Valmiki Ramayana Fifth Kandam

Part [Kandam] – 1  2  3  5  6

५.००१.००१ ततो रावणनीतायाः सीतायाः शत्रुकर्शनः
५.००१.००१ इयेष पदमन्वेष्टुं चारणाचरिते पथि
५.००१.००२ अथ वैदूर्यवर्णेषु शाद्वलेषु महाबलः
५.००१.००२ धीरः सलिलकल्पेषु विचचार यथासुखम्
५.००१.००३ द्विजान् वित्रासयन् धीमानुरसा पादपान् हरन्
५.००१.००३ मृगांश्च सुबहून्निघ्नन् प्रवृद्ध इव केसरी
५.००१.००४ नीललोहितमाञ्जिष्ठपद्मवर्णैः सितासितैः
५.००१.००४ स्वभावविहितैश्चित्रैर्धातुभिः समलंकृतम्
५.००१.००५ कामरूपिभिराविष्टमभीक्ष्णं सपरिच्छदैः
५.००१.००५ यक्षकिंनरगन्धर्वैर्देवकल्पैश्च पन्नगैः
५.००१.००६ स तस्य गिरिवर्यस्य तले नागवरायुते
५.००१.००६ तिष्ठन् कपिवरस्तत्र ह्रदे नाग इवाबभौ
५.००१.००७ स सूर्याय महेन्द्राय पवनाय स्वयम्भुवे
५.००१.००७ भूतेभ्यश्चाञ्जलिं कृत्वा चकार गमने मतिम्
५.००१.००८ अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये
५.००१.००८ ततो हि ववृधे गन्तुं दक्षिणो दक्षिणां दिशम्
५.००१.००९ प्लवंगप्रवरैर्दृष्टः प्लवने कृतनिश्चयः
५.००१.००९ ववृधे रामवृद्ध्यर्थं समुद्र इव पर्वसु
५.००१.०१० निष्प्रमाण शरीरः संल्लिलङ्घयिषुरर्णवम्
५.००१.०१० बाहुभ्यां पीडयामास चरणाभ्यां च पर्वतम्
५.००१.०११ स चचालाचलाश्चारु मुहूर्तं कपिपीडितः
५.००१.०११ तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत्
५.००१.०१२ तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना
५.००१.०१२ सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा
५.००१.०१३ तेन चोत्तमवीर्येण पीड्यमानः स पर्वतः
५.००१.०१३ सलिलं संप्रसुस्राव मदं मत्त इव द्विपः
५.००१.०१४ पीड्यमानस्तु बलिना महेन्द्रस्तेन पर्वतः
५.००१.०१४ रीतिर्निर्वर्तयामास काञ्चनाञ्जनराजतीः
५.००१.०१४ मुमोच च शिलाः शैलो विशालाः समनःशिलाः
५.००१.०१५ गिरिणा पीड्यमानेन पीड्यमानानि सर्वशः
५.००१.०१५ गुहाविष्टानि भूतानि विनेदुर्विकृतैः स्वरैः
५.००१.०१६ स महासत्त्वसंनादः शैलपीडानिमित्तजः
५.००१.०१६ पृथिवीं पूरयामास दिशश्चोपवनानि च
५.००१.०१७ शिरोभिः पृथुभिः सर्पा व्यक्तस्वस्तिकलक्षणैः
५.००१.०१७ वमन्तः पावकं घोरं ददंशुर्दशनैः शिलाः
५.००१.०१८ तास्तदा सविषैर्दष्टाः कुपितैस्तैर्महाशिलाः
५.००१.०१८ जज्वलुः पावकोद्दीप्ता विभिदुश्च सहस्रधा
५.००१.०१९ यानि चौषधजालानि तस्मिञ्जातानि पर्वते
५.००१.०१९ विषघ्नान्यपि नागानां न शेकुः शमितुं विषम्
५.००१.०२० भिद्यतेऽयं गिरिर्भूतैरिति मत्वा तपस्विनः
५.००१.०२० त्रस्ता विद्याधरास्तस्मादुत्पेतुः स्त्रीगणैः सह
५.००१.०२१ पानभूमिगतं हित्वा हैममासनभाजनम्
५.००१.०२१ पात्राणि च महार्हाणि करकांश्च हिरण्मयान्
५.००१.०२२ लेह्यानुच्चावचान् भक्ष्यान्मांसानि विविधानि च
५.००१.०२२ आर्षभाणि च चर्माणि खड्गांश्च कनकत्सरून्
५.००१.०२३ कृतकण्ठगुणाः क्षीबा रक्तमाल्यानुलेपनाः
५.००१.०२३ रक्ताक्षाः पुष्कराक्षाश्च गगनं प्रतिपेदिरे
५.००१.०२४ हारनूपुरकेयूर पारिहार्य धराः स्त्रियः
५.००१.०२४ विस्मिताः सस्मितास्तस्थुराकाशे रमणैः सह
५.००१.०२५ दर्शयन्तो महाविद्यां विद्याधरमहर्षयः
५.००१.०२५ सहितास्तस्थुराकाशे वीक्षां चक्रुश्च पर्वतम्
५.००१.०२६ शुश्रुवुश्च तदा शब्दमृषीणां भावितात्मनाम्
५.००१.०२६ चारणानां च सिद्धानां स्थितानां विमलेऽम्बरे
५.००१.०२७ एष पर्वतसंकाशो हनूमान्मारुतात्मजः
५.००१.०२७ तितीर्षति महावेगं समुद्रं मकरालयम्
५.००१.०२८ रामार्थं वानरार्थं च चिकीर्षन् कर्म दुष्करम्
५.००१.०२८ समुद्रस्य परं पारं दुष्प्रापं प्राप्तुमिच्छति
५.००१.०२९ दुधुवे च स रोमाणि चकम्पे चाचलोपमः
५.००१.०२९ ननाद च महानादं सुमहानिव तोयदः
५.००१.०३० आनुपूर्व्याच्च वृत्तं च लाङ्गूलं रोमभिश्चितम्
५.००१.०३० उत्पतिष्यन् विचिक्षेप पक्षिराज इवोरगम्
५.००१.०३१ तस्य लाङ्गूलमाविद्धमतिवेगस्य पृष्ठतः
५.००१.०३१ ददृशे गरुडेनेव ह्रियमाणो महोरगः
५.००१.०३२ बाहू संस्तम्भयामास महापरिघसंनिभौ
५.००१.०३२ ससाद च कपिः कट्यां चरणौ संचुकोप च
५.००१.०३३ संहृत्य च भुजौ श्रीमांस्तथैव च शिरोधराम्
५.००१.०३३ तेजः सत्त्वं तथा वीर्यमाविवेश स वीर्यवान्
५.००१.०३४ मार्गमालोकयन् दूरादूर्ध्वप्रणिहितेक्षणः
५.००१.०३४ रुरोध हृदये प्राणानाकाशमवलोकयन्
५.००१.०३५ पद्भ्यां दृढमवस्थानं कृत्वा स कपिकुञ्जरः
५.००१.०३५ निकुञ्च्य कर्णौ हनुमानुत्पतिष्यन्महाबलः
५.००१.०३५ वानरान् वानरश्रेष्ठ इदं वचनमब्रवीत्
५.००१.०३६ यथा राघवनिर्मुक्तः शरः श्वसनविक्रमः
५.००१.०३६ गच्छेत्तद्वद्गमिष्यामि लङ्कां रावणपालिताम्
५.००१.०३७ न हि द्रक्ष्यामि यदि तां लङ्कायां जनकात्मजाम्
५.००१.०३७ अनेनैव हि वेगेन गमिष्यामि सुरालयम्
५.००१.०३८ यदि वा त्रिदिवे सीतां न द्रक्ष्यामि कृतश्रमः
५.००१.०३८ बद्ध्वा राक्षसराजानमानयिष्यामि रावणम्
५.००१.०३९ सर्वथा कृतकार्योऽहमेष्यामि सह सीतया
५.००१.०३९ आनयिष्यामि वा लङ्कां समुत्पाट्य सरावणाम्
५.००१.०४० एवमुक्त्वा तु हनुमान् वानरान् वानरोत्तमः
५.००१.०४० उत्पपाताथ वेगेन वेगवानविचारयन्
५.००१.०४१ समुत्पतति तस्मिंस्तु वेगात्ते नगरोहिणः
५.००१.०४१ संहृत्य विटपान् सर्वान् समुत्पेतुः समन्ततः
५.००१.०४२ स मत्तकोयष्टिभकान् पादपान् पुष्पशालिनः
५.००१.०४२ उद्वहन्नूरुवेगेन जगाम विमलेऽम्बरे
५.००१.०४३ ऊरुवेगोद्धता वृक्षा मुहूर्तं कपिमन्वयुः
५.००१.०४३ प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः
५.००१.०४४ तमूरुवेगोन्मथिताः सालाश्चान्ये नगोत्तमाः
५.००१.०४४ अनुजग्मुर्हनूमन्तं सैन्या इव महीपतिम्
५.००१.०४५ सुपुष्पिताग्रैर्बहुभिः पादपैरन्वितः कपिः
५.००१.०४५ हनुमान् पर्वताकारो बभूवाद्भुतदर्शनः
५.००१.०४६ सारवन्तोऽथ ये वृक्षा न्यमज्जंल्लवणाम्भसि
५.००१.०४६ भयादिव महेन्द्रस्य पर्वता वरुणालये
५.००१.०४७ स नानाकुसुमैः कीर्णः कपिः साङ्कुरकोरकैः
५.००१.०४७ शुशुभे मेघसंकाशः खद्योतैरिव पर्वतः
५.००१.०४८ विमुक्तास्तस्य वेगेन मुक्त्वा पुष्पाणि ते द्रुमाः
५.००१.०४८ अवशीर्यन्त सलिले निवृत्ताः सुहृदो यथा
५.००१.०४९ लघुत्वेनोपपन्नं तद्विचित्रं सागरेऽपतत्
५.००१.०४९ द्रुमाणां विविधं पुष्पं कपिवायुसमीरितम्
५.००१.०५० पुष्पौघेणानुबद्धेन नानावर्णेन वानरः
५.००१.०५० बभौ मेघ इवोद्यन् वै विद्युद्गणविभूषितः
५.००१.०५१ तस्य वेगसमुद्भूतैः पुष्पैस्तोयमदृश्यत
५.००१.०५१ ताराभिरभिरामाभिरुदिताभिरिवाम्बरम्
५.००१.०५२ तस्याम्बरगतौ बाहू ददृशाते प्रसारितौ
५.००१.०५२ पर्वताग्राद्विनिष्क्रान्तौ पञ्चास्याविव पन्नगौ
५.००१.०५३ पिबन्निव बभौ चापि सोर्मिजालं महार्णवम्
५.००१.०५३ पिपासुरिव चाकाशं ददृशे स महाकपिः
५.००१.०५४ तस्य विद्युत्प्रभाकारे वायुमार्गानुसारिणः
५.००१.०५४ नयने विप्रकाशेते पर्वतस्थाविवानलौ
५.००१.०५५ पिङ्गे पिङ्गाक्षमुख्यस्य बृहती परिमण्डले
५.००१.०५५ चक्षुषी संप्रकशेते चन्द्रसूर्याविव स्थितौ
५.००१.०५६ मुखं नासिकया तस्य ताम्रया ताम्रमाबभौ
५.००१.०५६ संध्यया समभिस्पृष्टं यथा सूर्यस्य मण्डलम्
५.००१.०५७ लाङ्गलं च समाविद्धं प्लवमानस्य शोभते
५.००१.०५७ अम्बरे वायुपुत्रस्य शक्रध्वज इवोच्छ्रितः
५.००१.०५८ लाङ्गूलचक्रेण महाञ्शुक्लदंष्ट्रोऽनिलात्मजः
५.००१.०५८ व्यरोचत महाप्राज्ञः परिवेषीव भास्करः
५.००१.०५९ स्फिग्देशेनाभिताम्रेण रराज स महाकपिः
५.००१.०५९ महता दारितेनेव गिरिर्गैरिकधातुना
५.००१.०६० तस्य वानरसिंहस्य प्लवमानस्य सागरम्
५.००१.०६० कक्षान्तरगतो वायुर्जीमूत इव गर्जति
५.००१.०६१ खे यथा निपतत्युल्का उत्तरान्ताद्विनिःसृता
५.००१.०६१ दृश्यते सानुबन्धा च तथा स कपिकुञ्जरः
५.००१.०६२ पतत्पतंगसंकाशो व्यायतः शुशुभे कपिः
५.००१.०६२ प्रवृद्ध इव मातंगः कक्ष्यया बध्यमानया
५.००१.०६३ उपरिष्टाच्छरीरेण छायया चावगाढया
५.००१.०६३ सागरे मारुताविष्टा नौरिवासीत्तदा कपिः
५.००१.०६४ यं यं देशं समुद्रस्य जगाम स महाकपिः
५.००१.०६४ स स तस्याङ्गवेगेन सोन्माद इव लक्ष्यते
५.००१.०६५ सागरस्योर्मिजालानामुरसा शैलवर्ष्मणाम्
५.००१.०६५ अभिघ्नंस्तु महावेगः पुप्लुवे स महाकपिः
५.००१.०६६ कपिवातश्च बलवान्मेघवातश्च निःसृतः
५.००१.०६६ सागरं भीमनिर्घोषं कम्पयामासतुर्भृशम्
५.००१.०६७ विकर्षन्नूर्मिजालानि बृहन्ति लवणाम्भसि
५.००१.०६७ अत्यक्रामन्महावेगस्तरङ्गान् गणयन्निव
५.००१.०६८ प्लवमानं समीक्ष्याथ भुजङ्गाः सागरालयाः
५.००१.०६८ व्योम्नि तं कपिशार्दूलं सुपर्णमिति मेनिरे
५.००१.०६९ दशयोजनविस्तीर्णा त्रिंशद्योजनमायता
५.००१.०६९ छाया वानरसिंहस्य जले चारुतराभवत्
५.००१.०७० श्वेताभ्रघनराजीव वायुपुत्रानुगामिनी
५.००१.०७० तस्य सा शुशुभे छाया वितता लवणाम्भसि
५.००१.०७१ प्लवमानं तु तं दृष्ट्वा प्लवगं त्वरितं तदा
५.००१.०७१ ववृषुः पुष्पवर्षाणि देवगन्धर्वदानवाः
५.००१.०७२ तताप न हि तं सूर्यः प्लवन्तं वानरेश्वरम्
५.००१.०७२ सिषेवे च तदा वायू रामकार्यार्थसिद्धये
५.००१.०७३ ऋषयस्तुष्टुवुश्चैनं प्लवमानं विहायसा
५.००१.०७३ जगुश्च देवगन्धर्वाः प्रशंसन्तो महौजसं
५.००१.०७४ नागाश्च तुष्टुवुर्यक्षा रक्षांसि विबुधाः खगाः
५.००१.०७४ प्रेक्ष्याकाशे कपिवरं सहसा विगतक्लमम्
५.००१.०७५ तस्मिन् प्लवगशार्दूले प्लवमाने हनूमति
५.००१.०७५ इक्ष्वाकुकुलमानार्थी चिन्तयामास सागरः
५.००१.०७६ साहाय्यं वानरेन्द्रस्य यदि नाहं हनूमतः
५.००१.०७६ करिष्यामि भविष्यामि सर्ववाच्यो विवक्षताम्
५.००१.०७७ अहमिक्ष्वाकुनाथेन सगरेण विवर्धितः
५.००१.०७७ इक्ष्वाकुसचिवश्चायं नावसीदितुमर्हति
५.००१.०७८ तथा मया विधातव्यं विश्रमेत यथा कपिः
५.००१.०७८ शेषं च मयि विश्रान्तः सुखेनातिपतिष्यति
५.००१.०७९ इति कृत्वा मतिं साध्वीं समुद्रश्छन्नमम्भसि
५.००१.०७९ हिरण्यनाभं मैनाकमुवाच गिरिसत्तमम्
५.००१.०८० त्वमिहासुरसंघानां पातालतलवासिनाम्
५.००१.०८० देवराज्ञा गिरिश्रेष्ठ परिघः संनिवेशितः
५.००१.०८१ त्वमेषां ज्ञातवीर्याणां पुनरेवोत्पतिष्यताम्
५.००१.०८१ पातालस्याप्रमेयस्य द्वारमावृत्य तिष्ठसि
५.००१.०८२ तिर्यगूर्ध्वमधश्चैव शक्तिस्ते शैलवर्धितुम्
५.००१.०८२ तस्मात्संचोदयामि त्वामुत्तिष्ठ नगसत्तम
५.००१.०८३ स एष कपिशार्दूलस्त्वामुपर्येति वीर्यवान्
५.००१.०८३ हनूमान् रामकार्यार्थं भीमकर्मा खमाप्लुतः
५.००१.०८४ तस्य साह्यं मया कार्यमिक्ष्वाकुकुलवर्तिनः
५.००१.०८४ मम इक्ष्वाकवः पूज्याः परं पूज्यतमास्तव
५.००१.०८५ कुरु साचिव्यमस्माकं न नः कार्यमतिक्रमेत्
५.००१.०८५ कर्तव्यमकृतं कार्यं सतां मन्युमुदीरयेत्
५.००१.०८६ सलिलादूर्ध्वमुत्तिष्ठ तिष्ठत्वेष कपिस्त्वयि
५.००१.०८६ अस्माकमतिथिश्चैव पूज्यश्च प्लवतां वरः
५.००१.०८७ चामीकरमहानाभ देवगन्धर्वसेवित
५.००१.०८७ हनूमांस्त्वयि विश्रान्तस्ततः शेषं गमिष्यति
५.००१.०८८ काकुत्स्थस्यानृशंस्यं च मैथिल्याश्च विवासनम्
५.००१.०८८ श्रमं च प्लवगेन्द्रस्य समीक्ष्योत्थातुमर्हसि
५.००१.०८९ हिरण्यनाभो मैनाको निशम्य लवणाम्भसः
५.००१.०८९ उत्पपात जलात्तूर्णं महाद्रुमलतायुतः
५.००१.०९० स सागरजलं भित्त्वा बभूवात्युत्थितस्तदा
५.००१.०९० यथा जलधरं भित्त्वा दीप्तरश्मिर्दिवाकरः
५.००१.०९१ शातकुम्भमयैः शृङ्गैः सकिंनरमहोरगैः
५.००१.०९१ आदित्योदयसंकाशैरालिखद्भिरिवाम्बरम्
५.००१.०९२ तस्य जाम्बूनदैः शृङ्गैः पर्वतस्य समुत्थितैः
५.००१.०९२ आकाशं शस्त्रसंकाशमभवत्काञ्चनप्रभम्
५.००१.०९३ जातरूपमयैः शृङ्गैर्भ्राजमानैः स्वयं प्रभैः
५.००१.०९३ आदित्यशतसंकाशः सोऽभवद्गिरिसत्तमः
५.००१.०९४ तमुत्थितमसंगेन हनूमानग्रतः स्थितम्
५.००१.०९४ मध्ये लवणतोयस्य विघ्नोऽयमिति निश्चितः
५.००१.०९५ स तमुच्छ्रितमत्यर्थं महावेगो महाकपिः
५.००१.०९५ उरसा पातयामास जीमूतमिव मारुतः
५.००१.०९६ स तदा पातितस्तेन कपिना पर्वतोत्तमः
५.००१.०९६ बुद्ध्वा तस्य कपेर्वेगं जहर्ष च ननन्द च
५.००१.०९७ तमाकाशगतं वीरमाकाशे समवस्थितम्
५.००१.०९७ प्रीतो हृष्टमना वाक्यमब्रवीत्पर्वतः कपिम्
५.००१.०९७ मानुषं धरयन् रूपमात्मनः शिखरे स्थितः
५.००१.०९८ दुष्करं कृतवान् कर्म त्वमिदं वानरोत्तम
५.००१.०९८ निपत्य मम शृङ्गेषु विश्रमस्व यथासुखम्
५.००१.०९९ राघावस्य कुले जातैरुदधिः परिवर्धितः
५.००१.०९९ स त्वां रामहिते युक्तं प्रत्यर्चयति सागरः
५.००१.१०० कृते च प्रतिकर्तव्यमेष धर्मः सनातनः
५.००१.१०० सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति
५.००१.१०१ त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः
५.००१.१०१ योजनानां शतं चापि कपिरेष समाप्लुतः
५.००१.१०१ तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति
५.००१.१०२ तिष्ठ त्वं हरिशार्दूल मयि विश्रम्य गम्यताम्
५.००१.१०२ तदिदं गन्धवत्स्वादु कन्दमूलफलं बहु
५.००१.१०२ तदास्वाद्य हरिश्रेष्ठ विश्रान्तोऽनुगमिष्यसि
५.००१.१०३ अस्माकमपि संबन्धः कपिमुख्यस्त्वयास्ति वै
५.००१.१०३ प्रख्यतस्त्रिषु लोकेषु महागुणपरिग्रहः
५.००१.१०४ वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज
५.००१.१०४ तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर
५.००१.१०५ अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता
५.००१.१०५ धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान्
५.००१.१०६ त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः
५.००१.१०६ पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर
५.००१.१०७ पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः
५.००१.१०७ तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम्
५.००१.१०८ पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन्
५.००१.१०८ तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः
५.००१.१०९ ततस्तेषु प्रयातेषु देवसंघाः सहर्षिभिः
५.००१.१०९ भूतानि च भयं जग्मुस्तेषां पतनशङ्कया
५.००१.११० ततः क्रुद्धः सहस्राक्षः पर्वतानां शतक्रतुः
५.००१.११० पक्षांश्चिच्छेद वज्रेण तत्र तत्र सहस्रशः
५.००१.१११ स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट्
५.००१.१११ ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना
५.००१.११२ अस्मिंल्लवणतोये च प्रक्षिप्तः प्लवगोत्तम
५.००१.११२ गुप्तपक्षः समग्रश्च तव पित्राभिरक्षितः
५.००१.११३ ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः
५.००१.११३ त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः
५.००१.११४ अस्मिन्नेवंगते कार्ये सागरस्य ममैव च
५.००१.११४ प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे
५.००१.११५ श्रमं मोक्षय पूजां च गृहाण कपिसत्तम
५.००१.११५ प्रीतिं च बहुमन्यस्व प्रीतोऽस्मि तव दर्शनात्
५.००१.११६ एवमुक्तः कपिश्रेष्ठस्तं नगोत्तममब्रवीत्
५.००१.११६ प्रीतोऽस्मि कृतमातिथ्यं मन्युरेषोऽपनीयताम्
५.००१.११७ त्वरते कार्यकालो मे अहश्चाप्यतिवर्तते
५.००१.११७ प्रतिज्ञा च मया दत्ता न स्थातव्यमिहान्तरा
५.००१.११८ इत्युक्त्वा पाणिना शैलमालभ्य हरिपुंगवः
५.००१.११८ जगामाकाशमाविश्य वीर्यवान् प्रहसन्निव
५.००१.११९ स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः
५.००१.११९ पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः
५.००१.१२० अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ
५.००१.१२० पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे
५.००१.१२१ भूयश्चोर्ध्वगतिं प्राप्य गिरिं तमवलोकयन्
५.००१.१२१ वायुसूनुर्निरालम्बे जगाम विमलेऽम्बरे
५.००१.१२२ तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्
५.००१.१२२ प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः
५.००१.१२३ देवताश्चाभवन् हृष्टास्तत्रस्थास्तस्य कर्मणा
५.००१.१२३ काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः
५.००१.१२४ उवाच वचनं धीमान् परितोषात्सगद्गदम्
५.००१.१२४ सुनाभं पर्वतश्रेष्ठं स्वयमेव शचीपतिः
५.००१.१२५ हिरण्यनाभशैलेन्द्रपरितुष्टोऽस्मि ते भृशम्
५.००१.१२५ अभयं ते प्रयच्छामि तिष्ठ सौम्य यथासुखम्
५.००१.१२६ साह्यं कृतं ते सुमहद्विक्रान्तस्य हनूमतः
५.००१.१२६ क्रमतो योजनशतं निर्भयस्य भये सति
५.००१.१२७ रामस्यैष हि दौत्येन याति दाशरथेर्हरिः
५.००१.१२७ सत्क्रियां कुर्वता शक्या तोषितोऽस्मि दृढं त्वया
५.००१.१२८ ततः प्रहर्षमलभद्विपुलं पर्वतोत्तमः
५.००१.१२८ देवतानां पतिं दृष्ट्वा परितुष्टं शतक्रतुम्
५.००१.१२९ स वै दत्तवरः शैलो बभूवावस्थितस्तदा
५.००१.१२९ हनूमांश्च मुहूर्तेन व्यतिचक्राम सागरम्
५.००१.१३० ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
५.००१.१३० अब्रुवन् सूर्यसंकाशां सुरसां नागमातरम्
५.००१.१३१ अयं वातात्मजः श्रीमान् प्लवते सागरोपरि
५.००१.१३१ हनूमान्नाम तस्य त्वं मुहूर्तं विघ्नमाचर
५.००१.१३२ राक्षसं रूपमास्थाय सुघोरं पर्वतोपमम्
५.००१.१३२ दंष्ट्राकरालं पिङ्गाक्षं वक्त्रं कृत्वा नभःस्पृशम्
५.००१.१३३ बलमिच्छामहे ज्ञातुं भूयश्चास्य पराक्रमम्
५.००१.१३३ त्वां विजेष्यत्युपायेन विषदं वा गमिष्यति
५.००१.१३४ एवमुक्ता तु सा देवी दैवतैरभिसत्कृता
५.००१.१३४ समुद्रमध्ये सुरसा बिभ्रती राक्षसं वपुः
५.००१.१३५ विकृतं च विरूपं च सर्वस्य च भयावहम्
५.००१.१३५ प्लवमानं हनूमन्तमावृत्येदमुवाच ह
५.००१.१३६ मम भक्षः प्रदिष्टस्त्वमीश्वरैर्वानरर्षभ
५.००१.१३६ अहं त्वां भक्षयिष्यामि प्रविशेदं ममाननम्
५.००१.१३७ एवमुक्तः सुरसया प्राञ्जलिर्वानरर्षभः
५.००१.१३७ प्रहृष्टवदनः श्रीमानिदं वचनमब्रवीत्
५.००१.१३८ रामो दाशरथिर्नाम प्रविष्टो दण्डकावनम्
५.००१.१३८ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
५.००१.१३९ अस्य कार्यविषक्तस्य बद्धवैरस्य राक्षसैः
५.००१.१३९ तस्य सीता हृता भार्या रावणेन यशस्विनी
५.००१.१४० तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्
५.००१.१४० कर्तुमर्हसि रामस्य साह्यं विषयवासिनि
५.००१.१४१ अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्
५.००१.१४१ आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते
५.००१.१४२ एवमुक्ता हनुमता सुरसा कामरूपिणी
५.००१.१४२ अब्रवीन्नातिवर्तेन्मां कश्चिदेष वरो मम
५.००१.१४३ एवमुक्तः सुरसया क्रुद्धो वानरपुंगवः
५.००१.१४३ अब्रवीत्कुरु वै वक्त्रं येन मां विषहिष्यसे
५.००१.१४४ इत्युक्त्वा सुरसां क्रुद्धो दशयोजनमायतः
५.००१.१४४ दशयोजनविस्तारो बभूव हनुमांस्तदा
५.००१.१४५ तं दृष्ट्वा मेघसंकाशं दशयोजनमायतम्
५.००१.१४५ चकार सुरसाप्यास्यं विंशद्योजनमायतम्
५.००१.१४६ हनुमांस्तु ततः क्रुद्धस्त्रिंशद्योजनमायतः
५.००१.१४६ चकार सुरसा वक्त्रं चत्वारिंशत्तथोच्छ्रितम्
५.००१.१४७ बभूव हनुमान् वीरः पञ्चाशद्योजनोच्छ्रितः
५.००१.१४७ चकार सुरसा वक्त्रं षष्टियोजनमायतम्
५.००१.१४८ तथैव हनुमान् वीरः सप्ततिं योजनोच्छ्रितः
५.००१.१४८ चकार सुरसा वक्त्रमशीतिं योजनायतम्
५.००१.१४९ हनूमानचल प्रख्यो नवतिं योजनोच्छ्रितः
५.००१.१४९ चकार सुरसा वक्त्रं शतयोजनमायतम्
५.००१.१५० तद्दृष्ट्वा व्यादितं त्वास्यं वायुपुत्रः स बुद्धिमान्
५.००१.१५० दीर्घजिह्वं सुरसया सुघोरं नरकोपमम्
५.००१.१५१ स संक्षिप्यात्मनः कायं जीमूत इव मारुतिः
५.००१.१५१ तस्मिन्मुहूर्ते हनुमान् बभूवाङ्गुष्ठमात्रकः
५.००१.१५२ सोऽभिपत्याशु तद्वक्त्रं निष्पत्य च महाजवः
५.००१.१५२ अन्तरिक्षे स्थितः श्रीमानिदं वचनमब्रवीत्
५.००१.१५३ प्रविष्टोऽस्मि हि ते वक्त्रं दाक्षायणि नमोऽस्तु ते
५.००१.१५३ गमिष्ये यत्र वैदेही सत्यं चास्तु वचस्तव
५.००१.१५४ तं दृष्ट्वा वदनान्मुक्तं चन्द्रं राहुमुखादिव
५.००१.१५४ अब्रवीत्सुरसा देवी स्वेन रूपेण वानरम्
५.००१.१५५ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्
५.००१.१५५ समानय च वैदेहीं राघवेण महात्मना
५.००१.१५६ तत्तृतीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम्
५.००१.१५६ साधु साध्विति भूतानि प्रशशंसुस्तदा हरिम्
५.००१.१५७ स सागरमनाधृष्यमभ्येत्य वरुणालयम्
५.००१.१५७ जगामाकाशमाविश्य वेगेन गरुणोपमः
५.००१.१५८ सेविते वारिधारिभिः पतगैश्च निषेविते
५.००१.१५८ चरिते कैशिकाचार्यैरैरावतनिषेविते
५.००१.१५९ सिंहकुञ्जरशार्दूलपतगोरगवाहनैः
५.००१.१५९ विमानैः संपतद्भिश्च विमलैः समलंकृते
५.००१.१६० वज्राशनिसमाघातैः पावकैरुपशोभिते
५.००१.१६० कृतपुण्यैर्महाभागैः स्वर्गजिद्भिरलंकृते
५.००१.१६१ बहता हव्यमत्यन्तं सेविते चित्रभानुना
५.००१.१६१ ग्रहनक्षत्रचन्द्रार्कतारागणविभूषिते
५.००१.१६२ महर्षिगणगन्धर्वनागयक्षसमाकुले
५.००१.१६२ विविक्ते विमले विश्वे विश्वावसुनिषेविते
५.००१.१६३ देवराजगजाक्रान्ते चन्द्रसूर्यपथे शिवे
५.००१.१६३ विताने जीवलोकस्य विततो ब्रह्मनिर्मिते
५.००१.१६४ बहुशः सेविते वीरैर्विद्याधरगणैर्वरैः
५.००१.१६४ कपिना कृष्यमाणानि महाभ्राणि चकाशिरे
५.००१.१६५ प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः
५.००१.१६५ प्रावृषीन्दुरिवाभाति निष्पतन् प्रविशंस्तदा
५.००१.१६६ प्लवमानं तु तं दृष्ट्वा सिंहिका नाम राक्षसी
५.००१.१६६ मनसा चिन्तयामास प्रवृद्धा कामरूपिणी
५.००१.१६७ अद्य दीर्घस्य कालस्य भविष्याम्यहमाशिता
५.००१.१६७ इदं हि मे महत्सत्त्वं चिरस्य वशमागतम्
५.००१.१६८ इति संचिन्त्य मनसा छायामस्य समक्षिपत्
५.००१.१६८ छायायां संगृहीतायां चिन्तयामास वानरः
५.००१.१६९ समाक्षिप्तोऽस्मि सहसा पङ्गूकृतपराक्रमः
५.००१.१६९ प्रतिलोमेन वातेन महानौरिव सागरे
५.००१.१७० तिर्यगूर्ध्वमधश्चैव वीक्षमाणस्ततः कपिः
५.००१.१७० ददर्श स महासत्त्वमुत्थितं लवणाम्भसि
५.००१.१७१ कपिराज्ञा यदाख्यातं सत्त्वमद्भुतदर्शनम्
५.००१.१७१ छायाग्राहि महावीर्यं तदिदं नात्र संशयः
५.००१.१७२ स तां बुद्ध्वार्थतत्त्वेन सिंहिकां मतिमान् कपिः
५.००१.१७२ व्यवर्धत महाकायः प्रावृषीव बलाहकः
५.००१.१७३ तस्य सा कायमुद्वीक्ष्य वर्धमानं महाकपेः
५.००१.१७३ वक्त्रं प्रसारयामास पातालाम्बरसंनिभम्
५.००१.१७४ स ददर्श ततस्तस्या विकृतं सुमहन्मुखम्
५.००१.१७४ कायमात्रं च मेधावी मर्माणि च महाकपिः
५.००१.१७५ स तस्या विवृते वक्त्रे वज्रसंहननः कपिः
५.००१.१७५ संक्षिप्य मुहुरात्मानं निष्पपात महाबलः
५.००१.१७६ आस्ये तस्या निमज्जन्तं ददृशुः सिद्धचारणाः
५.००१.१७६ ग्रस्यमानं यथा चन्द्रं पूर्णं पर्वणि राहुणा
५.००१.१७७ ततस्तस्य नखैस्तीक्ष्णैर्मर्माण्युत्कृत्य वानरः
५.००१.१७७ उत्पपाताथ वेगेन मनःसंपातविक्रमः
५.००१.१७८ तां हतां वानरेणाशु पतितां वीक्ष्य सिंहिकाम्
५.००१.१७८ भूतान्याकाशचारीणि तमूचुः प्लवगर्षभम्
५.००१.१७९ भीममद्य कृतं कर्म महत्सत्त्वं त्वया हतम्
५.००१.१७९ साधयार्थमभिप्रेतमरिष्टं प्लवतां वर
५.००१.१८० यस्य त्वेतानि चत्वारि वानरेन्द्र यथा तव
५.००१.१८० धृतिर्दृष्टिर्मतिर्दाक्ष्यं स कर्मसु न सीदति
५.००१.१८१ स तैः संभावितः पूज्यः प्रतिपन्नप्रयोजनः
५.००१.१८१ जगामाकाशमाविश्य पन्नगाशनवत्कपिः
५.००१.१८२ प्राप्तभूयिष्ठ पारस्तु सर्वतः प्रतिलोकयन्
५.००१.१८२ योजनानां शतस्यान्ते वनराजिं ददर्श सः
५.००१.१८३ ददर्श च पतन्नेव विविधद्रुमभूषितम्
५.००१.१८३ द्वीपं शाखामृगश्रेष्ठो मलयोपवनानि च
५.००१.१८४ सागरं सागरानूपान् सागरानूपजान् द्रुमान्
५.००१.१८४ सागरस्य च पत्नीनां मुखान्यपि विलोकयन्
५.००१.१८५ स महामेघसंकाशं समीक्ष्यात्मानमात्मना
५.००१.१८५ निरुन्धन्तमिवाकाशं चकार मतिमान्मतिम्
५.००१.१८६ कायवृद्धिं प्रवेगं च मम दृष्ट्वैव राक्षसाः
५.००१.१८६ मयि कौतूहलं कुर्युरिति मेने महाकपिः
५.००१.१८७ ततः शरीरं संक्षिप्य तन्महीधरसंनिभम्
५.००१.१८७ पुनः प्रकृतिमापेदे वीतमोह इवात्मवान्
५.००१.१८८ स चारुनानाविधरूपधारी॑ परं समासाद्य समुद्रतीरम्
५.००१.१८८ परैरशक्यप्रतिपन्नरूपः॑ समीक्षितात्मा समवेक्षितार्थः
५.००१.१८९ ततः स लम्बस्य गिरेः समृद्धे॑ विचित्रकूटे निपपात कूटे
५.००१.१८९ सकेतकोद्दालकनालिकेरे॑ महाद्रिकूटप्रतिमो महात्मा
५.००१.१९० स सागरं दानवपन्नगायुतं॑ बलेन विक्रम्य महोर्मिमालिनम्
५.००१.१९० निपत्य तीरे च महोदधेस्तदा॑ ददर्श लङ्काममरावतीमिव
५.००२.००१ स सागरमनाधृष्यमतिक्रम्य महाबलः
५.००२.००१ त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह
५.००२.००२ ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्
५.००२.००२ अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा
५.००२.००३ योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः
५.००२.००३ अनिश्वसन् कपिस्तत्र न ग्लानिमधिगच्छति
५.००२.००४ शतान्यहं योजनानां क्रमेयं सुबहून्यपि
५.००२.००४ किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्
५.००२.००५ स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः
५.००२.००५ जगाम वेगवांल्लङ्कां लङ्घयित्वा महोदधिम्
५.००२.००६ शाद्वलानि च नीलानि गन्धवन्ति वनानि च
५.००२.००६ गण्डवन्ति च मध्येन जगाम नगवन्ति च
५.००२.००७ शैलांश्च तरुसंछन्नान् वनराजीश्च पुष्पिताः
५.००२.००७ अभिचक्राम तेजस्वी हनुमान् प्लवगर्षभः
५.००२.००८ स तस्मिन्नचले तिष्ठन् वनान्युपवनानि च
५.००२.००८ स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः
५.००२.००९ सरलान् कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्
५.००२.००९ प्रियालान्मुचुलिन्दांश्च कुटजान् केतकानपि
५.००२.०१० प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा
५.००२.०१० असनान् कोविदारांश्च करवीरांश्च पुष्पितान्
५.००२.०११ पुष्पभारनिबद्धांश्च तथा मुकुलितानपि
५.००२.०११ पादपान् विहगाकीर्णान् पवनाधूतमस्तकान्
५.००२.०१२ हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः
५.००२.०१२ आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान्
५.००२.०१३ संततान् विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः
५.००२.०१३ उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः
५.००२.०१४ समासाद्य च लक्ष्मीवांल्लङ्कां रावणपालिताम्
५.००२.०१४ परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्
५.००२.०१५ सीतापहरणार्थेन रावणेन सुरक्षिताम्
५.००२.०१५ समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः
५.००२.०१६ काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्
५.००२.०१६ अट्टालकशताकीर्णां पताकाध्वजमालिनीम्
५.००२.०१७ तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः
५.००२.०१७ ददर्श हनुमांल्लङ्कां दिवि देवपुरीमिव
५.००२.०१८ गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः
५.००२.०१८ ददर्श स कपिः श्रीमान् पुरमाकाशगं यथा
५.००२.०१९ पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा
५.००२.०१९ प्लवमानामिवाकाशे ददर्श हनुमान् पुरीम्
५.००२.०२० संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव
५.००२.०२० अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा
५.००२.०२१ दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः
५.००२.०२१ रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि
५.००२.०२२ वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम्
५.००२.०२२ शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्
५.००२.०२३ द्वारमुत्तरमासाद्य चिन्तयामास वानरः
५.००२.०२३ कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम्
५.००२.०२३ ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः
५.००२.०२४ तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः
५.००२.०२४ रावणं च रिपुं घोरं चिन्तयामास वानरः
५.००२.०२५ आगत्यापीह हरयो भविष्यन्ति निरर्थकाः
५.००२.०२५ न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि
५.००२.०२६ इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्
५.००२.०२६ प्राप्यापि स महाबाहुः किं करिष्यति राघवः
५.००२.०२७ अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते
५.००२.०२७ न दानस्य न भेदस्य नैव युद्धस्य दृश्यते
५.००२.०२८ चतुर्णामेव हि गतिर्वानराणां महात्मनाम्
५.००२.०२८ वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः
५.००२.०२९ यावज्जानामि वैदेहीं यदि जीवति वा न वा
५.००२.०२९ तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्
५.००२.०३० ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः
५.००२.०३० गिरिशृङ्गे स्थितस्तस्मिन् रामस्याभ्युदये रतः
५.००२.०३१ अनेन रूपेण मया न शक्या रक्षसां पुरी
५.००२.०३१ प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः
५.००२.०३२ उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाः
५.००२.०३२ वञ्चनीया मया सर्वे जानकीं परिमार्गिता
५.००२.०३३ लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया
५.००२.०३३ प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत्
५.००२.०३४ तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः
५.००२.०३४ हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः
५.००२.०३५ केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्
५.००२.०३५ अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना
५.००२.०३६ न विनश्येत्कथं कार्यं रामस्य विदितात्मनः
५.००२.०३६ एकामेकश्च पश्येयं रहिते जनकात्मजाम्
५.००२.०३७ भूताश्चार्थो विपद्यन्ते देशकालविरोधिताः
५.००२.०३७ विक्लवं दूतमासाद्य तमः सूर्योदये यथा
५.००२.०३८ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते
५.००२.०३८ घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
५.००२.०३९ न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत्
५.००२.०३९ लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्
५.००२.०४० मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः
५.००२.०४० भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः
५.००२.०४१ न हि शक्यं क्व चित्स्थातुमविज्ञातेन राक्षसैः
५.००२.०४१ अपि राक्षसरूपेण किमुतान्येन केन चित्
५.००२.०४२ वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम
५.००२.०४२ न ह्यस्त्यविदितं किं चिद्राक्षसानां बलीयसाम्
५.००२.०४३ इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः
५.००२.०४३ विनाशमुपयास्यामि भर्तुरर्थश्च हीयते
५.००२.०४४ तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः
५.००२.०४४ लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये
५.००२.०४५ रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्
५.००२.०४५ विचिन्वन् भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्
५.००२.०४६ इति संचिन्त्य हनुमान् सूर्यस्यास्तमयं कपिः
५.००२.०४६ आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः
५.००२.०४६ पृषदंशकमात्रः सन् बभूवाद्भुतदर्शनः
५.००२.०४७ प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्
५.००२.०४७ प्रविवेश पुरीं रम्यां सुविभक्तमहापथम्
५.००२.०४८ प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः
५.००२.०४८ शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम्
५.००२.०४९ सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्
५.००२.०४९ तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः
५.००२.०५० वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः
५.००२.०५० तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्
५.००२.०५१ काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्
५.००२.०५१ लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम्
५.००२.०५२ अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः
५.००२.०५२ आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः
५.००२.०५३ स पाण्डुरोद्विद्धविमानमालिनीं॑ महार्हजाम्बूनदजालतोरणाम्
५.००२.०५३ यशस्विनां रावणबाहुपालितां॑ क्षपाचरैर्भीमबलैः समावृताम्
५.००२.०५४ चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्॑ तारागणैर्मध्यगतो विराजन्
५.००२.०५४ ज्योत्स्नावितानेन वितत्य लोकम्॑ उत्तिष्ठते नैकसहस्ररश्मिः
५.००२.०५५ शङ्खप्रभं क्षीरमृणालवर्णम्॑ उद्गच्छमानं व्यवभासमानम्
५.००२.०५५ ददर्श चन्द्रं स कपिप्रवीरः॑ पोप्लूयमानं सरसीव हंसं
५.००३.००१ स लम्बशिखरे लम्बे लम्बतोयदसंनिभे
५.००३.००१ सत्त्वमास्थाय मेधावी हनुमान्मारुतात्मजः
५.००३.००२ निशि लङ्कां महासत्त्वो विवेश कपिकुञ्जरः
५.००३.००२ रम्यकाननतोयाढ्यां पुरीं रावणपालिताम्
५.००३.००३ शारदाम्बुधरप्रख्यैर्भवनैरुपशोभिताम्
५.००३.००३ सागरोपमनिर्घोषां सागरानिलसेविताम्
५.००३.००४ सुपुष्टबलसंगुप्तां यथैव विटपावतीम्
५.००३.००४ चारुतोरणनिर्यूहां पाण्डुरद्वारतोरणाम्
५.००३.००५ भुजगाचरितां गुप्तां शुभां भोगवतीमिव
५.००३.००५ तां सविद्युद्घनाकीर्णां ज्योतिर्मार्गनिषेविताम्
५.००३.००६ चण्डमारुतनिर्ह्रादां यथेन्द्रस्यामरावतीम्
५.००३.००६ शातकुम्भेन महता प्राकारेणाभिसंवृताम्
५.००३.००७ किङ्किणीजालघोषाभिः पताकाभिरलंकृताम्
५.००३.००७ आसाद्य सहसा हृष्टः प्राकारमभिपेदिवान्
५.००३.००८ विस्मयाविष्टहृदयः पुरीमालोक्य सर्वतः
५.००३.००८ जाम्बूनदमयैर्द्वारैर्वैदूर्यकृतवेदिकैः
५.००३.००९ मणिस्फटिक मुक्ताभिर्मणिकुट्टिमभूषितैः
५.००३.००९ तप्तहाटकनिर्यूहै राजतामलपाण्डुरैः
५.००३.०१० वैदूर्यतलसोपानैः स्फाटिकान्तरपांसुभिः
५.००३.०१० चारुसंजवनोपेतैः खमिवोत्पतितैः शुभैः
५.००३.०११ क्रौञ्चबर्हिणसंघुष्टे राजहंसनिषेवितैः
५.००३.०११ तूर्याभरणनिर्घोषैः सर्वतः प्रतिनादिताम्
५.००३.०१२ वस्वोकसाराप्रतिमां समीक्ष्य नगरीं ततः
५.००३.०१२ खमिवोत्पतितां लङ्कां जहर्ष हनुमान् कपिः
५.००३.०१३ तां समीक्ष्य पुरीं लङ्कां राक्षसाधिपतेः शुभाम्
५.००३.०१३ अनुत्तमामृद्धियुतां चिन्तयामास वीर्यवान्
५.००३.०१४ नेयमन्येन नगरी शक्या धर्षयितुं बलात्
५.००३.०१४ रक्षिता रावणबलैरुद्यतायुधधारिभिः
५.००३.०१५ कुमुदाङ्गदयोर्वापि सुषेणस्य महाकपेः
५.००३.०१५ प्रसिद्धेयं भवेद्भूमिर्मैन्दद्विविदयोरपि
५.००३.०१६ विवस्वतस्तनूजस्य हरेश्च कुशपर्वणः
५.००३.०१६ ऋक्षस्य केतुमालस्य मम चैव गतिर्भवेत्
५.००३.०१७ समीक्ष्य तु महाबाहो राघवस्य पराक्रमम्
५.००३.०१७ लक्ष्मणस्य च विक्रान्तमभवत्प्रीतिमान् कपिः
५.००३.०१८ तां रत्नवसनोपेतां कोष्ठागारावतंसकाम्
५.००३.०१८ यन्त्रागारस्तनीमृद्धां प्रमदामिव भूषिताम्
५.००३.०१९ तां नष्टतिमिरां दीपैर्भास्वरैश्च महागृहैः
५.००३.०१९ नगरीं राक्षसेन्द्रस्य ददर्श स महाकपिः
५.००३.०२० प्रविष्टः सत्त्वसंपन्नो निशायां मारुतात्मजः
५.००३.०२० स महापथमास्थाय मुक्तापुष्पविराजितम्
५.००३.०२१ हसितोद्घुष्टनिनदैस्तूर्यघोष पुरः सरैः
५.००३.०२१ वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः
५.००३.०२१ गृहमेधैः पुरी रम्या बभासे द्यौरिवाम्बुदैः
५.००३.०२२ प्रजज्वाल तदा लङ्का रक्षोगणगृहैः शुभैः
५.००३.०२२ सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः
५.००३.०२२ वर्धमानगृहैश्चापि सर्वतः सुविभाषितैः
५.००३.०२३ तां चित्रमाल्याभरणां कपिराजहितंकरः
५.००३.०२३ राघवार्थं चरञ्श्रीमान् ददर्श च ननन्द च
५.००३.०२४ शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम्
५.००३.०२४ स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव
५.००३.०२५ शुश्राव काञ्चीनिनादं नूपुराणां च निःस्वनम्
५.००३.०२५ सोपाननिनदांश्चैव भवनेषु महात्मनम्
५.००३.०२५ आस्फोटितनिनादांश्च क्ष्वेडितांश्च ततस्ततः
५.००३.०२६ स्वाध्याय निरतांश्चैव यातुधानान् ददर्श सः
५.००३.०२६ रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि
५.००३.०२७ राजमार्गं समावृत्य स्थितं रक्षोबलं महत्
५.००३.०२७ ददर्श मध्यमे गुल्मे राक्षसस्य चरान् बहून्
५.००३.०२८ दीक्षिताञ्जटिलान्मुण्डान् गोऽजिनाम्बरवाससः
५.००३.०२८ दर्भमुष्टिप्रहरणानग्निकुण्डायुधांस्तथा
५.००३.०२९ कूटमुद्गरपाणींश्च दण्डायुधधरानपि
५.००३.०२९ एकाक्षानेककर्णांश्च चलल्लम्बपयोधरान्
५.००३.०३० करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा
५.००३.०३० धन्विनः खड्गिनश्चैव शतघ्नी मुसलायुधान्
५.००३.०३० परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान्
५.००३.०३१ नातिष्ठूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान्
५.००३.०३१ विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः
५.००३.०३२ शक्तिवृक्षायुधांश्चैव पट्टिशाशनिधारिणः
५.००३.०३२ क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः
५.००३.०३३ स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान्
५.००३.०३३ तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान्
५.००३.०३४ शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः
५.००३.०३४ प्राकारावृतमत्यन्तं ददर्श स महाकपिः
५.००३.०३५ त्रिविष्टपनिभं दिव्यं दिव्यनादविनादितम्
५.००३.०३५ वाजिहेषितसंघुष्टं नादितं भूषणैस्तथा
५.००३.०३६ रथैर्यानैर्विमानैश्च तथा गजहयैः शुभैः
५.००३.०३६ वारणैश्च चतुर्दन्तैः श्वेताभ्रनिचयोपमैः
५.००३.०३७ भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः
५.००३.०३७ राक्षसाधिपतेर्गुप्तमाविवेश गृहं कपिः
५.००४.००१ ततः स मध्यं गतमंशुमन्तं॑ ज्योत्स्नावितानं महदुद्वमन्तम्
५.००४.००१ ददर्श धीमान् दिवि भानुमन्तं॑ गोष्ठे वृषं मत्तमिव भ्रमन्तम्
५.००४.००२ लोकस्य पापानि विनाशयन्तं॑ महोदधिं चापि समेधयन्तम्
५.००४.००२ भूतानि सर्वाणि विराजयन्तं॑ ददर्श शीतांशुमथाभियान्तम्
५.००४.००३ या भाति लक्ष्मीर्भुवि मन्दरस्था॑ तथा प्रदोषेषु च सागरस्था
५.००४.००३ तथैव तोयेषु च पुष्करस्था॑ रराज सा चारुनिशाकरस्था
५.००४.००४ हंसो यथा राजतपञ्जुरस्थः॑ सिंहो यथा मन्दरकन्दरस्थः
५.००४.००४ वीरो यथा गर्व
ितकुञ्जरस्थश्॑ चन्द्रोऽपि बभ्राज तथाम्बरस्थः
५.००४.००५ स्थितः ककुद्मानिव तीक्ष्णशृङ्गो॑ महाचलः श्वेत इवोच्चशृङ्गः
५.००४.००५ हस्तीव जाम्बूनदबद्धशृङ्गो॑ विभाति चन्द्रः परिपूर्णशृङ्गः
५.००४.००६ प्रकाशचन्द्रोदयनष्टदोषः॑ प्रवृद्धरक्षः पिशिताशदोषः
५.००४.००६ रामाभिरामेरितचित्तदोषः॑ स्वर्गप्रकाशो भगवान् प्रदोषः
५.००४.००७ तन्त्री स्वनाः कर्णसुखाः प्रवृत्ताः॑ स्वपन्ति नार्यः पतिभिः सुवृत्ताः
५.००४.००७ नक्तंचराश्चापि तथा प्रवृत्ता॑ विहर्तुमत्यद्भुतरौद्रवृत्ताः
५.००४.००८ मत्तप्रमत्तानि समाकुलानि॑ रथाश्वभद्रासनसंकुलानि
५.००४.००८ वीरश्रिया चापि समाकुलानि॑ ददर्श धीमान् स कपिः कुलानि
५.००४.००९ परस्परं चाधिकमाक्षिपन्ति॑ भुजांश्च पीनानधिविक्षिपन्ति
५.००४.००९ मत्तप्रलापानधिविक्षिपन्ति॑ मत्तानि चान्योन्यमधिक्षिपन्ति
५.००४.०१० रक्षांसि वक्षांसि च विक्षिपन्ति॑ गात्राणि कान्तासु च विक्षिपन्ति
५.००४.०१० ददर्श कान्ताश्च समालपन्ति॑ तथापरास्तत्र पुनः स्वपन्ति
५.००४.०११ महागजैश्चापि तथा नदद्भिः॑ सूपूजितैश्चापि तथा सुसद्भिः
५.००४.०११ रराज वीरैश्च विनिःश्वसद्भिर्॑ ह्रदो भुजङ्गैरिव निःश्वसद्भिः
५.००४.०१२ बुद्धिप्रधानान् रुचिराभिधानान्॑ संश्रद्दधानाञ्जगतः प्रधानान्
५.००४.०१२ नानाविधानान् रुचिराभिधानान्॑ ददर्श तस्यां पुरि यातुधानान्
५.००४.०१३ ननन्द दृष्ट्वा स च तान् सुरूपान्॑ नानागुणानात्मगुणानुरूपान्
५.००४.०१३ विद्योतमानान् स च तान् सुरूपान्॑ ददर्श कांश्चिच्च पुनर्विरूपान्
५.००४.०१४ ततो वरार्हाः सुविशुद्धभावास्॑ तेषां स्त्रियस्तत्र महानुभावाः
५.००४.०१४ प्रियेषु पानेषु च सक्तभावा॑ ददर्श तारा इव सुप्रभावाः
५.००४.०१५ श्रिया ज्वलन्तीस्त्रपयोपगूढा॑ निशीथकाले रमणोपगूढाः
५.००४.०१५ ददर्श काश्चित्प्रमदोपगूढा॑ यथा विहंगाः कुसुमोपगूडाः
५.००४.०१६ अन्याः पुनर्हर्म्यतलोपविष्टास्॑ तत्र प्रियाङ्केषु सुखोपविष्टाः
५.००४.०१६ भर्तुः प्रिया धर्मपरा निविष्टा॑ ददर्श धीमान्मनदाभिविष्टाः
५.००४.०१७ अप्रावृताः काञ्चनराजिवर्णाः॑ काश्चित्परार्ध्यास्तपनीयवर्णाः
५.००४.०१७ पुनश्च काश्चिच्छशलक्ष्मवर्णाः॑ कान्तप्रहीणा रुचिराङ्गवर्णाः
५.००४.०१८ ततः प्रियान् प्राप्य मनोऽभिरामान्॑ सुप्रीतियुक्ताः प्रसमीक्ष्य रामाः
५.००४.०१८ गृहेषु हृष्टाः परमाभिरामा॑ हरिप्रवीरः स ददर्श रामाः
५.००४.०१९ चन्द्रप्रकाशाश्च हि वक्त्रमाला॑ वक्राक्षिपक्ष्माश्च सुनेत्रमालाः
५.००४.०१९ विभूषणानां च ददर्श मालाः॑ शतह्रदानामिव चारुमालाः
५.००४.०२० न त्वेव सीतां परमाभिजातां॑ पथि स्थिते राजकुले प्रजाताम्
५.००४.०२० लतां प्रफुल्लामिव साधुजातां॑ ददर्श तन्वीं मनसाभिजाताम्
५.००४.०२१ सनातने वर्त्मनि संनिविष्टां॑ रामेक्षणीं तां मदनाभिविष्टाम्
५.००४.०२१ भर्तुर्मनः श्रीमदनुप्रविष्टां॑ स्त्रीभ्यो वराभ्यश्च सदा विशिष्टाम्
५.००४.०२२ उष्णार्दितां सानुसृतास्रकण्ठीं॑ पुरा वरार्होत्तमनिष्ककण्ठीम्
५.००४.०२२ सुजातपक्ष्मामभिरक्तकण्ठीं॑ वने प्रवृत्तामिव नीलकण्ठीम्
५.००४.०२३ अव्यक्तलेखामिव चन्द्रलेखां॑ पांसुप्रदिग्धामिव हेमलेखाम्
५.००४.०२३ क्षतप्ररूढामिव बाणलेखां॑ वायुप्रभिन्नामिव मेघलेखाम्
५.००४.०२४ सीतामपश्यन्मनुजेश्वरस्य॑ रामस्य पत्नीं वदतां वरस्य
५.००४.०२४ बभूव दुःखाभिहतश्चिरस्य॑ प्लवंगमो मन्द इवाचिरस्य
५.००५.००१ स निकामं विनामेषु विचरन् कामरूपधृक्
५.००५.००१ विचचार कपिर्लङ्कां लाघवेन समन्वितः
५.००५.००२ आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्
५.००५.००२ प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम्
५.००५.००३ रक्षितं राक्षसैर्भीमैः सिंहैरिव महद्वनम्
५.००५.००३ समीक्षमाणो भवनं चकाशे कपिकुञ्जरः
५.००५.००४ रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः
५.००५.००४ विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम्
५.००५.००५ गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः
५.००५.००५ उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः
५.००५.००६ सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः
५.००५.००६ घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः
५.००५.००७ बहुरत्नसमाकीर्णं परार्ध्यासनभाजनम्
५.००५.००७ महारथसमावासं महारथमहासनम्
५.००५.००८ दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः
५.००५.००८ विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः
५.००५.००९ विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम्
५.००५.००९ मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः
५.००५.०१० मुदितप्रमदा रत्नं राक्षसेन्द्रनिवेशनम्
५.००५.०१० वराभरणनिर्ह्रादैः समुद्रस्वननिःस्वनम्
५.००५.०११ तद्राजगुणसंपन्नं मुख्यैश्च वरचन्दनैः
५.००५.०११ भेरीमृदङ्गाभिरुतं शङ्खघोषविनादितम्
५.००५.०१२ नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा
५.००५.०१२ समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम्
५.००५.०१३ महात्मानो महद्वेश्म महारत्नपरिच्छदम्
५.००५.०१३ महाजनसमाकीर्णं ददर्श स महाकपिः
५.००५.०१४ विराजमानं वपुषा गजाश्वरथसंकुलम्
५.००५.०१४ लङ्काभरणमित्येव सोऽमन्यत महाकपिः
५.००५.०१५ गृहाद्गृहं राक्षसानामुद्यानानि च वानरः
५.००५.०१५ वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः
५.००५.०१६ अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम्
५.००५.०१६ ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान्
५.००५.०१७ अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम्
५.००५.०१७ विभीषणस्य च तथा पुप्लुवे स महाकपिः
५.००५.०१८ महोदरस्य च तथा विरूपाक्षस्य चैव हि
५.००५.०१८ विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च
५.००५.०१८ वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः
५.००५.०१९ शुकस्य च महावेगः सारणस्य च धीमतः
५.००५.०१९ तथा चेन्द्रजितो वेश्म जगाम हरियूथपः
५.००५.०२० जम्बुमालेः सुमालेश्च जगाम हरियूथपः
५.००५.०२० रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च
५.००५.०२१ धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः
५.००५.०२१ विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च
५.००५.०२२ शुकनाभस्य वक्रस्य शठस्य विकटस्य च
५.००५.०२२ ह्रस्वकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः
५.००५.०२३ युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः
५.००५.०२३ विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च
५.००५.०२४ करालस्य पिशाचस्य शोणिताक्षस्य चैव हि
५.००५.०२४ क्रममाणः क्रमेणैव हनूमान्मारुतात्मजः
५.००५.०२५ तेषु तेषु महार्हेषु भवनेषु महायशाः
५.००५.०२५ तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः
५.००५.०२६ सर्वेषां समतिक्रम्य भवनानि समन्ततः
५.००५.०२६ आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम्
५.००५.०२७ रावणस्योपशायिन्यो ददर्श हरिसत्तमः
५.००५.०२७ विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः
५.००५.०२७ शूलमुद्गरहस्ताश्च शक्तो तोमरधारिणीः
५.००५.०२८ ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे
५.००५.०२९ रक्ताञ्श्वेतान् सितांश्चैव हरींश्चैव महाजवान्
५.००५.०२९ कुलीनान् रूपसंपन्नान् गजान् परगजारुजान्
५.००५.०३० निष्ठितान् गजशिखायामैरावतसमान् युधि
५.००५.०३० निहन्तॄन् परसैन्यानां गृहे तस्मिन् ददर्श सः
५.००५.०३१ क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन्
५.००५.०३१ मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः
५.००५.०३२ सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः
५.००५.०३२ हेमजालैरविच्छिन्नास्तरुणादित्यसंनिभाः
५.००५.०३३ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने
५.००५.०३३ शिबिका विविधाकाराः स कपिर्मारुतात्मजः
५.००५.०३४ लतागृहाणि चित्राणि चित्रशालागृहाणि च
५.००५.०३४ क्रीडागृहाणि चान्यानि दारुपर्वतकानपि
५.००५.०३५ कामस्य गृहकं रम्यं दिवागृहकमेव च
५.००५.०३५ ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने
५.००५.०३६ स मन्दरतलप्रख्यं मयूरस्थानसंकुलम्
५.००५.०३६ ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम्
५.००५.०३७ अनन्तरत्ननिचयं निधिजालं समन्ततः
५.००५.०३७ धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव
५.००५.०३८ अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च
५.००५.०३८ विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः
५.००५.०३९ जाम्बूनदमयान्येव शयनान्यासनानि च
५.००५.०३९ भाजनानि च शुभ्राणि ददर्श हरियूथपः
५.००५.०४० मध्वासवकृतक्लेदं मणिभाजनसंकुलम्
५.००५.०४० मनोरममसंबाधं कुबेरभवनं यथा
५.००५.०४१ नूपुराणां च घोषेण काञ्चीनां निनदेन च
५.००५.०४१ मृदङ्गतलघोषैश्च घोषवद्भिर्विनादितम्
५.००५.०४२ प्रासादसंघातयुतं स्त्रीरत्नशतसंकुलम्
५.००५.०४२ सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम्
५.००६.००१ स वेश्मजालं बलवान् ददर्श॑ व्यासक्तवैदूर्यसुवर्णजालम्
५.००६.००१ यथा महत्प्रावृषि मेघजालं॑ विद्युत्पिनद्धं सविहंगजालम्
५.००६.००२ निवेशनानां विविधाश्च शालाः॑ प्रधानशङ्खायुधचापशालाः
५.००६.००२ मनोहराश्चापि पुनर्विशाला॑ ददर्श वेश्माद्रिषु चन्द्रशालाः
५.००६.००३ गृहाणि नानावसुराजितानि॑ देवासुरैश्चापि सुपूजितानि
५.००६.००३ सर्वैश्च दोषैः परिवर्जितानि॑ कपिर्ददर्श स्वबलार्जितानि
५.००६.००४ तानि प्रयत्नाभिसमाहितानि॑ मयेन साक्षादिव निर्मितानि
५.००६.००४ महीतले सर्वगुणोत्तराणि॑ ददर्श लङ्काधिपतेर्गृहाणि
५.००६.००५ ततो ददर्शोच्छ्रितमेघरूपं॑ मनोहरं काञ्चनचारुरूपम्
५.००६.००५ रक्षोऽधिपस्यात्मबलानुरूपं॑ गृहोत्तमं ह्यप्रतिरूपरूपम्
५.००६.००६ महीतले स्वर्गमिव प्रकीर्णं॑ श्रिया ज्वलन्तं बहुरत्नकीर्णम्
५.००६.००६ नानातरूणां कुसुमावकीर्णं॑ गिरेरिवाग्रं रजसावकीर्णम्
५.००६.००७ नारीप्रवेकैरिव दीप्यमानं॑ तडिद्भिरम्भोदवदर्च्यमानम्
५.००६.००७ हंसप्रवेकैरिव वाह्यमानं॑ श्रिया युतं खे सुकृतां विमानम्
५.००६.००८ यथा नगाग्रं बहुधातुचित्रं॑ यथा नभश्च ग्रहचन्द्रचित्रम्
५.००६.००८ ददर्श युक्तीकृतमेघचित्रं॑ विमानरत्नं बहुरत्नचित्रम्
५.००६.००९ मही कृता पर्वतराजिपूर्णा॑ शैलाः कृता वृक्षवितानपूर्णाः
५.००६.००९ वृक्षाः कृताः पुष्पवितानपूर्णाः॑ पुष्पं कृतं केसरपत्रपूर्णम्
५.००६.०१० कृतानि वेश्मानि च पाण्डुराणि॑ तथा सुपुष्पा अपि पुष्करिण्यः
५.००६.०१० पुनश्च पद्मानि सकेसराणि॑ धन्यानि चित्राणि तथा वनानि
५.००६.०११ पुष्पाह्वयं नाम विराजमानं॑ रत्नप्रभाभिश्च विवर्धमानम्
५.००६.०११ वेश्मोत्तमानामपि चोच्चमानं॑ महाकपिस्तत्र महाविमानम्
५.००६.०१२ कृताश्च वैदूर्यमया विहंगा॑ रूप्यप्रवालैश्च तथा विहंगाः
५.००६.०१२ चित्राश्च नानावसुभिर्भुजंगा॑ जात्यानुरूपास्तुरगाः शुभाङ्गाः
५.००६.०१३ प्रवालजाम्बूनदपुष्पपक्षाः॑ सलीलमावर्जितजिह्मपक्षाः
५.००६.०१३ कामस्य साक्षादिव भान्ति पक्षाः॑ कृता विहंगाः सुमुखाः सुपक्षाः
५.००६.०१४ नियुज्यमानाश्च गजाः सुहस्ताः॑ सकेसराश्चोत्पलपत्रहस्ताः
५.००६.०१४ बभूव देवी च कृता सुहस्ता॑ लक्ष्मीस्तथा पद्मिनि पद्महस्ता
५.००६.०१५ इतीव तद्गृहमभिगम्य शोभनं॑ सविस्मयो नगमिव चारुशोभनम्
५.००६.०१५ पुनश्च तत्परमसुगन्धि सुन्दरं॑ हिमात्यये नगमिव चारुकन्दरम्
५.००६.०१६ ततः स तां कपिरभिपत्य पूजितां॑ चरन् पुरीं दशमुखबाहुपालिताम्
५.००६.०१६ अदृश्य तां जनकसुतां सुपूजितां॑ सुदुःखितां पतिगुणवेगनिर्जिताम्
५.००६.०१७ ततस्तदा बहुविधभावितात्मनः॑ कृतात्मनो जनकसुतां सुवर्त्मनः
५.००६.०१७ अपश्यतोऽभवदतिदुःखितं मनः॑ सुचक्षुषः प्रविचरतो महात्मनः
५.००७.००१ तस्यालयवरिष्ठस्य मध्ये विपुलमायतम्
५.००७.००१ ददर्श भवनश्रेष्ठं हनूमान्मारुतात्मजः
५.००७.००२ अर्धयोजनविस्तीर्णमायतं योजनं हि तत्
५.००७.००२ भवनं राक्षसेन्द्रस्य बहुप्रासादसंकुलम्
५.००७.००३ मार्गमाणस्तु वैदेहीं सीतामायतलोचनाम्
५.००७.००३ सर्वतः परिचक्राम हनूमानरिसूदनः
५.००७.००४ चतुर्विषाणैर्द्विरदैस्त्रिविषाणैस्तथैव च
५.००७.००४ परिक्षिप्तमसंबाधं रक्ष्यमाणमुदायुधैः
५.००७.००५ राक्षसीभिश्च पत्नीभी रावणस्य निवेशनम्
५.००७.००५ आहृताभिश्च विक्रम्य राजकन्याभिरावृतम्
५.००७.००६ तन्नक्रमकराकीर्णं तिमिंगिलझषाकुलम्
५.००७.००६ वायुवेगसमाधूतं पन्नगैरिव सागरम्
५.००७.००७ या हि वैश्वरणे लक्ष्मीर्या चेन्द्रे हरिवाहने
५.००७.००७ सा रावणगृहे सर्वा नित्यमेवानपायिनी
५.००७.००८ या च राज्ञः कुबेरस्य यमस्य वरुणस्य च
५.००७.००८ तादृशी तद्विशिष्टा वा ऋद्धी रक्षो गृहेष्विह
५.००७.००९ तस्य हर्म्यस्य मध्यस्थं वेश्म चान्यत्सुनिर्मितम्
५.००७.००९ बहुनिर्यूह संकीर्णं ददर्श पवनात्मजः
५.००७.०१० ब्रह्मणोऽर्थे कृतं दिव्यं दिवि यद्विश्वकर्मणा
५.००७.०१० विमानं पुष्पकं नाम सर्वरत्नविभूषितम्
५.००७.०११ परेण तपसा लेभे यत्कुबेरः पितामहात्
५.००७.०११ कुबेरमोजसा जित्वा लेभे तद्राक्षसेश्वरः
५.००७.०१२ ईहा मृगसमायुक्तैः कार्यस्वरहिरण्मयैः
५.००७.०१२ सुकृतैराचितं स्तम्भैः प्रदीप्तमिव च श्रिया
५.००७.०१३ मेरुमन्दरसंकाशैरुल्लिखद्भिरिवाम्बरम्
५.००७.०१३ कूटागारैः शुभाकारैः सर्वतः समलंकृतम्
५.००७.०१४ ज्वलनार्कप्रतीकाशं सुकृतं विश्वकर्मणा
५.००७.०१४ हेमसोपानसंयुक्तं चारुप्रवरवेदिकम्
५.००७.०१५ जालवातायनैर्युक्तं काञ्चनैः स्थाटिकैरपि
५.००७.०१५ इन्द्रनीलमहानीलमणिप्रवरवेदिकम्
५.००७.०१५ विमानं पुष्पकं दिव्यमारुरोह महाकपिः
५.००७.०१६ तत्रस्थः स तदा गन्धं पानभक्ष्यान्नसंभवम्
५.००७.०१६ दिव्यं संमूर्छितं जिघ्रन् रूपवन्तमिवानिलम्
५.००७.०१७ स गन्धस्तं महासत्त्वं बन्धुर्बन्धुमिवोत्तमम्
५.००७.०१७ इत एहीत्युवाचेव तत्र यत्र स रावणः
५.००७.०१८ ततस्तां प्रस्थितः शालां ददर्श महतीं शुभाम्
५.००७.०१८ रावणस्य मनःकान्तां कान्तामिव वरस्त्रियम्
५.००७.०१९ मणिसोपानविकृतां हेमजालविराजिताम्
५.००७.०१९ स्फाटिकैरावृततलां दन्तान्तरितरूपिकाम्
५.००७.०२० मुक्ताभिश्च प्रवालैश्च रूप्यचामीकरैरपि
५.००७.०२० विभूषितां मणिस्तम्भैः सुबहुस्तम्भभूषिताम्
५.००७.०२१ समैरृजुभिरत्युच्चैः समन्तात्सुविभूषितैः
५.००७.०२१ स्तम्भैः पक्षैरिवात्युच्चैर्दिवं संप्रस्थितामिव
५.००७.०२२ महत्या कुथयास्त्रीणं पृथिवीलक्षणाङ्कया
५.००७.०२२ पृथिवीमिव विस्तीर्णां सराष्ट्रगृहमालिनीम्
५.००७.०२३ नादितां मत्तविहगैर्दिव्यगन्धाधिवासिताम्
५.००७.०२३ परार्ध्यास्तरणोपेतां रक्षोऽधिपनिषेविताम्
५.००७.०२४ धूम्रामगरुधूपेन विमलां हंसपाण्डुराम्
५.००७.०२४ चित्रां पुष्पोपहारेण कल्माषीमिव सुप्रभाम्
५.००७.०२५ मनःसंह्लादजननीं वर्णस्यापि प्रसादिनीम्
५.००७.०२५ तां शोकनाशिनीं दिव्यां श्रियः संजननीमिव
५.००७.०२६ इन्द्रियाणीन्द्रियार्थैस्तु पञ्च पञ्चभिरुत्तमैः
५.००७.०२६ तर्पयामास मातेव तदा रावणपालिता
५.००७.०२७ स्वर्गोऽयं देवलोकोऽयमिन्द्रस्येयं पुरी भवेत्
५.००७.०२७ सिद्धिर्वेयं परा हि स्यादित्यमन्यत मारुतिः
५.००७.०२८ प्रध्यायत इवापश्यत्प्रदीपांस्तत्र काञ्चनान्
५.००७.०२८ धूर्तानिव महाधूर्तैर्देवनेन पराजितान्
५.००७.०२९ दीपानां च प्रकाशेन तेजसा रावणस्य च
५.००७.०२९ अर्चिर्भिर्भूषणानां च प्रदीप्तेत्यभ्यमन्यत
५.००७.०३० ततोऽपश्यत्कुथासीनं नानावर्णाम्बरस्रजम्
५.००७.०३० सहस्रं वरनारीणां नानावेषविभूषितम्
५.००७.०३१ परिवृत्तेऽर्धरात्रे तु पाननिद्रावशं गतम्
५.००७.०३१ क्रीडित्वोपरतं रात्रौ सुष्वाप बलवत्तदा
५.००७.०३२ तत्प्रसुप्तं विरुरुचे निःशब्दान्तरभूषणम्
५.००७.०३२ निःशब्दहंसभ्रमरं यथा पद्मवनं महत्
५.००७.०३३ तासां संवृतदन्तानि मीलिताक्षाणि मारुतिः
५.००७.०३३ अपश्यत्पद्मगन्धीनि वदनानि सुयोषिताम्
५.००७.०३४ प्रबुद्धानीव पद्मानि तासां भूत्वा क्षपाक्षये
५.००७.०३४ पुनःसंवृतपत्राणि रात्राविव बभुस्तदा
५.००७.०३५ इमानि मुखपद्मानि नियतं मत्तषट्पदाः
५.००७.०३५ अम्बुजानीव फुल्लानि प्रार्थयन्ति पुनः पुनः
५.००७.०३६ इति वामन्यत श्रीमानुपपत्त्या महाकपिः
५.००७.०३६ मेने हि गुणतस्तानि समानि सलिलोद्भवैः
५.००७.०३७ सा तस्य शुशुभे शाला ताभिः स्त्रीभिर्विराजिता
५.००७.०३७ शारदीव प्रसन्ना द्यौस्ताराभिरभिशोभिता
५.००७.०३८ स च ताभिः परिवृतः शुशुभे राक्षसाधिपः
५.००७.०३८ यथा ह्युडुपतिः श्रीमांस्ताराभिरभिसंवृतः
५.००७.०३९ याश्च्यवन्तेऽम्बरात्ताराः पुण्यशेषसमावृताः
५.००७.०३९ इमास्ताः संगताः कृत्स्ना इति मेने हरिस्तदा
५.००७.०४० ताराणामिव सुव्यक्तं महतीनां शुभार्चिषाम्
५.००७.०४० प्रभावर्णप्रसादाश्च विरेजुस्तत्र योषिताम्
५.००७.०४१ व्यावृत्तगुरुपीनस्रक्प्रकीर्णवरभूषणाः
५.००७.०४१ पानव्यायामकालेषु निद्रापहृतचेतसः
५.००७.०४२ व्यावृत्ततिलकाः काश्चित्काश्चिदुद्भ्रान्तनूपुराः
५.००७.०४२ पार्श्वे गलितहाराश्च काश्चित्परमयोषितः
५.००७.०४३ मुखा हारवृताश्चान्याः काश्चित्प्रस्रस्तवाससः
५.००७.०४३ व्याविद्धरशना दामाः किशोर्य इव वाहिताः
५.००७.०४४ सुकुण्डलधराश्चान्या विच्छिन्नमृदितस्रजः
५.००७.०४४ गजेन्द्रमृदिताः फुल्ला लता इव महावने
५.००७.०४५ चन्द्रांशुकिरणाभाश्च हाराः कासां चिदुत्कटाः
५.००७.०४५ हंसा इव बभुः सुप्ताः स्तनमध्येषु योषिताम्
५.००७.०४६ अपरासां च वैदूर्याः कादम्बा इव पक्षिणः
५.००७.०४६ हेमसूत्राणि चान्यासां चक्रवाका इवाभवन्
५.००७.०४७ हंसकारण्डवाकीर्णाश्चक्रवाकोपशोभिताः
५.००७.०४७ आपगा इव ता रेजुर्जघनैः पुलिनैरिव
५.००७.०४८ किङ्किणीजालसंकाशास्ता हेमविपुलाम्बुजाः
५.००७.०४८ भावग्राहा यशस्तीराः सुप्ता नद्य इवाबभुः
५.००७.०४९ मृदुष्वङ्गेषु कासां चित्कुचाग्रेषु च संस्थिताः
५.००७.०४९ बभूवुर्भूषणानीव शुभा भूषणराजयः
५.००७.०५० अंशुकान्ताश्च कासां चिन्मुखमारुतकम्पिताः
५.००७.०५० उपर्युपरि वक्त्राणां व्याधूयन्ते पुनः पुनः
५.००७.०५१ ताः पाताका इवोद्धूताः पत्नीनां रुचिरप्रभाः
५.००७.०५१ नानावर्णसुवर्णानां वक्त्रमूलेषु रेजिरे
५.००७.०५२ ववल्गुश्चात्र कासां चित्कुण्डलानि शुभार्चिषाम्
५.००७.०५२ मुखमारुतसंसर्गान्मन्दं मन्दं सुयोषिताम्
५.००७.०५३ शर्करासवगन्धः स प्रकृत्या सुरभिः सुखः
५.००७.०५३ तासां वदननिःश्वासः सिषेवे रावणं तदा
५.००७.०५४ रावणाननशङ्काश्च काश्चिद्रावणयोषितः
५.००७.०५४ मुखानि स्म सपत्नीनामुपाजिघ्रन् पुनः पुनः
५.००७.०५५ अत्यर्थं सक्तमनसो रावणे ता वरस्त्रियः
५.००७.०५५ अस्वतन्त्राः सपत्नीनां प्रियमेवाचरंस्तदा
५.००७.०५६ बाहूनुपनिधायान्याः पारिहार्य विभूषिताः
५.००७.०५६ अंशुकानि च रम्याणि प्रमदास्तत्र शिश्यिरे
५.००७.०५७ अन्या वक्षसि चान्यस्यास्तस्याः का चित्पुनर्भुजम्
५.००७.०५७ अपरा त्वङ्कमन्यस्यास्तस्याश्चाप्यपरा भुजौ
५.००७.०५८ ऊरुपार्श्वकटीपृष्ठमन्योन्यस्य समाश्रिताः
५.००७.०५८ परस्परनिविष्टाङ्ग्यो मदस्नेहवशानुगाः
५.००७.०५९ अन्योन्यस्याङ्गसंस्पर्शात्प्रीयमाणाः सुमध्यमाः
५.००७.०५९ एकीकृतभुजाः सर्वाः सुषुपुस्तत्र योषितः
५.००७.०६० अन्योन्यभुजसूत्रेण स्त्रीमालाग्रथिता हि सा
५.००७.०६० मालेव ग्रथिता सूत्रे शुशुभे मत्तषट्पदा
५.००७.०६१ लतानां माधवे मासि फुल्लानां वायुसेवनात्
५.००७.०६१ अन्योन्यमालाग्रथितं संसक्तकुसुमोच्चयम्
५.००७.०६२ व्यतिवेष्टितसुस्कन्थमन्योन्यभ्रमराकुलम्
५.००७.०६२ आसीद्वनमिवोद्धूतं स्त्रीवनं रावणस्य तत्
५.००७.०६३ उचितेष्वपि सुव्यक्तं न तासां योषितां तदा
५.००७.०६३ विवेकः शक्य आधातुं भूषणाङ्गाम्बरस्रजाम्
५.००७.०६४ रावणे सुखसंविष्टे ताः स्त्रियो विविधप्रभाः
५.००७.०६४ ज्वलन्तः काञ्चना दीपाः प्रेक्षन्तानिमिषा इव
५.००७.०६५ राजर्षिपितृदैत्यानां गन्धर्वाणां च योषितः
५.००७.०६५ रक्षसां चाभवन् कन्यास्तस्य कामवशं गताः
५.००७.०६६ न तत्र का चित्प्रमदा प्रसह्य॑ वीर्योपपन्नेन गुणेन लब्धा
५.००७.०६६ न चान्यकामापि न चान्यपूर्वा॑ विना वरार्हां जनकात्मजां तु
५.००७.०६७ न चाकुलीना न च हीनरूपा॑ नादक्षिणा नानुपचार युक्ता
५.००७.०६७ भार्याभवत्तस्य न हीनसत्त्वा॑ न चापि कान्तस्य न कामनीया
५.००७.०६८ बभूव बुद्धिस्तु हरीश्वरस्य॑ यदीदृशी राघवधर्मपत्नी
५.००७.०६८ इमा यथा राक्षसराजभार्याः॑ सुजातमस्येति हि साधुबुद्धेः
५.००७.०६९ पुनश्च सोऽचिन्तयदार्तरूपो॑ ध्रुवं विशिष्टा गुणतो हि सीता
५.००७.०६९ अथायमस्यां कृतवान्महात्मा॑ लङ्केश्वरः कष्टमनार्यकर्म
५.००८.००१ तत्र दिव्योपमं मुख्यं स्फाटिकं रत्नभूषितम्
५.००८.००१ अवेक्षमाणो हनुमान् ददर्श शयनासनम्
५.००८.००२ तस्य चैकतमे देशे सोऽग्र्यमाल्यविभूषितम्
५.००८.००२ ददर्श पाण्डुरं छत्रं ताराधिपतिसंनिभम्
५.००८.००३ बालव्यजनहस्ताभिर्वीज्यमानं समन्ततः
५.००८.००३ गन्धैश्च विविधैर्जुष्टं वरधूपेन धूपितम्
५.००८.००४ परमास्तरणास्तीर्णमाविकाजिनसंवृतम्
५.००८.००४ दामभिर्वरमाल्यानां समन्तादुपशोभितम्
५.००८.००५ तस्मिञ्जीमूतसंकाशं प्रदीप्तोत्तमकुण्डलम्
५.००८.००५ लोहिताक्षं महाबाहुं महारजतवाससं
५.००८.००६ लोहितेनानुलिप्ताङ्गं चन्दनेन सुगन्धिना
५.००८.००६ संध्यारक्तमिवाकाशे तोयदं सतडिद्गुणम्
५.००८.००७ वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम्
५.००८.००७ सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम्
५.००८.००८ क्रीडित्वोपरतं रात्रौ वराभरणभूषितम्
५.००८.००८ प्रियं राक्षसकन्यानां राक्षसानां सुखावहम्
५.००८.००९ पीत्वाप्युपरतं चापि ददर्श स महाकपिः
५.००८.००९ भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम्
५.००८.०१० निःश्वसन्तं यथा नागं रावणं वानरोत्तमः
५.००८.०१० आसाद्य परमोद्विग्नः सोऽपासर्पत्सुभीतवत्
५.००८.०११ अथारोहणमासाद्य वेदिकान्तरमाश्रितः
५.००८.०११ सुप्तं राक्षसशार्दूलं प्रेक्षते स्म महाकपिः
५.००८.०१२ शुशुभे राक्षसेन्द्रस्य स्वपतः शयनोत्तमम्
५.००८.०१२ गन्धहस्तिनि संविष्टे यथाप्रस्रवणं महत्
५.००८.०१३ काञ्चनाङ्गदनद्धौ च ददर्श स महात्मनः
५.००८.०१३ विक्षिप्तौ राक्षसेन्द्रस्य भुजाविन्द्रध्वजोपमौ
५.००८.०१४ ऐरावतविषाणाग्रैरापीडितकृतव्रणौ
५.००८.०१४ वज्रोल्लिखितपीनांसौ विष्णुचक्रपरिक्षितौ
५.००८.०१५ पीनौ समसुजातांसौ संगतौ बलसंयुतौ
५.००८.०१५ सुलक्षण नखाङ्गुष्ठौ स्वङ्गुलीतललक्षितौ
५.००८.०१६ संहतौ परिघाकारौ वृत्तौ करिकरोपमौ
५.००८.०१६ विक्षिप्तौ शयने शुभ्रे पञ्चशीर्षाविवोरगौ
५.००८.०१७ शशक्षतजकल्पेन सुशीतेन सुगन्धिना
५.००८.०१७ चन्दनेन परार्ध्येन स्वनुलिप्तौ स्वलंकृतौ
५.००८.०१८ उत्तमस्त्रीविमृदितौ गन्धोत्तमनिषेवितौ
५.००८.०१८ यक्षपन्नगगन्धर्वदेवदानवराविणौ
५.००८.०१९ ददर्श स कपिस्तस्य बाहू शयनसंस्थितौ
५.००८.०१९ मन्दरस्यान्तरे सुप्तौ महार्ही रुषिताविव
५.००८.०२० ताभ्यां स परिपूर्णाभ्यां भुजाभ्यां राक्षसाधिपः
५.००८.०२० शुशुभेऽचलसंकाशः शृङ्गाभ्यामिव मन्दरः
५.००८.०२१ चूतपुंनागसुरभिर्बकुलोत्तमसंयुतः
५.००८.०२१ मृष्टान्नरससंयुक्तः पानगन्धपुरःसरः
५.००८.०२२ तस्य राक्षससिंहस्य निश्चक्राम मुखान्महान्
५.००८.०२२ शयानस्य विनिःश्वासः पूरयन्निव तद्गृहम्
५.००८.०२३ मुक्तामणिविचित्रेण काञ्चनेन विराजता
५.००८.०२३ मुकुटेनापवृत्तेन कुण्डलोज्ज्वलिताननम्
५.००८.०२४ रक्तचन्दनदिग्धेन तथा हारेण शोभिता
५.००८.०२४ पीनायतविशालेन वक्षसाभिविराजितम्
५.००८.०२५ पाण्डुरेणापविद्धेन क्षौमेण क्षतजेक्षणम्
५.००८.०२५ महार्हेण सुसंवीतं पीतेनोत्तमवाससा
५.००८.०२६ माषराशिप्रतीकाशं निःश्वसन्तं भुजङ्गवत्
५.००८.०२६ गाङ्गे महति तोयान्ते प्रसुतमिव कुञ्जरम्
५.००८.०२७ चतुर्भिः काञ्चनैर्दीपैर्दीप्यमानैश्चतुर्दिशम्
५.००८.०२७ प्रकाशीकृतसर्वाङ्गं मेघं विद्युद्गणैरिव
५.००८.०२८ पादमूलगताश्चापि ददर्श सुमहात्मनः
५.००८.०२८ पत्नीः स प्रियभार्यस्य तस्य रक्षःपतेर्गृहे
५.००८.०२९ शशिप्रकाशवदना वरकुण्डलभूषिताः
५.००८.०२९ अम्लानमाल्याभरणा ददर्श हरियूथपः
५.००८.०३० नृत्तवादित्रकुशला राक्षसेन्द्रभुजाङ्कगाः
५.००८.०३० वराभरणधारिण्यो निषन्ना ददृशे कपिः
५.००८.०३१ वज्रवैदूर्यगर्भाणि श्रवणान्तेषु योषिताम्
५.००८.०३१ ददर्श तापनीयानि कुण्डलान्यङ्गदानि च
५.००८.०३२ तासां चन्द्रोपमैर्वक्त्रैः शुभैर्ललितकुण्डलैः
५.००८.०३२ विरराज विमानं तन्नभस्तारागणैरिव
५.००८.०३३ मदव्यायामखिन्नास्ता राक्षसेन्द्रस्य योषितः
५.००८.०३३ तेषु तेष्ववकाशेषु प्रसुप्तास्तनुमध्यमाः
५.००८.०३४ का चिद्वीणां परिष्वज्य प्रसुप्ता संप्रकाशते
५.००८.०३४ महानदीप्रकीर्णेव नलिनी पोतमाश्रिता
५.००८.०३५ अन्या कक्षगतेनैव मड्डुकेनासितेक्षणा
५.००८.०३५ प्रसुप्ता भामिनी भाति बालपुत्रेव वत्सला
५.००८.०३६ पटहं चारुसर्वाङ्गी पीड्य शेते शुभस्तनी
५.००८.०३६ चिरस्य रमणं लब्ध्वा परिष्वज्येव कामिनी
५.००८.०३७ का चिदंशं परिष्वज्य सुप्ता कमललोचना
५.००८.०३७ निद्रावशमनुप्राप्ता सहकान्तेव भामिनी
५.००८.०३८ अन्या कनकसंकाशैर्मृदुपीनैर्मनोरमैः
५.००८.०३८ मृदङ्गं परिपीड्याङ्गैः प्रसुप्ता मत्तलोचना
५.००८.०३९ भुजपार्श्वान्तरस्थेन कक्षगेण कृशोदरी
५.००८.०३९ पणवेन सहानिन्द्या सुप्ता मदकृतश्रमा
५.००८.०४० डिण्डिमं परिगृह्यान्या तथैवासक्तडिण्डिमा
५.००८.०४० प्रसुप्ता तरुणं वत्समुपगूह्येव भामिनी
५.००८.०४१ का चिदाडम्बरं नारी भुजसंभोगपीडितम्
५.००८.०४१ कृत्वा कमलपत्राक्षी प्रसुप्ता मदमोहिता
५.००८.०४२ कलशीमपविद्ध्यान्या प्रसुप्ता भाति भामिनी
५.००८.०४२ वसन्ते पुष्पशबला मालेव परिमार्जिता
५.००८.०४३ पाणिभ्यां च कुचौ का चित्सुवर्णकलशोपमौ
५.००८.०४३ उपगूह्याबला सुप्ता निद्राबलपराजिता
५.००८.०४४ अन्या कमलपत्राक्षी पूर्णेन्दुसदृशानना
५.००८.०४४ अन्यामालिङ्ग्य सुश्रोणी प्रसुप्ता मदविह्वला
५.००८.०४५ आतोद्यानि विचित्राणि परिष्वज्य वरस्त्रियः
५.००८.०४५ निपीड्य च कुचैः सुप्ताः कामिन्यः कामुकानिव
५.००८.०४६ तासामेकान्तविन्यस्ते शयानां शयने शुभे
५.००८.०४६ ददर्श रूपसंपन्नामपरां स कपिः स्त्रियम्
५.००८.०४७ मुक्तामणिसमायुक्तैर्भूषणैः सुविभूषिताम्
५.००८.०४७ विभूषयन्तीमिव च स्वश्रिया भवनोत्तमम्
५.००८.०४८ गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम्
५.००८.०४८ कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम्
५.००८.०४९ स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः
५.००८.०४९ तर्कयामास सीतेति रूपयौवनसंपदा
५.००८.०४९ हर्षेण महता युक्तो ननन्द हरियूथपः
५.००८.०५० आस्ह्पोटयामास चुचुम्ब पुच्छं॑ ननन्द चिक्रीड जगौ जगाम
५.००८.०५० स्तम्भानरोहन्निपपात भूमौ॑ निदर्शयन् स्वां प्रकृतिं कपीनाम्
५.००९.००१ अवधूय च तां बुद्धिं बभूवावस्थितस्तदा
५.००९.००१ जगाम चापरां चिन्तां सीतां प्रति महाकपिः
५.००९.००२ न रामेण वियुक्ता सा स्वप्तुमर्हति भामिनी
५.००९.००२ न भोक्तुं नाप्यलंकर्तुं न पानमुपसेवितुम्
५.००९.००३ नान्यं नरमुपस्थातुं सुराणामपि चेश्वरम्
५.००९.००३ न हि रामसमः कश्चिद्विद्यते त्रिदशेष्वपि
५.००९.००३ अन्येयमिति निश्चित्य पानभूमौ चचार सः
५.००९.००४ क्रीडितेनापराः क्लान्ता गीतेन च तथा पराः
५.००९.००४ नृत्तेन चापराः क्लान्ताः पानविप्रहतास्तथा
५.००९.००५ मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः
५.००९.००५ तथास्तरणमुख्य्येषु संविष्टाश्चापराः स्त्रियः
५.००९.००६ अङ्गनानां सहस्रेण भूषितेन विभूषणैः
५.००९.००६ रूपसंलापशीलेन युक्तगीतार्थभाषिणा
५.००९.००७ देशकालाभियुक्तेन युक्तवाक्याभिधायिना
५.००९.००७ रताभिरतसंसुप्तं ददर्श हरियूथपः
५.००९.००८ तासां मध्ये महाबाहुः शुशुभे राक्षसेश्वरः
५.००९.००८ गोष्ठे महति मुख्यानां गवां मध्ये यथा वृषः
५.००९.००९ स राक्षसेन्द्रः शुशुभे ताभिः परिवृतः स्वयम्
५.००९.००९ करेणुभिर्यथारण्यं परिकीर्णो महाद्विपः
५.००९.०१० सर्वकामैरुपेतां च पानभूमिं महात्मनः
५.००९.०१० ददर्श कपिशार्दूलस्तस्य रक्षःपतेर्गृहे
५.००९.०११ मृगाणां महिषाणां च वराहाणां च भागशः
५.००९.०११ तत्र न्यस्तानि मांसानि पानभूमौ ददर्श सः
५.००९.०१२ रौक्मेषु च विशलेषु भाजनेष्वर्धभक्षितान्
५.००९.०१२ ददर्श कपिशार्दूल मयूरान् कुक्कुटांस्तथा
५.००९.०१३ वराहवार्ध्राणसकान् दधिसौवर्चलायुतान्
५.००९.०१३ शल्यान्मृगमयूरांश्च हनूमानन्ववैक्षत
५.००९.०१४ कृकरान् विविधान् सिद्धांश्चकोरानर्धभक्षितान्
५.००९.०१४ महिषानेकशल्यांश्च छागांश्च कृतनिष्ठितान्
५.००९.०१४ लेख्यमुच्चावचं पेयं भोज्यानि विविधानि च
५.००९.०१५ तथाम्ललवणोत्तंसैर्विविधै रागषाडवैः
५.००९.०१५ हार नूपुरकेयूरैरपविद्धैर्महाधनैः
५.००९.०१६ पानभाजनविक्षिप्तैः फलैश्च विविधैरपि
५.००९.०१६ कृतपुष्पोपहारा भूरधिकं पुष्यति श्रियम्
५.००९.०१७ तत्र तत्र च विन्यस्तैः सुश्लिष्टैः शयनासनैः
५.००९.०१७ पानभूमिर्विना वह्निं प्रदीप्तेवोपलक्ष्यते
५.००९.०१८ बहुप्रकारैर्विविधैर्वरसंस्कारसंस्कृतैः
५.००९.०१८ मांसैः कुशलसंयुक्तैः पानभूमिगतैः पृथक्
५.००९.०१९ दिव्याः प्रसन्ना विविधाः सुराः कृतसुरा अपि
५.००९.०१९ शर्करासवमाध्वीकाः पुष्पासवफलासवाः
५.००९.०१९ वासचूर्णैश्च विविधैर्मृष्टास्तैस्तैः पृथक्पृथक्
५.००९.०२० संतता शुशुभे भूमिर्माल्यैश्च बहुसंस्थितैः
५.००९.०२० हिरण्मयैश्च करकैर्भाजनैः स्फाटिकैरपि
५.००९.०२० जाम्बूनदमयैश्चान्यैः करकैरभिसंवृता
५.००९.०२१ राजतेषु च कुम्भेषु जाम्बूनदमयेषु च
५.००९.०२१ पानश्रेष्ठं तदा भूरि कपिस्तत्र ददर्श ह
५.००९.०२२ सोऽपश्यच्छातकुम्भानि शीधोर्मणिमयानि च
५.००९.०२२ राजतानि च पूर्णानि भाजनानि महाकपिः
५.००९.०२३ क्व चिदर्धावशेषाणि क्व चित्पीतानि सर्वशः
५.००९.०२३ क्व चिन्नैव प्रपीतानि पानानि स ददर्श ह
५.००९.०२४ क्व चिद्भक्ष्यांश्च विविधान् क्व चित्पानानि भागशः
५.००९.०२४ क्व चिदन्नावशेषाणि पश्यन् वै विचचार ह
५.००९.०२५ क्व चित्प्रभिन्नैः करकैः क्व चिदालोडितैर्घटैः
५.००९.०२५ क्व चित्संपृक्तमाल्यानि जलानि च फलानि च
५.००९.०२६ शयनान्यत्र नारीणां शून्यानि बहुधा पुनः
५.००९.०२६ परस्परं समाश्लिष्य काश्चित्सुप्ता वराङ्गनाः
५.००९.०२७ का चिच्च वस्त्रमन्यस्या अपहृत्योपगुह्य च
५.००९.०२७ उपगम्याबला सुप्ता निद्राबलपराजिता
५.००९.०२८ तासामुच्छ्वासवातेन वस्त्रं माल्यं च गात्रजम्
५.००९.०२८ नात्यर्थं स्पन्दते चित्रं प्राप्य मन्दमिवानिलम्
५.००९.०२९ चन्दनस्य च शीतस्य शीधोर्मधुरसस्य च
५.००९.०२९ विविधस्य च माल्यस्य पुष्पस्य विविधस्य च
५.००९.०३० बहुधा मारुतस्तत्र गन्धं विविधमुद्वहन्
५.००९.०३० स्नानानां चन्दनानां च धूपानां चैव मूर्छितः
५.००९.०३० प्रववौ सुरभिर्गन्धो विमाने पुष्पके तदा
५.००९.०३१ श्यामावदातास्तत्रान्याः काश्चित्कृष्णा वराङ्गनाः
५.००९.०३१ काश्चित्काञ्चनवर्णाङ्ग्यः प्रमदा राक्षसालये
५.००९.०३२ तासां निद्रावशत्वाच्च मदनेन विमूर्छितम्
५.००९.०३२ पद्मिनीनां प्रसुप्तानां रूपमासीद्यथैव हि
५.००९.०३३ एवं सर्वमशेषेण रावणान्तःपुरं कपिः
५.००९.०३३ ददर्श सुमहातेजा न ददर्श च जानकीम्
५.००९.०३४ निरीक्षमाणश्च ततस्ताः स्त्रियः स महाकपिः
५.००९.०३४ जगाम महतीं चिन्तां धर्मसाध्वसशङ्कितः
५.००९.०३५ परदारावरोधस्य प्रसुप्तस्य निरीक्षणम्
५.००९.०३५ इदं खलु ममात्यर्थं धर्मलोपं करिष्यति
५.००९.०३६ न हि मे परदाराणां दृष्टिर्विषयवर्तिनी
५.००९.०३६ अयं चात्र मया दृष्टः परदारपरिग्रहः
५.००९.०३७ तस्य प्रादुरभूच्चिन्तापुनरन्या मनस्विनः
५.००९.०३७ निश्चितैकान्तचित्तस्य कार्यनिश्चयदर्शिनी
५.००९.०३८ कामं दृष्ट्वा मया सर्वा विश्वस्ता रावणस्त्रियः
५.००९.०३८ न तु मे मनसः किं चिद्वैकृत्यमुपपद्यते
५.००९.०३९ मनो हि हेतुः सर्वेषामिन्द्रियाणां प्रवर्तते
५.००९.०३९ शुभाशुभास्ववस्थासु तच्च मे सुव्यवस्थितम्
५.००९.०४० नान्यत्र हि मया शक्या वैदेही परिमार्गितुम्
५.००९.०४० स्त्रियो हि स्त्रीषु दृश्यन्ते सदा संपरिमार्गणे
५.००९.०४१ यस्य सत्त्वस्य या योनिस्तस्यां तत्परिमार्ग्यते
५.००९.०४१ न शक्यं प्रमदा नष्टा मृगीषु परिमार्गितुम्
५.००९.०४२ तदिदं मार्गितं तावच्छुद्धेन मनसा मया
५.००९.०४२ रावणान्तःपुरं सरं दृश्यते न च जानकी
५.००९.०४३ देवगन्धर्वकन्याश्च नागकन्याश्च वीर्यवान्
५.००९.०४३ अवेक्षमाणो हनुमान्नैवापश्यत जानकीम्
५.००९.०४४ तामपश्यन् कपिस्तत्र पश्यंश्चान्या वरस्त्रियः
५.००९.०४४ अपक्रम्य तदा वीरः प्रध्यातुमुपचक्रमे
५.०१०.००१ स तस्य मध्ये भवनस्य वानरो॑ लतागृहांश्चित्रगृहान्निशागृहान्
५.०१०.००१ जगाम सीतां प्रति दर्शनोत्सुको॑ न चैव तां पश्यति चारुदर्शनाम्
५.०१०.००२ स चिन्तयामास ततो महाकपिः॑ प्रियामपश्यन् रघुनन्दनस्य ताम्
५.०१०.००२ ध्रुवं नु सीता म्रियते यथा न मे॑ विचिन्वतो दर्शनमेति मैथिली
५.०१०.००३ सा राक्षसानां प्रवरेण बाला॑ स्वशीलसंरक्षण तत्परा सती
५.०१०.००३ अनेन नूनं प्रतिदुष्टकर्मणा॑ हता भवेदार्यपथे परे स्थिता
५.०१०.००४ विरूपरूपा विकृता विवर्चसो॑ महानना दीर्घविरूपदर्शनाः
५.०१०.००४ समीक्ष्य सा राक्षसराजयोषितो॑ भयाद्विनष्टा जनकेश्वरात्मजा
५.०१०.००५ सीतामदृष्ट्वा ह्यनवाप्य पौरुषं॑ विहृत्य कालं सह वानरैश्चिरम्
५.०१०.००५ न मेऽस्ति सुग्रीवसमीपगा गतिः॑ सुतीक्ष्णदण्डो बलवांश्च वानरः
५.०१०.००६ दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः
५.०१०.००६ न सीता दृश्यते साध्वी वृथा जातो मम श्रमः
५.०१०.००७ किं नु मां वानराः सर्वे गतं वक्ष्यन्ति संगताः
५.०१०.००७ गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः
५.०१०.००८ अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम्
५.०१०.००८ ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने
५.०१०.००९ किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः
५.०१०.००९ गतं पारं समुद्रस्य वानराश्च समागताः
५.०१०.०१० अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्
५.०१०.०१० भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः
५.०१०.०११ अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः
५.०१०.०११ करोति सफलं जन्तोः कर्म यच्च करोति सः
५.०१०.०१२ तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम्
५.०१०.०१२ अदृष्टांश्च विचेष्यामि देशान् रावणपालितान्
५.०१०.०१३ आपानशालाविचितास्तथा पुष्पगृहाणि च
५.०१०.०१३ चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च
५.०१०.०१४ निष्कुटान्तररथ्याश्च विमानानि च सर्वशः
५.०१०.०१४ इति संचिन्त्य भूयोऽपि विचेतुमुपचक्रमे
५.०१०.०१५ भूमीगृहांश्चैत्यगृहान् गृहातिगृहकानपि
५.०१०.०१५ उत्पतन्निपतंश्चापि तिष्ठन् गच्छन् पुनः क्व चित्
५.०१०.०१६ अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन्
५.०१०.०१६ प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि
५.०१०.०१६ सर्वमप्यवकाशं स विचचार महाकपिः
५.०१०.०१७ चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते
५.०१०.०१७ रावणान्तःपुरे तस्मिन् यं कपिर्न जगाम सः
५.०१०.०१८ प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः
५.०१०.०१८ श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम्
५.०१०.०१९ राक्षस्यो विविधाकारा विरूपा विकृतास्तथा
५.०१०.०१९ दृष्टा हनूमता तत्र न तु सा जनकात्मजा
५.०१०.०२० रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः
५.०१०.०२० दृटा हनूमता तत्र न तु राघवनन्दिनी
५.०१०.०२१ नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः
५.०१०.०२१ दृष्टा हनूमता तत्र न तु सीता सुमध्यमा
५.०१०.०२२ प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः
५.०१०.०२२ दृष्टा हनूमता तत्र न सा जनकनन्दिनी
५.०१०.०२३ सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः
५.०१०.०२३ विषसाद महाबाहुर्हनूमान्मारुतात्मजः
५.०१०.०२४ उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च
५.०१०.०२४ व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत्
५.०१०.०२५ अवतीर्य विमानाच्च हनूमान्मारुतात्मजः
५.०१०.०२५ चिन्तामुपजगामाथ शोकोपहतचेतनः
५.०११.००१ विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः
५.०११.००१ हनूमान् वेगवानासीद्यथा विद्युद्घनान्तरे
५.०११.००२ संपरिक्रम्य हनुमान् रावणस्य निवेशनान्
५.०११.००२ अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः
५.०११.००३ भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम्
५.०११.००३ न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्
५.०११.००४ पल्वलानि तटाकानि सरांसि सरितस्तथा
५.०११.००४ नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः
५.०११.००४ लोडिता वसुधा सर्वा न च पश्यामि जानकीम्
५.०११.००५ इह संपातिना सीता रावणस्य निवेशने
५.०११.००५ आख्याता गृध्रराजेन न च पश्यामि तामहम्
५.०११.००६ किं नु सीताथ वैदेही मैथिली जनकात्मजा
५.०११.००६ उपतिष्ठेत विवशा रावणं दुष्टचारिणम्
५.०११.००७ क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः
५.०११.००७ बिभ्यतो रामबाणानामन्तरा पतिता भवेत्
५.०११.००८ अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते
५.०११.००८ मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्
५.०११.००९ रावणस्योरुवेगेन भुजाभ्यां पीडितेन च
५.०११.००९ तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया
५.०११.०१० उपर्युपरि वा नूनं सागरं क्रमतस्तदा
५.०११.०१० विवेष्टमाना पतिता समुद्रे जनकात्मजा
५.०११.०११ आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः
५.०११.०११ अबन्धुर्भक्षिता सीता रावणेन तपस्विनी
५.०११.०१२ अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा
५.०११.०१२ अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति
५.०११.०१३ संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्
५.०११.०१३ रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता
५.०११.०१४ हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली
५.०११.०१४ विलप्य बहु वैदेही न्यस्तदेहा भविष्यति
५.०११.०१५ अथ वा निहिता मन्ये रावणस्य निवेशने
५.०११.०१५ नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका
५.०११.०१६ जनकस्य कुले जाता रामपत्नी सुमध्यमा
५.०११.०१६ कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्
५.०११.०१७ विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा
५.०११.०१७ रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्
५.०११.०१८ निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने
५.०११.०१८ कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे
५.०११.०१९ अस्मिन्नेवंगते कर्ये प्राप्तकालं क्षमं च किम्
५.०११.०१९ भवेदिति मतिं भूयो हनुमान् प्रविचारयन्
५.०११.०२० यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः
५.०११.०२० गमिष्यामि ततः को मे पुरुषार्थो भविष्यति
५.०११.०२१ ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति
५.०११.०२१ प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम्
५.०११.०२२ किं वा वक्ष्यति सुग्रीवो हरयो व समागताः
५.०११.०२२ किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ
५.०११.०२३ गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम्
५.०११.०२३ न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम्
५.०११.०२४ परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम्
५.०११.०२४ सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति
५.०११.०२५ तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं
५.०११.०२५ भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः
५.०११.०२६ विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति
५.०११.०२६ भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति
५.०११.०२७ पुत्रान्मृतान् समीक्ष्याथ न भविष्यन्ति मातरः
५.०११.०२७ कौसल्या च सुमित्रा च कैकेयी च न संशयः
५.०११.०२८ कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः
५.०११.०२८ रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम्
५.०११.०२९ दुर्मना व्यथिता दीना निरानन्दा तपस्विनी
५.०११.०२९ पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्
५.०११.०३० वालिजेन तु दुःखेन पीडिता शोककर्शिता
५.०११.०३० पञ्चत्वगमने राज्ञस्तारापि न भविष्यति
५.०११.०३१ मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च
५.०११.०३१ कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम्
५.०११.०३२ भर्तृजेन तु शोकेन अभिभूता वनौकसः
५.०११.०३२ शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च
५.०११.०३३ सान्त्वेनानुप्रदानेन मानेन च यशस्विना
५.०११.०३३ लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः
५.०११.०३४ न वनेषु न शैलेषु न निरोधेषु वा पुनः
५.०११.०३४ क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः
५.०११.०३५ सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः
५.०११.०३५ शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च
५.०११.०३६ विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा
५.०११.०३६ उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः
५.०११.०३७ घोरमारोदनं मन्ये गते मयि भविष्यति
५.०११.०३७ इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्
५.०११.०३८ सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः
५.०११.०३८ न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना
५.०११.०३९ मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ
५.०११.०३९ आशया तौ धरिष्येते वनराश्च मनस्विनः
५.०११.०४० हस्तादानो मुखादानो नियतो वृक्षमूलिकः
५.०११.०४० वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम्
५.०११.०४१ सागरानूपजे देशे बहुमूलफलोदके
५.०११.०४१ चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्
५.०११.०४२ उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः
५.०११.०४२ शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च
५.०११.०४३ इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः
५.०११.०४३ सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम्
५.०११.०४४ सुजातमूला सुभगा कीर्तिमालायशस्विनी
५.०११.०४४ प्रभग्ना चिररात्रीयं मम सीतामपश्यतः
५.०११.०४५ तापसो वा भविष्यामि नियतो वृक्षमूलिकः
५.०११.०४५ नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्
५.०११.०४६ यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम्
५.०११.०४६ अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति
५.०११.०४७ विनाशे बहवो दोषा जीवन् प्राप्नोति भद्रकम्
५.०११.०४७ तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवति संगमः
५.०११.०४८ एवं बहुविधं दुःखं मनसा धारयन्मुहुः
५.०११.०४८ नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः
५.०११.०४९ रावणं वा वधिष्यामि दशग्रीवं महाबलम्
५.०११.०४९ काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति
५.०११.०५० अथवैनं समुत्क्षिप्य उपर्युपरि सागरम्
५.०११.०५० रामायोपहरिष्यामि पशुं पशुपतेरिव
५.०११.०५१ इति चिन्ता समापन्नः सीतामनधिगम्य ताम्
५.०११.०५१ ध्यानशोका परीतात्मा चिन्तयामास वानरः
५.०११.०५२ यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम्
५.०११.०५२ तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः
५.०११.०५३ संपाति वचनाच्चापि रामं यद्यानयाम्यहम्
५.०११.०५३ अपश्यन् राघवो भार्यां निर्दहेत्सर्ववानरान्
५.०११.०५४ इहैव नियताहारो वत्स्यामि नियतेन्द्रियः
५.०११.०५४ न मत्कृते विनश्येयुः सर्वे ते नरवानराः
५.०११.०५५ अशोकवनिका चापि महतीयं महाद्रुमा
५.०११.०५५ इमामभिगमिष्यामि न हीयं विचिता मया
५.०११.०५६ वसून् रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च
५.०११.०५६ नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः
५.०११.०५७ जित्वा तु राक्षसान् देवीमिक्ष्वाकुकुलनन्दिनीम्
५.०११.०५७ संप्रदास्यामि रामाया यथासिद्धिं तपस्विने
५.०११.०५८ स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः
५.०११.०५८ उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः
५.०११.०५९ नमोऽस्तु रामाय सलक्ष्मणाय॑ देव्यै च तस्यै जनकात्मजायै
५.०११.०५९ नमोऽस्तु रुद्रेन्द्रयमानिलेभ्यो॑ नमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः
५.०११.०६० स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः
५.०११.०६० दिशः सर्वाः समालोक्य अशोकवनिकां प्रति
५.०११.०६१ स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्
५.०११.०६१ उत्तरं चिन्तयामास वानरो मारुतात्मजः
५.०११.०६२ ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला
५.०११.०६२ अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता
५.०११.०६३ रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्
५.०११.०६३ भगवानपि सर्वात्मा नातिक्षोभं प्रवायति
५.०११.०६४ संक्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च
५.०११.०६४ सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह
५.०११.०६५ ब्रह्मा स्वयम्भूर्भगवान् देवाश्चैव दिशन्तु मे
५.०११.०६५ सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत्
५.०११.०६६ वरुणः पाशहस्तश्च सोमादित्यै तथैव च
५.०११.०६६ अश्विनौ च महात्मानौ मरुतः सर्व एव च
५.०११.०६७ सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः
५.०११.०६७ दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः
५.०११.०६८ तदुन्नसं पाण्डुरदन्तमव्रणं॑ शुचिस्मितं पद्मपलाशलोचनम्
५.०११.०६८ द्रक्ष्ये तदार्यावदनं कदा न्वहं॑ प्रसन्नताराधिपतुल्यदर्शनम्
५.०११.०६९ क्षुद्रेण पापेन नृशंसकर्मणा॑ सुदारुणालांकृतवेषधारिणा
५.०११.०६९ बलाभिभूता अबला तपस्विनी॑ कथं नु मे दृष्टपथेऽद्य सा भवेत्
५.०१२.००१ स मुहूर्तमिव ध्यत्वा मनसा चाधिगम्य ताम्
५.०१२.००१ अवप्लुतो महातेजाः प्राकारं तस्य वेश्मनः
५.०१२.००२ स तु संहृष्टसर्वाङ्गः प्राकारस्थो महाकपिः
५.०१२.००२ पुष्पिताग्रान् वसन्तादौ ददर्श विविधान् द्रुमान्
५.०१२.००३ सालानशोकान् भव्यांश्च चम्पकांश्च सुपुष्पितान्
५.०१२.००३ उद्दालकान्नागवृक्षांश्चूतान् कपिमुखानपि
५.०१२.००४ अथाम्रवणसंछन्नां लताशतसमावृताम्
५.०१२.००४ ज्यामुक्त इव नाराचः पुप्लुवे वृक्षवाटिकाम्
५.०१२.००५ स प्रविष्य विचित्रां तां विहगैरभिनादिताम्
५.०१२.००५ राजतैः काञ्चनैश्चैव पादपैः सर्वतोवृताम्
