धिं लङ्कायाः सागरस्य च भीमताम्
६.००३.००८ विभागं च बलौघस्य निर्देशं वाहनस्य च
६.००३.००९ प्रहृष्टा मुदिता लङ्का मत्तद्विपसमाकुला
६.००३.००९ महती रथसंपूर्णा रक्षोगणसमाकुला
६.००३.०१० दृढबद्धकवाटानि महापरिघवन्ति च
६.००३.०१० द्वाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च
६.००३.०११ वप्रेषूपलयन्त्राणि बलवन्ति महान्ति च
६.००३.०११ आगतं परसैन्यं तैस्तत्र प्रतिनिवार्यते
६.००३.०१२ द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः
६.००३.०१२ शतशो रोचिता वीरैः शतघ्न्यो रक्षसां गणैः
६.००३.०१३ सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः
६.००३.०१३ मणिविद्रुमवैदूर्यमुक्ताविचरितान्तरः
६.००३.०१४ सर्वतश्च महाभीमाः शीततोया महाशुभाः
६.००३.०१४ अगाधा ग्राहवत्यश्च परिखा मीनसेविताः
६.००३.०१५ द्वारेषु तासां चत्वारः संक्रमाः परमायताः
६.००३.०१५ यन्त्रैरुपेता बहुभिर्महद्भिर्दृढसंधिभिः
६.००३.०१६ त्रायन्ते संक्रमास्तत्र परसैन्यागमे सति
६.००३.०१६ यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः
६.००३.०१७ एकस्त्वकम्प्यो बलवान् संक्रमः सुमहादृढः
६.००३.०१७ काञ्चनैर्बहुभिः स्तम्भैर्वेदिकाभिश्च शोभितः
६.००३.०१८ स्वयं प्रकृतिसंपन्नो युयुत्सू राम रावणः
६.००३.०१८ उत्थितश्चाप्रमत्तश्च बलानामनुदर्शने
६.००३.०१९ लङ्का पुरी निरालम्बा देवदुर्गा भयावहा
६.००३.०१९ नादेयं पार्वतं वन्यं कृत्रिमं च चतुर्विधम्
६.००३.०२० स्थिता पारे समुद्रस्य दूरपारस्य राघव
६.००३.०२० नौपथश्चापि नास्त्यत्र निरादेशश्च सर्वतः
६.००३.०२१ शैलाग्रे रचिता दुर्गा सा पूर्देवपुरोपमा
६.००३.०२१ वाजिवारणसंपूर्णा लङ्का परमदुर्जया
६.००३.०२२ परिघाश्च शतघ्न्यश्च यन्त्राणि विविधानि च
६.००३.०२२ शोभयन्ति पुरीं लङ्कां रावणस्य दुरात्मनः
६.००३.०२३ अयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम्
६.००३.०२३ शूलहस्ता दुराधर्षाः सर्वे खड्गाग्रयोधिनः
६.००३.०२४ नियुतं रक्षसामत्र दक्षिणद्वारमाश्रितम्
६.००३.०२४ चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः
६.००३.०२५ प्रयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम्
६.००३.०२५ चर्मखड्गधराः सर्वे तथा सर्वास्त्रकोविदाः
६.००३.०२६ अर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम्
६.००३.०२६ रथिनश्चाश्ववाहाश्च कुलपुत्राः सुपूजिताः
६.००३.०२७ शतं शतसहस्राणां मध्यमं गुल्ममाश्रितम्
६.००३.०२७ यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम्
६.००३.०२८ ते मया संक्रमा भग्नाः परिखाश्चावपूरिताः
६.००३.०२८ दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः
६.००३.०२९ येन केन तु मार्गेण तराम वरुणालयम्
६.००३.०२९ हतेति नगरी लङ्कां वानरैरवधार्यताम्
६.००३.०३० अङ्गदो द्विविदो मैन्दो जाम्बवान् पनसो नलः
६.००३.०३० नीलः सेनापतिश्चैव बलशेषेण किं तव
६.००३.०३१ प्लवमाना हि गत्वा तां रावणस्य महापुरीम्
६.००३.०३१ सप्रकारां सभवनामानयिष्यन्ति मैथिलीम्
६.००३.०३२ एवमाज्ञापय क्षिप्रं बलानां सर्वसंग्रहम्
६.००३.०३२ मुहूर्तेन तु युक्तेन प्रस्थानमभिरोचय
६.००४.००१ श्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः
६.००४.००१ ततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः
६.००४.००२ यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः
६.००४.००२ क्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते
६.००४.००३ अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये
६.००४.००३ युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः
६.००४.००४ उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते
६.००४.००४ अभिप्रयाम सुग्रीव सर्वानीकसमावृताः
६.००४.००५ निमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे
६.००४.००५ निहत्य रावणं सीतामानयिष्यामि जानकीम्
६.००४.००६ उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम
६.००४.००६ विजयं समनुप्राप्तं शंसतीव मनोरथम्
६.००४.००७ अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्
६.००४.००७ वृतः शतसहस्रेण वानराणां तरस्विनाम्
६.००४.००८ फलमूलवता नील शीतकाननवारिणा
६.००४.००८ पथा मधुमता चाशु सेनां सेनापते नय
६.००४.००९ दूषयेयुर्दुरात्मानः पथि मूलफलोदकम्
६.००४.००९ राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः
६.००४.०१० निम्नेषु वनदुर्गेषु वनेषु च वनौकसः
६.००४.०१० अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम्
६.००४.०११ सागरौघनिभं भीममग्रानीकं महाबलाः
६.००४.०११ कपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः
६.००४.०१२ गजश्च गिरिसंकाशो गवयश्च महाबलः
६.००४.०१२ गवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः
६.००४.०१३ यातु वानरवाहिन्या वानरः प्लवतां पतिः
६.००४.०१३ पालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः
६.००४.०१४ गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः
६.००४.०१४ यातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः
६.००४.०१५ यास्यामि बलमध्येऽहं बलौघमभिहर्षयन्
६.००४.०१५ अधिरुह्य हनूमन्तमैरावतमिवेश्वरः
६.००४.०१६ अङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः
६.००४.०१६ सार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा
६.००४.०१७ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः
६.००४.०१७ ऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः
६.००४.०१८ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः
६.००४.०१८ व्यादिदेश महावीर्यान् वानरान् वानरर्षभः
६.००४.०१९ ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः
६.००४.०१९ गुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा
६.००४.०२० ततो वानरराजेन लक्ष्मणेन च पूजितः
६.००४.०२० जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम्
६.००४.०२१ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि
६.००४.०२१ वारणाभिश्च हरिभिर्ययौ परिवृतस्तदा
६.००४.०२२ तं यान्तमनुयाति स्म महती हरिवाहिनी
६.००४.०२३ हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः
६.००४.०२३ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः
६.००४.०२३ क्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम्
६.००४.०२४ भक्षयन्तः सुगन्धीनि मधूनि च फलानि च
६.००४.०२४ उद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः
६.००४.०२५ अन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च
६.००४.०२५ पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान्
६.००४.०२६ रावणो नो निहन्तव्यः सर्वे च रजनीचराः
६.००४.०२६ इति गर्जन्ति हरयो राघवस्य समीपतः
६.००४.०२७ पुरस्तादृषभो वीरो नीलः कुमुद एव च
६.००४.०२७ पथानं शोधयन्ति स्म वानरैर्बहुभिः सह
६.००४.०२८ मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च
६.००४.०२८ बहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः
६.००४.०२९ हरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः
६.००४.०२९ सर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम्
६.००४.०३० कोटीशतपरीवारः केसरी पनसो गजः
६.००४.०३० अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति
६.००४.०३१ सुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः
६.००४.०३१ सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः
६.००४.०३२ तेषां सेनापतिर्वीरो नीलो वानरपुंगवः
६.००४.०३२ संपतन् पततां श्रेष्ठस्तद्बलं पर्यपालयत्
६.००४.०३३ दरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः
६.००४.०३३ सर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान्
६.००४.०३४ एवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः
६.००४.०३४ अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम्
६.००४.०३५ सागरौघनिभं भीमं तद्वानरबलं महत्
६.००४.०३५ निःससर्प महाघोषं भीमवेग इवार्णवः
६.००४.०३६ तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः
६.००४.०३६ तूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः
६.००४.०३७ कपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ
६.००४.०३७ महद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ
६.००४.०३८ तमङ्गदगतो रामं लक्ष्मणः शुभया गिरा
६.००४.०३८ उवाच प्रतिपूर्णार्थः स्मृतिमान् प्रतिभानवान्
६.००४.०३९ हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्
६.००४.०३९ समृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि
६.००४.०४० महान्ति च निमित्तानि दिवि भूमौ च राघव
६.००४.०४० शुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये
६.००४.०४१ अनु वाति शुभो वायुः सेनां मृदुहितः सुखः
६.००४.०४१ पूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः
६.००४.०४२ प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः
६.००४.०४२ उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः
६.००४.०४३ ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः
६.००४.०४३ अर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम्
६.००४.०४४ त्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः
६.००४.०४४ पितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम्
६.००४.०४५ विमले च प्रकाशेते विशाखे निरुपद्रवे
६.००४.०४५ नक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम्
६.००४.०४६ नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते
६.००४.०४६ मूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना
६.००४.०४७ सरं चैतद्विनाशाय राक्षसानामुपस्थितम्
६.००४.०४७ काले कालगृहीतानां नकत्रं ग्रहपीडितम्
६.००४.०४८ प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च
६.००४.०४८ प्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः
६.००४.०४९ व्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो
६.००४.०४९ देवानामिव सैन्यानि संग्रामे तारकामये
६.००४.०५० एवमार्य समीक्ष्यैतान् प्रीतो भवितुमर्हसि
६.००४.०५० इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत्
६.००४.०५१ अथावृत्य महीं कृत्स्नां जगाम महती चमूः
६.००४.०५१ ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता
६.००४.०५२ कराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः
६.००४.०५२ भौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम्
६.००४.०५३ सा स्म याति दिवारात्रं महती हरिवाहिनी
६.००४.०५३ हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता
६.००४.०५४ वनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः
६.००४.०५४ मुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत
६.००४.०५५ ततः पादपसंबाधं नानामृगसमाकुलम्
६.००४.०५५ सह्यपर्वतमासेदुर्मलयं च मही धरम्
६.००४.०५६ काननानि विचित्राणि नदीप्रस्रवणानि च
६.००४.०५६ पश्यन्नपि ययौ रामः सह्यस्य मलयस्य च
६.००४.०५७ चम्पकांस्तिलकांश्चूतानशोकान् सिन्दुवारकान्
६.००४.०५७ करवीरांश्च तिमिशान् भञ्जन्ति स्म प्लवंगमाः
६.००४.०५८ फलान्यमृतगन्धीनि मूलानि कुसुमानि च
६.००४.०५८ बुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः
६.००४.०५९ द्रोणमात्रप्रमाणानि लम्बमानानि वानराः
६.००४.०५९ ययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः
६.००४.०६० पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः
६.००४.०६० विधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः
६.००४.०६१ वृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः
६.००४.०६१ अन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे
६.००४.०६२ बभूव वसुधा तैस्तु संपूर्णा हरिपुंगवैः
६.००४.०६२ यथा कमलकेदारैः पक्वैरिव वसुंधरा
६.००४.०६३ महेन्द्रमथ संप्राप्य रामो राजीवलोचनः
६.००४.०६३ अध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम्
६.००४.०६४ ततः शिखरमारुह्य रामो दशरथात्मजः
६.००४.०६४ कूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम्
६.००४.०६५ ते सह्यं समतिक्रम्य मलयं च महागिरिम्
६.००४.०६५ आसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम्
६.००४.०६६ अवरुह्य जगामाशु वेलावनमनुत्तमम्
६.००४.०६६ रामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः
६.००४.०६७ अथ धौतोपलतलां तोयौघैः सहसोत्थितैः
६.००४.०६७ वेलामासाद्य विपुलां रामो वचनमब्रवीत्
६.००४.०६८ एते वयमनुप्राप्ताः सुग्रीव वरुणालयम्
६.००४.०६८ इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता
६.००४.०६९ अतः परमतीरोऽयं सागरः सरितां पति
६.००४.०६९ न चायमनुपायेन शक्यस्तरितुमर्णवः
६.००४.०७० तदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह
६.००४.०७० यथेदं वानरबलं परं पारमवाप्नुयात्
६.००४.०७१ इतीव स महाबाहुः सीताहरणकर्शितः
६.००४.०७१ रामः सागरमासाद्य वासमाज्ञापयत्तदा
६.००४.०७२ संप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने
६.००४.०७२ स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत्
६.००४.०७२ गच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः
६.००४.०७३ रामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः
६.००४.०७३ सेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते
६.००४.०७४ विरराज समीपस्थं सागरस्य तु तद्बलम्
६.००४.०७४ मधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः
६.००४.०७५ वेलावनमुपागम्य ततस्ते हरिपुंगवाः
६.००४.०७५ विनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः
६.००४.०७६ सा महार्णवमासाद्य हृष्टा वानरवाहिनी
६.००४.०७६ वायुवेगसमाधूतं पश्यमाना महार्णवम्
६.००४.०७७ दूरपारमसंबाधं रक्षोगणनिषेवितम्
६.००४.०७७ पश्यन्तो वरुणावासं निषेदुर्हरियूथपाः
६.००४.०७८ चण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये
६.००४.०७८ चन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम्
६.००४.०७९ चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः
६.००४.०७९ दीप्तभोगैरिवाक्रीर्णं भुजंगैर्वरुणालयम्
६.००४.०८० अवगाढं महासत्तैर्नानाशैलसमाकुलम्
६.००४.०८० दुर्गं द्रुगममार्गं तमगाधमसुरालयम्
६.००४.०८१ मकरैर्नागभोगैश्च विगाढा वातलोहिताः
६.००४.०८१ उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः
६.००४.०८२ अग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम्
६.००४.०८२ सुरारिविषयं घोरं पातालविषमं सदा
६.००४.०८३ सागरं चाम्बरप्रख्यमम्बरं सागरोपमम्
६.००४.०८३ सागरं चाम्बरं चेति निर्विशेषमदृश्यत
६.००४.०८४ संपृक्तं नभसा ह्यम्भः संपृक्तं च नभोऽम्भसा
६.००४.०८४ तादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले
६.००४.०८५ समुत्पतितमेघस्य वीच्चि मालाकुलस्य च
६.००४.०८५ विशेषो न द्वयोरासीत्सागरस्याम्बरस्य च
६.००४.०८६ अन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः
६.००४.०८६ ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे
६.००४.०८७ रत्नौघजलसंनादं विषक्तमिव वायुना
६.००४.०८७ उत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम्
६.००४.०८८ ददृशुस्ते महात्मानो वाताहतजलाशयम्
६.००४.०८८ अनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः
६.००४.०८८ भ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम्
६.००५.००१ सा तु नीलेन विधिवत्स्वारक्षा सुसमाहिता
६.००५.००१ सागरस्योत्तरे तीरे साधु सेना निवेशिता
६.००५.००२ मैन्दश्च द्विविधश्चोभौ तत्र वानरपुंगवौ
६.००५.००२ विचेरतुश्च तां सेनां रक्षार्थं सर्वतो दिशम्
६.००५.००३ निविष्टायां तु सेनायां तीरे नदनदीपतेः
६.००५.००३ पार्श्वस्थं लक्ष्मणं दृष्ट्वा रामो वचनमब्रवीत्
६.००५.००४ शोकश्च किल कालेन गच्छता ह्यपगच्छति
६.००५.००४ मम चापश्यतः कान्तामहन्यहनि वर्धते
६.००५.००५ न मे दुःखं प्रिया दूरे न मे दुःखं हृतेति च
६.००५.००५ एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते
६.००५.००६ वाहि वात यतः कन्या तां स्पृष्ट्वा मामपि स्पृश
६.००५.००६ त्वयि मे गात्रसंस्पर्शश्चन्द्रे दृष्टिसमागमः
६.००५.००७ तन्मे दहति गात्राणि विषं पीतमिवाशये
६.००५.००७ हा नाथेति प्रिया सा मां ह्रियमाणा यदब्रवीत्
६.००५.००८ तद्वियोगेन्धनवता तच्चिन्ताविपुलार्चिषा
६.००५.००८ रात्रिं दिवं शरीरं मे दह्यते मदनाग्निना
६.००५.००९ अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना
६.००५.००९ कथं चित्प्रज्वलन् कामः समासुप्तं जले दहेत्
६.००५.०१० बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम्
६.००५.०१० यदहं सा च वामोरुरेकां धरणिमाश्रितौ
६.००५.०११ केदारस्येव केदारः सोदकस्य निरूदकः
६.००५.०११ उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम्
६.००५.०१२ कदा तु खलु सुस्शोणीं शतपत्रायतेक्षणाम्
६.००५.०१२ विजित्य शत्रून् द्रक्ष्यामि सीतां स्फीतामिव श्रियम्
६.००५.०१३ कदा नु चारुबिम्बौष्ठं तस्याः पद्ममिवाननम्
६.००५.०१३ ईषदुन्नम्य पास्यामि रसायनमिवातुरः
६.००५.०१४ तौ तस्याः संहतौ पीनौ स्तनौ तालफलोपमौ
६.००५.०१४ कदा नु खलु सोत्कम्पौ हसन्त्या मां भजिष्यतः
६.००५.०१५ सा नूनमसितापाङ्गी रक्षोमध्यगता सती
६.००५.०१५ मन्नाथा नाथहीनेव त्रातारं नाधिगच्छति
६.००५.०१६ कदा विक्षोभ्य रक्षांसि सा विधूयोत्पतिष्यति
६.००५.०१६ विधूय जलदान्नीलाञ्शशिलेखा शरत्स्विव
६.००५.०१७ स्वभावतनुका नूनं शोकेनानशनेन च
६.००५.०१७ भूयस्तनुतरा सीता देशकालविपर्ययात्
६.००५.०१८ कदा नु राक्षसेन्द्रस्य निधायोरसि सायकान्
६.००५.०१८ सीतां प्रत्याहरिष्यामि शोकमुत्सृज्य मानसं
६.००५.०१९ कदा नु खलु मां साध्वी सीतामरसुतोपमा
६.००५.०१९ सोत्कण्ठा कण्ठमालम्ब्य मोक्ष्यत्यानन्दजं जलम्
६.००५.०२० कदा शोकमिमं घोरं मैथिली विप्रयोगजम्
६.००५.०२० सहसा विप्रमोक्ष्यामि वासः शुक्लेतरं यथा
६.००५.०२१ एवं विलपतस्तस्य तत्र रामस्य धीमतः
६.००५.०२१ दिनक्षयान्मन्दवपुर्भास्करोऽस्तमुपागमत्
६.००५.०२२ आश्वासितो लक्ष्मणेन रामः संध्यामुपासत
६.००५.०२२ स्मरन् कमलपत्राक्षीं सीतां शोकाकुलीकृतः
६.००६.००१ लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम्
६.००६.००१ राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना
६.००६.००१ अब्रवीद्राक्षसान् सर्वान् ह्रिया किं चिदवाङ्मुखः
६.००६.००२ धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी
६.००६.००२ तेन वानरमात्रेण दृष्टा सीता च जानकी
६.००६.००३ प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः
६.००६.००३ आविला च पुरी लङ्का सर्वा हनुमता कृता
६.००६.००४ किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्
६.००६.००४ उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत्
६.००६.००५ मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः
६.००६.००५ तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः
६.००६.००६ त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः
६.००६.००६ तेषां तु समवेतानां गुणदोषं वदाम्यहम्
६.००६.००७ मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये
६.००६.००७ मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः
६.००६.००८ सहितो मन्त्रयित्वा यः कर्मारम्भान् प्रवर्तयेत्
६.००६.००८ दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्
६.००६.००९ एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः
६.००६.००९ एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्
६.००६.०१० गुणदोषावनिश्चित्य त्यक्त्वा दैवव्यपाश्रयम्
६.००६.०१० करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः
६.००६.०११ यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः
६.००६.०११ एवं मन्त्रोऽपि विज्ञेय उत्तमाधममध्यमः
६.००६.०१२ ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा
६.००६.०१२ मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम्
६.००६.०१३ बह्व्योऽपि मतयो गत्वा मन्त्रिणो ह्यर्थनिर्णये
६.००६.०१३ पुनर्यत्रैकतां प्राप्तः स मन्त्रो मध्यमः स्मृतः
६.००६.०१४ अन्योन्यमतिमास्थाय यत्र संप्रतिभाष्यते
६.००६.०१४ न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते
६.००६.०१५ तस्मात्सुमन्त्रितं साधु भवन्तो मन्त्रिसत्तमाः
६.००६.०१५ कार्यं संप्रतिपद्यन्तामेतत्कृत्यतमं मम
६.००६.०१६ वानराणां हि वीराणां सहस्रैः परिवारितः
६.००६.०१६ रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः
६.००६.०१७ तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्
६.००६.०१७ तरसा युक्तरूपेण सानुजः सबलानुगः
६.००६.०१८ अस्मिन्नेवंगते कार्ये विरुद्धे वानरैः सह
६.००६.०१८ हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम
६.००७.००१ इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः
६.००७.००१ ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम्
६.००७.००२ राजन् परिघशक्त्यृष्टिशूलपट्टससंकुलम्
६.००७.००२ सुमहन्नो बलं कस्माद्विषादं भजते भवान्
६.००७.००३ कैलासशिखरावासी यक्षैर्बहुभिरावृतः
६.००७.००३ सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः
६.००७.००४ स महेश्वरसख्येन श्लाघमानस्त्वया विभो
६.००७.००४ निर्जितः समरे रोषाल्लोकपालो महाबलः
६.००७.००५ विनिहत्य च यक्षौघान् विक्षोभ्य च विगृह्य च
६.००७.००५ त्वया कैलासशिखराद्विमानमिदमाहृतम्
६.००७.००६ मयेन दानवेन्द्रेण त्वद्भयात्सख्यमिच्छता
६.००७.००६ दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव
६.००७.००७ दानवेन्द्रो मधुर्नाम वीर्योत्सिक्तो दुरासदः
६.००७.००७ विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः
६.००७.००८ निर्जितास्ते महाबाहो नागा गत्वा रसातलम्
६.००७.००८ वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः
६.००७.००९ अक्षया बलवन्तश्च शूरा लब्धवराः पुनः
६.००७.००९ त्वया संवत्सरं युद्ध्वा समरे दानवा विभो
६.००७.०१० स्वबलं समुपाश्रित्य नीता वशमरिंदम
६.००७.०१० मायाश्चाधिगतास्तत्र बहवो राक्षसाधिप
६.००७.०११ शूराश्च बलवन्तश्च वरुणस्य सुता रणे
६.००७.०११ निर्जितास्ते महाबाहो चतुर्विधबलानुगाः
६.००७.०१२ मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम्
६.००७.०१२ अवगाह्य त्वया राजन् यमस्य बलसागरम्
६.००७.०१३ जयश्च विप्लुलः प्राप्तो मृत्युश्च प्रतिषेधितः
६.००७.०१३ सुयुद्धेन च ते सर्वे लोकास्तत्र सुतोषिताः
६.००७.०१४ क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः
६.००७.०१४ आसीद्वसुमती पूर्णा महद्भिरिव पादपैः
६.००७.०१५ तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे
६.००७.०१५ प्रसह्य ते त्वया राजन् हताः परमदुर्जयाः
६.००७.०१६ राजन्नापदयुक्तेयमागता प्राकृताज्जनात्
६.००७.०१६ हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्
६.००८.००१ ततो नीलाम्बुदनिभः प्रहस्तो नाम राक्षसः
६.००८.००१ अब्रवीत्प्राञ्जलिर्वाक्यं शूरः सेनापतिस्तदा
६.००८.००२ देवदानवगन्धर्वाः पिशाचपतगोरगाः
६.००८.००२ न त्वां धर्षयितुं शक्ताः किं पुनर्वानरा रणे
६.००८.००३ सर्वे प्रमत्ता विश्वस्ता वञ्चिताः स्म हनूमता
६.००८.००३ न हि मे जीवतो गच्छेज्जीवन् स वनगोचरः
६.००८.००४ सर्वां सागरपर्यन्तां सशैलवनकाननाम्
६.००८.००४ करोम्यवानरां भूमिमाज्ञापयतु मां भवान्
६.००८.००५ रक्षां चैव विधास्यामि वानराद्रजनीचर
६.००८.००५ नागमिष्यति ते दुःखं किं चिदात्मापराधजम्
६.००८.००६ अब्रवीच्च सुसंक्रुद्धो दुर्मुखो नाम राक्षसः
६.००८.००६ इदं न क्षमणीयं हि सर्वेषां नः प्रधर्षणम्
६.००८.००७ अयं परिभवो भूयः पुरस्यान्तःपुरस्य च
६.००८.००७ श्रीमतो राक्षसेन्द्रस्य वानरेन्द्रप्रधर्षणम्
६.००८.००८ अस्मिन्मुहूर्ते हत्वैको निवर्तिष्यामि वानरान्
६.००८.००८ प्रविष्टान् सागरं भीममम्बरं वा रसातलम्
६.००८.००९ ततोऽब्रवीत्सुसंक्रुद्धो वज्रदंष्ट्रो महाबलः
६.००८.००९ प्रगृह्य परिघं घोरं मांसशोणितरूपितम्
६.००८.०१० किं वो हनुमता कार्यं कृपणेन तपस्विना
६.००८.०१० रामे तिष्ठति दुर्धर्षे सुग्रीवे सहलक्ष्मणे
६.००८.०११ अद्य रामं ससुग्रीवं परिघेण सलक्ष्मणम्
६.००८.०११ आगमिष्यामि हत्वैको विक्षोभ्य हरिवाहिनीम्
६.००८.०१२ कौम्भकर्णिस्ततो वीरो निकुम्भो नाम वीर्यवान्
६.००८.०१२ अब्रवीत्परमकुर्द्धो रावणं लोकरावणम्
६.००८.०१३ सर्वे भवन्तस्तिष्ठन्तु महाराजेन संगताः
६.००८.०१३ अहमेको हनिष्यामि राघवं सहलक्ष्मणम्
६.००८.०१४ ततो वज्रहनुर्नाम राक्षसः पर्वतोपमः
६.००८.०१४ क्रुद्धः परिलिहन् वक्त्रं जिह्वया वाक्यमब्रवीत्
६.००८.०१५ स्वैरं कुर्वन्तु कार्याणि भवन्तो विगतज्वराः
६.००८.०१५ एकोऽहं भक्षयिष्यामि तान् सर्वान् हरियूथपान्
६.००८.०१६ स्वस्थाः क्रीडन्तु निश्चिन्ताः पिबन्तु मधुवारुणीम्
६.००८.०१६ अहमेको हनिष्यामि सुग्रीवं सहलक्ष्मणम्
६.००८.०१६ साङ्गदं च हनूमन्तं रामं च रणकुञ्जरम्
६.००९.००१ ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः
६.००९.००१ सुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोअरः
६.००९.००२ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः
६.००९.००२ इन्द्रजिच्च महातेजा बलवान् रावणात्मजः
६.००९.००३ प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः
६.००९.००३ धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः
६.००९.००४ परिघान् पट्टसान् प्रासाञ्शक्तिशूलपरश्वधान्
६.००९.००४ चापानि च सबाणानि खड्गांश्च विपुलाञ्शितान्
६.००९.००५ प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः
६.००९.००५ अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा
६.००९.००६ अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्
६.००९.००६ कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता
६.००९.००७ तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः
६.००९.००७ अब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्
६.००९.००८ अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते
६.००९.००८ तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः
६.००९.००९ प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च
६.००९.००९ विक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः
६.००९.०१० अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्
६.००९.०१० जितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ
६.००९.०११ समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्
६.००९.०११ कृतं हनुमता कर्म दुष्करं तर्कयेत कः
६.००९.०१२ बलान्यपरिमेयानि वीर्याणि च निशाचराः
६.००९.०१२ परेषां सहसावज्ञा न कर्तव्या कथं चन
६.००९.०१३ किं च राक्षसराजस्य रामेणापकृतं पुरा
६.००९.०१३ आजहार जनस्थानाद्यस्य भार्यां यशस्विनः
६.००९.०१४ खरो यद्यतिवृत्तस्तु रामेण निहतो रणे
६.००९.०१४ अवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम्
६.००९.०१५ एतन्निमित्तं वैदेही भयं नः सुमहद्भवेत्
६.००९.०१५ आहृता सा परित्याज्या कलहार्थे कृते न किम्
६.००९.०१६ न नः क्षमं वीर्यवता तेन धर्मानुवर्तिना
६.००९.०१६ वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली
६.००९.०१७ यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्
६.००९.०१७ पुरीं दारयते बाणैर्दीयतामस्य मैथिली
६.००९.०१८ यावत्सुघोरा महती दुर्धर्षा हरिवाहिनी
६.००९.०१८ नावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम्
६.००९.०१९ विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः
६.००९.०१९ रामस्य दयिता पत्नी न स्वयं यदि दीयते
६.००९.०२० प्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम
६.००९.०२० हितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली
६.००९.०२१ पुरा शरत्सूर्यमरीचिसंनिभान्॑ नवाग्रपुङ्खान् सुदृढान्नृपात्मजः
६.००९.०२१ सृजत्यमोघान् विशिखान् वधाय ते॑ प्रदीयतां दाशरथाय मैथिली
६.००९.०२२ त्यजस्व कोपं सुखधर्मनाशनं॑ भजस्व धर्मं रतिकीर्तिवर्धनम्
६.००९.०२२ प्रसीद जीवेम सपुत्रबान्धवाः॑ प्रदीयतां दाशरथाय मैथिली
६.०१०.००१ सुनिविष्टं हितं वाक्यमुक्तवन्तं विभीषणम्
६.०१०.००१ अब्रवीत्परुषं वाक्यं रावणः कालचोदितः
६.०१०.००२ वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा
६.०१०.००२ न तु मित्रप्रवादेन संवसेच्छत्रुसेविना
६.०१०.००३ जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस
६.०१०.००३ हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा
६.०१०.००४ प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस
६.०१०.००४ ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च
६.०१०.००५ नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः
६.०१०.००५ प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः
६.०१०.००६ श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्व चित्
६.०१०.००६ पाशहस्तान्नरान् दृष्ट्वा शृणु तान् गदतो मम
६.०१०.००७ नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः
६.०१०.००७ घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः
६.०१०.००८ उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः
६.०१०.००८ कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः
६.०१०.००९ विद्यते गोषु संपन्नं विद्यते ब्राह्मणे दमः
६.०१०.००९ विद्यते स्त्रीषु चापल्यं विद्यते ज्ञातितो भयम्
६.०१०.०१० ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः
६.०१०.०१० ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः
६.०१०.०११ अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर
६.०१०.०११ अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम्
६.०१०.०१२ इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः
६.०१०.०१२ उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः
६.०१०.०१३ अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः
६.०१०.०१३ अन्तरिक्षगतः श्रीमान् भ्रातरं राक्षसाधिपम्
६.०१०.०१४ स त्वं भ्रातासि मे राजन् ब्रूहि मां यद्यदिच्छसि
६.०१०.०१४ इदं तु परुषं वाक्यं न क्षमाम्यनृतं तव
६.०१०.०१५ सुनीतं हितकामेन वाक्यमुक्तं दशानन
६.०१०.०१५ न गृह्णन्त्यकृतात्मानः कालस्य वशमागताः
६.०१०.०१६ सुलभाः पुरुषा राजन् सततं प्रियवादिनः
६.०१०.०१६ अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः
६.०१०.०१७ बद्धं कालस्य पाशेन सर्वभूतापहारिणा
६.०१०.०१७ न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा
६.०१०.०१८ दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः
६.०१०.०१८ न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः
६.०१०.०१९ शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे
६.०१०.०१९ कालाभिपन्ना सीदन्ति यथा वालुकसेतवः
६.०१०.०२० आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम्
६.०१०.०२० स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना
६.०१०.०२१ निवार्यमाणस्य मया हितैषिणा॑ न रोचते ते वचनं निशाचर
६.०१०.०२१ परीतकाला हि गतायुषो नरा॑ हितं न गृह्णन्ति सुहृद्भिरीरितम्
६.०११.००१ इत्युक्त्वा परुषं वाक्यं रावणं रावणानुजः
६.०११.००१ आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः
६.०११.००२ तं मेरुशिखराकारं दीप्तामिव शतह्रदाम्
६.०११.००२ गगनस्थं महीस्थास्ते ददृशुर्वानराधिपाः
६.०११.००३ तमात्मपञ्चमं दृष्ट्वा सुग्रीवो वानराधिपः
६.०११.००३ वानरैः सह दुर्धर्षश्चिन्तयामास बुद्धिमान्
६.०११.००४ चिन्तयित्वा मुहूर्तं तु वानरांस्तानुवाच ह
६.०११.००४ हनूमत्प्रमुखान् सर्वानिदं वचनमुत्तमम्
६.०११.००५ एष सर्वायुधोपेतश्चतुर्भिः सह राक्षसैः
६.०११.००५ राक्षसोऽभ्येति पश्यध्वमस्मान् हन्तुं न संशयः
६.०११.००६ सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानरोत्तमाः
६.०११.००६ सालानुद्यम्य शैलांश्च इदं वचनमब्रुवन्
६.०११.००७ शीघ्रं व्यादिश नो राजन् वधायैषां दुरात्मनाम्
६.०११.००७ निपतन्तु हताश्चैते धरण्यामल्पजीविताः
६.०११.००८ तेषां संभाषमाणानामन्योन्यं स विभीषणः
६.०११.००८ उत्तरं तीरमासाद्य खस्थ एव व्यतिष्ठत
६.०११.००९ उवाच च महाप्राज्ञः स्वरेण महता महान्
६.०११.००९ सुग्रीवं तांश्च संप्रेक्ष्य खस्थ एव विभीषणः
६.०११.०१० रावणो नाम दुर्वृत्तो राक्षसो राक्षसेश्वरः
६.०११.०१० तस्याहमनुजो भ्राता विभीषण इति श्रुतः
६.०११.०११ तेन सीता जनस्थानाद्धृता हत्वा जटायुषम्
६.०११.०११ रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता
६.०११.०१२ तमहं हेतुभिर्वाक्यैर्विविधैश्च न्यदर्शयम्
६.०११.०१२ साधु निर्यात्यतां सीता रामायेति पुनः पुनः
६.०११.०१३ स च न प्रतिजग्राह रावणः कालचोदितः
६.०११.०१३ उच्यमानो हितं वाक्यं विपरीत इवौषधम्
६.०११.०१४ सोऽहं परुषितस्तेन दासवच्चावमानितः
६.०११.०१४ त्यक्त्वा पुत्रांश्च दारांश्च राघवं शरणं गतः
६.०११.०१५ सर्वलोकशरण्याय राघवाय महात्मने
६.०११.०१५ निवेदयत मां क्षिप्रं विभीषणमुपस्थितम्
६.०११.०१६ एतत्तु वचनं श्रुत्वा सुग्रीवो लघुविक्रमः
६.०११.०१६ लक्ष्मणस्याग्रतो रामं संरब्धमिदमब्रवीत्
६.०११.०१७ रावणस्यानुजो भ्राता विभीषण इति श्रुतः
६.०११.०१७ चतुर्भिः सह रक्षोभिर्भवन्तं शरणं गतः
६.०११.०१८ रावणेन प्रणिहितं तमवेहि विभीषणम्
६.०११.०१८ तस्याहं निग्रहं मन्ये क्षमं क्षमवतां वर
६.०११.०१९ राक्षसो जिह्मया बुद्ध्या संदिष्टोऽयमुपस्थितः
६.०११.०१९ प्रहर्तुं मायया छन्नो विश्वस्ते त्वयि राघव
६.०११.०२० बध्यतामेष तीव्रेण दण्डेन सचिवैः सह
६.०११.०२० रावणस्य नृशंसस्य भ्राता ह्येष विभीषणः
६.०११.०२१ एवमुक्त्वा तु तं रामं संरब्धो वाहिनीपतिः
६.०११.०२१ वाक्यज्ञो वाक्यकुशलं ततो मौनमुपागमत्
६.०११.०२२ सुग्रीवस्य तु तद्वाक्यं श्रुत्वा रामो महाबलः
६.०११.०२२ समीपस्थानुवाचेदं हनूमत्प्रमुखान् हरीन्
६.०११.०२३ यदुक्तं कपिराजेन रावणावरजं प्रति
६.०११.०२३ वाक्यं हेतुमदत्यर्थं भवद्भिरपि तच्छ्रुतम्
६.०११.०२४ सुहृदा ह्यर्थकृच्छेषु युक्तं बुद्धिमता सता
६.०११.०२४ समर्थेनापि संदेष्टुं शाश्वतीं भूतिमिच्छता
६.०११.०२५ इत्येवं परिपृष्टास्ते स्वं स्वं मतमतन्द्रिताः
६.०११.०२५ सोपचारं तदा राममूचुर्हितचिकीर्षवः
६.०११.०२६ अज्ञातं नास्ति ते किं चित्त्रिषु लोकेषु राघव
६.०११.०२६ आत्मानं पूजयन् राम पृच्छस्यस्मान् सुहृत्तया
६.०११.०२७ त्वं हि सत्यव्रतः शूरो धार्मिको दृढविक्रमः
६.०११.०२७ परीक्ष्य कारा स्मृतिमान्निसृष्टात्मा सुहृत्सु च
६.०११.०२८ तस्मादेकैकशस्तावद्ब्रुवन्तु सचिवास्तव
६.०११.०२८ हेतुतो मतिसंपन्नाः समर्थाश्च पुनः पुनः
६.०११.०२९ इत्युक्ते राघवायाथ मतिमानङ्गदोऽग्रतः
६.०११.०२९ विभीषणपरीक्षार्थमुवाच वचनं हरिः
६.०११.०३० शत्रोः सकाशात्संप्राप्तः सर्वथा शङ्क्य एव हि
६.०११.०३० विश्वासयोग्यः सहसा न कर्तव्यो विभीषणः
६.०११.०३१ छादयित्वात्मभावं हि चरन्ति शठबुद्धयः
६.०११.०३१ प्रहरन्ति च रन्ध्रेषु सोऽनर्थः सुमहान् भवेत्
६.०११.०३२ अर्थानर्थौ विनिश्चित्य व्यवसायं भजेत ह
६.०११.०३२ गुणतः संग्रहं कुर्याद्दोषतस्तु विसर्जयेत्
६.०११.०३३ यदि दोषो महांस्तस्मिंस्त्यज्यतामविशङ्कितम्
६.०११.०३३ गुणान् वापि बहूञ्ज्ञात्वा संग्रहः क्रियतां नृप
६.०११.०३४ शरभस्त्वथ निश्चित्य सार्थं वचनमब्रवीत्
६.०११.०३४ क्षिप्रमस्मिन्नरव्याघ्र चारः प्रतिविधीयताम्
६.०११.०३५ प्रणिधाय हि चारेण यथावत्सूक्ष्मबुद्धिना
६.०११.०३५ परीक्ष्य च ततः कार्यो यथान्यायं परिग्रहः
६.०११.०३६ जाम्बवांस्त्वथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः
६.०११.०३६ वाक्यं विज्ञापयामास गुणवद्दोषवर्जितम्
६.०११.०३७ बद्धवैराच्च पापाच्च राक्षसेन्द्राद्विभीषणः
६.०११.०३७ अदेश काले संप्राप्तः सर्वथा शङ्क्यतामयम्
६.०११.०३८ ततो मैन्दस्तु संप्रेक्ष्य नयापनयकोविदः
६.०११.०३८ वाक्यं वचनसंपन्नो बभाषे हेतुमत्तरम्
६.०११.०३९ वचनं नाम तस्यैष रावणस्य विभीषणः
६.०११.०३९ पृच्छ्यतां मधुरेणायं शनैर्नरवरेश्वर
६.०११.०४० भावमस्य तु विज्ञाय ततस्तत्त्वं करिष्यसि
६.०११.०४० यदि दृष्टो न दुष्टो वा बुद्धिपूर्वं नरर्षभ
६.०११.०४१ अथ संस्कारसंपन्नो हनूमान् सचिवोत्तमः
६.०११.०४१ उवाच वचनं श्लक्ष्णमर्थवन्मधुरं लघु
६.०११.०४२ न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम्
६.०११.०४२ अतिशाययितुं शक्तो बृहस्पतिरपि ब्रुवन्
६.०११.०४३ न वादान्नापि संघर्षान्नाधिक्यान्न च कामतः
६.०११.०४३ वक्ष्यामि वचनं राजन् यथार्थं रामगौरवात्
६.०११.०४४ अर्थानर्थनिमित्तं हि यदुक्तं सचिवैस्तव
६.०११.०४४ तत्र दोषं प्रपश्यामि क्रिया न ह्युपपद्यते
६.०११.०४५ ऋते नियोगात्सामर्थ्यमवबोद्धुं न शक्यते
६.०११.०४५ सहसा विनियोगो हि दोषवान् प्रतिभाति मे
६.०११.०४६ चारप्रणिहितं युक्तं यदुक्तं सचिवैस्तव
६.०११.०४६ अर्थस्यासंभवात्तत्र कारणं नोपपद्यते
६.०११.०४७ अदेश काले संप्राप्त इत्ययं यद्विभीषणः
६.०११.०४७ विवक्षा चात्र मेऽस्तीयं तां निबोध यथा मति
६.०११.०४८ स एष देशः कालश्च भवतीह यथा तथा
६.०११.०४८ पुरुषात्पुरुषं प्राप्य तथा दोषगुणावपि
६.०११.०४९ दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा त्वयि
६.०११.०४९ युक्तमागमनं तस्य सदृशं तस्य बुद्धितः
६.०११.०५० अज्ञातरूपैः पुरुषैः स राजन् पृच्छ्यतामिति
६.०११.०५० यदुक्तमत्र मे प्रेक्षा का चिदस्ति समीक्षिता
६.०११.०५१ पृच्छ्यमानो विशङ्केत सहसा बुद्धिमान् वचः
६.०११.०५१ तत्र मित्रं प्रदुष्येत मिथ्यपृष्टं सुखागतम्
६.०११.०५२ अशक्यः सहसा राजन् भावो वेत्तुं परस्य वै
६.०११.०५२ अन्तः स्वभावैर्गीतैस्तैर्नैपुण्यं पश्यता भृशम्
६.०११.०५३ न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्टभावता
६.०११.०५३ प्रसन्नं वदनं चापि तस्मान्मे नास्ति संशयः
६.०११.०५४ अशङ्कितमतिः स्वस्थो न शठः परिसर्पति
६.०११.०५४ न चास्य दुष्टा वाक्चापि तस्मान्नास्तीह संशयः
६.०११.०५५ आकारश्छाद्यमानोऽपि न शक्यो विनिगूहितुम्
६.०११.०५५ बलाद्धि विवृणोत्येव भावमन्तर्गतं नृणाम्
६.०११.०५६ देशकालोपपन्नं च कार्यं कार्यविदां वर
६.०११.०५६ सफलं कुरुते क्षिप्रं प्रयोगेणाभिसंहितम्
६.०११.०५७ उद्योगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम्
६.०११.०५७ वालिनश्च वधं श्रुत्वा सुग्रीवं चाभिषेचितम्
६.०११.०५८ राज्यं प्रार्थयमानश्च बुद्धिपूर्वमिहागतः
६.०११.०५८ एतावत्तु पुरस्कृत्य युज्यते त्वस्य संग्रहः
६.०११.०५९ यथाशक्ति मयोक्तं तु राक्षसस्यार्जवं प्रति
६.०११.०५९ त्वं प्रमाणं तु शेषस्य श्रुत्वा बुद्धिमतां वर
६.०१२.००१ अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह
६.०१२.००१ प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम्
६.०१२.००२ ममापि तु विवक्षास्ति का चित्प्रति विभीषणम्
६.०१२.००२ श्रुतमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः
६.०१२.००३ मित्रभावेन संप्राप्तं न त्यजेयं कथं चन
६.०१२.००३ दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम्
६.०१२.००४ रामस्य वचनं श्रुत्वा सुग्रीवः प्लवगेश्वरः
६.०१२.००४ प्रत्यभाषत काकुत्स्थं सौहार्देनाभिचोदितः
६.०१२.००५ किमत्र चित्रं धर्मज्ञ लोकनाथशिखामणे
६.०१२.००५ यत्त्वमार्यं प्रभाषेथाः सत्त्ववान् सपथे स्थितः
६.०१२.००६ मम चाप्यन्तरात्मायं शुद्धिं वेत्ति विभीषणम्
६.०१२.००६ अनुमनाच्च भावाच्च सर्वतः सुपरीक्षितः
६.०१२.००७ तस्मात्क्षिप्रं सहास्माभिस्तुल्यो भवतु राघव
६.०१२.००७ विभीषणो महाप्राज्ञः सखित्वं चाभ्युपैतु नः
६.०१२.००८ स सुग्रीवस्य तद्वाक्यय्ं रामः श्रुत्वा विमृश्य च
६.०१२.००८ ततः शुभतरं वाक्यमुवाच हरिपुंगवम्
६.०१२.००९ सुदुष्टो वाप्यदुष्टो वा किमेष रजनीचरः
६.०१२.००९ सूक्ष्ममप्यहितं कर्तुं ममाशक्तः कथं चन
६.०१२.०१० पिशाचान् दानवान् यक्षान् पृथिव्यां चैव राक्षसान्
६.०१२.०१० अङ्गुल्यग्रेण तान् हन्यामिच्छन् हरिगणेश्वर
६.०१२.०११ श्रूयते हि कपोतेन शत्रुः शरणमागतः
६.०१२.०११ अर्चितश्च यथान्यायं स्वैश्च मांसैर्निमन्त्रितः
६.०१२.०१२ स हि तं प्रतिजग्राह भार्या हर्तारमागतम्
६.०१२.०१२ कपोतो वानरश्रेष्ठ किं पुनर्मद्विधो जनः
६.०१२.०१३ ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा
६.०१२.०१३ शृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना
६.०१२.०१४ बद्धाञ्जलिपुटं दीनं याचन्तं शरणागतम्
६.०१२.०१४ न हन्यादानृशंस्यार्थमपि शत्रुं परं पत
६.०१२.०१५ आर्तो वा यदि वा दृप्तः परेषां शरणं गतः
६.०१२.०१५ अरिः प्राणान् परित्यज्य रक्षितव्यः कृतात्मना
६.०१२.०१६ स चेद्भयाद्वा मोहाद्वा कामाद्वापि न रक्षति
६.०१२.०१६ स्वया शक्त्या यथातत्त्वं तत्पापं लोकगर्हितम्
६.०१२.०१७ विनष्टः पश्यतस्तस्य रक्षिणः शरणागतः
६.०१२.०१७ आदाय सुकृतं तस्य सर्वं गच्छेदरक्षितः
६.०१२.०१८ एवं दोषो महानत्र प्रपन्नानामरक्षणे
६.०१२.०१८ अस्वर्ग्यं चायशस्यं च बलवीर्यविनाशनम्
६.०१२.०१९ करिष्यामि यथार्थं तु कण्डोर्वचनमुत्तमम्
६.०१२.०१९ धर्मिष्ठं च यशस्यं च स्वर्ग्यं स्यात्तु फलोदये
६.०१२.०२० सकृदेव प्रपन्नाय तवास्मीति च याचते
६.०१२.०२० अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम
६.०१२.०२१ आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया
६.०१२.०२१ विभीषणो वा सुग्रीव यदि वा रावणः स्वयम्
६.०१२.०२२ ततस्तु सुग्रीववचो निशम्य तद्॑ धरीश्वरेणाभिहितं नरेश्वरः
६.०१२.०२२ विभीषणेनाशु जगाम संगमं॑ पतत्रिराजेन यथा पुरंदरः
६.०१३.००१ राघवेणाभये दत्ते संनतो रावणानुजः
६.०१३.००१ खात्पपातावनिं हृष्टो भक्तैरनुचरैः सह
६.०१३.००२ स तु रामस्य धर्मात्मा निपपात विभीषणः
६.०१३.००२ पादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः
६.०१३.००३ अब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः
६.०१३.००३ धर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम्
६.०१३.००४ अनुजो रावणस्याहं तेन चास्म्यवमानितः
६.०१३.००४ भवन्तं सर्वभूतानां शरण्यं शरणं गतः
६.०१३.००५ परित्यक्ता मया लङ्का मित्राणि च धनानि च
६.०१३.००५ भवद्गतं मे राज्यं च जीवितं च सुखानि च
६.०१३.००६ राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे
६.०१३.००६ करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्
६.०१३.००७ इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्
६.०१३.००७ अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय
६.०१३.००८ तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्
६.०१३.००८ राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद
६.०१३.००९ एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम्
६.०१३.००९ मध्ये वानरमुख्यानां राजानं रामशासनात्
६.०१३.०१० तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः
६.०१३.०१० प्रचुक्रुशुर्महानादान् साधु साध्विति चाब्रुवन्
६.०१३.०११ अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्
६.०१३.०११ कथं सागरमक्षोभ्यं तराम वरुणालयम्
६.०१३.०१२ उपायैरभिगच्छामो यथा नदनदीपतिम्
६.०१३.०१२ तराम तरसा सर्वे ससैन्या वरुणालयम्
६.०१३.०१३ एवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः
६.०१३.०१३ समुद्रं राघवो राजा शरणं गन्तुमर्हति
६.०१३.०१४ खानितः सगरेणायमप्रमेयो महोदधिः
६.०१३.०१४ कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः
६.०१३.०१५ एवं विभीषणेनोक्ते राक्षसेन विपश्चिता
६.०१३.०१५ प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत
६.०१३.०१६ स लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्
६.०१३.०१६ सत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह
६.०१३.०१७ विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते
६.०१३.०१७ ब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते
६.०१३.०१८ सुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः
६.०१३.०१८ उभाभ्यां संप्रधार्यार्यं रोचते यत्तदुच्यताम्
६.०१३.०१९ एवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ
६.०१३.०१९ समुदाचार संयुक्तमिदं वचनमूचतुः
६.०१३.०२० किमर्थं नो नरव्याघ्र न रोचिष्यति राघव
६.०१३.०२० विभीषणेन यत्तूक्तमस्मिन् काले सुखावहम्
६.०१३.०२१ अबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये
६.०१३.०२१ लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः
६.०१३.०२२ विभीषणस्य शूरस्य यथार्थं क्रियतां वचः
६.०१३.०२२ अलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम्
६.०१३.०२३ एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः
६.०१३.०२३ संविवेश तदा रामो वेद्यामिव हुताशनः
६.०१४.००१ तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले
६.०१४.००१ नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः
६.०१४.००२ न च दर्शयते मन्दस्तदा रामस्य सागरः
६.०१४.००२ प्रयतेनापि रामेण यथार्हमभिपूजितः
६.०१४.००३ समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः
६.०१४.००३ समीपस्थमुवाचेदं लक्ष्मणं शुभलक्ष्मणम्
६.०१४.००४ पश्य तावदनार्यस्य पूज्यमानस्य लक्ष्मण
६.०१४.००४ अवलेपं समुद्रस्य न दर्शयति यत्स्वयम्
६.०१४.००५ प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता
६.०१४.००५ असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः
६.०१४.००६ आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम्
६.०१४.००६ सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम्
६.०१४.००७ न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः
६.०१४.००७ प्राप्तुं लक्ष्मण लोकेऽस्मिञ्जयो वा रणमूधनि
६.०१४.००८ अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम्
६.०१४.००८ निरुद्धतोयं सौमित्रे प्लवद्भिः पश्य सर्वतः
६.०१४.००९ महाभोगानि मत्स्यानां करिणां च करानिह
६.०१४.००९ भोगांश्च पश्य नागानां मया भिन्नानि लक्ष्मण
६.०१४.०१० सशङ्खशुक्तिका जालं समीनमकरं शरैः
६.०१४.०१० अद्य युद्धेन महता समुद्रं परिशोषये
६.०१४.०११ क्षमया हि समायुक्तं मामयं मकरालयः
६.०१४.०११ असमर्थं विजानाति धिक्क्षमामीदृशे जने
६.०१४.०१२ चापमानय सौमित्रे शरांश्चाशीविषोपमान्
६.०१४.०१२ अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम्
६.०१४.०१३ वेलासु कृतमर्यादं सहसोर्मिसमाकुलम्
६.०१४.०१३ निर्मर्यादं करिष्यामि सायकैर्वरुणालयम्
६.०१४.०१४ एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः
६.०१४.०१४ बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन्
६.०१४.०१५ संपीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत्
६.०१४.०१५ मुमोच विशिखानुग्रान् वज्राणीव शतक्रतुः
६.०१४.०१६ ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः
६.०१४.०१६ प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम्
६.०१४.०१७ ततो वेगः समुद्रस्य सनक्रमकरो महान्
६.०१४.०१७ संबभूव महाघोरः समारुतरवस्तदा
६.०१४.०१८ महोर्मिमालाविततः शङ्खशुक्तिसमाकुलः
६.०१४.०१८ सधूमपरिवृत्तोर्मिः सहसाभून्महोदधिः
६.०१४.०१९ व्यथिताः पन्नगाश्चासन् दीप्तास्या दीप्तलोचनाः
६.०१४.०१९ दानवाश्च महावीर्याः पातालतलवासिनः
६.०१४.०२० ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा
६.०१४.०२० विन्ध्यमन्दरसंकाशाः समुत्पेतुः सहस्रशः
६.०१४.०२१ आघूर्णिततरङ्गौघः संभ्रान्तोरगराक्षसः
६.०१४.०२१ उद्वर्तित महाग्राहः संवृत्तः सलिलाशयः
६.०१५.००१ ततो मध्यात्समुद्रस्य सागरः स्वयमुत्थितः
६.०१५.००१ उदयन् हि महाशैलान्मेरोरिव दिवाकरः
६.०१५.००१ पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत
६.०१५.००२ स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषितः
६.०१५.००२ रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः
६.०१५.००३ सागरः समतिक्रम्य पूर्वमामन्त्र्य वीर्यवान्
६.०१५.००३ अब्रवीत्प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्
६.०१५.००४ पृथिवी वायुराकाशमापो ज्योतिश्च राघवः
६.०१५.००४ स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः
६.०१५.००५ तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः
६.०१५.००५ विकारस्तु भवेद्राध एतत्ते प्रवदाम्यहम्
६.०१५.००६ न कामान्न च लोभाद्वा न भयात्पार्थिवात्मज
६.०१५.००६ ग्राहनक्राकुलजलं स्तम्भयेयं कथं चन
६.०१५.००७ विधास्ये राम येनापि विषहिष्ये ह्यहं तथा
६.०१५.००७ ग्राहा न प्रहरिष्यन्ति यावत्सेना तरिष्यति
६.०१५.००८ अयं सौम्य नलो नाम तनुजो विश्वकर्मणः
६.०१५.००८ पित्रा दत्तवरः श्रीमान् प्रतिमो विश्वकर्मणः
६.०१५.००९ एष सेतुं महोत्साहः करोतु मयि वानरः
६.०१५.००९ तमहं धारयिष्यामि तथा ह्येष यथा पिता
६.०१५.०१० एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः
६.०१५.०१० अब्रवीद्वानरश्रेष्ठो वाक्यं रामं महाबलः
६.०१५.०११ अहं सेतुं करिष्यामि विस्तीर्णे वरुणालये
६.०१५.०११ पितुः सामर्थ्यमास्थाय तत्त्वमाह महोदधिः
६.०१५.०१२ मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा
६.०१५.०१२ औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा
६.०१५.०१३ न चाप्यहमनुक्तो वै प्रब्रूयामात्मनो गुणान्
६.०१५.०१३ काममद्यैव बध्नन्तु सेतुं वानरपुंगवाः
६.०१५.०१४ ततो निसृष्टरामेण सर्वतो हरियूथपाः
६.०१५.०१४ अभिपेतुर्महारण्यं हृष्टाः शतसहस्रशः
६.०१५.०१५ ते नगान्नगसंकाशाः शाखामृगगणर्षभाः
६.०१५.०१५ बभञ्जुर्वानरास्तत्र प्रचकर्षुश्च सागरम्
६.०१५.०१६ ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः
६.०१५.०१६ कुटजैरर्जुनैस्तालैस्तिकलैस्तिमिशैरपि
६.०१५.०१७ बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः
६.०१५.०१७ चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्
६.०१५.०१८ समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः
६.०१५.०१८ इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्हरयस्तरून्
६.०१५.०१९ प्रक्षिप्यमाणैरचलैः सहसा जलमुद्धतम्
६.०१५.०१९ समुत्पतितमाकाशमपासर्पत्ततस्ततः
६.०१५.०२० दशयोजनविस्तीर्णं शतयोजनमायतम्
६.०१५.०२० नलश्चक्रे महासेतुं मध्ये नदनदीपतेः
६.०१५.०२१ शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्
६.०१५.०२१ बभूव तुमुलः शब्दस्तदा तस्मिन्महोदधौ
६.०१५.०२२ स नलेन कृतः सेतुः सागरे मकरालये
६.०१५.०२२ शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे
६.०१५.०२३ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
६.०१५.०२४ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः
६.०१५.०२४ तमचिन्त्यमसह्यं च अद्भुतं लोमहर्षणम्
६.०१५.०२४ ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्
६.०१५.०२५ तानि कोटिसहस्राणि वानराणां महौजसाम्
६.०१५.०२५ बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः
६.०१५.०२६ विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः
६.०१५.०२६ अशोभत महासेतुः सीमन्त इव सागरे
६.०१५.०२७ ततः परे समुद्रस्य गदापाणिर्विभीषणः
६.०१५.०२७ परेषामभिघतार्थमतिष्ठत्सचिवैः सह
६.०१५.०२८ अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः
६.०१५.०२८ जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः
६.०१५.०२९ अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः
६.०१५.०२९ सलिले प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे
६.०१५.०२९ के चिद्वैहायस गताः सुपर्णा इव पुप्लुवुः
६.०१५.०३० घोषेण महता घोषं सागरस्य समुच्छ्रितम्
६.०१५.०३० भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी
६.०१५.०३१ वानराणां हि सा तीर्णा वाहिनी नल सेतुना
६.०१५.०३१ तीरे निविविशे राज्ञा बहुमूलफलोदके
६.०१५.०३२ तदद्भुतं राघव कर्म दुष्करं॑ समीक्ष्य देवाः सह सिद्धचारणैः
६.०१५.०३२ उपेत्य रामं सहिता महर्षिभिः॑ समभ्यषिञ्चन् सुशुभैर्जलैः पृथक्
६.०१५.०३३ जयस्व शत्रून्नरदेव मेदिनीं॑ ससागरां पालय शाश्वतीः समाः
६.०१५.०३३ इतीव रामं नरदेवसत्कृतं॑ शुभैर्वचोभिर्विविधैरपूजयन्
६.०१६.००१ सबले सागरं तीर्णे रामे दशरथात्मजे
६.०१६.००१ अमात्यौ रावणः श्रीमानब्रवीच्छुकसारणौ
६.०१६.००२ समग्रं सागरं तीर्णं दुस्तरं वानरं बलम्
६.०१६.००२ अभूतपूर्वं रामेण सागरे सेतुबन्धनम्
६.०१६.००३ सागरे सेतुबन्धं तु न श्रद्दध्यां कथं चन
६.०१६.००३ अवश्यं चापि संख्येयं तन्मया वानरं बलम्
६.०१६.००४ भवन्तौ वानरं सैन्यं प्रविश्यानुपलक्षितौ
६.०१६.००४ परिमाणं च वीर्यं च ये च मुख्याः प्लवंगमाः
६.०१६.००५ मन्त्रिणो ये च रामस्य सुग्रीवस्य च संमताः
६.०१६.००५ ये पूर्वमभिवर्तन्ते ये च शूराः प्लवंगमाः
६.०१६.००६ स च सेतुर्यथा बद्धः सागरे सलिलार्णवे
६.०१६.००६ निवेशश्च यथा तेषां वानराणां महात्मनाम्
६.०१६.००७ रामस्य व्यवसायं च वीर्यं प्रहरणानि च
६.०१६.००७ लक्ष्मणस्य च वीरस्य तत्त्वतो ज्ञातुमर्हथ
६.०१६.००८ कश्च सेनापतिस्तेषां वानराणां महौजसाम्
६.०१६.००८ एतज्ज्ञात्वा यथातत्त्वं शीघ्रमगन्तुमर्हथः
६.०१६.००९ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ
६.०१६.००९ हरिरूपधरौ वीरौ प्रविष्टौ वानरं बलम्
६.०१६.०१० ततस्तद्वानरं सैन्यमचिन्त्यं लोमहर्षणम्
६.०१६.०१० संख्यातुं नाध्यगच्छेतां तदा तौ शुकसारणौ
६.०१६.०११ तत्स्थितं पर्वताग्रेषु निर्दरेषु गुहासु च
६.०१६.०११ समुद्रस्य च तीरेषु वनेषूपवनेषु च
६.०१६.०१२ तरमाणं च तीर्णं च तर्तुकामं च सर्वशः
६.०१६.०१२ निविष्टं निविशच्चैव भीमनादं महाबलम्
६.०१६.०१३ तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः
६.०१६.०१३ आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ
६.०१६.०१३ लङ्कायाः समनुप्राप्तौ चारौ परपुरंजयौ
६.०१६.०१४ तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा
६.०१६.०१४ कृताञ्जलिपुटौ भीतौ वचनं चेदमूचतुः
६.०१६.०१५ आवामिहागतौ सौम्य रावणप्रहितावुभौ
६.०१६.०१५ परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन
६.०१६.०१६ तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः
६.०१६.०१६ अब्रवीत्प्रहसन् वाक्यं सर्वभूतहिते रतः
६.०१६.०१७ यदि दृष्टं बलं कृत्स्नं वयं वा सुसमीक्षिताः
६.०१६.०१७ यथोक्तं वा कृतं कार्यं छन्दतः प्रतिगम्यताम्
६.०१६.०१८ प्रविश्य नगरीं लङ्कां भवद्भ्यां धनदानुजः
६.०१६.०१८ वक्तव्यो रक्षसां राजा यथोक्तं वचनं मम
६.०१६.०१९ यद्बलं च समाश्रित्य सीतां मे हृतवानसि
६.०१६.०१९ तद्दर्शय यथाकामं ससैन्यः सहबान्धवः
६.०१६.०२० श्वःकाले नगरीं लङ्कां सप्राकारां सतोरणाम्
६.०१६.०२० राक्षसं च बलं पश्य शरैर्विध्वंसितं मया
६.०१६.०२१ घोरं रोषमहं मोक्ष्ये बलं धारय रावण
६.०१६.०२१ श्वःकाले वज्रवान् वज्रं दानवेष्विव वासवः
६.०१६.०२२ इति प्रतिसमादिष्टौ राक्षसौ शुकसारणौ
६.०१६.०२२ आगम्य नगरीं लङ्कामब्रूतां राक्षसाधिपम्
६.०१६.०२३ विभीषणगृहीतौ तु वधार्हौ राक्षसेश्वर
६.०१६.०२३ दृष्ट्वा धर्मात्मना मुक्तौ रामेणामिततेजसा
६.०१६.०२४ एकस्थानगता यत्र चत्वारः पुरुषर्षभाः
६.०१६.०२४ लोकपालोपमाः शूराः कृतास्त्रा दृढविक्रमाः
६.०१६.०२५ रामो दाशरथिः श्रीमांल्लक्ष्मणश्च विभीषणः
६.०१६.०२५ सुग्रीवश्च महातेजा महेन्द्रसमविक्रमः
६.०१६.०२६ एते शक्ताः पुरीं लङ्कां सप्राकारां सतोरणाम्
६.०१६.०२६ उत्पाट्य संक्रामयितुं सर्वे तिष्ठन्तु वानराः
६.०१६.०२७ यादृशं तस्य रामस्य रूपं प्रहरणानि च
६.०१६.०२७ वधिष्यति पुरीं लङ्कामेकस्तिष्ठन्तु ते त्रयः
६.०१६.०२८ रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
६.०१६.०२८ बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
६.०१६.०२९ प्रहृष्टरूपा ध्वजिनी वनौकसां॑ महात्मनां संप्रति योद्धुमिच्छताम्
६.०१६.०२९ अलं विरोधेन शमो विधीयतां॑ प्रदीयतां दाशरथाय मैथिली
६.०१७.००१ तद्वचः पथ्यमक्लीबं सारणेनाभिभाषितम्
६.०१७.००१ निशम्य रावणो राजा प्रत्यभाषत सारणम्
६.०१७.००२ यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः
६.०१७.००२ नैव सीतां प्रदास्यामि सर्वलोकभयादपि
६.०१७.००३ त्वं तु सौम्य परित्रस्तो हरिभिर्निर्जितो भृशम्
६.०१७.००३ प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे
६.०१७.००३ को हि नाम सपत्नो मां समरे जेतुमर्हति
६.०१७.००४ इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः
६.०१७.००४ आरुरोह ततः श्रीमान् प्रासादं हिमपाण्डुरम्
६.०१७.००४ बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया
६.०१७.००५ ताभ्यां चराभ्यां सहितो रावणः क्रोधमूर्छितः
६.०१७.००५ पश्यमानः समुद्रं च पर्वतांश्च वनानि च
६.०१७.००५ ददर्श पृथिवीदेशं सुसंपूर्णं प्लवंगमैः
६.०१७.००६ तदपारमसंख्येयं वानराणां महद्बलम्
६.०१७.००६ आलोक्य रावणो राजा परिपप्रच्छ सारणम्
६.०१७.००७ एषां वानरमुख्यानां के शूराः के महाबलाः
६.०१७.००७ के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः
६.०१७.००८ केषां शृणोति सुग्रीवः के वा यूथपयूथपाः
६.०१७.००८ सारणाचक्ष्व मे सर्वं के प्रधानाः प्लवंगमाः
६.०१७.००९ सारणो राक्षसेन्द्रस्य वचनं परिपृच्छतः
६.०१७.००९ आचचक्षेऽथ मुख्यज्ञो मुख्यांस्तांस्तु वनौकसः
६.०१७.०१० एष योऽभिमुखो लङ्कां नर्दंस्तिष्ठति वानरः
६.०१७.०१० यूथपानां सहस्राणां शतेन परिवारितः
६.०१७.०११ यस्य घोषेण महता सप्राकारा सतोरणा
६.०१७.०११ लङ्का प्रवेपते सर्वा सशैलवनकानना
६.०१७.०१२ सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः
६.०१७.०१२ बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः
६.०१७.०१३ बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान्
६.०१७.०१३ लङ्कामभिमुखः कोपादभीक्ष्णं च विजृम्भते
६.०१७.०१४ गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसंनिभः
६.०१७.०१४ स्फोटयत्यभिसंरब्धो लाङ्गूलं च पुनः पुनः
६.०१७.०१५ यस्य लाङ्गूलशब्देन स्वनन्तीव दिशो दश
६.०१७.०१५ एष वानरराजेन सुर्ग्रीवेणाभिषेचितः
६.०१७.०१५ यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे
६.०१७.०१६ ये तु विष्टभ्य गात्राणि क्ष्वेडयन्ति नदन्ति च
६.०१७.०१६ उत्थाय च विजृम्भन्ते क्रोधेन हरिपुंगवाः
६.०१७.०१७ एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः
६.०१७.०१७ अष्टौ शतसहस्राणि दशकोटिशतानि च
६.०१७.०१८ य एनमनुगच्छन्ति वीराश्चन्दनवासिनः
६.०१७.०१८ एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्
६.०१७.०१९ श्वेतो रजतसंकाशः सबलो भीमविक्रमः
६.०१७.०१९ बुद्धिमान् वानरः शूरस्त्रिषु लोकेषु विश्रुतः
६.०१७.०२० तूर्णं सुग्रीवमागम्य पुनर्गच्छति वानरः
६.०१७.०२० विभजन् वानरीं सेनामनीकानि प्रहर्षयन्
६.०१७.०२१ यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम्
६.०१७.०२१ नाम्ना संकोचनो नाम नानानगयुतो गिरिः
६.०१७.०२२ तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः
६.०१७.०२२ योऽसौ शतसहस्राणां सहस्रं परिकर्षति
६.०१७.०२३ यस्य वाला बहुव्यामा दीर्घलाङ्गूलमाश्रिताः
६.०१७.०२३ ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः
६.०१७.०२४ अदीनो रोषणश्चण्डः संग्राममभिकाङ्क्षति
६.०१७.०२४ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
६.०१७.०२५ यस्त्वेष सिंहसंकाशः कपिलो दीर्घकेसरः
६.०१७.०२५ निभृतः प्रेक्षते लङ्कां दिधक्षन्निव चक्षुषा
६.०१७.०२६ विन्ध्यं कृष्णगिरिं सह्यं पर्वतं च सुदर्शनम्
६.०१७.०२६ राजन् सततमध्यास्ते रम्भो नामैष यूथपः
६.०१७.०२७ शतं शतसहस्राणां त्रिंशच्च हरियूथपाः
६.०१७.०२७ परिवार्यानुगच्छन्ति लङ्कां मर्दितुमोजसा
६.०१७.०२८ यस्तु कर्णौ विवृणुते जृम्भते च पुनः पुनः
६.०१७.०२८ न च संविजते मृत्योर्न च यूथाद्विधावति
६.०१७.०२९ महाबलो वीतभयो रम्यं साल्वेय पर्वतम्
६.०१७.०२९ राजन् सततमध्यास्ते शरभो नाम यूथपः
६.०१७.०३० एतस्य बलिनः सर्वे विहारा नाम यूथपाः
६.०१७.०३० राजञ्शतसहस्राणि चत्वारिंशत्तथैव च
६.०१७.०३१ यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति
६.०१७.०३१ मध्ये वानरवीराणां सुराणामिव वासवः
६.०१७.०३२ भेरीणामिव संनादो यस्यैष श्रूयते महान्
६.०१७.०३२ घोरः शाखामृगेन्द्राणां संग्राममभिकाङ्क्षताम्
६.०१७.०३३ एष पर्वतमध्यास्ते पारियात्रमनुत्तमम्
६.०१७.०३३ युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः
६.०१७.०३४ एनं शतसहस्राणां शतार्धं पर्युपासते
६.०१७.०३४ यूथपा यूथपश्रेष्ठं येषां यूथानि भागशः
६.०१७.०३५ यस्तु भीमां प्रवल्गन्तीं चमूं तिष्ठति शोभयन्
६.०१७.०३५ स्थितां तीरे समुद्रस्य द्वितीय इव सागरः
६.०१७.०३६ एष दर्दरसंकाशो विनतो नाम यूथपः
६.०१७.०३६ पिबंश्चरति पर्णाशां नदीनामुत्तमां नदीम्
६.०१७.०३७ षष्टिः शतसहस्राणि बलमस्य प्लवंगमाः
६.०१७.०३७ त्वामाह्वयति युद्धाय क्रथनो नाम यूथपः
६.०१७.०३८ यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः
६.०१७.०३८ गवयो नाम तेजस्वी त्वां क्रोधादभिवर्तते
६.०१७.०३९ एनं शतसहस्राणि सप्ततिः पर्युपासते
६.०१७.०३९ एष आशंसते लङ्कां स्वेनानीकेन मर्दितुम्
६.०१७.०४० एते दुष्प्रसहा घोरा बलिनः कामरूपिणः
६.०१७.०४० यूथपा यूथपश्रेष्ठा येषां संख्या न विद्यते
६.०१८.००१ तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्
६.०१८.००१ राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्
६.०१८.००२ स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः
६.०१८.००२ ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः
६.०१८.००३ प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः
६.०१८.००३ पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः
६.०१८.००४ यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः
६.०१८.००४ द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः
६.०१८.००५ एष कोटीसहस्रेण वानराणां महौजसाम्
६.०१८.००५ आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय
६.०१८.००६ नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि
६.०१८.००६ असिताञ्जनसंकाशान् युद्धे सत्यपराक्रमान्
६.०१८.००७ नखदंष्ट्रायुधान् वीरांस्तीक्ष्णकोपान् भयावहान्
६.०१८.००७ असंख्येयाननिर्देश्यान् परं पारमिवोदधेः
६.०१८.००८ पर्वतेषु च ये के चिद्विषमेषु नदीषु च
६.०१८.००८ एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः
६.०१८.००९ एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः
६.०१८.००९ पर्जन्य इव जीमूतैः समन्तात्परिवारितः
६.०१८.०१० ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्
६.०१८.०१० सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः
६.०१८.०११ यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्
६.०१८.०११ भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे
६.०१८.०१२ स एष जाम्बवान्नाम महायूथपयूथपः
६.०१८.०१२ प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः
६.०१८.०१३ एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता
६.०१८.०१३ देवासुरे जाम्बवता लब्धाश्च बहवो वराः
६.०१८.०१४ आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः
६.०१८.०१४ मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च
६.०१८.०१५ राक्षसानां च सदृशाः पिशाचानां च रोमशाः
६.०१८.०१५ एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः
६.०१८.०१६ यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम्
६.०१८.०१६ प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम्
६.०१८.०१७ एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः
६.०१८.०१७ बलेन बलसंपन्नो रम्भो नामैष यूथपः
६.०१८.०१८ यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते
६.०१८.०१८ ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्
६.०१८.०१९ यस्मान्न परमं रूपं चतुष्पादेषु विद्यते
६.०१८.०१९ श्रुतः संनादनो नाम वानराणां पितामहः
६.०१८.०२० येन युद्धं तदा दत्तं रणे शक्रस्य धीमता
६.०१८.०२० पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः
६.०१८.०२० यस्य विक्रममाणस्य शक्रस्येव पराक्रमः
६.०१८.०२१ एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना
६.०१८.०२१ पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्
६.०१८.०२२ यस्य वैश्रवणो राजा जम्बूमुपनिषेवते
६.०१८.०२२ यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्
६.०१८.०२३ विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप
६.०१८.०२३ तत्रैष वसति श्रीमान् बलवान् वानरर्षभः
६.०१८.०२३ युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः
६.०१८.०२४ वृतः कोटिसहस्रेण हरीणां समुपस्थितः
६.०१८.०२४ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
६.०१८.०२५ यो गङ्गामनु पर्येति त्रासयन् हस्तियूथपान्
६.०१८.०२५ हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्
६.०१८.०२६ एष यूथपतिर्नेता गच्छन् गिरिगुहाशयः
६.०१८.०२६ हरीणां वाहिनी मुख्यो नदीं हैमवतीमनु
६.०१८.०२७ उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम्
६.०१८.०२७ रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्
६.०१८.०२८ एनं शतसहस्राणां सहस्रमभिवर्तते
६.०१८.०२८ एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः
६.०१८.०२९ वातेनेवोद्धतं मेघं यमेनमनुपश्यसि
६.०१८.०२९ विवर्तमानं बहुशो यत्रैतद्बहुलं रजः
६.०१८.०३० एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः
६.०१८.०३० शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्
६.०१८.०३१ गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम्
६.०१८.०३१ परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा
६.०१८.०३२ भ्रमराचरिता यत्र सर्वकामफलद्रुमाः
६.०१८.०३२ यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम्
६.०१८.०३३ यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः
६.०१८.०३३ यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः
६.०१८.०३४ तत्रैष रमते राजन् रम्ये काञ्चनपर्वते
६.०१८.०३४ मुख्यो वानरमुख्यानां केसरी नाम यूथपः
६.०१८.०३५ षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः
६.०१८.०३५ तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्
६.०१८.०३६ तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः
६.०१८.०३६ निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः
६.०१८.०३७ सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः
६.०१८.०३७ सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः
६.०१८.०३८ सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः
६.०१८.०३८ महापर्वतसंकाशा महाजीमूतनिस्वनाः
६.०१८.०३९ एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्
६.०१८.०३९ नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः
६.०१८.०३९ एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्
६.०१८.०४० गजो गवाक्षो गवयो नलो नीलश्च वानरः
६.०१८.०४० एकैक एव यूथानां कोटिभिर्दशभिर्वृतः
६.०१८.०४१ तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः
६.०१८.०४१ न शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः
६.०१८.०४२ सर्वे महाराज महाप्रभावाः॑ सर्वे महाशैलनिकाशकायाः
६.०१८.०४२ सर्वे समर्थाः पृथिवीं क्षणेन॑ कर्तुं प्रविध्वस्तविकीर्णशैलाम्
६.०१९.००१ सारणस्य वचः श्रुत्वा रावणं राक्षसाधिपम्
६.०१९.००१ बलमालोकयन् सर्वं शुको वाक्यमथाब्रवीत्
६.०१९.००२ स्थितान् पश्यसि यानेतान्मत्तानिव महाद्विपान्
६.०१९.००२ न्यग्रोधानिव गाङ्गेयान् सालान् हैमवतीनिव
६.०१९.००३ एते दुष्प्रसहा राजन् बलिनः कामरूपिणः
६.०१९.००३ दैत्यदानवसंकाशा युद्धे देवपराक्रमाः
६.०१९.००४ एषां कोटिसहस्राणि नव पञ्चच सप्त च
६.०१९.००४ तथा शङ्खसहस्राणि तथा वृन्दशतानि च
६.०१९.००५ एते सुग्रीवसचिवाः किष्किन्धानिलयाः सदा
६.०१९.००५ हरयो देवगन्धर्वैरुत्पन्नाः कामरूपिणः
६.०१९.००६ यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देवरूपिणौ
६.०१९.००६ मैन्दश्च द्विविदश्चोभौ ताभ्यां नास्ति समो युधि
६.०१९.००७ ब्रह्मणा समनुज्ञातावमृतप्राशिनावुभौ
६.०१९.००७ आशंसेते युधा लङ्कामेतौ मर्दितुमोजसा
६.०१९.००८ यावेतावेतयोः पार्श्वे स्थितौ पर्वतसंनिभौ
६.०१९.००८ सुमुखो विमुखश्चैव मृत्युपुत्रौ पितुः समौ
६.०१९.००९ यं तु पश्यसि तिष्ठन्तं प्रभिन्नमिव कुञ्जरम्
६.०१९.००९ यो बलात्क्षोभयेत्क्रुद्धः समुद्रमपि वानरः
६.०१९.०१० एषोऽभिगन्ता लङ्काया वैदेह्यास्तव च प्रभो
६.०१९.०१० एनं पश्य पुरा दृष्टं वानरं पुनरागतम्
६.०१९.०११ ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः
६.०१९.०११ हनूमानिति विख्यातो लङ्घितो येन सागरः
६.०१९.०१२ कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः
६.०१९.०१२ अनिवार्यगतिश्चैव यथा सततगः प्रभुः
६.०१९.०१३ उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः
६.०१९.०१३ त्रियोजनसहस्रं तु अध्वानमवतीर्य हि
६.०१९.०१४ आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति
६.०१९.०१४ इति संचिन्त्य मनसा पुरैष बलदर्पितः
६.०१९.०१५ अनाधृष्यतमं देवमपि देवर्षिदानवैः
६.०१९.०१५ अनासाद्यैव पतितो भास्करोदयने गिरौ
६.०१९.०१६ पतितस्य कपेरस्य हनुरेका शिलातले
६.०१९.०१६ किं चिद्भिन्ना दृढहनोर्हनूमानेष तेन वै
६.०१९.०१७ सत्यमागमयोगेन ममैष विदितो हरिः
६.०१९.०१७ नास्य शक्यं बलं रूपं प्रभावो वानुभाषितुम्
६.०१९.०१८ एष आशंसते लङ्कामेको मर्दितुमोजसा
६.०१९.०१८ यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः
६.०१९.०१९ इक्ष्वाकूणामतिरथो लोके विख्यात पौरुषः
६.०१९.०१९ यस्मिन्न चलते धर्मो यो धर्मं नातिवर्तते
६.०१९.०२० यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः
६.०१९.०२० यो भिन्द्याद्गगनं बाणैः पर्वतांश्चापि दारयेत्
६.०१९.०२१ यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः
६.०१९.०२१ स एष रामस्त्वां योद्धुं राजन् समभिवर्तते
६.०१९.०२२ यश्चैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः
६.०१९.०२२ विशालवक्षास्ताम्राक्षो नीलकुञ्चितमूर्धजः
६.०१९.०२३ एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः
६.०१९.०२३ नये युद्धे च कुशलः सर्वशास्त्रविशारदः
६.०१९.०२४ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली
६.०१९.०२४ रामस्य दक्षिणो बाहुर्नित्यं प्राणो बहिश्चरः
६.०१९.०२५ न ह्येष राघवस्यार्थे जीवितं परिरक्षति
६.०१९.०२५ एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान्
६.०१९.०२६ यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति
६.०१९.०२६ रक्षोगणपरिक्षिप्तो राजा ह्येष विभीषणः
६.०१९.०२७ श्रीमता राजराजेन लङ्कायामभिषेचितः
६.०१९.०२७ त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते
६.०१९.०२८ यं तु पश्यसि तिष्ठन्तं मध्ये गिरिमिवाचलम्
६.०१९.०२८ सर्वशाखामृगेन्द्राणां भर्तारमपराजितम्
६.०१९.०२९ तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च
६.०१९.०२९ यः कपीनति बभ्राज हिमवानिव पर्वतान्
६.०१९.०३० किष्किन्धां यः समध्यास्ते गुहां सगहनद्रुमाम्
६.०१९.०३० दुर्गां पर्वतदुर्गस्थां प्रधानैः सह यूथपैः
६.०१९.०३१ यस्यैषा काञ्चनी माला शोभते शतपुष्करा
६.०१९.०३१ कान्ता देवमनुष्याणां यस्यां लक्ष्मीः प्रतिष्ठिता
६.०१९.०३२ एतां च मालां तारां च कपिराज्यं च शाश्वतम्
६.०१९.०३२ सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः
६.०१९.०३३ एवं कोटिसहस्रेण शङ्कूनां च शतेन च
६.०१९.०३३ सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभिवर्तते
६.०१९.०३४ इमां महाराजसमीक्ष्य वाहिनीम्॑ उपस्थितां प्रज्वलितग्रहोपमाम्
६.०१९.०३४ ततः प्रयत्नः परमो विधीयतां॑ यथा जयः स्यान्न परैः पराजयः
६.०२०.००१ शुकेन तु समाख्यातांस्तान् दृष्ट्वा हरियूथपान्
६.०२०.००१ समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम्
६.०२०.००२ लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम्
६.०२०.००२ सर्ववानरराजं च सुग्रीवं भीमविक्रमम्
६.०२०.००३ किं चिदाविग्नहृदयो जातक्रोधश्च रावणः
६.०२०.००३ भर्त्सयामास तौ वीरौ कथान्ते शुकसारणौ
६.०२०.००४ अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ
६.०२०.००४ रोषगद्गदया वाचा संरब्धः परुषं वचः
६.०२०.००५ न तावत्सदृशं नाम सचिवैरुपजीविभिः
६.०२०.००५ विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे विभोः
६.०२०.००६ रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम्
६.०२०.००६ उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम्
६.०२०.००७ आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः
६.०२०.००७ सारं यद्राजशास्त्राणामनुजीव्यं न गृह्यते
६.०२०.००८ गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोछ्यते
६.०२०.००८ ईदृशैः सचिवैर्युक्तो मूर्खैर्दिष्ट्या धराम्यहम्
६.०२०.००९ किं नु मृत्योर्भयं नास्ति मां वक्तुं परुषं वचः
६.०२०.००९ यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम्
६.०२०.०१० अप्येव दहनं स्पृष्ट्वा वने तिष्ठन्ति पादपाः
६.०२०.०१० राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः
६.०२०.०११ हन्यामहमिमौ पापौ शत्रुपक्षप्रशंसकौ
६.०२०.०११ यदि पूर्वोपकारैर्मे न क्रोधो मृदुतां व्रजेत्
६.०२०.०१२ अपध्वंसत गच्छध्वं संनिकर्षादितो मम
६.०२०.०१२ न हि वां हन्तुमिच्छामि स्मरन्नुपकृतानि वाम्
६.०२०.०१२ हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ
६.०२०.०१३ एवमुक्तौ तु सव्रीडौ तावुभौ शुकसारणौ
६.०२०.०१३ रावणं जयशब्देन प्रतिनन्द्याभिनिःसृतौ
६.०२०.०१४ अब्रवीत्स दशग्रीवः समीपस्थं महोदरम्
६.०२०.०१४ उपस्थापय शीघ्रं मे चारान्नीतिविशारदान्
६.०२०.०१५ ततश्चराः संत्वरिताः प्राप्ताः पार्थिवशासनात्
६.०२०.०१५ उपस्थिताः प्राञ्जलयो वर्धयित्वा जयाशिषा
६.०२०.०१६ तानब्रवीत्ततो वाक्यं रावणो राक्षसाधिपः
६.०२०.०१६ चारान् प्रत्ययिकाञ्शूरान् भक्तान् विगतसाध्वसान्
६.०२०.०१७ इतो गच्छत रामस्य व्यवसायं परीक्षथ
६.०२०.०१७ मन्त्रेष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः
६.०२०.०१८ कथं स्वपिति जागर्ति किमन्यच्च करिष्यति
६.०२०.०१८ विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः
६.०२०.०१९ चारेण विदितः शत्रुः पण्डितैर्वसुधाधिपैः
६.०२०.०१९ युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते
६.०२०.०२० चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम्
६.०२०.०२० कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः
६.०२०.०२१ ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ
६.०२०.०२१ प्रच्छन्ना ददृशुर्गत्वा ससुग्रीवविभीषणौ
६.०२०.०२२ ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः
६.०२०.०२२ विभीषणेन तत्रस्था निगृहीता यदृच्छया
६.०२०.०२३ वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः
६.०२०.०२३ पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः
६.०२०.०२४ ततो दशग्रीवमुपस्थितास्ते॑ चारा बहिर्नित्यचरा निशाचराः
६.०२०.०२४ गिरेः सुवेलस्य समीपवासिनं॑ न्यवेदयन् भीमबलं महाबलाः
६.०२१.००१ ततस्तमक्षोभ्य बलं लङ्काधिपतये चराः
६.०२१.००१ सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
६.०२१.००२ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्
६.०२१.००२ जातोद्वेगोऽभवत्किं चिच्छार्दूलं वाक्यमब्रवीत्
६.०२१.००३ अयथावच्च ते वर्णो दीनश्चासि निशाचर
६.०२१.००३ नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः
६.०२१.००४ इति तेनानुशिष्टस्तु वाचं
मन्दमुदीरयत्
६.०२१.००४ तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः
६.०२१.००५ न ते चारयितुं शक्या राजन् वानरपुंगवाः
६.०२१.००५ विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः
६.०२१.००६ नापि संभाषितुं शक्याः संप्रश्नोऽत्र न लभ्यते
६.०२१.००६ सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः
६.०२१.००७ प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते
६.०२१.००७ बलाद्गृहीतो बहुभिर्बहुधास्मि विदारितः
६.०२१.००८ जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम्
६.०२१.००८ परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः
६.०२१.००९ परिणीय च सर्वत्र नीतोऽहं रामसंसदम्
६.०२१.००९ रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः
६.०२१.०१० हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः
६.०२१.०१० राघवेण परित्रातो जीवामि ह यदृच्छया
६.०२१.०११ एष शैलैः शिलाभिश्च पूरयित्वा महार्णवम्
६.०२१.०११ द्वारमाश्रित्य लङ्काया रामस्तिष्ठति सायुधः
६.०२१.०१२ गरुडव्यूहमास्थाय सर्वतो हरिभिर्वृतः
६.०२१.०१२ मां विसृज्य महातेजा लङ्कामेवाभिवर्तते
६.०२१.०१३ पुरा प्राकारमायाति क्षिप्रमेकतरं कुरु
६.०२१.०१३ सीतां चास्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम्
६.०२१.०१४ मनसा संततापाथ तच्छ्रुत्वा राक्षसाधिपः
६.०२१.०१४ शार्दूलस्य महद्वाक्यमथोवाच स रावणः
६.०२१.०१५ यदि मां प्रतियुध्येरन् देवगन्धर्वदानवाः
६.०२१.०१५ नैव सीतां प्रदास्यामि सर्वलोकभयादपि
६.०२१.०१६ एवमुक्त्वा महातेजा रावणः पुनरब्रवीत्
६.०२१.०१६ चारिता भवता सेना केऽत्र शूराः प्लवंगमाः
६.०२१.०१७ कीदृशाः किंप्रभावाश्च वानरा ये दुरासदाः
६.०२१.०१७ कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस
६.०२१.०१८ तत्रत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम्
६.०२१.०१८ अवश्यं बलसंख्यानं कर्तव्यं युद्धमिच्छता
६.०२१.०१९ अथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः
६.०२१.०१९ इदं वचनमारेभे वक्तुं रावणसंनिधौ
६.०२१.०२० अथर्क्षरजसः पुत्रो युधि राजन् सुदुर्जयः
६.०२१.०२० गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः
६.०२१.०२१ गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः
६.०२१.०२१ कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम्
६.०२१.०२२ सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान्
६.०२१.०२२ सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः
६.०२१.०२३ सुमुखो दुर्मुखश्चात्र वेगदर्शी च वानरः
६.०२१.०२३ मृत्युर्वानररूपेण नूनं सृष्टः स्वयम्भुवा
६.०२१.०२४ पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम्
६.०२१.०२४ अनिलस्य च पुत्रोऽत्र हनूमानिति विश्रुतः
६.०२१.०२५ नप्ता शक्रस्य दुर्धर्षो बलवानङ्गदो युवा
६.०२१.०२५ मैन्दश्च द्विविदश्चोभौ बलिनावश्विसंभवौ
६.०२१.०२६ पुत्रा वैवस्वतस्यात्र पञ्चकालान्तकोपमाः
६.०२१.०२६ गजो गवाक्षो गवयः शरभो गन्धमादनः
६.०२१.०२७ श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसंभवौ
६.०२१.०२७ वरुणस्य च पुत्रोऽथ हेमकूटः प्लवंगमः
६.०२१.०२८ विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः
६.०२१.०२८ विक्रान्तो वेगवानत्र वसुपुत्रः सुदुर्धरः
६.०२१.०२९ दशवानरकोट्यश्च शूराणां युद्धकाङ्क्षिणाम्
६.०२१.०२९ श्रीमतां देवपुत्राणां शेषान्नाख्यातुमुत्सहे
६.०२१.०३० पुत्रो दशरथस्यैष सिंहसंहननो युवा
६.०२१.०३० दूषणो निहतो येन खरश्च त्रिशिरास्तथा
६.०२१.०३१ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन
६.०२१.०३१ विराधो निहतो येन कबन्धश्चान्तकोपमः
६.०२१.०३२ वक्तुं न शक्तो रामस्य नरः कश्चिद्गुणान् क्षितौ
६.०२१.०३२ जनस्थानगता येन तावन्तो राक्षसा हताः
६.०२१.०३३ लक्ष्मणश्चात्र धर्मात्मा मातंगानामिवर्षभः
६.०२१.०३३ यस्य बाणपथं प्राप्य न जीवेदपि वासवः
६.०२१.०३४ राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः
६.०२१.०३४ परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः
६.०२१.०३५ इति सर्वं समाख्यातं तवेदं वानरं बलम्
६.०२१.०३५ सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः
६.०२२.००१ ततस्तमक्षोभ्यबलं लङ्कायां नृपतेश्चरः
६.०२२.००१ सुवेले राघवं शैले निविष्टं प्रत्यवेदयन्
६.०२२.००२ चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम्
६.०२२.००२ जातोद्वेगोऽभवत्किं चित्सचिवांश्चेदमब्रवीत्
६.०२२.००३ मन्त्रिणः शीघ्रमायान्तु सर्वे वै सुसमाहिताः
६.०२२.००३ अयं नो मन्त्रकालो हि संप्राप्त इव राक्षसाः
६.०२२.००४ तस्य तच्छासनं श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम्
६.०२२.००४ ततः संमन्त्रयामास सचिवै राक्षसैः सह
६.०२२.००५ मन्त्रयित्वा स दुर्धर्षः क्षमं यत्समनन्तरम्
६.०२२.००५ विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम्
६.०२२.००६ ततो राक्षसमाहूय विद्युज्जिह्वं महाबलम्
६.०२२.००६ मायाविदं महामायः प्राविशद्यत्र मैथिली
६.०२२.००७ विद्युज्जिह्वं च मायाज्ञमब्रवीद्राक्षसाधिपः
६.०२२.००७ मोहयिष्यामहे सीतां मायया जनकात्मजाम्
६.०२२.००८ शिरो मायामयं गृह्य राघवस्य निशाचर
६.०२२.००८ मां त्वं समुपतिष्ठस्व महच्च सशरं धनुः
६.०२२.००९ एवमुक्तस्तथेत्याह विद्युज्जिह्वो निशाचरः
६.०२२.००९ तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम्
६.०२२.०१० अशोकवनिकायां तु प्रविवेश महाबलः
६.०२२.०१० ततो दीनामदैन्यार्हां ददर्श धनदानुजः
६.०२२.०१० अधोमुखीं शोकपरामुपविष्टां महीतले
६.०२२.०११ भर्तारमेव ध्यायन्तीमशोकवनिकां गताम्
६.०२२.०११ उपास्यमानां घोराभी राक्षसीभिरदूरतः
६.०२२.०१२ उपसृत्य ततः सीतां प्रहर्षन्नाम कीर्तयन्
६.०२२.०१२ इदं च वचनं धृष्टमुवाच जनकात्मजाम्
६.०२२.०१३ सान्त्व्यमाना मया भद्रे यमुपाश्रित्य वल्गसे
६.०२२.०१३ खर हन्ता स ते भर्ता राघवः समरे हतः
६.०२२.०१४ छिन्नं ते सर्वतो मूलं दर्पस्ते निहतो मया
६.०२२.०१४ व्यसनेनात्मनः सीते मम भार्या भविष्यसि
६.०२२.०१५ अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि
६.०२२.०१५ शृणु भर्तृबधं सीते घोरं वृत्रवधं यथा
६.०२२.०१६ समायातः समुद्रान्तं मां हन्तुं किल राघवः
६.०२२.०१६ वानरेन्द्रप्रणीतेन बलेन महता वृतः
६.०२२.०१७ संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्
६.०२२.०१७ बलेन महता रामो व्रजत्यस्तं दिवाकरे
६.०२२.०१८ अथाध्वनि परिश्रान्तमर्धरात्रे स्थितं बलम्
६.०२२.०१८ सुखसुप्तं समासाद्य चारितं प्रथमं चरैः
६.०२२.०१९ तत्प्रहस्तप्रणीतेन बलेन महता मम
६.०२२.०१९ बलमस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः
६.०२२.०२० पट्टसान् परिघान् खड्गांश्चक्रान् दण्डान्महायसान्
६.०२२.०२० बाणजालानि शूलानि भास्वरान् कूटमुद्गरान्
६.०२२.०२१ यष्टीश्च तोमरान् प्रासंश्चक्राणि मुसलानि च
६.०२२.०२१ उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः
६.०२२.०२२ अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना
६.०२२.०२२ असक्तं कृतहस्तेन शिरश्छिन्नं महासिना
६.०२२.०२३ विभीषणः समुत्पत्य निगृहीतो यदृच्छया
६.०२२.०२३ दिशः प्रव्राजितः सर्वैर्लक्ष्मणः प्लवगैः सह
६.०२२.०२४ सुग्रीवो ग्रीवया शेते भग्नया प्लवगाधिपः
६.०२२.०२४ निरस्तहनुकः शेते हनूमान् राक्षसैर्हतः
६.०२२.०२५ जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि
६.०२२.०२५ पट्टसैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा
६.०२२.०२६ मैन्दश्च द्विविदश्चोभौ निहतौ वानरर्षभौ
६.०२२.०२६ निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ
६.०२२.०२७ असिनाभ्याहतश्छिन्नो मध्ये रिपुनिषूदनः
६.०२२.०२७ अभिष्टनति मेदिन्यां पनसः पनसो यथा
६.०२२.०२८ नाराचैर्बहुभिश्छिन्नः शेते दर्यां दरीमुखः
६.०२२.०२८ कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः
६.०२२.०२९ अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः
६.०२२.०२९ पातितो रुधिरोद्गारी क्षितौ निपतितोऽङ्गदः
६.०२२.०३० हरयो मथिता नागै रथजालैस्तथापरे
६.०२२.०३० शायिता मृदितास्तत्र वायुवेगैरिवाम्बुदाः
६.०२२.०३१ प्रद्रुताश्च परे त्रस्ता हन्यमाना जघन्यतः
६.०२२.०३१ अभिद्रुतास्तु रक्षोभिः सिंहैरिव महाद्विपाः
६.०२२.०३२ सागरे पतिताः के चित्के चिद्गगनमाश्रिताः
६.०२२.०३२ ऋक्षा वृक्षानुपारूढा वानरैस्तु विमिश्रिताः
६.०२२.०३३ सागरस्य च तीरेषु शैलेषु च वनेषु च
६.०२२.०३३ पिङ्गाक्षास्ते विरूपाक्षैर्बहुभिर्बहवो हताः
६.०२२.०३४ एवं तव हतो भर्ता ससैन्यो मम सेनया
६.०२२.०३४ क्षतजार्द्रं रजोध्वस्तमिदं चास्याहृतं शिरः
६.०२२.०३५ ततः परमदुर्धर्षो रावणो राक्षसेश्वरः
६.०२२.०३५ सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत्
६.०२२.०३६ राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय
६.०२२.०३६ येन तद्राघवशिरः संग्रामात्स्वयमाहृतम्
६.०२२.०३७ विद्युज्जिह्वस्ततो गृह्य शिरस्तत्सशरासनम्
६.०२२.०३७ प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः
६.०२२.०३८ तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम्
६.०२२.०३८ विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम्
६.०२२.०३९ अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः
६.०२२.०३९ अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु
६.०२२.०४० एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम्
६.०२२.०४० उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत
६.०२२.०४१ रावणश्चापि चिक्षेप भास्वरं कार्मुकं महत्
६.०२२.०४१ त्रिषु लोकेषु विख्यातं सीतामिदमुवाच ह
६.०२२.०४२ इदं तत्तव रामस्य कार्मुकं ज्यासमन्वितम्
६.०२२.०४२ इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम्
६.०२२.०४३ स विद्युज्जिह्वेन सहैव तच्छिरो॑ धनुश्च भूमौ विनिकीर्य रावणः
६.०२२.०४३ विदेहराजस्य सुतां यशस्विनीं॑ ततोऽब्रवीत्तां भव मे वशानुगा
६.०२३.००१ सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम्
६.०२३.००१ सुग्रीवप्रतिसंसर्गमाख्यातं च हनूमता
६.०२३.००२ नयने मुखवर्णं च भर्तुस्तत्सदृशं मुखम्
६.०२३.००२ केशान् केशान्तदेशं च तं च चूडामणिं शुभम्
६.०२३.००३ एतैः सर्वैरभिज्ञानैरभिज्ञाय सुदुःखिता
६.०२३.००३ विजगर्हेऽथ कैकेयीं क्रोशन्ती कुररी यथा
६.०२३.००४ सकामा भव कैकेयि हतोऽयं कुलनन्दनः
६.०२३.००४ कुलमुत्सादितं सर्वं त्वया कलहशीलया
६.०२३.००५ आर्येण किं नु कैकेय्याः कृतं रामेण विप्रियम्
६.०२३.००५ यद्गृहाच्चीरवसनस्तया प्रस्थापितो वनम्
६.०२३.००६ एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी
६.०२३.००६ जगाम जगतीं बाला छिन्ना तु कदली यथा
६.०२३.००७ सा मुहूर्तात्समाश्वस्य प्रतिलभ्य च चेतनाम्
६.०२३.००७ तच्छिरः समुपाघ्राय विललापायतेक्षणा
६.०२३.००८ हा हतास्मि महाबाहो वीरव्रतमनुव्रता
६.०२३.००८ इमां ते पश्चिमावस्थां गतास्मि विधवा कृता
६.०२३.००९ प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते
६.०२३.००९ सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः
६.०२३.०१० दुःखाद्दुःखं प्रपन्नाया मग्नायाः शोकसागरे
६.०२३.०१० यो हि मामुद्यतस्त्रातुं सोऽपि त्वं विनिपातितः
६.०२३.०११ सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव
६.०२३.०११ वत्सेनेव यथा धेनुर्विवत्सा वत्सला कृता
६.०२३.०१२ आदिष्टं दीर्घमायुस्ते यैरचिन्त्यपराक्रम
६.०२३.०१२ अनृतं वचनं तेषामल्पायुरसि राघव
६.०२३.०१३ अथ वा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव
६.०२३.०१३ पचत्येनं तथा कालो भूतानां प्रभवो ह्ययम्
६.०२३.०१४ अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित्
६.०२३.०१४ व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने
६.०२३.०१५ तथा त्वं संपरिष्वज्य रौद्रयातिनृशंसया
६.०२३.०१५ कालरात्र्या मयाच्छिद्य हृतः कमललोचनः
६.०२३.०१६ उपशेषे महाबाहो मां विहाय तपस्विनीम्
६.०२३.०१६ प्रियामिव शुभां नारीं पृथिवीं पुरुषर्षभ
६.०२३.०१७ अर्चितं सततं यत्नाद्गन्धमाल्यैर्मया तव
६.०२३.०१७ इदं ते मत्प्रियं वीर धनुः काञ्चनभूषितम्
६.०२३.०१८ पित्रा दशरथेन त्वं श्वशुरेण ममानघ
६.०२३.०१८ पूर्वैश्च पितृभिः सार्धं नूनं स्वर्गे समागतः
६.०२३.०१९ दिवि नक्षत्रभूतस्त्वं महत्कर्म कृतं प्रियम्
६.०२३.०१९ पुण्यं राजर्षिवंशं त्वमात्मनः समुपेक्षसे
६.०२३.०२० किं मान्न प्रेक्षसे राजन् किं मां न प्रतिभाषसे
६.०२३.०२० बालां बालेन संप्राप्तां भार्यां मां सहचारिणीम्
६.०२३.०२१ संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया
६.०२३.०२१ स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम्
६.०२३.०२२ कस्मान्मामपहाय त्वं गतो गतिमतां वर
६.०२३.०२२ अस्माल्लोकादमुं लोकं त्यक्त्वा मामिह दुःखिताम्
६.०२३.०२३ कल्याणैरुचितं यत्तत्परिष्वक्तं मयैव तु
६.०२३.०२३ क्रव्यादैस्तच्छरीरं ते नूनं विपरिकृष्यते
६.०२३.०२४ अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः
६.०२३.०२४ अग्निहोत्रेण संस्कारं केन त्वं तु न लप्स्यसे
६.०२३.०२५ प्रव्रज्यामुपपन्नानां त्रयाणामेकमागतम्
६.०२३.०२५ परिप्रक्ष्यति कौसल्या लक्ष्मणं शोकलालसा
६.०२३.०२६ स तस्याः परिपृच्छन्त्या वधं मित्रबलस्य ते
६.०२३.०२६ तव चाख्यास्यते नूनं निशायां राक्षसैर्वधम्
६.०२३.०२७ सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम्
६.०२३.०२७ हृदयेन विदीर्णेन न भविष्यति राघव
६.०२३.०२८ साधु पातय मां क्षिप्रं रामस्योपरि रावणः
६.०२३.०२८ समानय पतिं पत्न्या कुरु कल्याणमुत्तमम्
६.०२३.०२९ शिरसा मे शिरश्चास्य कायं कायेन योजय
६.०२३.०२९ रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः
६.०२३.०२९ मुहूर्तमपि नेच्छामि जीवितुं पापजीविना
६.०२३.०३० श्रुतं मया वेदविदां ब्राह्मणानां पितुर्गृहे
६.०२३.०३० यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः
६.०२३.०३१ क्षमा यस्मिन् दमस्त्यागः सत्यं धर्मः कृतज्ञता
६.०२३.०३१ अहिंसा चैव भूतानां तमृते का गतिर्मम
६.०२३.०३२ इति सा दुःखसंतप्ता विललापायतेक्षणा
६.०२३.०३२ भर्तुः शिरो धनुस्तत्र समीक्ष्य जनकात्मजा
६.०२३.०३३ एवं लालप्यमानायां सीतायां तत्र राक्षसः
६.०२३.०३३ अभिचक्राम भर्तारमनीकस्थः कृताञ्जलिः
६.०२३.०३४ विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च
६.०२३.०३४ न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम्
६.०२३.०३५ अमात्यैः सहितः सर्वैः प्रहस्तः समुपस्थितः
६.०२३.०३५ किं चिदात्ययिकं कार्यं तेषां त्वं दर्शनं कुरु
६.०२३.०३६ एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्
६.०२३.०३६ अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ
६.०२३.०३७ स तु सर्वं समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः
६.०२३.०३७ सभां प्रविश्य विदधे विदित्वा रामविक्रमम्
६.०२३.०३८ अन्तर्धानं तु तच्छीर्षं तच्च कार्मुकमुत्तमम्
६.०२३.०३८ जगाम रावणस्यैव निर्याणसमनन्तरम्
६.०२३.०३९ राक्षसेन्द्रस्तु तैः सार्धं मन्त्रिभिर्भीमविक्रमैः
६.०२३.०३९ समर्थयामास तदा रामकार्यविनिश्चयम्
६.०२३.०४० अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः
६.०२३.०४० अब्रवीत्कालसदृशो रावणो राक्षसाधिपः
६.०२३.०४१ शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे
६.०२३.०४१ समानयध्वं सैन्यानि वक्तव्यं च न कारणम्
६.०२३.०४२ ततस्तथेति प्रतिगृह्य तद्वचो॑ बलाधिपास्ते महदात्मनो बलम्
६.०२३.०४२ समानयंश्चैव समागतं च ते॑ न्यवेदयन् भर्तरि युद्धकाङ्क्षिणि
६.०२४.००१ सीतां तु मोहितां दृष्ट्वा सरमा नाम राक्षसी
६.०२४.००१ आससादाशु वैदेहीं प्रियां प्रणयिनी सखी
६.०२४.००२ सा हि तत्र कृता मित्रं सीतया रक्ष्यमाणया
६.०२४.००२ रक्षन्ती रावणादिष्टा सानुक्रोशा दृढव्रता
६.०२४.००३ सा ददर्श सखीं सीतां सरमा नष्टचेतनाम्
६.०२४.००३ उपावृत्योत्थितां ध्वस्तां वडवामिव पांसुषु
६.०२४.००४ तां समाश्वासयामास सखी स्नेहेन सुव्रता
६.०२४.००४ उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया
६.०२४.००५ सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम्
६.०२४.००५ लीनया गनहे शूह्ये भयमुत्सृज्य रावणात्
६.०२४.००५ तव हेतोर्विशालाक्षि न हि मे जीवितं प्रियम्
६.०२४.००६ स संभ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः
६.०२४.००६ तच्च मे विदितं सर्वमभिनिष्क्रम्य मैथिलि
६.०२४.००७ न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः
६.०२४.००७ वधश्च पुरुषव्याघ्रे तस्मिन्नेवोपपद्यते
६.०२४.००८ न चैव वानरा हन्तुं शक्याः पादपयोधिनः
६.०२४.००८ सुरा देवर्षभेणेव रामेण हि सुरक्षिताः
६.०२४.००९ दीर्घवृत्तभुजः श्रीमान्महोरस्कः प्रतापवान्
६.०२४.००९ धन्वी संहननोपेतो धर्मात्मा भुवि विश्रुतः
६.०२४.०१० विक्रान्तो रक्षिता नित्यमात्मनश्च परस्य च
६.०२४.०१० लक्ष्मणेन सह भ्रात्रा कुशली नयशास्त्रवित्
६.०२४.०११ हन्ता परबलौघानामचिन्त्यबलपौरुषः
६.०२४.०११ न हतो राघवः श्रीमान् सीते शत्रुनिबर्हणः
६.०२४.०१२ अयुक्तबुद्धिकृत्येन सर्वभूतविरोधिना
६.०२४.०१२ इयं प्रयुक्ता रौद्रेण माया मायाविदा त्वयि
६.०२४.०१३ शोकस्ते विगतः सर्वः कल्याणं त्वामुपस्थितम्
६.०२४.०१३ ध्रुवं त्वां भजते लक्ष्मीः प्रियं प्रीतिकरं शृणु
६.०२४.०१४ उत्तीर्य सागरं रामः सह वानरसेनया
६.०२४.०१४ संनिविष्टः समुद्रस्य तीरमासाद्य दक्षिणम्
६.०२४.०१५ दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः
६.०२४.०१५ सहितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः
६.०२४.०१६ अनेन प्रेषिता ये च राक्षसा लघुविक्रमः
६.०२४.०१६ राघवस्तीर्ण इत्येवं प्रवृत्तिस्तैरिहाहृता
६.०२४.०१७ स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसाधिपः
६.०२४.०१७ एष मन्त्रयते सर्वैः सचिवैः सह रावणः
६.०२४.०१८ इति ब्रुवाणा सरमा राक्षसी सीतया सह
६.०२४.०१८ सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम्
६.०२४.०१९ दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम्
६.०२४.०१९ उवाच सरमा सीतामिदं मधुरभाषिणी
६.०२४.०२० संनाहजननी ह्येषा भैरवा भीरु भेरिका
६.०२४.०२० भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम्
६.०२४.०२१ कल्प्यन्ते मत्तमातंगा युज्यन्ते रथवाजिनः
६.०२४.०२१ तत्र तत्र च संनद्धाः संपतन्ति पदातयः
६.०२४.०२२ आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः
६.०२४.०२२ वेगवद्भिर्नदद्भिश्च तोयौघैरिव सागरः
६.०२४.०२३ शास्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा
६.०२४.०२३ रथवाजिगजानां च भूषितानां च रक्षसाम्
६.०२४.०२४ प्रभां विसृजतां पश्य नानावर्णां समुत्थिताम्
६.०२४.०२४ वनं निर्दहतो धर्मे यथारूपं विभावसोः
६.०२४.०२५ घण्टानां शृणु निर्घोषं रथानां शृणु निस्वनम्
६.०२४.०२५ हयानां हेषमाणानां शृणु तूर्यध्वनिं यथा
६.०२४.०२६ उद्यतायुधहस्तानां राक्षसेन्द्रानुयायिनाम्
६.०२४.०२६ संभ्रमो रक्षसामेष तुमुलो लोमहर्षणः
६.०२४.०२७ श्रीस्त्वां भजति शोकघ्नी रक्षसां भयमागतम्
६.०२४.०२७ रामात्कमलपत्राक्षि दैत्यानामिव वासवात्
६.०२४.०२८ अवजित्य जितक्रोधस्तमचिन्त्यपराक्रमः
६.०२४.०२८ रावणं समरे हत्वा भर्ता त्वाधिगमिष्यति
६.०२४.०२९ विक्रमिष्यति रक्षःसु भर्ता ते सहलक्ष्मणः
६.०२४.०२९ यथा शत्रुषु शत्रुघ्नो विष्णुना सह वासवः
६.०२४.०३० आगतस्य हि रामस्य क्षिप्रमङ्कगतां सतीम्
६.०२४.०३० अहं द्रक्ष्यामि सिद्धार्थां त्वां शत्रौ विनिपातिते
६.०२४.०३१ अश्रूण्यानन्दजानि त्वं वर्तयिष्यसि शोभने
६.०२४.०३१ समागम्य परिष्वक्ता तस्योरसि महोरसः
६.०२४.०३२ अचिरान्मोक्ष्यते सीते देवि ते जघनं गताम्
६.०२४.०३२ धृतामेतां बहून्मासान् वेणीं रामो महाबलः
६.०२४.०३३ तस्य दृष्ट्वा मुखं देवि पूर्णचन्द्रमिवोदितम्
६.०२४.०३३ मोक्ष्यसे शोकजं वारि निर्मोकमिव पन्नगी
६.०२४.०३४ रावणं समरे हत्वा नचिरादेव मैथिलि
६.०२४.०३४ त्वया समग्रं प्रियया सुखार्हो लप्स्यते सुखम्
६.०२४.०३५ समागता त्वं रामेण मोदिष्यसि महात्मना
६.०२४.०३५ सुवर्षेण समायुक्ता यथा सस्येन मेदिनी
६.०२४.०३६ गिरिवरमभितोऽनुवर्तमानो॑ हय इव मण्डलमाशु यः करोति
६.०२४.०३६ तमिह शरणमभ्युपेहि देवि॑ दिवसकरं प्रभवो ह्ययं प्रजानाम्
६.०२५.००१ अथ तां जातसंतापां तेन वाक्येन मोहिताम्
६.०२५.००१ सरमा ह्लादयामास पृतिवीं द्यौरिवाम्भसा
६.०२५.००२ ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः
६.०२५.००२ उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी
६.०२५.००३ उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे
६.०२५.००३ निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितुम्
६.०२५.००४ न हि मे क्रममाणाया निरालम्बे विहायसि
६.०२५.००४ समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा
६.०२५.००५ एवं ब्रुवाणां तां सीता सरमां पुनरब्रवीत्
६.०२५.००५ मधुरं श्लक्ष्णया वाचा पूर्वशोकाभिपन्नया
६.०२५.००६ समर्था गगनं गन्तुमपि वा त्वं रसातलम्
६.०२५.००६ अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे
६.०२५.००७ मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव
६.०२५.००७ ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः
६.०२५.००८ स हि मायाबलः क्रूरो रावणः शत्रुरावणः
६.०२५.००८ मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी
६.०२५.००९ तर्जापयति मां नित्यं भर्त्सापयति चासकृत्
६.०२५.००९ राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः
६.०२५.०१० उद्विग्ना शङ्किता चास्मि न च स्वस्थं मनो मम
६.०२५.०१० तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गताः
६.०२५.०११ यदि नाम कथा तस्य निश्चितं वापि यद्भवेत्
६.०२५.०११ निवेदयेथाः सर्वं तत्परो मे स्यादनुग्रहः
६.०२५.०१२ सा त्वेवं ब्रुवतीं सीतां सरमा वल्गुभाषिणी
६.०२५.०१२ उवाच वचनं तस्याः स्पृशन्ती बाष्पविक्लवम्
६.०२५.०१३ एष ते यद्यभिप्रायस्तस्माद्गच्छामि जानकि
६.०२५.०१३ गृह्य शत्रोरभिप्रायमुपावृत्तां च पश्य माम्
६.०२५.०१४ एवमुक्त्वा ततो गत्वा समीपं तस्य रक्षसः
६.०२५.०१४ शुश्राव कथितं तस्य रावणस्य समन्त्रिणः
६.०२५.०१५ सा श्रुत्वा निश्चयं तस्य निश्चयज्ञा दुरात्मनः
६.०२५.०१५ पुनरेवागमत्क्षिप्रमशोकवनिकां तदा
६.०२५.०१६ सा प्रविष्टा पुनस्तत्र ददर्श जनकात्मजाम्
६.०२५.०१६ प्रतीक्षमाणां स्वामेव भ्रष्टपद्मामिव श्रियम्
६.०२५.०१७ तां तु सीता पुनः प्राप्तां सरमां वल्गुभाषिणीम्
६.०२५.०१७ परिष्वज्य च सुस्निग्धं ददौ च स्वयमासनम्
६.०२५.०१८ इहासीना सुखं सर्वमाख्याहि मम तत्त्वतः
६.०२५.०१८ क्रूरस्य निश्चयं तस्य रावणस्य दुरात्मनः
६.०२५.०१९ एवमुक्ता तु सरमा सीतया वेपमानया
६.०२५.०१९ कथितं सर्वमाचष्ट रावणस्य समन्त्रिणः
६.०२५.०२० जनन्या राक्षसेन्द्रो वै त्वन्मोक्षार्थं बृहद्वचः
६.०२५.०२० अविद्धेन च वैदेहि मन्त्रिवृद्धेन बोधितः
६.०२५.०२१ दीयतामभिसत्कृत्य मनुजेन्द्राय मैथिली
६.०२५.०२१ निदर्शनं ते पर्याप्तं जनस्थाने यदद्भुतम्
६.०२५.०२२ लङ्घनं च समुद्रस्य दर्शनं च हनूमतः
६.०२५.०२२ वधं च रक्षसां युद्धे कः कुर्यान्मानुषो भुवि
६.०२५.०२३ एवं स मन्त्रिवृद्धैश्च मात्रा च बहु भाषितः
६.०२५.०२३ न त्वामुत्सहते मोक्तुमर्तह्मर्थपरो यथा
६.०२५.०२४ नोत्सहत्यमृतो मोक्तुं युद्धे त्वामिति मैथिलि
६.०२५.०२४ सामात्यस्य नृशंसस्य निश्चयो ह्येष वर्तते
६.०२५.०२५ तदेषा सुस्थिरा बुद्धिर्मृत्युलोभादुपस्थिता
६.०२५.०२५ भयान्न शक्तस्त्वां मोक्तुमनिरस्तस्तु संयुगे
६.०२५.०२५ राक्षसानां च सर्वेषामात्मनश्च वधेन हि
६.०२५.०२६ निहत्य रावणं संख्ये सर्वथा निशितैः शरैः
६.०२५.०२६ प्रतिनेष्यति रामस्त्वामयोध्यामसितेक्षणे
६.०२५.०२७ एतस्मिन्नन्तरे शब्दो भेरीशङ्खसमाकुलः
६.०२५.०२७ श्रुतो वै सर्वसैन्यानां कम्पयन् धरणीतलम्
६.०२५.०२८ श्रुत्वा तु तं वानरसैन्यशब्दं॑ लङ्कागता राक्षसराजभृत्याः
६.०२५.०२८ नष्टौजसो दैन्यपरीतचेष्टाः॑ श्रेयो न पश्यन्ति नृपस्य दोषैः
६.०२६.००१ तेन शङ्खविमिश्रेण भेरीशब्देन राघवः
६.०२६.००१ उपयतो महाबाहू रामः परपुरंजयः
६.०२६.००२ तं निनादं निशम्याथ रावणो राक्षसेश्वरः
६.०२६.००२ मुहूर्तं ध्यानमास्थाय सचिवानभ्युदैक्षत
६.०२६.००३ अथ तान् सचिवांस्तत्र सर्वानाभाष्य रावणः
६.०२६.००३ सभां संनादयन् सर्वामित्युवाच महाबलः
६.०२६.००४ तरणं सागरस्यापि विक्रमं बलसंचयम्
६.०२६.००४ यदुक्तवन्तो रामस्य भवन्तस्तन्मया श्रुतम्
६.०२६.००४ भवतश्चाप्यहं वेद्मि युद्धे सत्यपराक्रमान्
६.०२६.००५ ततस्तु सुमहाप्राज्ञो माल्यवान्नाम राक्षसः
६.०२६.००५ रावणस्य वचः श्रुत्वा मातुः पैतामहोऽब्रवीत्
६.०२६.००६ विद्यास्वभिविनीतो यो राजा राजन्नयानुगः
६.०२६.००६ स शास्ति चिरमैश्वर्यमरींश्च कुरुते वशे
६.०२६.००७ संदधानो हि कालेन विगृह्णंश्चारिभिः सह
६.०२६.००७ स्वपक्षवर्धनं कुर्वन्महदैश्वर्यमश्नुते
६.०२६.००८ हीयमानेन कर्तव्यो राज्ञा संधिः समेन च
६.०२६.००८ न शत्रुमवमन्येत ज्यायान् कुर्वीत विग्रहम्
६.०२६.००९ तन्मह्यं रोचते संधिः सह रामेण रावण
६.०२६.००९ यदर्थमभियुक्ताः स्म सीता तस्मै प्रदीयताम्
६.०२६.०१० तस्य देवर्षयः सर्वे गन्धर्वाश्च जयैषिणः
६.०२६.०१० विरोधं मा गमस्तेन संधिस्ते तेन रोचताम्
६.०२६.०११ असृजद्भगवान् पक्षौ द्वावेव हि पितामहः
६.०२६.०११ सुराणामसुराणां च धर्माधर्मौ तदाश्रयौ
६.०२६.०१२ धर्मो हि श्रूयते पक्षः सुराणां च महात्मनाम्
६.०२६.०१२ अधर्मो रक्षसं पक्षो ह्यसुराणां च रावण
६.०२६.०१३ धर्मो वै ग्रसतेऽधर्मं ततः कृतमभूद्युगम्
६.०२६.०१३ अधर्मो ग्रसते धर्मं ततस्तिष्यः प्रवर्तते
६.०२६.०१४ तत्त्वया चरता लोकान् धर्मो विनिहतो महान्
६.०२६.०१४ अधर्मः प्रगृहीतश्च तेनास्मद्बलिनः परे
६.०२६.०१५ स प्रमादाद्विवृद्धस्तेऽधर्मोऽहिर्ग्रसते हि नः
६.०२६.०१५ विवर्धयति पक्षं च सुराणां सुरभावनः
६.०२६.०१६ विषयेषु प्रसक्तेन यत्किंचित्कारिणा त्वया
६.०२६.०१६ ऋषीणामग्निकल्पानामुद्वेगो जनितो महान्
६.०२६.०१६ तेषां प्रभावो दुर्धर्षः प्रदीप्त इव पावकः
६.०२६.०१७ तपसा भावितात्मानो धर्मस्यानुग्रहे रताः
६.०२६.०१७ मुख्यैर्यज्ञैर्यजन्त्येते नित्यं तैस्तैर्द्विजातयः
६.०२६.०१८ जुह्वत्यग्नींश्च विधिवद्वेदांश्चोच्चैरधीयते
६.०२६.०१८ अभिभूय च रक्षांसि ब्रह्मघोषानुदैरयन्
६.०२६.०१८ दिशो विप्रद्रुताः सर्वे स्तनयित्नुरिवोष्णगे
६.०२६.०१९ ऋषीणामग्निकल्पानामग्निहोत्रसमुत्थितः
६.०२६.०१९ आदत्ते रक्षसां तेजो धूमो व्याप्य दिशो दश
६.०२६.०२० तेषु तेषु च देशेषु पुण्येषु च दृढव्रतैः
६.०२६.०२० चर्यमाणं तपस्तीव्रं संतापयति राक्षसान्
६.०२६.०२१ उत्पातान् विविधान् दृष्ट्वा घोरान् बहुविधांस्तथा
६.०२६.०२१ विनाशमनुपश्यामि सर्वेषां रक्षसामहम्
६.०२६.०२२ खराभिस्तनिता घोरा मेघाः प्रतिभयंकरः
६.०२६.०२२ शोणितेनाभिवर्षन्ति लङ्कामुष्णेन सर्वतः
६.०२६.०२३ रुदतां वाहनानां च प्रपतन्त्यस्रबिन्दवः
६.०२६.०२३ ध्वजा ध्वस्ता विवर्णाश्च न प्रभान्ति यथापुरम्
६.०२६.०२४ व्याला गोमायवो गृध्रा वाशन्ति च सुभैरवम्
६.०२६.०२४ प्रविश्य लङ्कामनिशं समवायांश्च कुर्वते
६.०२६.०२५ कालिकाः पाण्डुरैर्दन्तैः प्रहसन्त्यग्रतः स्थिताः
६.०२६.०२५ स्त्रियः स्वप्नेषु मुष्णन्त्यो गृहाणि प्रतिभाष्य च
६.०२६.०२६ गृहाणां बलिकर्माणि श्वानः पर्युपभुञ्जते
६.०२६.०२६ खरा गोषु प्रजायन्ते मूषिका नकुलैः सह
६.०२६.०२७ मार्जारा द्वीपिभिः सार्धं सूकराः शुनकैः सह
६.०२६.०२७ किंनरा राक्षसैश्चापि समेयुर्मानुषैः सह
६.०२६.०२८ पाण्डुरा रक्तपादाश्च विहगाः कालचोदिताः
६.०२६.०२८ राक्षसानां विनाशाय कपोता विचरन्ति च
६.०२६.०२९ चीकी कूचीति वाशन्त्यः शारिका वेश्मसु स्थिताः
६.०२६.०२९ पतन्ति ग्रथिताश्चापि निर्जिताः कलहैषिणः
६.०२६.०३० करालो विकटो मुण्डः पुरुषः कृष्णपिङ्गलः
६.०२६.०३० कालो गृहाणि सर्वेषां काले कालेऽन्ववेक्षते
६.०२६.०३० एतान्यन्यानि दुष्टानि निमित्तान्युत्पतन्ति च
६.०२६.०३१ विष्णुं मन्यामहे रामं मानुषं देहमास्थितम्
६.०२६.०३१ न हि मानुषमात्रोऽसौ राघवो दृढविक्रमः
६.०२६.०३२ येन बद्धः समुद्रस्य स सेतुः परमाद्भुतः
६.०२६.०३२ कुरुष्व नरराजेन संधिं रामेण रावण
६.०२६.०३३ इदं वचस्तत्र निगद्य माल्यवन्॑ परीक्ष्य रक्षोऽधिपतेर्मनः पुनः
६.०२६.०३३ अनुत्तमेषूत्तमपौरुषो बली॑ बभूव तूष्णीं समवेक्ष्य रावणम्
६.०२७.००१ तत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः
६.०२७.००१ न मर्षयति दुष्टात्मा कालस्य वशमागतः
६.०२७.००२ स बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः
६.०२७.००२ अमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत्
६.०२७.००३ हितबुद्ध्या यदहितं वचः परुषमुच्यते
६.०२७.००३ परपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम
६.०२७.००४ मानुषं कृपणं राममेकं शाखामृगाश्रयम्
६.०२७.००४ समर्थं मन्यसे केन त्यक्तं पित्रा वनालयम्
६.०२७.००५ रक्षसामीश्वरं मां च देवतानां भयंकरम्
६.०२७.००५ हीनं मां मन्यसे केन अहीनं सर्वविक्रमैः
६.०२७.००६ वीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः
६.०२७.००६ त्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा
६.०२७.००७ प्रभवन्तं पदस्थं हि परुषं कोऽह्बिधास्यति
६.०२७.००७ पण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः
६.०२७.००८ आनीय च वनात्सीतां पद्महीनामिव श्रियम्
६.०२७.००८ किमर्थं प्रतिदास्यामि राघवस्य भयादहम्
६.०२७.००९ वृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्
६.०२७.००९ पश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया
६.०२७.०१० द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे
६.०२७.०१० स कस्माद्रावणो युद्धे भयमाहारयिष्यति
६.०२७.०११ द्विधा भज्येयमप्येवं न नमेयं तु कस्य चित्
६.०२७.०११ एष मे सहजो दोषः स्वभावो दुरतिक्रमः
६.०२७.०१२ यदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया
६.०२७.०१२ रामेण विस्मयः कोऽत्र येन ते भयमागतम्
६.०२७.०१३ स तु तीर्त्वार्णवं रामः सह वानरसेनया
६.०२७.०१३ प्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति
६.०२७.०१४ एवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्
६.०२७.०१४ व्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत
६.०२७.०१५ जयाशिषा च राजानं वर्धयित्वा यथोचितम्
६.०२७.०१५ माल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम्
६.०२७.०१६ रावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च
६.०२७.०१६ लङ्कायामतुलां गुप्तिं कारयामास राक्षसः
६.०२७.०१७ व्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं
६.०२७.०१७ दक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ
६.०२७.०१८ पश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा
६.०२७.०१८ व्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम्
६.०२७.०१९ उत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ
६.०२७.०१९ स्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह
६.०२७.०२० राक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्
६.०२७.०२० मध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः
६.०२७.०२१ एवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः
६.०२७.०२१ मेने कृतार्थमात्मानं कृतान्तवशमागतः
६.०२७.०२२ विसर्जयामास ततः स मन्त्रिणो॑ विधानमाज्ञाप्य पुरस्य पुष्कलम्
६.०२७.०२२ जयाशिषा मन्त्रगणेन पूजितो॑ विवेश सोऽन्तःपुरमृद्धिमन्महत्
६.०२८.००१ नरवानरराजौ तौ स च वायुसुतः कपिः
६.०२८.००१ जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः
६.०२८.००२ अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः
६.०२८.००२ सुषेणः सहदायादो मैन्दो द्विविद एव च
६.०२८.००३ गजो गवाक्षो कुमुदो नलोऽथ पनसस्तथा
६.०२८.००३ अमित्रविषयं प्राप्ताः समवेताः समर्थयन्
६.०२८.००४ इयं सा लक्ष्यते लङ्का पुरी रावणपालिता
६.०२८.००४ सासुरोरगगन्धर्वैरमरैरपि दुर्जया
६.०२८.००५ कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये
६.०२८.००५ नित्यं संनिहितो ह्यत्र रावणो राक्षसाधिपः
६.०२८.००६ तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत्
६.०२८.००६ वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः
६.०२८.००७ अनलः शरभश्चैव संपातिः प्रघसस्तथा
६.०२८.००७ गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः
६.०२८.००८ भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम्
६.०२८.००८ विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः
६.०२८.००९ संविधानं यथाहुस्ते रावणस्य दुरात्मनः
६.०२८.००९ राम तद्ब्रुवतः सर्वं यथातथ्येन मे शृणु
६.०२८.०१० पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति
६.०२८.०१० दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ
६.०२८.०११ इन्द्रजित्पश्चिमद्वारं राक्षसैर्बहुभिर्वृतः
६.०२८.०११ पट्टसासिधनुष्मद्भिः शूलमुद्गरपाणिभिः
६.०२८.०१२ नानाप्रहरणैः शूरैरावृतो रावणात्मजः
६.०२८.०१२ राक्षसानां सहस्रैस्तु बहुभिः शस्त्रपाणिभिः
६.०२८.०१३ युक्तः परमसंविग्नो राक्षसैर्बहुभिर्वृतः
६.०२८.०१३ उत्तरं नगरद्वारं रावणः स्वयमास्थितः
६.०२८.०१४ विरूपाक्षस्तु महता शूलखड्गधनुष्मता
६.०२८.०१४ बलेन राक्षसैः सार्धं मध्यमं गुल्ममास्थितः
६.०२८.०१५ एतानेवंविधान् गुल्मांल्लङ्कायां समुदीक्ष्य ते
६.०२८.०१५ मामकाः सचिवाः सर्वे शीघ्रं पुनरिहागताः
६.०२८.०१६ गजानां च सहस्रं च रथानामयुतं पुरे
६.०२८.०१६ हयानामयुते द्वे च साग्रकोटी च रक्षसाम्
६.०२८.०१७ विक्रान्ता बलवन्तश्च संयुगेष्वाततायिनः
६.०२८.०१७ इष्टा राक्षसराजस्य नित्यमेते निशाचराः
६.०२८.०१८ एकैकस्यात्र युद्धार्थे राक्षसस्य विशां पते
६.०२८.०१८ परिवारः सहस्राणां सहस्रमुपतिष्ठते
६.०२८.०१९ एतां प्रवृत्तिं लङ्कायां मन्त्रिप्रोक्तं विभीषणः
६.०२८.०१९ रामं कमलपत्राक्षमिदमुत्तरमब्रवीत्
६.०२८.०२० कुबेरं तु यदा राम रावणः प्रत्ययुध्यत
६.०२८.०२० षष्टिः शतसहस्राणि तदा निर्यान्ति राक्षसाः
६.०२८.०२१ पराक्रमेण वीर्येण तेजसा सत्त्वगौरवात्
६.०२८.०२१ सदृशा योऽत्र दर्पेण रावणस्य दुरात्मनः
६.०२८.०२२ अत्र मन्युर्न कर्तव्यो रोषये त्वां न भीषये
६.०२८.०२२ समर्थो ह्यसि वीर्येण सुराणामपि निग्रहे
६.०२८.०२३ तद्भवांश्चतुरङ्गेण बलेन महता वृतः
६.०२८.०२३ व्यूह्येदं वानरानीकं निर्मथिष्यसि रावणम्
६.०२८.०२४ रावणावरजे वाक्यमेवं ब्रुवति राघवः
६.०२८.०२४ शत्रूणां प्रतिघातार्थमिदं वचनमब्रवीत्
६.०२८.०२५ पूर्वद्वारे तु लङ्काया नीलो वानरपुंगवः
६.०२८.०२५ प्रहस्तं प्रतियोद्धा स्याद्वानरैर्बहुभिर्वृतः
६.०२८.०२६ अङ्गदो वालिपुत्रस्तु बलेन महता वृतः
६.०२८.०२६ दक्षिणे बाधतां द्वारे महापार्श्वमहोदरौ
६.०२८.०२७ हनूमान् पश्चिमद्वारं निपीड्य पवनात्मजः
६.०२८.०२७ प्रविशत्वप्रमेयात्मा बहुभिः कपिभिर्वृतः
६.०२८.०२८ दैत्यदानवसंघानामृषीणां च महात्मनाम्
६.०२८.०२८ विप्रकारप्रियः क्षुद्रो वरदानबलान्वितः
६.०२८.०२९ परिक्रामति यः सर्वांल्लोकान् संतापयन् प्रजाः
६.०२८.०२९ तस्याहं राक्षसेन्द्रस्य स्वयमेव वधे धृतः
६.०२८.०३० उत्तरं नगरद्वारमहं सौमित्रिणा सह
६.०२८.०३० निपीड्याभिप्रवेक्ष्यामि सबलो यत्र रावणः
६.०२८.०३१ वानरेन्द्रश्च बलवानृक्षराजश्च जाम्बवान्
६.०२८.०३१ राक्षसेन्द्रानुजश्चैव गुल्मे भवतु मध्यमे
६.०२८.०३२ न चैव मानुषं रूपं कार्यं हरिभिराहवे
६.०२८.०३२ एषा भवतु नः संज्ञा युद्धेऽस्मिन् वानरे बले
६.०२८.०३३ वानरा एव निश्चिह्नं स्वजनेऽस्मिन् भविष्यति
६.०२८.०३३ वयं तु मानुषेणैव सप्त योत्स्यामहे परान्
६.०२८.०३४ अहमेव सह भ्रात्रा लक्ष्मणेन महौजसा
६.०२८.०३४ आत्मना पञ्चमश्चायं सखा मम विभीषणः
६.०२८.०३५ स रामः कार्यसिद्ध्यर्थमेवमुक्त्वा विभीषणम्
६.०२८.०३५ सुवेलारोहणे बुद्धिं चकार मतिमान्मतिम्
६.०२८.०३६ ततस्तु रामो महता बलेन॑ प्रच्छाद्य सर्वां पृथिवीं महात्मा
६.०२८.०३६ प्रहृष्टरूपोऽभिजगाम लङ्कां॑ कृत्वा मतिं सोऽरिवधे महात्मा
६.०२९.००१ स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति
६.०२९.००१ लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत्
६.०२९.००२ विभीषणं च धर्मज्ञमनुरक्तं निशाचरम्
६.०२९.००२ मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा
६.०२९.००३ सुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम्
६.०२९.००३ अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम्
६.०२९.००४ लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः
६.०२९.००४ येन मे मरणान्ताय हृता भार्या दुरात्मना
६.०२९.००५ येन धर्मो न विज्ञातो न वृत्तं न कुलं तथा
६.०२९.००५ राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम्
६.०२९.००६ यस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे
६.०२९.००६ यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम्
६.०२९.००७ एको हि कुरुते पापं कालपाशवशं गतः
६.०२९.००७ नीचेनात्मापचारेण कुलं तेन विनश्यति
६.०२९.००८ एवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति
६.०२९.००८ रामः सुवेलं वासाय चित्रसानुमुपारुहत्
६.०२९.००९ पृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः
६.०२९.००९ सशरं चापमुद्यम्य सुमहद्विक्रमे रतः
६.०२९.०१० तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः
६.०२९.०१० हनूमानङ्गदो नीलो मैन्दो द्विविद एव च
६.०२९.०११ गजो गवाक्षो गवयः शरभो गन्धमादनः
६.०२९.०११ पनसः कुमुदश्चैव हरो रम्भश्च यूथपः
६.०२९.०१२ एते चान्ये च बहवो वानराः शीघ्रगामिनः
६.०२९.०१२ ते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः
६.०२९.०१२ अध्यारोहन्त शतशः सुवेलं यत्र राघवः
६.०२९.०१३ ते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः
६.०२९.०१३ ददृशुः शिखरे तस्य विषक्तामिव खे पुरीम्
६.०२९.०१४ तां शुभां प्रवरद्वारां प्राकारवरशोभिताम्
६.०२९.०१४ लङ्कां राक्षससंपूर्णां ददृशुर्हरियूथपाः
६.०२९.०१५ प्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः
६.०२९.०१५ ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम्
६.०२९.०१६ ते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः
६.०२९.०१६ मुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः
६.०२९.०१७ ततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः
६.०२९.०१७ पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते
६.०२९.०१८ ततः स रामो हरिवाहिनीपतिर्॑ विभीषणेन प्रतिनन्द्य सत्कृतः
६.०२९.०१८ सलक्ष्मणो यूथपयूथसंवृतः॑ सुवेल पृष्ठे न्यवसद्यथासुखम्
६.०३०.००१ तां रात्रिमुषितास्तत्र सुवेले हरिपुंगवाः
६.०३०.००१ लङ्कायां ददृशुर्वीरा वनान्युपवनानि च
६.०३०.००२ समसौम्यानि रम्याणि विशालान्यायतानि च
६.०३०.००२ दृष्टिरम्याणि ते दृष्ट्वा बभूवुर्जातविस्मयाः
६.०३०.००३ चम्पकाशोकपुंनागसालतालसमाकुला
६.०३०.००३ तमालवनसंछन्ना नागमालासमावृता
६.०३०.००४ हिन्तालैरर्जुनैर्नीपैः सप्तपर्णैश्च पुष्पितैः
६.०३०.००४ तिलकैः कर्णिकारैश्च पटालैश्च समन्ततः
६.०३०.००५ शुशुभे पुष्पिताग्रैश्च लतापरिगतैर्द्रुमैः
६.०३०.००५ लङ्का बहुविधैर्दिव्यैर्यथेन्द्रस्यामरावती
६.०३०.००६ विचित्रकुसुमोपेतै रक्तकोमलपल्लवैः
६.०३०.००६ शाद्वलैश्च तथा नीलैश्चित्राभिर्वनराजिभिः
६.०३०.००७ गन्धाढ्यान्यभिरम्याणि पुष्पाणि च फलानि च
६.०३०.००७ धारयन्त्यगमास्तत्र भूषणानीव मानवाः
६.०३०.००८ तच्चैत्ररथसंकाशं मनोज्ञं नन्दनोपमम्
६.०३०.००८ वनं सर्वर्तुकं रम्यं शुशुभे षट्पदायुतम्
६.०३०.००९ नत्यूहकोयष्टिभकैर्नृत्यमानैश्च बर्हिभिः
६.०३०.००९ रुतं परभृतानां च शुश्रुवे वननिर्झरे
६.०३०.०१० नित्यमत्तविहंगानि भ्रमराचरितानि च
६.०३०.०१० कोकिलाकुलषण्डानि विहगाभिरुतानि च
६.०३०.०११ भृङ्गराजाभिगीतानि भ्रमरैः सेवितानि च
६.०३०.०११ कोणालकविघुष्टानि सारसाभिरुतानि च
६.०३०.०१२ विविशुस्ते ततस्तानि वनान्युपवनानि च
६.०३०.०१२ हृष्टाः प्रमुदिता वीरा हरयः कामरूपिणः
६.०३०.०१३ तेषां प्रविशतां तत्र वानराणां महौजसाम्
६.०३०.०१३ पुष्पसंसर्गसुरभिर्ववौ घ्राणसुखोऽनिलः
६.०३०.०१४ अन्ये तु हरिवीराणां यूथान्निष्क्रम्य यूथपाः
६.०३०.०१४ सुग्रीवेणाभ्यनुज्ञाता लङ्कां जग्मुः पताकिनीम्
६.०३०.०१५ वित्रासयन्तो विहगांस्त्रासयन्तो मृगद्विपान्
६.०३०.०१५ कम्पयन्तश्च तां लङ्कां नादैः स्वैर्नदतां वराः
६.०३०.०१६ कुर्वन्तस्ते महावेगा महीं चारणपीडिताम्
६.०३०.०१६ रजश्च सहसैवोर्ध्वं जगाम चरणोद्धतम्
६.०३०.०१७ ऋक्षाः सिंहा वराहाश्च महिषा वारणा मृगाः
६.०३०.०१७ तेन शब्देन वित्रस्ता जग्मुर्भीता दिशो दश
६.०३०.०१८ शिखरं तु त्रिकूटस्य प्रांशु चैकं दिविस्पृशम्
६.०३०.०१८ समन्तात्पुष्पसंछन्नं महारजतसंनिभम्
६.०३०.०१९ शतयोजनविस्तीर्णं विमलं चारुदर्शनम्
