Valmiki Ramayana Third Kandam

Part [Kandam] – 1  2  3  5  6

३.००१.००१ प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्
३.००१.००१ ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्
३.००१.००२ कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्
३.००१.००२ यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम्
३.००१.००३ शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा
३.००१.००३ पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः
३.००१.००४ विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः
३.००१.००४ समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्
३.००१.००५ आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्
३.००१.००५ बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्
३.००१.००६ पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया
३.००१.००६ फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः
३.००१.००७ सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम्
३.००१.००७ पुण्यैश नियताहारैः शोभितं परमर्षिभिः
३.००१.००८ तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्
३.००१.००८ ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्
३.००१.००९ तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्
३.००१.००९ अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः
३.००१.०१० दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः
३.००१.०१० अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम्
३.००१.०११ ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः
३.००१.०११ मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन् दृढव्रताः
३.००१.०१२ रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्
३.००१.०१२ ददृशुर्विस्मिताकारा रामस्य वनवासिनः
३.००१.०१३ वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव
३.००१.०१३ आश्चर्यभूतान् ददृशुः सर्वे ते वनचारिणः
३.००१.०१४ अत्रैनं हि महाभागाः सर्वभूतहिते रताः
३.००१.०१४ अतिथिं पर्णशालायां राघवं संन्यवेशयन्
३.००१.०१५ ततो रामस्य सत्कृत्य विधिना पावकोपमाः
३.००१.०१५ आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः
३.००१.०१६ मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः
३.००१.०१६ निवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन्
३.००१.०१७ धर्मपालो जनस्यास्य शरण्यश्च महायशाः
३.००१.०१७ पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः
३.००१.०१८ इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव
३.००१.०१८ राजा तस्माद्वनान् भोगान् भुङ्क्ते लोकनमस्कृतः
३.००१.०१९ ते वयं भवता रक्ष्या भवद्विषयवासिनः
३.००१.०१९ नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः
३.००१.०२० न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः
३.००१.०२० रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः
३.००१.०२१ एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्
३.००१.०२१ अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्
३.००१.०२२ तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः
३.००१.०२२ न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्
३.००२.००१ कृतातिथ्योऽथ रामस्तु सूर्यस्योदयनं प्रति
३.००२.००१ आमन्त्र्य स मुनीन् सर्वान् वनमेवान्वगाहत
३.००२.००२ नानामृगगणाकीर्णं शार्दूलवृकसेवितम्
३.००२.००२ ध्वस्तवृक्षलतागुल्मं दुर्दर्श सलिलाशयम्
३.००२.००३ निष्कूजनानाशकुनि झिल्लिका गणनादितम्
३.००२.००३ लक्ष्मणानुगतो रामो वनमध्यं ददर्श ह
३.००२.००४ वनमध्ये तु काकुत्स्थस्तस्मिन् घोरमृगायुते
३.००२.००४ ददर्श गिरिशृङ्गाभं पुरुषादं महास्वनम्
३.००२.००५ गभीराक्षं महावक्त्रं विकटं विषमोदरम्
३.००२.००५ बीभत्सं विषमं दीर्घं विकृतं घोरदर्शनम्
३.००२.००६ वसानं चर्मवैयाघ्रं वसार्द्रं रुधिरोक्षितम्
३.००२.००६ त्रासनं सर्वभूतानां व्यादितास्यमिवान्तकम्
३.००२.००७ त्रीन् सिंहांश्चतुरो व्याघ्रान् द्वौ वृकौ पृषतान् दश
३.००२.००७ सविषाणं वसादिग्धं गजस्य च शिरो महत्
३.००२.००८ अवसज्यायसे शूले विनदन्तं महास्वनम्
३.००२.००८ स रामो लक्ष्मणं चैव सीतां दृष्ट्वा च मैथिलीम्
३.००२.००९ अभ्यधावत्सुसंक्रुद्धः प्रजाः काल इवान्तकः
३.००२.००९ स कृत्वा भैरवं नादं चालयन्निव मेदिनीम्
३.००२.०१० अङ्गेनादाय वैदेहीमपक्रम्य ततोऽब्रवीत्
३.००२.०१० युवां जटाचीरधरौ सभार्यौ क्षीणजीवितौ
३.००२.०११ प्रविष्टौ दण्डकारण्यं शरचापासिधारिणौ
३.००२.०११ कथं तापसयोर्वां च वासः प्रमदया सह
३.००२.०१२ अधर्मचारिणौ पापौ कौ युवां मुनिदूषकौ
३.००२.०१२ अहं वनमिदं दुर्गं विराघो नाम राक्षसः
३.००२.०१३ चरामि सायुधो नित्यमृषिमांसानि भक्षयन्
३.००२.०१३ इयं नारी वरारोहा मम भर्या भविष्यति
३.००२.०१३ युवयोः पापयोश्चाहं पास्यामि रुधिरं मृधे
३.००२.०१४ तस्यैवं ब्रुवतो धृष्टं विराधस्य दुरात्मनः
३.००२.०१४ श्रुत्वा सगर्वितं वाक्यं संभ्रान्ता जनकात्मजा
३.००२.०१४ सीता प्रावेपतोद्वेगात्प्रवाते कदली यथा
३.००२.०१५ तां दृष्ट्वा राघवः सीतां विराधाङ्कगतां शुभाम्
३.००२.०१५ अब्रवील्लक्ष्मणं वाक्यं मुखेन परिशुष्यता
३.००२.०१६ पश्य सौम्य नरेन्द्रस्य जनकस्यात्मसंभवाम्
३.००२.०१६ मम भार्यां शुभाचारां विराधाङ्के प्रवेशिताम्
३.००२.०१६ अत्यन्त सुखसंवृद्धां राजपुत्रीं यशस्विनीम्
३.००२.०१७ यदभिप्रेतमस्मासु प्रियं वर वृतं च यत्
३.००२.०१७ कैकेय्यास्तु सुसंवृत्तं क्षिप्रमद्यैव लक्ष्मण
३.००२.०१८ या न तुष्यति राज्येन पुत्रार्थे दीर्घदर्शिनी
३.००२.०१८ ययाहं सर्वभूतानां हितः प्रस्थापितो वनम्
३.००२.०१८ अद्येदानीं सकामा सा या माता मम मध्यमा
३.००२.०१९ परस्पर्शात्तु वैदेह्या न दुःखतरमस्ति मे
३.००२.०१९ पितुर्विनाशात्सौमित्रे स्वराज्यहरणात्तथा
३.००२.०२० इति ब्रुवति काकुत्स्थे बाष्पशोकपरिप्लुते
३.००२.०२० अब्रवील्लक्ष्मणः क्रुद्धो रुद्धो नाग इव श्वसन्
३.००२.०२१ अनाथ इव भूतानां नाथस्त्वं वासवोपमः
३.००२.०२१ मया प्रेष्येण काकुत्स्थ किमर्थं परितप्स्यसे
३.००२.०२२ शरेण निहतस्याद्य मया क्रुद्धेन रक्षसः
३.००२.०२२ विराधस्य गतासोर्हि मही पास्यति शोणितम्
३.००२.०२३ राज्यकामे मम क्रोधो भरते यो बभूव ह
३.००२.०२३ तं विराधे विमोक्ष्यामि वज्री वज्रमिवाचले
३.००२.०२४ मम भुजबलवेगवेगितः॑ पततु शरोऽस्य महान्महोरसि
३.००२.०२४ व्यपनयतु तनोश्च जीवितं॑ पततु ततश्च महीं विघूर्णितः
३.००३.००१ अथोवाच पुनर्वाक्यं विराधः पूरयन् वनम्
३.००३.००१ आत्मानं पृच्छते ब्रूतं कौ युवां क्व गमिष्यथः
३.००३.००२ तमुवाच ततो रामो राक्षसं ज्वलिताननम्
३.००३.००२ पृच्छन्तं सुमहातेजा इक्ष्वाकुकुलमात्मनः
३.००३.००३ क्षत्रियो वृत्तसंपन्नौ विद्धि नौ वनगोचरौ
३.००३.००३ त्वां तु वेदितुमिच्छावः कस्त्वं चरसि दण्डकान्
३.००३.००४ तमुवाच विराधस्तु रामं सत्यपराक्रमम्
३.००३.००४ हन्त वक्ष्यामि ते राजन्निबोध मम राघव
३.००३.००५ पुत्रः किल जयस्याहं माता मम शतह्रदा
३.००३.००५ विराध इति मामाहुः पृथिव्यां सर्वराक्षसाः
३.००३.००६ तपसा चापि मे प्राप्ता ब्रह्मणो हि प्रसादजा
३.००३.००६ शस्त्रेणावध्यता लोकेऽच्छेद्याभेद्यत्वमेव च
३.००३.००७ उत्सृज्य प्रमदामेनामनपेक्षौ यथागतम्
३.००३.००७ त्वरमाणौ पालयेथां न वां जीवितमाददे
३.००३.००८ तं रामः प्रत्युवाचेदं कोपसंरक्तलोचनः
३.००३.००८ राक्षसं विकृताकारं विराधं पापचेतसं
३.००३.००९ क्षुद्र धिक्त्वां तु हीनार्थं मृत्युमन्वेषसे ध्रुवम्
३.००३.००९ रणे संप्राप्स्यसे तिष्ठ न मे जीवन् गमिष्यसि
३.००३.०१० ततः सज्यं धनुः कृत्वा रामः सुनिशिताञ्शरान्
३.००३.०१० सुशीघ्रमभिसंधाय राक्षसं निजघान ह
३.००३.०११ धनुषा ज्यागुणवता सप्तबाणान्मुमोच ह
३.००३.०११ रुक्मपुङ्खान्महावेगान् सुपर्णानिलतुल्यगान्
३.००३.०१२ ते शरीरं विराधस्य भित्त्वा बर्हिणवाससः
३.००३.०१२ निपेतुः शोणितादिग्धा धरण्यां पावकोपमाः
३.००३.०१३ स विनद्य महानादं शूलं शक्रध्वजोपमम्
३.००३.०१३ प्रगृह्याशोभत तदा व्यात्तानन इवान्तकः
३.००३.०१४ तच्छूलं वज्रसंकाशं गगने ज्वलनोपमम्
३.००३.०१४ द्वाभ्यां शराभ्यां चिच्छेद रामः शस्त्रभृतां वरः
३.००३.०१५ तस्य रौद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह
३.००३.०१५ रामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः
३.००३.०१६ स भग्नबाहुः संविग्नो निपपाताशु राक्षसः
३.००३.०१६ धरण्यां मेघसंकाशो वज्रभिन्न इवाचलः
३.००३.०१६ इदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम्
३.००३.०१७ कौसल्या सुप्रजास्तात रामस्त्वं विदितो मया
३.००३.०१७ वैदेही च महाभागा लक्ष्मणश्च महायशाः
३.००३.०१८ अभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम्
३.००३.०१८ तुम्बुरुर्नाम गन्धर्वः शप्तो वैश्वरणेन हि
३.००३.०१९ प्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः
३.००३.०१९ यदा दाशरथी रामस्त्वां वधिष्यति संयुगे
३.००३.०२० तदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति
३.००३.०२० इति वैश्रवणो राजा रम्भासक्तमुवाच ह
३.००३.०२१ अनुपस्थीयमानो मां संक्रुद्धो व्यजहार ह
३.००३.०२१ तव प्रसादान्मुक्तोऽहमभिशापात्सुदारुणात्
३.००३.०२१ भवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परंतप
३.००३.०२२ इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्
३.००३.०२२ अध्यर्धयोजने तात महर्षिः सूर्यसंनिभः
३.००३.०२३ तं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति
३.००३.०२३ अवटे चापि मां राम निक्षिप्य कुशली व्रज
३.००३.०२४ रक्षसां गतसत्त्वानामेष धर्मः सनातनः
३.००३.०२४ अवटे ये निधीयन्ते तेषां लोकाः सनातनाः
३.००३.०२५ एवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः
३.००३.०२५ बभूव स्वर्गसंप्राप्तो न्यस्तदेहो महाबलः
३.००३.०२६ तं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम्
३.००३.०२६ विराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्
३.००३.०२७ ततस्तु तौ काञ्चनचित्रकार्मुकौ॑ निहत्य रक्षः परिगृह्य मैथिलीम्
३.००३.०२७ विजह्रतुस्तौ मुदितौ महावने॑ दिवि स्थितौ चन्द्रदिवाकराविव
३.००४.००१ हत्वा तु तं भीमबलं विराधं राक्षसं वने
३.००४.००१ ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्
३.००४.००१ अब्रवील्लक्ष्मणां रामो भ्रातरं दीप्ततेजसं
३.००४.००२ कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः
३.००४.००२ अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्
३.००४.००३ आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह
३.००४.००४ तस्य देवप्रभावस्य तपसा भावितात्मनः
३.००४.००४ समीपे शरभङ्गस्य ददर्श महदद्भुतम्
३.००४.००५ विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम्
३.००४.००५ असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्
३.००४.००६ सुप्रभाभरणं देवं विरजोऽम्बरधारिणम्
३.००४.००६ तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः
३.००४.००७ हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्
३.००४.००७ ददर्शादूरतस्तस्य तरुणादित्यसंनिभम्
३.००४.००८ पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्
३.००४.००८ अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम्
३.००४.००९ चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने
३.००४.००९ गृहीते वननारीभ्यां धूयमाने च मूर्धनि
३.००४.०१० गन्धर्वामरसिद्धाश्च बहवः परमर्षयः
३.००४.०१० अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे
३.००४.०११ दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्
३.००४.०११ ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः
३.००४.०११ अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्
३.००४.०१२ इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम्
३.००४.०१२ शतं शतं कुण्डलिनो युवानः खड्गपाणयः
३.००४.०१३ उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः
३.००४.०१३ रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्
३.००४.०१४ एतद्धि किल देवानां वयो भवति नित्यदा
३.००४.०१४ यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः
३.००४.०१५ इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण
३.००४.०१५ यावज्जनाम्यहं व्यक्तं क एष द्युतिमान् रथे
३.००४.०१६ तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति
३.००४.०१६ अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति
३.००४.०१७ ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः
३.००४.०१७ शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत्
३.००४.०१८ इहोपयात्यसौ रामो यावन्मां नाभिभाषते
३.००४.०१८ निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति
३.००४.०१९ जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम्
३.००४.०१९ कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम्
३.००४.०२० इति वज्री तमामन्त्र्य मानयित्वा च तापसं
३.००४.०२० रथेन हरियुक्तेन ययौ दिवमरिंदमः
३.००४.०२१ प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः
३.००४.०२१ अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्
३.००४.०२२ तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः
३.००४.०२२ निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः
३.००४.०२३ ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः
३.००४.०२३ शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत्
३.००४.०२४ मामेष वरदो राम ब्रह्मलोकं निनीषति
३.००४.०२४ जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः
३.००४.०२५ अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः
३.००४.०२५ ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्
३.००४.०२६ समागम्य गमिष्यामि त्रिदिवं देवसेवितम्
३.००४.०२६ अक्षया नरशार्दूल जिता लोका मया शुभाः
३.००४.०२६ ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्
३.००४.०२७ एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः
३.००४.०२७ ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत्
३.००४.०२८ अहमेवाहरिष्यामि सर्वांल्लोकान्महामुने
३.००४.०२८ आवासं त्वहमिच्छामि प्रदिष्टमिह कानने
३.००४.०२९ राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै
३.००४.०२९ शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः
३.००४.०३० सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्
३.००४.०३० रमणीये वनोद्देशे स ते वासं विधास्यति
३.००४.०३१ एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्
३.००४.०३१ यावज्जहामि गात्राणि जीर्णं त्वचमिवोरगः
३.००४.०३२ ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित्
३.००४.०३२ शरभङ्गो महातेजाः प्रविवेश हुताशनम्
३.००४.०३३ तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः
३.००४.०३३ जीर्णं त्वचं तथास्थीनि यच्च मांसं च शोणितम्
३.००४.०३४ स च पावकसंकाशः कुमारः समपद्यत
३.००४.०३४ उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत
३.००४.०३५ स लोकानाहिताग्नीनामृषीणां च महात्मनाम्
३.००४.०३५ देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत
३.००४.०३६ स पुण्यकर्मा भुवने द्विजर्षभः॑ पितामहं सानुचरं ददर्श ह
३.००४.०३६ पितामहश्चापि समीक्ष्य तं द्विजं॑ ननन्द सुस्वागतमित्युवाच ह
३.००५.००१ शरभङ्गे दिवं प्राप्ते मुनिसंघाः समागताः
३.००५.००१ अभ्यगच्छन्त काकुत्स्थं रामं ज्वलिततेजसं
३.००५.००२ वैखानसा वालखिल्याः संप्रक्षाला मरीचिपाः
३.००५.००२ अश्मकुट्टाश्च बहवः पत्राहाराश्च तापसाः
३.००५.००३ दन्तोलूखलिनश्चैव तथैवोन्मज्जकाः परे
३.००५.००३ मुनयः सलिलाहारा वायुभक्षास्तथापरे
३.००५.००४ आकाशनिलयाश्चैव तथा स्थण्डिलशायिनः
३.००५.००४ तथोर्ध्ववासिनो दान्तास्तथार्द्रपटवाससः
३.००५.००५ सजपाश्च तपोनित्यास्तथा पञ्चतपोऽन्विताः
३.००५.००५ सर्वे ब्राह्म्या श्रिया जुष्टा दृढयोगसमाहिताः
३.००५.००५ शरभङ्गाश्रमे राममभिजग्मुश्च तापसाः
३.००५.००६ अभिगम्य च धर्मज्ञा रामं धर्मभृतां वरम्
३.००५.००६ ऊचुः परमधर्मज्ञमृषिसंघाः समाहिताः
३.००५.००७ त्वमिक्ष्वाकुकुलस्यास्य पृथिव्याश्च महारथः
३.००५.००७ प्रधानश्चासि नाथश्च देवानां मघवानिव
३.००५.००८ विश्रुतस्त्रिषु लोकेषु यशसा विक्रमेण च
३.००५.००८ पितृव्रतत्वं सत्यं च त्वयि धर्मश्च पुष्कलः
३.००५.००९ त्वामासाद्य महात्मानं धर्मज्ञं धर्मवत्सलम्
३.००५.००९ अर्थित्वान्नाथ वक्ष्यामस्तच्च नः क्षन्तुमर्हसि
३.००५.०१० अधार्मस्तु महांस्तात भवेत्तस्य महीपतेः
३.००५.०१० यो हरेद्बलिषड्भागं न च रक्षति पुत्रवत्
३.००५.०११ युञ्जानः स्वानिव प्राणान् प्राणैरिष्टान् सुतानिव
३.००५.०११ नित्ययुक्तः सदा रक्षन् सर्वान् विषयवासिनः
३.००५.०१२ प्राप्नोति शाश्वतीं राम कीर्तिं स बहुवार्षिकीम्
३.००५.०१२ ब्रह्मणः स्थानमासाद्य तत्र चापि महीयते
३.००५.०१३ यत्करोति परं धर्मं मुनिर्मूलफलाशनः
३.००५.०१३ तत्र राज्ञश्चतुर्भागः प्रजा धर्मेण रक्षतः
३.००५.०१४ सोऽयं ब्राह्मणभूयिष्ठो वानप्रस्थगणो महान्
३.००५.०१४ त्वन्नाथोऽनाथवद्राम राक्षसैर्वध्यते भृशम्
३.००५.०१५ एहि पश्य शरीराणि मुनीनां भावितात्मनाम्
३.००५.०१५ हतानां राक्षसैर्घोरैर्बहूनां बहुधा वने
३.००५.०१६ पम्पानदीनिवासानामनुमन्दाकिनीमपि
३.००५.०१६ चित्रकूटालयानां च क्रियते कदनं महत्
३.००५.०१७ एवं वयं न मृष्यामो विप्रकारं तपस्विनम्
३.००५.०१७ क्रियमाणं वने घोरं रक्षोभिर्भीमकर्मभिः
३.००५.०१८ ततस्त्वां शरणार्थं च शरण्यं समुपस्थिताः
३.००५.०१८ परिपालय नो राम वध्यमानान्निशाचरैः
३.००५.०१९ एतच्छ्रुत्वा तु काकुत्स्थस्तापसानां तपस्विनाम्
३.००५.०१९ इदं प्रोवाच धर्मात्मा सर्वानेव तपस्विनः
३.००५.०१९ नैवमर्हथ मां वक्तुमाज्ञाप्योऽहं तपस्विनम्
३.००५.०२० भवतामर्थसिद्ध्यर्थमागतोऽहं यदृच्छया
३.००५.०२० तस्य मेऽयं वने वासो भविष्यति महाफलः
३.००५.०२० तपस्विनां रणे शत्रून् हन्तुमिच्छामि राक्षसान्
३.००५.०२१ दत्त्वा वरं चापि तपोधनानां॑ धर्मे धृतात्मा सहलक्ष्मणेन
३.००५.०२१ तपोधनैश्चापि सहार्य वृत्तः॑ सुतीष्क्णमेवाभिजगाम वीरः
३.००६.००१ रामस्तु सहितो भ्रात्रा सीतया च परंतपः
३.००६.००१ सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः
३.००६.००२ स गत्वा दूरमध्वानं नदीस्तीर्त्व बहूदकाः
३.००६.००२ ददर्श विपुलं शैलं महामेघमिवोन्नतम्
३.००६.००३ ततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः
३.००६.००३ काननं तौ विविशतुः सीतया सह राघवौ
३.००६.००४ प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्
३.००६.००४ ददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्
३.००६.००५ तत्र तापसमासीनं मलपङ्कजटाधरम्
३.००६.००५ रामः सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत
३.००६.००६ रामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः
३.००६.००६ तन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम
३.००६.००७ स निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्
३.००६.००७ समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्
३.००६.००८ स्वागतं खलु ते वीर राम धर्मभृतां वर
३.००६.००८ आश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम्
३.००६.००९ प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः
३.००६.००९ देवलोकमितो वीर देहं त्यक्त्वा महीतले
३.००६.०१० चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः
३.००६.०१० इहोपयातः काकुत्स्थो देवराजः शतक्रतुः
३.००६.०१० सर्वांल्लोकाञ्जितानाह मम पुण्येन कर्मणा
३.००६.०११ तेषु देवर्षिजुष्टेषु जितेषु तपसा मया
३.००६.०११ मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः
३.००६.०१२ तमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम्
३.००६.०१२ प्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः
३.००६.०१३ अहमेवाहरिष्यामि स्वयं लोकान्महामुने
३.००६.०१३ आवासं त्वहमिच्छामि प्रदिष्टमिह कानने
३.००६.०१४ भवान् सर्वत्र कुशलः सर्वभूतहिते रतः
३.००६.०१४ आख्यातः शरभङ्गेन गौतमेन महात्मना
३.००६.०१५ एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः
३.००६.०१५ अब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः
३.००६.०१६ अयमेवाश्रमो राम गुणवान् रम्यतामिह
३.००६.०१६ ऋषिसंघानुचरितः सदा मूलफलैर्युतः
३.००६.०१७ इममाश्रममागम्य मृगसंघा महायशाः
३.००६.०१७ अटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः
३.००६.०१८ तच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः
३.००६.०१८ उवाच वचनं धीरो विकृष्य सशरं धनुः
३.००६.०१९ तानहं सुमहाभाग मृगसंघान् समागतान्
३.००६.०१९ हन्यां निशितधारेण शरेणाशनिवर्चसा
३.००६.०२० भवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः
३.००६.०२० एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये
३.००६.०२१ तमेवमुक्त्वा वरदं रामः संध्यामुपागमत्
३.००६.०२१ अन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत्
३.००६.०२२ ततः शुभं तापसभोज्यमन्नं॑ स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्
३.००६.०२२ ताभ्यां सुसत्कृत्य ददौ महात्मा॑ संध्यानिवृत्तौ रजनीं समीक्ष्य
३.००७.००१ रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः
३.००७.००१ परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत
३.००७.००२ उत्थाय तु यथाकालं राघवः सह सीतया
३.००७.००२ उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना
३.००७.००३ अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ
३.००७.००३ काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने
३.००७.००४ उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः
३.००७.००४ सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्
३.००७.००५ सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः
३.००७.००५ आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः
३.००७.००६ त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्
३.००७.००६ ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्
३.००७.००७ अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैः
३.००७.००७ धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः
३.००७.००८ अविषह्यातपो यावत्सूर्यो नातिविराजिते
३.००७.००८ अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः
३.००७.००९ तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः
३.००७.००९ ववन्दे सहसौमित्रिः सीतया सह राघवः
३.००७.०१० तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः
३.००७.०१० गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत्
३.००७.०११ अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह
३.००७.०११ सीतया चानया सार्धं छाययेवानुवृत्तया
३.००७.०१२ पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्
३.००७.०१२ एषां तपस्विनां वीर तपसा भावितात्मनाम्
३.००७.०१३ सुप्राज्यफलमूलानि पुष्पितानि वनानि च
३.००७.०१३ प्रशान्तमृगयूथानि शान्तपक्षिगणानि च
३.००७.०१४ फुल्लपङ्कजषडानि प्रसन्नसलिलानि च
३.००७.०१४ कारण्डवविकीर्णानि तटाकानि सरांसि च
३.००७.०१५ द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च
३.००७.०१५ रमणीयान्यरण्यानि मयूराभिरुतानि च
३.००७.०१६ गम्यतां वत्स सौमित्रे भवानपि च गच्छतु
३.००७.०१६ आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम
३.००७.०१७ एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः
३.००७.०१७ प्रदक्षिणं मुनिं कृता प्रस्थातुमुपचक्रमे
३.००७.०१८ ततः शुभतरे तूणी धनुषी चायतेक्षणा
३.००७.०१८ ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः
३.००७.०१९ आबध्य च शुभे तूणी चापे चादाय सस्वने
३.००७.०१९ निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ
३.००८.००१ सुतीक्ष्णेनाभ्यनुज्ञातं प्रस्थितं रघुनन्दनम्
३.००८.००१ वैदेही स्निग्धया वाचा भर्तारमिदमब्रवीत्
३.००८.००२ अयं धर्मः सुसूक्ष्मेण विधिना प्राप्यते महान्
३.००८.००२ निवृत्तेन च शक्योऽयं व्यसनात्कामजादिह
३.००८.००३ त्रीण्येव व्यसनान्यत्र कामजानि भवन्त्युत
३.००८.००३ मिथ्या वाक्यं परमकं तस्माद्गुरुतरावुभौ
३.००८.००३ परदाराभिगमनं विना वैरं च रौद्रता
३.००८.००४ मिथ्यावाक्यं न ते भूतं न भविष्यति राघव
३.००८.००४ कुतोऽभिलषणं स्त्रीणां परेषां धर्मनाशनम्
३.००८.००५ तच्च सर्वं महाबाहो शक्यं वोढुं जितेन्द्रियैः
३.००८.००५ तव वश्येन्द्रियत्वं च जानामि शुभदर्शन
३.००८.००६ तृतीयं यदिदं रौद्रं परप्राणाभिहिंसनम्
३.००८.००६ निर्वैरं क्रियते मोहात्तच्च ते समुपस्थितम्
३.००८.००७ प्रतिज्ञातस्त्वया वीर दण्डकारण्यवासिनाम्
३.००८.००७ ऋषीणां रक्षणार्थाय वधः संयति रक्षसाम्
३.००८.००८ एतन्निमित्तं च वनं दण्डका इति विश्रुतम्
३.००८.००८ प्रस्थितस्त्वं सह भ्रात्रा धृतबाणशरासनः
३.००८.००९ ततस्त्वां प्रस्थितं दृष्ट्वा मम चिन्ताकुलं मनः
३.००८.००९ त्वद्वृत्तं चिन्तयन्त्या वै भवेन्निःश्रेयसं हितम्
३.००८.०१० न हि मे रोचते वीर गमनं दण्डकान् प्रति
३.००८.०१० कारणं तत्र वक्ष्यामि वदन्त्याः श्रूयतां मम
३.००८.०११ त्वं हि बाणधनुष्पाणिर्भ्रात्रा सह वनं गतः
३.००८.०११ दृष्ट्वा वनचरान् सर्वान् कच्चित्कुर्याः शरव्ययम्
३.००८.०१२ क्षत्रियाणामिह धनुर्हुताशस्येन्धनानि च
३.००८.०१२ समीपतः स्थितं तेजोबलमुच्छ्रयते भृशम्
३.००८.०१३ पुरा किल महाबाहो तपस्वी सत्यवाक्शुचिः
३.००८.०१३ कस्मिंश्चिदभवत्पुण्ये वने रतमृगद्विजे
३.००८.०१४ तस्यैव तपसो विघ्नं कर्तुमिन्द्रः शचीपतिः
३.००८.०१४ खड्गपाणिरथागच्छदाश्रमं भट रूपधृक्
३.००८.०१५ तस्मिंस्तदाश्रमपदे निहितः खड्ग उत्तमः
३.००८.०१५ स न्यासविधिना दत्तः पुण्ये तपसि तिष्ठतः
३.००८.०१६ स तच्छस्त्रमनुप्राप्य न्यासरक्षणतत्परः
३.००८.०१६ वने तु विचरत्येव रक्षन् प्रत्ययमात्मनः
३.००८.०१७ यत्र गच्छत्युपादातुं मूलानि च फलानि च
३.००८.०१७ न विना याति तं खड्गं न्यासरक्षणतत्परः
३.००८.०१८ नित्यं शस्त्रं परिवहन् क्रमेण स तपोधनः
३.००८.०१८ चकार रौद्रीं स्वां बुद्धिं त्यक्त्वा तपसि निश्चयम्
३.००८.०१९ ततः स रौद्राभिरतः प्रमत्तोऽधर्मकर्षितः
३.००८.०१९ तस्य शस्त्रस्य संवासाज्जगाम नरकं मुनिः
३.००८.०२० स्नेहाच्च बहुमानाच्च स्मारये त्वां न शिक्षये
३.००८.०२० न कथं चन सा कार्या हृहीतधनुषा त्वया
३.००८.०२१ बुद्धिर्वैरं विना हन्तुं राक्षसान् दण्डकाश्रितान्
३.००८.०२१ अपराधं विना हन्तुं लोकान् वीर न कामये
३.००८.०२२ क्षत्रियाणां तु वीराणां वनेषु नियतात्मनाम्
३.००८.०२२ धनुषा कार्यमेतावदार्तानामभिरक्षणम्
३.००८.०२३ क्व च शस्त्रं क्व च वनं क्व च क्षात्रं तपः क्व च
३.००८.०२३ व्याविद्धमिदमस्माभिर्देशधर्मस्तु पूज्यताम्
३.००८.०२४ तदार्यकलुषा बुद्धिर्जायते शस्त्रसेवनात्
३.००८.०२४ पुनर्गत्वा त्वयोध्यायां क्षत्रधर्मं चरिष्यसि
३.००८.०२५ अक्षया तु भवेत्प्रीतिः श्वश्रू श्वशुरयोर्मम
३.००८.०२५ यदि राज्यं हि संन्यस्य भवेस्त्वं निरतो मुनिः
३.००८.०२६ धर्मादर्थः प्रभवति धर्मात्प्रभवते सुखम्
३.००८.०२६ धर्मेण लभते सर्वं धर्मसारमिदं जगत्
३.००८.०२७ आत्मानं नियमैस्तैस्तैः कर्षयित्वा प्रयत्नतः
३.००८.०२७ प्राप्यते निपुणैर्धर्मो न सुखाल्लभ्यते सुखम्
३.००८.०२८ नित्यं शुचिमतिः सौम्य चर धर्मं तपोवने
३.००८.०२८ सर्वं हि विदितं तुभ्यं त्रैलोक्यमपि तत्त्वतः
३.००८.०२९ स्त्रीचापलादेतदुदाहृतं मे॑ धर्मं च वक्तुं तव कः समर्थः
३.००८.०२९ विचार्य बुद्ध्या तु सहानुजेन॑ यद्रोचते तत्कुरु माचिरेण
३.००९.००१ वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया
३.००९.००१ श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्
३.००९.००२ हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः
३.००९.००२ कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे
३.००९.००३ किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः
३.००९.००३ क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति
३.००९.००४ ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः
३.००९.००४ मां सीते स्वयमागम्य शरण्याः शरणं गताः
३.००९.००५ वसन्तो धर्मनिरता वने मूलफलाशनाः
३.००९.००५ न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः
३.००९.००६ काले काले च निरता नियमैर्विविधैर्वने
३.००९.००६ भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः
३.००९.००७ ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः
३.००९.००७ अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः
३.००९.००८ मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्
३.००९.००८ कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम्
३.००९.००९ प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला
३.००९.००९ यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः
३.००९.००९ किं करोमीति च मया व्याहृतं द्विजसंनिधौ
३.००९.०१० सर्वैरेव समागम्य वागियं समुदाहृता
३.००९.०१० राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः
३.००९.०१० अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति
३.००९.०११ होमकाले तु संप्राप्ते पर्वकालेषु चानघ
३.००९.०११ धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः
३.००९.०१२ राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्
३.००९.०१२ गतिं मृगयमाणानां भवान्नः परमा गतिः
३.००९.०१३ कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान्
३.००९.०१३ चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम्
३.००९.०१४ बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव
३.००९.०१४ तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः
३.००९.०१५ तदर्द्यमानान् रक्षोभिर्दण्डकारण्यवासिभिः
३.००९.०१५ रक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने
३.००९.०१६ मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम्
३.००९.०१६ ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे
३.००९.०१७ संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्
३.००९.०१७ मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा
३.००९.०१८ अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्
३.००९.०१८ न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः
३.००९.०१९ तदवश्यं मया कार्यमृषीणां परिपालनम्
३.००९.०१९ अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः
३.००९.०२० मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः
३.००९.०२० परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते
३.००९.०२० सदृशं चानुरूपं च कुलस्य तव शोभने
३.००९.०२१ इत्येवमुक्त्वा वचनं महात्मा॑ सीतां प्रियां मैथिल राजपुत्रीम्
३.००९.०२१ रामो धनुष्मान् सहलक्ष्मणेन॑ जगाम रम्याणि तपोवनानि
३.०१०.००१ अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा
३.०१०.००१ पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह
३.०१०.००२ तौ पश्यमानौ विविधाञ्शैलप्रस्थान् वनानि च
३.०१०.००२ नदीश्च विविधा रम्या जग्मतुः सह सीतया
३.०१०.००३ सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः
३.०१०.००३ सरांसि च सपद्मानि युतानि जलजैः खगैः
३.०१०.००४ यूथबद्धांश्च पृषतान्मदोन्मत्तान् विषाणिनः
३.०१०.००४ महिषांश्च वराहांश्च गजांश्च द्रुमवैरिणः
३.०१०.००५ ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे
३.०१०.००५ ददृशुः सहिता रम्यं तटाकं योजनायतम्
३.०१०.००६ पद्मपुष्करसंबाधं गजयूथैरलंकृतम्
३.०१०.००६ सारसैर्हंसकादम्बैः संकुलं जलचारिभिः
३.०१०.००७ प्रसन्नसलिले रम्यतस्मिन् सरसि शुश्रुवे
३.०१०.००७ गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते
३.०१०.००८ ततः कौतूहलाद्रामो लक्ष्मणश्च महारथः
३.०१०.००८ मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे
३.०१०.००९ इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने
३.०१०.००९ कौतूहलं महज्जातं किमिदं साधु कथ्यताम्
३.०१०.०१० तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा
३.०१०.०१० प्रभावं सरसः कृत्स्नमाख्यातुमुपचक्रमे
३.०१०.०११ इदं पञ्चाप्सरो नाम तटाकं सार्वकालिकम्
३.०१०.०११ निर्मितं तपसा राम मुनिना माण्डकर्णिना
३.०१०.०१२ स हि तेपे तपस्तीव्रं माण्डकर्णिर्महामुनिः
३.०१०.०१२ दशवर्षसहस्राणि वायुभक्षो जलाश्रय
३.०१०.०१३ ततः प्रव्यथिताः सर्वे देवाः साग्निपुरोगमाः
३.०१०.०१३ अब्रुवन् वचनं सर्वे परस्पर समागताः
३.०१०.०१३ अस्मकं कस्य चित्स्थानमेष प्रार्थयते मुनिः
३.०१०.०१४ ततः कर्तुं तपोविघ्नं सर्वैर्देवैर्नियोजिताः
३.०१०.०१४ प्रधानाप्सरसः पञ्चविद्युच्चलितवर्चसः
३.०१०.०१५ अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः
३.०१०.०१५ नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये
३.०१०.०१६ ताश्चैवाप्सरसः पञ्चमुनेः पत्नीत्वमागताः
३.०१०.०१६ तटाके निर्मितं तासामस्मिन्नन्तर्हितं गृहम्
३.०१०.०१७ तत्रैवाप्सरसः पञ्चनिवसन्त्यो यथासुखम्
३.०१०.०१७ रमयन्ति तपोयोगान्मुनिं यौवनमास्थितम्
३.०१०.०१८ तासां संक्रीडमानानामेष वादित्रनिःस्वनः
३.०१०.०१८ श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः
३.०१०.०१९ आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः
३.०१०.०१९ राघवः प्रतिजग्राह सह भ्रात्रा महायशाः
३.०१०.०२० एवं कथयमानस्य ददर्शाश्रममण्डलम्
३.०१०.०२० कुशचीरपरिक्षिप्तं नानावृक्षसमावृतम्
३.०१०.०२१ प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः
३.०१०.०२१ तदा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले
३.०१०.०२२ उषित्वा सुसुखं तत्र पूर्ज्यमानो महर्षिभिः
३.०१०.०२२ जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम्
३.०१०.०२३ येषामुषितवान् पूर्वं सकाशे स महास्त्रवित्
३.०१०.०२३ क्व चित्परिदशान्मासानेकं संवत्सरं क्व चित्
३.०१०.०२४ क्व चिच्च चतुरो मासान् पञ्चषट्चापरान् क्व चित्
३.०१०.०२४ अपरत्राधिकान्मासानध्यर्धमधिकं क्व चित्
३.०१०.०२५ त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम्
३.०१०.०२५ तथा संवसतस्तस्य मुनीनामाश्रमेषु वै
३.०१०.०२५ रमतश्चानुकुल्येन ययुः संवत्सरा दश
३.०१०.०२६ परिसृत्य च धर्मज्ञो राघवः सह सीतया
३.०१०.०२६ सुतीक्ष्णस्याश्रमं श्रीमान् पुनरेवाजगाम ह
३.०१०.०२७ स तमाश्रममागम्य मुनिभिः प्रतिपूजितः
३.०१०.०२७ तत्रापि न्यवसद्रामः कं चित्कालमरिंदमः
३.०१०.०२८ अथाश्रमस्थो विनयात्कदा चित्तं महामुनिम्
३.०१०.०२८ उपासीनः स काकुत्स्थः सुतीक्ष्णमिदमब्रवीत्
३.०१०.०२९ अस्मिन्नरण्ये भगवन्नगस्त्यो मुनिसत्तमः
३.०१०.०२९ वसतीति मया नित्यं कथाः कथयतां श्रुतम्
३.०१०.०३० न तु जानामि तं देशं वनस्यास्य महत्तया
३.०१०.०३० कुत्राश्रमपदं पुण्यं महर्षेस्तस्य धीमतः
३.०१०.०३१ प्रसादात्तत्र भवतः सानुजः सह सीतया
३.०१०.०३१ अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम्
३.०१०.०३२ मनोरथो महानेष हृदि संपरिवर्तते
३.०१०.०३२ यदहं तं मुनिवरं शुश्रूषेयमपि स्वयम्
३.०१०.०३३ इति रामस्य स मुनिः श्रुत्वा धर्मात्मनो वचः
३.०१०.०३३ सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम्
३.०१०.०३४ अहमप्येतदेव त्वां वक्तुकामः सलक्ष्मणम्
३.०१०.०३४ अगस्त्यमभिगच्छेति सीतया सह राघव
३.०१०.०३५ दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम्
३.०१०.०३५ अहमाख्यासि ते वत्स यत्रागस्त्यो महामुनिः
३.०१०.०३६ योजनान्याश्रमात्तात याहि चत्वारि वै ततः
३.०१०.०३६ दक्षिणेन महाञ्श्रीमानगस्त्यभ्रातुराश्रमः
