Valmiki Ramayana Second Kandam

Part [Kandam] – 1  2  3  5  6

२.००१.००१ कस्य चित्त्वथ कालस्य राजा दशरथः सुतम्
२.००१.००१ भरतं केकयीपुत्रमब्रवीद्रघुनन्दनः
२.००१.००२ अयं केकयराजस्य पुत्रो वसति पुत्रक
२.००१.००२ त्वां नेतुमागतो वीर युधाजिन्मातुलस्तव
२.००१.००३ श्रुत्वा दशरथस्यैतद्भरतः केकयीसुतः
२.००१.००३ गमनायाभिचक्राम शत्रुघ्नसहितस्तदा
२.००१.००४ आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्
२.००१.००४ मातॄंश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ
२.००१.००५ युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः
२.००१.००५ स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह
२.००१.००६ स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः
२.००१.००६ मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः
२.००१.००७ तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः
२.००१.००७ भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्
२.००१.००८ राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ
२.००१.००८ उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ
२.००१.००९ सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः
२.००१.००९ स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः
२.००१.०१० तेषामपि महातेजा रामो रतिकरः पितुः
२.००१.०१० स्वयम्भूरिव भूतानां बभूव गुणवत्तरः
२.००१.०११ गते च भरते रामो लक्ष्मणश्च महाबलः
२.००१.०११ पितरं देवसंकाशं पूजयामासतुस्तदा
२.००१.०१२ पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः
२.००१.०१२ चकार रामो धर्मात्मा प्रियाणि च हितानि च
२.००१.०१३ मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः
२.००१.०१३ गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत
२.००१.०१४ एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा
२.००१.०१४ रामस्य शीलवृत्तेन सर्वे विषयवासिनः
२.००१.०१५ स हि नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते
२.००१.०१५ उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते
२.००१.०१६ कथं चिदुपकारेण कृतेनैकेन तुष्यति
२.००१.०१६ न स्मरत्यपकाराणां शतमप्यात्मवत्तया
२.००१.०१७ शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः
२.००१.०१७ कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि
२.००१.०१८ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः
२.००१.०१८ वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः
२.००१.०१९ धर्मार्थकामतत्त्वज्ञः स्मृतिमान् प्रतिभावनान्
२.००१.०१९ लौकिके समयाचरे कृतकल्पो विशारदः
२.००१.०२० शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः
२.००१.०२० यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः
२.००१.०२१ आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित्
२.००१.०२१ श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेष्वपि
२.००१.०२२ अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः
२.००१.०२२ वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित्
२.००१.०२३ आरोहे विनये चैव युक्तो वारणवाजिनाम्
२.००१.०२३ धनुर्वेदविदां श्रेष्ठो लोकेऽतिरथसंमतः
२.००१.०२४ अभियाता प्रहर्ता च सेनानयविशारदः
२.००१.०२४ अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः
२.००१.०२५ अनसूयो जितक्रोधो न दृप्तो न च मत्सरी
२.००१.०२५ न चावमन्ता भूतानां न च कालवशानुगः
२.००१.०२६ एवं श्रैष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः
२.००१.०२६ संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः
२.००१.०२६ बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः
२.००१.०२७ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः
२.००१.०२७ गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः
२.००१.०२८ तमेवंवृत्तसंपन्नमप्रधृष्य पराक्रमम्
२.००१.०२८ लोकपालोपमं नाथमकामयत मेदिनी
२.००१.०२९ एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम्
२.००१.०२९ दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः
२.००१.०३० एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते
२.००१.०३० कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम्
२.००१.०३१ वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः
२.००१.०३१ मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान्
२.००१.०३२ यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ
२.००१.०३२ महीधरसमो धृत्यां मत्तश्च गुणवत्तरः
२.००१.०३३ महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम्
२.००१.०३३ अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम्
२.००१.०३४ तं समीक्ष्य महाराजो युक्तं समुदितैर्गुणैः
२.००१.०३४ निश्चित्य सचिवैः सार्धं युवराजममन्यत
२.००१.०३५ नानानगरवास्तव्यान् पृथग्जानपदानपि
२.००१.०३५ समानिनाय मेदिन्याः प्रधानान् पृथिवीपतिः
२.००१.०३६ अथ राजवितीर्णेषु विविधेष्वासनेषु च
२.००१.०३६ राजानमेवाभिमुखा निषेदुर्नियता नृपाः
२.००१.०३७ स लब्धमानैर्विनयान्वितैर्नृपैः॑ पुरालयैर्जानपदैश्च मानवैः
२.००१.०३७ उपोपविष्टैर्नृपतिर्वृतो बभौ॑ सहस्रचक्षुर्भगवानिवामरैः
२.००२.००१ ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः
२.००२.००१ हितमुद्धर्षणं चेदमुवाचाप्रतिमं वचः
२.००२.००२ दुन्दुभिस्वनकल्पेन गम्भीरेणानुनादिना
२.००२.००२ स्वरेण महता राजा जीग्मूत इव नादयन्
२.००२.००३ सोऽहमिक्ष्वाकुभिः पूर्वैर्नरेन्द्रैः परिपालितम्
२.००२.००३ श्रेयसा योक्तुकामोऽस्मि सुखार्हमखिलं जगत्
२.००२.००४ मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता
२.००२.००४ प्रजा नित्यमतन्द्रेण यथाशक्त्यभिरक्षता
२.००२.००५ इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्
२.००२.००५ पाण्डुरस्यातपत्रस्यच्छायायां जरितं मया
२.००२.००६ प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवितः
२.००२.००६ जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये
२.००२.००७ राजप्रभावजुष्टां हि दुर्वहामजितेन्द्रियैः
२.००२.००७ परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्
२.००२.००८ सोऽहं विश्रममिच्छामि पुत्रं कृत्वा प्रजाहिते
२.००२.००८ संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्
२.००२.००९ अनुजातो हि मे सर्वैर्गुणैर्ज्येष्ठो ममात्मजः
२.००२.००९ पुरंदरसमो वीर्ये रामः परपुरंजयः
२.००२.०१० तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्
२.००२.०१० यौवराज्येन योक्तास्मि प्रीतः पुरुषपुंगवम्
२.००२.०११ अनुरूपः स वो नाथो लक्ष्मीवांल्लक्ष्मणाग्रजः
२.००२.०११ त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्
२.००२.०१२ अनेन श्रेयसा सद्यः संयोज्याहमिमां महीम्
२.००२.०१२ गतक्लेशो भविष्यामि सुते तस्मिन्निवेश्य वै
२.००२.०१३ इति ब्रुवन्तं मुदिताः प्रत्यनन्दन्नृपा नृपम्
२.००२.०१३ वृष्टिमन्तं महामेघं नर्दन्तमिव बर्हिणः
२.००२.०१४ तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः
२.००२.०१४ ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्
२.००२.०१५ अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव
२.००२.०१५ स रामं युवराजानमभिषिञ्चस्व पार्थिवम्
२.००२.०१६ इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्
२.००२.०१६ अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्
२.००२.०१७ कथं नु मयि धर्मेण पृथिवीमनुशासति
२.००२.०१७ भवन्तो द्रष्टुमिच्छन्ति युवराजं ममात्मजम्
२.००२.०१८ ते तमूचुर्महात्मानं पौरजानपदैः सह
२.००२.०१८ बहवो नृप कल्याणा गुणाः पुत्रस्य सन्ति ते
२.००२.०१९ दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः
२.००२.०१९ इक्ष्वाकुभ्यो हि सर्वेभ्योऽप्यतिरक्तो विशाम्पते
२.००२.०२० रामः सत्पुरुषो लोके सत्यधर्मपरायणः
२.००२.०२० धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः
२.००२.०२१ क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः
२.००२.०२१ मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः
२.००२.०२२ प्रियवादी च भूतानां सत्यवादी च राघवः
२.००२.०२२ बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता
२.००२.०२३ तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते
२.००२.०२३ देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः
२.००२.०२४ यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा
२.००२.०२४ गत्वा सौमित्रिसहितो नाविजित्य निवर्तते
२.००२.०२५ संग्रामात्पुनरागम्य कुञ्जरेण रथेन वा
२.००२.०२५ पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति
२.००२.०२६ पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च
२.००२.०२६ निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्
२.००२.०२७ शुश्रूषन्ते च वः शिष्याः कच्चित्कर्मसु दंशिताः
२.००२.०२७ इति नः पुरुषव्याघ्रः सदा रामोऽभिभाषते
२.००२.०२८ व्यसनेषु मनुष्याणां भृशं भवति दुःखितः
२.००२.०२८ उत्सवेषु च सर्वेषु पितेव परितुष्यति
२.००२.०२९ सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः
२.००२.०२९ वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः
२.००२.०२९ दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः
२.००२.०३० बलमारोग्यमायुश्च रामस्य विदितात्मनः
२.००२.०३० आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा
२.००२.०३१ अभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः
२.००२.०३१ स्त्रियो वृद्धास्तरुण्यश्च सायंप्रातः समाहिताः
२.००२.०३२ सर्वान् देवान्नमस्यन्ति रामस्यार्थे यशस्विनः
२.००२.०३२ तेषामायाचितं देव त्वत्प्रसादात्समृध्यताम्
२.००२.०३३ राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्
२.००२.०३३ पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्
२.००२.०३४ तं देवदेवोपममात्मजं ते॑ सर्वस्य लोकस्य हिते निविष्टम्
२.००२.०३४ हिताय नः क्षिप्रमुदारजुष्टं॑ मुदाभिषेक्तुं वरद त्वमर्हसि
२.००३.००१ तेषामज्ञलिपद्मानि प्रगृहीतानि सर्वशः
२.००३.००१ प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः
२.००३.००२ अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम
२.००३.००२ यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ
२.००३.००३ इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत्
२.००३.००३ वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्
२.००३.००४ चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः
२.००३.००४ यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्
२.००३.००५ कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्
२.००३.००५ यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ
२.००३.००६ ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्
२.००३.००६ रामः कृतात्मा भवता शीघ्रमानीइयतामिति
२.००३.००७ स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्
२.००३.००७ रामं तत्रानयां चक्रे रथेन रथिनां वरम्
२.००३.००८ अथ तत्र समासीनास्तदा दशरथं नृपम्
२.००३.००८ प्राच्योदीच्याः प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः
२.००३.००९ म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः
२.००३.००९ उपासां चक्रिरे सर्वे तं देवा इव वासवम्
२.००३.०१० तेषां मध्ये स राजर्षिर्मरुतामिव वासवः
२.००३.०१० प्रासादस्थो रथगतं ददर्शायान्तमात्मजम्
२.००३.०११ गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्
२.००३.०११ दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्
२.००३.०१२ चन्द्रकान्ताननं राममतीव प्रियदर्शनम्
२.००३.०१२ रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्
२.००३.०१३ घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः
२.००३.०१३ न ततर्प समायान्तं पश्यमानो नराधिपः
२.००३.०१४ अवतार्य सुमन्त्रस्तं राघवं स्यन्दनोत्तमात्
२.००३.०१४ पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्
२.००३.०१५ स तं कैलासशृङ्गाभं प्रासादं नरपुंगवः
२.००३.०१५ आरुरोह नृपं द्रष्टुं सह सूतेन राघवः
२.००३.०१६ स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके
२.००३.०१६ नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः
२.००३.०१७ तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः
२.००३.०१७ गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्
२.००३.०१८ तस्मै चाभ्युद्यतं श्रीमान्मणिकाञ्चनभूषितम्
२.००३.०१८ दिदेश राजा रुचिरं रामाय परमासनम्
२.००३.०१९ तदासनवरं प्राप्य व्यदीपयत राघवः
२.००३.०१९ स्वयेव प्रभया मेरुमुदये विमलो रविः
२.००३.०२० तेन विभ्राजिता तत्र सा सभाभिव्यरोचत
२.००३.०२० विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना
२.००३.०२१ तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्
२.००३.०२१ अलंकृतमिवात्मानमादर्शतलसंस्थितम्
२.००३.०२२ स तं सस्मितमाभाष्य पुत्रं पुत्रवतां वरः
२.००३.०२२ उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः
२.००३.०२३ ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः
२.००३.०२३ उत्पन्नस्त्वं गुणश्रेष्ठो मम रामात्मजः प्रियः
२.००३.०२४ त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः
२.००३.०२४ तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि
२.००३.०२५ कामतस्त्वं प्रकृत्यैव विनीतो गुणवानसि
२.००३.०२५ गुणवत्यपि तु स्नेहात्पुत्र वक्ष्यामि ते हितम्
२.००३.०२६ भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः
२.००३.०२६ कामक्रोधसमुत्थानि त्यजेथा व्यसनानि च
२.००३.०२७ परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा
२.००३.०२७ अमात्यप्रभृतीः सर्वाः प्रकृतीश्चानुरञ्जय
२.००३.०२८ तुष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्
२.००३.०२८ तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः
२.००३.०२८ तस्मात्पुत्र त्वमात्मानं नियम्यैव समाचर
२.००३.०२९ तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः
२.००३.०२९ त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन्
२.००३.०३० सा हिरण्यं च गाश्चैव रत्नानि विविधानि च
२.००३.०३० व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा
२.००३.०३१ अथाभिवाद्य राजानं रथमारुह्य राघवः
२.००३.०३१ ययौ स्वं द्युतिमद्वेश्म जनौघैः प्रतिपूजितः
२.००३.०३२ ते चापि पौरा नृपतेर्वचस्तच्॑ छ्रुत्वा तदा लाभमिवेष्टमाप्य
२.००३.०३२ नरेन्द्रमामन्त्य गृहाणि गत्वा॑ देवान् समानर्चुरतीव हृष्टाः
२.००४.००१ गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः
२.००४.००१ मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्
२.००४.००२ श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतः
२.००४.००२ रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः
२.००४.००३ अथान्तर्गृहमाविश्य राजा दशरथस्तदा
२.००४.००३ सूतमाज्ञापयामास रामं पुनरिहानय
२.००४.००४ प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ
२.००४.००४ रामस्य भवनं शीघ्रं राममानयितुं पुनः
२.००४.००५ द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः
२.००४.००५ श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्
२.००४.००६ प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्
२.००४.००६ यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः
२.००४.००७ तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति
२.००४.००७ श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा
२.००४.००८ इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः
२.००४.००८ प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्
२.००४.००९ तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः
२.००४.००९ प्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम्
२.००४.०१० प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः
२.००४.०१० ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः
२.००४.०११ प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः
२.००४.०११ प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत्
२.००४.०१२ राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः
२.००४.०१२ अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः
२.००४.०१३ जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि
२.००४.०१३ दत्तमिष्टमधीतं च मया पुरुषसत्तम
२.००४.०१४ अनुभूतानि चेष्टानि मया वीर सुखानि च
२.००४.०१४ देवर्षि पितृविप्राणामनृणोऽस्मि तथात्मनः
२.००४.०१५ न किं चिन्मम कर्तव्यं तवान्यत्राभिषेचनात्
२.००४.०१५ अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि
२.००४.०१६ अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्
२.००४.०१६ अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक
२.००४.०१७ अपि चाद्याशुभान् राम स्वप्नान् पश्यामि दारुणान्
२.००४.०१७ सनिर्घाता महोल्काश्च पतन्तीह महास्वनाः
२.००४.०१८ अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः
२.००४.०१८ आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः
२.००४.०१९ प्रायेण हि निमित्तानामीदृशानां समुद्भवे
२.००४.०१९ राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति
२.००४.०२० तद्यावदेव मे चेतो न विमुह्यति राघव
२.००४.०२० तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः
२.००४.०२१ अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम्
२.००४.०२१ श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः
२.००४.०२२ तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्
२.००४.०२२ श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप
२.००४.०२३ तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना
२.००४.०२३ सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना
२.००४.०२४ सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः
२.००४.०२४ भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि
२.००४.०२५ विप्रोषितश्च भरतो यावदेव पुरादितः
२.००४.०२५ तावदेवाभिषेकस्ते प्राप्तकालो मतो मम
२.००४.०२६ कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः
२.००४.०२६ ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः
२.००४.०२७ किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः
२.००४.०२७ सतां च धर्मनित्यानां कृतशोभि च राघव
२.००४.०२८ इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने
२.००४.०२८ व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम्
२.००४.०२९ प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने
२.००४.०२९ तस्मिन् क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ
२.००४.०३० तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्
२.००४.०३० वाग्यतां देवतागारे ददर्श याचतीं श्रियम्
२.००४.०३१ प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा
२.००४.०३१ सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्
२.००४.०३२ तस्मिन् काले हि कौसल्या तस्थावामीलितेक्षणा
२.००४.०३२ सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च
२.००४.०३३ श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम्
२.००४.०३३ प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्
२.००४.०३४ तथा सनियमामेव सोऽभिगम्याभिवाद्य च
२.००४.०३४ उवाच वचनं रामो हर्षयंस्तामिदं तदा
२.००४.०३५ अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि
२.००४.०३५ भविता श्वोऽभिषेको मे यथा मे शासनं पितुः
२.००४.०३६ सीतयाप्युपवस्तव्या रजनीयं मया सह
२.००४.०३६ एवमृत्विगुपाध्यायैः सह मामुक्तवान् पिता
२.००४.०३७ यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने
२.००४.०३७ तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय
२.००४.०३८ एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम्
२.००४.०३८ हर्षबाष्पकलं वाक्यमिदं राममभाषत
२.००४.०३९ वत्स राम चिरं जीव हतास्ते परिपन्थिनः
२.००४.०३९ ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय
२.००४.०४० कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक
२.००४.०४० येन त्वया दशरथो गुणैराराधितः पिता
२.००४.०४१ अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे
२.००४.०४१ येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति
२.००४.०४२ इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत्
२.००४.०४२ प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव
२.००४.०४३ लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्
२.००४.०४३ द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता
२.००४.०४४ सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान् राज्यफलानि च
२.००४.०४४ जीवितं च हि राज्यं च त्वदर्थमभिकामये
२.००४.०४५ इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च
२.००४.०४५ अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम्
२.००५.००१ संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने
२.००५.००१ पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्
२.००५.००२ गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन
२.००५.००२ श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्
२.००५.००३ तथेति च स राजानमुक्त्वा वेदविदां वरः
२.००५.००३ स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम्
२.००५.००४ स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्
२.००५.००४ तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः
२.००५.००५ तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः
२.००५.००५ मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात्
२.००५.००६ अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः
२.००५.००६ ततोऽवतारयामास परिगृह्य रथात्स्वयम्
२.००५.००७ स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च
२.००५.००७ प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः
२.००५.००८ प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि
२.००५.००८ उपवासं भवानद्य करोतु सह सीतया
२.००५.००९ प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः
२.००५.००९ पिता दशरथः प्रीत्या ययातिं नहुषो यथा
२.००५.०१० इत्युक्त्वा स तदा राममुपवासं यतव्रतम्
२.००५.०१० मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः
२.००५.०११ ततो यथावद्रामेण स राज्ञो गुरुरर्चितः
२.००५.०११ अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्
२.००५.०१२ सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः
२.००५.०१२ सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः
२.००५.०१३ हृष्टनारी नरयुतं रामवेश्म तदा बभौ
२.००५.०१३ यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः
२.००५.०१४ स राजभवनप्रख्यात्तस्माद्रामनिवेशनात्
२.००५.०१४ निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्
२.००५.०१५ वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः
२.००५.०१५ बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः
२.००५.०१६ जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा
२.००५.०१६ बभूव राजमार्गस्य सागरस्येव निस्वनः
२.००५.०१७ सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी
२.००५.०१७ आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा
२.००५.०१८ तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनः
२.००५.०१८ रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः
२.००५.०१९ प्रजालंकारभूतं च जनस्यानन्दवर्धनम्
२.००५.०१९ उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम्
२.००५.०२० एवं तं जनसंबाधं राजमार्गं पुरोहितः
२.००५.०२० व्यूहन्निव जनौघं तं शनै राज कुलं ययौ
२.००५.०२१ सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः
२.००५.०२१ समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः
२.००५.०२२ तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः
२.००५.०२२ पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत्
२.००५.०२३ गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्
२.००५.०२३ विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव
२.००५.०२४ तदग्र्यवेषप्रमदाजनाकुलं॑ महेन्द्रवेश्मप्रतिमं निवेशनम्
२.००५.०२४ व्यदीपयंश्चारु विवेश पार्थिवः॑ शशीव तारागणसंकुलं नभः
२.००६.००१ गते पुरोहिते रामः स्नातो नियतमानसः
२.००६.००१ सह पत्न्या विशालाक्ष्या नारायणमुपागमत्
२.००६.००२ प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा
२.००६.००२ महते दैवतायाज्यं जुहाव ज्वलितेऽनले
२.००६.००३ शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्
२.००६.००३ ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे
२.००६.००४ वाग्यतः सह वैदेह्या भूत्वा नियतमानसः
२.००६.००४ श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः
२.००६.००५ एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः
२.००६.००५ अलंकारविधिं कृत्स्नं कारयामास वेश्मनः
२.००६.००६ तत्र शृण्वन् सुखा वाचः सूतमागधबन्दिनाम्
२.००६.००६ पूर्वां संध्यामुपासीनो जजाप यतमानसः
२.००६.००७ तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्
२.००६.००७ विमलक्षौमसंवीतो वाचयामास च द्विजान्
२.००६.००८ तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा
२.००६.००८ अयोध्यां पूरयामास तूर्यघोषानुनादितः
२.००६.००९ कृतोपवासं तु तदा वैदेह्या सह राघवम्
२.००६.००९ अयोध्या निलयः श्रुत्वा सर्वः प्रमुदितो जनः
२.००६.०१० ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्
२.००६.०१० प्रभातां रजनीं दृष्ट्वा चक्रे शोभां परां पुनः
२.००६.०११ सिताभ्रशिखराभेषु देवतायतनेषु च
२.००६.०११ चतुष्पथेषु रथ्यासु चैत्येष्वट्टालकेषु च
२.००६.०१२ नानापण्यसमृद्धेषु वणिजामापणेषु च
२.००६.०१२ कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च
२.००६.०१३ सभासु चैव सर्वासु वृक्षेष्वालक्षितेषु च
२.००६.०१३ ध्वजाः समुच्छ्रिताश्चित्राः पताकाश्चाभवंस्तदा
२.००६.०१४ नटनर्तकसंघानां गायकानां च गायताम्
२.००६.०१४ मनःकर्णसुखा वाचः शुश्रुवुश्च ततस्ततः
२.००६.०१५ रामाभिषेकयुक्ताश्च कथाश्चक्रुर्मिथो जनाः
२.००६.०१५ रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च
२.००६.०१६ बाला अपि क्रीडमाना गृहद्वारेषु संघशः
२.००६.०१६ रामाभिषेकसंयुक्ताश्चक्रुरेव मिथः कथाः
२.००६.०१७ कृतपुष्पोपहारश्च धूपगन्धाधिवासितः
२.००६.०१७ राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने
२.००६.०१८ प्रकाशीकरणार्थं च निशागमनशङ्कया
२.००६.०१८ दीपवृक्षांस्तथा चक्रुरनु रथ्यासु सर्वशः
२.००६.०१९ अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः
२.००६.०१९ आकाङ्क्षमाणा रामस्य यौवराज्याभिषेचनम्
२.००६.०२० समेत्य संघशः सर्वे चत्वरेषु सभासु च
२.००६.०२० कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम्
२.००६.०२१ अहो महात्मा राजायमिक्ष्वाकुकुलनन्दनः
२.००६.०२१ ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽह्बिषेक्ष्यति
२.००६.०२२ सर्वे ह्यनुगृहीताः स्म यन्नो रामो महीपतिः
२.००६.०२२ चिराय भविता गोप्ता दृष्टलोकपरावरः
२.००६.०२३ अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः
२.००६.०२३ यथा च भ्रातृषु स्निग्धस्तथास्मास्वपि राघवः
२.००६.०२४ चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः
२.००६.०२४ यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम्
२.००६.०२५ एवंविधं कथयतां पौराणां शुश्रुवुस्तदा
२.००६.०२५ दिग्भ्योऽपि श्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः
२.००६.०२६ ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम्
२.००६.०२६ रामस्य पूरयामासुः पुरीं जानपदा जनाः
२.००६.०२७ जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः
२.००६.०२७ पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः
२.००६.०२८ ततस्तदिन्द्रक्षयसंनिभं पुरं॑ दिदृक्षुभिर्जानपदैरुपागतैः
२.००६.०२८ समन्ततः सस्वनमाकुलं बभौ॑ समुद्रयादोभिरिवार्णवोदकम्
२.००७.००१ ज्ञातिदासी यतो जाता कैकेय्यास्तु सहोषिता
२.००७.००१ प्रासादं चन्द्रसंकाशमारुरोह यदृच्छया
२.००७.००२ सिक्तराजपथां कृत्स्नां प्रकीर्णकमलोत्पलाम्
२.००७.००२ अयोध्यां मन्थरा तस्मात्प्रासादादन्ववैक्षत
२.००७.००३ पताकाभिर्वरार्हाभिर्ध्वजैश्च समलंकृताम्
२.००७.००३ सिक्तां चन्दनतोयैश्च शिरःस्नातजनैर्वृताम्
२.००७.००४ अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा
२.००७.००४ उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती
२.००७.००५ राममाता धनं किं नु जनेभ्यः संप्रयच्छति
२.००७.००५ अतिमात्रं प्रहर्षोऽयं किं जनस्य च शंस मे
२.००७.००५ कारयिष्यति किं वापि संप्रहृष्टो महीपतिः
२.००७.००६ विदीर्यमाणा हर्षेण धात्री परमया मुदा
२.००७.००६ आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम्
२.००७.००७ श्वः पुष्येण जितक्रोधं यौवराज्येन राघवम्
२.००७.००७ राजा दशरथो राममभिषेचयितानघम्
२.००७.००८ धात्र्यास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता
२.००७.००८ कैलास शिखराकारात्प्रासादादवरोहत
२.००७.००९ सा दह्यमाना कोपेन मन्थरा पापदर्शिनी
२.००७.००९ शयानामेत्य कैकेयीमिदं वचनमब्रवीत्
२.००७.०१० उत्तिष्ठ मूढे किं शेषे भयं त्वामभिवर्तते
२.००७.०१० उपप्लुतमहौघेन किमात्मानं न बुध्यसे
२.००७.०११ अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे
२.००७.०११ चलं हि तव सौभाग्यं नद्यः स्रोत इवोष्णगे
२.००७.०१२ एवमुक्ता तु कैकेयी रुष्टया परुषं वचः
२.००७.०१२ कुब्जया पापदर्शिन्या विषादमगमत्परम्
२.००७.०१३ कैकेयी त्वब्रवीत्कुब्जां कच्चित्क्षेमं न मन्थरे
२.००७.०१३ विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम्
२.००७.०१४ मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम्
२.००७.०१४ उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा
२.००७.०१५ सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी
२.००७.०१५ विषादयन्ती प्रोवाच भेदयन्ती च राघवम्
२.००७.०१६ अक्षेमं सुमहद्देवि प्रवृत्तं त्वद्विनाशनम्
२.००७.०१६ रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति
२.००७.०१७ सास्म्यगाधे भये मग्ना दुःखशोकसमन्विता
२.००७.०१७ दह्यमानानलेनेव त्वद्धितार्थमिहागता
२.००७.०१८ तव दुःखेन कैकेयि मम दुःखं महद्भवेत्
२.००७.०१८ त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः
२.००७.०१९ नराधिपकुले जाता महिषी त्वं महीपतेः
२.००७.०१९ उग्रत्वं राजधर्माणां कथं देवि न बुध्यसे
२.००७.०२० धर्मवादी शठो भर्ता श्लक्ष्णवादी च दारुणः
२.००७.०२० शुद्धभावे न जानीषे तेनैवमतिसंधिता
२.००७.०२१ उपस्थितं पयुञ्जानस्त्वयि सान्त्वमनर्थकम्
२.००७.०२१ अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति
२.००७.०२२ अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु
२.००७.०२२ काल्यं स्थापयिता रामं राज्ये निहतकण्टके
२.००७.०२३ शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया
२.००७.०२३ आशीविष इवाङ्केन बाले परिधृतस्त्वया
२.००७.०२४ यथा हि कुर्यात्सर्पो वा शत्रुर्वा प्रत्युपेक्षितः
२.००७.०२४ राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता
२.००७.०२५ पापेनानृतसन्त्वेन बाले नित्यं सुखोचिते
२.००७.०२५ रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि
२.००७.०२६ सा प्राप्तकालं कैकेयि क्षिप्रं कुरु हितं तव
२.००७.०२६ त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने
२.००७.०२७ मन्थराया वचः श्रुत्वा शयनात्स शुभानना
२.००७.०२७ एवमाभरणं तस्यै कुब्जायै प्रददौ शुभम्
२.००७.०२८ दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा
२.००७.०२८ कैकेयी मन्थरां हृष्टा पुनरेवाब्रवीदिदम्
२.००७.०२९ इदं तु मन्थरे मह्यमाख्यासि परमं प्रियम्
२.००७.०२९ एतन्मे प्रियमाख्यातुः किं वा भूयः करोमि ते
२.००७.०३० रामे वा भरते वाहं विशेषं नोपलक्षये
२.००७.०३० तस्मात्तुष्टास्मि यद्राजा रामं राज्येऽभिषेक्ष्यति
२.००७.०३१ न मे परं किं चिदितस्त्वया पुनः॑ प्रियं प्रियार्हे सुवचं वचो वरम्
२.००७.०३१ तथा ह्यवोचस्त्वमतः प्रियोत्तरं॑ वरं परं ते प्रददामि तं वृणु
२.००८.००१ मन्थरा त्वभ्यसूय्यैनामुत्सृज्याभरणं च तत्
२.००८.००१ उवाचेदं ततो वाक्यं कोपदुःखसमन्विता
२.००८.००२ हर्षं किमिदमस्थाने कृतवत्यसि बालिशे
२.००८.००२ शोकसागरमध्यस्थमात्मानं नावबुध्यसे
२.००८.००३ सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते
२.००८.००३ यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः
२.००८.००४ प्राप्तां सुमहतीं प्रीतिं प्रतीतां तां हतद्विषम्
२.००८.००४ उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः
२.००८.००५ हृष्टाः खलु भविष्यन्ति रामस्य परमाः स्त्रियः
२.००८.००५ अप्रहृष्टा भविष्यन्ति स्नुषास्ते भरतक्षये
२.००८.००६ तां दृष्ट्वा परमप्रीतां ब्रुवन्तीं मन्थरां ततः
२.००८.००६ रामस्यैव गुणान् देवी कैकेयी प्रशशंस ह
२.००८.००७ धर्मज्ञो गुरुभिर्दान्तः कृतज्ञः सत्यवाक्शुचिः
२.००८.००७ रामो राज्ञः सुतो ज्येष्ठो यौवराज्यमतोऽर्हति
२.००८.००८ भ्रातॄन् भृत्यांश्च दीर्घायुः पितृवत्पालयिष्यति
२.००८.००८ संतप्यसे कथं कुब्जे श्रुत्वा रामाभिषेचनम्
२.००८.००९ भरतश्चापि रामस्य ध्रुवं वर्षशतात्परम्
२.००८.००९ पितृपैतामहं राज्यमवाप्स्यति नरर्षभः
२.००८.०१० सा त्वमभ्युदये प्राप्ते वर्तमाने च मन्थरे
२.००८.०१० भविष्यति च कल्याणे किमर्थं परितप्यसे
२.००८.०१० कौसल्यातोऽतिरिक्तं च स तु शुश्रूषते हि माम्
२.००८.०११ कैकेय्या वचनं श्रुत्वा मन्थरा भृशदुःखिता
२.००८.०११ दीर्घमुष्णं विनिःश्वस्य कैकेयीमिदमब्रवीत्
२.००८.०१२ अनर्थदर्शिनी मौर्ख्यान्नात्मानमवबुध्यसे
२.००८.०१२ शोकव्यसनविस्तीर्णे मज्जन्ती दुःखसागरे
२.००८.०१३ भविता राघवो राजा राघवस्य च यः सुतः
२.००८.०१३ राजवंशात्तु भरतः कैकेयि परिहास्यते
२.००८.०१४ न हि राज्ञः सुताः सर्वे राज्ये तिष्ठन्ति भामिनि
२.००८.०१४ स्थाप्यमानेषु सर्वेषु सुमहाननयो भवेत्
२.००८.०१५ तस्माज्ज्येष्ठे हि कैकेयि राज्यतन्त्राणि पार्थिवाः
२.००८.०१५ स्थापयन्त्यनवद्याङ्गि गुणवत्स्वितरेष्वपि
२.००८.०१६ असावत्यन्तनिर्भग्नस्तव पुत्रो भविष्यति
२.००८.०१६ अनाथवत्सुखेभ्यश्च राजवंशाच्च वत्सले
२.००८.०१७ साहं त्वदर्थे संप्राप्ता त्वं तु मां नावबुध्यसे
२.००८.०१७ सपत्निवृद्धौ या मे त्वं प्रदेयं दातुमिच्छसि
२.००८.०१८ ध्रुवं तु भरतं रामः प्राप्य राज्यमकण्टकम्
२.००८.०१८ देशान्तरं नाययित्वा लोकान्तरमथापि वा
२.००८.०१९ बाल एव हि मातुल्यं भरतो नायितस्त्वया
२.००८.०१९ संनिकर्षाच्च सौहार्दं जायते स्थावरेष्वपि
२.००८.०२० गोप्ता हि रामं सौमित्रिर्लक्ष्मणं चापि राघवः
२.००८.०२० अश्विनोरिव सौभ्रात्रं तयोर्लोकेषु विश्रुतम्
२.००८.०२१ तस्मान्न लक्ष्मणे रामः पापं किं चित्करिष्यति
२.००८.०२१ रामस्तु भरते पापं कुर्यादिति न संशयः
२.००८.०२२ तस्माद्राजगृहादेव वनं गच्छतु ते सुतः
२.००८.०२२ एतद्धि रोचते मह्यं भृशं चापि हितं तव
२.००८.०२३ एवं ते ज्ञातिपक्षस्य श्रेयश्चैव भविष्यति
२.००८.०२३ यदि चेद्भरतो धर्मात्पित्र्यं राज्यमवाप्स्यति
२.००८.०२४ स ते सुखोचितो बालो रामस्य सहजो रिपुः
२.००८.०२४ समृधार्थस्य नष्टार्थो जीविष्यति कथं वशे
२.००८.०२५ अभिद्रुतमिवारण्ये सिंहेन गजयूथपम्
२.००८.०२५ प्रच्छाद्यमानं रामेण भरतं त्रातुमर्हसि
२.००८.०२६ दर्पान्निराकृता पूर्वं त्वया सौभाग्यवत्तया
२.००८.०२६ राममाता सपत्नी ते कथं वैरं न यातयेत्
२.००८.०२७ यदा हि रामः पृथिवीमवाप्स्यति॑ ध्रुवं प्रनष्टो भरतो भविष्यति
२.००८.०२७ अतो हि संचिन्तय राज्यमात्मजे॑ परस्य चाद्यैव विवास कारणम्
२.००९.००१ एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना
२.००९.००१ दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत्
२.००९.००२ अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्
२.००९.००२ यौवराज्येन भरतं क्षिप्रमेवाभिषेचये
२.००९.००३ इदं त्विदानीं संपश्य केनोपायेन मन्थरे
२.००९.००३ भरतः प्राप्नुयाद्राज्यं न तु रामः कथं चन
२.००९.००४ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी
२.००९.००४ रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत्
२.००९.००५ हन्तेदानीं प्रवक्ष्यामि कैकेयि श्रूयतां च मे
२.००९.००५ यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम्
२.००९.००६ श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी
२.००९.००६ किं चिदुत्थाय शयनात्स्वास्तीर्णादिदमब्रवीत्
२.००९.००७ कथय त्वं ममोपायं केनोपायेन मन्थरे
२.००९.००७ भरतः प्राप्नुयाद्राज्यं न तु रामः कथं चन
२.००९.००८ एवमुक्ता तया देव्या मन्थरा पापदर्शिनी
२.००९.००८ रामार्थमुपहिंसन्ती कुब्जा वचनमब्रवीत्
२.००९.००९ तव देवासुरे युद्धे सह राजर्षिभिः पतिः
२.००९.००९ अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत्
२.००९.०१० दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति
२.००९.०१० वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः
२.००९.०११ स शम्बर इति ख्यातः शतमायो महासुरः
२.००९.०११ ददौ शक्रस्य संग्रामं देवसंघैरनिर्जितः
२.००९.०१२ तस्मिन्महति संग्रामे राजा दशरथस्तदा
२.००९.०१२ अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः
२.००९.०१३ तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया
२.००९.०१३ तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने
२.००९.०१४ स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरौ
२.००९.०१४ गृह्णीयामिति तत्तेन तथेत्युक्तं महात्मना
२.००९.०१४ अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा
२.००९.०१५ तौ वरौ याच भर्तारं भरतस्याभिषेचनम्
२.००९.०१५ प्रव्राजनं च रामस्य त्वं वर्षाणि चतुर्दश
२.००९.०१६ क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते
२.००९.०१६ शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी
२.००९.०१६ मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः
२.००९.०१७ दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः
२.००९.०१७ त्वत्कृते च महाराजो विशेदपि हुताशनम्
२.००९.०१८ न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्
२.००९.०१८ तव प्रियार्थं राजा हि प्राणानपि परित्यजेत्
२.००९.०१९ न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः
२.००९.०१९ मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः
२.००९.०२० मणिमुक्तासुवर्णानि रत्नानि विविधानि च
२.००९.०२० दद्याद्दशरथो राजा मा स्म तेषु मनः कृथाः
२.००९.०२१ यौ तौ देवासुरे युद्धे वरौ दशरथोऽददात्
२.००९.०२१ तौ स्मारय महाभागे सोऽर्थो मा त्वामतिक्रमेत्
२.००९.०२२ यदा तु ते वरं दद्यात्स्वयमुत्थाप्य राघवः
२.००९.०२२ व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम्
२.००९.०२३ रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च
२.००९.०२३ भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः
२.००९.०२४ एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति
२.००९.०२४ भरतश्च हतामित्रस्तव राजा भविष्यति
२.००९.०२५ येन कालेन रामश्च वनात्प्रत्यागमिष्यति
२.००९.०२५ तेन कालेन पुत्रस्ते कृतमूलो भविष्यति
२.००९.०२५ संगृहीतमनुष्यश्च सुहृद्भिः सार्धमात्मवान्
२.००९.०२६ प्राप्तकालं तु ते मन्ये राजानं वीतसाध्वसा
२.००९.०२६ रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय
२.००९.०२७ अनर्थमर्थरूपेण ग्राहिता सा ततस्तया
२.००९.०२७ हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्
२.००९.०२८ कुब्जे त्वां नाभिजानामि श्रेष्ठां श्रेष्ठाभिधायिनीम्
२.००९.०२८ पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये
२.००९.०२९ त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी
२.००९.०२९ नाहं समवबुध्येयं कुब्जे राज्ञश्चिकीर्षितम्
२.००९.०३० सन्ति दुःसंस्थिताः कुब्जा वक्राः परमपापिकाः
२.००९.०३० त्वं पद्ममिव वातेन संनता प्रियदर्शना
२.००९.०३१ उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम्
२.००९.०३१ अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्
२.००९.०३२ जघनं तव निर्घुष्टं रशनादामशोभितम्
२.००९.०३२ जङ्घे भृशमुपन्यस्ते पादौ चाप्यायतावुभौ
२.००९.०३३ त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनि
२.००९.०३३ अग्रतो मम गच्छन्ती राजहंसीव राजसे
२.००९.०३४ तवेदं स्थगु यद्दीर्घं रथघोणमिवायतम्
२.००९.०३४ मतयः क्षत्रविद्याश्च मायाश्चात्र वसन्ति ते
२.००९.०३५ अत्र ते प्रतिमोक्ष्यामि मालां कुब्जे हिरण्मयीम्
२.००९.०३५ अभिषिक्ते च भरते राघवे च वनं गते
२.००९.०३६ जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि
२.००९.०३६ लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु
२.००९.०३७ मुखे च तिलकं चित्रं जातरूपमयं शुभम्
२.००९.०३७ कारयिष्यामि ते कुब्जे शुभान्याभरणानि च
२.००९.०३८ परिधाय शुभे वस्त्रे देवदेव चरिष्यसि
२.००९.०३८ चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना
२.००९.०३८ गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जनम्
२.००९.०३९ तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः
२.००९.०३९ पादौ परिचरिष्यन्ति यथैव त्वं सदा मम
२.००९.०४० इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत्
२.००९.०४० शयानां शयने शुभ्रे वेद्यामग्निशिखामिव
२.००९.०४१ गतोदके सेतुबन्धो न कल्याणि विधीयते
२.००९.०४१ उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय
२.००९.०४२ तथा प्रोत्साहिता देवी गत्वा मन्थरया सह
२.००९.०४२ क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता
२.००९.०४३ अनेकशतसाहस्रं मुक्ताहारं वराङ्गना
२.००९.०४३ अवमुच्य वरार्हाणि शुभान्याभरणानि च
२.००९.०४४ ततो हेमोपमा तत्र कुब्जा वाक्यं वशं गता
२.००९.०४४ संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत्
२.००९.०४५ इह वा मां मृतां कुब्जे नृपायावेदयिष्यसि
२.००९.०४५ वनं तु राघवे प्राप्ते भरतः प्राप्स्यति क्षितिम्
२.००९.०४६ अथैतदुक्त्वा वचनं सुदारुणं॑ निधाय सर्वाभरणानि भामिनी
२.००९.०४६ असंवृतामास्तरणेन मेदिनीं॑ तदाधिशिश्ये पतितेव किन्नरी
२.००९.०४७ उदीर्णसंरम्भतमोवृतानना॑ तथावमुक्तोत्तममाल्यभूषणा
२.००९.०४७ नरेन्द्रपत्नी विमना बभूव सा॑ तमोवृता द्यौरिव मग्नतारका
२.०१०.००१ आज्ञाप्य तु महाराजो राघवस्याभिषेचनम्
२.०१०.००१ प्रियार्हां प्रियमाख्यातुं विवेशान्तःपुरं वशी
२.०१०.००२ तां तत्र पतितां भूमौ शयानामतथोचिताम्
२.०१०.००२ प्रतप्त इव दुःखेन सोऽपश्यज्जगतीपतिः
२.०१०.००३ स वृद्धस्तरुणीं भार्यां प्राणेभ्योऽपि गरीयसीम्
२.०१०.००३ अपापः पापसंकल्पां ददर्श धरणीतले
२.०१०.००४ करेणुमिव दिग्धेन विद्धां मृगयुणा वने
२.०१०.००४ महागज इवारण्ये स्नेहात्परिममर्श ताम्
२.०१०.००५ परिमृश्य च पाणिभ्यामभिसंत्रस्तचेतनः
२.०१०.००५ कामी कमलपत्राक्षीमुवाच वनितामिदम्
२.०१०.००६ न तेऽहमभिजानामि क्रोधमात्मनि संश्रितम्
२.०१०.००६ देवि केनाभियुक्तासि केन वासि विमानिता
२.०१०.००७ यदिदं मम दुःखाय शेषे कल्याणि पांसुषु
२.०१०.००७ भूमौ शेषे किमर्थं त्वं मयि कल्याण चेतसि
२.०१०.००७ भूतोपहतचित्तेव मम चित्तप्रमाथिनी
२.०१०.००८ सन्ति मे कुशला वैद्या अभितुष्टाश्च सर्वशः
२.०१०.००८ सुखितां त्वां करिष्यन्ति व्याधिमाचक्ष्व भामिनि
२.०१०.००९ कस्य वा ते प्रियं कार्यं केन वा विप्रियं कृतम्
२.०१०.००९ कः प्रियं लभतामद्य को वा सुमहदप्रियम्
२.०१०.०१० अवध्यो वध्यतां को वा वध्यः को वा विमुच्यताम्
२.०१०.०१० दरिद्रः को भवत्वाढ्यो द्रव्यवान् वाप्यकिंचनः
२.०१०.०११ अहं चैव मदीयाश्च सर्वे तव वशानुगाः
२.०१०.०११ न ते कं चिदभिप्रायं व्याहन्तुमहमुत्सहे
२.०१०.०१२ आत्मनो जीवितेनापि ब्रूहि यन्मनसेच्छसि
२.०१०.०१२ यावदावर्तते चक्रं तावती मे वसुंधरा
२.०१०.०१३ तथोक्ता सा समाश्वस्ता वक्तुकामा तदप्रियम्
२.०१०.०१३ परिपीडयितुं भूयो भर्तारमुपचक्रमे
२.०१०.०१४ नास्मि विप्रकृता देव केन चिन्न विमानिता
२.०१०.०१४ अभिप्रायस्तु मे कश्चित्तमिच्छामि त्वया कृतम्
२.०१०.०१५ प्रतिज्ञां प्रतिजानीष्व यदि त्वं कर्तुमिच्छसि
२.०१०.०१५ अथ तद्व्याहरिष्यामि यदभिप्रार्थितं मया
२.०१०.०१६ एवमुक्तस्तया राजा प्रियया स्त्रीवशं गतः
२.०१०.०१६ तामुवाच महातेजाः कैकेयीमीषदुत्स्मितः
२.०१०.०१७ अवलिप्ते न जानासि त्वत्तः प्रियतरो मम
२.०१०.०१७ मनुजो मनुजव्याघ्राद्रामादन्यो न विद्यते
२.०१०.०१८ भद्रे हृदयमप्येतदनुमृश्श्योद्धरस्व मे
२.०१०.०१८ एतत्समीक्ष्य कैकेयि ब्रूहि यत्साधु मन्यसे
२.०१०.०१९ बलमात्मनि पश्यन्ती न मां शङ्कितुमर्हसि
२.०१०.०१९ करिष्यामि तव प्रीतिं सुकृतेनापि ते शपे
२.०१०.०२० तेन वाक्येन संहृष्टा तमभिप्रायमात्मनः
२.०१०.०२० व्याजहार महाघोरमभ्यागतमिवान्तकम्
२.०१०.०२१ यथाक्रमेण शपसि वरं मम ददासि च
२.०१०.०२१ तच्छृण्वन्तु त्रयस्त्रिंशद्देवाः सेन्द्रपुरोगमाः
२.०१०.०२२ चन्द्रादित्यौ नभश्चैव ग्रहा रात्र्यहनी दिशः
२.०१०.०२२ जगच्च पृथिवी चैव सगन्धर्वा सराक्षसा
२.०१०.०२३ निशाचराणि भूतानि गृहेषु गृहदेवताः
२.०१०.०२३ यानि चान्यानि भूतानि जानीयुर्भाषितं तव
२.०१०.०२४ सत्यसंधो महातेजा धर्मज्ञः सुसमाहितः
२.०१०.०२४ वरं मम ददात्येष तन्मे शृण्वन्तु देवताः
२.०१०.०२५ इति देवी महेष्वासं परिगृह्याभिशस्य च
२.०१०.०२५ ततः परमुवाचेदं वरदं काममोहितम्
२.०१०.०२६ वरौ यौ मे त्वया देव तदा दत्तौ महीपते
२.०१०.०२६ तौ तावदहमद्यैव वक्ष्यामि शृणु मे वचः
२.०१०.०२७ अभिषेक समारम्भो राघवस्योपकल्पितः
२.०१०.०२७ अनेनैवाभिषेकेण भरतो मेऽभिषिच्यताम्
२.०१०.०२८ नव पञ्च च वर्षाणि दण्डकारण्यमाश्रितः
२.०१०.०२८ चीराजिनजटाधारी रामो भवतु तापसः
२.०१०.०२९ भरतो भजतामद्य यौवराज्यमकण्टकम्
२.०१०.०२९ अद्य चैव हि पश्येयं प्रयान्तं राघवं वने
२.०१०.०३० ततः श्रुत्वा महाराज कैकेय्या दारुणं वचः
२.०१०.०३० व्यथितो विलवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः
२.०१०.०३१ असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्
२.०१०.०३१ अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः
२.०१०.०३१ मोहमापेदिवान् भूयः शोकोपहतचेतनः
२.०१०.०३२ चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः
२.०१०.०३२ कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा
२.०१०.०३३ नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि
२.०१०.०३३ किं कृतं तव रामेण पापे पापं मयापि वा
२.०१०.०३४ सदा ते जननी तुल्यां वृत्तिं वहति राघवः
२.०१०.०३४ तस्यैव त्वमनर्थाय किंनिमित्तमिहोद्यता
२.०१०.०३५ त्वं मयात्मविनाशाय भवनं स्वं प्रवेशिता
२.०१०.०३५ अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा
२.०१०.०३६ जीवलोको यदा सर्वो रामस्येह गुणस्तवम्
२.०१०.०३६ अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्
२.०१०.०३७ कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम्
२.०१०.०३७ जीवितं वात्मनो रामं न त्वेव पितृवत्सलम्
२.०१०.०३८ परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्
२.०१०.०३८ अपश्यतस्तु मे रामं नष्टा भवति चेतना
२.०१०.०३९ तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना
२.०१०.०३९ न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्
२.०१०.०४० तदलं त्यज्यतामेष निश्चयः पापनिश्चये
२.०१०.०४० अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे
२.०१०.०४१ स भूमिपालो विलपन्ननाथवत्॑ स्त्रिया गृहीतो दृहयेऽतिमात्रता
२.०१०.०४१ पपात देव्याश्चरणौ प्रसारिताव्॑ उभावसंस्पृश्य यथातुरस्तथा
२.०११.००१ अतदर्हं महाराजं शयानमतथोचितम्
२.०११.००१ ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्
२.०११.००२ अनर्थरूपा सिद्धार्था अभीता भयदर्शिनी
२.०११.००२ पुनराकारयामास तमेव वरमङ्गना
२.०११.००३ त्वं कत्थसे महाराज सत्यवादी दृढव्रतः
२.०११.००३ मम चेमं वरं कस्माद्विधारयितुमिच्छसि
२.०११.००४ एवमुक्तस्तु कैकेय्या राजा दशरथस्तदा
२.०११.००४ प्रत्युवाच ततः क्रुद्धो मुहूर्तं विह्वलन्निव
२.०११.००५ मृते मयि गते रामे वनं मनुजपुंगवे
२.०११.००५ हन्तानार्ये ममामित्रे रामः प्रव्राजितो वनम्
२.०११.००६ यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति
२.०११.००६ अकीर्तिरतुला लोके ध्रुवं परिभवश्च मे
२.०११.००७ तथा विलपतस्तस्य परिभ्रमितचेतसः
२.०११.००७ अस्तमभ्यगमत्सूर्यो रजनी चाभ्यवर्तत
२.०११.००८ स त्रियामा तथार्तस्य चन्द्रमण्डलमण्डिता
२.०११.००८ राज्ञो विलपमानस्य न व्यभासत शर्वरी
२.०११.००९ तथैवोष्णं विनिःश्वस्य वृद्धो दशरथो नृपः
२.०११.००९ विललापार्तवद्दुःखं गगनासक्तलोचनः
२.०११.०१० न प्रभातं त्वयेच्छामि मयायं रचितोऽञ्जलिः
२.०११.०१० अथ वा गम्यतां शीघ्रं नाहमिच्छामि निर्घृणाम्
२.०११.०१० नृशंसां कैकेयीं द्रष्टुं यत्कृते व्यसनं महत्
२.०११.०११ एवमुक्त्वा ततो राजा कैकेयीं संयताञ्जलिः
२.०११.०११ प्रसादयामास पुनः कैकेयीं चेदमब्रवीत्
२.०११.०१२ साधुवृत्तस्य दीनस्य त्वद्गतस्य गतायुषः
२.०११.०१२ प्रसादः क्रियतां देवि भद्रे राज्ञो विशेषतः
२.०११.०१३ शून्येन खलु सुश्रोणि मयेदं समुदाहृतम्
२.०११.०१३ कुरु साधु प्रसादं मे बाले सहृदया ह्यसि
२.०११.०१४ विशुद्धभावस्य हि दुष्टभावा॑ ताम्रेक्षणस्याश्रुकलस्य राज्ञः
२.०११.०१४ श्रुत्वा विचित्रं करुणं विलापं॑ भर्तुर्नृशंसा न चकार वाक्यम्
२.०११.०१५ ततः स राजा पुनरेव मूर्छितः॑ प्रियामतुष्टां प्रतिकूलभाषिणीम्
२.०११.०१५ समीक्ष्य पुत्रस्य विवासनं प्रति॑ क्षितौ विसंज्ञो निपपात दुःखितः
२.०१२.००१ पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि
२.०१२.००१ विवेष्टमानमुदीक्ष्य सैक्ष्वाकमिदमब्रवीत्
२.०१२.००२ पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्
२.०१२.००२ शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि
२.०१२.००३ आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः
२.०१२.००३ सत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः
२.०१२.००४ संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः
२.०१२.००४ प्रदाय पक्षिणो राजञ्जगाम गतिमुत्तमाम्
२.०१२.००५ तथ ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे
२.०१२.००५ याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ
२.०१२.००६ सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः
२.०१२.००६ सत्यानुरोधात्समये वेलां खां नातिवर्तते
२.०१२.००७ समयं च ममार्येमं यदि त्वं न करिष्यसि
२.०१२.००७ अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्
२.०१२.००८ एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया
२.०१२.००८ नाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा
२.०१२.००९ उद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत्
२.०१२.००९ स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा
२.०१२.०१० विह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः
२.०१२.०१० कृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्
२.०१२.०११ यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः
२.०१२.०११ तं त्यजामि स्वजं चैव तव पुत्रं सह त्वया
२.०१२.०१२ ततः पापसमाचारा कैकेयी पार्थिवं पुनः
२.०१२.०१२ उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता
२.०१२.०१३ किमिदं भाषसे राजन् वाक्यं गररुजोपमम्
२.०१२.०१३ आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि
२.०१२.०१४ स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्
२.०१२.०१४ निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि
२.०१२.०१५ स नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः
२.०१२.०१५ राजा प्रदोचितोऽभीक्ष्णं कैकेयीमिदमब्रवीत्
२.०१२.०१६ धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना
२.०१२.०१६ ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्
२.०१२.०१७ इति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम्
२.०१२.०१७ स्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय
२.०१२.०१८ ततः स राजा तं सूतं सन्नहर्षः सुतं प्रति
२.०१२.०१८ शोकारक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः
२.०१२.०१९ सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्
२.०१२.०१९ प्रगृहीताञ्जलिः किं चित्तस्माद्देशादपाक्रमन्
२.०१२.०२० यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः
२.०१२.०२० तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह
२.०१२.०२१ सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्
२.०१२.०२१ स मन्यमानः कल्याणं हृदयेन ननन्द च
२.०१२.०२२ सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया
२.०१२.०२२ व्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित्
२.०१२.०२३ इति सूतो मतिं कृत्वा हर्षेण महता पुनः
२.०१२.०२३ निर्जगाम महातेजा राघवस्य दिदृक्षया
२.०१२.०२४ ततः पुरस्तात्सहसा विनिर्गतो॑ महीपतीन् द्वारगतान् विलोकयन्
२.०१२.०२४ ददर्श पौरान् विविधान्महाधनान्॑ उपस्थितान् द्वारमुपेत्य विष्ठितान्
२.०१३.००१ ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः
२.०१३.००१ उपतस्थुरुपस्थानं सहराजपुरोहिताः
२.०१३.००२ अमात्या बलमुख्याश्च मुख्या ये निगमस्य च
२.०१३.००२ राघवस्याभिषेकार्थे प्रीयमाणास्तु संगताः
२.०१३.००३ उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि
२.०१३.००३ अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्
२.०१३.००४ काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्
२.०१३.००४ रामश्च सम्यगास्तीर्णो भास्वरा व्याघ्रचर्मणा
२.०१३.००५ गङ्गायमुनयोः पुण्यात्संगमादाहृतं जलम्
२.०१३.००५ याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च
२.०१३.००६ प्राग्वाहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाः समाहिताः
२.०१३.००६ ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः
२.०१३.००७ क्षौद्रं दधिघृतं लाजा धर्भाः सुमनसः पयः
२.०१३.००७ सलाजाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः
२.०१३.००७ पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा
२.०१३.००८ चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्
२.०१३.००८ सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्
२.०१३.००९ चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम्
२.०१३.००९ सज्जं द्युतिकरं श्रीमदभिषेकपुरस्कृतम्
२.०१३.०१० पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च सुस्थितः
२.०१३.०१० प्रस्रुतश्च गजः श्रीमानौपवाह्यः प्रतीक्षते
२.०१३.०११ अष्टौ कन्याश्च मङ्गल्याः सर्वाभरणभूषिताः
२.०१३.०११ वादित्राणि च सर्वाणि बन्दिनश्च तथापरे