६.०३०.०१९ श्लक्ष्णं श्रीमन्महच्चैव दुष्प्रापं शकुनैरपि
६.०३०.०२० मनसापि दुरारोहं किं पुनः कर्मणा जनैः
६.०३०.०२० निविष्टा तत्र शिखरे लङ्का रावणपालिता
६.०३०.०२१ सा पुरी गोपुरैरुच्चैः पाण्डुराम्बुदसंनिभैः
६.०३०.०२१ काञ्चनेन च सालेन राजतेन च शोभिता
६.०३०.०२२ प्रासादैश्च विमानैश्च लङ्का परमभूषिता
६.०३०.०२२ घनैरिवातपापाये मध्यमं वैष्णवं पदम्
६.०३०.०२३ यस्यां स्तम्भसहस्रेण प्रासादः समलंकृतः
६.०३०.०२३ कैलासशिखराकारो दृश्यते खमिवोल्लिखन्
६.०३०.०२४ चैत्यः स राक्षसेन्द्रस्य बभूव पुरभूषणम्
६.०३०.०२४ शतेन रक्षसां नित्यं यः समग्रेण रक्ष्यते
६.०३०.०२५ तां समृद्धां समृद्धार्थो लक्ष्मीवांल्लक्ष्मणाग्रजः
६.०३०.०२५ रावणस्य पुरीं रामो ददर्श सह वानरैः
६.०३०.०२६ तां रत्नपूर्णां बहुसंविधानां॑ प्रासादमालाभिरलंकृतां च
६.०३०.०२६ पुरीं महायन्त्रकवाटमुख्यां॑ ददर्श रामो महता बलेन
६.०३१.००१ अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः
६.०३१.००१ लक्ष्मणं लक्ष्मिसंपन्नमिदं वचनमब्रवीत्
६.०३१.००२ परिगृह्योदकं शीतं वनानि फलवन्ति च
६.०३१.००२ बलौघं संविभज्येमं व्यूह्य तिष्ठेम लक्ष्मण
६.०३१.००३ लोकक्षयकरं भीमं भयं पश्याम्युपस्थितम्
६.०३१.००३ निबर्हणं प्रवीराणामृक्षवानररक्षसाम्
६.०३१.००४ वाताश्च परुषं वान्ति कम्पते च वसुंधरा
६.०३१.००४ पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः
६.०३१.००५ मेघाः क्रव्यादसंकाशाः परुषाः परुषस्वनाः
६.०३१.००५ क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः
६.०३१.००६ रक्तचन्दनसंकाशा संध्यापरमदारुणा
६.०३१.००६ ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम्
६.०३१.००७ आदित्यमभिवाश्यन्ते जनयन्तो महद्भयम्
६.०३१.००७ दीना दीनस्वरा घोरा अप्रशस्ता मृगद्विजाः
६.०३१.००८ रजन्यामप्रकाशश्च संतापयति चन्द्रमाः
६.०३१.००८ कृष्णरक्तांशुपर्यन्तो यथा लोकस्य संक्षये
६.०३१.००९ ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः
६.०३१.००९ आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते
६.०३१.०१० दृश्यन्ते न यथावच्च नक्षत्राण्यभिवर्तते
६.०३१.०१० युगान्तमिव लोकस्य पश्य लक्ष्मण शंसति
६.०३१.०११ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च
६.०३१.०११ शिवाश्चाप्यशिवा वाचः प्रवदन्ति महास्वनाः
६.०३१.०१२ क्षिप्रमद्य दुराधर्षां पुरीं रावणपालिताम्
६.०३१.०१२ अभियाम जवेनैव सर्वतो हरिभिर्वृताः
६.०३१.०१३ इत्येवं तु वदन् वीरो लक्ष्मणं लक्ष्मणाग्रजः
६.०३१.०१३ तस्मादवातरच्छीघ्रं पर्वताग्रान्महाबलः
६.०३१.०१४ अवतीर्य तु धर्मात्मा तस्माच्छैलात्स राघवः
६.०३१.०१४ परैः परमदुर्धर्षं ददर्श बलमात्मनः
६.०३१.०१५ संनह्य तु ससुग्रीवः कपिराजबलं महत्
६.०३१.०१५ कालज्ञो राघवः काले संयुगायाभ्यचोदयत्
६.०३१.०१६ ततः काले महाबाहुर्बलेन महता वृतः
६.०३१.०१६ प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम्
६.०३१.०१७ तं विभीषण सुग्रीवौ हनूमाञ्जाम्बवान्नलः
६.०३१.०१७ ऋक्षराजस्तथा नीलो लक्ष्मणश्चान्ययुस्तदा
६.०३१.०१८ ततः पश्चात्सुमहती पृतनर्क्षवनौकसाम्
६.०३१.०१८ प्रच्छाद्य महतीं भूमिमनुयाति स्म राघवम्
६.०३१.०१९ शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहाम्
६.०३१.०१९ जगृहुः कुञ्जरप्रख्या वानराः परवारणाः
६.०३१.०२० तौ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ
६.०३१.०२० रावणस्य पुरीं लङ्कामासेदतुररिंदमौ
६.०३१.०२१ पताकामालिनीं रम्यामुद्यानवनशोभिताम्
६.०३१.०२१ चित्रवप्रां सुदुष्प्रापामुच्चप्राकारतोरणाम्
६.०३१.०२२ तां सुरैरपि दुर्धर्षां रामवाक्यप्रचोदिताः
६.०३१.०२२ यथानिदेशं संपीड्य न्यविशन्त वनौकसः
६.०३१.०२३ लङ्कायास्तूत्तरद्वारं शैलशृङ्गमिवोन्नतम्
६.०३१.०२३ रामः सहानुजो धन्वी जुगोप च रुरोध च
६.०३१.०२४ लङ्कामुपनिविष्टश्च रामो दशरथात्मजः
६.०३१.०२४ लक्ष्मणानुचरो वीरः पुरीं रावणपालिताम्
६.०३१.०२५ उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः
६.०३१.०२५ नान्यो रामाद्धि तद्द्वारं समर्थः परिरक्षितुम्
६.०३१.०२६ रावणाधिष्ठितं भीमं वरुणेनेव सागरम्
६.०३१.०२६ सायुधौ राक्षसैर्भीमैरभिगुप्तं समन्ततः
६.०३१.०२६ लघूनां त्रासजननं पातालमिव दानवैः
६.०३१.०२७ विन्यस्तानि च योधानां बहूनि विविधानि च
६.०३१.०२७ ददर्शायुधजालानि तथैव कवचानि च
६.०३१.०२८ पूर्वं तु द्वारमासाद्य नीलो हरिचमूपतिः
६.०३१.०२८ अतिष्ठत्सह मैन्देन द्विविदेन च वीर्यवान्
६.०३१.०२९ अङ्गदो दक्षिणद्वारं जग्राह सुमहाबलः
६.०३१.०२९ ऋषभेण गवाक्षेण गजेन गवयेन च
६.०३१.०३० हनूमान् पश्चिमद्वारं ररक्ष बलवान् कपिः
६.०३१.०३० प्रमाथि प्रघसाभ्यां च वीरैरन्यैश्च संगतः
६.०३१.०३१ मध्यमे च स्वयं गुल्मे सुग्रीवः समतिष्ठत
६.०३१.०३१ सह सर्वैर्हरिश्रेष्ठैः सुपर्णश्वसनोपमैः
६.०३१.०३२ वानराणां तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः
६.०३१.०३२ निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः
६.०३१.०३३ शासनेन तु रामस्य लक्ष्मणः सविभीषणः
६.०३१.०३३ द्वारे द्वारे हरीणां तु कोटिं कोटिं न्यवेशयत्
६.०३१.०३४ पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान्
६.०३१.०३४ अदूरान्मध्यमे गुल्मे तस्थौ बहुबलानुगः
६.०३१.०३५ ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः
६.०३१.०३५ गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धाय तस्थिरे
६.०३१.०३६ सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः
६.०३१.०३६ सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः
६.०३१.०३७ दशनागबलाः के चित्के चिद्दशगुणोत्तराः
६.०३१.०३७ के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
६.०३१.०३८ सन्ति चौघा बलाः के चित्के चिच्छतगुणोत्तराः
६.०३१.०३८ अप्रमेयबलाश्चान्ये तत्रासन् हरियूथपाः
६.०३१.०३९ अद्भुतश्च विचित्रश्च तेषामासीत्समागमः
६.०३१.०३९ तत्र वानरसैन्यानां शलभानामिवोद्गमः
६.०३१.०४० परिपूर्णमिवाकाशं संछन्नेव च मेदिनी
६.०३१.०४० लङ्कामुपनिविष्टैश्च संपतद्भिश्च वानरैः
६.०३१.०४१ शतं शतसहस्राणां पृथगृक्षवनौकसाम्
६.०३१.०४१ लङ्का द्वाराण्युपाजग्मुरन्ये योद्धुं समन्ततः
६.०३१.०४२ आवृतः स गिरिः सर्वैस्तैः समन्तात्प्लवंगमैः
६.०३१.०४२ अयुतानां सहस्रं च पुरीं तामभ्यवर्तत
६.०३१.०४३ वानरैर्बलवद्भिश्च बभूव द्रुमपाणिभिः
६.०३१.०४३ सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना
६.०३१.०४४ राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः
६.०३१.०४४ वानरैर्मेघसंकाशैः शक्रतुल्यपराक्रमैः
६.०३१.०४५ महाञ्शब्दोऽभवत्तत्र बलौघस्याभिवर्ततः
६.०३१.०४५ सागरस्येव भिन्नस्य यथा स्यात्सलिलस्वनः
६.०३१.०४६ तेन शब्देन महता सप्राकारा सतोरणा
६.०३१.०४६ लङ्का प्रचलिता सर्वा सशैलवनकानना
६.०३१.०४७ रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
६.०३१.०४७ बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः
६.०३१.०४८ राघवः संनिवेश्यैवं सैन्यं स्वं रक्षसां वधे
६.०३१.०४८ संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः
६.०३१.०४९ आनन्तर्यमभिप्रेप्सुः क्रमयोगार्थतत्त्ववित्
६.०३१.०४९ विभीषणस्यानुमते राजधर्ममनुस्मरन्
६.०३१.०४९ अङ्गदं वालितनयं समाहूयेदमब्रवीत्
६.०३१.०५० गत्वा सौम्य दशग्रीवं ब्रूहि मद्वचनात्कपे
६.०३१.०५० लङ्घयित्वा पुरीं लङ्कां भयं त्यक्त्वा गतव्यथः
६.०३१.०५१ भ्रष्टश्रीकगतैश्वर्यमुमूर्षो नष्टचेतनः
६.०३१.०५१ ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा
६.०३१.०५२ नागानामथ यक्षाणां राज्ञां च रजनीचर
६.०३१.०५२ यच्च पापं कृतं मोहादवलिप्तेन राक्षस
६.०३१.०५३ नूनमद्य गतो दर्पः स्वयम्भू वरदानजः
६.०३१.०५३ यस्य दण्डधरस्तेऽहं दाराहरणकर्शितः
६.०३१.०५३ दण्डं धारयमाणस्तु लङ्काद्वरे व्यवस्थितः
६.०३१.०५४ पदवीं देवतानां च महर्षीणां च राक्षस
६.०३१.०५४ राजर्षीणां च सर्वेणां गमिष्यसि मया हतः
६.०३१.०५५ बलेन येन वै सीतां मायया राक्षसाधम
६.०३१.०५५ मामतिक्रामयित्वा त्वं हृतवांस्तद्विदर्शय
६.०३१.०५६ अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः
६.०३१.०५६ न चेच्छरणमभ्येषि मामुपादाय मैथिलीम्
६.०३१.०५७ धर्मात्मा रक्षसां श्रेष्ठः संप्राप्तोऽयं विभीषणः
६.०३१.०५७ लङ्कैश्वर्यं ध्रुवं श्रीमानयं प्राप्नोत्यकण्टकम्
६.०३१.०५८ न हि राज्यमधर्मेण भोक्तुं क्षणमपि त्वया
६.०३१.०५८ शक्यं मूर्खसहायेन पापेनाविजितात्मना
६.०३१.०५९ युध्यस्व वा धृतिं कृत्वा शौर्यमालम्ब्य राक्षस
६.०३१.०५९ मच्छरैस्त्वं रणे शान्तस्ततः पूतो भविष्यसि
६.०३१.०६० यद्याविशसि लोकांस्त्रीन् पक्षिभूतो मनोजवः
६.०३१.०६० मम चक्षुष्पथं प्राप्य न जीवन् प्रतियास्यसि
६.०३१.०६१ ब्रवीमि त्वां हितं वाक्यं क्रियतामौर्ध्वदेकिकम्
६.०३१.०६१ सुदृष्टा क्रियतां लङ्का जीवितं ते मयि स्थितम्
६.०३१.०६२ इत्युक्तः स तु तारेयो रामेणाक्लिष्टकर्मणा
६.०३१.०६२ जगामाकाशमाविश्य मूर्तिमानिव हव्यवाट्
६.०३१.०६३ सोऽतिपत्य मुहूर्तेन श्रीमान् रावणमन्दिरम्
६.०३१.०६३ ददर्शासीनमव्यग्रं रावणं सचिवैः सह
६.०३१.०६४ ततस्तस्याविदूरेण निपत्य हरिपुंगवः
६.०३१.०६४ दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः
६.०३१.०६५ तद्रामवचनं सर्वमन्यूनाधिकमुत्तमम्
६.०३१.०६५ सामात्यं श्रावयामास निवेद्यात्मानमात्मना
६.०३१.०६६ दूतोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
६.०३१.०६६ वालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः
६.०३१.०६७ आह त्वां राघवो रामः कौसल्यानन्दवर्धनः
६.०३१.०६७ निष्पत्य प्रतियुध्यस्व नृशंसं पुरुषाधम
६.०३१.०६८ हन्तास्मि त्वां सहामात्यं सपुत्रज्ञातिबान्धवम्
६.०३१.०६८ निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि
६.०३१.०६९ देवदानवयक्षाणां गन्धर्वोरगरक्षसाम्
६.०३१.०६९ शत्रुमद्योद्धरिष्यामि त्वामृषीणां च कण्टकम्
६.०३१.०७० विभीषणस्य चैश्वर्यं भविष्यति हते त्वयि
६.०३१.०७० न चेत्सत्कृत्य वैदेहीं प्रणिपत्य प्रदास्यसि
६.०३१.०७१ इत्येवं परुषं वाक्यं ब्रुवाणे हरिपुंगवे
६.०३१.०७१ अमर्षवशमापन्नो निशाचरगणेश्वरः
६.०३१.०७२ ततः स रोषताम्राक्षः शशास सचिवांस्तदा
६.०३१.०७२ गृह्यतामेष दुर्मेधा वध्यतामिति चासकृत्
६.०३१.०७३ रावणस्य वचः श्रुत्वा दीप्ताग्निसमतेजसः
६.०३१.०७३ जगृहुस्तं ततो घोराश्चत्वारो रजनीचराः
६.०३१.०७४ ग्राहयामास तारेयः स्वयमात्मानमात्मना
६.०३१.०७४ बलं दर्शयितुं वीरो यातुधानगणे तदा
६.०३१.०७५ स तान् बाहुद्वये सक्तानादाय पतगानिव
६.०३१.०७५ प्रासादं शैलसंकाशमुत्पापाताङ्गदस्तदा
६.०३१.०७६ तेऽन्तरिक्षाद्विनिर्धूतास्तस्य वेगेन राक्षसाः
६.०३१.०७६ भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः
६.०३१.०७७ ततः प्रासादशिखरं शैलशृङ्गमिवोन्नतम्
६.०३१.०७७ तत्पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः
६.०३१.०७८ भङ्क्त्वा प्रासादशिखरं नाम विश्राव्य चात्मनः
६.०३१.०७८ विनद्य सुमहानादमुत्पपात विहायसा
६.०३१.०७९ रावणस्तु परं चक्रे क्रोधं प्रासादधर्षणात्
६.०३१.०७९ विनाशं चात्मनः पश्यन्निःश्वासपरमोऽभवत्
६.०३१.०८० रामस्तु बहुभिर्हृष्टैर्निनदद्भिः प्लवंगमैः
६.०३१.०८० वृतो रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत
६.०३१.०८१ सुषेणस्तु महावीर्यो गिरिकूटोपमो हरिः
६.०३१.०८१ बहुभिः संवृतस्तत्र वानरैः कामरूपिभिः
६.०३१.०८२ चतुर्द्वाराणि सर्वाणि सुग्रीववचनात्कपिः
६.०३१.०८२ पर्याक्रमत दुर्धर्षो नक्षत्राणीव चन्द्रमाः
६.०३१.०८३ तेषामक्षौहिणिशतं समवेक्ष्य वनौकसाम्
६.०३१.०८३ लङ्कामुपनिविष्टानां सागरं चातिवर्तताम्
६.०३१.०८४ राक्षसा विस्मयं जग्मुस्त्रासं जग्मुस्तथापरे
६.०३१.०८४ अपरे समरोद्धर्षाद्धर्षमेवोपपेदिरे
६.०३१.०८५ कृत्स्नं हि कपिभिर्व्याप्तं प्राकारपरिखान्तरम्
६.०३१.०८५ ददृशू राक्षसा दीनाः प्राकारं वानरीकृतम्
६.०३१.०८६ तस्मिन्महाभीषणके प्रवृत्ते॑ कोलाहले राक्षसराजधान्याम्
६.०३१.०८६ प्रगृह्य रक्षांसि महायुधानि॑ युगान्तवाता इव संविचेरुः
६.०३२.००१ ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम्
६.०३२.००१ न्यवेदयन् पुरीं रुद्धां रामेण सह वानरैः
६.०३२.००२ रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः
६.०३२.००२ विधानं द्विगुणं श्रुत्वा प्रासादं सोऽध्यरोहत
६.०३२.००३ स ददर्शावृतां लङ्कां सशैलवनकाननाम्
६.०३२.००३ असंख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः
६.०३२.००४ स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम्
६.०३२.००४ कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत्
६.०३२.००५ स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः
६.०३२.००५ राघवं हरियूथांश्च ददर्शायतलोचनः
६.०३२.००६ प्रेक्षतो राक्षसेन्द्रस्य तान्यनीकानि भागशः
६.०३२.००६ राघवप्रियकामार्थं लङ्कामारुरुहुस्तदा
६.०३२.००७ ते ताम्रवक्त्रा हेमाभा रामार्थे त्यक्तजीविताः
६.०३२.००७ लङ्कामेवाह्यवर्तन्त सालतालशिलायुधाः
६.०३२.००८ ते द्रुमैः पर्वताग्रैश्च मुष्टिभिश्च प्लवंगमाः
६.०३२.००८ प्रासादाग्राणि चोच्चानि ममन्तुस्तोरणानि च
६.०३२.००९ पारिखाः पूरयन्ति स्म प्रसन्नसलिलायुताः
६.०३२.००९ पांसुभिः पर्वताग्रैश्च तृणैः काष्ठैश्च वानराः
६.०३२.०१० ततः सहस्रयूथाश्च कोटियूथाश्च यूथपाः
६.०३२.०१० कोटीशतयुताश्चान्ये लङ्कामारुरुहुस्तदा
६.०३२.०११ काञ्चनानि प्रमृद्नन्तस्तोरणानि प्लवंगमाः
६.०३२.०११ कैलासशिखराभानि गोपुराणि प्रमथ्य च
६.०३२.०१२ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः
६.०३२.०१२ लङ्कां तामभ्यवर्तन्त महावारणसंनिभाः
६.०३२.०१३ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः
६.०३२.०१३ राजा जयति सुग्रीवो राघवेणाभिपालितः
६.०३२.०१४ इत्येवं घोषयन्तश्च गर्जन्तश्च प्लवंगमाः
६.०३२.०१४ अभ्यधावन्त लङ्कायाः प्राकारं कामरूपिणः
६.०३२.०१५ वीरबाहुः सुबाहुश्च नलश्च वनगोचरः
६.०३२.०१५ निपीड्योपनिविष्टास्ते प्राकारं हरियूथपाः
६.०३२.०१६ एतस्मिन्नन्तरे चक्रुः स्कन्धावारनिवेशनम्
६.०३२.०१७ पूर्वद्वारं तु कुमुदः कोटिभिर्दशभिर्वृतः
६.०३२.०१७ आवृत्य बलवांस्तस्थौ हरिभिर्जितकाशिभिः
६.०३२.०१८ दक्षिणद्वारमागम्य वीरः शतबलिः कपिः
६.०३२.०१८ आवृत्य बलवांस्तस्थौ विंशत्या कोटिभिर्वृतः
६.०३२.०१९ सुषेणः पश्चिमद्वारं गतस्तारा पिता हरिः
६.०३२.०१९ आवृत्य बलवांस्तस्थौ षष्टि कोटिभिरावृतः
६.०३२.०२० उत्तरद्वारमासाद्य रामः सौमित्रिणा सह
६.०३२.०२० आवृत्य बलवांस्तस्थौ सुग्रीवश्च हरीश्वरः
६.०३२.०२१ गोलाङ्गूलो महाकायो गवाक्षो भीमदर्शनः
६.०३२.०२१ वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्वतः
६.०३२.०२२ ऋष्काणां भीमवेगानां धूम्रः शत्रुनिबर्हणः
६.०३२.०२२ वृतः कोट्या महावीर्यस्तस्थौ रामस्य पार्श्वतः
६.०३२.०२३ संनद्धस्तु महावीर्यो गदापाणिर्विभीषणः
६.०३२.०२३ वृतो यस्तैस्तु सचिवैस्तस्थौ तत्र महाबलः
६.०३२.०२४ गजो गवाक्षो गवयः शरभो गन्धमादनः
६.०३२.०२४ समन्तात्परिघावन्तो ररक्षुर्हरिवाहिनीम्
६.०३२.०२५ ततः कोपपरीतात्मा रावणो राक्षसेश्वरः
६.०३२.०२५ निर्याणं सर्वसैन्यानां द्रुतमाज्ञापयत्तदा
६.०३२.०२६ निष्पतन्ति ततः सैन्या हृष्टा रावणचोदिताः
६.०३२.०२६ समये पूर्यमाणस्य वेगा इव महोदधेः
६.०३२.०२७ एतस्मिन्नन्तरे घोरः संग्रामः समपद्यत
६.०३२.०२७ रक्षसां वानराणां च यथा देवासुरे पुरा
६.०३२.०२८ ते गदाभिः प्रदीप्ताभिः शक्तिशूलपरश्वधैः
६.०३२.०२८ निजघ्नुर्वानरान् घोराः कथयन्तः स्वविक्रमान्
६.०३२.०२९ तथा वृक्षैर्महाकायाः पर्वताग्रैश्च वानराः
६.०३२.०२९ राक्षसास्तानि रक्षांसि नखैर्दन्तैश्च वेगिताः
६.०३२.०३० राक्षसास्त्वपरे भीमाः प्राकारस्था महीगतान्
६.०३२.०३० भिण्डिपालैश्च खड्गैश्च शूलैश्चैव व्यदारयन्
६.०३२.०३१ वानराश्चापि संक्रुद्धाः प्राकारस्थान्महीगताः
६.०३२.०३१ राक्षसान् पातयामासुः समाप्लुत्य प्लवंगमाः
६.०३२.०३२ स संप्रहारस्तुमुलो मांसशोणितकर्दमः
६.०३२.०३२ रक्षसां वानराणां च संबभूवाद्भुतोपमाः
६.०३३.००१ युध्यतां तु ततस्तेषां वानराणां महात्मनाम्
६.०३३.००१ रक्षसां संबभूवाथ बलकोपः सुदारुणः
६.०३३.००२ ते हयैः काञ्चनापीडैर्ध्वजैश्चाग्निशिखोपमैः
६.०३३.००२ रथैश्चादित्यसंकाशैः कवचैश्च मनोरमैः
६.०३३.००३ निर्ययू राक्षसव्याघ्रा नादयन्तो दिशो दश
६.०३३.००३ राक्षसा भीमकर्माणो रावणस्य जयैषिणः
६.०३३.००४ वानराणामपि चमूर्महती जयमिच्चताम्
६.०३३.००४ अभ्यधावत तां सेनां रक्षसां कामरूपिणाम्
६.०३३.००५ एतस्मिन्नन्तरे तेषामन्योन्यमभिधावताम्
६.०३३.००५ रक्षसां वानराणां च द्वन्द्वयुद्धमवर्तत
६.०३३.००६ अङ्गदेनेन्द्रजित्सार्धं वालिपुत्रेण राक्षसः
६.०३३.००६ अयुध्यत महातेजास्त्र्यम्बकेण यथान्धकः
६.०३३.००७ प्रजङ्घेन च संपातिर्नित्यं दुर्मर्षणो रणे
६.०३३.००७ जम्बूमालिनमारब्धो हनूमानपि वानरः
६.०३३.००८ संगतः सुमहाक्रोधो राक्षसो रावणानुजः
६.०३३.००८ समरे तीक्ष्णवेगेन मित्रघ्नेन विभीषणः
६.०३३.००९ तपनेन गजः सार्धं राक्षसेन महाबलः
६.०३३.००९ निकुम्भेन महातेजा नीलोऽपि समयुध्यत
६.०३३.०१० वानरेन्द्रस्तु सुग्रीवः प्रघसेन समागतः
६.०३३.०१० संगतः समरे श्रीमान् विरूपाक्षेण लक्ष्मणः
६.०३३.०११ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः
६.०३३.०११ सुप्तघ्नो यज्ञकोपश्च रामेण सह संगताः
६.०३३.०१२ वज्रमुष्टिस्तु मैन्देन द्विविदेनाशनिप्रभः
६.०३३.०१२ राक्षसाभ्यां सुघोराभ्यां कपिमुख्यौ समागतौ
६.०३३.०१३ वीरः प्रतपनो घोरो राक्षसो रणदुर्धरः
६.०३३.०१३ समरे तीक्ष्णवेगेन नलेन समयुध्यत
६.०३३.०१४ धर्मस्य पुत्रो बलवान् सुषेण इति विश्रुतः
६.०३३.०१४ स विद्युन्मालिना सार्धमयुध्यत महाकपिः
६.०३३.०१५ वानराश्चापरे भीमा राक्षसैरपरैः सह
६.०३३.०१५ द्वन्द्वं समीयुर्बहुधा युद्धाय बहुभिः सह
६.०३३.०१६ तत्रासीत्सुमहद्युद्धं तुमुलं लोमहर्षणम्
६.०३३.०१६ रक्षसां वानराणां च वीराणां जयमिच्छताम्
६.०३३.०१७ हरिराक्षसदेहेभ्यः प्रसृताः केशशाड्वलाः
६.०३३.०१७ शरीरसंघाटवहाः प्रसुस्रुः शोणितापगाः
६.०३३.०१८ आजघानेन्द्रजित्क्रुद्धो वज्रेणेव शतक्रतुः
६.०३३.०१८ अङ्गदं गदया वीरं शत्रुसैन्यविदारणम्
६.०३३.०१९ तस्य काञ्चनचित्राङ्गं रथं साश्वं ससारथिम्
६.०३३.०१९ जघान समरे श्रीमानङ्गदो वेगवान् कपिः
६.०३३.०२० संपातिस्तु त्रिभिर्बाणैः प्रजङ्घेन समाहतः
६.०३३.०२० निजघानाश्वकर्णेन प्रजङ्घं रणमूर्धनि
६.०३३.०२१ जम्बूमाली रथस्थस्तु रथशक्त्या महाबलः
६.०३३.०२१ बिभेद समरे क्रुद्धो हनूमन्तं स्तनान्तरे
६.०३३.०२२ तस्य तं रथमास्थाय हनूमान्मारुतात्मजः
६.०३३.०२२ प्रममाथ तलेनाशु सह तेनैव रक्षसा
६.०३३.०२३ भिन्नगात्रः शरैस्तीक्ष्णैः क्षिप्रहस्तेन रक्षसा
६.०३३.०२३ प्रजघानाद्रिशृङ्गेण तपनं मुष्टिना गजः
६.०३३.०२४ ग्रसन्तमिव सैन्यानि प्रघसं वानराधिपः
६.०३३.०२४ सुग्रीवः सप्तपर्णेन निर्बिभेद जघान च
६.०३३.०२५ प्रपीड्य शरवर्षेण राक्षसं भीमदर्शनम्
६.०३३.०२५ निजघान विरूपाक्षं शरेणैकेन लक्ष्मणः
६.०३३.०२६ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः
६.०३३.०२६ सुप्तिघ्नो यज्ञकोपश्च रामं निर्बिभिदुः शरैः
६.०३३.०२७ तेषां चतुर्णां रामस्तु शिरांसि समरे शरैः
६.०३३.०२७ क्रुद्धश्चतुर्भिश्चिच्छेद घोरैरग्निशिखोपमैः
६.०३३.०२८ वज्रमुष्टिस्तु मैन्देन मुष्टिना निहतो रणे
६.०३३.०२८ पपात सरथः साश्वः पुराट्ट इव भूतले
६.०३३.०२९ वज्राशनिसमस्पर्शो द्विविदोऽप्यशनिप्रभम्
६.०३३.०२९ जघान गिरिशृङ्गेण मिषतां सर्वरक्षसाम्
६.०३३.०३० द्विविदं वानरेन्द्रं तु द्रुमयोधिनमाहवे
६.०३३.०३० शरैरशनिसंकाशैः स विव्याधाशनिप्रभः
६.०३३.०३१ स शरैरतिविद्धाङ्गो द्विविदः क्रोधमूर्छितः
६.०३३.०३१ सालेन सरथं साश्वं निजघानाशनिप्रभम्
६.०३३.०३२ निकुम्भस्तु रणे नीलं नीलाञ्जनचयप्रभम्
६.०३३.०३२ निर्बिभेद शरैस्तीक्ष्णैः करैर्मेघमिवांशुमान्
६.०३३.०३३ पुनः शरशतेनाथ क्षिप्रहस्तो निशाचरः
६.०३३.०३३ बिभेद समरे नीलं निकुम्भः प्रजहास च
६.०३३.०३४ तस्यैव रथचक्रेण नीलो विष्णुरिवाहवे
६.०३३.०३४ शिरश्चिच्छेद समरे निकुम्भस्य च सारथेः
६.०३३.०३५ विद्युन्माली रथस्थस्तु शरैः काञ्चनभूषणैः
६.०३३.०३५ सुषेणं ताडयामास ननाद च मुहुर्मुहुः
६.०३३.०३६ तं रथस्थमथो दृष्ट्वा सुषेणो वानरोत्तमः
६.०३३.०३६ गिरिशृङ्गेण महता रथमाशु न्यपातयत्
६.०३३.०३७ लाघवेन तु संयुक्तो विद्युन्माली निशाचरः
६.०३३.०३७ अपक्रम्य रथात्तूर्णं गदापाणिः क्षितौ स्थितः
६.०३३.०३८ ततः क्रोधसमाविष्टः सुषेणो हरिपुंगवः
६.०३३.०३८ शिलां सुमहतीं गृह्य निशाचरमभिद्रवत्
६.०३३.०३९ तमापतन्तं गदया विद्युन्माली निशाचरः
६.०३३.०३९ वक्षस्यभिजग्नानाशु सुषेणं हरिसत्तमम्
६.०३३.०४० गदाप्रहारं तं घोरमचिन्त्यप्लवगोत्तमः
६.०३३.०४० तां शिलां पातयामास तस्योरसि महामृधे
६.०३३.०४१ शिलाप्रहाराभिहतो विद्युन्माली निशाचरः
६.०३३.०४१ निष्पिष्टहृदयो भूमौ गतासुर्निपपात ह
६.०३३.०४२ एवं तैर्वानरैः शूरैः शूरास्ते रजनीचराः
६.०३३.०४२ द्वन्द्वे विमृदितास्तत्र दैत्या इव दिवौकसैः
६.०३३.०४३ भल्लैः खड्गैर्गदाभिश्च शक्तितोमर पट्टसैः
६.०३३.०४३ अपविद्धश्च भिन्नश्च रथैः सांग्रामिकैर्हयैः
६.०३३.०४४ निहतैः कुञ्जरैर्मत्तैस्तथा वानरराक्षसैः
६.०३३.०४४ चक्राक्षयुगदण्डैश्च भग्नैर्धरणिसंश्रितैः
६.०३३.०४४ बभूवायोधनं घोरं गोमायुगणसेवितम्
६.०३३.०४५ कबन्धानि समुत्पेतुर्दिक्षु वानररक्षसाम्
६.०३३.०४५ विमर्दे तुमुले तस्मिन् देवासुररणोपमे
६.०३३.०४६ विदार्यमाणा हरिपुंगवैस्तदा॑ निशाचराः शोणितदिग्धगात्राः
६.०३३.०४६ पुनः सुयुद्धं तरसा समाश्रिता॑ दिवाकरस्यास्तमयाभिकाङ्क्षिणः
६.०३४.००१ युध्यतामेव तेषां तु तदा वानररक्षसाम्
६.०३४.००१ रविरस्तं गतो रात्रिः प्रवृत्ता प्राणहारिणी
६.०३४.००२ अन्योन्यं बद्धवैराणां घोराणां जयमिच्छताम्
६.०३४.००२ संप्रवृत्तं निशायुद्धं तदा वारणरक्षसाम्
६.०३४.००३ राक्षसोऽसीति हरयो हरिश्चासीति राक्षसाः
६.०३४.००३ अन्योन्यं समरे जघ्नुस्तस्मिंस्तमसि दारुणे
६.०३४.००४ जहि दारय चैतीति कथं विद्रवसीति च
६.०३४.००४ एवं सुतुमुलः शब्दस्तस्मिंस्तमसि शुश्रुवे
६.०३४.००५ कालाः काञ्चनसंनाहास्तस्मिंस्तमसि राक्षसाः
६.०३४.००५ संप्रादृश्यन्त शैलेन्द्रा दीप्तौषधिवना इव
६.०३४.००६ तस्मिंस्तमसि दुष्पारे राक्षसाः क्रोधमूर्छिताः
६.०३४.००६ परिपेतुर्महावेगा भक्षयन्तः प्लवंगमान्
६.०३४.००७ ते हयान् काञ्चनापीडन् ध्वजांश्चाग्निशिखोपमान्
६.०३४.००७ आप्लुत्य दशनैस्तीक्ष्णैर्भीमकोपा व्यदारयन्
६.०३४.००८ कुञ्जरान् कुञ्जरारोहान् पताकाध्वजिनो रथान्
६.०३४.००८ चकर्षुश्च ददंशुश्च दशनैः क्रोधमूर्छिताः
६.०३४.००९ लक्ष्मणश्चापि रामश्च शरैराशीविषोमपैः
६.०३४.००९ दृश्यादृश्यानि रक्षांसि प्रवराणि निजघ्नतुः
६.०३४.०१० तुरंगखुरविध्वस्तं रथनेमिसमुद्धतम्
६.०३४.०१० रुरोध कर्णनेत्राणिण्युध्यतां धरणीरजः
६.०३४.०११ वर्तमाने तथा घोरे संग्रामे लोमहर्षणे
६.०३४.०११ रुधिरोदा महावेगा नद्यस्तत्र प्रसुस्रुवुः
६.०३४.०१२ ततो भेरीमृदङ्गानां पणवानां च निस्वनः
६.०३४.०१२ शङ्खवेणुस्वनोन्मिश्रः संबभूवाद्भुतोपमः
६.०३४.०१३ हतानां स्तनमानानां राक्षसानां च निस्वनः
६.०३४.०१३ शस्त्राणां वानराणां च संबभूवातिदारुणः
६.०३४.०१४ शस्त्रपुष्पोपहारा च तत्रासीद्युद्धमेदिनी
६.०३४.०१४ दुर्ज्ञेया दुर्निवेशा च शोणितास्रवकर्दमा
६.०३४.०१५ सा बभूव निशा घोरा हरिराक्षसहारिणी
६.०३४.०१५ कालरात्रीव भूतानां सर्वेषां दुरतिक्रमा
६.०३४.०१६ ततस्ते राक्षसास्तत्र तस्मिंस्तमसि दारुणे
६.०३४.०१६ राममेवाभ्यधावन्त संहृष्टा शरवृष्टिभिः
६.०३४.०१७ तेषामापततां शब्दः क्रुद्धानामभिगर्जताम्
६.०३४.०१७ उद्वर्त इव सप्तानां समुद्राणामभूत्स्वनः
६.०३४.०१८ तेषां रामः शरैः षड्भिः षड्जघान निशाचरान्
६.०३४.०१८ निमेषान्तरमात्रेण शितैरग्निशिखोपमैः
६.०३४.०१९ यज्ञशत्रुश्च दुर्धर्षो महापार्श्वमहोदरौ
६.०३४.०१९ वज्रदंष्ट्रो महाकायस्तौ चोभौ शुकसारणौ
६.०३४.०२० ते तु रामेण बाणौघः सर्वमर्मसु ताडिताः
६.०३४.०२० युद्धादपसृतास्तत्र सावशेषायुषोऽभवन्
६.०३४.०२१ ततः काञ्चनचित्राङ्गैः शरैरग्निशिखोपमैः
६.०३४.०२१ दिशश्चकार विमलाः प्रदिशश्च महाबलः
६.०३४.०२२ ये त्वन्ये राक्षसा वीरा रामस्याभिमुखे स्थिताः
६.०३४.०२२ तेऽपि नष्टाः समासाद्य पतंगा इव पावकम्
६.०३४.०२३ सुवर्णपुङ्खैर्विशिखैः संपतद्भिः सहस्रशः
६.०३४.०२३ बभूव रजनी चित्रा खद्योतैरिव शारदी
६.०३४.०२४ राक्षसानां च निनदैर्हरीणां चापि गर्जितैः
६.०३४.०२४ सा बभूव निशा घोरा भूयो घोरतरा तदा
६.०३४.०२५ तेन शब्देन महता प्रवृद्धेन समन्ततः
६.०३४.०२५ त्रिकूटः कन्दराकीर्णः प्रव्याहरदिवाचलः
६.०३४.०२६ गोलाङ्गूला महाकायास्तमसा तुल्यवर्चसः
६.०३४.०२६ संपरिष्वज्य बाहुभ्यां भक्षयन् रजनीचरान्
६.०३४.०२७ अङ्गदस्तु रणे शत्रुं निहन्तुं समुपस्थितः
६.०३४.०२७ रावणेर्निजघानाशु सारथिं च हयानपि
६.०३४.०२८ इन्द्रजित्तु रथं त्यक्त्वा हताश्वो हतसारथिः
६.०३४.०२८ अङ्गदेन महामायस्तत्रैवान्तरधीयत
६.०३४.०२९ सोऽन्तर्धान गतः पापो रावणी रणकर्कशः
६.०३४.०२९ ब्रह्मदत्तवरो वीरो रावणिः क्रोधमूर्छितः
६.०३४.०२९ अदृश्यो निशितान् बाणान्मुमोचाशनिवर्चसः
६.०३४.०३० स रामं लक्ष्मणं चैव घोरैर्नागमयैः शरैः
६.०३४.०३० बिभेद समरे क्रुद्धः सर्वगात्रेषु राक्षसः
६.०३५.००१ स तस्य गतिमन्विच्छन् राजपुत्रः प्रतापवान्
६.०३५.००१ दिदेशातिबलो रामो दशवानरयूथपान्
६.०३५.००२ द्वौ सुषेणस्य दायादौ नीलं च प्लवगर्षभम्
६.०३५.००२ अङ्गदं वालिपुत्रं च शरभं च तरस्विनम्
६.०३५.००३ विनतं जाम्बवन्तं च सानुप्रस्थं महाबलम्
६.०३५.००३ ऋषभं चर्षभस्कन्धमादिदेश परंतपः
६.०३५.००४ ते संप्रहृष्टा हरयो भीमानुद्यम्य पादपान्
६.०३५.००४ आकाशं विविशुः सर्वे मार्गामाणा दिशो दश
६.०३५.००५ तेषां वेगवतां वेगमिषुभिर्वेगवत्तरैः
६.०३५.००५ अस्त्रवित्परमास्त्रेण वारयामास रावणिः
६.०३५.००६ तं भीमवेगा हरयो नाराचैः क्षतविक्षताः
६.०३५.००६ अन्धकारे न ददृशुर्मेघैः सूर्यमिवावृतम्
६.०३५.००७ रामलक्ष्मणयोरेव सर्वमर्मभिदः शरान्
६.०३५.००७ भृशमावेशयामास रावणिः समितिंजयः
६.०३५.००८ निरन्तरशरीरौ तु भ्रातरौ रामलक्ष्मणौ
६.०३५.००८ क्रुद्धेनेन्द्रजोता वीरौ पन्नगैः शरतां गतैः
६.०३५.००९ तयोः क्षतजमार्गेण सुस्राव रुधिरं बहु
६.०३५.००९ तावुभौ च प्रकाशेते पुष्पिताविव किंशुकौ
६.०३५.०१० ततः पर्यन्तरक्ताक्षो भिन्नाञ्जनचयोपमः
६.०३५.०१० रावणिर्भ्रातरौ वाक्यमन्तर्धानगतोऽब्रवीत्
६.०३५.०११ युध्यमानमनालक्ष्यं शक्रोऽपि त्रिदशेश्वरः
६.०३५.०११ द्रष्टुमासादितुं वापि न शक्तः किं पुनर्युवाम्
६.०३५.०१२ प्रावृताविषुजालेन राघवौ कङ्कपत्रिणा
६.०३५.०१२ एष रोषपरीतात्मा नयामि यमसादनम्
६.०३५.०१३ एवमुक्त्वा तु धर्मज्ञौ भ्रातरौ रामलक्ष्मणौ
६.०३५.०१३ निर्बिभेद शितैर्बाणैः प्रजहर्ष ननाद च
६.०३५.०१४ भिन्नाञ्जनचयश्यामो विस्फार्य विपुलं धनुः
६.०३५.०१४ भूयो भूयः शरान् घोरान् विससर्ज महामृधे
६.०३५.०१५ ततो मर्मसु मर्मज्ञो मज्जयन्निशिताञ्शरान्
६.०३५.०१५ रामलक्ष्मणयोर्वीरो ननाद च मुहुर्मुहुः
६.०३५.०१६ बद्धौ तु शरबन्धेन तावुभौ रणमूर्धनि
६.०३५.०१६ निमेषान्तरमात्रेण न शेकतुरुदीक्षितुम्
६.०३५.०१७ ततो विभिन्नसर्वाङ्गौ शरशल्याचितावुभौ
६.०३५.०१७ ध्वजाविव महेन्द्रस्य रज्जुमुक्तौ प्रकम्पितौ
६.०३५.०१८ तौ संप्रचलितौ वीरौ मर्मभेदेन कर्शितौ
६.०३५.०१८ निपेततुर्महेष्वासौ जगत्यां जगतीपती
६.०३५.०१९ तौ वीरशयने वीरौ शयानौ रुधिरोक्षितौ
६.०३५.०१९ शरवेष्टितसर्वाङ्गावार्तौ परमपीडितौ
६.०३५.०२० न ह्यविद्धं तयोर्गात्रं बभूवाङ्गुलमन्तरम्
६.०३५.०२० नानिर्भिन्नं न चास्तब्धमा कराग्रादजिह्मगैः
६.०३५.०२१ तौ तु क्रूरेण निहतौ रक्षसा कामरूपिणा
६.०३५.०२१ असृक्सुस्रुवतुस्तीव्रं जलं प्रस्रवणाविव
६.०३५.०२२ पपात प्रथमं रामो विद्धो मर्मसु मार्गणैः
६.०३५.०२२ क्रोधादिन्द्रजिता येन पुरा शक्रो विनिर्जितः
६.०३५.०२३ नारचैरर्धनाराचैर्भल्लैरञ्जलिकैरपि
६.०३५.०२३ विव्याध वत्सदन्तैश्च सिंहदंष्ट्रैः क्षुरैस्तथा
६.०३५.०२४ स वीरशयने शिश्ये विज्यमादाय कार्मुकम्
६.०३५.०२४ भिन्नमुष्टिपरीणाहं त्रिणतं रुक्मभूषितम्
६.०३५.०२५ बाणपातान्तरे रामं पतितं पुरुषर्षभम्
६.०३५.०२५ स तत्र लक्ष्मणो दृष्ट्वा निराशो जीवितेऽभवत्
६.०३५.०२६ बद्धौ तु वीरौ पतितौ शयानौ॑ तौ वानराः संपरिवार्य तस्थुः
६.०३५.०२६ समागता वायुसुतप्रमुख्या॑ विषदमार्ताः परमं च जग्मुः
६.०३६.००१ ततो द्यां पृथिवीं चैव वीक्षमाणा वनौकसः
६.०३६.००१ ददृशुः संततौ बाणैर्भ्रातरौ रामलक्ष्मणौ
६.०३६.००२ वृष्ट्वेवोपरते देवे कृतकर्मणि राक्षसे
६.०३६.००२ आजगामाथ तं देशं ससुग्रीवो विभीषणः
६.०३६.००३ नीलद्विविदमैन्दाश्च सुषेणसुमुखाङ्गदाः
६.०३६.००३ तूर्णं हनुमता सार्धमन्वशोचन्त राघवौ
६.०३६.००४ निश्चेष्टौ मन्दनिःश्वासौ शोणितौघपरिप्लुतौ
६.०३६.००४ शरजालाचितौ स्तब्धौ शयानौ शरतल्पयोः
६.०३६.००५ निःश्वसन्तौ यथा सर्पौ निश्चेष्टौ मन्दविक्रमौ
६.०३६.००५ रुधिरस्रावदिग्धाङ्गौ तापनीयाविव ध्वजौ
६.०३६.००६ तौ वीरशयने वीरौ शयानौ मन्दचेष्टितौ
६.०३६.००६ यूथपैस्तैः परिवृतौ बाष्पव्याकुललोचनैः
६.०३६.००७ राघवौ पतितौ दृष्ट्वा शरजालसमावृतौ
६.०३६.००७ बभूवुर्व्यथिताः सर्वे वानराः सविभीषणाः
६.०३६.००८ अन्तरिक्षं निरीक्षन्तो दिशः सर्वाश्च वानराः
६.०३६.००८ न चैनं मायया छन्नं ददृशू रावणिं रणे
६.०३६.००९ तं तु मायाप्रतिच्छिन्नं माययैव विभीषणः
६.०३६.००९ वीक्षमाणो ददर्शाथ भ्रातुः पुत्रमवस्थितम्
६.०३६.०१० तमप्रतिम कर्माणमप्रतिद्वन्द्वमाहवे
६.०३६.०१० ददर्शान्तर्हितं वीरं वरदानाद्विभीषणः
६.०३६.०११ इन्द्रजित्त्वात्मनः कर्म तौ शयानौ समीक्ष्य च
६.०३६.०११ उवाच परमप्रीतो हर्षयन् सर्वनैरृतान्
६.०३६.०१२ दूषणस्य च हन्तारौ खरस्य च महाबलौ
६.०३६.०१२ सादितौ मामकैर्बाणैर्भ्रातरौ रामलक्ष्मणौ
६.०३६.०१३ नेमौ मोक्षयितुं शक्यावेतस्मादिषुबन्धनात्
६.०३६.०१३ सर्वैरपि समागम्य सर्षिसङ्घैः सुरासुरैः
६.०३६.०१४ यत्कृते चिन्तयानस्य शोकार्तस्य पितुर्मम
६.०३६.०१४ अस्पृष्ट्वा शयनं गात्रैस्त्रियामा याति शर्वती
६.०३६.०१५ कृत्स्नेयं यत्कृते लङ्का नदी वर्षास्विवाकुला
६.०३६.०१५ सोऽयं मूलहरोऽनर्थः सर्वेषां निहतो मया
६.०३६.०१६ रामस्य लक्ष्मणस्यैव सर्वेषां च वनौकसाम्
६.०३६.०१६ विक्रमा निष्फलाः सर्वे यथा शरदि तोयदाः
६.०३६.०१७ एवमुक्त्वा तु तान् सर्वान् राक्षसान् परिपार्श्वगान्
६.०३६.०१७ यूथपानपि तान् सर्वांस्ताडयामास रावणिः
६.०३६.०१८ तानर्दयित्वा बाणौघैस्त्रासयित्वा च वानरान्
६.०३६.०१८ प्रजहास महाबाहुर्वचनं चेदमब्रवीत्
६.०३६.०१९ शरबन्धेन घोरेण मया बद्धौ चमूमुखे
६.०३६.०१९ सहितौ भ्रातरावेतौ निशामयत राक्षसाः
६.०३६.०२० एवमुक्तास्तु ते सर्वे राक्षसाः कूटयोधिनः
६.०३६.०२० परं विस्मयमाजग्मुः कर्मणा तेन तोषिताः
६.०३६.०२१ विनेदुश्च महानादान् सर्वे ते जलदोपमाः
६.०३६.०२१ हतो राम इति ज्ञात्वा रावणिं समपूजयन्
६.०३६.०२२ निष्पन्दौ तु तदा दृष्ट्वा तावुभौ रामलक्ष्मणौ
६.०३६.०२२ वसुधायां निरुच्छ्वासौ हतावित्यन्वमन्यत
६.०३६.०२३ हर्षेण तु समाविष्ट इन्द्रजित्समितिंजयः
६.०३६.०२३ प्रविवेश पुरीं लङ्कां हर्षयन् सर्वनैरृतान्
६.०३६.०२४ रामलक्ष्मणयोर्दृष्ट्वा शरीरे सायकैश्चिते
६.०३६.०२४ सर्वाणि चाङ्गोपाङ्गानि सुग्रीवं भयमाविशत्
६.०३६.०२५ तमुवाच परित्रस्तं वानरेन्द्रं विभीषणः
६.०३६.०२५ सबाष्पवदनं दीनं शोकव्याकुललोचनम्
६.०३६.०२६ अलं त्रासेन सुग्रीव बाष्पवेगो निगृह्यताम्
६.०३६.०२६ एवं प्रायाणि युद्धानि विजयो नास्ति नैष्ठिकः
६.०३६.०२७ सशेषभाग्यतास्माकं यदि वीर भविष्यति
६.०३६.०२७ मोहमेतौ प्रहास्येते भ्रातरौ रामलक्ष्मणौ
६.०३६.०२८ पर्यवस्थापयात्मानमनाथं मां च वानर
६.०३६.०२८ सत्यधर्मानुरक्तानां नास्ति मृत्युकृतं भयम्
६.०३६.०२९ एवमुक्त्वा ततस्तस्य जलक्लिन्नेन पाणिना
६.०३६.०२९ सुग्रीवस्य शुभे नेत्रे प्रममार्ज विभीषणः
६.०३६.०३० प्रमृज्य वदनं तस्य कपिराजस्य धीमतः
६.०३६.०३० अब्रवीत्कालसंप्रातमसंभ्रान्तमिदं वचः
६.०३६.०३१ न कालः कपिराजेन्द्र वैक्लव्यमनुवर्तितुम्
६.०३६.०३१ अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपपद्यते
६.०३६.०३२ तस्मादुत्सृज्य वैक्लव्यं सर्वकार्यविनाशनम्
६.०३६.०३२ हितं रामपुरोगाणां सैन्यानामनुचिन्त्यताम्
६.०३६.०३३ अथ वा रक्ष्यतां रामो यावत्संज्ञा विपर्ययः
६.०३६.०३३ लब्धसंज्ञौ तु काकुत्स्थौ भयं नो व्यपनेष्यतः
६.०३६.०३४ नैतत्किं चन रामस्य न च रामो मुमूर्षति
६.०३६.०३४ न ह्येनं हास्यते लक्ष्मीर्दुर्लभा या गतायुषाम्
६.०३६.०३५ तस्मादाश्वासयात्मानं बलं चाश्वासय स्वकम्
६.०३६.०३५ यावत्सर्वाणि सैन्यानि पुनः संस्थापयाम्यहम्
६.०३६.०३६ एते ह्युत्फुल्लनयनास्त्रासादागतसाध्वसाः
६.०३६.०३६ कर्णे कर्णे प्रकथिता हरयो हरिपुंगव
६.०३६.०३७ मां तु दृष्ट्वा प्रधावन्तमनीकं संप्रहर्षितुम्
६.०३६.०३७ त्यजन्तु हरयस्त्रासं भुक्तपूर्वामिव स्रजम्
६.०३६.०३८ समाश्वास्य तु सुग्रीवं राक्षसेन्द्रो विभीषणः
६.०३६.०३८ विद्रुतं वानरानीकं तत्समाश्वासयत्पुनः
६.०३६.०३९ इन्द्रजित्तु महामायः सर्वसैन्यसमावृतः
६.०३६.०३९ विवेश नगरीं लङ्कां पितरं चाभ्युपागमत्
६.०३६.०४० तत्र रावणमासीनमभिवाद्य कृताञ्जलिः
६.०३६.०४० आचचक्षे प्रियं पित्रे निहतौ रामलक्ष्मणौ
६.०३६.०४१ उत्पपात ततो हृष्टः पुत्रं च परिषस्वजे
६.०३६.०४१ रावणो रक्षसां मध्ये श्रुत्वा शत्रू निपातितौ
६.०३६.०४२ उपाघ्राय स मूर्ध्न्येनं पप्रच्छ प्रीतमानसः
६.०३६.०४२ पृच्छते च यथावृत्तं पित्रे सर्वं न्यवेदयत्
६.०३६.०४३ स हर्षवेगानुगतान्तरात्मा॑ श्रुत्वा वचस्तस्य महारथस्य
६.०३६.०४३ जहौ ज्वरं दाशरथेः समुत्थितं॑ प्रहृष्य वाचाभिननन्द पुत्रम्
६.०३७.००१ प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे
६.०३७.००१ राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः
६.०३७.००२ हनूमानङ्गदो नीलः सुषेणः कुमुदो नलः
६.०३७.००२ गजो गवाक्षो गवयः शरभो गन्धमादनः
६.०३७.००३ जाम्बवानृषभः सुन्दो रम्भः शतबलिः पृथुः
६.०३७.००३ व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः
६.०३७.००४ वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः
६.०३७.००४ तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे
६.०३७.००५ रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम्
६.०३७.००५ आजुहाव ततः सीता रक्षणी राक्षसीस्तदा
६.०३७.००६ राक्षस्यस्त्रिजटा चापि शासनात्तमुपस्थिताः
६.०३७.००६ ता उवाच ततो हृष्टो राक्षसी राक्षसेश्वरः
६.०३७.००७ हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ
६.०३७.००७ पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे
६.०३७.००८ यदाश्रयादवष्टब्धो नेयं मामुपतिष्ठति
६.०३७.००८ सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि
६.०३७.००९ निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली
६.०३७.००९ मामुपस्थास्यते सीता सर्वाभरणभूषिता
६.०३७.०१० अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम्
६.०३७.०१० अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती
६.०३७.०११ तस्य तद्वचनं श्रुत्वा रावणस्य दुरात्मनः
६.०३७.०११ राक्षस्यस्तास्तथेत्युक्त्वा प्रजग्मुर्यत्र पुष्पकम्
६.०३७.०१२ ततः पुष्पकमादय राक्षस्यो रावणाज्ञया
६.०३७.०१२ अशोकवनिकास्थां तां मैथिलीं समुपानयन्
६.०३७.०१३ तामादाय तु राक्षस्यो भर्तृशोकपरायणाम्
६.०३७.०१३ सीतामारोपयामासुर्विमानं पुष्पकं तदा
६.०३७.०१४ ततः पुष्पकमारोप्य सीतां त्रिजटया सह
६.०३७.०१४ रावणोऽकारयल्लङ्कां पताकाध्वजमालिनीम्
६.०३७.०१५ प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः
६.०३७.०१५ राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे
६.०३७.०१६ विमानेनापि सीता तु गत्वा त्रिजटया सह
६.०३७.०१६ ददर्श वानराणां तु सर्वं सिन्यं निपातितम्
६.०३७.०१७ प्रहृष्टमनसश्चापि ददर्श पिशिताशनान्
६.०३७.०१७ वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः
६.०३७.०१८ ततः सीता ददर्शोभौ शयानौ शततल्पयोः
६.०३७.०१८ लक्ष्मणं चैव रामं च विसंज्ञौ शरपीडितौ
६.०३७.०१९ विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ
६.०३७.०१९ सायकैश्छिन्नसर्वाङ्गौ शरस्तम्भमयौ क्षितौ
६.०३७.०२० तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ
६.०३७.०२० दुःखार्ता सुभृशं सीता करुणं विललाप ह
६.०३७.०२१ सा बाष्पशोकाभिहता समीक्ष्य॑ तौ भ्रातरौ देवसमप्रभावौ
६.०३७.०२१ वितर्कयन्ती निधनं तयोः सा॑ दुःखान्विता वाक्यमिदं जगाद
६.०३८.००१ भर्तारं निहतं दृष्ट्वा लक्ष्मणं च महाबलम्
६.०३८.००१ विललाप भृशं सीता करुणं शोककर्शिता
६.०३८.००२ ऊचुर्लक्षणिका ये मां पुत्रिण्यविधवेति च
६.०३८.००२ तेऽस्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः
६.०३८.००३ यज्वनो महिषीं ये मामूचुः पत्नीं च सत्रिणः
६.०३८.००३ तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः
६.०३८.००४ वीरपार्थिवपत्नी त्वं ये धन्येति च मां विदुः
६.०३८.००४ तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः
६.०३८.००५ ऊचुः संश्रवणे ये मां द्विजाः कार्तान्तिकाः शुभाम्
६.०३८.००५ तेऽद्य सर्वे हते रामेऽज्ञानिनोऽनृतवादिनः
६.०३८.००६ इमानि खलु पद्मानि पादयोर्यैः किल स्त्रियः
६.०३८.००६ अधिराज्येऽभिषिच्यन्ते नरेन्द्रैः पतिभिः सह
६.०३८.००७ वैधव्यं यान्ति यैर्नार्योऽलक्षणैर्भाग्यदुर्लभाः
६.०३८.००७ नात्मनस्तानि पश्यामि पश्यन्ती हतलक्षणा
६.०३८.००८ सत्यानीमानि पद्मानि स्त्रीणामुक्त्वानि लक्षणे
६.०३८.००८ तान्यद्य निहते रामे वितथानि भवन्ति मे
६.०३८.००९ केशाः सूक्ष्माः समा नीला भ्रुवौ चासंगते मम
६.०३८.००९ वृत्ते चालोमशे जङ्घे दन्ताश्चाविरला मम
६.०३८.०१० शङ्खे नेत्रे करौ पादौ गुल्फावूरू च मे चितौ
६.०३८.०१० अनुवृत्ता नखाः स्निग्धाः समाश्चाङ्गुलयो मम
६.०३८.०११ स्तनौ चाविरलौ पीनौ ममेमौ मग्नचूचुकौ
६.०३८.०११ मग्ना चोत्सङ्गिनी नाभिः पार्श्वोरस्कं च मे चितम्
६.०३८.०१२ मम वर्णो मणिनिभो मृदून्यङ्गरुहाणि च
६.०३८.०१२ प्रतिष्ठितां द्वदशभिर्मामूचुः शुभलक्षणाम्
६.०३८.०१३ समग्रयवमच्छिद्रं पाणिपादं च वर्णवत्
६.०३८.०१३ मन्दस्मितेत्येव च मां कन्यालक्षणिका विदुः
६.०३८.०१४ अधिराज्येऽभिषेको मे ब्राह्मणैः पतिना सह
६.०३८.०१४ कृतान्तकुशलैरुक्तं तत्सर्वं वितथीकृतम्
६.०३८.०१५ शोधयित्वा जनस्थानं प्रवृत्तिमुपलभ्य च
६.०३८.०१५ तीर्त्वा सागरमक्षोभ्यं भ्रातरौ गोष्पदे हतौ
६.०३८.०१६ ननु वारुणमाग्नेयमैन्द्रं वायव्यमेव च
६.०३८.०१६ अस्त्रं ब्रह्मशिरश्चैव राघवौ प्रत्यपद्यताम्
६.०३८.०१७ अदृश्यमानेन रणे मायया वासवोपमौ
६.०३८.०१७ मम नाथावनाथाया निहतौ रामलक्ष्मणौ
६.०३८.०१८ न हि दृष्टिपथं प्राप्य राघवस्य रणे रिपुः
६.०३८.०१८ जीवन् प्रतिनिवर्तेत यद्यपि स्यान्मनोजवः
६.०३८.०१९ न कालस्यातिभारोऽस्ति कृतान्तश्च सुदुर्जयः
६.०३८.०१९ यत्र रामः सह भ्रात्रा शेते युधि निपाथितः
६.०३८.०२० नाहं शोचामि भर्तारं निहतं न च लक्ष्मणम्
६.०३८.०२० नात्मानं जननी चापि यथा श्वश्रूं तपस्विनीम्
६.०३८.०२१ सा हि चिन्तयते नित्यं समाप्तव्रतमागतम्
६.०३८.०२१ कदा द्रक्ष्यामि सीतां च रामं च सहलक्ष्मणम्
६.०३८.०२२ परिदेवयमानां तां राक्षसी त्रिजटाब्रवीत्
६.०३८.०२२ मा विषादं कृथा देवि भर्तायं तव जीवति
६.०३८.०२३ कारणानि च वक्ष्यामि महान्ति सदृशानि च
६.०३८.०२३ यथेमौ जीवतो देवि भ्रातरौ रामलक्ष्मणौ
६.०३८.०२४ न हि कोपपरीतानि हर्षपर्युत्सुकानि च
६.०३८.०२४ भवन्ति युधि योधानां मुखानि निहते पतौ
६.०३८.०२५ इदं विमानं वैदेहि पुष्पकं नाम नामतः
६.०३८.०२५ दिव्यं त्वां धारयेन्नेदं यद्येतौ गजजीवितौ
६.०३८.०२६ हतवीरप्रधाना हि हतोत्साहा निरुद्यमा
६.०३८.०२६ सेना भ्रमति संख्येषु हतकर्णेव नौर्जले
६.०३८.०२७ इयं पुनरसंभ्रान्ता निरुद्विग्ना तरस्विनी
६.०३८.०२७ सेना रक्षति काकुत्स्थौ मायया निर्जितौ रणे
६.०३८.०२८ सा त्वं भव सुविस्रब्धा अनुमानैः सुखोदयैः
६.०३८.०२८ अहतौ पश्य काकुत्स्थौ स्नेहादेतद्ब्रवीमि ते
६.०३८.०२९ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन
६.०३८.०२९ चारित्रसुखशीलत्वात्प्रविष्टासि मनो मम
६.०३८.०३० नेमौ शक्यौ रणे जेतुं सेन्द्रैरपि सुरासुरैः
६.०३८.०३० एतयोराननं दृष्ट्वा मया चावेदितं तव
६.०३८.०३१ इदं च सुमहच्चिह्नं शनैः पश्यस्व मैथिलि
६.०३८.०३१ निःसंज्ञावप्युभावेतौ नैव लक्ष्मीर्वियुज्यते
६.०३८.०३२ प्रायेण गतसत्त्वानां पुरुषाणां गतायुषाम्
६.०३८.०३२ दृश्यमानेषु वक्त्रेषु परं भवति वैकृतम्
६.०३८.०३३ त्यज शोकं च दुःखं च मोहं च जनकात्मजे
६.०३८.०३३ रामलक्ष्मणयोरर्थे नाद्य शक्यमजीवितुम्
६.०३८.०३४ श्रुत्वा तु वचनं तस्याः सीता सुरसुतोपमा
६.०३८.०३४ कृताञ्जलिरुवाचेदमेवमस्त्विति मैथिली
६.०३८.०३५ विमानं पुष्पकं तत्तु समिवर्त्य मनोजवम्
६.०३८.०३५ दीना त्रिजटया सीता लङ्कामेव प्रवेशिता
६.०३८.०३६ ततस्त्रिजटया सार्धं पुष्पकादवरुह्य सा
६.०३८.०३६ अशोकवनिकामेव रक्षसीभिः प्रवेशिता
६.०३८.०३७ प्रविश्य सीता बहुवृक्षषण्डां॑ तां राक्षसेन्द्रस्य विहारभूमिम्
६.०३८.०३७ संप्रेक्ष्य संचिन्त्य च राजपुत्रौ॑ परं विषादं समुपाजगाम
६.०३९.००१ घोरेण शरबन्धेन बद्धौ दशरथात्मजौ
६.०३९.००१ निश्वसन्तौ यथा नागौ शयानौ रुधिरोक्षितौ
६.०३९.००२ सर्वे ते वानरश्रेष्ठाः ससुग्रीवा महाबलाः
६.०३९.००२ परिवार्य महात्मानौ तस्थुः शोकपरिप्लुताः
६.०३९.००३ एतस्मिन्नन्तेरे रामः प्रत्यबुध्यत वीर्यवान्
६.०३९.००३ स्थिरत्वात्सत्त्वयोगाच्च शरैः संदानितोऽपि सन्
६.०३९.००४ ततो दृष्ट्वा सरुधिरं विषण्णं गाढमर्पितम्
६.०३९.००४ भ्रातरं दीनवदनं पर्यदेवयदातुरः
६.०३९.००५ किं नु मे सीतया कार्यं किं कार्यं जीवितेन वा
६.०३९.००५ शयानं योऽद्य पश्यामि भ्रातरं युधि निर्जितम्
६.०३९.००६ शक्या सीता समा नारी प्राप्तुं लोके विचिन्वता
६.०३९.००६ न लक्ष्मणसमो भ्राता सचिवः साम्परायिकः
६.०३९.००७ परित्यक्ष्याम्यहं प्राणान् वानराणां तु पश्यताम्
६.०३९.००७ यदि पञ्चत्वमापन्नः सुमित्रानन्दवर्धनः
६.०३९.००८ किं नु वक्ष्यामि कौसल्यां मातरं किं नु कैकयीम्
६.०३९.००८ कथमम्बां सुमित्रांच पुत्रदर्शनलालसाम्
६.०३९.००९ विवत्सां वेपमानां च क्रोशन्तीं कुररीमिव
६.०३९.००९ कथमाश्वासयिष्यामि यदि यास्यामि तं विना
६.०३९.०१० कथं वक्ष्यामि शत्रुघ्नं भरतं च यशस्विनम्
६.०३९.०१० मया सह वनं यातो विना तेनागतः पुनः
६.०३९.०११ उपालम्भं न शक्ष्यामि सोढुं बत सुमित्रया
६.०३९.०११ इहैव देहं त्यक्ष्यामि न हि जीवितुमुत्सहे
६.०३९.०१२ धिङ्मां दुष्कृतकर्माणमनार्यं यत्कृते ह्यसौ
६.०३९.०१२ लक्ष्मणः पतितः शेते शरतल्पे गतासुवत्
६.०३९.०१३ त्वं नित्यं सुविषण्णं मामाश्वासयसि लक्ष्मण
६.०३९.०१३ गतासुर्नाद्य शक्नोषि मामार्तमभिभाषितुम्
६.०३९.०१४ येनाद्य बहवो युद्धे राक्षसा निहताः क्षितौ
६.०३९.०१४ तस्यामेव क्षितौ वीरः स शेते निहतः परैः
६.०३९.०१५ शयानः शरतल्पेऽस्मिन् स्वशोणितपरिप्लुतः
६.०३९.०१५ शरजालैश्चितो भाति भास्करोऽस्तमिव व्रजन्
६.०३९.०१६ बाणाभिहतमर्मत्वान्न शक्नोत्यभिवीक्षितुम्
६.०३९.०१६ रुजा चाब्रुवतो ह्यस्य दृष्टिरागेण सूच्यते
६.०३९.०१७ यथैव मां वनं यान्तमनुयातो महाद्युतिः
६.०३९.०१७ अहमप्यनुयास्यामि तथैवैनं यमक्षयम्
६.०३९.०१८ इष्टबन्धुजनो नित्यं मां च नित्यमनुव्रतः
६.०३९.०१८ इमामद्य गतोऽवस्थां ममानार्यस्य दुर्नयैः
६.०३९.०१९ सुरुष्टेनापि वीरेण लक्ष्मणेना न संस्मरे
६.०३९.०१९ परुषं विप्रियं वापि श्रावितं न कदा चन
६.०३९.०२० विससर्जैकवेगेन पञ्चबाणशतानि यः
६.०३९.०२० इष्वस्त्रेष्वधिकस्तस्मात्कार्तवीर्याच्च लक्ष्मणः
६.०३९.०२१ अस्त्रैरस्त्राणि यो हन्याच्छक्रस्यापि महात्मनः
६.०३९.०२१ सोऽयमुर्व्यांहतः शेते महार्हशयनोचितः
६.०३९.०२२ तच्च मिथ्या प्रलप्तं मां प्रधक्ष्यति न संशयः
६.०३९.०२२ यन्मया न कृतो राजा राक्षसानां विभीषणः
६.०३९.०२३ अस्मिन्मुहूर्ते सुग्रीव प्रतियातुमितोऽर्हसि
६.०३९.०२३ मत्वा हीनं मया राजन् रावणोऽभिद्रवेद्बली
६.०३९.०२४ अङ्गदं तु पुरस्कृत्य ससैन्यः ससुहृज्जनः
६.०३९.०२४ सागरं तर सुग्रीव पुनस्तेनैव सेतुना
६.०३९.०२५ कृतं हनुमता कार्यं यदन्यैर्दुष्करं रणे
६.०३९.०२५ ऋक्षराजेन तुष्यामि गोलाङ्गूलाधिपेन च
६.०३९.०२६ अङ्गदेन कृतं कर्म मैन्देन द्विविदेन च
६.०३९.०२६ युद्धं केसरिणा संख्ये घोरं संपातिना कृतम्
६.०३९.०२७ गवयेन गवाक्षेण शरभेण गजेन च
६.०३९.०२७ अन्यैश्च हरिभिर्युद्धं मदार्थे त्यक्तजीवितैः
६.०३९.०२८ न चातिक्रमितुं शक्यं दैवं सुग्रीव मानुषैः
६.०३९.०२८ यत्तु शक्यं वयस्येन सुहृदा वा परंतप
६.०३९.०२८ कृतं सुग्रीव तत्सर्वं भवताधर्मभीरुणा
६.०३९.०२९ मित्रकार्यं कृतमिदं भवद्भिर्वानरर्षभाः
६.०३९.०२९ अनुज्ञाता मया सर्वे यथेष्टं गन्तुमर्हथ
६.०३९.०३० शुश्रुवुस्तस्य ते सर्वे वानराः परिदेवितम्
६.०३९.०३० वर्तयां चक्रुरश्रूणि नेत्रैः कृष्णेतरेक्षणाः
६.०३९.०३१ ततः सर्वाण्यनीकानि स्थापयित्वा विभीषणः
६.०३९.०३१ आजगाम गदापाणिस्त्वरितो यत्र राघवः
६.०३९.०३२ तं दृष्ट्वा त्वरितं यान्तं नीलाञ्जनचयोपमम्
६.०३९.०३२ वानरा दुद्रुवुः सर्वे मन्यमानास्तु रावणिम्
६.०४०.००१ अथोवाच महातेजा हरिराजो महाबलः
६.०४०.००१ किमियं व्यथिता सेना मूढवातेव नौर्जले
६.०४०.००२ सुग्रीवस्य वचः श्रुत्वा वालिपुत्रोऽङ्गदोऽब्रवीत्
६.०४०.००२ न त्वं पश्यसि रामं च लक्ष्मणं च महाबलम्
६.०४०.००३ शरजालाचितौ वीरावुभौ दशरथात्मजौ
६.०४०.००३ शरतल्पे महात्मानौ शयानाउ रुधिरोक्षितौ
६.०४०.००४ अथाब्रवीद्वानरेन्द्रः सुग्रीवः पुत्रमङ्गदम्
६.०४०.००४ नानिमित्तमिदं मन्ये भवितव्यं भयेन तु
६.०४०.००५ विषण्णवदना ह्येते त्यक्तप्रहरणा दिशः
६.०४०.००५ प्रपलायन्ति हरयस्त्रासादुत्फुल्ललोचनाः
६.०४०.००६ अन्योन्यस्य न लज्जन्ते न निरीक्षन्ति पृष्ठतः
६.०४०.००६ विप्रकर्षन्ति चान्योन्यं पतितं लङ्घयन्ति च
६.०४०.००७ एतस्मिन्नन्तरे वीरो गदापाणिर्विभीषणः
६.०४०.००७ सुग्रीवं वर्धयामास राघवं च निरैक्षत
६.०४०.००८ विभीषणं तं सुग्रीवो दृष्ट्वा वानरभीषणम्
६.०४०.००८ ऋक्षराजं समीपस्थं जाम्बवन्तमुवाच ह
६.०४०.००९ विभीषणोऽयं संप्राप्तो यं दृष्ट्वा वानरर्षभाः
६.०४०.००९ विद्रवन्ति परित्रस्ता रावणात्मजशङ्कया
६.०४०.०१० शीघ्रमेतान् सुवित्रस्तान् बहुधा विप्रधावितान्
६.०४०.०१० पर्यवस्थापयाख्याहि विभीषणमुपस्थितम्
६.०४०.०११ सुग्रीवेणैवमुक्तस्तु जाम्बवानृक्षपार्थिवः
६.०४०.०११ वानरान् सान्त्वयामास संनिवर्त्य प्रहावतः
६.०४०.०१२ ते निवृत्ताः पुनः सर्वे वानरास्त्यक्तसंभ्रमाः
६.०४०.०१२ ऋक्षराजवचः श्रुत्वा तं च दृष्ट्वा विभीषणम्
६.०४०.०१३ विभीषणस्तु रामस्य दृष्ट्वा गात्रं शरैश्चितम्
६.०४०.०१३ लक्ष्मणस्य च धर्मात्मा बभूव व्यथितेन्द्रियः
६.०४०.०१४ जलक्लिन्नेन हस्तेन तयोर्नेत्रे प्रमृज्य च
६.०४०.०१४ शोकसंपीडितमना रुरोद विललाप च
६.०४०.०१५ इमौ तौ सत्त्वसंपन्नौ विक्रान्तौ प्रियसंयुगौ
६.०४०.०१५ इमामवस्थां गमितौ राकसैः कूटयोधिभिः
६.०४०.०१६ भ्रातुः पुत्रेण मे तेन दुष्पुत्रेण दुरात्मना
६.०४०.०१६ राक्षस्या जिह्मया बुद्ध्या छलितावृजुविक्रमौ
६.०४०.०१७ शरैरिमावलं विद्धौ रुधिरेण समुक्षितौ
६.०४०.०१७ वसुधायामिम सुप्तौ दृश्येते शल्यकाविव
६.०४०.०१८ ययोर्वीर्यमुपाश्रित्य प्रतिष्ठा काङ्क्षिता मया
६.०४०.०१८ तावुभौ देहनाशाय प्रसुप्तौ पुरुषर्षभौ
६.०४०.०१९ जीवन्नद्य विपन्नोऽस्मि नष्टराज्यमनोरथः
६.०४०.०१९ प्राप्तप्रतिज्ञश्च रिपुः सकामो रावणः कृतः
६.०४०.०२० एवं विलपमानं तं परिष्वज्य विभीषणम्
६.०४०.०२० सुग्रीवः सत्त्वसंपन्नो हरिराजोऽब्रवीदिदम्
६.०४०.०२१ राज्यं प्राप्स्यसि धर्मज्ञ लङ्कायां नात्र संशयः
६.०४०.०२१ रावणः सह पुत्रेण स राज्यं नेह लप्स्यते
६.०४०.०२२ शरसंपीडितावेतावुभौ राघवलक्ष्मणौ
६.०४०.०२२ त्यक्त्वा मोहं वधिष्येते सगणं रावणं रणे
६.०४०.०२३ तमेवं सान्त्वयित्वा तु समाश्वास्य च राक्षसं
६.०४०.०२३ सुषेणं श्वशुरं पार्श्वे सुग्रीवस्तमुवाच ह
६.०४०.०२४ सह शूरैर्हरिगणैर्लब्धसंज्ञावरिंदमौ
६.०४०.०२४ गच्छ त्वं भ्रातरौ गृह्य किष्किन्धां रामलक्ष्मणौ
६.०४०.०२५ अहं तु रावणं हत्वा सपुत्रं सहबान्धवम्
६.०४०.०२५ मैथिलीमानयिष्यामि शक्रो नष्टामिव श्रियम्
६.०४०.०२६ श्रुत्वैतद्वानरेन्द्रस्य सुषेणो वाक्यमब्रवीत्
६.०४०.०२६ देवासुरं महायुद्धमनुभूतं सुदारुणम्
६.०४०.०२७ तदा स्म दानवा देवाञ्शरसंस्पर्शकोविदाः
६.०४०.०२७ निजघ्नुः शस्त्रविदुषश्छादयन्तो मुहुर्मुहुः
६.०४०.०२८ तानार्तान्नष्टसंज्ञांश्च परासूंश्च बृहस्पतिः
६.०४०.०२८ विध्याभिर्मन्त्रयुक्ताभिरोषधीभिश्चिकित्सति
६.०४०.०२९ तान्यौषधान्यानयितुं क्षीरोदं यान्तु सागरम्
६.०४०.०२९ जवेन वानराः शीघ्रं संपाति पनसादयः
६.०४०.०३० हरयस्तु विजानन्ति पार्वती ते महौषधी
६.०४०.०३० संजीवकरणीं दिव्यां विशल्यां देवनिर्मिताम्
६.०४०.०३१ चन्द्रश्च नाम द्रोणश्च पर्वतौ सागरोत्तमे
६.०४०.०३१ अमृतं यत्र मथितं तत्र ते परमौषधी
६.०४०.०३२ ते तत्र निहिते देवैः पर्वते परमौषधी
६.०४०.०३२ अयं वायुसुतो राजन् हनूमांस्तत्र गच्छतु
६.०४०.०३३ एतस्मिन्नन्तरे वायुर्मेघांश्चापि सविद्युतः
६.०४०.०३३ पर्यस्यन् सागरे तोयं कम्पयन्निव पर्वतान्
६.०४०.०३४ महता पक्षवातेन सर्वे द्वीपमहाद्रुमाः
६.०४०.०३४ निपेतुर्भग्नविटपाः समूला लवणाम्भसि
६.०४०.०३५ अभवन् पन्नगास्त्रस्ता भोगिनस्तत्रवासिनः
६.०४०.०३५ शीघ्रं सर्वाणि यादांसि जग्मुश्च लवणार्णवम्
६.०४०.०३६ ततो मुहूर्तद्गरुडं वैनतेयं महाबलम्
६.०४०.०३६ वानरा ददृशुः सर्वे ज्वलन्तमिव पावकम्
६.०४०.०३७ तमागतमभिप्रेक्ष्य नागास्ते विप्रदुद्रुवुः
६.०४०.०३७ यैस्तौ सत्पुरुषौ बद्धौ शरभूतैर्महाबलौ
६.०४०.०३८ ततः सुपर्णः काकुत्स्थौ दृष्ट्वा प्रत्यभिनन्द्य च
६.०४०.०३८ विममर्श च पाणिभ्यां मुखे चन्द्रसमप्रभे
६.०४०.०३९ वैनतेयेन संस्पृष्टास्तयोः संरुरुहुर्व्रणाः
६.०४०.०३९ सुवर्णे च तनू स्निग्धे तयोराशु बभूवतुः
६.०४०.०४० तेजो वीर्यं बलं चौज उत्साहश्च महागुणाः
६.०४०.०४० प्रदर्शनं च बुद्धिश्च स्मृतिश्च द्विगुणं तयोः
६.०४०.०४१ तावुत्थाप्य महावीर्यौ गरुडो वासवोपमौ
६.०४०.०४१ उभौ तौ सस्वजे हृष्टौ रामश्चैनमुवाच ह
६.०४०.०४२ भवत्प्रसादाद्व्यसनं रावणिप्रभवं महत्
६.०४०.०४२ आवामिह व्यतिक्रान्तौ शीघ्रं च बलिनौ कृतौ
६.०४०.०४३ यथा तातं दशरथं यथाजं च पितामहम्
६.०४०.०४३ तथा भवन्तमासाद्य हृषयं मे प्रसीदति
६.०४०.०४४ को भवान् रूपसंपन्नो दिव्यस्रगनुलेपनः
६.०४०.०४४ वसानो विरजे वस्त्रे दिव्याभरणभूषितः
६.०४०.०४५ तमुवाच महातेजा वैनतेयो महाबलः
६.०४०.०४५ पतत्रिराजः प्रीतात्मा हर्षपर्याकुलेक्षणः
६.०४०.०४६ अहं सखा ते काकुत्स्थ प्रियः प्राणो बहिश्चरः
६.०४०.०४६ गरुत्मानिह संप्राप्तो युवयोः साह्यकारणात्
६.०४०.०४७ असुरा वा महावीर्या दानवा वा महाबलाः
६.०४०.०४७ सुराश्चापि सगन्धर्वाः पुरस्कृत्य शतक्रतुम्
६.०४०.०४८ नेमं मोक्षयितुं शक्ताः शरबन्धं सुदारुणम्
६.०४०.०४८ माया बलादिन्द्रजिता निर्मितं क्रूरकर्मणा
६.०४०.०४९ एते नागाः काद्रवेयास्तीक्ष्णदंष्ट्राविषोल्बणाः
६.०४०.०४९ रक्षोमाया प्रभावेन शरा भूत्वा त्वदाश्रिताः
६.०४०.०५० सभाग्यश्चासि धर्मज्ञ राम सत्यपराक्रम
६.०४०.०५० लक्ष्मणेन सह भ्रात्रा समरे रिपुघातिना
६.०४०.०५१ इमं श्रुत्वा तु वृत्तान्तं त्वरमाणोऽहमागतः
६.०४०.०५१ सहसा युवयोः स्नेहात्सखित्वमनुपालयन्
६.०४०.०५२ मोक्षितौ च महाघोरादस्मात्सायकबन्धनात्
६.०४०.०५२ अप्रमादश्च कर्तव्यो युवाभ्यां नित्यमेव हि
६.०४०.०५३ प्रकृत्या राक्षसाः सर्वे संग्रामे कूटयोधिनः
६.०४०.०५३ शूराणां शुद्धभावानां भवतामार्जवं बलम्
६.०४०.०५४ तन्न विश्वसितव्यं वो राक्षसानां रणाजिरे
६.०४०.०५४ एतेनैवोपमानेन नित्यजिह्मा हि राक्षसाः
६.०४०.०५५ एवमुक्त्वा ततो रामं सुपर्णः सुमहाबलः
६.०४०.०५५ परिष्वज्य सुहृत्स्निग्धमाप्रष्टुमुपचक्रमे
६.०४०.०५६ सखे राघव धर्मज्ञ रिपूणामपि वत्सल
६.०४०.०५६ अभ्यनुज्ञातुमिच्छामि गमिष्यामि यथागतम्
६.०४०.०५७ बालवृद्धावशेषां तु लङ्कां कृत्वा शरोर्मिभिः
६.०४०.०५७ रावणं च रिपुं हत्वा सीतां समुपलप्स्यसे
६.०४०.०५८ इत्येवमुक्त्वा वचनं सुपर्णः शीघ्रविक्रमः
६.०४०.०५८ रामं च विरुजं कृत्वा मध्ये तेषां वनौकसाम्
६.०४०.०५९ प्रदक्षिणं ततः कृत्वा परिष्वज्य च वीर्यवान्
६.०४०.०५९ जगामाकाशमाविश्य सुपर्णः पवनो यथा
६.०४०.०६० विरुजौ राघवौ दृष्ट्वा ततो वानरयूथपाः
६.०४०.०६० सिंहनादांस्तदा नेदुर्लाङ्गूलं दुधुवुश्च ते
६.०४०.०६१ ततो भेरीः समाजघ्नुर्मृदङ्गांश्च व्यनादयन्
६.०४०.०६१ दध्मुः शङ्खान् संप्रहृष्टाः क्ष्वेलन्त्यपि यथापुरम्
६.०४०.०६२ आस्फोट्यास्फोट्य विक्रान्ता वानरा नगयोधिनः
६.०४०.०६२ द्रुमानुत्पाट्य विविधांस्तस्थुः शतसहस्रशः
६.०४०.०६३ विसृजन्तो महानादांस्त्रासयन्तो निशाचरान्
६.०४०.०६३ लङ्काद्वाराण्युपाजग्मुर्योद्धुकामाः प्लवंगमाः
६.०४०.०६४ ततस्तु भीमस्तुमुलो निनादो॑ बभूव शाखामृगयूथपानाम्
६.०४०.०६४ क्षये निदाघस्य यथा घनानां॑ नादः सुभीमो नदतां निशीथे
६.०४१.००१ तेषां सुतुमुलं शब्दं वानराणां तरस्विनाम्
६.०४१.००१ नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः
६.०४१.००२ स्निग्धगम्भीरनिर्घोषं श्रुत्वा स निनदं भृशम्
६.०४१.००२ सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्
६.०४१.००३ यथासौ संप्रहृष्टानां वानराणां समुत्थितः
६.०४१.००३ बहूनां सुमहान्नादो मेघानामिव गर्जताम्
६.०४१.००४ व्यक्तं सुमहती प्रीतिरेतेषां नात्र संशयः
६.०४१.००४ तथा हि विपुलैर्नादैश्चुक्षुभे वरुणालयः
६.०४१.००५ तौ तु बद्धौ शरैस्तीष्क्णैर्भ्रातरौ रामलक्ष्मणौ
६.०४१.००५ अयं च सुमहान्नादः शङ्कां जनयतीव मे
६.०४१.००६ एतत्तु वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः
६.०४१.००६ उवाच नैरृतांस्तत्र समीपपरिवर्तिनः
६.०४१.००७ ज्ञायतां तूर्णमेतषां सर्वेषां वनचारिणाम्
६.०४१.००७ शोककाले समुत्पन्ने हर्षकारणमुत्थितम्
६.०४१.००८ तथोक्तास्तेन संभ्रान्ताः प्राकारमधिरुह्य ते
६.०४१.००८ ददृशुः पालितां सेनां सुग्रीवेण महात्मना
६.०४१.००९ तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ
६.०४१.००९ समुत्थितौ महाभागौ विषेदुः प्रेक्ष्य राक्षसाः
६.०४१.०१० संत्रस्तहृदया सर्वे प्राकारादवरुह्य ते
६.०४१.०१० विषण्णवदनाः सर्वे राक्षसेन्द्रमुपस्थिताः
६.०४१.०११ तदप्रियं दीनमुखा रावणस्य निशाचराः
६.०४१.०११ कृत्स्नं निवेदयामासुर्यथावद्वाक्यकोविदाः
६.०४१.०१२ यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ
६.०४१.०१२ निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ
६.०४१.०१३ विमुक्तौ शरबन्धेन तौ दृश्येते रणाजिरे
६.०४१.०१३ पाशानिव गजाउ छित्त्वा गजेन्द्रसमविक्रमौ
६.०४१.०१४ तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः
६.०४१.०१४ चिन्ताशोकसमाक्रान्तो विषण्णवदनोऽब्रवीत्
६.०४१.०१५ घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोमपैः
६.०४१.०१५ अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि
६.०४१.०१६ तमस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम
६.०४१.०१६ संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्
६.०४१.०१७ निष्फलाः खलु संवृत्ताः शरा वासुकितेजसः
६.०४१.०१७ आदत्तं यैस्तु संग्रामे रिपूणां मम जीवितम्
६.०४१.०१८ एवमुक्त्वा तु संक्रुद्धो निश्वसन्नुरगो यथा
६.०४१.०१८ अब्रवीद्रक्षसां मध्ये धूम्राक्षं नाम राकसं
६.०४१.०१९ बलेन महता युक्तो रक्षसां भीमकर्मणाम्
६.०४१.०१९ त्वं वधायाभिनिर्याहि रामस्य सह वानरैः
६.०४१.०२० एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता
६.०४१.०२० कृत्वा प्रणामं संहृष्टो निर्जगाम नृपालयात्
६.०४१.०२१ अभिनिष्क्रम्य तद्द्वारं बलाध्यक्षमुवाच ह
६.०४१.०२१ त्वरयस्व बलं तूर्णं किं चिरेण युयुत्सतः
६.०४१.०२२ धूम्राक्षस्य वचः श्रुत्वा बलाध्यक्षो बलानुगः
६.०४१.०२२ बलमुद्योजयामास रावणस्याज्ञया द्रुतम्
६.०४१.०२३ ते बद्धघण्टा बलिनो घोररूपा निशाचराः
६.०४१.०२३ विनर्दमानाः संहृष्टा धूम्राक्षं पर्यवारयन्
६.०४१.०२४ विविधायुधहस्ताश्च शूलमुद्गरपाणयः
६.०४१.०२४ गदाभिः पट्टसैर्दण्डैरायसैर्मुसलैर्भृशम्
६.०४१.०२५ परिघैर्भिण्डिपालैश्च भल्लैः प्रासैः परश्वधैः
६.०४१.०२५ निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा
६.०४१.०२६ रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः
६.०४१.०२६ सुवर्णजालविहितैः खरैश्च विविधाननैः
६.०४१.०२७ हयैः परमशीघ्रैश्च गजेन्द्रैश्च मदोत्कटैः
६.०४१.०२७ निर्ययू राक्षसव्याघ्रा व्याघ्रा इव दुरासदाः
६.०४१.०२८ वृकसिंहमुखैर्युक्तं खरैः कनकभूषणैः
६.०४१.०२८ आरुरोह रथं दिव्यं धूम्राक्षः खरनिस्वनः
६.०४१.०२९ स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः
६.०४१.०२९ प्रहसन् पश्चिमद्वारं हनूमान् यत्र यूथपः
६.०४१.०३० प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्
६.०४१.०३० अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यवारयन्
६.०४१.०३१ रथशीर्षे महाभीमो गृध्रश्च निपपात ह
६.०४१.०३१ ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः
६.०४१.०३२ रुधिरार्द्रो महाञ्श्वेतः कबन्धः पतितो भुवि
६.०४१.०३२ विस्वरं चोत्सृजन्नादं धूम्राक्षस्य समीपतः
६.०४१.०३३ ववर्ष रुधिरं देवः संचचाल च मेदिनी
६.०४१.०३३ प्रतिलोमं ववौ वायुर्निर्घातसमनिस्वनः
६.०४१.०३३ तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे
६.०४१.०३४ स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्
६.०४१.०३४ प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्
६.०४१.०३५ ततः सुभीमो बहुभिर्निशाचरैर्॑ वृतोऽभिनिष्क्रम्य रणोत्सुको बली
६.०४१.०३५ ददर्श तां राघवबाहुपालितां॑ समुद्रकल्पां बहुवानरीं चमूम्
६.०४२.००१ धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमनिस्वनम्
६.०४२.००१ विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः
६.०४२.००२ तेषां तु तुमुलं युद्धं संजज्ञे हरिरक्षसाम्
६.०४२.००२ अन्योन्यं पादपैर्घोरैर्निघ्नतं शूलमुद्गरैः
६.०४२.००३ राक्षसैर्वानरा घोरा विनिकृत्ताः समन्ततः
६.०४२.००३ वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः
६.०४२.००४ राक्षसाश्चापि संक्रुद्धा वानरान्निशितैः शरैः
६.०४२.००४ विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः
६.०४२.००५ ते गदाभिश्च भीमाभिः पट्टसैः कूटमुद्गरैः
६.०४२.००५ घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संशितैः
६.०४२.००६ विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः
६.०४२.००६ अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत्
६.०४२.००७ शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः
६.०४२.००७ जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः
६.०४२.००८ ते भीमवेगा हरयो नर्दमानास्ततस्ततः
६.०४२.००८ ममन्थू राक्षसान् भीमान्नामानि च बभाषिरे
६.०४२.००९ तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम्
६.०४२.००९ शिलाभिर्विविधाभिश्च बहुशाखैश्च पादपैः
६.०४२.०१० राक्षसा मथिताः के चिद्वानरैर्जितकाशिभिः
६.०४२.०१० ववर्षू रुधिरं के चिन्मुखै रुधिरभोजनाः
६.०४२.०११ पार्श्वेषु दारिताः के चित्के चिद्राशीकृता द्रुमैः
६.०४२.०११ शिलाभिश्चूर्णिताः के चित्के चिद्दन्तैर्विदारिताः
६.०४२.०१२ ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः
६.०४२.०१२ रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः
६.०४२.०१३ वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः
६.०४२.०१३ राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः
६.०४२.०१४ विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः
६.०४२.०१४ मूढाः शोणितगन्धेन निपेतुर्धरणीतले
६.०४२.०१५ नये तु परमक्रुद्धा राक्षसा भीमविक्रमाः
६.०४२.०१५ तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन्
६.०४२.०१६ वनरैरापतन्तस्ते वेगिता वेगवत्तरैः
६.०४२.०१६ मुष्टिभिश्चरणैर्दन्तैः पादपैश्चापपोथिताः
६.०४२.०१७ सन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः
६.०४२.०१७ क्रोधेन कदनं चक्रे वानराणां युयुत्सताम्
६.०४२.०१८ प्रासैः प्रमथिताः के चिद्वानराः शोणितस्रवाः
६.०४२.०१८ मुद्गरैराहताः के चित्पतिता धरणीतले
६.०४२.०१९ परिघैर्मथितः के चिद्भिण्डिपालैर्विदारिताः
६.०४२.०१९ पट्टसैराहताः के चिद्विह्वलन्तो गतासवः
६.०४२.०२० के चिद्विनिहता भूमौ रुधिरार्द्रा वनौकसः
६.०४२.०२० के चिद्विद्राविता नष्टाः संक्रुद्धै राक्षसैर्युधि
६.०४२.०२१ विभिन्नहृदयाः के चिदेकपार्श्वेन शायिताः
६.०४२.०२१ विदारितास्त्रशूलै च के चिदान्त्रैर्विनिस्रुताः
६.०४२.०२२ तत्सुभीमं महद्युद्धं हरिराकस संकुलम्
६.०४२.०२२ प्रबभौ शस्त्रबहुलं शिलापादपसंकुलम्
६.०४२.०२३ धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम्
६.०४२.०२३ मन्द्रस्तनितसंगीतं युद्धगान्धर्वमाबभौ
६.०४२.०२४ धूम्राक्षस्तु धनुष्पाणिर्वानरान् रणमूर्धनि
६.०४२.०२४ हसन् विद्रावयामास दिशस्ताञ्शरवृष्टिभिः
६.०४२.०२५ धूम्राक्षेणार्दितं सैन्यं व्यथितं दृश्य मारुतिः
६.०४२.०२५ अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम्
६.०४२.०२६ क्रोधाद्द्विगुणताम्राक्षः पितृतुल्यपराक्रमः
६.०४२.०२६ शिलां तां पातयामास धूम्राक्षस्य रथं प्रति
६.०४२.०२७ आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात्
६.०४२.०२७ रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत
६.०४२.०२८ सा प्रमथ्य रथं तस्य निपपात शिलाभुवि
६.०४२.०२८ सचक्रकूबरं साश्वं सध्वजं सशरासनम्
६.०४२.०२९ स भङ्क्त्वा तु रथं तस्य हनूमान्मारुतात्मजः
६.०४२.०२९ रक्षसां कदनं चक्रे सस्कन्धविटपैर्द्रुमैः
६.०४२.०३० विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः
६.०४२.०३० द्रुमैः प्रमथिताश्चान्ये निपेतुर्धरणीतले
६.०४२.०३१ विद्राव्य राक्षसं सैन्यं हनूमान्मारुतात्मजः
६.०४२.०३१ गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे
६.०४२.०३२ तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान्
६.०४२.०३२ विनर्दमानः सहसा हनूमन्तमभिद्रवत्
६.०४२.०३३ ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम्
६.०४२.०३३ पातयामास धूम्राक्षो मस्तके तु हनूमतः
६.०४२.०३४ ताडितः स तया तत्र गदया भीमरूपया
६.०४२.०३४ स कपिर्मारुतबलस्तं प्रहारमचिन्तयन्
६.०४२.०३४ धूम्राक्षस्य शिरो मध्ये गिरिशृङ्गमपातयत्
६.०४२.०३५ स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः
६.०४२.०३५ पपात सहसा भूमौ विकीर्ण इव पर्वतः
६.०४२.०३६ धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः
६.०४२.०३६ त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवंगमैः
६.०४२.०३७ स तु पवनसुतो निहत्य शत्रुं॑ क्षतजवहाः सरितश्च संविकीर्य
६.०४२.०३७ रिपुवधजनितश्रमो महात्मा॑ मुदमगमत्कपिभिश्च पूज्यमानः
६.०४३.००१ धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः
६.०४३.००१ बलाध्यक्षमुवाचेदं कृताञ्जलिमुपस्थितम्
६.०४३.००२ शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः
६.०४३.००२ अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम्
६.०४३.००३ ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः
६.०४३.००३ निष्पेतू राक्षसा मुख्या बलाध्यक्षप्रचोदिताः
६.०४३.००४ रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः
६.०४३.००४ राकसैः संवृतो घोरैस्तदा निर्यात्यकम्पनः
६.०४३.००५ न हि कम्पयितुं शक्यः सुरैरपि महामृधे
६.०४३.००५ अकम्पनस्ततस्तेषामादित्य इव तेजसा
६.०४३.००६ तस्य निधावमानस्य संरब्धस्य युयुत्सया
६.०४३.००६ अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम्
६.०४३.००७ व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः
६.०४३.००७ विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वरः
६.०४३.००८ अभवत्सुदिने चापि दुर्दिने रूक्षमारुतम्
६.०४३.००८ ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः
६.०४३.००९ स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः
६.०४३.००९ तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम्
६.०४३.०१० तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः
६.०४३.०१० बभूव सुमहान्नादः क्षोभयन्निव सागरम्
६.०४३.०११ तेन शब्देन वित्रस्ता वानराणां महाचमूः
६.०४३.०११ द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत
६.०४३.०१२ तेषां युद्धं महारौद्रं संजज्ञे कपिरक्षसाम्
६.०४३.०१२ रामरावणयोरर्थे समभित्यक्तजीविनाम्
६.०४३.०१३ सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसंनिभाः
६.०४३.०१३ हरयो राक्षसाश्चैव परस्परजिघंसवः
६.०४३.०१४ तेषां विनर्दातां शब्दः संयुगेऽतितरस्विनाम्
६.०४३.०१४ शुश्रुवे सुमहान् क्रोधादन्योन्यमभिगर्जताम्
६.०४३.०१५ रजश्चारुणवर्णाभं सुभीममभवद्भृशम्
६.०४३.०१५ उद्धूतं हरिरक्षोभिः संरुरोध दिशो दश
६.०४३.०१६ अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना
६.०४३.०१६ संवृतानि च भूतानि ददृशुर्न रणाजिरे
६.०४३.०१७ न ध्वजो न पताकावा वर्म वा तुरगोऽपि वा
६.०४३.०१७ आयुधं स्यन्दनं वापि ददृशे तेन रेणुना
६.०४३.०१८ शब्दश्च सुमहांस्तेषां नर्दतामभिधावताम्
६.०४३.०१८ श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे
६.०४३.०१९ हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे
६.०४३.०१९ राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा
६.०४३.०२० परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः
६.०४३.०२० रुधिरार्द्रं तदा चक्रुर्महीं पङ्कानुलेपनाम्
६.०४३.०२१ ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः
६.०४३.०२१ शरीरशवसंकीर्णा बभूव च वसुंधरा
६.०४३.०२२ द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः
६.०४३.०२२ हरयो राक्षसास्तूर्णं जघ्नुरन्योन्यमोजसा
६.०४३.०२३ बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः
६.०४३.०२३ हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहवे
६.०४३.०२४ राक्षसाश्चापि संक्रुद्धाः प्रासतोमरपाणयः
६.०४३.०२४ कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः
६.०४३.०२५ हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः
६.०४३.०२५ विदारयन्त्यभिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः
६.०४३.०२६ एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः
६.०४३.०२६ मैन्दश्च परमक्रुद्धश्चक्रुर्वेगमनुत्तमम्
६.०४३.०२७ ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे
६.०४३.०२७ कदनं सुमह चक्रुर्लीलया हरियूथपाः
६.०४४.००१ तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः
६.०४४.००१ क्रोधमाहारयामास युधि तीव्रमकम्पनः
६.०४४.००२ क्रोधमूर्छितरूपस्तु ध्नुवन् परमकार्मुकम्
६.०४४.००२ दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत्
६.०४४.००३ तत्रैव तावत्त्वरितं रथं प्रापय सारथे
६.०४४.००३ एतेऽत्र बहवो घ्नन्ति सुबहून् राक्षसान् रणे
६.०४४.००४ एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः
६.०४४.००४ द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम
६.०४४.००५ एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्
६.०४४.००५ एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम्
६.०४४.००६ ततः प्रजविताश्वेन रथेन रथिनां वरः
६.०४४.००६ हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः
६.०४४.००७ न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे
६.०४४.००७ अकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः
६.०४४.००८ तान्मृत्युवशमापन्नानकम्पनवशं गतान्
६.०४४.००८ समीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः
६.०४४.००९ तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः
६.०४४.००९ समेत्य समरे वीराः सहिताः पर्यवारयन्
६.०४४.०१० व्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः
६.०४४.०१० बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः
६.०४४.०११ अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्
६.०४४.०११ महेन्द्र इव धाराभिः शरैरभिववर्ष ह
६.०४४.०१२ अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान्
६.०४४.०१२ अकम्पनवधार्थाय मनो दध्रे महाबलः
६.०४४.०१३ स प्रहस्य महातेजा हनूमान्मारुतात्मजः
६.०४४.०१३ अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम्
६.०४४.०१४ तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा
६.०४४.०१४ बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः
६.०४४.०१५ आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः
६.०४४.०१५ शैलमुत्पाटयामास वेगेन हरिपुंगवः
६.०४४.०१६ तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः
६.०४४.०१६ विनद्य सुमहानादं भ्रामयामास वीर्यवान्
६.०४४.०१७ ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्
६.०४४.०१७ यथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः
६.०४४.०१८ अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम्
६.०४४.०१८ दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत्
६.०४४.०१९ तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम्
६.०४४.०१९ विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूर्छितः
६.०४४.०२० सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः
६.०४४.०२० तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम्
६.०४४.०२१ तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः
६.०४४.०२१ प्रहस्य परया प्रीत्या भ्रामयामास संयुगे
६.०४४.०२२ प्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान्
६.०४४.०२२ हनूमान् परमक्रुद्धश्चरणैर्दारयत्क्षितिम्
६.०४४.०२३ गजांश्च सगजारोहान् सरथान् रथिनस्तथा
६.०४४.०२३ जघान हनुमान् धीमान् राक्षसांश्च पदातिकान्
६.०४४.०२४ तमन्तकमिव क्रुद्धं समरे प्राणहारिणम्
६.०४४.०२४ हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः
६.०४४.०२५ तमापतन्तं संक्रुद्धं राक्षसानां भयावहम्
६.०४४.०२५ ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च
६.०४४.०२६ स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः
६.०४४.०२६ निर्बिभेद हनूमन्तं महावीर्यमकम्पनः
६.०४४.०२७ स तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः
६.०४४.०२७ हनूमान् ददृशे वीरः प्ररूढ इव सानुमान्
६.०४४.०२८ ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम्
६.०४४.०२८ शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम्
६.०४४.०२९ स वृक्षेण हतस्तेन सक्रोधेन महात्मना
६.०४४.०२९ राक्षसो वानरेन्द्रेण पपात स ममार च
६.०४४.०३० तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्
६.०४४.०३० व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः
६.०४४.०३१ त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः
६.०४४.०३१ लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः
६.०४४.०३२ ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः
६.०४४.०३२ स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः
६.०४४.०३३ अन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात्
६.०४४.०३३ पृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः
६.०४४.०३४ तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः
६.०४४.०३४ समेत्य हरयः सर्वे हनूमन्तमपूजयन्
६.०४४.०३५ सोऽपि प्रहृष्टस्तान् सर्वान् हरीन् संप्रत्यपूजयत्
६.०४४.०३५ हनूमान् सत्त्वसंपन्नो यथार्हमनुकूलतः
६.०४४.०३६ विनेदुश्च यथा प्राणं हरयो जितकाशिनः
६.०४४.०३६ चकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान्
६.०४४.०३७ स वीरशोभामभजन्महाकपिः॑ समेत्य रक्षांसि निहत्य मारुतिः
६.०४४.०३७ महासुरं भीमममित्रनाशनं॑ यथैव विष्णुर्बलिनं चमूमुखे
६.०४४.०३८ अपूजयन् देवगणास्तदा कपिं॑ स्वयं च रामोऽतिबलश्च लक्ष्मणः
६.०४४.०३८ तथैव सुग्रीवमुखाः प्लवंगमा॑ विभीषणश्चैव महाबलस्तदा
६.०४५.००१ अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः
६.०४५.००१ किं चिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत
६.०४५.००२ स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च
६.०४५.००२ पुरीं परिययौ लङ्कां सर्वान् गुल्मानवेक्षितुम्
६.०४५.००३ तां राक्षसगणैर्गुप्तां गुल्मैर्बहुभिरावृताम्
६.०४५.००३ ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम्
६.०४५.००४ रुद्धां तु नगरीं दृष्ट्वा रावणो राक्षसेश्वरः
६.०४५.००४ उवाचामर्षितः काले प्रहस्तं युद्धकोविदम्
६.०४५.००५ पुरस्योपनिविष्टस्य सहसा पीडितस्य च
६.०४५.००५ नान्यं युद्धात्प्रपश्यामि मोक्षं युद्धविशारद
६.०४५.००६ अहं वा कुम्भकर्णो वा त्वं वा सेनापतिर्मम
६.०४५.००६ इन्द्रजिद्वा निकुम्भो वा वहेयुर्भारमीदृशम्
६.०४५.००७ स त्वं बलमितः शीघ्रमादाय परिगृह्य च
६.०४५.००७ विजयायाभिनिर्याहि यत्र सर्वे वनौकसः
६.०४५.००८ निर्याणादेव ते नूनं चपला हरिवाहिनी
६.०४५.००८ नर्दतां राक्षसेन्द्राणां श्रुत्वा नादं द्रविष्यति
६.०४५.००९ चपला ह्यविनीताश्च चलचित्ताश्च वानराः
६.०४५.००९ न सहिष्यन्ति ते नादं सिंहनादमिव द्विपाः
६.०४५.०१० विद्रुते च बले तस्मिन् रामः सौमित्रिणा सह
६.०४५.०१० अवशस्ते निरालम्बः प्रहस्तवशमेष्यति
६.०४५.०११ आपत्संशयिता श्रेयो नात्र निःसंशयीकृता
६.०४५.०११ प्रतिलोमानुलोमं वा यद्वा नो मन्यसे हितम्
६.०४५.०१२ रावणेनैवमुक्तस्तु प्रहस्तो वाहिनीपतिः
६.०४५.०१२ राक्षसेन्द्रमुवाचेदमसुरेन्द्रमिवोशना
६.०४५.०१३ राजन्मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः
६.०४५.०१३ विवादश्चापि नो वृत्तः समवेक्ष्य परस्परम्
६.०४५.०१४ प्रदानेन तु सीतायाः श्रेयो व्यवसितं मया
६.०४५.०१४ अप्रदाने पुनर्युद्धं दृष्टमेतत्तथैव नः
६.०४५.०१५ सोऽहं दानैश्च मानैश्च सततं पूजितस्त्वया
६.०४५.०१५ सान्त्वैश्च विविधैः काले किं न कुर्यां प्रियं तव
६.०४५.०१६ न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा
६.०४५.०१६ त्वं पश्य मां जुहूषन्तं त्वदर्थे जीवितं युधि
६.०४५.०१७ एवमुक्त्वा तु भर्तारं रावणं वाहिनीपतिः
६.०४५.०१७ समानयत मे शीघ्रं राक्षसानां महद्बलम्
६.०४५.०१८ मद्बाणाशनिवेगेन हतानां तु रणाजिरे
६.०४५.०१८ अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम्
६.०४५.०१९ इत्युक्तास्ते प्रहस्तेन बलाध्यक्षाः कृतत्वराः
६.०४५.०१९ बलमुद्योजयामासुस्तस्मिन् राक्षसमन्दिरे
६.०४५.०२० सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः
६.०४५.०२० लङ्का राक्षसवीरैस्तैर्गजैरिव समाकुला
६.०४५.०२१ हुताशनं तर्पयतां ब्राह्मणांश्च नमस्यताम्
६.०४५.०२१ आज्यगन्धप्रतिवहः सुरभिर्मारुतो ववौ
६.०४५.०२२ स्रजश्च विविधाकारा जगृहुस्त्वभिमन्त्रिताः
६.०४५.०२२ संग्रामसज्जाः संहृष्टा धारयन् राक्षसास्तदा
६.०४५.०२३ सधनुष्काः कवचिनो वेगादाप्लुत्य राक्षसाः
६.०४५.०२३ रावणं प्रेक्ष्य राजानं प्रहस्तं पर्यवारयन्
६.०४५.०२४ अथामन्त्र्य च राजानं भेरीमाहत्य भैरवाम्
६.०४५.०२४ आरुरोह रथं दिव्यं प्रहस्तः सज्जकल्पितम्
६.०४५.०२५ हयैर्महाजवैर्युक्तं सम्यक्सूतसुसंयुतम्
६.०४५.०२५ महाजलदनिर्घोषं साक्षाच्चन्द्रार्कभास्वरम्
६.०४५.०२६ उरगध्वजदुर्धर्षं सुवरूथं स्वपस्करम्
६.०४५.०२६ सुवर्णजालसंयुक्तं प्रहसन्तमिव श्रिया
६.०४५.०२७ ततस्तं रथमास्थाय रावणार्पितशासनः
६.०४५.०२७ लङ्काया निर्ययौ तूर्णं बलेन महता वृतः
६.०४५.०२८ ततो दुंदुभिनिर्घोषः पर्जन्यनिनदोपमः
६.०४५.०२८ शुश्रुवे शङ्खशब्दश्च प्रयाते वाहिनीपतौ
६.०४५.०२९ निनदन्तः स्वरान् घोरान् राक्षसा जग्मुरग्रतः
६.०४५.०२९ भीमरूपा महाकायाः प्रहस्तस्य पुरःसराः
६.०४५.०३० व्यूढेनैव सुघोरेण पूर्वद्वारात्स निर्ययौ
६.०४५.०३० गजयूथनिकाशेन बलेन महता वृतः
६.०४५.०३१ सागरप्रतिमौघेन वृतस्तेन बलेन सः
६.०४५.०३१ प्रहस्तो निर्ययौ तूर्णं क्रुद्धः कालान्तकोपमः
६.०४५.०३२ तस्य निर्याण घोषेण राक्षसानां च नर्दताम्
६.०४५.०३२ लङ्कायां सर्वभूतानि विनेदुर्विकृतैः स्वरैः
६.०४५.०३३ व्यभ्रमाकाशमाविश्य मांसशोणितभोजनाः
६.०४५.०३३ मण्डलान्यपसव्यानि खगाश्चक्रू रथं प्रति
६.०४५.०३४ वमन्त्यः पावकज्वालाः शिवा घोरा ववाशिरे
६.०४५.०३५ अन्तरिक्षात्पपातोल्का वायुश्च परुषो ववौ
६.०४५.०३५ अन्योन्यमभिसंरब्धा ग्रहाश्च न चकाशिरे
६.०४५.०३६ ववर्षू रुधिरं चास्य सिषिचुश्च पुरःसरान्
६.०४५.०३६ केतुमूर्धनि गृध्रोऽस्य विलीनो दक्षिणामुखः
६.०४५.०३७ सारथेर्बहुशश्चास्य संग्राममवगाहतः
६.०४५.०३७ प्रतोदो न्यपतद्धस्तात्सूतस्य हयसादिनः
६.०४५.०३८ निर्याण श्रीश्च यास्यासीद्भास्वरा च सुदुर्लभा
६.०४५.०३८ सा ननाश मुहूर्तेन समे च स्खलिता हयाः
६.०४५.०३९ प्रहस्तं त्वभिनिर्यान्तं प्रख्यात बलपौरुषम्
६.०४५.०३९ युधि नानाप्रहरणा कपिसेनाभ्यवर्तत
६.०४५.०४० अथ घोषः सुतुमुलो हरीणां समजायत
६.०४५.०४० वृक्षानारुजतां चैव गुर्वीश्चागृह्णतां शिलाः
६.०४५.०४१ उभे प्रमुदिते सैन्ये रक्षोगणवनौकसाम्
६.०४५.०४१ वेगितानां समर्थानामन्योन्यवधकाङ्क्षिणाम्
६.०४५.०४१ परस्परं चाह्वयतां निनादः श्रूयते महान्
६.०४५.०४२ ततः प्रहस्तः कपिराजवाहिनीम्॑ अभिप्रतस्थे विजयाय दुर्मतिः
६.०४५.०४२ विवृद्धवेगां च विवेश तां चमूं॑ यथा मुमूर्षुः शलभो विभावसुम्
६.०४६.००१ ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्
६.०४६.००१ गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम्
६.०४६.००२ ददर्श महती सेना वानराणां बलीयसाम्
६.०४६.००२ अतिसंजातरोषाणां प्रहस्तमभिगर्जताम्
६.०४६.००३ खड्गशक्त्यष्टिबाणाश्च शूलानि मुसलानि च
६.०४६.००३ गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः
६.०४६.००४ धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्
६.०४६.००४ प्रगृहीतान्यशोभन्त वानरानभिधावताम्
६.०४६.००५ जगृहुः पादपांश्चापि पुष्पितान् वानरर्षभाः
६.०४६.००५ शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवंगमाः
६.०४६.००६ तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत्
६.०४६.००६ बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम्
६.०४६.००७ बहवो राक्षसा युद्धे बहून् वानरयूथपान्
६.०४६.००७ वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून्
६.०४६.००८ शूलैः प्रमथिताः के चित्के चित्तु परमायुधैः
६.०४६.००८ परिघैराहताः के चित्के चिच्छिन्नाः परश्वधैः
६.०४६.००९ निरुच्छ्वासाः पुनः के चित्पतिता धरणीतले
६.०४६.००९ विभिन्नहृदयाः के चिदिषुसंतानसंदिताः
६.०४६.०१० के चिद्द्विधाकृताः खड्गैः स्फुरन्तः पतिता भुवि
६.०४६.०१० वानरा राक्षसैः शूलैः पार्श्वतश्च विदारिताः
६.०४६.०११ वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः
६.०४६.०११ पादपैर्गिरिशृङ्गैश्च संपिष्टा वसुधातले
६.०४६.०१२ वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम्
६.०४६.०१२ वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणः
६.०४६.०१३ आर्तस्वरं च स्वनतां सिंहनादं च नर्दताम्
६.०४६.०१३ बभूव तुमुलः शब्दो हरीणां रक्षसां युधि
६.०४६.०१४ वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः
६.०४६.०१४ विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत्
६.०४६.०१५ नरान्तकः कुम्भहनुर्महानादः समुन्नतः
६.०४६.०१५ एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः
६.०४६.०१६ तेषामापततां शीघ्रं निघ्नतां चापि वानरान्
६.०४६.०१६ द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्
६.०४६.०१७ दुर्मुखः पुनरुत्पाट्य कपिः स विपुलद्रुमम्
६.०४६.०१७ राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत्
६.०४६.०१८ जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्
६.०४६.०१८ पातयामास तेजस्वी महानादस्य वक्षसि
६.०४६.०१९ अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्
६.०४६.०१९ वृक्षेणाभिहतो मूर्ध्नि प्राणांस्तत्याज राक्षसः
६.०४६.०२० अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः
६.०४६.०२० चकार कदनं घोरं धनुष्पाणिर्वनौकसाम्
६.०४६.०२१ आवर्त इव संजज्ञे उभयोः सेनयोस्तदा
६.०४६.०२१ क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः
६.०४६.०२२ महता हि शरौघेण प्रहस्तो युद्धकोविदः
६.०४६.०२२ अर्दयामास संक्रुद्धो वानरान् परमाहवे
६.०४६.०२३ वानराणां शरीरैस्तु राक्षसानां च मेदिनी
६.०४६.०२३ बभूव निचिता घोरा पतितैरिव पर्वतैः
६.०४६.०२४ सा महीरुधिरौघेण प्रच्छन्ना संप्रकाशते
६.०४६.०२४ संछन्ना माधवे मासि पलाशैरिव पुष्पितैः
६.०४६.०२५ हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्
६.०४६.०२५ शोणितौघमहातोयां यमसागरगामिनीम्
६.०४६.०२६ यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्
६.०४६.०२६ भिन्नकायशिरोमीनामङ्गावयवशाड्वलाम्
६.०४६.०२७ गृध्रहंसगणाकीर्णां कङ्कसारससेविताम्
६.०४६.०२७ मेधःफेनसमाकीर्णामार्तस्तनितनिस्वनाम्
६.०४६.०२८ तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्
६.०४६.०२८ नदीमिव घनापाये हंससारससेविताम्
६.०४६.०२९ राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम्
६.०४६.०२९ यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः
६.०४६.०३० ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्
६.०४६.०३० ददर्श तरसा नीलो विनिघ्नन्तं प्लवंगमान्
६.०४६.०३१ स तं परमदुर्धर्षमापतन्तं महाकपिः
६.०४६.०३१ प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान्
६.०४६.०३२ स तेनाभिहतः क्रुद्धो नदन् राक्षसपुंगवः
६.०४६.०३२ ववर्ष शरवर्षाणि प्लवगानां चमूपतौ
६.०४६.०३३ अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः
६.०४६.०३३ यथैव गोवृषो वर्षं शारदं शीघ्रमागतम्
६.०४६.०३४ एवमेव प्रहस्तस्य शरवर्षं दुरासदम्
६.०४६.०३४ निमीलिताक्षः सहसा नीलः सेहे सुदारुणम्
६.०४६.०३५ रोषितः शरवर्षेण सालेन महता महान्
६.०४६.०३५ प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान्
६.०४६.०३६ विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः
६.०४६.०३६ प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे
६.०४६.०३७ तावुभौ वाहिनीमुख्यौ जातरोषौ तरस्विनौ
६.०४६.०३७ स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ
६.०४६.०३८ उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्
६.०४६.०३८ सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ
६.०४६.०३९ विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ
६.०४६.०३९ काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ
६.०४६.०४० आजघान तदा नीलं ललाटे मुसलेन सः
६.०४६.०४० प्रहस्तः परमायस्तस्तस्य सुस्राव शोणितम्
६.०४६.०४१ ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम्
६.०४६.०४१ प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः
६.०४६.०४२ तमचिन्त
्यप्रहारं स प्रगृह्य मुसलं महत्
६.०४६.०४२ अभिदुद्राव बलिनं बली नीलं प्लवंगमम्
६.०४६.०४३ तमुग्रवेगं संरब्धमापतन्तं महाकपिः
६.०४६.०४३ ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम्
६.०४६.०४४ तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः
६.०४६.०४४ प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत्
६.०४६.०४५ सा तेन कपिमुख्येन विमुक्ता महती शिला
६.०४६.०४५ बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा
६.०४६.०४६ स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः
६.०४६.०४६ पपात सहसा भूमौ छिन्नमूल इव द्रुमः
६.०४६.०४७ विभिन्नशिरसस्तस्य बहु सुस्रावशोणितम्
६.०४६.०४७ शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा
६.०४६.०४८ हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम्
६.०४६.०४८ रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह
६.०४६.०४९ न शेकुः समवस्थातुं निहते वाहिनीपतौ
६.०४६.०४९ सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा
६.०४६.०५० हते तस्मिंश्चमूमुख्ये राक्षसस्ते निरुद्यमाः
६.०४६.०५० रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः
६.०४६.०५१ ततस्तु नीलो विजयी महाबलः॑ प्रशस्यमानः स्वकृतेन कर्मणा
६.०४६.०५१ समेत्य रामेण सलक्ष्मणेन॑ प्रहृष्टरूपस्तु बभूव यूथपः
६.०४७.००१ तस्मिन् हते राक्षससैन्यपाले॑ प्लवंगमानामृषभेण युद्धे
६.०४७.००१ भीमायुधं सागरतुल्यवेगं॑ प्रदुद्रुवे राक्षसराजसैन्यम्
६.०४७.००२ गत्वा तु रक्षोऽधिपतेः शशंसुः॑ सेनापतिं पावकसूनुशस्तम्
६.०४७.००२ तच्चापि तेषां वचनं निशम्य॑ रक्षोऽधिपः क्रोधवशं जगाम
६.०४७.००३ संख्ये प्रहस्तं निहतं निशम्य॑ शोकार्दितः क्रोधपरीतचेताः
६.०४७.००३ उवाच तान्नैरृतयोधमुख्यान्॑ इन्द्रो यथा चामरयोधमुख्यान्
६.०४७.००४ नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः
६.०४७.००४ सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः
६.०४७.००५ सोऽहं रिपुविनाशाय विजयायाविचारयन्
६.०४७.००५ स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम्
६.०४७.००६ अद्य तद्वानरानीकं रामं च सहलक्ष्मणम्
६.०४७.००६ निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः
६.०४७.००७ स एवमुक्त्वा ज्वलनप्रकाशं॑ रथं तुरंगोत्तमराजियुक्तम्
६.०४७.००७ प्रकाशमानं वपुषा ज्वलन्तं॑ समारुरोहामरराजशत्रुः
६.०४७.००८ स शङ्खभेरीपटह प्रणादैर्॑ आस्फोटितक्ष्वेडितसिंहनादैः
६.०४७.००८ पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्॑ तदा ययौ राक्षसराजमुख्यः
६.०४७.००९ स शैलजीमूतनिकाश रूपैर्॑ मांसाशनैः पावकदीप्तनेत्रैः
६.०४७.००९ बभौ वृतो राक्षसराजमुख्यैर्॑ भूतैर्वृतो रुद्र इवामरेशः
६.०४७.०१० ततो नगर्याः सहसा महौजा॑ निष्क्रम्य तद्वानरसैन्यमुग्रम्
६.०४७.०१० महार्णवाभ्रस्तनितं ददर्श॑ समुद्यतं पादपशैलहस्तम्
६.०४७.०११ तद्राक्षसानीकमतिप्रचण्डम्॑ आलोक्य रामो भुजगेन्द्रबाहुः
६.०४७.०११ विभीषणं शस्त्रभृतां वरिष्ठम्॑ उवाच सेनानुगतः पृथुश्रीः
६.०४७.०१२ नानापताकाध्वजशस्त्रजुष्टं॑ प्रासासिशूलायुधचक्रजुष्टम्
६.०४७.०१२ सैन्यं नगेन्द्रोपमनागजुष्टं॑ कस्येदमक्षोभ्यमभीरुजुष्टम्
६.०४७.०१३ ततस्तु रामस्य निशम्य वाक्यं॑ विभीषणः शक्रसमानवीर्यः
६.०४७.०१३ शशंस रामस्य बलप्रवेकं॑ महात्मनां राक्षसपुंगवानाम्
६.०४७.०१४ योऽसौ गजस्कन्धगतो महात्मा॑ नवोदितार्कोपमताम्रवक्त्रः
६.०४७.०१४ प्रकम्पयन्नागशिरोऽभ्युपैति ह्य्॑ अकम्पनं त्वेनमवेहि राजन्
६.०४७.०१५ योऽसौ रथस्थो मृगराजकेतुर्॑ धून्वन् धनुः शक्रधनुःप्रकाशम्
६.०४७.०१५ करीव भात्युग्रविवृत्तदंष्ट्रः॑ स इन्द्रजिन्नाम वरप्रधानः
६.०४७.०१६ यश्चैष विन्ध्यास्तमहेन्द्रकल्पो॑ धन्वी रथस्थोऽतिरथोऽतिवीर्यः
६.०४७.०१६ विस्फारयंश्चापमतुल्यमानं॑ नाम्नातिकायोऽतिविवृद्धकायः
६.०४७.०१७ योऽसौ नवार्कोदितताम्रचक्षुर्॑ आरुह्य घण्टानिनदप्रणादम्
६.०४७.०१७ गजं खरं गर्जति वै महात्मा॑ महोदरो नाम स एष वीरः
६.०४७.०१८ योऽसौ हयं काञ्चनचित्रभाण्डम्॑ आरुह्य संध्याभ्रगिरिप्रकाशम्
६.०४७.०१८ प्रासं समुद्यम्य मरीचिनद्धं॑ पिशाच एषाशनितुल्यवेगः
६.०४७.०१९ यश्चैष शूलं निशितं प्रगृह्य॑ विद्युत्प्रभं किंकरवज्रवेगम्
६.०४७.०१९ वृषेन्द्रमास्थाय गिरिप्रकाशम्॑ आयाति सोऽसौ त्रिशिरा यशस्वी
६.०४७.०२० असौ च जीमूतनिकाश रूपः॑ कुम्भः पृथुव्यूढसुजातवक्षाः
६.०४७.०२० समाहितः पन्नगराजकेतुर्॑ विस्फारयन् भाति धनुर्विधून्वन्
६.०४७.०२१ यश्चैष जाम्बूनदवज्रजुष्टं॑ दीप्तं सधूमं परिघं प्रगृह्य
६.०४७.०२१ आयाति रक्षोबलकेतुभूतः॑ सोऽसौ निकुम्भोऽद्भुतघोरकर्मा
६.०४७.०२२ यश्चैष चापासिशरौघजुष्टं॑ पताकिनं पावकदीप्तरूपम्
६.०४७.०२२ रथं समास्थाय विभात्युदग्रो॑ नरान्तकोऽसौ नगशृङ्गयोधी
६.०४७.०२३ यश्चैष नानाविधघोररूपैर्॑ व्याघ्रोष्ट्रनागेन्द्रमृगेन्द्रवक्त्रैः
६.०४७.०२३ भूतैर्वृतो भाति विवृत्तनेत्रैः॑ सोऽसौ सुराणामपि दर्पहन्ता
६.०४७.०२४ यत्रैतदिन्दुप्रतिमं विभातिच्॑ छत्त्रं सितं सूक्ष्मशलाकमग्र्यम्
६.०४७.०२४ अत्रैष रक्षोऽधिपतिर्महात्मा॑ भूतैर्वृतो रुद्र इवावभाति
६.०४७.०२५ असौ किरीटी चलकुण्डलास्यो॑ नागेन्द्रविन्ध्योपमभीमकायः
६.०४७.०२५ महेन्द्रवैवस्वतदर्पहन्ता॑ रक्षोऽधिपः सूर्य इवावभाति
६.०४७.०२६ प्रत्युवाच ततो रामो विभीषणमरिंदमम्
६.०४७.०२६ अहो दीप्तो महातेजा रावणो राक्षसेश्वरः
६.०४७.०२७ आदित्य इव दुष्प्रेक्ष्यो रश्मिभिर्भाति रावणः
६.०४७.०२७ सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम्
६.०४७.०२८ देवदानववीराणां वपुर्नैवंविधं भवेत्
६.०४७.०२८ यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते
६.०४७.०२९ सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः
६.०४७.०२९ सर्वे दीप्तायुधधरा योधश्चास्य महौजसः
६.०४७.०३० भाति राक्षसराजोऽसौ प्रदीप्तैर्भीमविक्रमैः
६.०४७.०३० भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः
६.०४७.०३१ एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान्
६.०४७.०३१ लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम्
६.०४७.०३२ ततः स रक्षोऽधिपतिर्महात्मा॑ रक्षांसि तान्याह महाबलानि
६.०४७.०३२ द्वारेषु चर्यागृहगोपुरेषु॑ सुनिर्वृतास्तिष्ठत निर्विशङ्काः
६.०४७.०३३ विसर्जयित्वा सहसा ततस्तान्॑ गतेषु रक्षःसु यथानियोगम्
६.०४७.०३३ व्यदारयद्वानरसागरौघं॑ महाझषः पूर्ममिवार्णवौघम्
६.०४७.०३४ तमापतन्तं सहसा समीक्ष्य॑ दीप्तेषुचापं युधि राक्षसेन्द्रम्
६.०४७.०३४ महत्समुत्पाट्य महीधराग्रं॑ दुद्राव रक्षोऽधिपतिं हरीशः
६.०४७.०३५ तच्छैलशृङ्गं बहुवृक्षसानुं॑ प्रगृह्य चिक्षेप निशाचराय
६.०४७.०३५ तमापतन्तं सहसा समीक्ष्य॑ बिभेद बाणैस्तपनीयपुङ्खैः
६.०४७.०३६ तस्मिन् प्रवृद्धोत्तमसानुवृक्षे॑ शृङ्गे विकीर्णे पतिते पृथिव्याम्
६.०४७.०३६ महाहिकल्पं शरमन्तकाभं॑ समाददे राक्षसलोकनाथः
६.०४७.०३७ स तं गृहीत्वानिलतुल्यवेगं॑ सविस्फुलिङ्गज्वलनप्रकाशम्
६.०४७.०३७ बाणं महेन्द्राशनितुल्यवेगं॑ चिक्षेप सुग्रीववधाय रुष्टः
६.०४७.०३८ स सायको रावणबाहुमुक्तः॑ शक्राशनिप्रख्यवपुः शिताग्रः
६.०४७.०३८ सुग्रीवमासाद्य बिभेद वेगाद्॑ गुहेरिता क्रौचमिवोग्रशक्तिः
६.०४७.०३९ स सायकार्तो विपरीतचेताः॑ कूजन् पृथिव्यां निपपात वीरः
६.०४७.०३९ तं प्रेक्ष्य भूमौ पतितं विसंज्मं॑ नेदुः प्रहृष्टा युधि यातुधानाः
६.०४७.०४० ततो गवाक्षो गवयः सुदंष्ट्रस्॑ तथर्षभो ज्योतिमुखो नलश्च
६.०४७.०४० शैलान् समुद्यम्य विवृद्धकायाः॑ प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम्
६.०४७.०४१ तेषां प्रहारान् स चकार मेघान्॑ रक्षोऽधिपो बाणगणैः शिताग्रैः
६.०४७.०४१ तान् वानरेन्द्रानपि बाणजालैर्॑ बिभेद जाम्बूनदचित्रपुङ्खैः
६.०४७.०४२ ते वानरेन्द्रास्त्रिदशारिबाणैर्॑ भिन्ना निपेतुर्भुवि भीमरूपाः
६.०४७.०४२ ततस्तु तद्वानरसैन्यमुग्रं॑ प्रच्छादयामास स बाणजालैः
६.०४७.०४३ ते वध्यमानाः पतिताग्र्यवीरा॑ नानद्यमाना भयशल्यविद्धाः
६.०४७.०४३ शाखामृगा रावणसायकार्ता॑ जग्मुः शरण्यं शरणं स्म रामम्
६.०४७.०४४ ततो महात्मा स धनुर्धनुष्मान्॑ आदाय रामः सहरा जगाम
६.०४७.०४४ तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य॑ उवाच वाक्यं परमार्थयुक्तम्
६.०४७.०४५ काममार्यः सुपर्याप्तो वधायास्य दुरात्मनः
६.०४७.०४५ विधमिष्याम्यहं नीचमनुजानीहि मां विभो
६.०४७.०४६ तमब्रवीन्महातेजा रामः सत्यपराक्रमः
६.०४७.०४६ गच्छ यत्नपरश्चापि भव लक्ष्मण संयुगे
६.०४७.०४७ रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः
६.०४७.०४७ त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः
६.०४७.०४८ तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च गोपय
६.०४७.०४८ चक्षुषा धनुषा यत्नाद्रक्षात्मानं समाहितः
६.०४७.०४९ राघवस्य वचः श्रुत्वा संपरिष्वज्य पूज्य च
६.०४७.०४९ अभिवाद्य ततो रामं ययौ सौमित्रिराहवम्
६.०४७.०५० स रावणं वारणहस्तबाहुर्॑ ददर्श दीप्तोद्यतभीमचापम्
६.०४७.०५० प्रच्छादयन्तं शरवृष्टिजालैस्॑ तान् वानरान् भिन्नविकीर्णदेहान्
६.०४७.०५१ तमालोक्य महातेजा हनूमान्मारुतात्मजा
६.०४७.०५१ निवार्य शरजालानि प्रदुद्राव स रावणम्
६.०४७.०५२ रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम्
६.०४७.०५२ त्रासयन् रावणं धीमान् हनूमान् वाक्यमब्रवीत्
६.०४७.०५३ देवदानवगन्धर्वा यक्षाश्च सह राक्षसैः
६.०४७.०५३ अवध्यत्वात्त्वया भग्ना वानरेभ्यस्तु ते भयम्
६.०४७.०५४ एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः
६.०४७.०५४ विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम्
६.०४७.०५५ श्रुत्वा हनूमतो वाक्यं रावणो भीमविक्रमः
६.०४७.०५५ संरक्तनयनः क्रोधादिदं वचनमब्रवीत्
६.०४७.०५६ क्षिप्रं प्रहर निःशङ्कं स्थिरां कीर्तिमवाप्नुहि
६.०४७.०५६ ततस्त्वां ज्ञातिविक्रान्तं नाशयिष्यामि वानर
६.०४७.०५७ रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत्
६.०४७.०५७ प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव
६.०४७.०५८ एवमुक्तो महातेजा रावणो राक्षसेश्वरः
६.०४७.०५८ आजघानानिलसुतं तलेनोरसि वीर्यवान्
६.०४७.०५९ स तलाभिहतस्तेन चचाल च मुहुर्मुहुः
६.०४७.०५९ आजघानाभिसंक्रुद्धस्तलेनैवामरद्विषम्
६.०४७.०६० ततस्तलेनाभिहतो वानरेण महात्मना
६.०४७.०६० दशग्रीवः समाधूतो यथा भूमिचलेऽचलः
६.०४७.०६१ संग्रामे तं तथा दृष्ट्व रावणं तलताडितम्
६.०४७.०६१ ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुराः
६.०४७.०६२ अथाश्वस्य महातेजा रावणो वाक्यमब्रवीत्
६.०४७.०६२ साधु वानरवीर्येण श्लाघनीयोऽसि मे रिपुः
६.०४७.०६३ रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत्
६.०४७.०६३ धिगस्तु मम वीर्यं तु यत्त्वं जीवसि रावण
६.०४७.०६४ सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे
६.०४७.०६४ ततस्त्वां मामको मुष्टिर्नयिष्यामि यथाक्षयम्
६.०४७.०६४ ततो मारुतिवाक्येन क्रोधस्तस्य तदाज्वलत्
६.०४७.०६५ संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम्
६.०४७.०६५ पातयामास वेगेन वानरोरसि वीर्यवान्
६.०४७.०६५ हनूमान् वक्षसि व्यूधे संचचाल हतः पुनः
६.०४७.०६६ विह्वलं तं तदा दृष्ट्वा हनूमन्तं महाबलम्
६.०४७.०६६ रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात्
६.०४७.०६७ पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः
६.०४७.०६७ शरैरादीपयामास नीलं हरिचमूपतिम्
६.०४७.०६८ स शरौघसमायस्तो नीलः कपिचमूपतिः
६.०४७.०६८ करेणैकेन शैलाग्रं रक्षोऽधिपतयेऽसृजत्
६.०४७.०६९ हनूमानपि तेजस्वी समाश्वस्तो महामनाः
६.०४७.०६९ विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत्
६.०४७.०७० नीलेन सह संयुक्तं रावणं राक्षसेश्वरम्
६.०४७.०७० अन्येन युध्यमानस्य न युक्तमभिधावनम्
६.०४७.०७१ रावणोऽपि महातेजास्तच्छृङ्गं सप्तभिः शरैः
६.०४७.०७१ आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह
६.०४७.०७२ तद्विकीर्णं गिरेः शृङ्गं दृष्ट्वा हरिचमूपतिः
६.०४७.०७२ कालाग्निरिव जज्वाल क्रोधेन परवीरहा
६.०४७.०७३ सोऽश्वकर्णान् धवान् सालांश्चूतांश्चापि सुपुष्पितान्
६.०४७.०७३ अन्यांश्च विविधान् वृक्षान्नीलश्चिक्षेप संयुगे
६.०४७.०७४ स तान् वृक्षान् समासाद्य प्रतिचिच्छेद रावणः
६.०४७.०७४ अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम्
६.०४७.०७५ अभिवृष्टः शरौघेण मेघेनेव महाचलः
६.०४७.०७५ ह्रस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह
६.०४७.०७६ पावकात्मजमालोक्य ध्वजाग्रे समवस्थितम्
६.०४७.०७६ जज्वाल रावणः क्रोधात्ततो नीलो ननाद ह
६.०४७.०७७ ध्वजाग्रे धनुषश्चाग्रे किरीटाग्रे च तं हरिम्
६.०४७.०७७ लक्ष्मणोऽथ हनूमांश्च दृष्ट्वा रामश्च विस्मिताः
६.०४७.०७८ रावणोऽपि महातेजाः कपिलाघवविस्मितः
६.०४७.०७८ अस्त्रमाहारयामास दीप्तमाग्नेयमद्भुतम्
६.०४७.०७९ ततस्ते चुक्रुशुर्हृष्टा लब्धलक्ष्याः प्लवंगमाः
६.०४७.०७९ नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे
६.०४७.०८० वानराणां च नादेन संरब्धो रावणस्तदा
६.०४७.०८० संभ्रमाविष्टहृदयो न किं चित्प्रत्यपद्यत
६.०४७.०८१ आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम्
६.०४७.०८१ ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः
६.०४७.०८२ ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः
६.०४७.०८२ कपे लाघवयुक्तोऽसि मायया परयानया
६.०४७.०८३ जीवितं खलु रक्षस्व यदि शक्नोषि वानर
६.०४७.०८३ तानि तान्यात्मरूपाणि सृजसे त्वमनेकशः
६.०४७.०८४ तथापि त्वां मया मुक्तः सायकोऽस्त्रप्रयोजितः
६.०४७.०८४ जीवितं परिरक्षन्तं जीविताद्भ्रंशयिष्यति
६.०४७.०८५ एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः
६.०४७.०८५ संधाय बाणमस्त्रेण चमूपतिमताडयत्
६.०४७.०८६ सोऽस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः
६.०४७.०८६ निर्दह्यमानः सहसा निपपात महीतले
६.०४७.०८७ पितृमाहात्म्य संयोगादात्मनश्चापि तेजसा
६.०४७.०८७ जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत
६.०४७.०८८ विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः
६.०४७.०८८ रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे
६.०४७.०८९ तमाह सौमित्रिरदीनसत्त्वो॑ विस्फारयन्तं धनुरप्रमेयम्
६.०४७.०८९ अन्वेहि मामेव निशाचरेन्द्र॑ न वानरांस्त्वं प्रति योद्धुमर्हसि
६.०४७.०९० स तस्य वाक्यं परिपूर्णघोषं॑ ज्याशब्दमुग्रं च निशम्य राजा
६.०४७.०९० आसाद्य सौमित्रिमवस्थितं तं॑ कोपान्वितं वाक्यमुवाच रक्षः
६.०४७.०९१ दिष्ट्यासि मे राघव दृष्टिमार्गं॑ प्राप्तोऽन्तगामी विपरीतबुद्धिः
६.०४७.०९१ अस्मिन् क्षणे यास्यसि मृत्युदेशं॑ संसाद्यमानो मम बाणजालैः
६.०४७.०९२ तमाह सौमित्रिरविस्मयानो॑ गर्जन्तमुद्वृत्तसिताग्रदंष्ट्रम्
६.०४७.०९२ राजन्न गर्जन्ति महाप्रभावा॑ विकत्थसे पापकृतां वरिष्ठ
६.०४७.०९३ जानामि वीर्यं तव राक्षसेन्द्र॑ बलं प्रतापं च पराक्रमं च
६.०४७.०९३ अवस्थितोऽहं शरचापपाणिर्॑ आगच्छ किं मोघविकत्थनेन
६.०४७.०९४ स एवमुक्तः कुपितः ससर्ज॑ रक्षोऽधिपः सप्तशरान् सुपुङ्खान्
६.०४७.०९४ तांल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्॑ चिच्छेद बाणैर्निशिताग्रधारैः
६.०४७.०९५ तान् प्रेक्षमाणः सहसा निकृत्तान्॑ निकृत्तभोगानिव पन्नगेन्द्रान्
६.०४७.०९५ लङ्केश्वरः क्रोधवशं जगाम॑ ससर्ज चान्यान्निशितान् पृषत्कान्
६.०४७.०९६ स बाणवर्षं तु ववर्ष तीव्रं॑ रामानुजः कार्मुकसंप्रयुक्तम्
६.०४७.०९६ क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः॑ शरांश्च चिच्छेद न चुक्षुभे च
६.०४७.०९७ स लक्ष्मणश्चाशु शराञ्शिताग्रान्॑ महेन्द्रवज्राशनितुल्यवेगान्
६.०४७.०९७ संधाय चापे ज्वलनप्रकाशान्॑ ससर्ज रक्षोऽधिपतेर्वधाय
६.०४७.०९८ स तान् प्रचिच्छेद हि राक्षसेन्द्रश्॑ छित्त्वा च तांल्लक्ष्मणमाजघान
६.०४७.०९८ शरेण कालाग्निसमप्रभेण॑ स्वयम्भुदत्तेन ललाटदेशे
६.०४७.०९९ स लक्ष्मणो रावणसायकार्तश्॑ चचाल चापं शिथिलं प्रगृह्य
६.०४७.०९९ पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राच्॑ चिच्छेद चापं त्रिदशेन्द्रशत्रोः
६.०४७.१०० निकृत्तचापं त्रिभिराजघान॑ बाणैस्तदा दाशरथिः शिताग्रैः
६.०४७.१०० स सायकार्तो विचचाल राजा॑ कृच्छ्राच्च संज्ञां पुनराससाद
६.०४७.१०१ स कृत्तचापः शरताडितश्च॑ स्वेदार्द्रगात्रो रुधिरावसिक्तः
६.०४७.१०१ जग्राह शक्तिं समुदग्रशक्तिः॑ स्वयम्भुदत्तां युधि देवशत्रुः
६.०४७.१०२ स तां विधूमानलसंनिकाशां॑ वित्रासनीं वानरवाहिनीनाम्
६.०४७.१०२ चिक्षेप शक्तिं तरसा ज्वलन्तीं॑ सौमित्रये राक्षसराष्ट्रनाथः
६.०४७.१०३ तामापतन्तीं भरतानुजोऽस्त्रैर्॑ जघान बाणैश्च हुताग्निकल्पैः
६.०४७.१०३ तथापि सा तस्य विवेश शक्तिर्॑ भुजान्तरं दाशरथेर्विशालम्
६.०४७.१०४ शक्त्या ब्राम्या तु सौमित्रिस्ताडितस्तु स्तनान्तरे
६.०४७.१०४ विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत्
६.०४७.१०५ ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः
६.०४७.१०५ तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत्
६.०४७.१०६ हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः
६.०४७.१०६ शक्यं भुजाभ्यामुद्धर्तुं न संख्ये भरतानुजः
६.०४७.१०७ अथैनं वैष्णवं भागं मानुषं देहमास्थितम्
६.०४७.१०७ विसंज्ञं लक्ष्मणं दृष्ट्वा रावणो विस्मितोऽभवत्
६.०४७.१०८ अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत्
६.०४७.१०८ आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना
६.०४७.१०९ तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः
६.०४७.१०९ जानुभ्यामपतद्भूमौ चचाल च पपात च
६.०४७.११० विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम्
६.०४७.११० ऋषयो वानराश्चैव नेदुर्देवाः सवासवाः
६.०४७.१११ हनूमानपि तेजस्वी लक्ष्मणं रावणार्दितम्
६.०४७.१११ अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम्
६.०४७.११२ वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः
६.०४७.११२ शत्रूणामप्रकम्प्योऽपि लघुत्वमगमत्कपेः
६.०४७.११३ तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम्
६.०४७.११३ रावणस्य रथे तस्मिन् स्थानं पुनरुपागमत्
६.०४७.११४ रावणोऽपि महातेजाः प्राप्य संज्ञां महाहवे
६.०४७.११४ आददे निशितान् बाणाञ्जग्राह च महद्धनुः
६.०४७.११५ आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः
६.०४७.११५ विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन्
६.०४७.११६ निपातितमहावीरां वानराणां महाचमूम्
६.०४७.११६ राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत्
६.०४७.११७ अथैनमुपसंगम्य हनूमान् वाक्यमब्रवीत्
६.०४७.११७ मम पृष्ठं समारुह्य रक्षसं शास्तुमर्हसि
६.०४७.११८ तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम्
६.०४७.११८ आरोहत्सहसा शूरो हनूमन्तं महाकपिम्
६.०४७.११८ रथस्थं रावणं संख्ये ददर्श मनुजाधिपः
६.०४७.११९ तमालोक्य महातेजाः प्रदुद्राव स राघवः
६.०४७.११९ वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः
६.०४७.१२० ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम्
६.०४७.१२० गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह
६.०४७.१२१ तिष्ठ तिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम्
६.०४७.१२१ क्व नु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि
६.०४७.१२२ यदीन्द्रवैवस्वत भास्करान् वा॑ स्वयम्भुवैश्वानरशंकरान् वा
६.०४७.१२२ गमिष्यसि त्वं दश वा दिशो वा॑ तथापि मे नाद्य गतो विमोक्ष्यसे
६.०४७.१२३ यश्चैष शक्त्याभिहतस्त्वयाद्य॑ इच्छन् विषादं सहसाभ्युपेतः
६.०४७.१२३ स एष रक्षोगणराज मृत्युः॑ सपुत्रदारस्य तवाद्य युद्धे
६.०४७.१२४ राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम्
६.०४७.१२४ आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः
६.०४७.१२५ राक्षसेनाहवे तस्य ताडितस्यापि सायकैः
६.०४७.१२५ स्वभावतेजोयुक्तस्य भूयस्तेजो व्यवर्धत
६.०४७.१२६ ततो रामो महातेजा रावणेन कृतव्रणम्
६.०४७.१२६ दृष्ट्वा प्लवगशार्दूलं क्रोधस्य वशमेयिवान्
६.०४७.१२७ तस्याभिसंक्रम्य रथं सचक्रं॑ साश्वध्वजच्छत्रमहापताकम्
६.०४७.१२७ ससारथिं साशनिशूलखड्गं॑ रामः प्रचिच्छेद शरैः सुपुङ्खैः
६.०४७.१२८ अथेन्द्रशत्रुं तरसा जघान॑ बाणेन वज्राशनिसंनिभेन
६.०४७.१२८ भुजान्तरे व्यूढसुजातरूपे॑ वज्रेण मेरुं भगवानिवेन्द्रः
६.०४७.१२९ यो वज्रपाताशनिसंनिपातान्॑ न चुक्षुभे नापि चचाल राजा
६.०४७.१२९ स रामबाणाभिहतो भृशार्तश्॑ चचाल चापं च मुमोच वीरः
६.०४७.१३० तं विह्वलन्तं प्रसमीक्ष्य रामः॑ समाददे दीप्तमथार्धचन्द्रम्
६.०४७.१३० तेनार्कवर्णं सहसा किरीटं॑ चिच्छेद रक्षोऽधिपतेर्महात्माः
६.०४७.१३१ तं निर्विषाशीविषसंनिकाशं॑ शान्तार्चिषं सूर्यमिवाप्रकाशम्
६.०४७.१३१ गतश्रियं कृत्तकिरीटकूटम्॑ उवाच रामो युधि राक्षसेन्द्रम्
६.०४७.१३२ कृतं त्वया कर्म महत्सुभीमं॑ हतप्रवीरश्च कृतस्त्वयाहम्
६.०४७.१३२ तस्मात्परिश्रान्त इति व्यवस्य॑ न त्वं शरैर्मृत्युवशं नयामि
६.०४७.१३३ स एवमुक्तो हतदर्पहर्षो॑ निकृत्तचापः स हताश्वसूतः
६.०४७.१३३ शरार्दितः कृत्तमहाकिरीटो॑ विवेश लङ्कां सहसा स्म राजा
६.०४७.१३४ तस्मिन् प्रविष्टे रजनीचरेन्द्रे॑ महाबले दानवदेवशत्रौ
६.०४७.१३४ हरीन् विशल्यान् सहलक्ष्मणेन॑ चकार रामः परमाहवाग्रे
६.०४७.१३५ तस्मिन् प्रभग्ने त्रिदशेन्द्रशत्रौ॑ सुरासुरा भूतगणा दिशश्च
६.०४७.१३५ ससागराः सर्षिमहोरगाश्च॑ तथैव भूम्यम्बुचराश्च हृष्टाः
६.०४८.००१ स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः
६.०४८.००१ भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः
६.०४८.००२ मातंग इव सिंहेन गरुडेनेव पन्नगः
६.०४८.००२ अभिभूतोऽभवद्राजा राघवेण महात्मना
६.०४८.००३ ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम्
६.०४८.००३ स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः
६.०४८.००४ स काञ्चनमयं दिव्यमाश्रित्य परमासनम्
६.०४८.००४ विक्प्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत्
६.०४८.००५ सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः
६.०४८.००५ यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः
६.०४८.००६ इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम्
६.०४८.००६ मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा
६.०४८.००७ देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः
६.०४८.००७ अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम्
६.०४८.००८ एतदेवाभ्युपागम्य यत्नं कर्तुमिहार्हथ
६.०४८.००८ राक्षसाश्चापि तिष्ठन्तु चर्यागोपुरमूर्धसु
६.०४८.००९ स चाप्रतिमगम्भीरो देवदानवदर्पहा
६.०४८.००९ ब्रह्मशापाभिभूतस्तु कुम्भकर्णो विबोध्यताम्
६.०४८.०१० स पराजितमात्मानं प्रहस्तं च निषूदितम्
६.०४८.०१० ज्ञात्वा रक्षोबलं भीममादिदेश महाबलः
६.०४८.०११ द्वारेषु यत्नः क्रियतां प्राकाराश्चाधिरुह्यताम्
६.०४८.०११ निद्रावशसमाविष्टः कुम्भकर्णो विबोध्यताम्
६.०४८.०१२ नव षट्सप्त चाष्टौ च मासान् स्वपिति राक्षसः
६.०४८.०१२ तं तु बोधयत क्षिप्रं कुम्भकर्णं महाबलम्
६.०४८.०१३ स हि संख्ये महाबाहुः ककुदं सर्वरक्षसाम्
६.०४८.०१३ वानरान् राजपुत्रौ च क्षिप्रमेव वधिष्यति
६.०४८.०१४ कुम्भकर्णः सदा शेते मूढो ग्राम्यसुखे रतः
६.०४८.०१४ रामेणाभिनिरस्तस्य संग्रामोऽस्मिन् सुदारुणे
६.०४८.०१५ भविष्यति न मे शोकः कुम्भकर्णे विबोधिते
६.०४८.०१५ किं करिष्याम्यहं तेन शक्रतुल्यबलेन हि
६.०४८.०१६ ईदृशे व्यसने प्राप्ते यो न साह्याय कल्पते
६.०४८.०१६ ते तु तद्वचनं श्रुत्वा राक्षसेन्द्रस्य राक्षसाः
६.०४८.०१७ जग्मुः परमसंभ्रान्ताः कुम्भकर्णनिवेशनम्
६.०४८.०१७ ते रावणसमादिष्टा मांसशोणितभोजनाः
६.०४८.०१८ गन्धमाल्यांस्तथा भक्ष्यानादाय सहसा ययुः
६.०४८.०१८ तां प्रविश्य महाद्वारां सर्वतो योजनायताम्
६.०४८.०१९ कुम्भकर्णगुहां रम्यां सर्वगन्धप्रवाहिनीम्
६.०४८.०१९ प्रतिष्ठमानाः कृच्छ्रेण यत्नात्प्रविविशुर्गुहाम्
६.०४८.०२० तां प्रविश्य गुहां रम्यां शुभां काञ्चनकुट्टिमाम्
६.०४८.०२० ददृशुर्नैरृतव्याघ्रं शयानं भीमदर्शनम्
६.०४८.०२१ ते तु तं विकृतं सुप्तं विकीर्णमिव पर्वतम्
६.०४८.०२१ कुम्भकर्णं महानिद्रं सहिताः प्रत्यबोधयन्
६.०४८.०२२ ऊर्ध्वरोमाञ्चिततनुं श्वसन्तमिव पन्नगम्
६.०४८.०२२ त्रासयन्तं महाश्वासैः शयानं भीमदर्शनम्
६.०४८.०२३ भीमनासापुटं तं तु पातालविपुलाननम्
६.०४८.०२३ ददृशुर्नैरृतव्याघ्रं कुम्भकर्णं महाबलम्
६.०४८.०२४ ततश्चक्रुर्महात्मानः कुम्भकर्णाग्रतस्तदा
६.०४८.०२४ मांसानां मेरुसंकाशं राशिं परमतर्पणम्
६.०४८.०२५ मृगाणां महिषाणां च वराहाणां च संचयान्
६.०४८.०२५ चक्रुर्नैरृतशार्दूला राशिमन्नस्य चाद्भुतम्
६.०४८.०२६ ततः शोणितकुम्भांश्च मद्यानि विविधानि च
६.०४८.०२६ पुरस्तात्कुम्भकर्णस्य चक्रुस्त्रिदशशत्रवः
६.०४८.०२७ लिलिपुश्च परार्ध्येन चन्दनेन परंतपम्
६.०४८.०२७ दिव्यैराच्छादयामासुर्माल्यैर्गन्धैः सुगन्धिभिः
६.०४८.०२८ धूपं सुगन्धं ससृजुस्तुष्टुवुश्च परंतपम्
६.०४८.०२८ जलदा इव चोनेदुर्यातुधानाः सहस्रशः
६.०४८.०२९ शङ्खानापूरयामासुः शशाङ्कसदृशप्रभान्
६.०४८.०२९ तुमुलं युगपच्चापि विनेदुश्चाप्यमर्षिताः
६.०४८.०३० नेदुरास्फोटयामासुश्चिक्षिपुस्ते निशाचराः
६.०४८.०३० कुम्भकर्णविबोधार्थं चक्रुस्ते विपुलं स्वनम्
६.०४८.०३१ सशङ्खभेरीपटहप्रणादम्॑ आस्फोटितक्ष्वेडितसिंहनादम्
६.०४८.०३१ दिशो द्रवन्तस्त्रिदिवं किरन्तः॑ श्रुत्वा विहंगाः सहसा निपेतुः
६.०४८.०३२ यदा भृशं तैर्निनदैर्महात्मा॑ न कुम्भकर्णो बुबुधे प्रसुप्तः
६.०४८.०३२ ततो मुसुण्डीमुसलानि सर्वे॑ रक्षोगणास्ते जगृहुर्गदाश्च
६.०४८.०३३ तं शैलशृङ्गैर्मुसलैर्गदाभिर्॑ वृक्षैस्तलैर्मुद्गरमुष्टिभिश्च
६.०४८.०३३ सुखप्रसुप्तं भुवि कुम्भकर्णं॑ रक्षांस्युदग्राणि तदा निजघ्नुः
६.०४८.०३४ तस्य निश्वासवातेन कुम्भकर्णस्य रक्षसः
६.०४८.०३४ राक्षसा बलवन्तोऽपि स्थातुं नाशक्नुवन् पुरः
६.०४८.०३५ ततोऽस्य पुरतो गाढं राक्षसा भीमविक्रमाः
६.०४८.०३५ मृदङ्गपणवान् भेरीः शङ्खकुम्भगणांस्तथा
६.०४८.०३५ दशराक्षससाहस्रं युगपत्पर्यवादयन्
६.०४८.०३६ नीलाञ्जनचयाकारं ते तु तं प्रत्यबोधयन्
६.०४८.०३६ अभिघ्नन्तो नदन्तश्च नैव संविविदे तु सः
६.०४८.०३७ यदा चैनं न शेकुस्ते प्रतिबोधयितुं तदा
६.०४८.०३७ ततो गुरुतरं यत्नं दारुणं समुपाक्रमन्
६.०४८.०३८ अश्वानुष्ट्रान् खरान्नागाञ्जघ्नुर्दण्डकशाङ्कुशैः
६.०४८.०३८ भेरीशङ्खमृदङ्गांश्च सर्वप्राणैरवादयन्
६.०४८.०३९ निजघ्नुश्चास्य गात्राणि महाकाष्ठकटं करैः
६.०४८.०३९ मुद्गरैर्मुसलैश्चैव सर्वप्राणसमुद्यतैः
६.०४८.०४० तेन शब्देन महता लङ्का समभिपूरिता
६.०४८.०४० सपर्वतवना सर्वा सोऽपि नैव प्रबुध्यते
६.०४८.०४१ ततः सहस्रं भेरीणां युगपत्समहन्यत
६.०४८.०४१ मृष्टकाञ्चनकोणानामसक्तानां समन्ततः
६.०४८.०४२ एवमप्यतिनिद्रस्तु यदा नैव प्रबुध्यत
६.०४८.०४२ शापस्य वशमापन्नस्ततः क्रुद्धा निशाचराः
६.०४८.०४३ महाक्रोधसमाविष्टाः सर्वे भीमपराक्रमाः
६.०४८.०४३ तद्रक्षोबोधयिष्यन्तश्चक्रुरन्ये पराक्रमम्
६.०४८.०४४ अन्ये भेरीः समाजघ्नुरन्ये चक्रुर्महास्वनम्
६.०४८.०४४ केशानन्ये प्रलुलुपुः कर्णावन्ये दशन्ति च
६.०४८.०४४ न कुम्भकर्णः पस्पन्दे महानिद्रावशं गतः
६.०४८.०४५ अन्ये च बलिनस्तस्य कूटमुद्गरपाणयः
६.०४८.०४५ मूर्ध्नि वक्षसि गात्रेषु पातयन् कूटमुद्गरान्
६.०४८.०४६ रज्जुबन्धनबद्धाभिः शतघ्नीभिश्च सर्वतः
६.०४८.०४६ वध्यमानो महाकायो न प्राबुध्यत राक्षसः
६.०४८.०४७ वारणानां सहस्रं तु शरीरेऽस्य प्रधावितम्
६.०४८.०४७ कुम्भकर्णस्ततो बुद्धः स्पर्शं परमबुध्यत
६.०४८.०४८ स पात्यमानैर्गिरिशृङ्गवृक्षैर्॑ अचिन्तयंस्तान् विपुलान् प्रहारान्
६.०४८.०४८ निद्राक्षयात्क्षुद्भयपीडितश्च॑ विजृम्भमाणः सहसोत्पपात
६.०४८.०४९ स नागभोगाचलशृङ्गकल्पौ॑ विक्षिप्य बाहू गिरिशृङ्गसारौ
६.०४८.०४९ विवृत्य वक्त्रं वडवामुखाभं॑ निशाचरोऽसौ विकृतं जजृम्भे
६.०४८.०५० तस्य जाजृम्भमाणस्य वक्त्रं पातालसंनिभम्
६.०४८.०५० ददृशे मेरुशृङ्गाग्रे दिवाकर इवोदितः
६.०४८.०५१ विजृम्भमाणोऽतिबलः प्रतिबुद्धो निशाचरः
६.०४८.०५१ निश्वासश्चास्य संजज्ञे पर्वतादिव मारुतः
६.०४८.०५२ रूपमुत्तिष्ठतस्तस्य कुम्भकर्णस्य तद्बभौ
६.०४८.०५२ तपान्ते सबलाकस्य मेघस्येव विवर्षतः
६.०४८.०५३ तस्य दीप्ताग्निसदृशे विद्युत्सदृशवर्चसी
६.०४८.०५३ ददृशाते महानेत्रे दीप्ताविव महाग्रहौ
६.०४८.०५४ आदद्बुभुक्षितो मांसं शोणितं तृषितोऽपिबत्
६.०४८.०५४ मेदः कुम्भं च मद्यं च पपौ शक्ररिपुस्तदा
६.०४८.०५५ ततस्तृप्त इति ज्ञात्वा समुत्पेतुर्निशाचराः
६.०४८.०५५ शिरोभिश्च प्रणम्यैनं सर्वतः पर्यवारयन्
६.०४८.०५६ स सर्वान् सान्त्वयामास नैरृतान्नैरृतर्षभः
६.०४८.०५६ बोधनाद्विस्मितश्चापि राक्षसानिदमब्रवीत्
६.०४८.०५७ किमर्थमहमाहत्य भवद्भिः प्रतिबोधितः
६.०४८.०५७ कच्चित्सुकुशलं राज्ञो भयं वा नेह किं चन
६.०४८.०५८ अथ वा ध्रुवमन्येभ्यो भयं परमुपस्थितम्
६.०४८.०५८ यदर्थमेव त्वरितैर्भवद्भिः प्रतिबोधितः
६.०४८.०५९ अद्य राक्षसराजस्य भयमुत्पाटयाम्यहम्
६.०४८.०५९ पातयिष्ये महेन्द्रं वा शातयिष्ये तथानलम्
६.०४८.०६० न ह्यल्पकारणे सुप्तं बोधयिष्यति मां भृशम्
६.०४८.०६० तदाख्यातार्थतत्त्वेन मत्प्रबोधनकारणम्
६.०४८.०६१ एवं ब्रुवाणं संरब्धं कुम्भकर्णमरिंदमम्
६.०४८.०६१ यूपाक्षः सचिवो राज्ञः कृताञ्जलिरुवाच ह
६.०४८.०६२ न नो देवकृतं किं चिद्भयमस्ति कदा चन
६.०४८.०६२ न दैत्यदानवेभ्यो वा भयमस्ति हि तादृशम्
६.०४८.०६२ यादृशं मानुषं राजन् भयमस्मानुपस्थितम्
६.०४८.०६३ वानरैः पर्वताकारैर्लङ्केयं परिवारिता
६.०४८.०६३ सीताहरणसंतप्ताद्रामान्नस्तुमुलं भयम्
६.०४८.०६४ एकेन वानरेणेयं पूर्वं दग्धा महापुरी
६.०४८.०६४ कुमारो निहतश्चाक्षः सानुयात्रः सकुञ्जरः
६.०४८.०६५ स्वयं रक्षोऽधिपश्चापि पौलस्त्यो देवकण्टकः
६.०४८.०६५ मृतेति संयुगे मुक्तारामेणादित्यतेजसा
६.०४८.०६६ यन्न देवैः कृतो राजा नापि दैत्यैर्न दानवैः
६.०४८.०६६ कृतः स इह रामेण विमुक्तः प्राणसंशयात्
६.०४८.०६७ स यूपाक्षवचः श्रुत्वा भ्रातुर्युधि पराजयम्
६.०४८.०६७ कुम्भकर्णो विवृत्ताक्षो यूपाक्षमिदमब्रवीत्
६.०४८.०६८ सर्वमद्यैव यूपाक्ष हरिसैन्यं सलक्ष्मणम्
६.०४८.०६८ राघवं च रणे हत्वा पश्चाद्द्रक्ष्यामि रावणम्
६.०४८.०६९ राक्षसांस्तर्पयिष्यामि हरीणां मांसशोणितैः
६.०४८.०६९ रामलक्ष्मणयोश्चापि स्वयं पास्यामि शोणितम्
६.०४८.०७० तत्तस्य वाक्यं ब्रुवतो निशम्य॑ सगर्वितं रोषविवृद्धदोषम्
६.०४८.०७० महोदरो नैरृतयोधमुख्यः॑ कृताञ्जलिर्वाक्यमिदं बभाषे
६.०४८.०७१ रावणस्य वचः श्रुत्वा गुणदोषु विमृश्य च
६.०४८.०७१ पश्चादपि महाबाहो शत्रून् युधि विजेष्यसि
६.०४८.०७२ महोदरवचः श्रुत्वा राक्षसैः परिवारितः
६.०४८.०७२ कुम्भकर्णो महातेजाः संप्रतस्थे महाबलः
६.०४८.०७३ तं समुत्थाप्य भीमाक्षं भीमरूपपराक्रमम्
६.०४८.०७३ राक्षसास्त्वरिता जग्मुर्दशग्रीवनिवेशनम्
६.०४८.०७४ ततो गत्वा दशग्रीवमासीनं परमासने
६.०४८.०७४ ऊचुर्बद्धाञ्जलिपुटाः सर्व एव निशाचराः
६.०४८.०७५ प्रबुद्धः कुम्भकर्णोऽसौ भ्राता ते राक्षसर्षभ
६.०४८.०७५ कथं तत्रैव निर्यातु द्रक्ष्यसे तमिहागतम्
६.०४८.०७६ रावणस्त्वब्रवीद्धृष्टो यथान्यायं च पूजितम्
६.०४८.०७६ द्रष्टुमेनमिहेच्छामि यथान्यायं च पूजितम्
६.०४८.०७७ तथेत्युक्त्वा तु ते सर्वे पुनरागम्य राक्षसाः
६.०४८.०७७ कुम्भकर्णमिदं वाक्यमूचू रावणचोदिताः
६.०४८.०७८ द्रष्टुं त्वां काङ्क्षते राजा सर्वराक्षसपुंगवः
६.०४८.०७८ गमने क्रियतां बुद्धिर्भ्रातरं संप्रहर्षय
६.०४८.०७९ कुम्भकर्णस्तु दुर्धर्षो भ्रातुराज्ञाय शासनम्
६.०४८.०७९ तथेत्युक्त्वा महावीर्यः शयनादुत्पपात ह
६.०४८.०८० प्रक्षाल्य वदनं हृष्टः स्नातः परमभूषितः
६.०४८.०८० पिपासुस्त्वरयामास पानं बलसमीरणम्
६.०४८.०८१ ततस्ते त्वरितास्तस्य राज्षसा रावणाज्ञया
६.०४८.०८१ मद्यं भक्ष्यांश्च विविधान् क्षिप्रमेवोपहारयन्
६.०४८.०८२ पीत्वा घटसहस्रं स गमनायोपचक्रमे
६.०४८.०८३ ईषत्समुत्कटो मत्तस्तेजोबलसमन्वितः
६.०४८.०८३ कुम्भकर्णो बभौ हृष्टः कालान्तकयमोपमः
६.०४८.०८४ भ्रातुः स भवनं गच्छन् रक्षोबलसमन्वितः
६.०४८.०८४ कुम्भकर्णः पदन्यासैरकम्पयत मेदिनीम्
६.०४८.०८५ स राजमार्गं वपुषा प्रकाशयन्॑ सहस्ररश्मिर्धरणीमिवांशुभिः
६.०४८.०८५ जगाम तत्राञ्जलिमालया वृतः॑ शतक्रतुर्गेहमिव स्वयम्भुवः
६.०४८.०८६ के चिच्छरण्यं शरणं स्म रामं॑ व्रजन्ति के चिद्व्यथिताः पतन्ति
६.०४८.०८६ के चिद्दिशः स्म व्यथिताः प्रयान्ति॑ के चिद्भयार्ता भुवि शेरते स्म
६.०४८.०८७ तमद्रिशृङ्गप्रतिमं किरीटिनं॑ स्पृशन्तमादित्यमिवात्मतेजसा
६.०४८.०८७ वनौकसः प्रेक्ष्य विवृद्धमद्भुतं॑ भयार्दिता दुद्रुविरे ततस्ततः
६.०४९.००१ ततो रामो महातेजा धनुरादाय वीर्यवान्
६.०४९.००१ किरीटिनं महाकायं कुम्भकर्णं ददर्श ह
६.०४९.००२ तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम्
६.०४९.००२ क्रममाणमिवाकाशं पुरा नारायणं प्रभुम्
६.०४९.००३ सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम्
६.०४९.००३ दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः
६.०४९.००४ विद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं
६.०४९.००४ सविस्मयमिदं रामो विभीषणमुवाच ह
६.०४९.००५ कोऽसौ पर्वतसंकशः किरीटी हरिलोचनः
६.०४९.००५ लङ्कायां दृश्यते वीरः सविद्युदिव तोयदः
६.०४९.००६ पृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते
६.०४९.००६ यं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः
६.०४९.००७ आचक्ष्व मे महान् कोऽसौ रक्षो वा यदि वासुरः
६.०४९.००७ न मयैवंविधं भूतं दृष्टपूर्वं कदा चन
६.०४९.००८ स पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा
६.०४९.००८ विभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत्
६.०४९.००९ येन वैवस्वतो युद्धे वासवश्च पराजितः