३.०१०.०३७ स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते
३.०१०.०३७ बहुपुष्पफले रम्ये नानाशकुनिनादिते
३.०१०.०३८ पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाः शिवाः
३.०१०.०३८ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः
३.०१०.०३९ तत्रैकां रजनीमुष्य प्रभाते राम गम्यताम्
३.०१०.०३९ दक्षिणां दिशमास्थाय वनखण्डस्य पार्श्वतः
३.०१०.०४० तत्रागस्त्याश्रमपदं गत्वा योजनमन्तरम्
३.०१०.०४० रमणीये वनोद्देशे बहुपादप संवृते
३.०१०.०४० रंस्यते तत्र वैदेही लक्ष्मणश्च त्वया सह
३.०१०.०४१ स हि रम्यो वनोद्देशो बहुपादपसंकुलः
३.०१०.०४१ यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम्
३.०१०.०४१ अद्यैव गमने बुद्धिं रोचयस्व महायशः
३.०१०.०४२ इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च
३.०१०.०४२ प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सह सीतया
३.०१०.०४३ पश्यन् वनानि चित्राणि पर्वपांश्चाभ्रसंनिभान्
३.०१०.०४३ सरांसि सरितश्चैव पथि मार्गवशानुगाः
३.०१०.०४४ सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम्
३.०१०.०४४ इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत्
३.०१०.०४५ एतदेवाश्रमपदं नूनं तस्य महात्मनः
३.०१०.०४५ अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः
३.०१०.०४६ यथा हीमे वनस्यास्य ज्ञाताः पथि सहस्रशः
३.०१०.०४६ संनताः फलभरेण पुष्पभारेण च द्रुमाः
३.०१०.०४७ पिप्पलीनां च पक्वानां वनादस्मादुपागतः
३.०१०.०४७ गन्धोऽयं पवनोत्क्षिप्तः सहसा कटुकोदयः
३.०१०.०४८ तत्र तत्र च दृश्यन्ते संक्षिप्ताः काष्ठसंचयाः
३.०१०.०४८ लूनाश्च पथि दृश्यन्ते दर्भा वैदूर्यवर्चसः
३.०१०.०४९ एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम्
३.०१०.०४९ पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते
३.०१०.०५० विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः
३.०१०.०५० पुष्पोपहारं कुर्वन्ति कुसुमैः स्वयमार्जितैः
३.०१०.०५१ तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम्
३.०१०.०५१ अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति
३.०१०.०५२ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया
३.०१०.०५२ यस्य भ्रात्रा कृतेयं दिक्शरण्या पुण्यकर्मणा
३.०१०.०५३ इहैकदा किल क्रूरो वातापिरपि चेल्वलः
३.०१०.०५३ भ्रातरौ सहितावास्तां ब्राह्मणघ्नौ महासुरौ
३.०१०.०५४ धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन्
३.०१०.०५४ आमन्त्रयति विप्रान् स श्राद्धमुद्दिश्य निर्घृणः
३.०१०.०५५ भ्रातरं संस्कृतं भ्राता ततस्तं मेषरूपिणम्
३.०१०.०५५ तान् द्विजान् भोजयामास श्राद्धदृष्टेन कर्मणा
३.०१०.०५६ ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत्
३.०१०.०५६ वातापे निष्क्रमस्वेति स्वरेण महता वदन्
३.०१०.०५७ ततो भ्रातुर्वचः श्रुत्वा वातापिर्मेषवन्नदन्
३.०१०.०५७ भित्त्वा भित्वा शरीराणि ब्राह्मणानां विनिष्पतत्
३.०१०.०५८ ब्राह्मणानां सहस्राणि तैरेवं कामरूपिभिः
३.०१०.०५८ विनाशितानि संहत्य नित्यशः पिशिताशनैः
३.०१०.०५९ अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा
३.०१०.०५९ अनुभूय किल श्राद्धे भक्षितः स महासुरः
३.०१०.०६० ततः संपन्नमित्युक्त्वा दत्त्वा हस्तावसेचनम्
३.०१०.०६० भ्रातरं निष्क्रमस्वेति इल्वलः सोऽभ्यभाषत
३.०१०.०६१ तं तथा भाषमाणं तु भ्रातरं विप्रघातिनम्
३.०१०.०६१ अब्रवीत्प्रहसन् धीमानगस्त्यो मुनिसत्तमः
३.०१०.०६२ कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः
३.०१०.०६२ भ्रातुस्ते मेष रूपस्य गतस्य यमसादनम्
३.०१०.०६३ अथ तस्य वचः श्रुत्वा भ्रातुर्निधनसंश्रितम्
३.०१०.०६३ प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः
३.०१०.०६४ सोऽभ्यद्रवद्द्विजेन्द्रं तं मुनिना दीप्ततेजसा
३.०१०.०६४ चक्षुषानलकल्पेन निर्दग्धो निधनं गतः
३.०१०.०६५ तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः
३.०१०.०६५ विप्रानुकम्पया येन कर्मेदं दुष्करं कृतम्
३.०१०.०६६ एवं कथयमानस्य तस्य सौमित्रिणा सह
३.०१०.०६६ रामस्यास्तं गतः सूर्यः संध्याकालोऽभ्यवर्तत
३.०१०.०६७ उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि
३.०१०.०६७ प्रविवेशाश्रमपदं तमृषिं चाभ्यवादयन्
३.०१०.०६८ सम्यक्प्रतिगृहीतस्तु मुनिना तेन राघवः
३.०१०.०६८ न्यवसत्तां निशामेकां प्राश्य मूलफलानि च
३.०१०.०६९ तस्यां रात्र्यां व्यतीतायां विमले सूर्यमण्डले
३.०१०.०६९ भ्रातरं तमगस्त्यस्य आमन्त्रयत राघवः
३.०१०.०७० अभिवादये त्वा भगवन् सुखमध्युषितो निशाम्
३.०१०.०७० आमन्त्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम्
३.०१०.०७१ गम्यतामिति तेनोक्तो जगाम रघुनन्दनः
३.०१०.०७१ यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन्
३.०१०.०७२ नीवारान् पनसांस्तालांस्तिमिशान् वञ्जुलान् धवान्
३.०१०.०७२ चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिन्दुकान्
३.०१०.०७३ पुष्पितान् पुष्पिताग्राभिर्लताभिरनुवेष्टितान्
३.०१०.०७३ ददर्श रामः शतशस्तत्र कान्तारपादपान्
३.०१०.०७४ हस्तिहस्तैर्विमृदितान् वानरैरुपशोभितान्
३.०१०.०७४ मत्तैः शकुनिसंघैश्च शतशः प्रतिनादितान्
३.०१०.०७५ ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः
३.०१०.०७५ पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम्
३.०१०.०७६ स्निग्धपत्रा यथा वृक्षा यथा क्षान्ता मृगद्विजाः
३.०१०.०७६ आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः
३.०१०.०७७ अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा
३.०१०.०७७ आश्रमो दृश्यते तस्य परिश्रान्त श्रमापहः
३.०१०.०७८ प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः
३.०१०.०७८ प्रशान्तमृगयूथश्च नानाशकुनिनादितः
३.०१०.०७९ निगृह्य तरसा मृत्युं लोकानां हितकाम्यया
३.०१०.०७९ दक्षिणा दिक्कृता येन शरण्या पुण्यकर्मणा
३.०१०.०८० तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः
३.०१०.०८० दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते
३.०१०.०८१ यदा प्रभृति चाक्रान्ता दिगियं पुण्यकर्मणा
३.०१०.०८१ तदा प्रभृति निर्वैराः प्रशान्ता रजनीचराः
३.०१०.०८२ नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा
३.०१०.०८२ प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः
३.०१०.०८३ मार्गं निरोद्धुं सततं भास्करस्याचलोत्तमः
३.०१०.०८३ संदेशं पालयंस्तस्य विन्ध्यशौलो न वर्धते
३.०१०.०८४ अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः
३.०१०.०८४ अगस्त्यस्याश्रमः श्रीमान् विनीतमृगसेवितः
३.०१०.०८५ एष लोकार्चितः साधुर्हिते नित्यं रतः सताम्
३.०१०.०८५ अस्मानधिगतानेष श्रेयसा योजयिष्यति
३.०१०.०८६ आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम्
३.०१०.०८६ शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो
३.०१०.०८७ अत्र देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
३.०१०.०८७ अगस्त्यं नियताहारं सततं पर्युपासते
३.०१०.०८८ नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः
३.०१०.०८८ नृशंसः काम वृत्तो वा मुनिरेष तथाविधः
३.०१०.०८९ अत्र देवाश्च यक्षाश्च नागाश्च पतगैः सह
३.०१०.०८९ वसन्ति नियताहारो धर्ममाराधयिष्णवः
३.०१०.०९० अत्र सिद्धा महात्मानो विमानैः सूर्यसंनिभैः
३.०१०.०९० त्यक्त्वा देहान्नवैर्देहैः स्वर्याताः परमर्षयः
३.०१०.०९१ यक्षत्वममरत्वं च राज्यानि विविधानि च
३.०१०.०९१ अत्र देवाः प्रयच्छन्ति भूतैराराधिताः शुभैः
३.०१०.०९२ आगताः स्माश्रमपदं सौमित्रे प्रविशाग्रतः
३.०१०.०९२ निवेदयेह मां प्राप्तमृषये सह सीतया
३.०११.००१ स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः
३.०११.००१ अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह
३.०११.००२ राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली
३.०११.००२ रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया
३.०११.००३ लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः
३.०११.००३ अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः
३.०११.००४ ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्
३.०११.००४ द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्
३.०११.००५ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः
३.०११.००५ तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्
३.०११.००६ स प्रविश्य मुनि श्रेष्ठं तपसा दुष्प्रधर्षणम्
३.०११.००६ कृताञ्जलिरुवाचेदं रामागमनमञ्जसा
३.०११.००७ पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च
३.०११.००७ प्रविष्टावाश्रमपदं सीतया सह भार्यया
३.०११.००८ द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ
३.०११.००८ यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि
३.०११.००९ ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्
३.०११.००९ वैदेहीं च महाभागामिदं वचनमब्रवीत्
३.०११.०१० दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः
३.०११.०१० मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति
३.०११.०११ गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः
३.०११.०११ प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः
३.०११.०१२ एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना
३.०११.०१२ अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः
३.०११.०१३ ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत्
३.०११.०१३ क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्
३.०११.०१४ ततो गत्वाश्रमपदं शिष्येण सहलक्ष्मणः
३.०११.०१४ दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्
३.०११.०१५ तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्
३.०११.०१५ प्रावेशयद्यथान्यायं सत्कारार्थं सुसत्कृतम्
३.०११.०१६ प्रविवेश ततो रामः सीतया सहलक्ष्मणः
३.०११.०१६ प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्
३.०११.०१७ स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च
३.०११.०१७ विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः
३.०११.०१८ सोमस्थानं भगस्थानं स्थानं कौबेरमेव च
३.०११.०१८ धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च
३.०११.०१९ ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्
३.०११.०१९ तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं
३.०११.०१९ अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्
३.०११.०२० एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः
३.०११.०२० औदार्येणावगच्छामि निधानं तपसामिमम्
३.०११.०२१ एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसं
३.०११.०२१ जग्राह परमप्रीतस्तस्य पादौ परंतपः
३.०११.०२२ अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः
३.०११.०२२ सीतया सह वैदेह्या तदा राम सलक्ष्मणः
३.०११.०२३ प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः
३.०११.०२३ कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत्
३.०११.०२४ अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य च
३.०११.०२४ वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ
३.०११.०२५ प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः
३.०११.०२५ उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्
३.०११.०२६ अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्
३.०११.०२६ दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्
३.०११.०२७ राजा सर्वस्य लोकस्य धर्मचारी महारथः
३.०११.०२७ पूजनीयश्च मान्यश्च भवान् प्राप्तः प्रियातिथिः
३.०११.०२८ एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम्
३.०११.०२८ पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्
३.०११.०२९ इदं दिव्यं महच्चापं हेमवज्रविभूषितम्
३.०११.०२९ वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा
३.०११.०३० अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः
३.०११.०३० दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ
३.०११.०३१ संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः
३.०११.०३१ महाराजत कोशोऽयमसिर्हेमविभूषितः
३.०११.०३२ अनेन धनुषा राम हत्वा संख्ये महासुरान्
३.०११.०३२ आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्
३.०११.०३३ तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद
३.०११.०३३ जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा
३.०११.०३४ एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्
३.०११.०३४ दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्
३.०१२.००१ राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण
३.०१२.००१ अभिवादयितुं यन्मां प्राप्तौ स्थः सह सीतया
३.०१२.००२ अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः
३.०१२.००२ व्यक्तमुत्कण्ठते चापि मैथिली जनकात्मजा
३.०१२.००३ एषा हि सुकुमारी च दुःखैश्च न विमानिता
३.०१२.००३ प्राज्यदोषं वनं प्रप्ता भर्तृस्नेहप्रचोदिता
३.०१२.००४ यथैषा रमते राम इह सीता तथा कुरु
३.०१२.००४ दुष्करं कृतवत्येषा वने त्वामनुगच्छती
३.०१२.००५ एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनन्दन
३.०१२.००५ समस्थमनुरज्यन्ते विषमस्थं त्यजन्ति च
३.०१२.००६ शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा
३.०१२.००६ गरुडानिलयोः शैघ्र्यमनुगच्छन्ति योषितः
३.०१२.००७ इयं तु भवतो भार्या दोषैरेतैर्विवर्जिताः
३.०१२.००७ श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुन्धती
३.०१२.००८ अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह
३.०१२.००८ वैदेह्या चानया राम वत्स्यसि त्वमरिंदम
३.०१२.००९ एवमुक्तस्तु मुनिना राघवः संयताञ्जलिः
३.०१२.००९ उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम्
३.०१२.०१० धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः
३.०१२.०१० गुणैः सभ्रातृभार्यस्य वरदः परितुष्यति
३.०१२.०११ किं तु व्यादिश मे देशं सोदकं बहुकाननम्
३.०१२.०११ यत्राश्रमपदं कृत्वा वसेयं निरतः सुखम्
३.०१२.०१२ ततोऽब्रवीन्मुनि श्रेष्ठः श्रुत्वा रामस्य भाषितम्
३.०१२.०१२ ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः
३.०१२.०१३ इतो द्वियोजने तात बहुमूलफलोदकः
३.०१२.०१३ देशो बहुमृगः श्रीमान् पञ्चवट्यभिविश्रुतः
३.०१२.०१४ तत्र गत्वाश्रमपदं कृत्वा सौमित्रिणा सह
३.०१२.०१४ रमस्व त्वं पितुर्वाक्यं यथोक्तमनुपालयन्
३.०१२.०१५ विदितो ह्येष वृत्तान्तो मम सर्वस्तवानघ
३.०१२.०१५ तपसश्च प्रभावेन स्नेहाद्दशरथस्य च
३.०१२.०१६ हृदयस्थश्च ते छन्दो विज्ञातस्तपसा मया
३.०१२.०१६ इह वासं प्रतिज्ञाय मया सह तपोवने
३.०१२.०१७ अतश्च त्वामहं ब्रूमि गच्छ पञ्चवटीमिति
३.०१२.०१७ स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते
३.०१२.०१८ स देशः श्लाघनीयश्च नातिदूरे च राघव
३.०१२.०१८ गोदावर्याः समीपे च मैथिली तत्र रंस्यते
३.०१२.०१९ प्राज्यमूलफलैश्चैव नानाद्विज गणैर्युतः
३.०१२.०१९ विविक्तश्च महाबाहो पुण्यो रम्यस्तथैव च
३.०१२.०२० भवानपि सदारश्च शक्तश्च परिरक्षणे
३.०१२.०२० अपि चात्र वसन् रामस्तापसान् पालयिष्यसि
३.०१२.०२१ एतदालक्ष्यते वीर मधुकानां महद्वनम्
३.०१२.०२१ उत्तरेणास्य गन्तव्यं न्यग्रोधमभिगच्छता
३.०१२.०२२ ततः स्थलमुपारुह्य पर्वतस्याविदूरतः
३.०१२.०२२ ख्यातः पञ्चवटीत्येव नित्यपुष्पितकाननः
३.०१२.०२३ अगस्त्येनैवमुक्तस्तु रामः सौमित्रिणा सह
३.०१२.०२३ सात्कृत्यामन्त्रयामास तमृषिं सत्यवादिनम्
३.०१२.०२४ तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवन्दनौ
३.०१२.०२४ तदाश्रमात्पञ्चवटीं जग्मतुः सह सीतया
३.०१२.०२५ गृहीतचापौ तु नराधिपात्मजौ॑ विषक्ततूणी समरेष्वकातरौ
३.०१२.०२५ यथोपदिष्टेन पथा महर्षिणा॑ प्रजग्मतुः पञ्चवटीं समाहितौ
३.०१३.००१ अथ पञ्चवटीं गच्छन्नन्तरा रघुनन्दनः
३.०१३.००१ आससाद महाकायं गृध्रं भीमपराक्रमम्
३.०१३.००२ तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ
३.०१३.००२ मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति
३.०१३.००३ स तौ मधुरया वाचा सौम्यया प्रीणयन्निव
३.०१३.००३ उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः
३.०१३.००४ स तं पितृसखं बुद्ध्वा पूजयामास राघवः
३.०१३.००४ स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च
३.०१३.००५ रामस्य वचनं श्रुत्वा कुलमात्मानमेव च
३.०१३.००५ आचचक्षे द्विजस्तस्मै सर्वभूतसमुद्भवम्
३.०१३.००६ पूर्वकाले महाबाहो ये प्रजापतयोऽभवन्
३.०१३.००६ तान्मे निगदतः सर्वानादितः शृणु राघव
३.०१३.००७ कर्दमः प्रथमस्तेषां विकृतस्तदनन्तरम्
३.०१३.००७ शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान्
३.०१३.००८ स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः
३.०१३.००८ पुलस्त्यश्चाङ्गिराश्चैव प्रचेताः पुलहस्तथा
३.०१३.००९ दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव
३.०१३.००९ कश्यपश्च महातेजास्तेषामासीच्च पश्चिमः
३.०१३.०१० प्रजापतेस्तु दक्षस्य बभूवुरिति नः श्रुतम्
३.०१३.०१० षष्टिर्दुहितरो राम यशस्विन्यो महायशः
३.०१३.०११ कश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः
३.०१३.०११ अदितिं च दितिं चैव दनूमपि च कालकाम्
३.०१३.०१२ ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि
३.०१३.०१२ तास्तु कन्यास्ततः प्रीतः कश्यपः पुनरब्रवीत्
३.०१३.०१३ पुत्रांस्त्रैलोक्यभर्तॄन् वै जनयिष्यथ मत्समान्
३.०१३.०१३ अदितिस्तन्मना राम दितिश्च दनुरेव च
३.०१३.०१४ कालका च महाबाहो शेषास्त्वमनसोऽभवन्
३.०१३.०१४ अदित्यां जज्ञिरे देवास्त्रयस्त्रिंशदरिंदम
३.०१३.०१५ आदित्या वसवो रुद्रा अश्विनौ च परंतप
३.०१३.०१५ दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः
३.०१३.०१६ तेषामियं वसुमती पुरासीत्सवनार्णवा
३.०१३.०१६ दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम
३.०१३.०१७ नरकं कालकं चैव कालकापि व्यजायत
३.०१३.०१७ क्रौञ्चीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम्
३.०१३.०१८ ताम्रापि सुषुवे कन्याः पञ्चैता लोकविश्रुताः
३.०१३.०१८ उलूकाञ्जनयत्क्रौञ्ची भासी भासान् व्यजायत
३.०१३.०१९ श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः
३.०१३.०१९ धृतराष्ट्री तु हंसांश्च कलहंसांश्च सर्वशः
३.०१३.०२० चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी
३.०१३.०२० शुकी नतां विजज्ञे तु नताया विनता सुता
३.०१३.०२१ दशक्रोधवशा राम विजज्ञेऽप्यात्मसंभवाः
३.०१३.०२१ मृगीं च मृगमन्दां च हरीं भद्रमदामपि
३.०१३.०२२ मातङ्गीमथ शार्दूलीं श्वेतां च सुरभीं तथा
३.०१३.०२२ सर्वलक्षणसंपन्नां सुरसां कद्रुकामपि
३.०१३.०२३ अपत्यं तु मृगाः सर्वे मृग्या नरवरोत्तम
३.०१३.०२३ ऋष्काश्च मृगमन्दायाः सृमराश्चमरास्तथा
३.०१३.०२४ ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम्
३.०१३.०२४ तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः
३.०१३.०२५ हर्याश्च हरयोऽपत्यं वानराश्च तपस्विनः
३.०१३.०२५ गोलाङ्गूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान्
३.०१३.०२६ मातङ्ग्यास्त्वथ मातङ्गा अपत्यं मनुजर्षभ
३.०१३.०२६ दिशागजं तु श्वेताक्षं श्वेता व्यजनयत्सुतम्
३.०१३.०२७ ततो दुहितरौ राम सुरभिर्देव्यजायत
३.०१३.०२७ रोहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम्
३.०१३.०२८ रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान्
३.०१३.०२८ सुरसाजनयन्नागान् राम कद्रूश्च पन्नगान्
३.०१३.०२९ मनुर्मनुष्याञ्जनयत्कश्यपस्य महात्मनः
३.०१३.०२९ ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्च मनुजर्षभ
३.०१३.०३० मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा
३.०१३.०३० ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः
३.०१३.०३१ सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत
३.०१३.०३१ विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा
३.०१३.०३२ कद्रूर्नागसहस्क्रं तु विजज्ञे धरणीधरम्
३.०१३.०३२ द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च
३.०१३.०३३ तस्माज्जातोऽहमरुणात्संपातिश्च ममाग्रजः
३.०१३.०३३ जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम
३.०१३.०३४ सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि
३.०१३.०३४ सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे
३.०१३.०३५ जटायुषं तु प्रतिपूज्य राघवो॑ मुदा परिष्वज्य च संनतोऽभवत्
३.०१३.०३५ पितुर्हि शुश्राव सखित्वमात्मवाञ्॑ जटायुषा संकथितं पुनः पुनः
३.०१३.०३६ स तत्र सीतां परिदाय मैथिलीं॑ सहैव तेनातिबलेन पक्षिणा
३.०१३.०३६ जगाम तां पञ्चवटीं सलक्ष्मणो॑ रिपून् दिधक्षञ्शलभानिवानलः
३.०१४.००१ ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम्
३.०१४.००१ उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं
३.०१४.००२ आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा
३.०१४.००२ अयं पञ्चवटी देशः सौम्य पुष्पितकाननः
३.०१४.००३ सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि
३.०१४.००३ आश्रमः कतरस्मिन्नो देशे भवति संमतः
३.०१४.००४ रमते यत्र वैदेही त्वमहं चैव लक्ष्मण
३.०१४.००४ तादृशो दृश्यतां देशः संनिकृष्टजलाशयः
३.०१४.००५ वनरामण्यकं यत्र जलरामण्यकं तथा
३.०१४.००५ संनिकृष्टं च यत्र स्यात्समित्पुष्पकुशोदकम्
३.०१४.००६ एवमुक्तस्तु रामेण लक्मणः संयताञ्जलिः
३.०१४.००६ सीता समक्षं काकुत्स्थमिदं वचनमब्रवीत्
३.०१४.००७ परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते
३.०१४.००७ स्वयं तु रुचिरे देशे क्रियतामिति मां वद
३.०१४.००८ सुप्रीतस्तेन वाक्येन लक्ष्मणस्य महाद्युतिः
३.०१४.००८ विमृशन् रोचयामास देशं सर्वगुणान्वितम्
३.०१४.००९ स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि
३.०१४.००९ हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत्
३.०१४.०१० अयं देशः समः श्रीमान् पुष्पितैर्तरुभिर्वृतः
३.०१४.०१० इहाश्रमपदं सौम्य यथावत्कर्तुमर्हसि
३.०१४.०११ इयमादित्यसंकाशैः पद्मैः सुरभिगन्धिभिः
३.०१४.०११ अदूरे दृश्यते रम्या पद्मिनी पद्मशोभिता
३.०१४.०१२ यथाख्यातमगस्त्येन मुनिना भावितात्मना
३.०१४.०१२ इयं गोदावरी रम्या पुष्पितैस्तरुभिर्वृता
३.०१४.०१३ हंसकारण्डवाकीर्णा चक्रवाकोपशोभिता
३.०१४.०१३ नातिदूरे न चासन्ने मृगयूथनिपीडिता
३.०१४.०१४ मयूरनादिता रम्याः प्रांशवो बहुकन्दराः
३.०१४.०१४ दृश्यन्ते गिरयः सौम्य फुल्लैस्तरुभिरावृताः
३.०१४.०१५ सौवर्णे राजतैस्ताम्रैर्देशे देशे च धातुभिः
३.०१४.०१५ गवाक्षिता इवाभान्ति गजाः परमभक्तिभिः
३.०१४.०१६ सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः
३.०१४.०१६ नीवारैस्तिमिशैश्चैव पुंनागैश्चोपशोभिताः
३.०१४.०१७ चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि
३.०१४.०१७ पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः
३.०१४.०१८ चन्दनैः स्यन्दनैर्नीपैः पनसैर्लकुचैरपि
३.०१४.०१८ धवाश्वकर्णखदिरैः शमीकिंशुकपाटलैः
३.०१४.०१९ इदं पुण्यमिदं मेध्यमिदं बहुमृगद्विजम्
३.०१४.०१९ इह वत्स्याम सौमित्रे सार्धमेतेन पक्षिणा
३.०१४.०२० एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा
३.०१४.०२० अचिरेणाश्रमं भ्रातुश्चकार सुमहाबलः
३.०१४.०२१ पर्णशालां सुविपुलां तत्र संघातमृत्तिकाम्
३.०१४.०२१ सुस्तम्भां मस्करैर्दीर्घैः कृतवंशां सुशोभनाम्
३.०१४.०२२ स गत्वा लक्ष्मणः श्रीमान्नदीं गोदावरीं तदा
३.०१४.०२२ स्नात्वा पद्मानि चादाय सफलः पुनरागतः
३.०१४.०२३ ततः पुष्पबलिं कृत्वा शान्तिं च स यथाविधि
३.०१४.०२३ दर्शयामास रामाय तदाश्रमपदं कृतम्
३.०१४.०२४ स तं दृष्ट्वा कृतं सौम्यमाश्रमं सह सीतया
३.०१४.०२४ राघवः पर्णशालायां हर्षमाहारयत्परम्
३.०१४.०२५ सुसंहृष्टः परिष्वज्य बाहुभ्यां लक्ष्मणं तदा
३.०१४.०२५ अतिस्निग्धं च गाढं च वचनं चेदमब्रवीत्
३.०१४.०२६ प्रीतोऽस्मि ते महत्कर्म त्वया कृतमिदं प्रभो
३.०१४.०२६ प्रदेयो यन्निमित्तं ते परिष्वङ्गो मया कृतः
३.०१४.०२७ भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण
३.०१४.०२७ त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम
३.०१४.०२८ एवं लक्ष्मणमुक्त्वा तु राघवो लक्ष्मिवर्धनः
३.०१४.०२८ तस्मिन् देशे बहुफले न्यवसत्स सुखं वशी
३.०१४.०२९ कं चित्कालं स धर्मात्मा सीतया लक्ष्मणेन च
३.०१४.०२९ अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः
३.०१५.००१ वसतस्तस्य तु मुखं राघवस्य महात्मनः
३.०१५.००१ शरद्व्यपाये हेमन्त ऋतुरिष्टः प्रवर्तते
३.०१५.००२ स कदा चित्प्रभातायां शर्वर्यां रघुनन्दनः
३.०१५.००२ प्रययावभिषेकार्थं रम्यं गोदावरीं नदीम्
३.०१५.००३ प्रह्वः कलशहस्तस्तं सीतया सह वीर्यवान्
३.०१५.००३ पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत्
३.०१५.००४ अयं स कालः संप्राप्तः प्रियो यस्ते प्रियंवद
३.०१५.००४ अलंकृत इवाभाति येन संवत्सरः शुभः
३.०१५.००५ नीहारपरुषो लोकः पृष्हिवी सस्यमालिनी
३.०१५.००५ जलान्यनुपभोग्यानि सुभगो हव्यवाहनः
३.०१५.००६ नवाग्रयण पूजाभिरभ्यर्च्य पितृदेवताः
३.०१५.००६ कृताग्रयणकाः काले सन्तो विगतकल्मषाः
३.०१५.००७ प्राज्यकामा जनपदाः संपन्नतरगोरसाः
३.०१५.००७ विचरन्ति महीपाला यात्रार्थं विजिगीषवः
३.०१५.००८ सेवमाने दृढं सूर्ये दिशमन्तकसेविताम्
३.०१५.००८ विहीनतिलकेव स्त्री नोत्तरा दिक्प्रकाशते
३.०१५.००९ प्रकृत्या हिमकोशाढ्यो दूरसूर्यश्च साम्प्रतम्
३.०१५.००९ यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः
३.०१५.०१० अत्यन्तसुखसंचारा मध्याह्ने स्पर्शतः सुखाः
३.०१५.०१० दिवसाः सुभगादित्याश्छायासलिलदुर्भगाः
३.०१५.०११ मृदुसूर्याः सनीहाराः पटुशीताः समारुताः
३.०१५.०११ शून्यारण्या हिमध्वस्ता दिवसा भान्ति साम्प्रतम्
३.०१५.०१२ निवृत्ताकाशशयनाः पुष्यनीता हिमारुणाः
३.०१५.०१२ शीता वृद्धतरायामास्त्रियामा यान्ति साम्प्रतम्
३.०१५.०१३ रविसंक्रान्तसौभाब्यस्तुषारारुणमण्डलः
३.०१५.०१३ निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते
३.०१५.०१४ ज्योत्स्ना तुषारमलिना पौर्णमास्यां न राजते
३.०१५.०१४ सीतेव चातप श्यामा लक्ष्यते न तु शोभते
३.०१५.०१५ प्रकृत्या शीतलस्पर्शो हिमविद्धश्च साम्प्रतम्
३.०१५.०१५ प्रवाति पश्चिमो वायुः काले द्विगुणशीतलः
३.०१५.०१६ बाष्पच्छन्नानरण्यानि यवगोधूमवन्ति च
३.०१५.०१६ शोभन्तेऽभ्युदिते सूर्ये नदद्भिः क्रौञ्चसारसैः
३.०१५.०१७ खर्जूरपुष्पाकृतिभिः शिरोभिः पूर्णतण्डुलैः
३.०१५.०१७ शोभन्ते किं चिदालम्बाः शालयः कनकप्रभाः
३.०१५.०१८ मयूखैरुपसर्पद्भिर्हिमनीहारसंवृतैः
३.०१५.०१८ दूरमभ्युदितः सूर्यः शशाङ्क इव लक्ष्यते
३.०१५.०१९ अग्राह्यवीर्यः पूर्वाह्णे मध्याह्ने स्पर्शतः सुखः
३.०१५.०१९ संरक्तः किं चिदापाण्डुरातपः शोभते क्षितौ
३.०१५.०२० अवश्यायनिपातेन किं चित्प्रक्लिन्नशाद्वला
३.०१५.०२० वनानां शोभते भूमिर्निविष्टतरुणातपा
३.०१५.०२१ अवश्यायतमोनद्धा नीहारतमसावृताः
३.०१५.०२१ प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः
३.०१५.०२२ बाष्पसंछन्नसलिला रुतविज्ञेयसारसाः
३.०१५.०२२ हिमार्द्रवालुकैस्तीरैः सरितो भान्ति साम्प्रतम्
३.०१५.०२३ तुषारपतनाच्चैव मृदुत्वाद्भास्करस्य च
३.०१५.०२३ शैत्यादगाग्रस्थमपि प्रायेण रसवज्जलम्
३.०१५.०२४ जराजर्जरितैः पर्णैः शीर्णकेसरकर्णिकैः
३.०१५.०२४ नालशेषा हिमध्वस्ता न भान्ति कमलाकराः
३.०१५.०२५ अस्मिंस्तु पुरुषव्याघ्र काले दुःखसमन्वितः
३.०१५.०२५ तपश्चरति धर्मात्मा त्वद्भक्त्या भरतः पुरे
३.०१५.०२६ त्यक्त्वा राज्यं च मानं च भोगांश्च विविधान् बहून्
३.०१५.०२६ तपस्वी नियताहारः शेते शीते महीतले
३.०१५.०२७ सोऽपि वेलामिमां नूनमभिषेकार्थमुद्यतः
३.०१५.०२७ वृतः प्रकृतिभिर्नित्यं प्रयाति सरयूं नदीम्
३.०१५.०२८ अत्यन्तसुखसंवृद्धः सुकुमारो हिमार्दितः
३.०१५.०२८ कथं त्वपररात्रेषु सरयूमवगाहते
३.०१५.०२९ पद्मपत्रेक्षणः श्यामः श्रीमान्निरुदरो महान्
३.०१५.०२९ धर्मज्ञः सत्यवादी च ह्री निषेधो जितेन्द्रियः
३.०१५.०३० प्रियाभिभाषी मधुरो दीर्घबाहुररिंदमः
३.०१५.०३० संत्यज्य विविधान् सौख्यानार्यं सर्वात्मनाश्रितः
३.०१५.०३१ जितः स्वर्गस्तव भ्रात्रा भरतेन महात्मना
३.०१५.०३१ वनस्थमपि तापस्ये यस्त्वामनुविधीयते
३.०१५.०३२ न पित्र्यमनुवर्न्तन्ते मातृकं द्विपदा इति
३.०१५.०३२ ख्यातो लोकप्रवादोऽयं भरतेनान्यथाकृतः
३.०१५.०३३ भर्ता दशरथो यस्याः साधुश्च भरतः सुतः
३.०१५.०३३ कथं नु साम्बा कैकेयी तादृशी क्रूरदर्शिनी
३.०१५.०३४ इत्येवं लक्ष्मणे वाक्यं स्नेहाद्ब्रुवति धर्मिके
३.०१५.०३४ परिवादं जनन्यास्तमसहन् राघवोऽब्रवीत्
३.०१५.०३५ न तेऽम्बा मध्यमा तात गर्हितव्या कथं चन
३.०१५.०३५ तामेवेक्ष्वाकुनाथस्य भरतस्य कथां कुरु
३.०१५.०३६ निश्चितापि हि मे बुद्धिर्वनवासे दृढव्रता
३.०१५.०३६ भरतस्नेहसंतप्ता बालिशी क्रियते पुनः
३.०१५.०३७ इत्येवं विलपंस्तत्र प्राप्य गोदावरीं नदीम्
३.०१५.०३७ चक्रेऽभिषेकं काकुत्स्थः सानुजः सह सीतया
३.०१५.०३८ तर्पयित्वाथ सलिलैस्ते पितॄन् दैवतानि च
३.०१५.०३८ स्तुवन्ति स्मोदितं सूर्यं देवताश्च समाहिताः
३.०१५.०३९ कृताभिषेकः स रराज रामः॑ सीताद्वितीयः सह लक्ष्मणेन
३.०१५.०३९ कृताभिषेकस्त्वगराजपुत्र्या॑ रुद्रः सनन्दिर्भगवानिवेशः
३.०१६.००१ कृताभिषेको रामस्तु सीता सौमित्रिरेव च
३.०१६.००१ तस्माद्गोदावरीतीरात्ततो जग्मुः स्वमाश्रमम्
३.०१६.००२ आश्रमं तमुपागम्य राघवः सहलक्ष्मणः
३.०१६.००२ कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्
३.०१६.००३ स रामः पर्णशालायामासीनः सह सीतया
३.०१६.००३ विरराज महाबाहुश्चित्रया चन्द्रमा इव
३.०१६.००३ लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः
३.०१६.००४ तदासीनस्य रामस्य कथासंसक्तचेतसः
३.०१६.००४ तं देशं राक्षसी का चिदाजगाम यदृच्छया
३.०१६.००५ सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः
३.०१६.००५ भगिनी राममासाद्य ददर्श त्रिदशोपमम्
३.०१६.००६ सिंहोरस्कं महाबाहुं पद्मपत्रनिभेक्षणम्
३.०१६.००६ सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम्
३.०१६.००७ राममिन्दीवरश्यामं कन्दर्पसदृशप्रभम्
३.०१६.००७ बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता
३.०१६.००८ सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी
३.०१६.००८ विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा
३.०१६.००९ प्रियरूपं विरूपा सा सुस्वरं भैरवस्नवा
३.०१६.००९ तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी
३.०१६.०१० न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना
३.०१६.०१० शरीरजसमाविष्टा राक्षसी राममब्रवीत्
३.०१६.०११ जटी तापसरूपेण सभार्यः शरचापधृक्
३.०१६.०११ आगतस्त्वमिमं देशं कथं राक्षससेवितम्
३.०१६.०१२ एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः
३.०१६.०१२ ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे
३.०१६.०१३ आसीद्दशरथो नाम राजा त्रिदशविक्रमः
३.०१६.०१३ तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः
३.०१६.०१४ भ्रातायं लक्ष्मणो नाम यवीयान्मामनुव्रतः
३.०१६.०१४ इयं भार्या च वैदेही मम सीतेति विश्रुता
३.०१६.०१५ नियोगात्तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः
३.०१६.०१५ धर्मार्थं धर्मकाङ्क्षी च वनं वस्तुमिहागतः
३.०१६.०१६ त्वां तु वेदितुमिच्छामि कथ्यतां कासि कस्य वा
३.०१६.०१६ इह वा किंनिमित्तं त्वमागता ब्रूहि तत्त्वतः
३.०१६.०१७ साब्रवीद्वचनं श्रुत्वा राक्षसी मदनार्दिता
३.०१६.०१७ श्रूयतां राम वक्ष्यामि तत्त्वार्थं वचनं मम
३.०१६.०१८ अहं शूर्पणखा नाम राक्षसी कामरूपिणी
३.०१६.०१८ अरण्यं विचरामीदमेका सर्वभयंकरा
३.०१६.०१९ रावणो नाम मे भ्राता राक्षसो राक्षसेश्वरः
३.०१६.०१९ प्रवृद्धनिद्रश्च सदा कुम्भकर्णो महाबलः
३.०१६.०२० विभीषणस्तु धर्मात्मा न तु राक्षसचेष्टितः
३.०१६.०२० प्रख्यातवीर्यौ च रणे भ्रातरौ खरदूषणौ
३.०१६.०२१ तानहं समतिक्रान्ता राम त्वापूर्वदर्शनात्
३.०१६.०२१ समुपेतास्मि भावेन भर्तारं पुरुषोत्तमम्
३.०१६.०२१ चिराय भव भर्ता मे सीतया किं करिष्यसि
३.०१६.०२२ विकृता च विरूपा च न सेयं सदृशी तव
३.०१६.०२२ अहमेवानुरूपा ते भार्या रूपेण पश्य माम्
३.०१६.०२३ इमां विरूपामसतीं करालां निर्णतोदरीम्
३.०१६.०२३ अनेन सह ते भ्रात्रा भक्षयिष्यामि मानुषीम्
३.०१६.०२४ ततः पर्वतशृङ्गाणि वनानि विविधानि च
३.०१६.०२४ पश्यन् सह मया कान्त दण्डकान् विचरिष्यसि
३.०१६.०२५ इत्येवमुक्तः काकुत्स्थः प्रहस्य मदिरेक्षणाम्
३.०१६.०२५ इदं वचनमारेभे वक्तुं वाक्यविशारदः
३.०१७.००१ तां तु शूर्पणखां रामः कामपाशावपाशिताम्
३.०१७.००१ स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्
३.०१७.००२ कृतदारोऽस्मि भवति भार्येयं दयिता मम
३.०१७.००२ त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता
३.०१७.००३ अनुजस्त्वेष मे भ्राता शीलवान् प्रियदर्शनः
३.०१७.००३ श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्
३.०१७.००४ अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः
३.०१७.००४ अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति
३.०१७.००५ एनं भज विशालाक्षि भर्तारं भ्रातरं मम
३.०१७.००५ असपत्ना वरारोहे मेरुमर्कप्रभा यथा
३.०१७.००६ इति रामेण सा प्रोक्ता राक्षसी काममोहिता
३.०१७.००६ विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्
३.०१७.००७ अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी
३.०१७.००७ मया सह सुखं सर्वान् दण्डकान् विचरिष्यसि
३.०१७.००८ एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः
३.०१७.००८ ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्
३.०१७.००९ कथं दासस्य मे दासी भार्या भवितुमिच्छसि
३.०१७.००९ सोऽहमार्येण परवान् भात्रा कमलवर्णिनी
३.०१७.०१० समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी
३.०१७.०१० आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी
३.०१७.०११ एतां विरूपामसतीं करालां निर्णतोदरीम्
३.०१७.०११ भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति
३.०१७.०१२ को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि
३.०१७.०१२ मानुषेषु वरारोहे कुर्याद्भावं विचक्षणः
३.०१७.०१३ इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी
३.०१७.०१३ मन्यते तद्वचः सत्यं परिहासाविचक्षणा
३.०१७.०१४ सा रामं पर्णशालायामुपविष्टं परंतपम्
३.०१७.०१४ सीतया सह दुर्धर्षमब्रवीत्काममोहिता
३.०१७.०१५ इमां विरूपामसतीं करालां निर्णतोदरीम्
३.०१७.०१५ वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे
३.०१७.०१६ अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्
३.०१७.०१६ त्वया सह चरिष्यामि निःसपत्ना यथासुखम्
३.०१७.०१७ इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा
३.०१७.०१७ अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव
३.०१७.०१८ तां मृत्युपाशप्रतिमामापतन्तीं महाबलः
३.०१७.०१८ निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्
३.०१७.०१९ क्रूरैरनार्यैः सौमित्रे परिहासः कथं चन
३.०१७.०१९ न कार्यः पश्य वैदेहीं कथं चित्सौम्य जीवतीम्
३.०१७.०२० इमां विरूपामसतीमतिमत्तां महोदरीम्
३.०१७.०२० राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि
३.०१७.०२१ इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः
३.०१७.०२१ उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः
३.०१७.०२२ निकृत्तकर्णनासा तु विस्वरं सा विनद्य च
३.०१७.०२२ यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्
३.०१७.०२३ सा विरूपा महाघोरा राक्षसी शोणितोक्षिता
