Valmiki Ramayana Forth Kandam

Part [Kandam] – 1  2  3  5  6

४.००१.००१ स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम्
४.००१.००१ रामः सौमित्रिसहितो विललापाकुलेन्द्रियः
४.००१.००२ तस्य दृष्ट्वैव तां हर्षादिन्द्रियाणि चकम्पिरे
४.००१.००२ स कामवशमापन्नः सौमित्रिमिदमब्रवीत्
४.००१.००३ सौमित्रे पश्य पम्पायाः काननं शुभदर्शनम्
४.००१.००३ यत्र राजन्ति शैलाभा द्रुमाः सशिखरा इव
४.००१.००४ मां तु शोकाभिसंतप्तमाधयः पीडयन्ति वै
४.००१.००४ भरतस्य च दुःखेन वैदेह्या हरणेन च
४.००१.००५ अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम्
४.००१.००५ द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम्
४.००१.००६ सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः
४.००१.००६ गन्धवान् सुरभिर्मासो जातपुष्पफलद्रुमः
४.००१.००७ पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम्
४.००१.००७ सृजतां पुष्पवर्षाणि वर्षं तोयमुचामिव
४.००१.००८ प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः
४.००१.००८ वायुवेगप्रचलिताः पुष्पैरवकिरन्ति गाम्
४.००१.००९ मारुतः सुखं संस्पर्शे वाति चन्दनशीतलः
४.००१.००९ षट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु
४.००१.०१० गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः
४.००१.०१० संसक्तशिखरा शैला विराजन्ति महाद्रुमैः
४.००१.०११ पुष्पिताग्रांश्च पश्येमान् कर्णिकारान् समन्ततः
४.००१.०११ हाटकप्रतिसंछन्नान्नरान् पीताम्बरानिव
४.००१.०१२ अयं वसन्तः सौमित्रे नानाविहगनादितः
४.००१.०१२ सीतया विप्रहीणस्य शोकसंदीपनो मम
४.००१.०१३ मां हि शोकसमाक्रान्तं संतापयति मन्मथः
४.००१.०१३ हृष्टः प्रवदमानश्च समाह्वयति कोकिलः
४.००१.०१४ एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे
४.००१.०१४ प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण
४.००१.०१५ विमिश्रा विहगाः पुम्भिरात्मव्यूहाभिनन्दिताः
४.००१.०१५ भृङ्गराजप्रमुदिताः सौमित्रे मधुरस्वराः
४.००१.०१६ मां हि सा मृगशावाक्षी चिन्ताशोकबलात्कृतम्
४.००१.०१६ संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः
४.००१.०१७ शिखिनीभिः परिवृता मयूरा गिरिसानुषु
४.००१.०१७ मन्मथाभिपरीतस्य मम मन्मथवर्धनाः
४.००१.०१८ पश्य लक्ष्णम नृत्यन्तं मयूरमुपनृत्यति
४.००१.०१८ शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुषु
४.००१.०१९ मयूरस्य वने नूनं रक्षसा न हृता प्रिया
४.००१.०१९ मम त्वयं विना वासः पुष्पमासे सुदुःसहः
४.००१.०२० पश्य लक्ष्मण पुष्पाणि निष्फलानि भवन्ति मे
४.००१.०२० पुष्पभारसमृद्धानां वनानां शिशिरात्यये
४.००१.०२१ वदन्ति रावं मुदिताः शकुनाः संघशः कलम्
४.००१.०२१ आह्वयन्त इवान्योन्यं कामोन्मादकरा मम
४.००१.०२२ नूनं परवशा सीता सापि शोचत्यहं यथा
४.००१.०२२ श्यामा पद्मपलाशाक्षी मृदुभाषा च मे प्रिया
४.००१.०२३ एष पुष्पवहो वायुः सुखस्पर्शो हिमावहः
४.००१.०२३ तां विचिन्तयतः कान्तां पावकप्रतिमो मम
४.००१.०२४ तां विनाथ विहंगोऽसौ पक्षी प्रणदितस्तदा
४.००१.०२४ वायसः पादपगतः प्रहृष्टमभिनर्दति
४.००१.०२५ एष वै तत्र वैदेह्या विहगः प्रतिहारकः
४.००१.०२५ पक्षी मां तु विशालाक्ष्याः समीपमुपनेष्यति
४.००१.०२६ पश्य लक्ष्मण संनादं वने मदविवर्धनम्
४.००१.०२६ पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम्
४.००१.०२७ सौमित्रे पश्य पम्पायाश्चित्रासु वनराजिषु
४.००१.०२७ नलिनानि प्रकाशन्ते जले तरुणसूर्यवत्
४.००१.०२८ एषा प्रसन्नसलिला पद्मनीलोत्पलायता
४.००१.०२८ हंसकारण्डवाकीर्णा पम्पा सौगन्धिकायुता
४.००१.०२९ चक्रवाकयुता नित्यं चित्रप्रस्थवनान्तरा
४.००१.०२९ मातङ्गमृगयूथैश्च शोभते सलिलार्थिभिः
४.००१.०३० पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते
४.००१.०३० सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण
४.००१.०३१ पद्मकेसरसंसृष्टो वृक्षान्तरविनिःसृतः
४.००१.०३१ निःश्वास इव सीताया वाति वायुर्मनोहरः
४.००१.०३२ सौमित्रे पश्य पम्पाया दक्षिणे गिरिसानुनि
४.००१.०३२ पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम्
४.००१.०३३ अधिकं शैलराजोऽयं धातुभिस्तु विभूषितः
४.००१.०३३ विचित्रं सृजते रेणुं वायुवेगविघट्टितम्
४.००१.०३४ गिरिप्रस्थास्तु सौमित्रे सर्वतः संप्रपुष्पितैः
४.००१.०३४ निष्पत्रैः सर्वतो रम्यैः प्रदीपा इव कुंशुकैः
४.००१.०३५ पम्पातीररुहाश्चेमे संसक्ता मधुगन्धिनः
४.००१.०३५ मालतीमल्लिकाषण्डाः करवीराश्च पुष्पिताः
४.००१.०३६ केतक्यः सिन्दुवाराश्च वासन्त्यश्च सुपुष्पिताः
४.००१.०३६ माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च सर्वशः
४.००१.०३७ चिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा
४.००१.०३७ चम्पकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः
४.००१.०३८ नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिताः
४.००१.०३८ अङ्कोलाश्च कुरण्टाश्च चूर्णकाः पारिभद्रकाः
४.००१.०३९ चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः
४.००१.०३९ मुचुकुन्दार्जुनाश्चैव दृश्यन्ते गिरिसानुषु
४.००१.०४० केतकोद्दालकाश्चैव शिरीषाः शिंशपा धवाः
४.००१.०४० शाल्मल्यः किंशुकाश्चैव रक्ताः कुरबकास्तथा
४.००१.०४० तिनिशा नक्त मालाश्च चन्दनाः स्यन्दनास्तथा
४.००१.०४१ विविधा विविधैः पुष्पैस्तैरेव नगसानुषु
४.००१.०४१ विकीर्णैः पीतरक्ताभाः सौमित्रे प्रस्तराः कृताः
४.००१.०४२ हिमान्ते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम्
४.००१.०४२ पुष्पमासे हि तरवः संघर्षादिव पुष्पिताः
४.००१.०४३ पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम्
४.००१.०४३ चक्रवाकानुचरितां कारण्डवनिषेविताम्
४.००१.०४३ प्लवैः क्रौञ्चैश्च संपूर्णां वराहमृगसेविताम्
४.००१.०४४ अधिकं शोभते पम्पाविकूजद्भिर्विहंगमैः
४.००१.०४५ दीपयन्तीव मे कामं विविधा मुदिता द्विजाः
४.००१.०४५ श्यामां चन्द्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम्
४.००१.०४६ पय सानुषु चित्रेषु मृगीभिः सहितान्मृगान्
४.००१.०४६ मां पुनर्मृगशावाक्ष्या वैदेह्या विरहीकृतम्
४.००१.०४७ एवं स विलपंस्तत्र शोकोपहतचेतनः
४.००१.०४७ अवेक्षत शिवां पम्पां रम्यवारिवहां शुभाम्
४.००१.०४८ निरीक्षमाणः सहसा महात्मा॑ सर्वं वनं निर्झरकन्दरं च
४.००१.०४८ उद्विग्नचेताः सह लक्ष्मणेन॑ विचार्य दुःखोपहतः प्रतस्थे
४.००१.०४९ तावृष्यमूकं सहितौ प्रयातौ॑ सुग्रीवशाखामृगसेवितं तम्
४.००१.०४९ त्रस्तास्तु दृष्ट्वा हरयो बभूवुर्॑ महौजसौ राघवलक्ष्मणौ तौ
४.००२.००१ तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ
४.००२.००१ वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्
४.००२.००२ उद्विग्नहृदयः सर्वा दिशः समवलोकयन्
४.००२.००२ न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुंगवः
४.००२.००३ नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ
४.००२.००३ कपेः परमभीतस्य चित्तं व्यवससाद ह
४.००२.००४ चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्
४.००२.००४ सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह
४.००२.००५ ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः
४.००२.००५ शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ
४.००२.००६ एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्
४.००२.००६ छद्मना चीरवसनौ प्रचरन्ताविहागतौ
४.००२.००७ ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ
४.००२.००७ जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम्
४.००२.००८ ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम्
४.००२.००८ हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे
४.००२.००९ एकमेकायनगताः प्लवमाना गिरेर्गिरिम्
४.००२.००९ प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च
४.००२.०१० ततः शाखामृगाः सर्वे प्लवमाना महाबलाः
४.००२.०१० बभञ्जुश्च नगांस्तत्र पुष्पितान् दुर्गसंश्रितान्
४.००२.०११ आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्
४.००२.०११ मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा
४.००२.०१२ ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः
४.००२.०१२ संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः
४.००२.०१३ ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम्
४.००२.०१३ उवाच हनुमान् वाक्यं सुग्रीवं वाक्यकोविदः
४.००२.०१४ यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुंगव
४.००२.०१४ तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्
४.००२.०१५ यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः
४.००२.०१५ स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्
४.००२.०१६ अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगम
४.००२.०१६ लघुचित्ततयात्मानं न स्थापयसि यो मतौ
४.००२.०१७ बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर
४.००२.०१७ न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि
४.००२.०१८ सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः
४.००२.०१८ ततः शुभतरं वाक्यं हनूमन्तमुवाच ह
४.००२.०१९ दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ
४.००२.०१९ कस्य न स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ
४.००२.०२० वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ
४.००२.०२० राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः
४.००२.०२१ अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः
४.००२.०२१ विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि
४.००२.०२२ कृत्येषु वाली मेधावी राजानो बहुदर्शनाः
४.००२.०२२ भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः
४.००२.०२३ तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम
४.००२.०२३ शङ्कितानां प्रकारैश्च रूपव्याभाषणेन च
४.००२.०२४ लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि
४.००२.०२४ विश्वासयन् प्रशंसाभिरिङ्गितैश्च पुनः पुनः
४.००२.०२५ ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव
४.००२.०२५ प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ
४.००२.०२६ शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगम
४.००२.०२६ व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः
४.००२.०२७ इत्येवं कपिराजेन संदिष्टो मारुतात्मजः
४.००२.०२७ चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ
४.००२.०२८ तथेति संपूज्य वचस्तु तस्य॑ कपेः सुभीतस्य दुरासदस्य
४.००२.०२८ महानुभावो हनुमान् ययौ तदा॑ स यत्र रामोऽतिबलश्च लक्ष्मणः
४.००३.००१ वचो विज्ञाय हनुमान् सुग्रीवस्य महात्मनः
४.००३.००१ पर्वतादृश्यमूकात्तु पुप्लुवे यत्र राघवौ
४.००३.००२ स तत्र गत्वा हनुमान् बलवान् वानरोत्तमः
४.००३.००२ उपचक्राम तौ वाग्भिर्मृद्वीभिः सत्यविक्रमः
४.००३.००३ स्वकं रूपं परित्यज्य भिक्षुरूपेण वानरः
४.००३.००३ आबभाषे च तौ वीरौ यथावत्प्रशशंस च
४.००३.००४ राजर्षिदेवप्रतिमौ तापसौ संशितव्रतौ
४.००३.००४ देशं कथमिमं प्राप्तौ भवन्तौ वरवर्णिनौ
४.००३.००५ त्रासयन्तौ मृगगणानन्यांश्च वनचारिणः
४.००३.००५ पम्पातीररुहान् वृक्षान् वीक्षमाणौ समन्ततः
४.००३.००६ इमां नदीं शुभजलां शोभयन्तौ तरस्विनौ
४.००३.००६ धैर्यवन्तौ सुवर्णाभौ कौ युवां चीरवाससौ
४.००३.००७ सिंहविप्रेक्षितौ वीरौ सिंहातिबलविक्रमौ
४.००३.००७ शक्रचापनिभे चापे प्रगृह्य विपुलैर्भुजैः
४.००३.००८ श्रीमन्तौ रूपसंपन्नौ वृषभश्रेष्ठविक्रमौ
४.००३.००८ हस्तिहस्तोपमभुजौ द्युतिमन्तौ नरर्षभौ
४.००३.००९ प्रभया पर्वतेन्द्रोऽयं युवयोरवभासितः
४.००३.००९ राज्यार्हावमरप्रख्यौ कथं देशमिहागतौ
४.००३.०१० पद्मपत्रेक्षणौ वीरौ जटामण्डलधारिणौ
४.००३.०१० अन्योन्यसदृशौ वीरौ देवलोकादिवागतौ
४.००३.०११ यदृच्छयेव संप्राप्तौ चन्द्रसूर्यौ वसुंधराम्
४.००३.०११ विशालवक्षसौ वीरौ मानुषौ देवरूपिणौ
४.००३.०१२ सिंहस्कन्धौ महासत्त्वौ समदाविव गोवृषौ
४.००३.०१२ आयताश्च सुवृत्ताश्च बाहवः परिघोत्तमाः
४.००३.०१२ सर्वभूषणभूषार्हाः किमर्थं न विभूषितः
४.००३.०१३ उभौ योग्यावहं मन्ये रक्षितुं पृथिवीमिमाम्
४.००३.०१३ ससागरवनां कृत्स्नां विन्ध्यमेरुविभूषिताम्
४.००३.०१४ इमे च धनुषी चित्रे श्लक्ष्णे चित्रानुलेपने
४.००३.०१४ प्रकाशेते यथेन्द्रस्य वज्रे हेमविभूषिते
४.००३.०१५ संपूर्णा निशितैर्बाणैर्तूणाश्च शुभदर्शनाः
४.००३.०१५ जीवितान्तकरैर्घोरैर्ज्वलद्भिरिव पन्नगैः
४.००३.०१६ महाप्रमाणौ विपुलौ तप्तहाटकभूषितौ
४.००३.०१६ खड्गावेतौ विराजेते निर्मुक्तभुजगाविव
४.००३.०१७ एवं मां परिभाषन्तं कस्माद्वै नाभिभाषथः
४.००३.०१८ सुग्रीवो नाम धर्मात्मा कश्चिद्वानरयूथपः
४.००३.०१८ वीरो विनिकृतो भ्रात्रा जगद्भ्रमति दुःखितः
४.००३.०१९ प्राप्तोऽहं प्रेषितस्तेन सुग्रीवेण महात्मना
४.००३.०१९ राज्ञा वानरमुख्यानां हनुमान्नाम वानरः
४.००३.०२० युवाभ्यां सह धर्मात्मा सुग्रीवः सख्यमिच्छति
४.००३.०२० तस्य मां सचिवं वित्तं वानरं पवनात्मजम्
४.००३.०२१ भिक्षुरूपप्रतिच्छन्नं सुग्रीवप्रियकाम्यया
४.००३.०२१ ऋश्यमूकादिह प्राप्तं कामगं कामरूपिणम्
४.००३.०२२ एवमुक्त्वा तु हनुमांस्तौ वीरौ रामलक्ष्मणौ
४.००३.०२२ वाक्यज्ञौ वाक्यकुशलः पुनर्नोवाच किं चन
४.००३.०२३ एतच्छ्रुत्वा वचस्तस्य रामो लक्ष्मणमब्रवीत्
४.००३.०२३ प्रहृष्टवदनः श्रीमान् भ्रातरं पार्श्वतः स्थितम्
४.००३.०२४ सचिवोऽयं कपीन्द्रस्य सुग्रीवस्य महात्मनः
४.००३.०२४ तमेव काङ्क्षमाणस्य ममान्तिकमुपागतः
४.००३.०२५ तमभ्यभाष सौमित्रे सुग्रीवसचिवं कपिम्
४.००३.०२५ वाक्यज्ञं मधुरैर्वाक्यैः स्नेहयुक्तमरिंदमम्
४.००४.००१ ततः प्रहृष्टो हनुमान् कृत्यवानिति तद्वचः
४.००४.००१ श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः
४.००४.००२ भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः
४.००४.००२ यदयं कृत्यवान् प्राप्तः कृत्यं चैतदुपागतम्
४.००४.००३ ततः परमसंहृष्टो हनूमान् प्लवगर्षभः
४.००४.००३ प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः
४.००४.००४ किमर्थं त्वं वनं घोरं पम्पाकाननमण्डितम्
४.००४.००४ आगतः सानुजो दुर्गं नानाव्यालमृगायुतम्
४.००४.००५ तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः
४.००४.००५ आचचक्षे महात्मानं रामं दशरथात्मजम्
४.००४.००६ राजा दशरथो नाम द्युतिमान् धर्मवत्सलः
४.००४.००६ तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः
४.००४.००७ शरण्यः सर्वभूतानां पितुर्निर्देशपारगः
४.००४.००७ वीरो दशरथस्यायं पुत्राणां गुणवत्तरः
४.००४.००८ राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः
४.००४.००८ भार्यया च महातेजाः सीतयानुगतो वशी
४.००४.००८ दिनक्षये महातेजाः प्रभयेव दिवाकरः
४.००४.००९ अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः
४.००४.००९ कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः
४.००४.०१० सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः
४.००४.०१० ऐश्वर्येण विहीनस्य वनवासाश्रितस्य च
४.००४.०११ रक्षसापहृता भार्या रहिते कामरूपिणा
४.००४.०११ तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता
४.००४.०१२ दनुर्नाम श्रियः पुत्रः शापाद्राक्षसतां गतः
४.००४.०१२ आख्यातस्तेन सुग्रीवः समर्थो वानराधिपः
४.००४.०१३ स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम्
४.००४.०१३ एवमुक्त्वा दनुः स्वर्गं भ्राजमानो गतः सुखम्
४.००४.०१४ एतत्ते सर्वमाख्यातं याथातथ्येन पृच्छतः
४.००४.०१४ अहं चैव हि रामश्च सुग्रीवं शरणं गतौ
४.००४.०१५ एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः
४.००४.०१५ लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति
४.००४.०१६ शोकाभिभूते रामे तु शोकार्ते शरणं गते
४.००४.०१६ कर्तुमर्हति सुग्रीवः प्रसादं सह यूथपैः
४.००४.०१७ एवं ब्रुवाणं सौमित्रिं करुणं साश्रुपातनम्
४.००४.०१७ हनूमान् प्रत्युवाचेदं वाक्यं वाक्यविशारदः
४.००४.०१८ ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेन्द्रियाः
४.००४.०१८ द्रष्टव्या वानरेन्द्रेण दिष्ट्या दर्शनमागताः
४.००४.०१९ स हि राज्याच्च विभ्रष्टः कृतवैरश्च वालिना
४.००४.०१९ हृतदारो वने त्रस्तो भ्रात्रा विनिकृतो भृशम्
४.००४.०२० करिष्यति स साहाय्यं युवयोर्भास्करात्मजः
४.००४.०२० सुग्रीवः सह चास्माभिः सीतायाः परिमार्गणे
४.००४.०२१ इत्येवमुक्त्वा हनुमाञ्श्लक्ष्णं मधुरया गिरा
४.००४.०२१ बभाषे सोऽभिगच्छामः सुग्रीवमिति राघवम्
४.००४.०२२ एवं ब्रुवाणं धर्मात्मा हनूमन्तं स लक्ष्मणः
४.००४.०२२ प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम्
४.००४.०२३ कपिः कथयते हृष्टो यथायं मारुतात्मजः
४.००४.०२३ कृत्यवान् सोऽपि संप्राप्तः कृतकृत्योऽसि राघव
४.००४.०२४ प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते
४.००४.०२४ नानृतं वक्ष्यते वीरो हनूमान्मारुतात्मजः
४.००४.०२५ ततः स तु महाप्राज्ञो हनूमान्मारुतात्मजः
४.००४.०२५ जगामादाय तौ वीरौ हरिराजाय राघवौ
४.००४.०२६ स तु विपुल यशाः कपिप्रवीरः॑ पवनसुतः कृतकृत्यवत्प्रहृष्टः
४.००४.०२६ गिरिवरमुरुविक्रमः प्रयातः॑ स शुभमतिः सह रामलक्ष्मणाभ्याम्
४.००५.००१ ऋश्यमूकात्तु हनुमान् गत्वा तं मलयं गिरम्
४.००५.००१ आचचक्षे तदा वीरौ कपिराजाय राघवौ
४.००५.००२ अयं रामो महाप्राज्ञः संप्राप्तो दृढविक्रमः
४.००५.००२ लक्ष्मणेन सह भ्रात्रा रामोऽयं सत्यविक्रमः
४.००५.००३ इक्ष्वाकूणां कुले जातो रामो दशरथात्मजः
४.००५.००३ धर्मे निगदितश्चैव पितुर्निर्देशपालकः
४.००५.००४ तस्यास्य वसतोऽरण्ये नियतस्य महात्मनः
४.००५.००४ रक्षसापहृता भार्या स त्वां शरणमागतः
४.००५.००५ राजसूयाश्वमेधैश्च वह्निर्येनाभितर्पितः
४.००५.००५ दक्षिणाश्च तथोत्सृष्टा गावः शतसहस्रशः
४.००५.००६ तपसा सत्यवाक्येन वसुधा येन पालिता
४.००५.००६ स्त्रीहेतोस्तस्य पुत्रोऽयं रामस्त्वां शरणं गतः
४.००५.००७ भवता सख्यकामौ तौ भ्रातरौ रामलक्ष्मणौ
४.००५.००७ प्रतिगृह्यार्चयस्वेमौ पूजनीयतमावुभौ
४.००५.००८ श्रुत्वा हनुमतो वाक्यं सुग्रीवो हृष्टमानसः
४.००५.००८ भयं स राघवाद्घोरं प्रजहौ विगतज्वरः
४.००५.००९ स कृत्वा मानुषं रूपं सुग्रीवः प्लवगाधिपः
४.००५.००९ दर्शनीयतमो भूत्वा प्रीत्या प्रोवाच राघवम्
४.००५.०१० भवान् धर्मविनीतश्च विक्रान्तः सर्ववत्सलः
४.००५.०१० आख्याता वायुपुत्रेण तत्त्वतो मे भवद्गुणाः
४.००५.०११ तन्ममैवैष सत्कारो लाभश्चैवोत्तमः प्रभो
४.००५.०११ यत्त्वमिच्छसि सौहार्दं वानरेण मया सह
४.००५.०१२ रोचते यदि वा सख्यं बाहुरेष प्रसारितः
४.००५.०१२ गृह्यतां पाणिना पाणिर्मर्यादा वध्यतां ध्रुवा
४.००५.०१३ एतत्तु वचनं श्रुत्वा सुग्रीवस्य सुभाषितम्
४.००५.०१३ संप्रहृष्टमना हस्तं पीडयामास पाणिना
४.००५.०१३ हृद्यं सौहृदमालम्ब्य पर्यष्वजत पीडितम्
४.००५.०१४ ततो हनूमान् संत्यज्य भिक्षुरूपमरिंदमः
४.००५.०१४ काष्ठयोः स्वेन रूपेण जनयामास पावकम्
४.००५.०१५ दीप्यमानं ततो वह्निं पुष्पैरभ्यर्च्य सत्कृतम्
४.००५.०१५ तयोर्मध्ये तु सुप्रीतो निदधे सुसमाहितः
४.००५.०१६ ततोऽग्निं दीप्यमानं तौ चक्रतुश्च प्रदक्षिणम्
४.००५.०१६ सुग्रीवो राघवश्चैव वयस्यत्वमुपागतौ
४.००५.०१७ ततः सुप्रीत मनसौ तावुभौ हरिराघवौ
४.००५.०१७ अन्योन्यमभिवीक्षन्तौ न तृप्तिमुपजग्मतुः
४.००५.०१८ ततः सर्वार्थविद्वांसं रामं दशरथात्मजम्
४.००५.०१८ सुग्रीवः प्राह तेजस्वी वाक्यमेकमनास्तदा
४.००६.००१ अयमाख्याति मे राम सचिवो मन्त्रिसत्तमः
४.००६.००१ हनुमान् यन्निमित्तं त्वं निर्जनं वनमागतः
४.००६.००२ लक्ष्मणेन सह भ्रात्रा वसतश्च वने तव
४.००६.००२ रक्षसापहृता भार्या मैथिली जनकात्मजा
४.००६.००३ त्वया वियुक्ता रुदती लक्ष्मणेन च धीमता
४.००६.००३ अन्तरं प्रेप्सुना तेन हत्वा गृध्रं जटायुषम्
४.००६.००४ भार्यावियोगजं दुःखं नचिरात्त्वं विमोक्ष्यसे
४.००६.००४ अहं तामानयिष्यामि नष्टां वेदश्रुतिं यथा
४.००६.००५ रसातले वा वर्तन्तीं वर्तन्तीं वा नभस्तले
४.००६.००५ अहमानीय दास्यामि तव भार्यामरिंदम
४.००६.००६ इदं तथ्यं मम वचस्त्वमवेहि च राघव
४.००६.००६ त्यज शोकं महाबाहो तां कान्तामानयामि ते
४.००६.००७ अनुमानात्तु जानामि मैथिली सा न संशयः
४.००६.००७ ह्रियमाणा मया दृष्टा रक्षसा क्रूरकर्मणा
४.००६.००८ क्रोशन्ती राम रामेति लक्ष्मणेति च विस्वरम्
४.००६.००८ स्फुरन्ती रावणस्याङ्के पन्नगेन्द्रवधूर्यथा
४.००६.००९ आत्मना पञ्चमं मां हि दृष्ट्वा शैलतटे स्थितम्
४.००६.००९ उत्तरीयं तया त्यक्तं शुभान्याभरणानि च
४.००६.०१० तान्यस्माभिर्गृहीतानि निहितानि च राघव
४.००६.०१० आनयिष्याम्यहं तानि प्रत्यभिज्ञातुमर्हसि
४.००६.०११ तमब्रवीत्ततो रामः सुग्रीवं प्रियवादिनम्
४.००६.०११ आनयस्व सखे शीघ्रं किमर्थं प्रविलम्बसे
४.००६.०१२ एवमुक्तस्तु सुग्रीवः शैलस्य गहनां गुहाम्
४.००६.०१२ प्रविवेश ततः शीघ्रं राघवप्रियकाम्यया
४.००६.०१३ उत्तरीयं गृहीत्वा तु शुभान्याभरणानि च
४.००६.०१३ इदं पश्येति रामाय दर्शयामास वानरः
४.००६.०१४ ततो गृहीत्वा तद्वासः शुभान्याभरणानि च
४.००६.०१४ अभवद्बाष्पसंरुद्धो नीहारेणेव चन्द्रमाः
४.००६.०१५ सीतास्नेहप्रवृत्तेन स तु बाष्पेण दूषितः
४.००६.०१५ हा प्रियेति रुदन् धैर्यमुत्सृज्य न्यपतत्क्षितौ
४.००६.०१६ हृदि कृत्वा स बहुशस्तमलंकारमुत्तमम्
४.००६.०१६ निशश्वास भृशं सर्पो बिलस्थ इव रोषितः
४.००६.०१७ अविच्छिन्नाश्रुवेगस्तु सौमित्रिं वीक्ष्य पार्श्वतः
४.००६.०१७ परिदेवयितुं दीनं रामः समुपचक्रमे
४.००६.०१८ पश्य लक्ष्मण वैदेह्या संत्यक्तं ह्रियमाणया
४.००६.०१८ उत्तरीयमिदं भूमौ शरीराद्भूषणानि च
४.००६.०१९ शाद्वलिन्यां ध्रुवं भूम्यां सीतया ह्रियमाणया
४.००६.०१९ उत्सृष्टं भूषणमिदं तथारूपं हि दृश्यते
४.००६.०२० ब्रूहि सुग्रीव कं देशं ह्रियन्ती लक्षिता त्वया
४.००६.०२० रक्षसा रौद्ररूपेण मम प्राणसमा प्रिया
४.००६.०२१ क्व वा वसति तद्रक्षो महद्व्यसनदं मम
४.००६.०२१ यन्निमित्तमहं सर्वान्नाशयिष्यामि राक्षसान्
४.००६.०२२ हरता मैथिलीं येन मां च रोषयता भृशम्
४.००६.०२२ आत्मनो जीवितान्ताय मृत्युद्वारमपावृतम्
४.००६.०२३ मम दयिततमा हृता वनाद्॑ रजनिचरेण विमथ्य येन सा
४.००६.०२३ कथय मम रिपुं तमद्य वै॑ प्रवगपते यमसंनिधिं नयामि
४.००७.००१ एवमुक्तस्तु सुग्रीवो रामेणार्तेन वानरः
४.००७.००१ अब्रवीत्प्राञ्जलिर्वाक्यं सबाष्पं बाष्पगद्गदः
४.००७.००२ न जाने निलयं तस्य सर्वथा पापरक्षसः
४.००७.००२ सामर्थ्यं विक्रमं वापि दौष्कुलेयस्य वा कुलम्
४.००७.००३ सत्यं तु प्रतिजानामि त्यज शोकमरिंदम
४.००७.००३ करिष्यामि तथा यत्नं यथा प्राप्स्यसि मैथिलीम्
४.००७.००४ रावणं सगणं हत्वा परितोष्यात्मपौरुषम्
४.००७.००४ तथास्मि कर्ता नचिराद्यथा प्रीतो भविष्यसि
४.००७.००५ अलं वैक्लव्यमालम्ब्य धैर्यमात्मगतं स्मर
४.००७.००५ त्वद्विधानां न सदृशमीदृशं बुद्धिलाघवम्
४.००७.००६ मयापि व्यसनं प्राप्तं भार्या हरणजं महत्
४.००७.००६ न चाहमेवं शोचामि न च धैर्यं परित्यजे
४.००७.००७ नाहं तामनुशोचामि प्राकृतो वानरोऽपि सन्
४.००७.००७ महात्मा च विनीतश्चा किं पुनर्धृतिमान् भवान्
४.००७.००८ बाष्पमापतितं धैर्यान्निग्रहीतुं त्वमर्हसि
४.००७.००८ मर्यादां सत्त्वयुक्तानां धृतिं नोत्स्रष्टुमर्हसि
४.००७.००९ व्यसने वार्थ कृच्छ्रे वा भये वा जीवितान्तगे
४.००७.००९ विमृशन् वै स्वया बुद्ध्या धृतिमान्नावसीदति
४.००७.०१० बालिशस्तु नरो नित्यं वैक्लव्यं योऽनुवर्तते
४.००७.०१० स मज्जत्यवशः शोके भाराक्रान्तेव नौर्जले
४.००७.०११ एषोऽञ्जलिर्मया बद्धः प्रणयात्त्वां प्रसादये
४.००७.०११ पौरुषं श्रय शोकस्य नान्तरं दातुमर्हसि
४.००७.०१२ ये शोकमनुवर्तन्ते न तेषां विद्यते सुखम्
४.००७.०१२ तेजश्च क्षीयते तेषां न त्वं शोचितुमर्हसि
४.००७.०१३ हितं वयस्य भावेन ब्रूहि नोपदिशामि ते
४.००७.०१३ वयस्यतां पूजयन्मे न त्वं शोचितुमर्हसि
४.००७.०१४ मधुरं सान्त्वितस्तेन सुग्रीवेण स राघवः
४.००७.०१४ मुखमश्रुपरिक्लिन्नं वस्त्रान्तेन प्रमार्जयत्
४.००७.०१५ प्रकृतिष्ठस्तु काकुत्स्थः सुग्रीववचनात्प्रभुः
४.००७.०१५ संपरिष्वज्य सुग्रीवमिदं वचनमब्रवीत्
४.००७.०१६ कर्तव्यं यद्वयस्येन स्निग्धेन च हितेन च
४.००७.०१६ अनुरूपं च युक्तं च कृतं सुग्रीव तत्त्वया
४.००७.०१७ एष च प्रकृतिष्ठोऽहमनुनीतस्त्वया सखे
४.००७.०१७ दुर्लभो हीदृशो बन्धुरस्मिन् काले विशेषतः
४.००७.०१८ किं तु यत्नस्त्वया कार्यो मैथिल्याः परिमार्गणे
४.००७.०१८ राक्षसस्य च रौद्रस्य रावणस्य दुरात्मनः
४.००७.०१९ मया च यदनुष्ठेयं विस्रब्धेन तदुच्यताम्
४.००७.०१९ वर्षास्विव च सुक्षेत्रे सर्वं संपद्यते तव
४.००७.०२० मया च यदिदं वाक्यमभिमानात्समीरितम्
४.००७.०२० तत्त्वया हरिशार्दूल तत्त्वमित्युपधार्यताम्
४.००७.०२१ अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदा चन
४.००७.०२१ एतत्ते प्रतिजानामि सत्येनैव शपामि ते
४.००७.०२२ ततः प्रहृष्टः सुग्रीवो वानरैः सचिवैः सह
४.००७.०२२ राघवस्य वचः श्रुत्वा प्रतिज्ञातं विशेषतः
४.००७.०२३ महानुभावस्य वचो निशम्य॑ हरिर्नराणामृषभस्य तस्य
४.००७.०२३ कृतं स मेने हरिवीर मुख्यस्॑ तदा स्वकार्यं हृदयेन विद्वान्
४.००८.००१ परितुष्टस्तु सुग्रीवस्तेन वाक्येन वानरः
४.००८.००१ लक्ष्मणस्याग्रजं राममिदं वचनमब्रवीत्
४.००८.००२ सर्वथाहमनुग्राह्यो देवतानामसंशयः
४.००८.००२ उपपन्नगुणोपेतः सखा यस्य भवान्मम
४.००८.००३ शक्यं खलु भवेद्राम सहायेन त्वयानघ
४.००८.००३ सुरराज्यमपि प्राप्तुं स्वराज्यं किं पुनः प्रभो
४.००८.००४ सोऽहं सभाज्यो बन्धूनां सुहृदां चैव राघव
४.००८.००४ यस्याग्निसाक्षिकं मित्रं लब्धं राघववंशजम्
४.००८.००५ अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः
४.००८.००५ न तु वक्तुं समर्थोऽहं स्वयमात्मगतान् गुणान्
४.००८.००६ महात्मनां तु भूयिष्ठं त्वद्विधानां कृतात्मनाम्
४.००८.००६ निश्चला भवति प्रीतिर्धैर्यमात्मवतामिव
४.००८.००७ रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वा
४.००८.००७ अविभक्तानि साधूनामवगच्छन्ति साधवः
४.००८.००८ आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा
४.००८.००८ निर्दोषो वा सदोषो वा वयस्यः परमा गतिः
४.००८.००९ धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः
४.००८.००९ वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम्
४.००८.०१० तत्तथेत्यब्रवीद्रामः सुग्रीवं प्रियवादिनम्
४.००८.०१० लक्ष्मणस्याग्रतो लक्ष्म्या वासवस्येव धीमतः
४.००८.०११ ततो रामं स्थितं दृष्ट्वा लक्ष्मणं च महाबलम्
४.००८.०११ सुग्रीवः सर्वतश्चक्षुर्वने लोलमपातयत्
४.००८.०१२ स ददर्श ततः सालमविदूरे हरीश्वरः
४.००८.०१२ सुपुष्पमीषत्पत्राढ्यं भ्रमरैरुपशोभितम्
४.००८.०१३ तस्यैकां पर्णबहुलां भङ्क्त्वा शाखां सुपुष्पिताम्
४.००८.०१३ सालस्यास्तीर्य सुग्रीवो निषसाद सराघवः
४.००८.०१४ तावासीनौ ततो दृष्ट्वा हनूमानपि लक्ष्मणम्
४.००८.०१४ सालशाखां समुत्पाट्य विनीतमुपवेशयत्
४.००८.०१५ ततः प्रहृष्टः सुग्रीवः श्लक्ष्णं मधुरया गिरा
४.००८.०१५ उवाच प्रणयाद्रामं हर्षव्याकुलिताक्षरम्
४.००८.०१६ अहं विनिकृतो भ्रात्रा चराम्येष भयार्दितः
४.००८.०१६ ऋश्यमूकं गिरिवरं हृतभार्यः सुदुःखितः
४.००८.०१७ सोऽहं त्रस्तो भये मग्नो वसाम्युद्भ्रान्तचेतनः
४.००८.०१७ वालिना निकृतो भ्रात्रा कृतवैरश्च राघव
४.००८.०१८ वालिनो मे भयार्तस्य सर्वलोकाभयंकर
४.००८.०१८ ममापि त्वमनाथस्य प्रसादं कर्तुमर्हसि
४.००८.०१९ एवमुक्तस्तु तेजस्वी धर्मज्ञो धर्मवत्सलः
४.००८.०१९ प्रत्युवाच स काकुत्स्थः सुग्रीवं प्रहसन्निव
४.००८.०२० उपकारफलं मित्रमपकारोऽरिलक्षणम्
४.००८.०२० अद्यैव तं हनिष्यामि तव भार्यापहारिणम्
४.००८.०२१ इमे हि मे महावेगाः पत्रिणस्तिग्मतेजसः
४.००८.०२१ कार्तिकेयवनोद्भूताः शरा हेमविभूषिताः
४.००८.०२२ कङ्कपत्रप्रतिच्छन्ना महेन्द्राशनिसंनिभाः
४.००८.०२२ सुपर्वाणः सुतीक्ष्णाग्रा सरोषा भुजगा इव
४.००८.०२३ भ्रातृसंज्ञममित्रं ते वालिनं कृतकिल्बिषम्
४.००८.०२३ शरैर्विनिहतं पश्य विकीर्णमिव पर्वतम्
४.००८.०२४ राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः
४.००८.०२४ प्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत्
४.००८.०२५ रामशोकाभिभूतोऽहं शोकार्तानां भवान् गतिः
४.००८.०२५ वयस्य इति कृत्वा हि त्वय्यहं परिदेवये
४.००८.०२६ त्वं हि पाणिप्रदानेन वयस्यो सोऽग्निसाक्षिकः
४.००८.०२६ कृतः प्राणैर्बहुमतः सत्येनापि शपाम्यहम्
४.००८.०२७ वयस्य इति कृत्वा च विस्रब्धं प्रवदाम्यहम्
४.००८.०२७ दुःखमन्तर्गतं यन्मे मनो दहति नित्यशः
४.००८.०२८ एतावदुक्त्वा वचनं बाष्पदूषितलोचनः
४.००८.०२८ बाष्पोपहतया वाचा नोच्चैः शक्नोति भाषितुम्
४.००८.०२९ बाष्पवेगं तु सहसा नदीवेगमिवागतम्
४.००८.०२९ धारयामास धैर्येण सुग्रीवो रामसंनिधौ
४.००८.०३० संनिगृह्य तु तं बाष्पं प्रमृज्य नयने शुभे
४.००८.०३० विनिःश्वस्य च तेजस्वी राघवं पुनरब्रवीत्
४.००८.०३१ पुराहं वलिना राम राज्यात्स्वादवरोपितः
४.००८.०३१ परुषाणि च संश्राव्य निर्धूतोऽस्मि बलीयसा
४.००८.०३२ हृता भार्या च मे तेन प्राणेभ्योऽपि गरीयसी
४.००८.०३२ सुहृदश्च मदीया ये संयता बन्धनेषु ते
४.००८.०३३ यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव
४.००८.०३३ बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया
४.००८.०३४ शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव
४.००८.०३४ नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति
४.००८.०३५ केवलं हि सहाया मे हनुमत्प्रमुखास्त्विमे
४.००८.०३५ अतोऽहं धारयाम्यद्य प्राणान् कृच्छ्र गतोऽपि सन्
४.००८.०३६ एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः
४.००८.०३६ सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते
४.००८.०३७ संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते
४.००८.०३७ स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः
४.००८.०३८ तद्विनाशाद्धि मे दुःखं प्रनष्टं स्यादनन्तरम्
४.००८.०३८ सुखं मे जीवितं चैव तद्विनाशनिबन्धनम्
४.००८.०३९ एष मे राम शोकान्तः शोकार्तेन निवेदितः
४.००८.०३९ दुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः
४.००८.०४० श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत्
४.००८.०४० किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः
४.००८.०४१ सुखं हि कारणं श्रुत्वा वैरस्य तव वानर
४.००८.०४१ आनन्तर्यं विधास्यामि संप्रधार्य बलाबलम्
४.००८.०४२ बलवान् हि ममामर्षः श्रुत्वा त्वामवमानितम्
४.००८.०४२ वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः
४.००८.०४३ हृष्टः कथय विस्रब्धो यावदारोप्यते धनुः
४.००८.०४३ सृष्टश्च हि मया बाणो निरस्तश्च रिपुस्तव
४.००८.०४४ एवमुक्तस्तु सुग्रीवः काकुत्स्थेन महात्मना
४.००८.०४४ प्रहर्षमतुलं लेभे चतुर्भिः सह वानरैः
४.००८.०४५ ततः प्रहृष्टवदनः सुग्रीवो लक्ष्मणाग्रजे
४.००८.०४५ वैरस्य कारणं तत्त्वमाख्यातुमुपचक्रमे
४.००९.००१ वाली नाम मम भ्राता ज्येष्ठः शत्रुनिषूदनः
४.००९.००१ पितुर्बहुमतो नित्यं मम चापि तथा पुरा
४.००९.००२ पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः
४.००९.००२ कपीनामीश्वरो राज्ये कृतः परमसंमतः
४.००९.००३ राज्यं प्रशासतस्तस्य पितृपैतामहं महत्
४.००९.००३ अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः
४.००९.००४ मायावी नाम तेजस्वी पूर्वजो दुन्दुभेः सुतः
४.००९.००४ तेन तस्य महद्वैरं स्त्रीकृतं विश्रुतं पुरा
४.००९.००५ स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः
४.००९.००५ नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे
४.००९.००६ प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम्
४.००९.००६ श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा
४.००९.००७ स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम्
४.००९.००७ वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना
४.००९.००८ स तु निर्धूय सर्वान्नो निर्जगाम महाबलः
४.००९.००८ ततोऽहमपि सौहार्दान्निःसृतो वालिना सह
४.००९.००९ स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम्
४.००९.००९ असुरो जातसंत्रासः प्रदुद्राव तदा भृशम्
४.००९.०१० तस्मिन् द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ
४.००९.०१० प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा
४.००९.०११ स तृणैरावृतं दुर्गं धरण्या विवरं महत्
४.००९.०११ प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ
४.००९.०१२ तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः
४.००९.०१२ मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः
४.००९.०१३ इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः
४.००९.०१३ यावदत्र प्रविश्याहं निहन्मि समरे रिपुम्
४.००९.०१४ मया त्वेतद्वचः श्रुत्वा याचितः स परंतप
४.००९.०१४ शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा
४.००९.०१५ तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः
४.००९.०१५ स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत
४.००९.०१६ अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसंभ्रमः
४.००९.०१६ भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः
४.००९.०१७ अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम्
४.००९.०१७ सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः
४.००९.०१८ नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः
४.००९.०१८ निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः
४.००९.०१९ अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम्
४.००९.०१९ पिधाय च बिलद्वारं शिलया गिरिमात्रया
४.००९.०१९ शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे
४.००९.०२० गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम्
४.००९.०२० ततोऽहं तैः समागम्य समेतैरभिषेचितः
४.००९.०२१ राज्यं प्रशासतस्तस्य न्यायतो मम राघव
४.००९.०२१ आजगाम रिपुं हत्वा वाली तमसुरोत्तमम्
४.००९.०२२ अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः
४.००९.०२२ मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत्
४.००९.०२३ निग्रहेऽपि समर्थस्य तं पापं प्रति राघव
४.००९.०२३ न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता
४.००९.०२४ मानयंस्तं महात्मानं यथावच्चाभ्यवादयम्
४.००९.०२४ उक्ताश्च नाशिषस्तेन संतुष्टेनान्तरात्मना
४.०१०.००१ ततः क्रोधसमाविष्टं संरब्धं तमुपागतम्
४.०१०.००१ अहं प्रसादयां चक्रे भ्रातरं प्रियकाम्यया
४.०१०.००२ दिष्ट्यासि कुशली प्राप्तो निहतश्च त्वया रिपुः
४.०१०.००२ अनाथस्य हि मे नाथस्त्वमेकोऽनाथनन्दनः
४.०१०.००३ इदं बहुशलाकं ते पूर्णचन्द्रमिवोदितम्
४.०१०.००३ छत्रं सवालव्यजनं प्रतीच्छस्व मयोद्यतम्
४.०१०.००४ त्वमेव राजा मानार्हः सदा चाहं यथापुरा
४.०१०.००४ न्यासभूतमिदं राज्यं तव निर्यातयाम्यहम्
४.०१०.००५ मा च रोषं कृथाः सौम्य मयि शत्रुनिबर्हण
४.०१०.००५ याचे त्वां शिरसा राजन्मया बद्धोऽयमञ्जलिः
४.०१०.००६ बलादस्मि समागम्य मन्त्रिभिः पुरवासिभिः
४.०१०.००६ राजभावे नियुक्तोऽहं शून्यदेशजिगीषया
४.०१०.००७ स्निग्धमेवं ब्रुवाणं मां स तु निर्भर्त्स्य वानरः
४.०१०.००७ धिक्त्वामिति च मामुक्त्वा बहु तत्तदुवाच ह
४.०१०.००८ प्रकृतीश्च समानीय मन्त्रिणश्चैव संमतान्
४.०१०.००८ मामाह सुहृदां मध्ये वाक्यं परमगर्हितम्
४.०१०.००९ विदितं वो यथा रात्रौ मायावी स महासुरः
४.०१०.००९ मां समाह्वयत क्रूरो युद्धाकाङ्क्षी सुदुर्मतिः
४.०१०.०१० तस्य तद्गर्जितं श्रुत्वा निःसृतोऽहं नृपालयात्
४.०१०.०१० अनुयातश्च मां तूर्णमयं भ्राता सुदारुणः
४.०१०.०११ स तु दृष्ट्वैव मां रात्रौ सद्वितीयं महाबलः
४.०१०.०११ प्राद्रवद्भयसंत्रस्तो वीक्ष्यावां तमनुद्रुतौ
४.०१०.०११ अनुद्रुतस्तु वेगेन प्रविवेश महाबिलम्
४.०१०.०१२ तं प्रविष्टं विदित्वा तु सुघोरं सुमहद्बिलम्
४.०१०.०१२ अयमुक्तोऽथ मे भ्राता मया तु क्रूरदर्शनः
४.०१०.०१३ अहत्वा नास्ति मे शक्तिः प्रतिगन्तुमितः पुरीम्
४.०१०.०१३ बिलद्वारि प्रतीक्ष त्वं यावदेनं निहन्म्यहम्
४.०१०.०१४ स्थितोऽयमिति मत्वा तु प्रविष्टोऽहं दुरासदम्
४.०१०.०१४ तं च मे मार्गमाणस्य गतः संवत्सरस्तदा
४.०१०.०१५ स तु दृष्टो मया शत्रुरनिर्वेदाद्भयावहः
४.०१०.०१५ निहतश्च मया तत्र सोऽसुरो बन्धुभिः सह
४.०१०.०१६ तस्यास्यात्तु प्रवृत्तेन रुधिरौघेण तद्बिलम्
४.०१०.०१६ पूर्णमासीद्दुराक्रामं स्तनतस्तस्य भूतले
४.०१०.०१७ सूदयित्वा तु तं शत्रुं विक्रान्तं दुन्दुभेः सुतम्
४.०१०.०१७ निष्क्रामन्नेव पश्यामि बिलस्य पिहितं मुखम्
४.०१०.०१८ विक्रोशमानस्य तु मे सुग्रीवेति पुनः पुनः
४.०१०.०१८ यदा प्रतिवचो नास्ति ततोऽहं भृशदुःखितः
४.०१०.०१९ पादप्रहारैस्तु मया बहुशस्तद्विदारितम्
४.०१०.०१९ ततोऽहं तेन निष्क्रम्य यथा पुनरुपागतः
४.०१०.०२० तत्रानेनास्मि संरुद्धो राज्यं मार्गयतात्मनः
४.०१०.०२० सुग्रीवेण नृशंसेन विस्मृत्य भ्रातृसौहृदम्
४.०१०.०२१ एवमुक्त्वा तु मां तत्र वस्त्रेणैकेन वानरः
४.०१०.०२१ तदा निर्वासयामास वाली विगतसाध्वसः
४.०१०.०२२ तेनाहमपविद्धश्च हृतदारश्च राघव
४.०१०.०२२ तद्भयाच्च महीकृत्स्ना क्रान्तेयं सवनार्णवा
४.०१०.०२३ ऋश्यमूकं गिरिवरं भार्याहरणदुःखितः
४.०१०.०२३ प्रविष्टोऽस्मि दुराधर्षं वालिनः कारणान्तरे
४.०१०.०२४ एतत्ते सर्वमाख्यातं वैरानुकथनं महत्
४.०१०.०२४ अनागसा मया प्राप्तं व्यसनं पश्य राघव
४.०१०.०२५ वालिनस्तु भयार्तस्य सर्वलोकाभयंकर
४.०१०.०२५ कर्तुमर्हसि मे वीर प्रसादं तस्य निग्रहात्
४.०१०.०२६ एवमुक्तः स तेजस्वी धर्मज्ञो धर्मसंहितम्
४.०१०.०२६ वचनं वक्तुमारेभे सुग्रीवं प्रहसन्निव
४.०१०.०२७ अमोघाः सूर्यसंकाशा ममेमे निशिताः शराः
४.०१०.०२७ तस्मिन् वालिनि दुर्वृत्ते पतिष्यन्ति रुषान्विताः
४.०१०.०२८ यावत्तं न हि पश्येयं तव भार्यापहारिणम्
४.०१०.०२८ तावत्स जीवेत्पापात्मा वाली चारित्रदूषकः
४.०१०.०२९ आत्मानुमानात्पश्यामि मग्नं त्वां शोकसागरे
४.०१०.०२९ त्वामहं तारयिष्यामि कामं प्राप्स्यसि पुष्कलम्
४.०११.००१ रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्
४.०११.००१ सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च
४.०११.००२ असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः
४.०११.००२ त्वं दहेः कुपितो लोकान् युगान्त इव भास्करः
४.०११.००३ वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या
४.०११.००३ तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्
४.०११.००४ समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्
४.०११.००४ क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः
४.०११.००५ अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि
४.०११.००५ ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्
४.०११.००६ बहवः सारवन्तश्च वनेषु विविधा द्रुमाः
४.०११.००६ वालिना तरसा भग्ना बलं प्रथयतात्मनः
४.०११.००७ महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः
४.०११.००७ बलं नागसहस्रस्य धारयामास वीर्यवान्
४.०११.००८ वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः
४.०११.००८ जगाम स महाकायः समुद्रं सरितां पतिम्
४.०११.००९ ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम्
४.०११.००९ मम युद्धं प्रयच्छेति तमुवाच महार्णवम्
४.०११.०१० ततः समुद्रो धर्मात्मा समुत्थाय महाबलः
४.०११.०१० अब्रवीद्वचनं राजन्नसुरं कालचोदितम्
४.०११.०११ समर्थो नास्मि ते दातुं युद्धं युद्धविशारद
४.०११.०११ श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति
४.०११.०१२ शैलराजो महारण्ये तपस्विशरणं परम्
४.०११.०१२ शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः
४.०११.०१३ गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः
४.०११.०१३ स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे
४.०११.०१४ तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः
४.०११.०१४ हिमवद्वनमागच्छच्छरश्चापादिव च्युतः
४.०११.०१५ ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः
४.०११.०१५ चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च
४.०११.०१६ ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः
४.०११.०१६ हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः
४.०११.०१७ क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल
४.०११.०१७ रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम्
४.०११.०१८ तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः
४.०११.०१८ उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः
४.०११.०१९ यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः
४.०११.०१९ तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः
४.०११.०२० हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः
४.०११.०२० अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम्
४.०११.०२१ वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः
४.०११.०२१ अध्यास्ते वानरः श्रीमान् किष्किन्धामतुलप्रभाम्
४.०११.०२२ स समर्थो महाप्राज्ञस्तव युद्धविशारदः
४.०११.०२२ द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः
४.०११.०२३ तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि
४.०११.०२३ स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि
४.०११.०२४ श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः
४.०११.०२४ जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा
४.०११.०२५ धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः
४.०११.०२५ प्रावृषीव महामेघस्तोयपूर्णो नभस्तले
४.०११.०२६ ततस्तु द्वारमागम्य किष्किन्धाया महाबलः
४.०११.०२६ ननर्द कम्पयन् भूमिं दुन्दुभिर्दुन्दुभिर्यथा
४.०११.०२७ समीपजान् द्रुमान् भञ्जन् वसुधां दारयन् खुरैः
४.०११.०२७ विषाणेनोल्लेखन् दर्पात्तद्द्वारं द्विरदो यथा
४.०११.०२८ अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः
४.०११.०२८ निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः
४.०११.०२९ मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम्
४.०११.०२९ हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्
४.०११.०३० किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि
४.०११.०३० दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल
४.०११.०३१ तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः
४.०११.०३१ उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः
४.०११.०३२ न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि
४.०११.०३२ मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम्
४.०११.०३३ अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम्
४.०११.०३३ गृह्यतामुदयः स्वैरं कामभोगेषु वानर
४.०११.०३४ यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम्
४.०११.०३४ हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम्
४.०११.०३५ स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम्
४.०११.०३५ विसृज्य ताः स्त्रियः सर्वास्तारा प्रभिऋतिकास्तदा
४.०११.०३६ मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे
४.०११.०३६ मदोऽयं संप्रहारेऽस्मिन् वीरपानं समर्थ्यताम्
४.०११.०३७ तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम्
४.०११.०३७ पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत
४.०११.०३८ विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम्
४.०११.०३८ वाली व्यापातयां चक्रे ननर्द च महास्वनम्
४.०११.०३९ युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा
४.०११.०३९ श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः
४.०११.०३९ पपात च महाकायः क्षितौ पञ्चत्वमागतः
४.०११.०४० तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्
४.०११.०४० चिक्षेप वेगवान् वाली वेगेनैकेन योजनम्
४.०११.०४१ तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः
४.०११.०४१ प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति
४.०११.०४२ तान् दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः
४.०११.०४२ उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति
४.०११.०४२ इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत्
४.०११.०४३ स महर्षिं समासाद्य याचते स्म कृताञ्जलिः
४.०११.०४४ ततः शापभयाद्भीत ऋश्यमूकं महागिरिम्
४.०११.०४४ प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर
४.०११.०४५ तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम्
४.०११.०४५ विचरामि सहामात्यो विषादेन विवर्जितः
४.०११.०४६ एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते
४.०११.०४६ वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान्
४.०११.०४७ इमे च विपुलाः सालाः सप्त शाखावलम्बिनः
४.०११.०४७ यत्रैकं घटते वाली निष्पत्रयितुमोजसा
४.०११.०४८ एतदस्यासमं वीर्यं मया राम प्रकाशितम्
४.०११.०४८ कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप
४.०११.०४९ यदि भिन्द्याद्भवान् सालानिमांस्त्वेकेषुणा ततः
४.०११.०४९ जानीयां त्वां महाबाहो समर्थं वालिनो वधे
४.०११.०५० तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः
४.०११.०५० राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया
४.०११.०५० तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्
४.०११.०५१ क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्
४.०११.०५१ लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत्
४.०११.०५२ आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे
४.०११.०५२ लघुः संप्रति निर्मांसस्तृणभूतश्च राघव
४.०११.०५२ नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम्
४.०१२.००१ एतच्च वचनं श्रुत्वा सुग्रीवेण सुभाषितम्
४.०१२.००१ प्रत्ययार्थं महातेजा रामो जग्राह कार्मुकम्
४.०१२.००२ स गृहीत्वा धनुर्घोरं शरमेकं च मानदः
४.०१२.००२ सालानुद्दिश्य चिक्षेप ज्यास्वनैः पूरयन् दिशः
४.०१२.००३ स विसृष्टो बलवता बाणः स्वर्णपरिष्कृतः
४.०१२.००३ भित्त्वा सालान् गिरिप्रस्थे सप्त भूमिं विवेश ह
४.०१२.००४ प्रविष्टस्तु मुहूर्तेन रसां भित्त्वा महाजवः
४.०१२.००४ निष्पत्य च पुनस्तूर्णं स्वतूणीं प्रविवेश ह
४.०१२.००५ तान् दृष्ट्वा सप्त निर्भिन्नान् सालान् वानरपुंगवः
४.०१२.००५ रामस्य शरवेगेन विस्मयं परमं गतः
४.०१२.००६ स मूर्ध्ना न्यपतद्भूमौ प्रलम्बीकृतभूषणः
४.०१२.००६ सुग्रीवः परमप्रीतो राघवाय कृताञ्जलिः
४.०१२.००७ इदं चोवाच धर्मज्ञं कर्मणा तेन हर्षितः
४.०१२.००७ रामं सर्वास्त्रविदुषां श्रेष्ठं शूरमवस्थितम्
४.०१२.००८ सेन्द्रानपि सुरान् सर्वांस्त्वं बाणैः पुरुषर्षभ
४.०१२.००८ समर्थः समरे हन्तुं किं पुनर्वालिनं प्रभो
४.०१२.००९ येन सप्त महासाला गिरिर्भूमिश्च दारिताः
४.०१२.००९ बाणेनैकेन काकुत्स्थ स्थाता ते को रणाग्रतः
४.०१२.०१० अद्य मे विगतः शोकः प्रीतिरद्य परा मम
४.०१२.०१० सुहृदं त्वां समासाद्य महेन्द्रवरुणोपमम्
४.०१२.०११ तमद्यैव प्रियार्थं मे वैरिणं भ्रातृरूपिणम्
४.०१२.०११ वालिनं जहि काकुत्स्थ मया बद्धोऽयमञ्जलिः
४.०१२.०१२ ततो रामः परिष्वज्य सुग्रीवं प्रियदर्शनम्
४.०१२.०१२ प्रत्युवाच महाप्राज्ञो लक्ष्मणानुमतं वचः
४.०१२.०१३ अस्माद्गच्छाम किष्किन्धां क्षिप्रं गच्छ त्वमग्रतः
४.०१२.०१३ गत्वा चाह्वय सुग्रीव वालिनं भ्रातृगन्धिनम्
४.०१२.०१४ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिनः पुरीम्
४.०१२.०१४ वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने
४.०१२.०१५ सुग्रीवो व्यनदद्घोरं वालिनो ह्वानकारणात्
४.०१२.०१५ गाढं परिहितो वेगान्नादैर्भिन्दन्निवाम्बरम्
४.०१२.०१६ तं श्रुत्वा निनदं भ्रातुः क्रुद्धो वाली महाबलः
४.०१२.०१६ निष्पपात सुसंरब्धो भास्करोऽस्ततटादिव
४.०१२.०१७ ततः सुतुमुलं युद्धं वालिसुग्रीवयोरभूत्
४.०१२.०१७ गगने ग्रहयोर्घोरं बुधाङ्गारकयोरिव
४.०१२.०१८ तलैरशनिकल्पैश्च वज्रकल्पैश्च मुष्टिभिः
४.०१२.०१८ जघ्नतुः समरेऽन्योन्यं भ्रातरौ क्रोधमूर्छितौ
४.०१२.०१९ ततो रामो धनुष्पाणिस्तावुभौ समुदीक्ष्य तु
४.०१२.०१९ अन्योन्यसदृशौ वीरावुभौ देवाविवाश्विनौ
४.०१२.०२० यन्नावगच्छत्सुग्रीवं वालिनं वापि राघवः
४.०१२.०२० ततो न कृतवान् बुद्धिं मोक्तुमन्तकरं शरम्
४.०१२.०२१ एतस्मिन्नन्तरे भग्नः सुग्रीवस्तेन वालिना
४.०१२.०२१ अपश्यन् राघवं नाथमृश्यमूकं प्रदुद्रुवे
४.०१२.०२२ क्लान्तो रुधिरसिक्ताङ्गः प्रहारैर्जर्जरीकृतः
४.०१२.०२२ वालिनाभिद्रुतः क्रोधात्प्रविवेश महावनम्
४.०१२.०२३ तं प्रविष्टं वनं दृष्ट्वा वाली शापभयात्ततः
४.०१२.०२३ मुक्तो ह्यसि त्वमित्युक्त्वा स निवृत्तो महाबलः
४.०१२.०२४ राघवोऽपि सह भ्रात्रा सह चैव हनूमता
४.०१२.०२४ तदेव वनमागच्छत्सुग्रीवो यत्र वानरः
४.०१२.०२५ तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम्
४.०१२.०२५ ह्रीमान् दीनमुवाचेदं वसुधामवलोकयन्
४.०१२.०२६ आह्वयस्वेति मामुक्त्वा दर्शयित्वा च विक्रमम्
४.०१२.०२६ वैरिणा घातयित्वा च किमिदानीं त्वया कृतम्
४.०१२.०२७ तामेव वेलां वक्तव्यं त्वया राघव तत्त्वतः
४.०१२.०२७ वालिनं न निहन्मीति ततो नाहमितो व्रजे
४.०१२.०२८ तस्य चैवं ब्रुवाणस्य सुग्रीवस्य महात्मनः
४.०१२.०२८ करुणं दीनया वाचा राघवः पुनरब्रवीत्
४.०१२.०२९ सुग्रीव श्रूयतां तातः क्रोधश्च व्यपनीयताम्
४.०१२.०२९ कारणं येन बाणोऽयं न मया स विसर्जितः
४.०१२.०३० अलंकारेण वेषेण प्रमाणेन गतेन च
४.०१२.०३० त्वं च सुग्रीव वाली च सदृशौ स्थः परस्परम्
४.०१२.०३१ स्वरेण वर्चसा चैव प्रेक्षितेन च वानर
४.०१२.०३१ विक्रमेण च वाक्यैश्च व्यक्तिं वां नोपलक्षये
४.०१२.०३२ ततोऽहं रूपसादृश्यान्मोहितो वानरोत्तम
४.०१२.०३२ नोत्सृजामि महावेगं शरं शत्रुनिबर्हणम्
४.०१२.०३३ एतन्मुहूर्ते तु मया पश्य वालिनमाहवे
४.०१२.०३३ निरस्तमिषुणैकेन वेष्टमानं महीतले
४.०१२.०३४ अभिज्ञानं कुरुष्व त्वमात्मनो वानरेश्वर
४.०१२.०३४ येन त्वामभिजानीयां द्वन्द्वयुद्धमुपागतम्
४.०१२.०३५ गजपुष्पीमिमां फुल्लामुत्पाट्य शुभलक्षणाम्
४.०१२.०३५ कुरु लक्ष्मण कण्ठेऽस्य सुग्रीवस्य महात्मनः
४.०१२.०३६ ततो गिरितटे जातामुत्पाट्य कुसुमायुताम्
४.०१२.०३६ लक्ष्मणो गजपुष्पीं तां तस्य कण्ठे व्यसर्जयत्
४.०१२.०३७ स तथा शुशुभे श्रीमांल्लतया कण्ठसक्तया
४.०१२.०३७ मालयेव बलाकानां ससंध्य इव तोयदः
४.०१२.०३८ विभ्राजमानो वपुषा रामवाक्यसमाहितः
४.०१२.०३८ जगाम सह रामेण किष्किन्धां वालिपालिताम्
४.०१३.००१ ऋश्यमूकात्स धर्मात्मा किष्किन्धां लक्ष्मणाग्रजः
४.०१३.००१ जगाम सहसुग्रीवो वालिविक्रमपालिताम्
४.०१३.००२ समुद्यम्य महच्चापं रामः काञ्चनभूषितम्
४.०१३.००२ शरांश्चादित्य संकाशान् गृहीत्वा रणसाधकान्
४.०१३.००३ अग्रतस्तु ययौ तस्य राघवस्य महात्मनः
४.०१३.००३ सुग्रीवः संहतग्रीवो लक्ष्मणश्च महाबलः
४.०१३.००४ पृष्ठतो हनुमान् वीरो नलो नीलश्च वानरः
४.०१३.००४ तारश्चैव महातेजा हरियूथप यूथपाः
४.०१३.००५ ते वीक्षमाणा वृक्षांश्च पुष्पभारावलम्बिनः
४.०१३.००५ प्रसन्नाम्बुवहाश्चैव सरितः सागरं गमाः
४.०१३.००६ कन्दराणि च शैलांश्च निर्झराणि गुहास्तथा
४.०१३.००६ शिखराणि च मुख्यानि दरीश्च प्रियदर्शनाः
४.०१
३.००७ वैदूर्यविमलैः पर्णैः पद्मैश्चाकाशकुड्मलैः
४.०१३.००७ शोभितान् सजलान्मार्गे तटाकांश्च व्यलोकयन्
४.०१३.००८ कारण्डैः सारसैर्हंसैर्वञ्जूलैर्जलकुक्कुटैः
४.०१३.००८ चक्रवाकैस्तथा चान्यैः शकुनैः प्रतिनादितान्
४.०१३.००९ मृदुशष्पाङ्कुराहारान्निर्भयान् वनगोचरान्
४.०१३.००९ चरतः सर्वतोऽपश्यन् स्थलीषु हरिणान् स्थितान्
४.०१३.०१० तटाकवैरिणश्चापि शुक्लदन्तविभूषितान्
४.०१३.०१० घोरानेकचरान् वन्यान् द्विरदान् कूलघातिनः
४.०१३.०११ वने वनचरांश्चान्यान् खेचरांश्च विहंगमान्
४.०१३.०११ पश्यन्तस्त्वरिता जग्मुः सुग्रीववशवर्तिनः
४.०१३.०१२ तेषां तु गच्छतां तत्र त्वरितं रघुनन्दनः
४.०१३.०१२ द्रुमषण्डं वनं दृष्ट्वा रामः सुग्रीवमब्रवीत्
४.०१३.०१३ एष मेघ इवाकाशे वृक्षषण्डः प्रकाशते
४.०१३.०१३ मेघसंघातविपुलः पर्यन्तकदलीवृतः
४.०१३.०१४ किमेतज्ज्ञातुमिच्छामि सखे कौतूहलं मम
४.०१३.०१४ कौतूहलापनयनं कर्तुमिच्छाम्यहं त्वया
४.०१३.०१५ तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः
४.०१३.०१५ गच्छन्नेवाचचक्षेऽथ सुग्रीवस्तन्महद्वनम्
४.०१३.०१६ एतद्राघव विस्तीर्णमाश्रमं श्रमनाशनम्
४.०१३.०१६ उद्यानवनसंपन्नं स्वादुमूलफलोदकम्
४.०१३.०१७ अत्र सप्तजना नाम मुनयः संशितव्रताः
४.०१३.०१७ सप्तैवासन्नधःशीर्षा नियतं जलशायिनः
४.०१३.०१८ सप्तरात्रकृताहारा वायुना वनवासिनः
४.०१३.०१८ दिवं वर्षशतैर्याताः सप्तभिः सकलेवराः
४.०१३.०१९ तेषामेवं प्रभावेन द्रुमप्राकारसंवृतम्
४.०१३.०१९ आश्रमं सुदुराधर्षमपि सेन्द्रैः सुरासुरैः
४.०१३.०२० पक्षिणो वर्जयन्त्येतत्तथान्ये वनचारिणः
४.०१३.०२० विशन्ति मोहाद्येऽप्यत्र निवर्तन्ते न ते पुनः
४.०१३.०२१ विभूषणरवाश्चात्र श्रूयन्ते सकलाक्षराः
४.०१३.०२१ तूर्यगीतस्वनाश्चापि गन्धो दिव्यश्च राघव
४.०१३.०२२ त्रेताग्नयोऽपि दीप्यन्ते धूमो ह्येष प्रदृश्यते
४.०१३.०२२ वेष्टयन्निव वृक्षाग्रान् कपोताङ्गारुणो घनः
४.०१३.०२३ कुरु प्रणामं धर्मात्मंस्तान् समुद्दिश्य राघवः
४.०१३.०२३ लक्ष्मणेन सह भ्रात्रा प्रयतः संयताञ्जलिः
४.०१३.०२४ प्रणमन्ति हि ये तेषामृषीणां भावितात्मनाम्
४.०१३.०२४ न तेषामशुभं किं चिच्छरीरे राम दृश्यते
४.०१३.०२५ ततो रामः सह भ्रात्रा लक्ष्मणेन कृताञ्जलिः
४.०१३.०२५ समुद्दिश्य महात्मानस्तानृषीनभ्यवादयत्
४.०१३.०२६ अभिवाद्य च धर्मात्मा रामो भ्राता च लक्ष्मणः
४.०१३.०२६ सुग्रीवो वानराश्चैव जग्मुः संहृष्टमानसाः
४.०१३.०२७ ते गत्वा दूरमध्वानं तस्मात्सप्तजनाश्रमात्
४.०१३.०२७ ददृशुस्तां दुराधर्षां किष्किन्धां वालिपालिताम्
४.०१४.००१ सर्वे ते त्वरितं गत्वा किष्किन्धां वालिपालिताम्
४.०१४.००१ वृक्षैरात्मानमावृत्य व्यतिष्ठन् गहने वने
४.०१४.००२ विचार्य सर्वतो दृष्टिं कानने काननप्रियः
४.०१४.००२ सुग्रीवो विपुलग्रीवः क्रोधमाहारयद्भृशम्
४.०१४.००३ ततः स निनदं घोरं कृत्वा युद्धाय चाह्वयत्
४.०१४.००३ परिवारैः परिवृतो नादैर्भिन्दन्निवाम्बरम्
४.०१४.००४ अथ बालार्कसदृशो दृप्तसिंहगतिस्तदा
४.०१४.००४ दृष्ट्वा रामं क्रियादक्षं सुग्रीवो वाक्यमब्रवीत्
४.०१४.००५ हरिवागुरया व्याप्तं तप्तकाञ्चनतोरणाम्
४.०१४.००५ प्राप्ताः स्म ध्वजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम्
४.०१४.००६ प्रतिज्ञा या त्वया वीर कृता वालिवधे पुरा
४.०१४.००६ सफलां तां कुरु क्षिप्रं लतां काल इवागतः
४.०१४.००७ एवमुक्तस्तु धर्मात्मा सुग्रीवेण स राघवः
४.०१४.००७ तमथोवाच सुग्रीवं वचनं शत्रुसूदनः
४.०१४.००८ कृताभिज्ञान चिह्नस्त्वमनया गजसाह्वया
४.०१४.००८ विपरीत इवाकाशे सूर्यो नक्षत्र मालया
४.०१४.००९ अद्य वालिसमुत्थं ते भयं वैरं च वानर
४.०१४.००९ एकेनाहं प्रमोक्ष्यामि बाणमोक्षेण संयुगे
४.०१४.०१० मम दर्शय सुग्रीववैरिणं भ्रातृरूपिणम्
४.०१४.०१० वाली विनिहतो यावद्वने पांसुषु वेष्टते
४.०१४.०११ यदि दृष्टिपथं प्राप्तो जीवन् स विनिवर्तते
४.०१४.०११ ततो दोषेण मा गच्छेत्सद्यो गर्हेच्च मा भवान्
४.०१४.०१२ प्रत्यक्षं सप्त ते साला मया बाणेन दारिताः
४.०१४.०१२ ततो वेत्सि बलेनाद्य बालिनं निहतं मया
४.०१४.०१३ अनृतं नोक्तपूर्वं मे वीर कृच्छ्रेऽपि तिष्ठता
४.०१४.०१३ धर्मलोभपरीतेन न च वक्ष्ये कथं चन
४.०१४.०१४ सफलां च करिष्यामि प्रतिज्ञां जहि संभ्रमम्
४.०१४.०१४ प्रसूतं कलमं क्षेत्रे वर्षेणेव शतक्रतुः
४.०१४.०१५ तदाह्वाननिमित्तं त्वं वालिनो हेममालिनः
४.०१४.०१५ सुग्रीव कुरु तं शब्दं निष्पतेद्येन वानरः
४.०१४.०१६ जितकाशी जयश्लाघी त्वया चाधर्षितः पुरात्
४.०१४.०१६ निष्पतिष्यत्यसंगेन वाली स प्रियसंयुगः
४.०१४.०१७ रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे
४.०१४.०१७ जानन्तस्तु स्वकं वीर्यं स्त्रीसमक्षं विशेषतः
४.०१४.०१८ स तु रामवचः श्रुत्वा सुग्रीवो हेमपिङ्गलः
४.०१४.०१८ ननर्द क्रूरनादेन विनिर्भिन्दन्निवाम्बरम्
४.०१४.०१९ तस्य शब्देन वित्रस्ता गावो यान्ति हतप्रभाः
४.०१४.०१९ राजदोषपरामृष्टाः कुलस्त्रिय इवाकुलाः
४.०१४.०२० द्रवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः
४.०१४.०२० पतन्ति च खगा भूमौ क्षीणपुण्या इव ग्रहाः
४.०१४.०२१ ततः स जीमूतगणप्रणादो॑ नादं व्यमुञ्चत्त्वरया प्रतीतः
४.०१४.०२१ सूर्यात्मजः शौर्यविवृद्धतेजाः॑ सरित्पतिर्वानिलचञ्चलोर्मिः
४.०१५.००१ अथ तस्य निनादं तं सुग्रीवस्य महात्मनः
४.०१५.००१ शुश्रावान्तःपुरगतो वाली भ्रातुरमर्षणः
४.०१५.००२ श्रुत्वा तु तस्य निनदं सर्वभूतप्रकम्पनम्
४.०१५.००२ मदश्चैकपदे नष्टः क्रोधश्चापतितो महान्
४.०१५.००३ स तु रोषपरीताङ्गो वाली संध्यातपप्रभः
४.०१५.००३ उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः
४.०१५.००४ वाली दंष्ट्रा करालस्तु क्रोधाद्दीप्ताग्निसंनिभः
४.०१५.००४ भात्युत्पतितपद्माभः समृणाल इव ह्रदः
४.०१५.००५ शब्दं दुर्मर्षणं श्रुत्वा निष्पपात ततो हरिः
४.०१५.००५ वेगेन चरणन्यासैर्दारयन्निव मेदिनीम्
४.०१५.००६ तं तु तारा परिष्वज्य स्नेहाद्दर्शितसौहृदा
४.०१५.००६ उवाच त्रस्तसंभ्रान्ता हितोदर्कमिदं वचः
४.०१५.००७ साधु क्रोधमिमं वीर नदी वेगमिवागतम्
४.०१५.००७ शयनादुत्थितः काल्यं त्यज भुक्तामिव स्रजम्
४.०१५.००८ सहसा तव निष्क्रामो मम तावन्न रोचते
४.०१५.००८ श्रूयतामभिधास्यामि यन्निमित्तं निवार्यसे
४.०१५.००९ पूर्वमापतितः क्रोधात्स त्वामाह्वयते युधि
४.०१५.००९ निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः
४.०१५.०१० त्वया तस्य निरस्तस्य पीडितस्य विशेषतः
४.०१५.०१० इहैत्य पुनराह्वानं शङ्कां जनयतीव मे
४.०१५.०११ दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः
४.०१५.०११ निनादस्य च संरम्भो नैतदल्पं हि कारणम्
४.०१५.०१२ नासहायमहं मन्ये सुग्रीवं तमिहागतम्
४.०१५.०१२ अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति
४.०१५.०१३ प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः
४.०१५.०१३ अपरीक्षितवीर्येण सुग्रीवः सह नैष्यति
४.०१५.०१४ पूर्वमेव मया वीर श्रुतं कथयतो वचः
४.०१५.०१४ अङ्गदस्य कुमारस्य वक्ष्यामि त्वा हितं वचः
४.०१५.०१५ तव भ्रातुर्हि विख्यातः सहायो रणकर्कशः
४.०१५.०१५ रामः परबलामर्दी युगान्ताग्निरिवोत्थितः
४.०१५.०१६ निवासवृक्षः साधूनामापन्नानां परा गतिः
४.०१५.०१६ आर्तानां संश्रयश्चैव यशसश्चैकभाजनम्
४.०१५.०१७ ज्ञानविज्ञानसंपन्नो निदेशो निरतः पितुः
४.०१५.०१७ धातूनामिव शैलेन्द्रो गुणानामाकरो महान्
४.०१५.०१८ तत्क्षमं न विरोधस्ते सह तेन महात्मना
४.०१५.०१८ दुर्जयेनाप्रमेयेन रामेण रणकर्मसु
४.०१५.०१९ शूर वक्ष्यामि ते किं चिन्न चेच्छाम्यभ्यसूयितुम्
४.०१५.०१९ श्रूयतां क्रियतां चैव तव वक्ष्यामि यद्धितम्
४.०१५.०२० यौवराज्येन सुग्रीवं तूर्णं साध्वभिषेचय
४.०१५.०२० विग्रहं मा कृथा वीर भ्रात्रा राजन् बलीयसा
४.०१५.०२१ अहं हि ते क्षमं मन्ये तव रामेण सौहृदम्
४.०१५.०२१ सुग्रीवेण च संप्रीतिं वैरमुत्सृज्य दूरतः
४.०१५.०२२ लालनीयो हि ते भ्राता यवीयानेष वानरः
४.०१५.०२२ तत्र वा सन्निहस्थो वा सर्वथा बन्धुरेव ते
४.०१५.०२३ यदि ते मत्प्रियं कार्यं यदि चावैषि मां हिताम्
४.०१५.०२३ याच्यमानः प्रयत्नेन साधु वाक्यं कुरुष्व मे
४.०१६.००१ तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम्
४.०१६.००१ वाली निर्भर्त्सयामास वचनं चेदमब्रवीत्
४.०१६.००२ गर्जतोऽस्य च संरम्भं भ्रातुः शत्रोर्विशेषतः
४.०१६.००२ मर्षयिष्याम्यहं केन कारणेन वरानने
४.०१६.००३ अधर्षितानां शूराणां समरेष्वनिवर्तिनाम्
४.०१६.००३ धर्षणामर्षणं भीरु मरणादतिरिच्यते
४.०१६.००४ सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे
४.०१६.००४ सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः
४.०१६.००५ न च कार्यो विषादस्ते राघवं प्रति मत्कृते
४.०१६.००५ धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति
४.०१६.००६ निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि
४.०१६.००६ सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया
४.०१६.००७ प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि संभ्रमम्
४.०१६.००७ दर्पं चास्य विनेष्यामि न च प्राणैर्विमोक्ष्यते
४.०१६.००८ शापितासि मम प्राणैर्निवर्तस्व जयेन च
४.०१६.००८ अहं जित्वा निवर्तिष्ये तमलं भ्रातरं रणे
४.०१६.००९ तं तु तारा परिष्वज्य वालिनं प्रियवादिनी
४.०१६.००९ चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम्
४.०१६.०१० ततः स्वस्त्ययनं कृत्वा मन्त्रवद्विजयैषिणी
४.०१६.०१० अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता
४.०१६.०११ प्रविष्टायां तु तारायां सह स्त्रीभिः स्वमालयम्
४.०१६.०११ नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन्
४.०१६.०१२ स निःश्वस्य महावेगो वाली परमरोषणः
४.०१६.०१२ सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया
४.०१६.०१३ स ददर्श ततः श्रीमान् सुग्रीवं हेमपिङ्गलम्
४.०१६.०१३ सुसंवीतमवष्टब्धं दीप्यमानमिवानलम्
४.०१६.०१४ स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम्
४.०१६.०१४ गाढं परिदधे वासो वाली परमरोषणः
४.०१६.०१५ स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान्
४.०१६.०१५ सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः
४.०१६.०१६ श्लिष्टमुष्टिं समुद्यम्य संरब्धतरमागतः
४.०१६.०१६ सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम्
४.०१६.०१७ तं वाली क्रोधताम्राक्षः सुग्रीवं रणपण्डितम्
४.०१६.०१७ आपतन्तं महावेगमिदं वचनमब्रवीत्
४.०१६.०१८ एष मुष्टिर्मया बद्धो गाढः सुनिहिताङ्गुलिः
४.०१६.०१८ मया वेगविमुक्तस्ते प्राणानादाय यास्यति
४.०१६.०१९ एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत्
४.०१६.०१९ तवैव च हरन् प्राणान्मुष्टिः पततु मूर्धनि
४.०१६.०२० ताडितस्तेन संक्रुद्धः समभिक्रम्य वेगतः
४.०१६.०२० अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः
४.०१६.०२१ सुग्रीवेण तु निःसंगं सालमुत्पाट्य तेजसा
४.०१६.०२१ गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः
४.०१६.०२२ स तु वाली प्रचरितः सालताडनविह्वलः
४.०१६.०२२ गुरुभारसमाक्रान्ता सागरे नौरिवाभवत्
४.०१६.०२३ तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ
४.०१६.०२३ प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे
४.०१६.०२४ वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः
४.०१६.०२४ वालिनं प्रति सामर्षो दर्शयामास लाघवम्
४.०१६.०२५ ततो धनुषि संधाय शरमाशीविषोपमम्
४.०१६.०२५ राघवेण महाबाणो वालिवक्षसि पातितः
४.०१६.०२६ वेगेनाभिहतो वाली निपपात महीतले
४.०१६.०२७ अथोक्षितः शोणिततोयविस्रवैः ॑ सुपुष्पिताशोक इवानिलोद्धतः
४.०१६.०२७ विचेतनो वासवसूनुराहवे॑ प्रभ्रंशितेन्द्रध्वजवत्क्षितिं गतः
४.०१७.००१ ततः शरेणाभिहतो रामेण रणकर्कशः
४.०१७.००१ पपात सहसा वाली निकृत्त इव पादपः
४.०१७.००२ स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः
४.०१७.००२ अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः
४.०१७.००३ तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरे
४.०१७.००३ नष्टचन्द्रमिव व्योम न व्यराजत भूतलम्
४.०१७.००४ भूमौ निपतितस्यापि तस्य देहं महात्मनः
४.०१७.००४ न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः
४.०१७.००५ शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता
४.०१७.००५ दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा
४.०१७.००६ स तया मालया वीरो हैमया हरियूथपः
४.०१७.००६ संध्यानुगतपर्यन्तः पयोधर इवाभवत्
४.०१७.००७ तस्य माला च देहश्च मर्मघाती च यः शरः
४.०१७.००७ त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते
४.०१७.००८ तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्
४.०१७.००८ रामबाणासनक्षिप्तमावहत्परमां गतिम्
४.०१७.००९ तं तथा पतितं संख्ये गतार्चिषमिवानलम्
४.०१७.००९ ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्
४.०१७.०१० आदित्यमिव कालेन युगान्ते भुवि पातितम्
४.०१७.०१० महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम्
४.०१७.०११ महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्
४.०१७.०११ सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्
४.०१७.०११ लक्ष्मणानुगतो रामो ददर्शोपससर्प च
४.०१७.०१२ स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्
४.०१७.०१२ अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम्
४.०१७.०१३ पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः
४.०१७.०१३ यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः
४.०१७.०१४ कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः
४.०१७.०१४ रामः करुणवेदी च प्रजानां च हिते रतः
४.०१७.०१५ सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः
४.०१७.०१५ इति ते सर्वभूतानि कथयन्ति यशो भुवि
४.०१७.०१६ तान् गुणान् संप्रधार्याहमग्र्यं चाभिजनं तव
४.०१७.०१६ तारया प्रतिषिद्धः सन् सुग्रीवेण समागतः
४.०१७.०१७ न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि
४.०१७.०१७ इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव
४.०१७.०१८ न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्
४.०१७.०१८ जाने पापसमाचारं तृणैः कूपमिवावृतम्
४.०१७.०१९ सतां वेषधरं पापं प्रच्छन्नमिव पावकम्
४.०१७.०१९ नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम्
४.०१७.०२० विषये वा पुरे वा ते यदा नापकरोम्यहम्
४.०१७.०२० न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम्
४.०१७.०२१ फलमूलाशनं नित्यं वानरं वनगोचरम्
४.०१७.०२१ मामिहाप्रतियुध्यन्तमन्येन च समागतम्
४.०१७.०२२ त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः
४.०१७.०२२ लिङ्गमप्यस्ति ते राजन् दृश्यते धर्मसंहितम्
४.०१७.०२३ कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः
४.०१७.०२३ धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत्
४.०१७.०२४ राम राजकुले जातो धर्मवानिति विश्रुतः
४.०१७.०२४ अभव्यो भव्यरूपेण किमर्थं परिधावसि
४.०१७.०२५ साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ
४.०१७.०२५ पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु
४.०१७.०२६ वयं वनचरा राम मृगा मूलफलाशनाः
४.०१७.०२६ एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः
४.०१७.०२७ भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च
४.०१७.०२७ तत्र कस्ते वने लोभो मदीयेषु फलेषु वा
४.०१७.०२८ नयश्च विनयश्चोभौ निग्रहानुग्रहावपि
४.०१७.०२८ राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः
४.०१७.०२९ त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः
४.०१७.०२९ राजवृत्तैश्च संकीर्णः शरासनपरायणः
४.०१७.०३० न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता
४.०१७.०३० इन्द्रियैः कामवृत्तः सन् कृष्यसे मनुजेश्वर
४.०१७.०३१ हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्
४.०१७.०३१ किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्
४.०१७.०३२ राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः
४.०१७.०३२ नास्तिकः परिवेत्ता च सर्वे निरयगामिनः
४.०१७.०३३ अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्
४.०१७.०३३ अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः
४.०१७.०३४ पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव
४.०१७.०३४ शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः
४.०१७.०३५ चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः
४.०१७.०३५ अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः
४.०१७.०३६ त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा
४.०१७.०३६ प्रमदा शीलसंपन्ना धूर्तेन पतिता यथा
४.०१७.०३७ शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः
४.०१७.०३७ कथं दशरथेन त्वं जातः पापो महात्मना
४.०१७.०३८ छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना
४.०१७.०३८ त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना
४.०१७.०३९ दृश्यमानस्तु युध्येथा मया युधि नृपात्मज
४.०१७.०३९ अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया
४.०१७.०४० त्वयादृश्येन तु रणे निहतोऽहं दुरासदः
४.०१७.०४० प्रसुप्तः पन्नगेनेव नरः पानवशं गतः
४.०१७.०४१ सुग्रीवप्रियकामेन यदहं निहतस्त्वया
४.०१७.०४१ कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे
४.०१७.०४२ न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्
४.०१७.०४२ जानयेयं तवादेशाच्छ्वेतामश्वतरीमिव
४.०१७.०४३ युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि
४.०१७.०४३ अयुक्तं यदधर्मेण त्वयाहं निहतो रणे
४.०१७.०४४ काममेवंविधं लोकः कालेन विनियुज्यते
४.०१७.०४४ क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्
४.०१७.०४५ इत्येवमुक्त्वा परिशुष्कवक्त्रः॑ शराभिघाताद्व्यथितो महात्मा
४.०१७.०४५ समीक्ष्य रामं रविसंनिकाशं॑ तूष्णीं बभूवामरराजसूनुः
४.०१८.००१ इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्
४.०१८.००१ परुषं वालिना रामो निहतेन विचेतसा
४.०१८.००२ तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्
४.०१८.००२ उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्
४.०१८.००३ धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम्
४.०१८.००३ अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्
४.०१८.००४ धर्ममर्थं च कामं च समयं चापि लौकिकम्
४.०१८.००४ अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे
४.०१८.००५ अपृष्ट्वा बुद्धिसंपन्नान् वृद्धानाचार्यसंमतान्
४.०१८.००५ सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि
४.०१८.००६ इक्ष्वाकूणामियं भूमिः सशैलवनकानना
४.०१८.००६ मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि
४.०१८.००७ तां पालयति धर्मात्मा भरतः सत्यवागृजुः
४.०१८.००७ धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः
४.०१८.००८ नयश्च विनयश्चोभौ यस्मिन् सत्यं च सुस्थितम्
४.०१८.००८ विक्रमश्च यथा दृष्टः स राजा देशकालवित्
४.०१८.००९ तस्य धर्मकृतादेशा वयमन्ये च पार्थिवः
४.०१८.००९ चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः
४.०१८.०१० तस्मिन्नृपतिशार्दूल भरते धर्मवत्सले
४.०१८.०१० पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम्
४.०१८.०११ ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः
४.०१८.०११ भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि
४.०१८.०१२ त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः
४.०१८.०१२ कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि
४.०१८.०१३ ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति
४.०१८.०१३ त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः
४.०१८.०१४ यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः
४.०१८.०१४ पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम्
४.०१८.०१५ सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम
४.०१८.०१५ हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्
४.०१८.०१६ चपलश्चपलैः सार्धं वानरैरकृतात्मभिः
४.०१८.०१६ जात्यन्ध इव जात्यन्धैर्मन्त्रयन् द्रक्ष्यसे नु किम्
४.०१८.०१७ अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते
४.०१८.०१७ न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि
४.०१८.०१८ तदेतत्कारणं पश्य यदर्थं त्वं मया हतः
४.०१८.०१८ भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्
४.०१८.०१९ अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः
४.०१८.०१९ रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत्
४.०१८.०२० तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर
४.०१८.०२० भ्रातृभार्याभिमर्शेऽस्मिन् दण्डोऽयं प्रतिपादितः
४.०१८.०२१ न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः
४.०१८.०२१ दण्डादन्यत्र पश्यामि निग्रहं हरियूथप
४.०१८.०२२ औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः
४.०१८.०२२ प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः
४.०१८.०२३ भरतस्तु महीपालो वयं त्वादेशवर्तिनः
४.०१८.०२३ त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्
४.०१८.०२४ गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्
४.०१८.०२४ भरतः कामवृत्तानां निग्रहे पर्यवस्थितः
४.०१८.०२५ वयं तु भरतादेशं विधिं कृत्वा हरीश्वर
४.०१८.०२५ त्वद्विधान् भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः
४.०१८.०२६ सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा
४.०१८.०२६ दारराज्यनिमित्तं च निःश्रेयसि रतः स मे
४.०१८.०२७ प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ
४.०१८.०२७ प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्
४.०१८.०२८ तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः
४.०१८.०२८ शासनं तव यद्युक्तं तद्भवाननुमन्यताम्
४.०१८.०२९ सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः
४.०१८.०२९ वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता
४.०१८.०३० राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः
४.०१८.०३० निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा
४.०१८.०३१ आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्
४.०१८.०३१ श्रमणेन कृते पापे यथा पापं कृतं त्वया
४.०१८.०३२ अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः
४.०१८.०३२ प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः
४.०१८.०३३ तदलं परितापेन धर्मतः परिकल्पितः
४.०१८.०३३ वधो वानरशार्दूल न वयं स्ववशे स्थिताः
४.०१८.०३४ वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः
४.०१८.०३४ प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान्
४.०१८.०३४ प्रधावितान् वा वित्रस्तान् विस्रब्धानतिविष्ठितान्
४.०१८.०३५ प्रमत्तानप्रमत्तान् वा नरा मांसार्थिनो भृशम्
४.०१८.०३५ विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते
४.०१८.०३६ यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः
४.०१८.०३६ तस्मात्त्वं निहतो युद्धे मया बाणेन वानर
४.०१८.०३६ अयुध्यन् प्रतियुध्यन् वा यस्माच्छाखामृगो ह्यसि
४.०१८.०३७ दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च
४.०१८.०३७ राजानो वानरश्रेष्ठ प्रदातारो न संशयः
४.०१८.०३८ तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्
४.०१८.०३८ देवा मानुषरूपेण चरन्त्येते महीतले
४.०१८.०३९ त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः
४.०१८.०३९ प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम्
४.०१८.०४० एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्
४.०१८.०४० प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः
४.०१८.०४१ यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः
४.०१८.०४१ प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्
४.०१८.०४२ यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम्
४.०१८.०४२ तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव
४.०१८.०४३ त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः
४.०१८.०४३ कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया
४.०१८.०४४ मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम्
४.०१८.०४४ धर्मसंहितया वाचा धर्मज्ञ परिपालय
४.०१८.०४५ बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः
४.०१८.०४५ उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः
४.०१८.०४६ न त्वात्मानमहं शोचे न तारां नापि बान्धवान्
४.०१८.०४६ यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम्
४.०१८.०४७ स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः
४.०१८.०४७ तटाक इव पीताम्बुरुपशोषं गमिष्यति
४.०१८.०४८ सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्
४.०१८.०४८ त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः
४.०१८.०४९ या ते नरपते वृत्तिर्भरते लक्ष्मणे च या
४.०१८.०४९ सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि
४.०१८.०५० मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्
४.०१८.०५० सुग्रीवो नावमन्येत तथावस्थातुमर्हसि
४.०१८.०५१ त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम्
४.०१८.०५१ त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना
४.०१८.०५२ स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम्
४.०१८.०५३ न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम
४.०१८.०५३ वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः
४.०१८.०५४ दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते
४.०१८.०५४ कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः
४.०१८.०५५ तद्भवान् दण्डसंयोगादस्माद्विगतकल्मषः
४.०१८.०५५ गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना
४.०१८.०५६ स तस्य वाक्यं मधुरं महात्मनः॑ समाहितं धर्मपथानुवर्तिनः
४.०१८.०५६ निशम्य रामस्य रणावमर्दिनो॑ वचः सुयुक्तं निजगाद वानरः
४.०१८.०५७ शराभितप्तेन विचेतसा मया॑ प्रदूषितस्त्वं यदजानता प्रभो
४.०१८.०५७ इदं महेन्द्रोपमभीमविक्रम॑ प्रसादितस्त्वं क्षम मे महीश्वर
४.०१९.००१ स वानरमहाराजः शयानः शरविक्षतः
४.०१९.००१ प्रत्युक्तो हेतुमद्वाक्यैर्नोत्तरं प्रत्यपद्यत
४.०१९.००२ अश्मभिः परिभिन्नाङ्गः पादपैराहतो भृशम्
४.०१९.००२ रामबाणेन चाक्रान्तो जीवितान्ते मुमोह सः
४.०१९.००३ तं भार्याबाणमोक्षेण रामदत्तेन संयुगे
४.०१९.००३ हतं प्लवगशार्दूलं तारा शुश्राव वालिनम्
४.०१९.००४ सा सपुत्राप्रियं श्रुत्वा वधं भर्तुः सुदारुणम्
४.०१९.००४ निष्पपात भृशं त्रस्ता विविधाद्गिरिगह्वरात्
४.०१९.००५ ये त्वङ्गदपरीवारा वानरा हि महाबलाः
४.०१९.००५ ते सकार्मुकमालोक्य रामं त्रस्ताः प्रदुद्रुवुः
४.०१९.००६ सा ददर्श ततस्त्रस्तान् हरीनापततो द्रुतम्
४.०१९.००६ यूथादिव परिभ्रष्टान्मृगान्निहतयूथपान्
४.०१९.००७ तानुवाच समासाद्य दुःखितान् दुःखिता सती
४.०१९.००७ राम वित्रासितान् सर्वाननुबद्धानिवेषुभिः
४.०१९.००८ वानरा राजसिंहस्य यस्य यूयं पुरःसराः
४.०१९.००८ तं विहाय सुवित्रस्ताः कस्माद्द्रवत दुर्गताः
४.०१९.००९ राज्यहेतोः स चेद्भ्राता भ्राता रौद्रेण पातितः
४.०१९.००९ रामेण प्रसृतैर्दूरान्मार्गणैर्दूर पातिभिः
४.०१९.०१० कपिपत्न्या वचः श्रुत्वा कपयः कामरूपिणः
४.०१९.०१० प्राप्तकालमविश्लिष्टमूचुर्वचनमङ्गनाम्
४.०१९.०११ जीव पुत्रे निवर्तस्य पुत्रं रक्षस्व चान्दगम्
४.०१९.०११ अन्तको राम रूपेण हत्वा नयति वालिनम्
४.०१९.०१२ क्षिप्तान् वृक्षान् समाविध्य विपुलाश्च शिलास्तथा
४.०१९.०१२ वाली वज्रसमैर्बाणैर्वज्रेणेव निपातितः
४.०१९.०१३ अभिद्रुतमिदं सर्वं विद्रुतं प्रसृतं बलम्
४.०१९.०१३ अस्मिन् प्लवगशार्दूले हते शक्रसमप्रभे
४.०१९.०१४ रक्ष्यतां नगरं शूरैरङ्गदश्चाभिषिच्यताम्
४.०१९.०१४ पदस्थं वालिनः पुत्रं भजिष्यन्ति प्लवंगमाः
४.०१९.०१५ अथ वा रुचिरं स्थानमिह ते रुचिरानने
४.०१९.०१५ आविशन्ति हि दुर्गाणि क्षिप्रमद्यैव वानराः
४.०१९.०१६ अभार्याः सह भार्याश्च सन्त्यत्र वनचारिणः
४.०१९.०१६ लुब्धेभ्यो विप्रयुक्तेभ्यः स्वेभ्यो नस्तुमुलं भयम्
४.०१९.०१७ अल्पान्तरगतानां तु श्रुत्वा वचनमङ्गना
४.०१९.०१७ आत्मनः प्रतिरूपं सा बभाषे चारुहासिनी
४.०१९.०१८ पुत्रेण मम किं कार्यं किं राज्येन किमात्मना
४.०१९.०१८ कपिसिंहे महाभागे तस्मिन् भर्तरि नश्यति
४.०१९.०१९ पादमूलं गमिष्यामि तस्यैवाहं महात्मनः
४.०१९.०१९ योऽसौ रामप्रयुक्तेन शरेण विनिपातितः
४.०१९.०२० एवमुक्त्वा प्रदुद्राव रुदती शोककर्शिता
४.०१९.०२० शिरश्चोरश्च बाहुभ्यां दुःखेन समभिघ्नती
४.०१९.०२१ आव्रजन्ती ददर्शाथ पतिं निपतितं भुवि
४.०१९.०२१ हन्तारं दानवेन्द्राणां समरेष्वनिवर्तिनाम्
४.०१९.०२२ क्षेप्तारं पर्वतेन्द्राणां वज्राणामिव वासवम्
४.०१९.०२२ महावातसमाविष्टं महामेघौघनिःस्वनम्
४.०१९.०२३ शक्रतुल्यपराक्रान्तं वृष्ट्वेवोपरतं घनम्
४.०१९.०२३ नर्दन्तं नर्दतां भीमं शूरं शूरेण पातितम्
४.०१९.०२४ शार्दूलेनामिषस्यार्थे मृगराजं यथा हतम्
४.०१९.०२४ अर्चितं सर्वलोकस्य सपताकं सवेदिकम्
४.०१९.०२५ नागहेतोः सुपर्णेन चैत्यमुन्मथितं यथा
४.०१९.०२५ अवष्टभ्यावतिष्ठन्तं ददर्श धनुरूर्जितम्
४.०१९.०२६ रामं रामानुजं चैव भर्तुश्चैवानुजं शुभा
४.०१९.०२६ तानतीत्य समासाद्य भर्तारं निहतं रणे
४.०१९.०२७ समीक्ष्य व्यथिता भूमौ संभ्रान्ता निपपात ह
४.०१९.०२७ सुप्तेव पुनरुत्थाय आर्यपुत्रेति क्रोशती
४.०१९.०२८ रुरोद सा पतिं दृष्ट्वा संदितं मृत्युदामभिः
४.०१९.०२८ तामवेक्ष्य तु सुग्रीवः क्रोशन्तीं कुररीमिव
४.०१९.०२९ विषादमगमत्कष्टं दृष्ट्वा चाङ्गदमागतम्
४.०२०.००१ रामचापविसृष्टेन शरेणान्तकरेण तम्
४.०२०.००१ दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना
४.०२०.००२ सा समासाद्य भर्तारं पर्यष्वजत भामिनी
४.०२०.००२ इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्
४.०२०.००३ वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा
४.०२०.००३ तारा तरुमिवोन्मूलं पर्यदेवयदातुरा
४.०२०.००४ रणे दारुणविक्रान्त प्रवीर प्लवतां वर
४.०२०.००४ किं दीनामपुरोभागामद्य त्वं नाभिभाषसे
४.०२०.००५ उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्
४.०२०.००५ नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः
४.०२०.००६ अतीव खलु ते कान्ता वसुधा वसुधाधिप
४.०२०.००६ गतासुरपि यां गात्रैर्मां विहाय निषेवसे
४.०२०.००७ व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तता
४.०२०.००७ किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता
४.०२०.००८ यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु
४.०२०.००८ विहृतानि त्वया काले तेषामुपरमः कृतः
४.०२०.००९ निरानन्दा निराशाहं निमग्ना शोकसागरे
४.०२०.००९ त्वयि पञ्चत्वमापन्ने महायूथपयूथपे
४.०२०.०१० हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि
४.०२०.०१० यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा
४.०२०.०११ सुग्रीवस्य त्वया भार्या हृता स च विवासितः
४.०२०.०११ यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप
४.०२०.०१२ निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता
४.०२०.०१२ यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी
४.०२०.०१३ कालो निःसंशयो नूनं जीवितान्तकरस्तव
४.०२०.०१३ बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम्
४.०२०.०१४ वैधव्यं शोकसंतापं कृपणं कृपणा सती
४.०२०.०१४ अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्
४.०२०.०१५ लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः
४.०२०.०१५ वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते
४.०२०.०१६ कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्
४.०२०.०१६ दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति
४.०२०.०१७ समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च
४.०२०.०१७ मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि
४.०२०.०१८ रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता
४.०२०.०१८ आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे
४.०२०.०१९ सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे
४.०२०.०१९ भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव
४.०२०.०२० किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे
४.०२०.०२० इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर
४.०२०.०२१ तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः
४.०२०.०२१ परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः
४.०२०.०२२ किमङ्गदं साङ्गद वीर बाहो॑ विहाय यास्यद्य चिरप्रवासं
४.०२०.०२२ न युक्तमेवं गुणसंनिकृष्टं॑ विहाय पुत्रं प्रियपुत्र गन्तुम्
४.०२०.०२३ किमप्रियं ते प्रियचारुवेष॑ कृतं मया नाथ सुतेन वा ते
४.०२०.०२३ सहायिनीमद्य विहाय वीर॑ यमक्षयं गच्छसि दुर्विनीतम्
४.०२०.०२४ यद्यप्रियं किं चिदसंप्रधार्य॑ कृतं मया स्यात्तव दीर्घबाहो
४.०२०.०२४ क्षमस्व मे तद्धरिवंश नाथ॑ व्रजामि मूर्ध्ना तव वीर पादौ
४.०२०.०२५ तथा तु तारा करुणं रुदन्ती॑ भर्तुः समीपे सह वानरीभिः
४.०२०.०२५ व्यवस्यत प्रायमनिन्द्यवर्णा॑ उपोपवेष्टुं भुवि यत्र वाली
४.०२१.००१ ततो निपतितां तारां च्युतां तारामिवाम्बरात्
४.०२१.००१ शनैराश्वासयामास हनूमान् हरियूथपः
४.०२१.००२ गुणदोषकृतं जन्तुः स्वकर्मफलहेतुकम्
४.०२१.००२ अव्यग्रस्तदवाप्नोति सर्वं प्रेत्य शुभाशुभम्
४.०२१.००३ शोच्या शोचसि कं शोच्यं दीनं दीनानुकम्पसे
४.०२१.००३ कश्च कस्यानुशोच्योऽस्ति देहेऽस्मिन् बुद्बुदोपमे
४.०२१.००४ अङ्गदस्तु कुमारोऽयं द्रष्टव्यो जीवपुत्रया
४.०२१.००४ आयत्या च विधेयानि समर्थान्यस्य चिन्तय
४.०२१.००५ जानास्यनियतामेवं भूतानामागतिं गतिम्
४.०२१.००५ तस्माच्छुभं हि कर्तव्यं पण्डिते नैहलौकिकम्
४.०२१.००६ यस्मिन् हरिसहस्राणि प्रयुतान्यर्बुदानि च
४.०२१.००६ वर्तयन्ति कृतांशानि सोऽयं दिष्टान्तमागतः
४.०२१.००७ यदयं न्यायदृष्टार्थः सामदानक्षमापरः
४.०२१.००७ गतो धर्मजितां भूमिं नैनं शोचितुमर्हसि
४.०२१.००८ सर्वे च हरिशार्दूल पुत्रश्चायं तवाङ्गदः
४.०२१.००८ हर्यृष्कपतिराज्यं च त्वत्सनाथमनिन्दिते
४.०२१.००९ ताविमौ शोकसंतप्तौ शनैः प्रेरय भामिनि
४.०२१.००९ त्वया परिगृहीतोऽयमङ्गदः शास्तु मेदिनीम्
४.०२१.०१० संततिश्च यथादृष्टा कृत्यं यच्चापि साम्प्रतम्
४.०२१.०१० राज्ञस्तत्क्रियतां सर्वमेष कालस्य निश्चयः
४.०२१.०११ संस्कार्यो हरिराजस्तु अङ्गदश्चाभिषिच्यताम्
४.०२१.०११ सिंहासनगतं पुत्रं पश्यन्ती शान्तिमेष्यसि
४.०२१.०१२ सा तस्य वचनं श्रुत्वा भर्तृव्यसनपीडिता
४.०२१.०१२ अब्रवीदुत्तरं तारा हनूमन्तमवस्थितम्
४.०२१.०१३ अङ्गद प्रतिरूपाणां पुत्राणामेकतः शतम्
४.०२१.०१३ हतस्याप्यस्य वीरस्य गात्रसंश्लेषणं वरम्
४.०२१.०१४ न चाहं हरिराजस्य प्रभवाम्यङ्गदस्य वा
४.०२१.०१४ पितृव्यस्तस्य सुग्रीवः सर्वकार्येष्वनन्तरः
४.०२१.०१५ न ह्येषा बुद्धिरास्थेया हनूमन्नङ्गदं प्रति
४.०२१.०१५ पिता हि बन्धुः पुत्रस्य न माता हरिसत्तम
४.०२१.०१६ न हि मम हरिराजसंश्रयात्॑ क्षमतरमस्ति परत्र चेह वा
४.०२१.०१६ अभिमुखहतवीरसेवितं॑ शयनमिदं मम सेवितुं क्षमम्
४.०२२.००१ वीक्षमाणस्तु मन्दासुः सर्वतो मन्दमुच्छ्वसन्
४.०२२.००१ आदावेव तु सुग्रीवं ददर्श त्वात्मजाग्रतः
४.०२२.००२ तं प्राप्तविजयं वाली सुग्रीवं प्लवगेश्वरम्
४.०२२.००२ आभाष्य व्यक्तया वाचा सस्नेहमिदमब्रवीत्
४.०२२.००३ सुग्रीवदोषेण न मां गन्तुमर्हसि किल्बिषात्
४.०२२.००३ कृष्यमाणं भविष्येण बुद्धिमोहेन मां बलात्
४.०२२.००४ युगपद्विहितं तात न मन्ये सुखमावयोः
४.०२२.००४ सौहार्दं भ्रातृयुक्तं हि तदिदं जातमन्यथा
४.०२२.००५ प्रतिपद्य त्वमद्यैव राज्यमेषां वनौकसाम्
४.०२२.००५ मामप्यद्यैव गच्छन्तं विद्धि वैवस्वतक्षयम्
४.०२२.००६ जीवितं च हि राज्यं च श्रियं च विपुलामिमाम्
४.०२२.००६ प्रजहाम्येष वै तूर्णं महच्चागर्हितं यशः
४.०२२.००७ अस्यां त्वहमवस्थायां वीर वक्ष्यामि यद्वचः
४.०२२.००७ यद्यप्यसुकरं राजन् कर्तुमेव तदर्हसि
४.०२२.००८ सुखार्हं सुखसंवृद्धं बालमेनमबालिशम्
४.०२२.००८ बाष्पपूर्णमुखं पश्य भूमौ पतितमङ्गदम्
४.०२२.००९ मम प्राणैः प्रियतरं पुत्रं पुत्रमिवौरसं
४.०२२.००९ मया हीनमहीनार्थं सर्वतः परिपालय
४.०२२.०१० त्वमप्यस्य हि दाता च परित्राता च सर्वतः
४.०२२.०१० भयेष्वभयदश्चैव यथाहं प्लवगेश्वर
४.०२२.०११ एष तारात्मजः श्रीमांस्त्वया तुल्यपराक्रमः
४.०२२.०११ रक्षसां तु वधे तेषामग्रतस्ते भविष्यति
४.०२२.०१२ अनुरूपाणि कर्माणि विक्रम्य बलवान् रणे
४.०२२.०१२ करिष्यत्येष तारेयस्तरस्वी तरुणोऽङ्गदः
४.०२२.०१३ सुषेणदुहिता चेयमर्थसूक्ष्मविनिश्चये
४.०२२.०१३ औत्पातिके च विविधे सर्वतः परिनिष्ठिता
४.०२२.०१४ यदेषा साध्विति ब्रूयात्कार्यं तन्मुक्तसंशयम्
४.०२२.०१४ न हि तारामतं किं चिदन्यथा परिवर्तते
४.०२२.०१५ राघवस्य च ते कार्यं कर्तव्यमविशङ्कया
४.०२२.०१५ स्यादधर्मो ह्यकरणे त्वां च हिंस्याद्विमानितः
४.०२२.०१६ इमां च मालामाधत्स्व दिव्यां सुग्रीवकाञ्चनीम्
४.०२२.०१६ उदारा श्रीः स्थिता ह्यस्यां संप्रजह्यान्मृते मयि
४.०२२.०१७ इत्येवमुक्तः सुग्रीवो वालिना भ्रातृसौहृदात्
४.०२२.०१७ हर्षं त्यक्त्वा पुनर्दीनो ग्रहग्रस्त इवोडुराट्
४.०२२.०१८ तद्वालिवचनाच्छान्तः कुर्वन् युक्तमतन्द्रितः
४.०२२.०१८ जग्राह सोऽभ्यनुज्ञातो मालां तां चैव काञ्चनीम्
४.०२२.०१९ तां मालां काञ्चनीं दत्त्वा वाली दृष्ट्वात्मजं स्थितम्
४.०२२.०१९ संसिद्धः प्रेत्य भावाय स्नेहादङ्गदमब्रवीत्
४.०२२.०२० देशकालौ भजस्वाद्य क्षममाणः प्रियाप्रिये
४.०२२.०२० सुखदुःखसहः काले सुग्रीववशगो भव
४.०२२.०२१ यथा हि त्वं महाबाहो लालितः सततं मया
४.०२२.०२१ न तथा वर्तमानं त्वां सुग्रीवो बहु मंस्यते
४.०२२.०२२ मास्यामित्रैर्गतं गच्छेर्मा शत्रुभिररिंदम
४.०२२.०२२ भर्तुरर्थपरो दान्तः सुग्रीववशगो भव
४.०२२.०२३ न चातिप्रणयः कार्यः कर्तव्योऽप्रणयश्च ते
४.०२२.०२३ उभयं हि महादोषं तस्मादन्तरदृग्भव
४.०२२.०२४ इत्युक्त्वाथ विवृत्ताक्षः शरसंपीडितो भृशम्
४.०२२.०२४ विवृतैर्दशनैर्भीमैर्बभूवोत्क्रान्तजीवितः
४.०२२.०२५ हते तु वीरे प्लवगाधिपे तदा॑ प्लवंगमास्तत्र न शर्म लेभिरे
४.०२२.०२५ वनेचराः सिंहयुते महावने॑ यथा हि गावो निहते गवां पतौ
४.०२२.०२६ ततस्तु तारा व्यसनार्णव प्लुता॑ मृतस्या भर्तुर्वदनं समीक्ष्य सा
४.०२२.०२६ जगाम भूमिं परिरभ्य वालिनं॑ महाद्रुमं छिन्नमिवाश्रिता लता
४.०२३.००१ ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्
४.०२३.००१ पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत्