२.०१३.०१२ इक्ष्वाकूणां यथा राज्ये संभ्रियेताभिषेचनम्
२.०१३.०१२ तथा जातीयामादाय राजपुत्राभिषेचनम्
२.०१३.०१३ ते राजवचनात्तत्र समवेता महीपतिम्
२.०१३.०१३ अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्
२.०१३.०१४ न पश्यामश्च राजानमुदितश्च दिवाकरः
२.०१३.०१४ यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः
२.०१३.०१५ इति तेषु ब्रुवाणेषु सार्वभौमान्महीपतीन्
२.०१३.०१५ अब्रवीत्तानिदं सर्वान् सुमन्त्रो राजसत्कृतः
२.०१३.०१६ अयं पृच्छामि वचनात्सुखमायुष्मतामहम्
२.०१३.०१६ राज्ञः संप्रतिबुद्धस्य यच्चागमनकारणम्
२.०१३.०१७ इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्
२.०१३.०१७ आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्
२.०१३.०१८ गता भगवती रात्रिरहः शिवमुपस्थितम्
२.०१३.०१८ बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्
२.०१३.०१९ ब्राह्मणा बलमुख्याश्च नैगमाश्चागता नृप
२.०१३.०१९ दर्शनं प्रतिकाङ्क्षन्ते प्रतिबुध्यस्व राघव
२.०१३.०२० स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्
२.०१३.०२० प्रतिबुध्य ततो राजा इदं वचनमब्रवीत्
२.०१३.०२१ न चैव संप्रसुतोऽहमानयेदाशु राघवम्
२.०१३.०२१ इति राजा दशरथः सूतं तत्रान्वशात्पुनः
२.०१३.०२२ स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्
२.०१३.०२२ निर्जगाम नृपावासान्मन्यमानः प्रियं महत्
२.०१३.०२३ प्रपन्नो राजमार्गं च पताका ध्वजशोभितम्
२.०१३.०२३ स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः
२.०१३.०२४ ततो ददर्श रुचिरं कैलाससदृशप्रभम्
२.०१३.०२४ रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्
२.०१३.०२५ महाकपाटपिहितं वितर्दिशतशोभितम्
२.०१३.०२५ काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्
२.०१३.०२६ शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहोपमम्
२.०१३.०२६ दामभिर्वरमाल्यानां सुमहद्भिरलंकृतम्
२.०१३.०२७ स वाजियुक्तेन रथेन सारथिर्॑ नराकुलं राजकुलं विलोकयन्
२.०१३.०२७ ततः समासाद्य महाधनं महत्॑ प्रहृष्टरोमा स बभूव सारथिः
२.०१३.०२८ तदद्रिकूटाचलमेघसंनिभं॑ महाविमानोत्तमवेश्मसंघवत्
२.०१३.०२८ अवार्यमाणः प्रविवेश सारथिः॑ प्रभूतरत्नं मकरो यथार्णवम्
२.०१४.००१ स तदन्तःपुरद्वारं समतीत्य जनाकुलम्
२.०१४.००१ प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्
२.०१४.००२ प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः
२.०१४.००२ अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम्
२.०१४.००३ तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्
२.०१४.००३ ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् सुसमाहितान्
२.०१४.००४ ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः
२.०१४.००४ सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे
२.०१४.००५ प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः
२.०१४.००५ तत्रैवानाययामास राघवः प्रियकाम्यया
२.०१४.००६ तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्
२.०१४.००६ दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे
२.०१४.००७ वराहरुधिराभेण शुचिना च सुगन्धिना
२.०१४.००७ अनुलिप्तं परार्ध्येन चन्दनेन परंतपम्
२.०१४.००८ स्थितया पार्श्वतश्चापि वालव्यजनहस्तया
२.०१४.००८ उपेतं सीतया भूयश्चित्रया शशिनं यथा
२.०१४.००९ तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा
२.०१४.००९ ववन्दे वरदं बन्दी नियमज्ञो विनीतवत्
२.०१४.०१० प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने
२.०१४.०१० राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः
२.०१४.०११ कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति
२.०१४.०११ महिष्या सह कैकेय्या गम्यतां तत्र माचिरम्
२.०१४.०१२ एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः
२.०१४.०१२ ततः संमानयामास सीतामिदमुवाच ह
२.०१४.०१३ देवि देवश्च देवी च समागम्य मदन्तरे
२.०१४.०१३ मन्त्रेयेते ध्रुवं किं चिदभिषेचनसंहितम्
२.०१४.०१४ लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा
२.०१४.०१४ संचोदयति राजानं मदर्थं मदिरेक्षणा
२.०१४.०१५ यादृशी परिषत्तत्र तादृशो दूत आगतः
२.०१४.०१५ ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति
२.०१४.०१६ हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः
२.०१४.०१६ सह त्वं परिवारेण सुखमास्स्व रमस्य च
२.०१४.०१७ पतिसंमानिता सीता भर्तारमसितेक्षणा
२.०१४.०१७ आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी
२.०१४.०१८ स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च
२.०१४.०१८ ततः पावकसंकाशमारुरोह रथोत्तमम्
२.०१४.०१९ मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसं
२.०१४.०१९ करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः
२.०१४.०२० हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्
२.०१४.०२० प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया
२.०१४.०२१ स पर्जन्य इवाकाशे स्वनवानभिनादयन्
२.०१४.०२१ निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः
२.०१४.०२२ छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः
२.०१४.०२२ जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः
२.०१४.०२३ ततो हलहलाशब्दस्तुमुलः समजायत
२.०१४.०२३ तस्य निष्क्रममाणस्य जनौघस्य समन्ततः
२.०१४.०२४ स राघवस्तत्र कथाप्रलापं॑ शुश्राव लोकस्य समागतस्य
२.०१४.०२४ आत्माधिकारा विविधाश्च वाचः॑ प्रहृष्टरूपस्य पुरे जनस्य
२.०१४.०२५ एष श्रियं गच्छति राघवोऽद्य॑ राजप्रसादाद्विपुलां गमिष्यन्
२.०१४.०२५ एते वयं सर्वसमृद्धकामा॑ येषामयं नो भविता प्रशास्ता
२.०१४.०२५ लाभो जनस्यास्य यदेष सर्वं॑ प्रपत्स्यते राष्ट्रमिदं चिराय
२.०१४.०२६ स घोषवद्भिश्च हयैः सनागैः॑ पुरःसरैः स्वस्तिकसूतमागधैः
२.०१४.०२६ महीयमानः प्रवरैश्च वादकैर्॑ अभिष्टुतो वैश्रवणो यथा ययौ
२.०१४.०२७ करेणुमातङ्गरथाश्वसंकुलं॑ महाजनौघैः परिपूर्णचत्वरम्
२.०१४.०२७ प्रभूतरत्नं बहुपण्यसंचयं॑ ददर्श रामो रुचिरं महापथम्
२.०१५.००१ स रामो रथमास्थाय संप्रहृष्टसुहृज्जनः
२.०१५.००१ अपश्यन्नगरं श्रीमान्नानाजनसमाकुलम्
२.०१५.००२ स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्
२.०१५.००२ राजमार्गं ययौ रामो मध्येनागरुधूपितम्
२.०१५.००३ शोभमानमसंबाधं तं राजपथमुत्तमम्
२.०१५.००३ संवृतं विविधैः पण्यैर्भक्ष्यैरुच्चावचैरपि
२.०१५.००४ आशीर्वादान् बहूञ्शृण्वन् सुहृद्भिः समुदीरितान्
२.०१५.००४ यथार्हं चापि संपूज्य सर्वानेव नरान् ययौ
२.०१५.००५ पितामहैराचरितं तथैव प्रपितामहैः
२.०१५.००५ अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय
२.०१५.००६ यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः
२.०१५.००६ ततः सुखतरं सर्वे रामे वत्स्याम राजनि
२.०१५.००७ अलमद्य हि भुक्तेन परमार्थैरलं च नः
२.०१५.००७ यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्
२.०१५.००८ अतो हि न प्रियतरं नान्यत्किं चिद्भविष्यति
२.०१५.००८ यथाभिषेको रामस्य राज्येनामिततेजसः
२.०१५.००९ एताश्चान्याश्च सुहृदामुदासीनः कथाः शुभाः
२.०१५.००९ आत्मसंपूजनीः शृण्वन् ययौ रामो महापथम्
२.०१५.०१० न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्
२.०१५.०१० नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे
२.०१५.०११ सर्वेषां स हि धर्मात्मा वर्णानां कुरुते दयाम्
२.०१५.०११ चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः
२.०१५.०१२ स राजकुलमासाद्य महेन्द्रभवनोपमम्
२.०१५.०१२ राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्
२.०१५.०१३ स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः
२.०१५.०१३ संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमभ्यगात्
२.०१५.०१४ ततः प्रविष्टे पितुरन्तिकं तदा॑ जनः स सर्वो मुदितो नृपात्मजे
२.०१५.०१४ प्रतीक्षते तस्य पुनः स्म निर्गमं॑ यथोदयं चन्द्रमसः सरित्पतिः
२.०१६.००१ स ददर्शासने रामो निषण्णं पितरं शुभे
२.०१६.००१ कैकेयीसहितं दीनं मुखेन परिशुष्यता
२.०१६.००२ स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्
२.०१६.००२ ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः
२.०१६.००३ रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः
२.०१६.००३ शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्
२.०१६.००४ तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्
२.०१६.००४ रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्
२.०१६.००५ इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्
२.०१६.००५ निःश्वसन्तं महाराजं व्यथिताकुलचेतसं
२.०१६.००६ ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्
२.०१६.००६ उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा
२.०१६.००७ अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन्
२.०१६.००७ बभूव संरब्धतरः समुद्र इव पर्वणि
२.०१६.००८ चिन्तयामास च तदा रामः पितृहिते रतः
२.०१६.००८ किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति
२.०१६.००९ अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति
२.०१६.००९ तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते
२.०१६.०१० स दीन इव शोकार्तो विषण्णवदनद्युतिः
२.०१६.०१० कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्
२.०१६.०११ कच्चिन्मया नापराधमज्ञानाद्येन मे पिता
२.०१६.०११ कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय
२.०१६.०१२ विवर्णवदनो दीनो न हि मामभिभाषते
२.०१६.०१२ शारीरो मानसो वापि कच्चिदेनं न बाधते
२.०१६.०१२ संतापो वाभितापो वा दुर्लभं हि सदा सुखम्
२.०१६.०१३ कच्चिन्न किं चिद्भरते कुमारे प्रियदर्शने
२.०१६.०१३ शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्
२.०१६.०१४ अतोषयन्महाराजमकुर्वन् वा पितुर्वचः
२.०१६.०१४ मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे
२.०१६.०१५ यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः
२.०१६.०१५ कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते
२.०१६.०१६ कच्चित्ते परुषं किं चिदभिमानात्पिता मम
२.०१६.०१६ उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः
२.०१६.०१७ एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः
२.०१६.०१७ किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे
२.०१६.०१८ अहं हि वचनाद्राज्ञः पतेयमपि पावके
२.०१६.०१८ भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे
२.०१६.०१८ नियुक्तो गुरुणा पित्रा नृपेण च हितेन च
२.०१६.०१९ तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्
२.०१६.०१९ करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते
२.०१६.०२० तमार्जवसमायुक्तमनार्या सत्यवादिनम्
२.०१६.०२० उवाच रामं कैकेयी वचनं भृशदारुणम्
२.०१६.०२१ पुरा देवासुरे युद्धे पित्रा ते मम राघव
२.०१६.०२१ रक्षितेन वरौ दत्तौ सशल्येन महारणे
२.०१६.०२२ तत्र मे याचितो राजा भरतस्याभिषेचनम्
२.०१६.०२२ गमनं दण्डकारण्ये तव चाद्यैव राघव
२.०१६.०२३ यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि
२.०१६.०२३ आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु
२.०१६.०२४ स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम्
२.०१६.०२४ त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च
२.०१६.०२५ सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः
२.०१६.०२५ अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस
२.०१६.०२६ भरतः कोसलपुरे प्रशास्तु वसुधामिमाम्
२.०१६.०२६ नानारत्नसमाकीर्णं सवाजिरथकुञ्जराम्
२.०१६.०२७ तदप्रियममित्रघ्नो वचनं मरणोपमम्
२.०१६.०२७ श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत्
२.०१६.०२८ एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः
२.०१६.०२८ जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन्
२.०१६.०२९ इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः
२.०१६.०२९ नाभिनन्दति दुर्धर्षो यथापुरमरिंदमः
२.०१६.०३० मन्युर्न च त्वया कार्यो देवि ब्रूहि तवाग्रतः
२.०१६.०३० यास्यामि भव सुप्रीता वनं चीरजटाधरः
२.०१६.०३१ हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च
२.०१६.०३१ नियुज्यमानो विश्रब्धं किं न कुर्यादहं प्रियम्
२.०१६.०३२ अलीकं मानसं त्वेकं हृदयं दहतीव मे
२.०१६.०३२ स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्
२.०१६.०३३ अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च
२.०१६.०३३ हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः
२.०१६.०३४ किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः
२.०१६.०३४ तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्
२.०१६.०३५ तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः
२.०१६.०३५ वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति
२.०१६.०३६ गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः
२.०१६.०३६ भरतं मातुलकुलादद्यैव नृपशासनात्
२.०१६.०३७ दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः
२.०१६.०३७ अविचार्य पितुर्वाक्यं समावस्तुं चतुर्दश
२.०१६.०३८ सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी
२.०१६.०३८ प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम्
२.०१६.०३९ एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः
२.०१६.०३९ भरतं मातुलकुलादुपावर्तयितुं नराः
२.०१६.०४० तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्
२.०१६.०४० राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि
२.०१६.०४१ व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते
२.०१६.०४१ नैतत्किं चिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्
२.०१६.०४२ यावत्त्वं न वनं यातः पुरादस्मादभित्वरन्
२.०१६.०४२ पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा
२.०१६.०४३ धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः
२.०१६.०४३ मूर्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते
२.०१६.०४४ रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः
२.०१६.०४४ कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः
२.०१६.०४५ तदप्रियमनार्याया वचनं दारुणोदरम्
२.०१६.०४५ श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्
२.०१६.०४६ नाहमर्थपरो देवि लोकमावस्तुमुत्सहे
२.०१६.०४६ विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम्
२.०१६.०४७ यदत्रभवतः किं चिच्छक्यं कर्तुं प्रियं मया
२.०१६.०४७ प्राणानपि परित्यज्य सर्वथा कृतमेव तत्
२.०१६.०४८ न ह्यतो धर्मचरणं किं चिदस्ति महत्तरम्
२.०१६.०४८ यथा पितरि शुश्रूषा तस्य वा वचनक्रिया
२.०१६.०४९ अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्
२.०१६.०४९ वने वत्स्यामि विजने वर्षाणीह चतुर्दश
२.०१६.०५० न नूनं मयि कैकेयि किं चिदाशंससे गुणम्
२.०१६.०५० यद्राजानमवोचस्त्वं ममेश्वरतरा सती
२.०१६.०५१ यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्
२.०१६.०५१ ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम्
२.०१६.०५२ भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा
२.०१६.०५२ तहा भवत्या कर्तव्यं स हि धर्मः सनातनः
२.०१६.०५३ स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता
२.०१६.०५३ शोकादशक्नुवन् बाष्पं प्ररुरोद महास्वनम्
२.०१६.०५४ वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा
२.०१६.०५४ कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः
२.०१६.०५५ स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्
२.०१६.०५५ निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम्
२.०१६.०५६ तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह
२.०१६.०५६ लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः
२.०१६.०५७ आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्
२.०१६.०५७ शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्
२.०१६.०५८ न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति
२.०१६.०५८ लोककान्तस्य कान्तत्वं शीतरश्मेरिव क्षपा
२.०१६.०५९ न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्
२.०१६.०५९ सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया
२.०१६.०६० धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च
२.०१६.०६० प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान्
२.०१६.०६१ प्रविश्य वेश्मातिभृशं मुदान्वितं॑ समीक्ष्य तां चार्थविपत्तिमागताम्
२.०१६.०६१ न चैव रामोऽत्र जगाम विक्रियां॑ सुहृज्जनस्यात्मविपत्तिशङ्कया
२.०१७.००१ रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः
२.०१७.००१ जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी
२.०१७.००२ सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्
२.०१७.००२ उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्
२.०१७.००३ प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः
२.०१७.००३ ब्राह्मणान् वेदसंपन्नान् वृद्धान् राज्ञाभिसत्कृतान्
२.०१७.००४ प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः
२.०१७.००४ स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः
२.०१७.००५ वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः
२.०१७.००५ न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा
२.०१७.००६ कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता
२.०१७.००६ प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी
२.०१७.००७ सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा
२.०१७.००७ अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला
२.०१७.००८ प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम्
२.०१७.००८ ददर्श मातरं तत्र हावयन्तीं हुताशनम्
२.०१७.००९ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्
२.०१७.००९ अभिचक्राम संहृष्टा किशोरं वडवा यथा
२.०१७.०१० तमुवाच दुराधर्षं राघवं सुतमात्मनः
२.०१७.०१० कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः
२.०१७.०११ वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्
२.०१७.०११ प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले
२.०१७.०१२ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव
२.०१७.०१२ अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति
२.०१७.०१३ मातरं राघवः किं चित्प्रसार्याञ्जलिमब्रवीत्
२.०१७.०१३ स स्वभावविनीतश्च गौरवाच्च तदानतः
२.०१७.०१४ देवि नूनं न जानीषे महद्भयमुपस्थितम्
२.०१७.०१४ इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च
२.०१७.०१५ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने
२.०१७.०१५ मधुमूलफलैर्जीवन् हित्वा मुनिवदामिषम्
२.०१७.०१६ भरताय महाराजो यौवराज्यं प्रयच्छति
२.०१७.०१६ मां पुनर्दण्डकारण्यं विवासयति तापसं
२.०१७.०१७ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव
२.०१७.०१७ रामस्तूत्थापयामास मातरं गतचेतसं
२.०१७.०१८ उपावृत्योत्थितां दीनां वडवामिव वाहिताम्
२.०१७.०१८ पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना
२.०१७.०१९ सा राघवमुपासीनमसुखार्ता सुखोचिता
२.०१७.०१९ उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे
२.०१७.०२० यदि पुत्र न जायेथा मम शोकाय राघव
२.०१७.०२० न स्म दुःखमतो भूयः पश्येयमहमप्रजा
२.०१७.०२१ एक एव हि वन्ध्यायाः शोको भवति मानवः
२.०१७.०२१ अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते
२.०१७.०२२ न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे
२.०१७.०२२ अपि पुत्रे विपश्येयमिति रामास्थितं मया
२.०१७.०२३ सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्
२.०१७.०२३ अहं श्रोष्ये सपत्नीनामवराणां वरा सती
२.०१७.०२३ अतो दुःखतरं किं नु प्रमदानां भविष्यति
२.०१७.०२४ त्वयि संनिहितेऽप्येवमहमासं निराकृता
२.०१७.०२४ किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे
२.०१७.०२५ यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते
२.०१७.०२५ कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते
२.०१७.०२६ दश सप्त च वर्षाणि तव जातस्य राघव
२.०१७.०२६ अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्
२.०१७.०२७ उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः
२.०१७.०२७ दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया
२.०१७.०२८ स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते
२.०१७.०२८ प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा
२.०१७.०२९ ममैव नूनं मरणं न विद्यते॑ न चावकाशोऽस्ति यमक्षये मम
२.०१७.०२९ यदन्तकोऽद्यैव न मां जिहीर्षति॑ प्रसह्य सिंहो रुदतीं मृगीमिव
२.०१७.०३० स्थिरं हि नूनं हृदयं ममायसं॑ न भिद्यते यद्भुवि नावदीर्यते
२.०१७.०३० अनेन दुःखेन च देहमर्पितं॑ ध्रुवं ह्यकाले मरणं न विद्यते
२.०१७.०३१ इदं तु दुःखं यदनर्थकानि मे॑ व्रतानि दानानि च संयमाश्च हि
२.०१७.०३१ तपश्च तप्तं यदपत्यकारणात्॑ सुनिष्फलं बीजमिवोप्तमूषरे
२.०१७.०३२ यदि ह्यकाले मरणं स्वयेच्छया॑ लभेत कश्चिद्गुरु दुःख कर्शितः
२.०१७.०३२ गताहमद्यैव परेत संसदं॑ विना त्वया धेनुरिवात्मजेन वै
२.०१७.०३३ भृशमसुखममर्षिता तदा॑ बहु विललाप समीक्ष्य राघवम्
२.०१७.०३३ व्यसनमुपनिशाम्य सा महत्॑ सुतमिव बद्धमवेक्ष्य किंनरी
२.०१८.००१ तथा तु विलपन्तीं तां कौसल्यां राममातरम्
२.०१८.००१ उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः
२.०१८.००२ न रोचते ममाप्येतदार्ये यद्राघवो वनम्
२.०१८.००२ त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः
२.०१८.००३ विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः
२.०१८.००३ नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः
२.०१८.००४ नास्यापराधं पश्यामि नापि दोषं तथा विधम्
२.०१८.००४ येन निर्वास्यते राष्ट्राद्वनवासाय राघवः
२.०१८.००५ न तं पश्याम्यहं लोके परोक्षमपि यो नरः
२.०१८.००५ अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्
२.०१८.००६ देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्
२.०१८.००६ अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात्
२.०१८.००७ तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः
२.०१८.००७ पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन्
२.०१८.००८ यावदेव न जानाति कश्चिदर्थमिमं नरः
२.०१८.००८ तावदेव मया साधमात्मस्थं कुरु शासनम्
२.०१८.००९ मया पार्श्वे सधनुषा तव गुप्तस्य राघव
२.०१८.००९ कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः
२.०१८.०१० निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ
२.०१८.०१० करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये
२.०१८.०११ भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति
२.०१८.०११ सर्वानेतान् वधिष्यामि मृदुर्हि परिभूयते
२.०१८.०१२ त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्
२.०१८.०१२ कस्य शक्तिः श्रियं दातुं भरतायारिशासन
२.०१८.०१३ अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः
२.०१८.०१३ सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे
२.०१८.०१४ दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते
२.०१८.०१४ प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय
२.०१८.०१५ हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः
२.०१८.०१५ देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु
२.०१८.०१६ एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः
२.०१८.०१६ उवाच रामं कौसल्या रुदन्ती शोकलालसा
२.०१८.०१७ भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया
२.०१८.०१७ यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते
२.०१८.०१८ न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्
२.०१८.०१८ विहाय शोकसंतप्तां गन्तुमर्हसि मामितः
२.०१८.०१९ धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि
२.०१८.०१९ शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्
२.०१८.०२० शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्
२.०१८.०२० परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः
२.०१८.०२१ यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्
२.०१८.०२१ त्वां नाहमनुजानामि न गन्तव्यमितो वनम्
२.०१८.०२२ त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा
२.०१८.०२२ त्वया सह मम श्रेयस्तृणानामपि भक्षणम्
२.०१८.०२३ यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्
२.०१८.०२३ अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम्
२.०१८.०२४ ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्
२.०१८.०२४ ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः
२.०१८.०२५ विलपन्तीं तथा दीनां कौसल्यां जननीं ततः
२.०१८.०२५ उवाच रामो धर्मात्मा वचनं धर्मसंहितम्
२.०१८.०२६ नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम
२.०१८.०२६ प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्
२.०१८.०२७ ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा
२.०१८.०२७ गौर्हता जानता धर्मं कण्डुनापि विपश्चिता
२.०१८.०२८ अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः
२.०१८.०२८ खनद्भिः सागरैर्भूतिमवाप्तः सुमहान् वधः
२.०१८.०२९ जामदग्न्येन रामेण रेणुका जननी स्वयम्
२.०१८.०२९ कृत्ता परशुनारण्ये पितुर्वचनकारिणा
२.०१८.०३० न खल्वेतन्मयैकेन क्रियते पितृशासनम्
२.०१८.०३० पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते
२.०१८.०३१ तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा
२.०१८.०३१ पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते
२.०१८.०३२ तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्
२.०१८.०३२ तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्
२.०१८.०३२ अभिप्रायमविज्ञाय सत्यस्य च शमस्य च
२.०१८.०३३ धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्
२.०१८.०३३ धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम्
२.०१८.०३४ संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा
२.०१८.०३४ न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता
२.०१८.०३५ सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम्
२.०१८.०३५ पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः
२.०१८.०३६ तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्
२.०१८.०३६ धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्
२.०१८.०३७ तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः
२.०१८.०३७ उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः
२.०१८.०३८ अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्
२.०१८.०३८ शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे
२.०१८.०३८ तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम्
२.०१८.०३९ यशो ह्यहं केवलराज्यकारणान्॑ न पृष्ठतः कर्तुमलं महोदयम्
२.०१८.०३९ अदीर्घकाले न तु देवि जीविते॑ वृणेऽवरामद्य महीमधर्मतः
२.०१८.०४० प्रसादयन्नरवृषभः स मातरं॑ पराक्रमाज्जिगमिषुरेव दण्डकान्
२.०१८.०४० अथानुजं भृशमनुशास्य दर्शनं॑ चकार तां हृदि जननीं प्रदक्षिणम्
२.०१९.००१ अथ तं व्यथया दीनं सविशेषममर्षितम्
२.०१९.००१ श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम्
२.०१९.००२ आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्
२.०१९.००२ उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान्
२.०१९.००३ सौमित्रे योऽभिषेकार्थे मम संभारसंभ्रमः
२.०१९.००३ अभिषेकनिवृत्त्यर्थे सोऽस्तु संभारसंभ्रमः
२.०१९.००४ यस्या मदभिषेकार्थं मानसं परितप्यते
२.०१९.००४ माता नः सा यथा न स्यात्सविशङ्का तथा कुरु
२.०१९.००५ तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे
२.०१९.००५ मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्
२.०१९.००६ न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदा चन
२.०१९.००६ मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम्
२.०१९.००७ सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः
२.०१९.००७ परलोकभयाद्भीतो निर्भयोऽस्तु पिता मम
२.०१९.००८ तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते
२.०१९.००८ सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्
२.०१९.००९ अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण
२.०१९.००९ अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः
२.०१९.०१० मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा
२.०१९.०१० सुतं भरतमव्यग्रमभिषेचयिता ततः
२.०१९.०११ मयि चीराजिनधरे जटामण्डलधारिणि
२.०१९.०११ गतेऽरण्यं च कैकेय्या भविष्यति मनःसुखम्
२.०१९.०१२ बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्
२.०१९.०१२ तत्तु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि माचिरम्
२.०१९.०१३ कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने
२.०१९.०१३ राज्यस्य च वितीर्णस्य पुनरेव निवर्तने
२.०१९.०१४ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने
२.०१९.०१४ यदि भावो न दैवोऽयं कृतान्तविहितो भवेत्
२.०१९.०१५ जानासि हि यथा सौम्य न मातृषु ममान्तरम्
२.०१९.०१५ भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा
२.०१९.०१६ सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः
२.०१९.०१६ उग्रैर्वाक्यैरहं तस्या नान्यद्दैवात्समर्थये
२.०१९.०१७ कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा
२.०१९.०१७ ब्रूयात्सा प्राकृतेव स्त्री मत्पीडां भर्तृसंनिधौ
२.०१९.०१८ यदचिन्त्यं तु तद्दैवं भूतेष्वपि न हन्यते
२.०१९.०१८ व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः
२.०१९.०१९ कश्चिद्दैवेन सौमित्रे योद्धुमुत्सहते पुमान्
२.०१९.०१९ यस्य न ग्रहणं किं चित्कर्मणोऽन्यत्र दृश्यते
२.०१९.०२० सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ
२.०१९.०२० यस्य किं चित्तथा भूतं ननु दैवस्य कर्म तत्
२.०१९.०२१ व्याहतेऽप्यभिषेके मे परितापो न विद्यते
२.०१९.०२१ तस्मादपरितापः संस्त्वमप्यनुविधाय माम्
२.०१९.०२१ प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्
२.०१९.०२२ न लक्ष्मणास्मिन्मम राज्यविघ्ने॑ माता यवीयस्यतिशङ्कनीया
२.०१९.०२२ दैवाभिपन्ना हि वदन्त्यनिष्टं॑ जानासि दैवं च तथा प्रभावम्
२.०२०.००१ इति ब्रुवति रामे तु लक्ष्मणोऽधःशिरा मुहुः
२.०२०.००१ श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः
२.०२०.००२ तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ
२.०२०.००२ निशश्वास महासर्पो बिलस्थ इव रोषितः
२.०२०.००३ तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदा
२.०२०.००३ बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्
२.०२०.००४ अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः
२.०२०.००४ तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्
२.०२०.००५ अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्
२.०२०.००५ अस्थाने संभ्रमो यस्य जातो वै सुमहानयम्
२.०२०.००६ धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया
२.०२०.००६ कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति
२.०२०.००७ यथा दैवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः
२.०२०.००७ किं नाम कृपणं दैवमशक्तमभिशंससि
२.०२०.००८ पापयोस्तु कथं नाम तयोः शङ्का न विद्यते
२.०२०.००८ सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन् किं न बुध्यसे
२.०२०.००९ लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्
२.०२०.००९ येनेयमागता द्वैधं तव बुद्धिर्महीपते
२.०२०.००९ स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि
२.०२०.०१० यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्
२.०२०.०१० तथाप्युपेक्षणीयं ते न मे तदपि रोचते
२.०२०.०११ विक्लवो वीर्यहीनो यः स दैवमनुवर्तते
२.०२०.०११ वीराः संभावितात्मानो न दैवं पर्युपासते
२.०२०.०१२ दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्
२.०२०.०१२ न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति
२.०२०.०१३ द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च
२.०२०.०१३ दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति
२.०२०.०१४ अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः
२.०२०.०१४ यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्
२.०२०.०१५ अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम्
२.०२०.०१५ प्रधावितमहं दैवं पौरुषेण निवर्तये
२.०२०.०१६ लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्
२.०२०.०१६ न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता
२.०२०.०१७ यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः
२.०२०.०१७ अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा
२.०२०.०१८ अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव
२.०२०.०१८ अभिषेकविघातेन पुत्रराज्याय वर्तते
२.०२०.०१९ मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा
२.०२०.०१९ प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम
२.०२०.०२० ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्
२.०२०.०२० आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि
२.०२०.०२१ पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते
२.०२०.०२१ प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने
२.०२०.०२२ स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया
२.०२०.०२२ नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि
२.०२०.०२३ प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्
२.०२०.०२३ राज्यं च तव रक्षेयमहं वेलेव सागरम्
२.०२०.०२४ मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव
२.०२०.०२४ अहमेको महीपालानलं वारयितुं बलात्
२.०२०.०२५ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे
२.०२०.०२५ नासिराबन्धनार्थाय न शराः स्तम्भहेतवः
२.०२०.०२६ अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम्
२.०२०.०२६ न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम
२.०२०.०२७ असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा
२.०२०.०२७ प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये
२.०२०.०२८ खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे
२.०२०.०२८ हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही
२.०२०.०२९ खड्गधारा हता मेऽद्य दीप्यमाना इवाद्रयः
२.०२०.०२९ पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः
२.०२०.०३० बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने
२.०२०.०३० कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते
२.०२०.०३१ बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्
२.०२०.०३१ विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु
२.०२०.०३२ अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति
२.०२०.०३२ राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो
२.०२०.०३३ अद्य चन्दनसारस्य केयूरामोक्षणस्य च
२.०२०.०३३ वसूनां च विमोक्षस्य सुहृदां पालनस्य च
२.०२०.०३४ अनुरूपाविमौ बाहू राम कर्म करिष्यतः
२.०२०.०३४ अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे
२.०२०.०३५ ब्रवीहि कोऽद्यैव मया वियुज्यतां॑ तवासुहृत्प्राणयशः सुहृज्जनैः
२.०२०.०३५ यथा तवेयं वसुधा वशे भवेत्॑ तथैव मां शाधि तवास्मि किंकरः
२.०२०.०३६ विमृज्य बाष्पं परिसान्त्व्य चासकृत्॑ स लक्ष्मणं राघववंशवर्धनः
२.०२०.०३६ उवाच पित्र्ये वचने व्यवस्थितं॑ निबोध मामेष हि सौम्य सत्पथः
२.०२१.००१ तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने
२.०२१.००१ कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्
२.०२१.००२ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः
२.०२१.००२ मयि जातो दशरथात्कथमुञ्छेन वर्तयेत्
२.०२१.००३ यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते
२.०२१.००३ कथं स भोक्ष्यते नाथो वने मूलफलान्ययम्
२.०२१.००४ क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम्
२.०२१.००४ गुणवान् दयितो राज्ञो राघवो यद्विवास्यते
२.०२१.००५ त्वया विहीनामिह मां शोकाग्निरतुलो महान्
२.०२१.००५ प्रधक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये
२.०२१.००६ कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति
२.०२१.००६ अहं त्वानुगमिष्यामि यत्र पुत्र गमिष्यसि
२.०२१.००७ तथा निगदितं मात्रा तद्वाक्यं पुरुषर्षभः
२.०२१.००७ श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम्
२.०२१.००८ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते
२.०२१.००८ भवत्या च परित्यक्तो न नूनं वर्तयिष्यति
२.०२१.००९ भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः
२.०२१.००९ स भवत्या न कर्तव्यो मनसापि विगर्हितः
२.०२१.०१० यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः
२.०२१.०१० शुश्रूषा क्रियतां तावत्स हि धर्मः सनातनः
२.०२१.०११ एवमुक्ता तु रामेण कौसल्या शुभ दर्शना
२.०२१.०११ तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्
२.०२१.०१२ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः
२.०२१.०१२ भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम्
२.०२१.०१३ मया चैव भवत्या च कर्तव्यं वचनं पितुः
२.०२१.०१३ राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः
२.०२१.०१४ इमानि तु महारण्ये विहृत्य नव पञ्च च
२.०२१.०१४ वर्षाणि परमप्रीतः स्थास्यामि वचने तव
२.०२१.०१५ एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा
२.०२१.०१५ उवाच परमार्ता तु कौसल्या पुत्रवत्सला
२.०२१.०१६ आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्
२.०२१.०१६ नय मामपि काकुत्स्थ वनं वन्यं मृगीं यथा
२.०२१.०१६ यदि ते गमने बुद्धिः कृता पितुरपेक्षया
२.०२१.०१७ तां तथा रुदतीं रामो रुदन् वचनमब्रवीत्
२.०२१.०१७ जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च
२.०२१.०१७ भवत्या मम चैवाद्य राजा प्रभवति प्रभुः
२.०२१.०१८ भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः
२.०२१.०१८ भवतीमनुवर्तेत स हि धर्मरतः सदा
२.०२१.०१९ यथा मयि तु निष्क्रान्ते पुत्रशोकेन पार्थिवः
२.०२१.०१९ श्रमं नावाप्नुयात्किं चिदप्रमत्ता तथा कुरु
२.०२१.०२० व्रतोपवासनिरता या नारी परमोत्तमा
२.०२१.०२० भर्तारं नानुवर्तेत सा च पापगतिर्भवेत्
२.०२१.०२१ शुश्रूषमेव कुर्वीत भर्तुः प्रियहिते रता
२.०२१.०२१ एष धर्मः पुरा दृष्टो लोके वेदे श्रुतः स्मृतः
२.०२१.०२२ पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सुव्रताः
२.०२१.०२२ एवं कालं प्रतीक्षस्व ममागमनकाङ्क्षिणी
२.०२१.०२३ प्राप्स्यसे परमं कामं मयि प्रत्यागते सति
२.०२१.०२३ यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्
२.०२१.०२४ एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा
२.०२१.०२४ कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्
२.०२१.०२४ गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो
२.०२१.०२५ तथा हि रामं वनवासनिश्चितं॑ समीक्ष्य देवी परमेण चेतसा
२.०२१.०२५ उवाच रामं शुभलक्षणं वचो॑ बभूव च स्वस्त्ययनाभिकाङ्क्षिणी
२.०२२.००१ सापनीय तमायासमुपस्पृश्य जलं शुचि
२.०२२.००१ चकार माता रामस्य मङ्गलानि मनस्विनी
२.०२२.००२ स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः
२.०२२.००२ स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा
२.०२२.००३ ऋतवश्चैव पक्षाश्च मासाः संवत्सराः क्षपाः
२.०२२.००३ दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा
२.०२२.००४ स्मृतिर्धृतिश्च धर्मश्च पान्तु त्वां पुत्र सर्वतः
२.०२२.००४ स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः
२.०२२.००५ सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः
२.०२२.००५ नक्षत्राणि च सर्वाणि ग्रहाश्च सहदेवताः
२.०२२.००५ महावनानि चरतो मुनिवेषस्य धीमतः
२.०२२.००६ प्लवगा वृश्चिका दंशा मशकाश्चैव कानने
२.०२२.००६ सरीसृपाश्च कीटाश्च मा भूवन् गहने तव
२.०२२.००७ महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः
२.०२२.००७ महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक
२.०२२.००८ नृमांसभोजना रौद्रा ये चान्ये सत्त्वजातयः
२.०२२.००८ मा च त्वां हिंसिषुः पुत्र मया संपूजितास्त्विह
२.०२२.००९ आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः
२.०२२.००९ सर्वसंपत्तयो राम स्वस्तिमान् गच्छ पुत्रक
२.०२२.०१० स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः
२.०२२.०१० सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः
२.०२२.०११ सर्वलोकप्रभुर्ब्रह्मा भूतभर्ता तथर्षयः
२.०२२.०११ ये च शेषाः सुरास्ते त्वां रक्षन्तु वनवासिनम्
२.०२२.०१२ इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी
२.०२२.०१२ स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना
२.०२२.०१३ यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते
२.०२२.०१३ वृत्रनाशे समभवत्तत्ते भवतु मङ्गलम्
२.०२२.०१४ यन्मङ्गलं सुपर्णस्य विनताकल्पयत्पुरा
२.०२२.०१४ अमृतं प्रार्थयानस्य तत्ते भवतु मङ्गलम्
२.०२२.०१५ ओषधीं चापि सिद्धार्थां विशल्यकरणीं शुभाम्
२.०२२.०१५ चकार रक्षां कौसल्या मन्त्रैरभिजजाप च
२.०२२.०१६ आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी
२.०२२.०१६ अवदत्पुत्र सिद्धार्थो गच्छ राम यथासुखम्
२.०२२.०१७ अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्
२.०२२.०१७ पश्यामि त्वां सुखं वत्स सुस्थितं राजवेश्मनि
२.०२२.०१८ मयार्चिता देवगणाः शिवादयो॑ महर्षयो भूतमहासुरोरगाः
२.०२२.०१८ अभिप्रयातस्य वनं चिराय ते॑ हितानि काङ्क्षन्तु दिशश्च राघव
२.०२२.०१९ इतीव चाश्रुप्रतिपूर्णलोचना॑ समाप्य च स्वस्त्ययनं यथाविधि
२.०२२.०१९ प्रदक्षिणं चैव चकार राघवं॑ पुनः पुनश्चापि निपीड्य सस्वजे
२.०२२.०२० तथा तु देव्या स कृतप्रदक्षिणो॑ निपीड्य मातुश्चरणौ पुनः पुनः
२.०२२.०२० जगाम सीतानिलयं महायशाः॑ स राघवः प्रज्वलितः स्वया श्रिया
२.०२३.००१ अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम्
२.०२३.००१ कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः
२.०२३.००२ विराजयन् राजसुतो राजमार्गं नरैर्वृतम्
२.०२३.००२ हृदयान्याममन्थेव जनस्य गुणवत्तया
२.०२३.००३ वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी
२.०२३.००३ तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्
२.०२३.००४ देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना
२.०२३.००४ अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते
२.०२३.००५ प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्
२.०२३.००५ प्रहृष्टजनसंपूर्णं ह्रिया किं चिदवाङ्मुखः
२.०२३.००६ अथ सीता समुत्पत्य वेपमाना च तं पतिम्
२.०२३.००६ अपश्यच्छोकसंतप्तं चिन्ताव्याकुलिलेन्द्रियम्
२.०२३.००७ विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्
२.०२३.००७ आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो
२.०२३.००८ अद्य बार्हस्पतः श्रीमान् युक्तः पुष्यो न राघव
२.०२३.००८ प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः
२.०२३.००९ न ते शतशलाकेन जलफेननिभेन च
२.०२३.००९ आवृतं वदनं वल्गु छत्रेणाभिविराजते
२.०२३.०१० व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्
२.०२३.०१० चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्
२.०२३.०११ वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ
२.०२३.०११ स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः
२.०२३.०१२ न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः
२.०२३.०१२ मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः
२.०२३.०१३ न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः
२.०२३.०१३ अनुव्रजितुमिच्छन्ति पौरजापपदास्तथा
२.०२३.०१४ चतुर्भिर्वेगसंपन्नैर्हयैः काञ्चनभूषणैः
२.०२३.०१४ मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः
२.०२३.०१५ न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः
२.०२३.०१५ प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः
२.०२३.०१६ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन
२.०२३.०१६ भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम्
२.०२३.०१७ अभिषेको यदा सज्जः किमिदानीमिदं तव
२.०२३.०१७ अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते
२.०२३.०१८ इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः
२.०२३.०१८ सीते तत्रभवांस्तात प्रव्राजयति मां वनम्
२.०२३.०१९ कुले महति संभूते धर्मज्ञे धर्मचारिणि
२.०२३.०१९ शृणु जानकि येनेदं क्रमेणाभ्यागतं मम
२.०२३.०२० राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे
२.०२३.०२० कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ
२.०२३.०२१ तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते
२.०२३.०२१ प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः
२.०२३.०२२ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया
२.०२३.०२२ पित्रा मे भरतश्चापि यौवराज्ये नियोजितः
२.०२३.०२२ सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्
२.०२३.०२३ भरतस्य समीपे ते नाहं कथ्यः कदा चन
२.०२३.०२३ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्
२.०२३.०२३ तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम
२.०२३.०२४ नापि त्वं तेन भर्तव्या विशेषेण कदा चन
२.०२३.०२४ अनुकूलतया शक्यं समीपे तस्य वर्तितुम्
२.०२३.०२५ अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्
२.०२३.०२५ वनमद्यैव यास्यामि स्थिरा भव मनस्विनि
२.०२३.०२६ याते च मयि कल्याणि वनं मुनिनिषेवितम्
२.०२३.०२६ व्रतोपवासरतया भवितव्यं त्वयानघे
२.०२३.०२७ काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि
२.०२३.०२७ वन्दितव्यो दशरथः पिता मम नरेश्वरः
२.०२३.०२८ माता च मम कौसल्या वृद्धा संतापकर्शिता
२.०२३.०२८ धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति
२.०२३.०२९ वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः
२.०२३.०२९ स्नेहप्रणयसंभोगैः समा हि मम मातरः
२.०२३.०३० भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः
२.०२३.०३० त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम
२.०२३.०३१ विप्रियं न च कर्तव्यं भरतस्य कदा चन
२.०२३.०३१ स हि राजा प्रभुश्चैव देशस्य च कुलस्य च
२.०२३.०३२ आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः
२.०२३.०३२ राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये
२.०२३.०३३ औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः
२.०२३.०३३ समर्थान् संप्रगृह्णन्ति जनानपि नराधिपाः
२.०२३.०३४ अहं गमिष्यामि महावनं प्रिये॑ त्वया हि वस्तव्यमिहैव भामिनि
२.०२३.०३४ यथा व्यलीकं कुरुषे न कस्य चित्॑ तथा त्वया कार्यमिदं वचो मम
२.०२४.००१ एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी
२.०२४.००१ प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्
२.०२४.००२ आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा
२.०२४.००२ स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते
२.०२४.००३ भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ
२.०२४.००३ अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि
२.०२४.००४ न पिता नात्मजो नात्मा न माता न सखीजनः
२.०२४.००४ इह प्रेत्य च नारीणां पतिरेको गतिः सदा
२.०२४.००५ यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव
२.०२४.००५ अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्
२.०२४.००६ ईर्ष्या रोषौ बहिष्कृत्य भुक्तशेषमिवोदकम्
२.०२४.००६ नय मां वीर विश्रब्धः पापं मयि न विद्यते
२.०२४.००७ प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा
२.०२४.००७ सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते
२.०२४.००८ अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्
२.०२४.००८ नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया
२.०२४.००९ सुखं वने निवत्स्यामि यथैव भवने पितुः
२.०२४.००९ अचिन्तयन्ती त्रींल्लोकांश्चिन्तयन्ती पतिव्रतम्
२.०२४.०१० शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी
२.०२४.०१० सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु
२.०२४.०११ त्वं हि कर्तुं वने शक्तो राम संपरिपालनम्
२.०२४.०११ अन्यस्य पै जनस्येह किं पुनर्मम मानद
२.०२४.०१२ फलमूलाशना नित्यं भविष्यामि न संशयः
२.०२४.०१२ न ते दुःखं करिष्यामि निवसन्ती सह त्वया
२.०२४.०१३ इच्छामि सरितः शैलान् पल्वलानि वनानि च
२.०२४.०१३ द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता
२.०२४.०१४ हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः
२.०२४.०१४ इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता
२.०२४.०१५ सह त्वया विशालाक्ष रंस्ये परमनन्दिनी
२.०२४.०१५ एवं वर्षसहस्राणां शतं वाहं त्वया सह
२.०२४.०१६ स्वर्गेऽपि च विना वासो भविता यदि राघव
२.०२४.०१६ त्वया मम नरव्याघ्र नाहं तमपि रोचये
२.०२४.०१७ अहं गमिष्यामि वनं सुदुर्गमं॑ मृगायुतं वानरवारणैर्युतम्
२.०२४.०१७ वने निवत्स्यामि यथा पितुर्गृहे॑ तवैव पादावुपगृह्य संमता
२.०२४.०१८ अनन्यभावामनुरक्तचेतसं॑ त्वया वियुक्तां मरणाय निश्चिताम्
२.०२४.०१८ नयस्व मां साधु कुरुष्व याचनां॑ न ते मयातो गुरुता भविष्यति
२.०२४.०१९ तथा ब्रुवाणामपि धर्मवत्सलो॑ न च स्म सीतां नृवरो निनीषति
२.०२४.०१९ उवाच चैनां बहु संनिवर्तने॑ वने निवासस्य च दुःखितां प्रति
२.०२५.००१ स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः
२.०२५.००१ निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह
२.०२५.००२ सीते महाकुलीनासि धर्मे च निरता सदा
२.०२५.००२ इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम्
२.०२५.००३ सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले
२.०२५.००३ वने दोषा हि बहवो वदतस्तान्निबोध मे
२.०२५.००४ सीते विमुच्यतामेषा वनवासकृता मतिः
२.०२५.००४ बहुदोषं हि कान्तारं वनमित्यभिधीयते
२.०२५.००५ हितबुद्ध्या खलु वचो मयैतदभिधीयते
२.०२५.००५ सदा सुखं न जानामि दुःखमेव सदा वनम्
२.०२५.००६ गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम्
२.०२५.००६ सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्
२.०२५.००७ सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले
२.०२५.००७ रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम्
२.०२५.००८ उपवासश्च कर्तव्या यथाप्राणेन मैथिलि
२.०२५.००८ जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा
२.०२५.००९ अतीव वातस्तिमिरं बुभुक्षा चात्र नित्यशः
२.०२५.००९ भयानि च महान्त्यत्र ततो दुःखतरं वनम्
२.०२५.०१० सरीसृपाश्च बहवो बहुरूपाश्च भामिनि
२.०२५.०१० चरन्ति पृथिवीं दर्पादतो दुखतरं वनम्
२.०२५.०११ नदीनिलयनाः सर्पा नदीकुटिलगामिनः
२.०२५.०११ तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम्
२.०२५.०१२ पतंगा वृश्चिकाः कीटा दंशाश्च मशकैः सह
२.०२५.०१२ बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्
२.०२५.०१३ द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि
२.०२५.०१३ वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम्
२.०२५.०१४ तदलं ते वनं गत्वा क्षमं न हि वनं तव
२.०२५.०१४ विमृशन्निह पश्यामि बहुदोषतरं वनम्
२.०२५.०१५ वनं तु नेतुं न कृता मतिस्तदा॑ बभूव रामेण यदा महात्मना
२.०२५.०१५ न तस्य सीता वचनं चकार तत्॑ ततोऽब्रवीद्राममिदं सुदुःखिता
२.०२६.००१ एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता
२.०२६.००१ प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्
२.०२६.००२ ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति
२.०२६.००२ गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृतान्
२.०२६.००३ त्वया च सह गन्तव्यं मया गुरुजनाज्ञया
२.०२६.००३ त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्
२.०२६.००४ न च मां त्वत्समीपस्थमपि शक्नोति राघव
२.०२६.००४ सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा
२.०२६.००५ पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्
२.०२६.००५ काममेवंविधं राम त्वया मम विदर्शितम्
२.०२६.००६ अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्
२.०२६.००६ पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने
२.०२६.००७ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे
२.०२६.००७ वनवासकृतोत्साहा नित्यमेव महाबल
२.०२६.००८ आदेशो वनवासस्य प्राप्तव्यः स मया किल
२.०२६.००८ सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा
२.०२६.००९ कृतादेशा भविष्यामि गमिष्यामि सह त्वया
२.०२६.००९ कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः
२.०२६.०१० वनवासे हि जानामि दुःखानि बहुधा किल
२.०२६.०१० प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः
२.०२६.०११ कन्यया च पितुर्गेहे वनवासः श्रुतो मया
२.०२६.०११ भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः
२.०२६.०१२ प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो
२.०२६.०१२ गमनं वनवासस्य काङ्क्षितं हि सह त्वया
२.०२६.०१३ कृतक्षणाहं भद्रं ते गमनं प्रति राघव
२.०२६.०१३ वनवासस्य शूरस्य चर्या हि मम रोचते
२.०२६.०१४ शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा
२.०२६.०१४ भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम्
२.०२६.०१५ प्रेत्यभावेऽपि कल्याणः संगमो मे सह त्वया
२.०२६.०१५ श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्
२.०२६.०१६ इह लोके च पितृभिर्या स्त्री यस्य महामते
२.०२६.०१६ अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा
२.०२६.०१७ एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम्
२.०२६.०१७ नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना
२.०२६.०१८ भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः
२.०२६.०१८ नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्
२.०२६.०१९ यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि
२.०२६.०१९ विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्
२.०२६.०२० एवं बहुविधं तं सा याचते गमनं प्रति
२.०२६.०२० नानुमेने महाबाहुस्तां नेतुं विजनं वनम्