५.०१२.००६ विहगैर्मृगसंघैश्च विचित्रां चित्रकाननाम्
५.०१२.००६ उदितादित्यसंकाशां ददर्श हनुमान् कपिः
५.०१२.००७ वृतां नानाविधैर्वृक्षैः पुष्पोपगफलोपगैः
५.०१२.००७ कोकिलैर्भृङ्गराजैश्च मत्तैर्नित्यनिषेविताम्
५.०१२.००८ प्रहृष्टमनुजे कले मृगपक्षिसमाकुले
५.०१२.००८ मत्तबर्हिणसंघुष्टां नानाद्विजगणायुताम्
५.०१२.००९ मार्गमाणो वरारोहां राजपुत्रीमनिन्दिताम्
५.०१२.००९ सुखप्रसुप्तान् विहगान् बोधयामास वानरः
५.०१२.०१० उत्पतद्भिर्द्विजगणैः पक्षैः सालाः समाहताः
५.०१२.०१० अनेकवर्णा विविधा मुमुचुः पुष्पवृष्टयः
५.०१२.०११ पुष्पावकीर्णः शुशुभे हनुमान्मारुतात्मजः
५.०१२.०११ अशोकवनिकामध्ये यथा पुष्पमयो गिरिः
५.०१२.०१२ दिशः सर्वाभिदावन्तं वृक्षषण्डगतं कपिम्
५.०१२.०१२ दृष्ट्वा सर्वाणि भूतानि वसन्त इति मेनिरे
५.०१२.०१३ वृक्षेभ्यः पतितैः पुष्पैरवकीर्णा पृथग्विधैः
५.०१२.०१३ रराज वसुधा तत्र प्रमदेव विभूषिता
५.०१२.०१४ तरस्विना ते तरवस्तरसाभिप्रकम्पिताः
५.०१२.०१४ कुसुमानि विचित्राणि ससृजुः कपिना तदा
५.०१२.०१५ निर्धूतपत्रशिखराः शीर्णपुष्पफलद्रुमाः
५.०१२.०१५ निक्षिप्तवस्त्राभरणा धूर्ता इव पराजिताः
५.०१२.०१६ हनूमता वेगवता कम्पितास्ते नगोत्तमाः
५.०१२.०१६ पुष्पपर्णफलान्याशु मुमुचुः पुष्पशालिनः
५.०१२.०१७ विहंगसंघैर्हीनास्ते स्कन्धमात्राश्रया द्रुमाः
५.०१२.०१७ बभूवुरगमाः सर्वे मारुतेनेव निर्धुताः
५.०१२.०१८ विधूतकेशी युवतिर्यथा मृदितवर्णिका
५.०१२.०१८ निष्पीतशुभदन्तौष्ठी नखैर्दन्तैश्च विक्षता
५.०१२.०१९ तथा लाङ्गूलहस्तैश्च चरणाभ्यां च मर्दिता
५.०१२.०१९ बभूवाशोकवनिका प्रभग्नवरपादपा
५.०१२.०२० महालतानां दामानि व्यधमत्तरसा कपिः
५.०१२.०२० यथा प्रावृषि विन्ध्यस्य मेघजालानि मारुतः
५.०१२.०२१ स तत्र मणिभूमीश्च राजतीश्च मनोरमाः
५.०१२.०२१ तथा काञ्चनभूमीश्च विचरन् ददृशे कपिः
५.०१२.०२२ वापीश्च विविधाकाराः पूर्णाः परमवारिणा
५.०१२.०२२ महार्हैर्मणिसोपानैरुपपन्नास्ततस्ततः
५.०१२.०२३ मुक्ताप्रवालसिकता स्फटिकान्तरकुट्टिमाः
५.०१२.०२३ काञ्चनैस्तरुभिश्चित्रैस्तीरजैरुपशोभिताः
५.०१२.०२४ फुल्लपद्मोत्पलवनाश्चक्रवाकोपकूजिताः
५.०१२.०२४ नत्यूहरुतसंघुष्टा हंससारसनादिताः
५.०१२.०२५ दीर्घाभिर्द्रुमयुक्ताभिः सरिद्भिश्च समन्ततः
५.०१२.०२५ अमृतोपमतोयाभिः शिवाभिरुपसंस्कृताः
५.०१२.०२६ लताशतैरवतताः सन्तानकसमावृताः
५.०१२.०२६ नानागुल्मावृतवनाः करवीरकृतान्तराः
५.०१२.०२७ ततोऽम्बुधरसंकाशं प्रवृद्धशिखरं गिरिम्
५.०१२.०२७ विचित्रकूटं कूटैश्च सर्वतः परिवारितम्
५.०१२.०२८ शिलागृहैरवततं नानावृक्षैः समावृतम्
५.०१२.०२८ ददर्श कपिशार्दूलो रम्यं जगति पर्वतम्
५.०१२.०२९ ददर्श च नगात्तस्मान्नदीं निपतितां कपिः
५.०१२.०२९ अङ्कादिव समुत्पत्य प्रियस्य पतितां प्रियाम्
५.०१२.०३० जले निपतिताग्रैश्च पादपैरुपशोभिताम्
५.०१२.०३० वार्यमाणामिव क्रुद्धां प्रमदां प्रियबन्धुभिः
५.०१२.०३१ पुनरावृत्ततोयां च ददर्श स महाकपिः
५.०१२.०३१ प्रसन्नामिव कान्तस्य कान्तां पुनरुपस्थिताम्
५.०१२.०३२ तस्यादूरात्स पद्मिन्यो नानाद्विजगणायुताः
५.०१२.०३२ ददर्श कपिशार्दूलो हनुमान्मारुतात्मजः
५.०१२.०३३ कृत्रिमां दीर्घिकां चापि पूर्णां शीतेन वारिणा
५.०१२.०३३ मणिप्रवरसोपानां मुक्तासिकतशोभिताम्
५.०१२.०३४ विविधैर्मृगसंघैश्च विचित्रां चित्रकाननाम्
५.०१२.०३४ प्रासादैः सुमहद्भिश्च निर्मितैर्विश्वकर्मणा
५.०१२.०३४ काननैः कृत्रिमैश्चापि सर्वतः समलंकृताम्
५.०१२.०३५ ये के चित्पादपास्तत्र पुष्पोपगफलोपगाः
५.०१२.०३५ सच्छत्राः सवितर्दीकाः सर्वे सौवर्णवेदिकाः
५.०१२.०३६ लताप्रतानैर्बहुभिः पर्णैश्च बहुभिर्वृताम्
५.०१२.०३६ काञ्चनीं शिंशुपामेकां ददर्श स महाकपिः
५.०१२.०३७ सोऽपश्यद्भूमिभागांश्च गर्तप्रस्रवणानि च
५.०१२.०३७ सुवर्णवृक्षानपरान् ददर्श शिखिसंनिभान्
५.०१२.०३८ तेषां द्रुमाणां प्रभया मेरोरिव महाकपिः
५.०१२.०३८ अमन्यत तदा वीरः काञ्चनोऽस्मीति वानरः
५.०१२.०३९ तां काञ्चनैस्तरुगणैर्मारुतेन च वीजिताम्
५.०१२.०३९ किङ्किणीशतनिर्घोषां दृष्ट्वा विस्मयमागमत्
५.०१२.०४० सुपुष्पिताग्रां रुचिरां तरुणाङ्कुरपल्लवाम्
५.०१२.०४० तामारुह्य महावेगः शिंशपां पर्णसंवृताम्
५.०१२.०४१ इतो द्रक्ष्यामि वैदेहीं राम दर्शनलालसाम्
५.०१२.०४१ इतश्चेतश्च दुःखार्तां संपतन्तीं यदृच्छया
५.०१२.०४२ अशोकवनिका चेयं दृढं रम्या दुरात्मनः
५.०१२.०४२ चम्पकैश्चन्दनैश्चापि बकुलैश्च विभूषिता
५.०१२.०४३ इयं च नलिनी रम्या द्विजसंघनिषेविता
५.०१२.०४३ इमां सा राममहिषी नूनमेष्यति जानकी
५.०१२.०४४ सा राम राममहिषी राघवस्य प्रिया सदा
५.०१२.०४४ वनसंचारकुशला नूनमेष्यति जानकी
५.०१२.०४५ अथ वा मृगशावाक्षी वनस्यास्य विचक्षणा
५.०१२.०४५ वनमेष्यति सा चेह रामचिन्तानुकर्शिता
५.०१२.०४६ रामशोकाभिसंतप्ता सा देवी वामलोचना
५.०१२.०४६ वनवासरता नित्यमेष्यते वनचारिणी
५.०१२.०४७ वनेचराणां सततं नूनं स्पृहयते पुरा
५.०१२.०४७ रामस्य दयिता भार्या जनकस्य सुता सती
५.०१२.०४८ संध्याकालमनाः श्यामा ध्रुवमेष्यति जानकी
५.०१२.०४८ नदीं चेमां शिवजलां संध्यार्थे वरवर्णिनी
५.०१२.०४९ तस्याश्चाप्यनुरूपेयमशोकवनिका शुभा
५.०१२.०४९ शुभा या पार्थिवेन्द्रस्य पत्नी रामस्य संमिता
५.०१२.०५० यदि जिवति सा देवी ताराधिपनिभानना
५.०१२.०५० आगमिष्यति सावश्यमिमां शिवजलां नदीम्
५.०१२.०५१ एवं तु मत्वा हनुमान्महात्मा॑ प्रतीक्षमाणो मनुजेन्द्रपत्नीम्
५.०१२.०५१ अवेक्षमाणश्च ददर्श सर्वं॑ सुपुष्पिते पर्णघने निलीनः
५.०१३.००१ स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्
५.०१३.००१ अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत
५.०१३.००२ सन्तान कलताभिश्च पादपैरुपशोभिताम्
५.०१३.००२ दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्
५.०१३.००३ तां स नन्दनसंकाशां मृगपक्षिभिरावृताम्
५.०१३.००३ हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम्
५.०१३.००४ काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्
५.०१३.००४ बह्वासनकुथोपेतां बहुभूमिगृहायुताम्
५.०१३.००५ सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः
५.०१३.००५ पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्
५.०१३.००६ प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत
५.०१३.००६ निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्
५.०१३.००६ विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः
५.०१३.००७ आमूलपुष्पनिचितैरशोकैः शोकनाशनैः
५.०१३.००७ पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्
५.०१३.००८ कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः
५.०१३.००८ स देशः प्रभया तेषां प्रदीप्त इव सर्वतः
५.०१३.००९ पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा
५.०१३.००९ विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः
५.०१३.०१० शातकुम्भनिभाः के चित्के चिदग्निशिखोपमाः
५.०१३.०१० नीलाञ्जननिभाः के चित्तत्राशोकाः सहस्रशः
५.०१३.०११ नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा
५.०१३.०११ अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम्
५.०१३.०१२ द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्
५.०१३.०१२ पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा
५.०१३.०१३ सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः
५.०१३.०१३ नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः
५.०१३.०१४ अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम्
५.०१३.०१४ शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्
५.०१३.०१५ अशोकवनिकायां तु तस्यां वानरपुंगवः
५.०१३.०१५ स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम्
५.०१३.०१६ मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्
५.०१३.०१६ प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्
५.०१३.०१७ मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया
५.०१३.०१७ विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्
५.०१३.०१८ ततो मलिनसंवीतां राक्षसीभिः समावृताम्
५.०१३.०१८ उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः
५.०१३.०१८ ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्
५.०१३.०१९ मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्
५.०१३.०१९ पिनद्धां धूमजालेन शिखामिव विभावसोः
५.०१३.०२० पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा
५.०१३.०२० सपङ्कामनलंकारां विपद्मामिव पद्मिनीम्
५.०१३.०२१ व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम्
५.०१३.०२१ ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम्
५.०१३.०२२ अश्रुपूर्णमुखीं दीनां कृशामननशेन च
५.०१३.०२२ शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्
५.०१३.०२३ प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्
५.०१३.०२३ स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव
५.०१३.०२४ नीलनागाभया वेण्या जघनं गतयैकया
५.०१३.०२४ सुखार्हां दुःखसंतप्तां व्यसनानामकोदिवाम्
५.०१३.०२५ तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्
५.०१३.०२५ तर्कयामास सीतेति कारणैरुपपादिभिः
५.०१३.०२६ ह्रियमाणा तदा तेन रक्षसा कामरूपिणा
५.०१३.०२६ यथारूपा हि दृष्टा वै तथारूपेयमङ्गना
५.०१३.०२७ पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्
५.०१३.०२७ कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः
५.०१३.०२८ तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम्
५.०१३.०२८ सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा
५.०१३.०२९ इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव
५.०१३.०२९ भूमौ सुतनुमासीनां नियतामिव तापसीम्
५.०१३.०३० निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव
५.०१३.०३० शोकजालेन महता विततेन न राजतीम्
५.०१३.०३१ संसक्तां धूमजालेन शिखामिव विभावसोः
५.०१३.०३१ तां स्मृतीमिव संदिघ्दामृद्धिं निपतितामिव
५.०१३.०३२ विहतामिव च श्रद्धामाशां प्रतिहतामिव
५.०१३.०३२ सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव
५.०१३.०३३ अभूतेनापवादेन कीर्तिं निपतितामिव
५.०१३.०३३ रामोपरोधव्यथितां रक्षोहरणकर्शिताम्
५.०१३.०३४ अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः
५.०१३.०३४ बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा
५.०१३.०३४ वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः
५.०१३.०३५ मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्
५.०१३.०३५ प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्
५.०१३.०३६ तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु
५.०१३.०३६ आम्नायानामयोगेन विद्यां प्रशिथिलामिव
५.०१३.०३७ दुःखेन बुबुधे सीतां हनुमाननलंकृताम्
५.०१३.०३७ संस्कारेण यथाहीनां वाचमर्थान्तरं गताम्
५.०१३.०३८ तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम्
५.०१३.०३८ तर्कयामास सीतेति कारणैरुपपादयन्
५.०१३.०३९ वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्
५.०१३.०३९ तान्याभरणजालानि गात्रशोभीन्यलक्षयत्
५.०१३.०४० सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ
५.०१३.०४० मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च
५.०१३.०४१ श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च
५.०१३.०४१ तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत्
५.०१३.०४२ तत्र यान्यवहीनानि तान्यहं नोपलक्षये
५.०१३.०४२ यान्यस्या नावहीनानि तानीमानि न संशयः
५.०१३.०४३ पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्
५.०१३.०४३ उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः
५.०१३.०४४ भूषणानि च मुख्यानि दृष्टानि धरणीतले
५.०१३.०४४ अनयैवापविद्धानि स्वनवन्ति महान्ति च
५.०१३.०४५ इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम्
५.०१३.०४५ तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत्
५.०१३.०४६ इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया
५.०१३.०४६ प्रनष्टापि सती यस्य मनसो न प्रणश्यति
५.०१३.०४७ इयं सा यत्कृते रामश्चतुर्भिः परितप्यते
५.०१३.०४७ कारुण्येनानृशंस्येन शोकेन मदनेन च
५.०१३.०४८ स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः
५.०१३.०४८ पत्नी नष्टेति शोकेन प्रियेति मदनेन च
५.०१३.०४९ अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्
५.०१३.०४९ रामस्य च यथारूपं तस्येयमसितेक्षणा
५.०१३.०५० अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्
५.०१३.०५० तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति
५.०१३.०५१ दुष्करं कुरुते रामो य इमां मत्तकाशिनीम्
५.०१३.०५१ सीतां विना महाबाहुर्मुहूर्तमपि जीवति
५.०१३.०५२ एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः
५.०१३.०५२ जगाम मनसा रामं प्रशशंस च तं प्रभुम्
५.०१४.००१ प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः
५.०१४.००१ गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्
५.०१४.००२ स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः
५.०१४.००२ सीतामाश्रित्य तेजस्वी हनुमान् विललाप ह
५.०१४.००३ मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया
५.०१४.००३ यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः
५.०१४.००४ रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः
५.०१४.००४ नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे
५.०१४.००५ तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्
५.०१४.००५ राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा
५.०१४.००६ तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्
५.०१४.००६ जगाम मनसा रामं वचनं चेदमब्रवीत्
५.०१४.००७ अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः
५.०१४.००७ रावणप्रतिमो वीर्ये कबन्धश्च निपातितः
५.०१४.००८ विराधश्च हतः संख्ये राक्षसो भीमविक्रमः
५.०१४.००८ वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः
५.०१४.००९ चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्
५.०१४.००९ निहतानि जनस्थाने शरैरग्निशिखोपमैः
५.०१४.०१० खरश्च निहतः संख्ये त्रिशिराश्च निपातितः
५.०१४.०१० दूषणश्च महातेजा रामेण विदितात्मना
५.०१४.०११ ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्
५.०१४.०११ अस्या निमित्ते सुग्रीवः प्राप्तवांल्लोकसत्कृतम्
५.०१४.०१२ सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः
५.०१४.०१२ अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता
५.०१४.०१३ यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्
५.०१४.०१३ अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः
५.०१४.०१४ राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा
५.०१४.०१४ त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम्
५.०१४.०१५ इयं सा धर्मशीलस्य मैथिलस्य महात्मनः
५.०१४.०१५ सुता जनकराजस्य सीता भर्तृदृढव्रता
५.०१४.०१६ उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते
५.०१४.०१६ पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः
५.०१४.०१७ विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः
५.०१४.०१७ स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी
५.०१४.०१८ धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः
५.०१४.०१८ इयं सा दयिता भार्या राक्षसी वशमागता
५.०१४.०१९ सर्वान् भोगान् परित्यज्य भर्तृस्नेहबलात्कृता
५.०१४.०१९ अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम्
५.०१४.०२० संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता
५.०१४.०२० या परां भजते प्रीतिं वनेऽपि भवने यथा
५.०१४.०२१ सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी
५.०१४.०२१ सहते यातनामेतामनर्थानामभागिनी
५.०१४.०२२ इमां तु शीलसंपन्नां द्रष्टुमिच्छति राघवः
५.०१४.०२२ रावणेन प्रमथितां प्रपामिव पिपासितः
५.०१४.०२३ अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति
५.०१४.०२३ राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्
५.०१४.०२४ कामभोगैः परित्यक्ता हीना बन्धुजनेन च
५.०१४.०२४ धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी
५.०१४.०२५ नैषा पश्यति राक्षस्यो नेमान् पुष्पफलद्रुमान्
५.०१४.०२५ एकस्थहृदया नूनं राममेवानुपश्यति
५.०१४.०२६ भर्ता नाम परं नार्या भूषणं भूषणादपि
५.०१४.०२६ एषा हि रहिता तेन शोभनार्हा न शोभते
५.०१४.०२७ दुष्करं कुरुते रामो हीनो यदनया प्रभुः
५.०१४.०२७ धारयत्यात्मनो देहं न दुःखेनावसीदति
५.०१४.०२८ इमामसितकेशान्तां शतपत्रनिभेक्षणाम्
५.०१४.०२८ सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः
५.०१४.०२९ क्षितिक्षमा पुष्करसंनिभाक्षी॑ या रक्षिता राघवलक्ष्मणाभ्याम्
५.०१४.०२९ सा राक्षसीभिर्विकृतेक्षणाभिः॑ संरक्ष्यते संप्रति वृक्षमूले
५.०१४.०३० हिमहतनलिनीव नष्टशोभा॑ व्यसनपरम्परया निपीड्यमाना
५.०१४.०३० सहचररहितेव चक्रवाकी॑ जनकसुता कृपणां दशां प्रपन्ना
५.०१४.०३१ अस्या हि पुष्पावनताग्रशाखाः॑ शोकं दृढं वै जनयत्यशोकाः
५.०१४.०३१ हिमव्यपायेन च मन्दरश्मिर्॑ अभ्युत्थितो नैकसहस्ररश्मिः
५.०१४.०३२ इत्येवमर्थं कपिरन्ववेक्ष्य॑ सीतेयमित्येव निविष्टबुद्धिः
५.०१४.०३२ संश्रित्य तस्मिन्निषसाद वृक्षे॑ बली हरीणामृषभस्तरस्वी
५.०१५.००१ ततः कुमुदषण्डाभो निर्मलं निर्मलः स्वयम्
५.०१५.००१ प्रजगाम नभश्चन्द्रो हंसो नीलमिवोदकम्
५.०१५.००२ साचिव्यमिव कुर्वन् स प्रभया निर्मलप्रभः
५.०१५.००२ चन्द्रमा रश्मिभिः शीतैः सिषेवे पवनात्मजम्
५.०१५.००३ स ददर्श ततः सीतां पूर्णचन्द्रनिभाननाम्
५.०१५.००३ शोकभारैरिव न्यस्तां भारैर्नावमिवाम्भसि
५.०१५.००४ दिदृक्षमाणो वैदेहीं हनूमान्मारुतात्मजः
५.०१५.००४ स ददर्शाविदूरस्था राक्षसीर्घोरदर्शनाः
५.०१५.००५ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा
५.०१५.००५ अकर्णां शङ्कुकर्णां च मस्तकोच्छ्वासनासिकाम्
५.०१५.००६ अतिकायोत्तमाङ्गीं च तनुदीर्घशिरोधराम्
५.०१५.००६ ध्वस्तकेशीं तथाकेशीं केशकम्बलधारिणीम्
५.०१५.००७ लम्बकर्णललाटां च लम्बोदरपयोधराम्
५.०१५.००७ लम्बौष्ठीं चिबुकौष्ठीं च लम्बास्यां लम्बजानुकाम्
५.०१५.००८ ह्रस्वां दीर्घां च कुब्जां च विकटां वामनां तथा
५.०१५.००८ करालां भुग्नवस्त्रां च पिङ्गाक्षीं विकृताननाम्
५.०१५.००९ विकृताः पिङ्गलाः कालीः क्रोधनाः कलहप्रियाः
५.०१५.००९ कालायसमहाशूलकूटमुद्गरधारिणीः
५.०१५.०१० वराहमृगशार्दूलमहिषाजशिवा मुखाः
५.०१५.०१० गजोष्ट्रहयपादाश्च निखातशिरसोऽपराः
५.०१५.०११ एकहस्तैकपादाश्च खरकर्ण्यश्वकर्णिकाः
५.०१५.०११ गोकर्णीर्हस्तिकर्णीश्च हरिकर्णीस्तथापराः
५.०१५.०१२ अनासा अतिनासाश्च तिर्यन्नासा विनासिकाः
५.०१५.०१२ गजसंनिभनासाश्च ललाटोच्छ्वासनासिकाः
५.०१५.०१३ हस्तिपादा महापादा गोपादाः पादचूलिकाः
५.०१५.०१३ अतिमात्रशिरोग्रीवा अतिमात्रकुचोदरीः
५.०१५.०१४ अतिमात्रास्य नेत्राश्च दीर्घजिह्वानखास्तथा
५.०१५.०१४ अजामुखीर्हस्तिमुखीर्गोमुखीः सूकरीमुखीः
५.०१५.०१५ हयोष्ट्रखरवक्त्राश्च राक्षसीर्घोरदर्शनाः
५.०१५.०१५ शूलमुद्गरहस्ताश्च क्रोधनाः कलहप्रियाः
५.०१५.०१६ कराला धूम्रकेशीश्च रक्षसीर्विकृताननाः
५.०१५.०१६ पिबन्तीः सततं पानं सदा मांससुराप्रियाः
५.०१५.०१७ मांसशोणितदिग्धाङ्गीर्मांसशोणितभोजनाः
५.०१५.०१७ ता ददर्श कपिश्रेष्ठो रोमहर्षणदर्शनाः
५.०१५.०१८ स्कन्धवन्तमुपासीनाः परिवार्य वनस्पतिम्
५.०१५.०१८ तस्याधस्ताच्च तां देवीं राजपुत्रीमनिन्दिताम्
५.०१५.०१९ लक्षयामास लक्ष्मीवान् हनूमाञ्जनकात्मजाम्
५.०१५.०१९ निष्प्रभां शोकसंतप्तां मलसंकुलमूर्धजाम्
५.०१५.०२० क्षीणपुण्यां च्युतां भूमौ तारां निपतितामिव
५.०१५.०२० चारित्र्य व्यपदेशाढ्यां भर्तृदर्शनदुर्गताम्
५.०१५.०२१ भूषणैरुत्तमैर्हीनां भर्तृवात्सल्यभूषिताम्
५.०१५.०२१ राक्षसाधिपसंरुद्धां बन्धुभिश्च विनाकृताम्
५.०१५.०२२ वियूथां सिंहसंरुद्धां बद्धां गजवधूमिव
५.०१५.०२२ चन्द्रलेखां पयोदान्ते शारदाभ्रैरिवावृताम्
५.०१५.०२३ क्लिष्टरूपामसंस्पर्शादयुक्तामिव वल्लकीम्
५.०१५.०२३ सीतां भर्तृहिते युक्तामयुक्तां रक्षसां वशे
५.०१५.०२४ अशोकवनिकामध्ये शोकसागरमाप्लुताम्
५.०१५.०२४ ताभिः परिवृतां तत्र सग्रहामिव रोहिणीम्
५.०१५.०२५ ददर्श हनुमान् देवीं लतामकुसुमामिव
५.०१५.०२५ सा मलेन च दिग्धाङ्गी वपुषा चाप्यलंकृता
५.०१५.०२६ मृणाली पङ्कदिघ्देव विभाति च न भाति च
५.०१५.०२६ मलिनेन तु वस्त्रेण परिक्लिष्टेन भामिनीम्
५.०१५.०२७ संवृतां मृगशावाक्षीं ददर्श हनुमान् कपिः
५.०१५.०२७ तां देवीं दीनवदनामदीनां भर्तृतेजसा
५.०१५.०२८ रक्षितां स्वेन शीलेन सीतामसितलोचनाम्
५.०१५.०२८ तां दृष्ट्वा हनुमान् सीतां मृगशावनिभेक्षणाम्
५.०१५.०२९ मृगकन्यामिव त्रस्तां वीक्षमाणां समन्ततः
५.०१५.०२९ दहन्तीमिव निःश्वासैर्वृक्षान् पल्लवधारिणः
५.०१५.०३० संघातमिव शोकानां दुःखस्योर्मिमिवोत्थिताम्
५.०१५.०३० तां क्षामां सुविभक्ताङ्गीं विनाभरणशोभिनीम्
५.०१५.०३१ प्रहर्षमतुलं लेभे मारुतिः प्रेक्ष्य मैथिलीम्
५.०१५.०३१ हर्षजानि च सोऽश्रूणि तां दृष्ट्वा मदिरेक्षणाम्
५.०१५.०३२ मुमोच हनुमांस्तत्र नमश्चक्रे च राघवम्
५.०१५.०३२ नमस्कृत्वा च रामाय लक्ष्मणाय च वीर्यवान्
५.०१५.०३३ सीतादर्शनसंहृष्टो हनूमान् संवृतोऽभवत्
५.०१६.००१ तथा विप्रेक्षमाणस्य वनं पुष्पितपादपम्
५.०१६.००१ विचिन्वतश्च वैदेहीं किं चिच्छेषा निशाभवत्
५.०१६.००२ षडङ्गवेदविदुषां क्रतुप्रवरयाजिनाम्
५.०१६.००२ शुश्राव ब्रह्मघोषांश्च विरात्रे ब्रह्मरक्षसाम्
५.०१६.००३ अथ मङ्गलवादित्रैः शब्दैः श्रोत्रमनोहरैः
५.०१६.००३ प्राबोध्यत महाबाहुर्दशग्रीवो महाबलः
५.०१६.००४ विबुध्य तु यथाकालं राक्षसेन्द्रः प्रतावपान्
५.०१६.००४ स्रस्तमाल्याम्बरधरो वैदेहीमन्वचिन्तयत्
५.०१६.००५ भृशं नियुक्तस्तस्यां च मदनेन मदोत्कटः
५.०१६.००५ न स तं राक्षसः कामं शशाकात्मनि गूहितुम्
५.०१६.००६ स सर्वाभरणैर्युक्तो बिभ्रच्छ्रियमनुत्तमाम्
५.०१६.००६ तां नगैर्विविधैर्जुष्टां सर्वपुष्पफलोपगैः
५.०१६.००७ वृतां पुष्करिणीभिश्च नानापुष्पोपशोभिताम्
५.०१६.००७ सदामदैश्च विहगैर्विचित्रां परमाद्भुताम्
५.०१६.००८ ईहामृगैश्च विविधैश्वृतां दृष्टिमनोहरैः
५.०१६.००८ वीथीः संप्रेक्षमाणश्च मणिकाञ्चनतोरणाः
५.०१६.००९ नानामृगगणाकीर्णां फलैः प्रपतितैर्वृताम्
५.०१६.००९ अशोकवनिकामेव प्राविशत्संततद्रुमाम्
५.०१६.०१० अङ्गनाशतमात्रं तु तं व्रजन्तमनुव्रजत्
५.०१६.०१० महेन्द्रमिव पौलस्त्यं देवगन्धर्वयोषितः
५.०१६.०११ दीपिकाः काञ्चनीः काश्चिज्जगृहुस्तत्र योषितः
५.०१६.०११ बालव्यजनहस्ताश्च तालवृन्तानि चापराः
५.०१६.०१२ काञ्चनैरपि भृङ्गारैर्जह्रुः सलिलमग्रतः
५.०१६.०१२ मण्डलाग्रानसींश्चैव गृह्यान्याः पृष्ठतो ययुः
५.०१६.०१३ का चिद्रत्नमयीं पात्रीं पूर्णां पानस्य भामिनी
५.०१६.०१३ दक्षिणा दक्षिणेनैव तदा जग्राह पाणिना
५.०१६.०१४ राजहंसप्रतीकाशं छत्रं पूर्णशशिप्रभम्
५.०१६.०१४ सौवर्णदण्डमपरा गृहीत्वा पृष्ठतो ययौ
५.०१६.०१५ निद्रामदपरीताक्ष्यो रावणस्योत्तमस्त्रियः
५.०१६.०१५ अनुजग्मुः पतिं वीरं घनं विद्युल्लता इव
५.०१६.०१६ ततः काञ्चीनिनादं च नूपुराणां च निःस्वनम्
५.०१६.०१६ शुश्राव परमस्त्रीणां स कपिर्मारुतात्मजः
५.०१६.०१७ तं चाप्रतिमकर्माणमचिन्त्यबलपौरुषम्
५.०१६.०१७ द्वारदेशमनुप्राप्तं ददर्श हनुमान् कपिः
५.०१६.०१८ दीपिकाभिरनेकाभिः समन्तादवभासितम्
५.०१६.०१८ गन्धतैलावसिक्ताभिर्ध्रियमाणाभिरग्रतः
५.०१६.०१९ कामदर्पमदैर्युक्तं जिह्मताम्रायतेक्षणम्
५.०१६.०१९ समक्षमिव कन्दर्पमपविद्ध शरासनम्
५.०१६.०२० मथितामृतफेनाभमरजो वस्त्रमुत्तमम्
५.०१६.०२० सलीलमनुकर्षन्तं विमुक्तं सक्तमङ्गदे
५.०१६.०२१ तं पत्रविटपे लीनः पत्रपुष्पघनावृतः
५.०१६.०२१ समीपमुपसंक्रान्तं निध्यातुमुपचक्रमे
५.०१६.०२२ अवेक्षमाणश्च ततो ददर्श कपिकुञ्जरः
५.०१६.०२२ रूपयौवनसंपन्ना रावणस्य वरस्त्रियः
५.०१६.०२३ ताभिः परिवृतो राजा सुरूपाभिर्महायशाः
५.०१६.०२३ तन्मृगद्विजसंघुष्टं प्रविष्टः प्रमदावनम्
५.०१६.०२४ क्षीबो विचित्राभरणः शङ्कुकर्णो महाबलः
५.०१६.०२४ तेन विश्रवसः पुत्रः स दृष्टो राक्षसाधिपः
५.०१६.०२५ वृतः परमनारीभिस्ताराभिरिव चन्द्रमाः
५.०१६.०२५ तं ददर्श महातेजास्तेजोवन्तं महाकपिः
५.०१६.०२६ रावणोऽयं महाबाहुरिति संचिन्त्य वानरः
५.०१६.०२६ अवप्लुतो महातेजा हनूमान्मारुतात्मजः
५.०१६.०२७ स तथाप्युग्रतेजाः सन्निर्धूतस्तस्य तेजसा
५.०१६.०२७ पत्रगुह्यान्तरे सक्तो हनूमान् संवृतोऽभवत्
५.०१६.०२८ स तामसितकेशान्तां सुश्रोणीं संहतस्तनीम्
५.०१६.०२८ दिदृक्षुरसितापाङ्गीमुपावर्तत रावणः
५.०१७.००१ तस्मिन्नेव ततः काले राजपुत्री त्वनिन्दिता
५.०१७.००१ रूपयौवनसंपन्नं भूषणोत्तमभूषितम्
५.०१७.००२ ततो दृष्ट्वैव वैदेही रावणं राक्षसाधिपम्
५.०१७.००२ प्रावेपत वरारोहा प्रवाते कदली यथा
५.०१७.००३ ऊरुभ्यामुदरं छाद्य बाहुभ्यां च पयोधरौ
५.०१७.००३ उपविष्टा विशालाक्षी रुदन्ती वरवर्णिनी
५.०१७.००४ दशग्रीवस्तु वैदेहीं रक्षितां राक्षसीगणैः
५.०१७.००४ ददर्श दीनां दुःखार्तं नावं सन्नामिवार्णवे
५.०१७.००५ असंवृतायामासीनां धरण्यां संशितव्रताम्
५.०१७.००५ छिन्नां प्रपतितां भूमौ शाखामिव वनस्पतेः
५.०१७.००५ मलमण्डनदिग्धाङ्गीं मण्डनार्हाममण्डिताम्
५.०१७.००६ समीपं राजसिंहस्य रामस्य विदितात्मनः
५.०१७.००६ संकल्पहयसंयुक्तैर्यान्तीमिव मनोरथैः
५.०१७.००७ शुष्यन्तीं रुदतीमेकां ध्यानशोकपरायणाम्
५.०१७.००७ दुःखस्यान्तमपश्यन्तीं रामां राममनुव्रताम्
५.०१७.००८ वेष्टमानामथाविष्टां पन्नगेन्द्रवधूमिव
५.०१७.००८ धूप्यमानां ग्रहेणेव रोहिणीं धूमकेतुना
५.०१७.००९ वृत्तशीले कुले जातामाचारवति धार्मिके
५.०१७.००९ पुनः संस्कारमापन्नां जातमिव च दुष्कुले
५.०१७.०१० सन्नामिव महाकीर्तिं श्रद्धामिव विमानिताम्
५.०१७.०१० प्रज्ञामिव परिक्षीणामाशां प्रतिहतामिव
५.०१७.०११ आयतीमिव विध्वस्तामाज्ञां प्रतिहतामिव
५.०१७.०११ दीप्तामिव दिशं काले पूजामपहृतामिव
५.०१७.०१२ पद्मिनीमिव विध्वस्तां हतशूरां चमूमिव
५.०१७.०१२ प्रभामिव तपोध्वस्तामुपक्षीणामिवापगाम्
५.०१७.०१३ वेदीमिव परामृष्टां शान्तामग्निशिखामिव
५.०१७.०१३ पौर्णमासीमिव निशां राहुग्रस्तेन्दुमण्डलाम्
५.०१७.०१४ उत्कृष्टपर्णकमलां वित्रासितविहंगमाम्
५.०१७.०१४ हस्तिहस्तपरामृष्टामाकुलां पद्मिनीमिव
५.०१७.०१५ पतिशोकातुरां शुष्कां नदीं विस्रावितामिव
५.०१७.०१५ परया मृजया हीनां कृष्णपक्षे निशामिव
५.०१७.०१६ सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम्
५.०१७.०१६ तप्यमानामिवोष्णेन मृणालीमचिरोद्धृताम्
५.०१७.०१७ गृहीतामालितां स्तम्भे यूथपेन विनाकृताम्
५.०१७.०१७ निःश्वसन्तीं सुदुःखार्तां गजराजवधूमिव
५.०१७.०१८ एकया दीर्घया वेण्या शोभमानामयत्नतः
५.०१७.०१८ नीलया नीरदापाये वनराज्या महीमिव
५.०१७.०१९ उपवासेन शोकेन ध्यानेन च भयेन च
५.०१७.०१९ परिक्षीणां कृशां दीनामल्पाहारां तपोधनाम्
५.०१७.०२० आयाचमानां दुःखार्तां प्राञ्जलिं देवतामिव
५.०१७.०२० भावेन रघुमुख्यस्य दशग्रीवपराभवम्
५.०१७.०२१ समीक्षमाणां रुदतीमनिन्दितां॑ सुपक्ष्मताम्रायतशुक्ललोचनाम्
५.०१७.०२१ अनुव्रतां राममतीव मैथिलीं॑ प्रलोभयामास वधाय रावणः
५.०१८.००१ स तां परिवृतां दीनां निरानन्दां तपस्विनीम्
५.०१८.००१ साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः
५.०१८.००२ मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम्
५.०१८.००२ अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि
५.०१८.००३ कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये
५.०१८.००३ सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे
५.०१८.००४ नेह के चिन्मनुष्या वा राक्षसाः कामरूपिणः
५.०१८.००४ व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्
५.०१८.००५ स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः
५.०१८.००५ गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा
५.०१८.००६ एवं चैतदकामां च न त्वां स्प्रक्ष्यामि मैथिलि
५.०१८.००६ कामं कामः शरीरे मे यथाकामं प्रवर्तताम्
५.०१८.००७ देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये
५.०१८.००७ प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा
५.०१८.००८ एकवेणी धराशय्या ध्यानं मलिनमम्बरम्
५.०१८.००८ अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते
५.०१८.००९ विचित्राणि च माल्यानि चन्दनान्यगरूणि च
५.०१८.००९ विविधानि च वासांसि दिव्यान्याभरणानि च
५.०१८.०१० महार्हाणि च पानानि यानानि शयनानि च
५.०१८.०१० गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि
५.०१८.०११ स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्
५.०१८.०११ मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे
५.०१८.०१२ इदं ते चारुसंजातं यौवनं व्यतिवर्तते
५.०१८.०१२ यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव
५.०१८.०१३ त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत्
५.०१८.०१३ न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने
५.०१८.०१४ त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्
५.०१८.०१४ कः पुमानतिवर्तेत साक्षादपि पितामहः
५.०१८.०१५ यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने
५.०१८.०१५ तस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते
५.०१८.०१६ भव मैथिलि भार्या मे मोहमेनं विसर्जय
५.०१८.०१६ बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव
५.०१८.०१७ लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे
५.०१८.०१७ तानि ते भीरु सर्वाणि राज्यं चैतदहं च ते
५.०१८.०१८ विजित्य पृथिवीं सर्वां नानानगरमालिनीम्
५.०१८.०१८ जनकाय प्रदास्यामि तव हेतोर्विलासिनि
५.०१८.०१९ नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्
५.०१८.०१९ पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे
५.०१८.०२० असकृत्संयुगे भग्ना मया विमृदितध्वजाः
५.०१८.०२० अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः
५.०१८.०२१ इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्
५.०१८.०२१ सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च
५.०१८.०२१ साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा
५.०१८.०२२ प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने
५.०१८.०२२ भुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च
५.०१८.०२२ यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च
५.०१८.०२३ ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च
५.०१८.०२३ मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव
५.०१८.०२४ ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे
५.०१८.०२४ किं करिष्यसि रामेण सुभगे चीरवाससा
५.०१८.०२५ निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः
५.०१८.०२५ व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा
५.०१८.०२६ न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते
५.०१८.०२६ पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्
५.०१८.०२७ न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः
५.०१८.०२७ हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव
५.०१८.०२८ चारुस्मिते चारुदति चारुनेत्रे विलासिनि
५.०१८.०२८ मनो हरसि मे भीरु सुपर्णः पन्नगं यथा
५.०१८.०२९ क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्
५.०१८.०२९ तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्
५.०१८.०३० अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः
५.०१८.०३० यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि
५.०१८.०३१ मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः
५.०१८.०३१ तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा
५.०१८.०३२ यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च
५.०१८.०३२ तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम्
५.०१८.०३३ न रामस्तपसा देवि न बलेन न विक्रमैः
५.०१८.०३३ न धनेन मया तुल्यस्तेजसा यशसापि वा
५.०१८.०३४ पिब विहर रमस्व भुङ्क्ष्व भोगान्॑ धननिचयं प्रदिशामि मेदिनीं च
५.०१८.०३४ मयि लल ललने यथासुखं त्वं॑ त्वयि च समेत्य ललन्तु बान्धवास्ते
५.०१८.०३५ कुसुमिततरुजालसंततानि॑ भ्रमरयुतानि समुद्रतीरजानि
५.०१८.०३५ कनकविमलहारभूषिताङ्गी॑ विहर मया सह भीरु काननानि
५.०१९.००१ तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः
५.०१९.००१ आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः
५.०१९.००२ दुःखार्ता रुदती सीता वेपमाना तपस्विनी
५.०१९.००२ चिन्तयन्ती वरारोहा पतिमेव पतिव्रता
५.०१९.००३ तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता
५.०१९.००३ निवर्तय मनो मत्तः स्वजने क्रियतां मनः
५.०१९.००४ न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत्
५.०१९.००४ अकार्यं न मया कार्यमेकपत्न्या विगर्हितम्
५.०१९.००४ कुलं संप्राप्तया पुण्यं कुले महति जातया
५.०१९.००५ एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी
५.०१९.००५ राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत्
५.०१९.००६ नाहमौपयिकी भार्या परभार्या सती तव
५.०१९.००६ साधु धर्ममवेक्षस्व साधु साधुव्रतं चर
५.०१९.००७ यथा तव तथान्येषां रक्ष्या दारा निशाचर
५.०१९.००७ आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम्
५.०१९.००८ अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम्
५.०१९.००८ नयन्ति निकृतिप्रज्ञां परदाराः पराभवम्
५.०१९.००९ इह सन्तो न वा सन्ति सतो वा नानुवर्तसे
५.०१९.००९ वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः
५.०१९.०१० अकृतात्मानमासाद्य राजानमनये रतम्
५.०१९.०१० समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च
५.०१९.०११ तथेयं त्वां समासाद्य लङ्का रत्नौघ संकुला
५.०१९.०११ अपराधात्तवैकस्य नचिराद्विनशिष्यति
५.०१९.०१२ स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः
५.०१९.०१२ अभिनन्दन्ति भूतानि विनाशे पापकर्मणः
५.०१९.०१३ एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः
५.०१९.०१३ दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः
५.०१९.०१४ शक्या लोभयितुं नाहमैश्वर्येण धनेन वा
५.०१९.०१४ अनन्या राघवेणाहं भास्करेण प्रभा यथा
५.०१९.०१५ उपधाय भुजं तस्य लोकनाथस्य सत्कृतम्
५.०१९.०१५ कथं नामोपधास्यामि भुजमन्यस्य कस्य चित्
५.०१९.०१६ अहमौपयिकी भार्या तस्यैव वसुधापतेः
५.०१९.०१६ व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः
५.०१९.०१७ साधु रावण रामेण मां समानय दुःखिताम्
५.०१९.०१७ वने वाशितया सार्धं करेण्वेव गजाधिपम्
५.०१९.०१८ मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता
५.०१९.०१८ वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः
५.०१९.०१९ वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश्चिरम्
५.०१९.०१९ त्वद्विधं न तु संक्रुद्धो लोकनाथः स राघवः
५.०१९.०२० रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम्
५.०१९.०२० शतक्रतुविसृष्टस्य निर्घोषमशनेरिव
५.०१९.०२१ इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः
५.०१९.०२१ इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः
५.०१९.०२२ रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः
५.०१९.०२२ असंपातं करिष्यन्ति पतन्तः कङ्कवाससः
५.०१९.०२३ राक्षसेन्द्रमहासर्पान् स रामगरुडो महान्
५.०१९.०२३ उद्धरिष्यति वेगेन वैनतेय इवोरगान्
५.०१९.०२४ अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिंदमः
५.०१९.०२४ असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः
५.०१९.०२५ जनस्थाने हतस्थाने निहते रक्षसां बले
५.०१९.०२५ अशक्तेन त्वया रक्षः कृतमेतदसाधु वै
५.०१९.०२६ आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः
५.०१९.०२६ गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम
५.०१९.०२७ न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया
५.०१९.०२७ शक्यं संदर्शने स्थातुं शुना शार्दूलयोरिव
५.०१९.०२८ तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम्
५.०१९.०२८ वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः
५.०१९.०२९ क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह
५.०१९.०२९ तोयमल्पमिवादित्यः प्राणानादास्यते शरैः
५.०१९.०३० गिरिं कुबेरस्य गतोऽथवालयं॑ सभां गतो वा वरुणस्य राज्ञः
५.०१९.०३० असंशयं दाशरथेर्न मोक्ष्यसे॑ महाद्रुमः कालहतोऽशनेरिव
५.०२०.००१ सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः
५.०२०.००१ प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्
५.०२०.००२ यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा
५.०२०.००२ यथा यथा प्रियं वक्ता परिभूतस्तथा तथा
५.०२०.००३ संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः
५.०२०.००३ द्रवतो मार्गमासाद्य हयानिव सुसारथिः
५.०२०.००४ वामः कामो मनुष्याणां यस्मिन् किल निबध्यते
५.०२०.००४ जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते
५.०२०.००५ एतस्मात्कारणान्न तां घतयामि वरानने
५.०२०.००५ वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम्
५.०२०.००६ परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम्
५.०२०.००६ तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः
५.०२०.००७ एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः
५.०२०.००७ क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्
५.०२०.००८ द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः
५.०२०.००८ ततः शयनमारोह मम त्वं वरवर्णिनि
५.०२०.००९ द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्
५.०२०.००९ मम त्वां प्रातराशार्थमारभन्ते महानसे
५.०२०.०१० तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम्
५.०२०.०१० देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः
५.०२०.०११ ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः
५.०२०.०११ सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा
५.०२०.०१२ ताभिराश्वासिता सीता रावणं राक्षसाधिपम्
५.०२०.०१२ उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम्
५.०२०.०१३ नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः
५.०२०.०१३ निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात्
५.०२०.०१४ मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः
५.०२०.०१४ त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः
५.०२०.०१५ राक्षसाधम रामस्य भार्याममिततेजसः
५.०२०.०१५ उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे
५.०२०.०१६ यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने
५.०२०.०१६ तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः
५.०२०.०१७ स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे
५.०२०.०१७ चक्षुषो विषयं तस्य न तावदुपगच्छसि
५.०२०.०१८ इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले
५.०२०.०१८ क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः
५.०२०.०१९ तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च
५.०२०.०१९ कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते
५.०२०.०२० असंदेशात्तु रामस्य तपसश्चानुपालनात्
५.०२०.०२० न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा
५.०२०.०२१ नापहर्तुमहं शक्या तस्य रामस्य धीमतः
५.०२०.०२१ विधिस्तव वधार्थाय विहितो नात्र संशयः
५.०२०.०२२ शूरेण धनदभ्राता बलैः समुदितेन च
५.०२०.०२२ अपोह्य रामं कस्माद्धि दारचाउर्यं त्वया कृतम्
५.०२०.०२३ सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः
५.०२०.०२३ विवृत्य नयने क्रूरे जानकीमन्ववैक्षत
५.०२०.०२४ नीलजीमूतसंकाशो महाभुजशिरोधरः
५.०२०.०२४ सिंहसत्त्वगतिः श्रीमान् दीप्तजिह्वोग्रलोचनः
५.०२०.०२५ चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः
५.०२०.०२५ रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः
५.०२०.०२६ श्रोणीसूत्रेण महता मेककेन सुसंवृतः
५.०२०.०२६ अमृतोत्पादनद्धेन भुजंगेनेव मन्दरः
५.०२०.०२७ तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः
५.०२०.०२७ रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः
५.०२०.०२८ अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः
५.०२०.०२८ उवाच रावणः सीतां भुजंग इव निःश्वसन्
५.०२०.०२९ अनयेनाभिसंपन्नमर्थहीनमनुव्रते
५.०२०.०२९ नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा
५.०२०.०३० इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः
५.०२०.०३० संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः
५.०२०.०३१ एकाक्षीमेककर्णां च कर्णप्रावरणां तथा
५.०२०.०३१ गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्
५.०२०.०३२ हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम्
५.०२०.०३२ एकाक्षीमेकपादीं च पृथुपादीमपादिकाम्
५.०२०.०३३ अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्
५.०२०.०३३ अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम्
५.०२०.०३३ अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्