३.०१७.०२३ ननाद विविधान्नादान् यथा प्रावृषि तोयदः
३.०१७.०२४ सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना
३.०१७.०२४ प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्
३.०१७.०२५ ततस्तु सा राक्षससंघ संवृतं॑ खरं जनस्थानगतं विरूपिता
३.०१७.०२५ उपेत्य तं भ्रातरमुग्रतेजसं॑ पपात भूमौ गगनाद्यथाशनिः
३.०१७.०२६ ततः सभार्यं भयमोहमूर्छिता॑ सलक्ष्मणं राघवमागतं वनम्
३.०१७.०२६ विरूपणं चात्मनि शोणितोक्षिता॑ शशंस सर्वं भगिनी खरस्य सा
३.०१८.००१ तां तथा पतितां दृष्ट्वा विरूपां शोणितोक्षिताम्
३.०१८.००१ भगिनीं क्रोधसंतप्तः खरः पप्रच्छ राक्षसः
३.०१८.००२ बलविक्रमसंपन्ना कामगा कामरूपिणी
३.०१८.००२ इमामवस्थां नीता त्वं केनान्तकसमा गता
३.०१८.००३ देवगन्धर्वभूतानामृषीणां च महात्मनाम्
३.०१८.००३ कोऽयमेवं महावीर्यस्त्वां विरूपां चकार ह
३.०१८.००४ न हि पश्याम्यहं लोके यः कुर्यान्मम विप्रियम्
३.०१८.००४ अन्तरेन सहस्राक्षं महेन्द्रं पाकशासनम्
३.०१८.००५ अद्याहं मार्गणैः प्राणानादास्ये जीवितान्तकैः
३.०१८.००५ सलिले क्षीरमासक्तं निष्पिबन्निव सारसः
३.०१८.००६ निहतस्य मया संख्ये शरसंकृत्तमर्मणः
३.०१८.००६ सफेनं रुधिरं रक्तं मेदिनी कस्य पास्यति
३.०१८.००७ कस्य पत्ररथाः कायान्मांसमुत्कृत्य संगताः
३.०१८.००७ प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे
३.०१८.००८ तं न देवा न गन्धर्वा न पिशाचा न राक्षसाः
३.०१८.००८ मयापकृष्टं कृपणं शक्तास्त्रातुं महाहवे
३.०१८.००९ उपलभ्य शनैः संज्ञां तं मे शंसितुमर्हसि
३.०१८.००९ येन त्वं दुर्विनीतेन वने विक्रम्य निर्जिता
३.०१८.०१० इति भ्रातुर्वचः श्रुत्वा क्रुद्धस्य च विशेषतः
३.०१८.०१० ततः शूर्पणखा वाक्यं सबाष्पमिदमब्रवीत्
३.०१८.०११ तरुणौ रूपसंपन्नौ सुकूमारौ महाबलौ
३.०१८.०११ पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ
३.०१८.०१२ गन्धर्वराजप्रतिमौ पार्थिवव्यञ्जनान्वितौ
३.०१८.०१२ देवौ वा मानुषौ वा तौ न तर्कयितुमुत्सहे
३.०१८.०१३ तरुणी रूपसंपन्ना सर्वाभरणभूषिता
३.०१८.०१३ दृष्टा तत्र मया नारी तयोर्मध्ये सुमध्यमा
३.०१८.०१४ ताभ्यामुभाभ्यां संभूय प्रमदामधिकृत्य ताम्
३.०१८.०१४ इमामवस्थां नीताहं यथानाथासती तथा
३.०१८.०१५ तस्याश्चानृजुवृत्तायास्तयोश्च हतयोरहम्
३.०१८.०१५ सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि
३.०१८.०१६ एष मे प्रथमः कामः कृतस्तात त्वया भवेत्
३.०१८.०१६ तस्यास्तयोश्च रुधिरं पिबेयमहमाहवे
३.०१८.०१७ इति तस्यां ब्रुवाणायां चतुर्दश महाबलान्
३.०१८.०१७ व्यादिदेश खरः क्रुद्धो राक्षसानन्तकोपमान्
३.०१८.०१८ मानुषौ शस्त्रसंपन्नौ चीरकृष्णाजिनाम्बरौ
३.०१८.०१८ प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह
३.०१८.०१९ तौ हत्वा तां च दुर्वृत्तामुपावर्तितुमर्हथ
३.०१८.०१९ इयं च रुधिरं तेषां भगिनी मम पास्यति
३.०१८.०२० मनोरथोऽयमिष्टोऽस्या भगिन्या मम राक्षसाः
३.०१८.०२० शीघ्रं संपद्यतां गत्वा तौ प्रमथ्य स्वतेजसा
३.०१८.०२१ इति प्रतिसमादिष्टा राक्षसास्ते चतुर्दश
३.०१८.०२१ तत्र जग्मुस्तया सार्धं घना वातेरिता यथा
३.०१९.००१ ततः शूर्पणखा घोरा राघवाश्रममागता
३.०१९.००१ रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया
३.०१९.००२ ते रामं पर्णशालायामुपविष्टं महाबलम्
३.०१९.००२ ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च
३.०१९.००३ तान् दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम्
३.०१९.००३ अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसं
३.०१९.००४ मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः
३.०१९.००४ इमानस्या वधिष्यामि पदवीमागतानिह
३.०१९.००५ वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः
३.०१९.००५ तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्
३.०१९.००६ राघवोऽपि महच्चापं चामीकरविभूषितम्
३.०१९.००६ चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्
३.०१९.००७ पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ
३.०१९.००७ प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्
३.०१९.००८ फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ
३.०१९.००८ वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ
३.०१९.००९ युष्मान् पापात्मकान् हन्तुं विप्रकारान्महावने
३.०१९.००९ ऋषीणां तु नियोगेन प्राप्तोऽहं सशरासनः
३.०१९.०१० तिष्ठतैवात्र संतुष्टा नोपसर्पितुमर्हथ
३.०१९.०१० यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः
३.०१९.०११ तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश
३.०१९.०११ ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः
३.०१९.०१२ संरक्तनयना घोरा रामं रक्तान्तलोचनम्
३.०१९.०१२ परुषा मधुराभाषं हृष्टादृष्टपराक्रमम्
३.०१९.०१३ क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः
३.०१९.०१३ त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि
३.०१९.०१४ का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि
३.०१९.०१४ अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे
३.०१९.०१५ एभिर्बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः
३.०१९.०१५ प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्
३.०१९.०१६ इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश
३.०१९.०१६ उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः
३.०१९.०१६ चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्
३.०१९.०१७ तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश
३.०१९.०१७ तावद्भिरेव चिच्छेद शरैः का
ञ्चनभूषणैः
३.०१९.०१८ ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान्
३.०१९.०१८ जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्
३.०१९.०१९ गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्
३.०१९.०१९ मुमोच राघवो बाणान् वज्रानिव शतक्रतुः
३.०१९.०२० रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः
३.०१९.०२० अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः
३.०१९.०२१ ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः
३.०१९.०२१ विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः
३.०१९.०२२ ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः
३.०१९.०२२ निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः
३.०१९.०२३ तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता
३.०१९.०२३ परित्रस्ता पुनस्तत्र व्यसृजद्भैरवं रवम्
३.०१९.०२४ सा नदन्ती महानादं जवाच्छूर्पणखा पुनः
३.०१९.०२४ उपगम्य खरं सा तु किं चित्संशुष्क शोणिता
३.०१९.०२४ पपात पुनरेवार्ता सनिर्यासेव वल्लरी
३.०१९.०२५ निपातितान् प्रेक्ष्य रणे तु राक्षसान्॑ प्रधाविता शूर्पणखा पुनस्ततः
३.०१९.०२५ वधं च तेषां निखिलेन रक्षसां॑ शशंस सर्वं भगिनी खरस्य सा
३.०२०.००१ स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः
३.०२०.००१ उवाच व्यक्तता वाचा तामनर्थार्थमागताम्
३.०२०.००२ मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः
३.०२०.००२ त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः
३.०२०.००३ भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः
३.०२०.००३ घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम
३.०२०.००४ किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः
३.०२०.००४ हा नाथेति विनर्दन्ती सर्पवद्वेष्टसे क्षितौ
३.०२०.००५ अनाथवद्विलपसि किं नु नाथे मयि स्थिते
३.०२०.००५ उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह
३.०२०.००६ इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता
३.०२०.००६ विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्
३.०२०.००७ प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश
३.०२०.००७ निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम्
३.०२०.००८ ते तु रामेण सामर्षाः शूलपट्टिशपाणयः
३.०२०.००८ समरे निहताः सर्वे सायकैर्मर्मभेदिभिः
३.०२०.००९ तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाबलान्
३.०२०.००९ रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम
३.०२०.०१० सास्मि भीता समुद्विग्ना विषण्णा च निशाचर
३.०२०.०१० शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी
३.०२०.०११ विषादनक्राध्युषिते परित्रासोर्मिमालिनि
३.०२०.०११ किं मां न त्रायसे मग्नां विपुले शोकसागरे
३.०२०.०१२ एते च निहता भूमौ रामेण निशितैः शरैः
३.०२०.०१२ ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः
३.०२०.०१३ मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च
३.०२०.०१३ रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर
३.०२०.०१३ दण्डकारण्यनिलयं जहि राक्षसकण्टकम्
३.०२०.०१४ यदि रामं ममामित्रमद्य त्वं न वधिष्यसि
३.०२०.०१४ तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा
३.०२०.०१५ बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे
३.०२०.०१५ स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे
३.०२०.०१६ शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः
३.०२०.०१६ मानुषौ यन्न शक्नोषि हन्तुं तौ रामलक्ष्मणौ
३.०२०.०१७ अपयाहि जनस्थानात्त्वरितः सहबान्धवः
३.०२०.०१७ निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह
३.०२०.०१८ रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि
३.०२०.०१८ स हि तेजःसमायुक्तो रामो दशरथात्मजः
३.०२०.०१८ भ्राता चास्य महावीर्यो येन चास्मि विरूपिता
३.०२१.००१ एवमाधर्षितः शूरः शूर्पणख्या खरस्तदा
३.०२१.००१ उवाच रक्षसां मध्ये खरः खरतरं वचः
३.०२१.००२ तवापमानप्रभवः क्रोधोऽयमतुलो मम
३.०२१.००२ न शक्यते धारयितुं लवणाम्भ इवोत्थितम्
३.०२१.००३ न रामं गणये वीर्यान्मानुषं क्षीणजीवितम्
३.०२१.००३ आत्मा दुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यति
३.०२१.००४ बाष्पः संह्रियतामेष संभ्रमश्च विमुच्यताम्
३.०२१.००४ अहं रामः सह भ्रात्रा नयामि यमसादनम्
३.०२१.००५ परश्वधहतस्याद्य मन्दप्राणस्य भूतले
३.०२१.००५ रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि
३.०२१.००६ सा प्रहृष्ट्वा वचः श्रुत्वा खरस्य वदनाच्च्युतम्
३.०२१.००६ प्रशशंस पुनर्मौर्ख्याद्भ्रातरं रक्षसां वरम्
३.०२१.००७ तया परुषितः पूर्वं पुनरेव प्रशंसितः
३.०२१.००७ अब्रवीद्दूषणं नाम खरः सेनापतिं तदा
३.०२१.००८ चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम्
३.०२१.००८ रक्षसीं भीमवेगानां समरेष्वनिवर्तिनाम्
३.०२१.००९ नीलजीमूतवर्णानां घोराणां क्रूरकर्मणाम्
३.०२१.००९ लोकसिंहाविहाराणां बलिनामुग्रतेजसाम्
३.०२१.०१० तेषां शार्दूलदर्पाणां महास्यानाअं महौजसाम्
३.०२१.०१० सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय
३.०२१.०११ उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च
३.०२१.०११ शरांश्च चित्रान् खड्गांश्च शक्तीश्च विविधाः शिताः
३.०२१.०१२ अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम्
३.०२१.०१२ वधार्थं दुर्विनीतस्य रामस्य रणकोविदः
३.०२१.०१३ इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम्
३.०२१.०१३ सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः
३.०२१.०१४ तं मेरुशिखराकारं तप्तकाञ्चनभूषणम्
३.०२१.०१४ हेमचक्रमसंबाधं वैदूर्यमय कूबरम्
३.०२१.०१५ मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः
३.०२१.०१५ माङ्गल्यैः पक्षिसंघैश्च ताराभिश्च समावृतम्
३.०२१.०१६ ध्वजनिस्त्रिंशसंपन्नं किङ्किणीकविभूषितम्
३.०२१.०१६ सदश्वयुक्तं सोऽमर्षादारुरोह रथं खरः
३.०२१.०१७ निशाम्य तं रथगतं राअक्षसा भीमविक्रमाः
३.०२१.०१७ तस्थुः संपरिवार्यैनं दूषणं च महाबलम्
३.०२१.०१८ खरस्तु तान्महेष्वासान् घोरचर्मायुधध्वजान्
३.०२१.०१८ निर्यातेत्यब्रवीद्दृष्ट्वा रथस्थः सर्वराक्षसान्
३.०२१.०१९ ततस्तद्राक्षसं सैन्यं घोरचर्मायुधध्वजम्
३.०२१.०१९ निर्जगाम जनस्थानान्महानादं महाजवम्
३.०२१.०२० मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः
३.०२१.०२० खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैश्च तोमरैः
३.०२१.०२१ शक्तिभिः पतिघैर्घोरैरतिमात्रैश्च कार्मुकैः
३.०२१.०२१ गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः
३.०२१.०२२ राक्षसानां सुघोराणां सहस्राणि चतुर्दश
३.०२१.०२२ निर्यातानि जनस्थानात्खरचित्तानुवर्तिनाम्
३.०२१.०२३ तांस्त्वभिद्रवतो दृष्ट्वा राक्षसान् भीमविक्रमान्
३.०२१.०२३ खरस्यापि रथः किं चिज्जगाम तदनन्तरम्
३.०२१.०२४ ततस्ताञ्शबलानश्वांस्तप्तकाञ्चनभूषितान्
३.०२१.०२४ खरस्य मतमाज्ञाय सारथिः समचोदयत्
३.०२१.०२५ स चोदितो रथः शीघ्रं खरस्य रिपुघातिनः
३.०२१.०२५ शब्देनापूरयामास दिशश्च प्रतिशस्तथा
३.०२१.०२६ प्रवृद्धमन्युस्तु खरः खरस्वनो॑ रिपोर्वधार्थं त्वरितो
यथान्तकः
३.०२१.०२६ अचूचुदत्सारथिमुन्नदन् पुनर्॑ महाबलो मेघ इवाश्मवर्षवान्
३.०२२.००१ तत्प्रयातं बलं घोरमशिवं शोणितोदकम्
३.०२२.००१ अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः
३.०२२.००२ निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः
३.०२२.००२ समे पुष्पचिते देशे राजमार्गे यदृच्छया
३.०२२.००३ श्यामं रुधिरपर्यन्तं बभूव परिवेषणम्
३.०२२.००३ अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम्
३.०२२.००४ ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम्
३.०२२.००४ समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः
३.०२२.००५ जनस्थानसमीपे च समाक्रम्य खरस्वनाः
३.०२२.००५ विस्वरान् विविधांश्चक्रुर्मांसादा मृगपक्षिणः
३.०२२.००६ व्याजह्रुश्च पदीप्तायां दिशि वै भैरवस्वनम्
३.०२२.००६ अशिवा यातु दाहानां शिवा घोरा महास्वनाः
३.०२२.००७ प्रभिन्नगिरिसंकाशास्तोयशोषितधारिणः
३.०२२.००७ आकाशं तदनाकाशं चक्रुर्भीमा बलाहकाः
३.०२२.००८ बभूव तिमिरं घोरमुद्धतं रोमहर्षणम्
३.०२२.००८ दिशो वा विदिशो वापि सुव्यक्तं न चकाशिरे
३.०२२.००९ क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ
३.०२२.००९ खरस्याभिमुखं नेदुस्तदा घोरा मृगाः खगाः
३.०२२.०१० नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः
३.०२२.०१० नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः
३.०२२.०११ कबन्धः परिघाभासो दृश्यते भास्करान्तिके
३.०२२.०११ जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः
३.०२२.०१२ प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद्दिवाकरः
३.०२२.०१२ उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः
३.०२२.०१३ संलीनमीनविहगा नलिन्यः पुष्पपङ्कजाः
३.०२२.०१३ तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः
३.०२२.०१४ उद्धूतश्च विना वातं रेणुर्जलधरारुणः
३.०२२.०१४ वीचीकूचीति वाश्यन्तो बभूवुस्तत्र सारिकाः
३.०२२.०१५ उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः
३.०२२.०१५ प्रचचाल मही चापि सशैलवनकानना
३.०२२.०१६ खरस्य च रथस्थस्य नर्दमानस्य धीमतः
३.०२२.०१६ प्राकम्पत भुजः सव्यः खरश्चास्यावसज्जत
३.०२२.०१७ सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः
३.०२२.०१७ ललाटे च रुजा जाता न च मोहान्न्यवर्तत
३.०२२.०१८ तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान्
३.०२२.०१८ अब्रवीद्राक्षसान् सर्वान् प्रहसन् स खरस्तदा
३.०२२.०१९ महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान्
३.०२२.०१९ न चिन्तयाम्यहं वीर्याद्बलवान् दुर्बलानिव
३.०२२.०२० तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात्
३.०२२.०२० मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम्
३.०२२.०२१ राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम्
३.०२२.०२१ अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे
३.०२२.०२२ सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः
३.०२२.०२२ यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः
३.०२२.०२३ न क्व चित्प्राप्तपूर्वो मे संयुगेषु पराजयः
३.०२२.०२३ युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम्
३.०२२.०२४ देवराजमपि क्रुद्धो मत्तैरावतयायिनम्
३.०२२.०२४ वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानुषौ
३.०२२.०२५ सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः
३.०२२.०२५ प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता
३.०२२.०२६ समेयुश्च महात्मानो युद्धदर्शनकाङ्क्षिणः
३.०२२.०२६ ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः
३.०२२.०२७ समेत्य चोरुः सहितास्तेऽन्यायं पुण्यकर्मणः
३.०२२.०२७ स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां ये च संमताः
३.०२२.०२८ जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान्
३.०२२.०२८ चक्रा हस्तो यथा युद्धे सर्वानसुरपुंगवान्
३.०२२.०२९ एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः
३.०२२.०२९ ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम्
३.०२२.०३० रथेन तु खरो वेगात्सैन्यस्याग्राद्विनिःसृतः
३.०२२.०३० तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिःसृताः
३.०२२.०३१ श्येन गामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः
३.०२२.०३१ दुर्जयः करवीराक्षः परुषः कालकार्मुकः
३.०२२.०३२ मेघमाली महामाली सर्पास्यो रुधिराशनः
३.०२२.०३२ द्वादशैते महावीर्याः प्रतस्थुरभितः खरम्
३.०२२.०३३ महाकपालः स्थूलाक्षः प्रमाथी त्रिशिरास्तथा
३.०२२.०३३ चत्वार एते सेनाग्र्या दूषणं पृष्ठतोऽन्वयुः
३.०२२.०३४ सा भीमवेगा समराभिकामा॑ सुदारुणा राक्षसवीर सेना
३.०२२.०३४ तौ राजपुत्रौ सहसाभ्युपेता॑ मालाग्रहाणामिव चन्द्रसूर्यौ
३.०२३.००१ आश्रमं प्रति याते तु खरे खरपराक्रमे
३.०२३.००१ तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह
३.०२३.००२ तानुत्पातान्महाघोरानुत्थितान् रोमहर्षणान्
३.०२३.००२ प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्
३.०२३.००३ इमान् पश्य महाबाहो सर्वभूतापहारिणः
३.०२३.००३ समुत्थितान्महोत्पातान् संहर्तुं सर्वराक्षसान्
३.०२३.००४ अमी रुधिरधारास्तु विसृजन्तः खरस्वनान्
३.०२३.००४ व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः
३.०२३.००५ सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः
३.०२३.००५ रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण
३.०२३.००६ यादृशा इह कूजन्ति पक्षिणो वनचारिणः
३.०२३.००६ अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च
३.०२३.००७ संप्रहारस्तु सुमहान् भविष्यति न संशयः
३.०२३.००७ अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः
३.०२३.००८ संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्
३.०२३.००८ सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते
३.०२३.००९ उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः
३.०२३.००९ निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः
३.०२३.०१० अनागतविधानं तु कर्तव्यं शुभमिच्छता
३.०२३.०१० आपदं शङ्कमानेन पुरुषेण विपश्चिता
३.०२३.०११ तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः
३.०२३.०११ गुहामाश्रयशैलस्य दुर्गां पादपसंकुलाम्
३.०२३.०१२ प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया
३.०२३.०१२ शापितो मम पादाभ्यां गम्यतां वत्स माचिरम्
३.०२३.०१३ एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया
३.०२३.०१३ शरानादाय चापं च गुहां दुर्गां समाश्रयत्
३.०२३.०१४ तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया
३.०२३.०१४ हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्
३.०२३.०१५ सा तेनाग्निनिकाशेन कवचेन विभूषितः
३.०२३.०१५ बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः
३.०२३.०१६ स चापमुद्यम्य महच्छरानादाय वीर्यवान्
३.०२३.०१६ बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन् दिशः
३.०२३.०१७ ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः
३.०२३.०१७ ऊचुः परमसंत्रस्ता गुह्यकाश्च परस्परम्
३.०२३.०१८ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
३.०२३.०१८ एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति
३.०२३.०१९ ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्
३.०२३.०१९ अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत
३.०२३.०२० सिंहनादं विसृजतामन्योन्यमभिगर्जताम्
३.०२३.०२० चापानि विस्फरयतां जृम्भतां चाप्यभीक्ष्णशः
३.०२३.०२१ विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम्
३.०२३.०२१ तेषां सुतुमुलः शब्दः पूरयामास तद्वनम्
३.०२३.०२२ तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः
३.०२३.०२२ दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन्
३.०२३.०२३ तत्त्वनीकं महावेगं रामं समुपसर्पत
३.०२३.०२३ घृतनानाप्रहरणं गम्भीरं सागरोपमम्
३.०२३.०२४ रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः
३.०२३.०२४ ददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम्
३.०२३.०२५ वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान्
३.०२३.०२५ क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्
३.०२३.०२६ दुष्प्रेक्ष्यः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्
३.०२३.०२६ तं दृष्ट्वा तेजसाविष्टं प्राव्यथन् वनदेवताः
३.०२३.०२७ तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा
३.०२३.०२७ दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः
३.०२४.००१ अवष्टब्धधनुं रामं क्रुद्धं च रिपुघातिनम्
३.०२४.००१ ददर्शाश्रममागम्य खरः सह पुरःसरैः
३.०२४.००२ तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम्
३.०२४.००२ रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्
३.०२४.००३ स खरस्याज्ञया सूतस्तुरगान् समचोदयत्
३.०२४.००३ यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः
३.०२४.००४ तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः
३.०२४.००४ नर्दमाना महानादं सचिवाः पर्यवारयन्
३.०२४.००५ स तेषां यातुधानानां मध्ये रतो गतः खरः
३.०२४.००५ बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः
३.०२४.००६ ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः
३.०२४.००६ रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्
३.०२४.००७ मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः
३.०२४.००७ राक्षसाः समरे रामं निजघ्नू रोषतत्पराः
३.०२४.००८ ते बलाहकसंकाशा महानादा महाबलाः
३.०२४.००८ अभ्यधावन्त काकुत्स्थं रामं युद्धे जिघांसवः
३.०२४.००९ ते रामे शरवर्षाणि व्यसृजन् रक्षसां गुणाः
३.०२४.००९ शैलेन्द्रमिव धाराभिर्वर्षमाणा महाधनाः
३.०२४.०१० स तैः परिवृतो घोरै राघवो रक्षसां गणैः
३.०२४.०१० तिथिष्विव महादेवो वृतः पारिषदां गणैः
३.०२४.०११ तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः
३.०२४.०११ प्रतिजग्राह विशिखैर्नद्योघानिव सागरः
३.०२४.०१२ स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे
३.०२४.०१२ रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः
३.०२४.०१३ स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः
३.०२४.०१३ बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः
३.०२४.०१४ विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः
३.०२४.०१४ एकं सहस्त्रैर्बहुभिस्तदा दृष्ट्वा समावृतम्
३.०२४.०१५ ततो रामः सुसंक्रुद्धो मण्डलीकृतकार्मुकः
३.०२४.०१५ ससर्ज निशितान् बाणाञ्शतशोऽथ सहस्रशः
३.०२४.०१६ दुरावारान् दुर्विषहान् कालपाशोपमान् रणे
३.०२४.०१६ मुमोच लीलया रामः कङ्कपत्रानजिह्मगान्
३.०२४.०१७ ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया
३.०२४.०१७ आददू रक्षसां प्राणान् पाशाः कालकृता इव
३.०२४.०१८ भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः
३.०२४.०१८ अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः
३.०२४.०१९ असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्
३.०२४.०१९ विनिष्पेतुरतीवोग्रा रक्षः प्राणापहारिणः
३.०२४.०२० तैर्धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि च
३.०२४.०२० बहून् सहस्ताभरणानूरून् करिकरोपमान्
३.०२४.०२१ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः
३.०२४.०२१ भीममार्तस्वरं चक्रुर्भिद्यमाना निशाचराः
३.०२४.०२२ तत्सैन्यं निशितैर्बाणैरर्दितं मर्मभेदिभिः
३.०२४.०२२ रामेण न सुखं लेभे शुष्कं वनमिवाग्निना
३.०२४.०२३ के चिद्भीमबलाः शूराः शूलान् खड्गान् परश्वधान्
३.०२४.०२३ चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः
३.०२४.०२४ तानि बाणैर्महाबाहुः शस्त्राण्यावार्य राघवः
३.०२४.०२४ जहार समरे प्राणांश्चिच्छेद च शिरोधरान्
३.०२४.०२५ अवशिष्टाश्च ये तत्र विषण्णाश्च निशाचराः
३.०२४.०२५ खरमेवाभ्यधावन्त शरणार्थं शरार्दिताः
३.०२४.०२६ तान् सर्वान् पुनरादाय समाश्वास्य च दूषणः
३.०२४.०२६ अभ्यधावत काकुत्स्थं क्रुद्धो रुद्रमिवान्तकः
३.०२४.०२७ निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः
३.०२४.०२७ राममेवाभ्यधावन्त सालतालशिलायुधाः
३.०२४.०२८ तद्बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्
३.०२४.०२८ रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम्
३.०२५.००१ तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत्
३.०२५.००१ प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः
३.०२५.००२ प्रतिगृह्य च तद्वरं निमीलित इवर्षभः
३.०२५.००२ रामः क्रोधं परं भेजे वधार्थं सर्वरक्षसाम्
३.०२५.००३ ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा
३.०२५.००३ शरैरभ्यकिरत्सैन्यं सर्वतः सहदूषणम्
३.०२५.००४ ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः
३.०२५.००४ जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम्
३.०२५.००५ वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम्
३.०२५.००५ आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षिताम्
३.०२५.००६ वज्राशनिसमस्पर्शं परगोपुरदारणम्
३.०२५.००६ तं महोरगसंकाशं प्रगृह्य परिघं रणे
३.०२५.००६ दूषणोऽभ्यपतद्रामं क्रूरकर्मा निशाचरः
३.०२५.००७ तस्याभिपतमानस्य दूषणस्य स राघवः
३.०२५.००७ द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ
३.०२५.००८ भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि
३.०२५.००८ परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः
३.०२५.००९ स कराभ्यां विकीर्णाभ्यां पपात भुवि दूषणः
३.०२५.००९ विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः
३.०२५.०१० दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे
३.०२५.०१० साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन्
३.०२५.०११ एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः
३.०२५.०११ संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः
३.०२५.०११ महाकपालः स्थूलाक्षः प्रमाथी च महाबलः
३.०२५.०१२ महाकपालो विपुलं शूलमुद्यम्य राक्षसः
३.०२५.०१२ स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम्
३.०२५.०१३ दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः
३.०२५.०१३ तीक्ष्णाग्रैः प्रतिजग्राह संप्राप्तानतिथीनिव
३.०२५.०१४ महाकपालस्य शिरश्चिच्छेद रघुनङ्गनः
३.०२५.०१४ असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम्
३.०२५.०१५ स्थूलाक्षस्याक्षिणी तीक्ष्णैः पूरयामास सायकैः
३.०२५.०१५ स पपात हतो भूमौ विटपीव महाद्रुमः
३.०२५.०१६ ततः पावकसंकाशैर्हेमवज्रविभूषितैः
३.०२५.०१६ जघनशेषं तेजस्वी तस्य सैन्यस्य सायकैः
३.०२५.०१७ ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः
३.०२५.०१७ निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान्
३.०२५.०१८ रक्षसां तु शतं रामः शतेनैकेन कर्णिना
३.०२५.०१८ सहस्रं च सहस्रेण जघान रणमूर्धनि
३.०२५.०१९ तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः
३.०२५.०१९ निपेतुः शोणितादिग्धा धरण्यां रजनीचराः
३.०२५.०२० तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः
३.०२५.०२० आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव
३.०२५.०२१ क्षणेन तु महाघोरं वनं निहतराक्षसं
३.०२५.०२१ बभूव निरय प्रख्यं मांसशोणितकर्दमम्
३.०२५.०२२ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
३.०२५.०२२ हतान्येकेन रामेण मानुषेण पदातिना
३.०२५.०२३ तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः
३.०२५.०२३ राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः
३.०२५.०२४ ततस्तु तद्भीमबलं महाहवे॑ समीक्ष्य रामेण हतं बलीयसा
३.०२५.०२४ रथेन रामं महता खरस्ततः॑ समाससादेन्द्र इवोद्यताशनिः
३.०२६.००१ खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः
३.०२६.००१ राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्
३.०२६.००२ मां नियोजय विक्रान्त संनिवर्तस्व साहसात्
३.०२६.००२ पश्य रामं महाबाहुं संयुगे विनिपातितम्
३.०२६.००३ प्रतिजानामि ते सत्यमायुधं चाहमालभे
३.०२६.००३ यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्
३.०२६.००४ अहं वास्य रणे मृत्युरेष वा समरे मम
३.०२६.००४ विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव
३.०२६.००५ प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि
३.०२६.००५ मयि वा निहते रामं संयुगायोपयास्यसि
३.०२६.००६ खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः
३.०२६.००६ गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ
३.०२६.००७ त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता
३.०२६.००७ अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः
३.०२६.००८ शरधारा समूहान् स महामेघ इवोत्सृजन्
३.०२६.००८ व्यसृजत्सदृशं नादं जलार्द्रस्येव दुन्दुभेः
३.०२६.००९ आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः
३.०२६.००९ धनुषा प्रतिजग्राह विधुन्वन् सायकाञ्शितान्
३.०२६.०१० स संप्रहारस्तुमुलो राम त्रिशिरसोर्महान्
३.०२६.०१० बभूवातीव बलिनोः सिंहकुञ्जरयोरिव
३.०२६.०११ ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः
३.०२६.०११ अमर्षी कुपितो रामः संरब्धमिदमब्रवीत्
३.०२६.०१२ अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्
३.०२६.०१२ पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः
३.०२६.०१२ ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान्
३.०२६.०१३ एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान्
३.०२६.०१३ त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश
३.०२६.०१४ चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः
३.०२६.०१४ न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः
३.०२६.०१५ अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्
३.०२६.०१५ रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्
३.०२६.०१६ ततो हतरथात्तस्मादुत्पतन्तं निशाचरम्
३.०२६.०१६ बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः
३.०२६.०१७ सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः
३.०२६.०१७ शिरांस्यपातयत्त्रीणि वेगवद्भिस्त्रिभिः शतैः
३.०२६.०१८ स भूमौ शोणितोद्गारी रामबाणाभिपीडितः
३.०२६.०१८ न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः
३.०२६.०१९ हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः
३.०२६.०१९ द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव
३.०२६.०२० तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्
३.०२६.०२० राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा
३.०२७.००१ निहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह
३.०२७.००१ खरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम्
३.०२७.००२ स दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम्
३.०२७.००२ हतमेकेन रामेण दूषणस्त्रिशिरा अपि
३.०२७.००३ तद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः
३.०२७.००३ आससाद खरो रामं नमुचिर्वासवं यथा
३.०२७.००४ विकृष्य बलवच्चापं नाराचान् रक्तभोजनान्
३.०२७.००४ खरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव
३.०२७.००५ ज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्
३.०२७.००५ चचार समरे मार्गाञ्शरै रथगतः खरः
३.०२७.००६ स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः
३.०२७.००६ पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः
३.०२७.००७ स सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः
३.०२७.००७ नभश्चकाराविवरं पर्जन्य इव वृष्टिभिः
३.०२७.००८ तद्बभूव शितैर्बाणैः खररामविसर्जितैः
३.०२७.००८ पर्याकाशमनाकाशं सर्वतः शरसंकुलम्
३.०२७.००९ शरजालावृतः सूर्यो न तदा स्म प्रकाशते
३.०२७.००९ अन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः
३.०२७.०१० ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः
३.०२७.०१० आजघान रणे रामं तोत्रैरिव महाद्विपम्
३.०२७.०११ तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्
३.०२७.०११ ददृशुः सर्वभूतानि पाशहस्तमिवान्तकम्
३.०२७.०१२ तं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्
३.०२७.०१२ दृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा
३.०२७.०१३ ततः सूर्यनिकाशेन रथेन महता खरः
३.०२७.०१३ आससाद रणे रामं पतङ्ग इव पावकम्
३.०२७.०१४ ततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः
३.०२७.०१४ खरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम्
३.०२७.०१५ स पुनस्त्वपरान् सप्त शरानादाय वर्मणि
३.०२७.०१५ निजघान रणे क्रुद्धः शक्राशनिसमप्रभान्
३.०२७.०१६ ततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः
३.०२७.०१६ पपात कवचं भूमौ रामस्यादित्यवर्चसः
३.०२७.०१७ स शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः
३.०२७.०१७ रराज समरे रामो विधूमोऽग्निरिव ज्वलन्
३.०२७.०१८ ततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः
३.०२७.०१८ चकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः
३.०२७.०१९ सुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा
३.०२७.०१९ वरं तद्धनुरुद्यम्य खरं समभिधावत
३.०२७.०२० ततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः
३.०२७.०२० चिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम्
३.०२७.०२१ स दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः
३.०२७.०२१ जगाम धरणीं सूर्यो देवतानामिवाज्ञया
३.०२७.०२२ तं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः
३.०२७.०२२ विव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः
३.०२७.०२३ स रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः
३.०२७.०२३ विद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्
३.०२७.०२४ स धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे
३.०२७.०२४ मुमोच परमेष्वासः षट्शरानभिलक्षितान्
३.०२७.०२५ शिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत्
३.०२७.०२५ त्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह
३.०२७.०२६ ततः पश्चान्महातेजा नाराचान् भास्करोपमान्
३.०२७.०२६ जिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान्
३.०२७.०२७ ततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्
३.०२७.०२७ षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः
३.०२७.०२८ त्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः
३.०२७.०२८ द्वादशेन तु बाणेन खरस्य सशरं धनुः
३.०२७.०२८ छित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव
३.०२७.०२८ त्रयोदशेनेन्द्रसमो बिभेद समरे खरम्
३.०२७.०२९ प्रभग्नधन्वा विरथो हताश्वो हतसारथिः
३.०२७.०२९ गदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा
३.०२७.०३० तत्कर्म रामस्य महारथस्य॑ समेत्य देवाश्च महर्षयश्च
३.०२७.०३० अपूजयन् प्राञ्जलयः प्रहृष्टास्॑ तदा विमानाग्रगताः समेताः
३.०२८.००१ खरं तु विरथं रामो गदापाणिमवस्थितम्
३.०२८.००१ मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्
३.०२८.००२ गजाश्वरथसंबाधे बले महति तिष्ठता
३.०२८.००२ कृतं सुदारुणं कर्म सर्वलोकजुगुप्सितम्
३.०२८.००३ उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत्
३.०२८.००३ त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति
३.०२८.००४ कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर
३.०२८.००४ तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम्
३.०२८.००५ लोभात्पापानि कुर्वाणः कामाद्वा यो न बुध्यते
३.०२८.००५ भ्रष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव
३.०२८.००६ वसतो दण्डकारण्ये तापसान् धर्मचारिणः
३.०२८.००६ किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस
३.०२८.००७ न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः
३.०२८.००७ ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः
३.०२८.००८ अवश्यं लभते कर्ता फलं पापस्य कर्मणः
३.०२८.००८ घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम्
३.०२८.००९ नचिरात्प्राप्यते लोके पापानां कर्मणां फलम्
३.०२८.००९ सविषाणामिवान्नानां भुक्तानां क्षणदाचर
३.०२८.०१० पापमाच्चरतां घोरं लोकस्याप्रियमिच्छताम्
३.०२८.०१० अहमासादितो राजा प्राणान् हन्तुं निशाचर
३.०२८.०११ अद्य हि त्वां मया मुक्ताः शराः काञ्चनभूषणाः
३.०२८.०११ विदार्य निपतिष्यन्ति वल्मीकमिव पन्नगाः
३.०२८.०१२ ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः
३.०२८.०१२ तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि
३.०२८.०१३ अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः
३.०२८.०१३ निरयस्थं विमानस्था ये त्वया हिंसिताः पुरा
३.०२८.०१४ प्रहर त्वं यथाकामं कुरु यत्नं कुलाधम
३.०२८.०१४ अद्य ते पातयिष्यामि शिरस्तालफलं यथा
३.०२८.०१५ एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः
३.०२८.०१५ प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्छितः
३.०२८.०१६ प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज
३.०२८.०१६ आत्मना कथमात्मानमप्रशस्यं प्रशंससि
३.०२८.०१७ विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः
३.०२८.०१७ कथयन्ति न ते किं चित्तेजसा स्वेन गर्विताः
३.०२८.०१८ प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः
३.०२८.०१८ निरर्थकं विकत्थन्ते यथा राम विकत्थसे
३.०२८.०१९ कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति
३.०२८.०१९ मृत्युकाले हि संप्राप्ते स्वयमप्रस्तवे स्तवम्
३.०२८.०२० सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम्
३.०२८.०२० सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना
३.०२८.०२१ न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम्
३.०२८.०२१ धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्
३.०२८.०२२ पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव
३.०२८.०२२ त्रयाणामपि लोकानां पाशहस्त इवान्तकः
३.०२८.०२३ कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम्
३.०२८.०२३ अस्तं गच्छेद्धि सविता युद्धविघ्रस्ततो भवेत्
३.०२८.०२४ चतुर्दश सहस्राणि राक्षसानां हतानि ते
३.०२८.०२४ त्वद्विनाशात्करोम्यद्य तेषामश्रुप्रमार्जनम्
३.०२८.०२५ इत्युक्त्वा परमक्रुद्धस्तां गदां परमाङ्गदाम्
३.०२८.०२५ खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा
३.०२८.०२६ खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा
३.०२८.०२६ भस्मवृक्षांश्च गुल्मांश्च कृत्वागात्तत्समीपतः
३.०२८.०२७ तामापतन्तीं ज्वलितां मृत्युपाशोपमां गदा
३.०२८.०२७ अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः
३.०२८.०२८ सा विशीर्णा शरैर्भिन्ना पपात धरणीतले
३.०२८.०२८ गदामन्त्रौषधिबलैर्व्यालीव विनिपातिता
३.०२९.००१ भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः
३.०२९.००१ स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत्
३.०२९.००२ एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम
३.०२९.००२ शक्तिहीनतरो मत्तो वृथा त्वमुपगर्जितम्
३.०२९.००३ एषा बाणविनिर्भिन्ना गदा भूमितलं गता
३.०२९.००३ अभिधानप्रगल्भस्य तव प्रत्ययघातिनी
३.०२९.००४ यत्त्वयोक्तं विनष्टानामिदमश्रुप्रमार्जनम्
३.०२९.००४ राक्षसानां करोमीति मिथ्या तदपि ते वचः
३.०२९.००५ नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः
३.०२९.००५ प्राणानपहरिष्यामि गरुत्मानमृतं यथा
३.०२९.००६ अद्य ते भिन्नकण्ठस्य फेनबुद्बुदभूषितम्
३.०२९.००६ विदारितस्य मद्बाणैर्मही पास्यति शोणितम्
३.०२९.००७ पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः
३.०२९.००७ स्वप्स्यसे गां समाश्लिष्य दुर्लभां प्रमदामिव
३.०२९.००८ प्रवृद्धनिद्रे शयिते त्वयि राक्षसपांसने
३.०२९.००८ भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे
३.०२९.००९ जनस्थाने हतस्थाने तव राक्षसमच्छरैः
३.०२९.००९ निर्भया विचरिष्यन्ति सर्वतो मुनयो वने
३.०२९.०१० अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः
३.०२९.०१० बाष्पार्द्रवदना दीना भयादन्यभयावहाः
३.०२९.०११ अद्य शोकरसज्ञास्ता भविष्यन्ति निशाचर
३.०२९.०११ अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः
३.०२९.०१२ नृशंसशील क्षुद्रात्मन्नित्यं ब्राह्मणकण्टक
३.०२९.०१२ त्वत्कृते शङ्कितैरग्नौ मुनिभिः पात्यते हविः
३.०२९.०१३ तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे
३.०२९.०१३ खरो निर्भर्त्सयामास रोषात्खरतर स्वनः
३.०२९.०१४ दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः
३.०२९.०१४ वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे
३.०२९.०१५ कालपाशपरिक्षिप्ता भवन्ति पुरुषा हि ये
३.०२९.०१५ कार्याकार्यं न जानन्ति ते निरस्तषडिन्द्रियाः
३.०२९.०१६ एवमुक्त्वा ततो रामं संरुध्य भृकुटिं ततः
३.०२९.०१६ स ददर्श महासालमविदूरे निशाचरः
३.०२९.०१७ रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन्
३.०२९.०१७ स तमुत्पाटयामास संदृश्य दशनच्छदम्
३.०२९.०१८ तं समुत्क्षिप्य बाहुभ्यां विनर्दित्वा महाबलः
३.०२९.०१८ राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत्
३.०२९.०१९ तमापतन्तं बाणौघैश्छित्त्वा रामः प्रतापवान्
३.०२९.०१९ रोषमाहारयत्तीव्रं निहन्तुं समरे खरम्
३.०२९.०२० जातस्वेदस्ततो रामो रोषाद्रक्तान्तलोचनः
३.०२९.०२० निर्बिभेद सहस्रेण बाणानां समरे खरम्
३.०२९.०२१ तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम्
३.०२९.०२१ गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः
३.०२९.०२२ विह्वलः स कृतो बाणैः खरो रामेण संयुगे
३.०२९.०२२ मत्तो रुधिरगन्धेन तमेवाभ्यद्रवद्द्रुतम्
३.०२९.०२३ तमापतन्तं संरब्धं कृतास्त्रो रुधिराप्लुतम्
३.०२९.०२३ अपसर्पत्प्रतिपदं किं चित्त्वरितविक्रमः
३.०२९.०२४ ततः पावकसंकाशं बधाय समरे शरम्
३.०२९.०२४ खरस्य रामो जग्राह ब्रह्मदण्डमिवापरम्
३.०२९.०२५ स तद्दत्तं मघवता सुरराजेन धीमता
३.०२९.०२५ संदधे च स धर्मात्मा मुमोच च खरं प्रति
३.०२९.०२६ स विमुक्तो महाबाणो निर्घातसमनिःस्वनः
३.०२९.०२६ रामेण धनुरुद्यम्य खरस्योरसि चापतत्
३.०२९.०२७ स पपात खरो भूमौ दह्यमानः शराग्निना
३.०२९.०२७ रुद्रेणैव विनिर्दग्धः श्वेतारण्ये यथान्धकः
३.०२९.०२८ स वृत्र इव वज्रेण फेनेन नमुचिर्यथाअ
३.०२९.०२८ बलो वेन्द्राशनिहतो निपपात हतः खरः
३.०२९.०२९ ततो राजर्षयः सर्वे संगताः परमर्षयः
३.०२९.०२९ सभाज्य मुदिता राममिदं वचनमब्रुवन्
३.०२९.०३० एतदर्थं महातेजा महेन्द्रः पाकशासनः
३.०२९.०३० शरभङ्गाश्रमं पुण्यमाजगाम पुरंदरः
३.०२९.०३१ आनीतस्त्वमिमं देशमुपायेन महर्षिभिः
३.०२९.०३१ एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम्
३.०२९.०३२ तदिदं नः कृतं कार्यं त्वया दशरथात्मज
३.०२९.०३२ सुखं धर्मं चरिष्यन्ति दण्डकेषु महर्षयः
३.०२९.०३३ एतस्मिन्नन्तरे वीरो लक्ष्मणः सह सीतया
३.०२९.०३३ गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी
३.०२९.०३४ ततो रामस्तु विजयी पूज्यमानो महर्षिभिः
३.०२९.०३४ प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिवादितः
३.०२९.०३५ तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्
३.०२९.०३५ बभूव हृष्टा वैदेही भर्तारं परिषस्वजे
३.०३०.००१ ततः शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश
३.०३०.००१ हतान्येकेन रामेण रक्षसां भीमकर्मणाम्
३.०३०.००२ दूषणं च खरं चैव हतं त्रिशिरसं रणे
३.०३०.००२ दृष्ट्वा पुनर्महानादं ननाद जलदोपमा
३.०३०.००३ सा दृष्ट्वा कर्म रामस्य कृतमन्यैः सुदुष्करम्
३.०३०.००३ जगाम परमौद्विग्ना लङ्कां रावणपालिताम्
३.०३०.००४ स ददर्श विमानाग्रे रावणं दीप्ततेजसं
३.०३०.००४ उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम्
३.०३०.००५ आसीनं सूर्यसंकाशे काञ्चने परमासने
३.०३०.००५ रुक्मवेदिगतं प्राज्यं ज्वलन्तमिव पावकम्
३.०३०.००६ देवगन्धर्वभूतानामृषीणां च महात्मनाम्
३.०३०.००६ अजेयं समरे शूरं व्यात्ताननमिवान्तकम्
३.०३०.००७ देवासुरविमर्देषु वज्राशनिकृतव्रणम्
३.०३०.००७ ऐरावतविषाणाग्रैरुत्कृष्टकिणवक्षसं
३.०३०.००८ विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम्
३.०३०.००८ विशालवक्षसं वीरं राजलक्ष्मणलक्षितम्
३.०३०.००९ स्निग्धवैदूर्यसंकाशं तप्तकाञ्चनकुण्डलम्
३.०३०.००९ सुभुजं शुक्लदशनं महास्यं पर्वतोपमम्
३.०३०.०१० विष्णुचक्रनिपातैश्च शतशो देवसंयुगे
३.०३०.०१० आहताङ्गं समस्तैश्च देवप्रहरणैस्तथा
३.०३०.०११ अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम्
३.०३०.०११ क्षेप्तारं पर्वताग्राणां सुराणां च प्रमर्दनम्
३.०३०.०१२ उच्छेत्तारं च धर्माणां परदाराभिमर्शनम्
३.०३०.०१२ सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा
३.०३०.०१३ पुरीं भोगवतीं गत्वा पराजित्य च वासुकिम्
३.०३०.०१३ तक्षकस्य प्रियां भार्यां पराजित्य जहार यः
३.०३०.०१४ कैलासं पर्वतं गत्वा विजित्य नरवाहनम्
३.०३०.०१४ विमानं पुष्पकं तस्य कामगं वै जहार यः
३.०३०.०१५ वनं चैत्ररथं दिव्यं नलिनीं नन्दनं वनम्
३.०३०.०१५ विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान्
३.०३०.०१६ चन्द्रसूर्यौ महाभागावुत्तिष्ठन्तौ परंतपौ
३.०३०.०१६ निवारयति बाहुभ्यां यः शैलशिखरोपमः
३.०३०.०१७ दशवर्षसहस्राणि तपस्तप्त्वा महावने
३.०३०.०१७ पुरा स्वयम्भुवे धीरः शिरांस्युपजहार यः
३.०३०.०१८ देवदानवगन्धर्वपिशाचपतगोरगैः
३.०३०.०१८ अभयं यस्य संग्रामे मृत्युतो मानुषादृते
३.०३०.०१९ मन्त्ररभितुष्टं पुण्यमध्वरेषु द्विजातिभिः
३.०३०.०१९ हविर्धानेषु यः सोममुपहन्ति महाबलः
३.०३०.०२० आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम्
३.०३०.०२० कर्कशं निरनुक्रोशं प्रजानामहिते रतम्
३.०३०.०२० रावणं सर्वभूतानां सर्वलोकभयावहम्
३.०३०.०२१ राक्षसी भ्रातरं क्रूरं सा ददर्श महाबलम्
३.०३०.०२१ तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम्
३.०३०.०२१ राक्षसेन्द्रं महाभागं पौलस्त्य कुलनन्दनम्
३.०३०.०२२ तमब्रवीद्दीप्तविशाललोचनं॑ प्रदर्शयित्वा भयमोहमूर्छिता
३.०३०.०२२ सुदारुणं वाक्यमभीतचारिणी॑ महात्मना शूर्पणखा विरूपिता
३.०३१.००१ ततः शूर्पणखा दीना रावणं लोकरावणम्
३.०३१.००१ अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्
३.०३१.००२ प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः
३.०३१.००२ समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे
३.०३१.००३ सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्
३.०३१.००३ लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः
३.०३१.००४ स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः
३.०३१.००४ स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति
३.०३१.००५ अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्
३.०३१.००५ वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः
३.०३१.००६ ये न रक्षन्ति विषयमस्वाधीना नराधिपः
३.०३१.००६ ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा
३.०३१.००७ आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः
३.०३१.००७ अयुक्तचारश्चपलः कथं राजा भविष्यसि
३.०३१.००८ येषां चारश्च कोशश्च नयश्च जयतां वर
३.०३१.००८ अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः
३.०३१.००९ यस्मात्पश्यन्ति दूरस्थान् सर्वानर्थान्नराधिपाः
३.०३१.००९ चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः
३.०३१.०१० अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम्
३.०३१.०१० स्वजनं च जनस्थानं हतं यो नावबुध्यसे
३.०३१.०११ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
३.०३१.०११ हतान्येकेन रामेण खरश्च सहदूषणः
३.०३१.०१२ ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः
३.०३१.०१२ धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा
३.०३१.०१३ त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण
३.०३१.०१३ विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे
३.०३१.०१४ तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्
३.०३१.०१४ व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्
३.०३१.०१५ अतिमानिनमग्राह्यमात्मसंभावितं नरम्
३.०३१.०१५ क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम्
३.०३१.०१६ नानुतिष्ठति कार्याणि भयेषु न बिभेति च
३.०३१.०१६ क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति
३.०३१.०१७ शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः
३.०३१.०१७ न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः
३.०३१.०१८ उपभुक्तं यथा वासः स्रजो वा मृदिता यथा
३.०३१.०१८ एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः
३.०३१.०१९ अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः
३.०३१.०१९ कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्
३.०३१.०२० नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा
३.०३१.०२० व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः
३.०३१.०२१ त्वं तु रावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितः
३.०३१.०२१ यस्य तेऽविदितश्चारै रक्षसां सुमहान् वधः
३.०३१.०२२ परावमन्ता विषयेषु संगतो॑ नदेश कालप्रविभाग तत्त्ववित्
३.०३१.०२२ अयुक्तबुद्धिर्गुणदोषनिश्चये॑ विपन्नराज्यो न चिराद्विपत्स्यते
३.०३१.०२३ इति स्वदोषान् परिकीर्तितांस्तया॑ समीक्ष्य बुद्ध्या क्षणदाचरेश्वरः
३.०३१.०२३ धनेन दर्पेण बलेन चान्वितो॑ विचिन्तयामास चिरं स रावणः
३.०३२.००१ ततः शूर्पणखां क्रुद्धां ब्रुवतीं परुषं वचः
३.०३२.००१ अमात्यमध्ये संक्रुद्धः परिपप्रच्छ रावणः
३.०३२.००२ कश्च रामः कथं वीर्यः किं रूपः किं पराक्रमः
३.०३२.००२ किमर्थं दण्डकारण्यं प्रविष्टश्च सुदुश्चरम्
३.०३२.००३ आयुधं किं च रामस्य निहता येन राक्षसाः
३.०३२.००३ खरश्च निहतं संख्ये दूषणस्त्रिशिरास्तथा
३.०३२.००४ इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूर्छिता
३.०३२.००४ ततो रामं यथान्यायमाख्यातुमुपचक्रमे
३.०३२.००५ दीर्घबाहुर्विशालाक्षश्चीरकृष्णाजिनाम्बरः
३.०३२.००५ कन्दर्पसमरूपश्च रामो दशरथात्मजः
३.०३२.००६ शक्रचापनिभं चापं विकृष्य कनकाङ्गदम्
३.०३२.००६ दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान्
३.०३२.००७ नाददानं शरान् घोरान्न मुञ्चन्तं महाबलम्
३.०३२.००७ न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे
३.०३२.००८ हन्यमानं तु तत्सैन्यं पश्यामि शरवृष्टिभिः
३.०३२.००८ इन्द्रेणैवोत्तमं सस्यमाहतं त्वश्मवृष्टिभिः
३.०३२.००९ रक्षसां भीमवीर्याणां सहस्राणि चतुर्दश
३.०३२.००९ निहतानि शरैस्तीक्ष्णैस्तेनैकेन पदातिना
३.०३२.०१० अर्धाधिकमुहूर्तेन खरश्च सहदूषणः
३.०३२.०१० ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः
३.०३२.०११ एका कथं चिन्मुक्ताहं परिभूय महात्मना
३.०३२.०११ स्त्रीवधं शङ्कमानेन रामेण विदितात्मना
३.०३२.०१२ भ्राता चास्य महातेजा गुणतस्तुल्यविक्रमः
३.०३२.०१२ अनुरक्तश्च भक्तश्च लक्ष्मणो नाम वीर्यवान्
३.०३२.०१३ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली
३.०३२.०१३ रामस्य दक्षिणे बाहुर्नित्यं प्राणो बहिष्चरः
३.०३२.०१४ रामस्य तु विशालाक्षी धर्मपत्नी यशस्विनी
३.०३२.०१४ सीता नाम वरारोहा वैदेही तनुमध्यमा
३.०३२.०१५ नैव देवी न गन्धर्वा न यक्षी न च किंनरी
३.०३२.०१५ तथारूपा मया नारी दृष्टपूर्वा महीतले
३.०३२.०१६ यस्य सीता भवेद्भार्या यं च हृष्टा परिष्वजेत्
३.०३२.०१६ अतिजीवेत्स सर्वेषु लोकेष्वपि पुरंदरात्
३.०३२.०१७ सा सुशीला वपुःश्लाघ्या रूपेणाप्रतिमा भुवि
३.०३२.०१७ तवानुरूपा भार्या सा त्वं च तस्यास्तथा पतिः
३.०३२.०१८ तां तु विस्तीर्णजघनां पीनोत्तुङ्गपयोधराम्
३.०३२.०१८ भार्यार्थे तु तवानेतुमुद्यताहं वराननाम्
३.०३२.०१९ तां तु दृष्ट्वाद्य वैदेहीं पूर्णचन्द्रनिभाननाम्
३.०३२.०१९ मन्मथस्य शराणां च त्वं विधेयो भविष्यसि
३.०३२.०२० यदि तस्यामभिप्रायो भार्यार्थे तव जायते
३.०३२.०२० शीघ्रमुद्ध्रियतां पादो जयार्थमिह दक्षिणः
३.०३२.०२१ कुरु प्रियं तथा तेषां रक्षसां राक्षसेश्वर
३.०३२.०२१ वधात्तस्य नृशंसस्य रामस्याश्रमवासिनः
३.०३२.०२२ तं शरैर्निशितैर्हत्वा लक्ष्मणं च महारथम्
३.०३२.०२२ हतनाथां सुखं सीतां यथावदुपभोक्ष्यसे
३.०३२.०२३ रोचते यदि ते वाक्यं ममैतद्राक्षसेश्वर
३.०३२.०२३ क्रियतां निर्विशङ्केन वचनं मम राघव
३.०३२.०२४ निशम्य रामेण शरैरजिह्मगैर्॑ हताञ्जनस्थानगतान्निशाचरान्
३.०३२.०२४ खरं च बुद्ध्वा निहतं च दूषणं॑ त्वमद्य कृत्यं प्रतिपत्तुमर्हसि
३.०३३.००१ ततः शूर्पणखा वाक्यं तच्छ्रुत्वा रोमहर्षणम्
३.०३३.००१ सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह
३.०३३.००२ तत्कार्यमनुगम्याथ यथावदुपलभ्य च
३.०३३.००२ दोषाणां च गुणानां च संप्रधार्य बलाबलम्
३.०३३.००३ इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः
३.०३३.००३ स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह
३.०३३.००४ यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः
३.०३३.००४ सूतं संचोदयामास रथः संयुज्यतामिति
३.०३३.००५ एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः
३.०३३.००५ रथं संयोजयामास तस्याभिमतमुत्तमम्
३.०३३.००६ काञ्चनं रथमास्थाय कामगं रत्नभूषितम्
३.०३३.००६ पिशाचवदनैर्युक्तं खरैः कनकभूषणैः
३.०३३.००७ मेघप्रतिमनादेन स तेन धनदानुजः
३.०३३.००७ राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्
३.०३३.००८ स श्वेतबालव्यसनः श्वेतच्छत्रो दशाननः
३.०३३.००८ स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः
३.०३३.००९ दशास्यो विंशतिभुजो दर्शनीय परिच्छदः
३.०३३.००९ त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्
३.०३३.०१० कामगं रथमास्थाय शुशुभे राक्षसाधिपः
३.०३३.०१० विद्युन्मण्डलवान्मेघः सबलाक इवाम्बरे
३.०३३.०११ सशैलं सागरानूपं वीर्यवानवलोकयन्
३.०३३.०११ नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः
३.०३३.०१२ शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः
३.०३३.०१२ विशालैराश्रमपदैर्वेदिमद्भिः समावृतम्
३.०३३.०१३ कदल्याढकिसंबाधं नालिकेरोपशोभितम्
३.०३३.०१३ सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः
३.०३३.०१४ अत्यन्तनियताहारैः शोभितं परमर्षिभिः
३.०३३.०१४ नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः
३.०३३.०१५ जितकामैश्च सिद्धैश्च चामणैश्चोपशोभितम्
३.०३३.०१५ आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः
३.०३३.०१६ दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम्
३.०३३.०१६ क्रीडा रतिविधिज्ञाभिरप्सरोभिः सहस्रशः
३.०३३.०१७ सेवितं देवपत्नीभिः श्रीमतीभिः श्रिया वृतम्
३.०३३.०१७ देवदानवसंघैश्च चरितं त्वमृताशिभिः
३.०३३.०१८ हंसक्रौञ्चप्लवाकीर्णं सारसैः संप्रणादितम्
३.०३३.०१८ वैदूर्यप्रस्तरं रम्यं स्निग्धं सागरतेजसा
३.०३३.०१९ पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च
३.०३३.०१९ तूर्यगीताभिजुष्टानि विमानानि समन्ततः
३.०३३.०२० तपसा जितलोकानां कामगान्यभिसंपतन्
३.०३३.०२० गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः
३.०३३.०२१ निर्यासरसमूलानां चन्दनानां सहस्रशः
३.०३३.०२१ वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च
३.०३३.०२२ अगरूणां च मुख्यानां वनान्युपवनानि च
३.०३३.०२२ तक्कोलानां च जात्यानां फलानां च सुगन्धिनाम्
३.०३३.०२३ पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च
३.०३३.०२३ मुक्तानां च समूहानि शुष्यमाणानि तीरतः
३.०३३.०२४ शङ्खानां प्रस्तरं चैव प्रवालनिचयं तथा
३.०३३.०२४ काञ्चनानि च शैलानि राजतानि च सर्वशः
३.०३३.०२५ प्रस्रवाणि मनोज्ञानि प्रसन्नानि ह्रदानि च
३.०३३.०२५ धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च
३.०३३.०२६ हस्त्यश्वरथगाढानि नगराण्यवलोकयन्
३.०३३.०२६ तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्
३.०३३.०२७ अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपमम्
३.०३३.०२७ तत्रापश्यत्स मेघाभं न्यग्रोधमृषिभिर्वृतम्
३.०३३.०२८ समन्ताद्यस्य ताः शाखाः शतयोजनमायताः
३.०३३.०२८ यस्य हस्तिनमादाय महाकायं च कच्चपम्
३.०३३.०२८ भक्षार्थं गरुडः शाखामाजगाम महाबलः
३.०३३.०२९ तस्य तां सहसा शाखां भारेण पतगोत्तमः
३.०३३.०२९ सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः
३.०३३.०३० तत्र वैखानसा माषा वालखिल्या मरीचिपाः
३.०३३.०३० अजा बभूवुर्धूम्राश्च संगताः परमर्षयः
३.०३३.०३१ तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्
३.०३३.०३१ जगामादाय वेगेन तौ चोभौ गजकच्छपौ
३.०३३.०३२ एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्
३.०३३.०३२ निषादविषयं हत्वा शाखया पतगोत्तमः
३.०३३.०३२ प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्
३.०३३.०३३ स तेनैव प्रहर्षेण द्विगुणीकृतविक्रमः
३.०३३.०३३ अमृतानयनार्थं वै चकार मतिमान्मतिम्
३.०३३.०३४ अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम्
३.०३३.०३४ महेन्द्रभवनाद्गुप्तमाजहारामृतं ततः
३.०३३.०३५ तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम्
३.०३३.०३५ नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः
३.०३३.०३६ तं तु गत्वा परं पारं समुद्रस्य नदीपतेः
३.०३३.०३६ ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे
३.०३३.०३७ तत्र कृष्णाजिनधरं जटावल्कलधारिणम्
३.०३३.०३७ ददर्श नियताहारं मारीचं नाम राक्षसं
३.०३३.०३८ स रावणः समागम्य विधिवत्तेन रक्षसा
३.०३३.०३८ ततः पश्चादिदं वाक्यमब्रवीद्वाक्यकोविदः
३.०३४.००१ मारीच श्रूयतां तात वचनं मम भाषतः
३.०३४.००१ आर्तोऽस्मि मम चार्तस्य भवान् हि परमा गतिः
३.०३४.००२ जानीषे त्वं जनस्थानं भ्राता यत्र खरो मम
३.०३४.००२ दूषणश्च महाबाहुः स्वसा शूर्पणखा च मे
३.०३४.००३ त्रिशिराश्च महातेजा राक्षसः पिशिताशनः
३.०३४.००३ अन्ये च बहवः शूरा लब्धलक्षा निशाचराः
३.०३४.००४ वसन्ति मन्नियोगेन अधिवासं च राक्षसः
३.०३४.००४ बाधमाना महारण्ये मुनीन् ये धर्मचारिणः
३.०३४.००५ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
३.०३४.००५ शूराणां लब्धलक्षाणां खरचित्तानुवर्तिनाम्
३.०३४.००६ ते त्विदानीं जनस्थाने वसमाना महाबलाः
३.०३४.००६ संगताः परमायत्ता रामेण सह संयुगे
३.०३४.००७ तेन संजातरोषेण रामेण रणमूर्धनि
३.०३४.००७ अनुक्त्वा परुषं किं चिच्छरैर्व्यापारितं धनुः
३.०३४.००८ चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्
३.०३४.००८ निहतानि शरैस्तीक्ष्णैर्मानुषेण पदातिना
३.०३४.००९ खरश्च निहतः संख्ये दूषणश्च निपातितः
३.०३४.००९ हत्वा त्रिशिरसं चापि निर्भया दण्डकाः कृताः
३.०३४.०१० पित्रा निरस्तः क्रुद्धेन सभार्यः क्षीणजीवितः
३.०३४.०१० स हन्ता तस्य सैन्यस्य रामः क्षत्रियपांसनः
३.०३४.०११ अशीलः कर्कशस्तीक्ष्णो मूर्खो लुब्धोऽजितेन्द्रियः
३.०३४.०११ त्यक्तधर्मस्त्वधर्मात्मा भूतानामहिते रतः
३.०३४.०१२ येन वैरं विनारण्ये सत्त्वमाश्रित्य केवलम्
३.०३४.०१२ कर्णनासापहारेण भगिनी मे विरूपिता
३.०३४.०१३ तस्य भार्यां जनस्थानात्सीतां सुरसुतोपमाम्
३.०३४.०१३ आनयिष्यामि विक्रम्य सहायस्तत्र मे भव
३.०३४.०१४ त्वया ह्यहं सहायेन पार्श्वस्थेन महाबल
३.०३४.०१४ भ्रातृभिश्च सुरान् युद्धे समग्रान्नाभिचिन्तये
३.०३४.०१५ तत्सहायो भव त्वं मे समर्थो ह्यसि राक्षस
३.०३४.०१५ वीर्ये युद्धे च दर्पे च न ह्यस्ति सदृशस्तव
३.०३४.०१६ एतदर्थमहं प्राप्तस्त्वत्समीपं निशाचर
३.०३४.०१६ शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम
३.०३४.०१७ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः
३.०३४.०१७ आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर
३.०३४.०१८ त्वां तु निःसंशयं सीता दृष्ट्वा तु मृगरूपिणम्
३.०३४.०१८ गृह्यतामिति भर्तारं लक्ष्मणं चाभिधास्यति
३.०३४.०१९ ततस्तयोरपाये तु शून्ये सीतां यथासुखम्
३.०३४.०१९ निराबाधो हरिष्यामि राहुश्चन्द्रप्रभामिव
३.०३४.०२० ततः पश्चात्सुखं रामे भार्याहरणकर्शिते
३.०३४.०२० विस्रब्धं प्रहरिष्यामि कृतार्थेनान्तरात्मना
३.०३४.०२१ तस्य रामकथां श्रुत्वा मारीचस्य महात्मनः
३.०३४.०२१ शुष्कं समभवद्वक्त्रं परित्रस्तो बभूव च
३.०३४.०२२ स रावणं त्रस्तविषण्णचेता॑ महावने रामपराक्रमज्ञः
३.०३४.०२२ कृताञ्जलिस्तत्त्वमुवाच वाक्यं॑ हितं च तस्मै हितमात्मनश्च
३.०३५.००१ तच्छ्रुत्वा राक्षसेन्द्रस्य वाक्यं वाक्यविशारदः
३.०३५.००१ प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम्
३.०३५.००२ सुलभाः पुरुषा राजन् सततं प्रियवादिनः
३.०३५.००२ अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः
३.०३५.००३ न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम्
३.०३५.००३ अयुक्तचारश्चपलो महेन्द्रवरुणोपमम्
३.०३५.००४ अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम्
३.०३५.००४ अपि रामो न संक्रुद्धः कुर्याल्लोकमराक्षसं
३.०३५.००५ अपि ते जीवितान्ताय नोत्पन्ना जनकात्मजा
३.०३५.००५ अपि सीता निमित्तं च न भवेद्व्यसनं महत्
३.०३५.००६ अपि त्वामीश्वरं प्राप्य कामवृत्तं निरङ्कुशम्
३.०३५.००६ न विनश्येत्पुरी लङ्का त्वया सह सराक्षसा
३.०३५.००७ त्वद्विधः कामवृत्तो हि दुःशीलः पापमन्त्रितः
३.०३५.००७ आत्मानं स्वजनं राष्ट्रं स राजा हन्ति दुर्मतिः
३.०३५.००८ न च पित्रा परित्यक्तो नामर्यादः कथं चन
३.०३५.००८ न लुब्धो न च दुःशीलो न च क्षत्रियपांसनः
३.०३५.००९ न च धर्मगुणैर्हीनैः कौसल्यानन्दवर्धनः
३.०३५.००९ न च तीक्ष्णो हि भूतानां सर्वेषां च हिते रतः
३.०३५.०१० वञ्चितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम्
३.०३५.०१० करिष्यामीति धर्मात्मा ततः प्रव्रजितो वनम्
३.०३५.०११ कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च
३.०३५.०११ हित्वा राज्यं च भोगांश्च प्रविष्टो दण्डकावनम्
३.०३५.०१२ न रामः कर्कशस्तात नाविद्वान्नाजितेन्द्रियः
३.०३५.०१२ अनृतं न श्रुतं चैव नैव त्वं वक्तुमर्हसि
३.०३५.०१३ रामो विग्रहवान् धर्मः साधुः सत्यपराक्रमः
३.०३५.०१३ राजा सर्वस्य लोकस्य देवानामिव वासवः
३.०३५.०१४ कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा
३.०३५.०१४ इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः
३.०३५.०१५ शरार्चिषमनाधृष्यं चापखड्गेन्धनं रणे
३.०३५.०१५ रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि
३.०३५.०१६ धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम्
३.०३५.०१६ चापबाणधरं वीरं शत्रुसेनापहारिणम्
३.०३५.०१७ राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः
३.०३५.०१७ नात्यासादयितुं तात रामान्तकमिहार्हसि
३.०३५.०१८ अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा
३.०३५.०१८ न त्वं समर्थस्तां हर्तुं रामचापाश्रयां वने
३.०३५.०१९ प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता
३.०३५.०१९ दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा
३.०३५.०२० किमुद्यमं व्यर्थमिमं कृत्वा ते राक्षसाधिप
३.०३५.०२० दृष्टश्चेत्त्वं रणे तेन तदन्तं तव जीवितम्
३.०३५.०२० जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम्
३.०३५.०२१ स सर्वैः सचिवैः सार्धं विभीषणपुरस्कृतैः
३.०३५.०२१ मन्त्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः
३.०३५.०२२ दोषाणां च गुणानां च संप्रधार्य बलाबलम्
३.०३५.०२२ आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्त्वतः
३.०३५.०२२ हितं हि तव निश्चित्य क्षमं त्वं कर्तुमर्हसि
३.०३५.०२३ अहं तु मन्ये तव न क्षमं रणे॑ समागमं कोसलराजसूनुना
३.०३५.०२३ इदं हि भूयः शृणु वाक्यमुत्तमं॑ क्षमं च युक्तं च निशाचराधिप
३.०३६.००१ कदा चिदप्यहं वीर्यात्पर्यटन् पृथिवीमिमाम्
३.०३६.००१ बलं नागसहस्रस्य धारयन् पर्वतोपमः
३.०३६.००२ नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः
३.०३६.००२ भयं लोकस्य जनयन् किरीटी परिघायुधः
३.०३६.००२ व्यचरं दण्डकारण्यमृषिमांसानि भक्षयन्
३.०३६.००३ विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः
३.०३६.००३ स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्
३.०३६.००४ अयं रक्षतु मां रामः पर्वकाले समाहितः
३.०३६.००४ मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर
३.०३६.००५ इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा
३.०३६.००५ प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्
३.०३६.००६ ऊन षोडश वर्षोऽयमकृतास्त्रश्च राघवः
३.०३६.००६ कामं तु मम यत्सैन्यं मया सह गमिष्यति
३.०३६.००६ बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम्
३.०३६.००७ इत्येवमुक्तः स मुनी राजानं पुनरब्रवीत्
३.०३६.००७ रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः
३.०३६.००८ बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे
३.०३६.००८ गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतपः
३.०३६.००९ इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम्
३.०३६.००९ जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्
३.०३६.०१० तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्
३.०३६.०१० बभूवावस्थितो रामश्चित्रं विस्फारयन् धनुः
३.०३६.०११ अजातव्यञ्जनः श्रीमान् बालः श्यामः शुभेक्षणः
३.०३६.०११ एकवस्त्रधरो धन्वी शिखी कनकमालया
३.०३६.०१२ शोभयन् दण्डकारण्यं दीप्तेन स्वेन तेजसा
३.०३६.०१२ अदृश्यत तदा रामो बालचन्द्र इवोदितः
३.०३६.०१३ ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः
३.०३६.०१३ बली दत्तवरो दर्पादाजगाम तदाश्रमम्
३.०३६.०१४ तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः
३.०३६.०१४ मां तु दृष्ट्वा धनुः सज्यमसंभ्रान्तश्चकार ह
३.०३६.०१५ अवजानन्नहं मोहाद्बालोऽयमिति राघवम्
३.०३६.०१५ विश्वामित्रस्य तां वेदिमध्यधावं कृतत्वरः
३.०३६.०१६ तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः
३.०३६.०१६ तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने
३.०३६.०१७ रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः
३.०३६.०१७ पातितोऽहं तदा तेन गम्भीरे सागराम्भसि
३.०३६.०१७ प्राप्य संज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम्
३.०३६.०१८ एवमस्मि तदा मुक्तः सहायास्ते निपातिताः
३.०३६.०१८ अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा
३.०३६.०१९ तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्
३.०३६.०१९ करिष्यस्यापदं घोरां क्षिप्रं प्राप्य नशिष्यसि
३.०३६.०२० क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम्
३.०३६.०२० रक्षसां चैव संतापमनर्थं चाहरिष्यसि
३.०३६.०२१ हर्म्यप्रासादसंबाधां नानारत्नविभूउषिताम्
३.०३६.०२१ द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते
३.०३६.०२२ अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्
३.०३६.०२२ परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा
३.०३६.०२३ दिव्यचन्दनदिग्धाङ्गान् दिव्याभरणभूषितान्
३.०३६.०२३ द्रक्ष्यस्यभिहतान् भूमौ तव दोषात्तु राक्षसान्
३.०३६.०२४ हृतदारान् सदारांश्च दशविद्रवतो दिशः
३.०३६.०२४ हतशेषानशरणान् द्रक्ष्यसि त्वं निशाचरान्
३.०३६.०२५ शरजालपरिक्षिप्तामग्निज्वालासमावृताम्
३.०३६.०२५ प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्
३.०३६.०२६ प्रमदानां सहस्राणि तव राजन् परिग्रहः
३.०३६.०२६ भव स्वदारनिरतः स्वकुलं रक्षराक्षस
३.०३६.०२७ मानं वृद्धिं च राज्यं च जीवितं चेष्टमिआत्मनः
३.०३६.०२७ यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम्
३.०३६.०२८ निवार्यमाणः सुहृदा मया भृशं॑ प्रसह्य सीतां यदि धर्षयिष्यसि
३.०३६.०२८ गमिष्यसि क्षीणबलः सबान्धवो॑ यमक्षयं रामशरात्तजीवितः
३.०३७.००१ एवमस्मि तदा मुक्तः कथं चित्तेन संयुगे
३.०३७.००१ इदानीमपि यद्वृत्तं तच्छृणुष्व यदुत्तरम्
३.०३७.००२ राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथा कृतः
३.०३७.००२ सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावनम्
३.०३७.००३ दीप्तजिह्वो महाकायस्तीक्ष्णशृण्गो महाबलः
३.०३७.००३ व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः
३.०३७.००४ अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण
३.०३७.००४ अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन्
३.०३७.००५ निहत्य दण्डकारण्ये तापसान् धर्मचारिणः
३.०३७.००५ रुधिराणि पिबंस्तेषां तथा मांसानि भक्षयन्
३.०३७.००६ ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान्
३.०३७.००६ तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम्
३.०३७.००७ तदाहं दण्डकारण्ये विचरन् धर्मदूषकः
३.०३७.००७ आसादयं तदा रामं तापसं धर्ममाश्रितम्
३.०३७.००८ वैदेहीं च महाभागां लक्ष्मणं च महारथम्
३.०३७.००८ तापसं नियताहारं सर्वभूतहिते रतम्
३.०३७.००९ सोऽहं वनगतं रामं परिभूय महाबलम्
३.०३७.००९ तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन्
३.०३७.०१० अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः
३.०३७.०१० जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन्
३.०३७.०११ तेन मुक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः
३.०३७.०११ विकृष्य बलवच्चापं सुपर्णानिलतुल्यगाः
३.०३७.०१२ ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः
३.०३७.०१२ आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः
३.०३७.०१३ पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा
३.०३७.०१३ समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ
३.०३७.०१४ शरेण मुक्तो रामस्य कथं चित्प्राप्य जीवितम्
३.०३७.०१४ इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः
३.०३७.०१५ वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम्
३.०३७.०१५ गृहीतधनुषं रामं पाशहस्तमिवान्तकम्
३.०३७.०१६ अपि रामसहस्राणि भीतः पश्यामि रावण
३.०३७.०१६ रामभूतमिदं सर्वमरण्यं प्रतिभाति मे
३.०३७.०१७ राममेव हि पश्यामि रहिते राक्षसेश्वर
३.०३७.०१७ दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः
३.०३७.०१८ रकारादीनि नामानि रामत्रस्तस्य रावण