२.०२६.०२१ एवमुक्ता तु सा चिन्तां मैथिली समुपागता
२.०२६.०२१ स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः
२.०२६.०२२ चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान्
२.०२६.०२२ क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्
२.०२७.००१ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा
२.०२७.००१ वनवासनिमित्ताय भर्तारमिदमब्रवीत्
२.०२७.००२ सा तमुत्तमसंविग्ना सीता विपुलवक्षसं
२.०२७.००२ प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्
२.०२७.००३ किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः
२.०२७.००३ राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्
२.०२७.००४ अनृतं बललोकोऽयमज्ञानाद्यद्धि वक्ष्यति
२.०२७.००४ तेजो नास्ति परं रामे तपतीव दिवाकरे
२.०२७.००५ किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते
२.०२७.००५ यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम्
२.०२७.००६ द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्
२.०२७.००६ सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्
२.०२७.००७ न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ
२.०२७.००७ त्वया राघव गच्छेयं यथान्या कुलपांसनी
२.०२७.००८ स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्
२.०२७.००८ शैलूष इव मां राम परेभ्यो दातुमिच्छसि
२.०२७.००९ स मामनादाय वनं न त्वं प्रस्थातुमर्हसि
२.०२७.००९ तपो वा यदि वारण्यं स्वर्गो वा स्यात्सह त्वया
२.०२७.०१० न च मे भविता तत्र कश्चित्पथि परिश्रमः
२.०२७.०१० पृष्ठतस्तव गच्छन्त्या विहारशयनेष्वपि
२.०२७.०११ कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः
२.०२७.०११ तूलाजिनसमस्पर्शा मार्गे मम सह त्वया
२.०२७.०१२ महावात समुद्धूतं यन्मामवकरिष्यति
२.०२७.०१२ रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम्
२.०२७.०१३ शाद्वलेषु यदासिष्ये वनान्ते वनगोरचा
२.०२७.०१३ कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः
२.०२७.०१४ पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु
२.०२७.०१४ दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम्
२.०२७.०१५ न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः
२.०२७.०१५ आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च
२.०२७.०१६ न च तत्र गतः किं चिद्द्रष्टुमर्हसि विप्रियम्
२.०२७.०१६ मत्कृते न च ते शोको न भविष्यामि दुर्भरा
२.०२७.०१७ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना
२.०२७.०१७ इति जानन् परां प्रीतिं गच्छ राम मया सह
२.०२७.०१८ अथ मामेवमव्यग्रां वनं नैव नयिष्यसि
२.०२७.०१८ विषमद्यैव पास्यामि मा विशं द्विषतां वशम्
२.०२७.०१९ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्
२.०२७.०१९ उज्झितायास्त्वया नाथ तदैव मरणं वरम्
२.०२७.०२० इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे
२.०२७.०२० किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता
२.०२७.०२१ इति सा शोकसंतप्ता विलप्य करुणं बहु
२.०२७.०२१ चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्
२.०२७.०२२ सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना
२.०२७.०२२ चिर संनियतं बाष्पं मुमोचाग्निमिवारणिः
२.०२७.०२३ तस्याः स्फटिकसंकाशं वारि संतापसंभवम्
२.०२७.०२३ नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्
२.०२७.०२४ तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्
२.०२७.०२४ उवाच वचनं रामः परिविश्वासयंस्तदा
२.०२७.०२५ न देवि तव दुःखेन स्वर्गमप्यभिरोचये
२.०२७.०२५ न हि मेऽस्ति भयं किं चित्स्वयम्भोरिव सर्वतः
२.०२७.०२६ तव सर्वमभिप्रायमविज्ञाय शुभानने
२.०२७.०२६ वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे
२.०२७.०२७ यत्सृष्टासि मया सार्धं वनवासाय मैथिलि
२.०२७.०२७ न विहातुं मया शक्या कीर्तिरात्मवता यथा
२.०२७.०२८ धर्मस्तु गजनासोरु सद्भिराचरितः पुरा
२.०२७.०२८ तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला
२.०२७.०२९ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता
२.०२७.०२९ अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे
२.०२७.०३० स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः
२.०२७.०३० तथा वर्तितुमिच्छामि स हि धर्मः सनातनः
२.०२७.०३० अनुगच्छस्व मां भीरु सहधर्मचरी भव
२.०२७.०३१ ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्
२.०२७.०३१ देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम्
२.०२७.०३२ अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः
२.०२७.०३२ क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे
२.०२७.०३३ ततः प्रहृष्टा परिपूर्णमानसा॑ यशस्विनी भर्तुरवेक्ष्य भाषितम्
२.०२७.०३३ धनानि रत्नानि च दातुमङ्गना॑ प्रचक्रमे धर्मभृतां मनस्विनी
२.०२८.००१ ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः
२.०२८.००१ स्थितं प्राग्गामिनं वीरं याचमानं कृताञ्जलिम्
२.०२८.००२ मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्
२.०२८.००२ को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्
२.०२८.००३ अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव
२.०२८.००३ स कामपाशपर्यस्तो महातेजा महीपतिः
२.०२८.००४ सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता
२.०२८.००४ दुःखितानां सपत्नीनां न करिष्यति शोभनम्
२.०२८.००५ एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा
२.०२८.००५ प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्
२.०२८.००६ तवैव तेजसा वीर भरतः पूजयिष्यति
२.०२८.००६ कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः
२.०२८.००७ कौसल्या बिभृयादार्या सहस्रमपि मद्विधान्
२.०२८.००७ यस्याः सहस्रं ग्रामाणां संप्राप्तमुपजीवनम्
२.०२८.००८ धनुरादाय सशरं खनित्रपिटकाधरः
२.०२८.००८ अग्रतस्ते गमिष्यामि पन्थानमनुदर्शयन्
२.०२८.००९ आहरिष्यामि ते नित्यं मूलानि च फलानि च
२.०२८.००९ वन्यानि यानि चान्यानि स्वाहाराणि तपस्विनाम्
२.०२८.०१० भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते
२.०२८.०१० अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते
२.०२८.०११ रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्
२.०२८.०११ व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्
२.०२८.०१२ ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्
२.०२८.०१२ जनकस्य महायज्ञे धनुषी रौद्रदर्शने
२.०२८.०१३ अभेद्यकवचे दिव्ये तूणी चाक्षयसायकौ
२.०२८.०१३ आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ
२.०२८.०१४ सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि
२.०२८.०१४ स त्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण
२.०२८.०१५ स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः
२.०२८.०१५ इक्ष्वाकुगुरुमामन्त्र्य जग्राहायुधमुत्तमम्
२.०२८.०१६ तद्दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्
२.०२८.०१६ रामाय दर्शयामास सौमित्रिः सर्वमायुधम्
२.०२८.०१७ तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्
२.०२८.०१७ काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण
२.०२८.०१८ अहं प्रदातुमिच्छामि यदिदं मामकं धनम्
२.०२८.०१८ ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप
२.०२८.०१९ वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः
२.०२८.०१९ तेषामपि च मे भूयः सर्वेषां चोपजीविनाम्
२.०२८.०२० वसिष्ठपुत्रं तु सुयज्ञमार्यं॑ त्वमानयाशु प्रवरं द्विजानाम्
२.०२८.०२० अभिप्रयास्यामि वनं समस्तान्॑ अभ्यर्च्य शिष्टानपरान् द्विजातीन्
२.०२९.००१ ततः शासनमाज्ञाय भ्रातुः शुभतरं प्रियम्
२.०२९.००१ गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्
२.०२९.००२ तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्
२.०२९.००२ सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः
२.०२९.००३ ततः संध्यामुपास्याशु गत्वा सौमित्रिणा सह
२.०२९.००३ जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्
२.०२९.००४ तमागतं वेदविदं प्राञ्जलिः सीतया सह
२.०२९.००४ सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम्
२.०२९.००५ जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः
२.०२९.००५ सहेम सूत्रैर्मणिभिः केयूरैर्वलयैरपि
२.०२९.००६ अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्
२.०२९.००६ सुयज्ञं स तदोवाच रामः सीताप्रचोदितः
२.०२९.००७ हारं च हेमसूत्रं च भार्यायै सौम्य हारय
२.०२९.००७ रशनां चाधुना सीता दातुमिच्छति ते सखे
२.०२९.००८ पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्
२.०२९.००८ तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि
२.०२९.००९ नागः शत्रुं जयो नाम मातुलो यं ददौ मम
२.०२९.००९ तं ते गजसहस्रेण ददामि द्विजपुंगव
२.०२९.०१० इत्युक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत्
२.०२९.०१० रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः
२.०२९.०११ अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदः
२.०२९.०११ सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्
२.०२९.०१२ अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ
२.०२९.०१२ अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः
२.०२९.०१३ कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति
२.०२९.०१३ आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्
२.०२९.०१४ तस्य यानं च दासीश्च सौमित्रे संप्रदापय
२.०२९.०१४ कौशेयानि च वस्त्राणि यावत्तुष्यति स द्विजः
२.०२९.०१५ सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः
२.०२९.०१५ तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा
२.०२९.०१६ शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा
२.०२९.०१६ व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु
२.०२९.०१७ ततः स पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम्
२.०२९.०१७ यथोक्तं ब्राह्मणेन्द्राणामददाद्धनदो यथा
२.०२९.०१८ अथाब्रवीद्बाष्पकलांस्तिष्ठतश्चोपजीविनः
२.०२९.०१८ संप्रदाय बहु द्रव्यमेकैकस्योपजीविनः
२.०२९.०१९ लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम
२.०२९.०१९ अशून्यं कार्यमेकैकं यावदागमनं मम
२.०२९.०२० इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्
२.०२९.०२० उवाचेदं धनध्यक्षं धनमानीयतामिति
२.०२९.०२० ततोऽस्य धनमाजह्रुः सर्वमेवोपजीविनः
२.०२९.०२१ ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः
२.०२९.०२१ द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्योऽभ्यदापयत्
२.०२९.०२२ तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः
२.०२९.०२२ आ पञ्चमायाः कक्ष्याया नैनं कश्चिदवारयत्
२.०२९.०२३ स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत्
२.०२९.०२३ निर्धनो बहुपुत्रोऽस्मि राजपुत्र महायशः
२.०२९.०२३ उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति
२.०२९.०२४ तमुवाच ततो रामः परिहाससमन्वितम्
२.०२९.०२४ गवां सहस्रमप्येकं न तु विश्राणितं मया
२.०२९.०२४ परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसि
२.०२९.०२५ स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम्
२.०२९.०२५ आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः
२.०२९.०२६ उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन्
२.०२९.०२६ मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम
२.०२९.०२७ ततः सभार्यस्त्रिजटो महामुनिर्॑ गवामनीकं प्रतिगृह्य मोदितः
२.०२९.०२७ यशोबलप्रीतिसुखोपबृंहिणीस्॑ तदाशिषः प्रत्यवदन्महात्मनः
२.०३०.००१ दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु
२.०३०.००१ जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ
२.०३०.००२ ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे
२.०३०.००२ मालादामभिरासक्ते सीतया समलंकृते
२.०३०.००३ ततः प्रासादहर्म्याणि विमानशिखराणि च
२.०३०.००३ अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्
२.०३०.००४ न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः
२.०३०.००४ आरुह्य तस्मात्प्रासादान् दीनाः पश्यन्ति राघवम्
२.०३०.००५ पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः
२.०३०.००५ ऊचुर्बहुविधा वाचः शोकोपहतचेतसः
२.०३०.००६ यं यान्तमनुयाति स्म चतुरङ्गबलं महत्
२.०३०.००६ तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः
२.०३०.००७ ऐश्वर्यस्य रसज्ञः सन् कामिनां चैव कामदः
२.०३०.००७ नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात्
२.०३०.००८ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि
२.०३०.००८ तामद्य सीतां पश्यन्ति राजमार्गगता जनाः
२.०३०.००९ अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम्
२.०३०.००९ वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्
२.०३०.०१० अद्य नूनं दशरथः सत्त्वमाविश्य भाषते
२.०३०.०१० न हि राजा प्रियं पुत्रं विवासयितुमर्हति
२.०३०.०११ निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम्
२.०३०.०११ किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्
२.०३०.०१२ आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः
२.०३०.०१२ राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्
२.०३०.०१३ तस्मात्तस्योपघातेन प्रजाः परमपीडिताः
२.०३०.०१३ औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्
२.०३०.०१४ पीडया पीडितं सर्वं जगदस्य जगत्पतेः
२.०३०.०१४ मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः
२.०३०.०१५ ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः
२.०३०.०१५ गच्छन्तमनुगच्छामो येन गच्छति राघवः
२.०३०.०१६ उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च
२.०३०.०१६ एकदुःखसुखा राममनुगच्छाम धार्मिकम्
२.०३०.०१७ समुद्धृतनिधानानि परिध्वस्ताजिराणि च
२.०३०.०१७ उपात्तधनधान्यानि हृतसाराणि सर्वशः
२.०३०.०१८ रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः
२.०३०.०१८ अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्
२.०३०.०१९ वनं नगरमेवास्तु येन गच्छति राघवः
२.०३०.०१९ अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम्
२.०३०.०२० बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः
२.०३०.०२० अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च
२.०३०.०२१ इत्येवं विविधा वाचो नानाजनसमीरिताः
२.०३०.०२१ शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसं
२.०३०.०२२ प्रतीक्षमाणोऽभिजनं तदार्तम्॑ अनार्तरूपः प्रहसन्निवाथ
२.०३०.०२२ जगाम रामः पितरं दिदृक्षुः॑ पितुर्निदेशं विधिवच्चिकीर्षुः
२.०३०.०२३ तत्पूर्वमैक्ष्वाकसुतो महात्मा॑ रामो गमिष्यन् वनमार्तरूपम्
२.०३०.०२३ व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं॑ पितुर्महात्मा प्रतिहारणार्थम्
२.०३०.०२४ पितुर्निदेशेन तु धर्मवत्सलो॑ वनप्रवेशे कृतबुद्धिनिश्चयः
२.०३०.०२४ स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्॑ निवेदयस्वागमनं नृपाय मे
२.०३१.००१ स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियः
२.०३१.००१ प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह
२.०३१.००२ आलोक्य तु महाप्राज्ञः परमाकुल चेतसं
२.०३१.००२ राममेवानुशोचन्तं सूतः प्राञ्जलिरासदत्
२.०३१.००३ अयं स पुरुषव्याघ्र द्वारि तिष्ठति ते सुतः
२.०३१.००३ ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्
२.०३१.००४ स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः
२.०३१.००४ सर्वान् सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते
२.०३१.००५ गमिष्यति महारण्यं तं पश्य जगतीपते
२.०३१.००५ वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः
२.०३१.००६ स सत्यवादी धर्मात्मा गाम्भीर्यात्सागरोपमः
२.०३१.००६ आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्
२.०३१.००७ सुमन्त्रानय मे दारान् ये के चिदिह मामकाः
२.०३१.००७ दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्
२.०३१.००८ सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्
२.०३१.००८ आर्यो ह्वयति वो राजा गम्यतां तत्र माचिरम्
२.०३१.००९ एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया
२.०३१.००९ प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम्
२.०३१.०१० अर्धसप्तशतास्तास्तु प्रमदास्ताम्रलोचनाः
२.०३१.०१० कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः
२.०३१.०११ आगतेषु च दारेषु समवेक्ष्य महीपतिः
२.०३१.०११ उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्
२.०३१.०१२ स सूतो राममादाय लक्ष्मणं मैथिलीं तदा
२.०३१.०१२ जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः
२.०३१.०१३ स राजा पुत्रमायान्तं दृष्ट्वा दूरात्कृताञ्जलिम्
२.०३१.०१३ उत्पपातासनात्तूर्णमार्तः स्त्रीजनसंवृतः
२.०३१.०१४ सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशां पतिः
२.०३१.०१४ तमसंप्राप्य दुःखार्तः पपात भुवि मूर्छितः
२.०३१.०१५ तं रामोऽभ्यपातत्क्षिप्रं लक्ष्मणश्च महारथः
२.०३१.०१५ विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा
२.०३१.०१६ स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि
२.०३१.०१६ हाहा रामेति सहसा भूषणध्वनिमूर्छितः
२.०३१.०१७ तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ
२.०३१.०१७ पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्
२.०३१.०१८ अथ रामो मुहूर्तेन लब्धसंज्ञं महीपतिम्
२.०३१.०१८ उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरिप्लुतम्
२.०३१.०१९ आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः
२.०३१.०१९ प्रस्थितं दण्डकारण्यं पश्य त्
वं कुशलेन माम्
२.०३१.०२० लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम्
२.०३१.०२० कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः
२.०३१.०२१ अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद
२.०३१.०२१ लक्ष्मणं मां च सीतां च प्रजापतिरिव प्रजाः
२.०३१.०२२ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः
२.०३१.०२२ उवाच रर्जा संप्रेक्ष्य वनवासाय राघवम्
२.०३१.०२३ अहं राघव कैकेय्या वरदानेन मोहितः
२.०३१.०२३ अयोध्यायास्त्वमेवाद्य भव राजा निगृह्य माम्
२.०३१.०२४ एवमुक्तो नृपतिना रामो धर्मभृतां वरः
२.०३१.०२४ प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः
२.०३१.०२५ भवान् वर्षसहस्राय पृथिव्या नृपते पतिः
२.०३१.०२५ अहं त्वरण्ये वत्स्यामि न मे कार्यं त्वयानृतम्
२.०३१.०२६ श्रेयसे वृद्धये तात पुनरागमनाय च
२.०३१.०२६ गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्
२.०३१.०२७ अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा
२.०३१.०२७ मातरं मां च संपश्यन् वसेमामद्य शर्वरीम्
२.०३१.०२७ तर्पितः सर्वकामैस्त्वं श्वःकाले साधयिष्यसि
२.०३१.०२८ अथ रामस्तथा श्रुत्वा पितुरार्तस्य भाषितम्
२.०३१.०२८ लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्
२.०३१.०२९ प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति
२.०३१.०२९ अपक्रमणमेवातः सर्वकामैरहं वृणे
२.०३१.०३० इयं सराष्ट्रा सजना धनधान्यसमाकुला
२.०३१.०३० मया विसृष्टा वसुधा भरताय प्रदीयताम्
२.०३१.०३१ अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः
२.०३१.०३१ न हि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः
२.०३१.०३२ नैवाहं राज्यमिच्छामि न सुखं न च मैथिलीम्
२.०३१.०३२ त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ
२.०३१.०३३ पुरं च राष्ट्रं च मही च केवला॑ मया निसृष्टा भरताय दीयताम्
२.०३१.०३३ अहं निदेशं भवतोऽनुपालयन्॑ वनं गमिष्यामि चिराय सेवितुम्
२.०३१.०३४ मया निसृष्टां भरतो महीमिमां॑ सशैलखण्डां सपुरां सकाननाम्
२.०३१.०३४ शिवां सुसीमामनुशास्तु केवलं॑ त्वया यदुक्तं नृपते यथास्तु तत्
२.०३१.०३५ न मे तथा पार्थिव धीयते मनो॑ महत्सु कामेषु न चात्मनः प्रिये
२.०३१.०३५ यथा निदेशे तव शिष्टसंमते॑ व्यपैतु दुःखं तव मत्कृतेऽनघ
२.०३१.०३६ तदद्य नैवानघ राज्यमव्ययं॑ न सर्वकामान्न सुखं न मैथिलीम्
२.०३१.०३६ न जीवितं त्वामनृतेन योजयन्॑ वृणीय सत्यं व्रतमस्तु ते तथा
२.०३१.०३७ फलानि मूलानि च भक्षयन् वने॑ गिरींश्च पश्यन् सरितः सरांसि च
२.०३१.०३७ वनं प्रविश्यैव विचित्रपादपं॑ सुखी भविष्यामि तवास्तु निर्वृतिः
२.०३२.००१ ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया
२.०३२.००१ सबाष्पमतिनिःश्वस्य जगादेदं पुनः पुनः
२.०३२.००२ सूत रत्नसुसंपूर्णा चतुर्विधबला चमूः
२.०३२.००२ रागवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्
२.०३२.००३ रूपाजीवा च शालिन्यो वणिजश्च महाधनाः
२.०३२.००३ शोभयन्तु कुमारस्य वाहिनीं सुप्रसारिताः
२.०३२.००४ ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः
२.०३२.००४ तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय
२.०३२.००५ निघ्नन्मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु
२.०३२.००५ नदीश्च विविधाः पश्यन्न राज्यं संस्मरिष्यति
२.०३२.००६ धान्यकोशश्च यः कश्चिद्धनकोशश्च मामकः
२.०३२.००६ तौ राममनुगच्छेतां वसन्तं निर्जने वने
२.०३२.००७ यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः
२.०३२.००७ ऋषिभिश्च समागम्य प्रवत्स्यति सुखं वने
२.०३२.००८ भरतश्च महाबाहुरयोध्यां पालयिष्यति
२.०३२.००८ सर्वकामैः पुनः श्रीमान् रामः संसाध्यतामिति
२.०३२.००९ एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्
२.०३२.००९ मुखं चाप्यगमाच्छेषं स्वरश्चापि न्यरुध्यत
२.०३२.०१० सा विषण्णा च संत्रस्ता कैकेयी वाक्यमब्रवीत्
२.०३२.०१० राज्यं गतजनं साधो पीतमण्डां सुरामिव
२.०३२.०१० निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते
२.०३२.०११ कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्
२.०३२.०११ राजा दशरथो वाक्यमुवाचायतलोचनाम्
२.०३२.०११ वहन्तं किं तुदसि मां नियुज्य धुरि माहिते
२.०३२.०१२ कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्
२.०३२.०१२ तवैव वंशे सगरो ज्येष्ठं पुत्रमुपारुधत्
२.०३२.०१२ असमञ्ज इति ख्यातं तथायं गन्तुमर्हति
२.०३२.०१३ एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्
२.०३२.०१३ व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत
२.०३२.०१४ तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः
२.०३२.०१४ शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्
२.०३२.०१५ असमञ्जो गृहीत्वा तु क्रीडितः पथि दारकान्
२.०३२.०१५ सरय्वाः प्रक्षिपन्नप्सु रमते तेन दुर्मतिः
२.०३२.०१६ तं दृष्ट्वा नागरः सर्वे क्रुद्धा राजानमब्रुवन्
२.०३२.०१६ असमञ्जं वृषीण्वैकमस्मान् वा राष्ट्रवर्धन
२.०३२.०१७ तानुवाच ततो राजा किंनिमित्तमिदं भयम्
२.०३२.०१७ ताश्चापि राज्ञा संपृष्टा वाक्यं प्रकृतयोऽब्रुवन्
२.०३२.०१८ क्रीडितस्त्वेष नः पुत्रान् बालानुद्भ्रान्तचेतनः
२.०३२.०१८ सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते
२.०३२.०१९ स तासां वचनं श्रुत्वा प्रकृतीनां नराधिप
२.०३२.०१९ तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया
२.०३२.०२० इत्येवमत्यजद्राजा सगरो वै सुधार्मिकः
२.०३२.०२० रामः किमकरोत्पापं येनैवमुपरुध्यते
२.०३२.०२१ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः
२.०३२.०२१ शोकोपहतया वाचा कैकेयीमिदमब्रवीत्
२.०३२.०२२ अनुव्रजिष्याम्यहमद्य रामं॑ राज्यं परित्यज्य सुखं धनं च
२.०३२.०२२ सहैव राज्ञा भरतेन च त्वं॑ यथा सुखं भुङ्क्ष्व चिराय राज्यम्
२.०३३.००१ महामात्रवचः श्रुत्वा रामो दशरथं तदा
२.०३३.००१ अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्
२.०३३.००२ त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः
२.०३३.००२ किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः
२.०३३.००३ यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः
२.०३३.००३ रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्
२.०३३.००४ तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते
२.०३३.००४ सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे
२.०३३.००५ खनित्रपिटके चोभे ममानयत गच्छतः
२.०३३.००५ चतुर्दश वने वासं वर्षाणि वसतो मम
२.०३३.००६ अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्
२.०३३.००६ उवाच परिधत्स्वेति जनौघे निरपत्रपा
२.०३३.००७ स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते
२.०३३.००७ सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह
२.०३३.००८ लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे
२.०३३.००८ तापसाच्छादने चैव जग्राह पितुरग्रतः
२.०३३.००९ अथात्मपरिधानार्थं सीता कौशेयवासिनी
२.०३३.००९ समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव
२.०३३.०१० सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः
२.०३३.०१० गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्
२.०३३.०१० कथं नु चीरं बध्नन्ति मुनयो वनवासिनः
२.०३३.०११ कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना
२.०३३.०११ तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज
२.०३३.०१२ तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः
२.०३३.०१२ चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्
२.०३३.०१३ तस्यां चीरं वसानायां नाथवत्यामनाथवत्
२.०३३.०१३ प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति
२.०३३.०१४ स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्
२.०३३.०१४ कैकेयि कुशचीरेण न सीता गन्तुमर्हति
२.०३३.०१५ ननु पर्याप्तमेतत्ते पापे रामविवासनम्
२.०३३.०१५ किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः
२.०३३.०१६ एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम्
२.०३३.०१६ अवाक्शिरसमासीनमिदं वचनमब्रवीत्
२.०३३.०१७ इयं धार्मिक कौसल्या मम माता यशस्विनी
२.०३३.०१७ वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते
२.०३३.०१८ मया विहीनां वरद प्रपन्नां शोकसागरम्
२.०३३.०१८ अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि
२.०३३.०१९ इमां महेन्द्रोपमजातगर्भिणीं॑ तथा विधातुं जनमीं ममार्हसि
२.०३३.०१९ यथा वनस्थे मयि शोककर्शिता॑ न जीवितं न्यस्य यमक्षयं व्रजेत्
२.०३४.००१ रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्
२.०३४.००१ समीक्ष्य सह भार्याभी राजा विगतचेतनः
२.०३४.००२ नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्
२.०३४.००२ न चैनमभिसंप्रेक्ष्य प्रत्यभाषत दुर्मनाः
२.०३४.००३ स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः
२.०३४.००३ विललाप महाबाहू राममेवानुचिन्तयन्
२.०३४.००४ मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः
२.०३४.००४ प्राणिनो हिंसिता वापि तस्मादिदमुपस्थितम्
२.०३४.००५ न त्वेवानागते काले देहाच्च्यवति जीवितम्
२.०३४.००५ कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते
२.०३४.००६ योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्
२.०३४.००६ विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्
२.०३४.००७ एकस्याः खलु कैकेय्याः कृतेऽयं क्लिश्यते जनः
२.०३४.००७ स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्
२.०३४.००८ एवमुक्त्वा तु वचनं बाष्पेण पिहितेक्ष्णह
२.०३४.००८ रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक ह
२.०३४.००९ संज्ञां तु प्रतिलभ्यैव मुहूर्तात्स महीपतिः
२.०३४.००९ नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्
२.०३४.०१० औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः
२.०३४.०१० प्रापयैनं महाभागमितो जनपदात्परम्
२.०३४.०११ एवं मन्ये गुणवतां गुणानां फलमुच्यते
२.०३४.०११ पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्
२.०३४.०१२ राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः
२.०३४.०१२ योजयित्वाययौ तत्र रथमश्वैरलंकृतम्
२.०३४.०१३ तं रथं राजपुत्राय सूतः कनकभूषितम्
२.०३४.०१३ आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः
२.०३४.०१४ राजा सत्वरमाहूय व्यापृतं वित्तसंचये
२.०३४.०१४ उवाच देशकालज्ञो निश्चितं सर्वतः शुचि
२.०३४.०१५ वासांसि च महार्हाणि भूषणानि वराणि च
२.०३४.०१५ वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय
२.०३४.०१६ नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः
२.०३४.०१६ प्रायच्छत्सर्वमाहृत्य सीतायै क्षिप्रमेव तत्
२.०३४.०१७ सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्
२.०३४.०१७ भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः
२.०३४.०१८ व्यराजयत वैदेही वेश्म तत्सुविभूषिता
२.०३४.०१८ उद्यतोऽंशुमतः काले खं प्रभेव विवस्वतः
२.०३४.०१९ तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्
२.०३४.०१९ अनाचरन्तीं कृपणं मूध्न्युपाघ्राय मैथिलीम्
२.०३४.०२० असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः
२.०३४.०२० भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः
२.०३४.०२१ स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो मम
२.०३४.०२१ तव दैवतमस्त्वेष निर्धनः सधनोऽपि वा
२.०३४.०२२ विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्
२.०३४.०२२ कृताञ्जलिरुवाचेदं श्वश्रूमभिमुखे स्थिता
२.०३४.०२३ करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्
२.०३४.०२३ अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे
२.०३४.०२४ न मामसज्जनेनार्या समानयितुमर्हति
२.०३४.०२४ धर्माद्विचलितुं नाहमलं चन्द्रादिव प्रभा
२.०३४.०२५ नातन्त्री वाद्यते वीणा नाचक्रो वर्तते रथः
२.०३४.०२५ नापतिः सुखमेधते या स्यादपि शतात्मजा
२.०३४.०२६ मितं ददाति हि पिता मितं माता मितं सुतः
२.०३४.०२६ अमितस्य हि दातारं भर्तारं का न पूजयेत्
२.०३४.०२७ साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा
२.०३४.०२७ आर्ये किमवमन्येयं स्त्रीणां भर्ता हि दैवतम्
२.०३४.०२८ सीताया वचनं श्रुत्वा कौसल्या हृदयंगमम्
२.०३४.०२८ शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्
२.०३४.०२९ तां प्राञ्जलिरभिक्रम्य मातृमध्येऽतिसत्कृताम्
२.०३४.०२९ रामः परमधर्मज्ञो मातरं वाक्यमब्रवीत्
२.०३४.०३० अम्ब मा दुःखिता भूस्त्वं पश्य त्वं पितरं मम
२.०३४.०३० क्षयो हि वनवासस्य क्षिप्रमेव भविष्यति
२.०३४.०३१ सुप्तायास्ते गमिष्यन्ति नववर्षाणि पञ्च च
२.०३४.०३१ सा समग्रमिह प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्
२.०३४.०३२ एतावदभिनीतार्थमुक्त्वा स जननीं वचः
२.०३४.०३२ त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः
२.०३४.०३३ ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः
२.०३४.०३३ धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः
२.०३४.०३४ संवासात्परुषं किं चिदज्ञानाद्वापि यत्कृतम्
२.०३४.०३४ तन्मे समनुजानीत सर्वाश्चामन्त्रयामि वः
२.०३४.०३५ जज्ञेऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः
२.०३४.०३५ मानवेन्द्रस्य भार्याणामेवं वदति राघवे
२.०३४.०३६ मुरजपणवमेघघोषवद्॑ दशरथवेश्म बभूव यत्पुरा
२.०३४.०३६ विलपित परिदेवनाकुलं॑ व्यसनगतं तदभूत्सुदुःखितम्
२.०३५.००१ अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः
२.०३५.००१ उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्
२.०३५.००२ तं चापि समनुज्ञाप्य धर्मज्ञः सीतया सह
२.०३५.००२ राघवः शोकसंमूढो जननीमभ्यवादयत्
२.०३५.००३ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्
२.०३५.००३ अथ मातुः सुमित्राया जग्राह चरणौ पुनः
२.०३५.००४ तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्
२.०३५.००४ हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्
२.०३५.००५ सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने
२.०३५.००५ रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति
२.०३५.००६ व्यसनी वा समृद्धो वा गतिरेष तवानघ
२.०३५.००६ एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्
२.०३५.००७ इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्
२.०३५.००७ दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च
२.०३५.००८ रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्
२.०३५.००८ अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्
२.०३५.००९ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्
२.०३५.००९ विनीतो विनयज्ञश्च मातलिर्वासवं यथा
२.०३५.०१० रथमारोह भद्रं ते राजपुत्र महायशः
२.०३५.०१० क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसि
२.०३५.०११ चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया
२.०३५.०११ तान्युपक्रमितव्यानि यानि देव्यासि चोदितः
२.०३५.०१२ तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा
२.०३५.०१२ आरुरोह वरारोहा कृत्वालंकारमात्मनः
२.०३५.०१३ तथैवायुधजातानि भ्रातृभ्यां कवचानि च
२.०३५.०१३ रथोपस्थे प्रतिन्यस्य सचर्मकठिनं च तत्
२.०३५.०१४ सीतातृतीयानारूढान् दृष्ट्वा धृष्टमचोदयत्
२.०३५.०१४ सुमन्त्रः संमतानश्वान् वायुवेगसमाञ्जवे
२.०३५.०१५ प्रयाते तु महारण्यं चिररात्राय राघवे
२.०३५.०१५ बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च
२.०३५.०१६ तत्समाकुलसंभ्रान्तं मत्तसंकुपित द्विपम्
२.०३५.०१६ हयशिञ्जितनिर्घोषं पुरमासीन्महास्वनम्
२.०३५.०१७ ततः सबालवृद्धा सा पुरी परमपीडिता
२.०३५.०१७ राममेवाभिदुद्राव घर्मार्तः सलिलं यथा
२.०३५.०१८ पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः
२.०३५.०१८ बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशदुःखिताः
२.०३५.०१९ संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः
२.०३५.०१९ मुखं द्रक्ष्यामि रामस्य दुर्दर्शं नो भविष्यति
२.०३५.०२० आयसं हृदयं नूनं राममातुरसंशयम्
२.०३५.०२० यद्देवगर्भप्रतिमे वनं याति न भिद्यते
२.०३५.०२१ कृतकृत्या हि वैदेही छायेवानुगता पतिम्
२.०३५.०२१ न जहाति रता धर्मे मेरुमर्कप्रभा यथा
२.०३५.०२२ अहो लक्ष्मण सिद्धार्थः सततां प्रियवादिनम्
२.०३५.०२२ भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि
२.०३५.०२३ महत्येषा हि ते सिद्धिरेष चाभ्युदयो महान्
२.०३५.०२३ एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि
२.०३५.०२३ एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्
२.०३५.०२४ अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः
२.०३५.०२४ निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्
२.०३५.०२५ शुश्रुवे चाग्रतः स्त्रीणां रुदन्तीनां महास्वनः
२.०३५.०२५ यथा नादः करेणूनां बद्धे महति कुञ्जरे
२.०३५.०२६ पिता च राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ
२.०३५.०२६ परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा
२.०३५.०२७ ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः
२.०३५.०२७ नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्
२.०३५.०२८ हा रामेति जनाः के चिद्राममातेति चापरे
२.०३५.०२८ अन्तःपुरं समृद्धं च क्रोशन्तं पर्यदेवयन्
२.०३५.०२९ अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसं
२.०३५.०२९ राजानं मातरं चैव ददर्शानुगतौ पथि
२.०३५.०२९ धर्मपाशेन संक्षिप्तः प्रकाशं नाभ्युदैक्षत
२.०३५.०३० पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ
२.०३५.०३० दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्
२.०३५.०३१ न हि तत्पुरुषव्याघ्रो दुःखदं दर्शनं पितुः
२.०३५.०३१ मातुश्च सहितुं शक्तस्तोत्रार्दित इव द्विपः
२.०३५.०३२ तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्
२.०३५.०३२ क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च
२.०३५.०३२ असकृत्प्रैक्षत तदा नृत्यन्तीमिव मातरम्
२.०३५.०३३ तिष्ठेति राजा चुक्रोष याहि याहीति राघवः
२.०३५.०३३ सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा
२.०३५.०३४ नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि
२.०३५.०३४ चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्
२.०३५.०३५ रामस्य स वचः कुर्वन्ननुज्ञाप्य च तं जनम्
२.०३५.०३५ व्रजतोऽपि हयाञ्शीघ्रं चोदयामास सारथिः
२.०३५.०३६ न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्
२.०३५.०३६ मनसाप्यश्रुवेगैश्च न न्यवर्तत मानुषम्
२.०३५.०३७ यमिच्छेत्पुनरायान्तं नैनं दूरमनुव्रजेत्
२.०३५.०३७ इत्यमात्या महाराजमूचुर्दशरथं वचः
२.०३५.०३८ तेषां वचः सर्वगुणोपपन्नं॑ प्रस्विन्नगात्रः प्रविषण्णरूपः
२.०३५.०३८ निशम्य राजा कृपणः सभार्यो॑ व्यवस्थितस्तं सुतमीक्षमाणः
२.०३६.००१ तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ
२.०३६.००१ आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्
२.०३६.००२ अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः
२.०३६.००२ यो गतिं शरणं चासीत्स नाथः क्व नु गच्छति
२.०३६.००३ न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्
२.०३६.००३ क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति
२.०३६.००४ कौसल्यायां महातेजा यथा मातरि वर्तते
२.०३६.००४ तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति
२.०३६.००५ कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्
२.०३६.००५ परित्राता जनस्यास्य जगतः क्व नु गच्छति
२.०३६.००६ अहो निश्चेतनो राजा जीवलोकस्य संप्रियम्
२.०३६.००६ धर्म्यं सत्यव्रतं रामं वनवासो प्रवत्स्यति
२.०३६.००७ इति सर्वा महिष्यस्ता विवत्सा इव धेनवः
२.०३६.००७ रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः
२.०३६.००८ स तमन्तःपुरे घोरमार्तशब्दं महीपतिः
२.०३६.००८ पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः
२.०३६.००९ नाग्निहोत्राण्यहूयन्त सूर्यश्चान्तरधीयत
२.०३६.००९ व्यसृजन् कवलान्नागा गावो वत्सान्न पाययन्
२.०३६.०१० त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि
२.०३६.०१० दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः
२.०३६.०११ नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः
२.०३६.०११ विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे
२.०३६.०१२ अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्
२.०३६.०१२ आहारे वा विहारे वा न कश्चिदकरोन्मनः
२.०३६.०१३ बाष्पपर्याकुलमुखो राजमार्गगतो जनः
२.०३६.०१३ न हृष्टो लक्ष्यते कश्चित्सर्वः शोकपरायणः
२.०३६.०१४ न वाति पवनः शीतो न शशी सौम्यदर्शनः
२.०३६.०१४ न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्
२.०३६.०१५ अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा
२.०३६.०१५ सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्
२.०३६.०१६ ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः
२.०३६.०१६ शोकभारेण चाक्रान्ताः शयनं न जुहुस्तदा
२.०३६.०१७ ततस्त्वयोध्या रहिता महात्मना॑ पुरंदरेणेव मही सपर्वता
२.०३६.०१७ चचाल घोरं भयभारपीडिता॑ सनागयोधाश्वगणा ननाद च
२.०३७.००१ यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत
२.०३७.००१ नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी
२.०३७.००२ यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्
२.०३७.००२ तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने
२.०३७.००३ न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः
२.०३७.००३ तदार्तश्च विषण्णश्च पपात धरणीतले
२.०३७.००४ तस्य दक्षिणमन्वगात्कौसल्या बाहुमङ्गना
२.०३७.००४ वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया
२.०३७.००५ तां नयेन च संपन्नो धर्मेण निवयेन च
२.०३७.००५ उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः
२.०३७.००६ कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी
२.०३७.००६ न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी
२.०३७.००७ ये च त्वामुपजीवन्ति नाहं तेषां न ते मम
२.०३७.००७ केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्
२.०३७.००८ अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्
२.०३७.००८ अनुजानामि तत्सर्वमस्मिंल्लोके परत्र च
२.०३७.००९ भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम्
२.०३७.००९ यन्मे स दद्यात्पित्रर्थं मा मा तद्दत्तमागमत्
२.०३७.०१० अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम्
२.०३७.०१० न्यवर्तत तदा देवी कौसल्या शोककर्शिता
२.०३७.०११ हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिना
२.०३७.०११ अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसं
२.०३७.०१२ निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु
२.०३७.०१२ राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा
२.०३७.०१३ विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन्
२.०३७.०१३ नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत्
२.०३७.०१४ वाहनानां च मुख्यानां वहतां तं ममात्मजम्
२.०३७.०१४ पदानि पथि दृश्यन्ते स महात्मा न दृश्यते
२.०३७.०१५ स नूनं क्व चिदेवाद्य वृक्षमूलमुपाश्रितः
२.०३७.०१५ काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते
२.०३७.०१६ उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः
२.०३७.०१६ विनिःश्वसन् प्रस्रवणात्करेणूनामिवर्षभः
२.०३७.०१७ द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः
२.०३७.०१७ राममुत्थाय गच्छन्तं लोकनाथमनाथवत्
२.०३७.०१८ सकामा भव कैकेयि विधवा राज्यमावस
२.०३७.०१८ न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे
२.०३७.०१९ इत्येवं विलपन् राजा जनौघेनाभिसंवृतः
२.०३७.०१९ अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्
२.०३७.०२० शून्यचत्वरवेश्मान्तां संवृतापणदेवताम्
२.०३७.०२० क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्
२.०३७.०२१ तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्
२.०३७.०२१ विलपन् प्राविशद्राजा गृहं सूर्य इवाम्बुदम्
२.०३७.०२२ महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्
२.०३७.०२२ रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च
२.०३७.०२३ कौसल्याया गृहं शीघ्रं राम मातुर्नयन्तु माम्
२.०३७.०२३ इति ब्रुवन्तं राजानमनयन् द्वारदर्शितः
२.०३७.०२४ ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्
२.०३७.०२४ अधिरुह्यापि शयनं बभूव लुलितं मनः
२.०३७.०२५ तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्
२.०३७.०२५ उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम्
२.०३७.०२६ सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः
२.०३७.०२६ परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्
२.०३७.०२७ न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश
२.०३७.०२७ रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते
२.०३७.०२८ तं राममेवानुविचिन्तयन्तं॑ समीक्ष्य देवी शयने नरेन्द्रम्
२.०३७.०२८ उपोपविश्याधिकमार्तरूपा॑ विनिःश्वसन्ती विललाप कृच्छ्रं
२.०३८.००१ ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्
२.०३८.००१ कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्
२.०३८.००२ राघवो नरशार्दूल विषमुप्त्वा द्विजिह्ववत्
२.०३८.००२ विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी
२.०३८.००३ विवास्य रामं सुभगा लब्धकामा समाहिता
२.०३८.००३ त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि
२.०३८.००४ अथ स्म नगरे रामश्चरन् भैक्षं गृहे वसेत्
२.०३८.००४ कामकारो वरं दातुमपि दासं ममात्मजम्
२.०३८.००५ पातयित्वा तु कैकेय्या रामं स्थानाद्यथेष्टतः
२.०३८.००५ प्रदिष्टो रक्षसां भागः पर्वणीवाहिताग्निना
२.०३८.००६ गजराजगतिर्वीरो महाबाहुर्धनुर्धरः
२.०३८.००६ वनमाविशते नूनं सभार्यः सहलक्ष्मणः
२.०३८.००७ वने त्वदृष्टदुःखानां कैकेय्यानुमते त्वया
२.०३८.००७ त्यक्तानां वनवासाय का न्ववस्था भविष्यति
२.०३८.००८ ते रत्नहीनास्तरुणाः फलकाले विवासिताः
२.०३८.००८ कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः
२.०३८.००९ अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः
२.०३८.००९ सभार्यं यत्सह भ्रात्रा पश्येयमिह राघवम्
२.०३८.०१० श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति
२.०३८.०१० यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी
२.०३८.०११ कदा प्रेक्ष्य नरव्याघ्रावरण्यात्पुनरागतौ
२.०३८.०११ नन्दिष्यति पुरी हृष्टा समुद्र इव पर्वणि
२.०३८.०१२ कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति
२.०३८.०१२ पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव
२.०३८.०१३ कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ
२.०३८.०१३ लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ
२.०३८.०१४ कदा सुमनसः कन्या द्विजातीनां फलानि च
२.०३८.०१४ प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्
२.०३८.०१५ कदा परिणतो बुद्ध्या वयसा चामरप्रभः
२.०३८.०१५ अभ्युपैष्यति धर्मज्ञस्त्रिवर्ष इव मां ललन्
२.०३८.०१६ निःसंशयं मया मन्ये पुरा वीर कदर्यया
२.०३८.०१६ पातु कामेषु वत्सेषु मातॄणां शातिताः स्तनाः
२.०३८.०१७ साहं गौरिव सिंहेन विवत्सा वत्सला कृता
२.०३८.०१७ कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्
२.०३८.०१८ न हि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्
२.०३८.०१८ एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे
२.०३८.०१९ न हि मे जीविते किं चित्सामर्थमिह कल्प्यते
२.०३८.०१९ अपश्यन्त्याः प्रियं पुत्रं महाबाहुं महाबलम्
२.०३८.०२० अयं हि मां दीपयते समुत्थितस्॑ तनूजशोकप्रभवो हुताशनः
२.०३८.०२० महीमिमां रश्मिभिरुत्तमप्रभो॑ यथा निदाघे भगवान् दिवाकरः
२.०३९.००१ विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्
२.०३९.००१ इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्
२.०३९.००२ तवार्ये सद्गुणैर्युक्तः पुत्रः स पुरुषोत्तमः
२.०३९.००२ किं ते विलपितेनैवं कृपणं रुदितेन वा
२.०३९.००३ यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः
२.०३९.००३ साधु कुर्वन्महात्मानं पितरं सत्यवादिनाम्
२.०३९.००४ शिष्टैराचरिते सम्यक्शश्वत्प्रेत्य फलोदये
२.०३९.००४ रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदा चन
२.०३९.००५ वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः
२.०३९.००५ दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः
२.०३९.००६ अरण्यवासे यद्दुःखं जानती वै सुखोचिता
२.०३९.००६ अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्
२.०३९.००७ कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः
२.०३९.००७ दमसत्यव्रतपरः किं न प्राप्तस्तवात्मजः
२.०३९.००८ व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्
२.०३९.००८ न गात्रमंशुभिः सूर्यः संतापयितुमर्हति
२.०३९.००९ शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः
२.०३९.००९ राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः
२.०३९.०१० शयानमनघं रात्रौ पितेवाभिपरिष्वजन्
२.०३९.०१० रश्मिभिः संस्पृशञ्शीतैश्चन्द्रमा ह्लादयिष्यति
२.०३९.०११ ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे
२.०३९.०११ दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे
२.०३९.०१२ पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः
२.०३९.०१२ क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते
२.०३९.०१३ दुःखजं विसृजन्त्यस्रं निष्क्रामन्तमुदीक्ष्य यम्
२.०३९.०१३ समुत्स्रक्ष्यसि नेत्राभ्यां क्षिप्रमानन्दजं पयः
२.०३९.०१४ अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्
२.०३९.०१४ मुदाश्रु मोक्ष्यसे क्षिप्रं मेघलेकेव वार्षिकी
२.०३९.०१५ पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः
२.०३९.०१५ कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति
२.०३९.०१६ निशम्य तल्लक्ष्मणमातृवाक्यं॑ रामस्य मातुर्नरदेवपत्न्याः
२.०३९.०१६ सद्यः शरीरे विननाश शोकः॑ शरद्गतो मेघ इवाल्पतोयः
२.०४०.००१ अनुरक्ता महात्मानं रामं सत्यपरक्रमम्
२.०४०.००१ अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः
२.०४०.००२ निवर्तितेऽपि च बलात्सुहृद्वर्गे च राजिनि
२.०४०.००२ नैव ते संन्यवर्तन्त रामस्यानुगता रथम्
२.०४०.००३ अयोध्यानिलयानां हि पुरुषाणां महायशाः
२.०४०.००३ बभूव गुणसंपन्नः पूर्णचन्द्र इव प्रियः
२.०४०.००४ स याच्यमानः काकुत्स्थः स्वाभिः प्रकृतिभिस्तदा
२.०४०.००४ कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत
२.०४०.००५ अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव
२.०४०.००५ उवाच रामः स्नेहेन ताः प्रजाः स्वाः प्रजा इव
२.०४०.००६ या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्
२.०४०.००६ मत्प्रियार्थं विशेषेण भरते सा निवेश्यताम्
२.०४०.००७ स हि कल्याण चारित्रः कैकेय्यानन्दवर्धनः
२.०४०.००७ करिष्यति यथावद्वः प्रियाणि च हितानि च
२.०४०.००८ ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः
२.०४०.००८ अनुरूपः स वो भर्ता भविष्यति भयापहः
२.०४०.००९ स हि राजगुणैर्युक्तो युवराजः समीक्षितः
२.०४०.००९ अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्
२.०४०.०१० न च तप्येद्यथा चासौ वनवासं गते मयि
२.०४०.०१० महाराजस्तथा कार्यो मम प्रियचिकीर्षया
२.०४०.०११ यथा यथा दाशरथिर्धर्ममेवास्थितोऽभवत्
२.०४०.०११ तथा तथा प्रकृतयो रामं पतिमकामयन्
२.०४०.०१२ बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह
२.०४०.०१२ चकर्षेव गुणैर्बद्ध्वा जनं पुनरिवासनम्
२.०४०.०१३ ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा
२.०४०.०१३ वयःप्रकम्पशिरसो दूरादूचुरिदं वचः
२.०४०.०१४ वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः
२.०४०.०१४ निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि
२.०४०.०१४ उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद्वनम्
२.०४०.०१५ एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्
२.०४०.०१५ अवेक्ष्य सहसा रामो रथादवततार ह
२.०४०.०१६ पद्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः
२.०४०.०१६ संनिकृष्टपदन्यासो रामो वनपरायणः
२.०४०.०१७ द्विजातींस्तु पदातींस्तान् रामश्चारित्रवत्सलः
२.०४०.०१७ न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः
२.०४०.०१८ गच्छन्तमेव तं दृष्ट्वा रामं संभ्रान्तमानसाः
२.०४०.०१८ ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः
२.०४०.०१९ ब्राह्मण्यं कृत्स्नमेतत्त्वां ब्रह्मण्यमनुगच्छति
२.०४०.०१९ द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्यमी
२.०४०.०२० वाजपेयसमुत्थानि छत्राण्येतानि पश्य नः
२.०४०.०२० पृष्ठतोऽनुप्रयातानि हंसानिव जलात्यये
२.०४०.०२१ अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते
२.०४०.०२१ एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयिकैः
२.०४०.०२२ या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी
२.०४०.०२२ त्वत्कृते सा कृता वत्स वनवासानुसारिणी
२.०४०.०२३ हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्
२.०४०.०२३ वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः
२.०४०.०२४ न पुनर्निश्चयः कार्यस्त्वद्गतौ सुकृता मतिः
२.०४०.०२४ त्वयि धर्मव्यपेक्षे तु किं स्याद्धर्ममवेक्षितुम्
२.०४०.०२५ याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः
२.०४०.०२५ शिरोभिर्निभृताचार महीपतनपांशुलैः
२.०४०.०२६ बहूनां वितता यज्ञा द्विजानां य इहागताः
२.०४०.०२६ तेषां समाप्तिरायत्ता तव वत्स निवर्तने
२.०४०.०२७ भक्तिमन्ति हि भूतानि जंगमाजंगमानि च
२.०४०.०२७ याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय
२.०४०.०२८ अनुगंतुमशक्तास्त्वां मूलैरुद्धृतवेगिभिः
२.०४०.०२८ उन्नता वायुवेगेन विक्रोशन्तीव पादपाः
२.०४०.०२९ निश्चेष्टाहारसंचारा वृक्षैकस्थानविष्ठिताः
२.०४०.०२९ पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्
२.०४०.०३० एवं विक्रोशतां तेषां द्विजातीनां निवर्तने
२.०४०.०३० ददृशे तमसा तत्र वारयन्तीव राघवम्
२.०४१.००१ ततस्तु तमसा तीरं रम्यमाश्रित्य राघवः
२.०४१.००१ सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्
२.०४१.००२ इयमद्य निशा पूर्वा सौमित्रे प्रस्थिता वनम्
२.०४१.००२ वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि
२.०४१.००३ पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः
२.०४१.००३ यथानिलयमायद्भिर्निलीनानि मृगद्विजैः
२.०४१.००४ अद्यायोध्या तु नगरी राजधानी पितुर्मम
२.०४१.००४ सस्त्रीपुंसा गतानस्माञ्शोचिष्यति न संशयः
२.०४१.००५ भरतः खलु धर्मात्मा पितरं मातरं च मे
२.०४१.००५ धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति
२.०४१.००६ भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः
२.०४१.००६ नानुशोचामि पितरं मातरं चापि लक्ष्मण
२.०४१.००७ त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्
२.०४१.००७ अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता
२.०४१.००८ अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम्
२.०४१.००८ एतद्धि रोचते मह्यं वन्येऽपि विविधे सति
२.०४१.००९ एवमुक्त्वा तु सौमित्रं सुमन्त्रमपि राघवः
२.०४१.००९ अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह
२.०४१.०१० सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते
२.०४१.०१० प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः
२.०४१.०११ उपास्यतु शिवां संध्यां दृष्ट्वा रात्रिमुपस्थिताम्
२.०४१.०११ रामस्य शयनं चक्रे सूतः सौमित्रिणा सह
२.०४१.०१२ तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैः कृताम्
२.०४१.०१२ रामः सौमित्रिणां सार्धं सभार्यः संविवेश ह
२.०४१.०१३ सभार्यं संप्रसुप्तं तं भ्रातरं वीक्ष्य लक्ष्मणः
२.०४१.०१३ कथयामास सूताय रामस्य विविधान् गुणान्
२.०४१.०१४ जाग्रतो ह्येव तां रात्रिं सौमित्रेरुदितो रविः
२.०४१.०१४ सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्
२.०४१.०१५ गोकुलाकुलतीरायास्तमसाया विदूरतः
२.०४१.०१५ अवसत्तत्र तां रात्रिं रामः प्रकृतिभिः सह
२.०४१.०१६ उत्थाय तु महातेजाः प्रकृतीस्ता निशाम्य च
२.०४१.०१६ अब्रवीद्भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्
२.०४१.०१७ अस्मद्व्यपेक्षान् सौमित्रे निरपेक्षान् गृहेष्वपि
२.०४१.०१७ वृक्षमूलेषु संसुप्तान् पश्य लक्ष्मण साम्प्रतम्
२.०४१.०१८ यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने
२.०४१.०१८ अपि प्राणानसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्
२.०४१.०१९ यावदेव तु संसुप्तास्तावदेव वयं लघु
२.०४१.०१९ रथमारुह्य गच्छामः पन्थानमकुतोभयम्
२.०४१.०२० अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः
२.०४१.०२० स्वपेयुरनुरक्ता मां वृक्षमूलानि संश्रिताः
२.०४१.०२१ पौरा ह्यात्मकृताद्दुःखाद्विप्रमोच्या नृपात्मजैः
२.०४१.०२१ न तु खल्वात्मना योज्या दुःखेन पुरवासिनः
२.०४१.०२२ अब्रवील्लक्ष्मणो रामं साक्षाद्धर्ममिव स्थितम्
२.०४१.०२२ रोचते मे महाप्राज्ञ क्षिप्रमारुह्यतामिति
२.०४१.०२३ सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः
२.०४१.०२३ योजयित्वाथ रामाय प्राञ्जलिः प्रत्यवेदयत्
२.०४१.०२४ मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद्वचः
२.०४१.०२४ उदङ्मुखः प्रयाहि त्वं रथमास्थाय सारथे
२.०४१.०२५ मुहूर्तं त्वरितं गत्वा निर्गतय रथं पुनः
२.०४१.०२५ यथा न विद्युः पौरा मां तथा कुरु समाहितः
२.०४१.०२६ रामस्य वचनं श्रुत्वा तथा चक्रे स सारथिः
२.०४१.०२६ प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्
२.०४१.०२७ तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः
२.०४१.०२७ शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्
२.०४१.०२८ स संतीर्य महाबाहुः श्रीमाञ्शिवमकण्टकम्
२.०४१.०२८ प्रापद्यत महामार्गमभयं भयदर्शिनाम्
२.०४१.०२९ प्रभातायां तु शर्वर्यां पौरास्ते राघवो विना
२.०४१.०२९ शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः
२.०४१.०३० शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः
२.०४१.०३० आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः
२.०४१.०३१ ततो मार्गानुसारेण गत्वा किं चित्क्षणं पुनः
२.०४१.०३१ मार्गनाशाद्विषादेन महता समभिप्लुतः
२.०४१.०३२ रथस्य मार्गनाशेन न्यवर्तन्त मनस्विनः
२.०४१.०३२ किमिदं किं करिष्यामो दैवेनोपहता इति
२.०४१.०३३ ततो यथागतेनैव मार्गेण क्लान्तचेतसः
२.०४१.०३३ अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम्
२.०४२.००१ अनुगम्य निवृत्तानां रामं नगरवासिनाम्
२.०४२.००१ उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम्
२.०४२.००२ स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः
२.०४२.००२ अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः
२.०४२.००३ न चाहृष्यन्न चामोदन् वणिजो न प्रसारयन्
२.०४२.००३ न चाशोभन्त पण्यानि नापचन् गृहमेधिनः
२.०४२.००४ नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम्
२.०४२.००४ पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत
२.०४२.००५ गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम्
२.०४२.००५ व्यगर्हयन्तो दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान्
२.०४२.००६ किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा
२.०४२.००६ पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम्
२.०४२.००७ एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया
२.०४२.००७ योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने
२.०४२.००८ आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च
२.०४२.००८ येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि
२.०४२.००९ शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः
२.०४२.००९ आपगाश्च महानूपाः सानुमन्तश्च पर्वताः
२.०४२.०१० काननं वापि शैलं वा यं रामोऽभिगमिष्यति
२.०४२.०१० प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम्
२.०४२.०११ विचित्रकुसुमापीडा बहुमञ्जरिधारिणः
२.०४२.०११ अकाले चापि मुख्यानि पुष्पाणि च फलानि च
२.०४२.०११ दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम्
२.०४२.०१२ विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान्
२.०४२.०१२ पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम्
२.०४२.०१३ यत्र रामो भयं नात्र नास्ति तत्र पराभवः
२.०४२.०१३ स हि शूरो महाबाहुः पुत्रो दशरथस्य च
२.०४२.०१४ पुरा भवति नो दूरादनुगच्छाम राघवम्
२.०४२.०१४ पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः
२.०४२.०१४ स हि नाथो जनस्यास्य स गतिः स परायणम्
२.०४२.०१५ वयं परिचरिष्यामः सीतां यूयं तु राघवम्
२.०४२.०१५ इति पौरस्त्रियो भर्तॄन् दुःखार्तास्तत्तदब्रुवन्
२.०४२.०१६ युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति
२.०४२.०१६ सीता नारीजनस्यास्य योगक्षेमं करिष्यति
२.०४२.०१७ को न्वनेनाप्रतीतेन सोत्कण्ठितजनेन च
२.०४२.०१७ संप्रीयेतामनोज्ञेन वासेन हृतचेतसा
२.०४२.०१८ कैकेय्या यदि चेद्राज्यं स्यादधर्म्यमनाथवत्
२.०४२.०१८ न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः
२.०४२.०१९ यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात्
२.०४२.०१९ कं सा परिहरेदन्यं कैकेयी कुलपांसनी
२.०४२.०२० कैकेय्या न वयं राज्ये भृतका निवसेमहि
२.०४२.०२० जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे
२.०४२.०२१ या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा
२.०४२.०२१ कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम्
२.०४२.०२२ न हि प्रव्रजिते रामे जीविष्यति महीपतिः
२.०४२.०२२ मृते दशरथे व्यक्तं विलोपस्तदनन्तरम्
२.०४२.०२३ ते विषं पिबतालोड्य क्षीणपुण्याः सुदुर्गताः
२.०४२.०२३ राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत
२.०४२.०२४ मिथ्या प्रव्राजितो रामः सभार्यः सहलक्ष्मणः
२.०४२.०२४ भरते संनिषृष्टाः स्मः सौनिके पशवो यथा
२.०४२.०२५ तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः
२.०४२.०२५ चुक्रुशुर्भृशसंतप्ता मृत्योरिव भयागमे
२.०४२.०२६ तथा स्त्रियो रामनिमित्तमातुरा॑ यथा सुते भ्रातरि वा विवासिते
२.०४२.०२६ विलप्य दीना रुरुदुर्विचेतसः॑ सुतैर्हि तासामधिको हि सोऽभवत्
२.०४३.००१ रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्
२.०४३.००१ जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्
२.०४३.००२ तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा
२.०४३.००२ उपास्य स शिवां संध्यां विषयान्तं व्यगाहत
२.०४३.००३ ग्रामान् विकृष्टसीमांस्तान् पुष्पितानि वनानि च
२.०४३.००३ पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः
२.०४३.००४ शृण्वन् वाचो मनुष्याणां ग्रामसंवासवासिनाम्
२.०४३.००४ राजानं धिग्दशरथं कामस्य वशमागतम्
२.०४३.००५ हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी
२.०४३.००५ तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते
२.०४३.००६ या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्
२.०४३.००६ वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम्
२.०४३.००७ एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्
२.०४३.००७ शृण्वन्नतिययौ वीरः कोसलान् कोसलेश्वरः
२.०४३.००८ ततो वेदश्रुतिं नाम शिववारिवहां नदीम्
२.०४३.००८ उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्
२.०४३.००९ गत्वा तु सुचिरं कालं ततः शीतजलां नदीम्
२.०४३.००९ गोमतीं गोयुतानूपामतरत्सागरंगमाम्
२.०४३.०१० गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः
२.०४३.०१० मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्
२.०४३.०११ स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा
२.०४३.०११ स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्
२.०४३.०१२ सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः
२.०४३.०१२ हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः
२.०४३.०१३ कदाहं पुनरागम्य सरय्वाः पुष्पिते वने
२.०४३.०१३ मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः
२.०४३.०१४ नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने
२.०४३.०१४ रतिर्ह्येषातुला लोके राजर्षिगणसंमता
२.०४३.०१५ स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा
२.०४३.०१५ तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन्
२.०४४.००१ विशालान् कोसलान् रम्यान् यात्वा लक्ष्मणपूर्वजः
२.०४४.००१ आससाद महाबाहुः शृङ्गवेरपुरं प्रति
२.०४४.००२ तत्र त्रिपथगां दिव्यां शिवतोयामशैवलाम्
२.०४४.००२ ददर्श राघवो गङ्गां पुण्यामृषिनिसेविताम्
२.०४४.००३ हंससारससंघुष्टां चक्रवाकोपकूजिताम्
२.०४४.००३ शिंशुमरैश्च नक्रैश्च भुजंगैश्च निषेविताम्
२.०४४.००४ तामूर्मिकलिलावर्तामन्ववेक्ष्य महारथः
२.०४४.००४ सुमन्त्रमब्रवीत्सूतमिहैवाद्य वसामहे
२.०४४.००५ अविदूरादयं नद्या बहुपुष्पप्रवालवान्
२.०४४.००५ सुमहानिङ्गुदीवृक्षो वसामोऽत्रैव सारथे
२.०४४.००६ लक्षणश्च सुमन्त्रश्च बाढमित्येव राघवम्
२.०४४.००६ उक्त्वा तमिङ्गुदीवृक्षं तदोपययतुर्हयैः
२.०४४.००७ रामोऽभियाय तं रम्यं वृक्षमिक्ष्वाकुनन्दनः
२.०४४.००७ रथादवातरत्तस्मात्सभार्यः सहलक्ष्मणः
२.०४४.००८ सुमन्त्रोऽप्यवतीर्यैव मोचयित्वा हयोत्तमान्
२.०४४.००८ वृक्षमूलगतं राममुपतस्थे कृताञ्जलिः
२.०४४.००९ तत्र राजा गुहो नाम रामस्यात्मसमः सखा
२.०४४.००९ निषादजात्यो बलवान् स्थपतिश्चेति विश्रुतः
२.०४४.०१० स श्रुत्वा पुरुषव्याघ्रं रामं विषयमागतम्
२.०४४.०१० वृद्धैः परिवृतोऽमात्यैर्ज्ञातिभिश्चाप्युपागतः
२.०४४.०११ ततो निषादाधिपतिं दृष्ट्वा दूरादवस्थितम्
२.०४४.०११ सह सौमित्रिणा रामः समागच्छद्गुहेन सः
२.०४४.०१२ तमार्तः संपरिष्वज्य गुहो राघवमब्रवीत्
२.०४४.०१२ यथायोध्या तथेदं ते राम किं करवाणि ते
२.०४४.०१३ ततो गुणवदन्नाद्यमुपादाय पृथग्विधम्
२.०४४.०१३ अर्घ्यं चोपानयत्क्षिप्रं वाक्यं चेदमुवाच ह
२.०४४.०१४ स्वागतं ते महाबाहो तवेयमखिला मही
२.०४४.०१४ वयं प्रेष्या भवान् भर्ता साधु राज्यं प्रशाधि नः
२.०४४.०१५ भक्ष्यं भोज्यं च पेयं च लेह्यं चेदमुपस्थितम्
२.०४४.०१५ शयनानि च मुख्यानि वाजिनां खादनं च ते
२.०४४.०१६ गुहमेव ब्रुवाणं तं राघवः प्रत्युवाच ह
२.०४४.०१६ अर्चिताश्चैव हृष्टाश्च भवता सर्वथा वयम्
२.०४४.०१७ पद्भ्यामभिगमाच्चैव स्नेहसंदर्शनेन च
२.०४४.०१७ भुजाभ्यां साधुवृत्ताभ्यां पीडयन् वाक्यमब्रवीत्
२.०४४.०१८ दिष्ट्या त्वां गुह पश्यामि अरोगं सह बान्धवैः
२.०४४.०१८ अपि ते कूशलं राष्ट्रे मित्रेषु च धनेषु च
२.०४४.०१९ यत्त्विदं भवता किं चित्प्रीत्या समुपकल्पितम्
२.०४४.०१९ सर्वं तदनुजानामि न हि वर्ते प्रतिग्रहे
२.०४४.०२० कुशचीराजिनधरं फलमूलाशनं च माम्
२.०४४.०२० विद्धि प्रणिहितं धर्मे तापसं वनगोचरम्
२.०४४.०२१ अश्वानां खादनेनाहमर्थी नान्येन केन चित्
२.०४४.०२१ एतावतात्रभवता भविष्यामि सुपूजितः
२.०४४.०२२ एते हि दयिता राज्ञः पितुर्दशरथस्य मे
२.०४४.०२२ एतैः सुविहितैरश्वैर्भविष्याम्यहमर्चितः
२.०४४.०२३ अश्वानां प्रतिपानं च खादनं चैव सोऽन्वशात्
२.०४४.०२३ गुहस्तत्रैव पुरुषांस्त्वरितं दीयतामिति
२.०४४.०२४ ततश्चीरोत्तरासङ्गः संध्यामन्वास्य पश्चिमाम्
२.०४४.०२४ जलमेवाददे भोज्यं लक्ष्मणेनाहृतं स्वयम्
२.०४४.०२५ तस्य भूमौ शयानस्य पादौ प्रक्षाल्य लक्ष्मणः
२.०४४.०२५ सभार्यस्य ततोऽभ्येत्य तस्थौ वृक्षमुपाश्रितः
२.०४४.०२६ गुहोऽपि सह सूतेन सौमित्रिमनुभाषयन्
२.०४४.०२६ अन्वजाग्रत्ततो राममप्रमत्तो धनुर्धरः
२.०४४.०२७ तथा शयानस्य ततोऽस्य धीमतो॑ यशस्विनो दाशरथेर्महात्मनः
२.०४४.०२७ अदृष्टदुःखस्य सुखोचितस्य सा॑ तदा व्यतीयाय चिरेण शर्वरी
२.०४५.००१ तं जाग्रतमदम्भेन भ्रातुरर्थाय लक्ष्मणम्
२.०४५.००१ गुहः संतापसंतप्तो राघवं वाक्यमब्रवीत्
२.०४५.००२ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता
२.०४५.००२ प्रत्याश्वसिहि साध्वस्यां राजपुत्र यथासुखम्
२.०४५.००३ उचितोऽयं जनः सर्वः क्लेशानां त्वं सुखोचितः
२.०४५.००३ गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्
२.०४५.००४ न हि रामात्प्रियतरो ममास्ति भुवि कश्चन
२.०४५.००४ ब्रवीम्येतदहं सत्यं सत्येनैव च ते शपे
२.०४५.००५ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः
२.०४५.००५ धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम्
२.०४५.००६ सोऽहं प्रियसखं रामं शयानं सह सीतया
२.०४५.००६ रक्षिष्यामि धनुष्पाणिः सर्वतो ज्ञातिभिः सह
२.०४५.००७ न हि मेऽविदितं किं चिद्वनेऽस्मिंश्चरतः सदा
२.०४५.००७ चतुरङ्गं ह्यपि बलं सुमहत्प्रसहेमहि
२.०४५.००८ लक्ष्मणस्तं तदोवाच रक्ष्यमाणास्त्वयानघ
२.०४५.००८ नात्र भीता वयं सर्वे धर्ममेवानुपश्यता
२.०४५.००९ कथं दाशरथौ भूमौ शयाने सह सीतया
२.०४५.००९ शक्या निद्रा मया लब्धुं जीवितं वा सुखानि वा
२.०४५.०१० यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि
२.०४५.०१० तं पश्य सुखसंविष्टं तृणेषु सह सीतया
२.०४५.०११ यो मन्त्र तपसा लब्धो विविधैश्च परिश्रमैः
२.०४५.०११ एको दशरथस्यैष पुत्रः सदृशलक्षणः
२.०४५.०१२ अस्मिन् प्रव्रजितो राजा न चिरं वर्तयिष्यति
२.०४५.०१२ विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति
२.०४५.०१३ विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः
२.०४५.०१३ निर्घोषोपरतं तात मन्ये राजनिवेशनम्
२.०४५.०१४ कौसल्या चैव राजा च तथैव जननी मम
२.०४५.०१४ नाशंसे यदि जीवन्ति सर्वे ते शर्वरीमिमाम्
२.०४५.०१५ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया
२.०४५.०१५ तद्दुःखं यत्तु कौसल्या वीरसूर्विनशिष्यति
२.०४५.०१६ अनुरक्तजनाकीर्णा सुखालोकप्रियावहा
२.०४५.०१६ राजव्यसनसंसृष्टा सा पुरी विनशिष्यति
२.०४५.०१७ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्
२.०४५.०१७ राज्ये राममनिक्षिप्य पिता मे विनशिष्यति
२.०४५.०१८ सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते
२.०४५.०१८ प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्
२.०४५.०१९ रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्
२.०४५.०१९ हर्म्यप्रासादसंपन्नां गणिकावरशोभिताम्
२.०४५.०२० रथाश्वगजसंबाधां तूर्यनादविनादिताम्
२.०४५.०२० सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम्
२.०४५.०२१ आरामोद्यानसंपन्नां समाजोत्सवशालिनीम्
२.०४५.०२१ सुखिता विचरिष्यन्ति राजधानीं पितुर्मम
२.०४५.०२२ अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्
२.०४५.०२२ निवृत्ते वनवासेऽस्मिन्नयोध्यां प्रविशेमहि
२.०४५.०२३ परिदेवयमानस्य दुःखार्तस्य महात्मनः
२.०४५.०२३ तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत
२.०४५.०२४ तथा हि सत्यं ब्रुवति प्रजाहिते॑ नरेन्द्रपुत्रे गुरुसौहृदाद्गुहः
२.०४५.०२४ मुमोच बाष्पं व्यसनाभिपीडितो॑ ज्वरातुरो नाग इव व्यथातुरः
२.०४६.००१ प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः
२.०४६.००१ उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्
२.०४६.००२ भास्करोदयकालोऽयं गता भगवती निशा
२.०४६.००२ असौ सुकृष्णो विहगः कोकिलस्तात कूजति
२.०४६.००३ बर्हिणानां च निर्घोषः श्रूयते नदतां वने
२.०४६.००३ तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम्
२.०४६.००४ विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः
२.०४६.००४ गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः
२.०४६.००५ ततः कलापान् संनह्य खड्गौ बद्ध्वा च धन्विनौ
२.०४६.००५ जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ
२.०४६.००६ राममेव तु धर्मज्ञमुपगम्य विनीतवत्
२.०४६.००६ किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्
२.०४६.००७ निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम
२.०४६.००७ यानं विहाय पद्भ्यां तु गमिष्यामो महावनम्
२.०४६.००८ आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः
२.०४६.००८ सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्
२.०४६.००९ नातिक्रान्तमिदं लोके पुरुषेणेह केन चित्
२.०४६.००९ तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने
२.०४६.०१० न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः
२.०४६.०१० मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्
२.०४६.०११ सह राघव वैदेह्या भ्रात्रा चैव वने वसन्
२.०४६.०११ त्वं गतिं प्राप्स्यसे वीर त्रींल्लोकांस्तु जयन्निव
२.०४६.०१२ वयं खलु हता राम ये तयाप्युपवञ्चिताः
२.०४६.०१२ कैकेय्या वशमेष्यामः पापाया दुःखभागिनः
२.०४६.०१३ इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा
२.०४६.०१३ दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम्
२.०४६.०१४ ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्
२.०४६.०१४ रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्
२.०४६.०१५ इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये
२.०४६.०१५ यथा दशरथो राजा मां न शोचेत्तथा कुरु
२.०४६.०१६ शोकोपहत चेताश्च वृद्धश्च जगतीपतिः
२.०४६.०१६ काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते
२.०४६.०१७ यद्यदाज्ञापयेत्किं चित्स महात्मा महीपतिः
२.०४६.०१७ कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया
२.०४६.०१८ एतदर्थं हि राज्यानि प्रशासति नरेश्वराः
२.०४६.०१८ यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते
२.०४६.०१९ तद्यथा स महाराजो नालीकमधिगच्छति
२.०४६.०१९ न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा
२.०४६.०२० अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्
२.०४६.०२० ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः
२.०४६.०२१ नैवाहमनुशोचामि लक्ष्मणो न च मैथिली
२.०४६.०२१ अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा
२.०४६.०२२ चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः
२.०४६.०२२ लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान्
२.०४६.०२३ एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे
२.०४६.०२३ अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः
२.०४६.०२४ आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम्
२.०४६.०२४ सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च
२.०४६.०२५ ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय
२.०४६.०२५ आगतश्चापि भरतः स्थाप्यो नृपमते पदे
२.०४६.०२६ भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च
२.०४६.०२६ अस्मत्संतापजं दुःखं न त्वामभिभविष्यति
२.०४६.०२७ भरतश्चापि वक्तव्यो यथा राजनि वर्तसे
२.०४६.०२७ तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः
२.०४६.०२८ यथा च तव कैकेयी सुमित्रा चाविशेषतः
२.०४६.०२८ तथैव देवी कौसल्या मम माता विशेषतः
२.०४६.०२९ निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः
२.०४६.०२९ तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत्
२.०४६.०३० यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः
२.०४६.०३० भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि
२.०४६.०३१ कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम्
२.०४६.०३१ तव तात वियोगेन पुत्रशोकाकुलामिव
२.०४६.०३२ सराममपि तावन्मे रथं दृष्ट्वा तदा जनः
२.०४६.०३२ विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी
२.०४६.०३३ दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम्
२.०४६.०३३ सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे
२.०४६.०३४ दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्
२.०४६.०३४ चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः
२.०४६.०३५ आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने
२.०४६.०३५ रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः
२.०४६.०३६ अहं किं चापि वक्ष्यामि देवीं तव सुतो मया
२.०४६.०३६ नीतोऽसौ मातुलकुलं संतापं मा कृथा इति
२.०४६.०३७ असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्
२.०४६.०३७ कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः
२.०४६.०३८ मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः
२.०४६.०३८ कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः
२.०४६.०३९ यदि मे याचमानस्य त्यागमेव करिष्यसि
२.०४६.०३९ सरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया
२.०४६.०४० भविष्यन्ति वने यानि तपोविघ्नकराणि ते
२.०४६.०४० रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव
२.०४६.०४१ तत्कृतेन मया प्राप्तं रथ चर्या कृतं सुखम्
२.०४६.०४१ आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम्
२.०४६.०४२ प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः
२.०४६.०४२ प्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः
२.०४६.०४३ तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्
२.०४६.०४३ अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्
२.०४६.०४४ न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना
२.०४६.०४४ राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा
२.०४६.०४५ इमे चापि हया वीर यदि ते वनवासिनः
२.०४६.०४५ परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्
२.०४६.०४६ वनवासे क्षयं प्राप्ते ममैष हि मनोरथः
२.०४६.०४६ यदनेन रथेनैव त्वां वहेयं पुरीं पुनः
२.०४६.०४७ चतुर्दश हि वर्षाणि सहितस्य त्वया वने
२.०४६.०४७ क्षणभूतानि यास्यन्ति शतशस्तु ततोऽन्यथा
२.०४६.०४८ भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि
२.०४६.०४८ भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि
२.०४६.०४९ एवं बहुविधं दीनं याचमानं पुनः पुनः
२.०४६.०४९ रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्
२.०४६.०५० जानामि परमां भक्तिं मयि ते भर्तृवत्सल
२.०४६.०५० शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः
२.०४६.०५१ नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी
२.०४६.०५१ कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः
२.०४६.०५२ परितुष्टा हि सा देवि वनवासं गते मयि
२.०४६.०५२ राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम्
२.०४६.०५३ एष मे प्रथमः कल्पो यदम्बा मे यवीयसी
२.०४६.०५३ भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात्
२.०४६.०५४ मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज
२.०४६.०५४ संदिष्टश्चासि यानर्थांस्तांस्तान् ब्रूयास्तथातथा
२.०४६.०५५ इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः
२.०४६.०५५ गुहं वचनमक्लीबं रामो हेतुमदब्रवीत्
२.०४६.०५५ जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय
२.०४६.०५६ तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत्
२.०४६.०५६ लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः
२.०४६.०५७ तौ तदा चीरवसनौ जटामण्डलधारिणौ
२.०४६.०५७ अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ
२.०४६.०५८ ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः
२.०४६.०५८ व्रतमादिष्टवान् रामः सहायं गुहमब्रवीत्
२.०४६.०५९ अप्रमत्तो बले कोशे दुर्गे जनपदे तथा
२.०४६.०५९ भवेथा गुह राज्यं हि दुरारक्षतमं मतम्
२.०४६.०६० ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः
२.०४६.०६० जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः
२.०४६.०६१ स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः
२.०४६.०६१ तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत्
२.०४६.०६२ आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः
२.०४६.०६२ सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्
२.०४६.०६३ स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्
२.०४६.०६३ आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः
२.०४६.०६४ अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः
२.०४६.०६४ ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत्
२.०४६.०६५ अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्
२.०४६.०६५ आस्थाय नावं रामस्तु चोदयामास नाविकान्
२.०४६.०६६ ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता
२.०४६.०६६ शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात्
२.०४६.०६७ मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता
२.०४६.०६७ वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्
२.०४६.०६८ पुत्रो दशरथस्यायं महाराजस्य धीमतः
२.०४६.०६८ निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः
२.०४६.०६९ चतुर्दश हि वर्षाणि समग्राण्युष्य कानने
२.०४६.०६९ भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति
२.०४६.०७० ततस्त्वां देवि सुभगे क्षेमेण पुनरागता
२.०४६.०७० यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये
२.०४६.०७१ त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे
२.०४६.०७१ भार्या चोदधिराजस्य लोकेऽस्मिन् संप्रदृश्यसे
२.०४६.०७२ सा त्वां देवि नमस्यामि प्रशंसामि च शोभने
२.०४६.०७२ प्राप्त राज्ये नरव्याघ्र शिवेन पुनरागते
२.०४६.०७३ गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम्
२.०४६.०७३ ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया
२.०४६.०७४ तथा संभाषमाणा सा सीता गङ्गामनिन्दिता
२.०४६.०७४ दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत्
२.०४६.०७५ तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः
२.०४६.०७५ प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः
२.०४६.०७६ अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम्
२.०४६.०७६ अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु
२.०४६.०७७ पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन्
२.०४६.०७७ अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति
२.०४६.०७८ गतं तु गङ्गापरपारमाशु॑ रामं सुमन्त्रः प्रततं निरीक्ष्य
२.०४६.०७८ अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्॑ मुमोच बाष्पं व्यथितस्तपस्वी
२.०४६.०७९ तौ तत्र हत्वा चतुरो महामृगान्॑ वराहमृश्यं पृषतं महारुरुम्
२.०४६.०७९ आदाय मेध्यं त्वरितं बुभुक्षितौ॑ वासाय काले ययतुर्वनस्पतिम्
२.०४७.००१ स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम्
२.०४७.००१ रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्
२.०४७.००२ अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः
२.०४७.००२ या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि
२.०४७.००३ जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु
२.०४७.००३ योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः
२.०४७.००४ रात्रिं कथं चिदेवेमां सौमित्रे वर्तयामहे
२.०४७.००४ उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः
२.०४७.००५ स तु संविश्य मेदिन्यां महार्हशयनोचितः
२.०४७.००५ इमाः सौमित्रये रामो व्याजहार कथाः शुभाः
२.०४७.००६ ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण
२.०४७.००६ कृतकामा तु कैकेयी तुष्टा भवितुमर्हति
२.०४७.००७ सा हि देवी महाराजं कैकेयी राज्यकारणात्
२.०४७.००७ अपि न च्यावयेत्प्राणान् दृष्ट्वा भरतमागतम्
२.०४७.००८ अनाथश्चैव वृद्धश्च मया चैव विनाकृतः
२.०४७.००८ किं करिष्यति कामात्मा कैकेय्या वशमागतः
२.०४७.००९ इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्
२.०४७.००९ काम एवार्धधर्माभ्यां गरीयानिति मे मतिः
२.०४७.०१० को ह्यविद्वानपि पुमान् प्रमदायाः कृते त्यजेत्
२.०४७.०१० छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण
२.०४७.०११ सुखी बत सभार्यश्च भरतः केकयीसुतः
२.०४७.०११ मुदितान् कोसलानेको यो भोक्ष्यत्यधिराजवत्
२.०४७.०१२ स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति
२.०४७.०१२ ताते च वयसातीते मयि चारण्यमाश्रिते
२.०४७.०१३ अर्थधर्मौ परित्यज्य यः काममनुवर्तते
२.०४७.०१३ एवमापद्यते क्षिप्रं राजा दशरथो यथा
२.०४७.०१४ मन्ये दशरथान्ताय मम प्रव्राजनाय च
२.०४७.०१४ कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च
२.०४७.०१५ अपीदानीं न कैकेयी सौभाग्यमदमोहिता
२.०४७.०१५ कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते
२.०४७.०१६ मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत्
२.०४७.०१६ अयोध्यामित एव त्वं काले प्रविश लक्ष्मण
२.०४७.०१७ अहमेको गमिष्यामि सीतया सह दण्डकान्
२.०४७.०१७ अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि
२.०४७.०१८ क्षुद्रकर्मा हि कैकेयी द्वेषादन्याय्यमाचरेत्
२.०४७.०१८ परिदद्या हि धर्मज्ञे भरते मम मातरम्
२.०४७.०१९ नूनं जात्यन्तरे कस्मिंः स्त्रियः पुत्रैर्वियोजिताः
२.०४७.०१९ जनन्या मम सौमित्रे तदप्येतदुपस्थितम्
२.०४७.०२० मया हि चिरपुष्टेन दुःखसंवर्धितेन च
२.०४७.०२० विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम्
२.०४७.०२१ मा स्म सीमन्तिनी का चिज्जनयेत्पुत्रमीदृशम्
२.०४७.०२१ सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्
२.०४७.०२२ मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका
२.०४७.०२२ यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश
२.०४७.०२३ शोचन्त्याश्चाल्पभाग्याया न किं चिदुपकुर्वता
२.०४७.०२३ पुर्त्रेण किमपुत्राया मया कार्यमरिंदम
२.०४७.०२४ अल्पभाग्या हि मे माता कौसल्या रहिता मया
२.०४७.०२४ शेते परमदुःखार्ता पतिता शोकसागरे
२.०४७.०२५ एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण
२.०४७.०२५ तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्
२.०४७.०२६ अधर्मभय भीतश्च परलोकस्य चानघ
२.०४७.०२६ तेन लक्ष्मण नाद्याहमात्मानमभिषेचये
२.०४७.०२७ एतदन्यच्च करुणं विलप्य विजने बहु
२.०४७.०२७ अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत्
२.०४७.०२८ विलप्योपरतं रामं गतार्चिषमिवानलम्
२.०४७.०२८ समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः
२.०४७.०२९ ध्रुवमद्य पुरी राम अयोध्या युधिनां वर
२.०४७.०२९ निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी
२.०४७.०३० नैतदौपयिकं राम यदिदं परितप्यसे
२.०४७.०३० विषादयसि सीतां च मां चैव पुरुषर्षभ
२.०४७.०३१ न च सीता त्वया हीना न चाहमपि राघव
२.०४७.०३१ मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ
२.०४७.०३२ न हि तातं न शत्रुघ्नं न सुमित्रां परंतप
२.०४७.०३२ द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना
२.०४७.०३३ स लक्ष्मणस्योत्तम पुष्कलं वचो॑ निशम्य चैवं वनवासमादरात्
२.०४७.०३३ समाः समस्ता विदधे परंतपः॑ प्रपद्य धर्मं सुचिराय राघवः
२.०४८.००१ ते तु तस्मिन्महावृक्ष उषित्वा रजनीं शिवाम्
२.०४८.००१ विमलेऽभ्युदिते सूर्ये तस्माद्देशात्प्रतस्थिरे
२.०४८.००२ यत्र भागीरथी गङ्गा यमुनामभिवर्तते
२.०४८.००२ जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम्
२.०४८.००३ ते भूमिमागान् विविधान् देशांश्चापि मनोरमान्
२.०४८.००३ अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशस्विनः
२.०४८.००४ यथाक्षेमेण गच्छन् स पश्यंश्च विविधान् द्रुमान्
२.०४८.००४ निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत्
२.०४८.००५ प्रयागमभितः पश्य सौमित्रे धूममुन्नतम्
२.०४८.००५ अग्नेर्भगवतः केतुं मन्ये संनिहितो मुनिः
२.०४८.००६ नूनं प्राप्ताः स्म संभेदं गङ्गायमुनयोर्वयम्
२.०४८.००६ तथा हि श्रूयते शम्ब्दो वारिणा वारिघट्टितः
२.०४८.००७ दारूणि परिभिन्नानि वनजैरुपजीविभिः
२.०४८.००७ भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः
२.०४८.००८ धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे
२.०४८.००८ गङ्गायमुनयोः संधौ प्रापतुर्निलयं मुनेः
२.०४८.००९ रामस्त्वाश्रममासाद्य त्रासयन्मृगपक्षिणः
२.०४८.००९ गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत्
२.०४८.०१० ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ
२.०४८.०१० सीतयानुगतौ वीरौ दूरादेवावतस्थतुः
२.०४८.०११ हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः
२.०४८.०११ रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत्
२.०४८.०१२ न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः
२.०४८.०१२ पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ
२.०४८.०१३ भार्या ममेयं वैदेही कल्याणी जनकात्मजा
२.०४८.०१३ मां चानुयाता विजनं तपोवनमनिन्दिता
२.०४८.०१४ पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः
२.०४८.०१४ अयमन्वगमद्भ्राता वनमेव दृढव्रतः
२.०४८.०१५ पित्रा नियुक्ता भगवन् प्रवेष्यामस्तपोवनम्
२.०४८.०१५ धर्ममेवाचरिष्यामस्तत्र मूलफलाशनाः
२.०४८.०१६ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः
२.०४८.०१६ उपानयत धर्मात्मा गामर्घ्यमुदकं ततः
२.०४८.०१७ मृगपक्षिभिरासीनो मुनिभिश्च समन्ततः
२.०४८.०१७ राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः
२.०४८.०१८ प्रतिगृह्य च तामर्चामुपविष्टं सराघवम्
२.०४८.०१८ भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा
२.०४८.०१९ चिरस्य खलु काकुत्स्थ पश्यामि त्वामिहागतम्
२.०४८.०१९ श्रुतं तव मया चेदं विवासनमकारणम्
२.०४८.०२० अवकाशो विविक्तोऽयं महानद्योः समागमे
२.०४८.०२० पुण्यश्च रमणीयश्च वसत्विह भगान् सुखम्
२.०४८.०२१ एवमुक्तस्तु वचनं भरद्वाजेन राघवः
२.०४८.०२१ प्रत्युवाच शुभं वाक्यं रामः सर्वहिते रतः
२.०४८.०२२ भगवन्नित आसन्नः पौरजानपदो जनः
२.०४८.०२२ आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः
२.०४८.०२२ अनेन कारणेनाहमिह वासं न रोचये
२.०४८.०२३ एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम्
२.०४८.०२३ रमते यत्र वैदेही सुखार्हा जनकात्मजा
२.०४८.०२४ एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः
२.०४८.०२४ राघवस्य ततो वाक्यमर्थ ग्राहकमब्रवीत्
२.०४८.०२५ दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि
२.०४८.०२५ महर्षिसेवितः पुण्यः सर्वतः सुख दर्शनः
२.०४८.०२६ गोलाङ्गूलानुचरितो वानरर्क्षनिषेवितः
२.०४८.०२६ चित्रकूट इति ख्यातो गन्धमादनसंनिभः
२.०४८.०२७ यावता चित्र कूटस्य नरः शृङ्गाण्यवेक्षते
२.०४८.०२७ कल्याणानि समाधत्ते न पापे कुरुते मनः
२.०४८.०२८ ऋषयस्तत्र बहवो विहृत्य शरदां शतम्
२.०४८.०२८ तपसा दिवमारूढाः कपालशिरसा सह
२.०४८.०२९ प्रविविक्तमहं मन्ये तं वासं भवतः सुखम्
२.०४८.०२९ इह वा वनवासाय वस राम मया सह
२.०४८.०३० स रामं सर्वकामैस्तं भरद्वाजः प्रियातिथिम्
२.०४८.०३० सभार्यं सह च भ्रात्रा प्रतिजग्राह धर्मवित्
२.०४८.०३१ तस्य प्रयागे रामस्य तं महर्षिमुपेयुषः
२.०४८.०३१ प्रपन्ना रजनी पुण्या चित्राः कथयतः कथाः
२.०४८.०३२ प्रभातायां रजन्यां तु भरद्वाजमुपागमत्
२.०४८.०३२ उवाच नरशार्दूलो मुनिं ज्वलिततेजसं
२.०४८.०३३ शर्वरीं भवनन्नद्य सत्यशील तवाश्रमे
२.०४८.०३३ उषिताः स्मेह वसतिमनुजानातु नो भवान्
२.०४८.०३४ रात्र्यां तु तस्यां व्युष्टायां भरद्वाजोऽब्रवीदिदम्
२.०४८.०३४ मधुमूलफलोपेतं चित्रकूटं व्रजेति ह
२.०४८.०३५ तत्र कुञ्जरयूथानि मृगयूथानि चाभितः
२.०४८.०३५ विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव
२.०४८.०३६ प्रहृष्टकोयष्टिककोकिलस्वनैर्॑ विनादितं तं वसुधाधरं शिवम्
२.०४८.०३६ मृगैश्च मत्तैर्बहुभिश्च कुञ्जरैः॑ सुरम्यमासाद्य
समावसाश्रमम्
२.०४९.००१ उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ
२.०४९.००१ महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति
२.०४९.००२ प्रस्थितांश्चैव तान् प्रेक्ष्य पिता पुत्रानिवान्वगात्
२.०४९.००२ ततः प्रचक्रमे वक्तुं वचनं स महामुनिः
२.०४९.००३ अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम्
२.०४९.००३ तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्
२.०४९.००४ ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम्
२.०४९.००४ विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्
२.०४९.००५ क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम्
२.०४९.००५ पलाशबदरीमिश्रं राम वंशैश्च यामुनैः
२.०४९.००६ स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया
२.०४९.००६ रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः
२.०४९.००६ इति पन्थानमावेद्य महर्षिः स न्यवर्तत
२.०४९.००७ उपावृत्ते मुनौ तस्मिन् रामो लक्ष्मणमब्रवीत्
२.०४९.००७ कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते
२.०४९.००८ इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ
२.०४९.००८ सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम्
२.०४९.००९ तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम्
२.०४९.००९ चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमानसं
२.०४९.०१० तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्
२.०४९.०१० ईषत्संलज्जमानां तामध्यारोपयत प्लवम्
२.०४९.०११ ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्
२.०४९.०११ तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम्
२.०४९.०१२ ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात्
२.०४९.०१२ श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम्
२.०४९.०१३ कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम्
२.०४९.०१३ इति सीताञ्जलिं कृत्वा पर्यगछद्वनस्पतिम्
२.०४९.०१४ क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ
२.०४९.०१४ बहून्मेध्यान्मृगान् हत्वा चेरतुर्यमुनावने
२.०४९.०१५ विहृत्य ते बर्हिणपूगनादिते॑ शुभे वने वारणवानरायुते
२.०४९.०१५ समं नदीवप्रमुपेत्य संमतं॑ निवासमाजग्मुरदीनदर्शनः
२.०५०.००१ अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम्
२.०५०.००१ प्रबोधयामास शनैर्लक्ष्मणं रघुनन्दनः
२.०५०.००२ सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम्
२.०५०.००२ संप्रतिष्ठामहे कालः प्रस्थानस्य परंतप
२.०५०.००३ स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः
२.०५०.००३ जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथि श्रमम्
२.०५०.००४ तत उत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम्
२.०५०.००४ पन्थानमृषिणोद्दिष्टं चित्रकूटस्य तं ययुः
२.०५०.००५ ततः संप्रस्थितः काले रामः सौमित्रिणा सह
२.०५०.००५ सीतां कमलपत्राक्षीमिदं वचनमब्रवीत्
२.०५०.००६ आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान्
२.०५०.००६ स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये
२.०५०.००७ पश्य भल्लातकान् फुल्लान्नरैरनुपसेवितान्
२.०५०.००७ फलपत्रैरवनतान्नूनं शक्ष्यामि जीवितुम्
२.०५०.००८ पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण
२.०५०.००८ मधूनि मधुकारीभिः संभृतानि नगे नगे
२.०५०.००९ एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति
२.०५०.००९ रमणीये वनोद्देशे पुष्पसंस्तरसंकटे
२.०५०.०१० मातंगयूथानुसृतं पक्षिसंघानुनादितम्
२.०५०.०१० चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम्
२.०५०.०११ ततस्तौ पादचारेण गच्छन्तौ सह सीतया
२.०५०.०११ रम्यमासेदतुः शैलं चित्रकूटं मनोरमम्
२.०५०.०१२ तं तु पर्वतमासाद्य नानापक्षिगणायुतम्
२.०५०.०१२ अयं वासो भवेत्तावदत्र सौम्य रमेमहि
२.०५०.०१३ लक्ष्मणानय दारूणि दृढानि च वराणि च
२.०५०.०१३ कुरुष्वावसथं सौम्य वासे मेऽभिरतं मनः
२.०५०.०१४ तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान्
२.०५०.०१४ आजहार ततश्चक्रे पर्ण शालामरिं दम
२.०५०.०१५ शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत्
२.०५०.०१५ ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम्
२.०५०.०१६ स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं पतापवान्
२.०५०.०१६ अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि
२.०५०.०१७ तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम्
२.०५०.०१७ लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत्
२.०५०.०१८ अयं कृष्णः समाप्ताङ्गः शृतः कृष्ण मृगो यथा
२.०५०.०१८ देवता देवसंकाश यजस्व कुशलो ह्यसि
२.०५०.०१९ रामः स्नात्वा तु नियतो गुणवाञ्जप्यकोविदः
२.०५०.०१९ पापसंशमनं रामश्चकार बलिमुत्तमम्
२.०५०.०२० तां वृक्षपर्णच्छदनां मनोज्ञां॑ यथाप्रदेशं सुकृतां निवाताम्
२.०५०.०२० वासाय सर्वे विविशुः समेताः॑ सभां यथा देव गणाः सुधर्माम्
२.०५०.०२१ अनेकनानामृगपक्षिसंकुले॑ विचित्रपुष्पस्तबलैर्द्रुमैर्युते
२.०५०.०२१ वनोत्तमे व्यालमृगानुनादिते॑ तथा विजह्रुः सुसुखं जितेन्द्रियाः
२.०५०.०२२ सुरम्यमासाद्य तु चित्रकूटं॑ नदीं च तां माल्यवतीं सुतीर्थाम्
२.०५०.०२२ ननन्द हृष्टो मृगपक्षिजुष्टां॑ जहौ च दुःखं पुरविप्रवासात्
२.०५१.००१ कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह
२.०५१.००१ रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः
२.०५१.००२ अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्
२.०५१.००२ अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः
२.०५१.००३ स वनानि सुगन्धीनि सरितश्च सरांसि च
२.०५१.००३ पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च
२.०५१.००४ ततः सायाह्नसमये तृतीयेऽहनि सारथिः
२.०५१.००४ अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह
२.०५१.००५ स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः
२.०५१.००५ सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः
२.०५१.००६ कच्चिन्न सगजा साश्वा सजना सजनाधिपा
२.०५१.००६ राम संतापदुःखेन दग्धा शोकाग्निना पुरी
२.०५१.००६ इति चिन्तापरः सूतस्त्वरितः प्रविवेश ह
२.०५१.००७ सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः
२.०५१.००७ क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः
२.०५१.००८ तेषां शशंस गङ्गायामहमापृच्छ्य राघवम्
२.०५१.००८ अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना
२.०५१.००९ ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः
२.०५१.००९ अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः
२.०५१.०१० शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम्
२.०५१.०१० हताः स्म खलु ये नेह पश्याम इति राघवम्
२.०५१.०११ दानयज्ञविवाहेषु समाजेषु महत्सु च
२.०५१.०११ न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा
२.०५१.०१२ किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्
२.०५१.०१२ इति रामेण नगरं पितृवत्परिपालितम्
२.०५१.०१३ वातायनगतानां च स्त्रीणामन्वन्तरापणम्
२.०५१.०१३ रामशोकाभितप्तानां शुश्राव परिदेवनम्
२.०५१.०१४ स राजमार्गमध्येन सुमन्त्रः पिहिताननः
२.०५१.०१४ यत्र राजा दशरथस्तदेवोपययौ गृहम्
२.०५१.०१५ सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च
२.०५१.०१५ कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः
२.०५१.०१६ ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः
२.०५१.०१६ रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्
२.०५१.०१७ सह रामेण निर्यातो विना राममिहागतः
२.०५१.०१७ सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति
२.०५१.०१८ यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्
२.०५१.०१८ आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति
२.०५१.०१९ सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्
२.०५१.०१९ प्रदीप्तमिव शोकेन विवेश सहसा गृहम्
२.०५१.०२० स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम्
२.०५१.०२० पुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे
२.०५१.०२१ अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च
२.०५१.०२१ सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्
२.०५१.०२२ स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनः
२.०५१.०२२ मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः
२.०५१.०२३ ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ
२.०५१.०२३ उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ
२.०५१.०२४ सुमित्रया तु सहिता कौसल्या पतितं पतिम्
२.०५१.०२४ उत्थापयामास तदा वचनं चेदमब्रवीत्
२.०५१.०२५ इमं तस्य महाभाग दूतं दुष्करकारिणः
२.०५१.०२५ वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे
२.०५१.०२६ अद्येममनयं कृत्वा व्यपत्रपसि राघव
२.०५१.०२६ उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता
२.०५१.०२७ देव यस्या भयाद्रामं नानुपृच्छसि सारथिम्
२.०५१.०२७ नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम्
२.०५१.०२८ सा तथोक्त्वा महाराजं कौसल्या शोकलालसा
२.०५१.०२८ धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी
२.०५१.०२९ एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि
२.०५१.०२९ पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः
२.०५१.०३० ततस्तमन्तःपुरनादमुत्थितं॑ समीक्ष्य वृद्धास्तरुणाश्च मानवाः
२.०५१.०३० स्त्रियश्च सर्वा रुरुदुः समन्ततः॑ पुरं तदासीत्पुनरेव संकुलम्
२.०५२.००१ प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतः पुनः
२.०५२.००१ अथाजुहाव तं सूतं रामवृत्तान्तकारणात्
२.०५२.००२ वृद्धं परमसंतप्तं नवग्रहमिव द्विपम्
२.०५२.००२ विनिःश्वसन्तं ध्यायन्तमस्वस्थमिव कुञ्जरम्
२.०५२.००३ राजा तु रजसा सूतं ध्वस्ताङ्गं समुपस्थितम्
२.०५२.००३ अश्रु पूर्णमुखं दीनमुवाच परमार्तवत्
२.०५२.००४ क्व नु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः
२.०५२.००४ सोऽत्यन्तसुखितः सूत किमशिष्यति राघवः
२.०५२.००४ भूमिपालात्मजो भूमौ शेते कथमनाथवत्
२.०५२.००५ यं यान्तमनुयान्ति स्म पदाति रथकुञ्जराः
२.०५२.००५ स वत्स्यति कथं रामो विजनं वनमाश्रितः
२.०५२.००६ व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम्
२.०५२.००६ कथं कुमारौ वैदेह्या सार्धं वनमुपस्थितौ
२.०५२.००७ सुकुमार्या तपस्विन्या सुमन्त्र सह सीतया
२.०५२.००७ राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ
२.०५२.००८ सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममात्मजौ
२.०५२.००८ वनान्तं प्रविशन्तौ तावश्विनाविव मन्दरम्
२.०५२.००९ किमुवाच वचो रामः किमुवाच च लक्ष्मणः
२.०५२.००९ सुमन्त्र वनमासाद्य किमुवाच च मैथिली
२.०५२.००९ आसितं शयितं भुक्तं सूत रामस्य कीर्तय
२.०५२.०१० इति सूतो नरेन्द्रेण चोदितः सज्जमानया
२.०५२.०१० उवाच वाचा राजानं सबाष्पपरिरब्धया
२.०५२.०११ अब्रवीन्मां महाराज धर्ममेवानुपालयन्
२.०५२.०११ अञ्जलिं राघवः कृत्वा शिरसाभिप्रणम्य च
२.०५२.०१२ सूत मद्वचनात्तस्य तातस्य विदितात्मनः
२.०५२.०१२ शिरसा वन्दनीयस्य वन्द्यौ पादौ महात्मनः
२.०५२.०१३ सर्वमन्तःपुरं वाच्यं सूत मद्वचनात्त्वया
२.०५२.०१३ आरोग्यमविशेषेण यथार्हं चाभिवादनम्
२.०५२.०१४ माता च मम कौसल्या कुशलं चाभिवादनम्
२.०५२.०१४ देवि देवस्य पादौ च देववत्परिपालय
२.०५२.०१५ भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च
२.०५२.०१५ सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु
२.०५२.०१६ वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनन्दनः
२.०५२.०१६ पितरं यौवराज्यस्थो राज्यस्थमनुपालय
२.०५२.०१७ इत्येवं मां महाराज ब्रुवन्नेव महायशाः
२.०५२.०१७ रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत्
२.०५२.०१८ लक्ष्मणस्तु सुसंक्रुद्धो निःश्वसन् वाक्यमब्रवीत्
२.०५२.०१८ केनायमपराधेन राजपुत्रो विवासितः
२.०५२.०१९ यदि प्रव्राजितो रामो लोभकारणकारितम्
२.०५२.०१९ वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम्
२.०५२.०१९ रामस्य तु परित्यागे न हेतुमुपलक्षये
२.०५२.०२० असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात्
२.०५२.०२० जनयिष्यति संक्रोशं राघवस्य विवासनम्
२.०५२.०२१ अहं तावन्महाराजे पितृत्वं नोपलक्षये
२.०५२.०२१ भ्राता भर्ता च बन्धुश्च पिता च मम राघवः
२.०५२.०२२ सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रतम्
२.०५२.०२२ सर्वलोकोऽनुरज्येत कथं त्वानेन कर्मणा
२.०५२.०२३ जानकी तु महाराज निःश्वसन्ती तपस्विनी
२.०५२.०२३ भूतोपहतचित्तेव विष्ठिता वृष्मृता स्थिता
२.०५२.०२४ अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी
२.०५२.०२४ तेन दुःखेन रुदती नैव मां किं चिदब्रवीत्
२.०५२.०२५ उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता
२.०५२.०२५ मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा
२.०५२.०२६ तथैव रामोऽश्रुमुखः कृताञ्जलिः॑ स्थितोऽभवल्लक्ष्मणबाहुपालितः
२.०५२.०२६ तथैव सीता रुदती तपस्विनी॑ निरीक्षते राजरथं तथैव माम्
२.०५३.००१ मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि
२.०५३.००१ उष्णमश्रु विमुञ्चन्तो रामे संप्रस्थिते वनम्
२.०५३.००२ उभाभ्यां राजपुत्राभ्यामथ कृत्वाहमज्ञलिम्
२.०५३.००२ प्रस्थितो रथमास्थाय तद्दुःखमपि धारयन्
२.०५३.००३ गुहेव सार्धं तत्रैव स्थितोऽस्मि दिवसान् बहून्
२.०५३.००३ आशया यदि मां रामः पुनः शब्दापयेदिति
२.०५३.००४ विषये ते महाराज रामव्यसनकर्शिताः
२.०५३.००४ अपि वृक्षाः परिम्लानः सपुष्पाङ्कुरकोरकाः
२.०५३.००५ न च सर्पन्ति सत्त्वानि व्याला न प्रसरन्ति च
२.०५३.००५ रामशोकाभिभूतं तन्निष्कूजमभवद्वनम्
२.०५३.००६ लीनपुष्करपत्राश्च नरेन्द्र कलुषोदकाः
२.०५३.००६ संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः
२.०५३.००७ जलजानि च पुष्पाणि माल्यानि स्थलजानि च
२.०५३.००७ नाद्य भान्त्यल्पगन्धीनि फलानि च यथा पुरम्
२.०५३.००८ प्रविशन्तमयोध्यां मां न कश्चिदभिनन्दति
२.०५३.००८ नरा राममपश्यन्तो निःश्वसन्ति मुहुर्मुहुः
२.०५३.००९ हर्म्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम्
२.०५३.००९ हाहाकारकृता नार्यो रामादर्शनकर्शिताः
२.०५३.०१० आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः
२.०५३.०१० अन्योन्यमभिवीक्षन्ते व्यक्तमार्ततराः स्त्रियः
२.०५३.०११ नामित्राणां न मित्राणामुदासीनजनस्य च
२.०५३.०११ अहमार्ततया कं चिद्विशेषं नोपलक्षये
२.०५३.०१२ अप्रहृष्टमनुष्या च दीननागतुरंगमा
२.०५३.०१२ आर्तस्वरपरिम्लाना विनिःश्वसितनिःस्वना
२.०५३.०१३ निरानन्दा महाराज रामप्रव्राजनातुला
२.०५३.०१३ कौसल्या पुत्र हीनेव अयोध्या प्रतिभाति मा
२.०५३.०१४ सूतस्य वचनं श्रुत्वा वाचा परमदीनया
२.०५३.०१४ बाष्पोपहतया राजा तं सूतमिदमब्रवीत्
२.०५३.०१५ कैकेय्या विनियुक्तेन पापाभिजनभावया
२.०५३.०१५ मया न मन्त्रकुशलैर्वृद्धैः सह समर्थितम्
२.०५३.०१६ न सुहृद्भिर्न चामात्यैर्मन्त्रयित्वा न नैगमैः
२.०५३.०१६ मयायमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः
२.०५३.०१७ भवितव्यतया नूनमिदं वा व्यसनं महत्
२.०५३.०१७ कुलस्यास्य विनाशाय प्राप्तं सूत यदृच्छया
२.०५३.०१८ सूत यद्यस्ति ते किं चिन्मयापि सुकृतं कृतम्
२.०५३.०१८ त्वं प्रापयाशु मां रामं प्राणाः संत्वरयन्ति माम्
२.०५३.०१९ यद्यद्यापि ममैवाज्ञा निवर्तयतु राघवम्
२.०५३.०१९ न शक्ष्यामि विना राम मुहूर्तमपि जीवितुम्
२.०५३.०२० अथ वापि महाबाहुर्गतो दूरं भविष्यति
२.०५३.०२० मामेव रथमारोप्य शीघ्रं रामाय दर्शय
२.०५३.०२१ वृत्तदंष्ट्रो महेष्वासः क्वासौ लक्ष्मणपूर्वजः
२.०५३.०२१ यदि जीवामि साध्वेनं पश्येयं सह सीतया
२.०५३.०२२ लोहिताक्षं महाबाहुमामुक्तमणिकुण्डलम्
२.०५३.०२२ रामं यदि न पश्यामि गमिष्यामि यमक्षयम्
२.०५३.०२३ अतो नु किं दुःखतरं योऽहमिक्ष्वाकुनन्दनम्
२.०५३.०२३ इमामवस्थामापन्नो नेह पश्यामि राघवम्
२.०५३.०२४ हा राम रामानुज हा हा वैदेहि तपस्विनी
२.०५३.०२४ न मां जानीत दुःखेन म्रियमाणमनाथवत्
२.०५३.०२४ दुस्तरो जीवता देवि मयायं शोकसागरः
२.०५३.०२५ अशोभनं योऽहमिहाद्य राघवं॑ दिदृक्षमाणो न लभे सलक्ष्मणम्
२.०५३.०२५ इतीव राजा विलपन्महायशाः॑ पपात तूर्णं शयने स मूर्छितः
२.०५३.०२६ इति विलपति पार्थिवे प्रनष्टे॑ करुणतरं द्विगुणं च रामहेतोः
२.०५३.०२६ वचनमनुनिशम्य तस्य देवी॑ भयमगमत्पुनरेव राममाता
२.०५४.००१ ततो भूतोपसृष्टेव वेपमाना पुनः पुनः
२.०५४.००१ धरण्यां गतसत्त्वेव कौसल्या सूतमब्रवीत्
२.०५४.००२ नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः
२.०५४.००२ तान् विना क्षणमप्यत्र जीवितुं नोत्सहे ह्यहम्
२.०५४.००३ निवर्तय रथं शीघ्रं दण्डकान्नय मामपि
२.०५४.००३ अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम्
२.०५४.००४ बाष्पवेगौपहतया स वाचा सज्जमानया
२.०५४.००४ इदमाश्वासयन् देवीं सूतः प्राञ्जलिरब्रवीत्
२.०५४.००५ त्यज शोकं च मोहं च संभ्रमं दुःखजं तथा
२.०५४.००५ व्यवधूय च संतापं वने वत्स्यति राघवः
२.०५४.००६ लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने
२.०५४.००६ आराधयति धर्मज्ञः परलोकं जितेन्द्रियः
२.०५४.००७ विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव
२.०५४.००७ विस्रम्भं लभतेऽभीता रामे संन्यस्त मानसा
२.०५४.००८ नास्या दैन्यं कृतं किं चित्सुसूक्ष्ममपि लक्षये
२.०५४.००८ उचितेव प्रवासानां वैदेही प्रतिभाति मा
२.०५४.००९ नगरोपवनं गत्वा यथा स्म रमते पुरा
२.०५४.००९ तथैव रमते सीता निर्जनेषु वनेष्वपि
२.०५४.०१० बालेव रमते सीता बालचन्द्रनिभानना
२.०५४.०१० रामा रामे ह्यदीनात्मा विजनेऽपि वने सती
२.०५४.०११ तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम्
२.०५४.०११ अयोध्यापि भवेत्तस्या राम हीना तथा वनम्
२.०५४.०१२ पथि पृच्छति वैदेही ग्रामांश्च नगराणि च
२.०५४.०१२ गतिं दृष्ट्वा नदीनां च पादपान् विविधानपि
२.०५४.०१३ अध्वना वात वेगेन संभ्रमेणातपेन च
२.०५४.०१३ न हि गच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा
२.०५४.०१४ सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम्
२.०५४.०१४ वदनं तद्वदान्याया वैदेह्या न विकम्पते
२.०५४.०१५ अलक्तरसरक्ताभावलक्तरसवर्जितौ
२.०५४.०१५ अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ
२.०५४.०१६ नूपुरोद्घुष्टहेलेव खेलं गच्छति भामिनी
२.०५४.०१६ इदानीमपि वैदेही तद्रागा न्यस्तभूषणा
२.०५४.०१७ गजं वा वीक्ष्य सिंहं वा व्याघ्रं वा वनमाश्रिता
२.०५४.०१७ नाहारयति संत्रासं बाहू रामस्य संश्रिता
२.०५४.०१८ न शोच्यास्ते न चात्मा ते शोच्यो नापि जनाधिपः
२.०५४.०१८ इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम्
२.०५४.०१९ विधूय शोकं परिहृष्टमानसा॑ महर्षियाते पथि सुव्यवस्थिताः
२.०५४.०१९ वने रता वन्यफलाशनाः पितुः॑ शुभां प्रतिज्ञां परिपालयन्ति ते
२.०५४.०२० तथापि सूतेन सुयुक्तवादिना॑ निवार्यमाणा सुतशोककर्शिता
२.०५४.०२० न चैव देवी विरराम कूजितात्॑ प्रियेति पुत्रेति च राघवेति च
२.०५५.००१ वनं गते धर्मपरे रामे रमयतां वरे
२.०५५.००१ कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्
२.०५५.००२ यद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशः
२.०५५.००२ सानुक्रोशो वदान्यश्च प्रियवादी च राघवः
२.०५५.००३ कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया
२.०५५.००३ दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः
२.०५५.००४ सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता
२.०५५.००४ कथमुष्णं च शीतं च मैथिली प्रसहिष्यते
२.०५५.००५ भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्
२.०५५.००५ वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते
२.०५५.००६ गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता
२.०५५.००६ कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्
२.०५५.००७ महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः
२.०५५.००७ भुजं परिघसंकाशमुपधाय महाबलः
२.०५५.००८ पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम्
२.०५५.००८ कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्
२.०५५.००९ वज्रसारमयं नूनं हृदयं मे न संशयः
२.०५५.००९ अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा
२.०५५.०१० यदि पञ्चदशे वर्षे राघवः पुनरेष्यति