६.०४९.००९ सैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्
६.०४९.०१० एतेन देवा युधि दानवाश्च॑ यक्षा भुजंगाः पिशिताशनाश्च
६.०४९.०१० गन्धर्वविद्याधरकिंनराश्च॑ सहस्रशो राघव संप्रभग्नाः
६.०४९.०११ शूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्
६.०४९.०११ हन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः
६.०४९.०१२ प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः
६.०४९.०१२ अन्येषां राक्षसेन्द्राणां वरदानकृतं बलम्
६.०४९.०१३ एतेन जातमात्रेण क्षुधार्तेन महात्मना
६.०४९.०१३ भक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि
६.०४९.०१४ तेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः
६.०४९.०१४ यान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन्
६.०४९.०१५ स कुम्भकर्णं कुपितो महेन्द्रो॑ जघान वज्रेण शितेन वज्री
६.०४९.०१५ स शक्रवज्राभिहतो महात्मा॑ चचाल कोपाच्च भृशं ननाद
६.०४९.०१६ तस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः
६.०४९.०१६ श्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे
६.०४९.०१७ ततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः
६.०४९.०१७ विकृष्यैरावताद्दन्तं जघानोरसि वासवम्
६.०४९.०१८ कुम्भकर्णप्रहारार्तो विचचाल स वासवः
६.०४९.०१८ ततो विषेदुः सहसा देवब्रह्मर्षिदानवाः
६.०४९.०१९ प्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः
६.०४९.०१९ कुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः
६.०४९.०१९ प्रजानां भक्षणं चापि देवानां चापि धर्षणम्
६.०४९.०२० एवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः
६.०४९.०२० अचिरेणैव कालेन शून्यो लोको भविष्यति
६.०४९.०२१ वासवस्य वचः श्रुत्वा सर्वलोकपितामहः
६.०४९.०२१ रक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह
६.०४९.०२२ कुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः
६.०४९.०२२ दृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत्
६.०४९.०२३ ध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः
६.०४९.०२३ तस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि
६.०४९.०२३ ब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः
६.०४९.०२४ ततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत्
६.०४९.०२४ विवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते
६.०४९.०२५ न नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते
६.०४९.०२५ न मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः
६.०४९.०२५ कालस्तु क्रियतामस्य शयने जागरे तथा
६.०४९.०२६ रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत्
६.०४९.०२६ शयिता ह्येष षण्मासानेकाहं जागरिष्यति
६.०४९.०२७ एकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः
६.०४९.०२७ व्यात्तास्यो भक्षयेल्लोकान् संक्रुद्ध इव पावकः
६.०४९.०२८ सोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत्
६.०४९.०२८ त्वत्पराक्रमभीतश्च राजा संप्रति रावणः
६.०४९.०२९ स एष निर्गतो वीरः शिबिराद्भीमविक्रमः
६.०४९.०२९ वानरान् भृशसंक्रुद्धो भक्षयन् परिधावति
६.०४९.०३० कुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः
६.०४९.०३० कथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः
६.०४९.०३१ उच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम्
६.०४९.०३१ इति विज्ञाय हरयो भविष्यन्तीह निर्भयाः
६.०४९.०३२ विभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम्
६.०४९.०३२ उवाच राघवो वाक्यं नीलं सेनापतिं तदा
६.०४९.०३३ गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके
६.०४९.०३३ द्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान्
६.०४९.०३४ शैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन्
६.०४९.०३४ तिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः
६.०४९.०३५ राघवेण समादिष्टो नीलो हरिचमूपतिः
६.०४९.०३५ शशास वानरानीकं यथावत्कपिकुञ्जरः
६.०४९.०३६ ततो गवाक्षः शरभो हनुमानङ्गदो नलः
६.०४९.०३६ शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः
६.०४९.०३७ ततो हरीणां तदनीकमुग्रं॑ रराज शैलोद्यतवृक्षहस्तम्
६.०४९.०३७ गिरेः समीपानुगतं यथैव॑ महन्महाम्भोधरजालमुग्रम्
६.०५०.००१ स तु राक्षसशार्दूलो निद्रामदसमाकुलः
६.०५०.००१ राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः
६.०५०.००२ राक्षसानां सहस्रैश्च वृतः परमदुर्जयः
६.०५०.००२ गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ
६.०५०.००३ स हेमजालविततं भानुभास्वरदर्शनम्
६.०५०.००३ ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम्
६.०५०.००४ स तत्तदा सूर्य इवाभ्रजालं॑ प्रविश्य रक्षोऽधिपतेर्निवेशनम्
६.०५०.००४ ददर्श दूरेऽग्रजमासनस्थं॑ स्वयम्भुवं शक्र इवासनस्थम्
६.०५०.००५ सोऽभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च
६.०५०.००५ ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम्
६.०५०.००६ अथ दृष्ट्वा दशग्रीवः कुम्भकर्णमुपस्थितम्
६.०५०.००६ तूर्णमुत्थाय संहृष्टः संनिकर्षमुपानयत्
६.०५०.००७ अथासीनस्य पर्यङ्के कुम्भकर्णो महाबलः
६.०५०.००७ भ्रातुर्ववन्दे चरणां किं कृत्यमिति चाब्रवीत्
६.०५०.००७ उत्पत्य चैनं मुदितो रावणः परिषस्वजे
६.०५०.००८ स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः
६.०५०.००८ कुम्भकर्णः शुभं दिव्यं प्रतिपेदे वरासनम्
६.०५०.००९ स तदासनमाश्रित्य कुम्भकर्णो महाबलः
६.०५०.००९ संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत्
६.०५०.०१० किमर्थमहमादृत्य त्वया राजन् प्रबोधितः
६.०५०.०१० शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति
६.०५०.०११ भ्रातरं रावणः क्रुद्धं कुम्भकर्णमवस्थितम्
६.०५०.०११ ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत्
६.०५०.०१२ अद्य ते सुमहान् कालः शयानस्य महाबल
६.०५०.०१२ सुखितस्त्वं न जानीषे मम रामकृतं भयम्
६.०५०.०१३ एष दाशरथी रामः सुग्रीवसहितो बली
६.०५०.०१३ समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति
६.०५०.०१४ हन्त पश्यस्व लङ्काया वनान्युपवनानि च
६.०५०.०१४ सेतुना सुखमागम्य वानरैकार्णवं कृतम्
६.०५०.०१५ ये राक्षसा मुख्यतमा हतास्ते वानरैर्युधि
६.०५०.०१५ वानराणां क्षयं युद्धे न पश्यामि कदा चन
६.०५०.०१६ सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम्
६.०५०.०१६ त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम्
६.०५०.०१७ भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम्
६.०५०.०१७ मयैवं नोक्तपूर्वो हि कश्चिद्भ्रातः परंतप
६.०५०.०१७ त्वय्यस्ति मम च स्नेहः परा संभावना च मे
६.०५०.०१८ देवासुरविमर्देषु बहुशो राक्षसर्षभ
६.०५०.०१८ त्वया देवाः प्रतिव्यूह्य निर्जिताश्चासुरा युधि
६.०५०.०१८ न हि ते सर्वभूतेषु दृश्यते सदृशो बली
६.०५०.०१९ कुरुष्व मे प्रियहितमेतदुत्तमं॑ यथाप्रियं प्रियरणबान्धवप्रिय
६.०५०.०१९ स्वतेजसा विधम सपत्नवाहिनीं॑ शरद्घनं पवन इवोद्यतो महान्
६.०५१.००१ तस्य राक्षसराजस्य निशम्य परिदेवितम्
६.०५१.००१ कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च
६.०५१.००२ दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये
६.०५१.००२ हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया
६.०५१.००३ शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः
६.०५१.००३ निरयेष्वेव पतनं यथा दुष्कृतकर्मणः
६.०५१.००४ प्रथमं वै महाराज कृत्यमेतदचिन्तितम्
६.०५१.००४ केवलं वीर्यदर्पेण नानुबन्धो विचारितः
६.०५१.००५ यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः
६.०५१.००५ पूर्वं चोत्तरकार्याणि न स वेद नयानयौ
६.०५१.००६ देशकालविहीनानि कर्माणि विपरीतवत्
६.०५१.००६ क्रियमाणानि दुष्यन्ति हवींष्यप्रयतेष्विव
६.०५१.००७ त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति
६.०५१.००७ सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि
६.०५१.००८ यथागमं च यो राजा समयं विचिकीर्षति
६.०५१.००८ बुध्यते सचिवान् बुद्ध्या सुहृदश्चानुपश्यति
६.०५१.००९ धर्ममर्थं च कामं च सर्वान् वा रक्षसां पते
६.०५१.००९ भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः
६.०५१.०१० त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते
६.०५१.०१० राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम्
६.०५१.०११ उपप्रदानं सान्त्वं वा भेदं काले च विक्रमम्
६.०५१.०११ योगं च रक्षसां श्रेष्ठ तावुभौ च नयानयौ
६.०५१.०१२ काले धर्मार्थकामान् यः संमन्त्र्य सचिवैः सह
६.०५१.०१२ निषेवेतात्मवांल्लोके न स व्यसनमाप्नुयात्
६.०५१.०१३ हितानुबन्धमालोक्य कार्याकार्यमिहात्मनः
६.०५१.०१३ राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति
६.०५१.०१४ अनभिज्ञाय शास्त्रार्थान् पुरुषाः पशुबुद्धयः
६.०५१.०१४ प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः
६.०५१.०१५ अशास्त्रविदुषां तेषां न कार्यमहितं वचः
६.०५१.०१५ अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम्
६.०५१.०१६ अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः
६.०५१.०१६ अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः
६.०५१.०१७ विनाशयन्तो भर्तारं सहिताः शत्रुभिर्बुधैः
६.०५१.०१७ विपरीतानि कृत्यानि कारयन्तीह मन्त्रिणः
६.०५१.०१८ तान् भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णये
६.०५१.०१८ व्यवहारेण जानीयात्सचिवानुपसंहितान्
६.०५१.०१९ चपलस्येह कृत्यानि सहसानुप्रधावतः
६.०५१.०१९ छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः
६.०५१.०२० यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति
६.०५१.०२० अवाप्नोति हि सोऽनर्थान् स्थानाच्च व्यवरोप्यते
६.०५१.०२१ तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम्
६.०५१.०२१ भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमुवाच ह
६.०५१.०२२ मान्यो गुरुरिवाचार्यः किं मां त्वमनुशासति
६.०५१.०२२ किमेवं वाक्श्रमं कृत्वा काले युक्तं विधीयताम्
६.०५१.०२३ विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा
६.०५१.०२३ नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः
६.०५१.०२४ अस्मिन् काले तु यद्युक्तं तदिदानीं विधीयताम्
६.०५१.०२४ ममापनयजं दोषं विक्रमेण समीकुरु
६.०५१.०२५ यदि खल्वस्ति मे स्नेहो भ्रातृत्वं वावगच्छसि
६.०५१.०२५ यदि वा कार्यमेतत्ते हृदि कार्यतमं मतम्
६.०५१.०२६ स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते
६.०५१.०२६ स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते
६.०५१.०२७ तमथैवं ब्रुवाणं तु वचनं धीरदारुणम्
६.०५१.०२७ रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह
६.०५१.०२८ अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम्
६.०५१.०२८ कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन्
६.०५१.०२९ अलं राक्षसराजेन्द्र संतापमुपपद्य ते
६.०५१.०२९ रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि
६.०५१.०३० नैतन्मनसि कर्तव्व्यं मयि जीवति पार्थिव
६.०५१.०३० तमहं नाशयिष्यामि यत्कृते परितप्यसे
६.०५१.०३१ अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव
६.०५१.०३१ बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव
६.०५१.०३२ सदृशं यत्तु कालेऽस्मिन् कर्तुं स्निग्धेन बन्धुना
६.०५१.०३२ शत्रूणां कदनं पश्य क्रियमाणं मया रणे
६.०५१.०३३ अद्य पश्य महाबाहो मया समरमूर्धनि
६.०५१.०३३ हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम्
६.०५१.०३४ अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः
६.०५१.०३४ सुखीभव महाबाहो सीता भवतु दुःखिता
६.०५१.०३५ अद्य रामस्य पश्यन्तु निधनं सुमहत्प्रियम्
६.०५१.०३५ लङ्कायां राक्षसाः सर्वे ये ते निहतबान्धवाः
६.०५१.०३६ अद्य शोकपरीतानां स्वबन्धुवधकारणात्
६.०५१.०३६ शत्रोर्युधि विनाशेन करोम्यस्रप्रमार्जनम्
६.०५१.०३७ अद्य पर्वतसंकाशं ससूर्यमिव तोयदम्
६.०५१.०३७ विकीर्णं पश्य समरे सुग्रीवं प्लवगेश्वरम्
६.०५१.०३८ न परः प्रेषणीयस्ते युद्धायातुल विक्रम
६.०५१.०३८ अहमुत्सादयिष्यामि शत्रूंस्तव महाबल
६.०५१.०३९ यदि शक्रो यदि यमो यदि पावकमारुतौ
६.०५१.०३९ तानहं योधयिष्यामि कुबेर वरुणावपि
६.०५१.०४० गिरिमात्रशरीरस्य शितशूलधरस्य मे
६.०५१.०४० नर्दतस्तीक्ष्णदंष्ट्रस्य बिभीयाच्च पुरंदरः
६.०५१.०४१ अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून्
६.०५१.०४१ न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः
६.०५१.०४२ नैव शक्त्या न गदया नासिना न शितैः शरैः
६.०५१.०४२ हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम्
६.०५१.०४३ यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति
६.०५१.०४३ ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते
६.०५१.०४४ चिन्तया बाध्यसे राजन् किमर्थं मयि तिष्ठति
६.०५१.०४४ सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः
६.०५१.०४५ मुञ्च रामाद्भयं राजन् हनिष्यामीह संयुगे
६.०५१.०४५ राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम्
६.०५१.०४५ असाधारणमिच्छामि तव दातुं महद्यशः
६.०५१.०४६ वधेन ते दाशरथेः सुखावहं॑ सुखं समाहर्तुमहं व्रजामि
६.०५१.०४६ निहत्य रामं सहलक्ष्मणेन॑ खादामि सर्वान् हरियूथमुख्यान्
६.०५१.०४७ रमस्व कामं पिब चाग्र्यवारुणीं॑ कुरुष्व कृत्यानि विनीयतां ज्वरः
६.०५१.०४७ मयाद्य रामे गमिते यमक्षयं॑ चिराय सीता वशगा भविष्यति
६.०५२.००१ तदुक्तमतिकायस्य बलिनो बाहुशालिनः
६.०५२.००१ कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः
६.०५२.००२ कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः
६.०५२.००२ अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम्
६.०५२.००३ न हि राजा न जानीते कुम्भकर्ण नयानयौ
६.०५२.००३ त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि
६.०५२.००४ स्थानं वृद्धिं च हानिं च देशकालविभागवित्
६.०५२.००४ आत्मनश्च परेषां च बुध्यते राक्षसर्षभ
६.०५२.००५ यत्तु शक्यं बलवता कर्तुं प्राकृतबुद्धिना
६.०५२.००५ अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः
६.०५२.००६ यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान्
६.०५२.००६ अनुबोद्धुं स्वभावेन न हि लक्षणमस्ति ते
६.०५२.००७ कर्म चैव हि सर्वेषां कारणानां प्रयोजनम्
६.०५२.००७ श्रेयः पापीयसां चात्र फलं भवति कर्मणाम्
६.०५२.००८ निःश्रेयस फलावेव धर्मार्थावितरावपि
६.०५२.००८ अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम्
६.०५२.००९ ऐहलौकिकपारत्र्यं कर्म पुम्भिर्निषेव्यते
६.०५२.००९ कर्माण्यपि तु कल्प्यानि लभते काममास्थितः
६.०५२.०१० तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः
६.०५२.०१० शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते
६.०५२.०११ एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया
६.०५२.०११ तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च
६.०५२.०१२ येन पूर्वं जनस्थाने बहवोऽतिबला हताः
६.०५२.०१२ राक्षसा राघवं तं त्वं कथमेको जयिष्यसि
६.०५२.०१३ ये पुरा निर्जितास्तेन जनस्थाने महौजसः
६.०५२.०१३ राक्षसांस्तान् पुरे सर्वान् भीतानद्यापि पश्यसि
६.०५२.०१४ तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम्
६.०५२.०१४ सर्पं सुप्तमिवाबुद्ध्या प्रबोधयितुमिच्छसि
६.०५२.०१५ ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम्
६.०५२.०१५ कस्तं मृत्युमिवासह्यमासादयितुमर्हति
६.०५२.०१६ संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने
६.०५२.०१६ एकस्य गमनं तत्र न हि मे रोचते तव
६.०५२.०१७ हीनार्थस्तु समृद्धार्थं को रिपुं प्राकृतो यथा
६.०५२.०१७ निश्चितं जीवितत्यागे वशमानेतुमिच्छति
६.०५२.०१८ यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम
६.०५२.०१८ कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः
६.०५२.०१९ एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः
६.०५२.०१९ उवाच रक्षसां मध्ये रावणो लोकरावणम्
६.०५२.०२० लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसि
६.०५२.०२० यदेच्छसि तदा सीता वशगा ते भविष्यति
६.०५२.०२१ दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः
६.०५२.०२१ रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु
६.०५२.०२२ अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः
६.०५२.०२२ पञ्चरामवधायैते निर्यान्तीत्यवघोषय
६.०५२.०२३ ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः
६.०५२.०२३ जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः
६.०५२.०२४ अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः
६.०५२.०२४ ततः समभिपत्स्यामो मनसा यत्समीक्षितुम्
६.०५२.०२५ वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः
६.०५२.०२५ विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः
६.०५२.०२६ भक्षितो राघवोऽस्माभिर्लक्ष्मणश्चेति वादिनः
६.०५२.०२६ तव पादौ ग्रहीष्यामस्त्वं नः काम प्रपूरय
६.०५२.०२७ ततोऽवघोषय पुरे गजस्कन्धेन पार्थिव
६.०५२.०२७ हतो रामः सह भ्रात्रा ससैन्य इति सर्वतः
६.०५२.०२८ प्रीतो नाम ततो भूत्वा भृत्यानां त्वमरिंदम
६.०५२.०२८ भोगांश्च परिवारांश्च कामांश्च वसुदापय
६.०५२.०२९ ततो माल्यानि वासांसि वीराणामनुलेपनम्
६.०५२.०२९ पेयं च बहु योधेभ्यः स्वयं च मुदितः पिब
६.०५२.०३० ततोऽस्मिन् बहुलीभूते कौलीने सर्वतो गते
६.०५२.०३० प्रविश्याश्वास्य चापि त्वं सीतां रहसि सान्त्वय
६.०५२.०३० धनधान्यैश्च कामैश्च रत्नैश्चैनां प्रलोभय
६.०५२.०३१ अनयोपधया राजन् भयशोकानुबन्धया
६.०५२.०३१ अकामा त्वद्वशं सीता नष्टनाथा गमिष्यति
६.०५२.०३२ रञ्जनीयं हि भर्तारं विनष्टमवगम्य सा
६.०५२.०३२ नैराश्यात्स्त्रीलघुत्वाच्च त्वद्वशं प्रतिपत्स्यते
६.०५२.०३३ सा पुरा सुखसंवृद्धा सुखार्हा दुःखकर्षिता
६.०५२.०३३ त्वय्यधीनः सुखं ज्ञात्वा सर्वथोपगमिष्यति
६.०५२.०३४ एतत्सुनीतं मम दर्शनेन॑ रामं हि दृष्ट्वैव भवेदनर्थः
६.०५२.०३४ इहैव ते सेत्स्यति मोत्सुको भूर्॑ महानयुद्धेन सुखस्य लाभः
६.०५२.०३५ अनष्टसैन्यो ह्यनवाप्तसंशयो॑ रिपूनयुद्धेन जयञ्जनाधिप
६.०५२.०३५ यशश्च पुण्यं च महन्महीपते॑ श्रियं च कीर्तिं च चिरं समश्नुते
६.०५३.००१ स तथोक्तस्तु निर्भर्त्स्य कुम्भकर्णो महोदरम्
६.०५३.००१ अब्रवीद्राक्षसश्रेष्ठं भ्रातरं रावणं ततः
६.०५३.००२ सोऽहं तव भयं घोरं वधात्तस्य दुरात्मनः
६.०५३.००२ रामस्याद्य प्रमार्जामि निर्वैरस्त्वं सुखीभव
६.०५३.००३ गर्जन्ति न वृथा शूर निर्जला इव तोयदाः
६.०५३.००३ पश्य संपाद्यमानं तु गर्जितं युधि कर्मणा
६.०५३.००४ न मर्षयति चात्मानं संभावयति नात्मना
६.०५३.००४ अदर्शयित्वा शूरास्तु कर्म कुर्वन्ति दुष्करम्
६.०५३.००५ विक्लवानामबुद्धीनां राज्ञां पण्डितमानिनाम्
६.०५३.००५ शृण्वतामादित इदं त्वद्विधानां महोदर
६.०५३.००६ युद्धे कापुरुषैर्नित्यं भवद्भिः प्रियवादिभिः
६.०५३.००६ राजानमनुगच्छद्भिः कृत्यमेतद्विनाशितम्
६.०५३.००७ राजशेषा कृता लङ्का क्षीणः कोशो बलं हतम्
६.०५३.००७ राजानमिममासाद्य सुहृच्चिह्नममित्रकम्
६.०५३.००८ एष निर्याम्यहं युद्धमुद्यतः शत्रुनिर्जये
६.०५३.००८ दुर्नयं भवतामद्य समीकर्तुं महाहवे
६.०५३.००९ एवमुक्तवतो वाक्यं कुम्भकर्णस्य धीमतः
६.०५३.००९ प्रत्युवाच ततो वाक्यं प्रहसन् राक्षसाधिपः
६.०५३.०१० महोदरोऽयं रामात्तु परित्रस्तो न संशयः
६.०५३.०१० न हि रोचयते तात युद्धं युद्धविशारद
६.०५३.०११ कश्चिन्मे त्वत्समो नास्ति सौहृदेन बलेन च
६.०५३.०११ गच्छ शत्रुवधाय त्वं कुम्भकर्णजयाय च
६.०५३.०१२ आददे निशितं शूलं वेगाच्छत्रुनिबर्हणः
६.०५३.०१२ सर्वकालायसं दीप्तं तप्तकाञ्चनभूषणम्
६.०५३.०१३ इन्द्राशनिसमं भीमं वज्रप्रतिमगौरवम्
६.०५३.०१३ देवदानवगन्धर्वयक्षकिंनरसूदनम्
६.०५३.०१४ रक्तमाल्य महादाम स्वतश्चोद्गतपावकम्
६.०५३.०१४ आदाय निशितं शूलं शत्रुशोणितरञ्जितम्
६.०५३.०१४ कुम्भकर्णो महातेजा रावणं वाक्यमब्रवीत्
६.०५३.०१५ गमिष्याम्यहमेकाकी तिष्ठत्विह बलं महत्
६.०५३.०१५ अद्य तान् क्षुधितः क्रुद्धो भक्षयिष्यामि वानरान्
६.०५३.०१६ कुम्भकर्णवचः श्रुत्वा रावणो वाक्यमब्रवीत्
६.०५३.०१६ सैन्यैः परिवृतो गच्छ शूलमुद्गलपाणिभिः
६.०५३.०१७ वानरा हि महात्मानः शीघ्राश्च व्यवसायिनः
६.०५३.०१७ एकाकिनं प्रमत्तं वा नयेयुर्दशनैः क्षयम्
६.०५३.०१८ तस्मात्परमदुर्धर्षैः सैन्यैः परिवृतो व्रज
६.०५३.०१८ रक्षसामहितं सर्वं शत्रुपक्षं निसूदय
६.०५३.०१९ अथासनात्समुत्पत्य स्रजं मणिकृतान्तराम्
६.०५३.०१९ आबबन्ध महातेजाः कुम्भकर्णस्य रावणः
६.०५३.०२० अङ्गदानङ्गुलीवेष्टान् वराण्याभरणानि च
६.०५३.०२० हारं च शशिसंकाशमाबबन्ध महात्मनः
६.०५३.०२१ दिव्यानि च सुगन्धीनि माल्यदामानि रावणः
६.०५३.०२१ श्रोत्रे चासज्जयामास श्रीमती चास्य कुण्डले
६.०५३.०२२ काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः
६.०५३.०२२ कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ
६.०५३.०२३ श्रोणीसूत्रेण महता मेचकेन विराजितः
६.०५३.०२३ अमृतोत्पादने नद्धो भुजंगेनेव मन्दरः
६.०५३.०२४ स काञ्चनं भारसहं निवातं॑ विद्युत्प्रभं दीप्तमिवात्मभासा
६.०५३.०२४ आबध्यमानः कवचं रराज॑ संध्याभ्रसंवीत इवाद्रिराजः
६.०५३.०२५ सर्वाभरणनद्धाङ्गः शूलपाणिः स राक्षसः
६.०५३.०२५ त्रिविक्रमकृतोत्साहो नारायण इवाबभौ
६.०५३.०२६ भ्रातरं संपरिष्वज्य कृत्वा चापि प्रदक्षिणम्
६.०५३.०२६ प्रणम्य शिरसा तस्मै संप्रतस्थे महाबलिः
६.०५३.०२६ तमाशीर्भिः प्रशस्ताभिः प्रेषयामास रावणः
६.०५३.०२७ शङ्खदुन्दुभिनिर्घोषैः सैन्यैश्चापि वरायुधैः
६.०५३.०२७ तं गजैश्च तुरंगैश्च स्यन्दनैश्चाम्बुदस्वनैः
६.०५३.०२७ अनुजग्मुर्महात्मानं रथिनो रथिनां वरम्
६.०५३.०२८ सर्पैरुष्ट्रैः खरैरश्वैः सिंहद्विपमृगद्विजैः
६.०५३.०२८ अनुजग्मुश्च तं घोरं कुम्भकर्णं महाबलम्
६.०५३.०२९ स पुष्पवर्णैरवकीर्यमाणो॑ धृतातपत्रः शितशूलपाणिः
६.०५३.०२९ मदोत्कटः शोणितगन्धमत्तो॑ विनिर्ययौ दानवदेवशत्रुः
६.०५३.०३० पदातयश बहवो महानादा महाबलाः
६.०५३.०३० अन्वयू राक्षसा भीमा भीमाक्षाः शस्त्रपाणयः
६.०५३.०३१ रक्ताक्षाः सुमहाकाया नीलाञ्जनचयोपमाः
६.०५३.०३१ शूरानुद्यम्य खड्गांश्च निशितांश्च परश्वधान्
६.०५३.०३२ बहुव्यामांश्च विपुलान् क्षेपणीयान् दुरासदान्
६.०५३.०३२ तालस्कन्धांश्च विपुलान् क्षेपणीयान् दुरासदान्
६.०५३.०३३ अथान्यद्वपुरादाय दारुणं लोमहर्षणम्
६.०५३.०३३ निष्पपात महातेजाः कुम्भकर्णो महाबलः
६.०५३.०३४ धनुःशतपरीणाहः स षट्शतसमुच्छितः
६.०५३.०३४ रौद्रः शकटचक्राक्षो महापर्वतसंनिभः
६.०५३.०३५ संनिपत्य च रक्षांसि दग्धशैलोपमो महान्
६.०५३.०३५ कुम्भकर्णो महावक्त्रः प्रहसन्निदमब्रवीत्
६.०५३.०३६ अद्य वानरमुख्यानां तानि यूथानि भागशः
६.०५३.०३६ निर्दहिष्यामि संक्रुद्धः शलभानिव पावकः
६.०५३.०३७ नापराध्यन्ति मे कामं वानरा वनचारिणः
६.०५३.०३७ जातिरस्मद्विधानां सा पुरोद्यानविभूषणम्
६.०५३.०३८ पुररोधस्य मूलं तु राघवः सहलक्ष्मणः
६.०५३.०३८ हते तस्मिन् हतं सर्वं तं वधिष्यामि संयुगे
६.०५३.०३९ एवं तस्य ब्रुवाणस्य कुम्भकर्णस्य राक्षसाः
६.०५३.०३९ नादं चक्रुर्महाघोरं कम्पयन्त इवार्णवम्
६.०५३.०४० तस्य निष्पततस्तूर्णं कुम्भकर्णस्य धीमतः
६.०५३.०४० बभूवुर्घोररूपाणि निमित्तानि समन्ततः
६.०५३.०४१ उल्काशनियुता मेघा विनेदुश्च सुदारुणाः
६.०५३.०४१ ससागरवना चैव वसुधा समकम्पत
६.०५३.०४२ घोररूपाः शिवा नेदुः सज्वालकवलैर्मुखैः
६.०५३.०४२ मण्डलान्यपसव्यानि बबन्धुश्च विहंगमाः
६.०५३.०४३ निष्पपात च गृध्रेऽस्य शूले वै पथि गच्छतः
६.०५३.०४३ प्रास्फुरन्नयनं चास्य सव्यो बाहुरकम्पत
६.०५३.०४४ निष्पपात तदा चोक्ला ज्वलन्ती भीमनिस्वना
६.०५३.०४४ आदित्यो निष्प्रभश्चासीन्न प्रवाति सुखोऽनिलः
६.०५३.०४५ अचिन्तयन्महोत्पातानुत्थितांल्लोमहर्षणान्
६.०५३.०४५ निर्ययौ कुम्भकर्णस्तु कृतान्तबलचोदितः
६.०५३.०४६ स लङ्घयित्वा प्राकारं पद्भ्यां पर्वतसंनिभः
६.०५३.०४६ ददर्शाभ्रघनप्रख्यं वानरानीकमद्भुतम्
६.०५३.०४७ ते दृष्ट्वा राक्षसश्रेष्ठं वानराः पर्वतोपमम्
६.०५३.०४७ वायुनुन्ना इव घना ययुः सर्वा दिशस्तदा
६.०५३.०४८ तद्वानरानीकमतिप्रचण्डं॑ दिशो द्रवद्भिन्नमिवाभ्रजालम्
६.०५३.०४८ स कुम्भकर्णः समवेक्ष्य हर्षान्॑ ननाद भूयो घनवद्घनाभः
६.०५३.०४९ ते तस्य घोरं निनदं निशम्य॑ यथा निनादं दिवि वारिदस्य
६.०५३.०४९ पेतुर्धरण्यां बहवः प्लवंगा॑ निकृत्तमूला इव सालवृक्षाः
६.०५३.०५० विपुलपरिघवान् स कुम्भकर्णो॑ रिपुनिधनाय विनिःसृतो महात्मा
६.०५३.०५० कपि गणभयमाददत्सुभीमं॑ प्रभुरिव किंकरदण्डवान् युगान्ते
६.०५४.००१ स ननाद महानादं समुद्रमभिनादयन्
६.०५४.००१ जनयन्निव निर्घातान् विधमन्निव पर्वतान्
६.०५४.००२ तमवध्यं मघवता यमेन वरुणेन च
६.०५४.००२ प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः
६.०५४.००३ तांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत्
६.०५४.००३ नलं नीलं गवाक्षं च कुमुदं च महाबलम्
६.०५४.००४ आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च
६.०५४.००४ क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा
६.०५४.००५ साधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ
६.०५४.००५ नालं युद्धाय वै रक्षो महतीयं विभीषिकाः
६.०५४.००६ महतीमुत्थितामेनां राक्षसानां विभीषिकाम्
६.०५४.००६ विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः
६.०५४.००७ कृच्छ्रेण तु समाश्वास्य संगम्य च ततस्ततः
६.०५४.००७ वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम्
६.०५४.००८ ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः
६.०५४.००८ निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः
६.०५४.००८ प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः
६.०५४.००९ पादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते
६.०५४.००९ तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः
६.०५४.००९ पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले
६.०५४.०१० सोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम्
६.०५४.०१० ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः
६.०५४.०११ लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः
६.०५४.०११ निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः
६.०५४.०१२ लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन्
६.०५४.०१२ के चित्समुद्रे पतिताः के चिद्गगनमाश्रिताः
६.०५४.०१३ वध्यमानास्तु ते वीरा राक्षसेन बलीयसा
६.०५४.०१३ सागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः
६.०५४.०१४ ते स्थलानि तथा निम्नं विषण्णवदना भयात्
६.०५४.०१४ ऋक्षा वृक्षान् समारूढाः के चित्पर्वतमाश्रिताः
६.०५४.०१५ ममज्जुरर्णवे के चिद्गुहाः के चित्समाश्रिताः
६.०५४.०१५ निषेदुः प्लवगाः के चित्के चिन्नैवावतस्थिरे
६.०५४.०१६ तान् समीक्ष्याङ्गदो भङ्गान् वानरानिदमब्रवीत्
६.०५४.०१६ अवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः
६.०५४.०१७ भग्नानां वो न पश्यामि परिगम्य महीमिमाम्
६.०५४.०१७ स्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ
६.०५४.०१८ निरायुधानां द्रवतामसंगगतिपौरुषाः
६.०५४.०१८ दारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम्
६.०५४.०१९ कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च
६.०५४.०१९ अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत
६.०५४.०२० विकत्थनानि वो यानि यदा वै जनसंसदि
६.०५४.०२० तानि वः क्व च यतानि सोदग्राणि महान्ति च
६.०५४.०२१ भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः
६.०५४.०२१ मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम्
६.०५४.०२२ शयामहे वा निहताः पृथिव्यामल्पजीविताः
६.०५४.०२२ दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः
६.०५४.०२२ संप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे
६.०५४.०२३ न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति
६.०५४.०२३ दीप्यमानमिवासाद्य पतंगो ज्वलनं यथा
६.०५४.०२४ पलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्
६.०५४.०२४ एकेन बहवो भग्ना यशो नाशं गमिष्यति
६.०५४.०२५ एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्
६.०५४.०२५ द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम्
६.०५४.०२६ कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा
६.०५४.०२६ न स्थानकालो गच्छामो दयितं जीवितं हि नः
६.०५४.०२७ एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः
६.०५४.०२७ भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः
६.०५४.०२८ द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः
६.०५४.०२८ सान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः
६.०५४.०२९ ऋषभशरभमैन्दधूम्रनीलाः॑ कुमुदसुषेणगवाक्षरम्भताराः
६.०५४.०२९ द्विविदपनसवायुपुत्रमुख्यास्॑ त्वरिततराभिमुखं रणं प्रयाताः
६.०५५.००१ ते निवृत्ता महाकायाः श्रुत्वाङ्गदवचस्तदा
६.०५५.००१ नैष्ठिकीं बुद्धिमास्थाय सर्वे संग्रामकाङ्क्षिणः
६.०५५.००२ समुदीरितवीर्यास्ते समारोपितविक्रमाः
६.०५५.००२ पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः
६.०५५.००३ प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः
६.०५५.००३ चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः
६.०५५.००४ अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च
६.०५५.००४ वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रवन्
६.०५५.००५ स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान्
६.०५५.००५ अर्दयन् सुमहाकायः समन्ताद्व्याक्षिपद्रिपून्
६.०५५.००६ शतानि सप्त चाष्टौ च सहस्राणि च वानराः
६.०५५.००६ प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः
६.०५५.००७ षोडशाष्टौ च दश च विंशत्त्रिंशत्तथैव च
६.०५५.००७ परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति
६.०५५.००७ भक्षयन् भृशसंक्रुद्धो गरुडः पन्नगानिव
६.०५५.००८ हनूमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान् बहून्
६.०५५.००८ ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः
६.०५५.००९ तानि पर्वतशृङ्गाणि शूलेन तु बिभेद ह
६.०५५.००९ बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः
६.०५५.०१० ततो हरीणां तदनीकमुग्रं॑ दुद्राव शूलं निशितं प्रगृह्य
६.०५५.०१० तस्थौ ततोऽस्यापततः पुरस्तान्॑ महीधराग्रं हनुमान् प्रगृह्य
६.०५५.०११ स कुम्भकर्णं कुपितो जघान॑ वेगेन शैलोत्तमभीमकायम्
६.०५५.०११ स चुक्षुभे तेन तदाभिबूतो॑ मेदार्द्रगात्रो रुधिरावसिक्तः
६.०५५.०१२ स शूलमाविध्य तडित्प्रकाशं॑ गिरिं यथा प्रज्वलिताग्रशृङ्गम्
६.०५५.०१२ बाह्वन्तरे मारुतिमाजघान॑ गुहोऽचलं क्रौञ्चमिवोग्रशक्त्या
६.०५५.०१३ स शूलनिर्भिन्न महाभुजान्तरः॑ प्रविह्वलः शोणितमुद्वमन्मुखात्
६.०५५.०१३ ननाद भीमं हनुमान्महाहवे॑ युगान्तमेघस्तनितस्वनोपमम्
६.०५५.०१४ ततो विनेदुः सहसा प्रहृष्टा॑ रक्षोगणास्तं व्यथितं समीक्ष्य
६.०५५.०१४ प्लवंगमास्तु व्यथिता भयार्ताः॑ प्रदुद्रुवुः संयति कुम्भकर्णात्
६.०५५.०१५ नीलश्चिक्षेप शैलाग्रं कुम्भकर्णाय धीमते
६.०५५.०१५ तमापतन्तं संप्रेक्ष्य मुष्टिनाभिजघान ह
६.०५५.०१६ मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत
६.०५५.०१६ सविस्फुलिङ्गं सज्वालं निपपात महीतले
६.०५५.०१७ ऋषभः शरभो नीलो गवाक्षो गन्धमादनः
६.०५५.०१७ पञ्चवानरशार्दूलाः कुम्भकर्णमुपाद्रवन्
६.०५५.०१८ शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः
६.०५५.०१८ कुम्भकर्णं महाकायं सर्वतोऽभिनिजघ्निरे
६.०५५.०१९ स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे
६.०५५.०१९ ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे
६.०५५.०२० कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः
६.०५५.०२० निपपातर्षभो भीमः प्रमुखागतशोणितः
६.०५५.०२१ मुष्टिना शरभं हत्वा जानुना नीलमाहवे
६.०५५.०२१ आजघान गवाक्षं च तलेनेन्द्ररिपुस्तदा
६.०५५.०२२ दत्तप्रहरव्यथिता मुमुहुः शोणितोक्षिताः
६.०५५.०२२ निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः
६.०५५.०२३ तेषु वानरमुख्येषु पतितेषु महात्मसु
६.०५५.०२३ वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः
६.०५५.०२४ तं शैलमिव शैलाभाः सर्वे तु प्लवगर्षभाः
६.०५५.०२४ समारुह्य समुत्पत्य ददंशुश्च महाबलाः
६.०५५.०२५ तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा
६.०५५.०२५ कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः
६.०५५.०२६ स वानरसहस्रैस्तैराचितः पर्वतोपमः
६.०५५.०२६ रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव
६.०५५.०२७ बाहुभ्यां वानरान् सर्वान् प्रगृह्य स महाबलः
६.०५५.०२७ भक्षयामास संक्रुद्धो गरुडः पन्नगानिव
६.०५५.०२८ प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसंनिभे
६.०५५.०२८ नासा पुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः
६.०५५.०२९ भक्षयन् भृशसंक्रुद्धो हरीन् पर्वतसंनिभः
६.०५५.०२९ बभञ्ज वानरान् सर्वान् संक्रुद्धो राक्षसोत्तमः
६.०५५.०३० मांसशोणितसंक्लेदां भूमिं कुर्वन् स राक्षसः
६.०५५.०३० चचार हरिसैन्येषु कालाग्निरिव मूर्छितः
६.०५५.०३१ वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः
६.०५५.०३१ शूलहस्तो बभौ तस्मिन् कुम्भकर्णो महाबलः
६.०५५.०३२ यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः
६.०५५.०३२ तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत्
६.०५५.०३३ ततस्ते वध्यमानास्तु हतयूथा विनायकाः
६.०५५.०३३ वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम्
६.०५५.०३४ अनेकशो वध्यमानाः कुम्भकर्णेन वानराः
६.०५५.०३४ राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः
६.०५५.०३५ तमापतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम्
६.०५५.०३५ उत्पपात तदा वीरः सुग्रीवो वानराधिपः
६.०५५.०३६ स पर्वताग्रमुत्क्षिप्य समाविध्य महाकपिः
६.०५५.०३६ अभिदुद्राव वेगेन कुम्भकर्णं महाबलम्
६.०५५.०३७ तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवंगमम्
६.०५५.०३७ तस्थौ विवृतसर्वाङ्गो वानरेन्द्रस्य संमुखः
६.०५५.०३८ कपिशोणितदिग्धाङ्गं भक्षयन्तं महाकपीन्
६.०५५.०३८ कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत्
६.०५५.०३९ पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम्
६.०५५.०३९ भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः
६.०५५.०४० त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि
६.०५५.०४० सहस्वैकं निपातं मे पर्वतस्यास्य राक्षस
६.०५५.०४१ तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम्
६.०५५.०४१ श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः
६.०५५.०४२ प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजःसुतः
६.०५५.०४२ श्रुतपौरुषसंपन्नस्तस्माद्गर्जसि वानर
६.०५५.०४३ स कुम्भकर्णस्य वचो निशम्य॑ व्याविध्य शैलं सहसा मुमोच
६.०५५.०४३ तेनाजघानोरसि कुम्भकर्णं॑ शैलेन वज्राशनिसंनिभेन
६.०५५.०४४ तच्छैलशृङ्गं सहसा विकीर्णं॑ भुजान्तरे तस्य तदा विशाले
६.०५५.०४४ ततो विषेदुः सहसा प्लवंगमा॑ रक्षोगणाश्चापि मुदा विनेदुः
६.०५५.०४५ स शैलशृङ्गाभिहतश्चुकोप॑ ननाद कोपाच्च विवृत्य वक्त्रम्
६.०५५.०४५ व्याविध्य शूलं च तडित्प्रकाशं॑ चिक्षेप हर्यृक्षपतेर्वधाय
६.०५५.०४६ तत्कुम्भकर्णस्य भुजप्रविद्धं॑ शूलं शितं काञ्चनदामजुष्टम्
६.०५५.०४६ क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां॑ बभञ्ज वेगेन सुतोऽनिलस्य
६.०५५.०४७ कृतं भारसहस्रस्य शूलं कालायसं महत्
६.०५५.०४७ बभञ्ज जनौमारोप्य प्रहृष्टः प्लवगर्षभः
६.०५५.०४८ स तत्तदा भग्नमवेक्ष्य शूलं॑ चुकोप रक्षोऽधिपतिर्महात्मा
६.०५५.०४८ उत्पाट्य लङ्कामलयात्स शृङ्गं॑ जघान सुग्रीवमुपेत्य तेन
६.०५५.०४९ स शैलशृङ्गाभिहतो विसंज्ञः॑ पपात भूमौ युधि वानरेन्द्रः
६.०५५.०४९ तं प्रेक्ष्य भूमौ पतितं विसंज्ञं॑ नेदुः प्रहृष्टा युधि यातुधानाः
६.०५५.०५० तमभ्युपेत्याद्भुतघोरवीर्यं॑ स कुम्भकर्णो युधि वानरेन्द्रम्
६.०५५.०५० जहार सुग्रीवमभिप्रगृह्य॑ यथानिलो मेघमतिप्रचण्डः
६.०५५.०५१ स तं महामेघनिकाशरूपम्॑ उत्पाट्य गच्छन् युधि कुम्भकर्णः
६.०५५.०५१ रराज मेरुप्रतिमानरूपो॑ मेरुर्यथात्युच्छ्रितघोरशृङ्गः
६.०५५.०५२ ततः समुत्पाट्य जगाम वीरः॑ संस्तूयमानो युधि राक्षसेन्द्रैः
६.०५५.०५२ शृण्वन्निनादं त्रिदशालयानां॑ प्लवंगराजग्रहविस्मितानाम्
६.०५५.०५३ ततस्तमादाय तदा स मेने॑ हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः
६.०५५.०५३ अस्मिन् हृते सर्वमिदं हृतं स्यात्॑ सराघवं सैन्यमितीन्द्रशत्रुः
६.०५५.०५४ विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः
६.०५५.०५४ कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्
६.०५५.०५५ हनूमांश्चिन्तयामास मतिमान्मारुतात्मजः
६.०५५.०५५ एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत्
६.०५५.०५६ यद्वै न्याय्यं मया कर्तुं तत्करिष्यामि सर्वथा
६.०५५.०५६ भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसं
६.०५५.०५७ मया हते संयति कुम्भकर्णे॑ महाबले मुष्टिविशीर्णदेहे
६.०५५.०५७ विमोचिते वानरपार्थिवे च॑ भवन्तु हृष्टाः प्रवगाः समग्राः
६.०५५.०५८ अथ वा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः
६.०५५.०५८ गृहीतोऽयं यदि भवेत्त्रिदशैः सासुरोरगैः
६.०५५.०५९ मन्ये न तावदात्मानं बुध्यते वानराधिपः
६.०५५.०५९ शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे
६.०५५.०६० अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे
६.०५५.०६० आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति
६.०५५.०६१ मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः
६.०५५.०६१ अप्रीतश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः
६.०५५.०६२ तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य नः
६.०५५.०६२ भिन्नं च वानरानीकं तावदाश्वासयाम्यहम्
६.०५५.०६३ इत्येवं चिन्तयित्वा तु हनूमान्मारुतात्मजः
६.०५५.०६३ भूयः संस्तम्भयामास वानराणां महाचमूम्
६.०५५.०६४ स कुम्भकर्णोऽथ विवेश लङ्कां॑ स्फुरन्तमादाय महाहरिं तम्
६.०५५.०६४ विमानचर्यागृहगोपुरस्थैः॑ पुष्पाग्र्यवर्षैरवकीर्यमाणः
६.०५५.०६५ ततः स संज्ञामुपलभ्य कृच्छ्राद्॑ बलीयसस्तस्य भुजान्तरस्थः
६.०५५.०६५ अवेक्षमाणः पुरराजमार्गं॑ विचिन्तयामास मुहुर्महात्मा
६.०५५.०६६ एवं गृहीतेन कथं नु नाम॑ शक्यं मया संप्रति कर्तुमद्य
६.०५५.०६६ तथा करिष्यामि यथा हरीणां॑ भविष्यतीष्टं च हितं च कार्यम्
६.०५५.०६७ ततः कराग्रैः सहसा समेत्य॑ राजा हरीणाममरेन्द्रशत्रोः
६.०५५.०६७ नखैश्च कर्णौ दशनैश्च नासां॑ ददंश पार्श्वेषु च कुम्भकर्णम्
६.०५५.०६८ स कुम्भकर्णौ हृतकर्णनासो॑ विदारितस्तेन विमर्दितश्च
६.०५५.०६८ रोषाभिभूतः क्षतजार्द्रगात्रः॑ सुग्रीवमाविध्य पिपेष भूमौ
६.०५५.०६९ स भूतले भीमबलाभिपिष्टः॑ सुरारिभिस्तैरभिहन्यमानः
६.०५५.०६९ जगाम खं वेगवदभ्युपेत्य॑ पुनश्च रामेण समाजगाम
६.०५५.०७० कर्णनासा विहीनस्य कुम्भकर्णो महाबलः
६.०५५.०७० रराज शोणितोत्सिक्तो गिरिः प्रस्रवणैरिव
६.०५५.०७१ ततः स पुर्याः सहसा महात्मा॑ निष्क्रम्य तद्वानरसैन्यमुग्रम्
६.०५५.०७१ बभक्ष रक्षो युधि कुम्भकर्णः॑ प्रजा युगान्ताग्निरिव प्रदीप्तः
६.०५५.०७२ बुभुक्षितः शोणितमांसगृध्नुः॑ प्रविश्य तद्वानरसैन्यमुग्रम्
६.०५५.०७२ चखाद रक्षांसि हरीन् पिशाचान्॑ ऋक्षांश्च मोहाद्युधि कुम्भकर्णः
६.०५५.०७३ एकं द्वौ त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः
६.०५५.०७३ समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे
६.०५५.०७४ संप्रस्रवंस्तदा मेदः शोणितं च महाबलः
६.०५५.०७४ वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान्
६.०५५.०७४ ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम्
६.०५५.०७५ तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः
६.०५५.०७५ चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः
६.०५५.०७६ स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान्
६.०५५.०७६ निचखानाददे चान्यान् विससर्ज च लक्ष्मणः
६.०५५.०७७ अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः
६.०५५.०७७ राममेवाभिदुद्राव दारयन्निव मेदिनीम्
६.०५५.०७८ अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन्
६.०५५.०७८ कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान्
६.०५५.०७९ तस्य रामेण विद्धस्य सहसाभिप्रधावतः
६.०५५.०७९ अङ्गारमिश्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः
६.०५५.०८० तस्योरसि निमग्नाश्च शरा बर्हिणवाससः
६.०५५.०८० हस्ताच्चास्य परिभ्रष्टा पपातोर्व्यां महागदा
६.०५५.०८१ स निरायुधमात्मानं यदा मेने महाबलः
६.०५५.०८१ मुष्टिभ्यां चारणाभ्यां च चकार कदनं महत्
६.०५५.०८२ स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः
६.०५५.०८२ रुधिरं परिसुस्राव गिरिः प्रस्रवणानिव
६.०५५.०८३ स तीव्रेण च कोपेन रुधिरेण च मूर्छितः
६.०५५.०८३ वानरान् राक्षसानृक्षान् खादन् विपरिधावति
६.०५५.०८४ तस्मिन् काले स धर्मात्मा लक्ष्मणो राममब्रवीत्
६.०५५.०८४ कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून्
६.०५५.०८५ नैवायं वानरान् राजन्न विजानाति राक्षसान्
६.०५५.०८५ मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति
६.०५५.०८६ साध्वेनमधिरोहन्तु सर्वतो वानरर्षभाः
६.०५५.०८६ यूथपाश्च यथामुख्यास्तिष्ठन्त्वस्य समन्ततः
६.०५५.०८७ अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः
६.०५५.०८७ प्रपतन् राक्षसो भूमौ नान्यान् हन्यात्प्लवंगमान्
६.०५५.०८८ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः
६.०५५.०८८ ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवंगमाः
६.०५५.०८९ कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवंगमैः
६.०५५.०८९ व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान्
६.०५५.०९० तान् दृष्ट्वा निर्धूतान् रामो रुष्टोऽयमिति राक्षसः
६.०५५.०९० समुत्पपात वेगेन धनुरुत्तममाददे
६.०५५.०९१ स चापमादाय भुजंगकल्पं॑ दृढज्यमुग्रं तपनीयचित्रम्
६.०५५.०९१ हरीन् समाश्वास्य समुत्पपात॑ रामो निबद्धोत्तमतूणबाणः
६.०५५.०९२ स वानरगणैस्तैस्तु वृतः परमदुर्जयः
६.०५५.०९२ लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः
६.०५५.०९३ स ददर्श महात्मानं किरीटिनमरिंदमम्
६.०५५.०९३ शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम्
६.०५५.०९४ सर्वान् समभिधावन्तं यथारुष्टं दिशा गजम्
६.०५५.०९४ मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम्
६.०५५.०९५ विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम्
६.०५५.०९५ स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम्
६.०५५.०९६ जिह्वया परिलिह्यन्तं शोणितं शोणितोक्षितम्
६.०५५.०९६ मृद्नन्तं वानरानीकं कालान्तकयमोपमम्
६.०५५.०९७ तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसं
६.०५५.०९७ विस्फारयामास तदा कार्मुकं पुरुषर्षभः
६.०५५.०९८ स तस्य चापनिर्घोषात्कुपितो नैरृतर्षभः
६.०५५.०९८ अमृष्यमाणस्तं घोषमभिदुद्राव राघवम्
६.०५५.०९९ ततस्तु वातोद्धतमेघकल्पं॑ भुजंगराजोत्तमभोगबाहुम्
६.०५५.०९९ तमापतन्तं धरणीधराभम्॑ उवाच रामो युधि कुम्भकर्णम्
६.०५५.१०० आगच्छ रक्षोऽधिपमा विषादम्॑ अवस्थितोऽहं प्रगृहीतचापः
६.०५५.१०० अवेहि मां शक्रसपत्न रामम्॑ अयं मुहूर्ताद्भविता विचेताः
६.०५५.१०१ रामोऽयमिति विज्ञाय जहास विकृतस्वनम्
६.०५५.१०१ पातयन्निव सर्वेषां हृदयानि वनौकसाम्
६.०५५.१०२ प्रहस्य विकृतं भीमं स मेघस्वनितोपमम्
६.०५५.१०२ कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत्
६.०५५.१०३ नाहं विराधो विज्ञेयो न कबन्धः खरो न च
६.०५५.१०३ न वाली न च मारीचः कुम्भकर्णोऽहमागतः
६.०५५.१०४ पश्य मे मुद्गरं घोरं सर्वकालायसं महत्
६.०५५.१०४ अनेन निर्जिता देवा दानवाश्च मया पुरा
६.०५५.१०५ विकर्णनास इति मां नावज्ञातुं त्वमर्हसि
६.०५५.१०५ स्वल्पापि हि न मे पीडा कर्णनासाविनाशनात्
६.०५५.१०६ दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु
६.०५५.१०६ ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम्
६.०५५.१०७ स कुम्भकर्णस्य वचो निशम्य॑ रामः सुपुङ्खान् विससर्ज बाणान्
६.०५५.१०७ तैराहतो वज्रसमप्रवेगैर्॑ न चुक्षुभे न व्यथते सुरारिः
६.०५५.१०८ यैः सायकैः सालवरा निकृत्ता॑ वाली हतो वानरपुंगवश्च
६.०५५.१०८ ते कुम्भकर्णस्य तदा शरीरं॑ वज्रोपमा न व्यथयां प्रचक्रुः
६.०५५.१०९ स वारिधारा इव सायकांस्तान्॑ पिबञ्शरीरेण महेन्द्रशत्रुः
६.०५५.१०९ जघान रामस्य शरप्रवेगं॑ व्याविध्य तं मुद्गरमुग्रवेगम्
६.०५५.११० ततस्तु रक्षः क्षतजानुलिप्तं॑ वित्रासनं देवमहाचमूनाम्
६.०५५.११० व्याविध्य तं मुद्गरमुग्रवेगं॑ विद्रावयामास चमूं हरीणाम्
६.०५५.१११ वायव्यमादाय ततो वरास्त्रं॑ रामः प्रचिक्षेप निशाचराय
६.०५५.१११ समुद्गरं तेन जहार बाहुं॑ स कृत्तबाहुस्तुमुलं ननाद
६.०५५.११२ स तस्य बाहुर्गिरिशृङ्गकल्पः॑ समुद्गरो राघवबाणकृत्तः
६.०५५.११२ पपात तस्मिन् हरिराजसैन्ये॑ जघान तां वानरवाहिनीं च
६.०५५.११३ ते वानरा भग्नहतावशेषाः॑ पर्यन्तमाश्रित्य तदा विषण्णाः
६.०५५.११३ प्रवेपिताङ्गा ददृशुः सुघोरं॑ नरेन्द्ररक्षोऽधिपसंनिपातम्
६.०५५.११४ स कुम्भकर्णोऽस्त्रनिकृत्तबाहुर्॑ महान्निकृत्ताग्र इवाचलेन्द्रः
६.०५५.११४ उत्पाटयामास करेण वृक्षं॑ ततोऽभिदुद्राव रणे नरेन्द्रम्
६.०५५.११५ तं तस्य बाहुं सह सालवृक्षं॑ समुद्यतं पन्नगभोगकल्पम्
६.०५५.११५ ऐन्द्रास्त्रयुक्तेन जहार रामो॑ बाणेन जाम्बूनदचित्रितेन
६.०५५.११६ स कुम्भकर्णस्य भुजो निकृत्तः॑ पपात भूमौ गिरिसंनिकाशः
६.०५५.११६ विवेष्टमानो निजघान वृक्षाञ्॑ शैलाञ्शिलावानरराक्षसांश्च
६.०५५.११७ तं छिन्नबाहुं समवेक्ष्य रामः॑ समापतन्तं सहसा नदन्तम्
६.०५५.११७ द्वावर्धचन्द्रौ निशितौ प्रगृह्य॑ चिच्छेद पादौ युधि राक्षसस्य
६.०५५.११८ निकृत्तबाहुर्विनिकृत्तपादो॑ विदार्य वक्त्रं वडवामुखाभम्
६.०५५.११८ दुद्राव रामं सहसाभिगर्जन्॑ राहुर्यथा चन्द्रमिवान्तरिक्षे
६.०५५.११९ अपूरयत्तस्य मुखं शिताग्रै॑ रामः शरैर्हेमपिनद्धपुङ्खैः
६.०५५.११९ स पूर्णवक्त्रो न शशाक वक्तुं॑ चुकूज कृच्छ्रेण मुमोह चापि
६.०५५.१२० अथाददे सूर्यमरीचिकल्पं॑ स ब्रह्मदण्डान्तककालकल्पम्
६.०५५.१२० अरिष्टमैन्द्रं निशितं सुपुङ्खं॑ रामः शरं मारुततुल्यवेगम्
६.०५५.१२१ तं वज्रजाम्बूनदचारुपुङ्खं॑ प्रदीप्तसूर्यज्वलनप्रकाशम्
६.०५५.१२१ महेन्द्रवज्राशनितुल्यवेगं॑ रामः प्रचिक्षेप निशाचराय
६.०५५.१२२ स सायको राघवबाहुचोदितो॑ दिशः स्वभासा दश संप्रकाशयन्
६.०५५.१२२ विधूमवैश्वानरदीप्तदर्शनो॑ जगाम शक्राशनितुल्यविक्रमः
६.०५५.१२३ स तन्महापर्वतकूटसंनिभं॑ विवृत्तदंष्ट्रं चलचारुकुण्डलम्
६.०५५.१२३ चकर्त रक्षोऽधिपतेः शिरस्तदा॑ यथैव वृत्रस्य पुरा पुरंदरः
६.०५५.१२४ तद्रामबाणाभिहतं पपात॑ रक्षःशिरः पर्वतसंनिकाशम्
६.०५५.१२४ बभञ्ज चर्यागृहगोपुराणि॑ प्राकारमुच्चं तमपातयच्च
६.०५५.१२५ तच्चातिकायं हिमवत्प्रकाशं॑ रक्षस्तदा तोयनिधौ पपात
६.०५५.१२५ ग्राहान्महामीनचयान् भुजंगमान्॑ ममर्द भूमिं च तथा विवेश
६.०५५.१२६ तस्मिर्हते ब्राह्मणदेवशत्रौ॑ महाबले संयति कुम्भकर्णे
६.०५५.१२६ चचाल भूर्भूमिधराश्च सर्वे॑ हर्षाच्च देवास्तुमुलं प्रणेदुः
६.०५५.१२७ ततस्तु देवर्षिमहर्षिपन्नगाः॑ सुराश्च भूतानि सुपर्णगुह्यकाः
६.०५५.१२७ सयक्षगन्धर्वगणा नभोगताः॑ प्रहर्षिता राम पराक्रमेण
६.०५५.१२८ प्रहर्षमीयुर्बहवस्तु वानराः॑ प्रबुद्धपद्मप्रतिमैरिवाननैः
६.०५५.१२८ अपूजयन् राघवमिष्टभागिनं॑ हते रिपौ भीमबले दुरासदे
६.०५५.१२९ स कुम्भकर्णं सुरसैन्यमर्दनं॑ महत्सु युद्धेष्वपराजितश्रमम्
६.०५५.१२९ ननन्द हत्वा भरताग्रजो रणे॑ महासुरं वृत्रमिवामराधिपः
६.०५६.००१ कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना
६.०५६.००१ राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
६.०५६.००२ श्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम्
६.०५६.००२ रावणः शोकसंतप्तो मुमोह च पपात च
६.०५६.००३ पितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ
६.०५६.००३ त्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः
६.०५६.००४ भ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा
६.०५६.००४ महोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः
६.०५६.००५ ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुंगवः
६.०५६.००५ कुम्भकर्णवधाद्दीनो विललाप स रावणः
६.०५६.००६ हा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल
६.०५६.००६ शत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि
६.०५६.००७ इदानीं खल्वहं नास्मि यस्य मे पतितो भुजः
६.०५६.००७ दक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान्
६.०५६.००८ कथमेवंविधो वीरो देवदानवदर्पहा
६.०५६.००८ कालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः
६.०५६.००९ यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा
६.०५६.००९ स कथं रामबाणार्तः प्रसुप्तोऽसि महीतले
६.०५६.०१० एते देवगणाः सार्धमृषिभिर्गगने स्थिताः
६.०५६.०१० निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः
६.०५६.०११ ध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः
६.०५६.०११ आरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः
६.०५६.०१२ राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया
६.०५६.०१२ कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः
६.०५६.०१३ यद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्
६.०५६.०१३ ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम्
६.०५६.०१४ अद्यैव तं गमिष्यामि देशं यत्रानुजो मम
६.०५६.०१४ न हि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे
६.०५६.०१५ देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्
६.०५६.०१५ कथमिन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि
६.०५६.०१६ तदिदं मामनुप्राप्तं विभीषणवचः शुभम्
६.०५६.०१६ यदज्ञानान्मया तस्य न गृहीतं महात्मनः
६.०५६.०१७ विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः
६.०५६.०१७ विनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः
६.०५६.०१८ तस्यायं कर्मणः प्रातो विपाको मम शोकदः
६.०५६.०१८ यन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः
६.०५६.०१९ इति बहुविधमाकुलान्तरात्मा॑ कृपणमतीव विलप्य कुम्भकर्णम्
६.०५६.०१९ न्यपतदथ दशाननो भृशार्तस्॑ तमनुजमिन्द्ररिपुं हतं विदित्वा
६.०५७.००१ एवं विलपमानस्य रावणस्य दुरात्मनः
६.०५७.००१ श्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत्
६.०५७.००२ एवमेव महावीर्यो हतो नस्तात मध्यमः
६.०५७.००२ न तु सत्पुरुषा राजन् विलपन्ति यथा भवान्
६.०५७.००३ नूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो
६.०५७.००३ स कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम्
६.०५७.००४ ब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः
६.०५७.००४ सहस्रखरसंयुक्तो रथो मेघसमस्वनः
६.०५७.००५ त्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः
६.०५७.००५ स सर्वायुधसंपन्नो राघवं शास्तुमर्हसि
६.०५७.००६ कामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम्
६.०५७.००६ उद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिह
६.०५७.००७ शम्बरो देवराजेन नरको विष्णुना यथा
६.०५७.००७ तथाद्य शयिता रामो मया युधि निपातितः
६.०५७.००८ श्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः
६.०५७.००८ पुनर्जातमिवात्मानं मन्यते कालचोदितः
६.०५७.००९ श्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ
६.०५७.००९ अतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः
६.०५७.०१० ततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः
६.०५७.०१० रावणस्य सुता वीराः शक्रतुल्यपराक्रमाः
६.०५७.०११ अन्तरिक्षचराः सर्वे सर्वे माया विशारदाः
६.०५७.०११ सर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः
६.०५७.०१२ सर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः
६.०५७.०१२ सर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः
६.०५७.०१३ सर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः
६.०५७.०१३ सर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा
६.०५७.०१४ स तैस्तथा भास्करतुल्यवर्चसैः॑ सुतैर्वृतः शत्रुबलप्रमर्दनैः
६.०५७.०१४ रराज राजा मघवान् यथामरैर्॑ वृतो महादानवदर्पनाशनैः
६.०५७.०१५ स पुत्रान् संपरिष्वज्य भूषयित्वा च भूषणैः
६.०५७.०१५ आशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे
६.०५७.०१६ महोदरमहापार्श्वौ भ्रातरौ चापि रावणः
६.०५७.०१६ रक्षणार्थं कुमाराणां प्रेषयामास संयुगे
६.०५७.०१७ तेऽभिवाद्य महात्मानं रावणं रिपुरावणम्
६.०५७.०१७ कृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे
६.०५७.०१८ सर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः
६.०५७.०१८ निर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः
६.०५७.०१९ ततः सुदर्शनं नाम नीलजीमूतसंनिभम्
६.०५७.०१९ ऐरावतकुले जातमारुरोह महोदरः
६.०५७.०२० सर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम्
६.०५७.०२० रराज गजमास्थाय सवितेवास्तमूर्धनि
६.०५७.०२१ हयोत्तमसमायुक्तं सर्वायुधसमाकुलम्
६.०५७.०२१ आरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः
६.०५७.०२२ त्रिशिरा रथमास्थाय विरराज धनुर्धरः
६.०५७.०२२ सविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः
६.०५७.०२३ त्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे
६.०५७.०२३ हिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः
६.०५७.०२४ अतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा
६.०५७.०२४ आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम्
६.०५७.०२५ सुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम्
६.०५७.०२५ तूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम्
६.०५७.०२६ स काञ्चनविचित्रेण किरीटेन विराजता
६.०५७.०२६ भूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः
६.०५७.०२७ स रराज रथे तस्मिन् राजसूनुर्महाबलः
६.०५७.०२७ वृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः
६.०५७.०२८ हयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम्
६.०५७.०२८ मनोजवं महाकायमारुरोह नरान्तकः
६.०५७.०२९ गृहीत्वा प्रासमुक्लाभं विरराज नरान्तकः
६.०५७.०२९ शक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे
६.०५७.०३० देवान्तकः समादाय परिघं वज्रभूषणम्
६.०५७.०३० परिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन्
६.०५७.०३१ महापार्श्वो महातेजा गदामादाय वीर्यवान्
६.०५७.०३१ विरराज गदापाणिः कुबेर इव संयुगे
६.०५७.०३२ ते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः
६.०५७.०३२ सुरा इवामरावत्यां बलैरप्रतिमैर्वृताः
६.०५७.०३३ तान् गजैश्च तुरंगैश्च रथैश्चाम्बुदनिस्वनैः
६.०५७.०३३ अनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः
६.०५७.०३४ ते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः
६.०५७.०३४ किरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे
६.०५७.०३५ प्रगृहीता बभौ तेषां छत्राणामावलिः सिता
६.०५७.०३५ शारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे
६.०५७.०३६ मरणं वापि निश्चित्य शत्रूणां वा पराजयम्
६.०५७.०३६ इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः
६.०५७.०३७ जगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्
६.०५७.०३७ जहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः
६.०५७.०३८ क्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी
६.०५७.०३८ रक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम्
६.०५७.०३९ तेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः
६.०५७.०३९ ददृशुर्वानरानीकं समुद्यतशिलानगम्
६.०५७.०४० हरयोऽपि महात्मानो ददृशुर्नैरृतं बलम्
६.०५७.०४० हस्त्यश्वरथसंबाधं किङ्किणीशतनादितम्
६.०५७.०४१ नीलजीमूतसंकाशं समुद्यतमहायुधम्
६.०५७.०४१ दीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम्
६.०५७.०४२ तद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवंगमाः
६.०५७.०४२ समुद्यतमहाशैलाः संप्रणेदुर्मुहुर्मुहुः
६.०५७.०४३ ततः समुद्घुष्टरवं निशम्य॑ रक्षोगणा वानरयूथपानाम्
६.०५७.०४३ अमृष्यमाणाः परहर्षमुग्रं॑ महाबला भीमतरं विनेदुः
६.०५७.०४४ ते राक्षसबलं घोरं प्रविश्य हरियूथपाः
६.०५७.०४४ विचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा
६.०५७.०४५ के चिदाकाशमाविश्य के चिदुर्व्यां प्लवंगमाः
६.०५७.०४५ रक्षःसैन्येषु संक्रुद्धाश्चेरुर्द्रुमशिलायुधाः
६.०५७.०४६ ते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम्
६.०५७.०४६ बाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः
६.०५७.०४७ सिंहनादान् विनेदुश्च रणे राक्षसवानराः
६.०५७.०४७ शिलाभिश्चूर्णयामासुर्यातुधानान् प्लवंगमाः
६.०५७.०४८ निजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्
६.०५७.०४८ के चिद्रथगतान् वीरान् गजवाजिगतानपि
६.०५७.०४९ निजघ्नुः सहसाप्लुत्य यातुधानान् प्लवंगमाः
६.०५७.०४९ शैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाः
६.०५७.०४९ चेलुः पेतुश्च नेदुश्च तत्र राक्षसपुंगवाः
६.०५७.०५० ततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः
६.०५७.०५० मुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता
६.०५७.०५१ विकीर्णपर्वताकारै रक्षोभिररिमर्दनैः
६.०५७.०५१ आक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः
६.०५७.०५२ वानरान् वानरैरेव जग्नुस्ते रजनीचराः
६.०५७.०५२ राक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि
६.०५७.०५३ आक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन्
६.०५७.०५३ तेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः
६.०५७.०५४ निजघ्नुः शैलशूलास्त्रैर्विभिदुश्च परस्परम्
६.०५७.०५४ सिंहनादान् विनेदुश्च रणे वानरराक्षसाः
६.०५७.०५५ छिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः
६.०५७.०५५ रुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः
६.०५७.०५६ रथेन च रथं चापि वारणेन च वारणम्
६.०५७.०५६ हयेन च हयं के चिन्निजघ्नुर्वानरा रणे
६.०५७.०५७ क्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः
६.०५७.०५७ राक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः
६.०५७.०५८ विकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे
६.०५७.०५८ हतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत्
६.०५७.०५९ तस्मिन् प्रवृत्ते तुमुले विमर्दे॑ प्रहृष्यमाणेषु वली मुखेषु
६.०५७.०५९ निपात्यमानेषु च राक्षसेषु॑ महर्षयो देवगणाश्च नेदुः
६.०५७.०६० ततो हयं मारुततुल्यवेगम्॑ आरुह्य शक्तिं निशितां प्रगृह्य
६.०५७.०६० नरान्तको वानरराजसैन्यं॑ महार्णवं मीन इवाविवेश
६.०५७.०६१ स वानरान् सप्तशतानि वीरः॑ प्रासेन दीप्तेन विनिर्बिभेद
६.०५७.०६१ एकः क्षणेनेन्द्ररिपुर्महात्मा॑ जघान सैन्यं हरिपुंगवानाम्
६.०५७.०६२ ददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्
६.०५७.०६२ चरन्तं हरिसैन्येषु विद्याधरमहर्षयः
६.०५७.०६३ स तस्य ददृशे मार्गो मांसशोणितकर्दमः
६.०५७.०६३ पतितैः पर्वताकारैर्वानरैरभिसंवृतः
६.०५७.०६४ यावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः
६.०५७.०६४ तावदेतानतिक्रम्य निर्बिभेद नरान्तकः
६.०५७.०६५ ज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः
६.०५७.०६५ ददाह हरिसैन्यानि वनानीव विभावसुः
६.०५७.०६६ यावदुत्पाटयामासुर्वृक्षाञ्शैलान् वनौकसः
६.०५७.०६६ तावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः
६.०५७.०६७ दिक्षु सर्वासु बलवान् विचचार नरान्तकः
६.०५७.०६७ प्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः
६.०५७.०६८ न शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः
६.०५७.०६८ उत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान्
६.०५७.०६९ एकेनान्तककल्पेन प्रासेनादित्यतेजसा
६.०५७.०६९ भिन्नानि हरिसैन्यानि निपेतुर्धरणीतले
६.०५७.०७० वज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्
६.०५७.०७० न शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम्
६.०५७.०७१ पततां हरिवीराणां रूपाणि प्रचकाशिरे
६.०५७.०७१ वज्रभिन्नाग्रकूटानां शैलानां पततामिव
६.०५७.०७२ ये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः
६.०५७.०७२ तेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे
६.०५७.०७३ विप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्
६.०५७.०७३ नरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः
६.०५७.०७४ विद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्
६.०५७.०७४ गृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम्
६.०५७.०७५ अथोवाच महातेजाः सुग्रीवो वानराधिपः
६.०५७.०७५ कुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम्
६.०५७.०७६ गच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः
६.०५७.०७६ क्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय
६.०५७.०७७ स भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा
६.०५७.०७७ अनीकान्मेघसंकाशान्मेघानीकादिवांशुमान्
६.०५७.०७८ शैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः
६.०५७.०७८ रराजाङ्गदसंनद्धः सधातुरिव पर्वतः
६.०५७.०७९ निरायुधो महातेजाः केवलं नखदंष्ट्रवान्
६.०५७.०७९ नरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः
६.०५७.०८० तिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि
६.०५७.०८० अस्मिन् वज्रसमस्पर्शे प्रासं क्षिप ममोरसि
६.०५७.०८१ अङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः
६.०५७.०८१ संदश्य दशनैरोष्ठं निश्वस्य च भुजंगवत्
६.०५७.०८२ स प्रासमाविध्य तदाङ्गदाय॑ समुज्ज्वलन्तं सहसोत्ससर्ज
६.०५७.०८२ स वालिपुत्रोरसि वज्रकल्पे॑ बभूव भग्नो न्यपतच्च भूमौ
६.०५७.०८३ तं प्रासमालोक्य तदा विभग्नं॑ सुपर्णकृत्तोरगभोगकल्पम्
६.०५७.०८३ तलं समुद्यम्य स वालिपुत्रस्॑ तुरंगमस्याभिजघान मूर्ध्नि
६.०५७.०८४ निमग्नपादः स्फुटिताक्षि तारो॑ निष्क्रान्तजिह्वोऽचलसंनिकाशः
६.०५७.०८४ स तस्य वाजी निपपात भूमौ॑ तलप्रहारेण विकीर्णमूर्धा
६.०५७.०८५ नरान्तकः क्रोधवशं जगाम॑ हतं तुरगं पतितं निरीक्ष्य
६.०५७.०८५ स मुष्टिमुद्यम्य महाप्रभावो॑ जघान शीर्षे युधि वालिपुत्रम्
६.०५७.०८६ अथाङ्गदो मुष्टिविभिन्नमूर्धा॑ सुस्राव तीव्रं रुधिरं भृशोष्णम्
६.०५७.०८६ मुहुर्विजज्वाल मुमोह चापि॑ संज्ञां समासाद्य विसिष्मिये च
६.०५७.०८७ अथाङ्गदो वज्रसमानवेगं॑ संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्
६.०५७.०८७ निपातयामास तदा महात्मा॑ नरान्तकस्योरसि वालिपुत्रः
६.०५७.०८८ स मुष्टिनिष्पिष्टविभिन्नवक्षा॑ ज्वालां वमञ्शोणितदिग्धगात्रः
६.०५७.०८८ नरान्तको भूमितले पपात॑ यथाचलो वज्रनिपातभग्नः
६.०५७.०८९ अथान्तरिक्षे त्रिदशोत्तमानां॑ वनौकसां चैव महाप्रणादः
६.०५७.०८९ बभूव तस्मिन्निहतेऽग्र्यवीरे॑ नरान्तके वालिसुतेन संख्ये
६.०५७.०९० अथाङ्गदो राममनः प्रहर्षणं॑ सुदुष्करं तं कृतवान् हि विक्रमम्
६.०५७.०९० विसिष्मिये सोऽप्यतिवीर्य विक्रमः॑ पुनश्च युद्धे स बभूव हर्षितः
६.०५८.००१ नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः
६.०५८.००१ देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः
६.०५८.००२ आरूढो मेघसंकाशं वारणेन्द्रं महोदरः
६.०५८.००२ वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान्
६.०५८.००३ भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली
६.०५८.००३ आदाय परिघं दीप्तमङ्गदं समभिद्रवत्
६.०५८.००४ रथमादित्यसंकाशं युक्तं परमवाजिभिः
६.०५८.००४ आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात्
६.०५८.००५ स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः
६.०५८.००५ वृक्षमुत्पाटयामास महाविटपमङ्गदः
६.०५८.००६ देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः
६.०५८.००६ महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम्
६.०५८.००७ त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः
६.०५८.००७ स वृक्षं कृत्तमालोक्य उत्पपात ततोऽङ्गदः
६.०५८.००८ स ववर्ष ततो वृक्षाञ्शिलाश्च कपिकुञ्जरः
६.०५८.००८ तान् प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः
६.०५८.००९ परिघाग्रेण तान् वृक्षान् बभञ्ज च सुरान्तकः
६.०५८.००९ त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः
६.०५८.०१० गजेन समभिद्रुत्य वालिपुत्रं महोदरः
६.०५८.०१० जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः
६.०५८.०११ देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्
६.०५८.०११ उपगम्याभिहत्याशु व्यपचक्राम वेगवान्
६.०५८.०१२ स त्रिभिर्नैरृतश्रेष्ठैर्युगपत्समभिद्रुतः
६.०५८.०१२ न विव्यथे महातेजा वालिपुत्रः प्रतापवान्
६.०५८.०१३ तलेन भृशमुत्पत्य जघानास्य महागजम्
६.०५८.०१३ पेततुर्लोचने तस्य विननाद स वारणः
६.०५८.०१४ विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः
६.०५८.०१४ देवान्तकमभिद्रुत्य ताडयामास संयुगे
६.०५८.०१५ स विह्वलितसर्वाङ्गो वातोद्धत इव द्रुमः
६.०५८.०१५ लाक्षारससवर्णं च सुस्राव रुधिरं मुखात्
६.०५८.०१६ अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली
६.०५८.०१६ आविध्य परिघं घोरमाजघान तदाङ्गदम्
६.०५८.०१७ परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा
६.०५८.०१७ जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह
६.०५८.०१८ समुत्पतन्तं त्रिशिरास्त्रिभिराशीविषोपमैः
६.०५८.०१८ घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह
६.०५८.०१९ ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैरृतपुंगवैः
६.०५८.०१९ हनूमानपि विज्ञाय नीलश्चापि प्रतस्थतुः
६.०५८.०२० ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा
६.०५८.०२० तद्रावणसुतो धीमान् बिभेद निशितैः शरैः
६.०५८.०२१ तद्बाणशतनिर्भिन्नं विदारितशिलातलम्
६.०५८.०२१ सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः
६.०५८.०२२ ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा
६.०५८.०२२ परिघेणाभिदुद्राव मारुतात्मजमाहवे
६.०५८.०२३ तमापतन्तमुत्पत्य हनूमान्मारुतात्मजः
६.०५८.०२३ आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना
६.०५८.०२४ स मुष्टिनिष्पिष्टविकीर्णमूर्धा॑ निर्वान्तदन्ताक्षिविलम्बिजिह्वः
६.०५८.०२४ देवान्तको राक्षसराजसूनुर्॑ गतासुरुर्व्यां सहसा पपात
६.०५८.०२५ तस्मिन् हते राक्षसयोधमुख्ये॑ महाबले संयति देवशत्रौ
६.०५८.०२५ क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं॑ ववर्ष नीलोरसि बाणवर्षम्
६.०५८.०२६ स तैः शरौघैरभिवर्ष्यमाणो॑ विभिन्नगात्रः कपिसैन्यपालः
६.०५८.०२६ नीलो बभूवाथ विसृष्टगात्रो॑ विष्टम्भितस्तेन महाबलेन
६.०५८.०२७ ततस्तु नीलः प्रतिलभ्य संज्ञां॑ शैलं समुत्पाट्य सवृक्षषण्डम्
६.०५८.०२७ ततः समुत्पत्य भृशोग्रवेगो॑ महोदरं तेन जघान मूर्ध्नि
६.०५८.०२८ ततः स शैलाभिनिपातभग्नो॑ महोदरस्तेन सह द्विपेन
६.०५८.०२८ विपोथितो भूमितले गतासुः॑ पपात वर्जाभिहतो यथाद्रिः
६.०५८.०२९ पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे
६.०५८.०२९ हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः
६.०५८.०३० हनूमांस्तु समुत्पत्य हयांस्त्रिशिरसस्तदा
६.०५८.०३० विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव
६.०५८.०३१ अथ शक्तिं समादाय कालरात्रिमिवान्तकः
६.०५८.०३१ चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः
६.०५८.०३२ दिवि क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम्
६.०५८.०३२ गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च
६.०५८.०३३ तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता
६.०५८.०३३ प्रहृष्टा वानरगणा विनेदुर्जलदा इव
६.०५८.०३४ ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः
६.०५८.०३४ निचखान तदा रोषाद्वानरेन्द्रस्य वक्षसि
६.०५८.०३५ खड्गप्रहाराभिहतो हनूमान्मारुतात्मजः
६.०५८.०३५ आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान्
६.०५८.०३६ स तलभिहतस्तेन स्रस्तहस्ताम्बरो भुवि
६.०५८.०३६ निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः
६.०५८.०३७ स तस्य पततः खड्गं समाच्छिद्य महाकपिः
६.०५८.०३७ ननाद गिरिसंकाशस्त्रासयन् सर्वनैरृतान्
६.०५८.०३८ अमृष्यमाणस्तं घोषमुत्पपात निशाचरः
६.०५८.०३८ उत्पत्य च हनूमन्तं ताडयामास मुष्टिना
६.०५८.०३९ तेन मुष्टिप्रहारेण संचुकोप महाकपिः
६.०५८.०३९ कुपितश्च निजग्राह किरीटे राक्षसर्षभम्
६.०५८.०४० स तस्य शीर्षाण्यसिना शितेन॑ किरीटजुष्टानि सकुण्डलानि
६.०५८.०४० क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य॑ त्वष्टुः सुतस्येव शिरांसि शक्रः
६.०५८.०४१ तान्यायताक्षाण्यगसंनिभानि॑ प्रदीप्तवैश्वानरलोचनानि
६.०५८.०४१ पेतुः शिरांसीन्द्ररिपोर्धरण्यां॑ ज्योतींषि मुक्तानि यथार्कमार्गात्
६.०५८.०४२ तस्मिन् हते देवरिपौ त्रिशीर्षे॑ हनूमत शक्रपराक्रमेण
६.०५८.०४२ नेदुः प्लवंगाः प्रचचाल भूमी॑ रक्षांस्यथो दुद्रुविरे समन्तात्
६.०५८.०४३ हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्
६.०५८.०४३ हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ
६.०५८.०४४ चुकोप परमामर्षी महापार्श्वो महाबलः
६.०५८.०४४ जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम्
६.०५८.०४५ हेमपट्टपरिक्षिप्तां मांसशोणितलेपनाम्
६.०५८.०४५ विराजमानां वपुषा शत्रुशोणितरञ्जिताम्
६.०५८.०४६ तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम्
६.०५८.०४६ ऐरावतमहापद्मसार्वभौम भयावहाम्
६.०५८.०४७ गदामादाय संक्रुद्धो महापार्श्वो महाबलः
६.०५८.०४७ हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन्
६.०५८.०४८ अथर्षयः समुत्पत्य वानरो रवणानुजम्
६.०५८.०४८ महापार्श्वमुपागम्य तस्थौ तस्याग्रतो बली
६.०५८.०४९ तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम्
६.०५८.०४९ आजघानोरसि क्रुद्धो गदया वज्रकल्पया
६.०५८.०५० स तयाभिहतस्तेन गदया वानरर्षभः
६.०५८.०५० भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु
६.०५८.०५१ स संप्राप्य चिरात्संज्ञामृषभो वानरर्षभः
६.०५८.०५१ क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत
६.०५८.०५२ तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः
६.०५८.०५२ मत्तानीकं महापार्श्वं जघान रणमूर्धनि
६.०५८.०५३ स स्वया गदया भिन्नो विकीर्णदशनेक्षणः
६.०५८.०५३ निपपात महापार्श्वो वज्राहत इवाचलः
६.०५८.०५४ तस्मिन् हते भ्रातरि रावणस्य॑ तन्नैरृतानां बलमर्णवाभम्
६.०५८.०५४ त्यक्तायुधं केवलजीवितार्थं॑ दुद्राव भिन्नार्णवसंनिकाशम्
६.०५९.००१ स्वबलं व्यथितं दृष्ट्वा तुमुलं लोमहर्षणम्
६.०५९.००१ भ्रातॄंश्च निहतान् दृष्ट्वा शक्रतुल्यपराक्रमान्
६.०५९.००२ पितृव्यौ चापि संदृश्य समरे संनिषूदितौ
६.०५९.००२ महोदरमहापार्श्वौ भ्रातरौ राक्षसर्षभौ
६.०५९.००३ चुकोप च महातेजा ब्रह्मदत्तवरो युधि
६.०५९.००३ अतिकायोऽद्रिसंकाशो देवदानवदर्पहा
६.०५९.००४ स भास्करसहस्रस्य संघातमिव भास्वरम्
६.०५९.००४ रथमास्थाय शक्रारिरभिदुद्राव वानरान्
६.०५९.००५ स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः
६.०५९.००५ नाम विश्रावयामास ननाद च महास्वनम्
६.०५९.००६ तेन सिंहप्रणादेन नामविश्रावणेन च
६.०५९.००६ ज्याशब्देन च भीमेन त्रासयामास वानरान्
६.०५९.००७ ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे
६.०५९.००७ भयार्ता वानराः सर्वे विद्रवन्ति दिशो दश
६.०५९.००८ तेऽतिकायं समासाद्य वानरा मूढचेतसः
६.०५९.००८ शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे
६.०५९.००९ ततोऽतिकायं काकुत्स्थो रथस्थं पर्वतोपमम्
६.०५९.००९ ददर्श धन्विनं दूराद्गर्जन्तं कालमेघवत्
६.०५९.०१० स तं दृष्ट्वा महात्मानं राघवस्तु सुविस्मितः
६.०५९.०१० वानरान् सान्त्वयित्वा तु विभीषणमुवाच ह
६.०५९.०११ कोऽसौ पर्वतसंकाशो धनुष्मान् हरिलोचनः
६.०५९.०११ युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः
६.०५९.०१२ य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः
६.०५९.०१२ अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः
६.०५९.०१३ कालजिह्वाप्रकाशाभिर्य एषोऽभिविराजते
६.०५९.०१३ आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः
६.०५९.०१४ धनूंसि चास्य सज्यानि हेमपृष्ठानि सर्वशः
६.०५९.०१४ शोभयन्ति रथश्रेष्ठं शक्रपातमिवाम्बरम्
६.०५९.०१५ क एष रक्षः शार्दूलो रणभूमिं विराजयन्
६.०५९.०१५ अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा
६.०५९.०१६ ध्वजशृङ्गप्रतिष्ठेन राहुणाभिविराजते
६.०५९.०१६ सूर्यरश्मिप्रभैर्बाणैर्दिशो दश विराजयन्
६.०५९.०१७ त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलंकृतम्
६.०५९.०१७ शतक्रतुधनुःप्रख्यं धनुश्चास्य विराजते
६.०५९.०१८ सध्वजः सपताकश्च सानुकर्षो महारथः
६.०५९.०१८ चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः
६.०५९.०१९ विंशतिर्दश चाष्टौ च तूणीररथमास्थिताः
६.०५९.०१९ कार्मुकाणि च भीमानि ज्याश्च काञ्चनपिङ्गलाः
६.०५९.०२० द्वौ च खड्गौ रथगतौ पार्श्वस्थौ पार्श्वशोभिनौ
६.०५९.०२० चतुर्हस्तत्सरुचितौ व्यक्तहस्तदशायतौ
६.०५९.०२१ रक्तकण्ठगुणो धीरो महापर्वतसंनिभः
६.०५९.०२१ कालः कालमहावक्त्रो मेघस्थ इव भास्करः
६.०५९.०२२ काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते
६.०५९.०२२ शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान् पर्वतोत्तमः
६.०५९.०२३ कुण्डलाभ्यां तु यस्यैतद्भाति वक्त्रं शुभेक्षणम्
६.०५९.०२३ पुनर्वस्वन्तरगतं पूर्णबिम्बमिवैन्दवम्
६.०५९.०२४ आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम्
६.०५९.०२४ यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः
६.०५९.०२५ स पृष्ठो राजपुत्रेण रामेणामिततेजसा
६.०५९.०२५ आचचक्षे महातेजा राघवाय विभीषणः
६.०५९.०२६ दशग्रीवो महातेजा राजा वैश्रवणानुजः
६.०५९.०२६ भीमकर्मा महोत्साहो रावणो राक्षसाधिपः
६.०५९.०२७ तस्यासीद्वीर्यवान् पुत्रो रावणप्रतिमो रणे
६.०५९.०२७ वृद्धसेवी श्रुतधरः सर्वास्त्रविदुषां वरः
६.०५९.०२८ अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे
६.०५९.०२८ भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः
६.०५९.०२९ यस्य बाहुं समाश्रित्य लङ्का भवति निर्भया
६.०५९.०२९ तनयं धान्यमालिन्या अतिकायमिमं विदुः
६.०५९.०३० एतेनाराधितो ब्रह्मा तपसा भावितात्मना
६.०५९.०३० अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः
६.०५९.०३१ सुरासुरैरवध्यत्वं दत्तमस्मै स्वयम्भुवा
६.०५९.०३१ एतच्च कवचं दिव्यं रथश्चैषोऽर्कभास्करः
६.०५९.०३२ एतेन शतशो देवा दानवाश्च पराजिताः
६.०५९.०३२ रक्षितानि च रक्षामि यक्षाश्चापि निषूदिताः
६.०५९.०३३ वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः
६.०५९.०३३ पाशः सलिलराजस्य युद्धे प्रतिहतस्तथा
६.०५९.०३४ एषोऽतिकायो बलवान् राक्षसानामथर्षभः
६.०५९.०३४ रावणस्य सुतो धीमान् देवदनव दर्पहा
६.०५९.०३५ तदस्मिन् क्रियतां यत्नः क्षिप्रं पुरुषपुंगव
६.०५९.०३५ पुरा वानरसैन्यानि क्षयं नयति सायकैः
६.०५९.०३६ ततोऽतिकायो बलवान् प्रविश्य हरिवाहिनीम्
६.०५९.०३६ विस्फारयामास धनुर्ननाद च पुनः पुनः
६.०५९.०३७ तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम्
६.०५९.०३७ अभिपेतुर्महात्मानो ये प्रधानाः प्लवंगमाः
६.०५९.०३८ कुमुदो द्विविदो मैन्दो नीलः शरभ एव च
६.०५९.०३८ पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन्
६.०५९.०३९ तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः
६.०५९.०३९ अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः
६.०५९.०४० तांश्चैव सरान् स हरीञ्शरैः सर्वायसैर्बली
६.०५९.०४० विव्याधाभिमुखः संख्ये भीमकायो निशाचरः
६.०५९.०४१ तेऽर्दिता बाणबर्षेण भिन्नगात्राः प्लवंगमाः
६.०५९.०४१ न शेकुरतिकायस्य प्रतिकर्तुं महारणे
६.०५९.०४२ तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः
६.०५९.०४२ मृगयूथमिव क्रुद्धो हरिर्यौवनमास्थितः
६.०५९.०४३ स राषसेन्द्रो हरिसैन्यमध्ये॑ नायुध्यमानं निजघान कं चित्
६.०५९.०४३ उपेत्य रामं सधनुः कलापी॑ सगर्वितं वाक्यमिदं बभाषे
६.०५९.०४४ रथे स्थितोऽहं शरचापपाणिर्॑ न प्राकृतं कं चन योधयामि
६.०५९.०४४ यस्यास्ति शक्तिर्व्यवसाय युक्ता॑ ददातुं मे क्षिप्रमिहाद्य युद्धम्
६.०५९.०४५ तत्तस्य वाक्यं ब्रुवतो निशम्य॑ चुकोप सौमित्रिरमित्रहन्ता
६.०५९.०४५ अमृष्यमाणश्च समुत्पपात॑ जग्राह चापं च ततः स्मयित्वा
६.०५९.०४६ क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम्
६.०५९.०४६ पुरस्तादतिकायस्य विचकर्ष महद्धनुः
६.०५९.०४७ पूरयन् स महीं शैलानाकाशं सागरं दिशः
६.०५९.०४७ ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन् रजनीचरान्
६.०५९.०४८ सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा
६.०५९.०४८ विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली
६.०५९.०४९ अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम्
६.०५९.०४९ आदाय निशितं बाणमिदं वचनमब्रवीत्
६.०५९.०५० बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः
६.०५९.०५० गच्छ किं कालसदृशं मां योधयितुमिच्छसि
६.०५९.०५१ न हि मद्बाहुसृष्टानामस्त्राणां हिमवानपि
६.०५९.०५१ सोढुमुत्सहते वेगमन्तरिक्षमथो मही
६.०५९.०५२ सुखप्रसुप्तं कालाग्निं प्रबोधयितुमिच्छसि
६.०५९.०५२ न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मद्गतः
६.०५९.०५३ अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि
६.०५९.०५३ तिष्ठ प्राणान् परित्यज्य गमिष्यसि यमक्षयम्
६.०५९.०५४ पश्य मे निशितान् बाणानरिदर्पनिषूदनान्
६.०५९.०५४ ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान्
६.०५९.०५५ एष ते सर्पसंकाशो बाणः पास्यति शोणितम्
६.०५९.०५५ मृगराज इव क्रुद्धो नागराजस्य शोणितम्
६.०५९.०५६ श्रुत्वातिकायस्य वचः सरोषं॑ सगर्वितं संयति राजपुत्रः
६.०५९.०५६ स संचुकोपातिबलो बृहच्छ्रीर्॑ उवाच वाक्यं च ततो महार्थम्
६.०५९.०५७ न वाक्यमात्रेण भवान् प्रधानो॑ न कत्थनात्सत्पुरुषा भवन्ति
६.०५९.०५७ मयि स्थिते धन्विनि बाणपाणौ॑ विदर्शयस्वात्मबलं दुरात्मन्
६.०५९.०५८ कर्मणा सूचयात्मानं न विकत्थितुमर्हसि
६.०५९.०५८ पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः
६.०५९.०५९ सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः
६.०५९.०५९ शरैर्वा यदि वाप्यस्त्रैर्दर्शयस्व पराक्रमम्
६.०५९.०६० ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः
६.०५९.०६० मारुतः कालसंपक्वं वृन्तात्तालफलं यथा
६.०५९.०६१ अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः
६.०५९.०६१ पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम्
६.०५९.०६२ बालोऽयमिति विज्ञाय न मावज्ञातुमर्हसि
६.०५९.०६२ बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे
६.०५९.०६३ लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत्
६.०५९.०६३ अतिकायः प्रचुक्रोध बाणं चोत्तममाददे
६.०५९.०६४ ततो विद्याधरा भूता देवा दैत्या महर्षयः
६.०५९.०६४ गुह्यकाश्च महात्मानस्तद्युद्धं ददृशुस्तदा
६.०५९.०६५ ततोऽतिकायः कुपितश्चापमारोप्य सायकम्
६.०५९.०६५ लक्ष्मणस्य प्रचिक्षेप संक्षिपन्निव चाम्बरम्
६.०५९.०६६ तमापतन्तं निशितं शरमाशीविषोपमम्
६.०५९.०६६ अर्धचन्द्रेण चिच्छेद लक्ष्मणः परवीरहा
६.०५९.०६७ तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम्
६.०५९.०६७ अतिकायो भृशं क्रुद्धः पञ्चबाणान् समाददे
६.०५९.०६८ ताञ्शरान् संप्रचिक्षेप लक्ष्मणाय निशाचरः
६.०५९.०६८ तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः
६.०५९.०६९ स तांश्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा
६.०५९.०६९ आददे निशितं बाणं ज्वलन्तमिव तेजसा
६.०५९.०७० तमादाय धनुः श्रेष्ठे योजयामास लक्ष्मणः
६.०५९.०७० विचकर्ष च वेगेन विससर्ज च सायकम्
६.०५९.०७१ पूर्णायतविसृष्टेन शरेणानत पर्वणा
६.०५९.०७१ ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान्
६.०५९.०७२ स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः
६.०५९.०७२ ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाहवे
६.०५९.०७३ राक्षसः प्रचकम्पे च लक्ष्मणेषु प्रकम्पितः
६.०५९.०७३ रुद्रबाणहतं भीमं यथा त्रिपुरगोपुरम्
६.०५९.०७४ चिन्तयामास चाश्वस्य विमृश्य च महाबलः
६.०५९.०७४ साधु बाणनिपातेन श्वाघनीयोऽसि मे रिपुः
६.०५९.०७५ विचार्यैवं विनम्यास्यं विनम्य च भुजावुभौ
६.०५९.०७५ स रथोपस्थमास्थाय रथेन प्रचचार ह
६.०५९.०७६ एकं त्रीन् पञ्च सप्तेति सायकान् राक्षसर्षभः
६.०५९.०७६ आददे संदधे चापि विचकर्षोत्ससर्ज च
६.०५९.०७७ ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः
६.०५९.०७७ हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम्
६.०५९.०७८ ततस्तान् राक्षसोत्सृष्टाञ्शरौघान् रावणानुजः
६.०५९.०७८ असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः
६.०५९.०७९ ताञ्शरान् युधि संप्रेक्ष्य निकृत्तान् रावणात्मजः
६.०५९.०७९ चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम्
६.०५९.०८० स संधाय महातेजास्तं बाणं सहसोत्सृजत्
६.०५९.०८० ततः सौमित्रिमायान्तमाजघान स्तनान्तरे
६.०५९.०८१ अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि
६.०५९.०८१ सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः
६.०५९.०८२ स चकार तदात्मानं विशल्यं सहसा विभुः
६.०५९.०८२ जग्राह च शरं तीष्णमस्त्रेणापि समादधे
६.०५९.०८३ आग्नेयेन तदास्त्रेण योजयामास सायकम्
६.०५९.०८३ स जज्वाल तदा बाणो धनुश्चास्य महात्मनः
६.०५९.०८४ अतिकायोऽतितेजस्वी सौरमस्त्रं समाददे
६.०५९.०८४ तेन बाणं भुजंगाभं हेमपुङ्खमयोजयत्
६.०५९.०८५ ततस्तं ज्वलितं घोरं लक्ष्मणः शरमाहितम्
६.०५९.०८५ अतिकायाय चिक्षेप कालदण्डमिवान्तकः
६.०५९.०८६ आग्नेयेनाभिसंयुक्तं दृष्ट्वा बाणं निशाचरः
६.०५९.०८६ उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम्
६.०५९.०८७ तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः
६.०५९.०८७ तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजं गमौ
६.०५९.०८८ तावन्योन्यं विनिर्दह्य पेततुर्धरणीतले
६.०५९.०८८ निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ
६.०५९.०८९ ततोऽतिकायः संक्रुद्धस्त्वस्त्रमैषीकमुत्सृजत्
६.०५९.०८९ तत्प्रचिच्छेद सौमित्रिरस्त्रमैन्द्रेण वीर्यवान्
६.०५९.०९० ऐषीकं निहतं दृष्ट्वा कुमारो रावणात्मजः
६.०५९.०९० याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम्
६.०५९.०९१ ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः
६.०५९.०९१ वायव्येन तदस्त्रं तु निजघान स लक्ष्मणः
६.०५९.०९२ अथैनं शरधाराभिर्धाराभिरिव तोयदः
६.०५९.०९२ अभ्यवर्षत संक्रुद्धो लक्ष्मणो रावणात्मजम्
६.०५९.०९३ तेऽतिकायं समासाद्य कवचे वज्रभूषिते
६.०५९.०९३ भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले
६.०५९.०९४ तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा
६.०५९.०९४ अभ्यवर्षत बाणानां सहस्रेण महायशाः
६.०५९.०९५ स वर्ष्यमाणो बाणौघैरतिकायो महाबलः
६.०५९.०९५ अवध्यकवचः संख्ये राक्षसो नैव विव्यथे
६.०५९.०९६ न शशाक रुजं कर्तुं युधि तस्य नरोत्तमः
६.०५९.०९६ अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह
६.०५९.०९७ ब्रह्मदत्तवरो ह्येष अवध्य कवचावृतः
६.०५९.०९७ ब्राह्मेणास्त्रेण भिन्ध्येनमेष वध्यो हि नान्यथा
६.०५९.०९८ ततः स वायोर्वचनं निशम्य॑ सौमित्रिरिन्द्रप्रतिमानवीर्यः
६.०५९.०९८ समाददे बाणममोघवेगं॑ तद्ब्राह्ममस्त्रं सहसा नियोज्य
६.०५९.०९९ तस्मिन् वरास्त्रे तु नियुज्यमाने॑ सौमित्रिणा बाणवरे शिताग्रे
६.०५९.०९९ दिशः सचन्द्रार्कमहाग्रहाश्च॑ नभश्च तत्रास ररास चोर्वी
६.०५९.१०० तं ब्रह्मणोऽस्त्रेण नियुज्य चापे॑ शरं सुपुङ्खं यमदूतकल्पम्
६.०५९.१०० सौमित्रिरिन्द्रारिसुतस्य तस्य॑ ससर्ज बाणं युधि वज्रकल्पम्
६.०५९.१०१ तं लक्ष्मणोत्सृष्टममोघवेगं॑ समापतन्तं ज्वलनप्रकाशम्
६.०५९.१०१ सुवर्णवज्रोत्तमचित्रपुङ्खं॑ तदातिकायः समरे ददर्श
६.०५९.१०२ तं प्रेक्षमाणः सहसातिकायो॑ जघान बाणैर्निशितैरनेकैः
६.०५९.१०२ स सायकस्तस्य सुपर्णवेगस्॑ तदातिवेगेन जगाम पार्श्वम्
६.०५९.१०३ तमागतं प्रेक्ष्य तदातिकायो॑ बाणं प्रदीप्तान्तककालकल्पम्
६.०५९.१०३ जघान शक्त्यृष्टिगदाकुठारैः॑ शूलैर्हलैश्चाप्यविपन्नचेष्टः
६.०५९.१०४ तान्यायुधान्यद्भुतविग्रहाणि॑ मोघानि कृत्वा स शरोऽग्निदीप्तः
६.०५९.१०४ प्रसह्य तस्यैव किरीटजुष्टं॑ तदातिकायस्य शिरो जहार
६.०५९.१०५ तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम्
६.०५९.१०५ पपात सहसा भूमौ शृङ्गं हिमवतो यथा
६.०५९.१०६ प्रहर्षयुक्ता बहवस्तु वानरा॑ प्रबुद्धपद्मप्रतिमाननास्तदा
६.०५९.१०६ अपूजयंल्लक्ष्मणमिष्टभागिनं॑ हते रिपौ भीमबले दुरासदे
६.०६०.००१ ततो हतान् राक्षसपुंगवांस्तान्॑ देवान्तकादित्रिशिरोऽतिकायान्
६.०६०.००१ रक्षोगणास्तत्र हतावशिष्टास्॑ ते रावणाय त्वरितं शशंसुः
६.०६०.००२ ततो हतांस्तान् सहसा निशम्य॑ राजा मुमोहाश्रुपरिप्लुताक्षः
६.०६०.००२ पुत्रक्षयं भ्रातृवधं च घोरं॑ विचिन्त्य राजा विपुलं प्रदध्यौ
६.०६०.००३ ततस्तु राजानमुदीक्ष्य दीनं॑ शोकार्णवे संपरिपुप्लुवानम्
६.०६०.००३ अथर्षभो राक्षसराजसूनुर्॑ अथेन्द्रजिद्वाक्यमिदं बभाषे
६.०६०.००४ न तात मोहं प्रतिगन्तुमर्हसि॑ यत्रेन्द्रजिज्जीवति राक्षसेन्द्र
६.०६०.००४ नेन्द्रारिबाणाभिहतो हि कश्चित्॑ प्राणान् समर्थः समरेऽभिधर्तुम्
६.०६०.००५ पश्याद्य रामं सहलक्ष्मणेन॑ मद्बाणनिर्भिन्नविकीर्णदेहम्
६.०६०.००५ गतायुषं भूमितले शयानं॑ शरैः शितैराचितसर्वगात्रम्
६.०६०.००६ इमां प्रतिज्ञां शृणु शक्रशत्रोः॑ सुनिश्चितां पौरुषदैवयुक्ताम्
६.०६०.००६ अद्यैव रामं सहलक्ष्मणेन॑ संतापयिष्यामि शरैरमोघैः
६.०६०.००७ अद्येन्द्रवैवस्वतविष्णुमित्र॑ साध्याश्विवैश्वानरचन्द्रसूर्याः
६.०६०.००७ द्रक्ष्यन्ति मे विक्रममप्रमेयं॑ विष्णोरिवोग्रं बलियज्ञवाटे
६.०६०.००८ स एवमुक्त्वा त्रिदशेन्द्रशत्रुर्॑ आपृच्छ्य राजानमदीनसत्त्वः
६.०६०.००८ समारुरोहानिलतुल्यवेगं॑ रथं खरश्रेष्ठसमाधियुक्तम्
६.०६०.००९ समास्थाय महातेजा रथं हरिरथोपमम्
६.०६०.००९ जगाम सहसा तत्र यत्र युद्धमरिंदम
६.०६०.०१० तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः
६.०६०.०१० संहर्षमाणा बहवो धनुःप्रवरपाणयः
६.०६०.०११ गजस्कन्धगताः के चित्के चित्परमवाजिभिः
६.०६०.०११ प्रासमुद्गरनिस्त्रिंश परश्वधगदाधराः
६.०६०.०१२ स शङ्खनिनदैर्भीमैर्भेरीणां च महास्वनैः
६.०६०.०१२ जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः
६.०६०.०१३ स शङ्खशशिवर्णेन छत्रेण रिपुसादनः
६.०६०.०१३ रराज परिपूर्णेन नभश्चन्द्रमसा यथा
६.०६०.०१४ अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः
६.०६०.०१४ चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम्
६.०६०.०१५ ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा
६.०६०.०१५ रराजाप्रतिवीर्येण द्यौरिवार्केण भास्वता
६.०६०.०१६ स तु दृष्ट्वा विनिर्यान्तं बलेन महता वृतम्
६.०६०.०१६ राक्षसाधिपतिः श्रीमान् रावणः पुत्रमब्रवीत्
६.०६०.०१७ त्वमप्रतिरथः पुत्र जितस्ते युधि वासवः
६.०६०.०१७ किं पुनर्मानुषं धृष्यं न वधिष्यसि राघवम्
६.०६०.०१८ तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य महाशिषः
६.०६०.०१८ रथेनाश्वयुजा वीरः शीघ्रं गत्वा निकुम्भिलाम्
६.०६०.०१९ स संप्राप्य महातेजा युद्धभूमिमरिंदमः
६.०६०.०१९ स्थापयामास रक्षांसि रथं प्रति समन्ततः
६.०६०.०२० ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः
६.०६०.०२० जुहुवे राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा
६.०६०.०२१ स हविर्जालसंस्कारैर्माल्यगन्धपुरस्कृतैः
६.०६०.०२१ जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान्
६.०६०.०२२ शस्त्राणि शरपत्राणि समिधोऽथ विभीतकः
६.०६०.०२२ लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा
६.०६०.०२३ स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः
६.०६०.०२३ छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः
६.०६०.०२४ सकृदेव समिद्धस्य विधूमस्य महार्चिषः
६.०६०.०२४ बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन्
६.०६०.०२५ प्रदक्षिणावर्तशिखस्तप्तकाञ्चनसंनिभः
६.०६०.०२५ हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः
६.०६०.०२६ सोऽस्त्रमाहारयामास ब्राह्ममस्त्रविदां वरः
६.०६०.०२६ धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत्
६.०६०.०२७ तस्मिन्नाहूयमानेऽस्त्रे हूयमाने च पावके
६.०६०.०२७ सार्कग्रहेन्दु नक्षत्रं वितत्रास नभस्तलम्
६.०६०.०२८ स पावकं पावकदीप्ततेजा॑ हुत्वा महेन्द्रप्रतिमप्रभावः
६.०६०.०२८ सचापबाणासिरथाश्वसूतः॑ खेऽन्तर्दध आत्मानमचिन्त्यरूपः
६.०६०.०२९ स सैन्यमुत्सृज्य समेत्य तूर्णं॑ महारणे वानरवाहिनीषु
६.०६०.०२९ अदृश्यमानः शरजालमुग्रं॑ ववर्ष नीलाम्बुधरो यथाम्बु
६.०६०.०३० ते शक्रजिद्बाणविशीर्णदेहा॑ मायाहता विस्वरमुन्नदन्तः
६.०६०.०३० रणे निपेतुर्हरयोऽद्रिकल्पा॑ यथेन्द्रवज्राभिहता नगेन्द्राः
६.०६०.०३१ ते केवलं संददृशुः शिताग्रान्॑ बाणान् रणे वानरवाहिनीषु
६.०६०.०३१ माया निगूढं च सुरेन्द्रशत्रुं॑ न चात्र तं राक्षसमभ्यपश्यन्
६.०६०.०३२ ततः स रक्षोऽधिपतिर्महात्मा॑ सर्वा दिशो बाणगणैः शिताग्रैः
६.०६०.०३२ प्रच्छादयामास रविप्रकाशैर्॑ विषादयामास च वानरेन्द्रान्
६.०६०.०३३ स शूलनिस्त्रिंश परश्वधानि॑ व्याविध्य दीप्तानलसंनिभानि
६.०६०.०३३ सविस्फुलिङ्गोज्ज्वलपावकानि॑ ववर्ष तीव्रं प्लवगेन्द्रसैन्ये
६.०६०.०३४ ततो ज्वलनसंकाशैः शितैर्वानरयूथपाः
६.०६०.०३४ ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः
६.०६०.०३५ अन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम्
६.०६०.०३५ राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः
६.०६०.०३६ उदीक्षमाणा गगनं के चिन्नेत्रेषु ताडिताः
६.०६०.०३६ शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले
६.०६०.०३७ हनूमन्तं च सुग्रीवमङ्गदं गन्धमादनम्
६.०६०.०३७ जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च
६.०६०.०३८ मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ
६.०६०.०३८ केसरिं हरिलोमानं विद्युद्दंष्ट्रं च वानरम्
६.०६०.०३९ सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम्
६.०६०.०३९ पावकाक्षं नलं चैव कुमुदं चैव वानरम्
६.०६०.०४० प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः
६.०६०.०४० विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः
६.०६०.०४१ स वै गदाभिर्हरियूथमुख्यान्॑ निर्भिद्य बाणैस्तपनीयपुङ्खैः
६.०६०.०४१ ववर्ष रामं शरवृष्टिजालैः॑ सलक्ष्मणं भास्कररश्मिकल्पैः
६.०६०.०४२ स बाणवर्षैरभिवर्ष्यमाणो॑ धारानिपातानिव तान् विचिन्त्य
६.०६०.०४२ समीक्षमाणः परमाद्भुतश्री॑ रामस्तदा लक्ष्मणमित्युवाच
६.०६०.०४३ असौ पुनर्लक्ष्मण राक्षसेन्द्रो॑ ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः
६.०६०.०४३ निपातयित्वा हरिसैन्यमुग्रम्॑ अस्माञ्शरैरर्दयति प्रसक्तम्
६.०६०.०४४ स्वयम्भुवा दत्तवरो महात्मा॑ खमास्थितोऽन्तर्हितभीमकायः
६.०६०.०४४ कथं नु शक्यो युधि नष्टदेहो॑ निहन्तुमद्येन्द्रजिदुद्यतास्त्रः
६.०६०.०४५ मन्ये स्वयम्भूर्भगवानचिन्त्यो॑ यस्यैतदस्त्रं प्रभवश्च योऽस्य
६.०६०.०४५ बाणावपातांस्त्वमिहाद्य धीमन्॑ मया सहाव्यग्रमनाः सहस्व
६.०६०.०४६ प्रच्छादयत्येष हि राक्षसेन्द्रः॑ सर्वा दिशः सायकवृष्टिजालैः
६.०६०.०४६ एतच्च सर्वं पतिताग्र्यवीरं॑ न भ्राजते वानरराजसैन्यम्
६.०६०.०४७ आवां तु दृष्ट्वा पतितौ विसंज्ञौ॑ निवृत्तयुद्धौ हतरोषहर्षौ
६.०६०.०४७ ध्रुवं प्रवेक्ष्यत्यमरारिवासं॑ असौ समादाय रणाग्रलक्ष्मीम्
६.०६०.०४८ ततस्तु ताविन्द्रज
िदस्त्रजालैर्॑ बभूवतुस्तत्र तदा विशस्तौ
६.०६०.०४८ स चापि तौ तत्र विषादयित्वा॑ ननाद हर्षाद्युधि राक्षसेन्द्रः
६.०६०.०४९ स तत्तदा वानरराजसैन्यं॑ रामं च संख्ये सहलक्ष्मणेन
६.०६०.०४९ विषादयित्वा सहसा विवेश॑ पुरीं दशग्रीवभुजाभिगुप्ताम्
६.०६१.००१ तयोस्तदा सादितयो रणाग्रे॑ मुमोह सैन्यं हरियूथपानाम्
६.०६१.००१ सुग्रीवनीलाङ्गदजाम्बवन्तो॑ न चापि किं चित्प्रतिपेदिरे ते
६.०६१.००२ ततो विषण्णं समवेक्ष्य सैन्यं॑ विभीषणो बुद्धिमतां वरिष्ठः
६.०६१.००२ उवाच शाखामृगराजवीरान्॑ आश्वासयन्नप्रतिमैर्वचोभिः
६.०६१.००३ मा भैष्ट नास्त्यत्र विषादकालो॑ यदार्यपुत्राववशौ विषण्णौ
६.०६१.००३ स्वयम्भुवो वाक्यमथोद्वहन्तौ॑ यत्सादिताविन्द्रजिदस्त्रजालैः
६.०६१.००४ तस्मै तु दत्तं परमास्त्रमेतत्॑ स्वयम्भुवा ब्राह्मममोघवेगम्
६.०६१.००४ तन्मानयन्तौ यदि राजपुत्रौ॑ निपातितौ कोऽत्र विषादकालः
६.०६१.००५ ब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः
६.०६१.००५ विभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत्
६.०६१.००६ एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्
६.०६१.००६ यो यो धारयते प्राणांस्तं तमाश्वासयावहे
६.०६१.००७ तावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ
६.०६१.००७ उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः
६.०६१.००८ छिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः
६.०६१.००८ स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः
६.०६१.००९ पतितैः पर्वताकारैर्वानरैरभिसंकुलाम्
६.०६१.००९ शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम्
६.०६१.०१० सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्
६.०६१.०१० जाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम्
६.०६१.०११ मैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा
६.०६१.०११ विभीषणो हनूमांश्च ददृशाते हतान् रणे
६.०६१.०१२ सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्
६.०६१.०१२ अह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः
६.०६१.०१३ सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्
६.०६१.०१३ मार्गते जाम्बवन्तं स्म हनूमान् सविभीषणः
६.०६१.०१४ स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्
६.०६१.०१४ प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम्
६.०६१.०१५ दृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत्
६.०६१.०१५ कच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव
६.०६१.०१६ विभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः
६.०६१.०१६ कृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत्
६.०६१.०१७ नैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये
६.०६१.०१७ पीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा
६.०६१.०१८ अञ्जना सुप्रजा येन मातरिश्वा च नैरृत
६.०६१.०१८ हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्व चित्
६.०६१.०१९ श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः
६.०६१.०१९ आर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम्
६.०६१.०२० नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे
६.०६१.०२० आर्य संदर्शितः स्नेहो यथा वायुसुते परः
६.०६१.०२१ विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्
६.०६१.०२१ शृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम्
६.०६१.०२२ तस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्
६.०६१.०२२ हनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः
६.०६१.०२३ ध्रियते मारुतिस्तात मारुतप्रतिमो यदि
६.०६१.०२३ वैश्वानरसमो वीर्ये जीविताशा ततो भवेत्
६.०६१.०२४ ततो वृद्धमुपागम्य नियमेनाभ्यवादयत्
६.०६१.०२४ गृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः
६.०६१.०२५ श्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः
६.०६१.०२५ पुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः
६.०६१.०२६ ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान्
६.०६१.०२६ आगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि
६.०६१.०२७ नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा
६.०६१.०२७ त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन
६.०६१.०२८ ऋक्षवानरवीराणामनीकानि प्रहर्षय
६.०६१.०२८ विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ
६.०६१.०२९ गत्वा परममध्वानमुपर्युपरि सागरम्
६.०६१.०२९ हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि
६.०६१.०३० ततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम्
६.०६१.०३० कैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन
६.०६१.०३१ तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्
६.०६१.०३१ सर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम्
६.०६१.०३२ तस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः
६.०६१.०३२ द्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश
६.०६१.०३३ मृतसंजीवनीं चैव विशल्यकरणीमपि
६.०६१.०३३ सौवर्णकरणीं चैव संधानीं च महौषधीम्
६.०६१.०३४ ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि
६.०६१.०३४ आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मजः
६.०६१.०३५ श्रुत्वा जाम्बवतो वाक्यं हनूमान् हरिपुंगवः
६.०६१.०३५ आपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः
६.०६१.०३६ स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तरम्
६.०६१.०३६ हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः
६.०६१.०३७ हरिपादविनिर्भिन्नो निषसाद स पर्वतः
६.०६१.०३७ न शशाक तदात्मानं सोढुं भृशनिपीडितः
६.०६१.०३८ तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः
६.०६१.०३८ शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता
६.०६१.०३९ तस्मिन् संपीड्यमाने तु भग्नद्रुमशिलातले
६.०६१.०३९ न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे
६.०६१.०४० स घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा
६.०६१.०४० लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा
६.०६१.०४१ पृथिवीधरसंकाशो निपीड्य धरणीधरम्
६.०६१.०४१ पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः
६.०६१.०४२ पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्
६.०६१.०४२ विवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान्
६.०६१.०४३ तस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्
६.०६१.०४३ लङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात्
६.०६१.०४४ नमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः
६.०६१.०४४ राघवार्थे परं कर्म समैहत परंतपः
६.०६१.०४५ स पुच्छमुद्यम्य भुजंगकल्पं॑ विनम्य पृष्ठं श्रवणे निकुञ्च्य
६.०६१.०४५ विवृत्य वक्त्रं वडवामुखाभम्॑ आपुप्लुवे व्योम्नि स चण्डवेगः
६.०६१.०४६ स वृक्षषण्डांस्तरसा जहार॑ शैलाञ्शिलाः प्राकृतवानरांश्च
६.०६१.०४६ बाहूरुवेगोद्धतसंप्रणुन्नास्॑ ते क्षीणवेगाः सलिले निपेतुः
६.०६१.०४७ स तौ प्रसार्योरगभोगकल्पौ॑ भुजौ भुजंगारिनिकाशवीर्यः
६.०६१.०४७ जगाम मेरुं नगराजमग्र्यं॑ दिशः प्रकर्षन्निव वायुसूनुः
६.०६१.०४८ स सागरं घूर्णितवीचिमालं॑ तदा भृशं भ्रामितसर्वसत्त्वम्
६.०६१.०४८ समीक्षमाणः सहसा जगाम॑ चक्रं यथा विष्णुकराग्रमुक्तम्
६.०६१.०४९ स पर्वतान् वृक्षगणान् सरांसि॑ नदीस्तटाकानि पुरोत्तमानि
६.०६१.०४९ स्फीताञ्जनांस्तानपि संप्रपश्यञ्॑ जगाम वेगात्पितृतुल्यवेगः
६.०६१.०५० आदित्यपथमाश्रित्य जगाम स गतश्रमः
६.०६१.०५० स ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम्
६.०६१.०५१ नानाप्रस्रवणोपेतं बहुकंदरनिर्झरम्
६.०६१.०५१ श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः
६.०६१.०५२ स तं समासाद्य महानगेन्द्रम्॑ अतिप्रवृद्धोत्तमघोरशृङ्गम्
६.०६१.०५२ ददर्श पुण्यानि महाश्रमाणि॑ सुरर्षिसंघोत्तमसेवितानि
६.०६१.०५३ स ब्रह्मकोशं रजतालयं च॑ शक्रालयं रुद्रशरप्रमोक्षम्
६.०६१.०५३ हयाननं ब्रह्मशिरश्च दीप्तं॑ ददर्श वैवस्वत किंकरांश्च
६.०६१.०५४ वज्रालयं वैश्वरणालयं च॑ सूर्यप्रभं सूर्यनिबन्धनं च
६.०६१.०५४ ब्रह्मासनं शंकरकार्मुकं च॑ ददर्श नाभिं च वसुंधरायाः
६.०६१.०५५ कैलासमग्र्यं हिमवच्छिलां च॑ तथर्षभं काञ्चनशैलमग्र्यम्
६.०६१.०५५ स दीप्तसर्वौषधिसंप्रदीप्तं॑ ददर्श सर्वौषधिपर्वतेन्द्रम्
६.०६१.०५६ स तं समीक्ष्यानलरश्मिदीप्तं॑ विसिष्मिये वासवदूतसूनुः
६.०६१.०५६ आप्लुत्य तं चौषधिपर्वतेन्द्रं॑ तत्रौषधीनां विचयं चकार
६.०६१.०५७ स योजनसहस्राणि समतीत्य महाकपिः
६.०६१.०५७ दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः
६.०६१.०५८ महौषध्यस्तु ताः सर्वास्तस्मिन् पर्वतसत्तमे
६.०६१.०५८ विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम्
६.०६१.०५९ स ता महात्मा हनुमानपश्यंश्॑ चुकोप कोपाच्च भृशं ननाद
६.०६१.०५९ अमृष्यमाणोऽग्निनिकाशचक्षुर्॑ महीधरेन्द्रं तमुवाच वाक्यम्
६.०६१.०६० किमेतदेवं सुविनिश्चितं ते॑ यद्राघवे नासि कृतानुकम्पः
६.०६१.०६० पश्याद्य मद्बाहुबलाभिभूतो॑ विकीर्णमात्मानमथो नगेन्द्र
६.०६१.०६१ स तस्य शृङ्गं सनगं सनागं॑ सकाञ्चनं धातुसहस्रजुष्टम्
६.०६१.०६१ विकीर्णकूटं चलिताग्रसानुं॑ प्रगृह्य वेगात्सहसोन्ममाथ
६.०६१.०६२ स तं समुत्पाट्य खमुत्पपात॑ वित्रास्य लोकान् ससुरान् सुरेन्द्रान्
६.०६१.०६२ संस्तूयमानः खचरैरनेकैर्॑ जगाम वेगाद्गरुडोग्रवीर्यः
६.०६१.०६३ स भास्कराध्वानमनुप्रपन्नस्॑ तद्भास्कराभं शिखरं प्रगृह्य
६.०६१.०६३ बभौ तदा भास्करसंनिकाशो॑ रवेः समीपे प्रतिभास्कराभः
६.०६१.०६४ स तेन शैलेन भृशं रराज॑ शैलोपमो गन्धवहात्मजस्तु
६.०६१.०६४ सहस्रधारेण सपावकेन॑ चक्रेण खे विष्णुरिवोद्धृतेन
६.०६१.०६५ तं वानराः प्रेक्ष्य तदा विनेदुः॑ स तानपि प्रेक्ष्य मुदा ननाद
६.०६१.०६५ तेषां समुद्घुष्टरवं निशम्य॑ लङ्कालया भीमतरं विनेदुः
६.०६१.०६६ ततो महात्मा निपपात तस्मिञ्॑ शैलोत्तमे वानरसैन्यमध्ये
६.०६१.०६६ हर्युत्तमेभ्यः शिरसाभिवाद्य॑ विभीषणं तत्र च सस्वजे सः
६.०६१.०६७ तावप्युभौ मानुषराजपुत्रौ॑ तं गन्धमाघ्राय महौषधीनाम्
६.०६१.०६७ बभूवतुस्तत्र तदा विशल्याव्॑ उत्तस्थुरन्ये च हरिप्रवीराः
६.०६१.०६८ ततो हरिर्गन्धवहात्मजस्तु॑ तमोषधीशैलमुदग्रवीर्यः
६.०६१.०६८ निनाय वेगाद्धिमवन्तमेव॑ पुनश्च रामेण समाजगाम
६.०६२.००१ ततोऽब्रवीन्महातेजाः सुग्रीवो वानराधिपः
६.०६२.००१ अर्थ्यं विजापयंश्चापि हनूमन्तं महाबलम्
६.०६२.००२ यतो हतः कुम्भकर्णः कुमाराश्च निषूदिताः
६.०६२.००२ नेदानीइमुपनिर्हारं रावणो दातुमर्हति
६.०६२.००३ ये ये महाबलाः सन्ति लघवश्च प्लवंगमाः
६.०६२.००३ लङ्कामभ्युत्पतन्त्वाशु गृह्योल्काः प्लवगर्षभाः
६.०६२.००४ ततोऽस्तं गत आदित्ये रौद्रे तस्मिन्निशामुखे
६.०६२.००४ लङ्कामभिमुखाः सोल्का जग्मुस्ते प्लवगर्षभाः
६.०६२.००५ उल्काहस्तैर्हरिगणैः सर्वतः समभिद्रुताः
६.०६२.००५ आरक्षस्था विरूपाक्षाः सहसा विप्रदुद्रुवुः
६.०६२.००६ गोपुराट्ट प्रतोलीषु चर्यासु विविधासु च
६.०६२.००६ प्रासादेषु च संहृष्टाः ससृजुस्ते हुताशनम्
६.०६२.००७ तेषां गृहसहस्राणि ददाह हुतभुक्तदा
६.०६२.००७ आवासान् राक्षसानां च सर्वेषां गृहमेधिनाम्
६.०६२.००८ हेमचित्रतनुत्राणां स्रग्दामाम्बरधारिणाम्
६.०६२.००८ सीधुपानचलाक्षाणां मदविह्वलगामिनाम्
६.०६२.००९ कान्तालम्बितवस्त्राणां शत्रुसंजातमन्युनाम्
६.०६२.००९ गदाशूलासि हस्तानां खादतां पिबतामपि
६.०६२.०१० शयनेषु महार्हेषु प्रसुप्तानां प्रियैः सह
६.०६२.०१० त्रस्तानां गच्छतां तूर्णं पुत्रानादाय सर्वतः
६.०६२.०११ तेषां गृहसहस्राणि तदा लङ्कानिवासिनाम्
६.०६२.०११ अदहत्पावकस्तत्र जज्वाल च पुनः पुनः
६.०६२.०१२ सारवन्ति महार्हाणि गम्भीरगुणवन्ति च
६.०६२.०१२ हेमचन्द्रार्धचन्द्राणि चन्द्रशालोन्नतानि च
६.०६२.०१३ रत्नचित्रगवाक्षाणि साधिष्ठानानि सर्वशः
६.०६२.०१३ मणिविद्रुमचित्राणि स्पृशन्तीव च भास्करम्
६.०६२.०१४ क्रौञ्चबर्हिणवीणानां भूषणानां च निस्वनैः
६.०६२.०१४ नादितान्यचलाभानि वेश्मान्यग्निर्ददाह सः
६.०६२.०१५ ज्वलनेन परीतानि तोरणानि चकाशिरे
६.०६२.०१५ विद्युद्भिरिव नद्धानि मेघजालानि घर्मगे
६.०६२.०१६ विमानेषु प्रसुप्ताश्च दह्यमाना वराङ्गनाः
६.०६२.०१६ त्यक्ताभरणसंयोगा हाहेत्युच्चैर्विचुक्रुशः
६.०६२.०१७ तत्र चाग्निपरीतानि निपेतुर्भवनान्यपि
६.०६२.०१७ वज्रिवज्रहतानीव शिखराणि महागिरेः
६.०६२.०१८ तानि निर्दह्यमानानि दूरतः प्रचकाशिरे
६.०६२.०१८ हिमवच्छिखराणीव दीप्तौषधिवनानि च
६.०६२.०१९ हर्म्याग्रैर्दह्यमानैश्च ज्वालाप्रज्वलितैरपि
६.०६२.०१९ रात्रौ सा दृश्यते लङ्का पुष्पितैरिव किंशुकैः
६.०६२.०२० हस्त्यध्यक्षैर्गजैर्मुक्तैर्मुक्तैश्च तुरगैरपि
६.०६२.०२० बभूव लङ्का लोकान्ते भ्रान्तग्राह इवार्णवः
६.०६२.०२१ अश्वं मुक्तं गजो दृष्ट्वा कच्चिद्भीतोऽपसर्पति
६.०६२.०२१ भीतो भीतं गजं दृष्ट्वा क्व चिदश्वो निवर्तते
६.०६२.०२२ सा बभूव मुहूर्तेन हरिभिर्दीपिता पुरी
६.०६२.०२२ लोकस्यास्य क्षये घोरे प्रदीप्तेव वसुंधरा
६.०६२.०२३ नारी जनस्य धूमेन व्याप्तस्योच्चैर्विनेदुषः
६.०६२.०२३ स्वनो ज्वलनतप्तस्य शुश्रुवे दशयोजनम्
६.०६२.०२४ प्रदग्धकायानपरान् राक्षसान्निर्गतान् बहिः
६.०६२.०२४ सहसाभ्युत्पतन्ति स्म हरयोऽथ युयुत्सवः
६.०६२.०२५ उद्घुष्टं वानराणां च राक्षसानां च निस्वनः
६.०६२.०२५ दिशो दश समुद्रं च पृथिवीं चान्वनादयत्
६.०६२.०२६ विशल्यौ तु महात्मानौ तावुभौ रामलक्ष्मणौ
६.०६२.०२६ असंभ्रान्तौ जगृहतुस्तावुभौ धनुषी वरे
६.०६२.०२७ ततो विस्फारयाणस्य रामस्य धनुरुत्तमम्
६.०६२.०२७ बभूव तुमुलः शब्दो राक्षसानां भयावहः
६.०६२.०२८ अशोभत तदा रामो धनुर्विस्फारयन्महत्
६.०६२.०२८ भगवानिव संक्रुद्धो भवो वेदमयं धनुः
६.०६२.०२९ वानरोद्घुष्टघोषश्च राक्षसानां च निस्वनः
६.०६२.०२९ ज्याशब्दश्चापि रामस्य त्रयं व्याप दिशो दश
६.०६२.०३० तस्य कार्मुकमुक्तैश्च शरैस्तत्पुरगोपुरम्
६.०६२.०३० कैलासशृङ्गप्रतिमं विकीर्णमपतद्भुवि
६.०६२.०३१ ततो रामशरान् दृष्ट्वा विमानेषु गृहेषु च
६.०६२.०३१ संनाहो राक्षसेन्द्राणां तुमुलः समपद्यत
६.०६२.०३२ तेषां संनह्यमानानां सिंहनादं च कुर्वताम्
६.०६२.०३२ शर्वरी राक्षसेन्द्राणां रौद्रीव समपद्यत
६.०६२.०३३ आदिष्टा वानरेन्द्रास्ते सुग्रीवेण महात्मना
६.०६२.०३३ आसन्ना द्वारमासाद्य युध्यध्वं प्लवगर्षभाः
६.०६२.०३४ यश्च वो वितथं कुर्यात्तत्र तत्र व्यवस्थितः
६.०६२.०३४ स हन्तव्योऽभिसंप्लुत्य राजशासनदूषकः
६.०६२.०३५ तेषु वानरमुख्येषु दीप्तोल्कोज्ज्वलपाणिषु
६.०६२.०३५ स्थितेषु द्वारमासाद्य रावणं मन्युराविशत्
६.०६२.०३६ तस्य जृम्भितविक्षेपाद्व्यामिश्रा वै दिशो दश
६.०६२.०३६ रूपवानिव रुद्रस्य मन्युर्गात्रेष्वदृश्यत
६.०६२.०३७ स निकुम्भं च कुम्भं च कुम्भकर्णात्मजावुभौ
६.०६२.०३७ प्रेषयामास संक्रुद्धो राक्षसैर्बहुभिः सह
६.०६२.०३८ शशास चैव तान् सर्वान् राक्षसान् राक्षसेश्वरः
६.०६२.०३८ राक्षसा गच्छतात्रैव सिंहनादं च नादयन्
६.०६२.०३९ ततस्तु चोदितास्तेन राक्षसा ज्वलितायुधाः
६.०६२.०३९ लङ्काया निर्ययुर्वीराः प्रणदन्तः पुनः पुनः
६.०६२.०४० भीमाश्वरथमातंगं नानापत्ति समाकुलम्
६.०६२.०४० दीप्तशूलगदाखड्गप्रासतोमरकार्मुकम्
६.०६२.०४१ तद्राक्षसबलं घोरं भीमविक्रमपौरुषम्
६.०६२.०४१ ददृशे ज्वलितप्रासं किङ्किणीशतनादितम्
६.०६२.०४२ हेमजालाचितभुजं व्यावेष्टितपरश्वधम्
६.०६२.०४२ व्याघूर्णितमहाशस्त्रं बाणसंसक्तकार्मुकम्
६.०६२.०४३ गन्धमाल्यमधूत्सेकसंमोदित महानिलम्
६.०६२.०४३ घोरं शूरजनाकीर्णं महाम्बुधरनिस्वनम्
६.०६२.०४४ तं दृष्ट्वा बलमायान्तं राक्षसानां सुदारुणम्
६.०६२.०४४ संचचाल प्लवंगानां बलमुच्चैर्ननाद च
६.०६२.०४५ जवेनाप्लुत्य च पुनस्तद्राक्षसबलं महत्
६.०६२.०४५ अभ्ययात्प्रत्यरिबलं पतंग इव पावकम्
६.०६२.०४६ तेषां भुजपरामर्शव्यामृष्टपरिघाशनि
६.०६२.०४६ राक्षसानां बलं श्रेष्ठं भूयस्तरमशोभत
६.०६२.०४७ तथैवाप्यपरे तेषां कपीनामसिभिः शितैः
६.०६२.०४७ प्रवीरानभितो जघ्नुर्घोररूपा निशाचराः
६.०६२.०४८ घ्नन्तमन्यं जघानान्यः पातयन्तमपातयत्
६.०६२.०४८ गर्हमाणं जगर्हान्ये दशन्तमपरेऽदशत्
६.०६२.०४९ देहीत्यन्ये ददात्यन्यो ददामीत्यपरः पुनः
६.०६२.०४९ किं क्लेशयसि तिष्ठेति तत्रान्योन्यं बभाषिरे
६.०६२.०५० समुद्यतमहाप्रासं मुष्टिशूलासिसंकुलम्
६.०६२.०५० प्रावर्तत महारौद्रं युद्धं वानररक्षसाम्
६.०६२.०५१ वानरान् दश सप्तेति राक्षसा अभ्यपातयन्
६.०६२.०५१ राक्षसान् दशसप्तेति वानरा जघ्नुराहवे
६.०६२.०५२ विस्रस्तकेशरसनं विमुक्तकवचध्वजम्
६.०६२.०५२ बलं राक्षसमालम्ब्य वानराः पर्यवारयन्
६.०६३.००१ प्रवृत्ते संकुले तस्मिन् घोरे वीरजनक्षये
६.०६३.००१ अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः
६.०६३.००२ आहूय सोऽङ्गदं कोपात्ताडयामास वेगितः
६.०६३.००२ गदया कम्पनः पूर्वं स चचाल भृशाहतः
६.०६३.००३ स संज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः
६.०६३.००३ अर्दितश्च प्रहारेण कम्पनः पतितो भुवि
६.०६३.००४ हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा
६.०६३.००४ जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः
६.०६३.००४ आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम्
६.०६३.००५ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः
६.०६३.००५ मुमोचाशीविषप्रख्याञ्शरान् देहविदारणान्
६.०६३.००६ तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम्
६.०६३.००६ विद्युदैरावतार्चिष्मद्द्वितीयेन्द्रधनुर्यथा
६.०६३.००७ आकर्णकृष्टमुक्तेन जघान द्विविदं तदा
६.०६३.००७ तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा
६.०६३.००८ सहसाभिहतस्तेन विप्रमुक्तपदः स्फुरन्
६.०६३.००८ निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः
६.०६३.००९ मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे
६.०६३.००९ अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम्
६.०६३.०१० तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः
६.०६३.०१० बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः
६.०६३.०११ संधाय चान्यं सुमुखं शरमाशीविषोपमम्
६.०६३.०११ आजघान महातेजा वक्षसि द्विविदाग्रजम्
६.०६३.०१२ स तु तेन प्रहारेण मैन्दो वानरयूथपः
६.०६३.०१२ मर्मण्यभिहतस्तेन पपात भुवि मूर्छितः
६.०६३.०१३ अङ्गदो मातुलौ दृष्ट्वा पतितौ तौ महाबलौ
६.०६३.०१३ अभिदुद्राव वेगेन कुम्भमुद्यतकार्मुकम्
६.०६३.०१४ तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः
६.०६३.०१४ त्रिभिश्चान्यैः शितैर्बाणैर्मातंगमिव तोमरैः
६.०६३.०१५ सोऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान्
६.०६३.०१५ अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः
६.०६३.०१६ अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते
६.०६३.०१६ शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह
६.०६३.०१७ स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः
६.०६३.०१७ कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान्
६.०६३.०१८ आपतन्तं च संप्रेक्ष्य कुम्भो वानरयूथपम्
६.०६३.०१८ भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम्
६.०६३.०१९ अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते
६.०६३.०१९ सालमासन्नमेकेन परिजग्राह पाणिना
६.०६३.०२० तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसंनिभम्
६.०६३.०२० समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम्
६.०६३.०२१ स चिच्छेद शितैर्बाणैः सप्तभिः कायभेदनैः
६.०६३.०२१ अङ्गदो विव्यथेऽभीक्ष्णं ससाद च मुमोह च
६.०६३.०२२ अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे
६.०६३.०२२ दुरासदं हरिश्रेष्ठा राघवाय न्यवेदयन्
६.०६३.०२३ रामस्तु व्यथितं श्रुत्वा वालिपुत्रं महाहवे
६.०६३.०२३ व्यादिदेश हरिश्रेष्ठाञ्जाम्बवत्प्रमुखांस्ततः
६.०६३.०२४ ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम्
६.०६३.०२४ अभिपेतुः सुसंक्रुद्धाः कुम्भमुद्यतकार्मुकम्
६.०६३.०२५ ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः
६.०६३.०२५ रिरक्षिषन्तोऽभ्यपतन्नङ्गदं वानरर्षभाः
६.०६३.०२६ जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः
६.०६३.०२६ कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः
६.०६३.०२७ समीक्ष्यातततस्तांस्तु वानरेन्द्रान्महाबलान्
६.०६३.०२७ आववार शरौघेण नगेनेव जलाशयम्
६.०६३.०२८ तस्य बाणचयं प्राप्य न शोकेरतिवर्तितुम्
६.०६३.०२८ वानरेन्द्रा महात्मानो वेलामिव महोदधिः
६.०६३.०२९ तांस्तु दृष्ट्वा हरिगणाञ्शरवृष्टिभिरर्दितान्
६.०६३.०२९ अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः
६.०६३.०३० अभिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे
६.०६३.०३० शैलसानु चरं नागं वेगवानिव केसरी
६.०६३.०३१ उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून्
६.०६३.०३१ अन्यांश्च विविधान् वृक्षांश्चिक्षेप च महाबलः
६.०६३.०३२ तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम्
६.०६३.०३२ कुम्भकर्णात्मजः श्रीमांश्चिच्छेद निशितैः शरैः
६.०६३.०३३ अभिलक्ष्येण तीव्रेण कुम्भेन निशितैः शरैः
६.०६३.०३३ आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः
६.०६३.०३४ द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान्
६.०६३.०३४ वानराधिपतिः श्रीमान्महासत्त्वो न विव्यथे
६.०६३.०३५ निर्भिद्यमानः सहसा सहमानश्च ताञ्शरान्
६.०६३.०३५ कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुःप्रभम्
६.०६३.०३६ अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम्
६.०६३.०३६ अब्रवीत्कुपितः कुम्भं भग्नशृङ्गमिव द्विपम्
६.०६३.०३७ निकुम्भाग्रज वीर्यं ते बाणवेगं तदद्भुतम्
६.०६३.०३७ संनतिश्च प्रभावश्च तव वा रावणस्य वा
६.०६३.०३८ प्रह्रादबलिवृत्रघ्नकुबेरवरुणोपम
६.०६३.०३८ एकस्त्वमनुजातोऽसि पितरं बलवत्तरः
६.०६३.०३९ त्वामेवैकं महाबाहुं शूलहस्तमरिंदमम्
६.०६३.०३९ त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः
६.०६३.०४० वरदानात्पितृव्यस्ते सहते देवदानवान्
६.०६३.०४० कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान्
६.०६३.०४१ धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च
६.०६३.०४१ त्वमद्य रक्षसां लोके श्रेष्ठोऽसि बलवीर्यतः
६.०६३.०४२ महाविमर्दं समरे मया सह तवाद्भुतम्
६.०६३.०४२ अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव
६.०६३.०४३ कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम्
६.०६३.०४३ पातिता हरिवीराश्च त्वयैते भीमविक्रमाः
६.०६३.०४४ उपालम्भभयाच्चापि नासि वीर मया हतः
६.०६३.०४४ कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम्
६.०६३.०४५ तेन सुग्रीववाक्येन सावमानेन मानितः
६.०६३.०४५ अग्नेराज्यहुतस्येव तेजस्तस्याभ्यवर्धत
६.०६३.०४६ ततः कुम्भः समुत्पत्य सुग्रीवमभिपद्य च
६.०६३.०४६ आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना
६.०६३.०४७ तस्य चर्म च पुस्फोट संजज्ञे चास्य शोणितम्
६.०६३.०४७ स च मुष्टिर्महावेगः प्रतिजघ्नेऽस्थिमण्डले
६.०६३.०४८ तदा वेगेन तत्रासीत्तेजः प्रज्वालितं मुहुः
६.०६३.०४८ वज्रनिष्पेषसंजातज्वाला मेरौ यथा गिरौ
६.०६३.०४९ स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः
६.०६३.०४९ मुष्टिं संवर्तयामास वज्रकल्पं महाबलः
६.०६३.०५० अर्चिःसहस्रविकचं रविमण्डलसप्रभम्
६.०६३.०५० स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान्
६.०६३.०५१ मुष्टिनाभिहतस्तेन निपपाताशु राक्षसः
६.०६३.०५१ लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया
६.०६३.०५२ कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना
६.०६३.०५२ बभौ रुद्राभिपन्नस्य यथारूपं गवां पतेः
६.०६३.०५३ तस्मिन् हते भीमपराक्रमेण॑ प्लवंगमानामृषभेण युद्धे
६.०६३.०५३ मही सशैला सवना चचाल॑ भयं च रक्षांस्यधिकं विवेश
६.०६४.००१ निकुम्भो भ्रातरं दृष्ट्वा सुग्रीवेण निपातितम्
६.०६४.००१ प्रदहन्निव कोपेन वानरेन्द्रमवैक्षत
६.०६४.००२ ततः स्रग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम्
६.०६४.००२ आददे परिघं वीरो नगेन्द्रशिखरोपमम्
६.०६४.००३ हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम्
६.०६४.००३ यमदण्डोपमं भीमं रक्षसां भयनाशनम्
६.०६४.००४ तमाविध्य महातेजाः शक्रध्वजसमं रणे
६.०६४.००४ विननाद विवृत्तास्यो निकुम्भो भीमविक्रमः
६.०६४.००५ उरोगतेन निष्केण भुजस्थैरङ्गदैरपि
६.०६४.००५ कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया
६.०६४.००६ निकुम्भो भूषणैर्भाति तेन स्म परिघेण च
६.०६४.००६ यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान्
६.०६४.००७ परिघाग्रेण पुस्फोट वातग्रन्थिर्महात्मनः
६.०६४.००७ प्रजज्वाल सघोषश्च विधूम इव पावकः
६.०६४.००८ नगर्या विटपावत्या गन्धर्वभवनोत्तमैः
६.०६४.००८ सह चैवामरावत्या सर्वैश्च भवनैः सह
६.०६४.००९ सतारागणनक्षत्रं सचन्द्रं समहाग्रहम्
६.०६४.००९ निकुम्भपरिघाघूर्णं भ्रमतीव नभस्तलम्
६.०६४.०१० दुरासदश्च संजज्ञे परिघाभरणप्रभः
६.०६४.०१० क्रोधेन्धनो निकुम्भाग्निर्युगान्ताग्निरिवोत्थितः
६.०६४.०११ राक्षसा वानराश्चापि न शेकुः स्पन्दितुं भयात्
६.०६४.०११ हनूमंस्तु विवृत्योरस्तस्थौ प्रमुखतो बली
६.०६४.०१२ परिघोपमबाहुस्तु परिघं भास्करप्रभम्
६.०६४.०१२ बली बलवतस्तस्य पातयामास वक्षसि
६.०६४.०१३ स्थिरे तस्योरसि व्यूढे परिघः शतधा कृतः
६.०६४.०१३ विशीर्यमाणः सहसा उल्का शतमिवाम्बरे
६.०६४.०१४ स तु तेन प्रहारेण चचाल च महाकपिः
६.०६४.०१४ परिघेण समाधूतो यथा भूमिचलेऽचलः
६.०६४.०१५ स तथाभिहतस्तेन हनूमान् प्लवगोत्तमः
६.०६४.०१५ मुष्टिं संवर्तयामास बलेनातिमहाबलः
६.०६४.०१६ तमुद्यम्य महातेजा निकुम्भोरसि वीर्यवान्
६.०६४.०१६ अभिचिक्षेप वेगेन वेगवान् वायुविक्रमः
६.०६४.०१७ ततः पुस्फोट चर्मास्य प्रसुस्राव च शोणितम्
६.०६४.०१७ मुष्टिना तेन संजज्ञे ज्वाला विद्युदिवोत्थिता
६.०६४.०१८ स तु तेन प्रहारेण निकुम्भो विचचाल ह
६.०६४.०१८ स्वस्थश्चापि निजग्राह हनूमन्तं महाबलम्
६.०६४.०१९ विचुक्रुशुस्तदा संख्ये भीमं लङ्कानिवासिनः
६.०६४.०१९ निकुम्भेनोद्धृतं दृष्ट्वा हनूमन्तं महाबलम्
६.०६४.०२० स तथा ह्रियमाणोऽपि कुम्भकर्णात्मजेन हि
६.०६४.०२० आजघानानिलसुतो वज्रवेगेन मुष्टिना
६.०६४.०२१ आत्मानं मोचयित्वाथ क्षितावभ्यवपद्यत
६.०६४.०२१ हनूमानुन्ममथाशु निकुम्भं मारुतात्मजः
६.०६४.०२२ निक्षिप्य परमायत्तो निकुम्भं निष्पिपेष च
६.०६४.०२२ उत्पत्य चास्य वेगेन पपातोरसि वीर्यवान्
६.०६४.०२३ परिगृह्य च बाहुभ्यां परिवृत्य शिरोधराम्
६.०६४.०२३ उत्पाटयामास शिरो भैरवं नदतो महत्
६.०६४.०२४ अथ विनदति सादिते निकुम्भे॑ पवनसुतेन रणे बभूव युद्धम्
६.०६४.०२४ दशरथसुतराक्षसेन्द्रचम्वोर्॑ भृशतरमागतरोषयोः सुभीमम्
६.०६५.००१ निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम्
६.०६५.००१ रावणः परमामर्षी प्रजज्वालानलो यथा
६.०६५.००२ नैरृतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः
६.०६५.००२ खरपुत्रं विशालाक्षं मकराक्षमचोदयत्
६.०६५.००३ गच्छ पुत्र मयाज्ञप्तो बलेनाभिसमन्वितः
६.०६५.००३ राघवं लक्ष्मणं चैव जहि तौ सवनौकसौ
६.०६५.००४ रावणस्य वचः श्रुत्वा शूरो मानी खरात्मजः
६.०६५.००४ बाढमित्यब्रवीद्धृष्टो मकराक्षो निशाचरः
६.०६५.००५ सोऽभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम्
६.०६५.००५ निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली
६.०६५.००६ समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम्
६.०६५.००६ रथमानीयतां शीघ्रं सैन्यं चानीयतां त्वरात्
६.०६५.००७ तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः
६.०६५.००७ स्यन्दनं च बलं चैव समीपं प्रत्यपादयत्
६.०६५.००८ प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः
६.०६५.००८ सूतं संचोदयामास शीघ्रं मे रथमावह
६.०६५.००९ अथ तान् राक्षसान् सर्वान्मकराक्षोऽब्रवीदिदम्
६.०६५.००९ यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः
६.०६५.०१० अहं राक्षसराजेन रावणेन महात्मना
६.०६५.०१० आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ
६.०६५.०११ अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः
६.०६५.०११ शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः
६.०६५.०१२ अद्य शूलनिपातैश्च वानराणां महाचमूम्
६.०६५.०१२ प्रदहिष्यामि संप्राप्तां शुष्केन्धनमिवानलः
६.०६५.०१३ मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः
६.०६५.०१३ सर्वे नानायुधोपेता बलवन्तः समाहिताः
६.०६५.०१४ ते कामरूपिणः शूरा दंष्ट्रिणः पिङ्गलेक्षणाः
६.०६५.०१४ मातंगा इव नर्दन्तो ध्वस्तकेशा भयानकाः
६.०६५.०१५ परिवार्य महाकाया महाकायं खरात्मजम्
६.०६५.०१५ अभिजग्मुस्तदा हृष्टाश्चालयन्तो वसुंधराम्
६.०६५.०१६ शङ्खभेरीसहस्राणामाहतानां समन्ततः
६.०६५.०१६ क्ष्वेडितास्फोटितानां च ततः शब्दो महानभूत्
६.०६५.०१७ प्रभ्रष्टोऽथ करात्तस्य प्रतोदः सारथेस्तदा
६.०६५.०१७ पपात सहसा चैव ध्वजस्तस्य च रक्षसः
६.०६५.०१८ तस्य ते रथसंयुक्ता हया विक्रमवर्जिताः
६.०६५.०१८ चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः
६.०६५.०१९ प्रवाति पवनस्तस्य सपांसुः खरदारुणः
६.०६५.०१९ निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः
६.०६५.०२० तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः
६.०६५.०२० अचिन्त्यनिर्गताः सर्वे यत्र तौ रामलक्ष्मणौ
६.०६५.०२१ घनगजमहिषाङ्गतुल्यवर्णाः॑ समरमुखेष्वसकृद्गदासिभिन्नाः
६.०६५.०२१ अहमहमिति युद्धकौशलास्ते॑ रजनिचराः परिबभ्रमुर्नदन्तः
६.०६६.००१ निर्गतं मकराक्षं ते दृष्ट्वा वानरपुंगवाः
६.०६६.००१ आप्लुत्य सहसा सर्वे योद्धुकामा व्यवस्थिताः
६.०६६.००२ ततः प्रवृत्तं सुमहत्तद्युद्धं लोमहर्षणम्
६.०६६.००२ निशाचरैः प्लवंगानां देवानां दानवैरिव
६.०६६.००३ वृक्षशूलनिपातैश्च शिलापरिघपातनैः
६.०६६.००३ अन्योन्यं मर्दयन्ति स्म तदा कपिनिशाचराः
६.०६६.००४ शक्तिशूलगदाखड्गैस्तोमरैश्च निशाचराः
६.०६६.००४ पट्टसैर्भिन्दिपालैश्च बाणपातैः समन्ततः
६.०६६.००५ पाशमुद्गरदण्डैश्च निर्घातैश्चापरैस्तथा
६.०६६.००५ कदनं कपिसिंहानां चक्रुस्ते रजनीचराः
६.०६६.००६ बाणौघैरर्दिताश्चापि खरपुत्रेण वानराः
६.०६६.००६ संभ्रान्तमनसः सर्वे दुद्रुवुर्भयपीडिताः
६.०६६.००७ तान् दृष्ट्वा राक्षसाः सर्वे द्रवमाणान् वनौकसः
६.०६६.००७ नेदुस्ते सिंहवद्धृष्टा राक्षसा जितकाशिनः
६.०६६.००८ विद्रवत्सु तदा तेषु वानरेषु समन्ततः
६.०६६.००८ रामस्तान् वारयामास शरवर्षेण राक्षसान्
६.०६६.००९ वारितान् राक्षसान् दृष्ट्वा मकराक्षो निशाचरः
६.०६६.००९ क्रोधानलसमाविष्टो वचनं चेदमब्रवीत्
६.०६६.०१० तिष्ठ राम मया सार्धं द्वन्द्वयुद्धं ददामि ते
६.०६६.०१० त्याजयिष्यामि ते प्राणान् धनुर्मुक्तैः शितैः शरैः
६.०६६.०११ यत्तदा दण्डकारण्ये पितरं हतवान्मम
६.०६६.०११ मदग्रतः स्वकर्मस्थं स्मृत्वा रोषोऽभिवर्धते
६.०६६.०१२ दह्यन्ते भृशमङ्गानि दुरात्मन्मम राघव
६.०६६.०१२ यन्मयासि न दृष्टस्त्वं तस्मिन् काले महावने
६.०६६.०१३ दिष्ट्यासि दर्शनं राम मम त्वं प्राप्तवानिह
६.०६६.०१३ काङ्क्षितोऽसि क्षुधार्तस्य सिंहस्येवेतरो मृगः
६.०६६.०१४ अद्य मद्बाणवेगेन प्रेतराड्विषयं गतः
६.०६६.०१४ ये त्वया निहताः शूराः सह तैस्त्वं समेष्यसि
६.०६६.०१५ बहुनात्र किमुक्तेन शृणु राम वचो मम
६.०६६.०१५ पश्यन्तु सकला लोकास्त्वां मां चैव रणाजिरे
६.०६६.०१६ अस्त्रैर्वा गदया वापि बाहुभ्यां वा महाहवे
६.०६६.०१६ अभ्यस्तं येन वा राम तेन वा वर्ततां युधि
६.०६६.०१७ मकराक्षवचः श्रुत्वा रामो दशरथात्मजः
६.०६६.०१७ अब्रवीत्प्रहसन् वाक्यमुत्तरोत्तरवादिनम्
६.०६६.०१८ चतुर्दशसहस्राणि रक्षसां त्वत्पिता च यः
६.०६६.०१८ त्रिशिरा दूषणश्चापि दण्डके निहता मया
६.०६६.०१९ स्वाशितास्तव मांसेन गृध्रगोमायुवायसाः
६.०६६.०१९ भविष्यन्त्यद्य वै पाप तीक्ष्णतुण्डनखाङ्कुशाः
६.०६६.०२० एवमुक्तस्तु रामेण खरपुत्रो निशाचरः
६.०६६.०२० बाणौघानसृजत्तस्मै राघवाय रणाजिरे
६.०६६.०२१ ताञ्शराञ्शरवर्षेण रामश्चिच्छेद नैकधा
६.०६६.०२१ निपेतुर्भुवि ते छिन्ना रुक्मपुङ्खाः सहस्रशः
६.०६६.०२२ तद्युद्धमभवत्तत्र समेत्यान्योन्यमोजसा
६.०६६.०२२ खर राक्षसपुत्रस्य सूनोर्दशरथस्य च
६.०६६.०२३ जीमूतयोरिवाकाशे शब्दो ज्यातलयोस्तदा
६.०६६.०२३ धनुर्मुक्तः स्वनोत्कृष्टः श्रूयते च रणाजिरे
६.०६६.०२४ देवदानवगन्धर्वाः किंनराश्च महोरगाः
६.०६६.०२४ अन्तरिक्षगताः सर्वे द्रष्टुकामास्तदद्भुतम्
६.०६६.०२५ विद्धमन्योन्यगात्रेषु द्विगुणं वर्धते बलम्
६.०६६.०२५ कृतप्रतिकृतान्योन्यं कुर्वाते तौ रणाजिरे
६.०६६.०२६ राममुक्तास्तु बाणौघान् राक्षसस्त्वच्छिनद्रणे
६.०६६.०२६ रक्षोमुक्तांस्तु रामो वै नैकधा प्राच्छिनच्छरैः
६.०६६.०२७ बाणौघवितताः सर्वा दिशश्च विदिशस्तथा
६.०६६.०२७ संछन्ना वसुधा चैव समन्तान्न प्रकाशते
६.०६६.०२८ ततः क्रुद्धो महाबाहुर्धनुश्चिच्छेद रक्षसः
६.०६६.०२८ अष्टाभिरथ नाराचैः सूतं विव्याध राघवः
६.०६६.०२८ भित्त्वा शरै रथं रामो रथाश्वान् समपातयत्
६.०६६.०२९ विरथो वसुधां तिष्ठन्मकराक्षो निशाचरः
६.०६६.०२९ अतिष्ठद्वसुधां रक्षः शूलं जग्राह पाणिना
६.०६६.०२९ त्रासनं सर्वभूतानां युगान्ताग्निसमप्रभम्
६.०६६.०३० विभ्राम्य च महच्छूलं प्रज्वलन्तं निशाचरः
६.०६६.०३० स क्रोधात्प्राहिणोत्तस्मै राघवाय महाहवे
६.०६६.०३१ तमापतन्तं ज्वलितं खरपुत्रकराच्च्युतम्
६.०६६.०३१ बाणैस्तु त्रिभिराकाशे शूलं चिच्छेद राघवः
६.०६६.०३२ सच्छिन्नो नैकधा शूलो दिव्यहाटकमण्डितः
६.०६६.०३२ व्यशीर्यत महोक्लेव रामबाणार्दितो भुवि
६.०६६.०३३ तच्छूलं निहतं दृष्ट्वा रामेणाद्भुतकर्मणा
६.०६६.०३३ साधु साध्विति भूतानि व्याहरन्ति नभोगताः
६.०६६.०३४ तद्दृष्ट्वा निहतं शूलं मकराक्षो निशाचरः
६.०६६.०३४ मुष्टिमुद्यम्य काकुत्स्थं तिष्ठ तिष्ठेति चाब्रवीत्
६.०६६.०३५ स तं दृष्ट्वा पतन्तं वै प्रहस्य रघुनन्दनः
६.०६६.०३५ पावकास्त्रं ततो रामः संदधे स्वशरासने
६.०६६.०३६ तेनास्त्रेण हतं रक्षः काकुत्स्थेन तदा रणे
६.०६६.०३६ संछिन्नहृदयं तत्र पपात च ममार च
६.०६६.०३७ दृष्ट्वा ते राक्षसाः सर्वे मकराक्षस्य पातनम्
६.०६६.०३७ लङ्कामेव प्रधावन्त रामबालार्दितास्तदा
६.०६६.०३८ दशरथनृपपुत्रबाणवेगै॑ रजनिचरं निहतं खरात्मजं तम्
६.०६६.०३८ ददृशुरथ च देवताः प्रहृष्टा॑ गिरिमिव वज्रहतं यथा विशीर्णम्
६.०६७.००१ मकराक्षं हतं श्रुत्वा रावणः समितिंजयः
६.०६७.००१ आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम्
६.०६७.००२ जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ
६.०६७.००२ अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः
६.०६७.००३ त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे
६.०६७.००३ किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे
६.०६७.००४ तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः
६.०६७.००४ यज्ञभूमौ स विधिवत्पावकं जुहुवे न्द्रजित्
६.०६७.००५ जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः
६.०६७.००५ आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः
६.०६७.००६ शस्त्राणि शरपत्राणि समिधोऽथ विभीतकाः
६.०६७.००६ लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा
६.०६७.००७ सर्वतोऽग्निं समास्तीर्य शरपत्रैः समन्ततः
६.०६७.००७ छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः
६.०६७.००८ चरुहोमसमिद्धस्य विधूमस्य महार्चिषः
६.०६७.००८ बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च
६.०६७.००९ प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः
६.०६७.००९ हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः
६.०६७.०१० हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान्
६.०६७.०१० आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम्
६.०६७.०११ स वाजिभिश्चतुर्भिस्तु बाणैश्च निशितैर्युतः
६.०६७.०११ आरोपितमहाचापः शुशुभे स्यन्दनोत्तमे
६.०६७.०१२ जाज्वल्यमानो वपुषा तपनीयपरिच्छदः
६.०६७.०१२ शरैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः
६.०६७.०१३ जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः
६.०६७.०१३ बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः
६.०६७.०१४ तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः
६.०६७.०१४ स बभूव दुराधर्षो रावणिः सुमहाबलः
६.०६७.०१५ सोऽभिनिर्याय नगरादिन्द्रजित्समितिंजयः
६.०६७.०१५ हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत्
६.०६७.०१६ अद्य हत्वाहवे यौ तौ मिथ्या प्रव्रजितौ वने
६.०६७.०१६ जयं पित्रे प्रदास्यामि रावणाय रणाधिकम्
६.०६७.०१७ कृत्वा निर्वानरामुर्वीं हत्वा रामं सलक्ष्मणम्
६.०६७.०१७ करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत
६.०६७.०१८ आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः
६.०६७.०१८ तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे
६.०६७.०१९ स ददर्श महावीर्यौ नागौ त्रिशिरसाविव
६.०६७.०१९ सृजन्ताविषुजालानि वीरौ वानरमध्यगौ
६.०६७.०२० इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम्
६.०६७.०२० संततानेषुधाराभिः पर्जन्य इव वृष्टिमान्
६.०६७.०२१ स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ
६.०६७.०२१ अचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः
६.०६७.०२२ तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ
६.०६७.०२२ धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः
६.०६७.०२३ प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ
६.०६७.०२३ तमस्त्रैः सुरसंकाशौ नैव पस्पर्शतुः शरैः
६.०६७.०२४ स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः
६.०६७.०२४ दिशश्चान्तर्दधे श्रीमान्नीहारतमसावृतः
६.०६७.०२५ नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः
६.०६७.०२५ शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते
६.०६७.०२६ घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम्
६.०६७.०२६ स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः
६.०६७.०२७ स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम्
६.०६७.०२७ विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः
६.०६७.०२८ तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ
६.०६७.०२८ हेमपुङ्खान्नरव्याघ्रौ तिग्मान्मुमुचतुः शरान्
६.०६७.०२९ अन्तरिक्षं समासाद्य रावणिं कङ्कपत्रिणः
६.०६७.०२९ निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः
६.०६७.०३० अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ
६.०६७.०३० तानिषून् पततो भल्लैरनेकैर्निचकर्ततुः
६.०६७.०३१ यतो हि ददृशाते तौ शरान्निपतिताञ्शितान्
६.०६७.०३१ ततस्ततो दाशरथी ससृजातेऽस्त्रमुत्तमम्
६.०६७.०३२ रावणिस्तु दिशः सर्वा रथेनातिरथः पतन्
६.०६७.०३२ विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः
६.०६७.०३३ तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः
६.०६७.०३३ बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ
६.०६७.०३४ नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान्
६.०६७.०३४ न चान्यद्विदितं किं चित्सूर्यस्येवाभ्रसंप्लवे
६.०६७.०३५ तेन विद्धाश्च हरयो निहताश्च गतासवः
६.०६७.०३५ बभूवुः शतशस्तत्र पतिता धरणीतले
६.०६७.०३६ लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत्
६.०६७.०३६ ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम्
६.०६७.०३७ तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम्
६.०६७.०३७ नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि
६.०६७.०३८ अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्
६.०६७.०३८ पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि
६.०६७.०३९ अस्यैव तु वधे यत्नं करिष्यावो महाबल
६.०६७.०३९ आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान्
६.०६७.०४० तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्
६.०६७.०४० राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः
६.०६७.०४१ यद्येष भूमिं विशते दिवं वा॑ रसातलं वापि नभस्तलं वा
६.०६७.०४१ एवं निगूढोऽपि ममास्त्रदग्धः॑ पतिष्यते भूमितले गतासुः
६.०६७.०४२ इत्येवमुक्त्वा वचनं महात्मा॑ रघुप्रवीरः प्लवगर्षभैर्वृतः
६.०६७.०४२ वधाय रौद्रस्य नृशंसकर्मणस्॑ तदा महात्मा त्वरितं निरीक्षते
६.०६८.००१ विज्ञाय तु मनस्तस्य राघवस्य महात्मनः
६.०६८.००१ संनिवृत्याहवात्तस्मात्प्रविवेश पुरं ततः
६.०६८.००२ सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम्
६.०६८.००२ क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः
६.०६८.००३ स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः
६.०६८.००३ इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः
६.०६८.००४ इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
६.०६८.००४ रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा
६.०६८.००५ इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं तदा
६.०६८.००५ बलेन महतावृत्य तस्या वधमरोचयत्
६.०६८.००६ मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः
६.०६८.००६ हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ
६.०६८.००७ तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः
६.०६८.००७ उत्पेतुरभिसंक्रुद्धाः शिलाहस्ता युयुत्सवः
६.०६८.००८ हनूमान् पुरतस्तेषां जगाम कपिकुञ्जरः
६.०६८.००८ प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम्
६.०६८.००९ स ददर्श हतानन्दां सीतामिन्द्रजितो रथे
६.०६८.००९ एकवेणीधरां दीनामुपवासकृशाननाम्
६.०६८.०१० परिक्लिष्टैकवसनाममृजां राघवप्रियाम्
६.०६८.०१० रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम्
६.०६८.०११ तां निरीक्ष्य मुहूर्तं तु मैथिलीमध्यवस्य च
६.०६८.०११ बाष्पपर्याकुलमुखो हनूमान् व्यथितोऽभवत्
६.०६८.०१२ अब्रवीत्तां तु शोकार्तां निरानन्दां तपस्विनाम्
६.०६८.०१२ दृष्ट्वा रथे स्तितां सीतां राक्षसेन्द्रसुताश्रिताम्
६.०६८.०१३ किं समर्थितमस्येति चिन्तयन् स महाकपिः
६.०६८.०१३ सह तैर्वानरश्रेष्ठैरभ्यधावत रावणिम्
६.०६८.०१४ तद्वानरबलं दृष्ट्वा रावणिः क्रोधमूर्छितः
६.०६८.०१४ कृत्वा विशोकं निस्त्रिंशं मूर्ध्नि सीतां परामृशत्
६.०६८.०१५ तं स्त्रियं पश्यतां तेषां ताडयामास रावणिः
६.०६८.०१५ क्रोशन्तीं राम रामेति मायया योजितां रथे
६.०६८.०१६ गृहीतमूर्धजां दृष्ट्वा हनूमान् दैन्यमागतः
६.०६८.०१६ दुःखजं वारिनेत्राभ्यामुत्सृजन्मारुतात्मजः
६.०६८.०१६ अब्रवीत्परुषं वाक्यं क्रोधाद्रक्षोऽधिपात्मजम्
६.०६८.०१७ दुरात्मन्नात्मनाशाय केशपक्षे परामृशः
६.०६८.०१७ ब्रह्मर्षीणां कुले जातो राक्षसीं योनिमाश्रितः
६.०६८.०१७ धिक्त्वां पापसमाचारं यस्य ते मतिरीदृशी
६.०६८.०१८ नृशंसानार्य दुर्वृत्त क्षुद्र पापपराक्रम
६.०६८.०१८ अनार्यस्येदृशं कर्म घृणा ते नास्ति निर्घृण
६.०६८.०१९ च्युता गृहाच्च राज्याच्च रामहस्ताच्च मैथिली
६.०६८.०१९ किं तवैषापराद्धा हि यदेनां हन्तुमिच्छसि
६.०६८.०२० सीतां च हत्वा न चिरं जीविष्यसि कथं चन
६.०६८.०२० वधार्हकर्मणानेन मम हस्तगतो ह्यसि
६.०६८.०२१ ये च स्त्रीघातिनां लोका लोकवध्यैश्च कुत्सिताः
६.०६८.०२१ इह जीवितमुत्सृज्य प्रेत्य तान् प्रतिलप्स्यसे
६.०६८.०२२ इति ब्रुवाणो हनुमान् सायुधैर्हरिभिर्वृतः
६.०६८.०२२ अभ्यधावत संक्रुद्धो राक्षसेन्द्रसुतं प्रति
६.०६८.०२३ आपतन्तं महावीर्यं तदनीकं वनौकसाम्
६.०६८.०२३ रक्षसां भीमवेगानामनीकेन न्यवारयत्
६.०६८.०२४ स तां बाणसहस्रेण विक्षोभ्य हरिवाहिनीम्
६.०६८.०२४ हरिश्रेष्ठं हनूमन्तमिन्द्रजित्प्रत्युवाच ह
६.०६८.०२५ सुग्रीवस्त्वं च रामश्च यन्निमित्तमिहागताः
६.०६८.०२५ तां हनिष्यामि वैदेहीमद्यैव तव पश्यतः
६.०६८.०२६ इमां हत्वा ततो रामं लक्ष्मणं त्वां च वानर
६.०६८.०२६ सुग्रीवं च वधिष्यामि तं चानार्यं विभीषणम्
६.०६८.०२७ न हन्तव्याः स्त्रियश्चेति यद्ब्रवीषि प्लवंगम
६.०६८.०२७ पीडा करममित्राणां यत्स्यात्कर्तव्यमेत तत्
६.०६८.०२८ तमेवमुक्त्वा रुदतीं सीतां मायामयीं ततः
६.०६८.०२८ शितधारेण खड्गेन निजघानेन्द्रजित्स्वयम्
६.०६८.०२९ यज्ञोपवीतमार्गेण छिन्ना तेन तपस्विनी
६.०६८.०२९ सा पृथिव्यां पृथुश्रोणी पपात प्रियदर्शना
६.०६८.०३० तामिन्द्रजित्स्त्रियं हत्वा हनूमन्तमुवाच ह
६.०६८.०३० मया रामस्य पश्येमां कोपेन च निषूदिताम्
६.०६८.०३१ ततः खड्गेन महता हत्वा तामिन्द्रजित्स्वयम्
६.०६८.०३१ हृष्टः स रथमास्थाय विननाद महास्वनम्
६.०६८.०३२ वानराः शुश्रुवुः शब्दमदूरे प्रत्यवस्थिताः
६.०६८.०३२ व्यादितास्यस्य नदतस्तद्दुर्गं संश्रितस्य तु
६.०६८.०३३ तथा तु सीतां विनिहत्य दुर्मतिः॑ प्रहृष्टचेताः स बभूव रावणिः
६.०६८.०३३ तं हृष्टरूपं समुदीक्ष्य वानरा॑ विषण्णरूपाः समभिप्रदुद्रुवुः
६.०६९.००१ श्रुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम्
६.०६९.००१ वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः
६.०६९.००२ तानुवाच ततः सर्वान् हनूमान्मारुतात्मजः
६.०६९.००२ विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक्
६.०६९.००३ कस्माद्विषण्णवदना विद्रवध्वं प्लवंगमाः
६.०६९.००३ त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम्
६.०६९.००४ पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे
६.०६९.००४ शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम्
६.०६९.००५ एवमुक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता
६.०६९.००५ शैलशृङ्गान् द्रुमांश्चैव जगृहुर्हृष्टमानसाः
६.०६९.००६ अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः
६.०६९.००६ परिवार्य हनूमन्तमन्वयुश्च महाहवे
६.०६९.००७ स तैर्वानरमुख्यैस्तु हनूमान् सर्वतो वृतः
६.०६९.००७ हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम्
६.०६९.००८ स राक्षसानां कदनं चकार सुमहाकपिः
६.०६९.००८ वृतो वानरसैन्येन कालान्तकयमोपमः
६.०६९.००९ स तु शोकेन चाविष्टः क्रोधेन च महाकपिः
६.०६९.००९ हनूमान् रावणि रथे महतीं पातयच्छिलाम्
६.०६९.०१० तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा
६.०६९.०१० विधेयाश्व समायुक्तः सुदूरमपवाहितः
६.०६९.०११ तमिन्द्रजितमप्राप्य रथथं सहसारथिम्
६.०६९.०११ विवेश धरणीं भित्त्वा सा शिलाव्यर्थमुद्यता
६.०६९.०१२ पतितायां शिलायां तु रक्षसां व्यथिता चमूः
६.०६९.०१२ तमभ्यधावञ्शतशो नदन्तः काननौकसः
६.०६९.०१३ ते द्रुमांश्च महाकाया गिरिशृङ्गाणि चोद्यताः
६.०६९.०१३ चिक्षिपुर्द्विषतां मध्ये वानरा भीमविक्रमाः
६.०६९.०१४ वानरैर्तैर्महावीर्यैर्घोररूपा निशाचराः
६.०६९.०१४ वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणक्षितौ
६.०६९.०१५ स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित्
६.०६९.०१५ प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ
६.०६९.०१६ स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः
६.०६९.०१६ जघान कपिशार्दूलान् सुबहून् दृष्टविक्रमः
६.०६९.०१७ शूलैरशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः
६.०६९.०१७ ते चाप्यनुचरांस्तस्य वानरा जघ्नुराहवे
६.०६९.०१८ सस्कन्धविटपैः सालैः शिलाभिश्च महाबलैः
६.०६९.०१८ हनूमान् कदनं चक्रे रक्षसां भीमकर्मणाम्
६.०६९.०१९ स निवार्य परानीकमब्रवीत्तान् वनौकसः
६.०६९.०१९ हनूमान् संनिवर्तध्वं न नः साध्यमिदं बलम्
६.०६९.०२० त्यक्त्वा प्राणान् विचेष्टन्तो राम प्रियचिकीर्षवः
६.०६९.०२० यन्निमित्तं हि युध्यामो हता सा जनकात्मजा
६.०६९.०२१ इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च
६.०६९.०२१ तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम्
६.०६९.०२२ इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान्
६.०६९.०२२ शनैः शनैरसंत्रस्तः सबलः स न्यवर्तत
६.०६९.०२३ स तु प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः
६.०६९.०२३ निकुम्भिलामधिष्ठाय पावकं जुहुवे न्द्रजित्
६.०६९.०२४ यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा
६.०६९.०२४ हूयमानः प्रजज्वाल होमशोणितभुक्तदा
६.०६९.०२५ सोऽर्चिः पिनद्धो ददृशे होमशोणिततर्पितः
६.०६९.०२५ संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः
६.०६९.०२६ अथेन्द्रजिद्राक्षसभूतये तु॑ जुहाव हव्यं विधिना विधानवत्
६.०६९.०२६ दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते॑ महासमूहेषु नयानयज्ञाः
६.०७०.००१ राघवश्चापि विपुलं तं राक्षसवनौकसाम्
६.०७०.००१ श्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह
६.०७०.००२ सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम्
६.०७०.००२ श्रूयते हि यथा भीमः सुमहानायुधस्वनः
६.०७०.००३ तद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः
६.०७०.००३ क्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः
६.०७०.००४ ऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः
६.०७०.००४ आगच्छत्पश्चिमद्वारं हनूमान् यत्र वानरः
६.०७०.००५ अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि
६.०७०.००५ वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम्
६.०७०.००६ दृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम्
६.०७०.००६ नीलमेघनिभं भीमं संनिवार्य न्यवर्तत
६.०७०.००७ स तेन हरिसैन्येन संनिकर्षं महायशाः
६.०७०.००७ शीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत्
६.०७०.००८ समरे युध्यमानानामस्माकं प्रेक्षतां च सः
६.०७०.००८ जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः
६.०७०.००९ उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम
६.०७०.००९ तदहं भवतो वृत्तं विज्ञापयितुमागतः
६.०७०.०१० तस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः
६.०७०.०१० निपपात तदा भूमौ छिन्नमूल इव द्रुमः
६.०७०.०११ तं भूमौ देवसंकाशं पतितं दृश्य राघवम्
६.०७०.०११ अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः
६.०७०.०१२ असिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः
६.०७०.०१२ प्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम्
६.०७०.०१३ तं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः
६.०७०.०१३ उवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम्
६.०७०.०१४ शुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम्
६.०७०.०१४ अनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः
६.०७०.०१५ भूतानां स्थावराणां च जङ्गमानां च दर्शनम्
६.०७०.०१५ यथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः
६.०७०.०१६ यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्
६.०७०.०१६ नायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते
६.०७०.०१७ यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्
६.०७०.०१७ भवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात्
६.०७०.०१८ तस्य च व्यसनाभावाद्व्यसनं च गते त्वयि
६.०७०.०१८ धर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः
६.०७०.०१९ यदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः
६.०७०.०१९ धर्मेण चरतां धर्मस्तथा चैषां फलं भवेत्
६.०७०.०२० यस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः
६.०७०.०२० क्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ
६.०७०.०२१ वध्यन्ते पापकर्माणो यद्यधर्मेण राघव
६.०७०.०२१ वधकर्महतो धर्मः स हतः कं वधिष्यति
६.०७०.०२२ अथ वा विहितेनायं हन्यते हन्ति वा परम्
६.०७०.०२२ विधिरालिप्यते तेन न स पापेन कर्मणा
६.०७०.०२३ अदृष्टप्रतिकारेण अव्यक्तेनासता सता
६.०७०.०२३ कथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन
६.०७०.०२४ यदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किं चन
६.०७०.०२४ त्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते
६.०७०.०२५ अथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते
६.०७०.०२५ दुर्बलो हृतमर्यादो न सेव्य इति मे मतिः
६.०७०.०२६ बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे
६.०७०.०२६ धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले
६.०७०.०२७ अथ चेत्सत्यवचनं धर्मः किल परंतप
६.०७०.०२७ अनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता
६.०७०.०२८ यदि धर्मो भवेद्भूत अधर्मो वा परंतप
६.०७०.०२८ न स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः
६.०७०.०२९ अधर्मसंश्रितो धर्मो विनाशयति राघव
६.०७०.०२९ सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः
६.०७०.०३० मम चेदं मतं तात धर्मोऽयमिति राघव
६.०७०.०३० धर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा
६.०७०.०३१ अर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततः
६.०७०.०३१ क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः
६.०७०.०३२ अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः
६.०७०.०३२ व्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा
६.०७०.०३३ सोऽयमर्थं परित्यज्य सुखकामः सुखैधितः
६.०७०.०३३ पापमारभते कर्तुं तथा दोषः प्रवर्तते
६.०७०.०३४ यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः
६.०७०.०३४ यस्यार्थाः स पुमांल्लोके यस्यार्थाः स च पण्डितः
६.०७०.०३५ यस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्
६.०७०.०३५ यस्यार्थाः स महाभागो यस्यार्थाः स महागुणः
६.०७०.०३६ अर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया
६.०७०.०३६ राज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता
६.०७०.०३७ यस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्
६.०७०.०३७ अधनेनार्थकामेन नार्थः शक्यो विचिन्वता
६.०७०.०३८ हर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः
६.०७०.०३८ अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप
६.०७०.०३९ येषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्
६.०७०.०३९ तेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः
६.०७०.०४० त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते
६.०७०.०४० रक्षसापहृता भार्या प्राणैः प्रियतरा तव
६.०७०.०४१ तदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्
६.०७०.०४१ कर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव
६.०७०.०४२ अयमनघ तवोदितः प्रियार्थं॑ जनकसुता निधनं निरीक्ष्य रुष्टः
६.०७०.०४२ सहयगजरथां सराक्षसेन्द्रां॑ भृशमिषुभिर्विनिपातयामि लङ्काम्
६.०७१.००१ राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले
६.०७१.००१ निक्षिप्य गुल्मान् स्वस्थाने तत्रागच्छद्विभीषणः
६.०७१.००२ नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः
६.०७१.००२ नीलाञ्जनचयाकारैर्मातंगैरिव यूथपः
६.०७१.००३ सोऽभिगम्य महात्मानं राघवं शोकलालसं
६.०७१.००३ वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान्
६.०७१.००४ राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम्
६.०७१.००४ ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम्
६.०७१.००५ व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः
६.०७१.००५ अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत्
६.०७१.००६ विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान्
६.०७१.००६ उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः
६.०७१.००७ हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः
६.०७१.००७ हनूमद्वचनात्सौम्य ततो मोहमुपागतः
६.०७१.००८ कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः
६.०७१.००८ पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत्
६.०७१.००९ मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता
६.०७१.००९ तदयुक्तमहं मन्ये सागरस्येव शोषणम्
६.०७१.०१० अभिप्रायं तु जानामि रावणस्य दुरात्मनः
६.०७१.०१० सीतां प्रति महाबाहो न च घातं करिष्यति
६.०७१.०११ याच्यमानः सुबहुशो मया हितचिकीर्षुणा
६.०७१.०११ वैदेहीमुत्सृजस्वेति न च तत्कृतवान् वचः
६.०७१.०१२ नैव साम्ना न भेदेन न दानेन कुतो युधा
६.०७१.०१२ सा द्रष्टुमपि शक्येत नैव चान्येन केन चित्
६.०७१.०१३ वानरान्मोहयित्वा तु प्रतियातः स राक्षसः
६.०७१.०१३ चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति
६.०७१.०१४ हुतवानुपयातो हि देवैरपि सवासवैः
६.०७१.०१४ दुराधर्षो भवत्येष संग्रामे रावणात्मजः
६.०७१.०१५ तेन मोहयता नूनमेषा माया प्रयोजिता
६.०७१.०१५ विघ्नमन्विच्छता तात वानराणां पराक्रमे
६.०७१.०१५ ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते
६.०७१.०१६ त्यजेमं नरशार्दूलमिथ्या संतापमागतम्
६.०७१.०१६ सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम्
६.०७१.०१७ इह त्वं स्वस्थ हृदयस्तिष्ठ सत्त्वसमुच्छ्रितः
६.०७१.०१७ लक्ष्मणं प्रेषयास्माभिः सह सैन्यानुकर्षिभिः
६.०७१.०१८ एष तं नरशार्दूलो रावणिं निशितैः शरैः
६.०७१.०१८ त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति
६.०७१.०१९ तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः
६.०७१.०१९ पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम्
६.०७१.०२० तत्संदिश महाबाहो लक्ष्मणं शुभलक्षणम्
६.०७१.०२० राक्षसस्य विनाशाय वज्रं वज्रधरो यथा
६.०७१.०२१ मनुजवर न कालविप्रकर्षो॑ रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम्
६.०७१.०२१ त्वमतिसृज रिपोर्वधाय बाणीम्॑ असुरपुरोन्मथने यथा महेन्द्रः
६.०७१.०२२ समाप्तकर्मा हि स राक्षसेन्द्रो॑ भवत्यदृश्यः समरे सुरासुरैः
६.०७१.०२२ युयुत्सता तेन समाप्तकर्मणा॑ भवेत्सुराणामपि संशयो महान्
६.०७२.००१ तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः
६.०७२.००१ नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा
६.०७२.००२ ततो धैर्यमवष्टभ्य रामः परपुरंजयः
६.०७२.००२ विभीषणमुपासीनमुवाच कपिसंनिधौ
६.०७२.००३ नैरृताधिपते वाक्यं यदुक्तं ते विभीषण
६.०७२.००३ भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम्
६.०७२.००४ राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः
६.०७२.००४ यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः
६.०७२.००५ यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम्
६.०७२.००५ तत्तथानुष्ठितं वीर त्वद्वाक्यसमनन्तरम्
६.०७२.००६ तान्यनीकानि सर्वाणि विभक्तानि समन्ततः
६.०७२.००६ विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः
६.०७२.००७ भूयस्तु मम विजाप्यं तच्छृणुष्व महायशः
६.०७२.००७ त्वय्यकारणसंतप्ते संतप्तहृदया वयम्
६.०७२.००८ त्यज राजन्निमं शोकं मिथ्या संतापमागतम्
६.०७२.००८ तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी
६.०७२.००९ उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम्
६.०७२.००९ प्राप्तव्या यदि ते सीता हन्तव्यश्व्च निशाचराः
६.०७२.०१० रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः
६.०७२.०१० साध्वयं यातु सौमित्रिर्बलेन महता वृतः
६.०७२.०१० निकुम्भिलायां संप्राप्य हन्तुं रावणिमाहवे
६.०७२.०११ धनुर्मण्डलनिर्मुक्तैराशीविषविषोपमैः
६.०७२.०११ शरैर्हन्तुं महेष्वासो रावणिं समितिंजयः
६.०७२.०१२ तेन वीरेण तपसा वरदानात्स्वयम्भुतः
६.०७२.०१२ अस्त्रं ब्रह्मशिरः प्राप्तं कामगाश्च तुरंगमाः
६.०७२.०१३ निकुम्भिलामसंप्राप्तमहुताग्निं च यो रिपुः
६.०७२.०१३ त्वामाततायिनं हन्यादिन्द्रशत्रो स ते वधः
६.०७२.०१३ इत्येवं विहितो राजन् वधस्तस्यैव धीमतः
६.०७२.०१४ वधायेन्द्रजितो राम तं दिशस्व महाबलम्
६.०७२.०१४ हते तस्मिन् हतं विद्धि रावणं ससुहृज्जनम्
६.०७२.०१५ विभीषणवचः श्रुत्व रामो वाक्यमथाब्रवीत्
६.०७२.०१५ जानामि तस्य रौद्रस्य मायां सत्यपराक्रम
६.०७२.०१६ स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः
६.०७२.०१६ करोत्यसंज्ञान् संग्रामे देवान् सवरुणानपि
६.०७२.०१७ तस्यान्तरिक्षे चरतो रथस्थस्य महायशः
६.०७२.०१७ न गतिर्ज्ञायते वीरसूर्यस्येवाभ्रसंप्लवे
६.०७२.०१८ राघवस्तु रिपोर्ज्ञात्वा मायावीर्यं दुरात्मनः
६.०७२.०१८ लक्ष्मणं कीर्तिसंपन्नमिदं वचनमब्रवीत्
६.०७२.०१९ यद्वानरेन्द्रस्य बलं तेन सर्वेण संवृतः
६.०७२.०१९ हनूमत्प्रमुखैश्चैव यूथपैः सहलक्ष्मण
६.०७२.०२० जाम्बवेनर्क्षपतिना सह सैन्येन संवृतः
६.०७२.०२० जहि तं राक्षससुतं मायाबलविशारदम्
६.०७२.०२१ अयं त्वां सचिवैः सार्धं महात्मा रजनीचरः
६.०७२.०२१ अभिज्ञस्तस्य देशस्य पृष्ठतोऽनुगमिष्यति
६.०७२.०२२ राघवस्य वचः श्रुत्वा लक्ष्मणः सविभीषणः
६.०७२.०२२ जग्राह कार्मुकं श्रेष्ठमन्यद्भीमपराक्रमः
६.०७२.०२३ संनद्धः कवची खड्गी स शरी हेमचापधृक्
६.०७२.०२३ रामपादावुपस्पृश्य हृष्टः सौमित्रिरब्रवीत्
६.०७२.०२४ अद्य मत्कार्मुकोन्मुखाः शरा निर्भिद्य रावणिम्
६.०७२.०२४ लङ्कामभिपतिष्यन्ति हंसाः पुष्करिणीमिव
६.०७२.०२५ अद्यैव तस्य रौद्रस्य शरीरं मामकाः शराः
६.०७२.०२५ विधमिष्यन्ति हत्वा तं महाचापगुणच्युताः
६.०७२.०२६ स एवमुक्त्वा द्युतिमान् वचनं भ्रातुरग्रतः
६.०७२.०२६ स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ
६.०७२.०२७ सोऽभिवाद्य गुरोः पादौ कृत्वा चापि प्रदक्षिणम्
६.०७२.०२७ निकुम्भिलामभिययौ चैत्यं रावणिपालितम्
६.०७२.०२८ विभीषणेन सहितो राजपुत्रः प्रतापवान्
६.०७२.०२८ कृतस्वस्त्ययनो भ्रात्रा लक्ष्मणस्त्वरितो ययौ
६.०७२.०२९ वानराणां सहस्रैस्तु हनूमान् बहुभिर्वृतः
६.०७२.०२९ विभीषणः सहामात्यस्तदा लक्ष्मणमन्वगात्
६.०७२.०३० महता हरिसैन्येन सवेगमभिसंवृतः
६.०७२.०३० ऋक्षराजबलं चैव ददर्श पथि विष्ठितम्
६.०७२.०३१ स गत्वा दूरमध्वानं सौमित्रिर्मित्रनन्दनः
६.०७२.०३१ राक्षसेन्द्रबलं दूरादपश्यद्व्यूहमास्थितम्
६.०७२.०३२ स संप्राप्य धनुष्पाणिर्मायायोगमरिंदम
६.०७२.०३२ तस्थौ ब्रह्मविधानेन विजेतुं रघुनन्दनः
६.०७२.०३३ विविधममलशस्त्रभास्वरं तद्॑ ध्वजगहनं विपुलं महारथैश्च
६.०७२.०३३ प्रतिभयतममप्रमेयवेगं॑ तिमिरमिव द्विषतां बलं विवेश
६.०७३.००१ अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः
६.०७३.००१ परेषामहितं वाक्यमर्थसाधकमब्रवीत्
६.०७३.००२ अस्यानीकस्य महतो भेदने यतलक्ष्मण
६.०७३.००२ राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति
६.०७३.००३ स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्
६.०७३.००३ अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते
६.०७३.००४ जहि वीरदुरात्मानं मायापरमधार्मिकम्
६.०७३.००४ रावणिं क्रूरकर्माणं सर्वलोकभयावहम्
६.०७३.००५ विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः
६.०७३.००५ ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति
६.०७३.००६ ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः
६.०७३.००६ अभ्यधावन्त सहितास्तदनीकमवस्थितम्
६.०७३.००७ राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः
६.०७३.००७ उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः
६.०७३.००८ स संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम्
६.०७३.००८ शब्देन महता लङ्कां नादयन् वै समन्ततः
६.०७३.००९ शस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः
६.०७३.००९ उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम्
६.०७३.०१० ते राक्षसा वानरेषु विकृताननबाहवः
६.०७३.०१० निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम्
६.०७३.०११ तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः
६.०७३.०११ अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान्
६.०७३.०१२ ऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः
६.०७३.०१२ रक्षसां वध्यमानानां महद्भयमजायत
६.०७३.०१३ स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम्
६.०७३.०१३ उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते
६.०७३.०१४ वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः
६.०७३.०१४ आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः
६.०७३.०१५ स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः
६.०७३.०१५ रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः
६.०७३.०१६ दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्
६.०७३.०१६ रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम्
६.०७३.०१७ तस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम्
६.०७३.०१७ धरणीधरसंकाशी महावृक्षमरिंदमः
६.०७३.०१८ स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्
६.०७३.०१८ चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः
६.०७३.०१९ विध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्
६.०७३.०१९ राक्षसानां सहस्राणि हनूमन्तमवाकिरन्
६.०७३.०२० शितशूलधराः शूलैरसिभिश्चासिपाणयः
६.०७३.०२० शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः
६.०७३.०२१ परिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः
६.०७३.०२१ शतशश्च शतघ्नीभिरायसैरपि मुद्गरैः
६.०७३.०२२ घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः
६.०७३.०२२ मुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः
६.०७३.०२३ अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम्
६.०७३.०२३ तेषामपि च संक्रुद्धश्चकार कदनं महत्
६.०७३.०२४ स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्
६.०७३.०२४ सूदयानममित्रघ्नममित्रान् पवनात्मजम्
६.०७३.०२५ स सारथिमुवाचेदं याहि यत्रैष वानरः
६.०७३.०२५ क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः
६.०७३.०२६ इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः
६.०७३.०२६ वहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे
६.०७३.०२७ सोऽभ्युपेत्य शरान् खड्गान् पट्टसासिपरश्वधान्
६.०७३.०२७ अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः
६.०७३.०२८ तानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः
६.०७३.०२८ रोषेण महताविषो वाक्यं चेदमुवाच ह
६.०७३.०२९ युध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते
६.०७३.०२९ वायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि
६.०७३.०३० बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे
६.०७३.०३० वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः
६.०७३.०३१ हनूमन्तं जिघांसन्तं समुद्यतशरासनम्
६.०७३.०३१ रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः
६.०७३.०३२ यस्तु वासवनिर्जेता रावणस्यात्मसंभवः
६.०७३.०३२ स एष रथमास्थाय हनूमन्तं जिघांसति
६.०७३.०३३ तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः
६.०७३.०३३ जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि
६.०७३.०३४ इत्येवमुक्तस्तु तदा महात्मा॑ विभीषणेनारिविभीषणेन
६.०७३.०३४ ददर्श तं पर्वतसंनिकाशं॑ रथस्थितं भीमबलं दुरासदम्
६.०७४.००१ एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः
६.०७४.००१ धनुष्पाणिनमादाय त्वरमाणो जगाम सः
६.०७४.००२ अविदूरं ततो गत्वा प्रविश्य च महद्वनम्
६.०७४.००२ दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः
६.०७४.००३ नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम्
६.०७४.००३ तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत्
६.०७४.००४ इहोपहारं भूतानां बलवान् रावणातजः
६.०७४.००४ उपहृत्य ततः पश्चात्संग्राममभिवर्तते
६.०७४.००५ अदृश्यः सर्वभूतानां ततो भवति राक्षसः
६.०७४.००५ निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः
६.०७४.००६ तमप्रविष्टं न्यग्रोधं बलिनं रावणात्मजम्
६.०७४.००६ विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम्
६.०७४.००७ तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः
६.०७४.००७ बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः
६.०७४.००८ स रथेनाग्निवर्णेन बलवान् रावणात्मजः
६.०७४.००८ इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यत
६.०७४.००९ तमुवाच महातेजाः पौलस्त्यमपराजितम्
६.०७४.००९ समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे
६.०७४.०१० एवमुक्तो महातेजा मनस्वी रावणात्मजः
६.०७४.०१० अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम्
६.०७४.०११ इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम
६.०७४.०११ कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस
६.०७४.०१२ न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते
६.०७४.०१२ प्रमाणं न च सोदर्यं न धर्मो धर्मदूषण
६.०७४.०१३ शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः
६.०७४.०१३ यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः
६.०७४.०१४ नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम्
६.०७४.०१४ क्व च स्वजनसंवासः क्व च नीचपराश्रयः
६.०७४.०१५ गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा
६.०७४.०१५ निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः
६.०७४.०१६ निरनुक्रोशता चेयं यादृशी ते निशाचर
६.०७४.०१६ स्वजनेन त्वया शक्यं परुषं रावणानुज
६.०७४.०१७ इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः
६.०७४.०१७ अजानन्निव मच्छीलं किं राक्षस विकत्थसे
६.०७४.०१८ राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात्
६.०७४.०१८ कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम्
६.०७४.०१८ गुणोऽयं प्रथमो नॄणां तन्मे शीलमराक्षसं
६.०७४.०१९ न रमे दारुणेनाहं न चाधर्मेण वै रमे
६.०७४.०१९ भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते
६.०७४.०२० परस्वानां च हरणं परदाराभिमर्शनम्
६.०७४.०२० सुहृदामतिशङ्कां च त्रयो दोषाः क्षयावहाः
६.०७४.०२१ महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः
६.०७४.०२१ अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता
६.०७४.०२२ एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः
६.०७४.०२२ गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः
६.०७४.०२३ दोषैरेतैः परित्यक्तो मया भ्राता पिता तव
६.०७४.०२३ नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता
६.०७४.०२४ अतिमानी च बालश्च दुर्विनीतश्च राक्षस
६.०७४.०२४ बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि
६.०७४.०२५ अद्य ते व्यसनं प्राप्तं किमिह त्वं तु वक्ष्यसि
६.०७४.०२५ प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम
६.०७४.०२६ धर्षयित्वा तु काकुत्स्थौ न शक्यं जीवितुं त्वया
६.०७४.०२६ युध्यस्व नरदेवेन लक्ष्मणेन रणे सह
६.०७४.०२६ हतस्त्वं देवता कार्यं करिष्यसि यमक्षये
६.०७४.०२७ निदर्शयस्वात्मबलं समुद्यतं॑ कुरुष्व सर्वायुधसायकव्ययम्
६.०७४.०२७ न लक्ष्मणस्यैत्य हि बाणगोचरं॑ त्वमद्य जीवन् सबलो गमिष्यसि
६.०७५.००१ विभीषण वचः श्रुत्वा रावणिः क्रोधमूर्छितः
६.०७५.००१ अब्रवीत्परुषं वाक्यं वेगेनाभ्युत्पपात ह
६.०७५.००२ उद्यतायुधनिस्त्रिंशो रथे तु समलंकृते
६.०७५.००२ कालाश्वयुक्ते महति स्थितः कालान्तकोपमः
६.०७५.००३ महाप्रमाणमुद्यम्य विपुलं वेगवद्दृढम्
६.०७५.००३ धनुर्भीमं परामृश्य शरांश्चामित्रनाशनान्
६.०७५.००४ उवाचैनं समारब्धः सौमित्रिं सविभीषणम्
६.०७५.००४ तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्
६.०७५.००५ अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्
६.०७५.००५ मुक्तं वर्षमिवाकाशे वारयिष्यथ संयुगे
६.०७५.००६ अद्य वो मामका बाणा महाकार्मुकनिःसृताः
६.०७५.००६ विधमिष्यन्ति गात्राणि तूलराशिमिवानलः
६.०७५.००७ तीक्ष्णसायकनिर्भिन्नाञ्शूलशक्त्यृष्टितोमरैः
६.०७५.००७ अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्
६.०७५.००८ क्षिपतः शरवर्षाणि क्षिप्रहस्तस्य मे युधि
६.०७५.००८ जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः
६.०७५.००९ तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं लक्ष्मणस्तदा
६.०७५.००९ अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्
६.०७५.०१० उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया
६.०७५.०१० कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्
६.०७५.०११ स त्वमर्थस्य हीनार्थो दुरवापस्य केन चित्
६.०७५.०११ वचो व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते
६.०७५.०१२ अन्तर्धानगतेनाजौ यस्त्वयाचरितस्तदा
६.०७५.०१२ तस्कराचरितो मार्गो नैष वीरनिषेवितः
६.०७५.०१३ यथा बाणपथं प्राप्य स्थितोऽहं तव राक्षस
६.०७५.०१३ दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे
६.०७५.०१४ एवमुक्तो धनुर्भीमं परामृश्य महाबलः
६.०७५.०१४ ससर्जे निशितान् बाणानिन्द्रजित्समिजिंजय
६.०७५.०१५ ते निसृष्टा महावेगाः शराः सर्पविषोपमाः
६.०७५.०१५ संप्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः
६.०७५.०१६ शरैरतिमहावेगैर्वेगवान् रावणात्मजः
६.०७५.०१६ सौमित्रिमिन्द्रजिद्युद्धे विव्याध शुभलक्षणम्
६.०७५.०१७ स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः
६.०७५.०१७ शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः
६.०७५.०१८ इन्द्रजित्त्वात्मनः कर्म प्रसमीक्ष्याधिगम्य च
६.०७५.०१८ विनद्य सुमहानादमिदं वचनमब्रवीत्
६.०७५.०१९ पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः
६.०७५.०१९ आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तगाः
६.०७५.०२० अद्य गोमायुसंघाश्च श्येनसंघाश्च लक्ष्मण
६.०७५.०२० गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया
६.०७५.०२१ क्षत्रबन्धुः सदानार्यो रामः परमदुर्मतिः
६.०७५.०२१ भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति मया हतम्
६.०७५.०२२ विशस्तकवचं भूमौ व्यपविद्धशरासनम्
६.०७५.०२२ हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया
६.०७५.०२३ इति ब्रुवाणं संरब्धं परुषं रावणात्मजम्
६.०७५.०२३ हेतुमद्वाक्यमत्यर्थं लक्ष्मणः प्रत्युवाच ह
६.०७५.०२४ अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस
६.०७५.०२४ कुरु तत्कर्म येनाहं श्रद्दध्यां तव कत्थनम्
६.०७५.०२५ अनुक्त्वा परुषं वाक्यं किं चिदप्यनवक्षिपन्
६.०७५.०२५ अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन
६.०७५.०२६ इत्युक्त्वा पञ्चनाराचानाकर्णापूरिताञ्शरान्
६.०७५.०२६ निचखान महावेगांल्लक्ष्मणो राक्षसोरसि
६.०७५.०२७ स शरैराहतस्तेन सरोषो रावणात्मजः
६.०७५.०२७ सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्
६.०७५.०२८ स बभूव महाभीमो नरराक्षससिंहयोः
६.०७५.०२८ विमर्दस्तुमुलो युद्धे परस्परवधैषिणोः
६.०७५.०२९ उभौ हि बलसंपन्नावुभौ विक्रमशालिनौ
६.०७५.०२९ उभावपि सुविक्रान्तौ सर्वशस्त्रास्त्रकोविदौ
६.०७५.०३० उभौ परमदुर्जेयावतुल्यबलतेजसौ
६.०७५.०३० युयुधाते महावीरौ ग्रहाविव नभो गतौ
६.०७५.०३१ बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ
६.०७५.०३१ युयुधाते महात्मानौ तदा केसरिणाविव
६.०७५.०३२ बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ
६.०७५.०३२ नरराक्षससिंहौ तौ प्रहृष्टावभ्ययुध्यताम्
६.०७५.०३३ सुसंप्रहृष्टौ नरराक्षसोत्तमौ॑ जयैषिणौ मार्गणचापधारिणौ
६.०७५.०३३ परस्परं तौ प्रववर्षतुर्भृशं॑ शरौघवर्षेण बलाहकाविव
६.०७६.००१ ततः शरं दाशरथिः संधायामित्रकर्शनः
६.०७६.००१ ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्
६.०७६.००२ तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः
६.०७६.००२ विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत
६.०७६.००३ तं विषण्णमुखं दृष्ट्वा राक्षसं रावणात्मजम्
६.०७६.००३ सौमित्रिं युद्धसंसक्तं प्रत्युवाच विभीषणः
६.०७६.००४ निमित्तान्यनुपश्यामि यान्यस्मिन् रावणात्मजे
६.०७६.००४ त्वर तेन महाबाहो भग्न एष न संशयः
६.०७६.००५ ततः संधाय सौमित्रिः शरानग्निशिखोपमान्
६.०७६.००५ मुमोच निशितांस्तस्मै सर्वानिव विषोल्बणान्
६.०७६.००६ शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः
६.०७६.००६ मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः
६.०७६.००७ उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः
६.०७६.००७ ददर्शावस्थितं वीरं वीरो दशरथात्मजम्
६.०७६.००८ सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः
६.०७६.००८ अब्रवीच्चैनमासाद्य पुनः स परुषं वचः
६.०७६.००९ किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम्
६.०७६.००९ निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे
६.०७६.०१० युवा खलु महायुद्धे शक्राशनिसमैः शरैः
६.०७६.०१० शायिनौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ
६.०७६.०११ स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्
६.०७६.०११ गन्तुमिच्छसि यस्मात्त्वं मां धर्षयितुमिच्छसि
६.०७६.०१२ यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः
६.०७६.०१२ अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः
६.०७६.०१३ इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्
६.०७६.०१३ दशभिश्च हनूमन्तं तीक्ष्णधारैः शरोत्तमैः
६.०७६.०१४ ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्
६.०७६.०१४ क्रोधाद्द्विगुणसंरब्धो निर्बिभेद विभीषणम्
६.०७६.०१५ तद्दृष्ट्वेन्द्रजितः कर्म कृतं रामानुजस्तदा
६.०७६.०१५ अचिन्तयित्वा प्रहसन्नैतत्किं चिदिति ब्रुवन्
६.०७६.०१६ मुमोच स शरान् घोरान् संगृह्य नरपुंगवः
६.०७६.०१६ अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि
६.०७६.०१७ नैवं रणगतः शूराः प्रहरन्ति निशाचर
६.०७६.०१७ लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव
६.०७६.०१८ नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः
६.०७६.०१८ इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत्
६.०७६.०१९ तस्य बाणैस्तु विध्वस्तं कवचं हेमभूषितम्
६.०७६.०१९ व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्
६.०७६.०२० विधूतवर्मा नाराचैर्बभूव स कृतव्रणः
६.०७६.०२० इन्द्रजित्समरे शूरः प्ररूढ इव सानुमान्
६.०७६.०२१ अभीक्ष्णं निश्वसन्तौ हि युध्येतां तुमुलं युधि
६.०७६.०२१ शरसंकृत्तसर्वाङ्गो सर्वतो रुधिरोक्षितौ
६.०७६.०२२ अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः
६.०७६.०२२ शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः
६.०७६.०२३ व्यपेतदोषमस्यन्तौ लघुचित्रं च सुष्ठु च
६.०७६.०२३ उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ
६.०७६.०२४ तयोः पृथक्पृथग्भीमः शुश्रुवे तलनिस्वनः
६.०७६.०२४ सुघोरयोर्निष्टनतोर्गगने मेघयोरिव
६.०७६.०२५ ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि
६.०७६.०२५ असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्
६.०७६.०२६ अन्यैः सुनिशितैः शस्त्रैराकाशे संजघट्टिरे
६.०७६.०२६ बभञ्जुश्चिच्छिदुश्चापि तयोर्बाणाः सहस्रशः
६.०७६.०२७ स बभूव रणे घोरस्तयोर्बाणमयश्चयः
६.०७६.०२७ अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः
६.०७६.०२८ तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः
६.०७६.०२८ सपुष्पाविव निष्पत्रौ वने शाल्मलिकुंशुकौ
६.०७६.०२९ चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः
६.०७६.०२९ इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ
६.०७६.०३० लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्
६.०७६.०३० अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम्
६.०७६.०३१ बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ
६.०७६.०३१ शुशुभाते महावीरौ विरूढाविव पर्वतौ
६.०७६.०३२ तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्
६.०७६.०३२ बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः
६.०७६.०३३ तयोरथ महान् कालो व्यतीयाद्युध्यमानयोः
६.०७६.०३३ न च तौ युद्धवैमुख्यं श्रमं वाप्युपजग्मतुः
६.०७६.०३४ अथ समरपरिश्रमं निहन्तुं॑ समरमुखेष्वजितस्य लक्ष्मणस्य
६.०७६.०३४ प्रियहितमुपपादयन्महौजाः॑ समरमुपेत्य विभीषणोऽवतस्थे
६.०७७.००१ युध्यमानौ तु तौ दृष्ट्वा प्रसक्तौ नरराक्षसौ
६.०७७.००१ शूरः स रावणभ्राता तस्थौ संग्राममूर्धनि
६.०७७.००२ ततो विस्फारयामास महद्धनुरवस्थितः
६.०७७.००२ उत्ससर्ज च तीक्ष्णाग्रान् राक्षसेषु महाशरान्
६.०७७.००३ ते शराः शिखिसंकाशा निपतन्तः समाहिताः
६.०७७.००३ राक्षसान् दारयामासुर्वज्रा इव महागिरीन्
६.०७७.००४ विभीषणस्यानुचरास्तेऽपि शूलासिपट्टसैः
६.०७७.००४ चिच्छेदुः समरे वीरान् राक्षसान् राक्षसोत्तमाः
६.०७७.००५ राक्षसैस्तैः परिवृतः स तदा तु विभीषणः
६.०७७.००५ बभौ मध्ये प्रहृष्टानां कलभानामिव द्विपः
६.०७७.००६ ततः संचोदयानो वै हरीन् रक्षोरणप्रियान्
६.०७७.००६ उवाच वचनं काले कालज्ञो रक्षसां वरः
६.०७७.००७ एकोऽयं राक्षसेन्द्रस्य परायणमिव स्थितः
६.०७७.००७ एतच्छेषं बलं तस्य किं तिष्ठत हरीश्वराः
६.०७७.००८ अस्मिन् विनिहते पापे राक्षसे रणमूर्धनि
६.०७७.००८ रावणं वर्जयित्वा तु शेषमस्य बलं हतम्
६.०७७.००९ प्रहस्तो निहतो वीरो निकुम्भश्च महाबलः
६.०७७.००९ कुम्भकर्णश्च कुम्भश्च धूम्राक्षश्च निशाचरः
६.०७७.०१० अकम्पनः सुपार्श्वश्च चक्रमाली च राक्षसः
६.०७७.०१० कम्पनः सत्त्ववन्तश्च देवान्तकनरान्तकौ
६.०७७.०११ एतान्निहत्यातिबलान् बहून् राक्षससत्तमान्