५.०२०.०३४ यथा मद्वशगा सीता क्षिप्रं भवति जानकी
५.०२०.०३४ तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च
५.०२०.०३५ प्रतिलोमानुलोमैश्च सामदानादिभेदनैः
५.०२०.०३५ आवर्तयत वैदेहीं दण्डस्योद्यमनेन च
५.०२०.०३६ इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः
५.०२०.०३६ काममन्युपरीतात्मा जानकीं पर्यतर्जयत्
५.०२०.०३७ उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी
५.०२०.०३७ परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्
५.०२०.०३८ मया क्रीड महाराजसीतया किं तवानया
५.०२०.०३८ अकामां कामयानस्य शरीरमुपतप्यते
५.०२०.०३८ इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना
५.०२०.०३९ एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली
५.०२०.०३९ ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम्
५.०२०.०४० देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः
५.०२०.०४० परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम्
५.०२०.०४१ स मैथिलीं धर्मपरामवस्थितां॑ प्रवेपमानां परिभर्त्स्य रावणः
५.०२०.०४१ विहाय सीतां मदनेन मोहितः॑ स्वमेव वेश्म प्रविवेश भास्वरम्
५.०२१.००१ इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः
५.०२१.००१ संदिश्य च ततः सर्वा राक्षसीर्निर्जगाम ह
५.०२१.००२ निष्क्रान्ते राक्षसेन्द्रे तु पुनरन्तःपुरं गते
५.०२१.००२ राक्षस्यो भीमरूपास्ताः सीतां समभिदुद्रुवुः
५.०२१.००३ ततः सीतामुपागम्य राक्षस्यः क्रोधमूर्छिताः
५.०२१.००३ परं परुषया वाचा वैदेहीमिदमब्रुवन्
५.०२१.००४ पौलस्त्यस्य वरिष्ठस्य रावणस्य महात्मनः
५.०२१.००४ दशग्रीवस्य भार्यात्वं सीते न बहु मन्यसे
५.०२१.००५ ततस्त्वेकजटा नाम राक्षसी वाक्यमब्रवीत्
५.०२१.००५ आमन्त्र्य क्रोधताम्राक्षी सीतां करतलोदरीम्
५.०२१.००६ प्रजापतीनां षण्णां तु चतुर्थो यः प्रजापतिः
५.०२१.००६ मानसो ब्रह्मणः पुत्रः पुलस्त्य इति विश्रुतः
५.०२१.००७ पुलस्त्यस्य तु तेजस्वी महर्षिर्मानसः सुतः
५.०२१.००७ नाम्ना स विश्रवा नाम प्रजापतिसमप्रभः
५.०२१.००८ तस्य पुत्रो विशालाक्षि रावणः शत्रुरावणः
५.०२१.००८ तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि
५.०२१.००८ मयोक्तं चारुसर्वाङ्गि वाक्यं किं नानुमन्यसे
५.०२१.००९ ततो हरिजटा नाम राक्षसी वाक्यमब्रवीत्
५.०२१.००९ विवृत्य नयने कोपान्मार्जारसदृशेक्षणा
५.०२१.०१० येन देवास्त्रयस्त्रिंशद्देवराजश्च निर्जितः
५.०२१.०१० तस्य त्वं राक्षसेन्द्रस्य भार्या भवितुमर्हसि
५.०२१.०११ वीर्योत्सिक्तस्य शूरस्य संग्रामेष्वनिवर्तिनः
५.०२१.०११ बलिनो वीर्ययुक्तस्या भार्यात्वं किं न लप्स्यसे
५.०२१.०१२ प्रियां बहुमतां भार्यां त्यक्त्वा राजा महाबलः
५.०२१.०१२ सर्वासां च महाभागां त्वामुपैष्यति रावणः
५.०२१.०१३ समृद्धं स्त्रीसहस्रेण नानारत्नोपशोभितम्
५.०२१.०१३ अन्तःपुरं समुत्सृज्य त्वामुपैष्यति रावणः
५.०२१.०१४ असकृद्देवता युद्धे नागगन्धर्वदानवाः
५.०२१.०१४ निर्जिताः समरे येन स ते पार्श्वमुपागतः
५.०२१.०१५ तस्य सर्वसमृद्धस्या रावणस्य महात्मनः
५.०२१.०१५ किमर्थं राक्षसेन्द्रस्य भार्यात्वं नेच्छसेऽधमे
५.०२१.०१६ यस्य सूर्यो न तपति भीतो यस्य च मारुतः
५.०२१.०१६ न वाति स्मायतापाङ्गे किं त्वं तस्य न तिष्ठसि
५.०२१.०१७ पुष्पवृष्टिं च तरवो मुमुचुर्यस्य वै भयात्
५.०२१.०१७ शैलाश्च सुभ्रु पानीयं जलदाश्च यदेच्छति
५.०२१.०१८ तस्य नैरृतराजस्य राजराजस्य भामिनि
५.०२१.०१८ किं त्वं न कुरुषे बुद्धिं भार्यार्थे रावणस्य हि
५.०२१.०१९ साधु ते तत्त्वतो देवि कथितं साधु भामिनि
५.०२१.०१९ गृहाण सुस्मिते वाक्यमन्यथा न भविष्यसि
५.०२२.००१ ततः सीतामुपागम्य राक्षस्यो विकृताननाः
५.०२२.००१ परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम्
५.०२२.००२ किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे
५.०२२.००२ महार्हशयनोपेते न वासमनुमन्यसे
५.०२२.००३ मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे
५.०२२.००३ प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि
५.०२२.००४ मानुषी मानुषं तं तु राममिच्छसि शोभने
५.०२२.००४ राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते
५.०२२.००५ राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा
५.०२२.००५ नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्
५.०२२.००६ यदिदं लोकविद्विष्टमुदाहरथ संगताः
५.०२२.००६ नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति
५.०२२.००७ न मानुषी राक्षसस्य भार्या भवितुमर्हति
५.०२२.००७ कामं खादत मां सर्वा न करिष्यामि वो वचः
५.०२२.००७ दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः
५.०२२.००८ सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः
५.०२२.००८ भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः
५.०२२.००९ अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे
५.०२२.००९ सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः
५.०२२.०१० तामभिक्रम्य संरब्धा वेपमानां समन्ततः
५.०२२.०१० भृशं संलिलिहुर्दीप्तान् प्रलम्बदशनच्छदान्
५.०२२.०११ ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्
५.०२२.०११ नेयमर्हति भर्तारं रावणं राक्षसाधिपम्
५.०२२.०१२ सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना
५.०२२.०१२ सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत्
५.०२२.०१३ ततस्तां शिंशपां सीता राक्षसीभिः समावृता
५.०२२.०१३ अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता
५.०२२.०१४ तां कृशां दीनवदनां मलिनाम्बरधारिणीम्
५.०२२.०१४ भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः
५.०२२.०१५ ततस्तां विनता नाम राक्षसी भीमदर्शना
५.०२२.०१५ अब्रवीत्कुपिताकारा कराला निर्णतोदरी
५.०२२.०१६ सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः
५.०२२.०१६ सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते
५.०२२.०१७ परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः
५.०२२.०१७ ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि
५.०२२.०१८ रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्
५.०२२.०१८ विक्रान्तं रूपवन्तं च सुरेशमिव वासवम्
५.०२२.०१९ दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम्
५.०२२.०१९ मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय
५.०२२.०२० दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता
५.०२२.०२० अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव
५.०२२.०२० अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने
५.०२२.०२१ किं ते रामेण वैदेहि कृपणेन गतायुषा
५.०२२.०२२ एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि
५.०२२.०२२ अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्
५.०२२.०२३ अन्या तु विकटा नाम लम्बमानपयोधरा
५.०२२.०२३ अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती
५.०२२.०२४ बहून्यप्रतिरूपाणि वचनानि सुदुर्मते
५.०२२.०२४ अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि
५.०२२.०२४ न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्
५.०२२.०२५ आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्
५.०२२.०२५ रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि
५.०२२.०२६ रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता
५.०२२.०२६ न त्वां शक्तः परित्रातुमपि साक्षात्पुरंदरः
५.०२२.०२७ कुरुष्व हितवादिन्या वचनं मम मैथिलि
५.०२२.०२७ अलमश्रुप्रपातेन त्यज शोकमनर्थकम्
५.०२२.०२८ भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम्
५.०२२.०२८ सीते राक्षसराजेन सह क्रीड यथासुखम्
५.०२२.०२९ जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम्
५.०२२.०२९ यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि
५.०२२.०३० उद्यानानि च रम्याणि पर्वतोपवनानि च
५.०२२.०३० सह राक्षसराजेन चर त्वं मदिरेक्षणे
५.०२२.०३१ स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि
५.०२२.०३१ रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्
५.०२२.०३२ उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि
५.०२२.०३२ यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि
५.०२२.०३३ ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना
५.०२२.०३३ भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्
५.०२२.०३४ इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम्
५.०२२.०३४ रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत्
५.०२२.०३५ यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम्
५.०२२.०३५ अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः
५.०२२.०३६ ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्
५.०२२.०३६ कण्ठमस्या नृशंसायाः पीडयामः किमास्यते
५.०२२.०३७ निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह
५.०२२.०३७ नात्र कश्चन संदेहः खादतेति स वक्ष्यति
५.०२२.०३८ ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्
५.०२२.०३८ विशस्येमां ततः सर्वान् समान् कुरुत पीलुकान्
५.०२२.०३९ विभजाम ततः सर्वा विवादो मे न रोचते
५.०२२.०३९ पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु
५.०२२.०४० ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्
५.०२२.०४० अजामुखा यदुक्तं हि तदेव मम रोचते
५.०२२.०४१ सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी
५.०२२.०४१ मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम्
५.०२२.०४२ एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा
५.०२२.०४२ राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति
५.०२३.००१ तथा तासां वदन्तीनां परुषं दारुणं बहु
५.०२३.००१ राक्षसीनामसौम्यानां रुरोद जनकात्मजा
५.०२३.००२ एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी
५.०२३.००२ उवाच परमत्रस्ता बाष्पगद्गदया गिरा
५.०२३.००३ न मानुषी राक्षसस्य भार्या भवितुमर्हति
५.०२३.००३ कामं खादत मां सर्वा न करिष्यामि वो वचः
५.०२३.००४ सा राक्षसी मध्यगता सीता सुरसुतोपमा
५.०२३.००४ न शर्म लेभे दुःखार्ता रावणेन च तर्जिता
५.०२३.००५ वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः
५.०२३.००५ वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता
५.०२३.००६ सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्
५.०२३.००६ चिन्तयामास शोकेन भर्तारं भग्नमानसा
५.०२३.००७ सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः
५.०२३.००७ चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति
५.०२३.००८ सा वेपमाना पतिता प्रवाते कदली यथा
५.०२३.००८ राक्षसीनां भयत्रस्ता विवर्णवदनाभवत्
५.०२३.००९ तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा
५.०२३.००९ ददृशे कम्पिनी वेणी व्यालीव परिसर्पती
५.०२३.०१० सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना
५.०२३.०१० आर्ता व्यसृजदश्रूणि मैथिली विललाप ह
५.०२३.०११ हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च
५.०२३.०११ हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि
५.०२३.०१२ लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः
५.०२३.०१२ अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा
५.०२३.०१३ यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता
५.०२३.०१३ जीवामि हीना रामेण मुहूर्तमपि दुःखिता
५.०२३.०१४ एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत्
५.०२३.०१४ समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता
५.०२३.०१५ भर्तारं तमपश्यन्ती राक्षसीवशमागता
५.०२३.०१५ सीदामि खलु शोकेन कूलं तोयहतं यथा
५.०२३.०१६ तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम्
५.०२३.०१६ धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्
५.०२३.०१७ सर्वथा तेन हीनाया रामेण विदितात्मना
५.०२३.०१७ तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम्
५.०२३.०१८ कीदृशं तु मया पापं पुरा देहान्तरे कृतम्
५.०२३.०१८ येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्
५.०२३.०१९ जीवितं त्यक्तुमिच्छामि शोकेन महता वृता
५.०२३.०१९ राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया
५.०२३.०२० धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्
५.०२३.०२० न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम्
५.०२४.००१ प्रसक्ताश्रुमुखीत्येवं ब्रुवन्ती जनकात्मजा
५.०२४.००१ अधोमुखमुखी बाला विलप्तुमुपचक्रमे
५.०२४.००२ उन्मत्तेव प्रमत्तेव भ्रान्तचित्तेव शोचती
५.०२४.००२ उपावृत्ता किशोरीव विवेष्टन्ती महीतले
५.०२४.००३ राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा
५.०२४.००३ रावणेन प्रमथ्याहमानीता क्रोशती बलात्
५.०२४.००४ राक्षसी वशमापन्ना भर्त्यमाना सुदारुणम्
५.०२४.००४ चिन्तयन्ती सुदुःखार्ता नाहं जीवितुमुत्सहे
५.०२४.००५ न हि मे जीवितेनार्थो नैवार्थैर्न च भूषणैः
५.०२४.००५ वसन्त्या राक्षसी मध्ये विना रामं महारथम्
५.०२४.००६ धिङ्मामनार्यामसतीं याहं तेन विना कृता
५.०२४.००६ मुहूर्तमपि रक्षामि जीवितं पापजीविता
५.०२४.००७ का च मे जीविते श्रद्धा सुखे वा तं प्रियं विना
५.०२४.००७ भर्तारं सागरान्ताया वसुधायाः प्रियं वदम्
५.०२४.००८ भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्यहम्
५.०२४.००८ न चाप्यहं चिरं दुःखं सहेयं प्रियवर्जिता
५.०२४.००९ चरणेनापि सव्येन न स्पृशेयं निशाचरम्
५.०२४.००९ रावणं किं पुनरहं कामयेयं विगर्हितम्
५.०२४.०१० प्रत्याख्यातं न जानाति नात्मानं नात्मनः कुलम्
५.०२४.०१० यो नृशंस स्वभावेन मां प्रार्थयितुमिच्छति
५.०२४.०११ छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ प्रदीपिता
५.०२४.०११ रावणं नोपतिष्ठेयं किं प्रलापेन वश्चिरम्
५.०२४.०१२ ख्यातः प्राज्ञः कृतज्ञश्च सानुक्रोशश्च राघवः
५.०२४.०१२ सद्वृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात्
५.०२४.०१३ राक्षसानां जनस्थाने सहस्राणि चतुर्दश
५.०२४.०१३ येनैकेन निरस्तानि स मां किं नाभिपद्यते
५.०२४.०१४ निरुद्धा रावणेनाहमल्पवीर्येण रक्षसा
५.०२४.०१४ समर्थः खलु मे भर्ता रावणं हन्तुमाहवे
५.०२४.०१५ विराधो दण्डकारण्ये येन राक्षसपुंगवः
५.०२४.०१५ रणे रामेण निहतः स मां किं नाभिपद्यते
५.०२४.०१६ कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा
५.०२४.०१६ न तु राघवबाणानां गतिरोधी ह विद्यते
५.०२४.०१७ किं नु तत्कारणं येन रामो दृढपराक्रमः
५.०२४.०१७ रक्षसापहृतां भार्यामिष्टां नाभ्यवपद्यते
५.०२४.०१८ इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः
५.०२४.०१८ जानन्नपि हि तेजस्वी धर्षणां मर्षयिष्यति
५.०२४.०१९ हृतेति योऽधिगत्वा मां राघवाय निवेदयेत्
५.०२४.०१९ गृध्रराजोऽपि स रणे रावणेन निपातितः
५.०२४.०२० कृतं कर्म महत्तेन मां तदाभ्यवपद्यता
५.०२४.०२० तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा
५.०२४.०२१ यदि मामिह जानीयाद्वर्तमानां स राघवः
५.०२४.०२१ अद्य बाणैरभिक्रुद्धः कुर्याल्लोकमराक्षसं
५.०२४.०२२ विधमेच्च पुरीं लङ्कां शोषयेच्च महोदधिम्
५.०२४.०२२ रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत्
५.०२४.०२३ ततो निहतनथानां राक्षसीनां गृहे गृहे
५.०२४.०२३ यथाहमेवं रुदती तथा भूयो न संशयः
५.०२४.०२३ अन्विष्य रक्षसां लङ्कां कुर्याद्रामः सलक्ष्मणः
५.०२४.०२४ न हि ताभ्यां रिपुर्दृष्टो मुहूतमपि जीवति
५.०२४.०२४ चिता धूमाकुलपथा गृध्रमण्डलसंकुला
५.०२४.०२४ अचिरेण तु लङ्केयं श्मशानसदृशी भवेत्
५.०२४.०२५ अचिरेणैव कालेन प्राप्स्याम्येव मनोरथम्
५.०२४.०२५ दुष्प्रस्थानोऽयमाख्याति सर्वेषां वो विपर्ययः
५.०२४.०२६ यादृशानि तु दृश्यन्ते लङ्कायामशुभानि तु
५.०२४.०२६ अचिरेणैव कालेन भविष्यति हतप्रभा
५.०२४.०२७ नूनं लङ्का हते पापे रावणे राक्षसाधिपे
५.०२४.०२७ शोषं यास्यति दुर्धर्षा प्रमदा विधवा यथा
५.०२४.०२८ पुष्योत्सवसमृद्धा च नष्टभर्त्री सराक्षसा
५.०२४.०२८ भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना
५.०२४.०२९ नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे
५.०२४.०२९ श्रोष्यामि नचिरादेव दुःखार्तानामिह ध्वनिम्
५.०२४.०३० सान्धकारा हतद्योता हतराक्षसपुंगवा
५.०२४.०३० भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः
५.०२४.०३१ यदि नाम स शूरो मां रामो रक्तान्तलोचनः
५.०२४.०३१ जानीयाद्वर्तमानां हि रावणस्य निवेशने
५.०२४.०३२ अनेन तु नृशंसेन रावणेनाधमेन मे
५.०२४.०३२ समयो यस्तु निर्दिष्टस्तस्य कालोऽयमागतः
५.०२४.०३३ अकार्यं ये न जानन्ति नैरृताः पापकारिणः
५.०२४.०३३ अधर्मात्तु महोत्पातो भविष्यति हि साम्प्रतम्
५.०२४.०३४ नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः
५.०२४.०३४ ध्रुवं मां प्रातराशार्थे राक्षसः कल्पयिष्यति
५.०२४.०३५ साहं कथं करिष्यामि तं विना प्रियदर्शनम्
५.०२४.०३५ रामं रक्तान्तनयनमपश्यन्ती सुदुःखिता
५.०२४.०३६ यदि कश्चित्प्रदाता मे विषस्याद्य भवेदिह
५.०२४.०३६ क्षिप्रं वैवस्वतं देवं पश्येयं पतिना विना
५.०२४.०३७ नाजानाज्जीवतीं रामः स मां लक्ष्मणपूर्वजः
५.०२४.०३७ जानन्तौ तौ न कुर्यातां नोर्व्यां हि मम मार्गणम्
५.०२४.०३८ नूनं ममैव शोकेन स वीरो लक्ष्मणाग्रजः
५.०२४.०३८ देवलोकमितो यातस्त्यक्त्वा देहं महीतले
५.०२४.०३९ धन्या देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः
५.०२४.०३९ मम पश्यन्ति ये नाथं रामं राजीवलोचनम्
५.०२४.०४० अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः
५.०२४.०४० मया रामस्य राजर्षेर्भार्यया परमात्मनः
५.०२४.०४१ दृश्यमाने भवेत्प्रीतः सौहृदं नास्त्यपश्यतः
५.०२४.०४१ नाशयन्ति कृतघ्रास्तु न रामो नाशयिष्यति
५.०२४.०४२ किं नु मे न गुणाः के चित्किं वा भाग्य क्षयो हि मे
५.०२४.०४२ याहं सीता वरार्हेण हीना रामेण भामिनी
५.०२४.०४३ श्रेयो मे जीवितान्मर्तुं विहीना या महात्मना
५.०२४.०४३ रामादक्लिष्टचारित्राच्छूराच्छत्रुनिबर्हणात्
५.०२४.०४४ अथ वा न्यस्तशस्त्रौ तौ वने मूलफलाशनौ
५.०२४.०४४ भ्रातरौ हि नर श्रेष्ठौ चरन्तौ वनगोचरौ
५.०२४.०४५ अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना
५.०२४.०४५ छद्मना घातितौ शूरौ भ्रातरौ रामलक्ष्मणौ
५.०२४.०४६ साहमेवंगते काले मर्तुमिच्छामि सर्वथा
५.०२४.०४६ न च मे विहितो मृत्युरस्मिन् दुःखेऽपि वर्तति
५.०२४.०४७ धन्याः खलु महात्मानो मुनयः सत्यसंमताः
५.०२४.०४७ जितात्मानो महाभागा येषां न स्तः प्रियाप्रिये
५.०२४.०४८ प्रियान्न संभवेद्दुःखमप्रियादधिकं भयम्
५.०२४.०४८ ताभ्यां हि ये वियुज्यन्ते नमस्तेषां महात्मनाम्
५.०२४.०४९ साहं त्यक्ता प्रियेणेह रामेण विदितात्मना
५.०२४.०४९ प्राणांस्त्यक्ष्यामि पापस्य रावणस्य गता वशम्
५.०२५.००१ इत्युक्ताः सीतया घोरं राक्षस्यः क्रोधमूर्छिताः
५.०२५.००१ काश्चिज्जग्मुस्तदाख्यातुं रावणस्य तरस्विनः
५.०२५.००२ ततः सीतामुपागम्य राक्षस्यो घोरदर्शनाः
५.०२५.००२ पुनः परुषमेकार्थमनर्थार्थमथाब्रुवन्
५.०२५.००३ हन्तेदानीं तवानार्ये सीते पापविनिश्चये
५.०२५.००३ राक्षस्यो भक्षयिष्यन्ति मांसमेतद्यथासुखम्
५.०२५.००४ सीतां ताभिरनार्याभिर्दृष्ट्वा संतर्जितां तदा
५.०२५.००४ राक्षसी त्रिजटावृद्धा शयाना वाक्यमब्रवीत्
५.०२५.००५ आत्मानं खादतानार्या न सीतां भक्षयिष्यथ
५.०२५.००५ जनकस्य सुतामिष्टां स्नुषां दशरथस्य च
५.०२५.००६ स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः
५.०२५.००६ राक्षसानामभावाय भर्तुरस्या भवाय च
५.०२५.००७ एवमुक्तास्त्रिजटया राक्षस्यः क्रोधमूर्छिताः
५.०२५.००७ सर्वा एवाब्रुवन् भीतास्त्रिजटां तामिदं वचः
५.०२५.००८ कथयस्व त्वया दृष्टः स्वप्नेऽयं कीदृशो निशि
५.०२५.००९ तासां श्रुत्वा तु वचनं राक्षसीनां मुखोद्गतम्
५.०२५.००९ उवाच वचनं काले त्रिजटास्वप्नसंश्रितम्
५.०२५.०१० गजदन्तमयीं दिव्यां शिबिकामन्तरिक्षगाम्
५.०२५.०१० युक्तां वाजिसहस्रेण स्वयमास्थाय राघवः
५.०२५.०११ स्वप्ने चाद्य मया दृष्टा सीता शुक्लाम्बरावृता
५.०२५.०११ सागरेण परिक्षिप्तं श्वेतपर्वतमास्थिता
५.०२५.०११ रामेण संगता सीता भास्करेण प्रभा यथा
५.०२५.०१२ राघवश्च मया दृष्टश्चतुर्दन्तं महागजम्
५.०२५.०१२ आरूढः शैलसंकाशं चचार सहलक्ष्मणः
५.०२५.०१३ ततस्तौ नरशार्दूलौ दीप्यमानौ स्वतेजसा
५.०२५.०१३ शुक्लमाल्याम्बरधरौ जानकीं पर्युपस्थितौ
५.०२५.०१४ ततस्तस्य नगस्याग्रे आकाशस्थस्य दन्तिनः
५.०२५.०१४ भर्त्रा परिगृहीतस्य जानकी स्कन्धमाश्रिता
५.०२५.०१५ भर्तुरङ्कात्समुत्पत्य ततः कमललोचना
५.०२५.०१५ चन्द्रसूर्यौ मया दृष्टा पाणिभ्यां परिमार्जती
५.०२५.०१६ ततस्ताभ्यां कुमाराभ्यामास्थितः स गजोत्तमः
५.०२५.०१६ सीतया च विशालाक्ष्या लङ्काया उपरि स्थितः
५.०२५.०१७ पाण्डुरर्षभयुक्तेन रथेनाष्टयुजा स्वयम्
५.०२५.०१७ शुक्लमाल्याम्बरधरो लक्ष्मणेन समागतः
५.०२५.०१७ लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया
५.०२५.०१८ विमानात्पुष्पकादद्य रावणः पतितो भुवि
५.०२५.०१८ कृष्यपाणः स्त्रिया दृष्टो मुण्डः कृष्णाम्बरः पुनः
५.०२५.०१९ रथेन खरयुक्तेन रक्तमाल्यानुलेपनः
५.०२५.०१९ प्रयातो दक्षिणामाशां प्रविष्टः कर्दमं ह्रदम्
५.०२५.०२० कण्ठे बद्ध्वा दशग्रीवं प्रमदा रक्तवासिनी
५.०२५.०२० काली कर्दमलिप्ताङ्गी दिशं याम्यां प्रकर्षति
५.०२५.०२१ वराहेण दशग्रीवः शिंशुमारेण चेन्द्रजित्
५.०२५.०२१ उष्ट्रेण कुम्भकर्णश्च प्रयातो दक्षिणां दिशम्
५.०२५.०२२ समाजश्च महान् वृत्तो गीतवादित्रनिःस्वनः
५.०२५.०२२ पिबतां रक्तमाल्यानां रक्षसां रक्तवाससाम्
५.०२५.०२३ लङ्का चेयं पुरी रम्या सवाजिरथसंकुला
५.०२५.०२३ सागरे पतिता दृष्टा भग्नगोपुरतोरणा
५.०२५.०२४ पीत्व तैलं प्रनृत्ताश्च प्रहसन्त्यो महास्वनाः
५.०२५.०२४ लङ्कायां भस्मरूक्षायां सर्वा राक्षसयोषितः
५.०२५.०२५ कुम्भकर्णादयश्चेमे सर्वे राक्षसपुंगवाः
५.०२५.०२५ रक्तं निवसनं गृह्य प्रविष्टा गोमयह्रदे
५.०२५.०२६ अपगच्छत नश्यध्वं सीतामाप्नोति राघवः
५.०२५.०२६ घातयेत्परमामर्षी सर्वैः सार्धं हि राक्षसैः
५.०२५.०२७ प्रियां बहुमतां भार्यां वनवासमनुव्रताम्
५.०२५.०२७ भर्त्सितां तर्जितां वापि नानुमंस्यति राघवः
५.०२५.०२८ तदलं क्रूरवाक्यैर्वः सान्त्वमेवाभिधीयताम्
५.०२५.०२८ अभियाचाम वैदेहीमेतद्धि मम रोचते
५.०२५.०२९ यस्या ह्येवं विधः स्वप्नो दुःखितायाः प्रदृश्यते
५.०२५.०२९ सा दुःखैर्बहुभिर्मुक्ता प्रियं प्राप्नोत्यनुत्तमम्
५.०२५.०३० भर्त्सितामपि याचध्वं राक्षस्यः किं विवक्षया
५.०२५.०३० राघवाद्धि भयं घोरं राक्षसानामुपस्थितम्
५.०२५.०३१ प्रणिपात प्रसन्ना हि मैथिली जनकात्मजा
५.०२५.०३१ अलमेषा परित्रातुं राक्षस्यो महतो भयात्
५.०२५.०३२ अपि चास्या विशालाक्ष्या न किं चिदुपलक्षये
५.०२५.०३२ विरुद्धमपि चाङ्गेषु सुसूक्ष्ममपि लक्ष्मणम्
५.०२५.०३३ छाया वैगुण्य मात्रं तु शङ्के दुःखमुपस्थितम्
५.०२५.०३३ अदुःखार्हामिमां देवीं वैहायसमुपस्थिताम्
५.०२५.०३४ अर्थसिद्धिं तु वैदेह्याः पश्याम्यहमुपस्थिताम्
५.०२५.०३४ राक्षसेन्द्रविनाशं च विजयं राघवस्य च
५.०२५.०३५ निमित्तभूतमेतत्तु श्रोतुमस्या महत्प्रियम्
५.०२५.०३५ दृश्यते च स्फुरच्चक्षुः पद्मपत्रमिवायतम्
५.०२५.०३६ ईषच्च हृषितो वास्या दक्षिणाया ह्यदक्षिणः
५.०२५.०३६ अकस्मादेव वैदेह्या बाहुरेकः प्रकम्पते
५.०२५.०३७ करेणुहस्तप्रतिमः सव्यश्चोरुरनुत्तमः
५.०२५.०३७ वेपन् सूचयतीवास्या राघवं पुरतः स्थितम्
५.०२५.०३८ पक्षी च शाखा निलयं प्रविष्टः॑ पुनः पुनश्चोत्तमसान्त्ववादी
५.०२५.०३८ सुखागतां वाचमुदीरयाणः॑ पुनः पुनश्चोदयतीव हृष्टः
५.०२६.००१ सा राक्षसेन्द्रस्य वचो निशम्य॑ तद्रावणस्याप्रियमप्रियार्ता
५.०२६.००१ सीता वितत्रास यथा वनान्ते॑ सिंहाभिपन्ना गजराजकन्या
५.०२६.००२ सा राक्षसी मध्यगता च भीरुर्॑ वाग्भिर्भृशं रावणतर्जिता च
५.०२६.००२ कान्तारमध्ये विजने विसृष्टा॑ बालेव कन्या विललाप सीता
५.०२६.००३ सत्यं बतेदं प्रवदन्ति लोके॑ नाकालमृत्युर्भवतीति सन्तः
५.०२६.००३ यत्राहमेवं परिभर्त्स्यमाना॑ जीवामि किं चित्क्षणमप्यपुण्या
५.०२६.००४ सुखाद्विहीनं बहुदुःखपूर्णम्॑ इदं तु नूनं हृदयं स्थिरं मे
५.०२६.००४ विदीर्यते यन्न सहस्रधाद्य॑ वज्राहतं शृङ्गमिवाचलस्य
५.०२६.००५ नैवास्ति नूनं मम दोषमत्र॑ वध्याहमस्याप्रियदर्शनस्य
५.०२६.००५ भावं न चास्याहमनुप्रदातुम्॑ अलं द्विजो मन्त्रमिवाद्विजाय
५.०२६.००६ नूनं ममाङ्गान्यचिरादनार्यः॑ शस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः
५.०२६.००६ तस्मिन्ननागच्छति लोकनाथे॑ गर्भस्थजन्तोरिव शल्यकृन्तः
५.०२६.००७ दुःखं बतेदं मम दुःखिताया॑ मासौ चिरायाभिगमिष्यतो द्वौ
५.०२६.००७ बद्धस्य वध्यस्य यथा निशान्ते॑ राजापराधादिव तस्करस्य
५.०२६.००८ हा राम हा लक्ष्मण हा सुमित्रे॑ हा राम मातः सह मे जनन्या
५.०२६.००८ एषा विपद्याम्यहमल्पभाग्या॑ महार्णवे नौरिव मूढ वाता
५.०२६.००९ तरस्विनौ धारयता मृगस्य॑ सत्त्वेन रूपं मनुजेन्द्रपुत्रौ
५.०२६.००९ नूनं विशस्तौ मम कारणात्तौ॑ सिंहर्षभौ द्वाविव वैद्युतेन
५.०२६.०१० नूनं स कालो मृगरूपधारी॑ मामल्पभाग्यां लुलुभे तदानीम्
५.०२६.०१० यत्रार्यपुत्रं विससर्ज मूढा॑ रामानुजं लक्ष्मणपूर्वकं च
५.०२६.०११ हा राम सत्यव्रत दीर्घवाहो॑ हा पूर्णचन्द्रप्रतिमानवक्त्र
५.०२६.०११ हा जीवलोकस्य हितः प्रियश्च॑ वध्यां न मां वेत्सि हि राक्षसानाम्
५.०२६.०१२ अनन्यदेवत्वमियं क्षमा च॑ भूमौ च शय्या नियमश्च धर्मे
५.०२६.०१२ पतिव्रतात्वं विफलं ममेदं॑ कृतं कृतघ्नेष्विव मानुषाणाम्
५.०२६.०१३ मोघो हि धर्मश्चरितो ममायं॑ तथैकपत्नीत्वमिदं निरर्थम्
५.०२६.०१३ या त्वां न पश्यामि कृशा विवर्णा॑ हीना त्वया संगमने निराशा
५.०२६.०१४ पितुर्निर्देशं नियमेन कृत्वा॑ वनान्निवृत्तश्चरितव्रतश्च
५.०२६.०१४ स्त्रीभिस्तु मन्ये विपुलेक्षणाभिः॑ संरंस्यसे वीतभयः कृतार्थः
५.०२६.०१५ अहं तु राम त्वयि जातकामा॑ चिरं विनाशाय निबद्धभावा
५.०२६.०१५ मोघं चरित्वाथ तपोव्रतं च॑ त्यक्ष्यामि धिग्जीवितमल्पभाग्या
५.०२६.०१६ सा जीवितं क्षिप्रमहं त्यजेयं॑ विषेण शस्त्रेण शितेन वापि
५.०२६.०१६ विषस्य दाता न तु मेऽस्ति कश्चिच्॑ छस्त्रस्य वा वेश्मनि राक्षसस्य
५.०२६.०१७ शोकाभितप्ता बहुधा विचिन्त्य॑ सीताथ वेण्युद्ग्रथनं गृहीत्वा
५.०२६.०१७ उद्बध्य वेण्युद्ग्रथनेन शीघ्रम्॑ अहं गमिष्यामि यमस्य मूलम्
५.०२६.०१८ इतीव सीता बहुधा विलप्य॑ सर्वात्मना राममनुस्मरन्ती
५.०२६.०१८ प्रवेपमाना परिशुष्कवक्त्रा॑ नगोत्तमं पुष्पितमाससाद
५.०२६.०१९ उपस्थिता सा मृदुर्सर्वगात्री॑ शाखां गृहीत्वाथ नगस्य तस्य
५.०२६.०१९ तस्यास्तु रामं प्रविचिन्तयन्त्या॑ रामानुजं स्वं च कुलं शुभाङ्ग्याः
५.०२६.०२० शोकानिमित्तानि तदा बहूनि॑ धैर्यार्जितानि प्रवराणि लोके
५.०२६.०२० प्रादुर्निमित्तानि तदा बभूवुः॑ पुरापि सिद्धान्युपलक्षितानि
५.०२७.००१ तथागतां तां व्यथितामनिन्दितां॑ व्यपेतहर्षां परिदीनमानसाम्
५.०२७.००१ शुभां निमित्तानि शुभानि भेजिरे॑ नरं श्रिया जुष्टमिवोपजीविनः
५.०२७.००२ तस्याः शुभं वाममरालपक्ष्म॑ राजीवृतं कृष्णविशालशुक्लम्
५.०२७.००२ प्रास्पन्दतैकं नयनं सुकेश्या॑ मीनाहतं पद्ममिवाभिताम्रम्
५.०२७.००३ भुजश्च चार्वञ्चितपीनवृत्तः॑ परार्ध्य कालागुरुचन्दनार्हः
५.०२७.००३ अनुत्तमेनाध्युषितः प्रियेण॑ चिरेण वामः समवेपताशु
५.०२७.००४ गजेन्द्रहस्तप्रतिमश्च पीनस्॑ तयोर्द्वयोः संहतयोः सुजातः
५.०२७.००४ प्रस्पन्दमानः पुनरूरुरस्या॑ रामं पुरस्तात्स्थितमाचचक्षे
५.०२७.००५ शुभं पुनर्हेमसमानवर्णम्॑ ईषद्रजोध्वस्तमिवामलाक्ष्याः
५.०२७.००५ वासः स्थितायाः शिखराग्रदन्त्याः॑ किं चित्परिस्रंसत चारुगात्र्याः
५.०२७.००६ एतैर्निमित्तैरपरैश्च सुभ्रूः॑ संबोधिता प्रागपि साधुसिद्धैः
५.०२७.००६ वातातपक्लान्तमिव प्रनष्टं॑ वर्षेण बीजं प्रतिसंजहर्ष
५.०२७.००७ तस्याः पुनर्बिम्बफलोपमौष्ठं॑ स्वक्षिभ्रुकेशान्तमरालपक्ष्म
५.०२७.००७ वक्त्रं बभासे सितशुक्लदंष्ट्रं॑ राहोर्मुखाच्चन्द्र इव प्रमुक्तः
५.०२७.००८ सा वीतशोका व्यपनीततन्द्री॑ शान्तज्वरा हर्षविबुद्धसत्त्वा
५.०२७.००८ अशोभतार्या वदनेन शुक्ले॑ शीतान्शुना रात्रिरिवोदितेन
५.०२८.००१ हनुमानपि विक्रान्तः सर्वं शुश्राव तत्त्वतः
५.०२८.००१ सीतायास्त्रिजटायाश्च राक्षसीनां च तर्जनम्
५.०२८.००२ अवेक्षमाणस्तां देवीं देवतामिव नन्दने
५.०२८.००२ ततो बहुविधां चिन्तां चिन्तयामास वानरः
५.०२८.००३ यां कपीनां सहस्राणि सुबहून्ययुतानि च
५.०२८.००३ दिक्षु सर्वासु मार्गन्ते सेयमासादिता मया
५.०२८.००४ चारेण तु सुयुक्तेन शत्रोः शक्तिमवेक्षिता
५.०२८.००४ गूढेन चरता तावदवेक्षितमिदं मया
५.०२८.००५ राक्षसानां विशेषश्च पुरी चेयमवेक्षिता
५.०२८.००५ राक्षसाधिपतेरस्य प्रभावो रावणस्य च
५.०२८.००६ युक्तं तस्याप्रमेयस्य सर्वसत्त्वदयावतः
५.०२८.००६ समाश्वासयितुं भार्यां पतिदर्शनकाङ्क्षिणीम्
५.०२८.००७ अहमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम्
५.०२८.००७ अदृष्टदुःखां दुःखस्य न ह्यन्तमधिगच्छतीम्
५.०२८.००८ यदि ह्यहमिमां देवीं शोकोपहतचेतनाम्
५.०२८.००८ अनाश्वास्य गमिष्यामि दोषवद्गमनं भवेत्
५.०२८.००९ गते हि मयि तत्रेयं राजपुत्री यशस्विनी
५.०२८.००९ परित्राणमविन्दन्ती जानकी जीवितं त्यजेत्
५.०२८.०१० मया च स महाबाहुः पूर्णचन्द्रनिभाननः
५.०२८.०१० समाश्वासयितुं न्याय्यः सीतादर्शनलालसः
५.०२८.०११ निशाचरीणां प्रत्यक्षमक्षमं चाभिभाषणम्
५.०२८.०११ कथं नु खलु कर्तव्यमिदं कृच्छ्र गतो ह्यहम्
५.०२८.०१२ अनेन रात्रिशेषेण यदि नाश्वास्यते मया
५.०२८.०१२ सर्वथा नास्ति संदेहः परित्यक्ष्यति जीवितम्
५.०२८.०१३ रामश्च यदि पृच्छेन्मां किं मां सीताब्रवीद्वचः
५.०२८.०१३ किमहं तं प्रतिब्रूयामसंभाष्य सुमध्यमाम्
५.०२८.०१४ सीतासंदेशरहितं मामितस्त्वरया गतम्
५.०२८.०१४ निर्दहेदपि काकुत्स्थः क्रुद्धस्तीव्रेण चक्षुषा
५.०२८.०१५ यदि चेद्योजयिष्यामि भर्तारं रामकारणात्
५.०२८.०१५ व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति
५.०२८.०१६ अन्तरं त्वहमासाद्य राक्षसीनामिह स्थितः
५.०२८.०१६ शनैराश्वासयिष्यामि संतापबहुलामिमाम्
५.०२८.०१७ अहं ह्यतितनुश्चैव वनरश्च विशेषतः
५.०२८.०१७ वाचं चोदाहरिष्यामि मानुषीमिह संस्कृताम्
५.०२८.०१८ यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम्
५.०२८.०१८ रावणं मन्यमाना मां सीता भीता भविष्यति
५.०२८.०१९ अवश्यमेव वक्तव्यं मानुषं वाक्यमर्थवत्
५.०२८.०१९ मया सान्त्वयितुं शक्या नान्यथेयमनिन्दिता
५.०२८.०२० सेयमालोक्य मे रूपं जानकी भाषितं तथा
५.०२८.०२० रक्षोभिस्त्रासिता पूर्वं भूयस्त्रासं गमिष्यति
५.०२८.०२१ ततो जातपरित्रासा शब्दं कुर्यान्मनस्विनी
५.०२८.०२१ जानमाना विशालाक्षी रावणं कामरूपिणम्
५.०२८.०२२ सीतया च कृते शब्दे सहसा राक्षसीगणः
५.०२८.०२२ नानाप्रहरणो घोरः समेयादन्तकोपमः
५.०२८.०२३ ततो मां संपरिक्षिप्य सर्वतो विकृताननाः
५.०२८.०२३ वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्
५.०२८.०२४ तं मां शाखाः प्रशाखाश्च स्कन्धांश्चोत्तमशाखिनाम्
५.०२८.०२४ दृष्ट्वा विपरिधावन्तं भवेयुर्भयशङ्किताः
५.०२८.०२५ मम रूपं च संप्रेक्ष्य वनं विचरतो महत्
५.०२८.०२५ राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननाः
५.०२८.०२६ ततः कुर्युः समाह्वानं राक्षस्यो रक्षसामपि
५.०२८.०२६ राक्षसेन्द्रनियुक्तानां राक्षसेन्द्रनिवेशने
५.०२८.०२७ ते शूलशरनिस्त्रिंश विविधायुधपाणयः
५.०२८.०२७ आपतेयुर्विमर्देऽस्मिन् वेगेनोद्विग्नकारिणः
५.०२८.०२८ संक्रुद्धस्तैस्तु परितो विधमन् रक्षसां बलम्
५.०२८.०२८ शक्नुयं न तु संप्राप्तुं परं पारं महोदधेः
५.०२८.०२९ मां वा गृह्णीयुराप्लुत्य बहवः शीघ्रकारिणः
५.०२८.०२९ स्यादियं चागृहीतार्था मम च ग्रहणं भवेत्
५.०२८.०३० हिंसाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्
५.०२८.०३० विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्
५.०२८.०३१ उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते
५.०२८.०३१ सागरेण परिक्षिप्ते गुप्ते वसति जानकी
५.०२८.०३२ विशस्ते वा गृहीते वा रक्षोभिर्मयि संयुगे
५.०२८.०३२ नान्यं पश्यामि रामस्य सहायं कार्यसाधने
५.०२८.०३३ विमृशंश्च न पश्यामि यो हते मयि वानरः
५.०२८.०३३ शतयोजनविस्तीर्णं लङ्घयेत महोदधिम्
५.०२८.०३४ कामं हन्तुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्
५.०२८.०३४ न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः
५.०२८.०३५ असत्यानि च युद्धानि संशयो मे न रोचते
५.०२८.०३५ कश्च निःसंशयं कार्यं कुर्यात्प्राज्ञः ससंशयम्
५.०२८.०३६ एष दोषो महान् हि स्यान्मम सीताभिभाषणे
५.०२८.०३६ प्राणत्यागश्च वैदेह्या भवेदनभिभाषणे
५.०२८.०३७ भूताश्चार्था विनश्यन्ति देशकालविरोधिताः
५.०२८.०३७ विक्लवं दूतमासाद्य तमः सूर्योदये यथा
५.०२८.०३८ अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते
५.०२८.०३८ घातयन्ति हि कार्याणि दूताः पण्डितमानिनः
५.०२८.०३९ न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत्
५.०२८.०३९ लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्
५.०२८.०४० कथं नु खलु वाक्यं मे शृणुयान्नोद्विजेत च
५.०२८.०४० इति संचिन्त्य हनुमांश्चकार मतिमान्मतिम्
५.०२८.०४१ राममक्लिष्टकर्माणं स्वबन्धुमनुकीर्तयन्
५.०२८.०४१ नैनामुद्वेजयिष्यामि तद्बन्धुगतमानसाम्
५.०२८.०४२ इक्ष्वाकूणां वरिष्ठस्य रामस्य विदितात्मनः
५.०२८.०४२ शुभानि धर्मयुक्तानि वचनानि समर्पयन्
५.०२८.०४३ श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्
५.०२८.०४३ श्रद्धास्यति यथा हीयं तथा सर्वं समादधे
५.०२८.०४४ इति स बहुविधं महानुभावो॑ जगतिपतेः प्रमदामवेक्षमाणः
५.०२८.०४४ मधुरमवितथं जगाद वाक्यं॑ द्रुमविटपान्तरमास्थितो हनूमान्
५.०२९.००१ एवं बहुविधां चिन्तां चिन्तयित्व महाकपिः
५.०२९.००१ संश्रवे मधुरं वाक्यं वैदेह्या व्याजहार ह
५.०२९.००२ राजा दशरथो नाम रथकुञ्जरवाजिनाम्
५.०२९.००२ पुण्यशीलो महाकीर्तिरृजुरासीन्महायशाः
५.०२९.००२ चक्रवर्तिकुले जातः पुरंदरसमो बले
५.०२९.००३ अहिंसारतिरक्षुद्रो घृणी सत्यपराक्रमः
५.०२९.००३ मुख्यश्चेक्ष्वाकुवंशस्य लक्ष्मीवांल्लक्ष्मिवर्धनः
५.०२९.००४ पार्थिवव्यञ्जनैर्युक्तः पृथुश्रीः पार्थिवर्षभः
५.०२९.००४ पृथिव्यां चतुरन्तयां विश्रुतः सुखदः सुखी
५.०२९.००५ तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः
५.०२९.००५ रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्
५.०२९.००६ रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता
५.०२९.००६ रक्षिता जीवलोकस्य धर्मस्य च परंतपः
५.०२९.००७ तस्य सत्याभिसंधस्य वृद्धस्य वचनात्पितुः
५.०२९.००७ सभार्यः सह च भ्रात्रा वीरः प्रव्रजितो वनम्
५.०२९.००८ तेन तत्र महारण्ये मृगयां परिधावता
५.०२९.००८ जनस्थानवधं श्रुत्वा हतौ च खरदूषणौ
५.०२९.००८ ततस्त्वमर्षापहृता जानकी रावणेन तु
५.०२९.००९ यथारूपां यथावर्णां यथालक्ष्मीं विनिश्चिताम्
५.०२९.००९ अश्रौषं राघवस्याहं सेयमासादिता मया
५.०२९.०१० विररामैवमुक्त्वासौ वाचं वानरपुंगवः
५.०२९.०१० जानकी चापि तच्छ्रुत्वा विस्मयं परमं गता
५.०२९.०११ ततः सा वक्रकेशान्ता सुकेशी केशसंवृतम्
५.०२९.०११ उन्नम्य वदनं भीरुः शिंशपावृक्षमैक्षत
५.०२९.०१२ सा तिर्यगूर्ध्वं च तथाप्यधस्तान्॑ निरीक्षमाणा तमचिन्त्य बुद्धिम्
५.०२९.०१२ ददर्श पिङ्गाधिपतेरमात्यं॑ वातात्मजं सूर्यमिवोदयस्थम्
५.०३०.००१ ततः शाखान्तरे लीनं दृष्ट्वा चलितमानसा
५.०३०.००१ सा ददर्श कपिं तत्र प्रश्रितं प्रियवादिनम्
५.०३०.००२ सा तु दृष्ट्वा हरिश्रेष्ठं विनीतवदुपस्थितम्
५.०३०.००२ मैथिली चिन्तयामास स्वप्नोऽयमिति भामिनी
५.०३०.००३ सा तं समीक्ष्यैव भृशं विसंज्ञा॑ गतासुकल्पेव बभूव सीता
५.०३०.००३ चिरेण संज्ञां प्रतिलभ्य चैव॑ विचिन्तयामास विशालनेत्रा
५.०३०.००४ स्वप्नो मयायं विकृतोऽद्य दृष्टः॑ शाखामृगः शास्त्रगणैर्निषिद्धः
५.०३०.००४ स्वस्त्यस्तु रामाय सलक्ष्मणाय॑ तथा पितुर्मे जनकस्य राज्ञः
५.०३०.००५ स्वप्नोऽपि नायं न हि मेऽस्ति निद्रा॑ शोकेन दुःखेन च पीडितायाः
५.०३०.००५ सुखं हि मे नास्ति यतोऽस्मि हीना॑ तेनेन्दुपूर्णप्रतिमाननेन
५.०३०.००६ अहं हि तस्याद्य मनो भवेन॑ संपीडिता तद्गतसर्वभावा
५.०३०.००६ विचिन्तयन्ती सततं तमेव॑ तथैव पश्यामि तथा शृणोमि
५.०३०.००७ मनोरथः स्यादिति चिन्तयामि॑ तथापि बुद्ध्या च वितर्कयामि
५.०३०.००७ किं कारणं तस्य हि नास्ति रूपं॑ सुव्यक्तरूपश्च वदत्ययं माम्
५.०३०.००८ नमोऽस्तु वाचस्पतये सवज्रिणे॑ स्वयम्भुवे चैव हुताशनाय
५.०३०.००८ अनेन चोक्तं यदिदं ममाग्रतो॑ वनौकसा तच्च तथास्तु नान्यथा
५.०३१.००१ तामब्रवीन्महातेजा हनूमान्मारुतात्मजः
५.०३१.००१ शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा
५.०३१.००२ का नु पद्मपलाशाक्षी क्लिष्टकौशेयवासिनी
५.०३१.००२ द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिता
५.०३१.००३ किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्
५.०३१.००३ पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम्
५.०३१.००४ सुराणामसुराणां च नागगन्धर्वरक्षसाम्
५.०३१.००४ यक्षाणां किंनराणां च का त्वं भवसि शोभने
५.०३१.००५ का त्वं भवसि रुद्राणां मरुतां वा वरानने
५.०३१.००५ वसूनां वा वरारोहे देवता प्रतिभासि मे
५.०३१.००६ किं नु चन्द्रमसा हीना पतिता विबुधालयात्
५.०३१.००६ रोहिणी ज्योतिषां श्रेष्ठा श
्रेष्ठा सर्वगुणान्विता
५.०३१.००७ कोपाद्वा यदि वा मोहाद्भर्तारमसितेक्षणा
५.०३१.००७ वसिष्ठं कोपयित्वा त्वं नासि कल्याण्यरुन्धती
५.०३१.००८ को नौ पुत्रः पिता भ्रात भर्ता वा ते सुमध्यमे
५.०३१.००८ अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि
५.०३१.००९ व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये
५.०३१.००९ महिषी भूमिपालस्य राजकन्यासि मे मता
५.०३१.०१० रावणेन जनस्थानाद्बलादपहृता यदि
५.०३१.०१० सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः
५.०३१.०११ सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता
५.०३१.०११ उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम्
५.०३१.०१२ दुहिता जनकस्याहं वैदेहस्य महात्मनः
५.०३१.०१२ सीता च नाम नाम्नाहं भार्या रामस्य धीमतः
५.०३१.०१३ समा द्वादश तत्राहं राघवस्य निवेशने
५.०३१.०१३ भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी
५.०३१.०१४ ततस्त्रयोदशे वर्षे राज्येनेक्ष्वाकुनन्दनम्
५.०३१.०१४ अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे
५.०३१.०१५ तस्मिन् संभ्रियमाणे तु राघवस्याभिषेचने
५.०३१.०१५ कैकेयी नाम भर्तारं देवी वचनमब्रवीत्
५.०३१.०१६ न पिबेयं न खादेयं प्रत्यहं मम भोजनम्
५.०३१.०१६ एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते
५.०३१.०१७ यत्तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम
५.०३१.०१७ तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः
५.०३१.०१८ स राजा सत्यवाग्देव्या वरदानमनुस्मरन्
५.०३१.०१८ मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम्
५.०३१.०१९ ततस्तु स्थविरो राजा सत्यधर्मे व्यवस्थितः
५.०३१.०१९ ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत
५.०३१.०२० स पितुर्वचनं श्रीमानभिषेकात्परं प्रियम्
५.०३१.०२० मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान्
५.०३१.०२१ दद्यान्न प्रतिगृह्णीयान्न ब्रूयत्किं चिदप्रियम्
५.०३१.०२१ अपि जीवितहेतोर्हि रामः सत्यपराक्रमः
५.०३१.०२२ स विहायोत्तरीयाणि महार्हाणि महायशाः
५.०३१.०२२ विसृज्य मनसा राज्यं जनन्यै मां समादिशत्
५.०३१.०२३ साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी
५.०३१.०२३ न हि मे तेन हीनाया वासः स्वर्गेऽपि रोचते
५.०३१.०२४ प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः
५.०३१.०२४ पूर्वजस्यानुयात्रार्थे द्रुमचीरैरलंकृतः
५.०३१.०२५ ते वयं भर्तुरादेशं बहु मान्यदृढव्रताः
५.०३१.०२५ प्रविष्टाः स्म पुराद्दृष्टं वनं गम्भीरदर्शनम्
५.०३१.०२६ वसतो दण्डकारण्ये तस्याहममितौजसः
५.०३१.०२६ रक्षसापहृता भार्या रावणेन दुरात्मना
५.०३१.०२७ द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः
५.०३१.०२७ ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम्
५.०३२.००१ तस्यास्तद्वचनं श्रुत्वा हनूमान् हरियूथपः
५.०३२.००१ दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत्
५.०३२.००२ अहं रामस्य संदेशाद्देवि दूतस्तवागतः
५.०३२.००२ वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत्
५.०३२.००३ यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः
५.०३२.००३ स त्वां दाशरथी रामो देवि कौशलमब्रवीत्
५.०३२.००४ लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः
५.०३२.००४ कृतवाञ्शोकसंतप्तः शिरसा तेऽभिवादनम्
५.०३२.००५ सा तयोः कुशलं देवी निशम्य नरसिंहयोः
५.०३२.००५ प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत्
५.०३२.००६ कल्याणी बत गथेयं लौकिकी प्रतिभाति मे
५.०३२.००६ एहि जीवन्तमानदो नरं वर्षशतादपि
५.०३२.००७ तयोः समागमे तस्मिन् प्रीतिरुत्पादिताद्भुता
५.०३२.००७ परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः
५.०३२.००८ तस्यास्तद्वचनं श्रुत्वा हनूमान् हरियूथपः
५.०३२.००८ सीतायाः शोकदीनायाः समीपमुपचक्रमे
५.०३२.००९ यथा यथा समीपं स हनूमानुपसर्पति
५.०३२.००९ तथा तथा रावणं सा तं सीता परिशङ्कते
५.०३२.०१० अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे
५.०३२.०१० रूपान्तरमुपागम्य स एवायं हि रावणः