४.०२३.००२ शेषे त्वं विषमे दुःखमकृत्वा वचनं मम
४.०२३.००२ उपलोपचिते वीर सुदुःखे वसुधातले
४.०२३.००३ मत्तः प्रियतरा नूनं वानरेन्द्र मही तव
४.०२३.००३ शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे
४.०२३.००४ सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय
४.०२३.००४ ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते
४.०२३.००५ एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः
४.०२३.००५ मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे
४.०२३.००६ इदं तच्छूरशयनं यत्र शेषे हतो युधि
४.०२३.००६ शायिता निहता यत्र त्वयैव रिपवः पुरा
४.०२३.००७ विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय
४.०२३.००७ मामनाथां विहायैकां गतस्त्वमसि मानद
४.०२३.००८ शूराय न प्रदातव्या कन्या खलु विपश्चिता
४.०२३.००८ शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्
४.०२३.००९ अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः
४.०२३.००९ अगाधे च निमग्नास्मि विपुले शोकसागरे
४.०२३.०१० अश्मसारमयं नूनमिदं मे हृदयं दृढम्
४.०२३.०१० भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम्
४.०२३.०११ सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः
४.०२३.०११ आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः
४.०२३.०१२ पतिहीना तु या नारी कामं भवतु पुत्रिणी
४.०२३.०१२ धनधान्यैः सुपूर्णापि विधवेत्युच्यते बुधैः
४.०२३.०१३ स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले
४.०२३.०१३ कृमिरागपरिस्तोमे त्वमेवं शयने यथा
४.०२३.०१४ रेणुशोणितसंवीतं गात्रं तव समन्ततः
४.०२३.०१४ परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ
४.०२३.०१५ कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे
४.०२३.०१५ यस्य रामविमुक्तेन हृतमेकेषुणा भयम्
४.०२३.०१६ शरेण हृदि लग्नेन गात्रसंस्पर्शने तव
४.०२३.०१६ वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते
४.०२३.०१७ उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा
४.०२३.०१७ गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा
४.०२३.०१८ तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः
४.०२३.०१८ अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव
४.०२३.०१९ पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः
४.०२३.०१९ ताम्रगैरिकसंपृक्ता धारा इव धराधरात्
४.०२३.०२० अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना
४.०२३.०२० अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम्
४.०२३.०२१ रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्
४.०२३.०२१ उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना
४.०२३.०२२ अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्
४.०२३.०२२ संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा
४.०२३.०२३ बालसूर्योदयतनुं प्रयान्तं यमसादनम्
४.०२३.०२३ अभिवादय राजानं पितरं पुत्र मानदम्
४.०२३.०२४ एवमुक्तः समुत्थाय जग्राह चरणौ पितुः
४.०२३.०२४ भुजाभ्यां पीनवृताभ्यामङ्गदोऽहमिति ब्रुवन्
४.०२३.०२५ अभिवादयमानं त्वामङ्गदं त्वं यथापुरा
४.०२३.०२५ दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे
४.०२३.०२६ अहं पुत्रसहाया त्वामुपासे गतचेतनम्
४.०२३.०२६ सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम्
४.०२३.०२७ इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा
४.०२३.०२७ अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना
४.०२३.०२८ या दत्ता देवराजेन तव तुष्टेन संयुगे
४.०२३.०२८ शातकुम्भमयीं मालां तां ते पश्यामि नेह किम्
४.०२३.०२९ राजश्रीर्न जहाति त्वां गतासुमपि मानद
४.०२३.०२९ सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा
४.०२३.०३० न मे वचः पथ्यमिदं त्वया कृतं॑ न चास्मि शक्ता हि निवारणे तव
४.०२३.०३० हता सपुत्रास्मि हतेन संयुगे॑ सह त्वया श्रीर्विजहाति मामिह
४.०२४.००१ गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम्
४.०२४.००१ अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः
४.०२४.००२ न शोकपरितापेन श्रेयसा युज्यते मृतः
४.०२४.००२ यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ
४.०२४.००३ लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्
४.०२४.००३ न कालादुत्तरं किं चित्कर्म शक्यमुपासितुम्
४.०२४.००४ नियतः कारणं लोके नियतिः कर्मसाधनम्
४.०२४.००४ नियतिः सर्वभूतानां नियोगेष्विह कारणम्
४.०२४.००५ न कर्ता कस्य चित्कश्चिन्नियोगे चापि नेश्वरः
४.०२४.००५ स्वभावे वर्तते लोकस्तस्य कालः परायणम्
४.०२४.००६ न कालः कालमत्येति न कालः परिहीयते
४.०२४.००६ स्वभावं वा समासाद्य न कश्चिदतिवर्तते
४.०२४.००७ न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः
४.०२४.००७ न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः
४.०२४.००८ किं तु काल परीणामो द्रष्टव्यः साधु पश्यता
४.०२४.००८ धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः
४.०२४.००९ इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्
४.०२४.००९ धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर
४.०२४.०१० स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना
४.०२४.०१० स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता
४.०२४.०११ एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः
४.०२४.०११ तदलं परितापेन प्राप्तकालमुपास्यताम्
४.०२४.०१२ वचनान्ते तु रामस्य लक्ष्मणः परवीरहा
४.०२४.०१२ अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं
४.०२४.०१३ कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्
४.०२४.०१३ ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति
४.०२४.०१४ समाज्ञापय काष्ठानि शुष्काणि च बहूनि च
४.०२४.०१४ चन्दनानि च दिव्यानि वालिसंस्कारकारणात्
४.०२४.०१५ समाश्वासय चैनं त्वमङ्गदं दीनचेतसं
४.०२४.०१५ मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्
४.०२४.०१६ अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च
४.०२४.०१६ घृतं तैलमथो गन्धान् यच्चात्र समनन्तरम्
४.०२४.०१७ त्वं तार शिबिकां शीघ्रमादायागच्छ संभ्रमात्
४.०२४.०१७ त्वरा गुणवती युक्ता ह्यस्मिन् काले विशेषतः
४.०२४.०१८ सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः
४.०२४.०१८ समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्
४.०२४.०१९ एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः
४.०२४.०१९ तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा
४.०२४.०२० लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः
४.०२४.०२० प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः
४.०२४.०२१ आदाय शिबिकां तारः स तु पर्यापयत्पुनः
४.०२४.०२१ वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः
४.०२४.०२२ ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा
४.०२४.०२२ आरोपयत विक्रोशन्नङ्गदेन सहैव तु
४.०२४.०२३ आरोप्य शिबिकां चैव वालिनं गतजीवितम्
४.०२४.०२३ अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्
४.०२४.०२४ आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः
४.०२४.०२४ और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः
४.०२४.०२५ विश्राणयन्तो रत्नानि विविधानि बहूनि च
४.०२४.०२५ अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्
४.०२४.०२६ राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः
४.०२४.०२६ तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम्
४.०२४.०२७ अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा
४.०२४.०२७ क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः
४.०२४.०२८ ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः
४.०२४.०२८ अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः
४.०२४.०२९ तासां रुदितशब्देन वानरीणां वनान्तरे
४.०२४.०२९ वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः
४.०२४.०३० पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते
४.०२४.०३० चितां चक्रुः सुबहवो वानरा वनचारिणः
४.०२४.०३१ अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः
४.०२४.०३१ तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः
४.०२४.०३२ ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्
४.०२४.०३२ आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता
४.०२४.०३३ जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्
४.०२४.०३३ प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद
४.०२४.०३३ अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा
४.०२४.०३४ एष त्वां रामरूपेण कालः कर्षति वानर
४.०२४.०३४ येन स्म विधवाः सर्वाः कृता एकेषुणा रणे
४.०२४.०३५ इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदा
४.०२४.०३५ पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे
४.०२४.०३६ तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः
४.०२४.०३६ इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम्
४.०२४.०३७ एते हि सचिवा राजंस्तारप्रभृतयस्तव
४.०२४.०३७ पुरवासिजनश्चायं परिवार्यासतेऽनघ
४.०२४.०३८ विसर्जयैनान् प्रवलान् यथोचितमरिंदम
४.०२४.०३८ ततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः
४.०२४.०३९ एवं विलपतीं तारां पतिशोकपरिप्लुताम्
४.०२४.०३९ उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः
४.०२४.०४० सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन्
४.०२४.०४० चितामारोपयामास शोकेनाभिहतेन्द्रियः
४.०२४.०४१ ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह
४.०२४.०४१ पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः
४.०२४.०४२ संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः
४.०२४.०४२ आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम्
४.०२४.०४३ ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतः
४.०२४.०४३ सुग्रीवतारासहिताः सिषिचुर्वालिने जलम्
४.०२४.०४४ सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः
४.०२४.०४४ समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्
४.०२५.००१ ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम्
४.०२५.००१ शाखामृगमहामात्राः परिवार्योपतस्थिरे
४.०२५.००२ अभिगम्य महाबाहुं राममक्लिष्टकारिणम्
४.०२५.००२ स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः
४.०२५.००३ ततः काञ्चनशैलाभस्तरुणार्कनिभाननः
४.०२५.००३ अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः
४.०२५.००४ भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्
४.०२५.००४ वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो
४.०२५.००५ भवता समनुज्ञातः प्रविश्य नगरं शुभम्
४.०२५.००५ संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः
४.०२५.००६ स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि
४.०२५.००६ अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः
४.०२५.००७ इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि
४.०२५.००७ कुरुष्व स्वामि संबन्धं वानरान् संप्रहर्षयन्
४.०२५.००८ एवमुक्तो हनुमता राघवः परवीरहा
४.०२५.००८ प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः
४.०२५.००९ चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम्
४.०२५.००९ न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः
४.०२५.०१० सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः
४.०२५.०१० प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम्
४.०२५.०११ एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्
४.०२५.०११ इममप्यङ्गदं वीर यौवराज्येऽभिषेचय
४.०२५.०१२ पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः
४.०२५.०१२ प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः
४.०२५.०१३ नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्
४.०२५.०१३ अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः
४.०२५.०१४ इयं गिरिगुहा रम्या विशाला युक्तमारुता
४.०२५.०१४ प्रभूतसलिला सौम्य प्रभूतकमलोत्पला
४.०२५.०१५ कार्तिके समनुप्राप्ते त्वं रावणवधे यत
४.०२५.०१५ एष नः समयः सौम्य प्रविश त्वं स्वमालयम्
४.०२५.०१५ अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय
४.०२५.०१६ इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः
४.०२५.०१६ प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्
४.०२५.०१७ तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्
४.०२५.०१७ अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन्
४.०२५.०१८ ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्
४.०२५.०१८ प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः
४.०२५.०१९ सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान्
४.०२५.०१९ भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः
४.०२५.०२० प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम्
४.०२५.०२० अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः
४.०२५.०२१ तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्
४.०२५.०२१ शुक्ले च बालव्यजने हेमदण्डे यशस्करे
४.०२५.०२२ तथा सर्वाणि रत्नानि सर्वबीजौषधानि च
४.०२५.०२२ सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च
४.०२५.०२३ शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्
४.०२५.०२३ सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च
४.०२५.०२४ चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून्
४.०२५.०२४ अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी
४.०२५.०२५ दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ
४.०२५.०२५ समालम्भनमादाय रोचनां समनःशिलाम्
४.०२५.०२५ आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश
४.०२५.०२६ ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि
४.०२५.०२६ रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्
४.०२५.०२७ ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं
४.०२५.०२७ मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः
४.०२५.०२८ ततो हेमप्रतिष्ठाने वरास्तरणसंवृते
४.०२५.०२८ प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते
४.०२५.०२९ प्राङ्मुखं विविधिअर्मन्त्रैः स्थापयित्वा वरासने
४.०२५.०२९ नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः
४.०२५.०३० आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः
४.०२५.०३० अपः कनककुम्भेषु निधाय विमलाः शुभाः
४.०२५.०३१ शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः
४.०२५.०३१ शास्त्रदृष्टेन विधिना महर्षिविहितेन च
४.०२५.०३२ गजो गवाक्षो गवयः शरभो गन्धमादनः
४.०२५.०३२ मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः
४.०२५.०३३ अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना
४.०२५.०३३ सलिलेन सहस्राक्षं वसवो वासवं यथा
४.०२५.०३४ अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः
४.०२५.०३४ प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः
४.०२५.०३५ रामस्य तु वचः कुर्वन् सुग्रीवो हरिपुंगवः
४.०२५.०३५ अङ्गदं संपरिष्वज्य यौवराज्येऽभिषेचयत्
४.०२५.०३६ अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः
४.०२५.०३६ साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन्
४.०२५.०३७ हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता
४.०२५.०३७ बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे
४.०२५.०३८ निवेद्य रामाय तदा महात्मने॑ महाभिषेकं कपिवाहिनीपतिः
४.०२५.०३८ रुमां च भार्यां प्रतिलभ्य वीर्यवान्॑ अवाप राज्यं त्रिदशाधिपो यथा
४.०२६.००१ अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम्
४.०२६.००१ आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम्
४.०२६.००२ शार्दूलमृगसंघुष्टं सिंहैर्भीमरवैर्वृतम्
४.०२६.००२ नानागुल्मलतागूढं बहुपादपसंकुलम्
४.०२६.००३ ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम्
४.०२६.००३ मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम्
४.०२६.००४ तस्य शैलस्य शिखरे महतीमायतां गुहाम्
४.०२६.००४ प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह
४.०२६.००५ अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः
४.०२६.००५ बहुदृश्यदरीकुञ्जे तस्मिन् प्रस्रवणे गिरौ
४.०२६.००६ सुसुखेऽपि बहुद्रव्ये तस्मिन् हि धरणीधरे
४.०२६.००६ वसतस्तस्य रामस्य रतिरल्पापि नाभवत्
४.०२६.००६ हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम्
४.०२६.००७ उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः
४.०२६.००७ आविवेश न तं निद्रा निशासु शयनं गतम्
४.०२६.००८ तत्समुत्थेन शोकेन बाष्पोपहतचेतसं
४.०२६.००८ तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम्
४.०२६.००८ तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन् वचः
४.०२६.००९ अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि
४.०२६.००९ शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते
४.०२६.०१० भवान् क्रियापरो लोके भवान् देवपरायणः
४.०२६.०१० आस्तिको धर्मशीलश्च व्यवसायी च राघव
४.०२६.०११ न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः
४.०२६.०११ समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम्
४.०२६.०१२ समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु
४.०२६.०१२ ततः सपरिवारं तं निर्मूलं कुरु राक्षसं
४.०२६.०१३ पृथिवीमपि काकुत्स्थ ससागरवनाचलाम्
४.०२६.०१३ परिवर्तयितुं शक्तः किमङ्ग पुन रावणम्
४.०२६.०१४ अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये
४.०२६.०१४ दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम्
४.०२६.०१५ लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम्
४.०२६.०१५ राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत्
४.०२६.०१६ वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च
४.०२६.०१६ सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया
४.०२६.०१७ एष शोकः परित्यक्तः सर्वकार्यावसादकः
४.०२६.०१७ विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम्
४.०२६.०१८ शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता
४.०२६.०१८ ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम्
४.०२६.०१९ तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः
४.०२६.०१९ पुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः
४.०२६.०२० एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण
४.०२६.०२० इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः
४.०२६.०२१ विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसि
४.०२६.०२१ एतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य च
४.०२६.०२२ तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम्
४.०२६.०२२ वर्षारात्रमनुप्राप्तमतिक्रामय राघव
४.०२६.०२३ नियम्य कोपं प्रतिपाल्यतां शरत्॑ क्षमस्व मासांश्चतुरो मया सह
४.०२६.०२३ वसाचलेऽस्मिन्मृगराजसेविते॑ संवर्धयञ्शत्रुवधे समुद्यतः
४.०२७.००१ स तदा वालिनं हत्वा सुग्रीवमभिषिच्य च
४.०२७.००१ वसन्माल्यवतः पृष्टे रामो लक्ष्मणमब्रवीत्
४.०२७.००२ अयं स कालः संप्राप्तः समयोऽद्य जलागमः
४.०२७.००२ संपश्य त्वं नभो मेघैः संवृतं गिरिसंनिभैः
४.०२७.००३ नव मास धृतं गर्भं भास्कारस्य गभस्तिभिः
४.०२७.००३ पीत्वा रसं समुद्राणां द्यौः प्रसूते रसायनम्
४.०२७.००४ शक्यमम्बरमारुह्य मेघसोपानपङ्क्तिभिः
४.०२७.००४ कुटजार्जुनमालाभिरलंकर्तुं दिवाकरम्
४.०२७.००५ संध्यारागोत्थितैस्ताम्रैरन्तेष्वधिकपाण्डुरैः
४.०२७.००५ स्निग्धैरभ्रपटच्छदैर्बद्धव्रणमिवाम्बरम्
४.०२७.००६ मन्दमारुतनिःश्वासं संध्याचन्दनरञ्जितम्
४.०२७.००६ आपाण्डुजलदं भाति कामातुरमिवाम्बरम्
४.०२७.००७ एषा धर्मपरिक्लिष्टा नववारिपरिप्लुता
४.०२७.००७ सीतेव शोकसंतप्ता मही बाष्पं विमुञ्चति
४.०२७.००८ मेघोदरविनिर्मुक्ताः कह्लारसुखशीतलाः
४.०२७.००८ शक्यमञ्जलिभिः पातुं वाताः केतकिगन्धिनः
४.०२७.००९ एष फुल्लार्जुनः शैलः केतकैरधिवासितः
४.०२७.००९ सुग्रीव इव शान्तारिर्धाराभिरभिषिच्यते
४.०२७.०१० मेघकृष्णाजिनधरा धारायज्ञोपवीतिनः
४.०२७.०१० मारुतापूरितगुहाः प्राधीता इव पर्वताः
४.०२७.०११ कशाभिरिव हैमीभिर्विद्युद्भिरिव ताडितम्
४.०२७.०११ अन्तःस्तनितनिर्घोषं सवेदनमिवाम्बरम्
४.०२७.०१२ नीलमेघाश्रिता विद्युत्स्फुरन्ती प्रतिभाति मे
४.०२७.०१२ स्फुरन्ती रावणस्याङ्के वैदेहीव तपस्विनी
४.०२७.०१३ इमास्ता मन्मथवतां हिताः प्रतिहता दिशः
४.०२७.०१३ अनुलिप्ता इव घनैर्नष्टग्रहनिशाकराः
४.०२७.०१४ क्व चिद्बाष्पाभिसंरुद्धान् वर्षागमसमुत्सुकान्
४.०२७.०१४ कुटजान् पश्य सौमित्रे पुष्टितान् गिरिसानुषु
४.०२७.०१४ मम शोकाभिभूतस्य कामसंदीपनान् स्थितान्
४.०२७.०१५ रजः प्रशान्तं सहिमोऽद्य वायुर्॑ निदाघदोषप्रसराः प्रशान्ताः
४.०२७.०१५ स्थिता हि यात्रा वसुधाधिपानां॑ प्रवासिनो यान्ति नराः स्वदेशान्
४.०२७.०१६ संप्रस्थिता मानसवासलुब्धाः॑ प्रियान्विताः संप्रति चक्रवाकः
४.०२७.०१६ अभीक्ष्णवर्षोदकविक्षतेषु॑ यानानि मार्गेषु न संपतन्ति
४.०२७.०१७ क्व चित्प्रकाशं क्व चिदप्रकाशं॑ नभः प्रकीर्णाम्बुधरं विभाति
४.०२७.०१७ क्व चित्क्व चित्पर्वतसंनिरुद्धं॑ रूपं यथा शान्तमहार्णवस्य
४.०२७.०१८ व्यामिश्रितं सर्जकदम्बपुष्पैर्॑ नवं जलं पर्वतधातुताम्रम्
४.०२७.०१८ मयूरकेकाभिरनुप्रयातं॑ शैलापगाः शीघ्रतरं वहन्ति
४.०२७.०१९ रसाकुलं षट्पदसंनिकाशं॑ प्रभुज्यते जम्बुफलं प्रकामम्
४.०२७.०१९ अनेकवर्णं पवनावधूतं॑ भूमौ पतत्याम्रफलं विपक्वम्
४.०२७.०२० विद्युत्पताकाः सबलाक मालाः॑ शैलेन्द्रकूटाकृतिसंनिकाशाः
४.०२७.०२० गर्जन्ति मेघाः समुदीर्णनादा॑ मत्तगजेन्द्रा इव संयुगस्थः
४.०२७.०२१ मेघाभिकामी परिसंपतन्ती॑ संमोदिता भाति बलाकपङ्क्तिः
४.०२७.०२१ वातावधूता वरपौण्डरीकी॑ लम्बेव माला रचिताम्बरस्य
४.०२७.०२२ निद्रा शनैः केशवमभ्युपैति॑ द्रुतं नदी सागरमभ्युपैति
४.०२७.०२२ हृष्टा बलाका घनमभ्युपैति॑ कान्ता सकामा प्रियमभ्युपैति
४.०२७.०२३ जाता वनान्ताः शिखिसुप्रनृत्ता॑ जाताः कदम्बाः सकदम्बशाखाः
४.०२७.०२३ जाता वृषा गोषु समानकामा॑ जाता मही सस्यवनाभिरामा
४.०२७.०२४ वहन्ति वर्षन्ति नदन्ति भान्ति॑ ध्यायन्ति नृत्यन्ति समाश्वसन्ति
४.०२७.०२४ नद्यो घना मत्तगजा वनान्ताः॑ प्रियाविनीहाः शिखिनः प्लवंगाः
४.०२७.०२५ प्रहर्षिताः केतकपुष्पगन्धम्॑ आघ्राय हृष्टा वननिर्झरेषु
४.०२७.०२५ प्रपात शब्दाकुलिता गजेन्द्राः॑ सार्धं मयूरैः समदा नदन्ति
४.०२७.०२६ धारानिपातैरभिहन्यमानाः॑ कदम्बशाखासु विलम्बमानाः
४.०२७.०२६ क्षणार्जितं पुष्परसावगाढं॑ शनैर्मदं षट्चरणास्त्यजन्ति
४.०२७.०२७ अङ्गारचूर्णोत्करसंनिकाशैः॑ फलैः सुपर्याप्त रसैः समृद्धैः
४.०२७.०२७ जम्बूद्रुमाणां प्रविभान्ति शाखा॑ निलीयमाना इव षट्पदौघैः
४.०२७.०२८ तडित्पताकाभिरलंकृतानाम्॑ उदीर्णगम्भीरमहारवाणाम्
४.०२७.०२८ विभान्ति रूपाणि बलाहकानां॑ रणोद्यतानामिव वारणानाम्
४.०२७.०२९ मार्गानुगः शैलवनानुसारी॑ संप्रस्थितो मेघरवं निशम्य
४.०२७.०२९ युद्धाभिकामः प्रतिनागशङ्की॑ मत्तो गजेन्द्रः प्रतिसंनिवृत्तः
४.०२७.०३० मुक्तासकाशं सलिलं पतद्वै॑ सुनिर्मलं पत्रपुटेषु लग्नम्
४.०२७.०३० हृष्टा विवर्णच्छदना विहंगाः॑ सुरेन्द्रदत्तं तृषिताः पिबन्ति
४.०२७.०३१ नीलेषु नीला नववारिपूर्णा॑ मेघेषु मेघाः प्रविभान्ति सक्ताः
४.०२७.०३१ दवाग्निदग्धेषु दवाग्निदग्धाः॑ शैलेषु शैला इव बद्धमूलाः
४.०२७.०३२ मत्ता गजेन्द्रा मुदिता गवेन्द्रा॑ वनेषु विश्रान्ततरा मृगेन्द्राः
४.०२७.०३२ रम्या नगेन्द्रा निभृता नगेन्द्राः॑ प्रक्रीडितो वारिधरैः सुरेन्द्रः
४.०२७.०३३ वृत्ता यात्रा नरेन्द्राणां सेना प्रतिनिवर्तते
४.०२७.०३३ वैराणि चैव मार्गाश्च सलिलेन समीकृताः
४.०२७.०३४ मासि प्रौष्ठपदे ब्रह्म ब्राह्मणानां विवक्षताम्
४.०२७.०३४ अयमध्यायसमयः सामगानामुपस्थितः
४.०२७.०३५ निवृत्तकर्मायतनो नूनं संचितसंचयः
४.०२७.०३५ आषाढीमभ्युपगतो भरतः कोषकाधिपः
४.०२७.०३६ नूनमापूर्यमाणायाः सरय्वा वधते रयः
४.०२७.०३६ मां समीक्ष्य समायान्तमयोध्याया इव स्वनः
४.०२७.०३७ इमाः स्फीतगुणा वर्षाः सुग्रीवः सुखमश्नुते
४.०२७.०३७ विजितारिः सदारश्च राज्ये महति च स्थितः
४.०२७.०३८ अहं तु हृतदारश्च राज्याच्च महतश्च्युतः
४.०२७.०३८ नदीकूलमिव क्लिन्नमवसीदामि लक्ष्मण
४.०२७.०३९ शोकश्च मम विस्तीर्णो वर्षाश्च भृशदुर्गमाः
४.०२७.०३९ रावणश्च महाञ्शत्रुरपारं प्रतिभाति मे
४.०२७.०४० अयात्रां चैव दृष्ट्वेमां मार्गांश्च भृशदुर्गमान्
४.०२७.०४० प्रणते चैव सुग्रीवे न मया किं चिदीरितम्
४.०२७.०४१ अपि चातिपरिक्लिष्टं चिराद्दारैः समागतम्
४.०२७.०४१ आत्मकार्यगरीयस्त्वाद्वक्तुं नेच्छामि वानरम्
४.०२७.०४२ स्वयमेव हि विश्रम्य ज्ञात्वा कालमुपागतम्
४.०२७.०४२ उपकारं च सुग्रीवो वेत्स्यते नात्र संशयः
४.०२७.०४३ तस्मात्कालप्रतीक्षोऽहं स्थितोऽस्मि शुभलक्षण
४.०२७.०४३ सुग्रीवस्य नदीनां च प्रसादमनुपालयन्
४.०२७.०४४ उपकारेण वीरो हि प्रतिकारेण युज्यते
४.०२७.०४४ अकृतज्ञोऽप्रतिकृतो हन्ति सत्त्ववतां मनः
४.०२७.०४५ अथैवमुक्तः प्रणिधाय लक्ष्मणः॑ कृताञ्जलिस्तत्प्रतिपूज्य भाषितम्
४.०२७.०४५ उवाच रामं स्वभिराम दर्शनं॑ प्रदर्शयन् दर्शनमात्मनः शुभम्
४.०२७.०४६ यथोक्तमेतत्तव सर्वमीप्सितं॑ नरेन्द्र कर्ता नचिराद्धरीश्वरः
४.०२७.०४६ शरत्प्रतीक्षः क्षमतामिमं भवाञ्॑ जलप्रपातं रिपुनिग्रहे धृतः
४.०२८.००१ समीक्ष्य विमलं व्योम गतविद्युद्बलाहकम्
४.०२८.००१ सारसारवसंघुष्टं रम्यज्योत्स्नानुलेपनम्
४.०२८.००२ समृद्धार्थं च सुग्रीवं मन्दधर्मार्थसंग्रहम्
४.०२८.००२ अत्यर्थमसतां मार्गमेकान्तगतमानसं
४.०२८.००३ निवृत्तकार्यं सिद्धार्थं प्रमदाभिरतं सदा
४.०२८.००३ प्राप्तवन्तमभिप्रेतान् सर्वानेव मनोरथान्
४.०२८.००४ स्वां च पात्नीमभिप्रेतां तारां चापि समीप्सिताम्
४.०२८.००४ विहरन्तमहोरात्रं कृतार्थं विगतज्वलम्
४.०२८.००५ क्रीडन्तमिव देवेशं नन्दनेऽप्सरसां गणैः
४.०२८.००५ मन्त्रिषु न्यस्तकार्यं च मन्त्रिणामनवेक्षकम्
४.०२८.००६ उत्सन्नराज्यसंदेशं कामवृत्तमवस्थितम्
४.०२८.००६ निश्चितार्थोऽर्थतत्त्वज्ञः कालधर्मविशेषवित्
४.०२८.००७ प्रसाद्य वाक्यैर्मधुरैर्हेतुमद्भिर्मनोरमैः
४.०२८.००७ वाक्यविद्वाक्यतत्त्वज्ञं हरीशं मारुतात्मजः
४.०२८.००८ हितं तथ्यं च पथ्यं च सामधर्मार्थनीतिमत्
४.०२८.००८ प्रणयप्रीतिसंयुक्तं विश्वासकृतनिश्चयम्
४.०२८.००८ हरीश्वरमुपागम्य हनुमान् वाक्यमब्रवीत्
४.०२८.००९ राज्यं प्राप्तं यशश्चैव कौली श्रीरभिवर्थिता
४.०२८.००९ मित्राणां संग्रहः शेषस्तद्भवान् कर्तुमर्हति
४.०२८.०१० यो हि मित्रेषु कालज्ञः सततं साधु वर्तते
४.०२८.०१० तस्य राज्यं च कीर्तिश्च प्रतापश्चाभिवर्धते
४.०२८.०११ यस्य कोशश्च दण्डश्च मित्राण्यात्मा च भूमिप
४.०२८.०११ समवेतानि सर्वाणि स राज्यं महदश्नुते
४.०२८.०१२ तद्भवान् वृत्तसंपन्नः स्थितः पथि निरत्यये
४.०२८.०१२ मित्रार्थमभिनीतार्थं यथावत्कर्तुमर्हति
४.०२८.०१३ यस्तु कालव्यतीतेषु मित्रकार्येषु वर्तते
४.०२८.०१३ स कृत्वा महतोऽप्यर्थान्न मित्रार्थेन युज्यते
४.०२८.०१४ क्रियतां राघवस्यैतद्वैदेह्याः परिमार्गणम्
४.०२८.०१४ तदिदं वीर कार्यं ते कालातीतमरिंदम
४.०२८.०१५ न च कालमतीतं ते निवेदयति कालवित्
४.०२८.०१५ त्वरमाणोऽपि सन् प्राज्ञस्तव राजन् वशानुगः
४.०२८.०१६ कुलस्य केतुः स्फीतस्य दीर्घबन्धुश्च राघवः
४.०२८.०१६ अप्रमेयप्रभावश्च स्वयं चाप्रतिमो गुणैः
४.०२८.०१७ तस्य त्वं कुरु वै कार्यं पूर्वं तेन कृतं तव
४.०२८.०१७ हरीश्वर हरिश्रेष्ठानाज्ञापयितुमर्हसि
४.०२८.०१८ न हि तावद्भवेत्कालो व्यतीतश्चोदनादृते
४.०२८.०१८ चोदितस्य हि कार्यस्य भवेत्कालव्यतिक्रमः
४.०२८.०१९ अकर्तुरपि कार्यस्य भवान् कर्ता हरीश्वर
४.०२८.०१९ किं पुनः प्रतिकर्तुस्ते राज्येन च धनेन च
४.०२८.०२० शक्तिमानसि विक्रान्तो वानरर्ष्क गणेश्वर
४.०२८.०२० कर्तुं दाशरथेः प्रीतिमाज्ञायां किं नु सज्जसे
४.०२८.०२१ कामं खलु शरैर्शक्तः सुरासुरमहोरगान्
४.०२८.०२१ वशे दाशरथिः कर्तुं त्वत्प्रतिज्ञां तु काङ्क्षते
४.०२८.०२२ प्राणत्यागाविशङ्केन कृतं तेन तव प्रियम्
४.०२८.०२२ तस्य मार्गाम वैदेहीं पृथिव्यामपि चाम्बरे
४.०२८.०२३ न देवा न च गन्धर्वा नासुरा न मरुद्गणाः
४.०२८.०२३ न च यक्षा भयं तस्य कुर्युः किमुत राक्षसाः
४.०२८.०२४ तदेवं शक्तियुक्तस्य पूर्वं प्रियकृतस्तथा
४.०२८.०२४ रामस्यार्हसि पिङ्गेश कर्तुं सर्वात्मना प्रियम्
४.०२८.०२५ नाधस्तादवनौ नाप्सु गतिर्नोपरि चाम्बरे
४.०२८.०२५ कस्य चित्सज्जतेऽस्माकं कपीश्वर तवाज्ञया
४.०२८.०२६ तदाज्ञापय कः किं ते कृते वसतु कुत्र चित्
४.०२८.०२६ हरयो ह्यप्रधृष्यास्ते सन्ति कोट्यग्रतोऽनघ
४.०२८.०२७ तस्य तद्वचनं श्रुत्वा काले साधुनिवेदितम्
४.०२८.०२७ सुग्रीवः सत्त्वसंपन्नश्चकार मतिमुत्तमाम्
४.०२८.०२८ स संदिदेशाभिमतं नीलं नित्यकृतोद्यमम्
४.०२८.०२८ दिक्षु सर्वासु सर्वेषां सैन्यानामुपसंग्रहे
४.०२८.०२९ यथा सेना समग्रा मे यूथपालाश्च सर्वशः
४.०२८.०२९ समागच्छन्त्यसंगेन सेनाग्राणि तथा कुरु
४.०२८.०३० ये त्वन्तपालाः प्लवगाः शीघ्रगा व्यवसायिनः
४.०२८.०३० समानयन्तु ते सैन्यं त्वरिताः शासनान्मम
४.०२८.०३० स्वयं चानन्तरं सैन्यं भवानेवानुपश्यतु
४.०२८.०३१ त्रिपञ्चरात्रादूर्ध्वं यः प्राप्नुयान्नेह वानरः
४.०२८.०३१ तस्य प्राणान्तिको दण्डो नात्र कार्या विचारणा
४.०२८.०३२ हरींश्च वृद्धानुपयातु साङ्गदो॑ भवान्ममाज्ञामधिकृत्य निश्चिताम्