२.०५५.०१० जह्याद्राज्यं च कोशं च भरतेनोपभोक्ष्यते
२.०५५.०११ एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते
२.०५५.०११ भ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते
२.०५५.०१२ न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति
२.०५५.०१२ एवमेव नरव्याघ्रः परलीढं न मंस्यते
२.०५५.०१३ हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः
२.०५५.०१३ नैतानि यातयामानि कुर्वन्ति पुनरध्वरे
२.०५५.०१४ तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव
२.०५५.०१४ नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्
२.०५५.०१५ नैवंविधमसत्कारं राघवो मर्षयिष्यति
२.०५५.०१५ बलवानिव शार्दूलो बालधेरभिमर्शनम्
२.०५५.०१६ स तादृशः सिंहबलो वृषभाक्षो नरर्षभः
२.०५५.०१६ स्वयमेव हतः पित्रा जलजेनात्मजो यथा
२.०५५.०१७ द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः
२.०५५.०१७ यदि ते धर्मनिरते त्वया पुत्रे विवासिते
२.०५५.०१८ गतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजः
२.०५५.०१८ तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते
२.०५५.०१९ तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः
२.०५५.०१९ न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया
२.०५५.०२० हतं त्वया राज्यमिदं सराष्ट्रं॑ हतस्तथात्मा सह मन्त्रिभिश्च
२.०५५.०२० हता सपुत्रास्मि हताश्च पौराः॑ सुतश्च भार्या च तव प्रहृष्टौ
२.०५५.०२१ इमां गिरं दारुणशब्दसंश्रितां॑ निशम्य राजापि मुमोह दुःखितः
२.०५५.०२१ ततः स शोकं प्रविवेश पार्थिवः॑ स्वदुष्कृतं चापि पुनस्तदास्मरत्
२.०५६.००१ एवं तु क्रुद्धया राजा राममात्रा सशोकया
२.०५६.००१ श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः
२.०५६.००२ तस्य चिन्तयमानस्य प्रत्यभात्कर्म दुष्कृतम्
२.०५६.००२ यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना
२.०५६.००३ अमनास्तेन शोकेन रामशोकेन च प्रभुः
२.०५६.००३ दह्यमानस्तु शोकाभ्यां कौसल्यामाह भूपतिः
२.०५६.००४ प्रसादये त्वां कौसल्ये रचितोऽयं मयाञ्जलिः
२.०५६.००४ वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि
२.०५६.००५ भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा
२.०५६.००५ धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम्
२.०५६.००६ सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर
२.०५६.००६ नार्हसे विप्रियं वक्तुं दुःखितापि सुदुःखितम्
२.०५६.००७ तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम्
२.०५६.००७ कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम्
२.०५६.००८ स मूद्र्ह्णि बद्ध्वा रुदती राज्ञः पद्ममिवाञ्जलिम्
२.०५६.००८ संभ्रमादब्रवीत्त्रस्ता त्वरमाणाक्षरं वचः
२.०५६.००९ प्रसीद शिरसा याचे भूमौ निततितास्मि ते
२.०५६.००९ याचितास्मि हता देव हन्तव्याहं न हि त्वया
२.०५६.०१० नैषा हि सा स्त्री भवति श्लाघनीयेन धीमता
२.०५६.०१० उभयोर्लोकयोर्वीर पत्या या संप्रसाद्यते
२.०५६.०११ जानामि धर्मं धर्मज्ञ त्वां जाने सत्यवादिनम्
२.०५६.०११ पुत्रशोकार्तया तत्तु मया किमपि भाषितम्
२.०५६.०१२ शोको नाशयते धैर्यं शोको नाशयते श्रुतम्
२.०५६.०१२ शोको नाशयते सर्वं नास्ति शोकसमो रिपुः
२.०५६.०१३ शयमापतितः सोढुं प्रहरो रिपुहस्ततः
२.०५६.०१३ सोढुमापतितः शोकः सुसूक्ष्मोऽपि न शक्यते
२.०५६.०१४ वनवासाय रामस्य पञ्चरात्रोऽद्य गण्यते
२.०५६.०१४ यः शोकहतहर्षायाः पञ्चवर्षोपमो मम
२.०५६.०१५ तं हि चिन्तयमानायाः शोकोऽयं हृदि वर्धते
२.०५६.०१५ अदीनामिव वेगेन समुद्रसलिलं महत्
२.०५६.०१६ एवं हि कथयन्त्यास्तु कौसल्यायाः शुभं वचः
२.०५६.०१६ मन्दरश्मिरभूत्सुर्यो रजनी चाभ्यवर्तत
२.०५६.०१७ अथ प्रह्लादितो वाक्यैर्देव्या कौसल्यया नृपः
२.०५६.०१७ शोकेन च समाक्रान्तो निद्राया वशमेयिवान्
२.०५७.००१ प्रतिबुद्धो मुहुर्तेन शोकोपहतचेतनः
२.०५७.००१ अथ राजा दशरथः स चिन्तामभ्यपद्यत
२.०५७.००२ रामलक्ष्मणयोश्चैव विवासाद्वासवोपमम्
२.०५७.००२ आविवेशोपसर्गस्तं तमः सूर्यमिवासुरम्
२.०५७.००३ स राजा रजनीं षष्ठीं रामे प्रव्रजिते वनम्
२.०५७.००३ अर्धरात्रे दशरथः संस्मरन् दुष्कृतं कृतम्
२.०५७.००३ कौसल्यां पुत्रशोकार्तामिदं वचनमब्रवीत्
२.०५७.००४ यदाचरति कल्याणि शुभं वा यदि वाशुभम्
२.०५७.००४ तदेव लभते भद्रे कर्ता कर्मजमात्मनः
२.०५७.००५ गुरु लाघवमर्थानामारम्भे कर्मणां फलम्
२.०५७.००५ दोषं वा यो न जानाति स बाल इति होच्यते
२.०५७.००६ कश्चिदाम्रवणं छित्त्वा पलाशांश्च निषिञ्चति
२.०५७.००६ पुष्पं दृष्ट्वा फले गृध्नुः स शोचति फलागमे
२.०५७.००७ सोऽहमाम्रवणं छित्त्वा पलाशांश्च न्यषेचयम्
२.०५७.००७ रामं फलागमे त्यक्त्वा पश्चाच्छोचामि दुर्मतिः
२.०५७.००८ लब्धशब्देन कौसल्ये कुमारेण धनुष्मता
२.०५७.००८ कुमारः शब्दवेधीति मया पापमिदं कृतम्
२.०५७.००८ तदिदं मेऽनुसंप्राप्तं देवि दुःखं स्वयं कृतम्
२.०५७.००९ संमोहादिह बालेन यथा स्याद्भक्षितं विषम्
२.०५७.००९ एवं ममाप्यविज्ञातं शब्दवेध्यमयं फलम्
२.०५७.०१० देव्यनूढा त्वमभवो युवराजो भवाम्यहम्
२.०५७.०१० ततः प्रावृडनुप्राप्ता मदकामविवर्धिनी
२.०५७.०११ उपास्यहि रसान् भौमांस्तप्त्वा च जगदंशुभिः

२.०५७.०११ परेताचरितां भीमां रविराविशते दिशम्
२.०५७.०१२ उष्णमन्तर्दधे सद्यः स्निग्धा ददृशिरे घनाः
२.०५७.०१२ ततो जहृषिरे सर्वे भेकसारङ्गबर्हिणः
२.०५७.०१३ पतितेनाम्भसा छन्नः पतमानेन चासकृत्
२.०५७.०१३ आबभौ मत्तसारङ्गस्तोयराशिरिवाचलः
२.०५७.०१४ तस्मिन्नतिसुखे काले धनुष्मानिषुमान् रथी
२.०५७.०१४ व्यायाम कृतसंकल्पः सरयूमन्वगां नदीम्
२.०५७.०१५ निपाने महिषं रात्रौ गजं वाभ्यागतं नदीम्
२.०५७.०१५ अन्यं वा श्वापदं कं चिज्जिघांसुरजितेन्द्रियः
२.०५७.०१६ अथान्धकारे त्वश्रौषं जले कुम्भस्य पर्यतः
२.०५७.०१६ अचक्षुर्विषये घोषं वारणस्येव नर्दतः
२.०५७.०१७ ततोऽहं शरमुद्धृत्य दीप्तमाशीविषोपमम्
२.०५७.०१७ अमुञ्चं निशितं बाणमहमाशीविषोपमम्
२.०५७.०१८ तत्र वागुषसि व्यक्ता प्रादुरासीद्वनौकसः
२.०५७.०१८ हा हेति पततस्तोये वागभूत्तत्र मानुषी
२.०५७.०१८ कथमस्मद्विधे शस्त्रं निपतेत्तु तपस्विनि
२.०५७.०१९ प्रविविक्तां नदीं रात्रावुदाहारोऽहमागतः
२.०५७.०१९ इषुणाभिहतः केन कस्य वा किं कृतं मया
२.०५७.०२० ऋषेर्हि न्यस्त दण्डस्य वने वन्येन जीवतः
२.०५७.०२० कथं नु शस्त्रेण वधो मद्विधस्य विधीयते
२.०५७.०२१ जटाभारधरस्यैव वल्कलाजिनवाससः
२.०५७.०२१ को वधेन ममार्थी स्यात्किं वास्यापकृतं मया
२.०५७.०२२ एवं निष्फलमारब्धं केवलानर्थसंहितम्
२.०५७.०२२ न कश्चित्साधु मन्येत यथैव गुरुतल्पगम्
२.०५७.०२३ नेमं तथानुशोचामि जीवितक्षयमात्मनः
२.०५७.०२३ मातरं पितरं चोभावनुशोचामि मद्विधे
२.०५७.०२४ तदेतान्मिथुनं वृद्धं चिरकालभृतं मया
२.०५७.०२४ मयि पञ्चत्वमापन्ने कां वृत्तिं वर्तयिष्यति
२.०५७.०२५ वृद्धौ च मातापितरावहं चैकेषुणा हतः
२.०५७.०२५ केन स्म निहताः सर्वे सुबालेनाकृतात्मना
२.०५७.०२६ तं गिरं करुणां श्रुत्वा मम धर्मानुकाङ्क्षिणः
२.०५७.०२६ कराभ्यां सशरं चापं व्यथितस्यापतद्भुवि
२.०५७.०२७ तं देशमहमागम्य दीनसत्त्वः सुदुर्मनाः
२.०५७.०२७ अपश्यमिषुणा तीरे सरय्वास्तापसं हतम्
२.०५७.०२८ स मामुद्वीक्ष्य नेत्राभ्यां त्रस्तमस्वस्थचेतसं
२.०५७.०२८ इत्युवाच वचः क्रूरं दिधक्षन्निव तेजसा
२.०५७.०२९ किं तवापकृतं राजन् वने निवसता मया
२.०५७.०२९ जिहीर्षिउरम्भो गुर्वर्थं यदहं ताडितस्त्वया
२.०५७.०३० एकेन खलु बाणेन मर्मण्यभिहते मयि
२.०५७.०३० द्वावन्धौ निहतौ वृद्धौ माता जनयिता च मे
२.०५७.०३१ तौ नूनं दुर्बलावन्धौ मत्प्रतीक्षौ पिपासितौ
२.०५७.०३१ चिरमाशाकृतां तृष्णां कष्टां संधारयिष्यतः
२.०५७.०३२ न नूनं तपसो वास्ति फलयोगः श्रुतस्य वा
२.०५७.०३२ पिता यन्मां न जानाति शयानं पतितं भुवि
२.०५७.०३३ जानन्नपि च किं कुर्यादशक्तिरपरिक्रमः
२.०५७.०३३ भिद्यमानमिवाशक्तस्त्रातुमन्यो नगो नगम्
२.०५७.०३४ पितुस्त्वमेव मे गत्वा शीघ्रमाचक्ष्व राघव
२.०५७.०३४ न त्वामनुदहेत्क्रुद्धो वनं वह्निरिवैधितः
२.०५७.०३५ इयमेकपदी राजन् यतो मे पितुराश्रमः
२.०५७.०३५ तं प्रसादय गत्वा त्वं न त्वां स कुपितः शपेत्
२.०५७.०३६ विशल्यं कुरु मां राजन्मर्म मे निशितः शरः
२.०५७.०३६ रुणद्धि मृदु सोत्सेधं तीरमम्बुरयो यथा
२.०५७.०३७ न द्विजातिरहं राजन्मा भूत्ते मनसो व्यथा
२.०५७.०३७ शूद्रायामस्मि वैश्येन जातो जनपदाधिप
२.०५७.०३८ इतीव वदतः कृच्छ्राद्बाणाभिहतमर्मणः
२.०५७.०३८ तस्य त्वानम्यमानस्य तं बाणमहमुद्धरम्
२.०५७.०३९ जलार्द्रगात्रं तु विलप्य कृच्छान्॑ मर्मव्रणं संततमुच्छसन्तम्
२.०५७.०३९ ततः सरय्वां तमहं शयानं॑ समीक्ष्य भद्रे सुभृशं विषण्णः
२.०५८.००१ तदज्ञानान्महत्पापं कृत्वा संकुलितेन्द्रियः
२.०५८.००१ एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत्
२.०५८.००२ ततस्तं घटमादय पूर्णं परमवारिणा
२.०५८.००२ आश्रमं तमहं प्राप्य यथाख्यातपथं गतः
२.०५८.००३ तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ
२.०५८.००३ अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ
२.०५८.००४ तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ
२.०५८.००४ तामाशां मत्कृते हीनावुदासीनावनाथवत्
२.०५८.००५ पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत
२.०५८.००५ किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय
२.०५८.००६ यन्निमित्तमिदं तात सलिले क्रीडितं त्वया
२.०५८.००६ उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम्
२.०५८.००७ यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया
२.०५८.००७ न तन्मनसि कर्तव्यं त्वया तात तपस्विना
२.०५८.००८ त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम्
२.०५८.००८ समासक्तास्त्वयि प्राणाः किं चिन्नौ नाभिभाषसे
२.०५८.००९ मुनिमव्यक्तया वाचा तमहं सज्जमानया
२.०५८.००९ हीनव्यञ्जनया प्रेक्ष्य भीतो भीत इवाब्रुवम्
२.०५८.०१० मनसः कर्म चेष्टाभिरभिसंस्तभ्य वाग्बलम्
२.०५८.०१० आचचक्षे त्वहं तस्मै पुत्रव्यसनजं भयम्
२.०५८.०११ क्षत्रियोऽहं दशरथो नाहं पुत्रो महात्मनः
२.०५८.०११ सज्जनावमतं दुःखमिदं प्राप्तं स्वकर्मजम्
२.०५८.०१२ भगवंश्चापहस्तोऽहं सरयूतीरमागतः
२.०५८.०१२ जिघांसुः श्वापदं किं चिन्निपाने वागतं गजम्
२.०५८.०१३ तत्र श्रुतो मया शब्दो जले कुम्भस्य पूर्यतः
२.०५८.०१३ द्विपोऽयमिति मत्वा हि बाणेनाभिहतो मया
२.०५८.०१४ गत्वा नद्यास्ततस्तीरमपश्यमिषुणा हृदि
२.०५८.०१४ विनिर्भिन्नं गतप्राणं शयानं भुवि तापसं
२.०५८.०१५ भगवञ्शब्दमालक्ष्य मया गजजिघांसुना
२.०५८.०१५ विसृष्टोऽम्भसि नाराचस्तेन ते निहतः सुतः
२.०५८.०१६ स चोद्धृतेन बाणेन तत्रैव स्वर्गमास्थितः
२.०५८.०१६ भगवन्तावुभौ शोचन्नन्धाविति विलप्य च
२.०५८.०१७ अज्ञानाद्भवतः पुत्रः सहसाभिहतो मया
२.०५८.०१७ शेषमेवंगते यत्स्यात्तत्प्रसीदतु मे मुनिः
२.०५८.०१८ स तच्छ्रुत्वा वचः क्रूरं निःश्वसञ्शोककर्शितः
२.०५८.०१८ मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्
२.०५८.०१९ यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम्
२.०५८.०१९ फलेन्मूर्धा स्म ते राजन् सद्यः शतसहस्रधा
२.०५८.०२० क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः
२.०५८.०२० ज्ञानपूर्वं कृतः स्थानाच्च्यावयेदपि वज्रिणम्
२.०५८.०२१ अज्ञानाद्धि कृतं यस्मादिदं तेनैव जीवसि
२.०५८.०२१ अपि ह्यद्य कुलं नस्याद्राघवाणां कुतो भवान्
२.०५८.०२२ नय नौ नृप तं देशमिति मां चाभ्यभाषत
२.०५८.०२२ अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम्
२.०५८.०२३ रुधिरेणावसिताङ्गं प्रकीर्णाजिनवाससं
२.०५८.०२३ शयानं भुवि निःसंज्ञं धर्मराजवशं गतम्
२.०५८.०२४ अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ
२.०५८.०२४ अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया
२.०५८.०२५ तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ
२.०५८.०२५ निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत्
२.०५८.०२६ न न्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक
२.०५८.०२६ किं नु नालिङ्गसे पुत्र सुकुमार वचो वद
२.०५८.०२७ कस्य वापररात्रेऽहं श्रोष्यामि हृदयंगमम्
२.०५८.०२७ अधीयानस्य मधुरं शास्त्रं वान्यद्विशेषतः
२.०५८.०२८ को मां संध्यामुपास्यैव स्नात्वा हुतहुताशनः
२.०५८.०२८ श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम्
२.०५८.०२९ कन्दमूलफलं हृत्वा को मां प्रियमिवातिथिम्
२.०५८.०२९ भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम्
२.०५८.०३० इमामन्धां च वृद्धां च मातरं ते तपस्विनीम्
२.०५८.०३० कथं पुत्र भरिष्यामि कृपणां पुत्रगर्धिनीम्
२.०५८.०३१ तिष्ठ मा मा गमः पुत्र यमस्य सदनं प्रति
२.०५८.०३१ श्वो मया सह गन्तासि जनन्या च समेधितः
२.०५८.०३२ उभावपि च शोकार्तावनाथौ कृपणौ वने
२.०५८.०३२ क्षिप्रमेव गमिष्यावस्त्वया हीनौ यमक्षयम्
२.०५८.०३३ ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम्
२.०५८.०३३ क्षमतां धर्मराजो मे बिभृयात्पितरावयम्
२.०५८.०३४ अपापोऽसि यथा पुत्र निहतः पापकर्मणा
२.०५८.०३४ तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम्
२.०५८.०३५ यान्ति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः
२.०५८.०३५ हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज
२.०५८.०३६ यां गतिं सगरः शैब्यो दिलीपो जनमेजयः
२.०५८.०३६ नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक
२.०५८.०३७ या गतिः सर्वसाधूनां स्वाध्यायात्पतसश्च या
२.०५८.०३७ भूमिदस्याहिताग्नेश्च एकपत्नीव्रतस्य च
२.०५८.०३८ गोसहस्रप्रदातॄणां या या गुरुभृतामपि
२.०५८.०३८ देहन्यासकृतां या च तां गतिं गच्छ पुत्रक
२.०५८.०३८ न हि त्वस्मिन् कुले जातो गच्छत्यकुशलां गतिम्
२.०५८.०३९ एवं स कृपणं तत्र पर्यदेवयतासकृत्
२.०५८.०३९ ततोऽस्मै कर्तुमुदकं प्रवृत्तः सह भार्यया
२.०५८.०४० स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः
२.०५८.०४० आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत्
२.०५८.०४१ स्थानमस्मि महत्प्राप्तो भवतोः परिचारणात्
२.०५८.०४१ भवन्तावपि च क्षिप्रं मम मूलमुपैष्यतः
२.०५८.०४२ एवमुक्त्वा तु दिव्येन विमानेन वपुष्मता
२.०५८.०४२ आरुरोह दिवं क्षिप्रं मुनिपुत्रो जितेन्द्रियः
२.०५८.०४३ स कृत्वा तूदकं तूर्णं तापसः सह भार्यया
२.०५८.०४३ मामुवाच महातेजाः कृताञ्जलिमुपस्थितम्
२.०५८.०४४ अद्यैव जहि मां राजन्मरणे नास्ति मे व्यथा
२.०५८.०४४ यच्छरेणैकपुत्रं मां त्वमकार्षीरपुत्रकम्
२.०५८.०४५ त्वया तु यदविज्ञानान्निहतो मे सुतः शुचिः
२.०५८.०४५ तेन त्वामभिशप्स्यामि सुदुःखमतिदारुणम्
२.०५८.०४६ पुत्रव्यसनजं दुःखं यदेतन्मम साम्प्रतम्
२.०५८.०४६ एवं त्वं पुत्रशोकेन राजन् कालं करिष्यसि
२.०५८.०४७ तस्मान्मामागतं भद्रे तस्योदारस्य तद्वचः
२.०५८.०४७ यदहं पुत्रशोकेन संत्यक्ष्याम्यद्य जीवितम्
२.०५८.०४८ यदि मां संस्पृशेद्रामः सकृदद्यालभेत वा
२.०५८.०४८ न तन्मे सदृशं देवि यन्मया राघवे कृतम्
२.०५८.०४९ चक्षुषा त्वां न पश्यामि स्मृतिर्मम विलुप्यते
२.०५८.०४९ दूता वैवस्वतस्यैते कौसल्ये त्वरयन्ति माम्
२.०५८.०५० अतस्तु किं दुःखतरं यदहं जीवितक्षये
२.०५८.०५० न हि पश्यामि धर्मज्ञं रामं सत्यपराक्यमम्
२.०५८.०५१ न ते मनुष्या देवास्ते ये चारुशुभकुण्डलम्
२.०५८.०५१ मुखं द्रक्ष्यन्ति रामस्य वर्षे पञ्चदशे पुनः
२.०५८.०५२ पद्मपत्रेक्षणं सुभ्रु सुदंष्ट्रं चारुनासिकम्
२.०५८.०५२ धन्या द्रक्ष्यन्ति रामस्य ताराधिपनिभं मुखम्
२.०५८.०५३ सदृशं शारदस्येन्दोः फुल्लस्य कमलस्य च
२.०५८.०५३ सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन्मुखम्
२.०५८.०५४ निवृत्तवनवासं तमयोध्यां पुनरागतम्
२.०५८.०५४ द्रक्ष्यन्ति सुखिनो रामं शुक्रं मार्गगतं यथा
२.०५८.०५५ अयमात्मभवः शोको मामनाथमचेतनम्
२.०५८.०५५ संसादयति वेगेन यथा कूलं नदीरयः
२.०५८.०५६ हा राघव महाबाहो हा ममायास नाशन
२.०५८.०५६ राजा दशरथः शोचञ्जीवितान्तमुपागमत्
२.०५८.०५७ तथा तु दीनं कथयन्नराधिपः॑ प्रियस्य पुत्रस्य विवासनातुरः
२.०५८.०५७ गतेऽर्धरात्रे भृशदुःखपीडितस्॑ तदा जहौ प्राणमुदारदर्शनः
२.०५९.००१ अथ रात्र्यां व्यतीतायां प्रातरेवापरेऽहनि
२.०५९.००१ बन्दिनः पर्युपातिष्ठंस्तत्पार्थिवनिवेशनम्
२.०५९.००२ ततः शुचिसमाचाराः पर्युपस्थान कोविदः
२.०५९.००२ स्त्रीवर्षवरभूयिष्ठा उपतस्थुर्यथापुरम्
२.०५९.००३ हरिचन्दनसंपृक्तमुदकं काञ्चनैर्घटैः
२.०५९.००३ आनिन्युः स्नानशिक्षाज्ञा यथाकालं यथाविधि
२.०५९.००४ मङ्गलालम्भनीयानि प्राशनीयानुपस्करान्
२.०५९.००४ उपनिन्युस्तथाप्यन्याः कुमारी बहुलाः स्त्रियः
२.०५९.००५ अथ याः कोसलेन्द्रस्य शयनं प्रत्यनन्तराः
२.०५९.००५ ताः स्त्रियस्तु समागम्य भर्तारं प्रत्यबोधयन्
२.०५९.००६ ता वेपथुपरीताश्च राज्ञः प्राणेषु शङ्किताः
२.०५९.००६ प्रतिस्रोतस्तृणाग्राणां सदृशं संचकम्पिरे
२.०५९.००७ अथ संवेपमनानां स्त्रीणां दृष्ट्वा च पार्थिवम्
२.०५९.००७ यत्तदाशङ्कितं पापं तस्य जज्ञे विनिश्चयः
२.०५९.००८ ततः प्रचुक्रुशुर्दीनाः सस्वरं ता वराङ्गनाः
२.०५९.००८ करेणव इवारण्ये स्थानप्रच्युतयूथपाः
२.०५९.००९ तासामाक्रन्द शब्देन सहसोद्गतचेतने
२.०५९.००९ कौसल्या च सुमित्राच त्यक्तनिद्रे बभूवतुः
२.०५९.०१० कौसल्या च सुमित्रा च दृष्ट्वा स्पृष्ट्वा च पार्थिवम्
२.०५९.०१० हा नाथेति परिक्रुश्य पेततुर्धरणीतले
२.०५९.०११ सा कोसलेन्द्रदुहिता वेष्टमाना महीतले
२.०५९.०११ न बभ्राज रजोध्वस्ता तारेव गगनच्युता
२.०५९.०१२ तत्समुत्त्रस्तसंभ्रान्तं पर्युत्सुकजनाकुलम्
२.०५९.०१२ सर्वतस्तुमुलाक्रन्दं परितापार्तबान्धवम्
२.०५९.०१३ सद्यो निपतितानन्दं दीनविक्लवदर्शनम्
२.०५९.०१३ बभूव नरदेवस्य सद्म दिष्टान्तमीयुषः
२.०५९.०१४ अतीतमाज्ञाय तु पार्थिवर्षभं॑ यशस्विनं संपरिवार्य पत्नयः
२.०५९.०१४ भृशं रुदन्त्यः करुणं सुदुःखिताः॑ प्रगृह्य बाहू व्यलपन्ननाथवत्
२.०६०.००१ तमग्निमिव संशान्तमम्बुहीनमिवार्णवम्
२.०६०.००१ हतप्रभमिवादित्यं स्वर्गथं प्रेक्ष्य भूमिपम्
२.०६०.००२ कौसल्या बाष्पपूर्णाक्षी विविधं शोककर्शिता
२.०६०.००२ उपगृह्य शिरो राज्ञः कैकेयीं प्रत्यभाषत
२.०६०.००३ सकामा भव कैकेयि भुङ्क्ष्व राज्यमकण्टकम्
२.०६०.००३ त्यक्त्वा राजानमेकाग्रा नृशंसे दुष्टचारिणि
२.०६०.००४ विहाय मां गतो रामो भर्ता च स्वर्गतो मम
२.०६०.००४ विपथे सार्थहीनेव नाहं जीवितुमुत्सहे
२.०६०.००५ भर्तारं तं परित्यज्य का स्त्री दैवतमात्मनः
२.०६०.००५ इच्छेज्जीवितुमन्यत्र कैकेय्यास्त्यक्तधर्मणः
२.०६०.००६ न लुब्धो बुध्यते दोषान् किं पाकमिव भक्षयन्
२.०६०.००६ कुब्जानिमित्तं कैकेय्या राघवाणान् कुलं हतम्
२.०६०.००७ अनियोगे नियुक्तेन राज्ञा रामं विवासितम्
२.०६०.००७ सभार्यं जनकः श्रुत्वा पतितप्स्यत्यहं यथा
२.०६०.००८ रामः कमलपत्राक्षो जीवनाशमितो गतः
२.०६०.००८ विदेहराजस्य सुता तहा सीता तपस्विनी
२.०६०.००८ दुःखस्यानुचिता दुःखं वने पर्युद्विजिष्यति
२.०६०.००९ नदतां भीमघोषाणां निशासु मृगपक्षिणाम्
२.०६०.००९ निशम्य नूनं संस्त्रस्ता राघवं संश्रयिष्यति
२.०६०.०१० वृद्धश्चैवाल्पपुत्रश्च वैदेहीमनिचिन्तयन्
२.०६०.०१० सोऽपि शोकसमाविष्टो ननु त्यक्ष्यति जीवितम्
२.०६०.०११ तां ततः संपरिष्वज्य विलपन्तीं तपस्विनीम्
२.०६०.०११ व्यपनिन्युः सुदुःखार्तां कौसल्यां व्यावहारिकाः
२.०६०.०१२ तैलद्रोण्यामथामात्याः संवेश्य जगतीपतिम्
२.०६०.०१२ राज्ञः सर्वाण्यथादिष्टाश्चक्रुः कर्माण्यनन्तरम्
२.०६०.०१३ न तु संकलनं राज्ञो विना पुत्रेण मन्त्रिणः
२.०६०.०१३ सर्वज्ञाः कर्तुमीषुस्ते ततो रक्षन्ति भूमिपम्
२.०६०.०१४ तैलद्रोण्यां तु सचिवैः शायितं तं नराधिपम्
२.०६०.०१४ हा मृतोऽयमिति ज्ञात्वा स्त्रियस्ताः पर्यदेवयन्
२.०६०.०१५ बाहूनुद्यम्य कृपणा नेत्रप्रस्रवणैर्मुखैः
२.०६०.०१५ रुदन्त्यः शोकसंतप्ताः कृपणं पर्यदेवयन्
२.०६०.०१६ निशानक्षत्रहीनेव स्त्रीव भर्तृविवर्जिता
२.०६०.०१६ पुरी नाराजतायोध्या हीना राज्ञा महात्मना
२.०६०.०१७ बाष्पपर्याकुलजना हाहाभूतकुलाङ्गना
२.०६०.०१७ शून्यचत्वरवेश्मान्ता न बभ्राज यथापुरम्
२.०६०.०१८ गतप्रभा द्यौरिव भास्करं विना॑ व्यपेतनक्षत्रगणेव शर्वरी
२.०६०.०१८ पुरी बभासे रहिता महात्मना॑ न चास्रकण्ठाकुलमार्गचत्वरा
२.०६०.०१९ नराश्च नार्यश्च समेत्य संघशो॑ विगर्हमाणा भरतस्य मातरम्
२.०६०.०१९ तदा नगर्यां नरदेवसंक्षये॑ बभूवुरार्ता न च शर्म लेभिरे
२.०६१.००१ व्यतीतायां तु शर्वर्यामादित्यस्योदये ततः
२.०६१.००१ समेत्य राजकर्तारः सभामीयुर्द्विजातयः
२.०६१.००२ मार्कण्डेयोऽथ मौद्गल्यो वामदेवश्च काश्यपः
२.०६१.००२ कात्ययनो गौतमश्च जाबालिश्च महायशाः
२.०६१.००३ एते द्विजाः सहामात्यैः पृथग्वाचमुदीरयन्
२.०६१.००३ वसिष्ठमेवाभिमुखाः श्रेष्ठो राजपुरोहितम्
२.०६१.००४ अतीता शर्वरी दुःखं या नो वर्षशतोपमा
२.०६१.००४ अस्मिन् पञ्चत्वमापन्ने पुत्रशोकेन पार्थिवे
२.०६१.००५ स्वर्गतश्च महाराजो रामश्चारण्यमाश्रितः
२.०६१.००५ लक्ष्मणश्चापि तेजस्वी रामेणैव गतः सह
२.०६१.००६ उभौ भरतशत्रुघ्नौ क्केकयेषु परंतपौ
२.०६१.००६ पुरे राजगृहे रम्ये मातामहनिवेशने
२.०६१.००७ इक्ष्वाकूणामिहाद्यैव कश्चिद्राजा विधीयताम्
२.०६१.००७ अराजकं हि नो राष्ट्रं न विनाशमवाप्नुयात्
२.०६१.००८ नाराजले जनपदे विद्युन्माली महास्वनः
२.०६१.००८ अभिवर्षति पर्जन्यो महीं दिव्येन वारिणा
२.०६१.००९ नाराजके जनपदे बीजमुष्टिः प्रकीर्यते
२.०६१.००९ नाराकके पितुः पुत्रो भार्या वा वर्तते वशे
२.०६१.०१० अराजके धनं नास्ति नास्ति भार्याप्यराजके
२.०६१.०१० इदमत्याहितं चान्यत्कुतः सत्यमराजके
२.०६१.०११ नाराजके जनपदे कारयन्ति सभां नराः
२.०६१.०११ उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च
२.०६१.०१२ नाराजके जनपदे यज्ञशीला द्विजातयः
२.०६१.०१२ सत्राण्यन्वासते दान्ता ब्राह्मणाः संशितव्रताः
२.०६१.०१३ नाराजके जनपदे प्रभूतनटनर्तकाः
२.०६१.०१३ उत्सवाश्च समाजाश्च वर्धन्ते राष्ट्रवर्धनाः
२.०६१.०१४ नारजके जनपदे सिद्धार्था व्यवहारिणः
२.०६१.०१४ कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः
२.०६१.०१५ नाराजके जनपदे वाहनैः शीघ्रगामिभिः
२.०६१.०१५ नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः
२.०६१.०१६ नाराकजे जनपदे धनवन्तः सुरक्षिताः
२.०६१.०१६ शेरते विवृत द्वाराः कृषिगोरक्षजीविनः
२.०६१.०१७ नाराजके जनपदे वणिजो दूरगामिनः
२.०६१.०१७ गच्छन्ति क्षेममध्वानं बहुपुण्यसमाचिताः
२.०६१.०१८ नाराजके जनपदे चरत्येकचरो वशी
२.०६१.०१८ भावयन्नात्मनात्मानं यत्रसायंगृहो मुनिः
२.०६१.०१९ नाराजके जनपदे योगक्षेमं प्रवर्तते
२.०६१.०१९ न चाप्यराजके सेना शत्रून् विषहते युधि
२.०६१.०२० यथा ह्यनुदका नद्यो यथा वाप्यतृणं वनम्
२.०६१.०२० अगोपाला यथा गावस्तथा राष्ट्रमराजकम्
२.०६१.०२१ नाराजके जनपदे स्वकं भवति कस्य चित्
२.०६१.०२१ मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम्
२.०६१.०२२ येहि संभिन्नमर्यादा नास्तिकाश्छिन्नसंशयाः
२.०६१.०२२ तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः
२.०६१.०२३ अहो तम इवेदं स्यान्न प्रज्ञायेत किं चन
२.०६१.०२३ राजा चेन्न भवेंल्लोके विभजन् साध्वसाधुनी
२.०६१.०२४ जीवत्यपि महाराजे तवैव वचनं वयम्
२.०६१.०२४ नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः
२.०६१.०२५ स नः समीक्ष्य द्विजवर्यवृत्तं॑ नृपं विना राज्यमरण्यभूतम्
२.०६१.०२५ कुमारमिक्ष्वाकुसुतं वदान्यं॑ त्वमेव राजानमिहाभिषिञ्चय
२.०६२.००१ तेषां तद्वचनं श्रुत्वा वसिष्ठः प्रत्युवाच ह
२.०६२.००१ मित्रामात्यगणान् सर्वान् ब्राह्मणांस्तानिदं वचः
२.०६२.००२ यदसौ मातुलकुले पुरे राजगृहे सुखी
२.०६२.००२ भरतो वसति भ्रात्रा शत्रुघ्नेन समन्वितः
२.०६२.००३ तच्छीघ्रं जवना दूता गच्छन्तु त्वरितैर्हयैः
२.०६२.००३ आनेतुं भ्रातरौ वीरौ किं समीक्षामहे वयम्
२.०६२.००४ गच्छन्त्विति ततः सर्वे वसिष्ठं वाक्यमब्रुवन्
२.०६२.००४ तेषां तद्वचनं श्रुत्वा वसिष्ठो वाक्यमब्रवीत्
२.०६२.००५ एहि सिद्धार्थ विजय जयन्ताशोकनन्दन
२.०६२.००५ श्रूयतामितिकर्तव्यं सर्वानेव ब्रवीमि वः
२.०६२.००६ पुरं राजगृहं गत्वा शीघ्रं शीघ्रजवैर्हयैः
२.०६२.००६ त्यक्तशोकैरिदं वाच्यः शासनाद्भरतो मम
२.०६२.००७ पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः
२.०६२.००७ त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया
२.०६२.००८ मा चास्मै प्रोषितं रामं मा चास्मै पितरं मृतम्
२.०६२.००८ भवन्तः शंसिषुर्गत्वा राघवाणामिमं क्षयम्
२.०६२.००९ कौशेयानि च वस्त्राणि भूषणानि वराणि च
२.०६२.००९ क्षिप्रमादाय राज्ञश्च भरतस्य च गच्छत
२.०६२.००९ वसिष्ठेनाभ्यनुज्ञाता दूताः संत्वरिता ययुः
२.०६२.०१० ते हस्तिन पुरे गङ्गां तीर्त्वा प्रत्यङ्मुखा ययुः
२.०६२.०१० पाञ्चालदेशमासाद्य मध्येन कुरुजाङ्गलम्
२.०६२.०११ ते प्रसन्नोदकां दिव्यां नानाविहगसेविताम्
२.०६२.०११ उपातिजग्मुर्वेगेन शरदण्डां जनाकुलाम्
२.०६२.०१२ निकूलवृक्षमासाद्य दिव्यं सत्योपयाचनम्
२.०६२.०१२ अभिगम्याभिवाद्यं तं कुलिङ्गां प्राविशन् पुरीम्
२.०६२.०१३ अभिकालं ततः प्राप्य तेजोऽभिभवनाच्च्युताः
२.०६२.०१३ ययुर्मध्येन बाह्लीकान् सुदामानं च पर्वतम्
२.०६२.०१३ विष्णोः पदं प्रेक्षमाणा विपाशां चापि शाल्मलीम्
२.०६२.०१४ ते श्रान्तवाहना दूता विकृष्टेन सता पथा
२.०६२.०१४ गिरि व्रजं पुर वरं शीघ्रमासेदुरञ्जसा
२.०६२.०१५ भर्तुः प्रियार्थं कुलरक्षणार्थं॑ भर्तुश्च वंशस्य परिग्रहार्थम्
२.०६२.०१५ अहेडमानास्त्वरया स्म दूता॑ रात्र्यां तु ते तत्पुरमेव याताः
२.०६३.००१ यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम्
२.०६३.००१ भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः
२.०६३.००२ व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम्
२.०६३.००२ पुत्रो राजाधिराजस्य सुभृशं पर्यतप्यत
२.०६३.००३ तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः
२.०६३.००३ आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः
२.०६३.००४ वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे
२.०६३.००४ नाटकान्यपरे प्राहुर्हास्यानि विविधानि च
२.०६३.००५ स तैर्महात्मा भरतः सखिभिः प्रिय वादिभिः
२.०६३.००५ गोष्ठीहास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः
२.०६३.००६ तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम्
२.०६३.००६ सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे
२.०६३.००७ एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह
२.०६३.००७ शृणु त्वं यन्निमित्तंमे दैन्यमेतदुपागतम्
२.०६३.००८ स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम्
२.०६३.००८ पतन्तमद्रिशिखरात्कलुषे गोमये ह्रदे
२.०६३.००९ प्लवमानश्च मे दृष्टः स तस्मिन् गोमयह्रदे
२.०६३.००९ पिबन्नञ्जलिना तैलं हसन्निव मुहुर्मुहुः
२.०६३.०१० ततस्तिलोदनं भुक्त्वा पुनः पुनरधःशिराः
२.०६३.०१० तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत
२.०६३.०११ स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि
२.०६३.०११ सहसा चापि संशन्तं ज्वलितं जातवेदसं
२.०६३.०१२ अवदीर्णां च पृथिवीं शुष्कांश्च विविधान् द्रुमान्
२.०६३.०१२ अहं पश्यामि विध्वस्तान् सधूमांश्चैव पार्वतान्
२.०६३.०१३ पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससं
२.०६३.०१३ प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः
२.०६३.०१४ त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः
२.०६३.०१४ रथेन खरयुक्तेन प्रयातो दक्षिणामुखः
२.०६३.०१५ एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम्
२.०६३.०१५ अहं रामोऽथ वा राजा लक्ष्मणो वा मरिष्यति
२.०६३.०१६ नरो यानेन यः स्वप्ने खरयुक्तेन याति हि
२.०६३.०१६ अचिरात्तस्य धूमाग्रं चितायां संप्रदृश्यते
२.०६३.०१६ एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये
२.०६३.०१७ शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः
२.०६३.०१७ जुगुप्सन्निव चात्मानं न च पश्यामि कारणम्
२.०६३.०१८ इमां हि दुःस्वप्नगतिं निशाम्य ताम्॑ अनेकरूपामवितर्कितां पुरा
२.०६३.०१८ भयं महत्तद्धृदयान्न याति मे॑ विचिन्त्य राजानमचिन्त्यदर्शनम्
२.०६४.००१ भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः
२.०६४.००१ प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम्
२.०६४.००२ समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः
२.०६४.००२ राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः
२.०६४.००३ पुरोहितस्त्वा कुशलं प्राह सर्वे च मन्त्रिणः
२.०६४.००३ त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया
२.०६४.००४ अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते
२.०६४.००४ दशकोट्यस्तु संपूर्णास्तथैव च नृपात्मज
२.०६४.००५ प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने
२.०६४.००५ दूतानुवाच भरतः कामैः संप्रतिपूज्य तान्
२.०६४.००६ कच्चित्सुकुशली राजा पिता दशरथो मम
२.०६४.००६ कच्चिच्चारागता रामे लक्ष्मणे वा महात्मनि
२.०६४.००७ आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी
२.०६४.००७ अरोगा चापि कौसल्या माता रामस्य धीमतः
२.०६४.००८ कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या
२.०६४.००८ शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा
२.०६४.००९ आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी
२.०६४.००९ अरोगा चापि कैकेयी माता मे किमुवाच ह
२.०६४.०१० एवमुक्तास्तु ते दूता भरतेन महात्मना
२.०६४.०१० ऊचुः संप्रश्रितं वाक्यमिदं तं भरतं तदा
२.०६४.०१० कुशलास्ते नरव्याघ्र येषां कुशलमिच्छसि
२.०६४.०११ भरतश्चापि तान् दूतानेवमुक्तोऽभ्यभाषत
२.०६४.०११ आपृच्छेऽहं महाराजं दूताः संत्वरयन्ति माम्
२.०६४.०१२ एवमुक्त्वा तु तान् दूतान् भरतः पार्थिवात्मजः
२.०६४.०१२ दूतैः संचोदितो वाक्यं मातामहमुवाच ह
२.०६४.०१३ राजन् पितुर्गमिष्यामि सकाशं दूतचोदितः
२.०६४.०१३ पुनरप्यहमेष्यामि यदा मे त्वं स्मरिष्यसि
२.०६४.०१४ भरतेनैवमुक्तस्तु नृपो मातामहस्तदा
२.०६४.०१४ तमुवाच शुभं वाक्यं शिरस्याघ्राय राघवम्
२.०६४.०१५ गच्छ तातानुजाने त्वां कैकेयी सुप्रजास्त्वया
२.०६४.०१५ मातरं कुशलं ब्रूयाः पितरं च परंतप
२.०६४.०१६ पुरोहितं च कुशलं ये चान्ये द्विजसत्तमाः
२.०६४.०१६ तौ च तात महेष्वासौ भ्रातरु रामलक्ष्मणौ
२.०६४.०१७ तस्मै हस्त्युत्तमांश्चित्रान् कम्बलानजिनानि च
२.०६४.०१७ अभिसत्कृत्य कैकेयो भरताय धनं ददौ
२.०६४.०१८ रुक्म निष्कसहस्रे द्वे षोडशाश्वशतानि च
२.०६४.०१८ सत्कृत्य कैकेयी पुत्रं केकयो धनमादिशत्
२.०६४.०१९ तथामात्यानभिप्रेतान् विश्वास्यांश्च गुणान्वितान्
२.०६४.०१९ ददावश्वपतिः शीघ्रं भरतायानुयायिनः
२.०६४.०२० ऐरावतानैन्द्रशिरान्नागान् वै प्रियदर्शनान्
२.०६४.०२० खराञ्शीघ्रान् सुसंयुक्तान्मातुलोऽस्मै धनं ददौ
२.०६४.०२१ अन्तःपुरेऽतिसंवृद्धान् व्याघ्रवीर्यबलान्वितान्
२.०६४.०२१ दंष्ट्रायुधान्महाकायाञ्शुनश्चोपायनं ददौ
२.०६४.०२२ स मातामहमापृच्छ्य मातुलं च युधाजितम्
२.०६४.०२२ रथमारुह्य भरतः शत्रुघ्नसहितो ययौ
२.०६४.०२३ रथान्मण्डलचक्रांश्च योजयित्वा परःशतम्
२.०६४.०२३ उष्ट्रगोऽश्वखरैर्भृत्या भरतं यान्तमन्वयुः
२.०६४.०२४ बलेन गुप्तो भरतो महात्मा॑ सहार्यकस्यात्मसमैरमात्यैः
२.०६४.०२४ आदाय शत्रुघ्नमपेतशत्रुर्॑ गृहाद्ययौ सिद्ध इवेन्द्रलोकात्
२.०६५.००१ स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान्
२.०६५.००१ ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम्
२.०६५.००१ शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः
२.०६५.००२ एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्
२.०६५.००२ शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम्
२.०६५.००३ सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम्
२.०६५.००३ अत्ययात्स महाशैलान् वनं चैत्ररथं प्रति
२.०६५.००४ वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम्
२.०६५.००४ यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा
२.०६५.००५ शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः
२.०६५.००५ तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम्
२.०६५.००६ राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम्
२.०६५.००६ भद्रो भद्रेण यानेन मारुतः खमिवात्ययात्
२.०६५.००७ तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत्
२.०६५.००७ वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः
२.०६५.००८ तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ
२.०६५.००८ उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः
२.०६५.००९ सालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः
२.०६५.००९ अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ
२.०६५.०१० वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम्
२.०६५.०१० अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः
२.०६५.०११ हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत
२.०६५.०११ ततार च नरव्याघ्रो लौहित्ये स कपीवतीम्
२.०६५.०११ एकसाले स्थाणुमतीं विनते गोमतीं नदीम्
२.०६५.०१२ कलिङ्ग नगरे चापि प्राप्य सालवनं तदा
२.०६५.०१२ भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः
२.०६५.०१३ वनं च समतीत्याशु शर्वर्यामरुणोदये
२.०६५.०१३ अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह
२.०६५.०१४ तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि
२.०६५.०१४ अयोध्यामग्रतो दृष्ट्वा रथे सारथिमब्रवीत्
२.०६५.०१५ एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी
२.०६५.०१५ अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका
२.०६५.०१६ यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः
२.०६५.०१६ भूयिष्ठमृष्हैराकीर्णा राजर्षिवरपालिता
२.०६५.०१७ अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान्
२.०६५.०१७ समन्तान्नरनारीणां तमद्य न शृणोम्यहम्
२.०६५.०१८ उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः
२.०६५.०१८ समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा
२.०६५.०१९ तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः
२.०६५.०१९ अरण्यभूतेव पुरी सारथे प्रतिभाति मे
२.०६५.०२० न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः
२.०६५.०२० निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम्
२.०६५.०२१ अनिष्टानि च पापानि पश्यामि विविधानि च
२.०६५.०२१ निमित्तान्यमनोज्ञानि तेन सीदति ते मनः
२.०६५.०२२ द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः
२.०६५.०२२ द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ
२.०६५.०२३ स त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम्
२.०६५.०२३ सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः
२.०६५.०२४ श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने
२.०६५.०२४ आकारास्तानहं सर्वानिह पश्यामि सारथे
२.०६५.०२५ मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्
२.०६५.०२५ सस्त्री पुंसं च पश्यामि जनमुत्कण्ठितं पुरे
२.०६५.०२६ इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः
२.०६५.०२६ तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ
२.०६५.०२७ तां शून्यशृङ्गाटकवेश्मरथ्यां॑ रजोऽरुणद्वारकपाटयन्त्राम्
२.०६५.०२७ दृष्ट्वा पुरीमिन्द्रपुरी प्रकाशां॑ दुःखेन संपूर्णतरो बभूव
२.०६५.०२८ बहूनि पश्यन्मनसोऽप्रियाणि॑ यान्यन्न्यदा नास्य पुरे बभूवुः
२.०६५.०२८ अवाक्शिरा दीनमना नहृष्टः॑ पितुर्महात्मा प्रविवेश वेश्म
२.०६६.००१ अपश्यंस्तु ततस्तत्र पितरं पितुरालये
२.०६६.००१ जगाम भरतो द्रष्टुं मातरं मातुरालये
२.०६६.००२ अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम्
२.०६६.००२ उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसं
२.०६६.००३ स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम्
२.०६६.००३ भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ
२.०६६.००४ तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम्
२.०६६.००४ अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे
२.०६६.००५ अद्य ते कति चिद्रात्र्यश्च्युतस्यार्यकवेश्मनः
२.०६६.००५ अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव
२.०६६.००६ आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तव
२.०६६.००६ प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि
२.०६६.००७ एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः
२.०६६.००७ आचष्ट भरतः सर्वं मात्रे राजीवलोचनः
२.०६६.००८ अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः
२.०६६.००८ अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे
२.०६६.००९ यन्मे धनं च रत्नं च
ददौ राजा परंतपः
२.०६६.००९ परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः
२.०६६.०१० राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः
२.०६६.०१० यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि
२.०६६.०११ शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः
२.०६६.०११ न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे
२.०६६.०१२ राजा भवति भूयिष्ठ्गमिहाम्बाया निवेशने
२.०६६.०१२ तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः
२.०६६.०१३ पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः
२.०६६.०१३ आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने
२.०६६.०१४ तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम्
२.०६६.०१४ अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता
२.०६६.०१४ या गतिः सर्वभूतानां तां गतिं ते पिता गतः
२.०६६.०१५ तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः
२.०६६.०१५ पपात सहसा भूमौ पितृशोकबलार्दितः
२.०६६.०१६ ततः शोकेन संवीतः पितुर्मरणदुःखितः
२.०६६.०१६ विललाप महातेजा भ्रान्ताकुलितचेतनः
२.०६६.०१७ एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा
२.०६६.०१७ तदिदं न विभात्यद्य विहीनं तेन धीमता
२.०६६.०१८ तमार्तं देवसंकाशं समीक्ष्य पतितं भुवि
२.०६६.०१८ उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत्
२.०६६.०१९ उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः
२.०६६.०१९ त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः
२.०६६.०२० स रुदत्या चिरं कालं भूमौ विपरिवृत्य च
२.०६६.०२० जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः
२.०६६.०२१ अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति
२.०६६.०२१ इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम्
२.०६६.०२२ तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम
२.०६६.०२२ पितरं यो न पश्यामि नित्यं प्रियहिते रतम्
२.०६६.०२३ अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते
२.०६६.०२३ धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम्
२.०६६.०२४ न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान्
२.०६६.०२४ उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम्
२.०६६.०२५ क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः
२.०६६.०२५ येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति
२.०६६.०२६ यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः
२.०६६.०२६ तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः
२.०६६.०२७ पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः
२.०६६.०२७ तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम
२.०६६.०२८ आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः
२.०६६.०२८ पश्चिमं साधुसंदेशमिच्छामि श्रोतुमात्मनः
२.०६६.०२९ इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत्
२.०६६.०२९ रामेति राजा विलपन् हा सीते लक्ष्मणेति च
२.०६६.०२९ स महात्मा परं लोकं गतो गतिमतां वरः
२.०६६.०३० इमां तु पश्चिमां वाचं व्याजहार पिता तव
२.०६६.०३० काल धर्मपरिक्षिप्तः पाशैरिव महागजः
२.०६६.०३१ सिद्धार्थास्तु नरा राममागतं सीतया सह
२.०६६.०३१ लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम्
२.०६६.०३२ तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात्
२.०६६.०३२ विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम्
२.०६६.०३३ क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः
२.०६६.०३३ लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः
२.०६६.०३४ तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे
२.०६६.०३४ मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया
२.०६६.०३५ स हि राजसुतः पुत्र चीरवासा महावनम्
२.०६६.०३५ दण्डकान् सह वैदेह्या लक्ष्मणानुचरो गतः
२.०६६.०३६ तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया
२.०६६.०३६ स्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे
२.०६६.०३७ कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्य चित्
२.०६६.०३७ कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः
२.०६६.०३८ कच्चिन्न परदारान् वा राजपुत्रोऽभिमन्यते
२.०६६.०३८ कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः
२.०६६.०३९ अथास्य चपला माता तत्स्वकर्म यथातथम्
२.०६६.०३९ तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे
२.०६६.०४० न ब्राह्मण धनं किंचिद्धृतं रामेण कस्य चित्
२.०६६.०४० कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः
२.०६६.०४० न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति
२.०६६.०४१ मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम्
२.०६६.०४१ याचितस्ते पिता राज्यं रामस्य च विवासनम्
२.०६६.०४२ स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत्
२.०६६.०४२ रामश्च सहसौमित्रिः प्रेषितः सह सीतया
२.०६६.०४३ तमपश्यन् प्रियं पुत्रं महीपालो महायशाः
२.०६६.०४३ पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान्
२.०६६.०४४ त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम्
२.०६६.०४४ त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम्
२.०६६.०४५ तत्पुत्र शीघ्रं विधिना विधिज्ञैर्॑ वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः
२.०६६.०४५ संकाल्य राजानमदीनसत्त्वम्॑ आत्मानमुर्व्यामभिषेचयस्व
२.०६७.००१ श्रुत्वा तु पितरं वृत्तं भ्रातरु च विवासितौ
२.०६७.००१ भरतो दुःखसंतप्त इदं वचनमब्रवीत्
२.०६७.००२ किं नुण्कार्यं हतस्येह मम राज्येन शोचतः
२.०६७.००२ विहीनस्याथ पित्रा च भ्रात्रा पितृसमेन च
२.०६७.००३ दुःखे मे दुःखमकरोर्व्रणे क्षारमिवादधाः
२.०६७.००३ राजानं प्रेतभावस्थं कृत्वा रामं च तापसं
२.०६७.००४ कुलस्य त्वमभावाय कालरात्रिरिवागता
२.०६७.००४ अङ्गारमुपगूह्य स्म पिता मे नावबुद्धवान्
२.०६७.००५ कौसल्या च सुमित्रा च पुत्रशोकाभिपीडिते
२.०६७.००५ दुष्करं यदि जीवेतां प्राप्य त्वां जननीं मम
२.०६७.००६ ननु त्वार्योऽपि धर्मात्मा त्वयि वृत्तिमनुत्तमाम्
२.०६७.००६ वर्तते गुरुवृत्तिज्ञो यथा मातरि वर्तते
२.०६७.००७ तथा ज्येष्ठा हि मे माता कौसल्या दीर्घदर्शिनी
२.०६७.००७ त्वयि धर्मं समास्थाय भगिन्यामिव वर्तते
२.०६७.००८ तस्याः पुत्रं कृतात्मानं चीरवल्कलवाससं
२.०६७.००८ प्रस्थाप्य वनवासाय कथं पापे न शोचसि
२.०६७.००९ अपापदर्शिनं शूरं कृतात्मानं यशस्विनम्
२.०६७.००९ प्रव्राज्य चीरवसनं किं नु पश्यसि कारणम्
२.०६७.०१० लुब्धाया विदितो मन्ये न तेऽहं राघवं प्रति
२.०६७.०१० तथा ह्यनर्थो राज्यार्थं त्वया नीतो महानयम्
२.०६७.०११ अहं हि पुरुषव्याघ्रावपश्यन् रामलक्ष्मणौ
२.०६७.०११ केन शक्तिप्रभावेन राज्यं रक्षितुमुत्सहे
२.०६७.०१२ तं हि नित्यं महाराजो बलवन्तं महाबलः
२.०६७.०१२ अपाश्रितोऽभूद्धर्मात्मा मेरुर्मेरुवनं यथा
२.०६७.०१३ सोऽहं कथमिमं भारं महाधुर्यसमुद्यतम्
२.०६७.०१३ दम्यो धुरमिवासाद्य सहेयं केन चौजसा
२.०६७.०१४ अथ वा मे भवेच्छक्तिर्योगैर्बुद्धिबलेन वा
२.०६७.०१४ सकामां न करिष्यामि त्वामहं पुत्रगर्धिनीम्
२.०६७.०१४ निवर्तयिष्यामि वनाद्भ्रातरं स्वजनप्रियम्
२.०६७.०१५ इत्येवमुक्त्वा भरतो महात्मा॑ प्रियेतरैर्वाक्यगणैस्तुदंस्ताम्
२.०६७.०१५ शोकातुरश्चापि ननाद भूयः॑ सिंहो यथा पर्वतगह्वरस्थः
२.०६८.००१ तां तथा गर्हयित्वा तु मातरं भरतस्तदा
२.०६८.००१ रोषेण महताविष्टः पुनरेवाब्रवीद्वचः
२.०६८.००२ राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि
२.०६८.००२ परित्यक्ता च धर्मेण मा मृतं रुदती भव
२.०६८.००३ किं नु तेऽदूषयद्राजा रामो वा भृशधार्मिकः
२.०६८.००३ ययोर्मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ
२.०६८.००४ भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात्
२.०६८.००४ कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम्
२.०६८.००५ यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा
२.०६८.००५ सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम्
२.०६८.००६ त्वत्कृते मे पिता वृत्तो रामश्चारण्यमाश्रितः
२.०६८.००६ अयशो जीवलोके च त्वयाहं प्रतिपादितः
२.०६८.००७ मातृरूपे ममामित्रे नृशंसे राज्यकामुके
२.०६८.००७ न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि
२.०६८.००८ कौसल्या च सुमित्रा च याश्चान्या मम मातरः
२.०६८.००८ दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम्
२.०६८.००९ न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः
२.०६८.००९ राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः
२.०६८.०१० यत्त्वया धार्मिको रामो नित्यं सत्यपरायणः
२.०६८.०१० वनं प्रस्थापितो दुःखात्पिता च त्रिदिवं गतः
२.०६८.०११ यत्प्रधानासि तत्पापं मयि पित्रा विनाकृते
२.०६८.०११ भ्रातृभ्यां च परित्यक्ते सर्वलोकस्य चाप्रिये
२.०६८.०१२ कौसल्यां धर्मसंयुक्तां वियुक्तां पापनिश्चये
२.०६८.०१२ कृत्वा कं प्राप्स्यसे त्वद्य लोकं निरयगामिनी
२.०६८.०१३ किं नावबुध्यसे क्रूरे नियतं बन्धुसंश्रयम्
२.०६८.०१३ ज्येष्ठं पितृसमं रामं कौसल्यायात्मसंभवम्
२.०६८.०१४ अङ्गप्रत्यङ्गजः पुत्रो हृदयाच्चापि जायते
२.०६८.०१४ तस्मात्प्रियतरो मातुः प्रियत्वान्न तु बान्धवः
२.०६८.०१५ अन्यदा किल धर्मज्ञा सुरभिः सुरसंमता
२.०६८.०१५ वहमानौ ददर्शोर्व्यां पुत्रौ विगतचेतसौ
२.०६८.०१६ तावर्धदिवसे श्रान्तौ दृष्ट्वा पुत्रौ महीतले
२.०६८.०१६ रुरोद पुत्र शोकेन बाष्पपर्याकुलेक्षणा
२.०६८.०१७ अधस्ताद्व्रजतस्तस्याः सुरराज्ञो महात्मनः
२.०६८.०१७ बिन्दवः पतिता गात्रे सूक्ष्माः सुरभिगन्धिनः
२.०६८.०१८ तां दृष्ट्वा शोकसंतप्तां वज्रपाणिर्यशस्विनीम्
२.०६८.०१८ इन्द्रः प्राञ्जलिरुद्विग्नः सुरराजोऽब्रवीद्वचः
२.०६८.०१९ भयं कच्चिन्न चास्मासु कुतश्चिद्विद्यते महत्
२.०६८.०१९ कुतो निमित्तः शोकस्ते ब्रूहि सर्वहितैषिणि
२.०६८.०२० एवमुक्ता तु सुरभिः सुरराजेन धीमता
२.०६८.०२० पत्युवाच ततो धीरा वाक्यं वाक्यविशारदा
२.०६८.०२१ शान्तं पातं न वः किं चित्कुतश्चिदमराधिप
२.०६८.०२१ अहं तु मग्नौ शोचामि स्वपुत्रौ विषमे स्थितौ
२.०६८.०२२ एतौ दृष्ट्वा कृषौ दीनौ सूर्यरश्मिप्रतापिनौ
२.०६८.०२२ वध्यमानौ बलीवर्दौ कर्षकेण सुराधिप
२.०६८.०२३ मम कायात्प्रसूतौ हि दुःखितौ भार पीडितौ
२.०६८.०२३ यौ दृष्ट्वा परितप्येऽहं नास्ति पुत्रसमः प्रियः
२.०६८.०२४ यस्याः पुत्र सहस्राणि सापि शोचति कामधुक्
२.०६८.०२४ किं पुनर्या विना रामं कौसल्या वर्तयिष्यति
२.०६८.०२५ एकपुत्रा च साध्वी च विवत्सेयं त्वया कृता
२.०६८.०२५ तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे
२.०६८.०२६ अहं ह्यपचितिं भ्रातुः पितुश्च सकलामिमाम्
२.०६८.०२६ वर्धनं यशसश्चापि करिष्यामि न संशयः
२.०६८.०२७ आनाययित्वा तनयं कौसल्याया महाद्युतिम्
२.०६८.०२७ स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम्
२.०६८.०२८ इति नाग इवारण्ये तोमराङ्कुशचोदितः
२.०६८.०२८ पपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः
२.०६८.०२९ संरक्तनेत्रः शिथिलाम्बरस्तदा॑ विधूतसर्वाभरणः परंतपः
२.०६८.०२९ बभूव भूमौ पतितो नृपात्मजः॑ शचीपतेः केतुरिवोत्सवक्षये
२.०६९.००१ तथैव क्रोशतस्तस्य भरतस्य महात्मनः
२.०६९.००१ कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्
२.०६९.००२ आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः
२.०६९.००२ तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्
२.०६९.००३ एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा
२.०६९.००३ प्रतस्थे भरतो यत्र वेपमाना विचेतना
२.०६९.००४ स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा
२.०६९.००४ प्रतस्थे भरतो यत्र कौसल्याया निवेशनम्
२.०६९.००५ ततः शत्रुघ्न भरतौ कौसल्यां प्रेक्ष्य दुःखितौ
२.०६९.००५ पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम्
२.०६९.००६ भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता
२.०६९.००६ इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्
२.०६९.००६ संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा
२.०६९.००७ प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्
२.०६९.००७ कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी
२.०६९.००८ क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति
२.०६९.००८ हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः
२.०६९.००९ अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम्
२.०६९.००९ अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः
२.०६९.०१० कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि
२.०६९.०१० यत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः
२.०६९.०११ इदं हि तव विस्तीर्णं धनधान्यसमाचितम्
२.०६९.०११ हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया
२.०६९.०१२ एवं विलपमानां तां भरतः प्राञ्जलिस्तदा
२.०६९.०१२ कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्
२.०६९.०१३ आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम्
२.०६९.०१३ विपुलां च मम प्रीतिं स्थिरां जानासि राघवे
२.०६९.०१४ कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदा चन
२.०६९.०१४ सत्यसंधः सतां श्रेष्ठो यस्यार्योऽनुमते गतः
२.०६९.०१५ प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु
२.०६९.०१५ हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः
२.०६९.०१६ कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम्
२.०६९.०१६ अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः
२.०६९.०१७ परिपालयमानस्य राज्ञो भूतानि पुत्रवत्
२.०६९.०१७ ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः
२.०६९.०१८ बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः
२.०६९.०१८ अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः
२.०६९.०१९ संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम्
२.०६९.०१९ तां विप्रलपतां पापं यस्यार्योऽनुमते गतः
२.०६९.०२० हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले
२.०६९.०२० मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः
२.०६९.०२१ उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता
२.०६९.०२१ स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः
२.०६९.०२२ पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः
२.०६९.०२२ गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः
२.०६९.०२३ पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः
२.०६९.०२३ स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः
२.०६९.०२४ राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते
२.०६९.०२४ भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्
२.०६९.०२५ उभे संध्ये शयानस्य यत्पापं परिकल्प्यते
२.०६९.०२५ तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः
२.०६९.०२६ यदग्निदायके पापं यत्पापं गुरुतल्पगे
२.०६९.०२६ मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम्
२.०६९.०२७ देवतानां पितॄणां च माता पित्रोस्तथैव च
२.०६९.०२७ मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः
२.०६९.०२८ सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा
२.०६९.०२८ भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः
२.०६९.०२९ विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः
२.०६९.०२९ एवमाश्वसयन्नेव दुःखार्तो निपपात ह
२.०६९.०३० तथा तु शपथैः कष्टैः शपमानमचेतनम्
२.०६९.०३० भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत्
२.०६९.०३१ मम दुःखमिदं पुत्र भूयः समुपजायते
२.०६९.०३१ शपथैः शपमानो हि प्राणानुपरुणत्सि मे
२.०६९.०३२ दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः
२.०६९.०३२ वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि
२.०६९.०३३ एवं विलपमानस्य दुःखार्तस्य महात्मनः
२.०६९.०३३ मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः
२.०६९.०३४ लालप्यमानस्य विचेतनस्य॑ प्रनष्टबुद्धेः पतितस्य भूमौ
२.०६९.०३४ मुहुर्मुहुर्निःश्वसतश्च दीर्घं॑ सा तस्य शोकेन जगाम रात्रिः
२.०७०.००१ तमेवं शोकसंतप्तं भरतं केकयीसुतम्
२.०७०.००१ उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः
२.०७०.००२ अलं शोकेन भद्रं ते राजपुत्र महायशः
२.०७०.००२ प्राप्तकालं नरपतेः कुरु संयानमुत्तरम्
२.०७०.००३ वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः
२.०७०.००३ प्रेतकार्याणि सर्वाणि कारयामास धर्मवित्
२.०७०.००४ उद्धृतं तैलसंक्लेदात्स तु भूमौ निवेशितम्
२.०७०.००४ आपीतवर्णवदनं प्रसुप्तमिव भूमिपम्
२.०७०.००५ निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते
२.०७०.००५ ततो दशरथं पुत्रो विललाप सुदुःखितः
२.०७०.००६ किं ते व्यवसितं राजन् प्रोषिते मय्यनागते
२.०७०.००६ विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम्
२.०७०.००७ क्व यास्यसि महाराज हित्वेमं दुःखितं जनम्
२.०७०.००७ हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा
२.०७०.००८ योगक्षेमं तु ते राजन् कोऽस्मिन् कल्पयिता पुरे
२.०७०.००८ त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते
२.०७०.००९ विधवा पृथिवी राजंस्त्वया हीना न राजते
२.०७०.००९ हीनचन्द्रेव रजनी नगरी प्रतिभाति माम्
२.०७०.०१० एवं विलपमानं तं भरतं दीनमानसं
२.०७०.०१० अब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः
२.०७०.०११ प्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः
२.०७०.०११ तान्यव्यग्रं महाबाहो क्रियतामविचारितम्
२.०७०.०१२ तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्
२.०७०.०१२ ऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः
२.०७०.०१३ ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः
२.०७०.०१३ ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि
२.०७०.०१४ शिबिलायामथारोप्य राजानं गतचेतनम्
२.०७०.०१४ बाष्पकण्ठा विमनसस्तमूहुः परिचारकाः
२.०७०.०१५ हिरण्यं च सुवर्णं च वासांसि विविधानि च
२.०७०.०१५ प्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः
२.०७०.०१६ चन्दनागुरुनिर्यासान् सरलं पद्मकं तथा
२.०७०.०१६ देवदारूणि चाहृत्य चितां चक्रुस्तथापरे
२.०७०.०१७ गन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम्
२.०७०.०१७ ततः संवेशयामासुश्चितामध्ये तमृत्विजः
२.०७०.०१८ तथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजः
२.०७०.०१८ जगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः
२.०७०.०१९ शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः
२.०७०.०१९ नगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा
२.०७०.०२० प्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम्
२.०७०.०२० स्त्रियश्च शोकसंतप्ताः कौसल्या प्रमुखास्तदा
२.०७०.०२१ क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे
२.०७०.०२१ आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः
२.०७०.०२२ ततो रुदन्त्यो विवशा विलप्य च पुनः पुनः
२.०७०.०२२ यानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः
२.०७०.०२३ कृतोदकं ते भरतेन सार्धं॑ नृपाङ्गना मन्त्रिपुरोहिताश्च
२.०७०.०२३ पुरं प्रविश्याश्रुपरीतनेत्रा॑ भूमौ दशाहं व्यनयन्त दुःखम्
२.०७१.००१ ततो दशाहेऽतिगते कृतशौचो नृपात्मजः
२.०७१.००१ द्वादशेऽहनि संप्राप्ते श्राद्धकर्माण्यकारयत्
२.०७१.००२ ब्राह्मणेभ्यो ददौ रत्नं धनमन्नं च पुष्कलम्
२.०७१.००२ बास्तिकं बहुशुक्लं च गाश्चापि शतशस्तथा
२.०७१.००३ दासीदासं च यानं च वेश्मानि सुमहान्ति च
२.०७१.००३ ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्ध्वदैहिकम्
२.०७१.००४ ततः प्रभातसमये दिवसेऽथ त्रयोदशे
२.०७१.००४ विललाप महाबाहुर्भरतः शोकमूर्छितः
२.०७१.००५ शब्दापिहितकण्ठश्च शोधनार्थमुपागतः
२.०७१.००५ चितामूले पितुर्वाक्यमिदमाह सुदुःखितः
२.०७१.००६ तात यस्मिन्निषृष्टोऽहं त्वया भ्रातरि राघवे
२.०७१.००६ तस्मिन् वनं प्रव्रजिते शून्ये त्यक्तोऽस्म्यहं त्वया
२.०७१.००७ यथागतिरनाथायाः पुत्रः प्रव्राजितो वनम्
२.०७१.००७ तामम्बां तात कौसल्यां त्यक्त्वा त्वं क्व गतो नृप
२.०७१.००८ दृष्ट्वा भस्मारुणं तच्च दग्धास्थिस्थानमण्डलम्
२.०७१.००८ पितुः शरीर निर्वाणं निष्टनन् विषसाद ह
२.०७१.००९ स तु दृष्ट्वा रुदन् दीनः पपात धरणीतले
२.०७१.००९ उत्थाप्यमानः शक्रस्य यन्त्र ध्वज इव च्युतः
२.०७१.०१० अभिपेतुस्ततः सर्वे तस्यामात्याः शुचिव्रतम्
२.०७१.०१० अन्तकाले निपतितं ययातिमृषयो यथा
२.०७१.०११ शत्रुघ्नश्चापि भरतं दृष्ट्वा शोकपरिप्लुतम्
२.०७१.०११ विसंज्ञो न्यपतद्भूमौ भूमिपालमनुस्मरन्
२.०७१.०१२ उन्मत्त इव निश्चेता विललाप सुदुःखितः
२.०७१.०१२ स्मृत्वा पितुर्गुणाङ्गानि तानि तानि तदा तदा
२.०७१.०१३ मन्थरा प्रभवस्तीव्रः कैकेयीग्राहसंकुलः
२.०७१.०१३ वरदानमयोऽक्षोभ्योऽमज्जयच्छोकसागरः
२.०७१.०१४ सुकुमारं च बालं च सततं लालितं त्वया
२.०७१.०१४ क्व तात भरतं हित्वा विलपन्तं गतो भवान्
२.०७१.०१५ ननु भोज्येषु पानेषु वस्त्रेष्वाभरणेषु च
२.०७१.०१५ प्रवारयसि नः सर्वांस्तन्नः कोऽद्य करिष्यति
२.०७१.०१६ अवदारण काले तु पृथिवी नावदीर्यते
२.०७१.०१६ विहीना या त्वया राज्ञा धर्मज्ञेन महात्मना
२.०७१.०१७ पितरि स्वर्गमापन्ने रामे चारण्यमाश्रिते
२.०७१.०१७ किं मे जीवित सामर्थ्यं प्रवेक्ष्यामि हुताशनम्
२.०७१.०१८ हीनो भ्रात्रा च पित्रा च शून्यामिक्ष्वाकुपालिताम्
२.०७१.०१८ अयोध्यां न प्रवेक्ष्यामि प्रवेक्ष्यामि तपोवनम्
२.०७१.०१९ तयोर्विलपितं श्रुत्वा व्यसनं चान्ववेक्ष्य तत्
२.०७१.०१९ भृशमार्ततरा भूयः सर्व एवानुगामिनः
२.०७१.०२० ततो विषण्णौ श्रान्तौ च शत्रुघ्न भरतावुभौ
२.०७१.०२० धरण्यां संव्यचेष्टेतां भग्नशृङ्गाविवर्षभौ
२.०७१.०२१ ततः प्रकृतिमान् वैद्यः पितुरेषां पुरोहितः
२.०७१.०२१ वसिष्ठो भरतं वाक्यमुत्थाप्य तमुवाच ह
२.०७१.०२२ त्रीणि द्वन्द्वानि भूतेषु प्रवृत्तान्यविशेषतः
२.०७१.०२२ तेषु चापरिहार्येषु नैवं भवितुमर्हति
२.०७१.०२३ सुमन्त्रश्चापि शत्रुघ्नमुत्थाप्याभिप्रसाद्य च
२.०७१.०२३ श्रावयामास तत्त्वज्ञः सर्वभूतभवाभवौ
२.०७१.०२४ उत्थितौ तौ नरव्याघ्रौ प्रकाशेते यशस्विनौ
२.०७१.०२४ वर्षातपपरिक्लिन्नौ पृथगिन्द्रध्वजाविव
२.०७१.०२५ अश्रूणि परिमृद्नन्तौ रक्ताक्षौ दीनभाषिणौ
२.०७१.०२५ अमात्यास्त्वरयन्ति स्म तनयौ चापराः क्रियाः
२.०७२.००१ अत्र यात्रां समीहन्तं शत्रुघ्नो लक्ष्मणानुजः
२.०७२.००१ भरतं शोकसंतप्तमिदं वचनमब्रवीत्
२.०७२.००२ गतिर्यः सर्वभूतानां दुःखे किं पुनरात्मनः
२.०७२.००२ स रामः सत्त्व संपन्नः स्त्रिया प्रव्राजितो वनम्
२.०७२.००३ बलवान् वीर्य संपन्नो लक्ष्मणो नाम योऽप्यसौ
२.०७२.००३ किं न मोचयते रामं कृत्वापि पितृनिग्रहम्
२.०७२.००४ पूर्वमेव तु निग्राह्यः समवेक्ष्य नयानयौ
२.०७२.००४ उत्पथं यः समारूढो नार्या राजा वशं गतः
२.०७२.००५ इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे
२.०७२.००५ प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता
२.०७२.००६ लिप्ता चन्दनसारेण राजवस्त्राणि बिभ्रती
२.०७२.००६ मेखला दामभिश्चित्रै रज्जुबद्धेव वानरी
२.०७२.००७ तां समीक्ष्य तदा द्वाःस्थो भृशं पापस्य कारिणीम्
२.०७२.००७ गृहीत्वाकरुणं कुब्जां शत्रुघ्नाय न्यवेदयत्
२.०७२.००८ यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता
२.०७२.००८ सेयं पापा नृशंसा च तस्याः कुरु यथामति
२.०७२.००९ शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः
२.०७२.००९ अन्तःपुरचरान् सर्वानित्युवाच धृतव्रतः
२.०७२.०१० तीव्रमुत्पादितं दुःखं भ्रातॄणां मे तथा पितुः
२.०७२.०१० यया सेयं नृशंसस्य कर्मणः फलमश्नुताम्
२.०७२.०११ एवमुक्ता च तेनाशु सखी जनसमावृता
२.०७२.०११ गृहीता बलवत्कुब्जा सा तद्गृहमनादयत्
२.०७२.०१२ ततः सुभृश संतप्तस्तस्याः सर्वः सखीजनः
२.०७२.०१२ क्रुद्धमाज्ञाय शत्रुघ्नं व्यपलायत सर्वशः
२.०७२.०१३ अमन्त्रयत कृत्स्नश्च तस्याः सर्वसखीजनः
२.०७२.०१३ यथायं समुपक्रान्तो निःशेषं नः करिष्यति
२.०७२.०१४ सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम्
२.०७२.०१४ कौसल्यां शरणं यामः सा हि नोऽस्तु ध्रुवा गतिः
२.०७२.०१५ स च रोषेण ताम्राक्षः शत्रुघ्नः शत्रुतापनः
२.०७२.०१५ विचकर्ष तदा कुब्जां क्रोशन्तीं पृथिवीतले
२.०७२.०१६ तस्या ह्याकृष्यमाणाया मन्थरायास्ततस्ततः
२.०७२.०१६ चित्रं बहुविधं भाण्डं पृथिव्यां तद्व्यशीर्यत
२.०७२.०१७ तेन भाण्डेन संकीर्णं श्रीमद्राजनिवेशनम्
२.०७२.०१७ अशोभत तदा भूयः शारदं गगनं यथा
२.०७२.०१८ स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः
२.०७२.०१८ कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः
२.०७२.०१९ तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता
२.०७२.०१९ शत्रुघ्न भयसंत्रस्ता पुत्रं शरणमागता
२.०७२.०२० तां प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत्
२.०७२.०२० अवध्याः सर्वभूतानां प्रमदाः क्षम्यतामिति
२.०७२.०२१ हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम्
२.०७२.०२१ यदि मां धार्मिको रामो नासूयेन्मातृघातकम्
२.०७२.०२२ इमामपि हतां कुब्जां यदि जानाति राघवः
२.०७२.०२२ त्वां च मां चैव धर्मात्मा नाभिभाषिष्यते ध्रुवम्
२.०७२.०२३ भरतस्य वचः श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः
२.०७२.०२३ न्यवर्तत ततो रोषात्तां मुमोच च मन्थराम्
२.०७२.०२४ सा पादमूले कैकेय्या मन्थरा निपपात ह
२.०७२.०२४ निःश्वसन्ती सुदुःखार्ता कृपणं विललाप च
२.०७२.०२५ शत्रुघ्नविक्षेपविमूढसंज्ञां॑ समीक्ष्य कुब्जां भरतस्य माता
२.०७२.०२५ शनैः समाश्वासयदार्तरूपां॑ क्रौञ्चीं विलग्नामिव वीक्षमाणाम्
२.०७३.००१ ततः प्रभातसमये दिवसेऽथ चतुर्दशे
२.०७३.००१ समेत्य राजकर्तारो भरतं वाक्यमब्रुवन्
२.०७३.००२ गतो दशरथः स्वर्गं यो नो गुरुतरो गुरुः
२.०७३.००२ रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम्
२.०७३.००३ त्वमद्य भव नो राजा राजपुत्र महायशः
२.०७३.००३ संगत्या नापराध्नोति राज्यमेतदनायकम्
२.०७३.००४ आभिषेचनिकं सर्वमिदमादाय राघव
२.०७३.००४ प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज
२.०७३.००५ राज्यं गृहाण भरत पितृपैतामहं महत्
२.०७३.००५ अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ
२.०७३.००६ आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम्
२.०७३.००६ भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः
२.०७३.००७ ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः
२.०७३.००७ नैवं भवन्तो मां वक्तुमर्हन्ति कुशला जनाः
२.०७३.००८ रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः
२.०७३.००८ अहं त्वरण्ये वत्स्यामि वर्षाणि नव पञ्च च
२.०७३.००९ युज्यतां महती सेना चतुरङ्गमहाबला
२.०७३.००९ आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात्
२.०७३.०१० आभिषेचनिकं चैव सर्वमेतदुपस्कृतम्
२.०७३.०१० पुरस्कृत्य गमिष्यामि रामहेतोर्वनं प्रति
२.०७३.०११ तत्रैव तं नरव्याघ्रमभिषिच्य पुरस्कृतम्
२.०७३.०११ आनेष्यामि तु वै रामं हव्यवाहमिवाध्वरात्
२.०७३.०१२ न सकामा करिष्यामि स्वमिमां मातृगन्धिनीम्
२.०७३.०१२ वने वत्स्याम्यहं दुर्गे रामो राजा भविष्यति
२.०७३.०१३ क्रियतां शिल्पिभिः पन्थाः समानि विषमाणि च
२.०७३.०१३ रक्षिणश्चानुसंयान्तु पथि दुर्गविचारकाः
२.०७३.०१४ एवं संभाषमाणं तं रामहेतोर्नृपात्मजम्
२.०७३.०१४ प्रत्युवाच जनः सर्वः श्रीमद्वाक्यमनुत्तमम्
२.०७३.०१५ एवं ते भाषमाणस्य पद्मा श्रीरुपतिष्ठताम्
२.०७३.०१५ यस्त्वं ज्येष्ठे नृपसुते पृथिवीं दातुमिच्छसि
२.०७३.०१६ अनुत्तमं तद्वचनं नृपात्मज॑ प्रभाषितं संश्रवणे निशम्य च
२.०७३.०१६ प्रहर्षजास्तं प्रति बाष्पबिन्दवो॑ निपेतुरार्यानननेत्रसंभवाः
२.०७३.०१७ ऊचुस्ते वचनमिदं निशम्य हृष्टाः॑ सामात्याः सपरिषदो वियातशोकाः
२.०७३.०१७ पन्थानं नरवरभक्तिमाञ्जनश्च॑ व्यादिष्टस्तव वचनाच्च
शिल्पिवर्गः
२.०७४.००१ अथ भूमिप्रदेशज्ञाः सूत्रकर्मविशारदाः
२.०७४.००१ स्वकर्माभिरताः शूराः खनका यन्त्रकास्तथा
२.०७४.००२ कर्मान्तिकाः स्थपतयः पुरुषा यन्त्रकोविदाः
२.०७४.००२ तथा वर्धकयश्चैव मार्गिणो वृक्षतक्षकाः
२.०७४.००३ कूपकाराः सुधाकारा वंशकर्मकृतस्तथा
२.०७४.००३ समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे
२.०७४.००४ स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान्
२.०७४.००४ अशोभत महावेगः सागरस्येव पर्वणि
२.०७४.००५ ते स्ववारं समास्थाय वर्त्मकर्माणि कोविदाः
२.०७४.००५ करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे
२.०७४.००६ लतावल्लीश्च गुल्मांश्च स्थाणूनश्मन एव च
२.०७४.००६ जनास्ते चक्रिरे मार्गं छिन्दन्तो विविधान् द्रुमान्
२.०७४.००७ अवृक्षेषु च देशेषु के चिद्वृक्षानरोपयन्
२.०७४.००७ के चित्कुठारैष्टङ्कैश्च दात्रैश्छिन्दन् क्व चित्क्व चित्
२.०७४.००८ अपरे वीरणस्तम्बान् बलिनो बलवत्तराः
२.०७४.००८ विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः
२.०७४.००९ अपरेऽपूरयन् कूपान् पांसुभिः श्वभ्रमायतम्
२.०७४.००९ निम्नभागांस्तथा के चित्समांश्चक्रुः समन्ततः
२.०७४.०१० बबन्धुर्बन्धनीयांश्च क्षोद्यान् संचुक्षुदुस्तदा
२.०७४.०१० बिभिदुर्भेदनीयांश्च तांस्तान् देशान्नरास्तदा
२.०७४.०११ अचिरेणैव कालेन परिवाहान् बहूदकान्
२.०७४.०११ चक्रुर्बहुविधाकारान् सागरप्रतिमान् बहून्
२.०७४.०११ उदपानान् बहुविधान् वेदिका परिमण्डितान्
२.०७४.०१२ ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः
२.०७४.०१२ मत्तोद्घुष्टद्विजगणः पताकाभिरलंकृतः
२.०७४.०१३ चन्दनोदकसंसिक्तो नानाकुसुमभूषितः
२.०७४.०१३ बह्वशोभत सेनायाः पन्थाः स्वर्गपथोपमः
२.०७४.०१४ आज्ञाप्याथ यथाज्ञप्ति युक्तास्तेऽधिकृता नराः
२.०७४.०१४ रमणीयेषु देशेषु बहुस्वादुफलेषु च
२.०७४.०१५ यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः
२.०७४.०१५ भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम्
२.०७४.०१६ नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः
२.०७४.०१६ निवेशं स्थापयामासुर्भरतस्य महात्मनः
२.०७४.०१७ बहुपांसुचयाश्चापि परिखापरिवारिताः
२.०७४.०१७ तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः
२.०७४.०१८ प्रासादमालासंयुक्ताः सौधप्राकारसंवृताः
२.०७४.०१८ पताका शोभिताः सर्वे सुनिर्मितमहापथाः
२.०७४.०१९ विसर्पत्भिरिवाकाशे विटङ्काग्रविमानकैः
२.०७४.०१९ समुच्छ्रितैर्निवेशास्ते बभुः शक्रपुरोपमाः
२.०७४.०२० जाह्नवीं तु समासाद्य विविधद्रुम काननाम्
२.०७४.०२० शीतलामलपानीयां महामीनसमाकुलाम्
२.०७४.०२१ सचन्द्रतारागणमण्डितं यथा॑ नभःक्षपायाममलं विराजते
२.०७४.०२१ नरेन्द्रमार्गः स तथा व्यराजत॑ क्रमेण रम्यः शुभशिल्पिनिर्मितः
२.०७५.००१ ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः
२.०७५.००१ तुष्टुवुर्वाग्विशेषज्ञाः स्तवैर्मङ्गलसंहितैः
२.०७५.००२ सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः
२.०७५.००२ दध्मुः शङ्खांश्च शतशो वाद्यांश्चोच्चावचस्वरान्
२.०७५.००३ स तूर्य घोषः सुमहान् दिवमापूरयन्निव
२.०७५.००३ भरतं शोकसंतप्तं भूयः शोकैररन्ध्रयत्
२.०७५.००४ ततो प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च
२.०७५.००४ नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत्
२.०७५.००५ पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत्
२.०७५.००५ विसृज्य मयि दुःखानि राजा दशरथो गतः
२.०७५.००६ तस्यैषा धर्मराजस्य धर्ममूला महात्मनः
२.०७५.००६ परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले
२.०७५.००७ इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम्
२.०७५.००७ कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा
२.०७५.००८ तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित्
२.०७५.००८ सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः
२.०७५.००९ शात कुम्भमयीं रम्यां मणिरत्नसमाकुलाम्
२.०७५.००९ सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत
२.०७५.०१० स काञ्चनमयं पीठं परार्ध्यास्तरणावृतम्
२.०७५.०१० अध्यास्त सर्ववेदज्ञो दूताननुशशास च
२.०७५.०११ ब्राह्मणान् क्षत्रियान् योधानमात्यान् गणबल्लभान्
२.०७५.०११ क्षिप्रमानयताव्यग्राः कृत्यमात्ययिकं हि नः
२.०७५.०१२ ततो हलहलाशब्दो महान् समुदपद्यत
२.०७५.०१२ रथैरश्वैर्गजैश्चापि जनानामुपगच्छताम्
२.०७५.०१३ ततो भरतमायान्तं शतक्रतुमिवामराः
२.०७५.०१३ प्रत्यनन्दन् प्रकृतयो यथा दशरथं तथा
२.०७५.०१४ ह्रद इव तिमिनागसंवृतः॑ स्तिमितजलो मणिशङ्खशर्करः
२.०७५.०१४ दशरथसुतशोभिता सभा॑ सदशरथेव बभौ यथा पुरा
२.०७६.००१ तामार्यगणसंपूर्णां भरतः प्रग्रहां सभाम्
२.०७६.००१ ददर्श बुद्धिसंपन्नः पूर्णचन्द्रां निशामिव
२.०७६.००२ आसनानि यथान्यायमार्याणां विशतां तदा
२.०७६.००२ अदृश्यत घनापाये पूर्णचन्द्रेव शर्वरी
२.०७६.००३ राज्ञस्तु प्रकृतीः सर्वाः समग्राः प्रेक्ष्य धर्मवित्
२.०७६.००३ इदं पुरोहितो वाक्यं भरतं मृदु चाब्रवीत्
२.०७६.००४ तात राजा दशरथः स्वर्गतो धर्ममाचरन्
२.०७६.००४ धन धान्यवतीं स्फीतां प्रदाय पृथिवीं तव
२.०७६.००५ रामस्तथा सत्यधृतिः सतां धर्ममनुस्मरन्
२.०७६.००५ नाजहात्पितुरादेशं शशी ज्योत्स्नामिवोदितः
२.०७६.००६ पित्रा भ्रात्रा च ते दत्तं राज्यं निहतकण्टकम्
२.०७६.००६ तद्भुङ्क्ष्व मुदितामात्यः क्षिप्रमेवाभिषेचय
२.०७६.००७ उदीच्याश्च प्रतीच्याश्च दाक्षिणात्याश्च केवलाः
२.०७६.००७ कोट्यापरान्ताः सामुद्रा रत्नान्यभिहरन्तु ते
२.०७६.००८ तच्छ्रुत्वा भरतो वाक्यं शोकेनाभिपरिप्लुतः
२.०७६.००८ जगाम मनसा रामं धर्मज्ञो धर्मकाङ्क्षया
२.०७६.००९ स बाष्पकलया वाचा कलहंसस्वरो युवा
२.०७६.००९ विललाप सभामध्ये जगर्हे च पुरोहितम्
२.०७६.०१० चरितब्रह्मचर्यस्य विद्या स्नातस्य धीमतः
२.०७६.०१० धर्मे प्रयतमानस्य को राज्यं मद्विधो हरेत्
२.०७६.०११ कथं दशरथाज्जातो भवेद्राज्यापहारकः
२.०७६.०११ राज्यं चाहं च रामस्य धर्मं वक्तुमिहार्हसि
२.०७६.०१२ ज्येष्ठः श्रेष्ठश्च धर्मात्मा दिलीपनहुषोपमः
२.०७६.०१२ लब्धुमर्हति काकुत्स्थो राज्यं दशरथो यथा
२.०७६.०१३ अनार्यजुष्टमस्वर्ग्यं कुर्यां पापमहं यदि
२.०७६.०१३ इक्ष्वाकूणामहं लोके भवेयं कुलपांसनः
२.०७६.०१४ यद्धि मात्रा कृतं पापं नाहं तदभिरोचये
२.०७६.०१४ इहस्थो वनदुर्गस्थं नमस्यामि कृताञ्जलिः
२.०७६.०१५ राममेवानुगच्छामि स राजा द्विपदां वरः
२.०७६.०१५ त्रयाणामपि लोकानां राघवो राज्यमर्हति
२.०७६.०१६ तद्वाक्यं धर्मसंयुक्तं श्रुत्वा सर्वे सभासदः
२.०७६.०१६ हर्षान्मुमुचुरश्रूणि रामे निहितचेतसः
२.०७६.०१७ यदि त्वार्यं न शक्ष्यामि विनिवर्तयितुं वनात्
२.०७६.०१७ वने तत्रैव वत्स्यामि यथार्यो लक्ष्मणस्तथा
२.०७६.०१८ सर्वोपायं तु वर्तिष्ये विनिवर्तयितुं बलात्
२.०७६.०१८ समक्षमार्य मिश्राणां साधूनां गुणवर्तिनाम्
२.०७६.०१९ एवमुक्त्वा तु धर्मात्मा भरतो भ्रातृवत्सलः
२.०७६.०१९ समीपस्थमुवाचेदं सुमन्त्रं मन्त्रकोविदम्
२.०७६.०२० तूर्णमुत्थाय गच्छ त्वं सुमन्त्र मम शासनात्
२.०७६.०२० यात्रामाज्ञापय क्षिप्रं बलं चैव समानय
२.०७६.०२१ एवमुक्तः सुमन्त्रस्तु भरतेन महात्मना
२.०७६.०२१ प्रहृष्टः सोऽदिशत्सर्वं यथा संदिष्टमिष्टवत्
२.०७६.०२२ ताः प्रहृष्टाः प्रकृतयो बलाध्यक्षा बलस्य च
२.०७६.०२२ श्रुत्वा यात्रां समाज्ञप्तां राघवस्य निवर्तने
२.०७६.०२३ ततो योधाङ्गनाः सर्वा भर्तॄन् सर्वान् गृहेगृहे
२.०७६.०२३ यात्रा गमनमाज्ञाय त्वरयन्ति स्म हर्षिताः
२.०७६.०२४ ते हयैर्गोरथैः शीघ्रैः स्यन्दनैश्च मनोजवैः
२.०७६.०२४ सह योधैर्बलाध्यक्षा बलं सर्वमचोदयन्
२.०७६.०२५ सज्जं तु तद्बलं दृष्ट्वा भरतो गुरुसंनिधौ
२.०७६.०२५ रथं मे त्वरयस्वेति सुमन्त्रं पार्श्वतोऽब्रवीत्
२.०७६.०२६ भरतस्य तु तस्याज्ञां प्रतिगृह्य प्रहर्षितः
२.०७६.०२६ रथं गृहीत्वा प्रययौ युक्तं परमवाजिभिः
२.०७६.०२७ स राघवः सत्यधृतिः प्रतापवान्॑ ब्रुवन् सुयुक्तं दृढसत्यविक्रमः
२.०७६.०२७ गुरुं महारण्यगतं यशस्विनं॑ प्रसादयिष्यन् भरतोऽब्रवीत्तदा
२.०७६.०२८ तूण समुत्थाय सुमन्त्र गच्छ॑ बलस्य योगाय बलप्रधानान्
२.०७६.०२८ आनेतुमिच्छामि हि तं वनस्थं॑ प्रसाद्य रामं जगतो हिताय
२.०७६.०२९ स सूतपुत्रो भरतेन सम्यग्॑ आज्ञापितः संपरिपूर्णकामः
२.०७६.०२९ शशास सर्वान् प्रकृतिप्रधानान्॑ बलस्य मुख्यांश्च सुहृज्जनं च
२.०७६.०३० ततः समुत्थाय कुले कुले ते॑ राजन्यवैश्या वृषलाश्च विप्राः
२.०७६.०३० अयूयुजन्नुष्ट्ररथान् खरांश्च॑ नागान् हयांश्चैव कुलप्रसूतान्
२.०७७.००१ ततः समुत्थितः काल्यमास्थाय स्यन्दनोत्तमम्
२.०७७.००१ प्रययौ भरतः शीघ्रं रामदर्शनकाङ्क्षया
२.०७७.००२ अग्रतः प्रययुस्तस्य सर्वे मन्त्रिपुरोधसः
२.०७७.००२ अधिरुह्य हयैर्युक्तान् रथान् सूर्यरथोपमान्
२.०७७.००३ नवनागसहस्राणि कल्पितानि यथाविधि
२.०७७.००३ अन्वयुर्भरतं यान्तमिक्ष्वाकु कुलनन्दनम्
२.०७७.००४ षष्ठी रथसहस्राणि धन्विनो विविधायुधाः
२.०७७.००४ अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्
२.०७७.००५ शतं सहस्राण्यश्वानां समारूढानि राघवम्
२.०७७.००५ अन्वयुर्भरतं यान्तं राजपुत्रं यशस्विनम्
२.०७७.००६ कैकेयी च सुमित्रा च कौसल्या च यशस्विनी
२.०७७.००६ रामानयनसंहृष्टा ययुर्यानेन भास्वता
२.०७७.००७ प्रयाताश्चार्यसंघाता रामं द्रष्टुं सलक्ष्मणम्
२.०७७.००७ तस्यैव च कथाश्चित्राः कुर्वाणा हृष्टमानसाः
२.०७७.००८ मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम्
२.०७७.००८ कदा द्रक्ष्यामहे रामं जगतः शोकनाशनम्
२.०७७.००९ दृष्ट एव हि नः शोकमपनेष्यति राघवः
२.०७७.००९ तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः
२.०७७.०१० इत्येवं कथयन्तस्ते संप्रहृष्टाः कथाः शुभाः
२.०७७.०१० परिष्वजानाश्चान्योन्यं ययुर्नागरिकास्तदा
२.०७७.०११ ये च तत्रापरे सर्वे संमता ये च नैगमाः
२.०७७.०११ रामं प्रति ययुर्हृष्टाः सर्वाः प्रकृतयस्तदा
२.०७७.०१२ मणि काराश्च ये के चित्कुम्भकाराश्च शोभनाः
२.०७७.०१२ सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः
२.०७७.०१३ मायूरकाः क्राकचिका रोचका वेधकास्तथा
२.०७७.०१३ दन्तकाराः सुधाकारास्तथा गन्धोपजीविनः
२.०७७.०१४ सुवर्णकाराः प्रख्यातास्तथा कम्बलधावकाः
२.०७७.०१४ स्नापकाच्छादका वैद्या धूपकाः शौण्डिकास्तथा
२.०७७.०१५ रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः
२.०७७.०१५ शैलूषाश्च सह स्त्रीभिर्यान्ति कैवर्तकास्तथा
२.०७७.०१६ समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः
२.०७७.०१६ गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः
२.०७७.०१७ सुवेषाः शुद्धवसनास्ताम्रमृष्टानुलेपनाः
२.०७७.०१७ सर्वे ते विविधैर्यानैः शनैर्भरतमन्वयुः
२.०७७.०१८ प्रहृष्टमुदिता सेना सान्वयात्कैकयीसुतम्
२.०७७.०१८ व्यवतिष्ठत सा सेना भरतस्यानुयायिनी
२.०७७.०१९ निरीक्ष्यानुगतां सेनां तां च गङ्गां शिवोदकाम्
२.०७७.०१९ भरतः सचिवान् सर्वानब्रवीद्वाक्यकोविदः
२.०७७.०२० निवेशयत मे सैन्यमभिप्रायेण सर्वशः
२.०७७.०२० विश्रान्तः प्रतरिष्यामः श्व इदानीं महानदीम्
२.०७७.०२१ दातुं च तावदिच्छामि स्वर्गतस्य महीपतेः
२.०७७.०२१ और्ध्वदेह निमित्तार्थमवतीर्योदकं नदीम्
२.०७७.०२२ तस्यैवं ब्रुवतोऽमात्यास्तथेत्युक्त्वा समाहिताः
२.०७७.०२२ न्यवेशयंस्तांश्छन्देन स्वेन स्वेन पृथक्पृथक्
२.०७७.०२३ निवेश्य गङ्गामनु तां महानदीं॑ चमूं विधानैः परिबर्ह शोभिनीम्
२.०७७.०२३ उवास रामस्य तदा महात्मनो॑ विचिन्तयानो भरतो निवर्तनम्
२.०७८.००१ ततो निविष्टां ध्वजिनीं गङ्गामन्वाश्रितां नदीम्
२.०७८.००१ निषादराजो दृष्ट्वैव ज्ञातीन् संत्वरितोऽब्रवीत्
२.०७८.००२ महतीयमतः सेना सागराभा प्रदृश्यते
२.०७८.००२ नास्यान्तमवगच्छामि मनसापि विचिन्तयन्
२.०७८.००३ स एष हि महाकायः कोविदारध्वजो रथे
२.०७८.००३ बन्धयिष्यति वा दाशानथ वास्मान् वधिष्यति
२.०७८.००४ अथ दाशरथिं रामं पित्रा राज्याद्विवासितम्
२.०७८.००४ भरतः कैकेयीपुत्रो हन्तुं समधिगच्छति
२.०७८.००५ भर्ता चैव सखा चैव रामो दाशरथिर्मम
२.०७८.००५ तस्यार्थकामाः संनद्धा गङ्गानूपेऽत्र तिष्ठत
२.०७८.००६ तिष्ठन्तु सर्वदाशाश्च गङ्गामन्वाश्रिता नदीम्
२.०७८.००६ बलयुक्ता नदीरक्षा मांसमूलफलाशनाः
२.०७८.००७ नावां शतानां पञ्चानां कैवर्तानां शतं शतम्
२.०७८.००७ संनद्धानां तथा यूनां तिष्ठन्त्वत्यभ्यचोदयत्
२.०७८.००८ यदा तुष्टस्तु भरतो रामस्येह भविष्यति
२.०७८.००८ सेयं स्वस्तिमयी सेना गङ्गामद्य तरिष्यति
२.०७८.००९ इत्युक्त्वोपायनं गृह्य मत्स्यमांसमधूनि च
२.०७८.००९ अभिचक्राम भरतं निषादाधिपतिर्गुहः
२.०७८.०१० तमायान्तं तु संप्रेक्ष्य सूतपुत्रः प्रतापवान्
२.०७८.०१० भरतायाचचक्षेऽथ विनयज्ञो विनीतवत्
२.०७८.०११ एष ज्ञातिसहस्रेण स्थपतिः परिवारितः
२.०७८.०११ कुशलो दण्डकारण्ये वृद्धो भ्रातुश्च ते सखा
२.०७८.०१२ तस्मात्पश्यतु काकुत्स्थ त्वां निषादाधिपो गुहः
२.०७८.०१२ असंशयं विजानीते यत्र तौ रामलक्ष्मणौ
२.०७८.०१३ एतत्तु वचनं श्रुत्वा सुमन्त्राद्भरतः शुभम्
२.०७८.०१३ उवाच वचनं शीघ्रं गुहः पश्यतु मामिति
२.०७८.०१४ लब्ध्वाभ्यनुज्ञां संहृष्टो ज्ञातिभिः परिवारितः
२.०७८.०१४ आगम्य भरतं प्रह्वो गुहो वचनमब्रवीइत्
२.०७८.०१५ निष्कुटश्चैव देशोऽयं वञ्चिताश्चापि ते वयम्
२.०७८.०१५ निवेदयामस्ते सर्वे स्वके दाशकुले वस
२.०७८.०१६ अस्ति मूलं फलं चैव निषादैः समुपाहृतम्
२.०७८.०१६ आर्द्रं च मांसं शुष्कं च वन्यं चोच्चावचं महत्
२.०७८.०१७ आशंसे स्वाशिता सेना वत्स्यतीमां विभावरीम्
२.०७८.०१७ अर्चितो विविधैः कामैः श्वः ससैन्यो गमिष्यसि
२.०७९.००१ एवमुक्तस्तु भरतो निषादाधिपतिं गुहम्
२.०७९.००१ प्रत्युवाच महाप्राज्ञो वाक्यं हेत्वर्थसंहितम्
२.०७९.००२ ऊर्जितः खलु ते कामः कृतो मम गुरोः सखे
२.०७९.००२ यो मे त्वमीदृशीं सेनामेकोऽभ्यर्चितुमिच्छसि
२.०७९.००३ इत्युक्त्वा तु महातेजा गुहं वचनमुत्तमम्
२.०७९.००३ अब्रवीद्भरतः श्रीमान्निषादाधिपतिं पुनः
२.०७९.००४ कतरेण गमिष्यामि भरद्वाजाश्रमं गुह
२.०७९.००४ गहनोऽयं भृशं देशो गङ्गानूपो दुरत्ययः
२.०७९.००५ तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः
२.०७९.००५ अब्रवीत्प्राञ्जलिर्वाक्यं गुहो गहनगोचरः
२.०७९.००६ दाशास्त्वनुगमिष्यन्ति धन्विनः सुसमाहिताः
२.०७९.००६ अहं चानुगमिष्यामि राजपुत्र महायशः
२.०७९.००७ कच्चिन्न दुष्टो व्रजसि रामस्याक्लिष्टकर्मणः
२.०७९.००७ इयं ते महती सेना शङ्कां जनयतीव मे
२.०७९.००८ तमेवमभिभाषन्तमाकाश इव निर्मलः
२.०७९.००८ भरतः श्लक्ष्णया वाचा गुहं वचनमब्रवीत्
२.०७९.००९ मा भूत्स कालो यत्कष्टं न मां शङ्कितुमर्हसि
२.०७९.००९ राघवः स हि मे भ्राता ज्येष्ठः पितृसमो मम
२.०७९.०१० तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम्
२.०७९.०१० बुद्धिरन्या न ते कार्या गुह सत्यं ब्रवीमि ते
२.०७९.०११ स तु संहृष्टवदनः श्रुत्वा भरतभाषितम्
२.०७९.०११ पुनरेवाब्रवीद्वाक्यं भरतं प्रति हर्षितः
२.०७९.०१२ धन्यस्त्वं न त्वया तुल्यं पश्यामि जगतीतले
२.०७९.०१२ अयत्नादागतं राज्यं यस्त्वं त्यक्तुमिहेच्छसि
२.०७९.०१३ शाश्वती खलु ते कीर्तिर्लोकाननुचरिष्यति
२.०७९.०१३ यस्त्वं कृच्छ्रगतं रामं प्रत्यानयितुमिच्छसि
२.०७९.०१४ एवं संभाषमाणस्य गुहस्य भरतं तदा
२.०७९.०१४ बभौ नष्टप्रभः सूर्यो रजनी चाभ्यवर्तत
२.०७९.०१५ संनिवेश्य स तां सेनां गुहेन परितोषितः
२.०७९.०१५ शत्रुघ्नेन सह श्रीमाञ्शयनं पुनरागमत्
२.०७९.०१६ रामचिन्तामयः शोको भरतस्य महात्मनः
२.०७९.०१६ उपस्थितो ह्यनर्हस्य धर्मप्रेक्षस्य तादृशः
२.०७९.०१७ अन्तर्दाहेन दहनः संतापयति राघवम्
२.०७९.०१७ वनदाहाभिसंतप्तं गूढोऽग्निरिव पादपम्
२.०७९.०१८ प्रस्रुतः सर्वगात्रेभ्यः स्वेदः शोकाग्निसंभवः
२.०७९.०१८ यथा सूर्यांशुसंतप्तो हिमवान् प्रस्रुतो हिमम्
२.०७९.०१९ ध्याननिर्दरशैलेन विनिःश्वसितधातुना
२.०७९.०१९ दैन्यपादपसंघेन शोकायासाधिशृङ्गिणा
२.०७९.०२० प्रमोहानन्तसत्त्वेन संतापौषधिवेणुना
२.०७९.०२० आक्रान्तो दुःखशैलेन महता कैकयीसुतः
२.०७९.०२१ गुहेन सार्धं भरतः समागतो॑ महानुभावः सजनः समाहितः
२.०७९.०२१ सुदुर्मनास्तं भरतं तदा पुनर्॑ गुहः समाश्वासयदग्रजं प्रति
२.०८०.००१ आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः
२.०८०.००१ भरतायाप्रमेयाय गुहो गहनगोचरः
२.०८०.००२ तं जाग्रतं गुणैर्युक्तं वरचापेषुधारिणम्
२.०८०.००२ भ्रातृ गुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम्
२.०८०.००३ इयं तात सुखा शय्या त्वदर्थमुपकल्पिता
२.०८०.००३ प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन
२.०८०.००४ उचितोऽयं जनः सर्वे दुःखानां त्वं सुखोचितः
२.०८०.००४ धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम्
२.०८०.००५ न हि रामात्प्रियतरो ममास्ति भुवि कश्चन
२.०८०.००५ मोत्सुको भूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः
२.०८०.००६ अस्य प्रसादादाशंसे लोकेऽस्मिन् सुमहद्यशः
२.०८०.००६ धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम्
२.०८०.००७ सोऽहं प्रियसखं रामं शयानं सह सीतया
२.०८०.००७ रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह
२.०८०.००८ न हि मेऽविदितं किं चिद्वनेऽस्मिंश्चरतः सदा
२.०८०.००८ चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि
२.०८०.००९ एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना
२.०८०.००९ अनुनीता वयं सर्वे धर्ममेवानुपश्यता
२.०८०.०१० कथं दाशरथौ भूमौ शयाने सह सीतया
२.०८०.०१० शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा
२.०८०.०११ यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि
२.०८०.०११ तं पश्य गुह संविष्टं तृणेषु सह सीतया
२.०८०.०१२ महता तपसा लब्धो विविधैश्च परिश्रमैः
२.०८०.०१२ एको दशरथस्यैष पुत्रः सदृशलक्षणः
२.०८०.०१३ अस्मिन् प्रव्राजिते राजा न चिरं वर्तयिष्यति
२.०८०.०१३ विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति
२.०८०.०१४ विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः
२.०८०.०१४ निर्घोषोपरतं नूनमद्य राजनिवेशनम्
२.०८०.०१५ कौसल्या चैव राजा च तथैव जननी मम
२.०८०.०१५ नाशंसे यदि ते सर्वे जीवेयुः शर्वरीमिमाम्
२.०८०.०१६ जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया
२.०८०.०१६ दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति
२.०८०.०१७ अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्
२.०८०.०१७ राज्ये राममनिक्षिप्य पिता मे विनशिष्यति
२.०८०.०१८ सिद्धार्थाः पितरं वृत्तं तस्मिन् काले ह्युपस्थिते
२.०८०.०१८ प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्
२.०८०.०१९ रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्
२.०८०.०१९ हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम्
२.०८०.०२० गजाश्वरथसंबाधां तूर्यनादविनादिताम्
२.०८०.०२० सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम्
२.०८०.०२१ आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम्
२.०८०.०२१ सुखिता विचरिष्यन्ति राजधानीं पितुर्मम
२.०८०.०२२ अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्
२.०८०.०२२ निवृत्ते समये ह्यस्मिन् सुखिताः प्रविशेमहि
२.०८०.०२३ परिदेवयमानस्य तस्यैवं सुमहात्मनः
२.०८०.०२३ तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत
२.०८०.०२४ प्रभाते विमले सूर्ये कारयित्वा जटा उभौ
२.०८०.०२४ अस्मिन् भागीरथी तीरे सुखं संतारितौ मया
२.०८०.०२५ जटाधरौ तौ द्रुमचीरवाससौ॑ महाबलौ कुञ्जरयूथपोपमौ
२.०८०.०२५ वरेषुचापासिधरौ परंतपौ॑ व्यवेक्षमाणौ सह सीतया गतौ
२.०८१.००१ गुहस्य वचनं श्रुत्वा भरतो भृशमप्रियम्
२.०८१.००१ ध्यानं जगाम तत्रैव यत्र तच्छ्रुतमप्रियम्
२.०८१.००२ सुकुमारो महासत्त्वः सिंहस्कन्धो महाभुजः
२.०८१.००२ पुण्डरीक विशालाक्षस्तरुणः प्रियदर्शनः
२.०८१.००३ प्रत्याश्वस्य मुहूर्तं तु कालं परमदुर्मनाः
२.०८१.००३ पपात सहसा तोत्रैर्हृदि विद्ध इव द्विपः
२.०८१.००४ तदवस्थं तु भरतं शत्रुघ्नोऽनन्तर स्थितः
२.०८१.००४ परिष्वज्य रुरोदोच्चैर्विसंज्ञः शोककर्शितः
२.०८१.००५ ततः सर्वाः समापेतुर्मातरो भरतस्य ताः
२.०८१.००५ उपवास कृशा दीना भर्तृव्यसनकर्शिताः
२.०८१.००६ ताश्च तं पतितं भूमौ रुदन्त्यः पर्यवारयन्
२.०८१.००६ कौसल्या त्वनुसृत्यैनं दुर्मनाः परिषस्वजे
२.०८१.००७ वत्सला स्वं यथा वत्समुपगूह्य तपस्विनी
२.०८१.००७ परिपप्रच्छ भरतं रुदन्ती शोकलालसा
२.०८१.००८ पुत्रव्याधिर्न ते कच्चिच्छरीरं परिबाधते
२.०८१.००८ अद्य राजकुलस्यास्य त्वदधीनं हि जीवितम्
२.०८१.००९ त्वां दृष्ट्वा पुत्र जीवामि रामे सभ्रातृके गते
२.०८१.००९ वृत्ते दशरथे राज्ञि नाथ एकस्त्वमद्य नः
२.०८१.०१० कच्चिन्न लक्ष्मणे पुत्र श्रुतं ते किं चिदप्रियम्
२.०८१.०१० पुत्र वा ह्येकपुत्रायाः सहभार्ये वनं गते
२.०८१.०११ स मुहूर्तं समाश्वस्य रुदन्नेव महायशाः
२.०८१.०११ कौसल्यां परिसान्त्व्येदं गुहं वचनमब्रवीत्
२.०८१.०१२ भ्राता मे क्वावसद्रात्रिं क्व सीता क्व च लक्ष्मणः
२.०८१.०१२ अस्वपच्छयने कस्मिन् किं भुक्त्वा गुह शंस मे
२.०८१.०१३ सोऽब्रवीद्भरतं पृष्टो निषादाधिपतिर्गुहः
२.०८१.०१३ यद्विधं प्रतिपेदे च रामे प्रियहितेऽतिथौ
२.०८१.०१४ अन्नमुच्चावचं भक्ष्याः फलानि विविधानि च
२.०८१.०१४ रामायाभ्यवहारार्थं बहुचोपहृतं मया
२.०८१.०१५ तत्सर्वं प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः
२.०८१.०१५ न हि तत्प्रत्यगृह्णात्स क्षत्रधर्ममनुस्मरन्
२.०८१.०१६ न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा
२.०८१.०१६ इति तेन वयं राजन्ननुनीता महात्मना
२.०८१.०१७ लक्ष्मणेन समानीतं पीत्वा वारि महायशाः
२.०८१.०१७ औपवास्यं तदाकार्षीद्राघवः सह सीतया
२.०८१.०१८ ततस्तु जलशेषेण लक्ष्मणोऽप्यकरोत्तदा
२.०८१.०१८ वाग्यतास्ते त्रयः संध्यामुपासत समाहिताः
२.०८१.०१९ सौमित्रिस्तु ततः पश्चादकरोत्स्वास्तरं शुभम्
२.०८१.०१९ स्वयमानीय बर्हींषि क्षिप्रं राघव कारणात्
२.०८१.०२० तस्मिन् समाविशद्रामः स्वास्तरे सह सीतया
२.०८१.०२० प्रक्षाल्य च तयोः पादावपचक्राम लक्ष्मणः
२.०८१.०२१ एतत्तदिङ्गुदीमूलमिदमेव च तत्तृणम्
२.०८१.०२१ यस्मिन् रामश्च सीता च रात्रिं तां शयितावुभौ
२.०८१.०२२ नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्॑ शरैः सुपूर्णाविषुधी परंतपः
२.०८१.०२२ महद्धनुः सज्यमुपोह्य लक्ष्मणो॑ निशामतिष्ठत्परितोऽस्य केवलम्
२.०८१.०२३ ततस्त्वहं चोत्तमबाणचापधृक्॑ स्थितोऽभवं तत्र स यत्र लक्ष्मणः
२.०८१.०२३ अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्॑ महेन्द्रकल्पं परिपालयंस्तदा
२.०८२.००१ तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः
२.०८२.००१ इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम्
२.०८२.००२ अब्रवीज्जननीः सर्वा इह तेन महात्मना
२.०८२.००२ शर्वरी शयिता भूमाविदमस्य विमर्दितम्
२.०८२.००३ महाभागकुलीनेन महाभागेन धीमता
२.०८२.००३ जातो दशरथेनोर्व्यां न रामः स्वप्तुमर्हति
२.०८२.००४ अजिनोत्तरसंस्तीर्णे वरास्तरणसंचये
२.०८२.००४ शयित्वा पुरुषव्याघ्रः कथं शेते महीतले
२.०८२.००५ प्रासादाग्र विमानेषु वलभीषु च सर्वदा
२.०८२.००५ हैमराजतभौमेषु वरास्तरणशालिषु
२.०८२.००६ पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु
२.०८२.००६ पाण्डुराभ्रप्रकाशेषु शुकसंघरुतेषु च
२.०८२.००७ गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैः
२.०८२.००७ मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः
२.०८२.००८ बन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः
२.०८२.००८ गाथाभिरनुरूपाभिः स्तुतिभिश्च परंतपः
२.०८२.००९ अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा
२.०८२.००९ मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः
२.०८२.०१० न नूनं दैवतं किं चित्कालेन बलवत्तरम्
२.०८२.०१० यत्र दाशरथी रामो भूमावेवं शयीत सः
२.०८२.०११ विदेहराजस्य सुता सीता च प्रियदर्शना
२.०८२.०११ दयिता शयिता भूमौ स्नुषा दशरथस्य च
२.०८२.०१२ इयं शय्या मम भ्रातुरिदं हि परिवर्तितम्
२.०८२.०१२ स्थण्डिले कठिने सर्वं गात्रैर्विमृदितं तृणम्
२.०८२.०१३ मन्ये साभरणा सुप्ता सीतास्मिञ्शयने तदा
२.०८२.०१३ तत्र तत्र हि दृश्यन्ते सक्ताः कनकबिन्दवः
२.०८२.०१४ उत्तरीयमिहासक्तं सुव्यक्तं सीतया तदा
२.०८२.०१४ तथा ह्येते प्रकाशन्ते सक्ताः कौशेयतन्तवः
२.०८२.०१५ मन्ये भर्तुः सुखा शय्या येन बाला तपस्विनी
२.०८२.०१५ सुकुमारी सती दुःखं न विजानाति मैथिली
२.०८२.०१६ सार्वभौम कुले जातः सर्वलोकसुखावहः
२.०८२.०१६ सर्वलोकप्रियस्त्यक्त्वा राज्यं प्रियमनुत्तमम्
२.०८२.०१७ कथमिन्दीवरश्यामो रक्ताक्षः प्रियदर्शनः
२.०८२.०१७ सुखभागी च दुःखार्हः शयितो भुवि राघवः
२.०८२.०१८ सिद्धार्था खलु वैदेही पतिं यानुगता वनम्
२.०८२.०१८ वयं संशयिताः सर्वे हीनास्तेन महात्मना
२.०८२.०१९ अकर्णधारा पृथिवी शून्येव प्रतिभाति मा
२.०८२.०१९ गते दशरथे स्वर्गे रामे चारण्यमाश्रिते
२.०८२.०२० न च प्रार्थयते कश्चिन्मनसापि वसुंधराम्
२.०८२.०२० वनेऽपि वसतस्तस्य बाहुवीर्याभिरक्षिताम्
२.०८२.०२१ शून्यसंवरणारक्षामयन्त्रितहयद्विपाम्
२.०८२.०२१ अपावृतपुरद्वारां राजधानीमरक्षिताम्
२.०८२.०२२ अप्रहृष्टबलां न्यूनां विषमस्थामनावृताम्
२.०८२.०२२ शत्रवो नाभिमन्यन्ते भक्ष्यान् विषकृतानिव
२.०८२.०२३ अद्य प्रभृति भूमौ तु शयिष्येऽहं तृणेषु वा
२.०८२.०२३ फलमूलाशनो नित्यं जटाचीराणि धारयन्
२.०८२.०२४ तस्यार्थमुत्तरं कालं निवत्स्यामि सुखं वने
२.०८२.०२४ तं प्रतिश्रवमामुच्य नास्य मिथ्या भविष्यति
२.०८२.०२५ वसन्तं भ्रातुरर्थाय शत्रुघ्नो मानुवत्स्यति
२.०८२.०२५ लक्ष्मणेन सह त्वार्यो अयोध्यां पालयिष्यति
२.०८२.०२६ अभिषेक्ष्यन्ति काकुत्स्थमयोध्यायां द्विजातयः
२.०८२.०२६ अपि मे देवताः कुर्युरिमं सत्यं मनोरथम्
२.०८२.०२७ प्रसाद्यमानः शिरसा मया स्वयं॑ बहुप्रकारं यदि न प्रपत्स्यते
२.०८२.०२७ ततोऽनुवत्स्यामि चिराय राघवं॑ वने वसन्नार्हति मामुपेक्षितुम्
२.०८३.००१ व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः
२.०८३.००१ भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत्
२.०८३.००२ शत्रुघोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम्
२.०८३.००२ शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम्
२.०८३.००३ जागर्मि नाहं स्वपिमि तथैवार्यं विचिन्तयन्
२.०८३.००३ इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोऽपि प्रचोदितः
२.०८३.००४ इति संवदतोरेवमन्योन्यं नरसिंहयोः
२.०८३.००४ आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत्
२.०८३.००५ कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम्
२.०८३.००५ कच्चिच्च सह सैन्यस्य तव सर्वमनामयम्
२.०८३.००६ गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम्
२.०८३.००६ रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत्
२.०८३.००७ सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम्
२.०८३.००७ गङ्गां तु नौभिर्बह्वीभिर्दाशाः संतारयन्तु नः
२.०८३.००८ ततो गुहः संत्वरितः श्रुत्वा भरतशासनम्
२.०८३.००८ प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत्
२.०८३.००९ उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु हि वः सदा
२.०८३.००९ नावः समनुकर्षध्वं तारयिष्याम वाहिनीम्
२.०८३.०१० ते तथोक्ताः समुत्थाय त्वरिता राजशासनात्
२.०८३.०१० पञ्च नावां शतान्येव समानिन्युः समन्ततः
२.०८३.०११ अन्याः स्वस्तिकविज्ञेया महाघण्डा धरा वराः
२.०८३.०११ शोभमानाः पताकिन्यो युक्तवाताः सुसंहताः
२.०८३.०१२ ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम्
२.०८३.०१२ सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत्
२.०८३.०१३ तामारुरोह भरतः शत्रुघ्नश्च महाबलः
२.०८३.०१३ कौसल्या च सुमित्रा च याश्चान्या राजयोषितः
२.०८३.०१४ पुरोहितश्च तत्पूर्वं गुरवे ब्राह्मणाश्च ये
२.०८३.०१४ अनन्तरं राजदारास्तथैव शकटापणाः
२.०८३.०१५ आवासमादीपयतां तीर्थं चाप्यवगाहताम्
२.०८३.०१५ भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत्
२.०८३.०१६ पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः
२.०८३.०१६ वहन्त्यो जनमारूढं तदा संपेतुराशुगाः
२.०८३.०१७ नारीणामभिपूर्णास्तु काश्चित्काश्चित्तु वाजिनाम्
२.०८३.०१७ कश्चित्तत्र वहन्ति स्म यानयुग्यं महाधनम्
२.०८३.०१८ ताः स्म गत्वा परं तीरमवरोप्य च तं जनम्
२.०८३.०१८ निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः
२.०८३.०१९ सवैजयन्तास्तु गजा गजारोहैः प्रचोदिताः
२.०८३.०१९ तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः
२.०८३.०२० नावश्चारुरुहुस्त्वन्ये प्लवैस्तेरुस्तथापरे
२.०८३.०२० अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः
२.०८३.०२१ सा पुण्या ध्वजिनी गङ्गां दाशैः संतारिता स्वयम्
२.०८३.०२१ मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम्
२.०८३.०२२ आश्वासयित्वा च चमूं महात्मा॑ निवेशयित्वा च यथोपजोषम्
२.०८३.०२२ द्रष्टुं भरद्वाजमृषिप्रवर्यम्॑ ऋत्विग्वृतः सन् भरतः प्रतस्थे
२.०८४.००१ भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः
२.०८४.००१ बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः
२.०८४.००२ पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः
२.०८४.००२ वसानो वाससी क्षौमे पुरोधाय पुरोहितम्
२.०८४.००३ ततः संदर्शने तस्य भरद्वाजस्य राघवः
२.०८४.००३ मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम्
२.०८४.००४ वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः
२.०८४.००४ संचचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन्
२.०८४.००५ समागम्य वसिष्ठेन भरतेनाभिवादितः
२.०८४.००५ अबुध्यत महातेजाः सुतं दशरथस्य तम्
२.०८४.००६ ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च
२.०८४.००६ आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले
२.०८४.००७ अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु
२.०८४.००७ जानन् दशरथं वृत्तं न राजानमुदाहरत्
२.०८४.००८ वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम्
२.०८४.००८ शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु
२.०८४.००९ तथेति च प्रतिज्ञाय भरद्वाजो महातपाः
२.०८४.००९ भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात्
२.०८४.०१० किमिहागमने कार्यं तव राज्यं प्रशासतः
२.०८४.०१० एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः
२.०८४.०११ सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम्
२.०८४.०११ भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम्
२.०८४.०१२ नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः
२.०८४.०१२ वनवासी भवेतीह समाः किल चतुर्दश
२.०८४.०१३ कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि
२.०८४.०१३ अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च
२.०८४.०१४ एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह
२.०८४.०१४ पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया
२.०८४.०१५ हतोऽस्मि यदि मामेवं भगवानपि मन्यते
२.०८४.०१५ मत्तो न दोषमाशङ्केर्नैवं मामनुशाधि हि
२.०८४.०१६ अंश्चैतदिष्टं माता मे यदवोचन्मदन्तरे
२.०८४.०१६ नाहमेतेन तुष्टश्च न तद्वचनमाददे
२.०८४.०१७ अहं तु तं नरव्याघ्रमुपयातः प्रसादकः
२.०८४.०१७ प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम्
२.०८४.०१८ त्वं मामेवं गतं मत्वा प्रसादं कर्तुमर्हसि
२.०८४.०१८ शंस मे भगवन् रामः क्व संप्रति महीपतिः
२.०८४.०१९ उवाच तं भरद्वाजः प्रसादाद्भरतं वचः
२.०८४.०१९ त्वय्येतत्पुरुषव्याघ्रं युक्तं राघववंशजे
२.०८४.०१९ गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता
२.०८४.०२० जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति
२.०८४.०२० अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन्
२.०८४.०२१ असौ वसति ते भ्राता चित्रकूटे महागिरौ
२.०८४.०२१ श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः
२.०८४.०२१ एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद
२.०८४.०२२ ततस्तथेत्येवमुदारदर्शनः॑ प्रतीतरूपो भरतोऽब्रवीद्वचः
२.०८४.०२२ चकार बुद्धिं च तदा महाश्रमे॑ निशानिवासाय नराधिपात्मजः
२.०८५.००१ कृतबुद्धिं निवासाय तथैव स मुनिस्तदा
२.०८५.००१ भरतं कैकयी पुत्रमातिथ्येन न्यमन्त्रयत्
२.०८५.००२ अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम्
२.०८५.००२ पाद्यमर्घ्यं तथातिथ्यं वने यदूपपद्यते
२.०८५.००३ अथोवाच भरद्वाजो भरतं प्रहसन्निव
२.०८५.००३ जाने त्वां प्रीति संयुक्तं तुष्येस्त्वं येन केन चित्
२.०८५.००४ सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम्
२.०८५.००४ मम प्रितिर्यथा रूपा त्वमर्हो मनुजर्षभ
२.०८५.००५ किमर्थं चापि निक्षिप्य दूरे बलमिहागतः
२.०८५.००५ कस्मान्नेहोपयातोऽसि सबलः पुरुषर्षभ
२.०८५.००६ भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम्
२.०८५.००६ ससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात्
२.०८५.००७ वाजि मुख्या मनुष्याश्च मत्ताश्च वर वारणाः
२.०८५.००७ प्रच्छाद्य महतीं भूमिं भगवन्ननुयान्ति माम्
२.०८५.००८ ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा
२.०८५.००८ न हिंस्युरिति तेनाहमेक एवागतस्ततः
२.०८५.००९ आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा
२.०८५.००९ तथा तु चक्रे भरतः सेनायाः समुपागमम्
२.०८५.०१० अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च
२.०८५.०१० आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत्
२.०८५.०११ आह्वये विश्वकर्माणमहं त्वष्टारमेव च
२.०८५.०११ आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम्
२.०८५.०१२ प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च
२.०८५.०१२ पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः
२.०८५.०१३ अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम्
२.०८५.०१३ अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम्
२.०८५.०१४ आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून्
२.०८५.०१४ तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः
२.०८५.०१५ घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम्
२.०८५.०१५ शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च भामिनीः
२.०८५.०१५ सर्वास्तुम्बुरुणा सार्धमाह्वये सपरिच्छदाः
२.०८५.०१६ वनं कुरुषु यद्दिव्यं वासो भूषणपत्रवत्
२.०८५.०१६ दिव्यनारीफलं शश्वत्तत्कौबेरमिहैव तु
२.०८५.०१७ इह मे भगवान् सोमो विधत्तामन्नमुत्तमम्
२.०८५.०१७ भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु
२.०८५.०१८ विचित्राणि च माल्यानि पादपप्रच्युतानि च
२.०८५.०१८ सुरादीनि च पेयानि मांसानि विविधानि च
२.०८५.०१९ एवं समाधिना युक्तस्तेजसाप्रतिमेन च
२.०८५.०१९ शिक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः
२.०८५.०२० मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः
२.०८५.०२० आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक्
२.०८५.०२१ मलयं दुर्दुरं चैव ततः स्वेदनुदोऽनिलः
२.०८५.०२१ उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः
२.०८५.०२२ ततोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः
२.०८५.०२२ देवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे
२.०८५.०२३ प्रववुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः
२.०८५.०२३ प्रजगुर्देवगन्धर्वा वीणा प्रमुमुचुः स्वरान्
२.०८५.०२४ स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च
२.०८५.०२४ विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः
२.०८५.०२५ तस्मिन्नुपरते शब्दे दिव्ये श्रोत्रसुखे नृणाम्
२.०८५.०२५ ददर्श भारतं सैन्यं विधानं विश्वकर्मणः
२.०८५.०२६ बभूव हि समा भूमिः समन्तात्पञ्चयोजनम्
२.०८५.०२६ शाद्वलैर्बहुभिश्छन्ना नीलवैदूर्यसंनिभैः
२.०८५.०२७ तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः
२.०८५.०२७ आमलक्यो बभूवुश्च चूताश्च फलभूषणाः
२.०८५.०२८ उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत्
२.०८५.०२८ आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता
२.०८५.०२९ चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम्
२.०८५.०२९ हर्म्यप्रासादसंघातास्तोरणानि शुभानि च
२.०८५.०३० सितमेघनिभं चापि राजवेश्म सुतोरणम्
२.०८५.०३० शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम्
२.०८५.०३१ चतुरस्रमसंबाधं शयनासनयानवत्
२.०८५.०३१ दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत्
२.०८५.०३२ उपकल्पित सर्वान्नं धौतनिर्मलभाजनम्
२.०८५.०३२ कॢप्तसर्वासनं श्रीमत्स्वास्तीर्णशयनोत्तमम्
२.०८५.०३३ प्रविवेश महाबाहुरनुज्ञातो महर्षिणा
२.०८५.०३३ वेश्म तद्रत्नसंपूर्णं भरतः कैकयीसुतः
२.०८५.०३४ अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः
२.०८५.०३४ बभूवुश्च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम्
२.०८५.०३५ तत्र राजासनं दिव्यं व्यजनं छत्रमेव च
२.०८५.०३५ भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत्
२.०८५.०३६ आसनं पूजयामास रामायाभिप्रणम्य च
२.०८५.०३६ वालव्यजनमादाय न्यषीदत्सचिवासने
२.०८५.०३७ आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रपुरोहिताः
२.०८५.०३७ ततः सेनापतिः पश्चात्प्रशास्ता च निषेदतुः
२.०८५.०३८ ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः
२.०८५.०३८ उपातिष्ठन्त भरतं भरद्वाजस्य शासनत्
२.०८५.०३९ तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः
२.०८५.०३९ रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः
२.०८५.०४० तेनैव च मुहूर्तेन दिव्याभरणभूषिताः
२.०८५.०४० आगुर्विंशतिसाहस्रा ब्राह्मणा प्रहिताः स्त्रियः
२.०८५.०४१ सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः
२.०८५.०४१ आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः
२.०८५.०४२ याभिर्गृहीतः पुरुषः सोन्माद इव लक्ष्यते
२.०८५.०४२ आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः
२.०८५.०४३ नारदस्तुम्बुरुर्गोपः पर्वतः सूर्यवर्चसः
२.०८५.०४३ एते गन्धर्वराजानो भरतस्याग्रतो जगुः
२.०८५.०४४ अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना
२.०८५.०४४ उपानृत्यंस्तु भरतं भरद्वाजस्य शासनात्
२.०८५.०४५ यानि माल्यानि देवेषु यानि चैत्ररथे वने
२.०८५.०४५ प्रयागे तान्यदृश्यन्त भरद्वाजस्य शासनात्
२.०८५.०४६ बिल्वा मार्दङ्गिका आसञ्शम्या ग्राहा बिभीतकाः
२.०८५.०४६ अश्वत्था नर्तकाश्चासन् भरद्वाजस्य तेजसा
२.०८५.०४७ ततः सरलतालाश्च तिलका नक्तमालकाः
२.०८५.०४७ प्रहृष्टास्तत्र संपेतुः कुब्जाभूताथ वामनाः
२.०८५.०४८ शिंशपामलकी जम्बूर्याश्चान्याः कानने लताः
२.०८५.०४८ प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमेऽवसन्
२.०८५.०४९ सुरां सुरापाः पिबत पायसं च बुभुक्शिताः
२.०८५.०४९ मांसनि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ
२.०८५.०५० उत्साद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु
२.०८५.०५० अप्येकमेकं पुरुषं प्रमदाः सत्प चाष्ट च
२.०८५.०५१ संवहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः
२.०८५.०५१ परिमृज्य तथा न्यायं पाययन्ति वराङ्गनाः
२.०८५.०५२ हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान्
२.०८५.०५२ इक्षूंश्च मधुजालांश्च भोजयन्ति स्म वाहनान्
२.०८५.०५२ इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः
२.०८५.०५३ नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः
२.०८५.०५३ मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ
२.०८५.०५४ तर्पिता सर्वकामैस्ते रक्तचन्दनरूषिताः
२.०८५.०५४ अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन्
२.०८५.०५५ नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान्
२.०८५.०५५ कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम्
२.०८५.०५६ इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः
२.०८५.०५६ अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन्
२.०८५.०५७ संप्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः
२.०८५.०५७ भरतस्यानुयातारः स्वर्गेऽयमिति चाब्रुवन्
२.०८५.०५८ ततो भुक्तवतां तेषां तदन्नममृतोपमम्
२.०८५.०५८ दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः
२.०८५.०५९ प्रेष्याश्चेट्यश्च वध्वश्च बलस्थाश्चापि सर्वशः
२.०८५.०५९ बभूवुस्ते भृशं तृप्ताः सर्वे चाहतवाससः
२.०८५.०६० कुञ्जराश्च खरोष्ट्रश्च गोऽश्वाश्च मृगपक्षिणः
२.०८५.०६० बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत्
२.०८५.०६१ नाशुक्लवासास्तत्रासीत्क्षुधितो मलिनोऽपि वा
२.०८५.०६१ रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत
२.०८५.०६२ आजैश्चापि च वाराहैर्निष्ठानवरसंचयैः
२.०८५.०६२ फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः
२.०८५.०६३ पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः
२.०८५.०६३ ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः
२.०८५.०६४ बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः
२.०८५.०६४ ताश्च कामदुघा गावो द्रुमाश्चासन्मधुश्च्युतः
२.०८५.०६५ वाप्यो मैरेय पूर्णाश्च मृष्टमांसचयैर्वृताः
२.०८५.०६५ प्रतप्त पिठरैश्चापि मार्गमायूरकौक्कुटैः
२.०८५.०६६ पात्रीणां च सहस्राणि शातकुम्भमयानि च
२.०८५.०६६ स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः
२.०८५.०६६ यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः
२.०८५.०६७ ह्रदाः पूर्णा रसालस्य दध्नः श्वेतस्य चापरे
२.०८५.०६७ बभूवुः पायसस्यान्ते शर्करायाश्च संचयाः
२.०८५.०६८ कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च
२.०८५.०६८ ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः
२.०८५.०६९ शुक्लानंशुमतश्चापि दन्तधावनसंचयान्
२.०८५.०६९ शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः
२.०८५.०७० दर्पणान् परिमृष्टांश्च वाससां चापि संचयान्
२.०८५.०७० पादुकोपानहां चैव युग्मान् यत्र सहस्रशः
२.०८५.०७१ आञ्जनीः कङ्कतान् कूर्चांश्छत्राणि च धनूंषि च
२.०८५.०७१ मर्मत्राणानि चित्राणि शयनान्यासनानि च
२.०८५.०७२ प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम्
२.०८५.०७२ अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पल पुष्करान्
२.०८५.०७३ नीलवैदूर्यवर्णांश्च मृदून् यवससंचयान्
२.०८५.०७३ निर्वापार्थं पशूनां ते ददृशुस्तत्र सर्वशः
२.०८५.०७४ व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम्
२.०८५.०७४ दृष्ट्वातिथ्यं कृतं तादृग्भरतस्य महर्षिणा
२.०८५.०७५ इत्येवं रममाणानां देवानामिव नन्दने
२.०८५.०७५ भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत
२.०८५.०७६ प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम्
२.०८५.०७६ भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः
२.०८५.०७७ तथैव मत्ता मदिरोत्कटा नरास्॑ तथैव दिव्यागुरुचन्दनोक्षिताः
२.०८५.०७७ तथैव दिव्या विविधाः स्रगुत्तमाः॑ पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः
२.०८६.००१ ततस्तां रजनीमुष्य भरतः सपरिच्छदः
२.०८६.००१ कृतातिथ्यो भरद्वाजं कामादभिजगाम ह
२.०८६.००२ तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम्
२.०८६.००२ हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत
२.०८६.००३ कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता
२.०८६.००३ समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ
२.०८६.००४ तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च
२.०८६.००४ आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसं
२.०८६.००५ सुखोषितोऽस्मि भगवन् समग्रबलवाहनः
२.०८६.००५ तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया
२.०८६.००६ अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः
२.०८६.००६ अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः
२.०८६.००७ आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम
२.०८६.००७ समीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा
२.०८६.००८ आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः
२.०८६.००८ आचक्ष्व कतमो मार्गः कियानिति च शंस मे
२.०८६.००९ इति पृष्टस्तु भरतं भ्रातृदर्शनलालसं
२.०८६.००९ प्रत्युवाच महातेजा भरद्वाजो महातपाः
२.०८६.०१० भरतार्धतृतीयेषु योजनेष्वजने वने
२.०८६.०१० चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः
२.०८६.०११ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी
२.०८६.०११ पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना
२.०८६.०१२ अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः
२.०८६.०१२ ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम्
२.०८६.०१३ दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च
२.०८६.०१३ गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते
२.०८६.०१३ वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्
२.०८६.०१४ प्रयाणमिति च श्रुत्वा राजराजस्य योषितः
२.०८६.०१४ हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन्
२.०८६.०१५ वेपमाना कृशा दीना सह देव्या सुमन्त्रिया
२.०८६.०१५ कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः
२.०८६.०१६ असमृद्धेन कामेन सर्वलोकस्य गर्हिता
२.०८६.०१६ कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा
२.०८६.०१७ तं प्रदक्षिणमागम्य भगवन्तं महामुनिम्
२.०८६.०१७ अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा
२.०८६.०१८ ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः
२.०८६.०१८ विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव
२.०८६.०१९ एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः
२.०८६.०१९ उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः
२.०८६.०२० यामिमां भगवन् दीनां शोकानशनकर्शिताम्
२.०८६.०२० पितुर्हि महिषीं देवीं देवतामिव पश्यसि
२.०८६.०२१ एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम्
२.०८६.०२१ कौसल्या सुषुवे रामं धातारमदितिर्यथा
२.०८६.०२२ अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः
२.०८६.०२२ कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे
२.०८६.०२३ एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौ
२.०८६.०२३ उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ
२.०८६.०२४ यस्याः कृते नरयाघ्रौ जीवनाशमितो गतौ
२.०८६.०२४ राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः
२.०८६.०२५ ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम्
२.०८६.०२५ ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्
२.०८६.०२५ यतोमूलं हि पश्यामि व्यसनं महदात्मनः
२.०८६.०२६ इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा
२.०८६.०२६ स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत्
२.०८६.०२७ भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा
२.०८६.०२७ प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत्
२.०८६.०२८ न दोषेणावगन्तव्या कैकेयी भरत त्वया
२.०८६.०२८ रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति
२.०८६.०२९ अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्
२.०८६.०२९ आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत्
२.०८६.०३० ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्क्रितान्
२.०८६.०३० अध्यारोहत्प्रयाणार्थी बहून् बहुविधो जनः
२.०८६.०३१ गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः
२.०८६.०३१ जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे
२.०८६.०३२ विविधान्यपि यानानि महानि च लघूनि च
२.०८६.०३२ प्रययुः सुमहार्हाणि पादैरेव पदातयः
२.०८६.०३३ अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः
२.०८६.०३३ रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा
२.०८६.०३४ स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम्
२.०८६.०३४ आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः
२.०८६.०३५ सा प्रयाता महासेना गजवाजिरथाकुला
२.०८६.०३५ दक्षिणां दिशमावृत्य महामेघ इवोत्थितः
२.०८६.०३५ वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः
२.०८६.०३६ सा संप्रहृष्टद्विपवाजियोधा॑ वित्रासयन्ती मृगपक्षिसंघान्
२.०८६.०३६ महद्वनं तत्प्रविगाहमाना॑ रराज सेना भरतस्य तत्र
२.०८७.००१ तया महत्या यायिन्या ध्वजिन्या वनवासिनः
२.०८७.००१ अर्दिता यूथपा मत्ताः सयूथाः संप्रदुद्रुवुः
२.०८७.००२ ऋक्षाः पृषतसंघाश्च रुरवश्च समन्ततः
२.०८७.००२ दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च
२.०८७.००३ स संप्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः
२.०८७.००३ वृतो महत्या नादिन्या सेनया चतुरङ्गया
२.०८७.००४ सागरौघनिभा सेना भरतस्य महात्मनः
२.०८७.००४ महीं संछादयामास प्रावृषि द्यामिवाम्बुदः
२.०८७.००५ तुरंगौघैरवतता वारणैश्च महाजवैः
२.०८७.००५ अनालक्ष्या चिरं कालं तस्मिन् काले बभूव भूः
२.०८७.००६ स यात्वा दूरमध्वानं सुपरिश्रान्त वाहनः
२.०८७.००६ उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम्
२.०८७.००७ यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया
२.०८७.००७ व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्
२.०८७.००८ अयं गिरिश्चित्रकूटस्तथा मन्दाकिनी नदी
२.०८७.००८ एतत्प्रकाशते दूरान्नीलमेघनिभं वनम्
२.०८७.००९ गिरेः सानूनि रम्याणि चित्रकूटस्य संप्रति
२.०८७.००९ वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः
२.०८७.०१० मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु
२.०८७.०१० नीला इवातपापाये तोयं तोयधरा घनाः
२.०८७.०११ किन्नराचरितोद्देशं पश्य शत्रुघ्न पर्वतम्
२.०८७.०११ हयैः समन्तादाकीर्णं मकरैरिव सागरम्
२.०८७.०१२ एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः
२.०८७.०१२ वायुप्रविद्धाः शरदि मेघराज्य इवाम्बरे
२.०८७.०१३ कुर्वन्ति कुसुमापीडाञ्शिरःसु सुरभीनमी
२.०८७.०१३ मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः
२.०८७.०१४ निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम्
२.०८७.०१४ अयोध्येव जनाकीर्णा संप्रति प्रतिभाति मा
२.०८७.०१५ खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति
२.०८७.०१५ तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम्
२.०८७.०१६ स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान्
२.०८७.०१६ एतान् संपततः शीघ्रं पश्य शत्रुघ्न कानने
२.०८७.०१७ एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान्
२.०८७.०१७ एतमाविशतः शैलमधिवासं पतत्रिणाम्
२.०८७.०१८ अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा
२.०८७.०१८ तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा
२.०८७.०१९ मृगा मृगीभिः सहिता बहवः पृषता वने
२.०८७.०१९ मनोज्ञ रूपा लक्ष्यन्ते कुसुमैरिव चित्रितः
२.०८७.०२० साधु सैन्याः प्रतिष्ठन्तां विचिन्वन्तु च काननम्
२.०८७.०२० यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ
२.०८७.०२१ भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः
२.०८७.०२१ विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः
२.०८७.०२२ ते समालोक्य धूमाग्रमूचुर्भरतमागताः
२.०८७.०२२ नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौ
२.०८७.०२३ अथ नात्र नरव्याघ्रौ राजपुत्रौ परंतपौ
२.०८७.०२३ अन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः
२.०८७.०२४ तच्छ्रुत्वा भरतस्तेषां वचनं साधु संमतम्
२.०८७.०२४ सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः
२.०८७.०२५ यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः
२.०८७.०२५ अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च
२.०८७.०२६ एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः
२.०८७.०२६ भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधत्
२.०८७.०२७ व्यवस्थिता या भरतेन सा चमूर्॑ निरीक्षमाणापि च धूममग्रतः
२.०८७.०२७ बभूव हृष्टा नचिरेण जानती॑ प्रियस्य रामस्य समागमं तदा
२.०८८.००१ दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः
२.०८८.००१ विदेह्याः प्रियमाकाङ्क्षन् स्वं च चित्तं विलोभयन्
२.०८८.००२ अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत्
२.०८८.००२ भार्याममरसंकाशः शचीमिव पुरंदरः
२.०८८.००३ न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः
२.०८८.००३ मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम्
२.०८८.००४ पश्येममचलं भद्रे नानाद्विजगणायुतम्
२.०८८.००४ शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम्
२.०८८.००५ के चिद्रजतसंकाशाः के चित्क्षतजसंनिभाः
२.०८८.००५ पीतमाञ्जिष्ठवर्णाश्च के चिन्मणिवरप्रभाः
२.०८८.००६ पुष्यार्ककेतुकाभाश्च के चिज्ज्योती रसप्रभाः
२.०८८.००६ विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः
२.०८८.००७ नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः
२.०८८.००७ अदुष्टैर्भात्ययं शैलो बहुपक्षिसमाकुलः
२.०८८.००८ आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः
२.०८८.००८ अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः
२.०८८.००९ काश्मर्यरिष्टवरणैर्मधूकैस्तिलकैस्तथा
२.०८८.००९ बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः
२.०८८.०१० पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः
२.०८८.०१० एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः
२.०८८.०११ शैलप्रस्थेषु रम्येषु पश्येमान् कामहर्षणान्
२.०८८.०११ किन्नरान् द्वंद्वशो भद्रे रममाणान्मनस्विनः
२.०८८.०१२ शाखावसक्तान् खड्गांश्च प्रवराण्यम्बराणि च
२.०८८.०१२ पश्य विद्याधरस्त्रीणां क्रीडेद्देशान्मनोरमान्
२.०८८.०१३ जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्व चित्क्व चित्
२.०८८.०१३ स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः
२.०८८.०१४ गुहासमीरणो गन्धान्नानापुष्पभवान् वहन्
२.०८८.०१४ घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत्
२.०८८.०१५ यदीह शरदोऽनेकास्त्वया सार्धमनिन्दिते
२.०८८.०१५ लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति
२.०८८.०१६ बहुपुष्पफले रम्ये नानाद्विजगणायुते
२.०८८.०१६ विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि
२.०८८.०१७ अनेन वनवासेन मया प्राप्तं फलद्वयम्
२.०८८.०१७ पितुश्चानृणता धर्मे भरतस्य प्रियं तथा
२.०८८.०१८ वैदेहि रमसे कच्चिच्चित्रकूटे मया सह
२.०८८.०१८ पश्यन्ती विविधान् भावान्मनोवाक्कायसंयतान्
२.०८८.०१९ इदमेवामृतं प्राहू राज्ञां राजर्षयः परे
२.०८८.०१९ वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः
२.०८८.०२० शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः
२.०८८.०२० बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः
२.०८८.०२१ निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव
२.०८८.०२१ ओषध्यः स्वप्रभा लक्ष्म्या भ्राजमानाः सहस्रशः
२.०८८.०२२ के चित्क्षयनिभा देशाः के चिदुद्यानसंनिभाः
२.०८८.०२२ के चिदेकशिला भान्ति पर्वतस्यास्य भामिनि
२.०८८.०२३ भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः
२.०८८.०२३ चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शिवः
२.०८८.०२४ कुष्ठपुंनागतगरभूर्जपत्रोत्तरच्छदान्
२.०८८.०२४ कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान्
२.०८८.०२५ मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः
२.०८८.०२५ कामिभिर्वनिते पश्य फलानि विविधानि च
२.०८८.०२६ वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून्
२.०८८.०२६ पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः
२.०८८.०२७ इमं तु कालं वनिते विजह्रिवांस्॑ त्वया च सीते सह लक्ष्मणेन च
२.०८८.०२७ रतिं प्रपत्स्ये कुलधर्मवर्धिनीं॑ सतां पथि स्वैर्नियमैः परैः
स्थितः
२.०८९.००१ अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः
२.०८९.००१ अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम्
२.०८९.००२ अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम्
२.०८९.००२ विदेहराजस्य सुतां रामो राजीवलोचनः
२.०८९.००३ विचित्रपुलिनां रम्यां हंससारससेविताम्
२.०८९.००३ कुसुमैरुपसंपन्नां पश्य मन्दाकिनीं नदीम्
२.०८९.००४ नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः
२.०८९.००४ राजन्तीं राजराजस्य नलिनीमिव सर्वतः
२.०८९.००५ मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम्
२.०८९.००५ तीर्थानि रमणीयानि रतिं संजनयन्ति मे
२.०८९.००६ जटाजिनधराः काले वल्कलोत्तरवाससः
२.०८९.००६ ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये
२.०८९.००७ आदित्यमुपतिष्ठन्ते नियमादूर्ध्वबाहवः
२.०८९.००७ एतेऽपरे विशालाक्षि मुनयः संशितव्रताः
२.०८९.००८ मारुतोद्धूत शिखरैः प्रनृत्त इव पर्वतः
२.०८९.००८ पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम्
२.०८९.००९ कच्चिन्मणिनिकाशोदां कच्चित्पुलिनशालिनीम्
२.०८९.००९ कच्चित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्
२.०८९.०१० निर्धूतान् वायुना पश्य विततान् पुष्पसंचयान्
२.०८९.०१० पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान्
२.०८९.०११ तांश्चातिवल्गु वचसो रथाङ्गाह्वयना द्विजाः
२.०८९.०११ अधिरोहन्ति कल्याणि निष्कूजन्तः शुभा गिरः
२.०८९.०१२ दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने
२.०८९.०१२ अधिकं पुरवासाच्च मन्ये च तव दर्शनात्
२.०८९.०१३ विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः
२.०८९.०१३ नित्यविक्षोभित जलां विहाहस्व मया सह
२.०८९.०१४ सखीवच्च विगाहस्व सीते मन्दकिनीमिमाम्
२.०८९.०१४ कमलान्यवमज्जन्ती पुष्कराणि च भामिनि
२.०८९.०१५ त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम्
२.०८९.०१५ मन्यस्व वनिते नित्यं सरयूवदिमां नदीम्
२.०८९.०१६ लक्ष्मणश्चैव धर्मात्मा मन्निदेशे व्यवस्थितः
२.०८९.०१६ त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम
२.०८९.०१७ उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः
२.०८९.०१७ नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह
२.०८९.०१८ इमां हि रम्यां गजयूथलोलितां॑ निपीततोयां गजसिंहवानरैः
२.०८९.०१८ सुपुष्पितैः पुष्पधरैरलंकृतां॑ न सोऽस्ति यः स्यान्न गतक्रमः सुखी
२.०८९.०१९ इतीव रामो बहुसंगतं वचः॑ प्रिया सहायः सरितं प्रति ब्रुवन्
२.०८९.०१९ चचार रम्यं नयनाञ्जनप्रभं॑ स चित्रकूटं रघुवंशवर्धनः
२.०९०.००१ तथा तत्रासतस्तस्य भरतस्योपयायिनः
२.०९०.००१ सैन्य रेणुश्च शब्दश्च प्रादुरास्तां नभः स्पृशौ
२.०९०.००२ एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः
२.०९०.००२ अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर्दिशः
२.०९०.००३ स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः
२.०९०.००३ तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत
२.०९०.००४ तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा स निःस्वनम्
२.०९०.००४ उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं
२.०९०.००५ हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया
२.०९०.००५ भीमस्तनितगम्भीरस्तुमुलः श्रूयते स्वनः
२.०९०.००६ राजा वा राजमात्रो वा मृगयामटते वने
२.०९०.००६ अन्यद्वा श्वापदं किं चित्सौमित्रे ज्ञातुमर्हसि
२.०९०.००६ सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि
२.०९०.००७ स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम्
२.०९०.००७ प्रेक्षमाणो दिशः सर्वाः पूर्वां दिशमवैक्षत
२.०९०.००८ उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम्
२.०९०.००८ रथाश्वगजसंबाधां यत्तैर्युक्तां पदातिभिः
२.०९०.००९ तामश्वगजसंपूर्णां रथध्वजविभूषिताम्
२.०९०.००९ शशंस सेनां रामाय वचनं चेदमब्रवीत्
२.०९०.०१० अग्निं संशमयत्वार्यः सीता च भजतां गुहाम्
२.०९०.०१० सज्यं कुरुष्व चापं च शरांश्च कवचं तथा
२.०९०.०११ तं रामः पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह
२.०९०.०११ अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम्
२.०९०.०१२ एवमुक्क्तस्तु रामेण लक्ष्माणो वाक्यमब्रवीत्
२.०९०.०१२ दिधक्षन्निव तां सेनां रुषितः पावको यथा
२.०९०.०१३ संपन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम्
२.०९०.०१३ आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः
२.०९०.०१४ एष वै सुमहाञ्श्रीमान् विटपी संप्रकाशते
२.०९०.०१४ विराजत्युद्गतस्कन्धः कोविदार ध्वजो रथे
२.०९०.०१५ भजन्त्येते यथाकाममश्वानारुह्य शीघ्रगान्
२.०९०.०१५ एते भ्राजन्ति संहृष्टा जगानारुह्य सादिनः
२.०९०.०१६ गृहीतधनुषौ चावां गिरिं वीर श्रयावहे
२.०९०.०१६ अपि नौ वशमागच्छेत्कोविदारध्वजो रणे
२.०९०.०१७ अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत्
२.०९०.०१७ त्वया राघव संप्राप्तं सीतया च मया तथा
२.०९०.०१८ यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतीम्
२.०९०.०१८ संप्राप्तोऽयमरिर्वीर भरतो वध्य एव मे
२.०९०.०१९ भरतस्य वधे दोषं नाहं पश्यामि राघव
२.०९०.०१९ पूर्वापकरिणां त्यागे न ह्यधर्मो विधीयते
२.०९०.०१९ एतस्मिन्न्निहते कृत्स्नामनुशाधि वसुंधराम्
२.०९०.०२० अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका
२.०९०.०२० मया पश्येत्सुदुःखार्ता हस्तिभग्नमिव द्रुमम्
२.०९०.०२१ कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम्
२.०९०.०२१ कलुषेणाद्य महता मेदिनी परिमुच्यताम्
२.०९०.०२२ अद्येमं संयतं क्रोधमसत्कारं च मानद
२.०९०.०२२ मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम्
२.०९०.०२३ अद्यैतच्चित्रकूटस्य काननं निशितैः शरैः
२.०९०.०२३ भिन्दञ्शत्रुशरीराणि करिष्ये शोणितोक्षितम्
२.०९०.०२४ शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा
२.०९०.०२४ श्वापदाः परिकर्षन्तु नराश्च निहतान्मया
२.०९०.०२५ शराणां धनुषश्चाहमनृणोऽस्मि महावने
२.०९०.०२५ ससैन्यं भरतं हत्वा भविष्यामि न संशयः
२.०९१.००१ सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्छितम्
२.०९१.००१ रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत्
२.०९१.००२ किमत्र धनुषा कार्यमसिना वा सचर्मणा
२.०९१.००२ महेष्वासे महाप्राज्ञे भरते स्वयमागते
२.०९१.००३ प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति
२.०९१.००३ अस्मासु मनसाप्येष नाहितं किं चिदाचरेत्
२.०९१.००४ विप्रियं कृतपूर्वं ते भरतेन कदा न किम्
२.०९१.००४ ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे
२.०९१.००५ न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः
२.०९१.००५ अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते
२.०९१.००६ कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि
२.०९१.००६ भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः
२.०९१.००७ यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे
२.०९१.००७ वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम्
२.०९१.००८ उच्यमानो हि भरतो मया लक्ष्मण तत्त्वतः
२.०९१.००८ राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति
२.०९१.००९ तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः
२.०९१.००९ लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया
२.०९१.०१० व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह
२.०९१.०१० एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः
२.०९१.०११ वनवासमनुध्याय गृहाय प्रतिनेष्यति
२.०९१.०११ इमां वाप्येश वैदेहीमत्यन्तसुखसेविनीम्
२.०९१.०१२ एतौ तौ संप्रकाशेते गोत्रवन्तौ मनोरमौ
२.०९१.०१२ वायुवेगसमौ वीर जवनौ तुरगोत्तमौ
२.०९१.०१३ स एष सुमहाकायः कम्पते वाहिनीमुखे
२.०९१.०१३ नागः शत्रुंजयो नाम वृद्धस्तातस्य धीमतः
२.०९१.०१४ अवतीर्य तु सालाग्रात्तस्मात्स समितिंजयः
२.०९१.०१४ लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः
२.०९१.०१५ भरतेनाथ संदिष्टा संमर्दो न भवेदिति
२.०९१.०१५ समन्तात्तस्य शैलस्य सेनावासमकल्पयत्
२.०९१.०१६ अध्यर्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा
२.०९१.०१६ पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला
२.०९१.०१७ सा चित्रकूटे भरतेन सेना॑ धर्मं पुरस्कृत्य विधूय दर्पम्
२.०९१.०१७ प्रसादनार्थं रघुनन्दनस्य॑ विरोचते नीतिमता प्रणीता
२.०९२.००१ निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः
२.०९२.००१ अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम्
२.०९२.००२ निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत्
२.०९२.००२ भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्
२.०९२.००३ क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततः
२.०९२.००३ लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि
२.०९२.००४ यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्
२.०९२.००४ वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति
२.०९२.००५ यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम्
२.०९२.००५ भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति
२.०९२.००६ यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ
२.०९२.००६ शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति
२.०९२.००७ यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः
२.०९२.००७ अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति
२.०९२.००८ कृतकृत्या महाभागा वैदेही जनकात्मजा
२.०९२.००८ भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति
२.०९२.००९ सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः
२.०९२.००९ यस्मिन् वसति काकुत्स्थः कुबेर इवनन्दने
२.०९२.०१० कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्
२.०९२.०१० यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः
२.०९२.०११ एवमुक्त्वा महातेजा भरतः पुरुषर्षभः
२.०९२.०११ पद्भ्यामेव महातेजाः प्रविवेश महद्वनम्
२.०९२.०१२ स तानि द्रुमजालानि जातानि गिरिसानुषु
२.०९२.०१२ पुष्पिताग्राणि मध्येन जगाम वदतां वरः
२.०९२.०१३ स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम्
२.०९२.०१३ रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्
२.०९२.०१४ तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः
२.०९२.०१४ अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः
२.०९२.०१५ स चित्रकूटे तु गिरौ निशाम्य॑ रामाश्रमं पुण्यजनोपपन्नम्
२.०९२.०१५ गुहेन सार्धं त्वरितो जगाम॑ पुनर्निवेश्यैव चमूं महात्मा
२.०९३.००१ निविष्टायां तु सेनायामुत्सुको भरतस्तदा
२.०९३.००१ जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन्
२.०९३.००२ ऋषिं वसिष्ठं संदिश्य मातॄर्मे शीघ्रमानय
२.०९३.००२ इति तरितमग्रे स जागम गुरुवत्सलः
२.०९३.००३ सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत
२.०९३.००३ रामदार्शनजस्तर्षो भरतस्येव तस्य च
२.०९३.००४ गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्
२.०९३.००४ भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह
२.०९३.००५ शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा
२.०९३.००५ काष्टानि चावभग्नानि पुष्पाण्यवचितानि च
२.०९३.००६ ददर्श च वने तस्मिन्महतः संचयान् कृतान्
२.०९३.००६ मृगाणां महिषाणां च करीषैः शीतकारणात्
२.०९३.००७ गच्छनेव महाबाहुर्द्युतिमान् भरतस्तदा
२.०९३.००७ शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः
२.०९३.००८ मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्
२.०९३.००८ नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः
२.०९३.००९ उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्
२.०९३.००९ अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता
२.०९३.०१० इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्
२.०९३.०१० शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम्
२.०९३.०११ यमेवाधातुमिच्छन्ति तापसाः सततं वने
२.०९३.०११ तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः
२.०९३.०१२ अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम्
२.०९३.०१२ आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम्
२.०९३.०१३ अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः
२.०९३.०१३ मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत्
२.०९३.०१४ जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः
२.०९३.०१४ जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम्
२.०९३.०१५ मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः
२.०९३.०१५ सरान् कामान् परित्यज्य वने वसति राघवः
२.०९३.०१६ इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन्
२.०९३.०१६ रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः
२.०९३.०१७ एवं स विलपंस्तस्मिन् वने दशरथात्मजः
२.०९३.०१७ ददर्श महतीं पुण्यां पर्णशालां मनोरमाम्
२.०९३.०१८ सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्
२.०९३.०१८ विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे
२.०९३.०१९ शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः
२.०९३.०१९ रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः
२.०९३.०२० अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः
२.०९३.०२० शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव
२.०९३.०२१ महारजतवासोभ्यामसिभ्यां च विराजिताम्
२.०९३.०२१ रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम्
२.०९३.०२२ गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः
२.०९३.०२२ अरिसंघैरनाधृष्यां मृगैः सिंहगुहामिव
२.०९३.०२३ प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम्
२.०९३.०२३ ददर्श भरतस्तत्र पुण्यां रामनिवेशने
२.०९३.०२४ निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम्
२.०९३.०२४ उटजे राममासीनां जटामण्डलधारिणम्
२.०९३.०२५ तं तु कृष्णाजिनधरं चीरवल्कलवाससं
२.०९३.०२५ ददर्श राममासीनमभितः पावकोपमम्
२.०९३.०२६ सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्
२.०९३.०२६ पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम्
२.०९३.०२७ उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्
२.०९३.०२७ स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च
२.०९३.०२८ तं दृष्ट्वा भरतः श्रीमान् दुःखमोहपरिप्लुतः
२.०९३.०२८ अभ्यधावत धर्मात्मा भरतः कैकयीसुतः
२.०९३.०२९ दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा
२.०९३.०२९ अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत्
२.०९३.०३० यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्
२.०९३.०३० वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः
२.०९३.०३१ वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः
२.०९३.०३१ मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन्
२.०९३.०३२ अधारयद्यो विविधाश्चित्राः सुमनसस्तदा
२.०९३.०३२ सोऽयं जटाभारमिमं सहते राघवः कथम्
२.०९३.०३३ यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयः
२.०९३.०३३ शरीर क्लेशसंभूतं स धर्मं परिमार्गते
२.०९३.०३४ चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्
२.०९३.०३४ मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते
२.०९३.०३५ मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः
२.०९३.०३५ धिग्जीवितं नृशंसस्य मम लोकविगर्हितम्
२.०९३.०३६ इत्येवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः
२.०९३.०३६ पादावप्राप्य रामस्य पपात भरतो रुदन्
२.०९३.०३७ दुःखाभितप्तो भरतो राजपुत्रो महाबलः
२.०९३.०३७ उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किं चन
२.०९३.०३८ बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम्
२.०९३.०३८ आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्ततः
२.०९३.०३९ शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्
२.०९३.०३९ तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत्
२.०९३.०४० ततः सुमन्त्रेण गुहेन चैव॑ समीयतू राजसुतावरण्ये
२.०९३.०४० दिवाकरश्चैव निशाकरश्च॑ यथाम्बरे शुक्रबृहस्पतिभ्याम्
२.०९३.०४१ तान् पार्थिवान् वारणयूथपाभान्॑ समागतांस्तत्र महत्यरण्ये
२.०९३.०४१ वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्य्॑ अश्रूण्यमुञ्चन् प्रविहाय हर्षम्
२.०९४.००१ आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः
२.०९४.००१ अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः
२.०९४.००२ क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः
२.०९४.००२ न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि
२.०९४.००३ चिरस्य बत पश्यामि दूराद्भरतमागतम्
२.०९४.००३ दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः
२.०९४.००४ कच्चिद्दशरथो राजा कुशली सत्यसंगरः
२.०९४.००४ राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः
२.०९४.००५ स कच्चिद्ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः
२.०९४.००५ इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते
२.०९४.००६ तात कच्चिच्च कौसल्या सुमित्रा च प्रजावती
२.०९४.००६ सुखिनी कच्चिदार्या च देवी नन्दति कैकयी
२.०९४.००७ कच्चिद्विनय संपन्नः कुलपुत्रो बहुश्रुतः
२.०९४.००७ अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः
२.०९४.००८ कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः
२.०९४.००८ हुतं च होष्यमाणं च काले वेदयते सदा
२.०९४.००९ इष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम्
२.०९४.००९ सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे
२.०९४.०१० कच्चिदात्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः
२.०९४.०१० कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः
२.०९४.०११ मन्त्रो विजयमूलं हि राज्ञां भवति राघव
२.०९४.०११ सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः
२.०९४.०१२ कच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे
२.०९४.०१२ कच्चिंश्चापररात्रिषु चिन्तयस्यर्थनैपुणम्
२.०९४.०१३ कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह
२.०९४.०१३ कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति
२.०९४.०१४ कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्
२.०९४.०१४ क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव
२.०९४.०१५ कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः
२.०९४.०१५ विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः
२.०९४.०१६ कच्चिन्न तर्कैर्युक्त्वा वा ये चाप्यपरिकीर्तिताः
२.०९४.०१६ त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम्
२.०९४.०१७ कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम्
२.०९४.०१७ पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत्
२.०९४.०१८ सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः
२.०९४.०१८ अथ वाप्ययुतान्येव नास्ति तेषु सहायता
२.०९४.०१९ एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः
२.०९४.०१९ राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम्
२.०९४.०२० कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः
२.०९४.०२० जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः
२.०९४.०२१ अमात्यानुपधातीतान् पितृपैतामहाञ्शुचीन्
२.०९४.०२१ श्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु
२.०९४.०२२ कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा
२.०९४.०२२ उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः
२.०९४.०२३ उपायकुशलं वैद्यं भृत्यसंदूषणे रतम्
२.०९४.०२३ शूरमैश्वर्यकामं च यो न हन्ति स वध्यते
२.०९४.०२४ कच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्शुचिः
२.०९४.०२४ कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः
२.०९४.०२५ बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः
२.०९४.०२५ दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः
२.०९४.०२६ क चिद्बलस्य भक्तं च वेतनं च यथोचितम्
२.०९४.०२६ संप्राप्तकालं दातव्यं ददासि न विलम्बसे
२.०९४.०२७ कालातिक्रमणे ह्येव भक्त वेतनयोर्भृताः
२.०९४.०२७ भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः
२.०९४.०२८ कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः
२.०९४.०२८ कच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः
२.०९४.०२९ कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान्
२.०९४.०२९ यथोक्तवादी दूतस्ते कृतो भरत पण्डितः
२.०९४.०३० कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च
२.०९४.०३० त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः
२.०९४.०३१ कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा
२.०९४.०३१ दुर्बलाननवज्ञाय वर्तसे रिपुसूदन
२.०९४.०३२ कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे
२.०९४.०३२ अनर्थ कुशला ह्येते बालाः पण्डितमानिनः
२.०९४.०३३ धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः
२.०९४.०३३ बुद्धिमान् वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते
२.०९४.०३४ वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः
२.०९४.०३४ सत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम्
२.०९४.०३५ ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा
२.०९४.०३५ जितेन्द्रियैर्महोत्साहैर्वृतामात्यैः सहस्रशः
२.०९४.०३६ प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्
२.०९४.०३६ कच्चित्समुदितां स्फीतामयोध्यां परिरक्षसि
२.०९४.०३७ कच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः
२.०९४.०३७ देवस्थानैः प्रपाभिश्च तडागैश्चोपशोभितः
२.०९४.०३८ प्रहृष्टनरनारीकः समाजोत्सवशोभितः
२.०९४.०३८ सुकृष्टसीमा पशुमान् हिंसाभिरभिवर्जितः
२.०९४.०३९ अदेवमातृको रम्यः श्वापदैः परिवर्जितः
२.०९४.०३९ कच्चिज्जनपदः स्फीतः सुखं वसति राघव
२.०९४.०४० कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः
२.०९४.०४० वार्तायां संश्रितस्तात लोको हि सुखमेधते
२.०९४.०४१ तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्
२.०९४.०४१ रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः
२.०९४.०४२ कच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः
२.०९४.०४२ कच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे
२.०९४.०४३ कच्चिन्नाग वनं गुप्तं कुञ्जराणं च तृप्यसि
२.०९४.०४३ कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्
२.०९४.०४३ उत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे
२.०९४.०४४ कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः
२.०९४.०४४ यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः
२.०९४.०४५ आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः
२.०९४.०४५ अपात्रेषु न ते कच्चित्कोशो गच्छति राघव
२.०९४.०४६ देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च
२.०९४.०४६ योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः
२.०९४.०४७ कच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा
२.०९४.०४७ अपृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः
२.०९४.०४८ गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः
२.०९४.०४८ कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ
२.०९४.०४९ व्यसने कच्चिदाढ्यस्य दुगतस्य च राघव
२.०९४.०४९ अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः
२.०९४.०५० यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव
२.०९४.०५० तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः
२.०९४.०५१ कच्चिद्वृधांश्च बालांश्च वैद्यमुख्यांश्च राघव
२.०९४.०५१ दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे
२.०९४.०५२ कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन्
२.०९४.०५२ चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि
२.०९४.०५३ कच्चिदर्थेन वा धर्मं धर्मं धर्मेण वा पुनः
२.०९४.०५३ उभौ वा प्रीतिलोभेन कामेन न विबाधसे
२.०९४.०५४ कच्चिदर्थं च धर्मं च कामं च जयतां वर
२.०९४.०५४ विभज्य काले कालज्ञ सर्वान् भरत सेवसे
२.०९४.०५५ कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः
२.०९४.०५५ आशंसन्ते महाप्राज्ञ पौरजानपदैः सह
२.०९४.०५६ नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्
२.०९४.०५६ अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्
२.०९४.०५७ एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्
२.०९४.०५७ निश्चितानामनारम्भं मन्त्रस्यापरिलक्षणम्
२.०९४.०५८ मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः
२.०९४.०५८ कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश
२.०९४.०५९ कच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव
२.०९४.०५९ कच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि
२.०९५.००१ रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह
२.०९५.००१ किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति
२.०९५.००२ शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ
२.०९५.००२ ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान् भवेन्नृपः
२.०९५.००३ स समृद्धां मया सार्धमयोध्यां गच्छ राघव
२.०९५.००३ अभिषेचय चात्मानं कुलस्यास्य भवाय नः
२.०९५.००४ राजानं मानुषं प्राहुर्देवत्वे संमतो मम
२.०९५.००४ यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्
२.०९५.००५ केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते
२.०९५.००५ दिवमार्य गतो राजा यायजूकः सतां मतः
२.०९५.००६ उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः
२.०९५.००६ अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ
२.०९५.००७ प्रियेण किल दत्तं हि पितृलोकेषु राघव
२.०९५.००७ अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः
२.०९५.००८ तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्
२.०९५.००८ राघवो भरतेनोक्तां बभूव गतचेतनः
२.०९५.००९ वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः
२.०९५.००९ प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः
२.०९५.००९ वने परशुना कृत्तस्तथा भुवि पपात ह
२.०९५.०१० तथा हि पतितं रामं जगत्यां जगतीपतिम्
२.०९५.०१० कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम्
२.०९५.०११ भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम्
२.०९५.०११ रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै
२.०९५.०१२ स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन्
२.०९५.०१२ उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम्
२.०९५.०१३ किं नु तस्य मया कार्यं दुर्जातेन महात्मना
२.०९५.०१३ यो मृतो मम शोकेन न मया चापि संस्कृतः
२.०९५.०१४ अहो भरत सिद्धार्थो येन राजा त्वयानघ
२.०९५.०१४ शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः
२.०९५.०१५ निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम्
२.०९५.०१५ निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे
२.०९५.०१६ समाप्तवनवासं मामयोध्यायां परंतप
२.०९५.०१६ को नु शासिष्यति पुनस्ताते लोकान्तरं गते
२.०९५.०१७ पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्
२.०९५.०१७ वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम्
२.०९५.०१८ एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः
२.०९५.०१८ उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम्
२.०९५.०१९ सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण
२.०९५.०१९ भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम्
२.०९५.०२० सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्
२.०९५.०२० उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः
२.०९५.०२१ आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्
२.०९५.०२१ जलक्रियार्थं तातस्य गमिष्यामि महात्मनः
२.०९५.०२२ सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज
२.०९५.०२२ अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा
२.०९५.०२३ ततो नित्यानुगस्तेषां विदितात्मा महामतिः
२.०९५.०२३ मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान्
२.०९५.०२४ सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम्
२.०९५.०२४ अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्
२.०९५.०२५ ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः
२.०९५.०२५ नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्
२.०९५.०२६ शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम्
२.०९५.०२६ सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति
२.०९५.०२७ प्रगृह्य च महीपालो जलपूरितमञ्जलिम्
२.०९५.०२७ दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत्
२.०९५.०२८ एतत्ते राजशार्दूल विमलं तोयमक्षयम्
२.०९५.०२८ पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु
२.०९५.०२९ ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः
२.०९५.०२९ पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह
२.०९५.०३० ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे
२.०९५.०३० न्यस्य रामः सुदुःखार्तो रुदन् वचनमब्रवीत्
२.०९५.०३१ इदं भुङ्क्ष्व महाराजप्रीतो यदशना वयम्
२.०९५.०३१ यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः
२.०९५.०३२ ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात्
२.०९५.०३२ आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्
२.०९५.०३३ ततः पर्णकुटीद्वारमासाद्य जगतीपतिः
२.०९५.०३३ परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ
२.०९५.०३४ तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ
२.०९५.०३४ भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव
२.०९५.०३५ विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः
२.०९५.०३५ अब्रुवंश्चापि रामेण भरतः संगतो ध्रुवम्
२.०९५.०३५ तेषामेव महाञ्शब्दः शोचतां पितरं मृतम्
२.०९५.०३६ अथ वासान् परित्यज्य तं सर्वेऽभिमुखाः स्वनम्
२.०९५.०३६ अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः
२.०९५.०३७ हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः
२.०९५.०३७ सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः
२.०९५.०३८ अचिरप्रोषितं रामं चिरविप्रोषितं यथा
२.०९५.०३८ द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम्
२.०९५.०३९ भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम्
२.०९५.०३९ ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः
२.०९५.०४० सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता
२.०९५.०४० मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे
२.०९५.०४१ तेन वित्रासिता नागाः करेणुपरिवारिताः
२.०९५.०४१ आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः
२.०९५.०४२ वराहमृगसिंहाश्च महिषाः सर्क्षवानराः
२.०९५.०४२ व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह
२.०९५.०४३ रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः
२.०९५.०४३ तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः
२.०९५.०४४ तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम्
२.०९५.०४४ मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा
२.०९५.०४५ तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदुःखितान्
२.०९५.०४५ पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः
२.०९५.०४६ स तत्र कांश्चित्परिषस्वजे नरान्॑ नराश्च के चित्तु तमभ्यवादयन्
२.०९५.०४६ चकार सर्वान् सवयस्यबान्धवान्॑ यथार्हमासाद्य तदा नृपात्मजः
२.०९५.०४७ ततः स तेषां रुदतां महात्मनां॑ भुवं च खं चानुविनादयन् स्वनः
२.०९५.०४७ गुहा गिरीणां च दिशश्च संततं॑ मृदङ्गघोषप्रतिमो विशुश्रुवे
२.०९६.००१ वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च
२.०९६.००१ अभिचक्राम तं देशं रामदर्शनतर्षितः
२.०९६.००२ राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति
२.०९६.००२ ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम्
२.०९६.००३ कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता
२.०९६.००३ सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः
२.०९६.००४ इदं तेषामनाथानां क्लिष्टमक्लिष्ट कर्मणाम्
२.०९६.००४ वने प्राक्केवलं तीर्थं ये ते निर्विषयी कृताः
२.०९६.००५ इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः
२.०९६.००५ स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात्
२.०९६.००६ दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले
२.०९६.००६ पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना
२.०९६.००७ तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा
२.०९६.००७ उवाच देवी कौसल्या सर्वा दशरथस्त्रियः
२.०९६.००८ इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः
२.०९६.००८ राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि
२.०९६.००९ तस्य देवसमानस्य पार्थिवस्य महात्मनः
२.०९६.००९ नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम्
२.०९६.०१० चतुरन्तां महीं भुक्त्वा महेन्द्र सदृशो भुवि
२.०९६.०१० कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः
२.०९६.०११ अतो दुःखतरं लोके न किं चित्प्रतिभाति मा
२.०९६.०११ यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान्
२.०९६.०१२ रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे
२.०९६.०१२ कथं दुःखेन हृदयं न स्फोटति सहस्रधा
२.०९६.०१३ एवमार्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा
२.०९६.०१३ ददृशुश्चाश्रमे रामं स्वर्गाच्च्युतमिवामरम्
२.०९६.०१४ सर्वभोगैः परित्यक्तं राम संप्रेक्ष्य मातरः
२.०९६.०१४ आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः
२.०९६.०१५ तासां रामः समुत्थाय जग्राह चरणाञ्शुभान्
२.०९६.०१५ मातॄणां मनुजव्याघ्रः सर्वासां सत्यसंगरः
२.०९६.०१६ ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः
२.०९६.०१६ प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः
२.०९६.०१७ सौमित्रिरपि ताः सर्वा मातॄह्संप्रेक्ष्य दुःखितः
२.०९६.०१७ अभ्यवादयतासक्तं शनै रामादनन्तरम्
२.०९६.०१८ यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः
२.०९६.०१८ वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे
२.०९६.०१९ सीतापि चरणांस्तासामुपसंगृह्य दुःखिता
२.०९६.०१९ श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता
२.०९६.०२० तां परिष्वज्य दुःखार्तां माता दुहितरं यथा
२.०९६.०२० वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत्
२.०९६.०२१ विदेहराजस्य सुता स्नुषा दशरथस्य च
२.०९६.०२१ रामपत्नी कथं दुःखं संप्राप्ता निर्जने वने
२.०९६.०२२ पद्ममातपसंतप्तं परिक्लिष्टमिवोत्पलम्
२.०९६.०२२ काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः
२.०९६.०२३ मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम्
२.०९६.०२३ भृशं मनसि वैदेहि व्यसनारणिसंभवः
२.०९६.०२४ ब्रुवन्त्यामेवमार्तायां जनन्यां भरताग्रजः
२.०९६.०२४ पादावासाद्य जग्राह वसिष्ठस्य स राघवः
२.०९६.०२५ पुरोहितस्याग्निसमस्य तस्य वै॑ बृहस्पतेरिन्द्र इवामराधिपः
२.०९६.०२५ प्रगृह्य पादौ सुसमृद्धतेजसः॑ सहैव तेनोपविवेश राघवः
२.०९६.०२६ ततो जघन्यं सहितैः स मन्त्रिभिः॑ पुरप्रधानैश्च सहैव सैनिकैः
२.०९६.०२६ जनेन धर्मज्ञतमेन धर्मवान्॑ उपोपविष्टो भरतस्तदाग्रजम्
२.०९६.०२७ उपोपविष्टस्तु तदा स वीर्यवांस्॑ तपस्विवेषेण समीक्ष्य राघवम्
२.०९६.०२७ श्रिया ज्वलन्तं भरतः कृताञ्जलिर्॑ यथा महेन्द्रः प्रयतः प्रजापतिम्
२.०९६.०२८ किमेष वाक्यं भरतोऽद्य राघवं॑ प्रणम्य सत्कृत्य च साधु वक्ष्यति
२.०९६.०२८ इतीव तस्यार्यजनस्य तत्त्वतो॑ बभूव कौतूहलमुत्तमं तदा
२.०९६.०२९ स राघवः सत्यधृतिश्च लक्ष्मणो॑ महानुभावो भरतश्च धार्मिकः
२.०९६.०२९ वृताः सुहृद्भिश्च विरेजुरध्वरे॑ यथा सदस्यैः सहितास्त्रयोऽग्नयः
२.०९७.००१ तं तु रामः समाश्वास्य भ्रातरं गुरुवत्सलम्
२.०९७.००१ लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे
२.०९७.००२ किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया
२.०९७.००२ यस्मात्त्वमागतो देशमिमं चीरजटाजिनी
२.०९७.००३ यन्निमित्तमिमं देशं कृष्णाजिनजटाधरः
२.०९७.००३ हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि
२.०९७.००४ इत्युक्तः केकयीपुत्रः काकुत्स्थेन महात्मना
२.०९७.००४ प्रगृह्य बलवद्भूयः प्राञ्जलिर्वाक्यमब्रवीत्
२.०९७.००५ आर्यं तातः परित्यज्य कृत्वा कर्म सुदुष्करम्
२.०९७.००५ गतः स्वर्गं महाबाहुः पुत्रशोकाभिपीडितः
२.०९७.००६ स्त्रिया नियुक्तः कैकेय्या मम मात्रा परंतप
२.०९७.००६ चकार सुमहत्पापमिदमात्मयशोहरम्
२.०९७.००७ सा राज्यफलमप्राप्य विधवा शोककर्शिता
२.०९७.००७ पतिष्यति महाघोरे निरये जननी मम
२.०९७.००८ तस्य मे दासभूतस्य प्रसादं कर्तुमर्हसि
२.०९७.००८ अभिषिञ्चस्व चाद्यैव राज्येन मघवानिव
२.०९७.००९ इमाः प्रकृतयः सर्वा विधवा मातुरश्च याः
२.०९७.००९ त्वत्सकाशमनुप्राप्ताः प्रसादं कर्तुमर्हसि
२.०९७.०१० तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद
२.०९७.०१० राज्यं प्राप्नुहि धर्मेण सकामान् सुहृदः कुरु
२.०९७.०११ भवत्वविधवा भूमिः समग्रा पतिना त्वया
२.०९७.०११ शशिना विमलेनेव शारदी रजनी यथा
२.०९७.०१२ एभिश्च सचिवैः सार्धं शिरसा याचितो मया
२.०९७.०१२ भ्रातुः शिष्यस्य दासस्य प्रसादं कर्तुमर्हसि
२.०९७.०१३ तदिदं शाश्वतं पित्र्यं सर्वं सचिवमण्डलम्
२.०९७.०१३ पूजितं पुरुषव्याघ्र नातिक्रमितुमुत्सहे
२.०९७.०१४ एवमुक्त्वा महाबाहुः सबाष्पः केकयीसुतः
२.०९७.०१४ रामस्य शिरसा पादौ जग्राह भरतः पुनः
२.०९७.०१५ तं मत्तमिव मातङ्गं निःश्वसन्तं पुनः पुनः
२.०९७.०१५ भ्रातरं भरतं रामः परिष्वज्येदमब्रवीत्
२.०९७.०१६ कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः
२.०९७.०१६ राज्यहेतोः कथं पापमाचरेत्त्वद्विधो जनः
२.०९७.०१७ न दोषं त्वयि पश्यामि सूक्ष्ममप्यरि सूदन
२.०९७.०१७ न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि
२.०९७.०१८ यावत्पितरि धर्मज्ञ गौरवं लोकसत्कृते
२.०९७.०१८ तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम्
२.०९७.०१९ एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव
२.०९७.०१९ माता पितृभ्यामुक्तोऽहं कथमन्यत्समाचरे
२.०९७.०२० त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम्
२.०९७.०२० वस्तव्यं दण्डकारण्ये मया वल्कलवाससा
२.०९७.०२१ एवं कृत्वा महाराजो विभागं लोकसंनिधौ
२.०९७.०२१ व्यादिश्य च महातेजा दिवं दशरथो गतः
२.०९७.०२२ स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव
२.०९७.०२२ पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि
२.०९७.०२३ चतुर्दश समाः सौम्य दण्डकारण्यमाश्रितः
२.०९७.०२३ उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना
२.०९७.०२४ यदब्रवीन्मां नरलोकसत्कृतः॑ पिता महात्मा विबुधाधिपोपमः
२.०९७.०२४ तदेव मन्ये परमात्मनो हितं॑ न सर्वलोकेश्वरभावमव्ययम्
२.०९८.००१ ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः
२.०९८.००१ शोचतामेव रजनी दुःखेन व्यत्यवर्तत
२.०९८.००२ रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः
२.०९८.००२ मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्
२.०९८.००३ तूष्णीं ते समुपासीना न कश्चित्किं चिदब्रवीत्
२.०९८.००३ भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत्
२.०९८.००४ सान्त्विता मामिका माता दत्तं राज्यमिदं मम
२.०९८.००४ तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम्
२.०९८.००५ महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे
२.०९८.००५ दुरावारं त्वदन्येन राज्यखण्डमिदं महत्
२.०९८.००६ गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः
२.०९८.००६ अनुगन्तुं न शक्तिर्मे गतिं तव महीपते
२.०९८.००७ सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते
२.०९८.००७ राम तेन तु दुर्जीवं यः परानुपजीवति
२.०९८.००८ यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः
२.०९८.००८ ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः
२.०९८.००९ स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत्
२.०९८.००९ स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः
२.०९८.०१० एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि
२.०९८.०१० यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि
२.०९८.०११ श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः
२.०९८.०११ प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम्
२.०९८.०१२ तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः
२.०९८.०१२ अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः
२.०९८.०१३ तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः
२.०९८.०१३ भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः
२.०९८.०१४ तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्
२.०९८.०१४ रामः कृतात्मा भरतं समाश्वासयदात्मवान्
२.०९८.०१५ नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः
२.०९८.०१५ इतश्चेतरतश्चैनं कृतान्तः परिकर्षति
२.०९८.०१६ सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
२.०९८.०१६ संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्
२.०९८.०१७ यथा फलानं पक्वानां नान्यत्र पतनाद्भयम्
२.०९८.०१७ एवं नरस्य जातस्य नान्यत्र मरणाद्भयम्
२.०९८.०१८ यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति
२.०९८.०१८ तथावसीदन्ति नरा जरामृत्युवशं गताः
२.०९८.०१९ अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह
२.०९८.०१९ आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः
२.०९८.०२० आत्मानमनुशोच त्वं किमन्यमनुशोचसि
२.०९८.०२० आयुस्ते हीयते यस्य स्थितस्य च गतस्य च
२.०९८.०२१ सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति
२.०९८.०२१ गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते
२.०९८.०२२ गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः
२.०९८.०२२ जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्
२.०९८.०२३ नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ
२.०९८.०२३ आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्
२.०९८.०२४ हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम्
२.०९८.०२४ ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः
२.०९८.०२५ यथा काष्ठं च काष्ठं च समेयातां महार्णवे
२.०९८.०२५ समेत्य च व्यपेयातां कालमासाद्य कं चन
२.०९८.०२६ एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च
२.०९८.०२६ समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः
२.०९८.०२७ नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते
२.०९८.०२७ तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः
२.०९८.०२८ यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः
२.०९८.०२८ अहमप्यागमिष्यामि पृष्ठतो भवतामिति
२.०९८.०२९ एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः
२.०९८.०२९ तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः
२.०९८.०३० वयसः पतमानस्य स्रोतसो वानिवर्तिनः
२.०९८.०३० आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः
२.०९८.०३१ धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः
२.०९८.०३१ धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः
२.०९८.०३२ भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात्
२.०९८.०३२ अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः
२.०९८.०३३ इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान्
२.०९८.०३३ उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः
२.०९८.०३४ स जीर्णं मानुषं देहं परित्यज्य पिता हि नः
२.०९८.०३४ दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्
२.०९८.०३५ तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हति
२.०९८.०३५ त्वद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः
२.०९८.०३६ एते बहुविधाः शोका विलाप रुदिते तथा
२.०९८.०३६ वर्जनीया हि धीरेण सर्वावस्थासु धीमता