५.०३२.०११ तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता
५.०३२.०११ तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत्
५.०३२.०१२ अवन्दत महाबाहुस्ततस्तां जनकात्मजाम्
५.०३२.०१२ सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत
५.०३२.०१३ तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना
५.०३२.०१३ अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा
५.०३२.०१४ मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम्
५.०३२.०१४ उत्पादयसि मे भूयः संतापं तन्न शोभनम्
५.०३२.०१५ स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत्
५.०३२.०१५ जनस्थाने मया दृष्टस्त्वं स एवासि रावणः
५.०३२.०१६ उपवासकृशां दीनां कामरूप निशाचर
५.०३२.०१६ संतापयसि मां भूयः संतापं तन्न शोभनम्
५.०३२.०१७ यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते
५.०३२.०१७ पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे
५.०३२.०१८ गुणान् रामस्य कथय प्रियस्य मम वानर
५.०३२.०१८ चित्तं हरसि मे सौम्य नदीकूलं यथा रयः
५.०३२.०१९ अहो स्वप्नस्य सुखता याहमेवं चिराहृता
५.०३२.०१९ प्रेषितं नाम पश्यामि राघवेण वनौकसं
५.०३२.०२० स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम्
५.०३२.०२० पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी
५.०३२.०२१ नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम्
५.०३२.०२१ न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम
५.०३२.०२२ किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम्
५.०३२.०२२ उन्मादजो विकारो वा स्यादियं मृगतृष्णिका
५.०३२.०२३ अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः
५.०३२.०२३ संबुध्ये चाहमात्मानमिमं चापि वनौकसं
५.०३२.०२४ इत्येवं बहुधा सीता संप्रधार्य बलाबलम्
५.०३२.०२४ रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम्
५.०३२.०२५ एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा
५.०३२.०२५ न प्रतिव्याजहाराथ वानरं जनकात्मजा
५.०३२.०२६ सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः
५.०३२.०२६ श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत्
५.०३२.०२७ आदित्य इव तेजस्वी लोककान्तः शशी यथा
५.०३२.०२७ राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा
५.०३२.०२८ विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः
५.०३२.०२८ सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा
५.०३२.०२९ रूपवान् सुभगः श्रीमान् कन्दर्प इव मूर्तिमान्
५.०३२.०२९ स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः
५.०३२.०२९ बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः
५.०३२.०३० अपकृष्याश्रमपदान्मृगरूपेण राघवम्
५.०३२.०३० शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम्
५.०३२.०३१ नचिराद्रावणं संख्ये यो वधिष्यति वीर्यवान्
५.०३२.०३१ रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः
५.०३२.०३२ तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः
५.०३२.०३२ त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत्
५.०३२.०३३ लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः
५.०३२.०३३ अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत्
५.०३२.०३४ रामस्य च सखा देवि सुग्रीवो नाम वानरः
५.०३२.०३४ राजा वानरमुख्यानां स त्वां कौशलमब्रवीत्
५.०३२.०३५ नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः
५.०३२.०३५ दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता
५.०३२.०३६ नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम्
५.०३२.०३६ मध्ये वानरकोटीनां सुग्रीवं चामितौजसं
५.०३२.०३७ अहं सुग्रीवसचिवो हनूमान्नाम वानरः
५.०३२.०३७ प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम्
५.०३२.०३८ कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः
५.०३२.०३८ त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम्
५.०३२.०३९ नाहमस्मि तथा देवि यथा मामवगच्छसि
५.०३२.०३९ विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम
५.०३३.००१ तां तु राम कथां श्रुत्वा वैदेही वानरर्षभात्
५.०३३.००१ उवाच वचनं सान्त्वमिदं मधुरया गिरा
५.०३३.००२ क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम्
५.०३३.००२ वानराणां नराणां च कथमासीत्समागमः
५.०३३.००३ यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर
५.०३३.००३ तानि भूयः समाचक्ष्व न मां शोकः समाविशेत्
५.०३३.००४ कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम्
५.०३३.००४ कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे
५.०३३.००५ एवमुक्तस्तु वैदेह्या हनूमान्मारुतात्मजः
५.०३३.००५ ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे
५.०३३.००६ जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि
५.०३३.००६ भर्तुः कमलपत्राक्षि संख्यानं लक्ष्मणस्य च
५.०३३.००७ यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै
५.०३३.००७ लक्षितानि विशालाक्षि वदतः शृणु तानि मे
५.०३३.००८ रामः कमलपत्राक्षः सर्वभूतमनोहरः
५.०३३.००८ रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे
५.०३३.००९ तेजसादित्यसंकाशः क्षमया पृथिवीसमः
५.०३३.००९ बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः
५.०३३.०१० रक्षिता जीवलोकस्य स्वजनस्य च रक्षिता
५.०३३.०१० रक्षिता स्वस्य वृत्तस्य धर्मस्य च परंतपः
५.०३३.०११ रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता
५.०३३.०११ मर्यादानां च लोकस्य कर्ता कारयिता च सः
५.०३३.०१२ अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः
५.०३३.०१२ साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम्
५.०३३.०१३ राजविद्याविनीतश्च ब्राह्मणानामुपासिता
५.०३३.०१३ श्रुतवाञ्शीलसंपन्नो विनीतश्च परंतपः
५.०३३.०१४ यजुर्वेदविनीतश्च वेदविद्भिः सुपूजितः
५.०३३.०१४ धनुर्वेदे च वेदे च वेदाङ्गेषु च निष्ठितः
५.०३३.०१५ विपुलांसो महाबाहुः कम्बुग्रीवः शुभाननः
५.०३३.०१५ गूढजत्रुः सुताम्राक्षो रामो देवि जनैः श्रुतः
५.०३३.०१६ दुन्दुभिस्वननिर्घोषः स्निग्धवर्णः प्रतापवान्
५.०३३.०१६ समः समविभक्ताङ्गो वर्णं श्यामं समाश्रितः
५.०३३.०१७ त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः
५.०३३.०१७ त्रिवलीवांस्त्र्यवणतश्चतुर्व्यङ्गस्त्रिशीर्षवान्
५.०३३.०१८ चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतुःसमः
५.०३३.०१८ चतुर्दशसमद्वन्द्वश्चतुर्दष्टश्चतुर्गतिः
५.०३३.०१९ महौष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान्
५.०३३.०१९ दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान्
५.०३३.०१९ षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः
५.०३३.०२० सत्यधर्मपरः श्रीमान् संग्रहानुग्रहे रतः
५.०३३.०२० देशकालविभागज्ञः सर्वलोकप्रियंवदः
५.०३३.०२१ भ्राता च तस्य द्वैमात्रः सौमित्रिरपराजितः
५.०३३.०२१ अनुरागेण रूपेण गुणैश्चैव तथाविधः
५.०३३.०२२ त्वामेव मार्गमाणो तौ विचरन्तौ वसुंधराम्
५.०३३.०२२ ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम्
५.०३३.०२३ ऋश्यमूकस्य पृष्ठे तु बहुपादपसंकुले
५.०३३.०२३ भ्रातुर्भार्यार्तमासीनं सुग्रीवं प्रियदर्शनम्
५.०३३.०२४ वयं तु हरिराजं तं सुग्रीवं सत्यसंगरम्
५.०३३.०२४ परिचर्यामहे राज्यात्पूर्वजेनावरोपितम्
५.०३३.०२५ ततस्तौ चीरवसनौ धनुःप्रवरपाणिनौ
५.०३३.०२५ ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ
५.०३३.०२६ स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः
५.०३३.०२६ अभिप्लुतो गिरेस्तस्य शिखरं भयमोहितः
५.०३३.०२७ ततः स शिखरे तस्मिन् वानरेन्द्रो व्यवस्थितः
५.०३३.०२७ तयोः समीपं मामेव प्रेषयामास सत्वरः
५.०३३.०२८ तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू
५.०३३.०२८ रूपलक्षणसंपन्नौ कृताञ्जलिरुपस्थितः
५.०३३.०२९ तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ
५.०३३.०२९ पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ
५.०३३.०३० निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने
५.०३३.०३० तयोरन्योन्यसंभाषाद्भृशं प्रीतिरजायत
५.०३३.०३१ तत्र तौ कीर्तिसंपन्नौ हरीश्वरनरेश्वरौ
५.०३३.०३१ परस्परकृताश्वासौ कथया पूर्ववृत्तया
५.०३३.०३२ तं ततः सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः
५.०३३.०३२ स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरु तेजसा
५.०३३.०३३ ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः
५.०३३.०३३ लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत्
५.०३३.०३४ स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः
५.०३३.०३४ तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान्
५.०३३.०३५ ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया
५.०३३.०३५ यान्याभरणजालानि पातितानि महीतले
५.०३३.०३६ तानि सर्वाणि रामाय आनीय हरियूथपाः
५.०३३.०३६ संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव
५.०३३.०३७ तानि रामाय दत्तानि मयैवोपहृतानि च
५.०३३.०३७ स्वनवन्त्यवकीर्णन्ति तस्मिन् विहतचेतसि
५.०३३.०३८ तान्यङ्के दर्शनीयानि कृत्वा बहुविधं ततः
५.०३३.०३८ तेन देवप्रकाशेन देवेन परिदेवितम्
५.०३३.०३९ पश्यतस्तस्या रुदतस्ताम्यतश्च पुनः पुनः
५.०३३.०३९ प्रादीपयन् दाशरथेस्तानि शोकहुताशनम्
५.०३३.०४० शयितं च चिरं तेन दुःखार्तेन महात्मना
५.०३३.०४० मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः
५.०३३.०४१ तानि दृष्ट्वा महार्हाणि दर्शयित्वा मुहुर्मुहुः
५.०३३.०४१ राघवः सहसौमित्रिः सुग्रीवे स न्यवेदयत्
५.०३३.०४२ स तवादर्शनादार्ये राघवः परितप्यते
५.०३३.०४२ महता ज्वलता नित्यमग्निनेवाग्निपर्वतः
५.०३३.०४३ त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम्
५.०३३.०४३ तापयन्ति महात्मानमग्न्यगारमिवाग्नयः
५.०३३.०४४ तवादर्शनशोकेन राघवः प्रविचाल्यते
५.०३३.०४४ महता भूमिकम्पेन महानिव शिलोच्चयः
५.०३३.०४५ कानानानि सुरम्याणि नदीप्रस्रवणानि च
५.०३३.०४५ चरन्न रतिमाप्नोति त्वमपश्यन्नृपात्मजे
५.०३३.०४६ स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः
५.०३३.०४६ समित्रबान्धवं हत्वा रावणं जनकात्मजे
५.०३३.०४७ सहितौ रामसुग्रीवावुभावकुरुतां तदा
५.०३३.०४७ समयं वालिनं हन्तुं तव चान्वेषणं तथा
५.०३३.०४८ ततो निहत्य तरसा रामो वालिनमाहवे
५.०३३.०४८ सर्वर्क्षहरिसंघानां सुग्रीवमकरोत्पतिम्
५.०३३.०४९ रामसुग्रीवयोरैक्यं देव्येवं समजायत
५.०३३.०४९ हनूमन्तं च मां विद्धि तयोर्दूतमिहागतम्
५.०३३.०५० स्वराज्यं प्राप्य सुग्रीवः समनीय महाहरीन्
५.०३३.०५० त्वदर्थं प्रेषयामास दिशो दश महाबलान्
५.०३३.०५१ आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसः
५.०३३.०५१ अद्रिराजप्रतीकाशाः सर्वतः प्रस्थिता महीम्
५.०३३.०५२ अङ्गदो नाम लक्ष्मीवान् वालिसूनुर्महाबलः
५.०३३.०५२ प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः
५.०३३.०५३ तेषां नो विप्रनष्टानां विन्ध्ये पर्वतसत्तमे
५.०३३.०५३ भृशं शोकपरीतनामहोरात्रगणा गताः
५.०३३.०५४ ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च
५.०३३.०५४ भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः
५.०३३.०५५ विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च
५.०३३.०५५ अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं व्यवस्थिताः
५.०३३.०५६ भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः
५.०३३.०५६ तव नाशं च वैदेहि वालिनश्च तथा वधम्
५.०३३.०५६ प्रायोपवेशमस्माकं मरणं च जटायुषः
५.०३३.०५७ तेषां नः स्वामिसंदेशान्निराशानां मुमूर्षताम्
५.०३३.०५७ कार्यहेतोरिवायातः शकुनिर्वीर्यवान्महान्
५.०३३.०५८ गृध्रराजस्य सोदर्यः संपातिर्नाम गृध्रराट्
५.०३३.०५८ श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत्
५.०३३.०५९ यवीयान् केन मे भ्राता हतः क्व च विनाशितः
५.०३३.०५९ एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः
५.०३३.०६० अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम्
५.०३३.०६० रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम्
५.०३३.०६१ जटायोस्तु वधं श्रुत्वा दुःखितः सोऽरुणात्मजः
५.०३३.०६१ त्वामाह स वरारोहे वसन्तीं रावणालये
५.०३३.०६२ तस्य तद्वचनं श्रुत्वा संपातेः प्रीतिवर्धनम्
५.०३३.०६२ अङ्गदप्रमुखाः सर्वे ततः संप्रस्थिता वयम्
५.०३३.०६२ त्वद्दर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवंगमाः
५.०३३.०६३ अथाहं हरिसैन्यस्य सागरं दृश्य सीदतः
५.०३३.०६३ व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः
५.०३३.०६४ लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला
५.०३३.०६४ रावणश्च मया दृष्टस्त्वं च शोकनिपीडिता
५.०३३.०६५ एतत्ते सर्वमाख्यातं यथावृत्तमनिन्दिते
५.०३३.०६५ अभिभाषस्व मां देवि दूतो दाशरथेरहम्
५.०३३.०६६ त्वं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम्
५.०३३.०६६ सुग्रीव सचिवं देवि बुध्यस्व पवनात्मजम्
५.०३३.०६७ कुशली तव काकुत्स्थः सर्वशस्त्रभृतां वरः
५.०३३.०६७ गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः
५.०३३.०६८ तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः
५.०३३.०६८ अहमेकस्तु संप्राप्तः सुग्रीववचनादिह
५.०३३.०६९ मयेयमसहायेन चरता कामरूपिणा
५.०३३.०६९ दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा
५.०३३.०७० दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम्
५.०३३.०७० अपनेष्यामि संतापं तवाभिगमशंसनात्
५.०३३.०७१ दिष्ट्या हि न मम व्यर्थं देवि सागरलङ्घनम्
५.०३३.०७१ प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः
५.०३३.०७२ राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते
५.०३३.०७२ समित्रबान्धवं हत्वा रावणं राक्षसाधिपम्
५.०३३.०७३ कौरजो नाम वैदेहि गिरीणामुत्तमो गिरिः
५.०३३.०७३ ततो गच्छति गोकर्णं पर्वतं केसरी हरिः
५.०३३.०७४ स च देवर्षिभिर्दृष्टः पिता मम महाकपिः
५.०३३.०७४ तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत्
५.०३३.०७५ तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि
५.०३३.०७५ हनूमानिति विख्यातो लोके स्वेनैव कर्मणा
५.०३३.०७५ विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः
५.०३३.०७६ एवं विश्वासिता सीता हेतुभिः शोककर्शिता
५.०३३.०७६ उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति
५.०३३.०७७ अतुलं च गता हर्षं प्रहर्षेण तु जानकी
५.०३३.०७७ नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम्
५.०३३.०७८ चारु तच्चाननं तस्यास्ताम्रशुक्लायतेक्षणम्
५.०३३.०७८ अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट्
५.०३३.०७८ हनूमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा
५.०३३.०७९ अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम्
५.०३३.०८० हतेऽसुरे संयति शम्बसादने॑ कपिप्रवीरेण महर्षिचोदनात्
५.०३३.०८० ततोऽस्मि वायुप्रभवो हि मैथिलि॑ प्रभावतस्तत्प्रतिमश्च वानरः
५.०३४.००१ भूय एव महातेजा हनूमान्मारुतात्मजः
५.०३४.००१ अब्रवीत्प्रश्रितं वाक्यं सीताप्रत्ययकारणात्
५.०३४.००२ वानरोऽहं महाभागे दूतो रामस्य धीमतः
५.०३४.००२ रामनामाङ्कितं चेदं पश्य देव्यङ्गुलीयकम्
५.०३४.००२ समाश्वसिहि भद्रं ते क्षीणदुःखफला ह्यसि
५.०३४.००३ गृहीत्वा प्रेक्षमाणा सा भर्तुः करविभूषणम्
५.०३४.००३ भर्तारमिव संप्राप्ता जानकी मुदिताभवत्
५.०३४.००४ चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम्
५.०३४.००४ बभूव प्रहर्षोदग्रं राहुमुक्त इवोडुराट्
५.०३४.००५ ततः सा ह्रीमती बाला भर्तुः संदेशहर्षिता
५.०३४.००५ परितुट्षा प्रियं श्रुत्वा प्राशंसत महाकपिम्
५.०३४.००६ विक्रान्तस्त्वं समर्थस्त्वं प्राज्ञस्त्वं वानरोत्तम
५.०३४.००६ येनेदं राक्षसपदं त्वयैकेन प्रधर्षितम्
५.०३४.००७ शतयोजनविस्तीर्णः सागरो मकरालयः
५.०३४.००७ विक्रमश्लाघनीयेन क्रमता गोष्पदीकृतः
५.०३४.००८ न हि त्वां प्राकृतं मन्ये वनरं वनरर्षभ
५.०३४.००८ यस्य ते नास्ति संत्रासो रावणान्नापि संभ्रमः
५.०३४.००९ अर्हसे च कपिश्रेष्ठ मया समभिभाषितुम्
५.०३४.००९ यद्यसि प्रेषितस्तेन रामेण विदितात्मना
५.०३४.०१० प्रेषयिष्यति दुर्धर्षो रामो न ह्यपरीक्षितम्
५.०३४.०१० पराक्रममविज्ञाय मत्सकाशं विशेषतः
५.०३४.०११ दिष्ट्या च कुशली रामो धर्मात्मा धर्मवत्सलः
५.०३४.०११ लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः
५.०३४.०१२ कुशली यदि काकुत्स्थः किं नु सागरमेखलाम्
५.०३४.०१२ महीं दहति कोपेन युगान्ताग्निरिवोत्थितः
५.०३४.०१३ अथ वा शक्तिमन्तौ तौ सुराणामपि निग्रहे
५.०३४.०१३ ममैव तु न दुःखानामस्ति मन्ये विपर्ययः
५.०३४.०१४ कच्चिच्च व्यथते रामः कच्चिन्न परिपत्यते
५.०३४.०१४ उत्तराणि च कार्याणि कुरुते पुरुषोत्तमः
५.०३४.०१५ कच्चिन्न दीनः संभ्रान्तः कार्येषु च न मुह्यति
५.०३४.०१५ कच्चिन् पुरुषकार्याणि कुरुते नृपतेः सुतः
५.०३४.०१६ द्विविधं त्रिविधोपायमुपायमपि सेवते
५.०३४.०१६ विजिगीषुः सुहृत्कच्चिन्मित्रेषु च परंतपः
५.०३४.०१७ कच्चिन्मित्राणि लभते मित्रैश्चाप्यभिगम्यते
५.०३४.०१७ कच्चित्कल्याणमित्रश्च मित्रैश्चापि पुरस्कृतः
५.०३४.०१८ कच्चिदाशास्ति देवानां प्रसादं पार्थिवात्मजः
५.०३४.०१८ कच्चित्पुरुषकारं च दैवं च प्रतिपद्यते
५.०३४.०१९ कच्चिन्न विगतस्नेहो विवासान्मयि राघवः
५.०३४.०१९ कच्चिन्मां व्यसनादस्मान्मोक्षयिष्यति वानरः
५.०३४.०२० सुखानामुचितो नित्यमसुखानामनूचितः
५.०३४.०२० दुःखमुत्तरमासाद्य कच्चिद्रामो न सीदति
५.०३४.०२१ कौसल्यायास्तथा कच्चित्सुमित्रायास्तथैव च
५.०३४.०२१ अभीक्ष्णं श्रूयते कच्चित्कुशलं भरतस्य च
५.०३४.०२२ मन्निमित्तेन मानार्हः कच्चिच्छोकेन राघवः
५.०३४.०२२ कच्चिन्नान्यमना रामः कच्चिन्मां तारयिष्यति
५.०३४.०२३ कच्चिदक्षाउहिणीं भीमां भरतो भ्रातृवत्सलः
५.०३४.०२३ ध्वजिनीं मन्त्रिभिर्गुप्तां प्रेषयिष्यति मत्कृते
५.०३४.०२४ वानराधिपतिः श्रीमान् सुग्रीवः कच्चिदेष्यति
५.०३४.०२४ मत्कृते हरिभिर्वीरैर्वृतो दन्तनखायुधैः
५.०३४.०२५ कच्चिच्च लक्ष्मणः शूरः सुमित्रानन्दवर्धनः
५.०३४.०२५ अस्त्रविच्छरजालेन राक्षसान् विधमिष्यति
५.०३४.०२६ रौद्रेण कच्चिदस्त्रेण रामेण निहतं रणे
५.०३४.०२६ द्रक्ष्याम्यल्पेन कालेन रावणं ससुहृज्जनम्
५.०३४.०२७ कच्चिन्न तद्धेमसमानवर्णं॑ तस्याननं पद्मसमानगन्धि
५.०३४.०२७ मया विना शुष्यति शोकदीनं॑ जलक्षये पद्ममिवातपेन
५.०३४.०२८ धर्मापदेशात्त्यजतश्च राज्यां॑ मां चाप्यरण्यं नयतः पदातिम्
५.०३४.०२८ नासीद्व्यथा यस्य न भीर्न शोकः॑ कच्चित्स धैर्यं हृदये करोति
५.०३४.०२९ न चास्य माता न पिता न चान्यः॑ स्नेहाद्विशिष्टोऽस्ति मया समो वा
५.०३४.०२९ तावद्ध्यहं दूतजिजीविषेयं॑ यावत्प्रवृत्तिं शृणुयां प्रियस्य
५.०३४.०३० इतीव देवी वचनं महार्थं॑ तं वानरेन्द्रं मधुरार्थमुक्त्वा
५.०३४.०३० श्रोतुं पुनस्तस्य वचोऽभिरामं॑ रामार्थयुक्तं विरराम रामा
५.०३४.०३१ सीताया वचनं श्रुत्वा मारुतिर्भीमविक्रमः
५.०३४.०३१ शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्
५.०३४.०३२ न त्वामिहस्थां जानीते रामः कमललोचनः
५.०३४.०३२ श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः
५.०३४.०३३ चमूं प्रकर्षन्महतीं हर्यृष्कगणसंकुलाम्
५.०३४.०३३ विष्टम्भयित्वा बाणौघैरक्षोभ्यं वरुणालयम्
५.०३४.०३३ करिष्यति पुरीं लङ्कां काकुत्स्थः शान्तराक्षसाम्
५.०३४.०३४ तत्र यद्यन्तरा मृत्युर्यदि देवाः सहासुराः
५.०३४.०३४ स्थास्यन्ति पथि रामस्य स तानपि वधिष्यति
५.०३४.०३५ तवादर्शनजेनार्ये शोकेन स परिप्लुतः
५.०३४.०३५ न शर्म लभते रामः सिंहार्दित इव द्विपः
५.०३४.०३६ दर्दरेण च ते देवि शपे मूलफलेन च
५.०३४.०३६ मलयेन च विन्ध्येन मेरुणा मन्दरेण च
५.०३४.०३७ यथा सुनयनं वल्गु बिम्बौष्ठं चारुकुण्डलम्
५.०३४.०३७ मुखं द्रक्ष्यसि रामस्य पूर्णचन्द्रमिवोदितम्
५.०३४.०३८ क्षिप्रं द्रक्ष्यसि वैदेहि रामं प्रस्रवणे गिरौ
५.०३४.०३८ शतक्रतुमिवासीनं नाकपृष्ठस्य मूर्धनि
५.०३४.०३९ न मांसं राघवो भुङ्क्ते न चापि मधुसेवते
५.०३४.०३९ वन्यं सुविहितं नित्यं भक्तमश्नाति पञ्चमम्
५.०३४.०४० नैव दंशान्न मशकान्न कीटान्न सरीसृपान्
५.०३४.०४० राघवोऽपनयेद्गत्रात्त्वद्गतेनान्तरात्मना
५.०३४.०४१ नित्यं ध्यानपरो रामो नित्यं शोकपरायणः
५.०३४.०४१ नान्यच्चिन्तयते किं चित्स तु कामवशं गतः
५.०३४.०४२ अनिद्रः सततं रामः सुप्तोऽपि च नरोत्तमः
५.०३४.०४२ सीतेति मधुरां वाणीं व्याहरन् प्रतिबुध्यते
५.०३४.०४३ दृष्ट्वा फलं वा पुष्पं वा यच्चान्यत्स्त्रीमनोहरम्
५.०३४.०४३ बहुशो हा प्रियेत्येवं श्वसंस्त्वामभिभाषते
५.०३४.०४४ स देवि नित्यं परितप्यमानस्॑ त्वामेव सीतेत्यभिभाषमाणः
५.०३४.०४४ धृतव्रतो राजसुतो महात्मा॑ तवैव लाभाय कृतप्रयत्नः
५.०३४.०४५ सा रामसंकीर्तनवीतशोका॑ रामस्य शोकेन समानशोका
५.०३४.०४५ शरन्मुखेनाम्बुदशेषचन्द्रा॑ निशेव वैदेहसुता बभूव
५.०३५.००१ सीता तद्वचनं श्रुत्वा पूर्णचन्द्रनिभानना
५.०३५.००१ हनूमन्तमुवाचेदं धर्मार्थसहितं वचः
५.०३५.००२ अमृतं विषसंसृष्टं त्वया वानरभाषितम्
५.०३५.००२ यच्च नान्यमना रामो यच्च शोकपरायणः
५.०३५.००३ ऐश्वर्ये वा सुविस्तीर्णे व्यसने वा सुदारुणे
५.०३५.००३ रज्ज्वेव पुरुषं बद्ध्वा कृतान्तः परिकर्षति
५.०३५.००४ विधिर्नूनमसंहार्यः प्राणिनां प्लवगोत्तम
५.०३५.००४ सौमित्रिं मां च रामं च व्यसनैः पश्य मोहितान्
५.०३५.००५ शोकस्यास्य कदा पारं राघवोऽधिगमिष्यति
५.०३५.००५ प्लवमानः परिश्रान्तो हतनौः सागरे यथा
५.०३५.००६ राक्षसानां क्षयं कृत्वा सूदयित्वा च रावणम्
५.०३५.००६ लङ्कामुन्मूलितां कृत्वा कदा द्रक्ष्यति मां पतिः
५.०३५.००७ स वाच्यः संत्वरस्वेति यावदेव न पूर्यते
५.०३५.००७ अयं संवत्सरः कालस्तावद्धि मम जीवितम्
५.०३५.००८ वर्तते दशमो मासो द्वौ तु शेषौ प्लवंगम
५.०३५.००८ रावणेन नृशंसेन समयो यः कृतो मम
५.०३५.००९ विभीषणेन च भ्रात्रा मम निर्यातनं प्रति
५.०३५.००९ अनुनीतः प्रयत्नेन न च तत्कुरुते मतिम्
५.०३५.०१० मम प्रतिप्रदानं हि रावणस्य न रोचते
५.०३५.०१० रावणं मार्गते संख्ये मृत्युः कालवशं गतम्
५.०३५.०११ ज्येष्ठा कन्यानला नम विभीषणसुता कपे
५.०३५.०११ तया ममैतदाख्यातं मात्रा प्रहितया स्वयम्
५.०३५.०१२ अविन्ध्यो नाम मेधावी विद्वान् राक्षसपुंगवः
५.०३५.०१२ धृतिमाञ्शीलवान् वृद्धो रावणस्य सुसंमतः
५.०३५.०१३ रामात्क्षयमनुप्राप्तं रक्षसां प्रत्यचोदयत्
५.०३५.०१३ न च तस्यापि दुष्टात्मा शृणोति वचनं हितम्
५.०३५.०१४ आशंसेति हरिश्रेष्ठ क्षिप्रं मां प्राप्स्यते पतिः
५.०३५.०१४ अन्तरात्मा हि मे शुद्धस्तस्मिंश्च बहवो गुणाः
५.०३५.०१५ उत्साहः पौरुषं सत्त्वमानृशंस्यं कृतज्ञता
५.०३५.०१५ विक्रमश्च प्रभावश्च सन्ति वानरराघवे
५.०३५.०१६ चतुर्दशसहस्राणि राक्षसानां जघान यः
५.०३५.०१६ जनस्थाने विना भ्रात्रा शत्रुः कस्तस्य नोद्विजेत्
५.०३५.०१७ न स शक्यस्तुलयितुं व्यसनैः पुरुषर्षभः
५.०३५.०१७ अहं तस्यानुभावज्ञा शक्रस्येव पुलोमजा
५.०३५.०१८ शरजालांशुमाञ्शूरः कपे रामदिवाकरः
५.०३५.०१८ शत्रुरक्षोमयं तोयमुपशोषं नयिष्यति
५.०३५.०१९ इति संजल्पमानां तां रामार्थे शोककर्शिताम्
५.०३५.०१९ अश्रुसंपूर्णवदनामुवाच हनुमान् कपिः
५.०३५.०२० श्रुत्वैव तु वचो मह्यं क्षिप्रमेष्यति राघवः
५.०३५.०२० चमूं प्रकर्षन्महतीं हर्यृक्षगणसंकुलाम्
५.०३५.०२१ अथ वा मोचयिष्यामि तामद्यैव हि राक्षसात्
५.०३५.०२१ अस्माद्दुःखादुपारोह मम पृष्ठमनिन्दिते
५.०३५.०२२ त्वं हि पृष्ठगतां कृत्वा संतरिष्यामि सागरम्
५.०३५.०२२ शक्तिरस्ति हि मे वोढुं लङ्कामपि सरावणाम्
५.०३५.०२३ अहं प्रस्रवणस्थाय राघवायाद्य मैथिलि
५.०३५.०२३ प्रापयिष्यामि शक्राय हव्यं हुतमिवानलः
५.०३५.०२४ द्रक्ष्यस्यद्यैव वैदेहि राघवं सहलक्ष्मणम्
५.०३५.०२४ व्यवसाय समायुक्तं विष्णुं दैत्यवधे यथा
५.०३५.०२५ त्वद्दर्शनकृतोत्साहमाश्रमस्थं महाबलम्
५.०३५.०२५ पुरंदरमिवासीनं नागराजस्य मूर्धनि
५.०३५.०२६ पृष्ठमारोह मे देवि मा विकाङ्क्षस्व शोभने
५.०३५.०२६ योगमन्विच्छ रामेण शशाङ्केनेव रोहिणी
५.०३५.०२७ कथयन्तीव चन्द्रेण सूर्येणेव सुवर्चला
५.०३५.०२७ मत्पृष्ठमधिरुह्य त्वं तराकाशमहार्णवम्
५.०३५.०२८ न हि मे संप्रयातस्य त्वामितो नयतोऽङ्गने
५.०३५.०२८ अनुगन्तुं गतिं शक्ताः सर्वे लङ्कानिवासिनः
५.०३५.०२९ यथैवाहमिह प्राप्तस्तथैवाहमसंशयम्
५.०३५.०२९ यास्यामि पश्य वैदेहि त्वामुद्यम्य विहायसं
५.०३५.०३० मैथिली तु हरिश्रेष्ठाच्छ्रुत्वा वचनमद्भुतम्
५.०३५.०३० हर्षविस्मितसर्वाङ्गी हनूमन्तमथाब्रवीत्
५.०३५.०३१ हनूमन् दूरमध्वनं कथं मां वोढुमिच्छसि
५.०३५.०३१ तदेव खलु ते मन्ये कपित्वं हरियूथप
५.०३५.०३२ कथं वाल्पशरीरस्त्वं मामितो नेतुमिच्छसि
५.०३५.०३२ सकाशं मानवेन्द्रस्य भर्तुर्मे प्लवगर्षभ
५.०३५.०३३ सीताया वचनं श्रुत्वा हनूमान्मारुतात्मजः
५.०३५.०३३ चिन्तयामास लक्ष्मीवान्नवं परिभवं कृतम्
५.०३५.०३४ न मे जानाति सत्त्वं वा प्रभावं वासितेक्षणा
५.०३५.०३४ तस्मात्पश्यतु वैदेही यद्रूपं मम कामतः
५.०३५.०३५ इति संचिन्त्य हनुमांस्तदा प्लवगसत्तमः
५.०३५.०३५ दर्शयामास वैदेह्याः स्वरूपमरिमर्दनः
५.०३५.०३६ स तस्मात्पादपाद्धीमानाप्लुत्य प्लवगर्षभः
५.०३५.०३६ ततो वर्धितुमारेभे सीताप्रत्ययकारणात्
५.०३५.०३७ मेरुमन्दारसंकाशो बभौ दीप्तानलप्रभः
५.०३५.०३७ अग्रतो व्यवतस्थे च सीताया वानरर्षभः
५.०३५.०३८ हरिः पर्वतसंकाशस्ताम्रवक्त्रो महाबलः
५.०३५.०३८ वज्रदंष्ट्रनखो भीमो वैदेहीमिदमब्रवीत्
५.०३५.०३९ सपर्वतवनोद्देशां साट्टप्राकारतोरणाम्
५.०३५.०३९ लङ्कामिमां सनथां वा नयितुं शक्तिरस्ति मे
५.०३५.०४० तदवस्थाप्य तां बुद्धिरलं देवि विकाङ्क्षया
५.०३५.०४० विशोकं कुरु वैदेहि राघवं सहलक्ष्मणम्
५.०३५.०४१ तं दृष्ट्वाचलसंकाशमुवाच जनकात्मजा
५.०३५.०४१ पद्मपत्रविशालाक्षी मारुतस्यौरसं सुतम्
५.०३५.०४२ तव सत्त्वं बलं चैव विजानामि महाकपे
५.०३५.०४२ वायोरिव गतिं चापि तेजश्चाग्निरिवाद्भुतम्
५.०३५.०४३ प्राकृतोऽन्यः कथं चेमां भूमिमागन्तुमर्हति
५.०३५.०४३ उदधेरप्रमेयस्य पारं वानरपुंगव
५.०३५.०४४ जानामि गमने शक्तिं नयने चापि ते मम
५.०३५.०४४ अवश्यं साम्प्रधार्याशु कार्यसिद्धिरिहात्मनः
५.०३५.०४५ अयुक्तं तु कपिश्रेष्ठ मया गन्तुं त्वया सह
५.०३५.०४५ वायुवेगसवेगस्य वेगो मां मोहयेत्तव
५.०३५.०४६ अहमाकाशमासक्ता उपर्युपरि सागरम्
५.०३५.०४६ प्रपतेयं हि ते पृष्ठाद्भयाद्वेगेन गच्छतः
५.०३५.०४७ पतिता सागरे चाहं तिमिनक्रझषाकुले
५.०३५.०४७ भयेयमाशु विवशा यादसामन्नमुत्तमम्
५.०३५.०४८ न च शक्ष्ये त्वया सार्धं गन्तुं शत्रुविनाशन
५.०३५.०४८ कलत्रवति संदेहस्त्वय्यपि स्यादसंशयम्
५.०३५.०४९ ह्रियमाणां तु मां दृष्ट्वा राक्षसा भीमविक्रमाः
५.०३५.०४९ अनुगच्छेयुरादिष्टा रावणेन दुरात्मना
५.०३५.०५० तैस्त्वं परिवृतः शूरैः शूलमुद्गर पाणिभिः
५.०३५.०५० भवेस्त्वं संशयं प्राप्तो मया वीर कलत्रवान्
५.०३५.०५१ सायुधा बहवो व्योम्नि राक्षसास्त्वं निरायुधः
५.०३५.०५१ कथं शक्ष्यसि संयातुं मां चैव परिरक्षितुम्
५.०३५.०५२ युध्यमानस्य रक्षोभिस्ततस्तैः क्रूरकर्मभिः
५.०३५.०५२ प्रपतेयं हि ते पृष्ठद्भयार्ता कपिसत्तम
५.०३५.०५३ अथ रक्षांसि भीमानि महान्ति बलवन्ति च
५.०३५.०५३ कथं चित्साम्पराये त्वां जयेयुः कपिसत्तम
५.०३५.०५४ अथ वा युध्यमानस्य पतेयं विमुखस्य ते
५.०३५.०५४ पतितां च गृहीत्वा मां नयेयुः पापराक्षसाः
५.०३५.०५५ मां वा हरेयुस्त्वद्धस्ताद्विशसेयुरथापि वा
५.०३५.०५५ अव्यवस्थौ हि दृश्येते युद्धे जयपराजयौ
५.०३५.०५६ अहं वापि विपद्येयं रक्षोभिरभितर्जिता
५.०३५.०५६ त्वत्प्रयत्नो हरिश्रेष्ठ भवेन्निष्फल एव तु
५.०३५.०५७ कामं त्वमपि पर्याप्तो निहन्तुं सर्वराक्षसान्
५.०३५.०५७ राघवस्य यशो हीयेत्त्वया शस्तैस्तु राक्षसैः
५.०३५.०५८ अथ वादाय रक्षांसि न्यस्येयुः संवृते हि माम्
५.०३५.०५८ यत्र ते नाभिजानीयुर्हरयो नापि राघवः
५.०३५.०५९ आरम्भस्तु मदर्थोऽयं ततस्तव निरर्थकः
५.०३५.०५९ त्वया हि सह रामस्य महानागमने गुणः
५.०३५.०६० मयि जीवितमायत्तं राघवस्य महात्मनः
५.०३५.०६० भ्रातॄणां च महाबाहो तव राजकुलस्य च
५.०३५.०६१ तौ निराशौ मदर्थे तु शोकसंतापकर्शितौ
५.०३५.०६१ सह सर्वर्क्षहरिभिस्त्यक्ष्यतः प्राणसंग्रहम्
५.०३५.०६२ भर्तुर्भक्तिं पुरस्कृत्य रामादन्यस्य वानर
५.०३५.०६२ नाहं स्प्रष्टुं पदा गात्रमिच्छेयं वानरोत्तम
५.०३५.०६३ यदहं गात्रसंस्पर्शं रावणस्य गता बलात्
५.०३५.०६३ अनीशा किं करिष्यामि विनाथा विवशा सती
५.०३५.०६४ यदि रामो दशग्रीवमिह हत्वा सराक्षसं
५.०३५.०६४ मामितो गृह्य गच्छेत तत्तस्य सदृशं भवेत्
५.०३५.०६५ श्रुता हि दृष्टाश्च मया पराक्रमा॑ महात्मनस्तस्य रणावमर्दिनः
५.०३५.०६५ न देवगन्धर्वभुजंगराक्षसा॑ भवन्ति रामेण समा हि संयुगे
५.०३५.०६६ समीक्ष्य तं संयति चित्रकार्मुकं॑ महाबलं वासवतुल्यविक्रमम्
५.०३५.०६६ सलक्ष्मणं को विषहेत राघवं॑ हुताशनं दीप्तमिवानिलेरितम्
५.०३५.०६७ सलक्ष्मणं राघवमाजिमर्दनं॑ दिशागजं मत्तमिव व्यवस्थितम्
५.०३५.०६७ सहेत को वानरमुख्य संयुगे॑ युगान्तसूर्यप्रतिमं शरार्चिषम्
५.०३५.०६८ स मे हरिश्रेष्ठ सलक्ष्मणं पतिं॑ सयूथपं क्षिप्रमिहोपपादय
५.०३५.०६८ चिराय रामं प्रति शोककर्शितां॑ कुरुष्व मां वानरमुख्य हर्षिताम्
५.०३६.००१ ततः स कपिशार्दूलस्तेन वाक्येन हर्षितः
५.०३६.००१ सीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः
५.०३६.००२ युक्तरूपं त्वया देवि भाषितं शुभदर्शने
५.०३६.००२ सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च
५.०३६.००३ स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम्
५.०३६.००३ मामधिष्ठाय विस्तीर्णं शतयोजनमायतम्
५.०३६.००४ द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते
५.०३६.००४ रामादन्यस्य नार्हामि संस्पर्शमिति जानकि
५.०३६.००५ एतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः
५.०३६.००५ का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्
५.०३६.००६ श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः
५.०३६.००६ चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः
५.०३६.००७ कारणैर्बहुभिर्देवि राम प्रियचिकीर्षया
५.०३६.००७ स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम्
५.०३६.००८ लङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः
५.०३६.००८ सामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम्
५.०३६.००९ इच्छामि त्वां समानेतुमद्यैव रघुबन्धुना
५.०३६.००९ गुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम्
५.०३६.०१० यदि नोत्सहसे यातुं मया सार्धमनिन्दिते
५.०३६.०१० अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत्
५.०३६.०११ एवमुक्ता हनुमता सीता सुरसुतोपमा
५.०३६.०११ उवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्
५.०३६.०१२ इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्
५.०३६.०१२ शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा
५.०३६.०१३ तापसाश्रमवासिन्याः प्राज्यमूलफलोदके
५.०३६.०१३ तस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः
५.०३६.०१४ तस्योपवनषण्डेषु नानापुष्पसुगन्धिषु
५.०३६.०१४ विहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम्
५.०३६.०१५ पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः
५.०३६.०१६ ततो मांससमायुक्तो वायसः पर्यतुण्डयत्
५.०३६.०१६ तमहं लोष्टमुद्यम्य वारयामि स्म वायसं
५.०३६.०१७ दारयन् स च मां काकस्तत्रैव परिलीयते
५.०३६.०१७ न चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः
५.०३६.०१८ उत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे
५.०३६.०१८ स्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम्
५.०३६.०१९ त्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा
५.०३६.०१९ भक्ष्य गृद्धेन कालेन दारिता त्वामुपागता
५.०३६.०२० आसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम्
५.०३६.०२० क्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता
५.०३६.०२१ बाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती
५.०३६.०२१ लक्षिताहं त्वया नाथ वायसेन प्रकोपिता
५.०३६.०२२ आशीविष इव क्रुद्धः श्वसान् वाक्यमभाषथाः
५.०३६.०२२ केन ते नागनासोरु विक्षतं वै स्तनान्तरम्
५.०३६.०२२ कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
५.०३६.०२३ वीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः
५.०३६.०२३ नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्
५.०३६.०२४ पुत्रः किल स शक्रस्य वायसः पततां वरः
५.०३६.०२४ धरान्तरचरः शीघ्रं पवनस्य गतौ समः
५.०३६.०२५ ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः
५.०३६.०२५ वायसे कृतवान् क्रूरां मतिं मतिमतां वर
५.०३६.०२६ स दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः
५.०३६.०२६ स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्
५.०३६.०२७ चिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति
५.०३६.०२७ अनुसृष्टस्तदा कालो जगाम विविधां गतिम्
५.०३६.०२७ त्राणकाम इमं लोकं सर्वं वै विचचार ह
५.०३६.०२८ स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः
५.०३६.०२८ त्रींल्लोकान् संपरिक्रम्य त्वामेव शरणं गतः
५.०३६.०२९ तं त्वं निपतितं भूमौ शरण्यः शरणागतम्
५.०३६.०२९ वधार्हमपि काकुत्स्थ कृपया पर्यपालयः
५.०३६.०२९ न शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः
५.०३६.०३० परिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान्
५.०३६.०३० मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्
५.०३६.०३१ ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्
५.०३६.०३२ स ते तदा नमस्कृत्वा राज्ञे दशरथाय च
५.०३६.०३२ त्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम्
५.०३६.०३३ मत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम्
५.०३६.०३३ कस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते
५.०३६.०३४ स कुरुष्व महोत्साहं कृपां मयि नरर्षभ
५.०३६.०३४ आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः
५.०३६.०३५ जानामि त्वां महावीर्यं महोत्साहं महाबलम्
५.०३६.०३५ अपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम्
५.०३६.०३५ भर्तारं ससमुद्राया धरण्या वासवोपमम्
५.०३६.०३६ एवमस्त्रविदां श्रेष्ठः सत्त्ववान् बलवानपि
५.०३६.०३६ किमर्थमस्त्रं रक्षःसु न योजयसि राघव
५.०३६.०३७ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः
५.०३६.०३७ रामस्य समरे वेगं शक्ताः प्रति समाधितुम्
५.०३६.०३८ तस्या वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः
५.०३६.०३८ किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान्
५.०३६.०३९ भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः
५.०३६.०३९ कस्य हेतोर्न मां वीरः परित्राति महाबलः
५.०३६.०४० यदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ
५.०३६.०४० सुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः
५.०३६.०४१ ममैव दुष्कृतं किं चिन्महदस्ति न संशयः
५.०३६.०४१ समर्थावपि तौ यन्मां नावेक्षेते परंतपौ
५.०३६.०४२ कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी
५.०३६.०४२ तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय
५.०३६.०४३ स्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः
५.०३६.०४३ ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्
५.०३६.०४४ पितरं मातरं चैव संमान्याभिप्रसाद्य च
५.०३६.०४४ अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः
५.०३६.०४४ आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्
५.०३६.०४५ अनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने
५.०३६.०४५ सिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः
५.०३६.०४६ पितृवद्वर्तते रामे मातृवन्मां समाचरन्
५.०३६.०४६ ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः
५.०३६.०४७ वृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता
५.०३६.०४७ राजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे
५.०३६.०४८ मत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः
५.०३६.०४८ नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्
५.०३६.०४९ यं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत्
५.०३६.०४९ स ममार्थाय कुशलं वक्तव्यो वचनान्मम
५.०३६.०४९ मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः
५.०३६.०५० इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः
५.०३६.०५० जीवितं धारयिष्यामि मासं दशरथात्मज
५.०३६.०५० ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते
५.०३६.०५१ रावणेनोपरुद्धां मां निकृत्या पापकर्मणा
५.०३६.०५१ त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्
५.०३६.०५२ ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्
५.०३६.०५२ प्रदेयो राघवायेति सीता हनुमते ददौ
५.०३६.०५३ प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्
५.०३६.०५३ अङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः
५.०३६.०५४ मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च
५.०३६.०५४ सीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः
५.०३६.०५५ हर्षेण महता युक्तः सीतादर्शनजेन सः
५.०३६.०५५ हृदयेन गतो रामं शरीरेण तु विष्ठितः
५.०३६.०५६ मणिवरमुपगृह्य तं महार्हं॑ जनकनृपात्मजया धृतं प्रभावात्
५.०३६.०५६ गिरिवरपवनावधूतमुक्तः॑ सुखितमनाः प्रतिसंक्रमं प्रपेदे
५.०३७.००१ मणिं दत्त्वा ततः सीता हनूमन्तमथाब्रवीत्
५.०३७.००१ अभिज्ञानमभिज्ञातमेतद्रामस्य तत्त्वतः
५.०३७.००२ मणिं तु दृष्ट्वा रामो वै त्रयाणां संस्मरिष्यति
५.०३७.००२ वीरो जनन्या मम च राज्ञो दशरथस्य च
५.०३७.००३ स भूयस्त्वं समुत्साहे चोदितो हरिसत्तम
५.०३७.००३ अस्मिन् कार्यसमारम्भे प्रचिन्तय यदुत्तरम्
५.०३७.००४ त्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम
५.०३७.००४ तस्य चिन्तय यो यत्नो दुःखक्षयकरो भवेत्
५.०३७.००५ स तथेति प्रतिज्ञाय मारुतिर्भीमविक्रमः
५.०३७.००५ शिरसावन्द्य वैदेहीं गमनायोपचक्रमे
५.०३७.००६ ज्ञात्वा संप्रस्थितं देवी वानरं मारुतात्मजम्
५.०३७.००६ बाष्पगद्गदया वाचा मैथिली वाक्यमब्रवीत्
५.०३७.००७ कुशलं हनुमन् ब्रूयाः सहितौ रामलक्ष्मणौ
५.०३७.००७ सुग्रीवं च सहामात्यं वृद्धान् सर्वांश्च वानरान्
५.०३७.००८ यथा च स महाबाहुर्मां तारयति राघवः
५.०३७.००८ अस्माद्दुःखाम्बुसंरोधात्त्वं समाधातुमर्हसि
५.०३७.००९ जीवन्तीं मां यथा रामः संभावयति कीर्तिमान्
५.०३७.००९ तत्त्वया हनुमन् वाच्यं वाचा धर्ममवाप्नुहि
५.०३७.०१० नित्यमुत्साहयुक्ताश्च वाचः श्रुत्वा मयेरिताः
५.०३७.०१० वर्धिष्यते दाशरथेः पौरुषं मदवाप्तये
५.०३७.०११ मत्संदेशयुता वाचस्त्वत्तः श्रुत्वैव राघवः
५.०३७.०११ पराक्रमविधिं वीरो विधिवत्संविधास्यति
५.०३७.०१२ सीतायास्तद्वचः श्रुत्वा हनुमान्मारुतात्मजः
५.०३७.०१२ शिरस्यञ्जलिमाधाय वाक्यमुत्तरमब्रवीत्
५.०३७.०१३ क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः
५.०३७.०१३ यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति
५.०३७.०१४ न हि पश्यामि मर्त्येषु नामरेष्वसुरेषु वा
५.०३७.०१४ यस्तस्य वमतो बाणान् स्थातुमुत्सहतेऽग्रतः
५.०३७.०१५ अप्यर्कमपि पर्जन्यमपि वैवस्वतं यमम्
५.०३७.०१५ स हि सोढुं रणे शक्तस्तवहेतोर्विशेषतः
५.०३७.०१६ स हि सागरपर्यन्तां महीं शासितुमीहते
५.०३७.०१६ त्वन्निमित्तो हि रामस्य जयो जनकनन्दिनि
५.०३७.०१७ तस्य तद्वचनं श्रुत्वा सम्यक्सत्यं सुभाषितम्
५.०३७.०१७ जानकी बहु मेनेऽथ वचनं चेदमब्रवीत्
५.०३७.०१८ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः
५.०३७.०१८ भर्तुः स्नेहान्वितं वाक्यं सौहार्दादनुमानयत्
५.०३७.०१९ यदि वा मन्यसे वीर वसैकाहमरिंदम
५.०३७.०१९ कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि
५.०३७.०२० मम चेदल्पभाग्यायाः साम्निध्यात्तव वीर्यवान्
५.०३७.०२० अस्य शोकस्य महतो मुहूर्तं मोक्षणं भवेत्
५.०३७.०२१ गते हि हरिशार्दूल पुनरागमनाय तु
५.०३७.०२१ प्राणानामपि संदेहो मम स्यान्नात्र संशयः
५.०३७.०२२ तवादर्शनजः शोको भूयो मां परितापयेत्
५.०३७.०२२ दुःखाद्दुःखपरामृष्टां दीपयन्निव वानर
५.०३७.०२३ अयं च वीर संदेहस्तिष्ठतीव ममाग्रतः
५.०३७.०२३ सुमहांस्त्वत्सहायेषु हर्यृक्षेषु हरीश्वर
५.०३७.०२४ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्
५.०३७.०२४ तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
५.०३७.०२५ त्रयाणामेव भूतानां सागरस्येह लङ्घने
५.०३७.०२५ शक्तिः स्याद्वैनतेयस्य तव वा मारुतस्य वा
५.०३७.०२६ तदस्मिन् कार्यनिर्योगे वीरैवं दुरतिक्रमे
५.०३७.०२६ किं पश्यसि समाधानं त्वं हि कार्यविदां वरः
५.०३७.०२७ काममस्य त्वमेवैकः कार्यस्य परिसाधने
५.०३७.०२७ पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
५.०३७.०२८ बलैः समग्रैर्यदि मां रावणं जित्य संयुगे
५.०३७.०२८ विजयी स्वपुरं यायात्तत्तु मे स्याद्यशस्करम्
५.०३७.०२९ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः
५.०३७.०२९ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्
५.०३७.०३० तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः
५.०३७.०३० भवेदाहव शूरस्य तथा त्वमुपपादय
५.०३७.०३१ तदर्थोपहितं वाक्यं सहितं हेतुसंहितम्