४.०२८.०३२ इति व्यवस्थां हरिपुंगवेश्वरो॑ विधाय वेश्म प्रविवेश वीर्यवान्
४.०२९.००१ गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः
४.०२९.००१ वर्षरात्रोषितो रामः कामशोकाभिपीडितः
४.०२९.००२ पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्
४.०२९.००२ शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्
४.०२९.००३ कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्
४.०२९.००३ बुद्ध्वा कालमतीतं च मुमोह परमातुरः
४.०२९.००४ स तु संज्ञामुपागम्य मुहूर्तान्मतिमान् पुनः
४.०२९.००४ मनःस्थामपि वैदेहीं चिन्तयामास राघवः
४.०२९.००५ आसीनः पर्वतस्याग्रे हेमधातुविभूषिते
४.०२९.००५ शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम्
४.०२९.००६ दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्
४.०२९.००६ सारसारवसंघुष्टं विललापार्तया गिरा
४.०२९.००७ सारसारवसंनादैः सारसारवनादिनी
४.०२९.००७ याश्रमे रमते बाला साद्य मे रमते कथम्
४.०२९.००८ पुष्पितांश्चासनान् दृष्ट्वा काञ्चनानिव निर्मलान्
४.०२९.००८ कथं स रमते बाला पश्यन्ती मामपश्यती
४.०२९.००९ या पुरा कलहंसानां स्वरेण कलभाषिणी
४.०२९.००९ बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम्
४.०२९.०१० निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्
४.०२९.०१० पुण्डरीकविशालाक्षी कथमेषा भविष्यति
४.०२९.०११ सरांसि सरितो वापीः काननानि वनानि च
४.०२९.०११ तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे
४.०२९.०१२ अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्
४.०२९.०१२ न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः
४.०२९.०१३ एवमादि नरश्रेष्ठो विललाप नृपात्मजः
४.०२९.०१३ विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्
४.०२९.०१४ ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु
४.०२९.०१४ ददर्श पर्युपावृत्तो लक्ष्मीवांल्लक्ष्मणोऽग्रजम्
४.०२९.०१५ तं चिन्तया दुःसहया परीतं॑ विसंज्ञमेकं विजने मनस्वी
४.०२९.०१५ भ्रातुर्विषादात्परितापदीनः॑ समीक्ष्य सौमित्रिरुवाच रामम्
४.०२९.०१६ किमार्य कामस्य वशंगतेन॑ किमात्मपौरुष्यपराभवेन
४.०२९.०१६ अयं सदा संहृइयते समाधिः॑ किमत्र योगेन निवर्तितेन
४.०२९.०१७ क्रियाभियोगं मनसः प्रसादं॑ समाधियोगानुगतं च कालम्
४.०२९.०१७ सहायसामर्थ्यमदीनसत्त्व॑ स्वकर्महेतुं च कुरुष्व हेतुम्
४.०२९.०१८ न जानकी मानववंशनाथ॑ त्वया सनाथा सुलभा परेण
४.०२९.०१८ न चाग्निचूडां ज्वलितामुपेत्य॑ न दह्यते वीरवरार्ह कश्चित्
४.०२९.०१९ सलक्ष्मणं लक्ष्मणमप्रधृष्यं॑ स्वभावजं वाक्यमुवाच रामः
४.०२९.०१९ हितं च पथ्यं च नयप्रसक्तं॑ ससामधर्मार्थसमाहितं च
४.०२९.०२० निःसंशयं कार्यमवेक्षितव्यं॑ क्रियाविशेषो ह्यनुवर्तितव्यः
४.०२९.०२० ननु प्रवृत्तस्य दुरासदस्य॑ कुमारकार्यस्य फलं न चिन्त्यम्
४.०२९.०२१ अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्
४.०२९.०२१ उवाच लक्ष्मणं रामो मुखेन परिशुष्यता
४.०२९.०२२ तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्
४.०२९.०२२ निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः
४.०२९.०२३ स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः
४.०२९.०२३ विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज
४.०२९.०२४ नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश
४.०२९.०२४ विमदा इव मातङ्गाः शान्तवेगाः पयोधराः
४.०२९.०२५ जलगर्भा महावेगाः कुटजार्जुनगन्धिनः
४.०२९.०२५ चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः
४.०२९.०२६ घनानां वारणानां च मयूराणां च लक्ष्मण
४.०२९.०२६ नादः प्रस्रवणानां च प्रशान्तः सहसानघ
४.०२९.०२७ अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः
४.०२९.०२७ अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः
४.०२९.०२८ दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः
४.०२९.०२८ नवसंगमसव्रीडा जघनानीव योषितः
४.०२९.०२९ प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः
४.०२९.०२९ चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः
४.०२९.०३० अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज
४.०२९.०३० उद्योगसमयः सौम्य पार्थिवानामुपस्थितः
४.०२९.०३१ इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज
४.०२९.०३१ न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम्
४.०२९.०३२ चत्वारो वार्षिका मासा गता वर्षशतोपमाः
४.०२९.०३२ मम शोकाभितप्तस्य सौम्य सीतामपश्यतः
४.०२९.०३३ प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते
४.०२९.०३३ कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण
४.०२९.०३४ अनाथो हृतराज्योऽयं रावणेन च धर्षितः
४.०२९.०३४ दीनो दूरगृहः कामी मां चैव शरणं गतः
४.०२९.०३५ इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः
४.०२९.०३५ अहं वानरराजस्य परिभूतः परंतप
४.०२९.०३६ स कालं परिसंख्याय सीतायाः परिमार्गणे
४.०२९.०३६ कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते
४.०२९.०३७ त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम्
४.०२९.०३७ मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम
४.०२९.०३८ अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्
४.०२९.०३८ आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः
४.०२९.०३९ शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्
४.०२९.०३९ सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः
४.०२९.०४० कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये
४.०२९.०४० तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते
४.०२९.०४१ नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे
४.०२९.०४१ द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम्
४.०२९.०४२ घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे
४.०२९.०४२ निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति
४.०२९.०४३ काममेवं गतेऽप्यस्य परिज्ञाते पराक्रमे
४.०२९.०४३ त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज
४.०२९.०४४ यदर्थमयमारम्भः कृतः परपुरंजय
४.०२९.०४४ समयं नाभिजानाति कृतार्थः प्लवगेश्वरः
४.०२९.०४५ वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः
४.०२९.०४५ व्यतीतांश्चतुरो मासान् विहरन्नावबुध्यते
४.०२९.०४६ सामात्यपरिषत्क्रीडन् पानमेवोपसेवते
४.०२९.०४६ शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्
४.०२९.०४७ उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल
४.०२९.०४७ मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः
४.०२९.०४८ न च संकुचितः पन्था येन वाली हतो गतः
४.०२९.०४८ समये तिष्ठ सुग्रीवमा वालिपथमन्वगाः
४.०२९.०४९ एक एव रणे वाली शरेण निहतो मया
४.०२९.०४९ त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्
४.०२९.०५० तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ
४.०२९.०५० तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः
४.०२९.०५१ कुरुष्व सत्यं मयि वानरेश्वर॑ प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्
४.०२९.०५१ मा वालिनं प्रेत्य गतो यमक्षयं॑ त्वमद्य पश्येर्मम चोदितैः शरैः
४.०२९.०५२ स पूर्वजं तीव्रविवृद्धकोपं॑ लालप्यमानं प्रसमीक्ष्य दीनम्
४.०२९.०५२ चकार तीव्रां मतिमुग्रतेजा॑ हरीश्वरमानववंशनाथः
४.०३०.००१ स कामिनं दीनमदीनसत्त्वः॑ शोकाभिपन्नं समुदीर्णकोपम्
४.०३०.००१ नरेन्द्रसूनुर्नरदेवपुत्रं॑ रामानुजः पूर्वजमित्युवाच
४.०३०.००२ न वानरः स्थास्यति साधुवृत्ते॑ न मंस्यते कार्यफलानुषङ्गान्
४.०३०.००२ न भक्ष्यते वानरराज्यलक्ष्मीं॑ तथा हि नाभिक्रमतेऽस्य बुद्धिः
४.०३०.००३ मतिक्षयाद्ग्राम्यसुखेषु सक्तस्॑ तव प्रसादाप्रतिकारबुद्धिः
४.०३०.००३ हतोऽग्रजं पश्यतु वालिनं स॑ न राज्यमेवं विगुणस्य देयम्
४.०३०.००४ न धारये कोपमुदीर्णवेगं॑ निहन्मि सुग्रीवमसत्यमद्य
४.०३०.००४ हरिप्रवीरैः सह वालिपुत्रो॑ नरेन्द्रपत्न्या विचयं करोतु
४.०३०.००५ तमात्तबाणासनमुत्पतन्तं॑ निवेदितार्थं रणचण्डकोपम्
४.०३०.००५ उवच रामः परवीरहन्ता॑ स्ववेक्षितं सानुनयं च वाक्यम्
४.०३०.००६ न हि वै त्वद्विधो लोके पापमेवं समाचरेत्
४.०३०.००६ पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः
४.०३०.००७ नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण
४.०३०.००७ तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम्
४.०३०.००८ सामोपहितया वाचा रूक्षाणि परिवर्जयन्
४.०३०.००८ वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये
४.०३०.००९ सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः
४.०३०.००९ प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा
४.०३०.०१० ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः
४.०३०.०१० लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः
४.०३०.०११ शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः
४.०३०.०११ प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव
४.०३०.०१२ यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्
४.०३०.०१२ बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा
४.०३०.०१३ कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः
४.०३०.०१३ प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा
४.०३०.०१४ सालतालाश्वकर्णांश्च तरसा पातयन् बहून्
४.०३०.०१४ पर्यस्यन् गिरिकूटानि द्रुमानन्यांश्च वेगतः
४.०३०.०१५ शिलाश्च शकलीकुर्वन् पद्भ्यां गज इवाशुगः
४.०३०.०१५ दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम्
४.०३०.०१६ तामपश्यद्बलाकीर्णां हरिराजमहापुरीम्
४.०३०.०१६ दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे
४.०३०.०१७ रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः
४.०३०.०१७ ददर्श वानरान् भीमान् किष्किन्धाया बहिश्चरान्
४.०३०.०१८ शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्
४.०३०.०१८ जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे
४.०३०.०१९ तान् गृहीतप्रहरणान् हरीन् दृष्ट्वा तु लक्ष्मणः
४.०३०.०१९ बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः
४.०३०.०२० तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः
४.०३०.०२० कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः
४.०३०.०२१ ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः
४.०३०.०२१ क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्
४.०३०.०२२ तारया सहितः कामी सक्तः कपिवृषो रहः
४.०३०.०२२ न तेषां कपिवीराणां शुश्राव वचनं तदा
४.०३०.०२३ ततः सचिवसंदिष्टा हरयो रोमहर्षणाः
४.०३०.०२३ गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा
४.०३०.०२४ नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः
४.०३०.०२४ सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः
४.०३०.०२५ दशनागबलाः के चित्के चिद्दशगुणोत्तराः
४.०३०.०२५ के चिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः
४.०३०.०२६ कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः
४.०३०.०२६ अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम्
४.०३०.०२७ ततस्ते हरयः सर्वे प्राकारपरिखान्तरात्
४.०३०.०२७ निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा
४.०३०.०२८ सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान्
४.०३०.०२८ बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः
४.०३०.०२९ स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः
४.०३०.०२९ बभूव नरशार्दूलसधूम इव पावकः
४.०३०.०३० बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्
४.०३०.०३० स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः
४.०३०.०३१ तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्
४.०३०.०३१ समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम्
४.०३०.०३२ सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः
४.०३०.०३२ सुग्रीवः कथ्यतां वत्स ममागमनमित्युत
४.०३०.०३३ एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदमः
४.०३०.०३३ भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः
४.०३०.०३४ लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्
४.०३०.०३४ पितुः समीपमागम्य सौमित्रिरयमागतः
४.०३०.०३५ ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्
४.०३०.०३५ सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः
४.०३०.०३६ तेन शब्देन महता प्रत्यबुध्यत वानरः
४.०३०.०३६ मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः
४.०३०.०३७ अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ
४.०३०.०३७ मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ
४.०३०.०३८ प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः
४.०३०.०३८ वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः
४.०३०.०३९ प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः
४.०३०.०३९ आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्
४.०३०.०४० सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ
४.०३०.०४० वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ
४.०३०.०४१ तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः
४.०३०.०४१ यस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः
४.०३०.०४२ स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः
४.०३०.०४२ व्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात्
४.०३०.०४३ तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः
४.०३०.०४३ राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः
४.०३१.००१ अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह
४.०३१.००१ लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्
४.०३१.००२ सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम्
४.०३१.००२ मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः
४.०३१.००३ न मे दुर्व्याहृतं किं चिन्नापि मे दुरनुष्ठितम्
४.०३१.००३ लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये
४.०३१.००४ असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः
४.०३१.००४ मम दोषानसंभूताञ्श्रावितो राघवानुजः
४.०३१.००५ अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि
४.०३१.००५ भवद्भिर्निश्चयस्तस्य विज्ञेयो निपुणं शनैः
४.०३१.००६ न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्
४.०३१.००६ मित्रं त्वस्थान कुपितं जनयत्येव संभ्रमम्
४.०३१.००७ सर्वथा सुकरं मित्रं दुष्करं परिपालनम्
४.०३१.००७ अनित्यत्वात्तु चित्तानां प्रीतिरल्पेऽपि भिद्यते
४.०३१.००८ अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना
४.०३१.००८ यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया
४.०३१.००९ सुग्रीवेणैवमुक्तस्तु हनुमान् हरिपुंगवः
४.०३१.००९ उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्
४.०३१.०१० सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर
४.०३१.०१० न विस्मरसि सुस्निग्धमुपकारकृतं शुभम्
४.०३१.०११ राघवेण तु शूरेण भयमुत्सृज्य दूरतः
४.०३१.०११ त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः
४.०३१.०१२ सर्वथा प्रणयात्क्रुद्धो राघवो नात्र संशयः
४.०३१.०१२ भ्रातरं स प्रहितवांल्लक्ष्मणं लक्ष्मिवर्धनम्
४.०३१.०१३ त्वं प्रमत्तो न जानीषे कालं कलविदां वर
४.०३१.०१३ फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा
४.०३१.०१४ निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका
४.०३१.०१४ प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च
४.०३१.०१५ प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव
४.०३१.०१५ त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः
४.०३१.०१६ आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्
४.०३१.०१६ वचनं मर्षणीयं ते राघवस्य महात्मनः
४.०३१.०१७ कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्
४.०३१.०१७ अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्
४.०३१.०१८ नियुक्तैर्मन्त्रिभिर्वाच्यो अवश्यं पार्थिवो हितम्
४.०३१.०१८ अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः
४.०३१.०१९ अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः
४.०३१.०१९ सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्
४.०३१.०२० न स क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत्
४.०३१.०२० पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः
४.०३१.०२१ तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः
४.०३१.०२१ राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे
४.०३१.०२२ न रामरामानुजशासनं त्वया॑ कपीन्द्रयुक्तं मनसाप्यपोहितुम्
४.०३१.०२२ मनो हि ते ज्ञास्यति मानुषं बलं॑ सराघवस्यास्य सुरेन्द्रवर्चसः
४.०३२.००१ अथ प्रतिसमादिष्टो लक्ष्मणः परवीरहा
४.०३२.००१ प्रविवेश गुहां घोरां किष्किन्धां रामशासनात्
४.०३२.००२ द्वारस्था हरयस्तत्र महाकाया महाबलाः
४.०३२.००२ बभूवुर्लक्ष्मणं दृष्ट्वा सर्वे प्राञ्जलयः स्थिताः
४.०३२.००३ निःश्वसन्तं तु तं दृष्ट्वा क्रुद्धं दशरथात्मजम्
४.०३२.००३ बभूवुर्हरयस्त्रस्ता न चैनं पर्यवारयन्
४.०३२.००४ स तं रत्नमयीं श्रीमान् दिव्यां पुष्पितकाननाम्
४.०३२.००४ रम्यां रत्नसमाकीर्णां ददर्श महतीं गुहाम्
४.०३२.००५ हर्म्यप्रासादसंबाधां नानापण्योपशोभिताम्
४.०३२.००५ सर्वकामफलैर्वृक्षैः पुष्पितैरुपशोभिताम्
४.०३२.००६ देवगन्धर्वपुत्रैश्च वानरैः कामरूपिभिः
४.०३२.००६ दिव्य माल्याम्बरधारैः शोभितां प्रियदर्शनैः
४.०३२.००७ चन्दनागरुपद्मानां गन्धैः सुरभिगन्धिनाम्
४.०३२.००७ मैरेयाणां मधूनां च संमोदितमहापथाम्
४.०३२.००८ विन्ध्यमेरुगिरिप्रस्थैः प्रासादैर्नैकभूमिभिः
४.०३२.००८ ददर्श गिरिनद्यश्च विमलास्तत्र राघवः
४.०३२.००९ अङ्गदस्य गृहं रम्यं मैन्दस्य द्विविदस्य च
४.०३२.००९ गवयस्य गवाक्षस्य गजस्य शरभस्य च
४.०३२.०१० विद्युन्मालेश्च संपातेः सूर्याक्षस्य हनूमतः
४.०३२.०१० वीरबाहोः सुबाहोश्च नलस्य च महात्मनः
४.०३२.०११ कुमुदस्य सुषेणस्य तारजाम्बवतोस्तथा
४.०३२.०११ दधिवक्त्रस्य नीलस्य सुपाटलसुनेत्रयोः
४.०३२.०१२ एतेषां कपिमुख्यानां राजमार्गे महात्मनाम्
४.०३२.०१२ ददर्श गृहमुख्यानि महासाराणि लक्ष्मणः
४.०३२.०१३ पाण्डुराभ्रप्रकाशानि दिव्यमाल्ययुतानि च
४.०३२.०१३ प्रभूतधनधान्यानि स्त्रीरत्नैः शोभितानि च
४.०३२.०१४ पाण्डुरेण तु शैलेन परिक्षिप्तं दुरासदम्
४.०३२.०१४ वानरेन्द्रगृहं रम्यं महेन्द्रसदनोपमम्
४.०३२.०१५ शुल्कैः प्रासादशिखरैः कैलासशिखरोपमैः
४.०३२.०१५ सर्वकामफलैर्वृक्षैः पुष्टितैरुपशोभितम्
४.०३२.०१६ महेन्द्रदत्तैः श्रीमद्भिर्नीलजीमूतसंनिभैः
४.०३२.०१६ दिव्यपुष्पफलैर्वृक्षैः शीतच्छायैर्मनोरमैः
४.०३२.०१७ हरिभिः संवृतद्वारं बलिभिः शस्त्रपाणिभिः
४.०३२.०१७ दिव्यमाल्यावृतं शुभ्रं तप्तकाञ्चनतोरणम्
४.०३२.०१८ सुग्रीवस्य गृहं रम्यं प्रविवेश महाबलः
४.०३२.०१८ अवार्यमाणः सौमित्रिर्महाभ्रमिव भास्करः
४.०३२.०१९ स सप्त कक्ष्या धर्मात्मा यानासनसमावृताः
४.०३२.०१९ प्रविश्य सुमहद्गुप्तं ददर्शान्तःपुरं महत्
४.०३२.०२० हैमराजतपर्यङ्कैर्बहुभिश्च वरासनैः
४.०३२.०२० महार्हास्तरणोपेतैस्तत्र तत्रोपशोभितम्
४.०३२.०२१ प्रविशन्नेव सततं शुश्राव मधुरस्वरम्
४.०३२.०२१ तन्त्रीगीतसमाकीर्णं समगीतपदाक्षरम्
४.०३२.०२२ बह्वीश्च विविधाकारा रूपयौवनगर्विताः
४.०३२.०२२ स्त्रियः सुग्रीवभवने ददर्श स महाबलः
४.०३२.०२३ दृष्ट्वाभिजनसंपन्नाश्चित्रमाल्यकृतस्रजः
४.०३२.०२३ वरमाल्यकृतव्यग्रा भूषणोत्तमभूषिताः
४.०३२.०२४ नातृप्तान्नाति च व्यग्रान्नानुदात्तपरिच्छदान्
४.०३२.०२४ सुग्रीवानुचरांश्चापि लक्षयामास लक्ष्मणः
४.०३२.०२५ ततः सुग्रीवमासीनं काञ्चने परमासने
४.०३२.०२५ महार्हास्तरणोपेते ददर्शादित्यसंनिभम्
४.०३२.०२६ दिव्याभरणचित्राङ्गं दिव्यरूपं यशस्विनम्
४.०३२.०२६ दिव्यमाल्याम्बरधरं महेन्द्रमिव दुर्जयम्
४.०३२.०२६ दिव्याभरणमाल्याभिः प्रमदाभिः समावृतम्
४.०३२.०२७ रुमां तु वीरः परिरभ्य गाढं॑ वरासनस्थो वरहेमवर्णः
४.०३२.०२७ ददर्श सौमित्रिमदीनसत्त्वं॑ विशालनेत्रः सुविशालनेत्रम्
४.०३३.००१ तमप्रतिहतं क्रुद्धं प्रविष्टं पुरुषर्षभम्
४.०३३.००१ सुग्रीवो लक्ष्मणं दृष्ट्वा बभूव व्यथितेन्द्रियः
४.०३३.००२ क्रुद्धं निःश्वसमानं तं प्रदीप्तमिव तेजसा
४.०३३.००२ भ्रातुर्व्यसनसंतप्तं दृष्ट्वा दशरथात्मजम्
४.०३३.००३ उत्पपात हरिश्रेष्ठो हित्वा सौवर्णमासनम्
४.०३३.००३ महान्महेन्द्रस्य यथा स्वलंकृत इव ध्वजः
४.०३३.००४ उत्पतन्तमनूत्पेतू रुमाप्रभृतयः स्त्रियः
४.०३३.००४ सुग्रीवं गगने पूर्णं चन्द्रं तारागणा इव
४.०३३.००५ संरक्तनयनः श्रीमान् विचचाल कृताञ्जलिः
४.०३३.००५ बभूवावस्थितस्तत्र कल्पवृक्षो महानिव
४.०३३.००६ रुमा द्वितीयं सुग्रीवं नारीमध्यगतं स्थितम्
४.०३३.००६ अब्रवील्लक्ष्मणः क्रुद्धः सतारं शशिनं यथा
४.०३३.००७ सत्त्वाभिजनसंपन्नः सानुक्रोशो जितेन्द्रियः
४.०३३.००७ कृतज्ञः सत्यवादी च राजा लोके महीयते
४.०३३.००८ यस्तु राजा स्थितोऽधर्मे मित्राणामुपकारिणाम्
४.०३३.००८ मिथ्याप्रतिज्ञां कुरुते को नृशंसतरस्ततः
४.०३३.००९ शतमश्वानृते हन्ति सहस्रं तु गवानृते
४.०३३.००९ आत्मानं स्वजनं हन्ति पुरुषः पुरुषानृते
४.०३३.०१० पूर्वं कृतार्थो मित्राणां न तत्प्रतिकरोति यः
४.०३३.०१० कृतघ्नः सर्वभूतानां स वध्यः प्लवगेश्वर
४.०३३.०११ गीतोऽयं ब्रह्मणा श्लोकः सर्वलोकनमस्कृतः
४.०३३.०११ दृष्ट्वा कृतघ्नं क्रुद्धेन तं निबोध प्लवंगम
४.०३३.०१२ ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा
४.०३३.०१२ निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः
४.०३३.०१३ अनार्यस्त्वं कृतघ्नश्च मिथ्यावादी च वानर
४.०३३.०१३ पूर्वं कृतार्थो रामस्य न तत्प्रतिकरोषि यत्
४.०३३.०१४ ननु नाम कृतार्थेन त्वया रामस्य वानर
४.०३३.०१४ सीताया मार्गणे यत्नः कर्तव्यः कृतमिच्छता
४.०३३.०१५ स त्वं ग्राम्येषु भोगेषु सक्तो मिथ्या प्रतिश्रवः
४.०३३.०१५ न त्वां रामो विजानीते सर्पं मण्डूकराविणम्
४.०३३.०१६ महाभागेन रामेण पापः करुणवेदिना
४.०३३.०१६ हरीणां प्रापितो राज्यं त्वं दुरात्मा महात्मना
४.०३३.०१७ कृतं चेन्नाभिजानीषे रामस्याक्लिष्टकर्मणः
४.०३३.०१७ सद्यस्त्वं निशितैर्बाणैर्हतो द्रक्ष्यसि वालिनम्
४.०३३.०१८ न च संकुचितः पन्था येन वाली हतो गतः
४.०३३.०१८ समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः
४.०३३.०१९ न नूनमिक्ष्वाकुवरस्य कार्मुकाच्॑ च्युताञ्शरान् पश्यसि वज्रसंनिभान्
४.०३३.०१९ ततः सुखं नाम निषेवसे सुखी॑ न रामकार्यं मनसाप्यवेक्षसे
४.०३४.००१ तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा
४.०३४.००१ अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना
४.०३४.००२ नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति
४.०३४.००२ हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः
४.०३४.००३ नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः
४.०३४.००३ नैवानृतकथो वीर न जिह्मश्च कपीश्वरः
४.०३४.००४ उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः
४.०३४.००४ रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे
४.०३४.००५ रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम्
४.०३४.००५ प्राप्तवानिह सुग्रीवो रुमां मां च परंतप
४.०३४.००६ सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम्
४.०३४.००६ प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः
४.०३४.००७ घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण
४.०३४.००७ अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः
४.०३४.००८ स हि प्राप्तं न जानीते कालं कालविदां वरः
४.०३४.००८ विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः
४.०३४.००९ देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण
४.०३४.००९ अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति
४.०३४.०१० न च रोषवशं तात गन्तुमर्हसि लक्ष्मण
४.०३४.०१० निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा
४.०३४.०११ सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ
४.०३४.०११ अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्
४.०३४.०१२ प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता
४.०३४.०१२ महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्
४.०३४.०१३ रुमां मां कपिराज्यं च धनधान्यवसूनि च
४.०३४.०१३ रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम
४.०३४.०१४ समानेष्व्यति सुग्रीवः सीतया सह राघवम्
४.०३४.०१४ शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे
४.०३४.०१५ शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्
४.०३४.०१५ अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च
४.०३४.०१६ अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः
४.०३४.०१६ न शक्यो रावणो हन्तुं येन सा मैथिली हृता
४.०३४.०१७ ते न शक्या रणे हन्तुमसहायेन लक्ष्मण
४.०३४.०१७ रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः
४.०३४.०१८ एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः
४.०३४.०१८ आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम्
४.०३४.०१९ त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः
४.०३४.०१९ आनेतुं वानरान् युद्धे सुबहून् हरियूथपान्
४.०३४.०२० तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्
४.०३४.०२० राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः
४.०३४.०२१ कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा
४.०३४.०२१ अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः
४.०३४.०२२ ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च
४.०३४.०२२ अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम
४.०३४.०२२ कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्
४.०३४.०२३ तव हि मुखमिदं निरीक्ष्य कोपात्॑ क्षतजनिभे नयने निरीक्षमाणाः
४.०३४.०२३ हरिवरवनिता न यान्ति शान्तिं॑ प्रथमभयस्य हि शङ्किताः स्म सर्वाः
४.०३५.००१ इत्युक्तस्तारया वाक्यं प्रश्रितं धर्मसंहितम्
४.०३५.००१ मृदुस्वभावः सौमित्रिः प्रतिजग्राह तद्वचः
४.०३५.००२ तस्मिन् प्रतिगृहीते तु वाक्ये हरिगणेश्वरः
४.०३५.००२ लक्ष्मणात्सुमहत्त्रासं वस्त्रं क्लिन्नमिवात्यजत्
४.०३५.००३ ततः कण्ठगतं माल्यं चित्रं बहुगुणं महत्
४.०३५.००३ चिच्छेद विमदश्चासीत्सुग्रीवो वानरेश्वरः
४.०३५.००४ स लक्ष्मणं भीमबलं सर्ववानरसत्तमः
४.०३५.००४ अब्रवीत्प्रश्रितं वाक्यं सुग्रीवः संप्रहर्षयन्
४.०३५.००५ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्
४.०३५.००५ रामप्रसादात्सौमित्रे पुनः प्राप्तमिदं मया
४.०३५.००६ कः शक्तस्तस्य देवस्य ख्यातस्य स्वेन कर्मणा
४.०३५.००६ तादृशं विक्रमं वीर प्रतिकर्तुमरिंदम
४.०३५.००७ सीतां प्राप्स्यति धर्मात्मा वधिष्यति च रावणम्
४.०३५.००७ सहायमात्रेण मया राघवः स्वेन तेजसा
४.०३५.००८ सहायकृत्यं हि तस्य येन सप्त महाद्रुमाः
४.०३५.००८ शैलश्च वसुधा चैव बाणेनैकेन दारिताः
४.०३५.००९ धनुर्विस्फारमाणस्य यस्य शब्देन लक्ष्मण
४.०३५.००९ सशैला कम्पिता भूमिः सहायैस्तस्य किं नु वै
४.०३५.०१० अनुयात्रां नरेन्द्रस्य करिष्येऽहं नरर्षभ
४.०३५.०१० गच्छतो रावणं हन्तुं वैरिणं सपुरःसरम्
४.०३५.०११ यदि किं चिदतिक्रान्तं विश्वासात्प्रणयेन वा
४.०३५.०११ प्रेष्यस्य क्षमितव्यं मे न कश्चिन्नापराध्यति
४.०३५.०१२ इति तस्य ब्रुवाणस्य सुग्रीवस्य महात्मनः
४.०३५.०१२ अभवल्लक्ष्मणः प्रीतः प्रेंणा चेदमुवाच ह
४.०३५.०१३ सर्वथा हि मम भ्राता सनाथो वानरेश्वर
४.०३५.०१३ त्वया नाथेन सुग्रीव प्रश्रितेन विशेषतः
४.०३५.०१४ यस्ते प्रभावः सुग्रीव यच्च ते शौचमुत्तमम्
४.०३५.०१४ अर्हस्तं कपिराज्यस्य श्रियं भोक्तुमनुत्तमाम्
४.०३५.०१५ सहायेन च सुग्रीव त्वया रामः प्रतापवान्
४.०३५.०१५ वधिष्यति रणे शत्रूनचिरान्नात्र संशयः
४.०३५.०१६ धर्मज्ञस्य कृतज्ञस्य संग्रामेष्वनिवर्तिनः
४.०३५.०१६ उपपन्नं च युक्तं च सुग्रीव तव भाषितम्
४.०३५.०१७ दोषज्ञः सति सामर्थ्ये कोऽन्यो भाषितुमर्हति
४.०३५.०१७ वर्जयित्वा मम ज्येष्ठं त्वां च वानरसत्तम
४.०३५.०१८ सदृशश्चासि रामस्य विक्रमेण बलेन च
४.०३५.०१८ सहायो दैवतैर्दत्तश्चिराय हरिपुंगव
४.०३५.०१९ किं तु शीघ्रमितो वीर निष्क्राम त्वं मया सह
४.०३५.०१९ सान्त्वयस्व वयस्यं च भार्याहरणदुःखितम्
४.०३५.०२० यच्च शोकाभिभूतस्य श्रुत्वा रामस्य भाषितम्
४.०३५.०२० मया त्वं परुषाण्युक्तस्तच्च त्वं क्षन्तुमर्हसि
४.०३६.००१ एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना
४.०३६.००१ हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत्
४.०३६.००२ महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च
४.०३६.००२ मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः
४.०३६.००३ तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः
४.०३६.००३ पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि
४.०३६.००४ आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे
४.०३६.००४ पद्मतालवनं भीमं संश्रिता हरिपुंगवाः
४.०३६.००५ अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः
४.०३६.००५ अञ्जने परते चैव ये वसन्ति प्लवंगमाः
४.०३६.००६ मनःशिला गुहावासा वानराः कनकप्रभाः
४.०३६.००६ मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः
४.०३६.००७ तरुणादित्यवर्णाश्च पर्वते ये महारुणे
४.०३६.००७ पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः
४.०३६.००८ वनेषु च सुरम्येषु सुगन्धिषु महत्सु च