३.०३७.०१८ रत्नानि च रथाश्चैव त्रासं संजनयन्ति मे
३.०३७.०१९ अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम्
३.०३७.०१९ रणे रामेण युध्यस्व क्षमां वा कुरु राक्षस
३.०३७.०१९ न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि
३.०३७.०२० इदं वचो बन्धुहितार्थिना मया॑ यथोच्यमानं यदि नाभिपत्स्यसे
३.०३७.०२० सबान्धवस्त्यक्ष्यसि जीवितं रणे॑ हतोऽद्य रामेण शरैरजिह्मगैः
३.०३८.००१ मारीचेन तु तद्वाक्यं क्षमं युक्तं च रावणः
३.०३८.००१ उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम्
३.०३८.००२ तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः
३.०३८.००२ अब्रवीत्परुषं वाक्यमयुक्तं कालचोदितः
३.०३८.००३ यत्किलैतदयुक्तार्थं मारीच मयि कथ्यते
३.०३८.००३ वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे
३.०३८.००४ त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे
३.०३८.००४ पापशीलस्य मूर्खस्य मानुषस्य विशेषतः
३.०३८.००५ यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा
३.०३८.००५ स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः
३.०३८.००६ अवश्यं तु मया तस्य संयुगे खरघातिनः
३.०३८.००६ प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ
३.०३८.००७ एवं मे निश्चिता बुद्धिर्हृदि मारीच वर्तते
३.०३८.००७ न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः
३.०३८.००८ दोषं गुणं वा संपृष्टस्त्वमेवं वक्तुमर्हसि
३.०३८.००८ अपायं वाप्युपायं वा कार्यस्यास्य विनिश्चने
३.०३८.००९ संपृष्टेन तु वक्तव्यं सचिवेन विपश्चिता
३.०३८.००९ उद्यताञ्जलिना राज्ञो य इच्छेद्भूतिमात्मनः
३.०३८.०१० वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम्
३.०३८.०१० उपचारेण युक्तं च वक्तव्यो वसुधाधिपः
३.०३८.०११ सावमर्दं तु यद्वाक्यं मारीच हितमुच्यते
३.०३८.०११ नाभिनन्दति तद्राजा मानार्हो मानवर्जितम्
३.०३८.०१२ पञ्चरूपाणि राजानो धारयन्त्यमितौजसः
३.०३८.०१२ अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च
३.०३८.०१२ औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम्
३.०३८.०१३ तस्मात्सर्वास्ववस्थासु मान्याः पूज्याश्च पार्थिवाः
३.०३८.०१३ त्वं तु धर्ममविज्ञाय केवलं मोहमास्थितः
३.०३८.०१४ अभ्यागतं मां दौरात्म्यात्परुषं वदसीदृशम्
३.०३८.०१४ गुणदोषौ न पृच्छामि क्षमं चात्मनि राक्षस
३.०३८.०१४ अस्मिंस्तु स भवान् कृत्ये साहार्य्यं कर्तुमर्हसि
३.०३८.०१५ सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः
३.०३८.०१५ प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि
३.०३८.०१६ त्वां तु माया मृगं दृष्ट्वा काञ्चनं जातविस्मया
३.०३८.०१६ आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली
३.०३८.०१७ अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम्
३.०३८.०१७ आनयिष्यामि वैदेहीं सहस्राक्षः शचीमिव
३.०३८.०१८ एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस
३.०३८.०१८ राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत
३.०३८.०१९ गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये
३.०३८.०१९ प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम्
३.०३८.०१९ लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया
३.०३८.०२० एतत्कार्यमवश्यं मे बलादपि करिष्यसि
३.०३८.०२० राज्ञो हि प्रतिकूलस्थो न जातु सुखमेधते
३.०३८.०२१ आसाद्या तं जीवितसंशयस्ते॑ मृत्युर्ध्रुवो ह्यद्य मया विरुध्य
३.०३८.०२१ एतद्यथावत्परिगृह्य बुद्ध्या॑ यदत्र पथ्यं कुरु तत्तथा त्वम्
३.०३९.००१ आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः
३.०३९.००१ अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम्
३.०३९.००२ केनायमुपदिष्टस्ते विनाशः पापकर्मणा
३.०३९.००२ सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर
३.०३९.००३ कस्त्वया सुखिना राजन्नाभिनन्दति पापकृत्
३.०३९.००३ केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः
३.०३९.००४ शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर
३.०३९.००४ इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा
३.०३९.००५ केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना
३.०३९.००५ यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर
३.०३९.००६ वध्याः खलु न हन्यन्ते सचिवास्तव रावण
३.०३९.००६ ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः
३.०३९.००७ अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः
३.०३९.००७ निग्राह्यः सर्वथा सद्भिर्न निग्राह्यो निगृह्यसे
३.०३९.००८ धर्ममर्थं च कामं च यशश्च जयतां वर
३.०३९.००८ स्वामिप्रसादात्सचिवाः प्राप्नुवन्ति निशाचर
३.०३९.००९ विपर्यये तु तत्सर्वं व्यर्थं भवति रावण
३.०३९.००९ व्यसनं स्वामिवैगुण्यात्प्राप्नुवन्तीतरे जनाः
३.०३९.०१० राजमूलो हि धर्मश्च जयश्च जयतां वर
३.०३९.०१० तस्मात्सर्वास्ववस्थासु रक्षितव्यो नराधिपः
३.०३९.०११ राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर
३.०३९.०११ न चापि प्रतिकूलेन नाविनीतेन राक्षस
३.०३९.०१२ ये तीक्ष्णमन्त्राः सचिवा भज्यन्ते सह तेन वै
३.०३९.०१२ विषमेषु रथाः शीघ्रं मन्दसारथयो यथा
३.०३९.०१३ बहवः साधवो लोके युक्तधर्ममनुष्ठिताः
३.०३९.०१३ परेषामपराधेन विनष्टाः सपरिच्छदाः
३.०३९.०१४ स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण
३.०३९.०१४ रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा
३.०३९.०१५ अवश्यं विनशिष्यन्ति सर्वे रावणराक्षसाः
३.०३९.०१५ येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
३.०३९.०१६ तदिदं काकतालीयं घोरमासादितं त्वया
३.०३९.०१६ अत्र किं शोभनं यत्त्वं ससैन्यो विनशिष्यसि
३.०३९.०१७ मां निहत्य तु रामोऽसौ नचिरात्त्वां वधिष्यति
३.०३९.०१७ अनेन कृतकृत्योऽस्मि म्रिये यदरिणा हतः
३.०३९.०१८ दर्शनादेव रामस्य हतं मामुपधारय
३.०३९.०१८ आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम्
३.०३९.०१९ आनयिष्यामि चेत्सीतामाश्रमात्सहितो मया
३.०३९.०१९ नैव त्वमसि नैवाहं नैव लङ्का न राक्षसाः
३.०३९.०२० निवार्यमाणस्तु मया हितैषिणा॑ न मृष्यसे वाक्यमिदं निशाचर
३.०३९.०२० परेतकल्पा हि गतायुषो नरा॑ हितं न गृह्णन्ति सुहृद्भिरीरितम्
३.०४०.००१ एवमुक्त्वा तु परुषं मारीचो रावणो ततः
३.०४०.००१ गच्छावेत्यब्रवीद्दीनो भयाद्रात्रिंचरप्रभोः
३.०४०.००२ दृष्टाश्चाहं पुनस्तेन शरचापासिधारिणा
३.०४०.००२ मद्विधोद्यतशस्त्रेण विनष्टं जीवितं च मे
३.०४०.००३ किं तु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि
३.०४०.००३ एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचरः
३.०४०.००४ प्रहृष्टस्त्वभवत्तेन वचनेन स राक्षसः
३.०४०.००४ परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत्
३.०४०.००५ एतच्छौण्डीर्ययुक्तं ते मच्छब्दादिव भाषितम्
३.०४०.००५ इदानीमसि मारीचः पूर्वमन्यो निशाचरः
३.०४०.००६ आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः
३.०४०.००६ मया सह रथो युक्तः पिशाचवदनैः खरैः
३.०४०.००७ ततो रावणमारीचौ विमानमिव तं रथम्
३.०४०.००७ आरुह्य ययतुः शीघ्रं तस्मादाश्रममण्डलात्
३.०४०.००८ तथैव तत्र पश्यन्तौ पत्तनानि वनानि च
३.०४०.००८ गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च
३.०४०.००९ समेत्य दण्डकारण्यं राघवस्याश्रमं ततः
३.०४०.००९ ददर्श सहमरीचो रावणो राक्षसाधिपः
३.०४०.०१० अवतीर्य रथात्तस्मात्ततः काञ्चनभूषणात्
३.०४०.०१० हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्
३.०४०.०११ एतद्रामाश्रमपदं दृश्यते कदलीवृतम्
३.०४०.०११ क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः
३.०४०.०१२ स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा
३.०४०.०१२ मृगो भूत्वाश्रमद्वारि रामस्य विचचार ह
३.०४०.०१३ मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः
३.०४०.०१३ रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः
३.०४०.०१४ किं चिदभ्युन्नत ग्रीव इन्द्रनीलनिभोदरः
३.०४०.०१४ मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः
३.०४०.०१५ वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः
३.०४०.०१५ इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः
३.०४०.०१६ मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः
३.०४०.०१६ क्षणेन राक्षसो जातो मृगः परमशोभनः
३.०४०.०१७ वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत्
३.०४०.०१७ मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः
३.०४०.०१८ प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम्
३.०४०.०१८ विचरन् गच्छते सम्यक्शाद्वलानि समन्ततः
३.०४०.०१९ रूप्यबिन्दुशतैश्चित्रो भूत्वा च प्रियदर्शनः
३.०४०.०१९ विटपीनां किसलयान् भङ्क्त्वादन् विचचार ह
३.०४०.०२० कदलीगृहकं गत्वा कर्णिकारानितस्ततः
३.०४०.०२० समाश्रयन्मन्दगतिः सीतासंदर्शनं तदा
३.०४०.०२१ राजीवचित्रपृष्ठः स विरराज महामृगः
३.०४०.०२१ रामाश्रमपदाभ्याशे विचचार यथासुखम्
३.०४०.०२२ पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः
३.०४०.०२२ गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते
३.०४०.०२३ विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति
३.०४०.०२३ आश्रमद्वारमागम्य मृगयूथानि गच्छति
३.०४०.०२४ मृगयूथैरनुगतः पुनरेव निवर्तते
३.०४०.०२४ सीतादर्शनमाकाङ्क्षन् राक्षसो मृगतां गतः
३.०४०.०२५ परिभ्रमति चित्राणि मण्डलानि विनिष्पतन्
३.०४०.०२५ समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः
३.०४०.०२६ उपगम्य समाघ्राय विद्रवन्ति दिशो दश
३.०४०.०२६ राक्षसः सोऽपि तान् वन्यान्मृगान्मृगवधे रतः
३.०४०.०२७ प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन्
३.०४०.०२७ तस्मिन्नेव ततः काले वैदेही शुभलोचना
३.०४०.०२८ कुसुमापचये व्यग्रा पादपानत्यवर्तत
३.०४०.०२८ कर्णिकारानशोकांश्च चूटांश्च मदिरेक्षणा
३.०४०.०२९ कुसुमान्यपचिन्वन्ती चचार रुचिरानना
३.०४०.०२९ अनर्हारण्यवासस्य सा तं रत्नमयं मृगम्
३.०४०.०२९ मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना
३.०४०.०३० तं वै रुचिरदण्तौष्ठं रूप्यधातुतनूरुहम्
३.०४०.०३० विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत
३.०४०.०३१ स च तां राम दयितां पश्यन्मायामयो मृगः
३.०४०.०३१ विचचार ततस्तत्र दीपयन्निव तद्वनम्
३.०४०.०३२ अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम्
३.०४०.०३२ विस्मयं परमं सीता जगाम जनकात्मजा
३.०४१.००१ सा तं संप्रेक्ष्य सुश्रोणी कुसुमानि विचिन्वती
३.०४१.००१ हेमराजत वर्णाभ्यां पार्श्वाभ्यामुपशोभितम्
३.०४१.००२ प्रहृष्टा चानवद्याङ्गी मृष्टहाटकवर्णिनी
३.०४१.००२ भर्तारमपि चाक्रन्दल्लक्ष्मणं चैव सायुधम्
३.०४१.००३ तयाहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ
३.०४१.००३ वीक्षमाणौ तु तं देशं तदा ददृशतुर्मृगम्
३.०४१.००४ शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो राममब्रवीत्
३.०४१.००४ तमेवैनमहं मन्ये मारीचं राक्षसं मृगम्
३.०४१.००५ चरन्तो मृगयां हृष्टाः पापेनोपाधिना वने
३.०४१.००५ अनेन निहता राम राजानः कामरूपिणा
३.०४१.००६ अस्य मायाविदो माया मृगरूपमिदं कृतम्
३.०४१.००६ भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम्
३.०४१.००७ मृगो ह्येवंविधो रत्नविचित्रो नास्ति राघव
३.०४१.००७ जगत्यां जगतीनाथ मायैषा हि न संशयः
३.०४१.००८ एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता
३.०४१.००८ उवाच सीता संहृष्टा छद्मना हृतचेतना
३.०४१.००९ आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः
३.०४१.००९ आनयैनं महाबाहो क्रीडार्थं नो भविष्यति
३.०४१.०१० इहाश्रमपदेऽस्माकं बहवः पुण्यदर्शनाः
३.०४१.०१० मृगाश्चरन्ति सहिताश्चमराः सृमरास्तथा
३.०४१.०११ ऋक्षाः पृषतसंघाश्च वानराः किनरास्तथा
३.०४१.०११ विचरन्ति महाबाहो रूपश्रेष्ठा महाबलाः
३.०४१.०१२ न चास्य सदृशो राजन् दृष्टपूर्वो मृगः पुरा
३.०४१.०१२ तेजसा क्षमया दीप्त्या यथायं मृगसत्तमः
३.०४१.०१३ नानावर्णविचित्राङ्गो रत्नबिन्दुसमाचितः
३.०४१.०१३ द्योतयन् वनमव्यग्रं शोभते शशिसंनिभः
३.०४१.०१४ अहो रूपमहो लक्ष्मीः स्वरसंपच्च शोभना
३.०४१.०१४ मृगोऽद्भुतो विचित्रोऽसौ हृदयं हरतीव मे
३.०४१.०१५ यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव
३.०४१.०१५ आश्चर्यभूतं भवति विस्मयं जनयिष्यति
३.०४१.०१६ समाप्तवनवासानां राज्यस्थानां च नः पुनः
३.०४१.०१६ अन्तःपुरविभूषार्थो मृग एष भविष्यति
३.०४१.०१७ भरतस्यार्यपुत्रस्य श्वश्रूणां मम च प्रभो
३.०४१.०१७ मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति
३.०४१.०१८ जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः
३.०४१.०१८ अजिनं नरशार्दूल रुचिरं मे भविष्यति
३.०४१.०१९ निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि
३.०४१.०१९ शष्पबृस्यां विनीतायामिच्छाम्यहमुपासितुम्
३.०४१.०२० कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम्
३.०४१.०२० वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम
३.०४१.०२१ तेन काञ्चनरोंणा तु मणिप्रवरशृङ्गिणा
३.०४१.०२१ तरुणादित्यवर्णेन नक्षत्रपथवर्चसा
३.०४१.०२१ बभूव राघवस्यापि मनो विस्मयमागतम्
३.०४१.०२२ एवं सीतावचः श्रुत्वा दृष्ट्वा च मृगमद्भुतम्
३.०४१.०२२ उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः
३.०४१.०२३ पश्य लक्ष्मण वैदेह्याः स्पृहां मृगगतामिमाम्
३.०४१.०२३ रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति
३.०४१.०२४ न वने नन्दनोद्देशे न चैत्ररथसंश्रये
३.०४१.०२४ कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः
३.०४१.०२५ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः
३.०४१.०२५ शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः
३.०४१.०२६ पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम्
३.०४१.०२६ जिह्वां मुखान्निःसरन्तीं मेघादिव शतह्रदाम्
३.०४१.०२७ मसारगल्वर्कमुखः शङ्खमुक्तानिभोदरः
३.०४१.०२७ कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः
३.०४१.०२८ कस्य रूपमिदं दृष्ट्वा जाम्बूनदमय प्रभम्
३.०४१.०२८ नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत्
३.०४१.०२९ मांसहेतोरपि मृगान् विहारार्थं च धन्विनः
३.०४१.०२९ घ्नन्ति लक्ष्मण राजानो मृगयायां महावने
३.०४१.०३० धनानि व्यवसायेन विचीयन्ते महावने
३.०४१.०३० धातवो विविधाश्चापि मणिरत्नसुवर्णिनः
३.०४१.०३१ तत्सारमखिलं नॄणां धनं निचयवर्धनम्
३.०४१.०३१ मनसा चिन्तितं सर्वं यथा शुक्रस्य लक्ष्मण
३.०४१.०३२ अर्थी येनार्थकृत्येन संव्रजत्यविचारयन्
३.०४१.०३२ तमर्थमर्थशास्त्रज्ञः प्राहुरर्थ्याश्च लक्ष्मण
३.०४१.०३३ एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि
३.०४१.०३३ उपवेक्ष्यति वैदेही मया सह सुमध्यमा
३.०४१.०३४ न कादली न प्रियकी न प्रवेणी न चाविकी
३.०४१.०३४ भवेदेतस्य सदृशी स्पर्शनेनेति मे मतिः
३.०४१.०३५ एष चैव मृगः श्रीमान् यश्च दिव्यो नभश्चरः
३.०४१.०३५ उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ
३.०४१.०३६ यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण
३.०४१.०३६ मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया
३.०४१.०३७ एतेन हि नृशंसेन मारीचेनाकृतात्मना
३.०४१.०३७ वने विचरता पूर्वं हिंसिता मुनिपुंगवाः
३.०४१.०३८ उत्थाय बहवो येन मृगयायां जनाधिपाः
३.०४१.०३८ निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः
३.०४१.०३९ पुरस्तादिह वातापिः परिभूय तपस्विनः
३.०४१.०३९ उदरस्थो द्विजान् हन्ति स्वगर्भोऽश्वतरीमिव
३.०४१.०४० स कदा चिच्चिराल्लोके आससाद महामुनिम्
३.०४१.०४० अगस्त्यं तेजसा युक्तं भक्ष्यस्तस्य बभूव ह
३.०४१.०४१ समुत्थाने च तद्रूपं कर्तुकामं समीक्ष्य तम्
३.०४१.०४१ उत्स्मयित्वा तु भगवान् वातापिमिदमब्रवीत्
३.०४१.०४२ त्वयाविगण्य वातापे परिभूताश्च तेजसा
३.०४१.०४२ जीवलोके द्विजश्रेष्ठास्तस्मादसि जरां गतः
३.०४१.०४३ एवं तन्न भवेद्रक्षो वातापिरिव लक्ष्मण
३.०४१.०४३ मद्विधं योऽतिमन्येत धर्मनित्यं जितेन्द्रियम्
३.०४१.०४४ भवेद्धतोऽयं वातापिरगस्त्येनेव मा गतिः
३.०४१.०४४ इह त्वं भव संनद्धो यन्त्रितो रक्ष मैथिलीम्
३.०४१.०४५ अस्यामायत्तमस्माकं यत्कृत्यं रघुनन्दन
३.०४१.०४५ अहमेनं वधिष्यामि ग्रहीष्याम्यथ वा मृगम्
३.०४१.०४६ यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम्
३.०४१.०४६ पश्य लक्ष्मण वैदेहीं मृगत्वचि गतस्पृहाम्
३.०४१.०४७ त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति
३.०४१.०४७ अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया
३.०४१.०४८ यावत्पृषतमेकेन सायकेन निहन्म्यहम्
३.०४१.०४८ हत्वैतच्चर्म आदाय शीघ्रमेष्यामि लक्ष्मण
३.०४१.०४९ प्रदक्षिणेनातिबलेन पक्षिणा॑ जटायुषा बुद्धिमता च लक्ष्मण
३.०४१.०४९ भवाप्रमत्तः प्रतिगृह्य मैथिलीं॑ प्रतिक्षणं सर्वत एव शङ्कितः
३.०४२.००१ तथा तु तं समादिश्य भ्रातरं रघुनन्दनः
३.०४२.००१ बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्
३.०४२.००२ ततस्त्रिविणतं चापमादायात्मविभूषणम्
३.०४२.००२ आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः
३.०४२.००३ तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै
३.०४२.००३ बभूवान्तर्हितस्त्रासात्पुनः संदर्शनेऽभवत्
३.०४२.००४ बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः
३.०४२.००४ तं स पश्यति रूपेण द्योतमानमिवाग्रतः
३.०४२.००५ अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने
३.०४२.००५ अतिवृत्तमिषोः पाताल्लोभयानं कदा चन
३.०४२.००६ शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे
३.०४२.००६ दश्यमानमदृश्यं च नवोद्देशेषु केषु चित्
३.०४२.००७ छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम्
३.०४२.००७ मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते
३.०४२.००८ दर्शनादर्शनेनैव सोऽपाकर्षत राघवम्
३.०४२.००८ आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः
३.०४२.००९ अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले
३.०४२.००९ मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत
३.०४२.०१० दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः
३.०४२.०१० संधाय सुदृढे चापे विकृष्य बलवद्बली
३.०४२.०११ तमेव मृगमुद्दिश्य ज्वलन्तमिव पन्नगम्
३.०४२.०११ मुमोच ज्वलितं दीप्तमस्त्रब्रह्मविनिर्मितम्
३.०४२.०१२ स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः
३.०४२.०१२ मारीचस्यैव हृदयं विभेदाशनिसंनिभः
३.०४२.०१३ तालमात्रमथोत्पत्य न्यपतत्स शरातुरः
३.०४२.०१३ व्यनदद्भैरवं नादं धरण्यामल्पजीवितः
३.०४२.०१३ म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम्
३.०४२.०१४ संप्राप्तकालमाज्ञाय चकार च ततः स्वरम्
३.०४२.०१४ सदृशं राघवस्यैव हा सीते लक्ष्मणेति च
३.०४२.०१५ तेन मर्मणि निर्विद्धः शरेणानुपमेन हि
३.०४२.०१५ मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः
३.०४२.०१५ चक्रे स सुमहाकायो मारीचो जीवितं त्यजन्
३.०४२.०१६ ततो विचित्रकेयूरः सर्वाभरणभूषितः
३.०४२.०१६ हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः
३.०४२.०१७ तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम्
३.०४२.०१७ जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्
३.०४२.०१८ हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वरम्
३.०४२.०१८ ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्
३.०४२.०१९ लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति
३.०४२.०१९ इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः
३.०४२.०२० तत्र रामं भयं तीव्रमाविवेश विषादजम्
३.०४२.०२० राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम्
३.०४२.०२१ निहत्य पृषतं चान्यं मांसमादाय राघवः
३.०४२.०२१ त्वरमाणो जनस्थानं ससाराभिमुखस्तदा
३.०४३.००१ आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने
३.०४३.००१ उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम्
३.०४३.००२ न हि मे जीवितं स्थाने हृदयं वावतिष्ठते
३.०४३.००२ क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम्
३.०४३.००३ आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि
३.०४३.००३ तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम्
३.०४३.००४ रक्षसां वशमापन्नं सिंहानामिव गोवृषम्
३.०४३.००४ न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम्
३.०४३.००५ तमुवाच ततस्तत्र कुपिता जनकात्मजा
३.०४३.००५ सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत्
३.०४३.००६ यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे
३.०४३.००६ इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते
३.०४३.००७ व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते
३.०४३.००७ तेन तिष्ठसि विस्रब्धस्तमपश्यन्महाद्युतिम्
३.०४३.००८ किं हि संशयमापन्ने तस्मिन्निह मया भवेत्
३.०४३.००८ कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः
३.०४३.००९ इति ब्रुवाणं वैदेहीं बाष्पशोकपरिप्लुताम्
३.०४३.००९ अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव
३.०४३.०१० देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु
३.०४३.०१० राक्षसेषु पिशाचेषु किंनरेषु मृगेषु च
३.०४३.०११ दानवेषु च घोरेषु न स विद्येत शोभने
३.०४३.०११ यो रामं प्रतियुध्येत समरे वासवोपमम्
३.०४३.०१२ अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि
३.०४३.०१२ न त्वामस्मिन् वने हातुमुत्सहे राघवं विना
३.०४३.०१३ अनिवार्यं बलं तस्य बलैर्बलवतामपि
३.०४३.०१३ त्रिभिर्लोकैः समुद्युक्तैः सेश्वरैः सामरैरपि
३.०४३.०१४ हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतामयम्
३.०४३.०१४ आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम्
३.०४३.०१५ न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः
३.०४३.०१५ गन्धर्वनगरप्रख्या माया सा तस्य रक्षसः
३.०४३.०१६ न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना
३.०४३.०१६ रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे
३.०४३.०१७ कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः
३.०४३.०१७ खरस्य निधने देवि जनस्थानवधं प्रति
३.०४३.०१८ राक्षसा विधिना वाचो विसृजन्ति महावने
३.०४३.०१८ हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि
३.०४३.०१९ लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना
३.०४३.०१९ अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम्
३.०४३.०२० अनार्य करुणारम्भ नृशंस कुलपांसन
३.०४३.०२० अहं तव प्रियं मन्ये तेनैतानि प्रभाषसे
३.०४३.०२१ नैतच्चित्रं सपत्नेषु पापं लक्ष्मण यद्भवेत्
३.०४३.०२१ त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु
३.०४३.०२२ सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि
३.०४३.०२२ मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा
३.०४३.०२३ कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम्
३.०४३.०२३ उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम्
३.०४३.०२४ समक्षं तव सौमित्रे प्राणांस्त्यक्ष्ये न संशयः
३.०४३.०२४ रामं विना क्षणमपि न हि जीवामि भूतले
३.०४३.०२५ इत्युक्तः परुषं वाक्यं सीतया सोमहर्षणम्
३.०४३.०२५ अब्रवील्लक्ष्मणः सीतां प्राञ्जलिर्विजितेन्द्रियः
३.०४३.०२६ उत्तरं नोत्सहे वक्तुं दैवतं भवती मम
३.०४३.०२६ वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि
३.०४३.०२७ स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते
३.०४३.०२७ विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः
३.०४३.०२८ उपशृण्वन्तु मे सर्वे साक्षिभूता वनेचराः
३.०४३.०२८ न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया
३.०४३.०२९ धिक्त्वामद्य प्रणश्य त्वं यन्मामेवं विशङ्कसे
३.०४३.०२९ स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम्
३.०४३.०३० गमिष्ये यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने
३.०४३.०३० रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः
३.०४३.०३१ निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे
३.०४३.०३१ अपि त्वां सह रामेण पश्येयं पुनरागतः
३.०४३.०३२ लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा
३.०४३.०३२ प्रत्युवाच ततो वाक्यं तीव्रं बाष्पपरिप्लुता
३.०४३.०३३ गोदावरीं प्रवेक्ष्यामि विना रामेण लक्ष्मण
३.०४३.०३३ आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः
३.०४३.०३४ पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम्
३.०४३.०३४ न त्वहं राघवादन्यं पदापि पुरुषं स्पृशे
३.०४३.०३५ इति लक्ष्मणमाक्रुश्य सीता दुःखसमन्विता
३.०४३.०३५ पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह
३.०४३.०३६ तामार्तरूपां विमना रुदन्तीं॑ सौमित्रिरालोक्य विशालनेत्राम्
३.०४३.०३६ आश्वासयामास न चैव भर्तुस्॑ तं भ्रातरं किं चिदुवाच सीता
३.०४३.०३७ ततस्तु सीतामभिवाद्य लक्ष्मणः॑ कृताञ्जलिः किं चिदभिप्रणम्य
३.०४३.०३७ अवेक्षमाणो बहुशश्च मैथिलीं॑ जगाम रामस्य समीपमात्मवान्
३.०४४.००१ तया परुषमुक्तस्तु कुपितो राघवानुजः
३.०४४.००१ स विकाङ्क्षन् भृशं रामं प्रतस्थे नचिरादिव
३.०४४.००२ तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः
३.०४४.००२ अभिचक्राम वैदेहीं परिव्राजकरूपधृक्
३.०४४.००३ श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही
३.०४४.००३ वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू
३.०४४.००३ परिव्राजकरूपेण वैदेहीं समुपागमत्
३.०४४.००४ तामाससादातिबलो भ्रातृभ्यां रहितां वने
३.०४४.००४ रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः
३.०४४.००५ तामपश्यत्ततो बालां राजपुत्रीं यशस्विनीम्
३.०४४.००५ रोहिणीं शशिना हीनां ग्रहवद्भृशदारुणः
३.०४४.००६ तमुग्रं पापकर्माणं जनस्थानरुहा द्रुमाः
३.०४४.००६ समीक्ष्य न प्रकम्पन्ते न प्रवाति च मारुतः
३.०४४.००७ शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम्
३.०४४.००७ स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी
३.०४४.००८ रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे
३.०४४.००८ उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः
३.०४४.००९ अभव्यो भव्यरूपेण भर्तारमनुशोचतीम्
३.०४४.००९ अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः
३.०४४.०१० स पापो भव्यरूपेण तृणैः कूप इवावृतः
३.०४४.०१० अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्
३.०४४.०११ शुभां रुचिरदन्तौष्ठीं पूर्णचन्द्रनिभाननाम्
३.०४४.०११ आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम्
३.०४४.०१२ स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम्
३.०४४.०१२ अभ्यगच्छत वैदेहीं दुष्टचेता निशाचरः
३.०४४.०१३ स मन्मथशराविष्टो ब्रह्मघोषमुदीरयन्
३.०४४.०१३ अब्रवीत्प्रश्रितं वाक्यं रहिते राक्षसाधिपः
३.०४४.०१४ तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम्
३.०४४.०१४ विभ्राजमानां वपुषा रावणः प्रशशंस ह
३.०४४.०१५ का त्वं काञ्चनवर्णाभे पीतकौशेयवासिनि
३.०४४.०१५ कमलानां शुभां मालां पद्मिनीव च बिभ्रती
३.०४४.०१६ ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने
३.०४४.०१६ भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी
३.०४४.०१७ समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव
३.०४४.०१७ विशाले विमले नेत्रे रक्तान्ते कृष्णतारके
३.०४४.०१८ विशालं जघनं पीनमूरू करिकरोपमौ
३.०४४.०१८ एतावुपचितौ वृत्तौ सहितौ संप्रगल्भितौ
३.०४४.०१९ पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ
३.०४४.०१९ मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ
३.०४४.०२० चारुस्मिते चारुदति चारुनेत्रे विलासिनि
३.०४४.०२० मनो हरसि मे रामे नदीकूलमिवाम्भसा
३.०४४.०२१ करान्तमितमध्यासि सुकेशी संहतस्तनी
३.०४४.०२१ नैव देवी न गन्धर्वी न यक्षी न च किंनरी
३.०४४.०२२ नैवंरूपा मया नारी दृष्टपूर्वा महीतले
३.०४४.०२२ इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे
३.०४४.०२३ सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि
३.०४४.०२३ राक्षसानामयं वासो घोराणां कामरूपिणाम्
३.०४४.०२४ प्रासादाग्र्याणि रम्याणि नगरोपवनानि च
३.०४४.०२४ संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया
३.०४४.०२५ वरं माल्यं वरं पानं वरं वस्त्रं च शोभने
३.०४४.०२५ भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे
३.०४४.०२६ का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते
३.०४४.०२६ वसूनां वा वरारोहे देवता प्रतिभासि मे
३.०४४.०२७ नेह गच्छन्ती गन्धर्वा न देवा न च किंनराः
३.०४४.०२७ राक्षसानामयं वासः कथं नु त्वमिहागता
३.०४४.०२८ इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगास्तथा
३.०४४.०२८ ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे
३.०४४.०२९ मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम्
३.०४४.०२९ कथमेका महारण्ये न बिभेषि वनानने
३.०४४.०३० कासि कस्य कुतश्च त्वं किंनिमित्तं च दण्डकान्
३.०४४.०३० एका चरसि कल्याणि घोरान् राक्षससेवितान्
३.०४४.०३१ इति प्रशस्ता वैदेही रावणेन दुरात्मना
३.०४४.०३१ द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम्
३.०४४.०३१ सर्वैरतिथिसत्कारैः पूजयामास मैथिली
३.०४४.०३२ उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च
३.०४४.०३२ अब्रवीत्सिद्धमित्येव तदा तं सौम्यदर्शनम्
३.०४४.०३३ द्विजातिवेषेण समीक्ष्य मैथिली॑ तमागतं पात्रकुसुम्भधारिणम्
३.०४४.०३३ अशक्यमुद्द्वेष्टुमुपायदर्शनान्॑ न्यमन्त्रयद्ब्राह्मणवद्
यथागतम्
३.०४४.०३४ इयं बृसी ब्राह्मण काममास्यताम्॑ इदं च पाद्यं प्रतिगृह्यतामिति
३.०४४.०३४ इदं च सिद्धं वनजातमुत्तमं॑ त्वदर्थमव्यग्रमिहोपभुज्यताम्
३.०४४.०३५ निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं॑ नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम्
३.०४४.०३५ प्रहस्य तस्या हरणे धृतं मनः॑ समर्पयामास वधाय रावणः
३.०४४.०३६ ततः सुवेषं मृगया गतं पतिं॑ प्रतीक्षमाणा सहलक्ष्मणं तदा
३.०४४.०३६ निरीक्षमाणा हरितं ददर्श तन्॑ महद्वनं नैव तु रामलक्ष्मणौ
३.०४५.००१ रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा
३.०४५.००१ परिव्राजकरूपेण शशंसात्मानमात्मना
३.०४५.००२ ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम्
३.०४५.००२ इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्
३.०४५.००३ दुहिता जनकस्याहं मैथिलस्य महात्मनः
३.०४५.००३ सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम
३.०४५.००४ संवत्सरं चाध्युषिता राघवस्य निवेशने
३.०४५.००४ भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी
३.०४५.००५ ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम्
३.०४५.००५ अभिषेचयितुं रामं समेतो राजमन्त्रिभिः
३.०४५.००६ तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने
३.०४५.००६ कैकेयी नाम भर्तारं ममार्या याचते वरम्
३.०४५.००७ प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे
३.०४५.००७ मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्
३.०४५.००७ द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम्
३.०४५.००८ नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येऽहं कदा चन
३.०४५.००८ एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
३.०४५.००९ इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः
३.०४५.००९ अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा
३.०४५.०१० मम भर्ता महातेजा वयसा पञ्चविंशकः
३.०४५.०१० रामेति प्रथितो लोके गुणवान् सत्यवाक्शुचिः
३.०४५.०१० विशालाक्षो महाबाहुः सर्वभूतहिते रतः
३.०४५.०११ अभिषेकाय तु पितुः समीपं राममागतम्
३.०४५.०११ कैकेयी मम भर्तारमित्युवाच द्रुतं वचः
३.०४५.०१२ तव पित्रा समाज्ञप्तं ममेदं शृणु राघव
३.०४५.०१२ भरताय प्रदातव्यमिदं राज्यमकण्टकम्
३.०४५.०१३ त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च
३.०४५.०१३ वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात्
३.०४५.०१४ तथेत्युवाच तां रामः कैकेयीमकुतोभयः
३.०४५.०१४ चकार तद्वचस्तस्या मम भर्ता दृढव्रतः
३.०४५.०१५ दद्यान्न प्रतिगृह्णीयात्सत्यब्रूयान्न चानृतम्
३.०४५.०१५ एतद्ब्राह्मण रामस्य व्रतं ध्रुवमनुत्तमम्
३.०४५.०१६ तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्
३.०४५.०१६ रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा
३.०४५.०१७ स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः
३.०४५.०१७ अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह
३.०४५.०१८ ते वयं प्रच्युता राज्यात्कैलेय्यास्तु कृते त्रयः
३.०४५.०१८ विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा
३.०४५.०१९ समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया
३.०४५.०१९ आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्
३.०४५.०२० स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः
३.०४५.०२० एकश्च दण्डकारण्ये किमर्थं चरसि द्विज
३.०४५.०२१ एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः
३.०४५.०२१ प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः
३.०४५.०२२ येन वित्रासिता लोकाः सदेवासुरपन्नगाः
३.०४५.०२२ अहं स रावणो नाम सीते रक्षोगणेश्वरः
३.०४५.०२३ त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्
३.०४५.०२३ रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते
३.०४५.०२४ बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः
३.०४५.०२४ सर्वासामेव भद्रं ते ममाग्रमहिषी भव
३.०४५.०२५ लङ्का नाम समुद्रस्य मध्ये मम महापुरी
३.०४५.०२५ सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि
३.०४५.०२६ तत्र सीते मया सार्धं वनेषु विचरिष्यसि
३.०४५.०२६ न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि
३.०४५.०२७ पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः
३.०४५.०२७ सीते परिचरिष्यन्ति भार्या भवसि मे यदि
३.०४५.०२८ रावणेनैवमुक्ता तु कुपिता जनकात्मजा
३.०४५.०२८ प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं
३.०४५.०२९ महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्
३.०४५.०२९ महोदधिमिवाक्षोभ्यमहं राममनुव्रता
३.०४५.०३० महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्
३.०४५.०३० नृसिंहं सिंहसंकाशमहं राममनुव्रता
३.०४५.०३१ पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम्
३.०४५.०३१ पृथुकीर्तिं महाबाहुमहं राममनुव्रता
३.०४५.०३२ त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम्
३.०४५.०३२ नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा
३.०४५.०३३ पादपान् काञ्चनान्नूनं बहून् पश्यसि मन्दभाक्
३.०४५.०३३ राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण
३.०४५.०३४ क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः
३.०४५.०३४ आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि
३.०४५.०३५ मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि
३.०४५.०३५ कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि
३.०४५.०३६ अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम्
३.०४५.०३६ राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि
३.०४५.०३७ अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि
३.०४५.०३७ सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुमिच्छसि
३.०४५.०३७ यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि
३.०४५.०३८ अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि
३.०४५.०३८ कल्याण वृत्तां रामस्य यो भार्यां हर्तुमिच्छसि
३.०४५.०३९ अयोमुखानां शूलानामग्रे चरितुमिच्छसि
३.०४५.०३९ रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि
३.०४५.०४० यदन्तरं सिंहशृगालयोर्वने॑ यदन्तरं स्यन्दनिकासमुद्रयोः
३.०४५.०४० सुराग्र्यसौवीरकयोर्यदन्तरं॑ तदन्तरं दाशरथेस्तवैव च
३.०४५.०४१ यदन्तरं काञ्चनसीसलोहयोर्॑ यदन्तरं चन्दनवारिपङ्कयोः
३.०४५.०४१ यदन्तरं हस्तिबिडालयोर्वने॑ तदन्तरं दशरथेस्तवैव च
३.०४५.०४२ यदन्तरं वायसवैनतेययोर्॑ यदन्तरं मद्गुमयूरयोरपि
३.०४५.०४२ यदन्तरं सारसगृध्रयोर्वने॑ तदन्तरं दाशरथेस्तवैव च
३.०४५.०४३ तस्मिन् सहस्राक्षसमप्रभावे॑ रामे स्थिते कार्मुकबाणपाणौ
३.०४५.०४३ हृतापि तेऽहं न जरां गमिष्ये॑ वज्रं यथा मक्षिकयावगीर्णम्
३.०४५.०४४ इतीव तद्वाक्यमदुष्टभावा॑ सुदृष्टमुक्त्वा रजनीचरं तम्
३.०४५.०४४ गात्रप्रकम्पाद्व्यथिता बभूव॑ वातोद्धता सा कदलीव तन्वी
३.०४५.०४५ तां वेपमानामुपलक्ष्य सीतां॑ स रावणो मृत्युसमप्रभावः
३.०४५.०४५ कुलं बलं नाम च कर्म चात्मनः॑ समाचचक्षे भयकारणार्थम्
३.०४६.००१ एवं ब्रुवत्यां सीतायां संरब्धः परुषाक्षरम्
३.०४६.००१ ललाटे भ्रुकुटीं कृत्वा रावणः प्रत्युवाच ह
३.०४६.००२ भ्राता वैश्रवणस्याहं सापत्न्यो वरवर्णिनि
३.०४६.००२ रावणो नाम भद्रं ते दशग्रीवः प्रतापवान्
३.०४६.००३ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः
३.०४६.००३ विद्रवन्ति भयाद्भीता मृत्योरिव सदा प्रजाः
३.०४६.००४ येन वैश्रवणो भ्राता वैमात्रः कारणान्तरे
३.०४६.००४ द्वन्द्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः
३.०४६.००५ मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत्
३.०४६.००५ कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः
३.०४६.००६ यस्य तत्पुष्पकं नाम विमानं कामगं शुभम्
३.०४६.००६ वीर्यादावर्जितं भद्रे येन यामि विहायसं
३.०४६.००७ मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि
३.०४६.००७ विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः
३.०४६.००८ यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः
३.०४६.००८ तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते रविः
३.०४६.००९ निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः
३.०४६.००९ भवन्ति यत्र यत्राहं तिष्ठामि च चरामि च
३.०४६.०१० मम पारे समुद्रस्य लङ्का नाम पुरी शुभा
३.०४६.०१० संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती
३.०४६.०११ प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता
३.०४६.०११ हेमकक्ष्या पुरी रम्या वैदूर्यमय तोरणा
३.०४६.०१२ हस्त्यश्वरथसंभाधा तूर्यनादविनादिता
३.०४६.०१२ सर्वकामफलैर्वृक्षैः संकुलोद्यानशोभिता
३.०४६.०१३ तत्र त्वं वसती सीते राजपुत्रि मया सह
३.०४६.०१३ न स्रमिष्यसि नारीणां मानुषीणां मनस्विनि
३.०४६.०१४ भुञ्जाना मानुषान् भोगान् दिव्यांश्च वरवर्णिनि
३.०४६.०१४ न स्मरिष्यसि रामस्य मानुषस्य गतायुषः
३.०४६.०१५ स्थापयित्वा प्रियं पुत्रं राज्ञा दशरथेन यः
३.०४६.०१५ मन्दवीर्यः सुतो ज्येष्ठस्ततः प्रस्थापितो वनम्
३.०४६.०१६ तेन किं भ्रष्टराज्येन रामेण गतचेतसा
३.०४६.०१६ करिष्यसि विशालाक्षि तापसेन तपस्विना
३.०४६.०१७ सर्वराक्षसभर्तारं कामात्स्वयमिहागतम्
३.०४६.०१७ न मन्मथशराविष्टं प्रत्याख्यातुं त्वमर्हसि
३.०४६.०१८ प्रत्याख्याय हि मां भीरु परितापं गमिष्यसि
३.०४६.०१८ चरणेनाभिहत्येव पुरूरवसमुर्वशी
३.०४६.०१९ एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना
३.०४६.०१९ अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम्
३.०४६.०२० कथं वैश्रवणं देवं सर्वभूतनमस्कृतम्
३.०४६.०२० भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि
३.०४६.०२१ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः
३.०४६.०२१ येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः
३.०४६.०२२ अपहृत्य शचीं भार्यां शक्यमिन्द्रस्य जीवितुम्
३.०४६.०२२ न तु रामस्य भार्यां मामपनीयास्ति जीवितम्
३.०४६.०२३ जीवेच्चिरं वज्रधरस्य हस्ताच्॑ छचीं प्रधृष्याप्रतिरूपरूपाम्
३.०४६.०२३ न मादृशीं राक्षसधर्षयित्वा॑ पीतामृतस्यापि तवास्ति मोक्षः
३.०४७.००१ सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान्
३.०४७.००१ हस्ते हस्तं समाहत्य चकार सुमहद्वपुः
३.०४७.००२ स मैथिलीं पुनर्वाक्यं बभाषे च ततो भृशम्
३.०४७.००२ नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ
३.०४७.००३ उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः
३.०४७.००३ आपिबेयं समुद्रं च मृत्युं हन्यां रणे स्थितः
३.०४७.००४ अर्कं रुन्ध्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम्
३.०४७.००४ कामरूपिणमुन्मत्ते पश्य मां कामदं पतिम्
३.०४७.००५ एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे
३.०४७.००५ क्रुद्धस्य हरिपर्यन्ते रक्ते नेत्रे बभूवतुः
३.०४७.००६ सद्यः सौम्यं परित्यज्य भिक्षुरूपं स रावणः
३.०४७.००६ स्वं रूपं कालरूपाभं भेजे वैश्रवणानुजः
३.०४७.००७ संरक्तनयनः श्रीमांस्तप्तकाञ्चनकुण्डलः
३.०४७.००७ दशास्यः कार्मुकी बाणी बभूव क्षणदाचरः
३.०४७.००८ स परिव्राजकच्छद्म महाकायो विहाय तत्
३.०४७.००८ प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः
३.०४७.००९ संरक्तनयनः क्रोधाज्जीमूतनिचयप्रभः
३.०४७.००९ रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम्
३.०४७.०१० स तामसितकेशान्तां भास्करस्य प्रभामिव
३.०४७.०१० वसनाभरणोपेतां मैथिलीं रावणोऽब्रवीत्
३.०४७.०११ त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि
३.०४७.०११ मामाश्रय वरारोहे तवाहं सदृशः पतिः
३.०४७.०१२ मां भजस्व चिराय त्वमहं श्लाघ्यस्तव प्रियः
३.०४७.०१२ नैव चाहं क्व चिद्भद्रे करिष्ये तव विप्रियम्
३.०४७.०१२ त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम्
३.०४७.०१३ राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम्
३.०४७.०१३ कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि
३.०४७.०१४ यः स्त्रिया वचनाद्राज्यं विहाय ससुहृज्जनम्
३.०४७.०१४ अस्मिन् व्यालानुचरिते वने वसति दुर्मतिः
३.०४७.०१५ इत्युक्त्वा मैथिलीं वाक्यं प्रियार्हां प्रियवादिनीम्
३.०४७.०१५ जग्राह रावणः सीतां बुधः खे रोहिणीमिव
३.०४७.०१६ वामेन सीतां पद्माक्षीं मूर्धजेषु करेण सः
३.०४७.०१६ ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना
३.०४७.०१७ तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्रं महाभुजम्
३.०४७.०१७ प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः
३.०४७.०१८ स च मायामयो दिव्यः खरयुक्तः खरस्वनः
३.०४७.०१८ प्रत्यदृश्यत हेमाङ्गो रावणस्य महारथः
३.०४७.०१९ ततस्तां परुषैर्वाक्यैरभितर्ज्य महास्वनः
३.०४७.०१९ अङ्केनादाय वैदेहीं रथमारोपयत्तदा
३.०४७.०२० सा गृहीतातिचुक्रोश रावणेन यशस्विनी
३.०४७.०२० रामेति सीता दुःखार्ता रामं दूरगतं वने
३.०४७.०२१ तामकामां स कामार्तः पन्नगेन्द्रवधूमिव
३.०४७.०२१ विवेष्टमानामादाय उत्पपाथाथ रावणः
३.०४७.०२२ ततः सा राक्षसेन्द्रेण ह्रियमाणा विहायसा
३.०४७.०२२ भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा
३.०४७.०२३ हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक
३.०४७.०२३ ह्रियमाणां न जानीषे रक्षसा कामरूपिणा
३.०४७.०२४ जीवितं सुखमर्थांश्च धर्महेतोः परित्यजन्
३.०४७.०२४ ह्रियमाणामधर्मेण मां राघव न पश्यसि
३.०४७.०२५ ननु नामाविनीतानां विनेतासि परंतप
३.०४७.०२५ कथमेवंविधं पापं न त्वं शाधि हि रावणम्
३.०४७.०२६ ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम्
३.०४७.०२६ कालोऽप्यङ्गी भवत्यत्र सस्यानामिव पक्तये
३.०४७.०२७ स कर्म कृतवानेतत्कालोपहतचेतनः
३.०४७.०२७ जीवितान्तकरं घोरं रामाद्व्यसनमाप्नुहि
३.०४७.०२८ हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह
३.०४७.०२८ ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः
३.०४७.०२९ आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान्
३.०४७.०२९ क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
३.०४७.०३० माल्यवन्तं शिखरिणं वन्दे प्रस्रवणं गिरिम्
३.०४७.०३० क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
३.०४७.०३१ हंससारससंघुष्टां वन्दे गोदावरीं नदीम्
३.०४७.०३१ क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः
३.०४७.०३२ दैवतानि च यान्त्यस्मिन् वने विविधपादपे
३.०४७.०३२ नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम्
३.०४७.०३३ यानि कानि चिदप्यत्र सत्त्वानि निवसन्त्युत
३.०४७.०३३ सर्वाणि शरणं यामि मृगपक्षिगणानपि
३.०४७.०३४ ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम्
३.०४७.०३४ विवशापहृता सीता रावणेनेति शंसत
३.०४७.०३५ विदित्वा मां महाबाहुरमुत्रापि महाबलः
३.०४७.०३५ आनेष्यति पराक्रम्य वैवस्वतहृतामपि
३.०४७.०३६ रामाय तु यथातत्त्वं जटायो हरणं मम
३.०४७.०३६ लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः
३.०४८.००१ तं शब्दमवसुप्तस्य जटायुरथ शुश्रुवे
३.०४८.००१ निरैक्षद्रावणं क्षिप्रं वैदेहीं च ददर्श सः
३.०४८.००२ ततः पर्वतकूटाभस्तीक्ष्णतुण्डः खगोत्तमः
३.०४८.००२ वनस्पतिगतः श्रीमान् व्याजहार शुभां गिरम्
३.०४८.००३ दशग्रीवस्थितो धर्मे पुराणे सत्यसंश्रयः
३.०४८.००३ जटायुर्नाम नाम्नाहं गृध्रराजो महाबलः
३.०४८.००४ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः
३.०४८.००४ लोकानां च हिते युक्तो रामो दशरथात्मजः
३.०४८.००५ तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी
३.०४८.००५ सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि
३.०४८.००६ कथं राजा स्थितो धर्मे परदारान् परामृशेत्
३.०४८.००६ रक्षणीया विशेषेण राजदारा महाबलः
३.०४८.००६ निवर्तय मतिं नीचां परदाराभिमर्शनम्
३.०४८.००७ न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्
३.०४८.००७ यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात्
३.०४८.००८ अर्थं वा यदि वा कामं शिष्टाः शास्त्रेष्वनागतम्
३.०४८.००८ व्यवस्यन्त्यनु राजानं धर्मं पौरस्त्यनन्दन
३.०४८.००९ राजा धर्मश्च कामश्च द्रव्याणां चोत्तमो निधिः
३.०४८.००९ धर्मः शुभं वा पापं वा राजमूलं प्रवर्तते
३.०४८.०१० पापस्वभावश्चपलः कथं त्वं रक्षसां वर
३.०४८.०१० ऐश्वर्यमभिसंप्राप्तो विमानमिव दुष्कृती
३.०४८.०११ कामस्वभावो यो यस्य न स शक्यः प्रमार्जितुम्
३.०४८.०११ न हि दुष्टात्मनामार्य मा वसत्यालये चिरम्
३.०४८.०१२ विषये वा पुरे वा ते यदा रामो महाबलः
३.०४८.०१२ नापराध्यति धर्मात्मा कथं तस्यापराध्यसि
३.०४८.०१३ यदि शूर्पणखाहेतोर्जनस्थानगतः खरः
३.०४८.०१३ अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा
३.०४८.०१४ अत्र ब्रूहि यथासत्यं को रामस्य व्यतिक्रमः
३.०४८.०१४ यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि
३.०४८.०१५ क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा
३.०४८.०१५ दहेद्दहन भूतेन वृत्रमिन्द्राशनिर्यथा
३.०४८.०१६ सर्पमाशीविषं बद्ध्वा वस्त्रान्ते नावबुध्यसे
३.०४८.०१६ ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि
३.०४८.०१७ स भारः सौम्य भर्तव्यो यो नरं नावसादयेत्
३.०४८.०१७ तदन्नमुपभोक्तव्यं जीर्यते यदनामयम्
३.०४८.०१८ यत्कृत्वा न भवेद्धर्मो न कीर्तिर्न यशो भुवि
३.०४८.०१८ शरीरस्य भवेत्खेदः कस्तत्कर्म समाचरेत्
३.०४८.०१९ षष्टिवर्षसहस्राणि मम जातस्य रावण
३.०४८.०१९ पितृपैतामहं राज्यं यथावदनुतिष्ठतः
३.०४८.०२० वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी
३.०४८.०२० तथाप्यादाय वैदेहीं कुशली न गमिष्यसि
३.०४८.०२१ न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः
३.०४८.०२१ हेतुभिर्न्यायसंयुक्तैर्ध्रुवां वेदश्रुतीमिव
३.०४८.०२२ युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण
३.०४८.०२२ शयिष्यसे हतो भूमौ यथापूर्वं खरस्तथा
३.०४८.०२३ असकृत्संयुगे येन निहता दैत्यदानवाः
३.०४८.०२३ नचिराच्चीरवासास्त्वां रामो युधि वधिष्यति
३.०४८.०२४ किं नु शक्यं मया कर्तुं गतौ दूरं नृपात्मजौ
३.०४८.०२४ क्षिप्रं त्वं नश्यसे नीच तयोर्भीतो न संशयः
३.०४८.०२५ न हि मे जीवमानस्य नयिष्यसि शुभामिमाम्
३.०४८.०२५ सीतां कमलपत्राक्षीं रामस्य महषीं प्रियाम्
३.०४८.०२६ अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः
३.०४८.०२६ जीवितेनापि रामस्य तथा दशरथस्य च
३.०४८.०२७ तिष्ठ तिष्ठ दशग्रीव मुहूर्तं पश्य रावण
३.०४८.०२७ युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर
३.०४८.०२७ वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात्
३.०४९.००१ इत्युक्तस्य यथान्यायं रावणस्य जटायुषा
३.०४९.००१ क्रुद्धस्याग्निनिभाः सर्वा रेजुर्विंशतिदृष्टयः
३.०४९.००२ संरक्तनयनः कोपात्तप्तकाञ्चनकुण्डलः
३.०४९.००२ राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः
३.०४९.००३ स संप्रहारस्तुमुलस्तयोस्तस्मिन्महावने
३.०४९.००३ बभूव वातोद्धतयोर्मेघयोर्गगने यथा
३.०४९.००४ तद्बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा
३.०४९.००४ सपक्षयोर्माल्यवतोर्महापर्वतयोरिव
३.०४९.००५ ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः
३.०४९.००५ अभ्यवर्षन्महाघोरैर्गृध्रराजं महाबलः
३.०४९.००६ स तानि शरजालानि गृध्रः पत्ररथेश्वरः
३.०४९.००६ जटायुः प्रतिजग्राह रावणास्त्राणि संयुगे
३.०४९.००७ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः
३.०४९.००७ चकार बहुधा गात्रे व्रणान् पतगसत्तमः
३.०४९.००८ अथ क्रोधाद्दशग्रीवो जग्राह दशमार्गणान्
३.०४९.००८ मृत्युदण्डनिभान् घोराञ्शत्रुमर्दनकाङ्क्षया
३.०४९.००९ स तैर्बाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः
३.०४९.००९ बिभेद निशितैस्तीक्ष्णैर्गृध्रं घोरैः शिलीमुखैः
३.०४९.०१० स राक्षसरथे पश्यञ्जानकीं बाष्पलोचनाम्
३.०४९.०१० अचिन्तयित्वा बाणांस्तान् राक्षसं समभिद्रवत्
३.०४९.०११ ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्
३.०४९.०११ चरणाभ्यां महातेजा बभञ्ज पतगेश्वरः
३.०४९.०१२ तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम्
३.०४९.०१२ पक्षाभ्यां च महातेजा व्यधुनोत्पतगेश्वरः
३.०४९.०१३ काञ्चनोरश्छदान् दिव्यान् पिशाचवदनान् खरान्
३.०४९.०१३ तांश्चास्य जवसंपन्नाञ्जघान समरे बली
३.०४९.०१४ वरं त्रिवेणुसंपन्नं कामगं पावकार्चिषम्
३.०४९.०१४ मणिहेमविचित्राङ्गं बभञ्ज च महारथम्
३.०४९.०१४ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह
३.०४९.०१५ स भग्नधन्वा विरथो हताश्वो हतसारथिः
३.०४९.०१५ अङ्केनादाय वैदेहीं पपात भुवि रावणः
३.०४९.०१६ दृष्ट्वा निपतितं भूमौ रावणं भग्नवाहनम्
३.०४९.०१६ साधु साध्विति भूतानि गृध्रराजमपूजयन्
३.०४९.०१७ परिश्रान्तं तु तं दृष्ट्वा जरया पक्षियूथपम्
३.०४९.०१७ उत्पपात पुनर्हृष्टो मैथिलीं गृह्य रावणः
३.०४९.०१८ तं प्रहृष्टं निधायाङ्के गच्छन्तं जनकात्मजाम्
३.०४९.०१८ गृध्रराजः समुत्पत्य जटायुरिदमब्रवीत्
३.०४९.०१९ वज्रसंस्पर्शबाणस्य भार्यां रामस्य रावण
३.०४९.०१९ अल्पबुद्धे हरस्येनां वधाय खलु रक्षसाम्
३.०४९.०२० समित्रबन्धुः सामात्यः सबलः सपरिच्छदः
३.०४९.०२० विषपानं पिबस्येतत्पिपासित इवोदकम्
३.०४९.०२१ अनुबन्धमजानन्तः कर्मणामविचक्षणाः
३.०४९.०२१ शीघ्रमेव विनश्यन्ति यथा त्वं विनशिष्यसि
३.०४९.०२२ बद्धस्त्वं कालपाशेन क्व गतस्तस्य मोक्ष्यसे
३.०४९.०२२ वधाय बडिशं गृह्य सामिषं जलजो यथा
३.०४९.०२३ न हि जातु दुराधर्षौ काकुत्स्थौ तव रावण
३.०४९.०२३ धर्षणं चाश्रमस्यास्य क्षमिष्येते तु राघवौ
३.०४९.०२४ यथा त्वया कृतं कर्म भीरुणा लोकगर्हितम्
३.०४९.०२४ तस्कराचरितो मार्गो नैष वीरनिषेवितः
३.०४९.०२५ युध्यस्व यदि शूरोऽसि मुहूर्तं तिष्ठ रावण
३.०४९.०२५ शयिष्यसे हतो भूमौ यथा भ्राता खरस्तथा
३.०४९.०२६ परेतकाले पुरुषो यत्कर्म प्रतिपद्यते
३.०४९.०२६ विनाशायात्मनोऽधर्म्यं प्रतिपन्नोऽसि कर्म तत्
३.०४९.०२७ पापानुबन्धो वै यस्य कर्मणः को नु तत्पुमान्
३.०४९.०२७ कुर्वीत लोकाधिपतिः स्वयम्भूर्भगवानपि
३.०४९.०२८ एवमुक्त्वा शुभं वाक्यं जटायुस्तस्य रक्षसः
३.०४९.०२८ निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान्
३.०४९.०२९ तं गृहीत्वा नखैस्तीक्ष्णैर्विरराद समन्ततः
३.०४९.०२९ अधिरूढो गजारोहि यथा स्याद्दुष्टवारणम्
३.०४९.०३० विरराद नखैरस्य तुण्डं पृष्ठे समर्पयन्
३.०४९.०३० केशांश्चोत्पाटयामास नखपक्षमुखायुधः
३.०४९.०३१ स तथा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः
३.०४९.०३१ अमर्षस्फुरितौष्ठः सन् प्राकम्पत स राक्षसः
३.०४९.०३२ संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः
३.०४९.०३२ तलेनाभिजघानार्तो जटायुं क्रोधमूर्छितः
३.०४९.०३३ जटायुस्तमतिक्रम्य तुण्डेनास्य खराधिपः
३.०४९.०३३ वामबाहून् दश तदा व्यपाहरदरिंदमः
३.०४९.०३४ ततः क्रुद्धो दशक्रीवः सीतामुत्सृज्य वीर्यवान्
३.०४९.०३४ मुष्टिभ्यां चरणाभ्यां च गृध्रराजमपोथयत्
३.०४९.०३५ ततो मुहूर्तं संग्रामो बभूवातुलवीर्ययोः
३.०४९.०३५ राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च
३.०४९.०३६ तस्य व्यायच्छमानस्य रामस्यार्थेऽथ रावणः
३.०४९.०३६ पक्षौ पादौ च पार्श्वौ च खड्गमुद्धृत्य सोऽच्छिनत्
३.०४९.०३७ स छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा
३.०४९.०३७ निपपात हतो गृध्रो धरण्यामल्पजीवितः
३.०४९.०३८ तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम्
३.०४९.०३८ अभ्यधावत वैदेही स्वबन्धुमिव दुःखिता
३.०४९.०३९ तं नीलजीमूतनिकाशकल्पं॑ सुपाण्डुरोरस्कमुदारवीर्यम्
३.०४९.०३९ ददर्श लङ्काधिपतिः पृथिव्यां॑ जटायुषं शान्तमिवाग्निदावम्
३.०४९.०४० ततस्तु तं पत्ररथं महीतले॑ निपातितं रावणवेगमर्दितम्
३.०४९.०४० पुनः परिष्वज्य शशिप्रभानना॑ रुरोद सीता जनकात्मजा तदा
३.०५०.००१ तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः
३.०५०.००१ ददर्श गृध्रं पतितं समीपे राघवाश्रमात्
३.०५०.००२ सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्
३.०५०.००२ गृध्रराजं विनिहतं विललाप सुदुःखिता
३.०५०.००३ निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम्
३.०५०.००३ अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते
३.०५०.००४ न नूनं राम जानासि महद्व्यसनमात्मजः
३.०५०.००४ धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः
३.०५०.००५ त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना
३.०५०.००५ सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके
३.०५०.००६ तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्
३.०५०.००६ अभ्यधावत वैदेहीं रावणो राक्षसाधिपः
३.०५०.००७ तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्
३.०५०.००७ मुञ्च मुञ्चेति बहुशः प्रवदन् राक्षसाधिपः
३.०५०.००८ क्रोशन्तीं राम रामेति रामेण रहितां वने
३.०५०.००८ जीवितान्ताय केशेषु जग्राहान्तकसंनिभः
३.०५०.००९ प्रधर्षितायां वैदेह्यां बभूव सचराचरम्
३.०५०.००९ जगत्सर्वममर्यादं तमसान्धेन संवृतम्
३.०५०.०१० दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा
३.०५०.०१० कृतं कार्यमिति श्रीमान् व्याजहार पितामहः
३.०५०.०११ प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः
३.०५०.०११ दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः
३.०५०.०१२ स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च
३.०५०.०१२ जगामाकाशमादाय रावणो राक्षसाधिपः
३.०५०.०१३ तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी
३.०५०.०१३ रराज राजपुत्री तु विद्युत्सौदामनी यथा
३.०५०.०१४ उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः
३.०५०.०१४ अधिकं परिबभ्राज गिरिर्दीप इवाग्निना
३.०५०.०१५ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च
३.०५०.०१५ पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्
३.०५०.०१६ तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्
३.०५०.०१६ बभौ चादित्यरागेण ताम्रमभ्रमिवातपे
३.०५०.०१७ तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम्
३.०५०.०१७ न रराज विना रामं विनालमिव पङ्कजम्
३.०५०.०१८ बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः
३.०५०.०१८ सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्
३.०५०.०१८ शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम्
३.०५०.०१९ रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम्
३.०५०.०१९ सुनासं चारुताम्रौष्ठमाकाषे हाटकप्रभम्
३.०५०.०२० राक्षसेन्द्रसमाधूतं तस्यास्तद्वचनं शुभम्
३.०५०.०२० शुशुभे न विना रामं दिवा चन्द्र इवोदितः
३.०५०.०२१ सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्
३.०५०.०२१ शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता
३.०५०.०२२ सा पद्मगौरी हेमाभा रावणं जनकात्मजा
३.०५०.०२२ विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा
३.०५०.०२३ तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः
३.०५०.०२३ बभूव विमलो नीलः सघोष इव तोयदः
३.०५०.०२४ उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः
३.०५०.०२४ सीताया ह्रियमाणायाः पपात धरणीतले
३.०५०.०२५ सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः
३.०५०.०२५ समाधूता दशग्रीवं पुनरेवाभ्यवर्तत
३.०५०.०२६ अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्
३.०५०.०२६ नक्षत्रमालाविमला मेरुं नगमिवोत्तमम्
३.०५०.०२७ चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्
३.०५०.०२७ विद्युन्मण्डलसंकाशं पपात मधुरस्वनम्
३.०५०.०२८ तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्
३.०५०.०२८ प्राशोभयत वैदेही गजं कष्येव काञ्चनी
३.०५०.०२९ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा
३.०५०.०२९ जहाराकाशमाविश्य सीतां वैश्रवणानुजः
३.०५०.०३० तस्यास्तान्यग्निवर्णानि भूषणानि महीतले
३.०५०.०३० सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात्
३.०५०.०३१ तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः
३.०५०.०३१ वैदेह्या निपतन् भाति गङ्गेव गगनाच्च्युता
३.०५०.०३२ उत्पात वाताभिहता नानाद्विज गणायुताः
३.०५०.०३२ मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः
३.०५०.०३३ नलिन्यो ध्वस्तकमलास्त्रस्तमीनजले चराः
३.०५०.०३३ सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्
३.०५०.०३४ समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः
३.०५०.०३४ अन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः
३.०५०.०३५ जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः
३.०५०.०३५ सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः
३.०५०.०३६ ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः
३.०५०.०३६ प्रविध्वस्तप्रभः श्रीमानासीत्पाण्डुरमण्डलः
३.०५०.०३७ नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता
३.०५०.०३७ यत्र रामस्य वैदेहीं भार्यां हरति रावणः
३.०५०.०३८ इति सर्वाणि भूतानि गणशः पर्यदेवयन्
३.०५०.०३८ वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः
३.०५०.०३९ उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः
३.०५०.०३९ सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः
३.०५०.०४० विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्
३.०५०.०४० तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्
३.०५०.०४१ अवेक्षमाणां बहुषो वैदेहीं धरणीतलम्
३.०५०.०४१ स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्
३.०५०.०४१ जहारात्मविनाशाय दशग्रीवो मनस्विनाम्
३.०५०.०४२ ततस्तु सा चारुदती शुचिस्मिता॑ विनाकृता बन्धुजनेन मैथिली
३.०५०.०४२ अपश्यती राघवलक्ष्मणावुभौ॑ विवर्णवक्त्रा भयभारपीडिता
३.०५१.००१ खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा
३.०५१.००१ दुःखिता परमोद्विग्ना भये महति वर्तिनी
३.०५१.००२ रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम्
३.०५१.००२ रुदती करुणं सीता ह्रियमाणेदमब्रवीत्
३.०५१.००३ न व्यपत्रपसे नीच कर्मणानेन रावण
३.०५१.००३ ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे
३.०५१.००४ त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता
३.०५१.००४ ममापवाहितो भर्ता मृगरूपेण मायया
३.०५१.००४ यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः
३.०५१.००५ परमं खलु ते वीर्यं दृश्यते राक्षसाधम
३.०५१.००५ विश्राव्य नामधेयं हि युद्धे नास्ति जिता त्वया
३.०५१.००६ ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे
३.०५१.००६ स्त्रियाश्च हरणं नीच रहिते च परस्य च
३.०५१.००७ कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम्
३.०५१.००७ सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः
३.०५१.००८ धिक्ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा
३.०५१.००८ कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम्
३.०५१.००९ किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि
३.०५१.००९ मुहूर्तमपि तिष्ठस्व न जीवन् प्रतियास्यसि
३.०५१.०१० न हि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः
३.०५१.०१० ससैन्योऽपि समर्तःस्त्वं मुहूर्तमपि जीवितुम्
३.०५१.०११ न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथं चन
३.०५१.०११ वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः
३.०५१.०१२ साधु कृत्वात्मनः पथ्यं साधु मां मुञ्च रावण
३.०५१.०१२ मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम
३.०५१.०१२ विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि
३.०५१.०१३ येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि
३.०५१.०१३ व्यवसायः स ते नीच भविष्यति निरर्थकः
३.०५१.०१४ न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम्
३.०५१.०१४ उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम्
३.०५१.०१५ न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे
३.०५१.०१५ मृत्युकाले यथा मर्त्यो विपरीतानि सेवते
३.०५१.०१६ मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते
३.०५१.०१६ पश्यामीव हि कण्ठे त्वां कालपाशावपाशितम्
३.०५१.०१७ यथा चास्मिन् भयस्थाने न बिभेषे दशानन
३.०५१.०१७ व्यक्तं हिरण्मयान् हि त्वं संपश्यसि महीरुहान्
३.०५१.०१८ नदीं वैरतणीं घोरां रुधिरौघनिवाहिनीम्
३.०५१.०१८ खड्गपत्रवनं चैव भीमं पश्यसि रावण
३.०५१.०१९ तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम्
३.०५१.०१९ द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम्
३.०५१.०२० न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः
३.०५१.०२० धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः
३.०५१.०२१ बद्धस्त्वं कालपाशेन दुर्निवारेण रावण
३.०५१.०२१ क्व गतो लप्स्यसे शर्म भर्तुर्मम महात्मनः
३.०५१.०२२ निमेषान्तरमात्रेण विना भ्रातरमाहवे
३.०५१.०२२ राक्षसा निहता येन सहस्राणि चतुर्दश
३.०५१.०२३ स कथं राघवो वीरः सर्वास्त्रकुशलो बली
३.०५१.०२३ न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम्
३.०५१.०२४ एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा
३.०५१.०२४ भयशोकसमाविष्टा करुणं विललाप ह
३.०५१.०२५ तथा भृशार्तां बहु चैव भाषिणीं॑ विललाप पूर्वं करुणं च भामिनीम्
३.०५१.०२५ जहार पापस्तरुणीं विवेष्टतीं॑ नृपात्मजामागतगात्रवेपथुम्
३.०५२.००१ ह्रियमाणा तु वैदेही कं चिन्नाथमपश्यती
३.०५२.००१ ददर्श गिरिशृङ्गस्थान् पञ्चवानरपुंगवान्
३.०५२.००२ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्
३.०५२.००२ उत्तरीयं वरारोहा शुभान्याभरणानि च
३.०५२.००२ मुमोच यदि रामाय शंसेयुरिति मैथिली
३.०५२.००३ वस्त्रमुत्सृज्य तन्मध्ये विनिक्षिप्तं सभूषणम्
३.०५२.००३ संभ्रमात्तु दशग्रीवस्तत्कर्म न च बुद्धिवान्
३.०५२.००४ पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव
३.०५२.००४ विक्रोशन्तीं तदा सीतां ददृशुर्वानरर्षभाः
३.०५२.००५ स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्
३.०५२.००५ जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः
३.०५२.००६ तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः
३.०५२.००६ उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्
३.०५२.००७ वनानि सरितः शैलान् सरांसि च विहायसा
३.०५२.००७ स क्षिप्रं समतीयाय शरश्चापादिव च्युतः
३.०५२.००८ तिमिनक्रनिकेतं तु वरुणालयमक्षयम्
३.०५२.००८ सरितां शरणं गत्वा समतीयाय सागरम्
३.०५२.००९ संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः
३.०५२.००९ वैदेह्यां ह्रियमाणायां बभूव वरुणालयः
३.०५२.०१० अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा
३.०५२.०१० एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन्
३.०५२.०११ स तु सी
तां विवेष्टन्तीमङ्केनादाय रावणः
३.०५२.०११ प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः
३.०५२.०१२ सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्
३.०५२.०१२ संरूढकक्ष्या बहुलं स्वमन्तःपुरमाविशत्
३.०५२.०१३ तत्र तामसितापाङ्गीं शोकमोहपरायणाम्
३.०५२.०१३ निदधे रावणः सीतां मयो मायामिवासुरीम्
३.०५२.०१४ अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः
३.०५२.०१४ यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसंमतः
३.०५२.०१५ मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च
३.०५२.०१५ यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा
३.०५२.०१६ या च वक्ष्यति वैदेहीं वचनं किं चिदप्रियम्
३.०५२.०१६ अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम्
३.०५२.०१७ तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्
३.०५२.०१७ निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन्
३.०५२.०१७ ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्
३.०५२.०१८ स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः
३.०५२.०१८ उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः
३.०५२.०१९ नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः
३.०५२.०१९ जनस्थानं हतस्थानं भूतपूर्वं खरालयम्
३.०५२.०२० तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे
३.०५२.०२० पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः
३.०५२.०२१ बलं हि सुमहद्यन्मे जनस्थाने निवेशितम्
३.०५२.०२१ सदूषणखरं युद्धे हतं तद्रामसायकैः
३.०५२.०२२ ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते
३.०५२.०२२ वैरं च सुमहज्जातं रामं प्रति सुदारुणम्
३.०५२.०२३ निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः
३.०५२.०२३ न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्
३.०५२.०२४ तं त्विदानीमहं हत्वा खरदूषणघातिनम्
३.०५२.०२४ रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः
३.०५२.०२५ जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता
३.०५२.०२५ प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः
३.०५२.०२६ अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः
३.०५२.०२६ कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति
३.०५२.०२७ युष्माकं हि बलज्ञोऽहं बहुशो रणमूर्धनि
३.०५२.०२७ अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः
३.०५२.०२८ ततः प्रियं वाक्यमुपेत्य राक्षसा॑ महार्थमष्टावभिवाद्य रावणम्
३.०५२.०२८ विहाय लङ्कां सहिताः प्रतस्थिरे॑ यतो जनस्थानमलक्ष्यदर्शनाः
३.०५२.०२९ ततस्तु सीतामुपलभ्य रावणः॑ सुसंप्रहृष्टः परिगृह्य मैथिलीम्
३.०५२.०२९ प्रसज्य रामेण च वैरमुत्तमं॑ बभूव मोहान्मुदितः स राक्षसः
३.०५३.००१ संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान्
३.०५३.००१ आत्मानं बुद्धिवैक्लव्यात्कृतकृत्यममन्यत
३.०५३.००२ स चिन्तयानो वैदेहीं कामबाणसमर्पितः
३.०५३.००२ प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन्
३.०५३.००३ स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः
३.०५३.००३ अपश्यद्राक्षसीमध्ये सीतां शोकपरायणम्
३.०५३.००४ अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम्
३.०५३.००४ वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे
३.०५३.००५ मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम्
३.०५३.००५ अधोमुखमुखीं दीनामभ्येत्य च निशाचरः
३.०५३.००६ तां तु शोकवशां दीनामवशां राक्षसाधिपः
३.०५३.००६ स बलाद्दर्शयामास गृहं देवगृहोपमम्
३.०५३.००७ हर्म्यप्रासादसंबधं स्त्रीसहस्रनिषेवितम्
३.०५३.००७ नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम्
३.०५३.००८ काञ्चनैस्तापनीयैश्च स्फाटिकै राजतैस्तथा
३.०५३.००८ वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोहरैः
३.०५३.००९ दिव्यदुन्दुभिनिर्ह्रादं तप्तकाञ्चनतोरणम्
३.०५३.००९ सोपानं काञ्चनं चित्रमारुरोह तया सह
३.०५३.०१० दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः
३.०५३.०१० हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः
३.०५३.०११ सुधामणिविचित्राणि भूमिभागानि सर्वशः
३.०५३.०११ दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम्
३.०५३.०१२ दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः
३.०५३.०१२ रावणो दर्शयामास सीतां शोकपरायणाम्
३.०५३.०१३ दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम्
३.०५३.०१३ उवाच वाक्यं पापात्मा रावणो जनकात्मजाम्
३.०५३.०१४ दशराक्षसकोट्यश्च द्वाविंशतिरथापराः
३.०५३.०१४ वर्जयित्वा जरा वृद्धान् बालांश्च रजनीचरान्
३.०५३.०१५ तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम्
३.०५३.०१५ सहस्रमेकमेकस्य मम कार्यपुरःसरम्
३.०५३.०१६ यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम्
३.०५३.०१६ जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी
३.०५३.०१७ बहूनां स्त्रीसहस्राणां मम योऽसौ परिग्रहः
३.०५३.०१७ तासां त्वमीश्वरी सीते मम भार्या भव प्रिये
३.०५३.०१८ साधु किं तेऽन्यया बुद्ध्या रोचयस्व वचो मम
३.०५३.०१८ भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि
३.०५३.०१९ परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना
३.०५३.०१९ नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः
३.०५३.०२० न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु
३.०५३.०२० अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत्
३.०५३.०२१ राज्यभ्रष्टेन दीनेन तापसेन गतायुषा
३.०५३.०२१ किं करिष्यसि रामेण मानुषेणाल्पतेजसा
३.०५३.०२२ भजस्व सीते मामेव भर्ताहं सदृशस्तव
३.०५३.०२२ यौवनं ह्यध्रुवं भीरु रमस्वेह मया सह
३.०५३.०२३ दर्शने मा कृथा बुद्धिं राघवस्य वरानने
३.०५३.०२३ कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः
३.०५३.०२४ न शक्यो वायुराकाशे पाशैर्बद्धं महाजवः
३.०५३.०२४ दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलां शिखाम्
३.०५३.०२५ त्रयाणामपि लोकानां न तं पश्यामि शोभने
३.०५३.०२५ विक्रमेण नयेद्यस्त्वां मद्बाहुपरिपालिताम्
३.०५३.०२६ लङ्कायां सुमहद्राज्यमिदं त्वमनुपालय
३.०५३.०२६ अभिषेकोदकक्लिन्ना तुष्टा च रमयस्व माम्
३.०५३.०२७ दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम्
३.०५३.०२७ यश्च ते सुकृतो धर्मस्तस्येह फलमाप्नुहि
३.०५३.०२८ इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि
३.०५३.०२८ भूषणानि च मुख्यानि तानि सेव मया सह
३.०५३.०२९ पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे
३.०५३.०२९ विमानं रमणीयं च तद्विमानं मनोजवम्
३.०५३.०३० तत्र सीते मया सार्धं विहरस्व यथासुखम्
३.०५३.०३० वदनं पद्मसंकाशं विमलं चारुदर्शनम्
३.०५३.०३१ शोकार्तं तु वरारोहे न भ्राजति वरानने
३.०५३.०३१ अलं व्रीडेन वैदेहि धर्मलोप कृतेन ते
३.०५३.०३२ आर्षोऽयं दैवनिष्यन्दो यस्त्वामभिगमिष्यति
३.०५३.०३२ एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ
३.०५३.०३३ प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते
३.०५३.०३३ नेमाः शून्या मया वाचः शुष्यमाणेन भाषिताः
३.०५३.०३४ न चापि रावणः कां चिन्मूर्ध्ना स्त्रीं प्रणमेत ह
३.०५३.०३४ एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम्
३.०५३.०३५ कृतान्तवशमापन्नो ममेयमिति मन्यते
३.०५४.००१ सा तथोक्ता तु वैदेही निर्भया शोककर्षिता
३.०५४.००१ तृणमन्तरतः कृत्वा रावणं प्रत्यभाषत
३.०५४.००२ राजा दशरथो नाम धर्मसेतुरिवाचलः
३.०५४.००२ सत्यसन्धः परिज्ञातो यस्य पुत्रः स राघवः
३.०५४.००३ रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः
३.०५४.००३ दीर्घबाहुर्विशालाक्षो दैवतं स पतिर्मम
३.०५४.००४ इक्ष्वाकूणां कुले जातः सिंहस्कन्धो महाद्युतिः
३.०५४.००४ लक्ष्मणेन सह भ्रात्रा यस्ते प्राणां हरिष्यति
३.०५४.००५ प्रत्यक्षं यद्यहं तस्य त्वया स्यां धर्षिता बलात्
३.०५४.००५ शयिता त्वं हतः संख्ये जनस्थाने यथा खरः
३.०५४.००६ य एते राक्षसाः प्रोक्ता घोररूपा महाबलाः
३.०५४.००६ राघवे निर्विषाः सर्वे सुपर्णे पन्नगा यथा
३.०५४.००७ तस्य ज्याविप्रमुक्तास्ते शराः काञ्चनभूषणाः
३.०५४.००७ शरीरं विधमिष्यन्ति गङ्गाकूलमिवोर्मयः
३.०५४.००८ असुरैर्वा सुरैर्वा त्वं यद्यवधोऽसि रावण
३.०५४.००८ उत्पाद्य सुमहद्वैरं जीवंस्तस्य न मोक्ष्यसे
३.०५४.००९ स ते जीवितशेषस्य राघवोऽन्तकरो बली
३.०५४.००९ पशोर्यूपगतस्येव जीवितं तव दुर्लभम्
३.०५४.०१० यदि पश्येत्स रामस्त्वां रोषदीप्तेन चक्षुषा
३.०५४.०१० रक्षस्त्वमद्य निर्दग्धो गच्छेः सद्यः पराभवम्
३.०५४.०११ यश्चन्द्रं नभसो भूमौ पातयेन्नाशयेत वा
३.०५४.०११ सागरं शोषयेद्वापि स सीतां मोचयेदिह
३.०५४.०१२ गतायुस्त्वं गतश्रीको गतसत्त्वो गतेन्द्रियः
३.०५४.०१२ लङ्का वैधव्यसंयुक्ता त्वत्कृतेन भविष्यति
३.०५४.०१३ न ते पापमिदं कर्म सुखोदर्कं भविष्यति
३.०५४.०१३ याहं नीता विना भावं पतिपार्श्वात्त्वया वनात्
३.०५४.०१४ स हि दैवतसंयुक्तो मम भर्ता महाद्युतिः
३.०५४.०१४ निर्भयो वीर्यमाश्रित्य शून्ये वसति दण्डके
३.०५४.०१५ स ते दर्पं बलं वीर्यमुत्सेकं च तथाविधम्
३.०५४.०१५ अपनेष्यति गात्रेभ्यः शरवर्षेण संयुगे
३.०५४.०१६ यदा विनाशो भूतानां दृश्यते कालचोदितः
३.०५४.०१६ तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः
३.०५४.०१७ मां प्रधृष्य स ते कालः प्राप्तोऽयं रक्षसाधम
३.०५४.०१७ आत्मनो राक्षसानां च वधायान्तःपुरस्य च
३.०५४.०१८ न शक्या यज्ञमध्यस्था वेदिः स्रुग्भाण्ड मण्डिता
३.०५४.०१८ द्विजातिमन्त्रसंपूता चण्डालेनावमर्दितुम्
३.०५४.०१९ इदं शरीरं निःसंज्ञं बन्ध वा घातयस्व वा
३.०५४.०१९ नेदं शरीरं रक्ष्यं मे जीवितं वापि राक्षस
३.०५४.०१९ न हि शक्ष्याम्युपक्रोशं पृथिव्यां दातुमात्मनः
३.०५४.०२० एवमुक्त्वा तु वैदेही क्रोद्धात्सुपरुषं वचः
३.०५४.०२० रावणं मैथिली तत्र पुनर्नोवाच किं चन
३.०५४.०२१ सीताया वचनं श्रुत्वा परुषं रोमहर्षणम्
३.०५४.०२१ प्रत्युवाच ततः सीतां भयसंदर्शनं वचः
३.०५४.०२२ शृणु मैथिलि मद्वाक्यं मासान् द्वादश भामिनि
३.०५४.०२२ कालेनानेन नाभ्येषि यदि मां चारुहासिनि
३.०५४.०२२ ततस्त्वां प्रातराशार्थं सूदाश्छेत्स्यन्ति लेशशः
३.०५४.०२३ इत्युक्त्वा परुषं वाक्यं रावणः शत्रुरावणः
३.०५४.०२३ राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्
३.०५४.०२४ शीघ्रमेवं हि राक्षस्यो विकृता घोरदर्शनाः
३.०५४.०२४ दर्पमस्या विनेष्यन्तु मांसशोणितभोजनाः
३.०५४.०२५ वचनादेव तास्तस्य विकृता घोरदर्शनाः
३.०५४.०२५ कृतप्राञ्जलयो भूत्वा मैथिलीं पर्यवारयन्
३.०५४.०२६ स ताः प्रोवाच राजा तु रावणो घोरदर्शनः
३.०५४.०२६ प्रचाल्य चरणोत्कर्षैर्दारयन्निव मेदिनीम्
३.०५४.०२७ अशोकवनिकामध्ये मैथिली नीयतामिति
३.०५४.०२७ तत्रेयं रक्ष्यतां गूढमुष्माभिः परिवारिता
३.०५४.०२८ तत्रैनां तर्जनैर्घोरैः पुनः सान्त्वैश्च मैथिलीम्
३.०५४.०२८ आनयध्वं वशं सर्वा वन्यां गजवधूमिव
३.०५४.०२९ इति प्रतिसमादिष्टा राक्षस्यो रावणेन ताः
३.०५४.०२९ अशोकवनिकां जग्मुर्मैथिलीं परिगृह्य ताम्
३.०५४.०३० सर्वकामफलैर्वृक्षैर्नानापुष्पफलैर्वृताम्
३.०५४.०३० सर्वकालमदैश्चापि द्विजैः समुपसेविताम्
३.०५४.०३१ सा तु शोकपरीताङ्गी मैथिली जनकात्मजा
३.०५४.०३१ राक्षसी वशमापन्ना व्याघ्रीणां हरिणी यथा
३.०५४.०३२ न विन्दते तत्र तु शर्म मैथिली॑ विरूपनेत्राभिरतीव तर्जिता
३.०५४.०३२ पतिं स्मरन्ती दयितं च देवरं॑ विचेतनाभूद्भयशोकपीडिता
३.०५५.००१ राक्षसं मृगरूपेण चरन्तं कामरूपिणम्
३.०५५.००१ निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत
३.०५५.००२ तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्
३.०५५.००२ क्रूरस्वरोऽथ गोमायुर्विननादास्य पृष्ठतः
३.०५५.००३ स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्
३.०५५.००३ चिन्तयामास गोमायोः स्वरेण परिशङ्कितः
३.०५५.००४ अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा
३.०५५.००४ स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना
३.०५५.००५ मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्
३.०५५.००५ विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि
३.०५५.००६ स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्
३.०५५.००६ तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति
३.०५५.००७ राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः
३.०५५.००७ काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्
३.०५५.००८ दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः
३.०५५.००८ हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्यजहार ह
३.०५५.००९ अपि स्वस्ति भवेद्द्वाभ्यां रहिताभ्यां मया वने
३.०५५.००९ जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः
३.०५५.००९ निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च
३.०५५.०१० इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम्
३.०५५.०१० आत्मनश्चापनयनं मृगरूपेण रक्षसा
३.०५५.०१० आजगाम जनस्थानं राघवः परिशङ्कितः
३.०५५.०११ तं दीनमानसं दीनमासेदुर्मृगपक्षिणः
३.०५५.०११ सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्
३.०५५.०१२ तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः
३.०५५.०१२ ततो लक्षणमायान्तं ददर्श विगतप्रभम्
३.०५५.०१३ ततोऽविदूरे रामेण समीयाय स लक्ष्मणः
३.०५५.०१३ विषण्णः स विषण्णेन दुःखितो दुःखभागिना
३.०५५.०१४ संजगर्हेऽथ तं भ्राता जेष्ठो लक्ष्मणमागतम्
३.०५५.०१४ विहाय सीतां विजने वने राक्षससेविते
३.०५५.०१५ गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः
३.०५५.०१५ उवाच मधुरोदर्कमिदं परुषमार्तवत्
३.०५५.०१६ अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम्
३.०५५.०१६ सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति
३.०५५.०१७ न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा
३.०५५.०१७ विनष्टा भक्षिता वाप राक्षसैर्वनचारिभिः
३.०५५.०१८ अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे
३.०५५.०१८ अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे
३.०५५.०१९ इदं हि रक्षोमृगसंनिकाशं॑ प्रलोभ्य मां दूरमनुप्रयातम्
३.०५५.०१९ हतं कथं चिन्महता श्रमेण॑ स राक्षसोऽभून्म्रियमाण एव
३.०५५.०२० मनश्च मे दीनमिहाप्रहृष्टं॑ चक्षुश्च सव्यं कुरुते विकारम्
३.०५५.०२० असंशयं लक्ष्मण नास्ति सीता॑ हृता मृता वा पथि वर्तते वा
३.०५६.००१ स दृष्ट्वा लक्ष्मणं दीनं शून्ये दशरथात्मजः
३.०५६.००१ पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना
३.०५६.००२ प्रस्थितं दण्डकारण्यं या मामनुजगाम ह
३.०५६.००२ क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः
३.०५६.००३ राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः
३.०५६.००३ क्व सा दुःखसहाया मे वैदेही तनुमध्यमा
३.०५६.००४ यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम्
३.०५६.००४ क्व सा प्राणसहाया मे सीता सुरसुतोपमा
३.०५६.००५ पतित्वममराणां वा पृथिव्याश्चापि लक्ष्मण
३.०५६.००५ विना तां तपनीयाभां नेच्छेयं जनकात्मजाम्
३.०५६.००६ कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम
३.०५६.००६ कच्चित्प्रव्राजनं सौम्य न मे मिथ्या भविष्यति
३.०५६.००७ सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि
३.०५६.००७ कच्चित्सकामा सुखिता कैकेयी सा भविष्यति
३.०५६.००८ सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी
३.०५६.००८ उपस्थास्यति कौसल्या कच्चिन् सौम्य न कैकयीम्
३.०५६.००९ यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः
३.०५६.००९ सुवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण
३.०५६.०१० यदि मामाश्रमगतं वैदेही नाभिभाषते
३.०५६.०१० पुनः प्रहसिता सीता विनशिष्यामि लक्ष्मण
३.०५६.०११ ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा
३.०५६.०११ त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी
३.०५६.०१२ सुकुमारी च बाला च नित्यं चादुःखदर्शिनी
३.०५६.०१२ मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः
३.०५६.०१३ सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना
३.०५६.०१३ वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम्
३.०५६.०१४ श्रुतश्च शङ्के वैदेह्या स स्वरः सदृशो मम
३.०५६.०१४ त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः
३.०५६.०१५ सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने
३.०५६.०१५ प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम्
३.०५६.०१६ दुःखिताः खरघातेन राक्षसाः पिशिताशनाः
३.०५६.०१६ तैः सीता निहता घोरैर्भविष्यति न संशयः
३.०५६.०१७ अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन
३.०५६.०१७ किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम्
३.०५६.०१८ इति सीतां वरारोहां चिन्तयन्नेव राघवः
३.०५६.०१८ आजगाम जनस्थानं त्वरया सहलक्ष्मणः
३.०५६.०१९ विगर्हमाणोऽनुजमार्तरूपं॑ क्षुधा श्रमाच्चैव पिपासया च
३.०५६.०१९ विनिःश्वसञ्शुष्कमुखो विषण्णः॑ प्रतिश्रयं प्राप्य समीक्ष्य शून्यम्
३.०५६.०२० स्वमाश्रमं संप्रविगाह्य वीरो॑ विहारदेशाननुसृत्य कांश्चित्
३.०५६.०२० एतत्तदित्येव निवासभूमौ॑ प्रहृष्टरोमा व्यथितो बभूव
३.०५७.००१ अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः
३.०५७.००१ परिपप्रच्छ सौमित्रिं रामो दुःखार्दितः पुनः
३.०५७.००२ तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम्
३.०५७.००२ यदा सा तव विश्वासाद्वने विहरिता मया
३.०५७.००३ दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण
३.०५७.००३ शङ्कमानं महत्पापं यत्सत्यं व्यथितं मनः
३.०५७.००४ स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे
३.०५७.००४ दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि
३.०५७.००५ एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः
३.०५७.००५ भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत्
३.०५७.००६ न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः
३.०५७.००६ प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः
३.०५७.००७ आर्येणेव परिक्रुष्टं हा सीते लक्ष्मणेति च
३.०५७.००७ परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम्
३.०५७.००८ सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली
३.०५७.००८ गच्छ गच्छेति मामाह रुदन्ती भयविह्वला
३.०५७.००९ प्रचोद्यमानेन मया गच्छेति बहुशस्तया
३.०५७.००९ प्रत्युक्ता मैथिली वाक्यमिदं त्वत्प्रत्ययान्वितम्
३.०५७.०१० न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत्
३.०५७.०१० निर्वृता भव नास्त्येतत्केनाप्येवमुदाहृतम्
३.०५७.०११ विगर्हितं च नीचं च कथमार्योऽभिधास्यति
३.०५७.०११ त्राहीति वचनं सीते यस्त्रायेत्त्रिदशानपि
३.०५७.०१२ किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम्
३.०५७.०१२ विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति
३.०५७.०१२ न भवत्या व्यथा कार्या कुनारीजनसेविता
३.०५७.०१३ अलं वैक्लव्यमालम्ब्य स्वस्था भव निरुत्सुका
३.०५७.०१३ न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे
३.०५७.०१३ जातो वा जायमानो वा संयुगे यः पराजयेत्
३.०५७.०१४ एवमुक्ता तु वैदेही परिमोहितचेतना
३.०५७.०१४ उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः
३.०५७.०१५ भावो मयि तवात्यर्थं पाप एव निवेशितः
३.०५७.०१५ विनष्टे भ्रातरि प्राप्ते न च त्वं मामवाप्स्यसि
३.०५७.०१६ संकेताद्भरतेन त्वं रामं समनुगच्छसि
३.०५७.०१६ क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे
३.०५७.०१७ रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि
३.०५७.०१७ राघवस्यान्तरप्रेप्सुस्तथैनं नाभिपद्यसे
३.०५७.०१८ एवमुक्तो हि वैदेह्या संरब्धो रक्तलोचनः
३.०५७.०१८ क्रोधात्प्रस्फुरमाणौष्ठ आश्रमादभिनिर्गतः
३.०५७.०१९ एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः
३.०५७.०१९ अब्रवीद्दुष्कृतं सौम्य तां विना यत्त्वमागतः
३.०५७.०२० जानन्नपि समर्थं मां रक्षसां विनिवारणे
३.०५७.०२० अनेन क्रोधवाक्येन मैथिल्या निःसृतो भवान्
३.०५७.०२१ न हि ते परितुष्यामि त्यक्त्वा यद्यासि मैथिलीम्
३.०५७.०२१ क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः
३.०५७.०२२ सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः
३.०५७.०२२ क्रोधस्य वशमागम्य नाकरोः शासनं मम
३.०५७.०२३ असौ हि राक्षसः शेते शरेणाभिहतो मया
३.०५७.०२३ मृगरूपेण येनाहमाश्रमादपवादितः
३.०५७.०२४ विकृष्य चापं परिधाय सायकं॑ सलील बाणेन च ताडितो मया
३.०५७.०२४ मार्गीं तनुं त्यज्य च विक्लवस्वरो॑ बभूव केयूरधरः स राक्षसः
३.०५७.०२५ शराहतेनैव तदार्तया गिरा॑ स्वरं ममालम्ब्य सुदूरसंश्रवम्
३.०५७.०२५ उदाहृतं तद्वचनं सुदारुणं॑ त्वमागतो येन विहाय मैथिलीम्
३.०५८.००१ भृशमाव्रजमानस्य तस्याधोवामलोचनम्
३.०५८.००१ प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते
३.०५८.००२ उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः
३.०५८.००२ अपि क्षेमं तु सीताया इति वै व्याजहार ह
३.०५८.००३ त्वरमाणो जगामाथ सीतादर्शनलालसः
३.०५८.००३ शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः
३.०५८.००४ उद्भ्रमन्निव वेगेन विक्षिपन् रघुनन्दनः
३.०५८.००४ तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः
३.०५८.००५ ददर्श पर्णशालां च रहितां सीतया तदा
३.०५८.००५ श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव
३.०५८.००६ रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम्
३.०५८.००६ श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम्
३.०५८.००७ विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्
३.०५८.००७ दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः
३.०५८.००८ हृता मृता वा नष्टा वा भक्षिता वा भविष्यति
३.०५८.००८ निलीनाप्यथ वा भीरुरथ वा वनमाश्रिता
३.०५८.००९ गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः
३.०५८.००९ अथ वा पद्मिनीं याता जलार्थं वा नदीं गता
३.०५८.०१० यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्
३.०५८.०१० शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते
३.०५८.०११ वृक्षाद्वृक्षं प्रधावन् स गिरींश्चापि नदीन्नदीम्
३.०५८.०११ बभूव विलपन् रामः शोकपङ्कार्णवप्लुतः
३.०५८.०१२ अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया
३.०५८.०१२ कदम्ब यदि जानीषे शंस सीतां शुभाननाम्
३.०५८.०१३ स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्
३.०५८.०१३ शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी
३.०५८.०१४ अथ वार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्
३.०५८.०१४ जनकस्य सुता भीरुर्यदि जीवति वा न वा
३.०५८.०१५ ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम्
३.०५८.०१५ लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः
३.०५८.०१६ भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम्
३.०५८.०१६ एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्
३.०५८.०१७ अशोकशोकापनुद शोकोपहतचेतसं
३.०५८.०१७ त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्
३.०५८.०१८ यदि ताल त्वया दृष्टा पक्वतालफलस्तनी
३.०५८.०१८ कथयस्व वरारोहां कारुष्यं यदि ते मयि
३.०५८.०१९ यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा
३.०५८.०१९ प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे
३.०५८.०२० अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम्
३.०५८.०२० मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्
३.०५८.०२१ गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत्
३.०५८.०२१ तां मन्ये विदितां तुभ्यमाख्याहि वरवारण
३.०५८.०२२ शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना
३.०५८.०२२ मैथिली मम विस्रब्धः कथयस्व न ते भयम्
३.०५८.०२३ किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे
३.०५८.०२३ वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे
३.०५८.०२४ तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि
३.०५८.०२४ नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे
३.०५८.०२५ पीतकौशेयकेनासि सूचिता वरवर्णिनि
३.०५८.०२५ धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्
३.०५८.०२६ नैव सा नूनमथ वा हिंसिता चारुहासिनी
३.०५८.०२६ कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति
३.०५८.०२७ व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः
३.०५८.०२७ विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया
३.०५८.०२८ नूनं तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम्
३.०५८.०२८ सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता
३.०५८.०२९ कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा
३.०५८.०२९ नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ
३.०५८.०३० भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ
३.०५८.०३० मया विरहिता बाला रक्षसां भक्षणाय वै
३.०५८.०३१ सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा
३.०५८.०३१ हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्व चित्
३.०५८.०३२ हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः
३.०५८.०३२ इत्येवं विलपन् रामः परिधावन् वनाद्वनम्
३.०५८.०३३ क्व चिदुद्भ्रमते वेगात्क्व चिद्विभ्रमते बलात्
३.०५८.०३३ क्व चिन्मत्त इवाभाति कान्तान् वेषणतत्परः
३.०५८.०३४ स वनानि नदीः शैलान् गिरिप्रस्रवणानि च
३.०५८.०३४ काननानि च वेगेन भ्रमत्यपरिसंस्थितः
३.०५८.०३५ तथा स गत्वा विपुलं महद्वनं॑ परीत्य सर्वं त्वथ मैथिलीं प्रति
३.०५८.०३५ अनिष्ठिताशः स चकार मार्गणे॑ पुनः प्रियायाः परमं परिश्रमम्
३.०५९.००१ दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः
३.०५९.००१ रहितां पर्णशालां च विध्वस्तान्यासनानि च
३.०५९.००२ अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः
३.०५९.००२ उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ
३.०५९.००३ क्व नु लक्ष्मण वैदेही कं वा देशमितो गता
३.०५९.००३ केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया
३.०५९.००४ वृष्केणावार्य यदि मां सीते हसितुमिच्छसि
३.०५९.००४ अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्
३.०५९.००५ यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः
३.०५९.००५ एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः
३.०५९.००६ मृतं शोकेन महता सीताहरणजेन माम्
३.०५९.००६ परलोके महाराजो नूनं द्रक्ष्यति मे पिता
३.०५९.००७ कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः
३.०५९.००७ अपूरयित्वा तं कालं मत्सकाशमिहागतः
३.०५९.००८ कामवृत्तमनार्यं मां मृषावादिनमेव च
३.०५९.००८ धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता
३.०५९.००९ विवशं शोकसंतप्तं दीनं भग्नमनोरथम्
३.०५९.००९ मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्
३.०५९.०१० क्व गच्छसि वरारोहे मामुत्सृज्य सुमध्यमे
३.०५९.०१० त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः
३.०५९.०११ इतीव विलपन् रामः सीतादर्शनलालसः
३.०५९.०११ न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्
३.०५९.०१२ अनासादयमानं तं सीतां दशरथात्मजम्
३.०५९.०१२ पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्
३.०५९.०१२ लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया
३.०५९.०१३ मा विषादं महाबाहो कुरु यत्नं मया सह
३.०५९.०१३ इदं च हि वनं शूर बहुकन्दरशोभितम्
३.०५९.०१४ प्रियकाननसंचारा वनोन्मत्ता च मैथिली
३.०५९.०१४ सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्
३.०५९.०१५ सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम्
३.०५९.०१५ वित्रासयितुकामा वा लीना स्यात्कानने क्व चित्
३.०५९.०१५ जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ
३.०५९.०१६ तस्या ह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे
३.०५९.०१६ वनं सर्वं विचिनुवो यत्र सा जनकात्मजा
३.०५९.०१६ मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः
३.०५९.०१७ एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः
३.०५९.०१७ सह सौमित्रिणा रामो विचेतुमुपचक्रमे
३.०५९.०१७ तौ वनानि गिरींश्चैव सरितश्च सरांसि च
३.०५९.०१८ निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ
३.०५९.०१८ तस्य शैलस्य सानूनि गुहाश्च शिखराणि च
३.०५९.०१९ निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः
३.०५९.०१९ विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत्
३.०५९.०२० नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे
३.०५९.०२० ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत्
३.०५९.०२१ विचरन् दण्डकारण्यं भ्रातरं दीप्ततेजसं
३.०५९.०२१ प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्
३.०५९.०२२ यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्
३.०५९.०२२ एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः
३.०५९.०२३ उवाच दीनया वाचा दुःखाभिहतचेतनः
३.०५९.०२३ वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः
३.०५९.०२४ गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः
३.०५९.०२४ न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्
३.०५९.०२५ एवं स विलपन् रामः सीताहरणकर्शितः
३.०५९.०२५ दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्
३.०५९.०२६ स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः
३.०५९.०२६ विषसादातुरो दीनो निःश्वस्याशीतमायतम्
३.०५९.०२७ बहुशः स तु निःश्वस्य रामो राजीवलोचनः
३.०५९.०२७ हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः
३.०५९.०२८ तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः
३.०५९.०२८ बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः
३.०५९.०२९ अनादृत्य तु तद्वाक्यं लक्ष्मणौष्ठपुटच्युतम्
३.०५९.०२९ अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः
३.०६०.००१ स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्
३.०६०.००१ शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्
३.०६०.००१ अपि गोदावरीं सीता पद्मान्यानयितुं गता
३.०६०.००२ एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि
३.०६०.००२ नदीं गोदावरीं रम्यां जगाम लघुविक्रमः
३.०६०.००३ तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्
३.०६०.००३ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे
३.०६०.००४ कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी
३.०६०.००४ न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा
३.०६०.००५ लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः
३.०६०.००५ रामः समभिचक्राम स्वयं गोदावरीं नदीम्
३.०६०.००६ स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्
३.०६०.००७ भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि
३.०६०.००७ न तां शशंसू रामाय तथा गोदावरी नदी
३.०६०.००८ ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति
३.०६०.००८ न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता
३.०६०.००९ रावणस्य च तद्रूपं कर्माणि च दुरात्मनः
३.०६०.००९ ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम्
३.०६०.०१० निराशस्तु तया नद्या सीताया दर्शने कृतः
३.०६०.०१० उवाच रामः सौमित्रिं सीतादर्शनकर्शितः
३.०६०.०११ किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः
३.०६०.०११ मातरं चैव वैदेह्या विना तामहमप्रियम्
३.०६०.०१२ या मे राज्यविहीनस्य वने वन्येन जीवतः
३.०६०.०१२ सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता
३.०६०.०१३ ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः
३.०६०.०१३ मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः
३.०६०.०१४ गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम्
३.०६०.०१४ सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते
३.०६०.०१५ एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ
३.०६०.०१५ वसुंधरायां पतितं पुष्पमार्गमपश्यताम्
३.०६०.०१६ तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले
३.०६०.०१६ उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः
३.०६०.०१७ अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण
३.०६०.०१७ अपिनद्धानि वैदेह्या मया दत्तानि कानने
३.०६०.०१८ एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्
३.०६०.०१८ क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा
३.०६०.०१९ तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत
३.०६०.०१९ यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम्
३.०६०.०२० मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि
३.०६०.०२० असेव्यः सततं चैव निस्तृणद्रुमपल्लवः
३.०६०.०२१ इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण
३.०६०.०२१ यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्
३.०६०.०२२ एवं स रुषितो रामो दिधक्षन्निव चक्षुषा
३.०६०.०२२ ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्
३.०६०.०२३ स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च
३.०६०.०२३ संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्
३.०६०.०२४ पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः
३.०६०.०२४ भूषणानां हि सौमित्रे माल्यानि विविधानि च
३.०६०.०२५ तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः
३.०६०.०२५ आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्
३.०६०.०२६ मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः
३.०६०.०२६ भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति
३.०६०.०२७ तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः
३.०६०.०२७ बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह
३.०६०.०२८ मुक्तामणिचितं चेदं तपनीयविभूषितम्
३.०६०.०२८ धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः
३.०६०.०२९ तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्
३.०६०.०२९ विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्
३.०६०.०३० छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्
३.०६०.०३० भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम्
३.०६०.०३१ काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः
३.०६०.०३१ भीमरूपा महाकायाः कस्य वा निहता रणे
३.०६०.०३२ दीप्तपावकसंकाशो द्युतिमान् समरध्वजः
३.०६०.०३२ अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः
३.०६०.०३३ रथाक्षमात्रा विशिखास्तपनीयविभूषणाः
३.०६०.०३३ कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः
३.०६०.०३४ वैरं शतगुणं पश्य ममेदं जीवितान्तकम्
३.०६०.०३४ सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः
३.०६०.०३५ हृता मृता वा सीता हि भक्षिता वा तपस्विनी
३.०६०.०३५ न धर्मस्त्रायते सीतां ह्रियमाणां महावने
३.०६०.०३६ भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण
३.०६०.०३६ के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः
३.०६०.०३७ कर्तारमपि लोकानां शूरं करुणवेदिनम्
३.०६०.०३७ अज्ञानादवमन्येरन् सर्वभूतानि लक्ष्मण
३.०६०.०३८ मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्
३.०६०.०३८ निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः
३.०६०.०३९ मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण
३.०६०.०३९ अद्यैव सर्वभूतानां रक्षसामभवाय च
३.०६०.०३९ संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः
३.०६०.०४० नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः
३.०६०.०४० किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण
३.०६०.०४१ ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण
३.०६०.०४१ निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्
३.०६०.०४२ संनिरुद्धग्रहगणमावारितनिशाकरम्
३.०६०.०४२ विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्
३.०६०.०४३ विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्
३.०६०.०४३ ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्
३.०६०.०४४ न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः
३.०६०.०४४ अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्
३.०६०.०४५ नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण
३.०६०.०४५ मम चापगुणान्मुक्तैर्बाणजालैर्निरन्तरम्
३.०६०.०४६ अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्
३.०६०.०४६ समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण
३.०६०.०४७ आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः
३.०६०.०४७ करिष्ये मैथिलीहेतोरपिशाचमराक्षसं
३.०६०.०४८ मम रोषप्रयुक्तानां सायकानां बलं सुराः
३.०६०.०४८ द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम्
३.०६०.०४९ नैव देवा न दैतेया न पिशाचा न राक्षसाः
३.०६०.०४९ भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते
३.०६०.०५० देवदानवयक्षाणां लोका ये रक्षसामपि
३.०६०.०५० बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः
३.०६०.०५० निर्मर्यादानिमांल्लोकान् करिष्याम्यद्य सायकैः
३.०६०.०५१ यथा जरा यथा मृत्युर्यथाकालो यथाविधिः
३.०६०.०५१ नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण
३.०६०.०५१ तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्
३.०६०.०५२ पुरेव मे चारुदतीमनिन्दितां॑ दिशन्ति सीतां यदि नाद्य मैथिलीम्
३.०६०.०५२ सदेवगन्धर्वमनुष्य पन्नगं॑ जगत्सशैलं परिवर्तयाम्यहम्
३.०६१.००१ तप्यमानं तथा रामं सीताहरणकर्शितम्
३.०६१.००१ लोकानामभवे युक्तं साम्वर्तकमिवानलम्
३.०६१.००२ वीक्षमाणं धनुः सज्यं निःश्वसन्तं मुहुर्मुहुः
३.०६१.००२ हन्तुकामं पशुं रुद्रं क्रुद्धं दक्षक्रतौ यथा
३.०६१.००३ अदृष्टपूर्वं संक्रुद्धं दृष्ट्वा रामं स लक्ष्मणः
३.०६१.००३ अब्रवीत्प्राञ्जलिर्वाक्यं मुखेन परिशुष्यता
३.०६१.००४ पुरा भूत्वा मृदुर्दान्तः सर्वभूतहिते रतः
३.०६१.००४ न क्रोधवशमापन्नः प्रकृतिं हातुमर्हसि
३.०६१.००५ चन्द्रे लक्ष्णीः प्रभा सूर्ये गतिर्वायौ भुवि क्षमा
३.०६१.००५ एतच्च नियतं सर्वं त्वयि चानुत्तमं यशः
३.०६१.००६ न तु जानामि कस्यायं भग्नः सांग्रामिको रथः
३.०६१.००६ केन वा कस्य वा हेतोः सायुधः सपरिच्छदः
३.०६१.००७ खुरनेमिक्षतश्चायं सिक्तो रुधिरबिन्दुभिः
३.०६१.००७ देशो निवृत्तसंग्रामः सुघोरः पार्थिवात्मज
३.०६१.००८ एकस्य तु विमर्दोऽयं न द्वयोर्वदतां वर
३.०६१.००८ न हि वृत्तं हि पश्यामि बलस्य महतः पदम्
३.०६१.००९ नैकस्य तु कृते लोकान् विनाशयितुमर्हसि
३.०६१.००९ युक्तदण्डा हि मृदवः प्रशान्ता वसुधाधिपाः
३.०६१.०१० सदा त्वं सर्वभूतानां शरण्यः परमा गतिः
३.०६१.०१० को नु दारप्रणाशं ते साधु मन्येत राघव
३.०६१.०११ सरितः सागराः शैला देवगन्धर्वदानवाः
३.०६१.०११ नालं ते विप्रियं कर्तुं दीक्षितस्येव साधवः
३.०६१.०१२ येन राजन् हृता सीता तमन्वेषितुमर्हसि
३.०६१.०१२ मद्द्वितीयो धनुष्पाणिः सहायैः परमर्षिभिः
३.०६१.०१३ समुद्रं च विचेष्यामः पर्वतांश्च वनानि च
३.०६१.०१३ गुहाश्च विविधा घोरा नलिनीः पार्वतीश्च ह
३.०६१.०१४ देवगन्धर्वलोकांश्च विचेष्यामः समाहिताः
३.०६१.०१४ यावन्नाधिगमिष्यामस्तव भार्यापहारिणम्
३.०६१.०१५ न चेत्साम्ना प्रदास्यन्ति पत्नीं ते त्रिदशेश्वराः
३.०६१.०१५ कोसलेन्द्र ततः पश्चात्प्राप्तकालं करिष्यसि
३.०६१.०१६ शीलेन साम्ना विनयेन सीतां॑ नयेन न प्राप्स्यसि चेन्नरेन्द्र
३.०६१.०१६ ततः समुत्सादय हेमपुङ्खैर्॑ महेन्द्रवज्रप्रतिमैः शरौघैः
३.०६२.००१ तं तथा शोकसंतप्तं विलपन्तमनाथवत्
३.०६२.००१ मोहेन महताविष्टं परिद्यूनमचेतनम्
३.०६२.००२ ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः
३.०६२.००२ रामं संबोधयामास चरणौ चाभिपीडयन्
३.०६२.००३ महता तपसा राम महता चापि कर्मणा
३.०६२.००३ राज्ञा दशरथेनासील्लब्धोऽमृतमिवामरैः
३.०६२.००४ तव चैव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः
३.०६२.००४ राजा देवत्वमापन्नो भरतस्य यथा श्रुतम्
३.०६२.००५ यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे
३.०६२.००५ प्राकृतश्चाल्पसत्त्वश्च इतरः कः सहिष्यति
३.०६२.००६ दुःखितो हि भवांल्लोकांस्तेजसा यदि धक्ष्यते
३.०६२.००६ आर्ताः प्रजा नरव्याघ्र क्व नु यास्यन्ति निर्वृतिम्
३.०६२.००७ लोकस्वभाव एवैष ययातिर्नहुषात्मजः
३.०६२.००७ गतः शक्रेण सालोक्यमनयस्तं समस्पृशत्
३.०६२.००८ महर्षयो वसिष्ठस्तु यः पितुर्नः पुरोहितः
३.०६२.००८ अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम्
३.०६२.००९ या चेयं जगतो माता देवी लोकनमस्कृता
३.०६२.००९ अस्याश्च चलनं भूमेर्दृश्यते सत्यसंश्रव
३.०६२.०१० यौ चेमौ जगतां नेत्रे यत्र सर्वं प्रतिष्ठितम्
३.०६२.०१० आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ
३.०६२.०११ सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ
३.०६२.०११ न दैवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः
३.०६२.०१२ शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ
३.०६२.०१२ श्रूयेते नरशार्दूल न त्वं व्यथितुमर्हसि
३.०६२.०१३ नष्टायामपि वैदेह्यां हृतायामपि चानघ
३.०६२.०१३ शोचितुं नार्हसे वीर यथान्यः प्राकृतस्तथा
३.०६२.०१४ त्वद्विधा हि न शोचन्ति सततं सत्यदर्शिनः
३.०६२.०१४ सुमहत्स्वपि कृच्छ्रेषु रामानिर्विण्णदर्शणाः
३.०६२.०१५ तत्त्वतो हि नरश्रेष्ठ बुद्ध्या समनुचिन्तय
३.०६२.०१५ बुद्ध्या युक्ता महाप्राज्ञा विजानन्ति शुभाशुभे
३.०६२.०१६ अदृष्टगुणदोषाणामधृतानां च कर्मणाम्
३.०६२.०१६ नान्तरेण क्रियां तेषां फलमिष्टं प्रवर्तते
३.०६२.०१७ मामेव हि पुरा वीर त्वमेव बहुषोऽन्वशाः