५.०३७.०३१ निशम्य हनुमाञ्शेषं वाक्यमुत्तरमब्रवीत्
५.०३७.०३२ देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः
५.०३७.०३२ सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः
५.०३७.०३३ स वानरसहस्राणां कोटीभिरभिसंवृतः
५.०३७.०३३ क्षिप्रमेष्यति वैदेहि राक्षसानां निबर्हणः
५.०३७.०३४ तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः
५.०३७.०३४ मनःसंकल्पसंपाता निदेशे हरयः स्थिताः
५.०३७.०३५ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः
५.०३७.०३५ न च कर्मसु सीदन्ति महत्स्वमिततेजसः
५.०३७.०३६ असकृत्तैर्महोत्सहैः ससागरधराधरा
५.०३७.०३६ प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
५.०३७.०३७ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः
५.०३७.०३७ मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ
५.०३७.०३८ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः
५.०३७.०३८ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः
५.०३७.०३९ तदलं परितापेन देवि शोको व्यपैतु ते
५.०३७.०३९ एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः
५.०३७.०४० मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ
५.०३७.०४० त्वत्सकाशं महासत्त्वौ नृसिंहावागमिष्यतः
५.०३७.०४१ तौ हि वीरौ नरवरौ सहितौ रामलक्ष्मणौ
५.०३७.०४१ आगम्य नगरीं लङ्कां सायकैर्विधमिष्यतः
५.०३७.०४२ सगणं रावणं हत्वा राघवो रघुनन्दनः
५.०३७.०४२ त्वामादाय वरारोहे स्वपुरं प्रतियास्यति
५.०३७.०४३ तदाश्वसिहि भद्रं ते भव त्वं कालकाङ्क्षिणी
५.०३७.०४३ नचिराद्द्रक्ष्यसे रामं प्रज्वजन्तमिवानिलम्
५.०३७.०४४ निहते राक्षसेन्द्रे च सपुत्रामात्यबान्धवे
५.०३७.०४४ त्वं समेष्यसि रामेण शशाङ्केनेव रोहिणी
५.०३७.०४५ क्षिप्रं त्वं देवि शोकस्य पारं यास्यसि मैथिलि
५.०३७.०४५ रावणं चैव रामेण निहतं द्रक्ष्यसेऽचिरात्
५.०३७.०४६ एवमाश्वस्य वैदेहीं हनूमान्मारुतात्मजः
५.०३७.०४६ गमनाय मतिं कृत्वा वैदेहीं पुनरब्रवीत्
५.०३७.०४७ तमरिघ्नं कृतात्मानं क्षिप्रं द्रक्ष्यसि राघवम्
५.०३७.०४७ लक्ष्मणं च धनुष्पाणिं लङ्काद्वारमुपस्थितम्
५.०३७.०४८ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्
५.०३७.०४८ वानरान् वारणेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्
५.०३७.०४९ शैलाम्बुदनिकाशानां लङ्कामलयसानुषु
५.०३७.०४९ नर्दतां कपिमुख्यानामार्ये यूथान्यनेकशः
५.०३७.०५० स तु मर्मणि घोरेण ताडितो मन्मथेषुणा
५.०३७.०५० न शर्म लभते रामः सिंहार्दित इव द्विपः
५.०३७.०५१ मा रुदो देवि शोकेन मा भूत्ते मनसोऽप्रियम्
५.०३७.०५१ शचीव पथ्या शक्रेण भर्त्रा नाथवती ह्यसि
५.०३७.०५२ रामाद्विशिष्टः कोऽन्योऽस्ति कश्चित्सौमित्रिणा समः
५.०३७.०५२ अग्निमारुतकल्पौ तौ भ्रातरौ तव संश्रयौ
५.०३७.०५३ नास्मिंश्चिरं वत्स्यसि देवि देशे॑ रक्षोगणैरध्युषितोऽतिरौद्रे
५.०३७.०५३ न ते चिरादागमनं प्रियस्य॑ क्षमस्व मत्संगमकालमात्रम्
५.०३८.००१ श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः
५.०३८.००१ उवाचात्महितं वाक्यं सीता सुरसुतोपमा
५.०३८.००२ त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानर
५.०३८.००२ अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा
५.०३८.००३ यथा तं पुरुषव्याघ्रं गात्रैः शोकाभिकर्शितैः
५.०३८.००३ संस्पृशेयं सकामाहं तथा कुरु दयां मयि
५.०३८.००४ अभिज्ञानं च रामस्य दत्तं हरिगणोत्तम
५.०३८.००४ क्षिप्तामीषिकां काकस्य कोपादेकाक्षिशातनीम्
५.०३८.००५ मनःशिलायास्तिकलो गण्डपार्श्वे निवेशितः
५.०३८.००५ त्वया प्रनष्टे तिलके तं किल स्मर्तुमर्हसि
५.०३८.००६ स वीर्यवान् कथं सीतां हृतां समनुमन्यसे
५.०३८.००६ वसन्तीं रक्षसां मध्ये महेन्द्रवरुणोपम
५.०३८.००७ एष चूडामणिर्दिव्यो मया सुपरिरक्षितः
५.०३८.००७ एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ
५.०३८.००८ एष निर्यातितः श्रीमान्मया ते वारिसंभवः
५.०३८.००८ अतः परं न शक्ष्यामि जीवितुं शोकलालसा
५.०३८.००९ असह्यानि च दुःखानि वाचश्च हृदयच्छिदः
५.०३८.००९ राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम्
५.०३८.०१० धारयिष्यामि मासं तु जीवितं शत्रुसूदन
५.०३८.०१० मासादूर्ध्वं न जीविष्ये त्वया हीना नृपात्मज
५.०३८.०११ घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि
५.०३८.०११ त्वां च श्रुत्वा विपद्यन्तं न जीवेयमहं क्षणम्
५.०३८.०१२ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्
५.०३८.०१२ अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः
५.०३८.०१३ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे
५.०३८.०१३ रामे शोकाभिभूते तु लक्ष्मणः परितप्यते
५.०३८.०१४ दृष्टा कथं चिद्भवती न कालः परिशोचितुम्
५.०३८.०१४ इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि
५.०३८.०१५ तावुभौ पुरुषव्याघ्रौ राजपुत्रावनिन्दितौ
५.०३८.०१५ त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः
५.०३८.०१६ हत्वा तु समरे क्रूरं रावणं सह बान्धवम्
५.०३८.०१६ राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः
५.०३८.०१७ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते
५.०३८.०१७ प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि
५.०३८.०१८ साब्रवीद्दत्तमेवेह मयाभिज्ञानमुत्तमम्
५.०३८.०१८ एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम्
५.०३८.०१८ श्रद्धेयं हनुमन् वाक्यं तव वीर भविष्यति
५.०३८.०१९ स तं मणिवरं गृह्य श्रीमान् प्लवगसत्तमः
५.०३८.०१९ प्रणम्य शिरसा देवीं गमनायोपचक्रमे
५.०३८.०२० तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम्
५.०३८.०२० वर्धमानं महावेगमुवाच जनकात्मजा
५.०३८.०२० अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा
५.०३८.०२१ हनूमन् सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ
५.०३८.०२१ सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्
५.०३८.०२२ यथा च स महाबाहुर्मां तारयति राघवः
५.०३८.०२२ अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि
५.०३८.०२३ इमं च तीव्रं मम शोकवेगं॑ रक्षोभिरेभिः परिभर्त्सनं च
५.०३८.०२३ ब्रूयास्तु रामस्य गतः समीपं॑ शिवश्च तेऽध्वास्तु हरिप्रवीर
५.०३८.०२४ स राजपुत्र्या प्रतिवेदितार्थः॑ कपिः कृतार्थः परिहृष्टचेताः
५.०३८.०२४ तदल्पशेषं प्रसमीक्ष्य कार्यं॑ दिशं ह्युदीचीं मनसा जगाम
५.०३९.००१ स च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया
५.०३९.००१ तस्माद्देशादपक्रम्य चिन्तयामास वानरः
५.०३९.००२ अल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा
५.०३९.००२ त्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते
५.०३९.००३ न साम रक्षःसु गुणाय कल्पते॑ न दनमर्थोपचितेषु वर्तते
५.०३९.००३ न भेदसाध्या बलदर्पिता जनाः॑ पराक्रमस्त्वेष ममेह रोचते
५.०३९.००४ न चास्य कार्यस्य पराक्रमादृते॑ विनिश्चयः कश्चिदिहोपपद्यते
५.०३९.००४ हृतप्रवीरास्तु रणे हि राक्षसाः॑ कथं चिदीयुर्यदिहाद्य मार्दवम्
५.०३९.००५ कार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत्
५.०३९.००५ पूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति
५.०३९.००६ न ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः
५.०३९.००६ यो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने
५.०३९.००७ इहैव तावत्कृतनिश्चयो ह्यहं॑ यदि व्रजेयं प्लवगेश्वरालयम्
५.०३९.००७ परात्मसंमर्द विशेषतत्त्ववित्॑ ततः कृतं स्यान्मम भर्तृशासनम्
५.०३९.००८ कथं नु खल्वद्य भवेत्सुखागतं॑ प्रसह्य युद्धं मम राक्षसैः
सह
५.०३९.००८ तथैव खल्वात्मबलं च सारवत्॑ समानयेन्मां च रणे दशाननः
५.०३९.००९ इदमस्य नृशंसस्य नन्दनोपममुत्तमम्
५.०३९.००९ वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्
५.०३९.०१० इदं विध्वंसयिष्यामि शुष्कं वनमिवानलः
५.०३९.०१० अस्मिन् भग्ने ततः कोपं करिष्यति स रावणः
५.०३९.०११ ततो महत्साश्वमहारथद्विपं॑ बलं समानेष्वपि राक्षसाधिपः
५.०३९.०११ त्रिशूलकालायसपट्टिशायुधं॑ ततो महद्युद्धमिदं भविष्यति
५.०३९.०१२ अहं तु तैः संयति चण्डविक्रमैः॑ समेत्य रक्षोभिरसंगविक्रमः
५.०३९.०१२ निहत्य तद्रावणचोदितं बलं॑ सुखं गमिष्यामि कपीश्वरालयम्
५.०३९.०१३ ततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः
५.०३९.०१३ ऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत्
५.०३९.०१४ ततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम्
५.०३९.०१४ मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्
५.०३९.०१५ तद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः
५.०३९.०१५ चूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्
५.०३९.०१६ लतागृहैश्चित्रगृहैश्च नाशितैर्॑ महोरगैर्व्यालमृगैश्च निर्धुतैः
५.०३९.०१६ शिलागृहैरुन्मथितैस्तथा गृहैः॑ प्रनष्टरूपं तदभून्महद्वनम्
५.०३९.०१७ स तस्य कृत्वार्थपतेर्महाकपिर्॑ महद्व्यलीकं मनसो महात्मनः
५.०३९.०१७ युयुत्सुरेको बहुभिर्महाबलैः॑ श्रिया ज्वलंस्तोरणमाश्रितः कपिः
५.०४०.००१ ततः पक्षिनिनादेन वृक्षभङ्गस्वनेन च
५.०४०.००१ बभूवुस्त्राससंभ्रान्ताः सर्वे लङ्कानिवासिनः
५.०४०.००२ विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षुणः
५.०४०.००२ रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे
५.०४०.००३ ततो गतायां निद्रायां राक्षस्यो विकृताननाः
५.०४०.००३ तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम्
५.०४०.००४ स ता दृष्ट्व महाबाहुर्महासत्त्वो महाबलः
५.०४०.००४ चकार सुमहद्रूपं राक्षसीनां भयावहम्
५.०४०.००५ ततस्तं गिरिसंकाशमतिकायं महाबलम्
५.०४०.००५ राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम्
५.०४०.००६ कोऽयं कस्य कुतो वायं किंनिमित्तमिहागतः
५.०४०.००६ कथं त्वया सहानेन संवादः कृत इत्युत
५.०४०.००७ आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम्
५.०४०.००७ संवादमसितापाङ्गे त्वया किं कृतवानयम्
५.०४०.००८ अथाब्रवीत्तदा साध्वी सीता सर्वाङ्गशोभना
५.०४०.००८ रक्षसां कामरूपाणां विज्ञाने मम का गतिः
५.०४०.००९ यूयमेवास्य जानीत योऽयं यद्वा करिष्यति
५.०४०.००९ अहिरेव अहेः पादान् विजानाति न संशयः
५.०४०.०१० अहमप्यस्य भीतास्मि नैनं जानामि कोऽन्वयम्
५.०४०.०१० वेद्मि राक्षसमेवैनं कामरूपिणमागतम्
५.०४०.०११ वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता द्रुतम्
५.०४०.०११ स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम्
५.०४०.०१२ रावणस्य समीपे तु राक्षस्यो विकृताननाः
५.०४०.०१२ विरूपं वानरं भीममाख्यतुमुपचक्रमुः
५.०४०.०१३ अशोकवनिका मध्ये राजन् भीमवपुः कपिः
५.०४०.०१३ सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः
५.०४०.०१४ न च तं जानकी सीता हरिं हरिणलोचणा
५.०४०.०१४ अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति
५.०४०.०१५ वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा
५.०४०.०१५ प्रेषितो वापि रामेण सीतान्वेषणकाङ्क्षया
५.०४०.०१६ तेन त्वद्भूतरूपेण यत्तत्तव मनोहरम्
५.०४०.०१६ नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम्
५.०४०.०१७ न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः
५.०४०.०१७ यत्र सा जानकी सीता स तेन न विनाशितः
५.०४०.०१८ जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते
५.०४०.०१८ अथ वा कः श्रमस्तस्य सैव तेनाभिरक्षिता
५.०४०.०१९ चारुपल्लवपत्राढ्यं यं सीता स्वयमास्थिता
५.०४०.०१९ प्रवृद्धः शिंशपावृक्षः स च तेनाभिरक्षितः
५.०४०.०२० तस्योग्ररूपस्योग्रं त्वं दण्डमाज्ञातुमर्हसि
५.०४०.०२० सीता संभाषिता येन तद्वनं च विनाशितम्
५.०४०.०२१ मनःपरिगृहीतां तां तव रक्षोगणेश्वर
५.०४०.०२१ कः सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः
५.०४०.०२२ राक्षसीनां वचः श्रुत्वा रावणो राक्षसेश्वरः
५.०४०.०२२ हुतागिरिव जज्वाल कोपसंवर्तितेक्षणः
५.०४०.०२३ आत्मनः सदृशाञ्शूरान् किंकरान्नाम राक्षसान्
५.०४०.०२३ व्यादिदेश महातेजा निग्रहार्थं हनूमतः
५.०४०.०२४ तेषामशीतिसाहस्रं किंकराणां तरस्विनाम्
५.०४०.०२४ निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः
५.०४०.०२५ महोदरा महादंष्ट्रा घोररूपा महाबलाः
५.०४०.०२५ युद्धाभिमनसः सर्वे हनूमद्ग्रहणोन्मुखाः
५.०४०.०२६ ते कपिं तं समासाद्य तोरणस्थमवस्थितम्
५.०४०.०२६ अभिपेतुर्महावेगाः पतङ्गा इव पावकम्
५.०४०.०२७ ते गदाभिर्विचित्राभिः परिघैः काञ्चनाङ्गदैः
५.०४०.०२७ आजघ्नुर्वानरश्रेष्ठं शरैरादित्यसंनिभैः
५.०४०.०२८ हनूमानपि तेजस्वी श्रीमान् पर्वतसंनिभः
५.०४०.०२८ क्षितावाविध्य लाङ्गूलं ननाद च महास्वनम्
५.०४०.०२९ तस्य संनादशब्देन तेऽभवन् भयशङ्किताः
५.०४०.०२९ ददृशुश्च हनूमन्तं संध्यामेघमिवोन्नतम्
५.०४०.०३० स्वामिसंदेशनिःशङ्कास्ततस्ते राक्षसाः कपिम्
५.०४०.०३० चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः
५.०४०.०३१ स तैः परिवृतः शूरैः सर्वतः स महाबलः
५.०४०.०३१ आससादायसं भीमं परिघं तोरणाश्रितम्
५.०४०.०३२ स तं परिघमादाय जघान रजनीचरान्
५.०४०.०३३ स पन्नगमिवादाय स्फुरन्तं विनतासुतः
५.०४०.०३३ विचचाराम्बरे वीरः परिगृह्य च मारुतिः
५.०४०.०३४ स हत्वा राक्षसान् वीरः किंकरान्मारुतात्मजः
५.०४०.०३४ युद्धाकाङ्क्षी पुनर्वीरस्तोरणं समुपस्थितः
५.०४०.०३५ ततस्तस्माद्भयान्मुक्ताः कति चित्तत्र राक्षसाः
५.०४०.०३५ निहतान् किंकरान् सर्वान् रावणाय न्यवेदयन्
५.०४०.०३६ स राक्षसानां निहतं महाबलं॑ निशम्य राजा परिवृत्तलोचनः
५.०४०.०३६ समादिदेशाप्रतिमं पराक्रमे॑ प्रहस्तपुत्रं समरे सुदुर्जयम्
५.०४१.००१ ततः स किंकरान् हत्वा हनूमान् ध्यानमास्थितः
५.०४१.००१ वनं भग्नं मया चैत्यप्रासादो न विनाशितः
५.०४१.००१ तस्मात्प्रासादमप्येवमिमं विध्वंसयाम्यहम्
५.०४१.००२ इति संचिन्त्य हनुमान्मनसा दर्शयन् बलम्
५.०४१.००२ चैत्यप्रासादमाप्लुत्य मेरुशृङ्गमिवोन्नतम्
५.०४१.००२ आरुरोह हरिश्रेष्ठो हनूमान्मारुतात्मजः
५.०४१.००३ संप्रधृष्य च दुर्धर्षश्चैत्यप्रासादमुन्नतम्
५.०४१.००३ हनूमान् प्रज्वलंल्लक्ष्म्या पारियात्रोपमोऽभवत्
५.०४१.००४ स भूत्वा तु महाकायो हनूमान्मारुतात्मजः
५.०४१.००४ धृष्टमास्फोटयामास लङ्कां शब्देन पूरयन्
५.०४१.००५ तस्यास्फोटितशब्देन महता श्रोत्रघातिना
५.०४१.००५ पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत्
५.०४१.००६ जयत्यतिबलो रामो लक्ष्मणश्च महाबलः
५.०४१.००६ राजा जयति सुग्रीवो राघवेणाभिपालितः
५.०४१.००७ दासोऽहं कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
५.०४१.००७ हनुमाञ्शत्रुसैन्यानां निहन्ता मारुतात्मजः
५.०४१.००८ न रावणसहस्रं मे युद्धे प्रतिबलं भवेत्
५.०४१.००८ शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः
५.०४१.००९ अर्दयित्वा पुरीं लङ्कामभिवाद्य च मैथिलीम्
५.०४१.००९ समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम्
५.०४१.०१० एवमुक्त्वा विमानस्थश्चैत्यस्थान् हरिपुंगवः
५.०४१.०१० ननाद भीमनिर्ह्रादो रक्षसां जनयन् भयम्
५.०४१.०११ तेन शब्देन महता चैत्यपालाः शतं ययुः
५.०४१.०११ गृहीत्वा विविधानस्त्रान् प्रासान् खड्गान् परश्वधान्
५.०४१.०११ विसृजन्तो महाक्षया मारुतिं पर्यवारयन्
५.०४१.०१२ आवर्त इव गङ्गायास्तोयस्य विपुलो महान्
५.०४१.०१२ परिक्षिप्य हरिश्रेष्ठं स बभौ रक्षसां गणः
५.०४१.०१३ ततो वातात्मजः क्रुद्धो भीमरूपं समास्थितः
५.०४१.०१४ प्रासादस्य महांस्तस्य स्तम्भं हेमपरिष्कृतम्
५.०४१.०१४ उत्पाटयित्वा वेगेन हनूमान्मारुतात्मजः
५.०४१.०१४ ततस्तं भ्रामयामास शतधारं महाबलः
५.०४१.०१५ स राक्षसशतं हत्वा वज्रेणेन्द्र इवासुरान्
५.०४१.०१५ अन्तरिक्षस्थितः श्रीमानिदं वचनमब्रवीत्
५.०४१.०१६ मादृशानां सहस्राणि विसृष्टानि महात्मनाम्
५.०४१.०१६ बलिनां वानरेन्द्राणां सुग्रीववशवर्तिनाम्
५.०४१.०१७ शतैः शतसहस्रैश्च कोटीभिरयुतैरपि
५.०४१.०१७ आगमिष्यति सुग्रीवः सर्वेषां वो निषूदनः
५.०४१.०१८ नेयमस्ति पुरी लङ्का न यूयं न च रावणः
५.०४१.०१८ यस्मादिक्ष्वाकुनाथेन बद्धं वैरं महात्मना
५.०४२.००१ संदिष्टो राक्षसेन्द्रेण प्रहस्तस्य सुतो बली
५.०४२.००१ जम्बुमाली महादंष्ट्रो निर्जगाम धनुर्धरः
५.०४२.००२ रक्तमाल्याम्बरधरः स्रग्वी रुचिरकुण्डलः
५.०४२.००२ महान् विवृत्तनयनश्चण्डः समरदुर्जयः
५.०४२.००३ धनुः शक्रधनुः प्रख्यं महद्रुचिरसायकम्
५.०४२.००३ विस्फारयाणो वेगेन वज्राशनिसमस्वनम्
५.०४२.००४ तस्य विस्फारघोषेण धनुषो महता दिशः
५.०४२.००४ प्रदिशश्च नभश्चैव सहसा समपूर्यत
५.०४२.००५ रथेन खरयुक्तेन तमागतमुदीक्ष्य सः
५.०४२.००५ हनूमान् वेगसंपन्नो जहर्ष च ननाद च
५.०४२.००६ तं तोरणविटङ्कस्थं हनूमन्तं महाकपिम्
५.०४२.००६ जम्बुमाली महाबाहुर्विव्याध निशितैः शरैः
५.०४२.००७ अर्धचन्द्रेण वदने शिरस्येकेन कर्णिना
५.०४२.००७ बाह्वोर्विव्याध नाराचैर्दशभिस्तं कपीश्वरम्
५.०४२.००८ तस्य तच्छुशुभे ताम्रं शरेणाभिहतं मुखम्
५.०४२.००८ शरदीवाम्बुजं फुल्लं विद्धं भास्कररश्मिना
५.०४२.००९ चुकोप बाणाभिहतो राक्षसस्य महाकपिः
५.०४२.००९ ततः पार्श्वेऽतिविपुलां ददर्श महतीं शिलाम्
५.०४२.०१० तरसा तां समुत्पाट्य चिक्षेप बलवद्बली
५.०४२.०१० तां शरैर्दशभिः क्रुद्धस्ताडयामास राक्षसः
५.०४२.०११ विपन्नं कर्म तद्दृष्ट्वा हनूमांश्चण्डविक्रमः
५.०४२.०११ सालं विपुलमुत्पाट्य भ्रामयामास वीर्यवान्
५.०४२.०१२ भ्रामयन्तं कपिं दृष्ट्वा सालवृक्षं महाबलम्
५.०४२.०१२ चिक्षेप सुबहून् बाणाञ्जम्बुमाली महाबलः
५.०४२.०१३ सालं चतुर्भिर्चिच्छेद वानरं पञ्चभिर्भुजे
५.०४२.०१३ उरस्येकेन बाणेन दशभिस्तु स्तनान्तरे
५.०४२.०१४ स शरैः पूरिततनुः क्रोधेन महता वृतः
५.०४२.०१४ तमेव परिघं गृह्य भ्रामयामास वेगितः
५.०४२.०१५ अतिवेगोऽतिवेगेन भ्रामयित्वा बलोत्कटः
५.०४२.०१५ परिघं पातयामास जम्बुमालेर्महोरसि
५.०४२.०१६ तस्य चैव शिरो नास्ति न बाहू न च जानुनी
५.०४२.०१६ न धनुर्न रथो नाश्वास्तत्रादृश्यन्त नेषवः
५.०४२.०१७ स हतस्तरसा तेन जम्बुमाली महारथः
५.०४२.०१७ पपात निहतो भूमौ चूर्णिताङ्गविभूषणः
५.०४२.०१८ जम्बुमालिं च निहतं किंकरांश्च महाबलान्
५.०४२.०१८ चुक्रोध रावणः श्रुत्वा कोपसंरक्तलोचनः
५.०४२.०१९ स रोषसंवर्तितताम्रलोचनः॑ प्रहस्तपुत्रे निहते महाबले
५.०४२.०१९ अमात्यपुत्रानतिवीर्यविक्रमान्॑ समादिदेशाशु निशाचरेश्वरः
५.०४३.००१ ततस्ते राक्षसेन्द्रेण चोदिता मन्त्रिणः सुताः
५.०४३.००१ निर्ययुर्भवनात्तस्मात्सप्त सप्तार्चिवर्चसः
५.०४३.००२ महाबलपरीवारा धनुष्मन्तो महाबलाः
५.०४३.००२ कृतास्त्रास्त्रविदां श्रेष्ठाः परस्परजयैषिणः
५.०४३.००३ हेमजालपरिक्षिप्तैर्ध्वजवद्भिः पताकिभिः
५.०४३.००३ तोयदस्वननिर्घोषैर्वाजियुक्तैर्महारथैः
५.०४३.००४ तप्तकाञ्चनचित्राणि चापान्यमितविक्रमाः
५.०४३.००४ विस्फारयन्तः संहृष्टास्तडिद्वन्त इवाम्बुदाः
५.०४३.००५ जनन्यस्तास्ततस्तेषां विदित्वा किंकरान् हतान्
५.०४३.००५ बभूवुः शोकसंभ्रान्ताः सबान्धवसुहृज्जनाः
५.०४३.००६ ते परस्परसंघर्षास्तप्तकाञ्चनभूषणाः
५.०४३.००६ अभिपेतुर्हनूमन्तं तोरणस्थमवस्थितम्
५.०४३.००७ सृजन्तो बाणवृष्टिं ते रथगर्जितनिःस्वनाः
५.०४३.००७ वृष्टिमन्त इवाम्भोदा विचेरुर्नैरृतर्षभाः
५.०४३.००८ अवकीर्णस्ततस्ताभिर्हनूमाञ्शरवृष्टिभिः
५.०४३.००८ अभवत्संवृताकारः शैलराडिव वृष्टिभिः
५.०४३.००९ स शरान् वञ्चयामास तेषामाशुचरः कपिः
५.०४३.००९ रथवेगांश्च वीराणां विचरन् विमलेऽम्बरे
५.०४३.०१० स तैः क्रीडन् धनुष्मद्भिर्व्योम्नि वीरः प्रकाशते
५.०४३.०१० धनुष्मद्भिर्यथा मेघैर्मारुतः प्रभुरम्बरे
५.०४३.०११ स कृत्वा निनदं घोरं त्रासयंस्तां महाचमूम्
५.०४३.०११ चकार हनुमान् वेगं तेषु रक्षःसु वीर्यवान्
५.०४३.०१२ तलेनाभिहनत्कांश्चित्पादैः कांश्चित्परंतपः
५.०४३.०१२ मुष्टिनाभ्यहनत्कांश्चिन्नखैः कांश्चिद्व्यदारयत्
५.०४३.०१३ प्रममाथोरसा कांश्चिदूरुभ्यामपरान् कपिः
५.०४३.०१३ के चित्तस्यैव नादेन तत्रैव पतिता भुवि
५.०४३.०१४ ततस्तेष्ववपन्नेषु भूमौ निपतितेषु च
५.०४३.०१४ तत्सैन्यमगमत्सर्वं दिशो दशभयार्दितम्
५.०४३.०१५ विनेदुर्विस्वरं नागा निपेतुर्भुवि वाजिनः
५.०४३.०१५ भग्ननीडध्वजच्छत्रैर्भूश्च कीर्णाभवद्रथैः
५.०४३.०१६ स तान् प्रवृद्धान् विनिहत्य राक्षसान्॑ महाबलश्चण्डपराक्रमः कपिः
५.०४३.०१६ युयुत्सुरन्यैः पुनरेव राक्षसैस्॑ तदेव वीरोऽभिजगाम तोरणम्
५.०४४.००१ हतान्मन्त्रिसुतान् बुद्ध्वा वानरेण महात्मना
५.०४४.००१ रावणः संवृताकारश्चकार मतिमुत्तमाम्
५.०४४.००२ स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं
५.०४४.००२ प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान्
५.०४४.००३ संदिदेश दशग्रीवो वीरान्नयविशारदान्
५.०४४.००३ हनूमद्ग्रहणे व्यग्रान् वायुवेगसमान् युधि
५.०४४.००४ यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः
५.०४४.००४ सवाजिरथमातङ्गाः स कपिः शास्यतामिति
५.०४४.००५ यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम्
५.०४४.००५ कर्म चापि समाधेयं देशकालविरोधितम्
५.०४४.००६ न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन्
५.०४४.००६ सर्वथा तन्महद्भूतं महाबलपरिग्रहम्
५.०४४.००६ भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात्
५.०४४.००७ सनागयक्षगन्धर्वा देवासुरमहर्षयः
५.०४४.००७ युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः
५.०४४.००८ तैरवश्यं विधातव्यं व्यलीकं किं चिदेव नः
५.०४४.००८ तदेव नात्र संदेहः प्रसह्य परिगृह्यताम्
५.०४४.००९ नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः
५.०४४.००९ दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः
५.०४४.०१० वाली च सह सुग्रीवो जाम्बवांश्च महाबलः
५.०४४.०१० नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः
५.०४४.०११ नैव तेषां गतिर्भीमा न तेजो न पराक्रमः
५.०४४.०११ न मतिर्न बलोत्साहो न रूपपरिकल्पनम्
५.०४४.०१२ महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम्
५.०४४.०१२ प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः
५.०४४.०१३ कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः
५.०४४.०१३ भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे
५.०४४.०१४ तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे
५.०४४.०१४ आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला
५.०४४.०१५ ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः
५.०४४.०१५ समुत्पेतुर्महावेगा हुताशसमतेजसः
५.०४४.०१६ रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः
५.०४४.०१६ शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः
५.०४४.०१७ ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम्
५.०४४.०१७ रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम्
५.०४४.०१८ तोरणस्थं महावेगं महासत्त्वं महाबलम्
५.०४४.०१८ महामतिं महोत्साहं महाकायं महाबलम्
५.०४४.०१९ तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः
५.०४४.०१९ तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः
५.०४४.०२० तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः
५.०४४.०२० शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः
५.०४४.०२१ स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः
५.०४४.०२१ उत्पपात नदन् व्योम्नि दिशो दश विनादयन्
५.०४४.०२२ ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः
५.०४४.०२२ किरञ्शरशतैर्नैकैरभिपेदे महाबलः
५.०४४.०२३ स कपिर्वारयामास तं व्योम्नि शरवर्षिणम्
५.०४४.०२३ वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः
५.०४४.०२४ अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः
५.०४४.०२४ चकार निनदं भूयो व्यवर्धत च वेगवान्
५.०४४.०२५ स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः
५.०४४.०२५ निपपात महावेगो विद्युद्राशिर्गिराविव
५.०४४.०२६ ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम्
५.०४४.०२६ विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः
५.०४४.०२७ तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि
५.०४४.०२७ संजातरोषौ दुर्धर्षावुत्पेततुररिंदमौ
५.०४४.०२८ स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे
५.०४४.०२८ मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः
५.०४४.०२९ तयोर्वेगवतोर्वेगं विनिहत्य महाबलः
५.०४४.०२९ निपपात पुनर्भूमौ सुपर्णसमविक्रमः
५.०४४.०३० स सालवृक्षमासाद्य समुत्पाट्य च वानरः
५.०४४.०३० तावुभौ राक्षसौ वीरौ जघान पवनात्मजः
५.०४४.०३१ ततस्तांस्त्रीन् हताञ्ज्ञात्वा वानरेण तरस्विना
५.०४४.०३१ अभिपेदे महावेगः प्रसह्य प्रघसो हरिम्
५.०४४.०३२ भासकर्णश्च संक्रुद्धः शूलमादाय वीर्यवान्
५.०४४.०३२ एकतः कपिशार्दूलं यशस्विनमवस्थितौ
५.०४४.०३३ पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत्
५.०४४.०३३ भासकर्णश्च शूलेन राक्षसः कपिसत्तमम्
५.०४४.०३४ स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः
५.०४४.०३४ अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः
५.०४४.०३५ समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम्
५.०४४.०३५ जघान हनुमान् वीरो राक्षसौ कपिकुञ्जरः
५.०४४.०३६ ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु
५.०४४.०३६ बलं तदवशेषं तु नाशयामास वानरः
५.०४४.०३७ अश्वैरश्वान् गजैर्नागान् योधैर्योधान् रथै रथान्
५.०४४.०३७ स कपिर्नाशयामास सहस्राक्ष इवासुरान्
५.०४४.०३८ हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः
५.०४४.०३८ हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः
५.०४४.०३९ ततः कपिस्तान् ध्वजिनीपतीन् रणे॑ निहत्य वीरान् सबलान् सवाहनान्
५.०४४.०३९ तदेव वीरः परिगृह्य तोरणं॑ कृतक्षणः काल इव प्रजाक्षये
५.०४५.००१ सेनापतीन् पञ्च स तु प्रमापितान्॑ हनूमता सानुचरान् सवाहनान्
५.०४५.००१ समीक्ष्य राजा समरोद्धतोन्मुखं॑ कुमारमक्षं
प्रसमैक्षताक्षतम्
५.०४५.००२ स तस्य दृष्ट्यर्पणसंप्रचोदितः॑ प्रतापवान् काञ्चनचित्रकार्मुकः
५.०४५.००२ समुत्पपाताथ सदस्युदीरितो॑ द्विजातिमुख्यैर्हविषेव पावकः
५.०४५.००३ ततो महद्बालदिवाकरप्रभं॑ प्रतप्तजाम्बूनदजालसंततम्
५.०४५.००३ रथां समास्थाय ययौ स वीर्यवान्॑ महाहरिं तं प्रति नैरृतर्षभः
५.०४५.००४ ततस्तपःसंग्रहसंचयार्जितं॑ प्रतप्तजाम्बूनदजालशोभितम्
५.०४५.००४ पताकिनं रत्नविभूषितध्वजं॑ मनोजवाष्टाश्ववरैः सुयोजितम्
५.०४५.००५ सुरासुराधृष्यमसंगचारिणं॑ रविप्रभं व्योमचरं समाहितम्
५.०४५.००५ सतूणमष्टासिनिबद्धबन्धुरं॑ यथाक्रमावेशितशक्तितोमरम्
५.०४५.००६ विराजमानं प्रतिपूर्णवस्तुना॑ सहेमदाम्ना शशिसूर्यवर्वसा
५.०४५.००६ दिवाकराभं रथमास्थितस्ततः॑ स निर्जगामामरतुल्यविक्रमः
५.०४५.००७ स पूरयन् खं च महीं च साचलां॑ तुरंगमतङ्गमहारथस्वनैः
५.०४५.००७ बलैः समेतैः स हि तोरणस्थितं॑ समर्थमासीनमुपागमत्कपिम्
५.०४५.००८ स तं समासाद्य हरिं हरीक्षणो॑ युगान्तकालाग्निमिव प्रजाक्षये
५.०४५.००८ अवस्थितं विस्मितजातसंभ्रमः॑ समैक्षताक्षो बहुमानचक्षुषा
५.०४५.००९ स तस्य वेगं च कपेर्महात्मनः॑ पराक्रमं चारिषु पार्ह्तिवात्मजः
५.०४५.००९ विचारयन् खं च बलं महाबलो॑ हिमक्षये सूर्य इवाभिवर्धते
५.०४५.०१० स जातमन्युः प्रसमीक्ष्य विक्रमं॑ स्थिरः स्थितः संयति दुर्निवारणम्
५.०४५.०१० समाहितात्मा हनुमन्तमाहवे॑ प्रचोदयामास शरैस्त्रिभिः शितैः
५.०४५.०११ ततः कपिं तं प्रसमीक्ष्य गर्वितं॑ जितश्रमं शत्रुपराजयोर्जितम्
५.०४५.०११ अवैक्षताक्षः समुदीर्णमानसः॑ सबाणपाणिः प्रगृहीतकार्मुकः
५.०४५.०१२ स हेमनिष्काङ्गदचारुकुण्डलः॑ समाससादाशु पराक्रमः कपिम्
५.०४५.०१२ तयोर्बभूवाप्रतिमः समागमः॑ सुरासुराणामपि संभ्रमप्रदः
५.०४५.०१३ ररास भूमिर्न तताप भानुमान्॑ ववौ न वायुः प्रचचाल चाचलः
५.०४५.०१३ कपेः कुमारस्य च वीक्ष्य संयुगं॑ ननाद च द्यौरुदधिश्च चुक्षुभे
५.०४५.०१४ ततः स वीरः सुमुखान् पतत्रिणः॑ सुवर्णपुङ्खान् सविषानिवोरगान्
५.०४५.०१४ समाधिसंयोगविमोक्षतत्त्वविच्॑ छरानथ त्रीन् कपिमूर्ध्न्यपातयत्
५.०४५.०१५ स तैः शरैर्मूर्ध्नि समं निपातितैः॑ क्षरन्नसृग्दिग्धविवृत्तलोचनः
५.०४५.०१५ नवोदितादित्यनिभः शरांशुमान्॑ व्यराजतादित्य इवांशुमालिकः
५.०४५.०१६ ततः स पिङ्गाधिपमन्त्रिसत्तमः॑ समीक्ष्य तं राजवरात्मजं रणे
५.०४५.०१६ उदग्रचित्रायुधचित्रकार्मुकं॑ जहर्ष चापूर्यत चाहवोन्मुखः
५.०४५.०१७ स मन्दराग्रस्थ इवांशुमाली॑ विवृद्धकोपो बलवीर्यसंयुतः
५.०४५.०१७ कुमारमक्षं सबलं सवाहनं॑ ददाह नेत्राग्निमरीचिभिस्तदा
५.०४५.०१८ ततः स बाणासनशक्रकार्मुकः॑ शरप्रवर्षो युधि राक्षसाम्बुदः
५.०४५.०१८ शरान्मुमोचाशु हरीश्वराचले॑ बलाहको वृष्टिमिवाचलोत्तमे
५.०४५.०१९ ततः कपिस्तं रणचण्डविक्रमं॑ विवृद्धतेजोबलवीर्यसायकम्
५.०४५.०१९ कुमारमक्षं प्रसमीक्ष्य संयुगे॑ ननाद हर्षाद्घनतुल्यविक्रमः
५.०४५.०२० स बालभावाद्युधि वीर्यदर्पितः॑ प्रवृद्धमन्युः क्षतजोपमेक्षणः
५.०४५.०२० समाससादाप्रतिमं रणे कपिं॑ गजो महाकूपमिवावृतं तृणैः
५.०४५.०२१ स तेन बाणैः प्रसभं निपातितैश्॑ चकार नादं घननादनिःस्वनः
५.०४५.०२१ समुत्पपाताशु नभः स मारुतिर्॑ भुजोरुविक्षेपण घोरदर्शनः
५.०४५.०२२ समुत्पतन्तं समभिद्रवद्बली॑ स राक्षसानां प्रवरः प्रतापवान्
५.०४५.०२२ रथी रथश्रेष्ठतमः किरञ्शरैः॑ पयोधरः शैलमिवाश्मवृष्टिभिः
५.०४५.०२३ स ताञ्शरांस्तस्य विमोक्षयन् कपिश्॑ चचार वीरः पथि वायुसेविते
५.०४५.०२३ शरान्तरे मारुतवद्विनिष्पतन्॑ मनोजवः संयति चण्डविक्रमः
५.०४५.०२४ तमात्तबाणासनमाहवोन्मुखं॑ खमास्तृणन्तं विविधैः शरोत्तमैः
५.०४५.०२४ अवैक्षताक्षं बहुमानचक्षुषा॑ जगाम चिन्तां च स मारुतात्मजः
५.०४५.०२५ ततः शरैर्भिन्नभुजान्तरः कपिः॑ कुमारवर्येण महात्मना नदन्
५.०४५.०२५ महाभुजः कर्मविशेषतत्त्वविद्॑ विचिन्तयामास रणे पराक्रमम्
५.०४५.०२६ अबालवद्बालदिवाकरप्रभः॑ करोत्ययं कर्म महन्महाबलः
५.०४५.०२६ न चास्य सर्वाहवकर्मशोभिनः॑ प्रमापणे मे मतिरत्र जायते
५.०४५.०२७ अयं महात्मा च महांश्च वीर्यतः॑ समाहितश्चातिसहश्च संयुगे
५.०४५.०२७ असंशयं कर्मगुणोदयादयं॑ सनागयक्षैर्मुनिभिश्च पूजितः
५.०४५.०२८ पराक्रमोत्साहविवृद्धमानसः॑ समीक्षते मां प्रमुखागतः स्थितः
५.०४५.०२८ पराक्रमो ह्यस्य मनांसि कम्पयेत्॑ सुरासुराणामपि शीघ्रकारिणः
५.०४५.०२९ न खल्वयं नाभिभवेदुपेक्षितः॑ पराक्रमो ह्यस्य रणे विवर्धते
५.०४५.०२९ प्रमापणं त्वेव ममास्य रोचते॑ न वर्धमानोऽग्निरुपेक्षितुं क्षमः
५.०४५.०३० इति प्रवेगं तु परस्य तर्कयन्॑ स्वकर्मयोगं च विधाय वीर्यवान्
५.०४५.०३० चकार वेगं तु महाबलस्तदा॑ मतिं च चक्रेऽस्य वधे महाकपिः
५.०४५.०३१ स तस्य तानष्टहयान्महाजवान्॑ समाहितान् भारसहान् विवर्तने
५.०४५.०३१ जघान वीरः पथि वायुसेविते॑ तलप्रहालैः पवनात्मजः कपिः
५.०४५.०३२ ततस्तलेनाभिहतो महारथः॑ स तस्य पिङ्गाधिपमन्त्रिनिर्जितः
५.०४५.०३२ स भग्ननीडः परिमुक्तकूबरः॑ पपात भूमौ हतवाजिरम्बरात्
५.०४५.०३३ स तं परित्यज्य महारथो रथं॑ सकार्मुकः खड्गधरः खमुत्पतत्
५.०४५.०३३ तपोऽभियोगादृषिरुग्रवीर्यवान्॑ विहाय देहं मरुतामिवालयम्
५.०४५.०३४ ततः कपिस्तं विचरन्तमम्बरे॑ पतत्रिराजानिलसिद्धसेविते
५.०४५.०३४ समेत्य तं मारुतवेगविक्रमः॑ क्रमेण जग्राह च पादयोर्दृढम्
५.०४५.०३५ स तं समाविध्य सहस्रशः कपिर्॑ महोरगं गृह्य इवाण्डजेश्वरः
५.०४५.०३५ मुमोच वेगात्पितृतुल्यविक्रमो॑ महीतले संयति वानरोत्तमः
५.०४५.०३६ स भग्नबाहूरुकटीशिरो धरः॑ क्षरन्नसृन्निर्मथितास्थिलोचनः
५.०४५.०३६ स भिन्नसंधिः प्रविकीर्णबन्धनो॑ हतः क्षितौ वायुसुतेन राक्षसः
५.०४५.०३७ महाकपिर्भूमितले निपीड्य तं॑ चकार रक्षोऽधिपतेर्महद्भयम्
५.०४५.०३८ महर्षिभिश्चक्रचरैर्महाव्रतैः॑ समेत्य भूतैश्च सयक्षपन्नगैः
५.०४५.०३८ सुरैश्च सेन्द्रैर्भृशजातविस्मयैर्॑ हते कुमारे स कपिर्निरीक्षितः
५.०४५.०३९ निहत्य तं वज्रसुतोपमप्रभं॑ कुमारमक्षं क्षतजोपमेक्षणम्
५.०४५.०३९ तदेव वीरोऽभिजगाम तोरणं॑ कृतक्षणः काल इव प्रजाक्षये
५.०४६.००१ ततस्तु रक्षोऽधिपतिर्महात्मा॑ हनूमताक्षे निहते कुमारे
५.०४६.००१ मनः समाधाय तदेन्द्रकल्पं॑ समादिदेशेन्द्रजितं स रोषात्
५.०४६.००२ त्वमस्त्रविच्छस्त्रभृतां वरिष्ठः॑ सुरासुराणामपि शोकदाता
५.०४६.००२ सुरेषु सेन्द्रेषु च दृष्टकर्मा॑ पितामहाराधनसंचितास्त्रः
५.०४६.००३ तवास्त्रबलमासाद्य नासुरा न मरुद्गणाः
५.०४६.००३ न कश्चित्त्रिषु लोकेषु संयुगे न गतश्रमः
५.०४६.००४ भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः
५.०४६.००४ देशकालविभागज्ञस्त्वमेव मतिसत्तमः
५.०४६.००५ न तेऽस्त्यशक्यं समरेषु कर्मणा॑ न तेऽस्त्यकार्यं मतिपूर्वमन्त्रणे
५.०४६.००५ न सोऽस्ति कश्चित्त्रिषु संग्रहेषु वै॑ न वेद यस्तेऽस्त्रबलं बलं च ते
५.०४६.००६ ममानुरूपं तपसो बलं च ते॑ पराक्रमश्चास्त्रबलं च संयुगे
५.०४६.००६ न त्वां समासाद्य रणावमर्दे॑ मनः श्रमं गच्छति निश्चितार्थम्
५.०४६.००७ निहता इंकराः सर्वे जम्बुमाली च राक्षसः
५.०४६.००७ अमात्यपुत्रा वीराश्च पञ्च सेनाग्रयायिनः
५.०४६.००८ सहोदरस्ते दयितः कुमारोऽक्षश्च सूदितः
५.०४६.००८ न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदन
५.०४६.००९ इदं हि दृष्ट्वा मतिमन्महद्बलं॑ कपेः प्रभावं च पराक्रमं च
५.०४६.००९ त्वमात्मनश्चापि समीक्ष्य सारं॑ कुरुष्व वेगं स्वबलानुरूपम्
५.०४६.०१० बलावमर्दस्त्वयि संनिकृष्टे॑ यथा गते शाम्यति शान्तशत्रौ
५.०४६.०१० तथा समीक्ष्यात्मबलं परं च॑ समारभस्वास्त्रविदां वरिष्ठ
५.०४६.०११ न खल्वियं मतिः श्रेष्ठा यत्त्वां संप्रेषयाम्यहम्
५.०४६.०११ इयं च राजधर्माणां क्षत्रस्य च मतिर्मता
५.०४६.०१२ नानाशस्त्रैश्च संग्रामे वैशारद्यमरिंदम
५.०४६.०१२ अवश्यमेव बोद्धव्यं काम्यश्च विजयो रणे
५.०४६.०१३ ततः पितुस्तद्वचनं निशम्य॑ प्रदक्षिणं दक्षसुतप्रभावः
५.०४६.०१३ चकार भर्तारमदीनसत्त्वो॑ रणाय वीरः प्रतिपन्नबुद्धिः
५.०४६.०१४ ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः
५.०४६.०१४ युद्धोद्धतकृतोत्साहः संग्रामं प्रतिपद्यत
५.०४६.०१५ श्रीमान् पद्मपलाशाक्षो राक्षसाधिपतेः सुतः
५.०४६.०१५ निर्जगाम महातेजाः समुद्र इव पर्वसु
५.०४६.०१६ स पक्षि राजोपमतुल्यवेगैर्॑ व्यालैश्चतुर्भिः सिततीक्ष्णदंष्ट्रैः
५.०४६.०१६ रथं समायुक्तमसंगवेगं॑ समारुरोहेन्द्रजिदिन्द्रकल्पः
५.०४६.०१७ स रथी धन्विनां श्रेष्ठः शस्त्रज्ञोऽस्त्रविदां वरः
५.०४६.०१७ रथेनाभिययौ क्षिप्रं हनूमान् यत्र सोऽभवत्
५.०४६.०१८ स तस्य रथनिर्घोषं ज्यास्वनं कार्मुकस्य च
५.०४६.०१८ निशम्य हरिवीरोऽसौ संप्रहृष्टतरोऽभवत्
५.०४६.०१९ सुमहच्चापमादाय शितशल्यांश्च सायकान्
५.०४६.०१९ हनूमन्तमभिप्रेत्य जगाम रणपण्डितः
५.०४६.०२० तस्मिंस्ततः संयति जातहर्षे॑ रणाय निर्गच्छति बाणपाणौ
५.०४६.०२० दिशश्च सर्वाः कलुषा बभूवुर्॑ मृगाश्च रौद्रा बहुधा विनेदुः
५.०४६.०२१ समागतास्तत्र तु नागयक्षा॑ महर्षयश्चक्रचराश्च सिद्धाः
५.०४६.०२१ नभः समावृत्य च पक्षिसंघा॑ विनेदुरुच्चैः परमप्रहृष्टाः
५.०४६.०२२ आयन्तं सरथं दृष्ट्वा तूर्णमिन्द्रजितं कपिः
५.०४६.०२२ विननाद महानादं व्यवर्धत च वेगवान्
५.०४६.०२३ इन्द्रजित्तु रथं दिव्यमास्थितश्चित्रकार्मुकः
५.०४६.०२३ धनुर्विस्फारयामास तडिदूर्जितनिःस्वनम्
५.०४६.०२४ ततः समेतावतितीक्ष्णवेगौ॑ महाबलौ तौ रणनिर्विशङ्कौ
५.०४६.०२४ कपिश्च रक्षोऽधिपतेश्च पुत्रः॑ सुरासुरेन्द्राविव बद्धवैरौ
५.०४६.०२५ स तस्य वीरस्य महारथस्या॑ धनुष्मतः संयति संमतस्य
५.०४६.०२५ शरप्रवेगं व्यहनत्प्रवृद्धश्॑ चचार मार्गे पितुरप्रमेयः
५.०४६.०२६ ततः शरानायततीक्ष्णशल्यान्॑ सुपत्रिणः काञ्चनचित्रपुङ्खान्
५.०४६.०२६ मुमोच वीरः परवीरहन्ता॑ सुसंततान् वज्रनिपातवेगान्
५.०४६.०२७ स तस्य तत्स्यन्दननिःस्वनं च॑ मृदङ्गभेरीपटहस्वनं च
५.०४६.०२७ विकृष्यमाणस्य च कार्मुकस्य॑ निशम्य घोषं पुनरुत्पपात
५.०४६.०२८ शराणामन्तरेष्वाशु व्यवर्तत महाकपिः
५.०४६.०२८ हरिस्तस्याभिलक्षस्य मोक्षयंल्लक्ष्यसंग्रहम्
५.०४६.०२९ शराणामग्रतस्तस्य पुनः समभिवर्तत
५.०४६.०२९ प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः
५.०४६.०३० तावुभौ वेगसंपन्नौ रणकर्मविशारदौ
५.०४६.०३० सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम्
५.०४६.०३१ हनूमतो वेद न राक्षसोऽन्तरं॑ न मारुतिस्तस्य महात्मनोऽन्तरम्
५.०४६.०३१ परस्परं निर्विषहौ बभूवतुः॑ समेत्य तौ देवसमानविक्रमौ
५.०४६.०३२ ततस्तु लक्ष्ये स विहन्यमाने॑ शरेषु मोघेषु च संपतत्सु
५.०४६.०३२ जगाम चिन्तां महतीं महात्मा॑ समाधिसंयोगसमाहितात्मा
५.०४६.०३३ ततो मतिं राक्षसराजसूनुश्॑ चकार तस्मिन् हरिवीरमुख्ये
५.०४६.०३३ अवध्यतां तस्य कपेः समीक्ष्य॑ कथं निगच्छेदिति निग्रहार्थम्
५.०४६.०३४ ततः पैतामहां वीरः सोऽस्त्रमस्त्रविदां वरः
५.०४६.०३४ संदधे सुमहातेजास्तं हरिप्रवरं प्रति
५.०४६.०३५ अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित्
५.०४६.०३५ निजग्राह महाबाहुर्मारुतात्मजमिन्द्रजित्
५.०४६.०३६ तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः
५.०४६.०३६ अभवन्निर्विचेष्टश्च पपात च महीतले
५.०४६.०३७ ततोऽथ बुद्ध्वा स तदास्त्रबन्धं॑ प्रभोः प्रभावाद्विगताल्पवेगः
५.०४६.०३७ पितामहानुग्रहमात्मनश्च॑ विचिन्तयामास हरिप्रवीरः
५.०४६.०३८ ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रमभिमन्त्रितम्
५.०४६.०३८ हनूमांश्चिन्तयामास वरदानं पितामहात्
५.०४६.०३९ न मेऽस्त्रबन्धस्य च शक्तिरस्ति॑ विमोक्षणे लोकगुरोः प्रभावात्
५.०४६.०३९ इत्येवमेवंविहितोऽस्त्रबन्धो॑ मयात्मयोनेरनुवर्तितव्यः
५.०४६.०४० स वीर्यमस्त्रस्य कपिर्विचार्य॑ पितामहानुग्रहमात्मनश्च
५.०४६.०४० विमोक्षशक्तिं परिचिन्तयित्वा॑ पितामहाज्ञामनुवर्तते स्म
५.०४६.०४१ अस्त्रेणापि हि बद्धस्य भयं मम न जायते
५.०४६.०४१ पितामहमहेन्द्राभ्यां रक्षितस्यानिलेन च
५.०४६.०४२ ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम्
५.०४६.०४२ राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु मां परे
५.०४६.०४३ स निश्चितार्थः परवीरहन्ता॑ समीक्ष्य करी विनिवृत्तचेष्टः
५.०४६.०४३ परैः प्रसह्याभिगतैर्निगृह्य॑ ननाद तैस्तैः परिभर्त्स्यमानः
५.०४६.०४४ ततस्तं राक्षसा दृष्ट्वा निर्विचेष्टमरिंदमम्
५.०४६.०४४ बबन्धुः शणवल्कैश्च द्रुमचीरैश्च संहतैः
५.०४६.०४५ स रोचयामास परैश्च बन्धनं॑ प्रसह्य वीरैरभिनिग्रहं च
५.०४६.०४५ कौतूहलान्मां यदि राक्षसेन्द्रो॑ द्रष्टुं व्यवस्येदिति निश्चितार्थः
५.०४६.०४६ स बद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान्
५.०४६.०४६ अस्त्रबन्धः स चान्यं हि न बन्धमनुवर्तते
५.०४६.०४७ अथेन्द्रजित्तं द्रुमचीरबन्धं॑ विचार्य वीरः कपिसत्तमं तम्
५.०४६.०४७ विमुक्तमस्त्रेण जगाम चिन्ताम्॑ अन्येन बद्धो ह्यनुवर्ततेऽस्त्रम्
५.०४६.०४८ अहो महत्कर्म कृतं निरर्थकं॑ न राक्षसैर्मन्त्रगतिर्विमृष्टा
५.०४६.०४८ पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्॑ प्रवर्तते संशयिताः स्म सर्वे
५.०४६.०४९ अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते
५.०४६.०४९ कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः
५.०४६.०५० हन्यमानस्ततः क्रूरै राक्षसैः काष्ठमुष्टिभिः
५.०४६.०५० समीपं राक्षसेन्द्रस्य प्राकृष्यत स वानरः
५.०४६.०५१ अथेन्द्रजित्तं प्रसमीक्ष्य मुक्तम्॑ अस्त्रेण बद्धं द्रुमचीरसूत्रैः
५.०४६.०५१ व्यदर्शयत्तत्र महाबलं तं॑ हरिप्रवीरं सगणाय राज्ञे
५.०४६.०५२ तं मत्तमिव मातङ्गं बद्धं कपिवरोत्तमम्
५.०४६.०५२ राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन्
५.०४६.०५३ कोऽयं कस्य कुतो वापि किं कार्यं को व्यपाश्रयः
५.०४६.०५३ इति राक्षसवीराणां तत्र संजज्ञिरे कथाः
५.०४६.०५४ हन्यतां दह्यतां वापि भक्ष्यतामिति चापरे
५.०४६.०५४ राक्षसास्तत्र संक्रुद्धाः परस्परमथाब्रुवन्
५.०४६.०५५ अतीत्य मार्गं सहसा महात्मा॑ स तत्र रक्षोऽधिपपादमूले
५.०४६.०५५ ददर्श राज्ञः परिचारवृद्धान्॑ गृहं महारत्नविभूषितं च
५.०४६.०५६ स ददर्श महातेजा रावणः कपिसत्तमम्
५.०४६.०५६ रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः
५.०४६.०५७ राक्षसाधिपतिं चापि ददर्श कपिसत्तमः
५.०४६.०५७ तेजोबलसमायुक्तं तपन्तमिव भास्करम्
५.०४६.०५८ स रोषसंवर्तितताम्रदृष्टिर्॑ दशाननस्तं कपिमन्ववेक्ष्य
५.०४६.०५८ अथोपविष्टान् कुलशीलवृद्धान्॑ समादिशत्तं प्रति मन्त्रमुख्यान्
५.०४६.०५९ यथाक्रमं तैः स कपिश्च पृष्टः॑ कार्यार्थमर्थस्य च मूलमादौ
५.०४६.०५९ निवेदयामास हरीश्वरस्य॑ दूतः सकाशादहमागतोऽस्मि
५.०४७.००१ ततः स कर्मणा तस्य विस्मितो भीमविक्रमः
५.०४७.००१ हनुमान् रोषताम्राक्षो रक्षोऽधिपमवैक्षत
५.०४७.००२ भाजमानं महार्हेण काञ्चनेन विराजता
५.०४७.००२ मुक्ताजालावृतेनाथ मुकुटेन महाद्युतिम्
५.०४७.००३ वज्रसंयोगसंयुक्तैर्महार्हमणिविग्रहैः
५.०४७.००३ हैमैराभरणैश्चित्रैर्मनसेव प्रकल्पितैः
५.०४७.००४ महार्हक्षौमसंवीतं रक्तचन्दनरूषितम्
५.०४७.००४ स्वनुलिप्तं विचित्राभिर्विविधभिश्च भक्तिभिः
५.०४७.००५ विपुलैर्दर्शनीयैश्च रक्षाक्षैर्भीमदर्शनैः
५.०४७.००५ दीप्ततीक्ष्णमहादंष्ट्रैः प्रलम्बदशनच्छदैः
५.०४७.००६ शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं
५.०४७.००६ नानाव्यालसमाकीर्णैः शिखरैरिव मन्दरम्
५.०४७.००७ नीलाञ्जनचय प्रख्यं हारेणोरसि राजता
५.०४७.००७ पूर्णचन्द्राभवक्त्रेण सबलाकमिवाम्बुदम्
५.०४७.००८ बाहुभिर्बद्धकेयूरैश्चन्दनोत्तमरूषितैः
५.०४७.००८ भ्राजमानाङ्गदैः पीनैः पञ्चशीर्षैरिवोरगैः
५.०४७.००९ महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते
५.०४७.००९ उत्तमास्तरणास्तीर्णे उपविष्टं वरासने
५.०४७.०१० अलंकृताभिरत्यर्थं प्रमदाभिः समन्ततः
५.०४७.०१० वालव्यजनहस्ताभिरारात्समुपसेवितम्