४.०३६.००८ तापसानां च रम्येषु वनान्तेषु समन्ततः
४.०३६.००९ तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान्
४.०३६.००९ सामदानादिभिः कल्पैराशु प्रेषय वानरान्
४.०३६.०१० प्रेषिताः प्रथमं ये च मया दूता महाजवाः
४.०३६.०१० त्वरणार्थं तु भूयस्त्वं हरीन् संप्रेषयापरान्
४.०३६.०११ ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः
४.०३६.०११ इहानयस्व तान् सर्वाञ्शीघ्रं तु मम शासनात्
४.०३६.०१२ अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया
४.०३६.०१२ हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः
४.०३६.०१३ शतान्यथ सहस्राणि कोट्यश्च मम शासनात्
४.०३६.०१३ प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः
४.०३६.०१४ मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम्
४.०३६.०१४ घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः
४.०३६.०१५ ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः
४.०३६.०१५ आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम
४.०३६.०१६ तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः
४.०३६.०१६ दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्
४.०३६.०१७ ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः
४.०३६.०१७ प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै
४.०३६.०१८ ते समुद्रेषु गिरिषु वनेषु च सरित्सु च
४.०३६.०१८ वानरा वानरान् सर्वान् रामहेतोरचोदयन्
४.०३६.०१९ मृत्युकालोपमस्याज्ञां राजराजस्य वानराः
४.०३६.०१९ सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः
४.०३६.०२० ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः
४.०३६.०२० तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः
४.०३६.०२१ अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः
४.०३६.०२१ तप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः
४.०३६.०२२ कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम्
४.०३६.०२२ ततः कोटिसहस्राणि वानराणामुपागमन्
४.०३६.०२३ फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः
४.०३६.०२३ तेषां कोटिसहस्राणां सहस्रं समवर्तत
४.०३६.०२४ अङ्गारक समानानां भीमानां भीमकर्मणाम्
४.०३६.०२४ विन्ध्याद्वानरकोटीनां सहस्राण्यपतन् द्रुतम्
४.०३६.०२५ क्षीरोदवेलानिलयास्तमालवनवासिनः
४.०३६.०२५ नारिकेलाशनाश्चैव तेषां संख्या न विद्यते
४.०३६.०२६ वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः
४.०३६.०२६ आगच्छद्वानरी सेना पिबन्तीव दिवाकरम्
४.०३६.०२७ ये तु त्वरयितुं याता वानराः सर्ववानरान्
४.०३६.०२७ ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम्
४.०३६.०२८ तस्मिन् गिरिवरे रम्ये यज्ञो महेश्वरः पुरा
४.०३६.०२८ सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः
४.०३६.०२९ अन्नविष्यन्दजातानि मूलानि च फलानि च
४.०३६.०२९ अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः
४.०३६.०३० तदन्न संभवं दिव्यं फलं मूलं मनोहरम्
४.०३६.०३० यः कश्चित्सकृदश्नाति मासं भवति तर्पितः
४.०३६.०३१ तानि मूलानि दिव्यानि फलानि च फलाशनाः
४.०३६.०३१ औषधानि च दिव्यानि जगृहुर्हरियूथपाः
४.०३६.०३२ तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च
४.०३६.०३२ आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्
४.०३६.०३३ ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्
४.०३६.०३३ संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः
४.०३६.०३४ ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः
४.०३६.०३४ किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः
४.०३६.०३५ ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः
४.०३६.०३५ तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्
४.०३६.०३६ सर्वे परिगताः शैलाः समुद्राश्च वनानि च
४.०३६.०३६ पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते
४.०३६.०३७ एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः
४.०३६.०३७ प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम्
४.०३७.००१ प्रतिगृह्य च तत्सर्वमुपानयमुपाहृतम्
४.०३७.००१ वानरान् सान्त्वयित्वा च सर्वानेव व्यसर्जयत्
४.०३७.००२ विसर्जयित्वा स हरीञ्शूरांस्तान् कृतकर्मणः
४.०३७.००२ मेने कृतार्थमात्मानं राघवं च महाबलम्
४.०३७.००३ स लक्ष्मणो भीमबलं सर्ववानरसत्तमम्
४.०३७.००३ अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं संप्रहर्षयन्
४.०३७.००३ किष्किन्धाया विनिष्क्राम यदि ते सौम्य रोचते
४.०३७.००४ तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य सुभाषितम्
४.०३७.००४ सुग्रीवः परमप्रीतो वाक्यमेतदुवाच ह
४.०३७.००५ एवं भवतु गच्छामः स्थेयं त्वच्छासने मया
४.०३७.००५ तमेवमुक्त्वा सुग्रीवो लक्ष्मणं शुभलक्ष्मणम्
४.०३७.००६ विसर्जयामास तदा तारामन्याश्च योषितः
४.०३७.००६ एतेत्युच्चैर्हरिवरान् सुग्रीवः समुदाहरत्
४.०३७.००७ तस्य तद्वचनं श्रुत्वा हरयः शीघ्रमाययुः
४.०३७.००७ बद्धाञ्जलिपुटाः सर्वे ये स्युः स्त्रीदर्शनक्षमाः
४.०३७.००८ तानुवाच ततः प्राप्तान् राजार्कसदृशप्रभः
४.०३७.००८ उपस्थापयत क्षिप्रं शिबिकां मम वानराः
४.०३७.००९ श्रुत्वा तु वचनं तस्य हरयः शीघ्रविक्रमाः
४.०३७.००९ समुपस्थापयामासुः शिबिकां प्रियदर्शनाम्
४.०३७.०१० तामुपस्थापितां दृष्ट्वा शिबिकां वानराधिपः
४.०३७.०१० लक्ष्मणारुह्यतां शीघ्रमिति सौमित्रिमब्रवीत्
४.०३७.०११ इत्युक्त्वा काञ्चनं यानं सुग्रीवः सूर्यसंनिभम्
४.०३७.०११ बृहद्भिर्हरिभिर्युक्तमारुरोह सलक्ष्मणः
४.०३७.०१२ पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
४.०३७.०१२ शुक्लैश्च बालव्यजनैर्धूयमानैः समन्ततः
४.०३७.०१३ शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः
४.०३७.०१३ निर्ययौ प्राप्य सुग्रीवो राज्यश्रियमनुत्तमाम्
४.०३७.०१४ स वानरशतैस्तीष्क्णैर्बहुभिः शस्त्रपाणिभिः
४.०३७.०१४ परिकीर्णो ययौ तत्र यत्र रामो व्यवस्थितः
४.०३७.०१५ स तं देशमनुप्राप्य श्रेष्ठं रामनिषेवितम्
४.०३७.०१५ अवातरन्महातेजाः शिबिकायाः सलक्ष्मणः
४.०३७.०१६ आसाद्य च ततो रामं कृताञ्जलिपुटोऽभवत्
४.०३७.०१६ कृताञ्जलौ स्थिते तस्मिन् वानराश्चभवंस्तथा
४.०३७.०१७ तटाकमिव तद्दृष्ट्वा रामः कुड्मलपङ्कजम्
४.०३७.०१७ वानराणां महत्सैन्यं सुग्रीवे प्रीतिमानभूत्
४.०३७.०१८ पादयोः पतितं मूर्ध्ना तमुत्थाप्य हरीश्वरम्
४.०३७.०१८ प्रेंणा च बहुमानाच्च राघवः परिषस्वजे
४.०३७.०१९ परिष्वज्य च धर्मात्मा निषीदेति ततोऽब्रवीत्
४.०३७.०१९ तं निषण्णं ततो दृष्ट्वा क्षितौ रामोऽब्रवीद्वचः
४.०३७.०२० धर्ममर्थं च कामं च काले यस्तु निषेवते
४.०३७.०२० विभज्य सततं वीर स राजा हरिसत्तम
४.०३७.०२१ हित्वा धर्मं तथार्थं च कामं यस्तु निषेवते
४.०३७.०२१ स वृक्षाग्रे यथा सुप्तः पतितः प्रतिबुध्यते
४.०३७.०२२ अमित्राणां वधे युक्तो मित्राणां संग्रहे रतः
४.०३७.०२२ त्रिवर्गफलभोक्ता तु राजा धर्मेण युज्यते
४.०३७.०२३ उद्योगसमयस्त्वेष प्राप्तः शत्रुविनाशन
४.०३७.०२३ संचिन्त्यतां हि पिङ्गेश हरिभिः सह मन्त्रिभिः
४.०३७.०२४ एवमुक्तस्तु सुग्रीवो रामं वचनमब्रवीत्
४.०३७.०२५ प्रनष्टा श्रीश्च कीर्तिश्च कपिराज्यं च शाश्वतम्
४.०३७.०२५ त्वत्प्रसादान्महाबाहो पुनः प्राप्तमिदं मया
४.०३७.०२६ तव देवप्रसदाच्च भ्रातुश्च जयतां वर
४.०३७.०२६ कृतं न प्रतिकुर्याद्यः पुरुषाणां स दूषकः
४.०३७.०२७ एते वानरमुख्याश्च शतशः शत्रुसूदन
४.०३७.०२७ प्राप्ताश्चादाय बलिनः पृथिव्यां सर्ववानरान्
४.०३७.०२८ ऋक्षाश्चावहिताः शूरा गोलाङ्गूलाश्च राघव
४.०३७.०२८ कान्तार वनदुर्गाणामभिज्ञा घोरदर्शनाः
४.०३७.०२९ देवगन्धर्वपुत्राश्च वानराः कामरूपिणः
४.०३७.०२९ स्वैः स्वैः परिवृताः सैन्यैर्वर्तन्ते पथि राघव
४.०३७.०३० शतैः शतसहस्रैश्च कोटिभिश्च प्लवंगमाः
४.०३७.०३० अयुतैश्चावृता वीरा शङ्कुभिश्च परंतप
४.०३७.०३१ अर्बुदैरर्बुदशतैर्मध्यैश्चान्तैश्च वानराः
४.०३७.०३१ समुद्रैश्च परार्धैश्च हरयो हरियूथपाः
४.०३७.०३२ आगमिष्यन्ति ते राजन्महेन्द्रसमविक्रमाः
४.०३७.०३२ मेरुमन्दरसंकाशा विन्ध्यमेरुकृतालयाः
४.०३७.०३३ ते त्वामभिगमिष्यन्ति राक्षसं ये सबान्धवम्
४.०३७.०३३ निहत्य रावणं संख्ये ह्यानयिष्यन्ति मैथिलीम्
४.०३७.०३४ ततस्तमुद्योगमवेक्ष्य बुद्धिमान्॑ हरिप्रवीरस्य निदेशवर्तिनः
४.०३७.०३४ बभूव हर्षाद्वसुधाधिपात्मजः॑ प्रबुद्धनीलोत्पलतुल्यदर्शनः
४.०३८.००१ इति ब्रुवाणं सुग्रीवं रामो धर्मभृतां वरः
४.०३८.००१ बाहुभ्यां संपरिष्वज्य प्रत्युवाच कृताञ्जलिम्
४.०३८.००२ यदिन्द्रो वर्षते वर्षं न तच्चित्रं भवेद्भुवि
४.०३८.००२ आदित्यो वा सहस्रांशुः कुर्याद्वितिमिरं नभः
४.०३८.००३ चन्द्रमा रश्मिभिः कुर्यात्पृथिवीं सौम्य निर्मलाम्
४.०३८.००३ त्वद्विधो वापि मित्राणां प्रतिकुर्यात्परंतप
४.०३८.००४ एवं त्वयि न तच्चित्रं भवेद्यत्सौम्य शोभनम्
४.०३८.००४ जानाम्यहं त्वां सुग्रीव सततं प्रियवादिनम्
४.०३८.००५ त्वत्सनाथः सखे संख्ये जेतास्मि सकलानरीन्
४.०३८.००५ त्वमेव मे सुहृन्मित्रं साहाय्यं कर्तुमर्हसि
४.०३८.००६ जहारात्मविनाशाय वैदेहीं राक्षसाधमः
४.०३८.००६ वञ्चयित्वा तु पौलोमीमनुह्लादो यथा शचीम्
४.०३८.००७ नचिरात्तं हनिष्यामि रावणं निशितैः शरैः
४.०३८.००७ पौलोम्याः पितरं दृप्तं शतक्रतुरिवारिहा
४.०३८.००८ एतस्मिन्नन्तरे चैव रजः समभिवर्तत
४.०३८.००८ उष्णां तीव्रां सहस्रांशोश्छादयद्गगने प्रभाम्
४.०३८.००९ दिशः पर्याकुलाश्चासन् रजसा तेन मूर्छिताः
४.०३८.००९ चचाल च मही सर्वा सशैलवनकानना
४.०३८.०१० ततो नगेन्द्रसंकाशैस्तीक्ष्ण दंष्ट्रैर्महाबलैः
४.०३८.०१० कृत्स्ना संछादिता भूमिरसंख्येयैः प्लवंगमैः
४.०३८.०११ निमेषान्तरमात्रेण ततस्तैर्हरियूथपैः
४.०३८.०११ कोटीशतपरीवारैः कामरूपिभिरावृता
४.०३८.०१२ नादेयैः पार्वतीयैश्च सामुद्रैश्च महाबलैः
४.०३८.०१२ हरिभिर्मेघनिर्ह्रादैरन्यैश्च वनचारिभिः
४.०३८.०१३ तरुणादित्यवर्णैश्च शशिगौरैश्च वानरैः
४.०३८.०१३ पद्मकेसरवर्णैश्च श्वेतैर्मेरुकृतालयैः
४.०३८.०१४ कोटीसहस्रैर्दशभिः श्रीमान् परिवृतस्तदा
४.०३८.०१४ वीरः शतबलिर्नाम वानरः प्रत्यदृश्यत
४.०३८.०१५ ततः काञ्चनशैलाभस्ताराया वीर्यवान् पिता
४.०३८.०१५ अनेकैर्दशसाहस्रैः कोटिभिः प्रत्यदृश्यत
४.०३८.०१६ पद्मकेसरसंकाशस्तरुणार्कनिभाननः
४.०३८.०१६ बुद्धिमान् वानरश्रेष्ठः सर्ववानरसत्तमः
४.०३८.०१७ अनीकैर्बहुसाहस्रैर्वानराणां समन्वितः
४.०३८.०१७ पिता हनुमतः श्रीमान् केसरी प्रत्यदृश्यत
४.०३८.०१८ गोलाङ्गूलमहाराजो गवाक्षो भीमविक्रमः
४.०३८.०१८ वृतः कोटिसहस्रेण वानराणामदृश्यत
४.०३८.०१९ ऋक्षाणां भीमवेगानां धूम्रः शत्रुनिबर्हणः
४.०३८.०१९ वृतः कोटिसहस्राभ्यां द्वाभ्यां समभिवर्तत
४.०३८.०२० महाचलनिभैर्घोरैः पनसो नाम यूथपः
४.०३८.०२० आजगाम महावीर्यस्तिसृभिः कोटिभिर्वृतः
४.०३८.०२१ नीलाञ्जनचयाकारो नीलो नामाथ यूथपः
४.०३८.०२१ अदृश्यत महाकायः कोटिभिर्दशभिर्वृतः
४.०३८.०२२ दरीमुखश्च बलवान् यूथपोऽभ्याययौ तदा
४.०३८.०२२ वृतः कोटिसहस्रेण सुग्रीवं समुपस्थितः
४.०३८.०२३ मैन्दश्च द्विविदश्चोभावश्विपुत्रौ महावलौ
४.०३८.०२३ कोटिकोटिसहस्रेण वानराणामदृश्यताम्
४.०३८.०२४ ततः कोटिसहस्राणां सहस्रेण शतेन च
४.०३८.०२४ पृष्ठतोऽनुगतः प्राप्तो हरिभिर्गन्धमादनः
४.०३८.०२५ ततः पद्मसहस्रेण वृतः शङ्कुशतेन च
४.०३८.०२५ युवराजोऽङ्गदः प्राप्तः पितृतुल्यपराक्रमः
४.०३८.०२६ ततस्ताराद्युतिस्तारो हरिर्भीमपराक्रमः
४.०३८.०२६ पञ्चभिर्हरिकोटीभिर्दूरतः प्रत्यदृश्यत
४.०३८.०२७ इन्द्रजानुः कपिर्वीरो यूथपः प्रत्यदृश्यत
४.०३८.०२७ एकादशानां कोटीनामीश्वरस्तैश्च संवृतः
४.०३८.०२८ ततो रम्भस्त्वनुप्राप्तस्तरुणादित्यसंनिभः
४.०३८.०२८ अयुतेन वृतश्चैव सहस्रेण शतेन च
४.०३८.०२९ ततो यूथपतिर्वीरो दुर्मुखो नाम वानरः
४.०३८.०२९ प्रत्यदृश्यत कोटिभ्यां द्वाभ्यां परिवृतो बली
४.०३८.०३० कैलासशिखराकारैर्वानरैर्भीमविक्रमैः
४.०३८.०३० वृतः कोटिसहस्रेण हनुमान् प्रत्यदृश्यत
४.०३८.०३१ नलश्चापि महावीर्यः संवृतो द्रुमवासिभिः
४.०३८.०३१ कोटीशतेन संप्राप्तः सहस्रेण शतेन च
४.०३८.०३२ शरभः कुमुदो वह्निर्वानरो रम्भ एव च
४.०३८.०३२ एते चान्ये च बहवो वानराः कामरूपिणः
४.०३८.०३३ आवृत्य पृथिवीं सर्वां पर्वतांश्च वनानि च
४.०३८.०३३ आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः
४.०३८.०३३ अभ्यवर्तन्त सुग्रीवं सूर्यमभ्रगणा इव
४.०३८.०३४ कुर्वाणा बहुशब्दांश्च प्रहृष्टा बलशालिनः
४.०३८.०३४ शिरोभिर्वानरेन्द्राय सुग्रीवाय न्यवेदयन्
४.०३८.०३५ अपरे वानरश्रेष्ठाः संगम्य च यथोचितम्
४.०३८.०३५ सुग्रीवेण समागम्य स्थिताः प्राञ्जलयस्तदा
४.०३८.०३६ सुग्रीवस्त्वरितो रामे सर्वांस्तान् वानरर्षभान्
४.०३८.०३६ निवेदयित्वा धर्मज्ञः स्थितः प्राञ्जलिरब्रवीत्
४.०३८.०३७ यथा सुखं पर्वतनिर्झरेषु॑ वनेषु सर्वेषु च वानरेन्द्राः
४.०३८.०३७ निवेशयित्वा विधिवद्बलानि॑ बलं बलज्ञः प्रतिपत्तुमीष्टे
४.०३९.००१ अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः
४.०३९.००१ उवाच नरशार्दूलं रामं परबलार्दनम्
४.०३९.००२ आगता विनिविष्टाश्च बलिनः कामरूपिणः
४.०३९.००२ वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः
४.०३९.००३ त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः
४.०३९.००३ आगता वानरा घोरा दैत्यदानवसंनिभाः
४.०३९.००४ ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः
४.०३९.००४ पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः
४.०३९.००५ पृथिव्यम्बुचरा राम नानानगनिवासिनः
४.०३९.००५ कोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः
४.०३९.००६ निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः
४.०३९.००६ अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम
४.०३९.००७ यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्
४.०३९.००७ तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि
४.०३९.००८ काममेषामिदं कार्यं विदितं मम तत्त्वतः
४.०३९.००८ तथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि
४.०३९.००९ तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः
४.०३९.००९ बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत्
४.०३९.०१० ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा
४.०३९.०१० स च देशो महाप्राज्ञ यस्मिन् वसति रावणः
४.०३९.०११ अधिगम्य च वैदेहीं निलयं रावणस्य च
४.०३९.०११ प्राप्तकालं विधास्यामि तस्मिन् काले सह त्वया
४.०३९.०१२ नाहमस्मिन् प्रभुः कार्ये वानरेश न लक्ष्मणः
४.०३९.०१२ त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर
४.०३९.०१३ त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्
४.०३९.०१३ त्वं हि जानासि यत्कार्यं मम वीर न संशयः
४.०३९.०१४ सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्
४.०३९.०१४ भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः
४.०३९.०१५ एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्
४.०३९.०१५ अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः
४.०३९.०१५ शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम्
४.०३९.०१६ सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम
४.०३९.०१६ देशकालनयैर्युक्तः कार्याकार्यविनिश्चये
४.०३९.०१७ वृतः शतसहस्रेण वानराणां तरस्विनाम्
४.०३९.०१७ अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्
४.०३९.०१८ तत्र सीतां च वैदेहीं निलयं रावणस्य च
४.०३९.०१८ मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च
४.०३९.०१९ नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा
४.०३९.०१९ कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम्
४.०३९.०२० सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्
४.०३९.०२० महीं कालमहीं चैव शैलकाननशोभिताम्
४.०३९.०२१ ब्रह्ममालान् विदेहांश्च मालवान् काशिकोसलान्
४.०३९.०२१ मागधांश्च महाग्रामान् पुण्ड्रान् वङ्गांस्तथैव च
४.०३९.०२२ पत्तनं कोशकाराणां भूमिं च रजताकराम्
४.०३९.०२२ सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः
४.०३९.०२३ रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम्
४.०३९.०२३ समुद्रमवगाढांश्च पर्वतान् पत्तनानि च
४.०३९.०२४ मन्दरस्य च ये कोटिं संश्रिताः के चिदायताम्
४.०३९.०२४ कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः
४.०३९.०२५ घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः
४.०३९.०२५ अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः
४.०३९.०२६ किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः
४.०३९.०२६ आममीनाशनास्तत्र किराता द्वीपवासिनः
४.०३९.०२७ अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः
४.०३९.०२७ एतेषामालयाः सर्वे विचेयाः काननौकसः
४.०३९.०२८ गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च
४.०३९.०२८ रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम्
४.०३९.०२९ सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्
४.०३९.०२९ यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः
४.०३९.०३० दिवं स्पृशति शृङ्गेण देवदानवसेवितः
४.०३९.०३० एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च
४.०३९.०३१ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
४.०३९.०३१ ततः समुद्रद्वीपांश्च सुभीमान् द्रष्टुमर्हथ
४.०३९.०३२ तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः
४.०३९.०३२ ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः
४.०३९.०३३ तं कालमेघप्रतिमं महोरगनिषेवितम्
४.०३९.०३३ अभिगम्य महानादं तीर्थेनैव महोदधिम्
४.०३९.०३४ ततो रक्तजलं भीमं लोहितं नाम सागरम्
४.०३९.०३४ गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्
४.०३९.०३५ गृहं च वैनतेयस्य नानारत्नविभूषितम्
४.०३९.०३५ तत्र कैलाससंकाशं विहितं विश्वकर्मणा
४.०३९.०३६ तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः
४.०३९.०३६ शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः
४.०३९.०३७ ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति
४.०३९.०३७ अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः
४.०३९.०३८ ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम्
४.०३९.०३८ गता द्रक्ष्यथ दुर्धर्षा मुखा हारमिवोर्मिभिः
४.०३९.०३९ तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः
४.०३९.०३९ दिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः
४.०३९.०४० सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः
४.०३९.०४० नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम्
४.०३९.०४१ विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः
४.०३९.०४१ हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः
४.०३९.०४२ क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः
४.०३९.०४२ जलोदं सागरश्रेष्ठं सर्वभूतभयावहम्
४.०३९.०४३ तत्र तत्कोपजं तेजः कृतं हयमुखं महत्
४.०३९.०४३ अस्याहुस्तन्महावेगमोदनं सचराचरम्
४.०३९.०४४ तत्र विक्रोशतां नादो भूतानां सागरौकसाम्
४.०३९.०४४ श्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम्
४.०३९.०४५ स्वादूदस्योत्तरे देशे योजनानि त्रयोदश
४.०३९.०४५ जातरूपशिलो नाम महान् कनकपर्वतः
४.०३९.०४६ आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम्
४.०३९.०४६ सहस्रशिरसं देवमनन्तं नीलवाससं
४.०३९.०४७ त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः
४.०३९.०४७ स्थापितः पर्वतस्याग्रे विराजति सवेदिकः
४.०३९.०४८ पूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैः
४.०३९.०४८ ततः परं हेममयः श्रीमानुदयपर्वतः
४.०३९.०४९ तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता
४.०३९.०४९ जातरूपमयी दिव्या विराजति सवेदिका
४.०३९.०५० सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः
४.०३९.०५० जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः
४.०३९.०५१ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्
४.०३९.०५१ शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्
४.०३९.०५२ तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे
४.०३९.०५२ द्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः
४.०३९.०५३ उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः
४.०३९.०५३ दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्
४.०३९.०५४ तत्र वैखानसा नाम वालखिल्या महर्षयः
४.०३९.०५४ प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः
४.०३९.०५५ अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते
४.०३९.०५५ यस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृतामपि
४.०३९.०५६ शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च
४.०३९.०५६ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
४.०३९.०५७ काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः
४.०३९.०५७ आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते
४.०३९.०५८ ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता
४.०३९.०५८ रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता
४.०३९.०५९ शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च
४.०३९.०५९ य च नोक्ता मया देशा विचेया तेषु जानकी
४.०३९.०६० एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः
४.०३९.०६० अभास्करममर्यादं न जानीमस्ततः परम्
४.०३९.०६१ अधिगम्य तु वैदेहीं निलयं रावणस्य च
४.०३९.०६१ मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्
४.०३९.०६२ ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम
४.०३९.०६२ सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्
४.०३९.०६३ महेन्द्रकान्तां वनषण्ड मण्डितां॑ दिशं चरित्वा निपुणेन वानराः
४.०३९.०६३ अवाप्य सीतां रघुवंशजप्रियां॑ ततो निवृत्ताः सुखितो भविष्यथ
४.०४०.००१ ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्
४.०४०.००१ दक्षिणां प्रेषयामास वानरानभिलक्षितान्
४.०४०.००२ नीलमग्निसुतं चैव हनुमन्तं च वानरम्
४.०४०.००२ पितामहसुतं चैव जाम्बवन्तं महाकपिम्
४.०४०.००३ सुहोत्रं च शरीरं च शरगुल्मं तथैव च
४.०४०.००३ गजं गवाक्षं गवयं सुषेणमृषभं तथा
४.०४०.००४ मैन्दं च द्विविदं चैव विजयं गन्धमादनम्
४.०४०.००४ उल्कामुखमसङ्गं च हुताशन सुतावुभौ
४.०४०.००५ अङ्गदप्रमुखान् वीरान् वीरः कपिगणेश्वरः
४.०४०.००५ वेगविक्रमसंपन्नान् संदिदेश विशेषवित्
४.०४०.००६ तेषामग्रेषरं चैव महद्बलमसंगगम्
४.०४०.००६ विधाय हरिवीराणामादिशद्दक्षिणां दिशम्
४.०४०.००७ ये के चन समुद्देशास्तस्यां दिशि सुदुर्गमाः
४.०४०.००७ कपीशः कपिमुख्यानां स तेषां तानुदाहरत्
४.०४०.००८ सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम्
४.०४०.००८ नर्मदां च नदीं दुर्गां महोरगनिषेविताम्
४.०४०.००९ ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम्
४.०४०.००९ वरदां च महाभागां महोरगनिषेविताम्
४.०४०.०१० मेखलानुत्कलांश्चैव दशार्णनगराण्यपि
४.०४०.०१० अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत
४.०४०.०११ विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि
४.०४०.०११ तथा बङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः
४.०४०.०१२ अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम्
४.०४०.०१२ नदीं गोदावरीं चैव सर्वमेवानुपश्यत
४.०४०.०१३ तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान् पाण्ड्यान् सकेरलान्
४.०४०.०१३ अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः
४.०४०.०१४ विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः
४.०४०.०१४ सचन्दनवनोद्देशो मार्गितव्यो महागिरिः
४.०४०.०१५ ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम्
४.०४०.०१५ तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः
४.०४०.०१६ तस्यासीनं नगस्याग्रे मलयस्य महौजसं
४.०४०.०१६ द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम्
४.०४०.०१७ ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना
४.०४०.०१७ ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम्
४.०४०.०१८ सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी
४.०४०.०१८ कान्तेव युवतिः कान्तं समुद्रमवगाहते
४.०४०.०१९ ततो हेममयं दिव्यं मुक्तामणिविभूषितम्
४.०४०.०१९ युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः
४.०४०.०२० ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम्
४.०४०.०२० अगस्त्येनान्तरे तत्र सागरे विनिवेशितः
४.०४०.०२१ चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः
४.०४०.०२१ जातरूपमयः श्रीमानवगाढो महार्णवम्
४.०४०.०२२ नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम्
४.०४०.०२२ देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम्
४.०४०.०२३ सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम्
४.०४०.०२३ तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु
४.०४०.०२४ द्वीपस्तस्यापरे पारे शतयोजनमायतः
४.०४०.०२४ अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः
४.०४०.०२४ तत्र सर्वात्मना सीता मार्गितव्या विशेषतः
४.०४०.०२५ स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः
४.०४०.०२५ राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः
४.०४०.०२६ दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी
४.०४०.०२६ अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी
४.०४०.०२७ तमतिक्रम्य लक्ष्मीवान् समुद्रे शतयोजने
४.०४०.०२७ गिरिः पुष्पितको नाम सिद्धचारणसेवितः
४.०४०.०२८ चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः
४.०४०.०२८ भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव
४.०४०.०२९ तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः
४.०४०.०२९ श्वेतं राजतमेकं च सेवते यं निशाकरः
४.०४०.०३० न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः
४.०४०.०३० प्रणम्य शिरसा शैलं तं विमार्गत वानराः
४.०४०.०३१ तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः
४.०४०.०३१ अध्वना दुर्विगाहेन योजनानि चतुर्दश
४.०४०.०३२ ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः
४.०४०.०३२ सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः
४.०४०.०३३ तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च
४.०४०.०३३ मधूनि पीत्वा मुख्यानि परं गच्छत वानराः
४.०४०.०३४ तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः
४.०४०.०३४ अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा
४.०४०.०३५ तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्
४.०४०.०३५ शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्
४.०४०.०३६ तत्र भोगवती नाम सर्पाणामालयः पुरी
४.०४०.०३६ विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता
४.०४०.०३६ रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः
४.०४०.०३७ सर्पराजो महाघोरो यस्यां वसति वासुकिः
४.०४०.०३७ निर्याय मार्गितव्या च सा च भोगवती पुरी
४.०४०.०३८ तं च देशमतिक्रम्य महानृषभसंस्थितः
४.०४०.०३८ सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः
४.०४०.०३९ गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्
४.०४०.०३९ दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्
४.०४०.०४० न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदा चन
४.०४०.०४० रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम्
४.०४०.०४१ तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः
४.०४०.०४१ शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च
४.०४०.०४२ अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः
४.०४०.०४२ ततः परं न वः सेव्यः पितृलोकः सुदारुणः
४.०४०.०४२ राजधानी यमस्यैषा कष्टेन तमसावृता
४.०४०.०४३ एतावदेव युष्माभिर्वीरा वानरपुंगवाः
४.०४०.०४३ शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः
४.०४०.०४४ सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते
४.०४०.०४४ गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ
४.०४०.०४५ यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति
४.०४०.०४५ मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति
४.०४०.०४६ ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः
४.०४०.०४६ कृतापराधो बहुशो मम बन्धुर्भविष्यति
४.०४०.०४७ अमितबलपराक्रमा भवन्तो॑ विपुलगुणेषु कुलेषु च प्रसूताः
४.०४०.०४७ मनुजपतिसुतां यथा लभध्वं॑ तदधिगुणं पुरुषार्थम्
आरभध्वम्
४.०४१.००१ ततः प्रस्थाप्य सुग्रीवस्तान् हरीन् दक्षिणां दिशम्
४.०४१.००१ बुद्धिविक्रमसंपन्नान् वायुवेगसमाञ्जवे
४.०४१.००२ अथाहूय महातेजाः सुषेणं नाम यूथपम्
४.०४१.००२ तारायाः पितरं राजा श्वशुरभीमविक्रमम्
४.०४१.००३ अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च
४.०४१.००३ साहाय्यं कुरु रामस्य कृत्येऽस्मिन् समुपस्थिते
४.०४१.००४ वृतः शतसहस्रेण वानराणां तरस्विनाम्
४.०४१.००४ अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो
४.०४१.००५ सुराष्ट्रान् सह बाह्लीकाञ्शूराभीरांस्तथैव च
४.०४१.००५ स्फीताञ्जनपदान् रम्यान् विपुलानि पुराणि च
४.०४१.००६ पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम्
४.०४१.००६ तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः
४.०४१.००७ प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः
४.०४१.००७ तापसानामरण्यानि कान्तारा गिरयश्च ये
४.०४१.००८ गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्
४.०४१.००८ ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ
४.०४१.००८ तिमि नक्रायुत जलमक्षोभ्यमथ वानरः