३.०६२.०१७ अनुशिष्याद्धि को नु त्वामपि साक्षाद्बृहस्पतिः
३.०६२.०१८ बुद्धिश्च ते महाप्राज्ञ देवैरपि दुरन्वया
३.०६२.०१८ शोकेनाभिप्रसुप्तं ते ज्ञानं संबोधयाम्यहम्
३.०६२.०१९ दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम्
३.०६२.०१९ इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां बधे
३.०६२.०२० किं ते सर्वविनाशेन कृतेन पुरुषर्षभ
३.०६२.०२० तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि
३.०६३.००१ पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम्
३.०६३.००१ सारग्राही महासारं प्रतिजग्राह राघवः
३.०६३.००२ संनिगृह्य महाबाहुः प्रवृद्धं कोपमात्मनः
३.०६३.००२ अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत्
३.०६३.००३ किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण
३.०६३.००३ केनोपायेन पश्येयं सीतामिति विचिन्तय
३.०६३.००४ तं तथा परितापार्तं लक्ष्मणो राममब्रवीत्
३.०६३.००४ इदमेव जनस्थानं त्वमन्वेषितुमर्हसि
३.०६३.००५ राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम्
३.०६३.००५ सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च
३.०६३.००६ गुहाश्च विविधा घोरा नानामृगगणाकुलाः
३.०६३.००६ आवासाः किंनराणां च गन्धर्वभवनानि च
३.०६३.००७ तानि युक्तो मया सार्धं त्वमन्वेषितुमर्हसि
३.०६३.००७ त्वद्विधो बुद्धिसंपन्ना माहात्मानो नरर्षभ
३.०६३.००८ आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः
३.०६३.००८ इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः
३.०६३.००९ क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम्
३.०६३.००९ ततः पर्वतकूटाभं महाभागं द्विजोत्तमम्
३.०६३.०१० ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम्
३.०६३.०१० तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत्
३.०६३.०१० अनेन सीता वैदेही भक्षिता नात्र संशयः
३.०६३.०११ गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम्
३.०६३.०११ भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम्
३.०६३.०११ एनं वधिष्ये दीप्ताग्रैर्घोरैर्बाणैरजिह्मगैः
३.०६३.०१२ इत्युक्त्वाभ्यपतद्गृध्रं संधाय धनुषि क्षुरम्
३.०६३.०१२ क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम्
३.०६३.०१३ तं दीनदीनया वाचा सफेनं रुधिरं वमन्
३.०६३.०१३ अभ्यभाषत पक्षी तु रामं दशरथात्मजम्
३.०६३.०१४ यामोषधिमिवायुष्मन्नन्वेषसि महावने
३.०६३.०१४ सा देवी मम च प्राणा रावणेनोभयं हृतम्
३.०६३.०१५ त्वया विरहिता देवी लक्ष्मणेन च राघव
३.०६३.०१५ ह्रियमाणा मया दृष्टा रावणेन बलीयसा
३.०६३.०१६ सीतामभ्यवपन्नोऽहं रावणश्च रणे मया
३.०६३.०१६ विध्वंसितरथच्छत्रः पातितो धरणीतले
३.०६३.०१७ एतदस्य धनुर्भग्नमेतदस्य शरावरम्
३.०६३.०१७ अयमस्य रणे राम भग्नः सांग्रामिको रथः
३.०६३.०१८ परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः
३.०६३.०१८ सीतामादाय वैदेहीमुत्पपात विहायसं
३.०६३.०१८ रक्षसा निहतं पूर्व्म न मां हन्तुं त्वमर्हसि
३.०६३.०१९ रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम्
३.०६३.०१९ गृध्रराजं परिष्वज्य रुरोद सहलक्ष्मणः
३.०६३.०२० एकमेकायने दुर्गे निःश्वसन्तं कथं चन
३.०६३.०२० समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत्
३.०६३.०२१ राज्याद्भ्रंशो वने वासः सीता नष्टा हतो द्विजः
३.०६३.०२१ ईदृशीयं ममालक्ष्मीर्निर्दहेदपि पावकम्
३.०६३.०२२ संपूर्णमपि चेदद्य प्रतरेयं महोदधिम्
३.०६३.०२२ सोऽपि नूनं ममालक्ष्म्या विशुष्येत्सरितां पतिः
३.०६३.०२३ नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् सचराचरे
३.०६३.०२३ येनेयं महती प्राप्ता मया व्यसनवागुरा
३.०६३.०२४ अयं पितृवयस्यो मे गृध्रराजो जरान्वितः
३.०६३.०२४ शेते विनिहतो भूमौ मम भाग्यविपर्ययात्
३.०६३.०२५ इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः
३.०६३.०२५ जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन्
३.०६३.०२६ निकृत्तपक्षं रुधिरावसिक्तं॑ तं गृध्रराजं परिरभ्य रामः
३.०६३.०२६ क्व मैथिलि प्राणसमा ममेति॑ विमुच्य वाचं निपपात भूमौ
३.०६४.००१ रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम्
३.०६४.००१ सौमित्रिं मित्रसंपन्नमिदं वचनमब्रवीत्
३.०६४.००२ ममायं नूनमर्थेषु यतमानो विहंगमः
३.०६४.००२ राक्षसेन हतः संख्ये प्राणांस्त्यजति दुस्त्यजान्
३.०६४.००३ अयमस्य शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते
३.०६४.००३ तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते
३.०६४.००४ जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः
३.०६४.००४ सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः
३.०६४.००५ किंनिमित्तोऽहरत्सीतां रावणस्तस्य किं मया
३.०६४.००५ अपराद्धं तु यं दृष्ट्वा रावणेन हृता प्रिया
३.०६४.००६ कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम्
३.०६४.००६ सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम
३.०६४.००७ कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः
३.०६४.००७ क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः
३.०६४.००८ तमुद्वीक्ष्याथ दीनात्मा विलपन्तमनन्तरम्
३.०६४.००८ वाचातिसन्नया रामं जटायुरिदमब्रवीत्
३.०६४.००९ सा हृता राक्षसेन्द्रेण रावणेन विहायसा
३.०६४.००९ मायामास्थाय विपुलां वातदुर्दिनसंकुलाम्
३.०६४.०१० परिश्रान्तस्य मे तात पक्षौ छित्त्वा निशाचरः
३.०६४.०१० सीतामादाय वैदेहीं प्रयातो दक्षिणा मुखः
३.०६४.०११ उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव
३.०६४.०११ पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान्
३.०६४.०१२ येन याति मुहूर्तेन सीतामादाय रावणः
३.०६४.०१२ विप्रनष्टं धनं क्षिप्रं तत्स्वामिप्रतिपद्यते
३.०६४.०१३ विन्दो नाम मुहूर्तोऽसौ स च काकुत्स्थ नाबुधत्
३.०६४.०१३ झषवद्बडिशं गृह्य क्षिप्रमेव विनश्यति
३.०६४.०१४ न च त्वया व्यथा कार्या जनकस्य सुतां प्रति
३.०६४.०१४ वैदेह्या रंस्यसे क्षिप्रं हत्वा तं राक्षसं रणे
३.०६४.०१५ असंमूढस्य गृध्रस्य रामं प्रत्यनुभाषतः
३.०६४.०१५ आस्यात्सुस्राव रुधिरं म्रियमाणस्य सामिषम्
३.०६४.०१६ पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च
३.०६४.०१६ इत्युक्त्वा दुर्लभान् प्राणान्मुमोच पतगेश्वरः
३.०६४.०१७ ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः
३.०६४.०१७ त्यक्त्वा शरीरं गृध्रस्य जग्मुः प्राणा विहायसं
३.०६४.०१८ स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तदा
३.०६४.०१८ विक्षिप्य च शरीरं स्वं पपात धरणीतले
३.०६४.०१९ तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम्
३.०६४.०१९ रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत्
३.०६४.०२० बहूनि रक्षसां वासे वर्षाणि वसता सुखम्
३.०६४.०२० अनेन दण्डकारण्ये विचीर्णमिह पक्षिणा
३.०६४.०२१ अनेकवार्षिको यस्तु चिरकालं समुत्थितः
३.०६४.०२१ सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः
३.०६४.०२२ पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे
३.०६४.०२२ सीतामभ्यवपन्नो वै रावणेन बलीयसा
३.०६४.०२३ गृध्रराज्यं परित्यज्य पितृपैतामहं महत्
३.०६४.०२३ मम हेतोरयं प्राणान्मुमोच पतगेश्वरः
३.०६४.०२४ सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः
३.०६४.०२४ शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि
३.०६४.०२५ सीताहरणजं दुःखं न मे सौम्य तथागतम्
३.०६४.०२५ यथा विनाशो गृध्रस्य मत्कृते च परंतप
३.०६४.०२६ राजा दशरथः श्रीमान् यथा मम मया यशाः
३.०६४.०२६ पूजनीयश्च मान्यश्च तथायं पतगेश्वरः
३.०६४.०२७ सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम्
३.०६४.०२७ गृध्रराजं दिधक्षामि मत्कृते निधनं गतम्
३.०६४.०२८ नाथं पतगलोकस्य चितामारोपयाम्यहम्
३.०६४.०२८ इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा
३.०६४.०२९ या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः
३.०६४.०२९ अपरावर्तिनां या च या च भूमिप्रदायिनाम्
३.०६४.०३० मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान्
३.०६४.०३० गृध्रराज महासत्त्व संस्कृतश्च मया व्रज
३.०६४.०३१ एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम्
३.०६४.०३१ ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः
३.०६४.०३२ रामोऽथ सहसौमित्रिर्वनं यात्वा स वीर्यवान्
३.०६४.०३२ स्थूलान् हत्वा महारोहीननु तस्तार तं द्विजम्
३.०६४.०३३ रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः
३.०६४.०३३ शकुनाय ददौ रामो रम्ये हरितशाद्वले
३.०६४.०३४ यत्तत्प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः
३.०६४.०३४ तत्स्वर्गगमनं तस्य क्षिप्रं रामो जजाप ह
३.०६४.०३५ ततो गोदावरीं गत्वा नदीं नरवरात्मजौ
३.०६४.०३५ उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ
३.०६४.०३६ स गृध्रराजः कृतवान् यशस्करं॑ सुदुष्करं कर्म रणे निपातितः
३.०६४.०३६ महर्षिकल्पेन च संस्कृतस्तदा॑ जगाम पुण्यां गतिमात्मनः शुभाम्
३.०६५.००१ कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा
३.०६५.००१ अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम्
३.०६५.००२ तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ
३.०६५.००२ अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः
३.०६५.००३ गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम्
३.०६५.००३ आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम्
३.०६५.००४ व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम्
३.०६५.००४ सुभीमं तन्महारण्यं व्यतियातौ महाबलौ
३.०६५.००५ ततः परं जनस्थानात्त्रिक्रोशं गम्य राघवौ
३.०६५.००५ क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ
३.०६५.००६ नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः
३.०६५.००६ नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम्
३.०६५.००७ दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः
३.०६५.००७ तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ
३.०६५.००८ लक्ष्मणस्तु महातेजाः सत्त्ववाञ्शीलवाञ्शुचिः
३.०६५.००८ अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसं
३.०६५.००९ स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः
३.०६५.००९ प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये
३.०६५.०१० तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम्
३.०६५.०१० ममैव हि निमित्तानि सद्यः शंसन्ति संभ्रमम्
३.०६५.०११ एष वञ्चुलको नाम पक्षी परमदारुणः
३.०६५.०११ आवयोर्विजयं युद्धे शंसन्निव विनर्दति
३.०६५.०१२ तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा
३.०६५.०१२ संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद्वनम्
३.०६५.०१३ संवेष्टितमिवात्यर्थं गहनं मातरिश्वना
३.०६५.०१३ वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव
३.०६५.०१४ तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः
३.०६५.०१४ ददर्श सुमहाकायं राक्षसं विपुलोरसं
३.०६५.०१५ आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम्
३.०६५.०१५ विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम्
३.०६५.०१६ रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम्
३.०६५.०१६ नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम्
३.०६५.०१७ महापक्ष्मेण पिङ्गेन विपुलेनायतेन च
३.०६५.०१७ एकेनोरसि घोरेण नयनेनाशुदर्शिना
३.०६५.०१८ महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम्
३.०६५.०१८ भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान्
३.०६५.०१९ घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ
३.०६५.०१९ कराभ्यां विविधान् गृह्य ऋष्कान् पक्षिगणान्मृगान्
३.०६५.०२० आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान्
३.०६५.०२० स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः
३.०६५.०२१ अथ तौ समतिक्रम्य क्रोशमात्रे ददर्शतुः
३.०६५.०२१ महान्तं दारुणं भीमं कबन्धं भुजसंवृतम्
३.०६५.०२२ स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ
३.०६५.०२२ जग्राह सहितावेव राघवौ पीडयन् बलात्
३.०६५.०२३ खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ
३.०६५.०२३ भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ
३.०६५.०२४ तावुवाच महाबाहुः कबन्धो दानवोत्तमः
३.०६५.०२४ कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ
३.०६५.०२५ घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ
३.०६५.०२५ वदतं कार्यमिह वां किमर्थं चागतौ युवाम्
३.०६५.०२६ इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः
३.०६५.०२६ सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ
३.०६५.०२६ ममास्यमनुसंप्राप्तौ दुर्लभं जीवितं पुनः
३.०६५.०२७ तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः
३.०६५.०२७ उवाच लक्ष्मणं रामो मुखेन परिशुष्यता
३.०६५.०२८ कृच्छ्रात्कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम
३.०६५.०२८ व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम्
३.०६५.०२९ कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण
३.०६५.०२९ त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ
३.०६५.०२९ नातिभारोऽस्ति दैवस्य सर्वभुतेषु लक्ष्मण
३.०६५.०३० शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे
३.०६५.०३० कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः
३.०६५.०३१ इति ब्रुवाणो दृढसत्यविक्रमो॑ महायशा दाशरथिः प्रतापवान्
३.०६५.०३१ अवेक्ष्य सौमित्रिमुदग्रविक्रमं॑ स्थिरां तदा स्वां मतिमात्मनाकरोत्
३.०६६.००१ तौ तु तत्र स्थितौ दृष्ट्वा भ्रातरौ रामलक्ष्मणौ
३.०६६.००१ बाहुपाशपरिक्षिप्तौ कबन्धो वाक्यमब्रवीत्
३.०६६.००२ तिष्ठतः किं नु मां दृष्ट्वा क्षुधार्तं क्षत्रियर्षभौ
३.०६६.००२ आहारार्थं तु संदिष्टौ दैवेन गतचेतसौ
३.०६६.००३ तच्छ्रुत्वा लक्ष्मणो वाक्यं प्राप्तकालं हितं तदा
३.०६६.००३ उवाचार्तिसमापन्नो विक्रमे कृतनिश्चयः
३.०६६.००४ त्वां च मां च पुरा तूर्णमादत्ते राक्षसाधमः
३.०६६.००४ तस्मादसिभ्यामस्याशु बाहू छिन्दावहे गुरू
३.०६६.००५ ततस्तौ देशकालज्ञौ खड्गाभ्यामेव राघवौ
३.०६६.००५ अच्छिन्दतां सुसंहृष्टौ बाहू तस्यांसदेशयोः
३.०६६.००६ दक्षिणो दक्षिणं बाहुमसक्तमसिना ततः
३.०६६.००६ चिच्छेद रामो वेगेन सव्यं वीरस्तु लक्ष्मणः
३.०६६.००७ स पपात महाबाहुश्छिन्नबाहुर्महास्वनः
३.०६६.००७ खं च गां च दिशश्चैव नादयञ्जलदो यथा
३.०६६.००८ स निकृत्तौ भुजौ दृष्ट्वा शोणितौघपरिप्लुतः
३.०६६.००८ दीनः पप्रच्छ तौ वीरौ कौ युवामिति दानवः
३.०६६.००९ इति तस्य ब्रुवाणस्य लक्ष्मणः शुभलक्षणः
३.०६६.००९ शशंस तस्य काकुत्स्थं कबन्धस्य महाबलः
३.०६६.०१० अयमिक्ष्वाकुदायादो रामो नाम जनैः श्रुतः
३.०६६.०१० अस्यैवावरजं विद्धि भ्रातरं मां च लक्ष्मणम्
३.०६६.०११ अस्य देवप्रभावस्य वसतो विजने वने
३.०६६.०११ रक्षसापहृता भार्या यामिच्छन्ताविहागतौ
३.०६६.०१२ त्वं तु को वा किमर्थं वा कबन्ध सदृशो वने
३.०६६.०१२ आस्येनोरसि दीप्तेन भग्नजङ्घो विचेष्टसे
३.०६६.०१३ एवमुक्तः कबन्धस्तु लक्ष्मणेनोत्तरं वचः
३.०६६.०१३ उवाच परमप्रीतस्तदिन्द्रवचनं स्मरन्
३.०६६.०१४ स्वागतं वां नरव्याघ्रौ दिष्ट्या पश्यामि चाप्यहम्
३.०६६.०१४ दिष्ट्या चेमौ निकृत्तौ मे युवाभ्यां बाहुबन्धनौ
३.०६६.०१५ विरूपं यच्च मे रूपं प्राप्तं ह्यविनयाद्यथा
३.०६६.०१५ तन्मे शृणु नरव्याघ्र तत्त्वतः शंसतस्तव
३.०६७.००१ पुरा राम महाबाहो महाबलपराक्रम
३.०६७.००१ रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्
३.०६७.००१ यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः
३.०६७.००२ सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्
३.०६७.००२ ऋषीन् वनगतान् राम त्रासयामि ततस्ततः
३.०६७.००३ ततः स्थूलशिरा नाम महर्षिः कोपितो मया
३.०६७.००३ संचिन्वन् विविधं वन्यं रूपेणानेन धर्षितः
३.०६७.००४ तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना
३.०६७.००४ एतदेव नृशंसं ते रूपमस्तु विगर्हितम्
३.०६७.००५ स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति
३.०६७.००५ अभिशापकृतस्येति तेनेदं भाषितं वचः
३.०६७.००६ यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने
३.०६७.००६ तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्
३.०६७.००७ श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण
३.०६७.००७ इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे
३.०६७.००८ अहं हि तपसोग्रेण पितामहमतोषयम्
३.०६७.००८ दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत्
३.०६७.००९ दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति
३.०६७.००९ इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्
३.०६७.०१० तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा
३.०६७.०१० सक्थिनी च शिरश्चैव शरीरे संप्रवेशितम्
३.०६७.०११ स मया याच्यमानः सन्नानयद्यमसादनम्
३.०६७.०११ पितामहवचः सत्यं तदस्त्विति ममाब्रवीत्
३.०६७.०१२ अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः
३.०६७.०१२ वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्
३.०६७.०१३ एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ
३.०६७.०१३ प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत्
३.०६७.०१४ सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान्
३.०६७.०१४ सिंहद्विपमृगव्याघ्रान् भक्षयामि समन्ततः
३.०६७.०१५ स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः
३.०६७.०१५ छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि
३.०६७.०१६ स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव
३.०६७.०१६ शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा
३.०६७.०१७ अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ
३.०६७.०१७ मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना
३.०६७.०१८ एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः
३.०६७.०१८ इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः
३.०६७.०१९ रावणेन हृता सीता मम भार्या यशस्विनी
३.०६७.०१९ निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्
३.०६७.०२० नाममात्रं तु जानामि न रूपं तस्य रक्षसः
३.०६७.०२० निवासं वा प्रभावं वा वयं तस्य न विद्महे
३.०६७.०२१ शोकार्तानामनाथानामेवं विपरिधावताम्
३.०६७.०२१ कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम्
३.०६७.०२२ काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः
३.०६७.०२२ भक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते
३.०६७.०२३ स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता
३.०६७.०२३ कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः
३.०६७.०२४ एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्
३.०६७.०२४ प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्
३.०६७.०२५ दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्
३.०६७.०२५ यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः
३.०६७.०२६ अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो
३.०६७.०२६ राक्षसं तं महावीर्यं सीता येन हृता तव
३.०६७.०२७ विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव
३.०६७.०२७ स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्
३.०६७.०२८ किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः
३.०६७.०२८ तावन्मामवटे क्षिप्त्वा दह राम यथाविधि
३.०६७.०२९ दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन
३.०६७.०२९ वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं
३.०६७.०३० तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव
३.०६७.०३० कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः
३.०६७.०३१ न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव
३.०६७.०३१ सर्वान् परिसृतो लोकान् पुरा वै कारणान्तरे
३.०६८.००१ एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ
३.०६८.००१ गिरिप्रदरमासाद्य पावकं विससर्जतुः
३.०६८.००२ लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः
३.०६८.००२ चितामादीपयामास सा प्रजज्वाल सर्वतः
३.०६८.००३ तच्छरीरं कबन्धस्य घृतपिण्डोपमं महत्
३.०६८.००३ मेदसा पच्यमानस्य मन्दं दहति पावक
३.०६८.००४ स विधूय चितामाशु विधूमोऽग्निरिवोत्थितः
३.०६८.००४ अरजे वाससी विभ्रन्मालां दिव्यां महाबलः
३.०६८.००५ ततश्चिताया वेगेन भास्वरो विरजाम्बरः
३.०६८.००५ उत्पपाताशु संहृष्टः सर्वप्रत्यङ्गभूषणः
३.०६८.००६ विमाने भास्वरे तिष्ठन् हंसयुक्ते यशस्करे
३.०६८.००६ प्रभया च महातेजा दिशो दश विराजयन्
३.०६८.००७ सोऽन्तरिक्षगतो रामं कबन्धो वाक्यमब्रवीत्
३.०६८.००७ शृणु राघव तत्त्वेन यथा सीमामवाप्स्यसि
३.०६८.००८ राम षड्युक्तयो लोके याभिः सर्वं विमृश्यते
३.०६८.००८ परिमृष्टो दशान्तेन दशाभागेन सेव्यते
३.०६८.००९ दशाभागगतो हीनस्त्वं राम सहलक्ष्मणः
३.०६८.००९ यत्कृते व्यसनं प्राप्तं त्वया दारप्रधर्षणम्
३.०६८.०१० तदवश्यं त्वया कार्यः स सुहृत्सुहृदां वर
३.०६८.०१० अकृत्वा न हि ते सिद्धिमहं पश्यामि चिन्तयन्
३.०६८.०११ श्रूयतां राम वक्ष्यामि सुग्रीवो नाम वानरः
३.०६८.०११ भ्रात्रा निरस्तः क्रुद्धेन वालिना शक्रसूनुना
३.०६८.०१२ ऋष्यमूके गिरिवरे पम्पापर्यन्तशोभिते
३.०६८.०१२ निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः
३.०६८.०१३ वयस्यं तं कुरु क्षिप्रमितो गत्वाद्य राघव
३.०६८.०१३ अद्रोहाय समागम्य दीप्यमाने विभावसौ
३.०६८.०१४ न च ते सोऽवमन्तव्यः सुग्रीवो वानराधिपः
३.०६८.०१४ कृतज्ञः कामरूपी च सहायार्थी च वीर्यवान्
३.०६८.०१५ शक्तौ ह्यद्य युवां कर्तुं कार्यं तस्य चिकीर्षितम्
३.०६८.०१५ कृतार्थो वाकृतार्थो वा कृत्यं तव करिष्यति
३.०६८.०१६ स ऋक्षरजसः पुत्रः पम्पामटति शङ्कितः
३.०६८.०१६ भास्करस्यौरसः पुत्रो वालिना कृतकिल्बिषः
३.०६८.०१७ संनिधायायुधं क्षिप्रमृष्यमूकालयं कपिम्
३.०६८.०१७ कुरु राघव सत्येन वयस्यं वनचारिणम्
३.०६८.०१८ स हि स्थानानि सर्वाणि कार्त्स्न्येन कपिकुञ्जरः
३.०६८.०१८ नरमांसाशिनां लोके नैपुण्यादधिगच्छति
३.०६८.०१९ न तस्याविदितं लोके किं चिदस्ति हि राघव
३.०६८.०१९ यावत्सूर्यः प्रतपति सहस्रांशुररिंदम
३.०६८.०२० स नदीर्विपुलाञ्शैलान् गिरिदुर्गाणि कन्दरान्
३.०६८.०२० अन्विष्य वानरैः सार्धं पत्नीं तेऽधिगमिष्यति
३.०६८.०२१ वानरांश्च महाकायान् प्रेषयिष्यति राघव
३.०६८.०२१ दिशो विचेतुं तां सीतां त्वद्वियोगेन शोचतीम्
३.०६८.०२२ स मेरुशृङ्गाग्रगतामनिन्दितां॑ प्रविश्य पातालतलेऽपि वाश्रिताम्
३.०६८.०२२ प्लवंगमानां प्रवरस्तव प्रियां॑ निहत्य रक्षांसि पुनः प्रदास्यति
३.०६९.००१ निदर्शयित्वा रामाय सीतायाः प्रतिपादने
३.०६९.००१ वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत्
३.०६९.००२ एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः
३.०६९.००२ प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः
३.०६९.००३ जम्बूप्रियालपनसाः प्लक्षन्यग्रोधतिन्दुकाः
३.०६९.००३ अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः
३.०६९.००४ तानारुह्याथवा भूमौ पातयित्वा च तान् बलात्
३.०६९.००४ फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः
३.०६९.००५ चङ्क्रमन्तौ वरान् देशाञ्शैलाच्छैलं वनाद्वनम्
३.०६९.००५ ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः
३.०६९.००६ अशर्करामविभ्रंशां समतीर्थमशैवलाम्
३.०६९.००६ राम संजातवालूकां कमलोत्पलशोभिताम्
३.०६९.००७ तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव
३.०६९.००७ वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः
३.०६९.००८ नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः
३.०६९.००८ घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः
३.०६९.००९ रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव
३.०६९.००९ पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान्
३.०६९.०१० निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान्
३.०६९.०१० तव भक्त्या समायुक्तो लक्ष्मणः संप्रदास्यति
३.०६९.०११ भृशं ते खादतो मत्स्यान् पम्पायाः पुष्पसंचये
३.०६९.०११ पद्मगन्धि शिवं वारि सुखशीतमनामयम्
३.०६९.०१२ उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम्
३.०६९.०१२ अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति
३.०६९.०१३ स्थूलान् गिरिगुहाशय्यान् वराहान् वनचारिणः
३.०६९.०१३ अपां लोभादुपावृत्तान् वृषभानिव नर्दतः
३.०६९.०१३ रूपान्वितांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम
३.०६९.०१४ सायाह्ने विचरन् राम विटपी माल्यधारिणः
३.०६९.०१४ शीतोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि
३.०६९.०१५ सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान्
३.०६९.०१५ उत्पलानि च फुल्लानि पङ्कजानि च राघव
३.०६९.०१६ न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः
३.०६९.०१६ मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहितः
३.०६९.०१७ तेषां भाराभितप्तानां वन्यमाहरतां गुरोः
३.०६९.०१७ ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः
३.०६९.०१८ तानि माल्यानि जातानि मुनीनां तपसा तदा
३.०६९.०१८ स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव
३.०६९.०१९ तेषामद्यापि तत्रैव दृश्यते परिचारिणी
३.०६९.०१९ श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी
३.०६९.०२० त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्
३.०६९.०२० दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति
३.०६९.०२१ ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्
३.०६९.०२१ आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि
३.०६९.०२२ न तत्राक्रमितुं नागाः शक्नुवन्ति तमाश्रमम्
३.०६९.०२२ ऋषेस्तस्य मतङ्गस्य विधानात्तच्च काननम्
३.०६९.०२३ तस्मिन्नन्दनसंकाशे देवारण्योपमे वने
३.०६९.०२३ नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः
३.०६९.०२४ ऋष्यमूकस्तु पम्पायाः पुरस्तात्पुष्पितद्रुमः
३.०६९.०२४ सुदुःखारोहणो नाम शिशुनागाभिरक्षितः
३.०६९.०२४ उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः
३.०६९.०२५ शयानः पुरुषो राम तस्य शैलस्य मूर्धनि
३.०६९.०२५ यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति
३.०६९.०२६ न त्वेनं विषमाचारः पापकर्माधिरोहति
३.०६९.०२६ तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः
३.०६९.०२७ ततोऽपि शिशुनागानामाक्रन्दः श्रूयते महान्
३.०६९.०२७ क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम्
३.०६९.०२८ सिक्ता रुधिरधाराभिः संहत्य परमद्विपाः
३.०६९.०२८ प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः
३.०६९.०२९ ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम्
३.०६९.०२९ निवृत्ताः संविगाहन्ते वनानि वनगोचराः
३.०६९.०३० राम तस्य तु शैलस्य महती शोभते गुहा
३.०६९.०३० शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्
३.०६९.०३१ तस्या गुहायाः प्राग्द्वारे महाञ्शीतोदको ह्रदः
३.०६९.०३१ बहुमूलफलो रम्यो नानानगसमावृतः
३.०६९.०३२ तस्यां वसति सुग्रीवश्चतुर्भिः सह वानरैः
३.०६९.०३२ कदा चिच्छिखरे तस्य पर्वतस्यावतिष्ठते
३.०६९.०३३ कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ
३.०६९.०३३ स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्
३.०६९.०३४ तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ
३.०६९.०३४ प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिकात्
३.०६९.०३५ गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीच्च सः
३.०६९.०३५ सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा
३.०६९.०३६ स तत्कबन्धः प्रतिपद्य रूपं॑ वृतः श्रिया भास्करतुल्यदेहः
३.०६९.०३६ निदर्शयन् राममवेक्ष्य खस्थः॑ सख्यं कुरुष्वेति तदाभ्युवाच
३.०७०.००१ तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने
३.०७०.००१ आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ
३.०७०.००२ तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलद्रुमान्
३.०७०.००२ वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ
३.०७०.००३ कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ
३.०७०.००३ पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः
३.०७०.००४ तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्
३.०७०.००४ अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्
३.०७०.००५ तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्
३.०७०.००५ सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः
३.०७०.००६ तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः
३.०७०.००६ पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः
३.०७०.००७ तामुवाच ततो रामः श्रमणीं संशितव्रताम्
३.०७०.००७ कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः
३.०७०.००८ कच्चित्ते नियतः कोप आहारश्च तपोधने
३.०७०.००८ कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्
३.०७०.००८ कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि
३.०७०.००९ रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता
३.०७०.००९ शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता
३.०७०.०१० चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः
३.०७०.०१० इतस्ते दिवमारूढा यानहं पर्यचारिषम्
३.०७०.०११ तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः
३.०७०.०११ आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्
३.०७०.०१२ स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः
३.०७०.०१२ तं च दृष्ट्वा वरांल्लोकानक्षयांस्त्वं गमिष्यसि
३.०७०.०१३ मया तु विविधं वन्यं संचितं पुरुषर्षभ
३.०७०.०१३ तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम्
३.०७०.०१४ एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम्
३.०७०.०१४ राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्
३.०७०.०१५ दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः
३.०७०.०१५ श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे
३.०७०.०१६ एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम्
३.०७०.०१६ शबरी दर्शयामास तावुभौ तद्वनं महत्
३.०७०.०१७ पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्
३.०७०.०१७ मतङ्गवनमित्येव विश्रुतं रघुनन्दन
३.०७०.०१८ इह ते भावितात्मानो गुरवो मे महाद्युते
३.०७०.०१८ जुहवांश्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम्
३.०७०.०१९ इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः
३.०७०.०१९ पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः
३.०७०.०२० तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम
३.०७०.०२० द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः
३.०७०.०२१ अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः
३.०७०.०२१ चिन्तितेऽभ्यागतान् पश्य समेतान् सप्त सागरान्
३.०७०.०२२ कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह
३.०७०.०२२ अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन
३.०७०.०२३ कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया
३.०७०.०२३ तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेवरम्
३.०७०.०२४ तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्
३.०७०.०२४ मुनीनामाश्रंमो येषामहं च परिचारिणी
३.०७०.०२५ धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः
३.०७०.०२५ अनुजानामि गच्छेति प्रहृष्टवदनोऽब्रवीत्
३.०७०.०२६ अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने
३.०७०.०२६ ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा
३.०७०.०२७ यत्र ते सुकृतात्मानो विहरन्ति महर्षयः
३.०७०.०२७ तत्पुण्यं शबरीस्थानं जगामात्मसमाधिना
३.०७१.००१ दिवं तु तस्यां यातायां शबर्यां स्वेन कर्मणा
३.०७१.००१ लक्ष्मणेन सह भ्रात्रा चिन्तयामास राघवः
३.०७१.००२ चिन्तयित्वा तु धर्मात्मा प्रभावं तं महात्मनाम्
३.०७१.००२ हितकारिणमेकाग्रं लक्ष्मणं राघवोऽब्रवीत्
३.०७१.००३ दृष्टोऽयमाश्रमः सौम्य बह्वाश्चर्यः कृतात्मनाम्
३.०७१.००३ विश्वस्तमृगशार्दूलो नानाविहगसेवितः
३.०७१.००४ सप्तानां च समुद्राणामेषु तीर्थेषु लक्ष्मण
३.०७१.००४ उपस्पृष्टं च विधिवत्पितरश्चापि तर्पिताः
३.०७१.००५ प्रनष्टमशुभं यत्तत्कल्याणं समुपस्थितम्
३.०७१.००५ तेन त्वेतत्प्रहृष्टं मे मनो लक्ष्मण संप्रति
३.०७१.००६ हृदये हि नरव्याघ्र शुभमाविर्भविष्यति
३.०७१.००६ तदागच्छ गमिष्यावः पम्पां तां प्रियदर्शनाम्
३.०७१.००७ ऋश्यमूको गिरिर्यत्र नातिदूरे प्रकाशते
३.०७१.००७ यस्मिन् वसति धर्मात्मा सुग्रीवोऽंशुमतः सुतः
३.०७१.००७ नित्यं वालिभयात्त्रस्तश्चतुर्भिः सह वानरैः
३.०७१.००८ अभित्वरे च तं द्रष्टुं सुग्रीवं वानरर्षभम्
३.०७१.००८ तदधीनं हि मे सौम्य सीतायाः परिमार्गणम्
३.०७१.००९ इति ब्रुवाणं तं रामं सौमित्रिरिदमब्रवीत्
३.०७१.००९ गच्छावस्त्वरितं तत्र ममापि त्वरते मनः
३.०७१.०१० आश्रमात्तु ततस्तस्मान्निष्क्रम्य स विशां पतिः
३.०७१.०१० आजगाम ततः पम्पां लक्ष्मणेन सहाभिभूः
३.०७१.०११ समीक्षमाणः पुष्पाढ्यं सर्वतो विपुलद्रुमम्
३.०७१.०११ कोयष्टिभिश्चार्जुनकैः शतपत्रैश्च कीचकैः
३.०७१.०११ एतैश्चान्यैश्च विविधैर्नादितं तद्वनं महत्
३.०७१.०१२ स रामो विधिवान् वृक्षान् सरांसि विविधानि च
३.०७१.०१२ पश्यन् कामाभिसंतप्तो जगाम परमं ह्रदम्
३.०७१.०१३ स तामासाद्य वै रामो दूरादुदकवाहिनीम्
३.०७१.०१३ मतङ्गसरसं नाम ह्रदं समवगाहत
३.०७१.०१४ स तु शोकसमाविष्टो रामो दशरथात्मजः
३.०७१.०१४ विवेश नलिनीं पम्पां पङ्कजैश्च समावृताम्
३.०७१.०१५ तिलकाशोकपुंनागबकुलोद्दाल काशिनीम्
३.०७१.०१५ रम्योपवनसंबाधां पद्मसंपीडितोदकाम्
३.०७१.०१६ स्फटिकोपमतोयाढ्यां श्लक्ष्णवालुकसंतताम्
३.०७१.०१६ मत्स्यकच्छपसंबाधां तीरस्थद्रुमशोभिताम्
३.०७१.०१७ सखीभिरिव युक्ताभिर्लताभिरनुवेष्टिताम्
३.०७१.०१७ किंनरोरगगन्धर्वयक्षराक्षससेविताम्
३.०७१.०१७ नानाद्रुमलताकीर्णां शीतवारिनिधिं शुभाम्
३.०७१.०१८ पद्मैः सौगन्धिकैस्ताम्रां शुक्लां कुमुदमण्डलैः
३.०७१.०१८ नीलां कुवलयोद्धातैर्बहुवर्णां कुथामिव
३.०७१.०१९ अरविन्दोत्पलवतीं पद्मसौगन्धिकायुताम्
३.०७१.०१९ पुष्पिताम्रवणोपेतां बर्हिणोद्घुष्टनादिताम्
३.०७१.०२० स तां दृष्ट्वा ततः पम्पां रामः सौमित्रिणा सह
३.०७१.०२० विललाप च तेजस्वी कामाद्दशरथात्मजः
३.०७१.०२१ तिलकैर्बीजपूरैश्च वटैः शुक्लद्रुमैस्तथा
३.०७१.०२१ पुष्पितैः करवीरैश्च पुंनागैश्च सुपुष्पितैः
३.०७१.०२२ मालतीकुन्दगुल्मैश्च भण्डीरैर्निचुलैस्तथा
३.०७१.०२२ अशोकैः सप्तपर्णैश्च केतकैरतिमुक्तकैः
३.०७१.०२२ अन्यैश्च विविधैर्वृक्षैः प्रमदेवोपशोभिताम्
३.०७१.०२३ अस्यास्तीरे तु पूर्वोक्तः पर्वतो धातुमण्डितः
३.०७१.०२३ ऋश्यमूक इति ख्यातश्चित्रपुष्पितकाननः
३.०७१.०२४ हरिरृक्षरजो नाम्नः पुत्रस्तस्य महात्मनः
३.०७१.०२४ अध्यास्ते तं महावीर्यः सुग्रीव इति विश्रुतः
३.०७१.०२५ सुग्रीवमभिगच्छ त्वं वानरेन्द्रं नरर्षभ
३.०७१.०२५ इत्युवाच पुनर्वाक्यं लक्ष्मणं सत्यविक्रमम्
३.०७१.०२६ ततो महद्वर्त्म च दूरसंक्रमं॑ क्रमेण गत्वा प्रविलोकयन् वनम्
३.०७१.०२६ ददर्श पम्पां शुभदर्श काननाम्॑ अनेकनानाविधपक्षिसंकुलाम्

Part [Kandam] – 1  2  3  5  6