५.०४७.०११ दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा
५.०४७.०११ मन्त्रिभिर्मन्त्रतत्त्वज्ञैर्निकुम्भेन च मन्त्रिणा
५.०४७.०१२ उपोपविष्टं रक्षोभिश्चतुर्भिर्बलदर्पितैः
५.०४७.०१२ कृत्स्नैः परिवृतं लोकं चतुर्भिरिव सागरैः
५.०४७.०१३ मन्त्रिभिर्मन्त्रतत्त्वज्ञैरन्यैश्च शुभबुद्धिभिः
५.०४७.०१३ अन्वास्यमानं सचिवैः सुरैरिव सुरेश्वरम्
५.०४७.०१४ अपश्यद्राक्षसपतिं हनूमानतितेजसं
५.०४७.०१४ विष्ठितं मेरुशिखरे सतोयमिव तोयदम्
५.०४७.०१५ स तैः संपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः
५.०४७.०१५ विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत
५.०४७.०१६ भ्राजमानं ततो दृष्ट्वा हनुमान् राक्षसेश्वरम्
५.०४७.०१६ मनसा चिन्तयामास तेजसा तस्य मोहितः
५.०४७.०१७ अहो रूपमहो धैर्यमहो सत्त्वमहो द्युतिः
५.०४७.०१७ अहो राक्षसराजस्य सर्वलक्षणयुक्तता
५.०४७.०१८ यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः
५.०४७.०१८ स्यादयं सुरलोकस्य सशक्रस्यापि रक्षिता
५.०४७.०१९ तेन बिभ्यति खल्वस्माल्लोकाः सामरदानवाः
५.०४७.०१९ अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्
५.०४७.०२० इति चिन्तां बहुविधामकरोन्मतिमान् कपिः
५.०४७.०२० दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः
५.०४८.००१ तमुद्वीक्ष्य महाबाहुः पिङ्गाक्षं पुरतः स्थितम्
५.०४८.००१ रोषेण महताविष्टो रावणो लोकरावणः
५.०४८.००२ स राजा रोषताम्राक्षः प्रहस्तं मन्त्रिसत्तमम्
५.०४८.००२ कालयुक्तमुवाचेदं वचो विपुलमर्थवत्
५.०४८.००३ दुरात्मा पृच्छ्यतामेष कुतः किं वास्य कारणम्
५.०४८.००३ वनभङ्गे च कोऽस्यार्थो राक्षसीनां च तर्जने
५.०४८.००४ रावणस्य वचः श्रुत्वा प्रहस्तो वाक्यमब्रवीत्
५.०४८.००४ समाश्वसिहि भद्रं ते न भीः कार्या त्वया कपे
५.०४८.००५ यदि तावत्त्वमिन्द्रेण प्रेषितो रावणालयम्
५.०४८.००५ तत्त्वमाख्याहि मा ते भूद्भयं वानर मोक्ष्यसे
५.०४८.००६ यदि वैश्रवणस्य त्वं यमस्य वरुणस्य च
५.०४८.००६ चारुरूपमिदं कृत्वा यमस्य वरुणस्य च
५.०४८.००७ विष्णुना प्रेषितो वापि दूतो विजयकाङ्क्षिणा
५.०४८.००७ न हि ते वानरं तेजो रूपमात्रं तु वानरम्
५.०४८.००८ तत्त्वतः कथयस्वाद्य ततो वानर मोक्ष्यसे
५.०४८.००८ अनृतं वदतश्चापि दुर्लभं तव जीवितम्
५.०४८.००९ अथ वा यन्निमित्तस्ते प्रवेशो रावणालये
५.०४८.०१० एवमुक्तो हरिवरस्तदा रक्षोगणेश्वरम्
५.०४८.०१० अब्रवीन्नास्मि शक्रस्य यमस्य वरुणस्य वा
५.०४८.०११ धनदेन न मे सख्यं विष्णुना नास्मि चोदितः
५.०४८.०११ जातिरेव मम त्वेषा वानरोऽहमिहागतः
५.०४८.०१२ दर्शने राक्षसेन्द्रस्य दुर्लभे तदिदं मया
५.०४८.०१२ वनं राक्षसराजस्य दर्शनार्थे विनाशितम्
५.०४८.०१३ ततस्ते राक्षसाः प्राप्ता बलिनो युद्धकाङ्क्षिणः
५.०४८.०१३ रक्षणार्थं च देहस्य प्रतियुद्धा मया रणे
५.०४८.०१४ अस्त्रपाशैर्न शक्योऽहं बद्धुं देवासुरैरपि
५.०४८.०१४ पितामहादेव वरो ममाप्येषोऽभ्युपागतः
५.०४८.०१५ राजानं द्रष्टुकामेन मयास्त्रमनुवर्तितम्
५.०४८.०१५ विमुक्तो अहमस्त्रेण राक्षसैस्त्वतिपीडितः
५.०४८.०१६ दूतोऽहमिति विज्ञेयो राघवस्यामितौजसः
५.०४८.०१६ श्रूयतां चापि वचनं मम पथ्यमिदं प्रभो
५.०४९.००१ तं समीक्ष्य महासत्त्वं सत्त्ववान् हरिसत्तमः
५.०४९.००१ वाक्यमर्थवदव्यग्रस्तमुवाच दशाननम्
५.०४९.००२ अहं सुग्रीवसंदेशादिह प्राप्तस्तवालयम्
५.०४९.००२ राक्षसेन्द्र हरीशस्त्वां भ्राता कुशलमब्रवीत्
५.०४९.००३ भ्रातुः शृणु समादेशं सुग्रीवस्य महात्मनः
५.०४९.००३ धर्मार्थोपहितं वाक्यमिह चामुत्र च क्षमम्
५.०४९.००४ राजा दशरथो नाम रथकुञ्जरवाजिमान्
५.०४९.००४ पितेव बन्धुर्लोकस्य सुरेश्वरसमद्युतिः
५.०४९.००५ ज्येष्ठस्तस्य महाबाहुः पुत्रः प्रियकरः प्रभुः
५.०४९.००५ पितुर्निदेशान्निष्क्रान्तः प्रविष्टो दण्डकावनम्
५.०४९.००६ लक्ष्मणेन सह भ्रात्रा सीतया चापि भार्यया
५.०४९.००६ रामो नाम महातेजा धर्म्यं पन्थानमाश्रितः
५.०४९.००७ तस्य भार्या वने नष्टा सीता पतिमनुव्रता
५.०४९.००७ वैदेहस्य सुता राज्ञो जनकस्य महात्मनः
५.०४९.००८ स मार्गमाणस्तां देवीं राजपुत्रः सहानुजः
५.०४९.००८ ऋश्यमूकमनुप्राप्तः सुग्रीवेण च संगतः
५.०४९.००९ तस्य तेन प्रतिज्ञातं सीतायाः परिमार्गणम्
५.०४९.००९ सुग्रीवस्यापि रामेण हरिराज्यं निवेदितम्
५.०४९.०१० ततस्तेन मृधे हत्वा राजपुत्रेण वालिनम्
५.०४९.०१० सुग्रीवः स्थापितो राज्ये हर्यृक्षाणां गणेश्वरः
५.०४९.०११ स सीतामार्गणे व्यग्रः सुग्रीवः सत्यसंगरः
५.०४९.०११ हरीन् संप्रेषयामास दिशः सर्वा हरीश्वरः
५.०४९.०१२ तां हरीणां सहस्राणि शतानि नियुतानि च
५.०४९.०१२ दिक्षु सर्वासु मार्गन्ते अधश्चोपरि चाम्बरे
५.०४९.०१३ वैनतेय समाः के चित्के चित्तत्रानिलोपमाः
५.०४९.०१३ असंगगतयः शीघ्रा हरिवीरा महाबलाः
५.०४९.०१४ अहं तु हनुमान्नाम मारुतस्यौरसः सुतः
५.०४९.०१४ सीतायास्तु कृते तूर्णं शतयोजनमायतम्
५.०४९.०१४ समुद्रं लङ्घयित्वैव तां दिदृक्षुरिहागतः
५.०४९.०१५ तद्भवान् दृष्टधर्मार्थस्तपः कृतपरिग्रहः
५.०४९.०१५ परदारान्महाप्राज्ञ नोपरोद्धुं त्वमर्हसि
५.०४९.०१६ न हि धर्मविरुद्धेषु बह्वपायेषु कर्मसु
५.०४९.०१६ मूलघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः
५.०४९.०१७ कश्च लक्ष्मणमुक्तानां रामकोपानुवर्तिनाम्
५.०४९.०१७ शराणामग्रतः स्थातुं शक्तो देवासुरेष्वपि
५.०४९.०१८ न चापि त्रिषु लोकेषु राजन् विद्येत कश्चन
५.०४९.०१८ राघवस्य व्यलीकं यः कृत्वा सुखमवाप्नुयात्
५.०४९.०१९ तत्त्रिकालहितं वाक्यं धर्म्यमर्थानुबन्धि च
५.०४९.०१९ मन्यस्व नरदेवाय जानकी प्रतिदीयताम्
५.०४९.०२० दृष्टा हीयं मया देवी लब्धं यदिह दुर्लभम्
५.०४९.०२० उत्तरं कर्म यच्छेषं निमित्तं तत्र राघवः
५.०४९.०२१ लक्षितेयं मया सीता तथा शोकपरायणा
५.०४९.०२१ गृह्य यां नाभिजानासि पञ्चास्यामिव पन्नगीम्
५.०४९.०२२ नेयं जरयितुं शक्या सासुरैरमरैरपि
५.०४९.०२२ विषसंसृष्टमत्यर्थं भुक्तमन्नमिवौजसा
५.०४९.०२३ तपःसंतापलब्धस्ते योऽयं धर्मपरिग्रहः
५.०४९.०२३ न स नाशयितुं न्याय्य आत्मप्राणपरिग्रहः
५.०४९.०२४ अवध्यतां तपोभिर्यां भवान् समनुपश्यति
५.०४९.०२४ आत्मनः सासुरैर्देवैर्हेतुस्तत्राप्ययं महान्
५.०४९.०२५ सुग्रीवो न हि देवोऽयं नासुरो न च मानुषः
५.०४९.०२५ न राक्षसो न गन्धर्वो न यक्षो न च पन्नगः
५.०४९.०२६ मानुषो राघवो राजन् सुग्रीवश्च हरीश्वरः
५.०४९.०२६ तस्मात्प्राणपरित्राणं कथं राजन् करिष्यसि
५.०४९.०२७ न तु धर्मोपसंहारमधर्मफलसंहितम्
५.०४९.०२७ तदेव फलमन्वेति धर्मश्चाधर्मनाशनः
५.०४९.०२८ प्राप्तं धर्मफलं तावद्भवता नात्र संशयः
५.०४९.०२८ फलमस्याप्यधर्मस्य क्षिप्रमेव प्रपत्स्यसे
५.०४९.०२९ जनस्थानवधं बुद्ध्वा बुद्ध्वा वालिवधं तथा
५.०४९.०२९ रामसुग्रीवसख्यं च बुध्यस्व हितमात्मनः
५.०४९.०३० कामं खल्वहमप्येकः सवाजिरथकुञ्जराम्
५.०४९.०३० लङ्कां नाशयितुं शक्तस्तस्यैष तु विनिश्चयः
५.०४९.०३१ रामेण हि प्रतिज्ञातं हर्यृक्षगणसंनिधौ
५.०४९.०३१ उत्सादनममित्राणां सीता यैस्तु प्रधर्षिता
५.०४९.०३२ अपकुर्वन् हि रामस्य साक्षादपि पुरंदरः
५.०४९.०३२ न सुखं प्राप्नुयादन्यः किं पुनस्त्वद्विधो जनः
५.०४९.०३३ यां सीतेत्यभिजानासि येयं तिष्ठति ते वशे
५.०४९.०३३ कालरात्रीति तां विद्धि सर्वलङ्काविनाशिनीम्
५.०४९.०३४ तदलं कालपाशेन सीता विग्रहरूपिणा
५.०४९.०३४ स्वयं स्कन्धावसक्तेन क्षममात्मनि चिन्त्यताम्
५.०४९.०३५ सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम्
५.०४९.०३५ दह्यमनामिमां पश्य पुरीं साट्टप्रतोलिकाम्
५.०४९.०३६ स सौष्ठवोपेतमदीनवादिनः॑ कपेर्निशम्याप्रतिमोऽप्रियं वचः
५.०४९.०३६ दशाननः कोपविवृत्तलोचनः॑ समादिशत्तस्य वधं महाकपेः
५.०५०.००१ तस्य तद्वचनं श्रुत्वा वानरस्य महात्मनः
५.०५०.००१ आज्ञापयद्वधं तस्य रावणः क्रोधमूर्छितः
५.०५०.००२ वधे तस्य समाज्ञप्ते रावणेन दुरात्मना
५.०५०.००२ निवेदितवतो दौत्यं नानुमेने विभीषणः
५.०५०.००३ तं रक्षोऽधिपतिं क्रुद्धं तच्च कार्यमुपस्थितम्
५.०५०.००३ विदित्वा चिन्तयामास कार्यं कार्यविधौ स्थितः
५.०५०.००४ निश्चितार्थस्ततः साम्नापूज्य शत्रुजिदग्रजम्
५.०५०.००४ उवाच हितमत्यर्थं वाक्यं वाक्यविशारदः
५.०५०.००५ राजन् धर्मविरुद्धं च लोकवृत्तेश्च गर्हितम्
५.०५०.००५ तव चासदृशं वीर कपेरस्य प्रमापणम्
५.०५०.००६ असंशयं शत्रुरयं प्रवृद्धः॑ कृतं ह्यनेनाप्रियमप्रमेयम्
५.०५०.००६ न दूतवध्यां प्रवदन्ति सन्तो॑ दूतस्य दृष्टा बहवो हि दण्डाः
५.०५०.००७ वैरूप्यामङ्गेषु कशाभिघातो॑ मौण्ड्यं तथा लक्ष्मणसंनिपातः
५.०५०.००७ एतान् हि दूते प्रवदन्ति दण्डान्॑ वधस्तु दूतस्य न नः श्रुतोऽपि
५.०५०.००८ कथं च धर्मार्थविनीतबुद्धिः॑ परावरप्रत्ययनिश्चितार्थः
५.०५०.००८ भवद्विधः कोपवशे हि तिष्ठेत्॑ कोपं नियच्छन्ति हि सत्त्ववन्तः
५.०५०.००९ न धर्मवादे न च लोकवृत्ते॑ न शास्त्रबुद्धिग्रहणेषु वापि
५.०५०.००९ विद्येत कश्चित्तव वीरतुल्यस्॑ त्वं ह्युत्तमः सर्वसुरासुराणाम्
५.०५०.०१० न चाप्यस्य कपेर्घाते कं चित्पश्याम्यहं गुणम्
५.०५०.०१० तेष्वयं पात्यतां दण्डो यैरयं प्रेषितः कपिः
५.०५०.०११ साधुर्वा यदि वासाधुर्परैरेष समर्पितः
५.०५०.०११ ब्रुवन् परार्थं परवान्न दूतो वधमर्हति
५.०५०.०१२ अपि चास्मिन् हते राजन्नान्यं पश्यामि खेचरम्
५.०५०.०१२ इह यः पुनरागच्छेत्परं पारं महोदधिः
५.०५०.०१३ तस्मान्नास्य वधे यत्नः कार्यः परपुरंजय
५.०५०.०१३ भवान् सेन्द्रेषु देवेषु यत्नमास्थातुमर्हति
५.०५०.०१४ अस्मिन् विनष्टे न हि दूतमन्यं॑ पश्यामि यस्तौ नरराजपुत्रौ
५.०५०.०१४ युद्धाय युद्धप्रियदुर्विनीताव्॑ उद्योजयेद्दीर्घपथावरुद्धौ
५.०५०.०१५ पराक्रमोत्साहमनस्विनां च॑ सुरासुराणामपि दुर्जयेन
५.०५०.०१५ त्वया मनोनन्दन नैरृतानां॑ युद्धायतिर्नाशयितुं न युक्ता
५.०५०.०१६ हिताश्च शूराश्च समाहिताश्च॑ कुलेषु जाताश्च महागुणेषु
५.०५०.०१६ मनस्विनः शस्त्रभृतां वरिष्ठाः॑ कोट्यग्रशस्ते सुभृताश्च योधाः
५.०५०.०१७ तदेकदेशेन बलस्य तावत्॑ के चित्तवादेशकृतोऽपयान्तु
५.०५०.०१७ तौ राजपुत्रौ विनिगृह्य मूढौ॑ परेषु ते भावयितुं प्रभावम्
५.०५१.००१ तस्य तद्वचनं श्रुत्वा दशग्रीवो महाबलः
५.०५१.००१ देशकालहितं वाक्यं भ्रातुरुत्तममब्रवीत्
५.०५१.००२ सम्यगुक्तं हि भवता दूतवध्या विगर्हिता
५.०५१.००२ अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः
५.०५१.००३ कपीनां किल लाङ्गूलमिष्टं भवति भूषणम्
५.०५१.००३ तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु
५.०५१.००४ ततः पश्यन्त्विमं दीनमङ्गवैरूप्यकर्शितम्
५.०५१.००४ समित्रा ज्ञातयः सर्वे बान्धवाः ससुहृज्जनाः
५.०५१.००५ आज्ञापयद्राक्षसेन्द्रः पुरं सर्वं सचत्वरम्
५.०५१.००५ लाङ्गूलेन प्रदीप्तेन रक्षोभिः परिणीयताम्
५.०५१.००६ तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्कशाः
५.०५१.००६ वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः
५.०५१.००७ संवेष्ट्यमाने लाङ्गूले व्यवर्धत महाकपिः
५.०५१.००७ शुष्कमिन्धनमासाद्य वनेष्विव हुताशनः
५.०५१.००८ तैलेन परिषिच्याथ तेऽग्निं तत्रावपातयन्
५.०५१.००९ लाङ्गूलेन प्रदीप्तेन राक्षसांस्तानपातयत्
५.०५१.००९ रोषामर्षपरीतात्मा बालसूर्यसमाननः
५.०५१.०१० स भूयः संगतैः क्रूरै राकसैर्हरिसत्तमः
५.०५१.०१० निबद्धः कृतवान् वीरस्तत्कालसदृशीं मतिम्
५.०५१.०११ कामं खलु न मे शक्ता निबधस्यापि राक्षसाः
५.०५१.०११ छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान् पुनः
५.०५१.०१२ सर्वेषामेव पर्याप्तो राक्षसानामहं युधि
५.०५१.०१२ किं तु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम्
५.०५१.०१३ लङ्का चरयितव्या मे पुनरेव भवेदिति
५.०५१.०१३ रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः
५.०५१.०१३ अवश्यमेव द्रष्टव्या मया लङ्का निशाक्षये
५.०५१.०१४ कामं बन्धैश्च मे भूयः पुच्छस्योद्दीपनेन च
५.०५१.०१४ पीडां कुर्वन्तु रक्षांसि न मेऽस्ति मनसः श्रमः
५.०५१.०१५ ततस्ते संवृताकारं सत्त्ववन्तं महाकपिम्
५.०५१.०१५ परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुञ्जरम्
५.०५१.०१६ शङ्खभेरीनिनादैस्तैर्घोषयन्तः स्वकर्मभिः
५.०५१.०१६ राक्षसाः क्रूरकर्माणश्चारयन्ति स्म तां पुरीम्
५.०५१.०१७ हनुमांश्चारयामास राक्षसानां महापुरीम्
५.०५१.०१७ अथापश्यद्विमानानि विचित्राणि महाकपिः
५.०५१.०१८ संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान्
५.०५१.०१८ रथ्याश्च गृहसंबाधाः कपिः शृङ्गाटकानि च
५.०५१.०१९ चत्वरेषु चतुष्केषु राजमार्गे तथैव च
५.०५१.०१९ घोषयन्ति कपिं सर्वे चारीक इति राक्षसाः
५.०५१.०२० दीप्यमाने ततस्तस्य लाङ्गूलाग्रे हनूमतः
५.०५१.०२० राक्षस्यस्ता विरूपाक्ष्यः शंसुर्देव्यास्तदप्रियम्
५.०५१.०२१ यस्त्वया कृतसंवादः सीते ताम्रमुखः कपिः
५.०५१.०२१ लाङ्गूलेन प्रदीप्तेन स एष परिणीयते
५.०५१.०२२ श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम्
५.०५१.०२२ वैदेही शोकसंतप्ता हुताशनमुपागमत्
५.०५१.०२३ मङ्गलाभिमुखी तस्य सा तदासीन्महाकपेः
५.०५१.०२३ उपतस्थे विशालाक्षी प्रयता हव्यवाहनम्
५.०५१.०२४ यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः
५.०५१.०२४ यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः
५.०५१.०२५ यदि कश्चिदनुक्रोशस्तस्य मय्यस्ति धीमतः
५.०५१.०२५ यदि वा भाग्यशेषं मे शीतो भव हनूमतः
५.०५१.०२६ यदि मां वृत्तसंपन्नां तत्समागमलालसाम्
५.०५१.०२६ स विजानाति धर्मात्मा शीतो भव हनूमतः
५.०५१.०२७ यदि मां तारयत्यार्यः सुग्रीवः सत्यसंगरः
५.०५१.०२७ अस्माद्दुःखान्महाबाहुः शीतो भव हनूमतः
५.०५१.०२८ ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः
५.०५१.०२८ जज्वाल मृगशावाक्ष्याः शंसन्निव शिवं कपेः
५.०५१.०२९ दह्यमाने च लाङ्गूले चिन्तयामास वानरः
५.०५१.०२९ प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः
५.०५१.०३० दृश्यते च महाज्वालः करोति च न मे रुजम्
५.०५१.०३० शिशिरस्येव संपातो लाङ्गूलाग्रे प्रतिष्ठितः
५.०५१.०३१ अथ वा तदिदं व्यक्तं यद्दृष्टं प्लवता मया
५.०५१.०३१ रामप्रभावादाश्चर्यं पर्वतः सरितां पतौ
५.०५१.०३२ यदि तावत्समुद्रस्य मैनाकस्य च धीमथ
५.०५१.०३२ रामार्थं संभ्रमस्तादृक्किमग्निर्न करिष्यति
५.०५१.०३३ सीतायाश्चानृशंस्येन तेजसा राघवस्य च
५.०५१.०३३ पितुश्च मम सख्येन न मां दहति पावकः
५.०५१.०३४ भूयः स चिन्तयामास मुहूर्तं कपिकुञ्जरः
५.०५१.०३४ उत्पपाताथ वेगेन ननाद च महाकपिः
५.०५१.०३५ पुरद्वारं ततः श्रीमाञ्शैलशृङ्गमिवोन्नतम्
५.०५१.०३५ विभक्तरक्षःसंबाधमाससादानिलात्मजः
५.०५१.०३६ स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान्
५.०५१.०३६ ह्रस्वतां परमां प्राप्तो बन्धनान्यवशातयत्
५.०५१.०३७ विमुक्तश्चाभवच्छ्रीमान् पुनः पर्वतसंनिभः
५.०५१.०३७ वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम्
५.०५१.०३८ स तं गृह्य महाबाहुः कालायसपरिष्कृतम्
५.०५१.०३८ रक्षिणस्तान् पुनः सर्वान् सूदयामास मारुतिः
५.०५१.०३९ स तान्निहत्वा रणचण्डविक्रमः॑ समीक्षमाणः पुनरेव लङ्काम्
५.०५१.०३९ प्रदीप्तलाङ्गूलकृतार्चिमाली॑ प्रकाशतादित्य इवांशुमाली
५.०५२.००१ वीक्षमाणस्ततो लङ्कां कपिः कृतमनोरथः
५.०५२.००१ वर्धमानसमुत्साहः कार्यशेषमचिन्तयत्
५.०५२.००२ किं नु खल्वविशिष्टं मे कर्तव्यमिह साम्प्रतम्
५.०५२.००२ यदेषां रक्षसां भूयः संतापजननं भवेत्
५.०५२.००३ वनं तावत्प्रमथितं प्रकृष्टा राक्षसा हताः
५.०५२.००३ बलैकदेशः क्षपितः शेषं दुर्गविनाशनम्
५.०५२.००४ दुर्गे विनाशिते कर्म भवेत्सुखपरिश्रमम्
५.०५२.००४ अल्पयत्नेन कार्येऽस्मिन्मम स्यात्सफलः श्रमः
५.०५२.००५ यो ह्ययं मम लाङ्गूले दीप्यते हव्यवाहनः
५.०५२.००५ अस्य संतर्पणं न्याय्यं कर्तुमेभिर्गृहोत्तमैः
५.०५२.००६ ततः प्रदीप्तलाङ्गूलः सविद्युदिव तोयदः
५.०५२.००६ भवनाग्रेषु लङ्काया विचचार महाकपिः
५.०५२.००७ मुमोच हनुमानग्निं कालानलशिखोपमम्
५.०५२.००८ श्वसनेन च संयोगादतिवेगो महाबलः
५.०५२.००८ कालाग्निरिव जज्वाल प्रावर्धत हुताशनः
५.०५२.००९ प्रदीप्तमग्निं पवनस्तेषु वेश्मसु चारयत्
५.०५२.०१० तानि काञ्चनजालानि मुक्तामणिमयानि च
५.०५२.०१० भवनान्यवशीर्यन्त रत्नवन्ति महान्ति च
५.०५२.०११ तानि भग्नविमानानि निपेतुर्वसुधातले
५.०५२.०११ भवनानीव सिद्धानामम्बरात्पुण्यसंक्षये
५.०५२.०१२ वज्रविद्रुमवैदूर्यमुक्तारजतसंहितान्
५.०५२.०१२ विचित्रान् भवनाद्धातून् स्यन्दमानान् ददर्श सः
५.०५२.०१३ नाग्निस्तृप्यति काष्ठानां तृणानां च यथा तथा
५.०५२.०१३ हनूमान् राक्षसेन्द्राणां वधे किं चिन्न तृप्यति
५.०५२.०१४ हुताशनज्वालसमावृता सा॑ हतप्रवीरा परिवृत्तयोधा
५.०५२.०१४ हनूमातः क्रोधबलाभिभूता॑ बभूव शापोपहतेव लङ्का
५.०५२.०१५ ससंभ्रमं त्रस्तविषण्णराक्षसां॑ समुज्ज्वलज्ज्वालहुताशनाङ्किताम्
५.०५२.०१५ ददर्श लङ्कां हनुमान्महामनाः॑ स्वयम्भुकोपोपहतामिवावनिम्
५.०५२.०१६ स राक्षसांस्तान् सुबहूंश्च हत्वा॑ वनं च भङ्क्त्वा बहुपादपं तत्
५.०५२.०१६ विसृज्य रक्षो भवनेषु चाग्निं॑ जगाम रामं मनसा महात्मा
५.०५२.०१७ लङ्कां समस्तां संदीप्य लाङ्गूलाग्निं महाकपिः
५.०५२.०१७ निर्वापयामास तदा समुद्रे हरिसत्तमः
५.०५३.००१ संदीप्यमानां विध्वस्तां त्रस्तरक्षो गणां पुरीम्
५.०५३.००१ अवेक्ष्य हानुमांल्लङ्कां चिन्तयामास वानरः
५.०५३.००२ तस्याभूत्सुमहांस्त्रासः कुत्सा चात्मन्यजायत
५.०५३.००२ लङ्कां प्रदहता कर्म किंस्वित्कृतमिदं मया
५.०५३.००३ धन्यास्ते पुरुषश्रेष्ठ ये बुद्ध्या कोपमुत्थितम्
५.०५३.००३ निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा
५.०५३.००४ यदि दग्धा त्वियं लङ्का नूनमार्यापि जानकी
५.०५३.००४ दग्धा तेन मया भर्तुर्हतं कार्यमजानता
५.०५३.००५ यदर्थमयमारम्भस्तत्कार्यमवसादितम्
५.०५३.००५ मया हि दहता लङ्कां न सीता परिरक्षिता
५.०५३.००६ ईषत्कार्यमिदं कार्यं कृतमासीन्न संशयः
५.०५३.००६ तस्य क्रोधाभिभूतेन मया मूलक्षयः कृतः
५.०५३.००७ विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते
५.०५३.००७ लङ्कायाः कश्चिदुद्देशः सर्वा भस्मीकृता पुरी
५.०५३.००८ यदि तद्विहतं कार्यं मया प्रज्ञाविपर्ययात्
५.०५३.००८ इहैव प्राणसंन्यासो ममापि ह्यतिरोचते
५.०५३.००९ किमग्नौ निपताम्यद्य आहोस्विद्वडवामुखे
५.०५३.००९ शरीरमाहो सत्त्वानां दद्मि सागरवासिनाम्
५.०५३.०१० कथं हि जीवता शक्यो मया द्रष्टुं हरीश्वरः
५.०५३.०१० तौ वा पुरुषशार्दूलौ कार्यसर्वस्वघातिना
५.०५३.०११ मया खलु तदेवेदं रोषदोषात्प्रदर्शितम्
५.०५३.०११ प्रथितं त्रिषु लोकेषु कपितमनवस्थितम्
५.०५३.०१२ धिगस्तु राजसं भावमनीशमनवस्थितम्
५.०५३.०१२ ईश्वरेणापि यद्रागान्मया सीता न रक्षिता
५.०५३.०१३ विनष्टायां तु सीतायां तावुभौ विनशिष्यतः
५.०५३.०१३ तयोर्विनाशे सुग्रीवः सबन्धुर्विनशिष्यति
५.०५३.०१४ एतदेव वचः श्रुत्वा भरतो भ्रातृवत्सलः
५.०५३.०१४ धर्मात्मा सहशत्रुघ्नः कथं शक्ष्यति जीवितुम्
५.०५३.०१५ इक्ष्वाकुवंशे धर्मिष्ठे गते नाशमसंशयम्
५.०५३.०१५ भविष्यन्ति प्रजाः सर्वाः शोकसंतापपीडिताः
५.०५३.०१६ तदहं भाग्यरहितो लुप्तधर्मार्थसंग्रहः
५.०५३.०१६ रोषदोषपरीतात्मा व्यक्तं लोकविनाशनः
५.०५३.०१७ इति चिन्तयतस्तस्य निमित्तान्युपपेदिरे
५.०५३.०१७ पूरमप्युपलब्धानि साक्षात्पुनरचिन्तयत्
५.०५३.०१८ अथ वा चारुसर्वाङ्गी रक्षिता स्वेन तेजसा
५.०५३.०१८ न नशिष्यति कल्याणी नाग्निरग्नौ प्रवर्तते
५.०५३.०१९ न हि धर्मान्मनस्तस्य भार्याममिततेजसः
५.०५३.०१९ स्वचारित्राभिगुप्तां तां स्प्रष्टुमर्हति पावकः
५.०५३.०२० नूनं रामप्रभावेन वैदेह्याः सुकृतेन च
५.०५३.०२० यन्मां दहनकर्मायं नादहद्धव्यवाहनः
५.०५३.०२१ त्रयाणां भरतादीनां भ्रातॄणां देवता च या
५.०५३.०२१ रामस्य च मनःकान्ता सा कथं विनशिष्यति
५.०५३.०२२ यद्वा दहनकर्मायं सर्वत्र प्रभुरव्ययः
५.०५३.०२२ न मे दहति लाङ्गूलं कथमार्यां प्रधक्ष्यति
५.०५३.०२३ तपसा सत्यवाक्येन अनन्यत्वाच्च भर्तरि
५.०५३.०२३ अपि सा निर्दहेदग्निं न तामग्निः प्रधक्ष्यति
५.०५३.०२४ स तथा चिन्तयंस्तत्र देव्या धर्मपरिग्रहम्
५.०५३.०२४ शुश्राव हनुमान् वाक्यं चारणानां महात्मनाम्
५.०५३.०२५ अहो खलु कृतं कर्म दुर्विषह्यं हनूमता
५.०५३.०२५ अग्निं विसृजताभीक्ष्णं भीमं राक्षससद्मनि
५.०५३.०२६ दग्धेयं नगरी लङ्का साट्टप्राकारतोरणा
५.०५३.०२६ जानकी न च दग्धेति विस्मयोऽद्भुत एव नः
५.०५३.०२७ स निमित्तैश्च दृष्टार्थैः कारणैश्च महागुणैः
५.०५३.०२७ ऋषिवाक्यैश्च हनुमानभवत्प्रीतमानसः
५.०५३.०२८ ततः कपिः प्राप्तमनोरथार्थस्॑ तामक्षतां राजसुतां विदित्वा
५.०५३.०२८ प्रत्यक्षतस्तां पुनरेव दृष्ट्वा॑ प्रतिप्रयाणाय मतिं चकार
५.०५४.००१ ततस्तु शिंशपामूले जानकीं पर्यवस्थिताम्
५.०५४.००१ अभिवाद्याब्रवीद्दिष्ट्या पश्यामि त्वामिहाक्षताम्
५.०५४.००२ ततस्तं प्रस्थितं सीता वीक्षमाणा पुनः पुनः
५.०५४.००२ भर्तृस्नेहान्वितं वाक्यं हनूमन्तमभाषत
५.०५४.००३ काममस्य त्वमेवैकः कार्यस्य परिसाधने
५.०५४.००३ पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
५.०५४.००४ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः
५.०५४.००४ मां नयेद्यदि काकुत्स्थस्तस्य तत्सादृशं भवेत्
५.०५४.००५ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः
५.०५४.००५ भवत्याहवशूरस्य तत्त्वमेवोपपादय
५.०५४.००६ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्
५.०५४.००६ निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत्
५.०५४.००७ क्षिप्रमेष्यति काकुत्स्थो हर्यृक्षप्रवरैर्वृतः
५.०५४.००७ यस्ते युधि विजित्यारीञ्शोकं व्यपनयिष्यति
५.०५४.००८ एवमाश्वास्य वैदेहीं हनूमान्मारुतात्मजः
५.०५४.००८ गमनाय मतिं कृत्वा वैदेहीमभ्यवादयत्
५.०५४.००९ ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः
५.०५४.००९ आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः
५.०५४.०१० तुङ्गपद्मकजुष्टाभिर्नीलाभिर्वनराजिभिः
५.०५४.०१० सालतालाश्वकर्णैश्च वंशैश्च बहुभिर्वृतम्
५.०५४.०११ लतावितानैर्विततैः पुष्पवद्भिरलंकृतम्
५.०५४.०११ नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम्
५.०५४.०१२ बहुप्रस्रवणोपेतं शिलासंचयसंकटम्
५.०५४.०१२ महर्षियक्षगन्धर्वकिंनरोरगसेवितम्
५.०५४.०१३ लतापादपसंबाधं सिंहाकुलितकन्दरम्
५.०५४.०१३ व्याघ्रसंघसमाकीर्णं स्वादुमूलफलद्रुमम्
५.०५४.०१४ तमारुरोहातिबलः पर्वतं प्लवगोत्तमः
५.०५४.०१४ रामदर्शनशीघ्रेण प्रहर्षेणाभिचोदितः
५.०५४.०१५ तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु
५.०५४.०१५ सघोषाः समशीर्यन्त शिलाश्चूर्णीकृतास्ततः
५.०५४.०१६ स तमारुह्य शैलेन्द्रं व्यवर्धत महाकपिः
५.०५४.०१६ दक्षिणादुत्तरं पारं प्रार्थयंल्लवणाम्भसः
५.०५४.०१७ अधिरुह्य ततो वीरः पर्वतं पवनात्मजः
५.०५४.०१७ ददर्श सागरं भीमं मीनोरगनिषेवितम्
५.०५४.०१८ स मारुत इवाकाशं मारुतस्यात्मसंभवः
५.०५४.०१८ प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम्
५.०५४.०१९ स तदा पीडितस्तेन कपिना पर्वतोत्तमः
५.०५४.०१९ ररास सह तैर्भूतैः प्राविशद्वसुधातलम्
५.०५४.०१९ कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः
५.०५४.०२० तस्योरुवेगान्मथिताः पादपाः पुष्पशालिनः
५.०५४.०२० निपेतुर्भूतले रुग्णाः शक्रायुधहता इव
५.०५४.०२१ कन्दरोदरसंस्थानां पीडितानां महौजसाम्
५.०५४.०२१ सिंहानां निनदो भीमो नभो भिन्दन् स शुश्रुवे
५.०५४.०२२ स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा
५.०५४.०२२ विद्याधर्यः समुत्पेतुः सहसा धरणीधरात्
५.०५४.०२३ अतिप्रमाणा बलिनो दीप्तजिह्वा महाविषाः
५.०५४.०२३ निपीडितशिरोग्रीवा व्यवेष्टन्त महाहयः
५.०५४.०२४ किंनरोरगगन्धर्वयक्षविद्याधरास्तथा
५.०५४.०२४ पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः
५.०५४.०२५ स च भूमिधरः श्रीमान् बलिना तेन पीडितः
५.०५४.०२५ सवृक्षशिखरोदग्राः प्रविवेश रसातलम्
५.०५४.०२६ दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः
५.०५४.०२६ धरण्यां समतां यातः स बभूव धराधरः
५.०५५.००१ सचन्द्रकुमुदं रम्यं सार्ककारण्डवं शुभम्
५.०५५.००१ तिष्यश्रवणकदम्बमभ्रशैवलशाद्वलम्
५.०५५.००२ पुनर्वसु महामीनं लोहिताङ्गमहाग्रहम्
५.०५५.००२ ऐरावतमहाद्वीपं स्वातीहंसविलोडितम्
५.०५५.००३ वातसंघातजातोर्मिं चन्द्रांशुशिशिराम्बुमत्
५.०५५.००३ भुजंगयक्षगन्धर्वप्रबुद्धकमलोत्पलम्
५.०५५.००४ ग्रसमान इवाकाशं ताराधिपमिवालिखन्
५.०५५.००४ हरन्निव सनक्षत्रं गगनं सार्कमण्डलम्
५.०५५.००५ मारुतस्यालयं श्रीमान् कपिर्व्योमचरो महान्
५.०५५.००५ हनूमान्मेघजालानि विकर्षन्निव गच्छति
५.०५५.००६ पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च
५.०५५.००६ हरितारुणवर्णानि महाभ्राणि चकाशिरे
५.०५५.००७ प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः
५.०५५.००७ प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते
५.०५५.००८ नदन्नादेन महता मेघस्वनमहास्वनः
५.०५५.००८ आजगाम महातेजाः पुनर्मध्येन सागरम्
५.०५५.००९ पर्वतेन्द्रं सुनाभं च समुपस्पृश्य वीर्यवान्
५.०५५.००९ ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः
५.०५५.०१० स किं चिदनुसंप्राप्तः समालोक्य महागिरिम्
५.०५५.०१० महेन्द्रमेघसंकाशं ननाद हरिपुंगवः
५.०५५.०११ निशम्य नदतो नादं वानरास्ते समन्ततः
५.०५५.०११ बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः
५.०५५.०१२ जाम्बवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः
५.०५५.०१२ उपामन्त्र्य हरीन् सर्वानिदं वचनमब्रवीत्
५.०५५.०१३ सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः
५.०५५.०१३ न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत्
५.०५५.०१४ तस्या बाहूरुवेगं च निनादं च महात्मनः
५.०५५.०१४ निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः
५.०५५.०१५ ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च
५.०५५.०१५ प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः
५.०५५.०१६ ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः
५.०५५.०१६ वासांसीव प्रकाशानि समाविध्यन्त वानराः
५.०५५.०१७ तमभ्रघनसंकाशमापतन्तं महाकपिम्
५.०५५.०१७ दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा
५.०५५.०१८ ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः
५.०५५.०१८ निपपात महेन्द्रस्य शिखरे पादपाकुले
५.०५५.०१९ ततस्ते प्रीतमनसः सर्वे वानरपुंगवाः
५.०५५.०१९ हनूमन्तं महात्मानं परिवार्योपतस्थिरे
५.०५५.०२० परिवार्य च ते सर्वे परां प्रीतिमुपागताः
५.०५५.०२० प्रहृष्टवदनाः सर्वे तमरोगमुपागतम्
५.०५५.०२१ उपायनानि चादाय मूलानि च फलानि च
५.०५५.०२१ प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम्
५.०५५.०२२ विनेदुर्मुदिताः के चिच्चक्रुः किल किलां तथा
५.०५५.०२२ हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः
५.०५५.०२३ हनूमांस्तु गुरून् वृद्धाञ्जाम्बवत्प्रमुखांस्तदा
५.०५५.०२३ कुमारमङ्गदं चैव सोऽवन्दत महाकपिः
५.०५५.०२४ स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः
५.०५५.०२४ दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत्
५.०५५.०२५ निषसाद च हस्तेन गृहीत्वा वालिनः सुतम्
५.०५५.०२५ रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा
५.०५५.०२६ हनूमानब्रवीद्धृष्टस्तदा तान् वानरर्षभान्
५.०५५.०२६ अशोकवनिकासंस्था दृष्टा सा जनकात्मजा
५.०५५.०२७ रक्ष्यमाणा सुघोराभी राक्षसीभिरनिन्दिता
५.०५५.०२७ एकवेणीधरा बाला रामदर्शनलालसा
५.०५५.०२७ उपवासपरिश्रान्ता मलिना जटिला कृशा
५.०५५.०२८ ततो दृष्टेति वचनं महार्थममृतोपमम्
५.०५५.०२८ निशम्य मारुतेः सर्वे मुदिता वानरा भवन्
५.०५५.०२९ क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः
५.०५५.०२९ चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे
५.०५५.०३० के चिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः
५.०५५.०३० अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः
५.०५५.०३१ अपरे तु हनूमन्तं वानरा वारणोपमम्
५.०५५.०३१ आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः
५.०५५.०३२ उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत्
५.०५५.०३२ सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम्
५.०५५.०३३ सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते
५.०५५.०३३ यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः
५.०५५.०३४ दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी
५.०५५.०३४ दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम्
५.०५५.०३५ ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः
५.०५५.०३५ परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः
५.०५५.०३६ श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः
५.०५५.०३६ दर्शनं चापि लङ्कायाः सीताया रावणस्य च
५.०५५.०३६ तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः
५.०५५.०३७ तस्थौ तत्राङ्गदः श्रीमान् वानरैर्बहुभिर्वृतः
५.०५५.०३७ उपास्यमानो विबुधैर्दिवि देवपतिर्यथा
५.०५५.०३८ हनूमता कीर्तिमता यशस्विना॑ तथाङ्गदेनाङ्गदबद्धबाहुना
५.०५५.०३८ मुदा तदाध्यासितमुन्नतं महन्॑ महीधराग्रं ज्वलितं श्रियाभवत्
५.०५६.००१ ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः
५.०५६.००१ हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम्
५.०५६.००२ तं ततः प्रतिसंहृष्टः प्रीतिमन्तं महाकपिम्
५.०५६.००२ जाम्बवान् कार्यवृत्तान्तमपृच्छदनिलात्मजम्
५.०५६.००३ कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते
५.०५६.००३ तस्यां वा स कथं वृत्तः क्रूरकर्मा दशाननः
५.०५६.००४ तत्त्वतः सर्वमेतन्नः प्रब्रूहि त्वं महाकपे
५.०५६.००४ श्रुतार्थाश्चिन्तयिष्यामो भूयः कार्यविनिश्चयम्
५.०५६.००५ यश्चार्थस्तत्र वक्तव्यो गतैरस्माभिरात्मवान्
५.०५६.००५ रक्षितव्यं च यत्तत्र तद्भवान् व्याकरोतु नः
५.०५६.००६ स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः
५.०५६.००६ नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत
५.०५६.००७ प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः
५.०५६.००७ उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः
५.०५६.००८ गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत्
५.०५६.००८ काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम्
५.०५६.००९ स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम्
५.०५६.०१० उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम्
५.०५६.०१० कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च
५.०५६.०११ प्रहतं च मया तस्य लाङ्गूलेन महागिरेः
५.०५६.०११ शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा
५.०५६.०१२ व्यवसायं च मे बुद्ध्वा स होवाच महागिरिः
५.०५६.०१२ पुत्रेति मधुरां बाणीं मनःप्रह्लादयन्निव
५.०५६.०१३ पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः
५.०५६.०१३ मैनाकमिति विख्यातं निवसन्तं महोदधौ
५.०५६.०१४ पक्ष्ववन्तः पुरा पुत्र बभूवुः पर्वतोत्तमाः
५.०५६.०१४ छन्दतः पृथिवीं चेरुर्बाधमानाः समन्ततः
५.०५६.०१५ श्रुत्वा नगानां चरितं महेन्द्रः पाकशासनः
५.०५६.०१५ चिच्छेद भगवान् पक्षान् वज्रेणैषां सहस्रशः
५.०५६.०१६ अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना
५.०५६.०१६ मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे
५.०५६.०१७ रामस्य च मया साह्ये वर्तितव्यमरिंदम
५.०५६.०१७ रामो धर्मभृतां श्रेष्ठो महेन्द्रसमविक्रमः
५.०५६.०१८ एतच्छ्रुत्वा मया तस्य मैनाकस्य महात्मनः
५.०५६.०१८ कार्यमावेद्य तु गिरेरुद्धतं च मनो मम
५.०५६.०१९ तेन चाहमनुज्ञातो मैनाकेन महात्मना
५.०५६.०१९ उत्तमं जवमास्थाय शेषमध्वानमास्थितः
५.०५६.०२० ततोऽहं सुचिरं कालं वेगेनाभ्यगमं पथि
५.०५६.०२० ततः पश्याम्यहं देवीं सुरसां नागमातरम्
५.०५६.०२१ समुद्रमध्ये सा देवी वचनं मामभाषत
५.०५६.०२१ मम भक्ष्यः प्रदिष्टस्त्वममारैर्हरिसत्तमम्
५.०५६.०२१ ततस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे
५.०५६.०२२ एवमुक्तः सुरसया प्राञ्जलिः प्रणतः स्थितः
५.०५६.०२२ विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम्
५.०५६.०२३ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्
५.०५६.०२३ लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः
५.०५६.०२४ तस्य सीता हृता भार्या रावणेन दुरात्मना
५.०५६.०२४ तस्याः सकाशं दूतोऽहं गमिष्ये रामशासनात्
५.०५६.०२५ कर्तुमर्हसि रामस्य साह्यं विषयवासिनि
५.०५६.०२६ अथ वा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम्
५.०५६.०२६ आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोति मे
५.०५६.०२७ एवमुक्ता मया सा तु सुरसा कामरूपिणी
५.०५६.०२७ अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम
५.०५६.०२८ एवमुक्तः सुरसया दशयोजनमायतः
५.०५६.०२८ ततोऽर्धगुणविस्तारो बभूवाहं क्षणेन तु
५.०५६.०२९ मत्प्रमाणानुरूपं च व्यादितं तन्मुखं तया
५.०५६.०२९ तद्दृष्ट्वा व्यादितं त्वास्यं ह्रस्वं ह्यकरवं वपुः
५.०५६.०३० तस्मिन्मुहूर्ते च पुनर्बभूवाङ्गुष्ठसंमितः
५.०५६.०३० अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात्
५.०५६.०३१ अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः
५.०५६.०३१ अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम्
५.०५६.०३२ समानय च वैदेहीं राघवेण महात्मना
५.०५६.०३२ सुखी भव महाबाहो प्रीतास्मि तव वानर
५.०५६.०३३ ततोऽहं साधु साध्वीति सर्वभूतैः प्रशंसितः
५.०५६.०३३ ततोऽन्तरिक्षं विपुलं प्लुतोऽहं गरुडो यथा
५.०५६.०३४ छाया मे निगृहीता च न च पश्यामि किं चन
५.०५६.०३४ सोऽहं विगतवेगस्तु दिशो दश विलोकयन्
५.०५६.०३४ न किं चित्तत्र पश्यामि येन मेऽपहृता गतिः
५.०५६.०३५ ततो मे बुद्धिरुत्पन्ना किं नाम गमने मम
५.०५६.०३५ ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते
५.०५६.०३६ अधो भागेन मे दृष्टिः शोचता पातिता मया
५.०५६.०३६ ततोऽद्राक्षमहं भीमां राक्षसीं सलिले शयाम्
५.०५६.०३७ प्रहस्य च महानादमुक्तोऽहं भीमया तया
५.०५६.०३७ अवस्थितमसंभ्रान्तमिदं वाक्यमशोभनम्
५.०५६.०३८ क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः
५.०५६.०३८ भक्षः प्रीणय मे देहं चिरमाहारवर्जितम्
५.०५६.०३९ बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः
५.०५६.०३९ आस्य प्रमाणादधिकं तस्याः कायमपूरयम्
५.०५६.०४० तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे
५.०५६.०४० न च मां सा तु बुबुधे मम वा विकृतं कृतम्
५.०५६.०४१ ततोऽहं विपुलं रूपं संक्षिप्य निमिषान्तरात्
५.०५६.०४१ तस्या हृदयमादाय प्रपतामि नभस्तलम्
५.०५६.०४२ सा विसृष्टभुजा भीमा पपात लवणाम्भसि
५.०५६.०४२ मया पर्वतसंकाशा निकृत्तहृदया सती
५.०५६.०४३ शृणोमि खगतानां च सिद्धानां चारणैः सह
५.०५६.०४३ राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हृता
५.०५६.०४४ तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन्
५.०५६.०४४ गत्वा च महदध्वानं पश्यामि नगमण्डितम्
५.०५६.०४४ दक्षिणं तीरमुदधेर्लङ्का यत्र च सा पुरी
५.०५६.०४५ अस्तं दिनकरे याते रक्षसां निलयं पुरीम्
५.०५६.०४५ प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः
५.०५६.०४६ तत्राहं सर्वरात्रं तु विचिन्वञ्जनकात्मजाम्
५.०५६.०४६ रावणान्तःपुरगतो न चापश्यं सुमध्यमाम्
५.०५६.०४७ ततः सीतामपश्यंस्तु रावणस्य निवेशने
५.०५६.०४७ शोकसागरमासाद्य न पारमुपलक्षये
५.०५६.०४८ शोचता च मया दृष्टं प्राकारेण समावृतम्
५.०५६.०४८ काञ्चनेन विकृष्टेन गृहोपवनमुत्तमम्
५.०५६.०४९ स प्राकारमवप्लुत्य पश्यामि बहुपादपम्
५.०५६.०५० अशोकवनिकामध्ये शिंशपापादपो महान्
५.०५६.०५० तमारुह्य च पश्यामि काञ्चनं कदली वनम्
५.०५६.०५१ अदूराच्छिंशपावृक्षात्पश्यामि वनवर्णिनीम्
५.०५६.०५१ श्यामां कमलपत्राक्षीमुपवासकृशाननाम्
५.०५६.०५२ राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम्
५.०५६.०५२ मांसशोणितभक्ष्याभिर्व्याघ्रीभिर्हरिणीं यथा
५.०५६.०५३ तां दृष्ट्वा तादृशीं नारीं रामपत्नीमनिन्दिताम्
५.०५६.०५३ तत्रैव शिंशपावृक्षे पश्यन्नहमवस्थितः
५.०५६.०५४ ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम्
५.०५६.०५४ शृणोम्यधिकगम्भीरं रावणस्य निवेशने
५.०५६.०५५ ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम्
५.०५६.०५५ अहं च शिंशपावृक्षे पक्षीव गहने स्थितः
५.०५६.०५६ ततो रावणदाराश्च रावणश्च महाबलः
५.०५६.०५६ तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता
५.०५६.०५७ तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम्
५.०५६.०५७ संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च
५.०५६.०५८ तामुवाच दशग्रीवः सीतां परमदुःखिताम्
५.०५६.०५८ अवाक्शिराः प्रपतितो बहु मन्यस्व मामिति
५.०५६.०५९ यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते
५.०५६.०५९ द्विमासानन्तरं सीते पास्यामि रुधिरं तव
५.०५६.०६० एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः
५.०५६.०६० उवाच परमक्रुद्धा सीता वचनमुत्तमम्
५.०५६.०६१ राक्षसाधम रामस्य भार्याममिततेजसः
५.०५६.०६१ इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च
५.०५६.०६१ अवाच्यं वदतो जिह्वा कथं न पतिता तव
५.०५६.०६२ किंस्विद्वीर्यं
तवानार्य यो मां भर्तुरसंनिधौ
५.०५६.०६२ अपहृत्यागतः पाप तेनादृष्टो महात्मना
५.०५६.०६३ न त्वं रामस्य सदृशो दास्येऽप्यस्या न युज्यसे
५.०५६.०६३ यज्ञीयः सत्यवाक्चैव रणश्लाघी च राघवः
५.०५६.०६४ जानक्या परुषं वाक्यमेवमुक्तो दशाननः
५.०५६.०६४ जज्वाल सहसा कोपाच्चितास्थ इव पावकः
५.०५६.०६५ विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम्
५.०५६.०६५ मैथिलीं हन्तुमारब्धः स्त्रीभिर्हाहाकृतं तदा
५.०५६.०६६ स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः
५.०५६.०६६ वरा मन्दोदरी नाम तया स प्रतिषेधितः
५.०५६.०६७ उक्तश्च मधुरां वाणीं तया स मदनार्दितः
५.०५६.०६७ सीतया तव किं कार्यं महेन्द्रसमविक्रम
५.०५६.०६७ मया सह रमस्वाद्य मद्विशिष्टा न जानकी
५.०५६.०६८ देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च
५.०५६.०६८ सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि
५.०५६.०६९ ततस्ताभिः समेताभिर्नारीभिः स महाबलः
५.०५६.०६९ उत्थाप्य सहसा नीतो भवनं स्वं निशाचरः
५.०५६.०७० याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः
५.०५६.०७० सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः
५.०५६.०७१ तृणवद्भाषितं तासां गणयामास जानकी
५.०५६.०७१ तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम्
५.०५६.०७२ वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः
५.०५६.०७२ रावणाय शशंसुस्ताः सीताव्यवसितं महत्
५.०५६.०७३ ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः
५.०५६.०७३ परिक्षिप्य समन्तात्तां निद्रावशमुपागताः
५.०५६.०७४ तासु चैव प्रसुप्तासु सीता भर्तृहिते रता
५.०५६.०७४ विलप्य करुणं दीना प्रशुशोच सुदुःखिता
५.०५६.०७५ तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम्
५.०५६.०७५ चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः
५.०५६.०७६ संभाषणार्थे च मया जानक्याश्चिन्तितो विधिः
५.०५६.०७६ इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः
५.०५६.०७७ श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम्
५.०५६.०७७ प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना
५.०५६.०७८ कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव
५.०५६.०७८ का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि
५.०५६.०७९ तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः
५.०५६.०७९ देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः
५.०५६.०७९ सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः
५.०५६.०८० तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम्
५.०५६.०८० भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा
५.०५६.०८१ इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम्
५.०५६.०८१ अङ्गुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि
५.०५६.०८२ तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम्
५.०५६.०८२ रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम्
५.०५६.०८३ एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी
५.०५६.०८३ आह रावणमुत्साद्य राघवो मां नयत्विति
५.०५६.०८४ प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम्
५.०५६.०८४ राघवस्य मनोह्लादमभिज्ञानमयाचिषम्
५.०५६.०८५ एवमुक्ता वरारोहा मणिप्रवरमुत्तमम्
५.०५६.०८५ प्रायच्छत्परमोद्विग्ना वाचा मां संदिदेश ह
५.०५६.०८६ ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः
५.०५६.०८६ प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः
५.०५६.०८७ उत्तरं पुनरेवाह निश्चित्य मनसा तदा
५.०५६.०८७ हनूमन्मम वृत्तान्तं वक्तुमर्हसि राघवे
५.०५६.०८८ यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ
५.०५६.०८८ सुग्रीवसहितौ वीरावुपेयातां तथा कुरु
५.०५६.०८९ यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम
५.०५६.०८९ न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत्
५.०५६.०९० तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत
५.०५६.०९० उत्तरं च मया दृष्टं कार्यशेषमनन्तरम्
५.०५६.०९१ ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः
५.०५६.०९१ युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे
५.०५६.०९२ तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम्