६.०७७.०११ बाहुभ्यां सागरं तीर्त्वा लङ्घ्यतां गोष्पदं लघु
६.०७७.०१२ एतावदिह शेषं वो जेतव्यमिह वानराः
६.०७७.०१२ हताः सर्वे समागम्य राक्षसा बलदर्पिताः
६.०७७.०१३ अयुक्तं निधनं कर्तुं पुत्रस्य जनितुर्मम
६.०७७.०१३ घृणामपास्य रामार्थे निहन्यां भ्रातुरात्मजम्
६.०७७.०१४ हन्तुकामस्य मे बाष्पं चक्शुश्चैव निरुध्यते
६.०७७.०१४ तदेवैष महाबाहुर्लक्ष्मणः शमयिष्यति
६.०७७.०१४ वानरा घ्नन्तुं संभूय भृत्यानस्य समीपगान्
६.०७७.०१५ इति तेनातियशसा राक्षसेनाभिचोदिताः
६.०७७.०१५ वानरेन्द्रा जहृषिरे लाङ्गलानि च विव्यधुः
६.०७७.०१६ ततस्ते कपिशार्दूलाः क्ष्वेडन्तश्च मुहुर्मुहुः
६.०७७.०१६ मुमुचुर्विविधान्नादान्मेघान् दृष्ट्वेव बर्हिणः
६.०७७.०१७ जाम्बवानपि तैः सर्वैः स्वयूथैरभिसंवृतः
६.०७७.०१७ अश्मभिस्ताडयामास नखैर्दन्तैश्च राक्षसान्
६.०७७.०१८ निघ्नन्तमृक्षाधिपतिं राक्षसास्ते महाबलाः
६.०७७.०१८ परिवव्रुर्भयं त्यक्त्वा तमनेकविधायुधाः
६.०७७.०१९ शरैः परशुभिस्तीक्ष्णैः पट्टसैर्यष्टितोमरैः
६.०७७.०१९ जाम्बवन्तं मृधे जघ्नुर्निघ्नन्तं राक्षसीं चमूम्
६.०७७.०२० स संप्रहारस्तुमुलः संजज्ञे कपिराक्षसाम्
६.०७७.०२० देवासुराणां क्रुद्धानां यथा भीमो महास्वनः
६.०७७.०२१ हनूमानपि संक्रुद्धः सालमुत्पाट्य पर्वतात्
६.०७७.०२१ रक्षसां कदनं चक्रे समासाद्य सहस्रशः
६.०७७.०२२ स दत्त्वा तुमुलं युद्धं पितृव्यस्येन्द्रजिद्युधि
६.०७७.०२२ लक्ष्मणं परवीरघ्नं पुनरेवाभ्यधावत
६.०७७.०२३ तौ प्रयुद्धौ तदा वीरौ मृधे लक्ष्मणराक्षसौ
६.०७७.०२३ शरौघानभिवर्षन्तौ जघ्नतुस्तौ परस्परम्
६.०७७.०२४ अभीक्ष्णमन्तर्दधतुः शरजालैर्महाबलौ
६.०७७.०२४ चन्द्रादित्याविवोष्णान्ते यथा मेघैस्तरस्विनौ
६.०७७.०२५ न ह्यादानं न संधानं धनुषो वा परिग्रहः
६.०७७.०२५ न विप्रमोक्षो बाणानां न विकर्षो न विग्रहः
६.०७७.०२६ न मुष्टिप्रतिसंधानं न लक्ष्यप्रतिपादनम्
६.०७७.०२६ अदृश्यत तयोस्तत्र युध्यतोः पाणिलाघवात्
६.०७७.०२७ चापवेगप्रमुक्तैश्च बाणजालैः समन्ततः
६.०७७.०२७ अन्तरिक्षेऽभिसंछन्ने न रूपाणि चकाशिरे
६.०७७.०२७ तमसा पिहितं सर्वमासीद्भीमतरं महत्
६.०७७.०२८ न तदानीइं ववौ वायुर्न जज्वाल च पावकः
६.०७७.०२८ स्वस्त्यस्तु लोकेभ्य इति जजल्पश्च महर्षयः
६.०७७.०२८ संपेतुश्चात्र संप्राप्ता गन्धर्वाः सह चारणैः
६.०७७.०२९ अथ राक्षससिंहस्य कृष्णान् कनकभूषणान्
६.०७७.०२९ शरैश्चतुर्भिः सौमित्रिर्विव्याध चतुरो हयान्
६.०७७.०३० ततोऽपरेण भल्लेन सूतस्य विचरिष्यतः
६.०७७.०३० लाघवाद्राघवः श्रीमाञ्शिरः कायादपाहरत्
६.०७७.०३१ निहतं सारथिं दृष्ट्वा समरे रावणात्मजः
६.०७७.०३१ प्रजहौ समरोद्धर्षं विषण्णः स बभूव ह
६.०७७.०३२ विषण्णवदनं दृष्ट्वा राक्षसं हरियूथपाः
६.०७७.०३२ ततः परमसंहृष्टो लक्ष्मणं चाभ्यपूजयन्
६.०७७.०३३ ततः प्रमाथी शरभो रभसो गन्धमादनः
६.०७७.०३३ अमृष्यमाणाश्चत्वारश्चक्रुर्वेगं हरीश्वराः
६.०७७.०३४ ते चास्य हयमुख्येषु तूर्णमुत्पत्य वानराः
६.०७७.०३४ चतुर्षु सुमहावीर्या निपेतुर्भीमविक्रमाः
६.०७७.०३५ तेषामधिष्ठितानां तैर्वानरैः पर्वतोपमैः
६.०७७.०३५ मुखेभ्यो रुधिरं व्यक्तं हयानां समवर्तत
६.०७७.०३६ ते निहत्य हयांस्तस्य प्रमथ्य च महारथम्
६.०७७.०३६ पुनरुत्पत्य वेगेन तस्थुर्लक्ष्मणपार्श्वतः
६.०७७.०३७ स हताश्वादवप्लुत्य रथान्मथितसारथेः
६.०७७.०३७ शरवर्षेण सौमित्रिमभ्यधावत रावणिः
६.०७७.०३८ ततो महेन्द्रप्रतिमंह्स लक्ष्मणः॑ पदातिनं तं निशितैः शरोत्तमैः
६.०७७.०३८ सृजन्तमादौ निशिताञ्शरोत्तमान्॑ भृशं तदा बाणगणैर्न्यवारयत्
६.०७८.००१ स हताश्वो महातेजा भूमौ तिष्ठन्निशाचरः
६.०७८.००१ इन्द्रजित्परमक्रुद्धः संप्रजज्वाल तेजसा
६.०७८.००२ तौ धन्विनौ जिघांसन्तावन्योन्यमिषुभिर्भृशम्
६.०७८.००२ विजयेनाभिनिष्क्रान्तौ वने गजवृषाविव
६.०७८.००३ निबर्हयन्तश्चान्योन्यं ते राक्षसवनौकसः
६.०७८.००३ भर्तारं न जहुर्युद्धे संपतन्तस्ततस्ततः
६.०७८.००४ स लक्ष्मणं समुद्दिश्य परं लाघवमास्थितः
६.०७८.००४ ववर्ष शरवर्षाणि वर्षाणीव पुरंदरः
६.०७८.००५ मुक्तमिन्द्रजिता तत्तु शरवर्षमरिंदमः
६.०७८.००५ अवारयदसंभ्रान्तो लक्ष्मणः सुदुरासदम्
६.०७८.००६ अभेद्यकचनं मत्वा लक्ष्मणं रावणात्मजः
६.०७८.००६ ललाटे लक्ष्मणं बाणैः सुपुङ्खैस्त्रिभिरिन्द्रजित्
६.०७८.००६ अविध्यत्परमक्रुद्धः शीघ्रमस्त्रं प्रदर्शयन्
६.०७८.००७ तैः पृषत्कैर्ललाटस्थैः शुशुभे रघुनन्दनः
६.०७८.००७ रणाग्रे समरश्लाघी त्रिशृङ्ग इव पर्वतः
६.०७८.००८ स तथाप्यर्दितो बाणै राक्षसेन महामृधे
६.०७८.००८ तमाशु प्रतिविव्याध लक्ष्मणः पनभिः शरैः
६.०७८.००९ लक्ष्मणेन्द्रजितौ वीरौ महाबलशरासनौ
६.०७८.००९ अन्योन्यं जघ्नतुर्बाणैर्विशिखैर्भीमविक्रमौ
६.०७८.०१० तौ परस्परमभ्येत्य सर्वगात्रेषु धन्विनौ
६.०७८.०१० घोरैर्विव्यधतुर्बाणैः कृतभावावुभौ जये
६.०७८.०११ तस्मै दृढतरं क्रुद्धो हताश्वाय विभीषणः
६.०७८.०११ वज्रस्पर्शसमान् पञ्च ससर्जोरसि मार्गणान्
६.०७८.०१२ ते तस्य कायं निर्भिद्य रुक्मपुङ्खा निमित्तगाः
६.०७८.०१२ बभूवुर्लोहितादिग्धा रक्टा इव महोरगाः
६.०७८.०१३ स पितृव्यस्य संक्रुद्ध इन्द्रजिच्छरमाददे
६.०७८.०१३ उत्तमं रक्षसां मध्ये यमदत्तं महाबलः
६.०७८.०१४ तं समीक्ष्य महातेजा महेषुं तेन संहितम्
६.०७८.०१४ लक्ष्मणोऽप्याददे बाणमन्यं भीमपराक्रमः
६.०७८.०१५ कुबेरेण स्वयं स्वप्ने यद्दत्तममितात्मना
६.०७८.०१५ दुर्जयं दुर्विषह्यं च सेन्द्रैरपि सुरासुरैः
६.०७८.०१६ ताभ्यां तौ धनुषि श्रेष्ठे संहितौ सायकोत्तमौ
६.०७८.०१६ विकृष्यमाणौ वीराभ्यां भृशं जज्वलतुः श्रिया
६.०७८.०१७ तौ भासयन्तावाकाशं धनुर्भ्यां विशिखौ च्युतौ
६.०७८.०१७ मुखेन मुखमाहत्य संनिपेततुरोजसा
६.०७८.०१८ तौ महाग्रहसंकाशावन्योन्यं संनिपत्य च
६.०७८.०१८ संग्रामे शतधा यातौ मेदिन्यां विनिपेततुः
६.०७८.०१९ शरौ प्रतिहतौ दृष्ट्वा तावुभौ रणमूर्धनि
६.०७८.०१९ व्रीडितो जातरोषौ च लक्ष्मणेन्द्रजितावुभौ
६.०७८.०२० सुसंरब्धस्तु सौमित्रिरस्त्रं वारुणमाददे
६.०७८.०२० रौद्रं महेद्रजिद्युद्धे व्यसृजद्युधि विष्ठितः
६.०७८.०२१ तयोः सुतुमुलं युद्धं संबभूवाद्भुतोपमम्
६.०७८.०२१ गगनस्थानि भूतानि लक्ष्मणं पर्यवारयन्
६.०७८.०२२ भैरवाभिरुते भीमे युद्धे वानरराक्षसाम्
६.०७८.०२२ भूतैर्बहुभिराकाशं विस्मितैरावृतं बभौ
६.०७८.०२३ ऋषयः पितरो देवा गन्धर्वा गरुणोरगाः
६.०७८.०२३ शतक्रतुं पुरस्कृत्य ररक्षुर्लक्ष्मणं रणे
६.०७८.०२४ अथान्यं मार्गणश्रेष्ठं संदधे रावणानुजः
६.०७८.०२४ हुताशनसमस्पर्शं रावणात्मजदारुणम्
६.०७८.०२५ सुपत्रमनुवृत्ताङ्गं सुपर्वाणं सुसंस्थितम्
६.०७८.०२५ सुवर्णविकृतं वीरः शरीरान्तकरं शरम्
६.०७८.०२६ दुरावारं दुर्विषहं राक्षसानां भयावहम्
६.०७८.०२६ आशीविषविषप्रख्यं देवसंघैः समर्चितम्
६.०७८.०२७ येन शक्रो महातेजा दानवानजयत्प्रभुः
६.०७८.०२७ पुरा देवासुरे युद्धे वीर्यवान् हरिवाहनः
६.०७८.०२८ तदैन्द्रमस्त्रं सौमित्रिः संयुगेष्वपराजितम्
६.०७८.०२८ शरश्रेष्ठं धनुः श्रेष्ठे नरश्रेष्ठोऽभिसंदधे
६.०७८.०२९ संधायामित्रदलनं विचकर्ष शरासनम्
६.०७८.०२९ सज्यमायम्य दुर्धर्शः कालो लोकक्षये यथा
६.०७८.०३० संधाय धनुषि श्रेष्ठे विकर्षन्निदमब्रवीत्
६.०७८.०३० लक्ष्मीवांल्लक्ष्मणो वाक्यमर्थसाधकमात्मनः
६.०७८.०३१ धर्मात्मा सत्यसंधश्च रामो दाशरथिर्यदि
६.०७८.०३१ पौरुषे चाप्रतिद्वन्द्वस्तदेनं जहि रावणिम्
६.०७८.०३२ इत्युक्त्वा बाणमाकर्णं विकृष्य तमजिह्मगम्
६.०७८.०३२ लक्ष्मणः समरे वीरः ससर्जेन्द्रजितं प्रति
६.०७८.०३२ ऐन्द्रास्त्रेण समायुज्य लक्ष्मणः परवीरहा
६.०७८.०३३ तच्छिरः सशिरस्त्राणं श्रीमज्ज्वलितकुण्डलम्
६.०७८.०३३ प्रमथ्येन्द्रजितः कायात्पपात धरणीतले
६.०७८.०३४ तद्राक्षसतनूजस्य छिन्नस्कन्धं शिरो महत्
६.०७८.०३४ तपनीयनिभं भूमौ ददृशे रुधिरोक्षितम्
६.०७८.०३५ हतस्तु निपपाताशु धरण्यां रावणात्मजः
६.०७८.०३५ कवची सशिरस्त्राणो विध्वस्तः सशरासनः
६.०७८.०३६ चुक्रुशुस्ते ततः सर्वे वानराः सविभीषणाः
६.०७८.०३६ हृष्यन्तो निहते तस्मिन् देवा वृत्रवधे यथा
६.०७८.०३७ अथान्तरिक्षे भूतानामृषीणां च महात्मनाम्
६.०७८.०३७ अभिजज्ञे च संनादो गन्धर्वाप्सरसामपि
६.०७८.०३८ पतितं समभिज्ञाय राक्षसी सा महाचमूः
६.०७८.०३८ वध्यमाना दिशो भेजे हरिभिर्जितकाशिभिः
६.०७८.०३९ वनरैर्वध्यमानास्ते शस्त्राण्युत्सृज्य राक्षसाः
६.०७८.०३९ लङ्कामभिमुखाः सर्वे नष्टसंज्ञाः प्रधाविताः
६.०७८.०४० दुद्रुवुर्बहुधा भीता राक्षसाः शतशो दिशः
६.०७८.०४० त्यक्त्वा प्रहरणान् सर्वे पट्टसासिपरश्वधान्
६.०७८.०४१ के चिल्लङ्कां परित्रस्ताः प्रविष्टा वानरार्दिताः
६.०७८.०४१ समुद्रे पतिताः के चित्के चित्पर्वतमाश्रिताः
६.०७८.०४२ हतमिन्द्रजितं दृष्ट्वा शयानं समरक्षितौ
६.०७८.०४२ राक्षसानां सहस्रेषु न कश्चित्प्रत्यदृश्यत
६.०७८.०४३ यथास्तं गत आदित्ये नावतिष्ठन्ति रश्मयः
६.०७८.०४३ तथा तस्मिन्निपतिते राक्षसास्ते गता दिशः
६.०७८.०४४ शान्तरक्श्मिरिवादित्यो निर्वाण इव पावकः
६.०७८.०४४ स बभूव महातेजा व्यपास्त गतजीवितः
६.०७८.०४५ प्रशान्तपीडा बहुलो विनष्टारिः प्रहर्षवान्
६.०७८.०४५ बभूव लोकः पतिते राक्षसेन्द्रसुते तदा
६.०७८.०४६ हर्षं च शक्रो भगवान् सह सर्वैः सुरर्षभैः
६.०७८.०४६ जगाम निहते तस्मिन् राक्षसे पापकर्मणि
६.०७८.०४७ शुद्धा आपो नभश्चैव जहृषुर्दैत्यदानवाः
६.०७८.०४७ आजग्मुः पतिते तस्मिन् सर्वलोकभयावहे
६.०७८.०४८ ऊचुश्च सहिताः सर्वे देवगन्धर्वदानवाः
६.०७८.०४८ विज्वराः शान्तकलुषा ब्राह्मणा विचरन्त्विति
६.०७८.०४९ ततोऽभ्यनन्दन् संहृष्टाः समरे हरियूथपाः
६.०७८.०४९ तमप्रतिबलं दृष्ट्वा हतं नैरृतपुंगवम्
६.०७८.०५० विभीषणो हनूमांश्च जाम्बवांश्चर्क्षयूथपः
६.०७८.०५० विजयेनाभिनन्दन्तस्तुष्टुवुश्चापि लक्ष्मणम्
६.०७८.०५१ क्ष्वेडन्तश्च नदन्तश्च गर्जन्तश्च प्लवंगमाः
६.०७८.०५१ लब्धलक्षा रघुसुतं परिवार्योपतस्थिरे
६.०७८.०५२ लाङ्गूलानि प्रविध्यन्तः स्फोटयन्तश्च वानराः
६.०७८.०५२ लक्ष्मणो जयतीत्येवं वाक्यं व्यश्रावयंस्तदा
६.०७८.०५३ अन्योन्यं च समाश्लिष्य कपयो हृष्टमानसाः
६.०७८.०५३ चक्रुरुच्चावचगुणा राघवाश्रयजाः कथाः
६.०७८.०५४ तदसुकरमथाभिवीक्ष्य हृष्टाः॑ प्रियसुहृदो युधि लक्ष्मणस्य कर्म
६.०७८.०५४ परममुपलभन्मनःप्रहर्षं॑ विनिहतमिन्द्ररिपुं निशम्य देवाः
६.०७९.००१ रुधिरक्लिन्नगात्रस्तु लक्ष्मणः शुभलक्षणः
६.०७९.००१ बभूव हृष्टस्तं हत्वा शक्रजेतारमाहवे
६.०७९.००२ ततः स जाम्बवन्तं च हनूमन्तं च वीर्यवान्
६.०७९.००२ संनिवर्त्य महातेजास्तांश्च सर्वान् वनौकसः
६.०७९.००३ आजगाम ततः शीघ्रं यत्र सुग्रीवराघवौ
६.०७९.००३ विभीषणमवष्टभ्य हनूमन्तं च लक्ष्मणः
६.०७९.००४ ततो राममभिक्रम्य सौमित्रिरभिवाद्य च
६.०७९.००४ तस्थौ भ्रातृसमीपस्थः शक्रस्येन्द्रानुजो यथा
६.०७९.००४ आचचक्षे तदा वीरो घोरमिन्द्रजितो वधम्
६.०७९.००५ रावणस्तु शिरश्छिन्नं लक्ष्मणेन महात्मना
६.०७९.००५ न्यवेदयत रामाय तदा हृष्टो विभीषणः
६.०७९.००६ उपवेश्य तमुत्सङ्गे परिष्वज्यावपीडितम्
६.०७९.००६ मूर्ध्नि चैनमुपाघ्राय भूयः संस्पृश्य च त्वरन्
६.०७९.००६ उवाच लक्ष्मणं वाक्यमाश्वास्य पुरुषर्षभः
६.०७९.००७ कृतं परमकल्याणं कर्म दुष्करकारिणा
६.०७९.००७ निरमित्रः कृतोऽस्म्यद्य निर्यास्यति हि रावणः
६.०७९.००७ बलव्यूहेन महता श्रुत्वा पुत्रं निपातितम्
६.०७९.००८ तं पुत्रवधसंतप्तं निर्यान्तं राक्षसाधिपम्
६.०७९.००८ बलेनावृत्य महता निहनिष्यामि दुर्जयम्
६.०७९.००९ त्वया लक्ष्मण नाथेन सीता च पृथिवी च मे
६.०७९.००९ न दुष्प्रापा हते त्वद्य शक्रजेतरि चाहवे
६.०७९.०१० स तं भ्रातरमाश्वास्य पारिष्वज्य च राघवः
६.०७९.०१० रामः सुषेणं मुदितः समाभाष्येदमब्रवीत्
६.०७९.०११ सशल्योऽयं महाप्राज्ञः सौमित्रिर्मित्रवत्सलः
६.०७९.०११ यथा भवति सुस्वस्थस्तथा त्वं समुपाचर
६.०७९.०११ विशल्यः क्रियतां क्षिप्रं सौमित्रिः सविभीषणः
६.०७९.०१२ कृष वानरसैन्यानां शूराणां द्रुमयोधिनाम्
६.०७९.०१२ ये चान्येऽत्र च युध्यन्तः सशल्या व्रणिनस्तथा
६.०७९.०१२ तेऽपि सर्वे प्रयत्नेन क्रियन्तां सुखिनस्त्वया
६.०७९.०१३ एवमुक्तः स रामेण महात्मा हरियूथपः
६.०७९.०१३ लक्ष्मणाय ददौ नस्तः सुषेणः परमौषधम्
६.०७९.०१४ स तस्य गन्धमाघ्राय विशल्यः समपद्यत
६.०७९.०१४ तदा निर्वेदनश्चैव संरूढव्रण एव च
६.०७९.०१५ विभीषण मुखानां च सुहृदां राघवाज्ञया
६.०७९.०१५ सर्ववानरमुख्यानां चिकित्सां स तदाकरोत्
६.०७९.०१६ ततः प्रकृतिमापन्नो हृतशल्यो गतव्यथः
६.०७९.०१६ सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः
६.०७९.०१७ तथैव रामः प्लवगाधिपस्तदा॑ विभीषणश्चर्क्षपतिश्च जाम्बवान्
६.०७९.०१७ अवेक्ष्य सौमित्रिमरोगमुत्थितं॑ मुदा ससैन्यः सुचिरं जहर्षिरे
६.०७९.०१८ अपूजयत्कर्म स लक्ष्मणस्य॑ सुदुष्करं दाशरथिर्महात्मा
६.०७९.०१८ हृष्टा बभूवुर्युधि यूथपेन्द्रा॑ निशम्य तं शक्रजितं निपातितम्
६.०८०.००१ ततः पौलस्त्य सचिवाः श्रुत्वा चेन्द्रजितं हतम्
६.०८०.००१ आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः
६.०८०.००२ युद्धे हतो महाराज लक्ष्मणेन तवात्मजः
६.०८०.००२ विभीषणसहायेन मिषतां नो महाद्युते
६.०८०.००३ शूरः शूरेण संगम्य संयुगेष्वपराजितः
६.०८०.००३ लक्ष्णनेन हतः शूरः पुत्रस्ते विबुधेन्द्रजित्
६.०८०.००४ स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम्
६.०८०.००४ घोरमिन्द्रजितः संख्ये कश्मलं प्राविशन्महत्
६.०८०.००५ उपलभ्य चिरात्संज्ञां राजा राक्षसपुंगवः
६.०८०.००५ पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः
६.०८०.००६ हा राक्षसचमूमुख्य मम वत्स महारथ
६.०८०.००६ जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः
६.०८०.००७ ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि
६.०८०.००७ मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं रणे
६.०८०.००८ अद्य वैवस्वतो राजा भूयो बहुमतो मम
६.०८०.००८ येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा
६.०८०.००९ एष पन्थाः सुयोधानां सर्वामरगणेष्वपि
६.०८०.००९ यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति
६.०८०.०१० अद्य देवगणाः सर्वे लोकपालास्तथर्षयः
६.०८०.०१० हतमिन्द्रजितं दृष्ट्वा सुखं स्वप्स्यन्ति निर्भयाः
६.०८०.०११ अद्य लोकास्त्रयः कृत्स्नाः पृथिवी च सकानना
६.०८०.०११ एकेनेन्द्रजिता हीना शूण्येव प्रतिभाति मे
६.०८०.०१२ अद्य नैरृतकन्यायां श्रोष्याम्यन्तःपुरे रवम्
६.०८०.०१२ करेणुसंघस्य यथा निनादं गिरिगह्वरे
६.०८०.०१३ यौवराज्यं च लङ्कां च रक्षांसि च परंतप
६.०८०.०१३ मातरं मां च भार्यां च क्व गतोऽसि विहाय नः
६.०८०.०१४ मम नाम त्वया वीर गतस्य यमसादनम्
६.०८०.०१४ प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे
६.०८०.०१५ स त्वं जीवति सुग्रीवे राघवे च सलक्ष्मणे
६.०८०.०१५ मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः
६.०८०.०१६ एवमादिविलापार्तं रावणं राक्षसाधिपम्
६.०८०.०१६ आविवेश महान् कोपः पुत्रव्यसनसंभवः
६.०८०.०१७ घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्छितम्
६.०८०.०१७ बभूव रूपं रुद्रस्य क्रुद्धस्येव दुरासदम्
६.०८०.०१८ तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रबिन्दवः
६.०८०.०१८ दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः
६.०८०.०१९ दन्तान् विदशतस्तस्य श्रूयते दशनस्वनः
६.०८०.०१९ यन्त्रस्यावेष्ट्यमानस्य महतो दानवैरिव
६.०८०.०२० कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत
६.०८०.०२० तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे
६.०८०.०२१ तमन्तकमिव क्रुद्धं चराचरचिखादिषुम्
६.०८०.०२१ वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः
६.०८०.०२२ ततः परमसंक्रुद्धो रावणो राक्षसाधिपः
६.०८०.०२२ अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे
६.०८०.०२३ मया वर्षसहस्राणि चरित्वा दुश्चरं तपः
६.०८०.०२३ तेषु तेष्ववकाशेषु स्वयम्भूः परितोषितः
६.०८०.०२४ तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयम्भुवः
६.०८०.०२४ नासुरेभ्यो न देवेभ्यो भयं मम कदा चन
६.०८०.०२५ कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम्
६.०८०.०२५ देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः
६.०८०.०२६ तेन मामद्य संयुक्तं रथस्थमिह संयुगे
६.०८०.०२६ प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरंदरः
६.०८०.०२७ यत्तदाभिप्रसन्नेन सशरं कार्मुकं महत्
६.०८०.०२७ देवासुरविमर्देषु मम दत्तं स्वयम्भुवा
६.०८०.०२८ अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां महत्
६.०८०.०२८ रामलक्ष्मणयोरेव वधाय परमाहवे
६.०८०.०२९ स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः
६.०८०.०२९ समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत
६.०८०.०३० प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनान्
६.०८०.०३० दीनो दीनस्वरान् सर्वांस्तानुवाच निशाचरान्
६.०८०.०३१ मायया मम वत्सेन वञ्चनार्थं वनौकसाम्
६.०८०.०३१ किं चिदेव हतं तत्र सीतेयमिति दर्शितम्
६.०८०.०३२ तदिदं सत्यमेवाहं करिष्ये प्रियमात्मनः
६.०८०.०३२ वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम्
६.०८०.०३२ इत्येवमुक्त्वा सचिवान् खड्गमाशु परामृशत्
६.०८०.०३३ उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं
६.०८०.०३३ निष्पपात स वेगेन सभायाः सचिवैर्वृतः
६.०८०.०३४ रावणः पुत्रशोकेन भृशमाकुलचेतनः
६.०८०.०३४ संक्रुद्धः खड्गमादाय सहसा यत्र मैथिली
६.०८०.०३५ व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः
६.०८०.०३५ ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः
६.०८०.०३६ अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः
६.०८०.०३६ लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः
६.०८०.०३६ बहवः शत्रवश्चान्ये संयुगेष्वभिपातिताः
६.०८०.०३७ तेषां संजल्पमानानामशोकवनिकां गताम्
६.०८०.०३७ अभिदुद्राव वैदेहीं रावणः क्रोधमूर्छितः
६.०८०.०३८ वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः
६.०८०.०३८ अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव
६.०८०.०३९ मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता
६.०८०.०३९ ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम्
६.०८०.०४० तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा
६.०८०.०४० निवार्यमाणं बहुशः सुहृद्भिरनिवर्तिनम्
६.०८०.०४१ यथायं मामभिक्रुद्धः समभिद्रवति स्वयम्
६.०८०.०४१ वधिष्यति सनाथां मामनाथामिव दुर्मतिः
६.०८०.०४२ बहुशश्चोदयामास भर्तारं मामनुव्रताम्
६.०८०.०४२ भार्या भव रमस्येति प्रत्याख्यातोऽभवन्मया
६.०८०.०४३ सोऽयं मामनुपस्थानाद्व्यक्तं नैराश्यमागतः
६.०८०.०४३ क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः
६.०८०.०४४ अथ वा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ
६.०८०.०४४ मन्निमित्तमनार्येण समरेऽद्य निपातितौ
६.०८०.०४४ अहो धिन्मन्निमित्तोऽयं विनाशो राजपुत्रयोः
६.०८०.०४५ हनूमतो हि तद्वाक्यं न कृतं क्षुद्रया मया
६.०८०.०४५ यद्यहं तस्य पृष्ठेन तदायासमनिन्दिता
६.०८०.०४५ नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती
६.०८०.०४६ मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति
६.०८०.०४६ एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि
६.०८०.०४७ सा हि जन्म च बाल्यं च यौवनं च महात्मनः
६.०८०.०४७ धर्मकार्याणि रूपं च रुदती संस्रमिष्यति
६.०८०.०४८ निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना
६.०८०.०४८ अग्निमारोक्ष्यते नूनमपो वापि प्रवेक्ष्यति
६.०८०.०४९ धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम्
६.०८०.०४९ यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते
६.०८०.०५० इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम्
६.०८०.०५० रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम्
६.०८०.०५१ सुपार्श्वो नाम मेधावी रावणं राक्षसेश्वरम्
६.०८०.०५१ निवार्यमाणं सचिवैरिदं वचनमब्रवीत्
६.०८०.०५२ कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज
६.०८०.०५२ हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि
६.०८०.०५३ वेद विद्याव्रत स्नातः स्वधर्मनिरतः सदा
६.०८०.०५३ स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर
६.०८०.०५४ मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव
६.०८०.०५४ त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज
६.०८०.०५५ अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम्
६.०८०.०५५ कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः
६.०८०.०५६ शूरो धीमान् रथी खड्गी रथप्रवरमास्थितः
६.०८०.०५६ हत्वा दाशरथिं रामं भवान् प्राप्स्यति मैथिलीम्
६.०८०.०५७ स तद्दुरात्मा सुहृदा निवेदितं॑ वचः सुधर्म्यं प्रतिगृह्य रावणः
६.०८०.०५७ गृहं जगामाथ ततश्च वीर्यवान्॑ पुनः सभां च प्रययौ सुहृद्वृतः
६.०८१.००१ स प्रविश्य सभां राजा दीनः परमदुःखितः
६.०८१.००१ निषसादासने मुख्ये सिंहः क्रुद्ध इव श्वसन्
६.०८१.००२ अब्रवीच्च तदा सर्वान् बलमुख्यान्महाबलः
६.०८१.००२ रावणः प्राञ्जलीन् वाक्यं पुत्रव्यसनकर्शितः
६.०८१.००३ सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः
६.०८१.००३ निर्यान्तु रथसंघैश्च पादातैश्चोपशोभिताः
६.०८१.००४ एकं रामं परिक्षिप्य समरे हन्तुमर्हथ
६.०८१.००४ प्रहृष्टा शरवर्षेण प्रावृट्काल इवाम्बुदाः
६.०८१.००५ अथ वाहं शरैर्तीष्क्णैर्भिन्नगात्रं महारणे
६.०८१.००५ भवद्भिः श्वो निहन्तास्मि रामं लोकस्य पश्यतः
६.०८१.००६ इत्येवं राक्षसेन्द्रस्य वाक्यमादाय राक्षसाः
६.०८१.००६ निर्ययुस्ते रथैः शीघ्रं नागानीकैश्च संवृताः
६.०८१.००७ स संग्रामो महाभीमः सूर्यस्योदयनं प्रति
६.०८१.००७ रक्षसां वानराणां च तुमुलः समपद्यत
६.०८१.००८ ते गदाभिर्विचित्राभिः प्रासैः खड्गैः परश्वधैः
६.०८१.००८ अन्योन्यं समरे जघ्नुस्तदा वानरराक्षसाः
६.०८१.००९ मातंगरथकूलस्य वाजिमत्स्या ध्वजद्रुमाः
६.०८१.००९ शरीरसंघाटवहाः प्रसस्रुः शोणितापगाः
६.०८१.०१० ध्वजवर्मरथानश्वान्नानाप्रहरणानि च
६.०८१.०१० आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे
६.०८१.०११ केशान् कर्णललाटांश्च नासिकाश्च प्लवंगमाः
६.०८१.०११ रक्षसां दशनैस्तीक्ष्णैर्नखैश्चापि व्यकर्तयन्
६.०८१.०१२ एकैकं राक्षसं संख्ये शतं वानरपुंगवाः
६.०८१.०१२ अभ्यधावन्त फलिनं वृक्षं शकुनयो यथा
६.०८१.०१३ तथा गदाभिर्गुर्वीभिः प्रासैः खड्गैः परश्वधैः
६.०८१.०१३ निर्जघ्नुर्वानरान् घोरान् राक्षसाः पर्वतोपमाः
६.०८१.०१४ राक्षसैर्वध्यमानानां वानराणां महाचमूः
६.०८१.०१४ शरण्यं शरणं याता रामं दशरथात्मजम्
६.०८१.०१५ ततो रामो महातेजा धनुरादाय वीर्यवान्
६.०८१.०१५ प्रविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह
६.०८१.०१६ प्रविष्टं तु तदा रामं मेघाः सूर्यमिवाम्बरे
६.०८१.०१६ नाभिजग्मुर्महाघोरं निर्दहन्तं शराग्निना
६.०८१.०१७ कृतान्येव सुघोराणि रामेण रजनीचराः
६.०८१.०१७ रणे रामस्य ददृशुः कर्माण्यसुकराणि च
६.०८१.०१८ चालयन्तं महानीकं विधमन्तं महारथान्
६.०८१.०१८ ददृशुस्ते न वै रामं वातं वनगतं यथा
६.०८१.०१९ छिन्नं भिन्नं शरैर्दग्धं प्रभग्नं शस्त्रपीडितम्
६.०८१.०१९ बलं रामेण ददृशुर्न रमं शीघ्रकारिणम्
६.०८१.०२० प्रहरन्तं शरीरेषु न ते पश्यन्ति राभवम्
६.०८१.०२० इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानमिव प्रजाः
६.०८१.०२१ एष हन्ति गजानीकमेष हन्ति महारथान्
६.०८१.०२१ एष हन्ति शरैस्तीक्ष्णैः पदातीन् वाजिभिः सह
६.०८१.०२२ इति ते राक्षसाः सर्वे रामस्य सदृशान् रणे
६.०८१.०२२ अन्योन्यकुपिता जघ्नुः सादृश्याद्राघवस्य ते
६.०८१.०२३ न ते ददृशिरे रामं दहन्तमरिवाहिनीम्
६.०८१.०२३ मोहिताः परमास्त्रेण गान्धर्वेण महात्मना
६.०८१.०२४ ते तु राम सहस्राणि रणे पश्यन्ति राक्षसाः
६.०८१.०२४ पुनः पश्यन्ति काकुत्स्थमेकमेव महाहवे
६.०८१.०२५ भ्रमन्तीं काञ्चनीं कोटिं कार्मुकस्य महात्मनः
६.०८१.०२५ अलातचक्रप्रतिमां ददृशुस्ते न राघवम्
६.०८१.०२६ शरीरनाभिसत्त्वार्चिः शरारं नेमिकार्मुकम्
६.०८१.०२६ ज्याघोषतलनिर्घोषं तेजोबुद्धिगुणप्रभम्
६.०८१.०२७ दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान्
६.०८१.०२७ ददृशू रामचक्रं तत्कालचक्रमिव प्रजाः
६.०८१.०२८ अनीकं दशसाहस्रं रथानां वातरंहसाम्
६.०८१.०२८ अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम्
६.०८१.०२९ चतुर्दशसहस्राणि सारोहाणां च वाजिनाम्
६.०८१.०२९ पूर्णे शतसहस्रे द्वे राक्षसानां पदातिनाम्
६.०८१.०३० दिवसस्याष्टमे भागे शरैरग्निशिखोपमैः
६.०८१.०३० हतान्येकेन रामेण रक्षसां कामरूपिणाम्
६.०८१.०३१ ते हताश्वा हतरथाः श्रान्ता विमथितध्वजाः
६.०८१.०३१ अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः
६.०८१.०३२ हतैर्गजपदात्यश्वैस्तद्बभूव रणाजिरम्
६.०८१.०३२ आक्रीडभूमी रुद्रस्य क्रुद्धस्येव पिनाकिनः
६.०८१.०३३ ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
६.०८१.०३३ साधु साध्विति रामस्य तत्कर्म समपूजयन्
६.०८१.०३४ अब्रवीच्च तदा रामः सुग्रीवं प्रत्यनन्तरम्
६.०८१.०३४ एतदस्त्रबलं दिव्यं मम वा त्र्यम्बकस्य वा
६.०८१.०३५ निहत्य तां राक्षसवाहिनीं तु॑ रामस्तदा शक्रसमो महात्मा
६.०८१.०३५ अस्त्रेषु शस्त्रेषु जितक्लमश्च॑ संस्तूयते देवगणैः प्रहृष्टैः
६.०८२.००१ तानि नागसहस्राणि सारोहाणां च वाजिनाम्
६.०८२.००१ रथानां चाग्निवर्णानां सध्वजानां सहस्रशः
६.०८२.००२ राक्षसानां सहस्राणि गदापरिघयोधिनाम्
६.०८२.००२ काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम्
६.०८२.००३ निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः
६.०८२.००३ रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा
६.०८२.००४ दृष्ट्वा श्रुत्वा च संभ्रान्ता हतशेषा निशाचराः
६.०८२.००४ राक्षस्यश्च समागम्य दीनाश्चिन्तापरिप्लुताः
६.०८२.००५ विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः
६.०८२.००५ राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन्
६.०८२.००६ कथं शूर्पणखा वृद्धा कराला निर्णतोदरी
६.०८२.००६ आससाद वने रामं कन्दर्पमिव रूपिणम्
६.०८२.००७ सुकुमारं महासत्त्वं सर्वभूतहिते रतम्
६.०८२.००७ तं दृष्ट्वा लोकवध्या सा हीनरूपा प्रकामिता
६.०८२.००८ कथं सर्वगुणैर्हीना गुणवन्तं महौजसं
६.०८२.००८ सुमुखं दुर्मुखी रामं कामयामास राक्षसी
६.०८२.००९ जनस्यास्याल्पभाग्यत्वात्पलिनी श्वेतमूर्धजा
६.०८२.००९ अकार्यमपहास्यं च सर्वलोकविगर्हितम्
६.०८२.०१० राक्षसानां विनाशाय दूषणस्य खरस्य च
६.०८२.०१० चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम्
६.०८२.०११ तन्निमित्तमिदं वैरं रावणेन कृतं महत्
६.०८२.०११ वधाय नीता सा सीता दशग्रीवेण रक्षसा
६.०८२.०१२ न च सीतां दशग्रीवः प्राप्नोति जनकात्मजाम्
६.०८२.०१२ बद्धं बलवता वैरमक्षयं राघवेण ह
६.०८२.०१३ वैदेहीं प्रार्थयानं तं विराधं प्रेक्ष्य राक्षसं
६.०८२.०१३ हतमेकेन रामेण पर्याप्तं तन्निदर्शनम्
६.०८२.०१४ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्
६.०८२.०१४ निहतानि जनस्थाने शरैरग्निशिखोपमैः
६.०८२.०१५ खरश्च निहतः संख्ये दूषणस्त्रिशिरास्तथा
६.०८२.०१५ शरैरादित्यसंकाशैः पर्याप्तं तन्निदर्शनम्
६.०८२.०१६ हतो योजनबाहुश्च कबन्धो रुधिराशनः
६.०८२.०१६ क्रोधार्तो विनदन् सोऽथ पर्याप्तं तन्निदर्शनम्
६.०८२.०१७ जघान बलिनं रामः सहस्रनयनात्मजम्
६.०८२.०१७ बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम्
६.०८२.०१८ ऋश्यमूके वसञ्शैले दीनो भग्नमनोरथः
६.०८२.०१८ सुग्रीवः स्थापितो राज्ये पर्याप्तं तन्निदर्शनम्
६.०८२.०१९ धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम्
६.०८२.०१९ युक्तं विभीषणेनोक्तं मोहात्तस्य न रोचते
६.०८२.०२० विभीषणवचः कुर्याद्यदि स्म धनदानुजः
६.०८२.०२० श्मशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत्
६.०८२.०२१ कुम्भकर्णं हतं श्रुत्वा राघवेण महाबलम्
६.०८२.०२१ प्रियं चेन्द्रजितं पुत्रं रावणो नावबुध्यते
६.०८२.०२२ मम पुत्रो मम भ्राता मम भर्ता रणे हतः
६.०८२.०२२ इत्येवं श्रूयते शब्दो राक्षसानां कुले कुले
६.०८२.०२३ रथाश्चाश्वाश्च नागाश्च हताः शतसहस्रशः
६.०८२.०२३ रणे रामेण शूरेण राक्षसाश्च पदातयः
६.०८२.०२४ रुद्रो वा यदि वा विष्णुर्महेन्द्रो वा शतक्रतुः
६.०८२.०२४ हन्ति नो रामरूपेण यदि वा स्वयमन्तकः
६.०८२.०२५ हतप्रवीरा रामेण निराशा जीविते वयम्
६.०८२.०२५ अपश्यन्त्यो भयस्यान्तमनाथा विलपामहे
६.०८२.०२६ रामहस्ताद्दशग्रीवः शूरो दत्तवरो युधि
६.०८२.०२६ इदं भयं महाघोरमुत्पन्नं नावबुध्यते
६.०८२.०२७ न देवा न च गन्धर्वा न पिशाचा न राकसाः
६.०८२.०२७ उपसृष्टं परित्रातुं शक्ता रामेण संयुगे
६.०८२.०२८ उत्पाताश्चापि दृश्यन्ते रावणस्य रणे रणे
६.०८२.०२८ कथयिष्यन्ति रामेण रावणस्य निबर्हणम्
६.०८२.०२९ पितामहेन प्रीतेन देवदानवराक्षसैः
६.०८२.०२९ रावणस्याभयं दत्तं मानुषेभ्यो न याचितम्
६.०८२.०३० तदिदं मानुषान्मन्ये प्राप्तं निःसंशयं भयम्
६.०८२.०३० जीवितान्तकरं घोरं रक्षसां रावणस्य च
६.०८२.०३१ पीड्यमानास्तु बलिना वरदानेन रक्षसा
६.०८२.०३१ दीप्तैस्तपोभिर्विबुधाः पितामहमपूजयन्
६.०८२.०३२ देवतानां हितार्थाय महात्मा वै पितामहः
६.०८२.०३२ उवाच देवताः सर्वा इदं तुष्टो महद्वचः
६.०८२.०३३ अद्य प्रभृति लोकांस्त्रीन् सर्वे दानवराक्षसाः
६.०८२.०३३ भयेन प्रावृता नित्यं विचरिष्यन्ति शाश्वतम्
६.०८२.०३४ दैवतैस्तु समागम्य सर्वैश्चेन्द्रपुरोगमैः
६.०८२.०३४ वृषध्वजस्त्रिपुरहा महादेवः प्रसादितः
६.०८२.०३५ प्रसन्नस्तु महादेवो देवानेतद्वचोऽब्रवीत्
६.०८२.०३५ उत्पत्स्यति हितार्थं वो नारी रक्षःक्षयावहा
६.०८२.०३६ एषा देवैः प्रयुक्ता तु क्षुद्यथा दानवान् पुरा
६.०८२.०३६ भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान्
६.०८२.०३७ रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः
६.०८२.०३७ अयं निष्टानको घोरः शोकेन समभिप्लुतः
६.०८२.०३८ तं न पश्यामहे लोके यो नः शरणदो भवेत्
६.०८२.०३८ राघवेणोपसृष्टानां कालेनेव युगक्षये
६.०८२.०३९ इतीव सर्वा रजनीचरस्त्रियः॑ परस्परं संपरिरभ्य बाहुभिः
६.०८२.०३९ विषेदुरार्तातिभयाभिपीडिता॑ विनेदुरुच्चैश्च तदा सुदारुणम्
६.०८३.००१ आर्तानां राक्षसीनां तु लङ्कायां वै कुले कुले
६.०८३.००१ रावणः करुणं शब्दं शुश्राव परिवेदितम्
६.०८३.००२ स तु दीर्घं विनिश्वस्य मुहूर्तं ध्यानमास्थितः
६.०८३.००२ बभूव परमक्रुद्धो रावणो भीमदर्शनः
६.०८३.००३ संदश्य दशनैरोष्ठं क्रोधसंरक्तलोचनः
६.०८३.००३ राक्षसैरपि दुर्दर्शः कालाग्निरिव मूर्छितः
६.०८३.००४ उवाच च समीपस्थान् राक्षसान् राक्षसेश्वरः
६.०८३.००४ भयाव्यक्तकथांस्तत्र निर्दहन्निव चक्षुषा
६.०८३.००५ महोदरं महापार्श्वं विरूपाक्षं च राक्षसं
६.०८३.००५ शीघ्रं वदत सैन्यानि निर्यातेति ममाज्ञया
६.०८३.००६ तस्य तद्वचनं श्रुत्वा राक्षसास्ते भयार्दिताः
६.०८३.००६ चोदयामासुरव्यग्रान् राक्षसांस्तान्नृपाज्ञया
६.०८३.००७ ते तु सर्वे तथेत्युक्त्वा राक्षसा घोरदर्शनाः
६.०८३.००७ कृतस्वस्त्ययनाः सर्वे रावणाभिमुखा ययुः
६.०८३.००८ प्रतिपूज्य यथान्यायं रावणं ते महारथाः
६.०८३.००८ तस्थुः प्राञ्जलयः सर्वे भर्तुर्विजयकाङ्क्षिणः
६.०८३.००९ अथोवाच प्रहस्यैतान् रावणः क्रोधमूर्छितः
६.०८३.००९ महोदरमहापार्श्वौ विरूपाक्षं च राक्षसं
६.०८३.०१० अद्य बाणैर्धनुर्मुक्तैर्युगान्तादित्यसंनिभैः
६.०८३.०१० राघवं लक्ष्मणं चैव नेष्यामि यमसाधनम्
६.०८३.०११ खरस्य कुम्भकर्णस्य प्रहस्तेन्द्रजितोस्तथा
६.०८३.०११ करिष्यामि प्रतीकारमद्य शत्रुवधादहम्
६.०८३.०१२ नैवान्तरिक्षं न दिशो न नद्यो नापि सागरः
६.०८३.०१२ प्रकाशत्वं गमिष्यामि मद्बाणजलदावृताः
६.०८३.०१३ अद्य वानरयूथानां तानि यूथानि भागशः
६.०८३.०१३ धनुःसमुद्रादुद्भूतैर्मथिष्यामि शरोर्मिभिः
६.०८३.०१४ व्याकोशपद्मचक्राणि पद्मकेसरवर्चसाम्
६.०८३.०१४ अद्य यूथतटाकानि गजवत्प्रमथाम्यहम्
६.०८३.०१५ सशरैरद्य वदनैः संख्ये वानरयूथपाः
६.०८३.०१५ मण्डयिष्यन्ति वसुधां सनालैरिव पङ्कलैः
६.०८३.०१६ अद्य युद्धप्रचण्डानां हरीणां द्रुमयोधिनाम्
६.०८३.०१६ मुक्तेनैकेषुणा युद्धे भेत्स्यामि च शतंशतम्
६.०८३.०१७ हतो भर्ता हतो भ्राता यासां च तनया हताः
६.०८३.०१७ वधेनाद्य रिपोस्तासां कर्मोम्यस्रप्रमार्जनम्
६.०८३.०१८ अद्य मद्बाणनिर्भिन्नैः प्रकीर्णैर्गतचेतनैः
६.०८३.०१८ करोमि वानरैर्युद्धे यत्नावेक्ष्य तलां महीम्
६.०८३.०१९ अद्य गोमायवो गृध्रा ये च मांसाशिनोऽपरे
६.०८३.०१९ सर्वांस्तांस्तर्पयिष्यामि शत्रुमांसैः शरार्दितैः
६.०८३.०२० कल्प्यतां मे रथशीघ्रं क्षिप्रमानीयतां धनुः
६.०८३.०२० अनुप्रयान्तु मां युद्धे येऽवशिष्टा निशाचराः
६.०८३.०२१ तस्य तद्वचनं श्रुत्वा महापार्श्वोऽब्रवीद्वचः
६.०८३.०२१ बलाध्यक्षान् स्थितांस्तत्र बलं संत्वर्यतामिति
६.०८३.०२२ बलाध्यक्षास्तु संरब्धा राक्षसांस्तान् गृहाद्गृहात्
६.०८३.०२२ चोदयन्तः परिययुर्लङ्कां लघुपराक्रमाः
६.०८३.०२३ ततो मुहूर्तान्निष्पेतू राक्षसा भीमविक्रमाः
६.०८३.०२३ नर्दन्तो भीमवदना नानाप्रहरणैर्भुजैः
६.०८३.०२४ असिभिः पट्टसैः शूलैर्गलाभिर्मुसलैर्हलैः
६.०८३.०२४ शक्तिभिस्तीक्ष्णधाराभिर्महद्भिः कूटमुद्गरैः
६.०८३.०२५ यष्टिभिर्विमलैश्चक्रैर्निशितैश्च परश्वधैः
६.०८३.०२५ भिण्डिपालैः शतघ्नीभिरन्यैश्चापि वरायुधैः
६.०८३.०२६ अथानयन् बलाध्यक्षाश्चत्वारो रावणाज्ञया
६.०८३.०२६ द्रुतं सूतसमायुक्तं युक्ताष्टतुरगं रथम्
६.०८३.०२७ आरुरोह रथं दिव्यं दीप्यमानं स्वतेजसा
६.०८३.०२७ रावणः सत्त्वगाम्भीर्याद्दारयन्निव मेदिनीम्
६.०८३.०२८ रावणेनाभ्यनुज्ञातौ महापार्श्वमहोदरौ
६.०८३.०२८ विरूपाक्षश्च दुर्धर्षो रथानारुरुहुस्तदा
६.०८३.०२९ ते तु हृष्टा विनर्दन्तो भिन्दत इव मेदिनीम्
६.०८३.०२९ नादं घोरं विमुञ्चन्तो निर्ययुर्जयकाङ्क्षिणः
६.०८३.०३० ततो युद्धाय तेजस्वी रक्षोगणबलैर्वृतः
६.०८३.०३० निर्ययावुद्यतधनुः कालान्तकयमोमपः
६.०८३.०३१ ततः प्रजवनाश्वेन रथेन स महारथः
६.०८३.०३१ द्वारेण निर्ययौ तेन यत्र तौ रामलक्ष्मणौ
६.०८३.०३२ ततो नष्टप्रभः सूर्यो दिशश्च तिमिरावृताः
६.०८३.०३२ द्विजाश्च नेदुर्घोराश्च संचचाल च मेदिनी
६.०८३.०३३ ववर्ष रुधिरं देवश्चस्खलुश्च तुरंगमाः
६.०८३.०३३ ध्वजाग्रे न्यपतद्गृध्रो विनेदुश्चाशिवं शिवाः
६.०८३.०३४ नयनं चास्फुरद्वामं सव्यो बाहुरकम्पत
६.०८३.०३४ विवर्णवदनश्चासीत्किं चिदभ्रश्यत स्वरः
६.०८३.०३५ ततो निष्पततो युद्धे दशग्रीवस्य रक्षसः
६.०८३.०३५ रणे निधनशंसीनि रूपाण्येतानि जज्ञिरे
६.०८३.०३६ अन्तरिक्षात्पपातोल्का निर्घातसमनिस्वना
६.०८३.०३६ विनेदुरशिवं गृध्रा वायसैरनुनादिताः
६.०८३.०३७ एतानचिन्तयन् घोरानुत्पातान् समुपस्थितान्
६.०८३.०३७ निर्ययौ रावणो मोहाद्वधार्थी कालचोदितः
६.०८३.०३८ तेषां तु रथघोषेण राक्षसानां महात्मनाम्
६.०८३.०३८ वानराणामपि चमूर्युद्धायैवाभ्यवर्तत
६.०८३.०३९ तेषां सुतुमुलं युद्धं बभूव कपिरक्षसाम्
६.०८३.०३९ अन्योन्यमाह्वयानानां क्रुद्धानां जयमिच्छताम्
६.०८३.०४० ततः क्रुद्धो दशग्रीवः शरैः काञ्चनभूषणैः
६.०८३.०४० वानराणामनीकेषु चकार कदनं महत्
६.०८३.०४१ निकृत्तशिरसः के चिद्रावणेन वलीमुखाः
६.०८३.०४१ निरुच्छ्वासा हताः के चित्के चित्पार्श्वेषु दारिताः
६.०८३.०४१ के चिद्विभिन्नशिरसः के चिच्चक्षुर्विवर्जिताः
६.०८३.०४२ दशाननः क्रोधविवृत्तनेत्रो॑ यतो यतोऽभ्येति रथेन संख्ये
६.०८३.०४२ ततस्ततस्तस्य शरप्रवेगं॑ सोढुं न शेकुर्हरियूथपास्ते
६.०८४.००१ तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः
६.०८४.००१ बभूव वसुधा तत्र प्रकीर्णा हरिभिर्वृता
६.०८४.००२ रावणस्याप्रसह्यं तं शरसंपातमेकतः
६.०८४.००२ न शेकुः सहितुं दीप्तं पतंगा इव पावकम्
६.०८४.००३ तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः
६.०८४.००३ पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः
६.०८४.००४ प्लवंगानामनीकानि महाभ्राणीव मारुतः
६.०८४.००४ स ययौ समरे तस्मिन् विधमन् रावणः शरैः
६.०८४.००५ कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्
६.०८४.००५ आससाद ततो युद्धे राघवं त्वरितस्तदा
६.०८४.००६ सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रवतो रणे
६.०८४.००६ गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः
६.०८४.००७ आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्
६.०८४.००७ सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः
६.०८४.००८ पार्श्वतः पृष्ठतश्चास्य सर्वे यूथाधिपाः स्वयम्
६.०८४.००८ अनुजह्रुर्महाशैलान् विविधांश्च महाद्रुमान्
६.०८४.००९ स नदन् युधि सुग्रीवः स्वरेण महता महान्
६.०८४.००९ पातयन् विविधांश्चान्याञ्जघानोत्तमराक्षसान्
६.०८४.०१० ममर्द च महाकायो राक्षसान् वानरेश्वरः
६.०८४.०१० युगान्तसमये वायुः प्रवृद्धानगमानिव
६.०८४.०११ राक्षसानामनीकेषु शैलवर्षं ववर्ष ह
६.०८४.०११ अश्ववर्षं यथा मेघः पक्षिसंघेषु कानने
६.०८४.०१२ कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः
६.०८४.०१२ विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः
६.०८४.०१३ अथ संक्षीयमाणेषु राक्षसेषु समन्ततः
६.०८४.०१३ सुग्रीवेण प्रभग्नेषु पतत्सु विनदत्सु च
६.०८४.०१४ विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः
६.०८४.०१४ रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत्
६.०८४.०१५ स तं द्विरदमारुह्य विरूपाक्षो महारथः
६.०८४.०१५ विनदन् भीमनिर्ह्रालं वानरानभ्यधावत
६.०८४.०१६ सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे
६.०८४.०१६ स्थापयामासा चोद्विग्नान् राक्षसान् संप्रहर्षयन्
६.०८४.०१७ सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा
६.०८४.०१७ चुक्रोध च महाक्रोधो वधे चास्य मनो दधे
६.०८४.०१८ ततः पादपमुद्धृत्य शूरः संप्रधने हरिः
६.०८४.०१८ अभिपत्य जघानास्य प्रमुखे तं महागजम्
६.०८४.०१९ स तु प्रहाराभिहतः सुग्रीवेण महागजः
६.०८४.०१९ अपासर्पद्धनुर्मात्रं निषसाद ननाद च
६.०८४.०२० गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान्
६.०८४.०२० राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम्
६.०८४.०२१ आर्षभं चर्मखड्गं च प्रगृह्य लघुविक्रमः
६.०८४.०२१ भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम्
६.०८४.०२२ स हि तस्याभिसंक्रुद्धः प्रगृह्य महतीं शिलाम्
६.०८४.०२२ विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम्
६.०८४.०२३ स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः
६.०८४.०२३ अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा
६.०८४.०२४ तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे
६.०८४.०२४ कवचं पातयामास स खड्गाभिहतोऽपतत्
६.०८४.०२५ स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्
६.०८४.०२५ तलप्रहारमशनेः समानं भीमनिस्वनम्
६.०८४.०२६ तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम्
६.०८४.०२६ नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत्
६.०८४.०२७ ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः
६.०८४.०२७ मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा
६.०८४.०२८ स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः
६.०८४.०२८ ततो न्यपातयत्क्रोधाच्छङ्खदेशे महातलम्
६.०८४.०२९ महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ
६.०८४.०२९ पपात रुधिरक्लिन्नः शोणितं स समुद्वमन्
६.०८४.०३० विवृत्तनयनं क्रोधात्सफेन रुधिराप्लुतम्
६.०८४.०३० ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्
६.०८४.०३१ स्फुरन्तं परिवर्जन्तं पार्श्वेन रुधिरोक्षितम्
६.०८४.०३१ करुणं च विनर्दान्तं ददृशुः कपयो रिपुम्
६.०८४.०३२ तथा तु तौ संयति संप्रयुक्तौ॑ तरस्विनौ वानरराक्षसानाम्
६.०८४.०३२ बलार्णवौ सस्वनतुः सभीमं॑ महार्णवौ द्वाविव भिन्नवेलौ
६.०८४.०३३ विनाशितं प्रेक्ष्य विरूपनेत्रं॑ महाबलं तं हरिपार्थिवेन
६.०८४.०३३ बलं समस्तं कपिराक्षसानाम्॑ उन्मत्तगङ्गाप्रतिमं बभूव
६.०८५.००१ हन्यमाने बले तूर्णमन्योन्यं ते महामृधे
६.०८५.००१ सरसीव महाघर्मे सूपक्षीणे बभूवतुः
६.०८५.००२ स्वबलस्य विघातेन विरूपाक्षवधेन च
६.०८५.००२ बभूव द्विगुणं क्रुद्धो रावणो राक्षसाधिपः
६.०८५.००३ प्रक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः
६.०८५.००३ बभूवास्य व्यथा युद्धे प्रेक्ष्य दैवविपर्ययम्
६.०८५.००४ उवाच च समीपस्थं महोदरमरिंदमम्
६.०८५.००४ अस्मिन् काले महाबाहो जयाशा त्वयि मे स्थिता
६.०८५.००५ जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम्
६.०८५.००५ भर्तृपिण्डस्य कालोऽयं निर्वेष्टुं साधु युध्यताम्
६.०८५.००६ एवमुक्तस्तथेत्युक्त्वा राक्षसेन्द्रं महोदरः
६.०८५.००६ प्रविवेशारिसेनां स पतंग इव पावकम्
६.०८५.००७ ततः स कदनं चक्रे वानराणां महाबलः
६.०८५.००७ भर्तृवाक्येन तेजस्वी स्वेन वीर्येण चोदितः
६.०८५.००८ प्रभग्नां समरे दृष्ट्वा वानराणां महाचमूम्
६.०८५.००८ अभिदुद्राव सुग्रीवो महोदरमनन्तरम्
६.०८५.००९ प्रगृह्य विपुलां घोरां महीधर समां शिलाम्
६.०८५.००९ चिक्षेप च महातेजास्तद्वधाय हरीश्वरः
६.०८५.०१० तामापतन्तीं सहसा शिलां दृष्ट्वा महोदरः
६.०८५.०१० असंभ्रान्तस्ततो बाणैर्निर्बिभेद दुरासदाम्
६.०८५.०११ रक्षसा तेन बाणौघैर्निकृत्ता सा सहस्रधा
६.०८५.०११ निपपात शिलाभूमौ गृध्रचक्रमिवाकुलम्
६.०८५.०१२ तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः क्रोधमूर्छितः
६.०८५.०१२ सालमुत्पाट्य चिक्षेप रक्षसे रणमूर्धनि
६.०८५.०१२ शरैश्च विददारैनं शूरः परपुरंजयः
६.०८५.०१३ स ददर्श ततः क्रुद्धः परिघं पतितं भुवि
६.०८५.०१३ आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन्
६.०८५.०१३ परिघाग्रेण वेगेन जघानास्य हयोत्तमान्
६.०८५.०१४ तस्माद्धतहयाद्वीरः सोऽवप्लुत्य महारथात्
६.०८५.०१४ गदां जग्राह संक्रुद्धो राक्षसोऽथ महोदरः
६.०८५.०१५ गदापरिघहस्तौ तौ युधि वीरौ समीयतुः
६.०८५.०१५ नर्दन्तौ गोवृषप्रख्यौ घनाविव सविद्युतौ
६.०८५.०१६ आजघान गदां तस्य परिघेण हरीश्वरः
६.०८५.०१६ पपात स गदोद्भिन्नः परिघस्तस्य भूतले
६.०८५.०१७ ततो जग्राह तेजस्वी सुग्रीवो वसुधातलात्
६.०८५.०१७ आयसं मुसलं घोरं सर्वतो हेमभूषितम्
६.०८५.०१८ तं समुद्यम्य चिक्षेप सोऽप्यन्यां व्याक्षिपद्गदाम्
६.०८५.०१८ भिन्नावन्योन्यमासाद्य पेततुर्धरणीतले
६.०८५.०१९ ततो भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः
६.०८५.०१९ तेजो बलसमाविष्टौ दीप्ताविव हुताशनौ
६.०८५.०२० जघ्नतुस्तौ तदान्योन्यं नेदतुश्च पुनः पुनः
६.०८५.०२० तलैश्चान्योन्यमाहत्य पेततुर्धरणीतले
६.०८५.०२१ उत्पेततुस्ततस्तूर्णं जघ्नतुश्च परस्परम्
६.०८५.०२१ भुजैश्चिक्षेपतुर्वीरावन्योन्यमपराजितौ
६.०८५.०२२ आजहार तदा खग्डमदूरपरिवर्तिनम्
६.०८५.०२२ राक्षसश्चर्मणा सार्धं महावेगो महोदरः
६.०८५.०२३ तथैव च महाखड्गं चर्मणा पतितं सह
६.०८५.०२३ जग्राह वानरश्रेष्ठः सुग्रीवो वेगवत्तरः
६.०८५.०२४ तौ तु रोषपरीताङ्गौ नर्दन्तावभ्यधावताम्
६.०८५.०२४ उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ
६.०८५.०२५ दक्षिणं मण्डलं चोभौ तौ तूर्णं संपरीयतुः
६.०८५.०२५ अन्योन्यमभिसंक्रुद्धौ जये प्रणिहितावुभौ
६.०८५.०२६ स तु शूरो महावेगो वीर्यश्लाघी महोदरः
६.०८५.०२६ महाचर्मणि तं खड्गं पातयामास दुर्मतिः
६.०८५.०२७ लग्नमुत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः
६.०८५.०२७ जहार सशिरस्त्राणं कुण्डलोपहितं शिरः
६.०८५.०२८ निकृत्तशिरसस्तस्य पतितस्य महीतले
६.०८५.०२८ तद्बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति
६.०८५.०२९ हत्वा तं वानरैः सार्धं ननाद मुदितो हरिः
६.०८५.०२९ चुक्रोध च दशग्रीवो बभौ हृष्टश्च राघवः
६.०८६.००१ महोदरे तु निहते महापार्श्वो महाबलः
६.०८६.००१ अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः
६.०८६.००२ स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः
६.०८६.००२ पातयामास कायेभ्यः फलं वृन्तादिवानिलः
६.०८६.००३ केषां चिदिषुभिर्बाहून् स्कन्धांश्चिछेद राक्षसः
६.०८६.००३ वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत्
६.०८६.००४ तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः
६.०८६.००४ विषादविमुखाः सर्वे बभूवुर्गतचेतसः
६.०८६.००५ निरीक्ष्य बलमुद्विग्नमङ्गदो राक्षसार्दितम्
६.०८६.००५ वेगं चक्रे महाबाहुः समुद्र इव पर्वणि
६.०८६.००६ आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम्
६.०८६.००६ समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत्
६.०८६.००७ स तु तेन प्रहारेण महापार्श्वो विचेतनः
६.०८६.००७ ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि
६.०८६.००८ सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः
६.०८६.००८ निष्पत्य सुमहावीर्यः स्वाद्यूथान्मेघसंनिभात्
६.०८६.००९ प्रगृह्य गिरिशृङ्गाभां क्रुद्धः स विपुलां शिलाम्
६.०८६.००९ अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम्
६.०८६.०१० मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः
६.०८६.०१० अङ्गदं बहुभिर्बाणैर्भूयस्तं प्रत्यविध्यत
६.०८६.०११ जा
म्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे
६.०८६.०११ ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः
६.०८६.०१२ गवाक्षं जाम्बवन्तं च स दृष्ट्वा शरपीडितौ
६.०८६.०१२ जग्राह परिघं घोरमङ्गदः क्रोधमूर्छितः
६.०८६.०१३ तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसं
६.०८६.०१३ दूरस्थितस्य परिघं रविरश्मिसमप्रभम्
६.०८६.०१४ द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान्
६.०८६.०१४ महापार्श्वाय चिक्षेप वधार्थं वालिनः सुतः
६.०८६.०१५ स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः
६.०८६.०१५ धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत्
६.०८६.०१६ तं समासाद्य वेगेन वालिपुत्रः प्रतापवान्
६.०८६.०१६ तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले
६.०८६.०१७ स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः
६.०८६.०१७ करेणैकेन जग्राह सुमहान्तं परश्वधम्
६.०८६.०१८ तं तैलधौतं विमलं शैलसारमयं दृढम्
६.०८६.०१८ राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत्
६.०८६.०१९ तेन वामांसफलके भृशं प्रत्यवपातितम्
६.०८६.०१९ अङ्गदो मोक्षयामास सरोषः स परश्वधम्
६.०८६.०२० स वीरो वज्रसंकाशमङ्गदो मुष्टिमात्मनः
६.०८६.०२० संवर्तयन् सुसंक्रुद्धः पितुस्तुल्यपराक्रमः
६.०८६.०२१ राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयं प्रति
६.०८६.०२१ इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत्
६.०८६.०२२ तेन तस्य निपातेन राक्षसस्य महामृधे
६.०८६.०२२ पफाल हृदयं चाशु स पपात हतो भुवि
६.०८६.०२३ तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे
६.०८६.०२३ अभवच्च महान् क्रोधः समरे रावणस्य तु
६.०८७.००१ महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ
६.०८७.००१ तस्मिंश्च निहते वीरे विरूपाक्षे महाबले
६.०८७.००२ आविवेश महान् क्रोधो रावणं तु महामृधे
६.०८७.००२ सूतं संचोदयामास वाक्यं चेदमुवाच ह
६.०८७.००३ निहतानाममात्यानां रुद्धस्य नगरस्य च
६.०८७.००३ दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ
६.०८७.००४ रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्
६.०८७.००४ प्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः
६.०८७.००५ स दिशो दश घोषेण रथस्यातिरथो महान्
६.०८७.००५ नादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत
६.०८७.००६ पूरिता तेन शब्देन सनदीगिरिकानना
६.०८७.००६ संचचाल मही सर्वा सवराहमृगद्विपा
६.०८७.००७ तामसं सुमहाघोरं चकारास्त्रं सुदारुणम्
६.०८७.००७ निर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः
६.०८७.००८ तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः
६.०८७.००८ दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः
६.०८७.००९ स ददर्श ततो रामं तिष्ठन्तमपराजितम्
६.०८७.००९ लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा
६.०८७.०१० आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः
६.०८७.०१० पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम्
६.०८७.०११ वानरांश्च रणे भग्नानापतन्तं च रावणम्
६.०८७.०११ समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम्
६.०८७.०१२ विस्फारयितुमारेभे ततः स धनुरुत्तमम्
६.०८७.०१२ महावेगं महानादं निर्भिन्दन्निव मेदिनीम्
६.०८७.०१३ तयोः शरपथं प्राप्य रावणो राजपुत्रयोः
६.०८७.०१३ स बभूव यथा राहुः समीपे शशिसूर्ययोः
६.०८७.०१४ रावणस्य च बाणौघै रामविस्फरितेन च
६.०८७.०१४ शब्देन राक्षसास्तेन पेतुश्च शतशस्तदा
६.०८७.०१५ तमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः
६.०८७.०१५ मुमोच धनुरायम्य शरानग्निशिखोपमान्
६.०८७.०१६ तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता
६.०८७.०१६ बाणान् बाणैर्महातेजा रावणः प्रत्यवारयत्
६.०८७.०१७ एकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश
६.०८७.०१७ लक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम्
६.०८७.०१८ अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः
६.०८७.०१८ आससाद ततो रामं स्थितं शैलमिवाचलम्
६.०८७.०१९ स संख्ये राममासाद्य क्रोधसंरक्तलोचनः
६.०८७.०१९ व्यसृजच्छरवर्णानि रावणो राघवोपरि
६.०८७.०२० शरधारास्ततो रामो रावणस्य धनुश्च्युताः
६.०८७.०२० दृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम्
६.०८७.०२१ ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः
६.०८७.०२१ दीप्यमानान्महावेगान् क्रुद्धानाशीविषानिव
६.०८७.०२२ राघवो रावणं तूर्णं रावणो राघवं तथा
६.०८७.०२२ अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः
६.०८७.०२३ चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्
६.०८७.०२३ बाणवेगान् समुदीक्ष्य समरेष्वपराजितौ
६.०८७.०२४ तयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोः
६.०८७.०२४ रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः
६.०८७.०२५ संततं विविधैर्बाणैर्बभूव गगनं तदा
६.०८७.०२५ घनैरिवातपापाये विद्युन्मालासमाकुलैः
६.०८७.०२६ गवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः
६.०८७.०२६ महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः
६.०८७.०२७ शरान्धकारं तौ भीमं चक्रतुः परमं तदा
६.०८७.०२७ गतेऽस्तं तपने चापि महामेघाविवोत्थितौ
६.०८७.०२८ बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः
६.०८७.०२८ अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव
६.०८७.०२९ उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ
६.०८७.०२९ उभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः
६.०८७.०३० उभौ हि येन व्रजतस्तेन तेन शरोर्मयः
६.०८७.०३० ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव
६.०८७.०३१ ततः संसक्तहस्तस्तु रावणो लोकरावणः
६.०८७.०३१ नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत
६.०८७.०३२ रौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्
६.०८७.०३२ शिरसा धारयन् रामो न व्यथां प्रत्यपद्यत
६.०८७.०३३ अथ मन्त्रानपि जपन् रौद्रमस्त्रमुदीरयन्
६.०८७.०३३ शरान् भूयः समादाय रामः क्रोधसमन्वितः
६.०८७.०३४ मुमोच च महातेजाश्चापमायम्य वीर्यवान्
६.०८७.०३४ ताञ्शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः
६.०८७.०३५ ते महामेघसंकाशे कवचे पतिताः शराः
६.०८७.०३५ अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा
६.०८७.०३६ पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्
६.०८७.०३६ ललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत्
६.०८७.०३७ ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः
६.०८७.०३७ श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः
६.०८७.०३८ निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः
६.०८७.०३८ आसुरं सुमहाघोरमन्यदस्त्रं समाददे
६.०८७.०३९ सिंहव्याघ्रमुखांश्चान्यान् कङ्ककाक मुखानपि
६.०८७.०३९ गृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा
६.०८७.०४० ईहामृगमुहांश्चान्यान् व्यादितास्यान् भयावहान्
६.०८७.०४० पञ्चास्यांल्लेलिहानांश्च ससर्ज निशिताञ्शरान्
६.०८७.०४१ शरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान्
६.०८७.०४१ श्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान्
६.०८७.०४२ एतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान्
६.०८७.०४२ रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन्
६.०८७.०४३ आसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः
६.०८७.०४३ ससर्जास्त्रं महोत्साहः पावकं पावकोपमः
६.०८७.०४४ अग्निदीप्तमुखान् बाणांस्तथा सूर्यमुखानपि
६.०८७.०४४ चन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि
६.०८७.०४५ ग्रहनक्षत्रवर्णांश्च महोल्का मुखसंस्थितान्
६.०८७.०४५ विद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशिताञ्शरान्
६.०८७.०४६ ते रावणशरा घोरा राघवास्त्रसमाहताः
६.०८७.०४६ विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः
६.०८७.०४७ तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा
६.०८७.०४७ हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः
६.०८८.००१ तस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः
६.०८८.००१ क्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम्
६.०८८.००२ मयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः
६.०८८.००२ उत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे
६.०८८.००३ ततः शूलानि निश्चेरुर्गदाश्च मुसलानि च
६.०८८.००३ कार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः
६.०८८.००४ कूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा
६.०८८.००४ निष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये
६.०८८.००५ तदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः
६.०८८.००५ जघान परमास्त्रेण गन्धर्वेण महाद्युतिः
६.०८८.००६ तस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना
६.०८८.००६ रावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत्
६.०८८.००७ ततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च
६.०८८.००७ कार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः
६.०८८.००८ तैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः
६.०८८.००८ पतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव
६.०८८.००९ तानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः
६.०८८.००९ आयुधानि विचित्राणि रावणस्य चमूमुखे
६.०८८.०१० तदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः
६.०८८.०१० विव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु
६.०८८.०११ स विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः
६.०८८.०११ रावणेन महातेजा न प्राकम्पत राघवः
६.०८८.०१२ ततो विव्याध गात्रेषु सर्वेषु समितिंजयः
६.०८८.०१२ राघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः
६.०८८.०१३ एतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली
६.०८८.०१३ लक्ष्मणः सायकान् सप्त जग्राह परवीरहा
६.०८८.०१४ तैः सायकैर्महावेगै रावणस्य महाद्युतिः
६.०८८.०१४ ध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा
६.०८८.०१५ सारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्
६.०८८.०१५ जहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः
६.०८८.०१६ तस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्
६.०८८.०१६ लक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः
६.०८८.०१७ नीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान्
६.०८८.०१७ जघानाप्लुत्य गदया रावणस्य विभीषणः
६.०८८.०१८ हताश्वाद्वेगवान् वेगादवप्लुत्य महारथात्
६.०८८.०१८ क्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः
६.०८८.०१९ ततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव
६.०८८.०१९ विभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान्
६.०८८.०२० अप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः
६.०८८.०२० अथोदतिष्ठत्संनादो वानराणां तदा रणे
६.०८८.०२१ स पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी
६.०८८.०२१ सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता
६.०८८.०२२ ततः संभाविततरां कालेनापि दुरासदाम्
६.०८८.०२२ जग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा
६.०८८.०२३ सा वेगिना बलवता रावणेन दुरात्मना
६.०८८.०२३ जज्वाल सुमहाघोरा शक्राशनिसमप्रभा
६.०८८.०२४ एतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्
६.०८८.०२४ प्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत
६.०८८.०२५ तं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः
६.०८८.०२५ रावणं शक्तिहस्तं तं शरवर्षैरवाकिरत्
६.०८८.०२६ कीर्यमाणः शरौघेण विसृष्ट्तेन महात्मना
६.०८८.०२६ न प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः
६.०८८.०२७ मोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः
६.०८८.०२७ लक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत्
६.०८८.०२८ मोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः
६.०८८.०२८ विमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते
६.०८८.०२९ एषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा
६.०८८.०२९ मद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति
६.०८८.०३० इत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्
६.०८८.०३० मयेन मायाविहिताममोघां शत्रुघातिनीम्
६.०८८.०३१ लक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा
६.०८८.०३१ रावणः परमक्रुद्धश्चिक्षेप च ननाद च
६.०८८.०३२ सा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना
६.०८८.०३२ शक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि
६.०८८.०३३ तामनुव्याहरच्छक्तिमापतन्तीं स राघवः
६.०८