२.०९८.०३७ स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम्
२.०९८.०३७ तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर
२.०९८.०३८ यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा
२.०९८.०३८ तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम्
२.०९८.०३९ न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम
२.०९८.०३९ तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता
२.०९८.०४० एवमुक्त्वा तु विरते रामे वचनमर्थवत्
२.०९८.०४० उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः
२.०९८.०४१ को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम
२.०९८.०४१ न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत्
२.०९८.०४२ संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्
२.०९८.०४२ यथा मृतस्तथा जीवन् यथासति तथा सति
२.०९८.०४३ यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः
२.०९८.०४३ स एवं व्यसनं प्राप्य न विषीदितुमर्हति
२.०९८.०४४ अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरः
२.०९८.०४४ सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव
२.०९८.०४५ न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम्
२.०९८.०४५ अविषह्यतमं दुःखमासादयितुमर्हति
२.०९८.०४६ प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम्
२.०९८.०४६ क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम
२.०९८.०४७ धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम्
२.०९८.०४७ हन्मि तीव्रेण दण्डे
न दण्डार्हां पापकारिणीम्
२.०९८.०४८ कथं दशरथाज्जातः शुद्धाभिजनकर्मणः
२.०९८.०४८ जानन् धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम्
२.०९८.०४९ गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च
२.०९८.०४९ तातं न परिगर्हेयं दैवतं चेति संसदि
२.०९८.०५० को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम्
२.०९८.०५० स्त्रियाः प्रियचिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित्
२.०९८.०५१ अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः
२.०९८.०५१ राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता
२.०९८.०५२ साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात्
२.०९८.०५२ तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्
२.०९८.०५३ पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते
२.०९८.०५३ तदपत्यं मतं लोके विपरीतमतोऽन्यथा
२.०९८.०५४ तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः
२.०९८.०५४ अभिपत्तत्कृतं कर्म लोके धीरविगर्हितम्
२.०९८.०५५ कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः
२.०९८.०५५ पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान्
२.०९८.०५६ क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम्
२.०९८.०५६ ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति
२.०९८.०५७ अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि
२.०९८.०५७ धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि
२.०९८.०५८ चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्
२.०९८.०५८ आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि
२.०९८.०५९ श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम्
२.०९८.०५९ स कथं पालयिष्यामि भूमिं भवति तिष्ठति
२.०९८.०६० हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम्
२.०९८.०६० भवता च विना भूतो न वर्तयितुमुत्सहे
२.०९८.०६१ इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम्
२.०९८.०६१ अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः
२.०९८.०६२ इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः
२.०९८.०६२ ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः
२.०९८.०६३ अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज
२.०९८.०६३ विजित्य तरसा लोकान्मरुद्भिरिव वासवः
२.०९८.०६४ ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्दहन्
२.०९८.०६४ सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम्
२.०९८.०६५ अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने
२.०९८.०६५ अद्य भीताः पालयन्तां दुर्हृदस्ते दिशो दश
२.०९८.०६६ आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ
२.०९८.०६६ अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात्
२.०९८.०६७ शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि
२.०९८.०६७ बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः
२.०९८.०६८ अथ वा पृष्ठतः कृत्वा वनमेव भवानितः
२.०९८.०६८ गमिष्यति गमिष्यामि भवता सार्धमप्यहम्
२.०९८.०६९ तथापि रामो भरतेन ताम्यत॑ प्रसाद्यमानः शिरसा महीपतिः
२.०९८.०६९ न चैव चक्रे गमनाय सत्त्ववान्॑ मतिं पितुस्तद्वचने प्रतिष्ठितः
२.०९८.०७० तदद्भुतं स्थैर्यमवेक्ष्य राघवे॑ समं जनो हर्षमवाप
दुःखितः
२.०९८.०७० न यात्ययोध्यामिति दुःखितोऽभवत्॑ स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः
२.०९८.०७१ तमृत्विजो नैगमयूथवल्लभास्॑ तथा विसंज्ञाश्रुकलाश्च मातरः
२.०९८.०७१ तथा ब्रुवाणं भरतं प्रतुष्टुवुः॑ प्रणम्य रामं च ययाचिरे सह
२.०९९.००१ पुनरेवं ब्रुवाणं तु भरतं लक्ष्मणाग्रजः
२.०९९.००१ प्रत्युवच ततः श्रीमाञ्ज्ञातिमध्येऽतिसत्कृतः
२.०९९.००२ उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः
२.०९९.००२ जातः पुत्रो दशरथात्कैकेय्यां राजसत्तमात्
२.०९९.००३ पुरा भ्रातः पिता नः स मातरं ते समुद्वहन्
२.०९९.००३ मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम्
२.०९९.००४ देवासुरे च संग्रामे जनन्यै तव पार्थिवः
२.०९९.००४ संप्रहृष्टो ददौ राजा वरमाराधितः प्रभुः
२.०९९.००५ ततः सा संप्रतिश्राव्य तव माता यशस्विनी
२.०९९.००५ अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी
२.०९९.००६ तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा
२.०९९.००६ तच्च राजा तथा तस्यै नियुक्तः प्रददौ वरम्
२.०९९.००७ तेन पित्राहमप्यत्र नियुक्तः पुरुषर्षभ
२.०९९.००७ चतुर्दश वने वासं वर्षाणि वरदानिकम्
२.०९९.००८ सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः
२.०९९.००८ शीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः
२.०९९.००९ भवानपि तथेत्येव पितरं सत्यवादिनम्
२.०९९.००९ कर्तुमर्हति राजेन्द्रं क्षिप्रमेवाभिषेचनात्
२.०९९.०१० ऋणान्मोचय राजानं मत्कृते भरत प्रभुम्
२.०९९.०१० पितरं त्राहि धर्मज्ञ मातरं चाभिनन्दय
२.०९९.०११ श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विनी
२.०९९.०११ गयेन यजमानेन गयेष्वेव पितॄन् प्रति
२.०९९.०१२ पुं नाम्ना नरकाद्यस्मात्पितरं त्रायते सुतः
२.०९९.०१२ तस्मात्पुत्र इति प्रोक्तः पितॄन् यत्पाति वा सुतः
२.०९९.०१३ एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः
२.०९९.०१३ तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत्
२.०९९.०१४ एवं राजर्षयः सर्वे प्रतीता राजनन्दन
२.०९९.०१४ तस्मात्त्राहि नरश्रेष्ठ पितरं नरकात्प्रभो
२.०९९.०१५ अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय
२.०९९.०१५ शत्रुघ्न सहितो वीर सह सर्वैर्द्विजातिभिः
२.०९९.०१६ प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन्
२.०९९.०१६ आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च
२.०९९.०१७ त्वं राजा भव भरत स्वयं नराणां॑ वन्यानामहमपि राजराण्मृगाणाम्
२.०९९.०१७ गच्छ त्वं पुरवरमद्य संप्रहृष्टः॑ संहृष्टस्त्वहमपि दण्डकान्
प्रवेक्ष्ये
२.०९९.०१८ छायां ते दिनकरभाः प्रबाधमानं॑ वर्षत्रं भरत करोतु मूर्ध्नि
शीताम्
२.०९९.०१८ एतेषामहमपि काननद्रुमाणां॑ छायां तामतिशयिनीं सुखं श्रयिष्ये
२.०९९.०१९ शत्रुघ्नः कुशलमतिस्तु ते सहायः॑ सौमित्रिर्मम विदितः
प्रधानमित्रम्
२.०९९.०१९ चत्वारस्तनयवरा वयं नरेन्द्रं॑ सत्यस्थं भरत चराम मा विषादम्
२.१००.००१ आश्वासयन्तं भरतं जाबालिर्ब्राह्मणोत्तमः
२.१००.००१ उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः
२.१००.००२ साधु राघव मा भूत्ते बुद्धिरेवं निरर्थका
२.१००.००२ प्राकृतस्य नरस्येव आर्य बुद्धेस्तपस्विनः
२.१००.००३ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केन चित्
२.१००.००३ यदेको जायते जन्तुरेक एव विनश्यति
२.१००.००४ तस्मान्माता पिता चेति राम सज्जेत यो नरः
२.१००.००४ उन्मत्त इव स ज्ञेयो नास्ति काचिद्धि कस्य चित्
२.१००.००५ यथा ग्रामान्तरं गच्छन्नरः कश्चित्क्व चिद्वसेत्
२.१००.००५ उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि
२.१००.००६ एवमेव मनुष्याणां पिता माता गृहं वसु
२.१००.००६ आवासमात्रं काकुत्स्थ सज्जन्ते नात्र सज्जनाः
२.१००.००७ पित्र्यं राज्यं समुत्सृज्य स नार्हति नरोत्तम
२.१००.००७ आस्थातुं कापथं दुःखं विषमं बहुकण्टकम्
२.१००.००८ समृद्धायामयोध्यायामात्मानमभिषेचय
२.१००.००८ एकवेणीधरा हि त्वां नगरी संप्रतीक्षते
२.१००.००९ राजभोगाननुभवन्महार्हान् पार्थिवात्मज
२.१००.००९ विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे
२.१००.०१० न ते कश्चिद्दशरतःस्त्वं च तस्य न कश्चन
२.१००.०१० अन्यो राजा त्वमन्यश्च तस्मात्कुरु यदुच्यते
२.१००.०११ गतः स नृपतिस्तत्र गन्तव्यं यत्र तेन वै
२.१००.०११ प्रवृत्तिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे
२.१००.०१२ अर्थधर्मपरा ये ये तांस्ताञ्शोचामि नेतरान्
२.१००.०१२ ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे
२.१००.०१३ अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः
२.१००.०१३ अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति
२.१००.०१४ यदि भुक्तमिहान्येन देहमन्यस्य गच्छति
२.१००.०१४ दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत्
२.१००.०१५ दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः
२.१००.०१५ यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज
२.१००.०१६ स नास्ति परमित्येव कुरु बुद्धिं महामते
२.१००.०१६ प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु
२.१००.०१७ सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम्
२.१००.०१७ राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः
२.१०१.००१ जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः
२.१०१.००१ उवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया
२.१०१.००२ भवान्मे प्रियकामार्थं वचनं यदिहोक्तवान्
२.१०१.००२ अकार्यं कार्यसंकाशमपथ्यं पथ्यसंमितम्
२.१०१.००३ निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः
२.१०१.००३ मानं न लभते सत्सु भिन्नचारित्रदर्शनः
२.१०१.००४ कुलीनमकुलीनं वा वीरं पुरुषमानिनम्
२.१०१.००४ चारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम्
२.१०१.००५ अनारय्स्त्वार्य संकाशः शौचाद्धीनस्तथा शुचिः
२.१०१.००५ लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव
२.१०१.००६ अधर्मं धर्मवेषेण यदीमं लोकसंकरम्
२.१०१.००६ अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम्
२.१०१.००७ कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः
२.१०१.००७ बहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम्
२.१०१.००८ कस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्
२.१०१.००८ अनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया
२.१०१.००९ कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते
२.१०१.००९ यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः
२.१०१.०१० सत्यमेवानृशंस्यं च राजवृत्तं सनातनम्
२.१०१.०१० तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः
२.१०१.०११ ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे
२.१०१.०११ सत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम्
२.१०१.०१२ उद्विजन्ते यथा सर्पान्नरादनृतवादिनः
२.१०१.०१२ धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते
२.१०१.०१३ सत्यमेवेश्वरो लोके सत्यं पद्मा समाश्रिता
२.१०१.०१३ सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्
२.१०१.०१४ दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च
२.१०१.०१४ वेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत्
२.१०१.०१५ एकः पालयते लोकमेकः पालयते कुलम्
२.१०१.०१५ मज्जत्येको हि निरय एकः स्वर्गे महीयते
२.१०१.०१६ सोऽहं पितुर्निदेशं तु किमर्थं नानुपालये
२.१०१.०१६ सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः
२.१०१.०१७ नैव लोभान्न मोहाद्वा न चाज्ञानात्तमोऽन्वितः
२.१०१.०१७ सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः
२.१०१.०१८ असत्यसंधस्य सतश्चलस्यास्थिरचेतसः
२.१०१.०१८ नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम्
२.१०१.०१९ प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम्
२.१०१.०१९ भारः सत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते
२.१०१.०२० क्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्
२.१०१.०२० क्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः
२.१०१.०२१ कायेन कुरुते पापं मनसा संप्रधार्य च
२.१०१.०२१ अनृतं जिह्वया चाह त्रिविधं कर्म पातकम्
२.१०१.०२२ भूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि
२.१०१.०२२ स्वर्गस्थं चानुबध्नन्ति सत्यमेव भजेत तत्
२.१०१.०२३ श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम्
२.१०१.०२३ आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह
२.१०१.०२४ कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः
२.१०१.०२४ भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः
२.१०१.०२५ स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ
२.१०१.०२५ प्रहृष्टमानसा देवी कैकेयी चाभवत्तदा
२.१०१.०२६ वनवासं वसन्नेवं शुचिर्नियतभोजनः
२.१०१.०२६ मूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश्च तर्पयन्
२.१०१.०२७ संतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये
२.१०१.०२७ अकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः
२.१०१.०२८ कर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्
२.१०१.०२८ अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः
२.१०१.०२९ शतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतः
२.१०१.०२९ तपांस्युग्राणि चास्थाय दिवं याता महर्षयः
२.१०१.०३० सत्यं च धर्मं च पराक्रमं च॑ भूतानुकम्पां प्रियवादितां च
२.१०१.०३० द्विजातिदेवातिथिपूजनं च॑ पन्थानमाहुस्त्रिदिवस्य सन्तः
२.१०१.०३१ धर्मे रताः सत्पुरुषैः समेतास्॑ तेजस्विनो दानगुणप्रधानाः
२.१०१.०३१ अहिंसका वीतमलाश्च लोके॑ भवन्ति पूज्या मुनयः प्रधानाः
२.१०२.००१ क्रुद्धमाज्ञाय राम तु वसिष्ठः प्रत्युवाच ह
२.१०२.००१ जाबालिरपि जानीते लोकस्यास्य गतागतिम्
२.१०२.००१ निवर्तयितु कामस्तु त्वामेतद्वाक्यमब्रवीत्
२.१०२.००२ इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे
२.१०२.००२ सर्वं सलिलमेवासीत्पृथिवी यत्र निर्मिता
२.१०२.००२ ततः समभवद्ब्रह्मा स्वयम्भूर्दैवतैः सह
२.१०२.००३ स वराहस्ततो भूत्वा प्रोज्जहार वसुंधराम्
२.१०२.००३ असृजच्च जगत्सर्वं सह पुत्रैः कृतात्मभिः
२.१०२.००४ आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः
२.१०२.००४ तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः
२.१०२.००५ विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्तवः स्मृतः
२.१०२.००५ स तु प्रजापतिः पूर्वमिक्ष्वाकुस्तु मनोः सुतः
२.१०२.००६ यस्येयं प्रथमं दत्ता समृद्धा मनुना मही
२.१०२.००६ तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्
२.१०२.००७ इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरेवेति विश्रुतः
२.१०२.००७ कुक्षेरथात्मजो वीरो विकुक्षिरुदपद्यत
२.१०२.००८ विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्
२.१०२.००८ बाणस्य तु महाबाहुरनरण्यो महायशाः
२.१०२.००९ नाना वृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे
२.१०२.००९ अनरण्ये महाराजे तस्करो वापि कश्चन
२.१०२.०१० अनरण्यान्महाबाहुः पृथू राजा बभूव ह
२.१०२.०१० तस्मात्पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत
२.१०२.०१० स सत्यवचनाद्वीरः सशरीरो दिवं गतः
२.१०२.०११ त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशाः
२.१०२.०११ धुन्धुमारान्महातेजा युवनाश्वो व्यजायत
२.१०२.०१२ युवनाश्व सुतः श्रीमान्मान्धाता समपद्यत
२.१०२.०१२ मान्धातुस्तु महातेजाः सुसंधिरुदपद्यत
२.१०२.०१३ सुसंधेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजित्
२.१०२.०१३ यशस्वी ध्रुवसंधेस्तु भरतो रिपुसूदनः
२.१०२.०१४ भरतात्तु महाबाहोरसितो नाम जायत
२.१०२.०१४ यस्यैते प्रतिराजान उदपद्यन्त शत्रवः
२.१०२.०१४ हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः
२.१०२.०१५ तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः
२.१०२.०१५ स च शैलवरे रम्ये बभूवाभिरतो मुनिः
२.१०२.०१५ द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः
२.१०२.०१६ भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः
२.१०२.०१६ तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत्
२.१०२.०१७ स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि
२.१०२.०१७ ततः सा गृहमागम्य देवी पुत्रं व्यजायत
२.१०२.०१८ सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया
२.१०२.०१८ गरेण सह तेनैव जातः स सगरोऽभवत्
२.१०२.०१९ स राजा सगरो नाम यः समुद्रमखानयत्
२.१०२.०१९ इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमाः प्रजाः
२.१०२.०२० असमञ्जस्तु पुत्रोऽभूत्सगरस्येति नः श्रुतम्
२.१०२.०२० जीवन्नेव स पित्रा तु निरस्तः पापकर्मकृत्
२.१०२.०२१ अंशुमानिति पुत्रोऽभूदसमञ्जस्य वीर्यवान्
२.१०२.०२१ दिलीपोऽंशुमतः पुत्रो दिलीपस्य भगीरथः
२.१०२.०२२ भगीरथात्ककुत्स्थस्तु काकुत्स्था येन तु स्मृताः
२.१०२.०२२ ककुत्स्थस्य तु पुत्रोऽभूद्रघुर्येन तु राघवः
२.१०२.०२३ रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः
२.१०२.०२३ कल्माषपादः सौदास इत्येवं प्रथितो भुवि
२.१०२.०२४ कल्माषपादपुत्रोऽभूच्छङ्खणस्त्विति विश्रुतः
२.१०२.०२४ यस्तु तद्वीर्यमासाद्य सहसेनो व्यनीनशत्
२.१०२.०२५ शङ्खणस्य तु पुत्रोऽभूच्छूरः श्रीमान् सुदर्शनः
२.१०२.०२५ सुदर्शनस्याग्निवर्ण अग्निवर्षस्य शीघ्रगः
२.१०२.०२६ शीघ्रगस्य मरुः पुत्रो मरोः पुत्रः प्रशुश्रुकः
२.१०२.०२६ प्रशुश्रुकस्य पुत्रोऽभूदम्बरीषो महाद्युतिः
२.१०२.०२७ अम्बरीषस्य पुत्रोऽभून्नहुषः सत्यविक्रमः
२.१०२.०२७ नहुषस्य च नाभागः पुत्रः परमधार्मिकः
२.१०२.०२८ अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ
२.१०२.०२८ अजस्य चैव धर्मात्मा राजा दशरथः सुतः
२.१०२.०२९ तस्य ज्येष्ठोऽसि दायादो राम इत्यभिविश्रुतः
२.१०२.०२९ तद्गृहाण स्वकं राज्यमवेक्षस्व जगन्नृप
२.१०२.०३० इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वजः
२.१०२.०३० पूर्वजेनावरः पुत्रो ज्येष्ठो राज्येऽभिषिच्यते
२.१०२.०३१ स राघवाणां कुलधर्ममात्मनः॑ सनातनं नाद्य विहातुमर्हसि
२.१०२.०३१ प्रभूतरत्नामनुशाधि मेदिनीं॑ प्रभूतराष्ट्रां पितृवन्महायशाः
२.१०३.००१ वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः
२.१०३.००१ अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः
२.१०३.००२ पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः
२.१०३.००२ आचार्यश्चैव काकुत्स्थ पिता माता च राघव
२.१०३.००३ पिता ह्येनं जनयति पुरुषं पुरुषर्षभ
२.१०३.००३ प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते
२.१०३.००४ स तेऽहं पितुराचार्यस्तव चैव परंतप
२.१०३.००४ मम त्वं वचनं कुर्वन्नातिवर्तेः सतां गतिम्
२.१०३.००५ इमा हि ते परिषदः श्रेणयश्च समागताः
२.१०३.००५ एषु तात चरन् धर्मं नातिवर्तेः सतां गतिम्
२.१०३.००६ वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्तितुम्
२.१०३.००६ अस्यास्तु वचनं कुर्वन्नातिवर्तेः सतां गतिम्
२.१०३.००७ भरतस्य वचः कुर्वन् याचमानस्य राघव
२.१०३.००७ आत्मानं नातिवर्तेस्त्वं सत्यधर्मपराक्रम
२.१०३.००८ एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम्
२.१०३.००८ प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः
२.१०३.००९ यन्मातापितरौ वृत्तं तनये कुरुतः सदा
२.१०३.००९ न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम्
२.१०३.०१० यथाशक्ति प्रदानेन स्नापनाच्छादनेन च
२.१०३.०१० नित्यं च प्रियवादेन तथा संवर्धनेन च
२.१०३.०११ स हि राजा जनयिता पिता दशरथो मम
२.१०३.०११ आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति
२.१०३.०१२ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम्
२.१०३.०१२ उवाच परमोदारः सूतं परमदुर्मनाः
२.१०३.०१३ इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे
२.१०३.०१३ आर्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति
२.१०३.०१४ अनाहारो निरालोको धनहीनो यथा द्विजः
२.१०३.०१४ शेष्ये पुरस्ताच्छालाया यावन्न प्रतियास्यति
२.१०३.०१५ स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः
२.१०३.०१५ कुशोत्तरमुपस्थाप्य भूमावेवास्तरत्स्वयम्
२.१०३.०१६ तमुवाच महातेजा रामो राजर्षिसत्तमाः
२.१०३.०१६ किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि
२.१०३.०१७ ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति
२.१०३.०१७ न तु मूर्धावसिक्तानां विधिः प्रत्युपवेशने
२.१०३.०१८ उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम्
२.१०३.०१८ पुरवर्यामितः क्षिप्रमयोध्यां याहि राघव
२.१०३.०१९ आसीनस्त्वेव भरतः पौरजानपदं जनम्
२.१०३.०१९ उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ
२.१०३.०२० ते तमूचुर्महात्मानं पौरजानपदा जनाः
२.१०३.०२० काकुत्स्थमभिजानीमः सम्यग्वदति राघवः
२.१०३.०२१ एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति
२.१०३.०२१ अत एव न शक्ताः स्मो व्यावर्तयितुमञ्जसा
२.१०३.०२२ तेषामाज्ञाय वचनं रामो वचनमब्रवीत्
२.१०३.०२२ एवं निबोध वचनं सुहृदां धर्मचक्षुषाम्
२.१०३.०२३ एतच्चैवोभयं श्रुत्वा सम्यक्संपश्य राघव
२.१०३.०२३ उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम्
२.१०३.०२४ अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत्
२.१०३.०२४ शृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा
२.१०३.०२५ न याचे पितरं राज्यं नानुशासामि मातरम्
२.१०३.०२५ आर्यं परमधर्मज्ञमभिजानामि राघवम्
२.१०३.०२६ यदि त्ववश्यं वस्तव्यं कर्तव्यं च पितुर्वचः
२.१०३.०२६ अहमेव निवत्स्यामि चतुर्दश वने समाः
२.१०३.०२७ धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः
२.१०३.०२७ उवाच रामः संप्रेक्ष्य पौरजानपदं जनम्
२.१०३.०२८ विक्रीतमाहितं क्रीतं यत्पित्रा जीवता मम
२.१०३.०२८ न तल्लोपयितुं शक्यं मया वा भरतेन वा
२.१०३.०२९ उपधिर्न मया कार्यो वनवासे जुगुप्सितः
२.१०३.०२९ युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम्
२.१०३.०३० जानामि भरतं क्षान्तं गुरुसत्कारकारिणम्
२.१०३.०३० सर्वमेवात्र कल्याणं सत्यसंधे महात्मनि
२.१०३.०३१ अनेन धर्मशीलेन वनात्प्रत्यागतः पुनः
२.१०३.०३१ भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः
२.१०३.०३२ वृतो राजा हि कैकेय्या मया तद्वचनं कृतम्
२.१०३.०३२ अनृतान्मोचयानेन पितरं तं महीपतिम्
२.१०४.००१ तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम्
२.१०४.००१ विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः
२.१०४.००२ अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः
२.१०४.००२ तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे
२.१०४.००३ स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ
२.१०४.००३ श्रुत्वा वयं हि संभाषामुभयोः स्पृहयामहे
२.१०४.००४ ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः
२.१०४.००४ भरतं राजशार्दूलमित्यूचुः संगता वचः
२.१०४.००५ कुले जात महाप्राज्ञ महावृत्त महायशः
२.१०४.००५ ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे
२.१०४.००६ सदानृणमिमं रामं वयमिच्छामहे पितुः
२.१०४.००६ अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः
२.१०४.००७ एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः
२.१०४.००७ राजर्षयश्चैव तथा सर्वे स्वां स्वां गतिं गताः
२.१०४.००८ ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः
२.१०४.००८ रामः संहृष्टवदनस्तानृषीनभ्यपूजयत्
२.१०४.००९ स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया
२.१०४.००९ कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत्
२.१०४.०१० राजधर्ममनुप्रेक्ष्य कुलधर्मानुसंततिम्
२.१०४.०१० कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम्
२.१०४.०११ रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे
२.१०४.०११ पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा
२.१०४.०१२ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः
२.१०४.०१२ त्वामेव प्रतिकाङ्क्षन्ते पर्जन्यमिव कर्षकाः
२.१०४.०१३ इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि
२.१०४.०१३ शक्तिमानसि काकुत्स्थ लोकस्य परिपालने
२.१०४.०१४ इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा
२.१०४.०१४ भृशं संप्रार्थयामास राममेवं प्रियं वदः
२.१०४.०१५ तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत्
२.१०४.०१५ श्यामं नलिनपत्राक्षं मत्तहंसस्वरः स्वयम्
२.१०४.०१६ आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या
२.१०४.०१६ भृशमुत्सहसे तात रक्षितुं पृथिवीमपि
२.१०४.०१७ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः
२.१०४.०१७ सर्वकार्याणि संमन्त्र्य सुमहान्त्यपि कारय
२.१०४.०१८ लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत्
२.१०४.०१८ अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः
२.१०४.०१९ कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम्
२.१०४.०१९ न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत्
२.१०४.०२० एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत्
२.१०४.०२० तेजसादित्यसंकाशं प्रतिपच्चन्द्रदर्शनम्
२.१०४.०२१ अधिरोहार्य पादाभ्यां पादुके हेमभूषिते
२.१०४.०२१ एते हि सर्वलोकस्य योगक्षेमं विधास्यतः
२.१०४.०२२ सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च
२.१०४.०२२ प्रायच्छत्सुमहातेजा भरताय महात्मने
२.१०४.०२३ स पादुके ते भरतः प्रतापवान्॑ स्वलंकृते संपरिगृह्य धर्मवित्
२.१०४.०२३ प्रदक्षिणं चैव चकार राघवं॑ चकार चैवोत्तमनागमूर्धनि
२.१०४.०२४ अथानुपूर्व्यात्प्रतिपूज्य तं जनं॑ गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ
२.१०४.०२४ व्यसर्जयद्राघववंशवर्धनः॑ स्थितः स्वधर्मे हिमवानिवाचलः
२.१०४.०२५ तं मातरो बाष्पगृहीतकण्ठो॑ दुःखेन नामन्त्रयितुं हि शेकुः
२.१०४.०२५ स त्वेव मातॄरभिवाद्य सर्वा॑ रुदन् कुटीं स्वां प्रविवेश रामः
२.१०५.००१ ततः शिरसि कृत्वा तु पादुके भरतस्तदा
२.१०५.००१ आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः
२.१०५.००२ वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः
२.१०५.००२ अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः
२.१०५.००३ मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा
२.१०५.००३ प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम्
२.१०५.००४ पश्यन् धातुसहस्राणि रम्याणि विविधानि च
२.१०५.००४ प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा
२.१०५.००५ अदूराच्चित्रकूटस्य ददर्श भरतस्तदा
२.१०५.००५ आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः
२.१०५.००६ स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान्
२.१०५.००६ अवतीर्य रथात्पादौ ववन्दे कुलनन्दनः
२.१०५.००७ ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत्
२.१०५.००७ अपि कृत्यं कृतं तात रामेण च समागतम्
२.१०५.००८ एवमुक्तस्तु भरतो भरद्वाजेन धीमता
२.१०५.००८ प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः
२.१०५.००९ स याच्यमानो गुरुणा मया च दृढविक्रमः
२.१०५.००९ राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत्
२.१०५.०१० पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः
२.१०५.०१० चतुर्दश हि वर्षाणि य प्रतिज्ञा पितुर्मम
२.१०५.०११ एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह
२.१०५.०११ वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत्
२.१०५.०१२ एते प्रयच्छ संहृष्टः पादुके हेमभूषिते
२.१०५.०१२ अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव
२.१०५.०१३ एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः
२.१०५.०१३ पादुके हेमविकृते मम राज्याय ते ददौ
२.१०५.०१४ निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना
२.१०५.०१४ अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे
२.१०५.०१५ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः
२.१०५.०१५ भरद्वाजः शुभतरं मुनिर्वाक्यमुदाहरत्
२.१०५.०१६ नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर
२.१०५.०१६ यदार्यं त्वयि तिष्ठेत्तु निम्ने वृष्टिमिवोदकम्
२.१०५.०१७ अमृतः स महाबाहुः पिता दशरथस्तव
२.१०५.०१७ यस्य त्वमीदृशः पुत्रो धर्मात्मा धर्मवत्सलः
२.१०५.०१८ तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः
२.१०५.०१८ आमन्त्रयितुमारेभे चरणावुपगृह्य च
२.१०५.०१९ ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनः पुनः
२.१०५.०१९ भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः
२.१०५.०२० यानैश्च शकटैश्चैव हयैश्नागैश्च सा चमूः
२.१०५.०२० पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी
२.१०५.०२१ ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम्
२.१०५.०२१ ददृशुस्तां पुनः सर्वे गङ्गां शिवजलां नदीम्
२.१०५.०२२ तां रम्यजलसंपूर्णां संतीर्य सह बान्धवः
२.१०५.०२२ शृङ्गवेरपुरं रम्यं प्रविवेश ससैनिकः
२.१०५.०२३ शृङ्गवेरपुराद्भूय अयोध्यां संददर्श ह
२.१०५.०२३ भरतो दुःखसंतप्तः सारथिं चेदमब्रवीत्
२.१०५.०२४ सारथे पश्य विध्वस्ता अयोध्या न प्रकाशते
२.१०५.०२४ निराकारा निरानन्दा दीना प्रतिहतस्वना
२.१०६.००१ स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः
२.१०६.००१ अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः
२.१०६.००२ बिडालोलूकचरितामालीननरवारणाम्
२.१०६.००२ तिमिराभ्याहतां कालीमप्रकाशां निशामिव
२.१०६.००३ राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम्
२.१०६.००३ ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम्
२.१०६.००४ अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम्
२.१०६.००४ लीनमीनझषग्राहां कृशां गिरिनदीमिव
२.१०६.००५ विधूमामिव हेमाभामध्वराग्निसमुत्थिताम्
२.१०६.००५ हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम्
२.१०६.००६ विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम्
२.१०६.००६ हतप्रवीरामापन्नां चमूमिव महाहवे
२.१०६.००७ सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम्
२.१०६.००७ प्रशान्तमारुतोद्धूतां जलोर्मिमिव निःस्वनाम्
२.१०६.००८ त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः
२.१०६.००८ सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव
२.१०६.००९ गोष्ठमध्ये स्थितामार्तामचरन्तीं नवं तृणम्
२.१०६.००९ गोवृषेण परित्यक्तां गवां पत्नीमिवोत्सुकाम्
२.१०६.०१० प्रभाकरालैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः
२.१०६.०१० वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव
२.१०६.०११ सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम्
२.१०६.०११ संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम्
२.१०६.०१२ पुष्पनद्धां वसन्तान्ते मत्तभ्रमरशालिनीम्
२.१०६.०१२ द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव
२.१०६.०१३ संमूढनिगमां सर्वां संक्षिप्तविपणापणाम्
२.१०६.०१३ प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम्
२.१०६.०१४ क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम्
२.१०६.०१४ हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम्
२.१०६.०१५ वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम्
२.१०६.०१५ उपयुक्तोदकां भग्नां प्रपां निपतितामिव
२.१०६.०१६ विपुलां विततां चैव युक्तपाशां तरस्विनाम्
२.१०६.०१६ भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात्
२.१०६.०१७ सहसा युद्धशौण्डेन हयारोहेण वाहिताम्
२.१०६.०१७ निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम्
२.१०६.०१८ प्रावृषि प्रविगाढायां प्रविष्टस्याभ्र मण्डलम्
२.१०६.०१८ प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव
२.१०६.०१९ भरतस्तु रथस्थः सञ्श्रीमान् दशरथात्मजः
२.१०६.०१९ वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत्
२.१०६.०२० किं नु खल्वद्य गम्भीरो मूर्छितो न निशम्यते
२.१०६.०२० यथापुरमयोध्यायां गीतवादित्रनिःस्वनः
२.१०६.०२१ वारुणीमदगन्धाश्च माल्यगन्धश्च मूर्छितः
२.१०६.०२१ धूपितागरुगन्धश्च न प्रवाति समन्ततः
२.१०६.०२२ यानप्रवरघोषश्च स्निग्धश्च हयनिःस्वनः
२.१०६.०२२ प्रमत्तगजनादश्च महांश्च रथनिःस्वनः
२.१०६.०२२ नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते
२.१०६.०२३ तरुणैश्चारु वेषैश्च नरैरुन्नतगामिभिः
२.१०६.०२३ संपतद्भिरयोध्यायां न विभान्ति महापथाः
२.१०६.०२४ एवं बहुविधं जल्पन् विवेश वसतिं पितुः
२.१०६.०२४ तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव
२.१०७.००१ ततो निक्षिप्य मातॄह्स अयोध्यायां दृढव्रतः
२.१०७.००१ भरतः शोकसंतप्तो गुरूनिदमथाब्रवीत्
२.१०७.००२ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः
२.१०७.००२ तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना
२.१०७.००३ गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम
२.१०७.००३ रामं प्रतीक्षे राज्याय स हि राजा महायशाः
२.१०७.००४ एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः
२.१०७.००४ अब्रुवन्मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः
२.१०७.००५ सदृशं श्लाघनीयं च यदुक्तं भरत त्वया
२.१०७.००५ वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत्
२.१०७.००६ नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे
२.१०७.००६ आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान्
२.१०७.००७ मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम्
२.१०७.००७ अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति
२.१०७.००८ प्रहृष्टवदनः सर्वा मातॄह्समभिवाद्य सः
२.१०७.००८ आरुरोह रथं श्रीमाञ्शत्रुघ्नेन समन्वितः
२.१०७.००९ आरुह्य तु रथं शीघ्रं शत्रुघ्नभरतावुभौ
२.१०७.००९ ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः
२.१०७.०१० अग्रतो पुरवस्तत्र वसिष्ठ प्रमुखा द्विजाः
२.१०७.०१० प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत्
२.१०७.०११ बलं च तदनाहूतं गजाश्वरथसंकुलम्
२.१०७.०११ प्रययौ भरते याते सर्वे च पुरवासिनः
२.१०७.०१२ रथस्थः स तु धर्मात्मा भरतो भ्रातृवत्सलः
२.१०७.०१२ नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके
२.१०७.०१३ ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः
२.१०७.०१३ अवतीर्य रथात्तूर्णं गुरूनिदमुवाच ह
२.१०७.०१४ एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत्स्वयम्
२.१०७.०१४ योगक्षेमवहे चेमे पादुके हेमभूषिते
२.१०७.०१४ तमिमं पालयिष्यामि राघवागमनं प्रति
२.१०७.०१५ क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम्
२.१०७.०१५ चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ
२.१०७.०१६ ततो निक्षिप्तभारोऽहं राघवेण समागतः
२.१०७.०१६ निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम्
२.१०७.०१७ राघवाय च संन्यासं दत्त्वेमे वरपादुके
२.१०७.०१७ राज्यं चेदमयोध्यां च धूतपापो भवामि च
२.१०७.०१८ अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने
२.१०७.०१८ प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम्
२.१०७.०१९ एवं तु विलपन् दीनो भरतः स महायशाः
२.१०७.०१९ नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह
२.१०७.०२० स वल्कलजटाधारी मुनिवेषधरः प्रभुः
२.१०७.०२० नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा
२.१०७.०२१ रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः
२.१०७.०२१ भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तदा
२.१०७.०२२ पादुके त्वभिषिच्याथ नन्दिग्रामेऽवसत्तदा
२.१०७.०२२ भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत्
२.१०८.००१ प्रतिप्रयाते भरते वसन् रामस्तपोवने
२.१०८.००१ लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम्
२.१०८.००२ ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे
२.१०८.००२ राममाश्रित्य निरतास्तानलक्षयदुत्सुकान्
२.१०८.००३ नयनैर्भृकुटीभिश्च रामं निर्दिश्य शङ्किताः
२.१०८.००३ अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः
२.१०८.००४ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः
२.१०८.००४ कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः
२.१०८.००५ न कच्चिद्भगवन् किं चित्पूर्ववृत्तमिदं मयि
२.१०८.००५ दृश्यते विकृतं येन विक्रियन्ते तपस्विनः
२.१०८.००६ प्रमादाच्चरितं कच्चित्किं चिन्नावरजस्य मे
२.१०८.००६ लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः
२.१०८.००७ कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि
२.१०८.००७ प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते
२.१०८.००८ अथर्षिर्जरया वृद्धस्तपसा च जरां गतः
२.१०८.००८ वेपमान इवोवाच रामं भूतदयापरम्
२.१०८.००९ कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा
२.१०८.००९ चलनं तात वैदेह्यास्तपस्विषु विशेषतः
२.१०८.०१० त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते
२.१०८.०१० रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः
२.१०८.०११ रावणावरजः कश्चित्खरो नामेह राक्षसः
२.१०८.०११ उत्पाट्य तापसान् सर्वाञ्जनस्थाननिकेतनान्
२.१०८.०१२ धृष्टश्च जितकाशी च नृशंसः पुरुषादकः
२.१०८.०१२ अवलिप्तश्च पापश्च त्वां च तात न मृष्यते
२.१०८.०१३ त्वं यदा प्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे
२.१०८.०१३ तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्
२.१०८.०१४ दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि
२.१०८.०१४ नाना रूपैर्विरूपैश्च रूपैरसुखदर्शनैः
२.१०८.०१५ अप्रशस्तैरशुचिभिः संप्रयोज्य च तापसान्
२.१०८.०१५ प्रतिघ्नन्त्यपरान् क्षिप्रमनार्याः पुरतः स्थितः
२.१०८.०१६ तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च
२.१०८.०१६ रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः
२.१०८.०१७ अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा
२.१०८.०१७ कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते
२.१०८.०१८ तैर्दुरात्मभिराविष्टानाश्रमान् प्रजिहासवः
२.१०८.०१८ गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम्
२.१०८.०१९ तत्पुरा राम शारीरामुपहिंसां तपस्विषु
२.१०८.०१९ दर्शयति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम्
२.१०८.०२० बहुमूलफलं चित्रमविदूरादितो वनम्
२.१०८.०२० पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः
२.१०८.०२१ खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते
२.१०८.०२१ सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते
२.१०८.०२२ सकलत्रस्य संदेहो नित्यं यत्तस्य राघव
२.१०८.०२२ समर्थस्यापि हि सतो वासो दुःख इहाद्य ते
२.१०८.०२३ इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम्
२.१०८.०२३ न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम्
२.१०८.०२४ अभिनन्द्य समापृच्छ्य समाधाय च राघवम्
२.१०८.०२४ स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह
२.१०८.०२५ रामः संसाध्य त्वृषिगणमनुगमनाद्॑ देशात्तस्माच्चित्कुलपतिम्
अभिवाद्यर्षिम्
२.१०८.०२५ सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः॑ पुण्यं वासाय स्वनिलयम्
उपसंपेदे
२.१०८.०२६ आश्रमं त्वृषिविरहितं प्रभुः॑ क्षणमपि न जहौ स राघवः
२.१०८.०२६ राघवं हि सततमनुगतास्॑ तापसाश्चर्षिचरितधृतगुणाः
२.१०९.००१ राघवस्त्वपयातेषु तपस्विषु विचिन्तयन्
२.१०९.००१ न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा
२.१०९.००२ इह मे भरतो दृष्टो मातरश्च सनागराः
२.१०९.००२ सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः
२.१०९.००३ स्कन्धावारनिवेशेन तेन तस्य महात्मनः
२.१०९.००३ हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम्
२.१०९.००४ तस्मादन्यत्र गच्छाम इति संचिन्त्य राघवः
२.१०९.००४ प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः
२.१०९.००५ सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः
२.१०९.००५ तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत
२.१०९.००६ स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम्
२.१०९.००६ सौमित्रिं च महाभागां सीतां च समसान्त्वयत्
२.१०९.००७ पत्नीं च तमनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम्
२.१०९.००७ सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः
२.१०९.००८ अनसूयां महाभागां तापसीं धर्मचारिणीम्
२.१०९.००८ प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः
२.१०९.००९ रामाय चाचचक्षे तां तापसीं धर्मचारिणीम्
२.१०९.००९ दश वर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम्
२.१०९.०१० यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता
२.१०९.०१० उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता
२.१०९.०११ दशवर्षसहस्राणि यया तप्तं महत्तपः
२.१०९.०११ अनसूयाव्रतैस्तात प्रत्यूहाश्च निबर्हिताः
२.१०९.०१२ देवकार्यनिमित्तं च यया संत्वरमाणया
२.१०९.०१२ दशरात्रं कृत्वा रात्रिः सेयं मातेव तेऽनघ
२.१०९.०१३ तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीम्
२.१०९.०१३ अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा
२.१०९.०१४ एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः
२.१०९.०१४ सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम्
२.१०९.०१५ राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम्
२.१०९.०१५ श्रेयोऽर्थमात्मनः शीघ्रमभिगच्छ तपस्विनीम्
२.१०९.०१६ अनसूयेति या लोके कर्मभिः क्यातिमागता
२.१०९.०१६ तां शीघ्रमभिगच्छ त्वमभिगम्यां तपस्विनीम्
२.१०९.०१७ सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणी
२.१०९.०१७ तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली
२.१०९.०१८ शिथिलां वलितां वृद्धां जरापाण्डुरमूर्धजाम्
२.१०९.०१८ सततं वेपमानाङ्गीं प्रवाते कदली यथा
२.१०९.०१९ तां तु सीता महाभागामनसूयां पतिव्रताम्
२.१०९.०१९ अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत्
२.१०९.०२० अभिवाद्य च वैदेही तापसीं तामनिन्दिताम्
२.१०९.०२० बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम्
२.१०९.०२१ ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम्
२.१०९.०२१ सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे
२.१०९.०२२ त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च मानिनि
२.१०९.०२२ अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि
२.१०९.०२३ नगरस्थो वनस्थो वा पापो वा यदि वाशुभः
२.१०९.०२३ यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः
२.१०९.०२४ दुःशीलः कामवृत्तो वा धनैर्वा परिवर्जितः
२.१०९.०२४ स्त्रीणामार्य स्वभावानां परमं दैवतं पतिः
२.१०९.०२५ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम्
२.१०९.०२५ सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम्
२.१०९.०२६ न त्वेवमवगच्छन्ति गुण दोषमसत्स्त्रियः
२.१०९.०२६ कामवक्तव्यहृदया भर्तृनाथाश्चरन्ति याः
२.१०९.०२७ प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि
२.१०९.०२७ अकार्य वशमापन्नाः स्त्रियो याः खलु तद्विधाः
२.१०९.०२८ त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः
२.१०९.०२८ स्त्रियः स्वर्गे चरिष्यन्ति यथा पुण्यकृतस्तथा
२.११०.००१ सा त्वेवमुक्ता वैदेही अनसूयानसूयया
२.११०.००१ प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे
२.११०.००२ नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे
२.११०.००२ विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः
२.११०.००३ यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः
२.११०.००३ अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत्
२.११०.००४ किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः
२.११०.००४ स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः
२.११०.००५ यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः
२.११०.००५ तामेव नृपनारीणामन्यासामपि वर्तते
२.११०.००६ सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः
२.११०.००६ मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित्
२.११०.००७ आगच्छन्त्याश्च विजनं वनमेवं भयावहम्
२.११०.००७ समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम
२.११०.००८ प्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ
२.११०.००८ अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम्
२.११०.००९ नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि
२.११०.००९ पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते
२.११०.०१० सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते
२.११०.०१० तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्
२.११०.०११ वरिष्ठा सर्वनारीणामेषा च दिवि देवता
२.११०.०११ रोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते
२.११०.०१२ एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः
२.११०.०१२ देवलोके महीयन्ते पुण्येन स्वेन कर्मणा
२.११०.०१३ ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः
२.११०.०१३ शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत
२.११०.०१४ नियमैर्विविधैराप्तं तपो हि महदस्ति मे
२.११०.०१४ तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते
२.११०.०१५ उपपन्नं च युक्तं च वचनं तव मैथिलि
२.११०.०१५ प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे
२.११०.०१५ कृतमित्यब्रवीत्सीता तपोबलसमन्विताम्
२.११०.०१६ सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत्
२.११०.०१६ सफलं च प्रहर्षं ते हन्त सीते करोम्यहम्
२.११०.०१७ इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च
२.११०.०१७ अङ्गरागं च वैदेहि महार्हमनुलेपनम्
२.११०.०१८ मया दत्तमिदं सीते तव गात्राणि शोभयेत्
२.११०.०१८ अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति
२.११०.०१९ अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे
२.११०.०१९ शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम्
२.११०.०२० सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा
२.११०.०२० मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्
२.११०.०२१ प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी
२.११०.०२१ श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम्
२.११०.०२२ तथा सीतामुपासीनामनसूया दृढव्रता
२.११०.०२२ वचनं प्रष्टुमारेभे कथां कां चिदनुप्रियाम्
२.११०.०२३ स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना
२.११०.०२३ राघवेणेति मे सीते कथा श्रुतिमुपागता
२.११०.०२४ तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि
२.११०.०२४ यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि
२.११०.०२५ एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्
२.११०.०२५ श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्
२.११०.०२६ मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्
२.११०.०२६ क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम्
२.११०.०२७ तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम्
२.११०.०२७ अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता
२.११०.०२८ स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः
२.११०.०२८ पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत्
२.११०.०२९ अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम्
२.११०.०२९ ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः
२.११०.०३० अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल
२.११०.०३० एवमेतन्नरपते धर्मेण तनया तव
२.११०.०३१ ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः
२.११०.०३१ अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः
२.११०.०३२ दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा
२.११०.०३२ तया संभाविता चास्मि स्निग्धया मातृसौहृदात्
२.११०.०३३ पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता
२.११०.०३३ चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः
२.११०.०३४ सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्
२.११०.०३४ प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि
२.११०.०३५ तां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवः
२.११०.०३५ चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ
२.११०.०३६ अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन्
२.११०.०३६ सदृशं चानुरूपं च महीपालः पतिं मम
२.११०.०३७ तस्य बुद्धिरियं जाता चिन्तयानस्य संततम्
२.११०.०३७ स्वयं वरं तनूजायाः करिष्यामीति धीमतः
२.११०.०३८ महायज्ञे तदा तस्य वरुणेन महात्मना
२.११०.०३८ दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ
२.११०.०३९ असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात्
२.११०.०३९ तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः
२.११०.०४० तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना
२.११०.०४० समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान्
२.११०.०४१ इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः
२.११०.०४१ तस्य मे दुहिता भार्या भविष्यति न संशयः
२.११०.०४२ तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम्
२.११०.०४२ अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने
२.११०.०४३ सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः
२.११०.०४३ विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः
२.११०.०४४ लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः
२.११०.०४४ विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः
२.११०.०४५ प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ
२.११०.०४५ सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ
२.११०.०४५ इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत्
२.११०.०४६ निमेषान्तरमात्रेण तदानम्य स वीर्यवान्
२.११०.०४६ ज्यां समारोप्य झटिति पूरयामास वीर्यवान्
२.११०.०४७ तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः
२.११०.०४७ तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव
२.११०.०४८ ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना
२.११०.०४८ उद्यता दातुमुद्यम्य जलभाजनमुत्तमम्
२.११०.०४९ दीयमानां न तु तदा प्रतिजग्राह राघवः
२.११०.०४९ अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः
२.११०.०५० ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्
२.११०.०५० मम पित्रा अहं दत्ता रामाय विदितात्मने
२.११०.०५१ मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना
२.११०.०५१ भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्
२.११०.०५२ एवं दत्तास्मि रामाय तदा तस्मिन् स्वयं वरे
२.११०.०५२ अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम्
२.१११.००१ अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम्
२.१११.००१ पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम्
२.१११.००२ व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया
२.१११.००२ यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया
२.१११.००३ रमेऽहं कथया ते तु दृष्ढं मधुरभाषिणि
२.१११.००३ रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम्
२.१११.००४ दिवसं प्रति कीर्णानामाहारार्थं पतत्रिणाम्
२.१११.००४ संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः
२.१११.००५ एते चाप्यभिषेकार्द्रा मुनयः फलशोधनाः
२.१११.००५ सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः
२.१११.००६ ऋषीणामग्निहोत्रेषु हुतेषु विधिपुर्वकम्
२.१११.००६ कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः
२.१११.००७ अल्पपर्णा हि तरवो घनीभूताः समन्ततः
२.१११.००७ विप्रकृष्टेऽपि ये देशे न प्रकाशन्ति वै दिशः
२.१११.००८ रजनी रससत्त्वानि प्रचरन्ति समन्ततः
२.१११.००८ तपोवनमृगा ह्येते वेदितीर्थेषु शेरते
२.१११.००९ संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता
२.१११.००९ ज्योत्स्ना प्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे
२.१११.०१० गम्यतामनुजानामि रामस्यानुचरी भव
२.१११.०१० कथयन्त्या हि मधुरं त्वयाहं परितोषिता
२.१११.०११ अलंकुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि
२.१११.०११ प्रीतिं जनय मे वत्स दिव्यालंकारशोभिनी
२.१११.०१२ सा तदा समलंकृत्य सीता सुरसुतोपमा
२.१११.०१२ प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ
२.१११.०१३ तथा तु भूषितां सीतां ददर्श वदतां वरः
२.१११.०१३ राघवः प्रीतिदानेन तपस्विन्या जहर्ष च
२.१११.०१४ न्यवेदयत्ततः सर्वं सीता रामाय मैथिली
२.१११.०१४ प्रीतिदानं तपस्विन्या वसनाभरणस्रजाम्
२.१११.०१५ प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः
२.१११.०१५ मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम्
२.१११.०१६ ततस्तां सर्वरीं प्रीतः पुण्यां शशिनिभाननः
२.१११.०१६ अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः
२.१११.०१७ तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान्
२.१११.०१७ आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान्
२.१११.०१८ तावूचुस्ते वनचरास्तापसा धर्मचारिणः
२.१११.०१८ वनस्य तस्य संचारं राक्षसैः समभिप्लुतम्
२.१११.०१९ एष पन्था महर्षीणां फलान्याहरतां वने
२.१११.०१९ अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम्
२.१११.०२० इतीव तैः प्राञ्जलिभिस्तपस्विभिर्॑ द्विजैः कृतस्वस्त्ययनः परंतपः
२.१११.०२० वनं सभार्यः प्रविवेश राघवः॑ सलक्ष्मणः सूर्य इवाभ्रमण्डलम्

Part [Kandam] – 1  2  3  5  6