५.०५६.०९२ प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः
५.०५६.०९३ मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः
५.०५६.०९३ ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे
५.०५६.०९४ राजन् वनमिदं दुर्गं तव भग्नं दुरात्मना
५.०५६.०९४ वानरेण ह्यविज्ञाय तव वीर्यं महाबल
५.०५६.०९५ दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः
५.०५६.०९५ वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत्
५.०५६.०९६ तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः
५.०५६.०९६ राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः
५.०५६.०९७ तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम्
५.०५६.०९७ मया तस्मिन् वनोद्देशे परिघेण निषूदितम्
५.०५६.०९८ तेषां तु हतशेषा ये ते गता लघुविक्रमाः
५.०५६.०९८ निहतं च मया सैन्यं रावणायाचचक्षिरे
५.०५६.०९९ ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम्
५.०५६.१०० तत्रस्थान् राक्षसान् हत्वा शतं स्तम्भेन वै पुनः
५.०५६.१०० ललाम भूतो लङ्काया मया विध्वंसितो रुषा
५.०५६.१०१ ततः प्रहस्तस्य सुतं जम्बुमालिनमादिशत्
५.०५६.१०२ तमहं बलसंपन्नं राक्षसं रणकोविदम्
५.०५६.१०२ परिघेणातिघोरेण सूदयामि सहानुगम्
५.०५६.१०३ तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान्
५.०५६.१०३ पदातिबलसंपन्नान् प्रेषयामास रावणः
५.०५६.१०३ परिघेणैव तान् सर्वान्नयामि यमसादनम्
५.०५६.१०४ मन्त्रिपुत्रान् हताञ्श्रुत्वा समरे लघुविक्रमान्
५.०५६.१०४ पञ्चसेनाग्रगाञ्शूरान् प्रेषयामास रावणः
५.०५६.१०४ तानहं सह सैन्यान् वै सर्वानेवाभ्यसूदयम्
५.०५६.१०५ ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम्
५.०५६.१०५ बहुभी राकसैः सार्धं प्रेषयामास संयुगे
५.०५६.१०६ तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम्
५.०५६.१०६ सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान्
५.०५६.१०६ चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम्
५.०५६.१०७ तमक्षमागतं भग्नं निशम्य स दशाननः
५.०५६.१०७ तत इन्द्रजितं नाम द्वितीयं रावणः सुतम्
५.०५६.१०७ व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम्
५.०५६.१०८ तस्याप्यहं बलं सर्वं तं च राक्षसपुंगवम्
५.०५६.१०८ नष्टौजसं रणे कृत्वा परं हर्षमुपागमम्
५.०५६.१०९ महता हि महाबाहुः प्रत्ययेन महाबलः
५.०५६.१०९ प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः
५.०५६.११० ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः
५.०५६.११० रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः
५.०५६.१११ रावणस्य समीपं च गृहीत्वा मामुपानयन्
५.०५६.१११ दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना
५.०५६.११२ पृष्टश्च लङ्कागमनं राक्षसानां च तद्वधम्
५.०५६.११२ तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम्
५.०५६.११३ अस्याहं दर्शनाकाङ्क्षी प्राप्तस्त्वद्भवनं विभो
५.०५६.११३ मारुतस्यौरसः पुत्रो वानरो हनुमानहम्
५.०५६.११४ रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम्
५.०५६.११४ सोऽहं दौत्येन रामस्य त्वत्समीपमिहागतः
५.०५६.११५ शृणु चापि समादेशं यदहं प्रब्रवीमि ते
५.०५६.११५ राक्षसेश हरीशस्त्वां वाक्यमाह समाहितम्
५.०५६.११५ धर्मार्थकामसहितं हितं पथ्यमिवाशनम्
५.०५६.११६ वसतो ऋष्यमूके मे पर्वते विपुलद्रुमे
५.०५६.११६ राघवो रणविक्रान्तो मित्रत्वं समुपागतः
५.०५६.११७ तेन मे कथितं राजन् भार्या मे रक्षसा हृता
५.०५६.११७ तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि
५.०५६.११८ वालिना हृतराज्येन सुग्रीवेण सह प्रभुः
५.०५६.११८ चक्रेऽग्निसाक्षिकं सक्यं राघवः सहलक्ष्मणः
५.०५६.११९ तेन वालिनमुत्साद्य शरेणैकेन संयुगे
५.०५६.११९ वानराणां महाराजः कृतः संप्लवतां प्रभुः
५.०५६.१२० तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह
५.०५६.१२० तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः
५.०५६.१२१ क्षिप्रमानीयतां सीता दीयतां राघवस्य च
५.०५६.१२१ यावन्न हरयो वीरा विधमन्ति बलं तव
५.०५६.१२२ वानराणां प्रभवो हि न केन विदितः पुरा
५.०५६.१२२ देवतानां सकाशं च ये गच्छन्ति निमन्त्रिताः
५.०५६.१२३ इति वानरराजस्त्वामाहेत्यभिहितो मया
५.०५६.१२३ मामैक्षत ततो रुष्टश्चक्षुषा प्रदहन्निव
५.०५६.१२४ तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा
५.०५६.१२५ ततो विभीषणो नाम तस्य भ्राता महामतिः
५.०५६.१२५ तेन राक्षसराजोऽसौ याचितो मम कारणात्
५.०५६.१२६ दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस
५.०५६.१२६ दूतेन वेदितव्यं च यथार्थं हितवादिना
५.०५६.१२७ सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः
५.०५६.१२७ विरूपकरणं दृष्टं न वधोऽस्तीह शास्त्रतः
५.०५६.१२८ विभीषणेनैवमुक्तो रावणः संदिदेश तान्
५.०५६.१२८ राक्षसानेतदेवाद्य लाङ्गूलं दह्यतामिति
५.०५६.१२९ ततस्तस्य वचः श्रुत्वा मम पुच्छं समन्ततः
५.०५६.१२९ वेष्टितं शणवल्कैश्च पटैः कार्पासकैस्तथा
५.०५६.१३० राक्षसाः सिद्धसंनाहास्ततस्ते चण्डविक्रमाः
५.०५६.१३० तदादीप्यन्त मे पुच्छं हनन्तः काष्ठमुष्टिभिः
५.०५६.१३१ बद्धस्य बहुभिः पाशैर्यन्त्रितस्य च राक्षसैः
५.०५६.१३१ न मे पीडा भवेत्का चिद्दिदृक्षोर्नगरीं दिवा
५.०५६.१३२ ततस्ते राक्षसाः शूरा बद्धं मामग्निसंवृतम्
५.०५६.१३२ अघोषयन् राजमार्गे नगरद्वारमागताः
५.०५६.१३३ ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः
५.०५६.१३३ विमोचयित्वा तं बन्धं प्रकृतिष्ठः स्थितः पुनः
५.०५६.१३४ आयसं परिघं गृह्य तानि रक्षांस्यसूदयम्
५.०५६.१३४ ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम्
५.०५६.१३५ पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम्
५.०५६.१३५ दहाम्यहमसंभ्रान्तो युगान्ताग्निरिव प्रजाः
५.०५६.१३६ दग्ध्वा लङ्कां पुनश्चैव शङ्का मामभ्यवर्तत
५.०५६.१३६ दहता च मया लङ्कां दघ्दा सीता न संशयः
५.०५६.१३७ अथाहं वाचमश्रौषं चारणानां शुभाक्षराम्
५.०५६.१३७ जानकी न च दग्धेति विस्मयोदन्तभाषिणाम्
५.०५६.१३८ ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम्
५.०५६.१३८ पुनर्दृष्टा च वैदेही विसृष्टश्च तया पुनः
५.०५६.१३९ राघवस्य प्रभावेन भवतां चैव तेजसा
५.०५६.१३९ सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम्
५.०५६.१४० एतत्सर्वं मया तत्र यथावदुपपादितम्
५.०५६.१४० अत्र यन्न कृतं शेषं तत्सर्वं क्रियतामिति
५.०५७.००१ एतदाख्यानं तत्सर्वं हनूमान्मारुतात्मजः
५.०५७.००१ भूयः समुपचक्राम वचनं वक्तुमुत्तरम्
५.०५७.००२ सफलो राघवोद्योगः सुग्रीवस्य च संभ्रमः
५.०५७.००२ शीलमासाद्य सीताया मम च प्लवनं महत्
५.०५७.००३ आर्यायाः सदृशं शीलं सीतायाः प्लवगर्षभाः
५.०५७.००३ तपसा धारयेल्लोकान् क्रुद्धा वा निर्दहेदपि
५.०५७.००४ सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः
५.०५७.००४ यस्य तां स्पृशतो गात्रं तपसा न विनाशितम्
५.०५७.००५ न तदग्निशिखा कुर्यात्संस्पृष्टा पाणिना सती
५.०५७.००५ जनकस्यात्मजा कुर्यादुत्क्रोधकलुषीकृता
५.०५७.००६ अशोकवनिकामध्ये रावणस्य दुरात्मनः
५.०५७.००६ अधस्ताच्छिंशपावृक्षे साध्वी करुणमास्थिता
५.०५७.००७ राक्षसीभिः परिवृता शोकसंतापकर्शिता
५.०५७.००७ मेघलेखापरिवृता चन्द्रलेखेव निष्प्रभा
५.०५७.००८ अचिन्तयन्ती वैदेही रावणं बलदर्पितम्
५.०५७.००८ पतिव्रता च सुश्रोणी अवष्टब्धा च जानकी
५.०५७.००९ अनुरक्ता हि वैदेही रामं सर्वात्मना शुभा
५.०५७.००९ अनन्यचित्ता रामे च पौलोमीव पुरंदरे
५.०५७.०१० तदेकवासःसंवीता रजोध्वस्ता तथैव च
५.०५७.०१० शोकसंतापदीनाङ्गी सीता भर्तृहिते रता
५.०५७.०११ सा मया राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः
५.०५७.०११ राक्षसीभिर्विरूपाभिर्दृष्टा हि प्रमदा वने
५.०५७.०१२ एकवेणीधरा दीना भर्तृचिन्तापरायणा
५.०५७.०१२ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे
५.०५७.०१३ रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया
५.०५७.०१३ कथं चिन्मृगशावाक्षी विश्वासमुपपादिता
५.०५७.०१४ ततः संभाषिता चैव सर्वमर्थं च दर्शिता
५.०५७.०१४ रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता
५.०५७.०१५ नियतः समुदाचारो भक्तिर्भर्तरि चोत्तमा
५.०५७.०१६ यन्न हन्ति दशग्रीवं स महात्मा दशाननः
५.०५७.०१६ निमित्तमात्रं रामस्तु वधे तस्य भविष्यति
५.०५७.०१७ एवमास्ते महाभागा सीता शोकपरायणा
५.०५७.०१७ यदत्र प्रतिकर्तव्यं तत्सर्वमुपपाद्यताम्
५.०५८.००१ तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत
५.०५८.००१ जाम्बवत्प्रमुखान् सर्वाननुज्ञाप्य महाकपीन्
५.०५८.००२ अस्मिन्नेवंगते कार्ये भवतां च निवेदिते
५.०५८.००२ न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ
५.०५८.००३ अहमेकोऽपि पर्याप्तः सराक्षसगणां पुरीम्
५.०५८.००३ तां लङ्कां तरसा हन्तुं रावणं च महाबलम्
५.०५८.००४ किं पुनः सहितो वीरैर्बलवद्भिः कृतात्मभिः
५.०५८.००४ कृतास्त्रैः प्लवगैः शक्तैर्भवद्भिर्विजयैषिभिः
५.०५८.००५ अहं तु रावणं युद्धे ससैन्यं सपुरःसरम्
५.०५८.००५ सपुत्रं विधमिष्यामि सहोदरयुतं युधि
५.०५८.००६ ब्राह्ममैन्द्रं च रौद्रं च वायव्यं वारुणं तथा
५.०५८.००६ यदि शक्रजितोऽस्त्राणि दुर्निरीक्ष्याणि संयुगे
५.०५८.००६ तान्यहं विधमिष्यामि निहनिष्यामि राक्षसान्
५.०५८.००७ भवतामभ्यनुज्ञातो विक्रमो मे रुणद्धि तम्
५.०५८.००८ मयातुला विसृष्टा हि शैलवृष्टिर्निरन्तरा
५.०५८.००८ देवानपि रणे हन्यात्किं पुनस्तान्निशाचरान्
५.०५८.००९ सागरोऽप्यतियाद्वेलां मन्दरः प्रचलेदपि
५.०५८.००९ न जाम्बवन्तं समरे कम्पयेदरिवाहिनी
५.०५८.०१० सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः
५.०५८.०१० अलमेको विनाशाय वीरो वायुसुतः कपिः
५.०५८.०११ पनसस्योरुवेगेन नीलस्य च महात्मनः
५.०५८.०११ मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः
५.०५८.०१२ सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु
५.०५८.०१२ मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा
५.०५८.०१३ अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ
५.०५८.०१३ पितामहवरोत्सेकात्परमं दर्पमास्थितौ
५.०५८.०१४ अश्विनोर्माननार्थं हि सर्वलोकपितामहः
५.०५८.०१४ सर्वावध्यत्वमतुलमनयोर्दत्तवान् पुरा
५.०५८.०१५ वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम्
५.०५८.०१५ सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ
५.०५८.०१६ एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम्
५.०५८.०१६ लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः
५.०५८.०१७ अयुक्तं तु विना देवीं दृष्टबद्भिः प्लवंगमाः
५.०५८.०१७ समीपं गन्तुमस्माभी राघवस्य महात्मनः
५.०५८.०१८ दृष्टा देवी न चानीता इति तत्र निवेदनम्
५.०५८.०१८ अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः
५.०५८.०१९ न हि वः प्लवते कश्चिन्नापि कश्चित्पराक्रमे
५.०५८.०१९ तुल्यः सामरदैत्येषु लोकेषु हरिसत्तमाः
५.०५८.०२० तेष्वेवं हतवीरेषु राक्षसेषु हनूमता
५.०५८.०२० किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम्
५.०५८.०२१ तमेवं कृतसंकल्पं जाम्बवान् हरिसत्तमः
५.०५८.०२१ उवाच परमप्रीतो वाक्यमर्थवदर्थवित्
५.०५८.०२२ न तावदेषा मतिरक्षमा नो॑ यथा भवान् पश्यति राजपुत्र
५.०५८.०२२ यथा तु रामस्य मतिर्निविष्टा॑ तथा भवान् पश्यतु कार्यसिद्धिम्
५.०५९.००१ ततो जाम्बवतो वाक्यमगृह्णन्त वनौकसः
५.०५९.००१ अङ्गदप्रमुखा वीरा हनूमांश्च महाकपिः
५.०५९.००२ प्रीतिमन्तस्ततः सर्वे वायुपुत्रपुरःसराः
५.०५९.००२ महेन्द्राग्रं परित्यज्य पुप्लुवुः प्लवगर्षभाः
५.०५९.००३ मेरुमन्दरसंकाशा मत्ता इव महागजाः
५.०५९.००३ छादयन्त इवाकाशं महाकाया महाबलाः
५.०५९.००४ सभाज्यमानं भूतैस्तमात्मवन्तं महाबलम्
५.०५९.००४ हनूमन्तं महावेगं वहन्त इव दृष्टिभिः
५.०५९.००५ राघवे चार्थनिर्वृत्तिं भर्तुश्च परमं यशः
५.०५९.००५ समाधाय समृद्धार्थाः कर्मसिद्धिभिरुन्नताः
५.०५९.००६ प्रियाख्यानोन्मुखाः सर्वे सर्वे युद्धाभिनन्दिनः
५.०५९.००६ सर्वे रामप्रतीकारे निश्चितार्था मनस्विनः
५.०५९.००७ प्लवमानाः खमाप्लुत्य ततस्ते काननौक्षकः
५.०५९.००७ नन्दनोपममासेदुर्वनं द्रुमलतायुतम्
५.०५९.००८ यत्तन्मधुवनं नाम सुग्रीवस्याभिरक्षितम्
५.०५९.००८ अधृष्यं सर्वभूतानां सर्वभूतमनोहरम्
५.०५९.००९ यद्रक्षति महावीर्यः सदा दधिमुखः कपिः
५.०५९.००९ मातुलः कपिमुख्यस्य सुग्रीवस्य महात्मनः
५.०५९.०१० ते तद्वनमुपागम्य बभूवुः परमोत्कटाः
५.०५९.०१० वानरा वानरेन्द्रस्य मनःकान्ततमं महत्
५.०५९.०११ ततस्ते वानरा हृष्टा दृष्ट्वा मधुवनं महत्
५.०५९.०११ कुमारमभ्ययाचन्त मधूनि मधुपिङ्गलाः
५.०५९.०१२ ततः कुमारस्तान् वृद्धाञ्जाम्बवत्प्रमुखान् कपीन्
५.०५९.०१२ अनुमान्य ददौ तेषां निसर्गं मधुभक्षणे
५.०५९.०१३ ततश्चानुमताः सर्वे संप्रहृष्टा वनौकसः
५.०५९.०१३ मुदिताश्च ततस्ते च प्रनृत्यन्ति ततस्ततः
५.०५९.०१४ गायन्ति के चित्प्रणमन्ति के चिन्॑ नृत्यन्ति के चित्प्रहसन्ति के चित्
५.०५९.०१४ पतन्ति के चिद्विचरन्ति के चित्॑ प्लवन्ति के चित्प्रलपन्ति के चित्
५.०५९.०१५ परस्परं के चिदुपाश्रयन्ते॑ परस्परं के चिदतिब्रुवन्ते
५.०५९.०१५ द्रुमाद्द्रुमं के चिदभिप्लवन्ते॑ क्षितौ नगाग्रान्निपतन्ति के चित्
५.०५९.०१६ महीतलात्के चिदुदीर्णवेगा॑ महाद्रुमाग्राण्यभिसंपतन्ते
५.०५९.०१६ गायन्तमन्यः प्रहसन्नुपैति॑ हसन्तमन्यः प्रहसन्नुपैति
५.०५९.०१७ रुदन्तमन्यः प्ररुदन्नुपैति॑ नुदन्तमन्यः प्रणुदन्नुपैति
५.०५९.०१७ समाकुलं तत्कपिसैन्यमासीन्॑ मधुप्रपानोत्कट सत्त्वचेष्टम्
५.०५९.०१७ न चात्र कश्चिन्न बभूव मत्तो॑ न चात्र कश्चिन्न बभूव तृप्तो
५.०५९.०१८ ततो वनं तत्परिभक्ष्यमाणं॑ द्रुमांश्च विध्वंसितपत्रपुष्पान्
५.०५९.०१८ समीक्ष्य कोपाद्दधिवक्त्रनामा॑ निवारयामास कपिः कपींस्तान्
५.०५९.०१९ स तैः प्रवृद्धैः परिभर्त्स्यमानो॑ वनस्य गोप्ता हरिवीरवृद्धः
५.०५९.०१९ चकार भूयो मतिमुग्रतेजा॑ वनस्य रक्षां प्रति वानरेभ्यः
५.०५९.०२० उवाच कांश्चित्परुषाणि धृष्टम्॑ असक्तमन्यांश्च तलैर्जघान
५.०५९.०२० समेत्य कैश्चित्कलहं चकार॑ तथैव साम्नोपजगाम कांश्चित्
५.०५९.०२१ स तैर्मदाच्चाप्रतिवार्य वेगैर्॑ बलाच्च तेनाप्रतिवार्यमाणैः
५.०५९.०२१ प्रधर्षितस्त्यक्तभयैः समेत्य॑ प्रकृष्यते चाप्यनवेक्ष्य दोषम्
५.०५९.०२२ नखैस्तुदन्तो दशनैर्दशन्तस्॑ तलैश्च पादैश्च समाप्नुवन्तः
५.०५९.०२२ मदात्कपिं तं कपयः समग्रा॑ महावनं निर्विषयं च चक्रुः
५.०६०.००१ तानुवाच हरिश्रेष्ठो हनूमान् वानरर्षभः
५.०६०.००१ अव्यग्रमनसो यूयं मधु सेवत वानराः
५.०६०.००२ श्रुत्वा हनुमतो वाक्यं हरीणां प्रवरोऽङ्गदः
५.०६०.००२ प्रत्युवाच प्रसन्नात्मा पिबन्तु हरयो मधु
५.०६०.००३ अवश्यं कृतकार्यस्य वाक्यं हनुमतो मया
५.०६०.००३ अकार्यमपि कर्तव्यं किमङ्ग पुनरीदृशम्
५.०६०.००४ अन्दगस्य मुखाच्छ्रुत्वा वचनं वानरर्षभाः
५.०६०.००४ साधु साध्विति संहृष्टा वानराः प्रत्यपूजयन्
५.०६०.००५ पूजयित्वाङ्गदं सर्वे वानरा वानरर्षभम्
५.०६०.००५ जग्मुर्मधुवनं यत्र नदीवेग इव द्रुतम्
५.०६०.००६ ते प्रहृष्टा मधुवनं पालानाक्रम्य वीर्यतः
५.०६०.००६ अतिसर्गाच्च पटवो दृष्ट्वा श्रुत्वा च मैथिलीम्
५.०६०.००७ उत्पत्य च ततः सर्वे वनपालान् समागताः
५.०६०.००७ ताडयन्ति स्म शतशः सक्तान्मधुवने तदा
५.०६०.००८ मधूनि द्रोणमात्राणि बहुभिः परिगृह्य ते
५.०६०.००८ घ्नन्ति स्म सहिताः सर्वे भक्षयन्ति तथापरे
५.०६०.००९ के चित्पीत्वापविध्यन्ति मधूनि मधुपिङ्गलाः
५.०६०.००९ मधूच्चिष्टेन के चिच्च जघ्नुरन्योन्यमुत्कटाः
५.०६०.०१० अपरे वृक्षमूलेषु शाखां गृह्य व्यवस्थितः
५.०६०.०१० अत्यर्थं च मदग्लानाः पर्णान्यास्तीर्य शेरते
५.०६०.०११ उन्मत्तभूताः प्लवगा मधुमत्ताश्च हृष्टवत्
५.०६०.०११ क्षिपन्त्यपि तथान्योन्यं स्खलन्त्यपि तथापरे
५.०६०.०१२ के चित्क्ष्वेडान् प्रकुर्वन्ति के चित्कूजन्ति हृष्टवत्
५.०६०.०१२ हरयो मधुना मत्ताः के चित्सुप्ता महीतले
५.०६०.०१३ येऽप्यत्र मधुपालाः स्युः प्रेष्या दधिमुखस्य तु
५.०६०.०१३ तेऽपि तैर्वानरैर्भीमैः प्रतिषिद्धा दिशो गताः
५.०६०.०१४ जानुभिश्च प्रकृष्टाश्च देवमार्गं च दर्शिताः
५.०६०.०१४ अब्रुवन् परमोद्विग्ना गत्वा दधिमुखं वचः
५.०६०.०१५ हनूमता दत्तवरैर्हतं मधुवनं बलात्
५.०६०.०१५ वयं च जानुभिः कृष्टा देवमार्गं च दर्शिताः
५.०६०.०१६ ततो दधिमुखः क्रुद्धो वनपस्तत्र वानरः
५.०६०.०१६ हतं मधुवनं श्रुत्वा सान्त्वयामास तान् हरीन्
५.०६०.०१७ एतागच्छत गच्छामो वानरानतिदर्पितान्
५.०६०.०१७ बलेनावारयिष्यामो मधु भक्षयतो वयम्
५.०६०.०१८ श्रुत्वा दधिमुखस्येदं वचनं वानरर्षभाः
५.०६०.०१८ पुनर्वीरा मधुवनं तेनैव सहिता ययुः
५.०६०.०१९ मध्ये चैषां दधिमुखः प्रगृह्य सुमहातरुम्
५.०६०.०१९ समभ्यधावद्वेगेना ते च सर्वे प्लवंगमाः
५.०६०.०२० ते शिलाः पादपांश्चापि पाषाणांश्चापि वानराः
५.०६०.०२० गृहीत्वाभ्यागमन् क्रुद्धा यत्र ते कपिकुञ्जराः
५.०६०.०२१ ते स्वामिवचनं वीरा हृदयेष्ववसज्य तत्
५.०६०.०२१ त्वरया ह्यभ्यधावन्त सालतालशिलायुधाः
५.०६०.०२२ वृक्षस्थांश्च तलस्थांश्च वानरान् बलदर्पितान्
५.०६०.०२२ अभ्यक्रामन्त ते वीराः पालास्तत्र सहस्रशः
५.०६०.०२३ अथ दृष्ट्वा दधिमुखं क्रुद्धं वानरपुंगवाः
५.०६०.०२३ अभ्यधावन्त वेगेन हनूमत्प्रमुखास्तदा
५.०६०.०२४ तं सवृक्षं महाबाहुमापतन्तं महाबलम्
५.०६०.०२४ आर्यकं प्राहरत्तत्र बाहुभ्यां कुपितोऽङ्गदः
५.०६०.०२५ मदान्धश न वेदैनमार्यकोऽयं ममेति सः
५.०६०.०२५ अथैनं निष्पिपेषाशु वेगवद्वसुधातले
५.०६०.०२६ स भग्नबाहुर्विमुखो विह्वलः शोणितोक्षितः
५.०६०.०२६ मुमोह सहसा वीरो मुहूर्तं कपिकुञ्जरः
५.०६०.०२७ स कथं चिद्विमुक्तस्तैर्वानरैर्वानरर्षभः
५.०६०.०२७ उवाचैकान्तमागम्य भृत्यांस्तान् समुपागतान्
५.०६०.०२८ एते तिष्ठन्तु गच्छामो भर्ता नो यत्र वानरः
५.०६०.०२८ सुग्रीवो विपुलग्रीवः सह रामेण तिष्ठति
५.०६०.०२९ सर्वं चैवाङ्गदे दोषं श्रावयिष्यामि पार्थिव
५.०६०.०२९ अमर्षी वचनं श्रुत्वा घातयिष्यति वानरान्
५.०६०.०३० इष्टं मधुवनं ह्येतत्सुग्रीवस्य महात्मनः
५.०६०.०३० पितृपैतामहं दिव्यं देवैरपि दुरासदम्
५.०६०.०३१ स वानरानिमान् सर्वान्मधुलुब्धान् गतायुषः
५.०६०.०३१ घातयिष्यति दण्डेन सुग्रीवः ससुहृज्जनान्
५.०६०.०३२ वध्या ह्येते दुरात्मानो नृपाज्ञा परिभाविनः
५.०६०.०३२ अमर्षप्रभवो रोषः सफलो नो भविष्यति
५.०६०.०३३ एवमुक्त्वा दधिमुखो वनपालान्महाबलः
५.०६०.०३३ जगाम सहसोत्पत्य वनपालैः समन्वितः
५.०६०.०३४ निमेषान्तरमात्रेण स हि प्राप्तो वनालयः
५.०६०.०३४ सहस्रांशुसुतो धीमान् सुग्रीवो यत्र वानरः
५.०६०.०३५ रामं च लक्ष्मणं चैव दृष्ट्वा सुग्रीवमेव च
५.०६०.०३५ समप्रतिष्ठां जगतीमाकाशान्निपपात ह
५.०६०.०३६ स निपत्य महावीर्यः सर्वैस्तैः परिवारितः
५.०६०.०३६ हरिर्दधिमुखः पालैः पालानां परमेश्वरः
५.०६०.०३७ स दीनवदनो भूत्वा कृत्वा शिरसि चाञ्जलिम्
५.०६०.०३७ सुग्रीवस्य शुभौ मूर्ध्ना चरणौ प्रत्यपीडयत्
५.०६१.००१ ततो मूर्ध्ना निपतितं वानरं वानरर्षभः
५.०६१.००१ दृष्ट्वैवोद्विग्नहृदयो वाक्यमेतदुवाच ह
५.०६१.००२ उत्तिष्ठोत्तिष्ठ कस्मात्त्वं पादयोः पतितो मम
५.०६१.००२ अभयं ते भवेद्वीर सत्यमेवाभिधीयताम्
५.०६१.००३ स तु विश्वासितस्तेन सुग्रीवेण महात्मना
५.०६१.००३ उत्थाय च महाप्राज्ञो वाक्यं दधिमुखोऽब्रवीत्
५.०६१.००४ नैवर्क्षरजसा राजन्न त्वया नापि वालिना
५.०६१.००४ वनं निसृष्टपूर्वं हि भक्षितं तत्तु वानरैः
५.०६१.००५ एभिः प्रधर्षिताश्चैव वारिता वनरक्षिभिः
५.०६१.००५ मधून्यचिन्तयित्वेमान् भक्षयन्ति पिबन्ति च
५.०६१.००६ शिष्टमत्रापविध्यन्ति भक्षयन्ति तथापरे
५.०६१.००६ निवार्यमाणास्ते सर्वे भ्रुवौ वै दर्शयन्ति हि
५.०६१.००७ इमे हि संरब्धतरास्तथा तैः संप्रधर्षिताः
५.०६१.००७ वारयन्तो वनात्तस्मात्क्रुद्धैर्वानरपुंगवैः
५.०६१.००८ ततस्तैर्बहुभिर्वीरैर्वानरैर्वानरर्षभाः
५.०६१.००८ संरक्तनयनैः क्रोधाद्धरयः संप्रचालिताः
५.०६१.००९ पाणिभिर्निहताः के चित्के चिज्जानुभिराहताः
५.०६१.००९ प्रकृष्टाश्च यथाकामं देवमार्गं च दर्शिताः
५.०६१.०१० एवमेते हताः शूरास्त्वयि तिष्ठति भर्तरि
५.०६१.०१० कृत्स्नं मधुवनं चैव प्रकामं तैः प्रभक्ष्यते
५.०६१.०११ एवं विज्ञाप्यमानं तु सुग्रीवं वानरर्षभम्
५.०६१.०११ अपृच्छत्तं महाप्राज्ञो लक्ष्मणः परवीरहा
५.०६१.०१२ किमयं वानरो राजन् वनपः प्रत्युपस्थितः
५.०६१.०१२ कं चार्थमभिनिर्दिश्य दुःखितो वाक्यमब्रवीत्
५.०६१.०१३ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना
५.०६१.०१३ लक्ष्मणं प्रत्युवाचेदं वाक्यं वाक्यविशारदः
५.०६१.०१४ आर्य लक्ष्मण संप्राह वीरो दधिमुखः कपिः
५.०६१.०१४ अङ्गदप्रमुखैर्वीरैर्भक्षितं मधुवानरैः
५.०६१.०१५ नैषामकृतकृत्यानामीदृशः स्यादुपक्रमः
५.०६१.०१५ वनं यथाभिपन्नं तैः साधितं कर्म वानरैः
५.०६१.०१६ दृष्टा देवी न संदेहो न चान्येन हनूमता
५.०६१.०१६ न ह्यन्यः साधने हेतुः कर्मणोऽस्य हनूमतः
५.०६१.०१७ कार्यसिद्धिर्हनुमति मतिश्च हरिपुंगव
५.०६१.०१७ व्यवसायश्च वीर्यं च श्रुतं चापि प्रतिष्ठितम्
५.०६१.०१८ जाम्बवान् यत्र नेता स्यादङ्गदस्य बलेश्वरः
५.०६१.०१८ हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा
५.०६१.०१९ अङ्गदप्रमुखैर्वीरैर्हतं मधुवनं किल
५.०६१.०१९ विचिन्त्य दक्षिणामाशामागतैर्हरिपुंगवैः
५.०६१.०२० आगतैश्च प्रविष्टं तद्यथा मधुवनं हि तैः
५.०६१.०२० धर्षितं च वनं कृत्स्नमुपयुक्तं च वानरैः
५.०६१.०२० वारिताः सहिताः पालास्तथा जानुभिराहताः
५.०६१.०२१ एतदर्थमयं प्राप्तो वक्तुं मधुरवागिह
५.०६१.०२१ नाम्ना दधिमुखो नाम हरिः प्रख्यातविक्रमः
५.०६१.०२२ दृष्टा सीता महाबाहो सौमित्रे पश्य तत्त्वतः
५.०६१.०२२ अभिगम्य यथा सर्वे पिबन्ति मधु वानराः
५.०६१.०२३ न चाप्यदृष्ट्वा वैदेहीं विश्रुताः पुरुषर्षभ
५.०६१.०२३ वनं दात्त वरं दिव्यं धर्षयेयुर्वनौकसः
५.०६१.०२४ ततः प्रहृष्टो धर्मात्मा लक्ष्मणः सहराघवः
५.०६१.०२४ श्रुत्वा कर्णसुखां वाणीं सुग्रीववदनाच्च्युताम्
५.०६१.०२५ प्राहृष्यत भृशं रामो लक्ष्मणश्च महायशाः
५.०६१.०२५ श्रुत्वा दधिमुखस्येदं सुग्रीवस्तु प्रहृष्य च
५.०६१.०२५ वनपालं पुनर्वाक्यं सुग्रीवः प्रत्यभाषत
५.०६१.०२६ प्रीतोऽस्मि सौम्य यद्भुक्तं वनं तैः कृतकर्मभिः
५.०६१.०२६ मर्षितं मर्षणीयं च चेष्टितं कृतकर्मणाम्
५.०६१.०२७ इच्छामि शीघ्रं हनुमत्प्रधानान्॑ शाखामृगांस्तान्मृगराजदर्पान्
५.०६१.०२७ द्रष्टुं कृतार्थान् सह राघवाभ्यां॑ श्रोतुं च सीताधिगमे प्रयत्नम्
५.०६२.००१ सुग्रीवेणैवमुक्तस्तु हृष्टो दधिमुखः कपिः
५.०६२.००१ राघवं लक्ष्मणं चैव सुग्रीवं चाभ्यवादयत्
५.०६२.००२ स प्रणम्य च सुग्रीवं राघवौ च महाबलौ
५.०६२.००२ वानरैः सहितैः शूरैर्दिवमेवोत्पपात ह
५.०६२.००३ स यथैवागतः पूर्वं तथैव त्वरितो गतः
५.०६२.००३ निपत्य गगनाद्भूमौ तद्वनं प्रविवेश ह
५.०६२.००४ स प्रविष्टो मधुवनं ददर्श हरियूथपान्
५.०६२.००४ विमदानुद्धतान् सर्वान्मेहमानान्मधूदकम्
५.०६२.००५ स तानुपागमद्वीरो बद्ध्वा करपुटाञ्जलिम्
५.०६२.००५ उवाच वचनं श्लक्ष्णमिदं हृष्टवदङ्गदम्
५.०६२.००६ सौम्य रोषो न कर्तव्यो यदेभिरभिवारितः
५.०६२.००६ अज्ञानाद्रक्षिभिः क्रोधाद्भवन्तः प्रतिषेधिताः
५.०६२.००७ युवराजस्त्वमीशश्च वनस्यास्य महाबल
५.०६२.००७ मौर्ख्यात्पूर्वं कृतो दोषस्तद्भवान् क्षन्तुमर्हति
५.०६२.००८ यथैव हि पिता तेऽभूत्पूर्वं हरिगणेश्वरः
५.०६२.००८ तथा त्वमपि सुग्रीवो नान्यस्तु हरिसत्तम
५.०६२.००९ आख्यातं हि मया गत्वा पितृव्यस्य तवानघ
५.०६२.००९ इहोपयानं सर्वेषामेतेषां वनचारिणाम्
५.०६२.०१० स त्वदागमनं श्रुत्वा सहैभिर्हरियूथपैः
५.०६२.०१० प्रहृष्टो न तु रुष्टोऽसौ वनं श्रुत्वा प्रधर्षितम्
५.०६२.०११ प्रहृष्टो मां पितृव्यस्ते सुग्रीवो वानरेश्वरः
५.०६२.०११ शीघ्रं प्रेषय सर्वांस्तानिति होवाच पार्थिवः
५.०६२.०१२ श्रुत्वा दधिमुखस्यैतद्वचनं श्लक्ष्णमङ्गदः
५.०६२.०१२ अब्रवीत्तान् हरिश्रेष्ठो वाक्यं वाक्यविशारदः
५.०६२.०१३ शङ्के श्रुतोऽयं वृत्तान्तो रामेण हरियूथपाः
५.०६२.०१३ तत्क्षमं नेह नः स्थातुं कृते कार्ये परंतपाः
५.०६२.०१४ पीत्वा मधु यथाकामं विश्रान्ता वनचारिणः
५.०६२.०१४ किं शेषं गमनं तत्र सुग्रीवो यत्र मे गुरुः
५.०६२.०१५ सर्वे यथा मां वक्ष्यन्ति समेत्य हरियूथपाः
५.०६२.०१५ तथास्मि कर्ता कर्तव्ये भवद्भिः परवानहम्
५.०६२.०१६ नाज्ञापयितुमीशोऽहं युवराजोऽस्मि यद्यपि
५.०६२.०१६ अयुक्तं कृतकर्माणो यूयं धर्षयितुं मया
५.०६२.०१७ ब्रुवतश्चाङ्गदश्चैवं श्रुत्वा वचनमव्ययम्
५.०६२.०१७ प्रहृष्टमनसो वाक्यमिदमूचुर्वनौकसः
५.०६२.०१८ एवं वक्ष्यति को राजन् प्रभुः सन् वानरर्षभ
५.०६२.०१८ ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्यते
५.०६२.०१९ तव चेदं सुसदृशं वाक्यं नान्यस्य कस्य चित्
५.०६२.०१९ संनतिर्हि तवाख्याति भविष्यच्छुभभाग्यताम्
५.०६२.०२० सर्वे वयमपि प्राप्तास्तत्र गन्तुं कृतक्षणाः
५.०६२.०२० स यत्र हरिवीराणां सुग्रीवः पतिरव्ययः
५.०६२.०२१ त्वया ह्यनुक्तैर्हरिभिर्नैव शक्यं पदात्पदम्
५.०६२.०२१ क्व चिद्गन्तुं हरिश्रेष्ठ ब्रूमः सत्यमिदं तु ते
५.०६२.०२२ एवं तु वदतां तेषामङ्गदः प्रत्यभाषत
५.०६२.०२२ बाढं गच्छाम इत्युक्त्वा उत्पपात महीतलात्
५.०६२.०२३ उत्पतन्तमनूत्पेतुः सर्वे ते हरियूथपाः
५.०६२.०२३ कृत्वाकाशं निराकाशं यज्ञोत्क्षिप्ता इवानलाः
५.०६२.०२४ तेऽम्बरं सहसोत्पत्य वेगवन्तः प्लवंगमाः
५.०६२.०२४ विनदन्तो महानादं घना वातेरिता यथा
५.०६२.०२५ अङ्गदे ह्यननुप्राप्ते सुग्रीवो वानराधिपः
५.०६२.०२५ उवाच शोकोपहतं रामं कमललोचनम्
५.०६२.०२६ समाश्वसिहि भद्रं ते दृष्टा देवी न संशयः
५.०६२.०२६ नागन्तुमिह शक्यं तैरतीते समये हि नः
५.०६२.०२७ न मत्सकाशमागच्छेत्कृत्ये हि विनिपातिते
५.०६२.०२७ युवराजो महाबाहुः प्लवतां प्रवरोऽङ्गदः
५.०६२.०२८ यद्यप्यकृतकृत्यानामीदृशः स्यादुपक्रमः
५.०६२.०२८ भवेत्तु दीनवदनो भ्रान्तविप्लुतमानसः
५.०६२.०२९ पितृपैतामहं चैतत्पूर्वकैरभिरक्षितम्
५.०६२.०२९ न मे मधुवनं हन्यादहृष्टः प्लवगेश्वरः
५.०६२.०३० कौसल्या सुप्रजा राम समाश्वसिहि सुव्रत
५.०६२.०३० दृष्टा देवी न संदेहो न चान्येन हनूमता
५.०६२.०३० न ह्यन्यः कर्मणो हेतुः साधने तद्विधो भवेत्
५.०६२.०३१ हनूमति हि सिद्धिश्च मतिश्च मतिसत्तम
५.०६२.०३१ व्यवसायश्च वीर्यं च सूर्ये तेज इव ध्रुवम्
५.०६२.०३२ जाम्बवान् यत्र नेता स्यादङ्गदश्च बलेश्वरः
५.०६२.०३२ हनूमांश्चाप्यधिष्ठाता न तस्य गतिरन्यथा
५.०६२.०३३ मा भूश्चिन्ता समायुक्तः संप्रत्यमितविक्रम
५.०६२.०३४ ततः किल किला शब्दं शुश्रावासन्नमम्बरे
५.०६२.०३४ हनूमत्कर्मदृप्तानां नर्दतां काननौकसाम्
५.०६२.०३४ किष्किन्धामुपयातानां सिद्धिं कथयतामिव
५.०६२.०३५ ततः श्रुत्वा निनादं तं कपीनां कपिसत्तमः
५.०६२.०३५ आयताञ्चितलाङ्गूलः सोऽभवद्धृष्टमानसः
५.०६२.०३६ आजग्मुस्तेऽपि हरयो रामदर्शनकाङ्क्षिणः
५.०६२.०३६ अङ्गदं पुरतः कृत्वा हनूमन्तं च वानरम्
५.०६२.०३७ तेऽङ्गदप्रमुखा वीराः प्रहृष्टाश्च मुदान्विताः
५.०६२.०३७ निपेतुर्हरिराजस्य समीपे राघवस्य च
५.०६२.०३८ हनूमांश्च महाबहुः प्रणम्य शिरसा ततः
५.०६२.०३८ नियतामक्षतां देवीं राघवाय न्यवेदयत्
५.०६२.०३९ निश्चितार्थं ततस्तस्मिन् सुग्रीवं पवनात्मजे
५.०६२.०३९ लक्ष्मणः प्रीतिमान् प्रीतं बहुमानादवैक्षत
५.०६२.०४० प्रीत्या च रममाणोऽथ राघवः परवीरहा
५.०६२.०४० बहु मानेन महता हनूमन्तमवैक्षत
५.०६३.००१ ततः प्रस्रवणं शैलं ते गत्वा चित्रकाननम्
५.०६३.००१ प्रणम्य शिरसा रामं लक्ष्मणं च महाबलम्
५.०६३.००२ युवराजं पुरस्कृत्य सुग्रीवमभिवाद्य च
५.०६३.००२ प्रवृत्तमथ सीतायाः प्रवक्तुमुपचक्रमुः
५.०६३.००३ रावणान्तःपुरे रोधं राक्षसीभिश्च तर्जनम्
५.०६३.००३ रामे समनुरागं च यश्चापि समयः कृतः
५.०६३.००४ एतदाख्यान्ति ते सर्वे हरयो राम संनिधौ
५.०६३.००४ वैदेहीमक्षतां श्रुत्वा रामस्तूत्तरमब्रवीत्
५.०६३.००५ क्व सीता वर्तते देवी कथं च मयि वर्तते
५.०६३.००५ एतन्मे सर्वमाख्यात वैदेहीं प्रति वानराः
५.०६३.००६ रामस्य गदितं श्रुत्व हरयो रामसंनिधौ
५.०६३.००६ चोदयन्ति हनूमन्तं सीतावृत्तान्तकोविदम्
५.०६३.००७ श्रुत्वा तु वचनं तेषां हनूमान्मारुतात्मजः
५.०६३.००७ उवाच वाक्यं वाक्यज्ञः सीताया दर्शनं यथा
५.०६३.००८ समुद्रं लङ्घयित्वाहं शतयोजनमायतम्
५.०६३.००८ अगच्छं जानकीं सीतां मार्गमाणो दिदृक्षया
५.०६३.००९ तत्र लङ्केति नगरी रावणस्य दुरात्मनः
५.०६३.००९ दक्षिणस्य समुद्रस्य तीरे वसति दक्षिणे
५.०६३.०१० तत्र दृष्टा मया सीता रावणान्तःपुरे सती
५.०६३.०१० संन्यस्य त्वयि जीवन्ती रामा राम मनोरथम्
५.०६३.०११ दृष्टा मे राक्षसी मध्ये तर्ज्यमाना मुहुर्मुहुः
५.०६३.०११ राक्षसीभिर्विरूपाभी रक्षिता प्रमदावने
५.०६३.०१२ दुःखमापद्यते देवी तवादुःखोचिता सती
५.०६३.०१२ रावणान्तःपुरे रुद्ध्वा राक्षसीभिः सुरक्षिता
५.०६३.०१३ एकवेणीधरा दीना त्वयि चिन्तापरायणा
५.०६३.०१३ अधःशय्या विवर्णाङ्गी पद्मिनीव हिमागमे
५.०६३.०१४ रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया
५.०६३.०१४ देवी कथं चित्काकुत्स्थ त्वन्मना मार्गिता मया
५.०६३.०१५ इक्ष्वाकुवंशविख्यातिं शनैः कीर्तयतानघ
५.०६३.०१५ स मया नरशार्दूल विश्वासमुपपादिता
५.०६३.०१६ ततः संभाषिता देवी सर्वमर्थं च दर्शिता
५.०६३.०१६ रामसुग्रीवसख्यं च श्रुत्वा प्रीतिमुपागता
५.०६३.०१७ नियतः समुदाचारो भक्तिश्चास्यास्तथा त्वयि
५.०६३.०१७ एवं मया महाभागा दृष्टा जनकनन्दिनी
५.०६३.०१७ उग्रेण तपसा युक्ता त्वद्भक्त्या पुरुषर्षभ
५.०६३.०१८ अभिज्ञानं च मे दत्तं यथावृत्तं तवान्तिके
५.०६३.०१८ चित्रकूटे महाप्राज्ञ वायसं प्रति राघव
५.०६३.०१९ विज्ञाप्यश्च नर व्याघ्रो रामो वायुसुत त्वया
५.०६३.०१९ अखिलेनेह यद्दृष्टमिति मामाह जानकी
५.०६३.०२० इदं चास्मै प्रदातव्यं यत्नात्सुपरिरक्षितम्
५.०६३.०२० ब्रुवता वचनान्येवं सुग्रीवस्योपशृण्वतः
५.०६३.०२१ एष चूडामणिः श्रीमान्मया ते यत्नरक्षितः
५.०६३.०२१ मनःशिलायास्तिकलस्तं स्मरस्वेति चाब्रवीत्
५.०६३.०२२ एष निर्यातितः श्रीमान्मया ते वारिसंभवः
५.०६३.०२२ एतं दृष्ट्वा प्रमोदिष्ये व्यसने त्वामिवानघ
५.०६३.०२३ जीवितं धारयिष्यामि मासं दशरथात्मज
५.०६३.०२३ ऊर्ध्वं मासान्न जीवेयं रक्षसां वशमागता
५.०६३.०२४ इति मामब्रवीत्सीता कृशाङ्गी धर्म चारिणी
५.०६३.०२४ रावणान्तःपुरे रुद्धा मृगीवोत्फुल्ललोचना
५.०६३.०२५ एतदेव मयाख्यातं सर्वं राघव यद्यथा
५.०६३.०२५ सर्वथा सागरजले संतारः प्रविधीयताम्
५.०६३.०२६ तौ जाताश्वासौ राजपुत्रौ विदित्वा॑ तच्चाभिज्ञानं राघवाय प्रदाय
५.०६३.०२६ देव्या चाख्यातं सर्वमेवानुपूर्व्याद्॑ वाचा संपूर्णं वायुपुत्रः शशंस
५.०६४.००१ एवमुक्तो हनुमता रामो दशरथात्मजः
५.०६४.००१ तं मणिं हृदये कृत्वा प्ररुरोद सलक्ष्मणः
५.०६४.००२ तं तु दृष्ट्वा मणिश्रेष्ठं राघवः शोककर्शितः
५.०६४.००२ नेत्राभ्यामश्रुपूर्णाभ्यां सुग्रीवमिदमब्रवीत्
५.०६४.००३ यथैव धेनुः स्रवति स्नेहाद्वत्सस्य वत्सला
५.०६४.००३ तथा ममापि हृदयं मणिरत्नस्य दर्शनात्
५.०६४.००४ मणिरत्नमिदं दत्तं वैदेह्याः श्वशुरेण मे
५.०६४.००४ वधूकाले यथा बद्धमधिकं मूर्ध्नि शोभते
५.०६४.००५ अयं हि जलसंभूतो मणिः प्रवरपूजितः
५.०६४.००५ यज्ञे परमतुष्टेन दत्तः शक्रेण धीमता
५.०६४.००६ इमं दृष्ट्वा मणिश्रेष्ठं तथा तातस्य दर्शनम्
५.०६४.००६ अद्यास्म्यवगतः सौम्य वैदेहस्य तथा विभोः
५.०६४.००७ अयं हि शोभते तस्याः प्रियाया मूर्ध्नि मे मणिः
५.०६४.००७ अद्यास्य दर्शनेनाहं प्राप्तां तामिव चिन्तये
५.०६४.००८ किमाह सीता वैदेही ब्रूहि सौम्य पुनः पुनः
५.०६४.००८ परासुमिव तोयेन सिञ्चन्ती वाक्यवारिणा
५.०६४.००९ इतस्तु किं दुःखतरं यदिमं वारिसंभवम्
५.०६४.००९ मणिं पश्यामि सौमित्रे वैदेहीमागतं विना
५.०६४.०१० चिरं जीवति वैदेही यदि मासं धरिष्यति
५.०६४.०१० क्षणं सौम्य न जीवेयं विना तामसितेक्षणाम्
५.०६४.०११ नय मामपि तं देशं यत्र दृष्टा मम प्रिया
५.०६४.०११ न तिष्ठेयं क्षणमपि प्रवृत्तिमुपलभ्य च
५.०६४.०१२ कथं सा मम सुश्रोणि भीरु भीरुः सती तदा
५.०६४.०१२ भयावहानां घोराणां मध्ये तिष्ठति रक्षसाम्
५.०६४.०१३ शारदस्तिमिरोन्मुखो नूनं चन्द्र इवाम्बुदैः
५.०६४.०१३ आवृतं वदनं तस्या न विराजति राक्षसैः
५.०६४.०१४ किमाह सीता हनुमंस्तत्त्वतः कथयस्व मे
५.०६४.०१४ एतेन खलु जीविष्ये भेषजेनातुरो यथा
५.०६४.०१५ मधुरा मधुरालापा किमाह मम भामिनी
५.०६४.०१५ मद्विहीना वरारोहा हनुमन् कथयस्व मे
५.०६४.०१५ दुःखाद्दुःखतरं प्राप्य कथं जीवति जानकी
५.०६५.००१ एवमुक्तस्तु हनुमान् राघवेण महात्मना
५.०६५.००१ सीताया भाषितं सर्वं न्यवेदयत राघवे
५.०६५.००२ इदमुक्तवती देवी जानकी पुरुषर्षभ
५.०६५.००२ पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम्
५.०६५.००३ सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता
५.०६५.००३ वायसः सहसोत्पत्य विरराद स्तनान्तरे
५.०६५.००४ पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज
५.०६५.००४ पुनश्च किल पक्षी स देव्या जनयति व्यथाम्
५.०६५.००५ ततः पुनरुपागम्य विरराद भृशं किल
५.०६५.००५ ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः
५.०६५.००६ वायसेन च तेनैव सततं बाध्यमानया
५.०६५.००६ बोधितः किल देव्यास्त्वं सुखसुप्तः परंतप
५.०६५.००७ तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे
५.०६५.००७ आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः
५.०६५.००८ नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम्
५.०६५.००८ कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना
५.०६५.००९ निरीक्षमाणः सहसा वायसं समवैक्षताः
५.०६५.००९ नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्
५.०६५.०१० सुतः किल स शक्रस्य वायसः पततां वरः
५.०६५.०१० धरान्तरचरः शीघ्रं पवनस्य गतौ समः
५.०६५.०११ ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः
५.०६५.०११ वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर
५.०६५.०१२ स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः
५.०६५.०१२ स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम्
५.०६५.०१३ स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति
५.०६५.०१३ ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह
५.०६५.०१४ स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः
५.०६५.०१४ त्रींल्लोकान् संपरिक्रम्य त्रातारं नाधिगच्छति
५.०६५.०१५ तं त्वं निपतितं भूमौ शरण्यः शरणागतम्
५.०६५.०१५ वधार्हमपि काकुत्स्थ कृपया परिपालयः
५.०६५.०१६ मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव
५.०६५.०१६ ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम्
५.०६५.०१७ राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च
५.०६५.०१७ विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम्
५.०६५.०१८ एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि
५.०६५.०१८ किमर्थमस्त्रं रक्षःसु न योजयसि राघव
५.०६५.०१९ न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः
५.०६५.०१९ तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम्
५.०६५.०२० तव वीर्यवतः कच्चिन्मयि यद्यस्ति संभ्रमः
५.०६५.०२० क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः
५.०६५.०२१ भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः
५.०६५.०२१ स किमर्थं नरवरो न मां रक्षति राघवः
५.०६५.०२२ शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ
५.०६५.०२२ सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः
५.०६५.०२३ ममैव दुष्कृतं किं चिन्महदस्ति न संशयः
५.०६५.०२३ समर्थौ सहितौ यन्मां नापेक्षेते परंतपौ
५.०६५.०२४ वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्
५.०६५.०२४ पुनरप्यहमार्यां तामिदं वचनमब्रुवम्
५.०६५.०२५ त्वच्छोकविमुखो रामो देवि सत्येन ते शपे
५.०६५.०२५ रामे दुःखाभिभूते च लक्ष्मणः परितप्यते
५.०६५.०२६ कथं चिद्भवती दृष्टा न कालः परिशोचितुम्
५.०६५.०२६ इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि
५.०६५.०२७ तावुभौ नरशार्दूलौ राजपुत्रावरिंदमौ
५.०६५.०२७ त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः
५.०६५.०२८ हत्वा च समरे रौद्रं रावणं सह बान्धवम्
५.०६५.०२८ राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम्
५.०६५.०२९ यत्तु रामो विजानीयादभिज्ञानमनिन्दिते
५.०६५.०२९ प्रीतिसंजननं तस्य प्रदातुं तत्त्वमर्हसि
५.०६५.०३० साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम्
५.०६५.०३० मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल
५.०६५.०३१ प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम
५.०६५.०३१ शिरसा संप्रणम्यैनामहमागमने त्वरे
५.०६५.०३२ गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी
५.०६५.०३२ विवर्धमानं च हि मामुवाच जनकात्मजा
५.०६५.०३२ अश्रुपूर्णमुखी दीना बाष्पसंदिग्धभाषिणी
५.०६५.०३३ हनुमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ
५.०६५.०३३ सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्
५.०६५.०३४ यथा च स महाबाहुर्मां तारयति राघवः
५.०६५.०३४ अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि
५.०६५.०३५ इमं च तीव्रं मम शोकवेगं॑ रक्षोभिरेभिः परिभर्त्सनं च
५.०६५.०३५ ब्रूयास्तु रामस्य गतः समीपं॑ शिवश्च तेऽध्वास्तु हरिप्रवीर
५.०६५.०३६ एतत्तवार्या नृपराजसिंह॑ सीता वचः प्राह विषादपूर्वम्
५.०६५.०३६ एतच्च बुद्ध्वा गदितं मया त्वं॑ श्रद्धत्स्व सीतां कुशलां समग्राम्
५.०६६.००१ अथाहमुत्तरं देव्या पुनरुक्तः ससंभ्रमम्
५.०६६.००१ तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च
५.०६६.००२ एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया
५.०६६.००२ यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे
५.०६६.००३ यदि वा मन्यसे वीर वसैकाहमरिंदम
५.०६६.००३ कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि
५.०६६.००४ मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर
५.०६६.००४ अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम्
५.०६६.००५ गते हि त्वयि विक्रान्ते पुनरागमनाय वै
५.०६६.००५ प्राणानामपि संदेहो मम स्यान्नात्र संशयः
५.०६६.००६ तवादर्शनजः शोको भूयो मां परितापयेत्
५.०६६.००६ दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम्
५.०६६.००७ अयं तु वीरसंदेहस्तिष्ठतीव ममाग्रतः
५.०६६.००७ सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः
५.०६६.००८ कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम्
५.०६६.००८ तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ
५.०६६.००९ त्रयाणामेव भूतानां सागरस्यास्य लङ्घने
५.०६६.००९ शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ
५.०६६.०१० तदस्मिन् कार्यनियोगे वीरैवं दुरतिक्रमे
५.०६६.०१० किं पश्यसि समाधानं ब्रूहि कार्यविदां वर
५.०६६.०११ काममस्य त्वमेवैकः कार्यस्य परिसाधने
५.०६६.०११ पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः
५.०६६.०१२ बलैः समग्रैर्यदि मां हत्वा रावणमाहवे
५.०६६.०१२ विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम्
५.०६६.०१३ यथाहं तस्य वीरस्य वनादुपधिना हृता
५.०६६.०१३ रक्षसा तद्भयादेव तथा नार्हति राघवः
५.०६६.०१४ बलैस्तु संकुलां कृत्वा लङ्कां परबलार्दनः
५.०६६.०१४ मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत्
५.०६६.०१५ तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः
५.०६६.०१५ भवत्याहवशूरस्य तथा त्वमुपपादय
५.०६६.०१६ तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम्
५.०६६.०१६ निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम्
५.०६६.०१७ देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः
५.०६६.०१७ सुग्रीवः सत्त्वसंपन्नस्तवार्थे कृतनिश्चयः
५.०६६.०१८ तस्य विक्रमसंपन्नाः सत्त्ववन्तो महाबलाः
५.०६६.०१८ मनःसंकल्पसंपाता निदेशे हरयः स्थिताः
५.०६६.०१९ येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः
५.०६६.०१९ न च कर्मसु सीदन्ति महत्स्वमिततेजसः
५.०६६.०२० असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः
५.०६६.०२० प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः
५.०६६.०२१ मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः
५.०६६.०२१ मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ
५.०६६.०२२ अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः
५.०६६.०२२ न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः
५.०६६.०२३ तदलं परितापेन देवि मन्युर्व्यपैतु ते
५.०६६.०२३ एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः
५.०६६.०२४ मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ
५.०६६.०२४ त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः
५.०६६.०२५ अरिघ्नं सिंहसंकाशं क्षिप्रं द्रक्ष्यसि राघवम्
५.०६६.०२५ लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम्
५.०६६.०२६ नखदंष्ट्रायुधान् वीरान् सिंहशार्दूलविक्रमान्
५.०६६.०२६ वानरान् वानरेन्द्राभान् क्षिप्रं द्रक्ष्यसि संगतान्
५.०६६.०२७ शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु
५.०६६.०२७ नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम्
५.०६६.०२८ निवृत्तवनवासं च त्वया सार्धमरिंदमम्
५.०६६.०२८ अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम्
५.०६६.०२९ ततो मया वाग्भिरदीनभाषिणी॑ शिवाभिरिष्टाभिरभिप्रसादिता
५.०६६.०२९ जगाम शान्तिं मम मैथिलात्मजा॑ तवापि शोकेन तथाभिपीडिता

Part [Kandam] – 1  2  3  5  6