४.०४१.००९ ततः केतकषण्डेषु तमालगहनेषु च
४.०४१.००९ कपयो विहरिष्यन्ति नारिकेलवनेषु च
४.०४१.०१० तत्र सीतां च मार्गध्वं निलयं रावणस्य च
४.०४१.०१० मरीचिपत्तनं चैव रम्यं चैव जटीपुरम्
४.०४१.०११ अवन्तीमङ्गलोपां च तथा चालक्षितं वनम्
४.०४१.०११ राष्ट्राणि च विशालानि पत्तनानि ततस्ततः
४.०४१.०१२ सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः
४.०४१.०१२ महान् हेमगिरिर्नाम शतशृङ्गो महाद्रुमः
४.०४१.०१३ तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः
४.०४१.०१३ तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते
४.०४१.०१४ तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये
४.०४१.०१४ दृप्तास्तृप्त
ाश्च मातङ्गास्तोयदस्वननिःस्वनाः
४.०४१.०१४ विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः
४.०४१.०१५ तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्
४.०४१.०१५ सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः
४.०४१.०१६ कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम्
४.०४१.०१६ दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः
४.०४१.०१७ कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम्
४.०४१.०१७ वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्
४.०४१.०१८ नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः
४.०४१.०१८ नादेयं च फलं तस्माद्देशात्किं चित्प्लवंगमैः
४.०४१.०१९ दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः
४.०४१.०१९ फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः
४.०४१.०२० तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी
४.०४१.०२० न हि तेभ्यो भयं किं चित्कपित्वमनुवर्तताम्
४.०४१.०२१ चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः
४.०४१.०२१ तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा
४.०४१.०२२ तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्
४.०४१.०२२ आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः
४.०४१.०२३ तस्य सानुषु चित्रेषु विशालासु गुहासु च
४.०४१.०२३ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
४.०४१.०२४ योजनानि चतुःषष्टिर्वराहो नाम पर्वतः
४.०४१.०२४ सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये
४.०४१.०२५ तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्
४.०४१.०२५ यस्मिन् वस्ति दुष्टात्मा नरको नाम गुहासु च
४.०४१.०२६ तस्य सानुषु चित्रेषु विशालासु गुहासु च
४.०४१.०२६ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
४.०४१.०२७ तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः
४.०४१.०२७ पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः
४.०४१.०२८ तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः
४.०४१.०२८ अभिगर्जन्ति सततं तेन शब्देन दर्पिताः
४.०४१.०२९ तस्मिन् हरिहयः श्रीमान्महेन्द्रः पाकशासनः
४.०४१.०२९ अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः
४.०४१.०३० तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्
४.०४१.०३० षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ
४.०४१.०३१ तरुणादित्यवर्णानि भ्राजमानानि सर्वतः
४.०४१.०३१ जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः
४.०४१.०३२ तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः
४.०४१.०३२ आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा
४.०४१.०३३ तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः
४.०४१.०३३ मत्प्रसादाद्भविष्यन्ति दिवारात्रौ च काञ्चनाः
४.०४१.०३४ त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः
४.०४१.०३४ ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः
४.०४१.०३५ आदित्या वसवो रुद्रा मरुतश्च दिवौकसः
४.०४१.०३५ आगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम्
४.०४१.०३६ आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः
४.०४१.०३६ अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम्
४.०४१.०३७ योजनानां सहस्राणि दशतानि दिवाकरः
४.०४१.०३७ मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्
४.०४१.०३८ शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम्
४.०४१.०३८ प्रासादगुणसंबाधं विहितं विश्वकर्मणा
४.०४१.०३९ शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः
४.०४१.०३९ निकेतं पाशहस्तस्य वरुणस्य महात्मनः
४.०४१.०४० अन्तरा मेरुमस्तं च तालो दशशिरा महान्
४.०४१.०४० जातरूपमयः श्रीमान् भ्राजते चित्रवेदिकः
४.०४१.०४१ तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च
४.०४१.०४१ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
४.०४१.०४२ यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः
४.०४१.०४२ मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः
४.०४१.०४३ प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः
४.०४१.०४३ प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति
४.०४१.०४४ एतावज्जीवलोकस्य भास्करो रजनीक्षये
४.०४१.०४४ कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्
४.०४१.०४५ एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः
४.०४१.०४५ अभास्करममर्यादं न जानीमस्ततः परम्
४.०४१.०४६ अधिगम्य तु वैदेहीं निलयं रावणस्य च
४.०४१.०४६ अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत
४.०४१.०४७ ऊर्ध्वं मासान्न वस्तव्यं वसन् वध्यो भवेन्मम
४.०४१.०४७ सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति
४.०४१.०४८ श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः
४.०४१.०४८ गुरुरेष महाबाहुः श्वशुरो मे महाबलः
४.०४१.०४९ भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु
४.०४१.०४९ प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्
४.०४१.०५० दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः
४.०४१.०५० कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा
४.०४१.०५१ अतोऽन्यदपि यत्किं चित्कार्यस्यास्य हितं भवेत्
४.०४१.०५१ संप्रधार्य भवद्भिश्च देशकालार्थसंहितम्
४.०४१.०५२ ततः सुषेण प्रमुखाः प्लवंगमाः॑ सुग्रीववाक्यं निपुणं निशम्य
४.०४१.०५२ आमन्त्र्य सर्वे प्लवगाधिपं ते॑ जग्मुर्दिशं तां वरुणाभिगुप्ताम्
४.०४२.००१ ततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्
४.०४२.००१ वीरं शतबलिं नाम वानरं वानरर्षभः
४.०४२.००२ उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम्
४.०४२.००२ वाक्यमात्महितं चैव रामस्य च हितं तथा
४.०४२.००३ वृतः शतसहस्रेण त्वद्विधानां वनौकसाम्
४.०४२.००३ वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः
४.०४२.००४ दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्
४.०४२.००४ सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्
४.०४२.००५ अस्मिन् कार्ये विनिवृत्ते कृते दाशरथेः प्रिये
४.०४२.००५ ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः
४.०४२.००६ कृतं हि प्रियमस्माकं राघवेण महात्मना
४.०४२.००६ तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्
४.०४२.००७ एतां बुद्धिं समास्थाय दृश्यते जानकी यथा
४.०४२.००७ तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः
४.०४२.००८ अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः
४.०४२.००८ अस्मासु चागतप्रीती रामः परपुरंजयः
४.०४२.००९ इमानि वनदुर्गाणि नद्यः शैलान्तराणि च
४.०४२.००९ भवन्तः परिमार्गंस्तु बुद्धिविक्रमसंपदा
४.०४२.०१० तत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथाइव च
४.०४२.०१० प्रस्थालान् भरतांश्चैव कुरूंश्च सह मद्रकैः
४.०४२.०११ काम्बोजान् यवनांश्चैव शकानारट्टकानपि
४.०४२.०११ बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान्
४.०४२.०१२ चीनान् परमचीनांश्च नीहारांश्च पुनः पुनः
४.०४२.०१२ अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ
४.०४२.०१३ लोध्रपद्मकषण्डेषु देवदारुवनेषु च
४.०४२.०१३ रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः
४.०४२.०१४ ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्
४.०४२.०१४ कालं नाम महासानुं पर्वतं तं गमिष्यथ
४.०४२.०१५ महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च
४.०४२.०१५ विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम्
४.०४२.०१६ तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम्
४.०४२.०१६ ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ
४.०४२.०१७ तस्य काननषण्डेषु निर्दरेषु गुहासु च
४.०४२.०१७ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
४.०४२.०१८ तमतिक्रम्य चाकाशं सर्वतः शतयोजनम्
४.०४२.०१८ अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम्
४.०४२.०१९ तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्
४.०४२.०१९ कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ
४.०४२.०२० तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्
४.०४२.०२० कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा
४.०४२.०२१ विशाला नलिनी यत्र प्रभूतकमलोत्पला
४.०४२.०२१ हंसकारण्डवाकीर्णा अप्सरोगणसेविता
४.०४२.०२२ तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः
४.०४२.०२२ धनदो रमते श्रीमान् गुह्यकैः सह यक्षराट्
४.०४२.०२३ तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च
४.०४२.०२३ रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः
४.०४२.०२४ क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्
४.०४२.०२४ अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम्
४.०४२.०२५ वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः
४.०४२.०२५ देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः
४.०४२.०२६ क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च
४.०४२.०२६ निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः
४.०४२.०२७ क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः
४.०४२.०२७ अवृक्षं कामशैलं च मानसं विहगालयम्
४.०४२.०२८ न गतिस्तत्र भूतानां देवदानवरक्षसाम्
४.०४२.०२८ स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः
४.०४२.०२९ क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः
४.०४२.०२९ मयस्य भवनं तत्र दानवस्य स्वयं कृतम्
४.०४२.०३० मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः
४.०४२.०३० स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु
४.०४२.०३१ तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्
४.०४२.०३१ सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः
४.०४२.०३२ वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः
४.०४२.०३२ प्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः
४.०४२.०३३ हेमपुष्करसंछन्नं तत्र वैखानसं सरः
४.०४२.०३३ तरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः
४.०४२.०३४ औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः
४.०४२.०३४ गजः पर्येति तं देशं सदा सह करेणुभिः
४.०४२.०३५ तत्सारः समतिक्रम्य नष्टचन्द्रदिवाकरम्
४.०४२.०३५ अनक्षत्रगणं व्योम निष्पयोदमनाअदिमत्
४.०४२.०३६ गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते
४.०४२.०३६ विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः
४.०४२.०३७ तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा
४.०४२.०३७ उभयोस्तीरयोर्यस्याः कीचका नाम वेणवः
४.०४२.०३८ ते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च
४.०४२.०३८ उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः
४.०४२.०३९ ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः
४.०४२.०३९ नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः
४.०४२.०४० रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः
४.०४२.०४० तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः
४.०४२.०४१ महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः
४.०४२.०४१ नीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः
४.०४२.०४२ निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः
४.०४२.०४२ उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः
४.०४२.०४३ सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः
४.०४२.०४३ जातरूपमयैश्चापि हुताशनसमप्रभैः
४.०४२.०४४ नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः
४.०४२.०४४ दिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च
४.०४२.०४५ नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः
४.०४२.०४५ मुक्तावैदूर्यचित्राणि भूषणानि तथैव च
४.०४२.०४६ स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च
४.०४२.०४६ सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः
४.०४२.०४७ महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः
४.०४२.०४७ शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च
४.०४२.०४८ मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः
४.०४२.०४८ पानानि च महार्हाणि भक्ष्याणि विविधानि च
४.०४२.०४९ स्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः
४.०४२.०४९ गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा
४.०४२.०४९ रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः
४.०४२.०५० सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः
४.०४२.०५० सर्वे कामार्थसहिता वसन्ति सह योषितः
४.०४२.०५१ गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः
४.०४२.०५१ श्रूयते सततं तत्र सर्वभूतमनोहरः
४.०४२.०५२ तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः
४.०४२.०५२ अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः
४.०४२.०५३ समतिक्रम्य तं देशमुत्तरस्तोयसां निधिः
४.०४२.०५३ तत्र सोमगिरिर्नाम मध्ये हेममयो महान्
४.०४२.०५४ इन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये
४.०४२.०५४ देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम्
४.०४२.०५५ स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते
४.०४२.०५५ सूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता
४.०४२.०५६ भगवानपि विश्वात्मा शम्भुरेकादशात्मकः
४.०४२.०५६ ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः
४.०४२.०५७ न कथं चन गन्तव्यं कुरूणामुत्तरेण वः
४.०४२.०५७ अन्येषामपि भूतानां नातिक्रामति वै गतिः
४.०४२.०५८ सा हि सोमगिरिर्नाम देवानामपि दुर्गमः
४.०४२.०५८ तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ
४.०४२.०५९ एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः
४.०४२.०५९ अभास्करममर्यादं न जानीमस्ततः परम्
४.०४२.०६० सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम्
४.०४२.०६० यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः
४.०४२.०६१ ततः कृतं दाशरथेर्महत्प्रियं॑ महत्तरं चापि ततो मम प्रियम्
४.०४२.०६१ कृतं भविष्यत्यनिलानलोपमा॑ विदेहजा दर्शनजेन कर्मणा
४.०४२.०६२ ततः कृतार्थाः सहिताः सबान्धवा॑ मयार्चिताः सर्वगुणैर्मनोरमैः
४.०४२.०६२ चरिष्यथोर्वीं प्रतिशान्तशत्रवः॑ सहप्रिया भूतधराः प्लवंगमाः
४.०४३.००१ विशेषेण तु सुग्रीवो हनुमत्यर्थमुक्तवान्
४.०४३.००१ स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने
४.०४३.००२ न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये
४.०४३.००२ नाप्सु वा गतिसंगं ते पश्यामि हरिपुंगव
४.०४३.००३ सासुराः सहगन्धर्वाः सनागनरदेवताः
४.०४३.००३ विदिताः सर्वलोकास्ते ससागरधराधराः
४.०४३.००४ गतिर्वेगश्च तेजश्च लाघवं च महाकपे
४.०४३.००४ पितुस्ते सदृशं वीर मारुतस्य महौजसः
४.०४३.००५ तेजसा वापि ते भूतं समं भुवि न विद्यते
४.०४३.००५ तद्यथा लभ्यते सीता तत्त्वमेवोपपादय
४.०४३.००६ त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः
४.०४३.००६ देशकालानुवृत्तश्च नयश्च नयपण्डित
४.०४३.००७ ततः कार्यसमासंगमवगम्य हनूमति
४.०४३.००७ विदित्वा हनुमन्तं च चिन्तयामास राघवः
४.०४३.००८ सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः
४.०४३.००८ निश्चितार्थतरश्चापि हनूमान् कार्यसाधने
४.०४३.००९ तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः
४.०४३.००९ भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः
४.०४३.०१० तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्
४.०४३.०१० कृतार्थ इव संवृत्तः प्रहृष्टेन्द्रियमानसः
४.०४३.०११ ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्
४.०४३.०११ अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः
४.०४३.०१२ अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा
४.०४३.०१२ मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति
४.०४३.०१३ व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः
४.०४३.०१३ सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे
४.०४३.०१४ स तद्गृह्य हरिश्रेष्ठः स्थाप्य मूर्ध्नि कृताञ्जलिः
४.०४३.०१४ वन्दित्वा चरणौ चैव प्रस्थितः प्लवगोत्तमः
४.०४३.०१५ स तत्प्रकर्षन् हरिणां बलं महद्॑ बभूव वीरः पवनात्मजः कपि
४.०४३.०१५ गताम्बुदे व्योम्नि विशुद्धमण्डलः॑ शशीव नक्षत्रगणोपशोभितः
४.०४३.०१६ अतिबलबलमाश्रितस्तवाहं॑ हरिवरविक्रमविक्रमैरनल्पैः
४.०४३.०१६ पवनसुत यथाभिगम्यते सा॑ जनकसुता हनुमंस्तथा कुरुष्व
४.०४४.००१ तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः
४.०४४.००१ शलभा इव संछाद्य मेदिनीं संप्रतस्थिरे
४.०४४.००२ रामः प्रस्रवणे तस्मिन्न्यवसत्सहलक्ष्मणः
४.०४४.००२ प्रतीक्षमाणस्तं मासं यः सीताधिगमे कृतः
४.०४४.००३ उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्
४.०४४.००३ प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा
४.०४४.००४ पूर्वां दिशं प्रति ययौ विनतो हरियूथपः
४.०४४.००५ ताराङ्गदादि सहितः प्लवगः पवनात्मजः
४.०४४.००५ अगस्त्यचरितामाशां दक्षिणां हरियूथपः
४.०४४.००६ पश्चिमां तु दिशं घोरां सुषेणः प्लवगेश्वरः
४.०४४.००६ प्रतस्थे हरिशार्दूलो भृशं वरुणपालिताम्
४.०४४.००७ ततः सर्वा दिशो राजा चोदयित्वा यथा तथम्
४.०४४.००७ कपिसेना पतीन्मुख्यान्मुमोद सुखितः सुखम्
४.०४४.००८ एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः
४.०४४.००८ स्वां स्वां दिशमभिप्रेत्य त्वरिताः संप्रतस्थिरे
४.०४४.००९ नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः
४.०४४.००९ क्ष्वेलन्तो धावमानाश्च ययुः प्लवगसत्तमाः
४.०४४.००९ आनयिष्यामहे सीतां हनिष्यामश्च रावणम्
४.०४४.०१० अहमेको हनिष्यामि प्राप्तं रावणमाहवे
४.०४४.०१० ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्
४.०४४.०११ वेपमानं श्रमेणाद्य भवद्भिः स्थीयतामिति
४.०४४.०११ एक एवाहरिष्यामि पातालादपि जानकीम्
४.०४४.०१२ विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन्
४.०४४.०१२ धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्
४.०४४.०१३ अहं योजनसंख्यायाः प्लविता नात्र संशयः
४.०४४.०१३ शतं योजनसंख्यायाः शतं समधिकं ह्यहम्
४.०४४.०१४ भूतले सागरे वापि शैलेषु च वनेषु च
४.०४४.०१४ पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः
४.०४४.०१५ इत्येकैकं तदा तत्र वानरा बलदर्पिताः
४.०४४.०१५ ऊचुश्च वचनं तस्मिन् हरिराजस्य संनिधौ
४.०४५.००१ गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्
४.०४५.००१ कथं भवान् विनाजीते सर्वं वै मण्डलं भुवः
४.०४५.००२ सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान्
४.०४५.००२ श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ
४.०४५.००३ यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्
४.०४५.००३ परिकालयते वाली मलयं प्रति पर्वतम्
४.०४५.००४ तदा विवेश महिषो मलयस्य गुहां प्रति
४.०४५.००४ विवेश वाली तत्रापि मलयं तज्जिघांसया
४.०४५.००५ ततोऽहं तत्र निक्षिप्तो गुहाद्वारिविनीतवत्
४.०४५.००५ न च निष्क्रमते वाली तदा संवत्सरे गते
४.०४५.००६ ततः क्षतजवेगेन आपुपूरे तदा बिलम्
४.०४५.००६ तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः
४.०४५.००७ अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः
४.०४५.००७ शिलापर्वतसंकाशा बिलद्वारि मया कृता
४.०४५.००७ अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति
४.०४५.००८ ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते
४.०४५.००८ राज्यं च सुमहत्प्राप्तं तारा च रुमया सह
४.०४५.००८ मित्रैश्च सहितस्तत्र वसामि विगतज्वरः
४.०४५.००९ आजगाम ततो वाली हत्वां तं दानवर्षभम्
४.०४५.००९ ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः
४.०४५.०१० स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः
४.०४५.०१० परिलाकयते क्रोधाद्धावन्तं सचिवैः सह
४.०४५.०११ ततोऽहं वालिना तेन सानुबन्धः प्रधावितः
४.०४५.०११ नदीश्च विविधाः पश्यन् वनानि नगराणि च
४.०४५.०१२ आदर्शतलसंकाशा ततो वै पृथिवी मया
४.०४५.०१२ अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा
४.०४५.०१३ ततः पूर्वमहं गत्वा दक्षिणामहमाश्रितः
४.०४५.०१३ दिशं च पश्चिमां भूयो गतोऽस्मि भयशङ्कितः
४.०४५.०१३ उत्तरां तु दिशं यान्तं हनुमान्मामथाब्रवीत्
४.०४५.०१४ इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः
४.०४५.०१४ मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले
४.०४५.०१५ प्रविशेद्यदि वा वाली मूर्धास्य शतधा भवेत्
४.०४५.०१५ तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति
४.०४५.०१६ ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज
४.०४५.०१६ न विवेश तदा वाली मतङ्गस्य भयात्तदा
४.०४५.०१७ एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम्
४.०४५.०१७ पृथिवीमण्डलं कृत्स्नं गुहामस्म्यागतस्ततः
४.०४६.००१ दर्शनार्थं तु वैदेह्याः सर्वतः कपियूथपाः
४.०४६.००१ व्यादिष्टाः कपिराजेन यथोक्तं जग्मुरञ्जसा
४.०४६.००२ सरांसि सरितः कक्षानाकाशं नगराणि च
४.०४६.००२ नदीदुर्गांस्तथा शैलान् विचिन्वन्ति समन्ततः
४.०४६.००३ सुग्रीवेण समाख्यातान् सर्वे वानरयूथपाः
४.०४६.००३ प्रदेशान् प्रविचिन्वन्ति सशैलवनकाननान्
४.०४६.००४ विचिन्त्य दिवसं सर्वे सीताधिगमने धृताः
४.०४६.००४ समायान्ति स्म मेदिन्यां निशाकालेशु वानराः
४.०४६.००५ सर्वर्तुकांश्च देशेषु वानराः सफलान् द्रुमान्
४.०४६.००५ आसाद्य रजनीं शय्यां चक्रुः सर्वेष्वहःसु ते
४.०४६.००६ तदहः प्रथमं कृत्वा मासे प्रस्रवणं गताः
४.०४६.००६ कपिराजेन संगम्य निराशाः कपियूथपाः
४.०४६.००७ विचित्य तु दिशं पूर्वां यथोक्तां सचिवैः सह
४.०४६.००७ अदृष्ट्वा विनतः सीतामाजगाम महाबलः
४.०४६.००८ उत्तरां तु दिशं सर्वां विचित्य स महाकपिः
४.०४६.००८ आगतः सह सैन्येन वीरः शतबलिस्तदा
४.०४६.००९ सुषेणः पश्चिमामाशां विचित्य सह वानरैः
४.०४६.००९ समेत्य मासे संपूर्णे सुग्रीवमुपचक्रमे
४.०४६.०१० तं प्रस्रवणपृष्ठस्थं समासाद्याभिवाद्य च
४.०४६.०१० आसीनं सह रामेण सुग्रीवमिदमब्रुवन्
४.०४६.०११ विचिताः पर्वताः सर्वे वनानि नगराणि च
४.०४६.०११ निम्नगाः सागरान्ताश्च सर्वे जनपदास्तथा
४.०४६.०१२ गुहाश्च विचिताः सर्वा यास्त्वया परिकीर्तिताः
४.०४६.०१२ विचिताश्च महागुल्मा लताविततसंतताः
४.०४६.०१३ गहनेषु च देशेषु दुर्गेषु विषमेषु च
४.०४६.०१३ सत्त्वान्यतिप्रमाणानि विचितानि हतानि च
४.०४६.०१३ ये चैव गहना देशा विचितास्ते पुनः पुनः
४.०४६.०१४ उदारसत्त्वाभिजनो महात्मा॑ स मैथिलीं द्रक्ष्यति वानरेन्द्रः
४.०४६.०१४ दिशं तु यामेव गता तु सीता॑ तामास्थितो वायुसुतो हनूमान्
४.०४७.००१ सहताराङ्गदाभ्यां तु गत्वा स हनुमान् कपिः
४.०४७.००१ सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे
४.०४७.००२ स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः
४.०४७.००२ विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च
४.०४७.००३ पर्वताग्रान्नदीदुर्गान् सरांसि विपुलान् द्रुमान्
४.०४७.००३ वृक्षषण्डांश्च विविधान् पर्वतान् घनपादपान्
४.०४७.००४ अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम्
४.०४७.००४ न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम्
४.०४७.००५ ते भक्षयन्तो मूलानि फलानि विविधानि च
४.०४७.००५ अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह
४.०४७.००५ स तु देशो दुरन्वेषो गुहागहनवान्महान्
४.०४७.००६ त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः
४.०४७.००६ देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः
४.०४७.००७ यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः
४.०४७.००७ निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम्
४.०४७.००८ न सन्ति महिषा यत्र न मृगा न च हस्तिनः
४.०४७.००८ शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः
४.०४७.००९ स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः
४.०४७.००९ प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः
४.०४७.०१० कण्डुर्नाम महाभागः सत्यवादी तपोधनः
४.०४७.०१० महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः
४.०४७.०११ तस्य तस्मिन् वने पुत्रो बालको दशवार्षिकः
४.०४७.०११ प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः
४.०४७.०१२ तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम्
४.०४७.०१२ अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम्
४.०४७.०१३ तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च
४.०४७.०१३ प्रभवानि नदीनांच विचिन्वन्ति समाहिताः
४.०४७.०१४ तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम्
४.०४७.०१४ हर्तारं रावणं वापि सुग्रीवप्रियकारिणः
४.०४७.०१५ ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम्
४.०४७.०१५ ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम्
४.०४७.०१६ तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम्
४.०४७.०१६ गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम्
४.०४७.०१७ सोऽपि तान् वानरान् सर्वान्नष्टाः स्थेत्यब्रवीद्बली
४.०४७.०१७ अभ्यधावत संक्रुद्धो मुष्टिमुद्यम्य संहितम्
४.०४७.०१८ तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा
४.०४७.०१९ रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह
४.०४७.०१९ स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन्
४.०४७.०२० असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः
४.०४७.०२० ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः
४.०४७.०२० व्यचिन्वन् प्रायशस्तत्र सर्वं तद्गिरिगह्वरम्
४.०४७.०२१ विचितं तु ततः कृत्वा सर्वे ते काननं पुनः
४.०४७.०२१ अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम्
४.०४७.०२२ ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः
४.०४७.०२२ एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः
४.०४८.००१ अथाङ्गदस्तदा सर्वान् वानरानिदमब्रवीत्
४.०४८.००१ परिश्रान्तो महाप्राज्ञः समाश्वास्य शनैर्वचः
४.०४८.००२ वनानि गिरयो नद्यो दुर्गाणि गहनानि च
४.०४८.००२ दर्यो गिरिगुहाश्चैव विचिता नः समन्ततः
४.०४८.००३ तत्र तत्र सहास्माभिर्जानकी न च दृश्यते
४.०४८.००३ तद्वा रक्षो हृता येन सीता सुरसुतोपमा
४.०४८.००४ कालश्च नो महान् यातः सुग्रीवश्चोग्रशासनः
४.०४८.००४ तस्माद्भवन्तः सहिता विचिन्वन्तु समन्ततः
४.०४८.००५ विहाय तन्द्रीं शोकं च निद्रां चैव समुत्थिताम्
४.०४८.००५ विचिनुध्वं यथा सीतां पश्यामो जनकात्मजाम्
४.०४८.००६ अनिर्वेदं च दाक्ष्यं च मनसश्चापराजयम्
४.०४८.००६ कार्यसिद्धिकराण्याहुस्तस्मादेतद्ब्रवीम्यहम्
४.०४८.००७ अद्यापीदं वनं दुर्गं विचिन्वन्तु वनौकसः
४.०४८.००७ खेदं त्यक्त्वा पुनः सर्वं वनमेतद्विचीयताम्
४.०४८.००८ अवश्यं क्रियमाणस्य दृश्यते कर्मणः फलम्
४.०४८.००८ अलं निर्वेदमागम्य न हि नो मलिनं क्षमम्
४.०४८.००९ सुग्रीवः क्रोधनो राजा तीक्ष्णदण्डश्च वानराः
४.०४८.००९ भेतव्यं तस्य सततं रामस्य च महात्मनः
४.०४८.०१० हितार्थमेतदुक्तं वः क्रियतां यदि रोचते
४.०४८.०१० उच्यतां वा क्षमं यन्नः सर्वेषामेव वानराः
४.०४८.०११ अङ्गदस्य वचः श्रुत्वा वचनं गन्धमादनः
४.०४८.०११ उवाचाव्यक्तया वाचा पिपासा श्रमखिन्नया
४.०४८.०१२ सदृशं खलु वो वाक्यमङ्गदो यदुवाच ह
४.०४८.०१२ हितं चैवानुकूलं च क्रियतामस्य भाषितम्
४.०४८.०१३ पुनर्मार्गामहे शैलान् कन्दरांश्च दरीस्तथा
४.०४८.०१३ काननानि च शून्यानि गिरिप्रस्रवणानि च
४.०४८.०१४ यथोद्दिष्ठानि सर्वाणि सुग्रीवेण महात्मना
४.०४८.०१४ विचिन्वन्तु वनं सर्वे गिरिदुर्गाणि सर्वशः
४.०४८.०१५ ततः समुत्थाय पुनर्वानरास्ते महाबलाः
४.०४८.०१५ विन्ध्यकाननसंकीर्णां विचेरुर्दक्षिणां दिशम्
४.०४८.०१६ ते शारदाभ्रप्रतिमं श्रीमद्रजतपर्वतम्
४.०४८.०१६ शृङ्गवन्तं दरीवन्तमधिरुह्य च वानराः
४.०४८.०१७ तत्र लोध्रवनं रम्यं सप्तपर्णवनानि च
४.०४८.०१७ विचिन्वन्तो हरिवराः सीतादर्शनकाङ्क्षिणः
४.०४८.०१८ तस्याग्रमधिरूढास्ते श्रान्ता विपुलविक्रमाः
४.०४८.०१८ न पश्यन्ति स्म वैदेहीं रामस्य महिषीं प्रियाम्
४.०४८.०१९ ते तु दृष्टिगतं कृत्वा तं शैलं बहुकन्दरम्
४.०४८.०१९ अवारोहन्त हरयो वीक्षमाणाः समन्ततः
४.०४८.०२० अवरुह्य ततो भूमिं श्रान्ता विगतचेतसः
४.०४८.०२० स्थित्वा मुहूर्तं तत्राथ वृक्षमूलमुपाश्रिताः
४.०४८.०२१ ते मुहूर्तं समाश्वस्ताः किं चिद्भग्नपरिश्रमाः
४.०४८.०२१ पुनरेवोद्यताः कृत्स्नां मार्गितुं दक्षिणां दिशम्
४.०४८.०२२ हनुमत्प्रमुखास्ते तु प्रस्थिताः प्लवगर्षभाः
४.०४८.०२२ विन्ध्यमेवादितस्तावद्विचेरुस्ते समन्ततः
४.०४९.००१ सह ताराङ्गदाभ्यां तु संगम्य हनुमान् कपिः
४.०४९.००१ विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च
४.०४९.००२ सिंहशार्दूलजुष्टाश्च गुहाश्च परितस्तथा
४.०४९.००२ विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च
४.०४९.००३ तेषां तत्रैव वसतां स कालो व्यत्यवर्तत
४.०४९.००४ स हि देशो दुरन्वेषो गुहा गहनवान्महान्
४.०४९.००४ तत्र वायुसुतः सर्वं विचिनोति स्म पर्वतम्
४.०४९.००५ परस्परेण रहिता अन्योन्यस्याविदूरतः
४.०४९.००५ गजो गवाक्षो गवयः शरभो गन्धमादनः
४.०४९.००६ मैन्दश्च द्विविदश्चैव हनुमाञ्जाम्बवानपि
४.०४९.००६ अङ्गदो युवराजश्च तारश्च वनगोचरः
४.०४९.००७ गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम्
४.०४९.००७ क्षुत्पिपासा परीताश्च श्रान्ताश्च सलिलार्थिनः
४.०४९.००७ अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम्
४.०४९.००८ ततः क्रौञ्चाश्च हंसाश्च सारसाश्चापि निष्क्रमन्
४.०४९.००८ जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः
४.०४९.००९ ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम्
४.०४९.००९ विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः
४.०४९.०१० संजातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः
४.०४९.०१० अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः
४.०४९.०११ ततः पर्वतकूटाभो हनुमान्मारुतात्मजः
४.०४९.०११ अब्रवीद्वानरान् सर्वान् कान्तार वनकोविदः
४.०४९.०१२ गिरिजालावृतान् देशान्मार्गित्वा दक्षिणां दिशम्
४.०४९.०१२ वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम्
४.०४९.०१३ अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः
४.०४९.०१३ जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः
४.०४९.०१४ नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः
४.०४९.०१४ तथा चेमे बिलद्वारे स्निग्धास्तिष्ठन्ति पादपाः
४.०४९.०१५ इत्युक्तास्तद्बिलं सर्वे विविशुस्तिमिरावृतम्
४.०४९.०१५ अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम्
४.०४९.०१६ ततस्तस्मिन् बिले दुर्गे नानापादपसंकुले
४.०४९.०१६ अन्योन्यं संपरिष्वज्य जग्मुर्योजनमन्तरम्
४.०४९.०१७ ते नष्टसंज्ञास्तृषिताः संभ्रान्ताः सलिलार्थिनः
४.०४९.०१७ परिपेतुर्बिले तस्मिन् कं चित्कालमतन्द्रिताः
४.०४९.०१८ ते कृशा दीनवदनाः परिश्रान्ताः प्लवंगमाः
४.०४९.०१८ आलोकं ददृशुर्वीरा निराशा जीविते तदा
४.०४९.०१९ ततस्तं देशमागम्य सौम्यं वितिमिरं वनम्
४.०४९.०१९ ददृशुः काञ्चनान् वृक्षान् दीप्तवैश्वानरप्रभान्
४.०४९.०२० सालांस्तालांश्च पुंनागान् ककुभान् वञ्जुलान् धवान्
४.०४९.०२० चम्पकान्नागवृक्षांश्च कर्णिकारांश्च पुष्पितान्
४.०४९.०२१ तरुणादित्यसंकाशान् वैदूर्यमयवेदिकान्
४.०४९.०२१ नीलवैदूर्यवर्णाश्च पद्मिनीः पतगावृताः
४.०४९.०२२ महद्भिः काञ्चनैर्वृक्षैर्वृतं बालार्क संनिभैः
४.०४९.०२२ जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः
४.०४९.०२३ नलिनीस्तत्र ददृशुः प्रसन्नसलिलायुताः
४.०४९.०२३ काञ्चनानि विमानानि राजतानि तथैव च
४.०४९.०२४ तपनीयगवाक्षाणि मुक्ताजालावृतानि च
४.०४९.०२४ हैमराजतभौमानि वैदूर्यमणिमन्ति च
४.०४९.०२५ ददृशुस्तत्र हरयो गृहमुख्यानि सर्वशः
४.०४९.०२५ पुष्पितान् फलिनो वृक्षान् प्रवालमणिसंनिभान्
४.०४९.०२६ काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः
४.०४९.०२६ मणिकाञ्चनचित्राणि शयनान्यासनानि च
४.०४९.०२७ महार्हाणि च यानानि ददृशुस्ते समन्ततः
४.०४९.०२७ हैमराजतकांस्यानां भाजनानां च संचयान्
४.०४९.०२८ अगरूणां च दिव्यानां चन्दनानां च संचयान्
४.०४९.०२८ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च
४.०४९.०२९ महार्हाणि च पानानि मधूनि रसवन्ति च
४.०४९.०२९ दिव्यानामम्बराणां च महार्हाणां च संचयान्
४.०४९.०२९ कम्बलानां च चित्राणामजिनानां च संचयान्
४.०४९.०३० तत्र तत्र विचिन्वन्तो बिले तत्र महाप्रभाः
४.०४९.०३० ददृशुर्वानराः शूराः स्त्रियं कां चिददूरतः
४.०४९.०३१ तां दृष्ट्वा भृशसंत्रस्ताश्चीरकृष्णाजिनाम्बराम्
४.०४९.०३१ तापसीं नियताहारां ज्वलन्तीमिव तेजसा
४.०४९.०३२ ततो हनूमान् गिरिसंनिकाशः॑ कृताञ्जलिस्तामभिवाद्य वृद्धाम्
४.०४९.०३२ पप्रच्छ का त्वं भवनं बिलं च॑ रत्नानि चेमानि वदस्व कस्य
४.०५०.००१ इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्
४.०५०.००१ अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्
४.०५०.००२ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्
४.०५०.००२ क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः
४.०५०.००३ महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताः
४.०५०.००३ इमांस्त्वेवं विधान् भावान् विविधानद्भुतोपमान्
४.०५०.००३ दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः
४.०५०.००४ कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः
४.०५०.००४ शुचीन्यभ्यवहार्याणि मूलानि च फलानि च
४.०५०.००५ काञ्चनानि विमानानि राजतानि गृहाणि च
४.०५०.००५ तपनीय गवाक्षाणि मणिजालावृतानि च
४.०५०.००६ पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनः
४.०५०.००६ इमे जाम्बूनदमयाः पादपाः कस्य तेजसा
४.०५०.००७ काञ्चनानि च पद्मानि जातानि विमले जले
४.०५०.००७ कथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः
४.०५०.००८ आत्मानमनुभावं च कस्य चैतत्तपोबलम्
४.०५०.००८ अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि
४.०५०.००९ एवमुक्ता हनुमता तापसी धर्मचारिणी
४.०५०.००९ प्रत्युवाच हनूमन्तं सर्वभूतहिते रता
४.०५०.०१० मयो नाम महातेजा मायावी दानवर्षभः
४.०५०.०१० तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्
४.०५०.०११ पुरा दानवमुख्यानां विश्वकर्मा बभूव ह
४.०५०.०११ येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्
४.०५०.०१२ स तु वर्षसहस्राणि तपस्तप्त्वा महावने
४.०५०.०१२ पितामहाद्वरं लेभे सर्वमौशसनं धनम्
४.०५०.०१३ विधाय सर्वं बलवान् सर्वकामेश्वरस्तदा
४.०५०.०१३ उवास सुखितः कालं कं चिदस्मिन्महावने
४.०५०.०१४ तमप्सरसि हेमायां सक्तं दानवपुंगवम्
४.०५०.०१४ विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः
४.०५०.०१५ इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्
४.०५०.०१५ शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम्
४.०५०.०१६ दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभा
४.०५०.०१६ इदं रक्षामि भवनं हेमाया वानरोत्तम
४.०५०.०१७ मम प्रियसखी हेमा नृत्तगीतविशारदा
४.०५०.०१७ तया दत्तवरा चास्मि रक्षामि भवनोत्तमम्
४.०५०.०१८ किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ
४.०५०.०१८ कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्
४.०५०.०१९ इमान्यभ्यवहार्याणि मूलानि च फलानि च
४.०५०.०१९ भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ
४.०५१.००१ अथ तानब्रवीत्सर्वान् विश्रान्तान् हरियूथपान्
४.०५१.००१ इदं वचनमेकाग्रा तापसी धर्मचारिणी
४.०५१.००२ वानरा यदि वः खेदः प्रनष्टः फलभक्षणात्
४.०५१.००२ यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम्
४.०५१.००३ तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः
४.०५१.००३ आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे
४.०५१.००४ राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः
४.०५१.००४ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्
४.०५१.००५ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
४.०५१.००५ तस्य भार्या जनस्थानाद्रावणेन हृता बलात्
४.०५१.००६ वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः
४.०५१.००६ राजा वानरमुख्यानां येन प्रस्थापिता वयम्
४.०५१.००७ अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम्
४.०५१.००७ सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम्
४.०५१.००८ रावणं सहिताः सर्वे राक्षसं कामरूपिणम्
४.०५१.००८ सीतया सह वैदेह्या मार्गध्वमिति चोदिताः
४.०५१.००९ विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम्
४.०५१.००९ बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः
४.०५१.०१० विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः
४.०५१.०१० नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे
४.०५१.०११ चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद्बिलम्
४.०५१.०११ लतापादपसंछन्नं तिमिरेण समावृतम्
४.०५१.०१२ अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः
४.०५१.०१२ कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः
४.०५१.०१२ साध्वत्र प्रविशामेति मया तूक्ताः प्लवंगमाः
४.०५१.०१३ तेषामपि हि सर्वेषामनुमानमुपागतम्
४.०५१.०१३ गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः
४.०५१.०१४ ततो गाढं निपतिता गृह्य हस्तौ परस्परम्
४.०५१.०१४ इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्
४.०५१.०१५ एतन्नः कायमेतेन कृत्येन वयमागताः
४.०५१.०१५ त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः
४.०५१.०१६ आतिथ्यधर्मदत्तानि मूलानि च फलानि च
४.०५१.०१६ अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः
४.०५१.०१७ यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया
४.०५१.०१७ ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः
४.०५१.०१८ एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयंप्रभा
४.०५१.०१८ प्रत्युवाच ततः सर्वानिदं वानरयूथपम्
४.०५१.०१९ सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम्
४.०५१.०१९ चरन्त्या मम धर्मेण न कार्यमिह केन चित्
४.०५२.००१ एवमुक्तः शुभं वाक्यं तापस्या धर्मसंहितम्
४.०५२.००१ उवाच हनुमान् वाक्यं तामनिन्दितचेष्टिताम्
४.०५२.००२ शरणं त्वां प्रपन्नाः स्मः सर्वे वै धर्मचारिणि
४.०५२.००२ यः कृतः समयोऽस्माकं सुग्रीवेण महात्मना
४.०५२.००२ स तु कालो व्यतिक्रान्तो बिले च परिवर्तताम्
४.०५२.००३ सा त्वमस्माद्बिलाद्घोरादुत्तारयितुमर्हसि
४.०५२.००४ तस्मात्सुग्रीववचनादतिक्रान्तान् गतायुषः
४.०५२.००४ त्रातुमर्हसि नः सर्वान् सुग्रीवभयशङ्कितान्
४.०५२.००५ महच्च कार्यमस्माभिः कर्तव्यं धर्मचारिणि
४.०५२.००५ तच्चापि न कृतं कार्यमस्माभिरिह वासिभिः
४.०५२.००६ एवमुक्ता हनुमता तापसी वाक्यमब्रवीत्
४.०५२.००६ जीवता दुष्करं मन्ये प्रविष्टेन निवर्तितुम्
४.०५२.००७ तपसस्तु प्रभावेन नियमोपार्जितेन च
४.०५२.००७ सर्वानेव बिलादस्मादुद्धरिष्यामि वानरान्
४.०५२.००८ निमीलयत चक्षूंषि सर्वे वानरपुंगवाः
४.०५२.००८ न हि निष्क्रमितुं शक्यमनिमीलितलोचनैः
४.०५२.००९ ततः संमीलिताः सर्वे सुकुमाराङ्गुलैः करैः
४.०५२.००९ सहसा पिदधुर्दृष्टिं हृष्टा गमनकाङ्क्षिणः
४.०५२.०१० वानरास्तु महात्मानो हस्तरुद्धमुखास्तदा
४.०५२.०१० निमेषान्तरमात्रेण बिलादुत्तारितास्तया
४.०५२.०११ ततस्तान् वानरान् सर्वांस्तापसी धर्मचारिणी
४.०५२.०११ निःसृतान् विषमात्तस्मात्समाश्वास्येदमब्रवीत्
४.०५२.०१२ एष विन्ध्यो गिरिः श्रीमान्नानाद्रुमलतायुतः
४.०५२.०१२ एष प्रसवणः शैलः सागरोऽयं महोदधिः
४.०५२.०१३ स्वस्ति वोऽस्तु गमिष्यामि भवनं वानरर्षभाः
४.०५२.०१३ इत्युक्त्वा तद्बिलं श्रीमत्प्रविवेश स्वयंप्रभा
४.०५२.०१४ ततस्ते ददृशुर्घोरं सागरं वरुणालयम्
४.०५२.०१४ अपारमभिगर्जन्तं घोरैरूर्मिभिराकुलम्
४.०५२.०१५ मयस्य माया विहितं गिरिदुर्गं विचिन्वताम्
४.०५२.०१५ तेषां मासो व्यतिक्रान्तो यो राज्ञा समयः कृतः
४.०५२.०१६ विन्ध्यस्य तु गिरेः पादे संप्रपुष्पितपादपे
४.०५२.०१६ उपविश्य महाभागाश्चिन्तामापेदिरे तदा
४.०५२.०१७ ततः पुष्पातिभाराग्रांल्लताशतसमावृतान्
४.०५२.०१७ द्रुमान् वासन्तिकान् दृष्ट्वा बभूवुर्भयशङ्किताः
४.०५२.०१८ ते वसन्तमनुप्राप्तं प्रतिवेद्य परस्परम्
४.०५२.०१८ नष्टसंदेशकालार्था निपेतुर्धरणीतले
४.०५२.०१९ स तु सिंहर्षभ स्कन्धः पीनायतभुजः कपिः
४.०५२.०१९ युवराजो महाप्राज्ञ अङ्गदो वाक्यमब्रवीत्
४.०५२.०२० शासनात्कपिराजस्य वयं सर्वे विनिर्गताः
४.०५२.०२० मासः पूर्णो बिलस्थानां हरयः किं न बुध्यते
४.०५२.०२१ तस्मिन्नतीते काले तु सुग्रीवेण कृते स्वयम्
४.०५२.०२१ प्रायोपवेशनं युक्तं सर्वेषां च वनौकसाम्
४.०५२.०२२ तीक्ष्णः प्रकृत्या सुग्रीवः स्वामिभावे व्यवस्थितः
४.०५२.०२२ न क्षमिष्यति नः सर्वानपराधकृतो गतान्
४.०५२.०२३ अप्रवृत्तौ च सीतायाः पापमेव करिष्यति
४.०५२.०२३ तस्मात्क्षममिहाद्यैव प्रायोपविशनं हि नः
४.०५२.०२४ त्यक्त्वा पुत्रांश्च दारांश्च धनानि च गृहाणि च
४.०५२.०२४ यावन्न घातयेद्राजा सर्वान् प्रतिगतानितः
४.०५२.०२४ वधेनाप्रतिरूपेण श्रेयान्मृत्युरिहैव नः
४.०५२.०२५ न चाहं यौवराज्येन सुग्रीवेणाभिषेचितः
४.०५२.०२५ नरेन्द्रेणाभिषिक्तोऽस्मि रामेणाक्लिष्टकर्मणा
४.०५२.०२६ स पूर्वं बद्धवैरो मां राजा दृष्ट्वा व्यतिक्रमम्
४.०५२.०२६ घातयिष्यति दण्डेन तीक्ष्णेन कृतनिश्चयः
४.०५२.०२७ किं मे सुहृद्भिर्व्यसनं पश्यद्भिर्जीवितान्तरे
४.०५२.०२७ इहैव प्रायमासिष्ये पुण्ये सागररोधसि
४.०५२.०२८ एतच्छ्रुत्वा कुमारेण युवराजेन भाषितम्
४.०५२.०२८ सर्वे ते वानरश्रेष्ठाः करुणं वाक्यमब्रुवन्
४.०५२.०२९ तीक्ष्णः प्रकृत्या सुग्रीवः प्रियासक्तश्च राघवः
४.०५२.०२९ अदृष्टायां च वैदेह्यां दृष्ट्वास्मांश्च समागतान्
४.०५२.०३० राघवप्रियकामार्थं घातयिष्यत्यसंशयम्
४.०५२.०३० न क्षमं चापराद्धानां गमनं स्वामिपार्श्वतः
४.०५२.०३१ प्लवंगमानां तु भयार्दितानां॑ श्रुत्वा वचस्तार इदं बभाषे
४.०५२.०३१ अलं विषादेन बिलं प्रविश्य॑ वसाम सर्वे यदि रोचते वः
४.०५२.०३२ इदं हि माया विहितं सुदुर्गमं॑ प्रभूतवृक्षोदकभोज्यपेयम्
४.०५२.०३२ इहास्ति नो नैव भयं पुरंदरान्॑ न राघवाद्वानरराजतोऽपि वा
४.०५२.०३३ श्रुत्वाङ्गदस्यापि वचोऽनुकूलम्॑ ऊचुश्च सर्वे हरयः प्रतीताः
४.०५२.०३३ यथा न हन्येम तथाविधानम्॑ असक्तमद्यैव विधीयतां नः
४.०५३.००१ तथा ब्रुवति तारे तु ताराधिपतिवर्चसि
४.०५३.००१ अथ मेने हृतं राज्यं हनुमानङ्गदेन तत्
४.०५३.००२ बुद्ध्या ह्यष्टाङ्गया युक्तं चतुर्बलसमन्वितम्
४.०५३.००२ चतुर्दशगुणं मेने हनुमान् वालिनः सुतम्
४.०५३.००३ आपूर्यमाणं शश्वच्च तेजोबलपराक्रमैः
४.०५३.००३ शशिनं शुक्लपक्षादौ वर्धमानमिव श्रिया
४.०५३.००४ बृहस्पतिसमं बुद्ध्या विक्रमे सदृशं पितुः
४.०५३.००४ शुश्रूषमाणं तारस्य शुक्रस्येव पुरंदरम्
४.०५३.००५ भर्तुरर्थे परिश्रान्तं सर्वशास्त्रविशारदम्
४.०५३.००५ अभिसंधातुमारेभे हनुमानङ्गदं ततः
४.०५३.००६ स चतुर्णामुपायानां तृतीयमुपवर्णयन्
४.०५३.००६ भेदयामास तान् सर्वान् वानरान् वाक्यसंपदा
४.०५३.००७ तेषु सर्वेषु भिन्नेषु ततोऽभीषयदङ्गदम्
४.०५३.००७ भीषणैर्बहुभिर्वाक्यैः कोपोपायसमन्वितैः
४.०५३.००८ त्वं समर्थतरः पित्रा युद्धे तारेय वै धुरम्
४.०५३.००८ दृढं धारयितुं शक्तः कपिराज्यं यथा पिता
४.०५३.००९ नित्यमस्थिरचित्ता हि कपयो हरिपुंगव
४.०५३.००९ नाज्ञाप्यं विषहिष्यन्ति पुत्रदारान् विना त्वया
४.०५३.०१० त्वां नैते ह्यनुयुञ्जेयुः प्रत्यक्षं प्रवदामि ते
४.०५३.०१० यथायं जाम्बवान्नीलः सुहोत्रश्च महाकपिः
४.०५३.०११ न ह्यहं त इमे सर्वे सामदानादिभिर्गुणैः
४.०५३.०११ दण्डेन न त्वया शक्याः सुग्रीवादपकर्षितुम्
४.०५३.०१२ विगृह्यासनमप्याहुर्दुर्बलेन बलीयसः
४.०५३.०१२ आत्मरक्षाकरस्तस्मान्न विगृह्णीत दुर्बलः
४.०५३.०१३ यां चेमां मन्यसे धात्रीमेतद्बिलमिति श्रुतम्
४.०५३.०१३ एतल्लक्ष्मणबाणानामीषत्कार्यं विदारणे
४.०५३.०१४ स्वल्पं हि कृतमिन्द्रेण क्षिपता ह्यशनिं पुरा
४.०५३.०१४ लक्ष्मणो निशितैर्बाणैर्भिन्द्यात्पत्रपुटं यथा
४.०५३.०१४ लक्ष्मणस्य च नाराचा बहवः सन्ति तद्विधाः
४.०५३.०१५ अवस्थाने यदैव त्वमासिष्यसि परंतप
४.०५३.०१५ तदैव हरयः सर्वे त्यक्ष्यन्ति कृतनिश्चयाः
४.०५३.०१६ स्मरन्तः पुत्रदाराणां नित्योद्विग्ना बुभुक्षिताः
४.०५३.०१६ खेदिता दुःखशय्याभिस्त्वां करिष्यन्ति पृष्ठतः
४.०५३.०१७ स त्वं हीनः सुहृद्भिश्च हितकामैश्च बन्धुभिः
४.०५३.०१७ तृणादपि भृशोद्विग्नः स्पन्दमानाद्भविष्यसि
४.०५३.०१८ न च जातु न हिंस्युस्त्वां घोरा लक्ष्मणसायकाः
४.०५३.०१८ अपवृत्तं जिघांसन्तो महावेगा दुरासदाः
४.०५३.०१९ अस्माभिस्तु गतं सार्धं विनीतवदुपस्थितम्
४.०५३.०१९ आनुपूर्व्यात्तु सुग्रीवो राज्ये त्वां स्थापयिष्यति
४.०५३.०२० धर्मकामः पितृव्यस्ते प्रीतिकामो दृढव्रतः
४.०५३.०२० शुचिः सत्यप्रतिज्ञश्च ना त्वां जातु जिघांसति
४.०५३.०२१ प्रियकामश्च ते मातुस्तदर्थं चास्य जीवितम्
४.०५३.०२१ तस्यापत्यं च नास्त्यन्यत्तस्मादङ्गद गम्यताम्
४.०५४.००१ श्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्
४.०५४.००१ स्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्
४.०५४.००२ स्थैर्यं सर्वात्मना शौचमानृशंस्यमथार्जवम्
४.०५४.००२ विक्रमैश्चैव धैर्यं च सुग्रीवे नोपपद्यते
४.०५४.००३ भ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम्
४.०५४.००३ धर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः
४.०५४.००४ कथं स धर्मं जानीते येन भ्रात्रा दुरात्मना
४.०५४.००४ युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्
४.०५४.००५ सत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः
४.०५४.००५ विस्मृतो राघवो येन स कस्य सुकृतं स्मरेत्
४.०५४.००६ लक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा
४.०५४.००६ आदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत्
४.०५४.००७ तस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि
४.०५४.००७ आर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः
४.०५४.००८ राज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वा
४.०५४.००८ कथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति
४.०५४.००९ भिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम्
४.०५४.००९ किष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः
४.०५४.०१० उपांशुदण्डेन हि मां बन्धनेनोपपादयेत्
४.०५४.०१० शठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्
४.०५४.०११ बन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम्
४.०५४.०११ अनुजानीत मां सर्वे गृहान् गच्छन्तु वानराः
४.०५४.०१२ अहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम्
४.०५४.०१२ इहैव प्रायमासिष्ये श्रेयो मरणमेव मे
४.०५४.०१३ अभिवादनपूर्वं तु राजा कुशलमेव च
४.०५४.०१३ वाच्यस्ततो यवीयान्मे सुग्रीवो वानरेश्वरः
४.०५४.०१४ आरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे
४.०५४.०१४ मातरं चैव मे तारामाश्वासयितुमर्हथ
४.०५४.०१५ प्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी
४.०५४.०१५ विनष्टं मामिह श्रुत्वा व्यक्तं हास्यति जीवितम्
४.०५४.०१६ एतावदुक्त्वा वचनं वृद्धानप्यभिवाद्य च
४.०५४.०१६ संविवेशाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः
४.०५४.०१७ तस्य संविशतस्तत्र रुदन्तो वानरर्षभाः
४.०५४.०१७ नयनेभ्यः प्रमुमुचुरुष्णं वै वारिदुःखिताः
४.०५४.०१८ सुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्
४.०५४.०१८ परिवार्याङ्गदो सर्वे व्यवस्यन् प्रायमासितुम्
४.०५४.०१९ मतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः
४.०५४.०१९ उपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन्
४.०५४.०१९ दक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः
४.०५४.०२० स संविशद्भिर्बहुभिर्महीधरो॑ महाद्रिकूटप्रमितैः प्लवंगमैः
४.०५४.०२१ बभूव संनादितनिर्झरान्तरो॑ भृशं नदद्भिर्जलदैरिवोल्बणैः
४.०५५.००१ उपविष्टास्तु ते सर्वे यस्मिन् प्रायं गिरिस्थले
४.०५५.००१ हरयो गृध्रराजश्च तं देशमुपचक्रमे
४.०५५.००२ साम्पातिर्नाम नाम्ना तु चिरजीवी विहंगमः
४.०५५.००२ भ्राता जटायुषः श्रीमान् प्रख्यातबलपौरुषः
४.०५५.००३ कन्दरादभिनिष्क्रम्य स विन्ध्यस्य महागिरेः
४.०५५.००३ उपविष्टान् हरीन् दृष्ट्वा हृष्टात्मा गिरमब्रवीत्
४.०५५.००४ विधिः किल नरं लोके विधानेनानुवर्तते
४.०५५.००४ यथायं विहितो भक्ष्यश्चिरान्मह्यमुपागतः
४.०५५.००५ परम्पराणां भक्षिष्ये वानराणां मृतं मृतम्
४.०५५.००५ उवाचैवं वचः पक्षी तान्निरीक्ष्य प्लवंगमान्
४.०५५.००६ तस्य तद्वचनं श्रुत्वा भक्षलुब्धस्य पक्षिणः
४.०५५.००६ अङ्गदः परमायस्तो हनूमन्तमथाब्रवीत्
४.०५५.००७ पश्य सीतापदेशेन साक्षाद्वैवस्वतो यमः
४.०५५.००७ इमं देशमनुप्राप्तो वानराणां विपत्तये
४.०५५.००८ रामस्य न कृतं कार्यं राज्ञो न च वचः कृतम्
४.०५५.००८ हरीणामियमज्ञाता विपत्तिः सहसागता
४.०५५.००९ वैदेह्याः प्रियकामेन कृतं कर्म जटायुषा
४.०५५.००९ गृध्रराजेन यत्तत्र श्रुतं वस्तदशेषतः
४.०५५.०१० तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि
४.०५५.०१० प्रियं कुर्वन्ति रामस्य त्यक्त्वा प्राणान् यथा वयम्
४.०५५.०११ राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः
४.०५५.०११ कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्
४.०५५.०१२ स सुखी गृध्रराजस्तु रावणेन हतो रणे
४.०५५.०१२ मुक्तश्च सुग्रीवभयाद्गतश्च परमां गतिम्
४.०५५.०१३ जटायुषो विनाशेन राज्ञो दशरथस्य च
४.०५५.०१३ हरणेन च वैदेह्याः संशयं हरयो गताः
४.०५५.०१४ रामलक्ष्मणयोर्वासामरण्ये सह सीतया
४.०५५.०१४ राघवस्य च बाणेन वालिनश्च तथा वधः
४.०५५.०१५ रामकोपादशेषाणां राक्षसानां तथा वधः
४.०५५.०१५ कैकेय्या वरदानेन इदं हि विकृतं कृतम्
४.०५५.०१६ तत्तु श्रुत्वा तदा वाक्यमङ्गदस्य मुखोद्गतम्
४.०५५.०१६ अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः
४.०५५.०१७ कोऽयं गिरा घोषयति प्राणैः प्रियतरस्य मे
४.०५५.०१७ जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः
४.०५५.०१८ कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः
४.०५५.०१८ नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम्
४.०५५.०१९ यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः
४.०५५.०१९ तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः
४.०५५.०२० भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः
४.०५५.०२० तस्यैव च मम भ्रातुः सखा दशरथः कथम्
४.०५५.०२० यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः
४.०५५.०२१ सूर्यांशुदग्धपक्षत्वान्न शक्नोमि विसर्पितुम्
४.०५५.०२१ इच्छेयं पर्वतादस्मादवतर्तुमरिंदमाः
४.०५६.००१ शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः
४.०५६.००१ श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः
४.०५६.००२ ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवंगमाः
४.०५६.००२ चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति
४.०५६.००३ सर्वथा प्रायमासीनान् यदि नो भक्षयिष्यति
४.०५६.००३ कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः
४.०५६.००४ एतां बुद्धिं ततश्चक्रुः सर्वे ते वानरर्षभाः
४.०५६.००४ अवतार्य गिरेः शृङ्गाद्गृध्रमाहाङ्गदस्तदा
४.०५६.००५ बभूवुर्क्षरजो नाम वानरेन्द्रः प्रतापवान्
४.०५६.००५ ममार्यः पार्थिवः पक्षिन् धार्मिकौ तस्य चात्मजौ
४.०५६.००६ सुग्रीवश्चैव वली च पुत्रावोघबलावुभौ
४.०५६.००६ लोके विश्रुतकर्माभूद्राजा वाली पिता मम
४.०५६.००७ राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः
४.०५६.००७ रामो दाशरथिः श्रीमान् प्रविष्टो दण्डकावनम्
४.०५६.००८ लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया
४.०५६.००८ पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः
४.०५६.००८ तस्य भार्या जनस्थानाद्रावणेन हृता बलात्
४.०५६.००९ रामस्य च पितुर्मित्रं जटायुर्नाम गृध्रराट्
४.०५६.००९ ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा
४.०५६.०१० रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम्
४.०५६.०१० परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे
४.०५६.०११ एवं गृध्रो हतस्तेन रावणेन बहीयसा
४.०५६.०११ संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम्
४.०५६.०१२ ततो मम पितृव्येण सुग्रीवेण महात्मना
४.०५६.०१२ चकार राघवः सख्यं सोऽवधीत्पितरं मम
४.०५६.०१३ माम पित्रा विरुद्धो हि सुग्रीवः सचिवैः सह
४.०५६.०१३ निहत्य वालिनं रामस्ततस्तमभिषेचयत्
४.०५६.०१४ स राज्ये स्थापितस्तेन सुग्रीवो वानरेश्वरः
४.०५६.०१४ राजा वानरमुख्यानां येन प्रस्थापिता वयम्
४.०५६.०१५ एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः
४.०५६.०१५ वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव
४.०५६.०१६ ते वयं दण्दकारण्यं विचित्य सुसमाहिताः
४.०५६.०१६ अज्ञानात्तु प्रविष्टाः स्म धरण्या विवृतं बिलम्
४.०५६.०१७ मयस्य माया विहितं तद्बिलं च विचिन्वताम्
४.०५६.०१७ व्यतीतस्तत्र नो मासो यो राज्ञा सामयः कृतः
४.०५६.०१८ ते वयं कपिराजस्य सर्वे वचनकारिणः
४.०५६.०१८ कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे
४.०५६.०१९ क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे
४.०५६.०१९ गतानामपि सर्वेषां तत्र नो नास्ति जीवितम्
४.०५७.००१ इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः
४.०५७.००१ सबाष्पो वानरान् गृध्रः प्रत्युवाच महास्वनः
४.०५७.००२ यवीयान्मम स भ्राता जटायुर्नाम वानराः
४.०५७.००२ यमाख्यात हतं युद्धे रावणेन बलीयसा
४.०५७.००३ वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये
४.०५७.००३ न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे
४.०५७.००४ पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ
४.०५७.००४ आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्
४.०५७.००५ आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम्
४.०५७.००५ मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति
४.०५७.००६ तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम्
४.०५७.००६ पक्षाभ्यं छादयामास स्नेहात्परमविह्वलम्
४.०५७.००७ निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः
४.०५७.००७ अहमस्मिन् वसन् भ्रातुः प्रवृत्तिं नोपलक्षये
४.०५७.००८ जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा
४.०५७.००८ युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा
४.०५७.००९ जटायुषो यदि भ्राता श्रुतं ते गदितं मया
४.०५७.००९ आख्याहि यदि जानासि निलयं तस्य रक्षसः
४.०५७.०१० अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम्
४.०५७.०१० अन्तिके यदि वा दूरे यदि जानासि शंस नः
४.०५७.०११ ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः
४.०५७.०११ आत्मानुरूपं वचनं वानरान् संप्रहर्षयन्
४.०५७.०१२ निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवंगमाः
४.०५७.०१२ वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्
४.०५७.०१३ जानामि वारुणाल्लोकान् विष्णोस्त्रैविक्रमानपि
४.०५७.०१३ देवासुरविमर्दांश्च अमृतस्य च मन्थनम्
४.०५७.०१४ रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया
४.०५७.०१४ जरया च हृतं तेजः प्राणाश्च शिथिला मम
४.०५७.०१५ तरुणी रूपसंपन्ना सर्वाभरणभूषिता
४.०५७.०१५ ह्रियमाणा मया दृष्टा रावणेन दुरात्मना
४.०५७.०१६ क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी
४.०५७.०१६ भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती
४.०५७.०१७ सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्
४.०५७.०१७ असिते राक्षसे भाति यथा वा तडिदम्बुदे
४.०५७.०१८ तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्
४.०५७.०१८ श्रूयतां मे कथयतो निलयं तस्य रक्षसः
४.०५७.०१९ पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च
४.०५७.०१९ अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः
४.०५७.०२० इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने
४.०५७.०२० तस्मिंल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा
४.०५७.०२१ तस्यां वसति वैदेही दीना कौशेयवासिनी
४.०५७.०२१ रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता
४.०५७.०२२ जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्
४.०५७.०२२ लङ्कायामथ गुप्तायां सागरेण समन्ततः
४.०५७.०२३ संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम्
४.०५७.०२३ आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम्
४.०५७.०२४ तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः
४.०५७.०२४ ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ
४.०५७.०२५ आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः
४.०५७.०२५ द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः
४.०५७.०२६ भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह
४.०५७.०२६ श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्
४.०५७.०२७ बलवीर्योपपन्नानां रूपयौवनशालिनाम्
४.०५७.०२७ षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा
४.०५७.०२७ वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः
४.०५७.०२८ गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः
४.०५७.०२८ इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा
४.०५७.०२९ अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा
४.०५७.०२९ तस्मादाहारवीर्येण निसर्गेण च वानराः
४.०५७.०२९ आयोजनशतात्साग्राद्वयं पश्याम नित्यशः
४.०५७.०३० अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः
४.०५७.०३० विहिता पादमूले तु वृत्तिश्चरणयोधिनाम्
४.०५७.०३१ उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः
४.०५७.०३१ अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ
४.०५७.०३२ समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्
४.०५७.०३२ प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः
४.०५७.०३३ ततो नीत्वा तु तं देशं तीरे नदनदीपतेः
४.०५७.०३३ निर्दग्धपक्षं संपातिं वानराः सुमहौजसः
४.०५७.०३४ पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम्
४.०५७.०३४ बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते
४.०५८.००१ ततस्तदमृतास्वादं गृध्रराजेन भाषितम्
४.०५८.००१ निशम्य वदतो हृष्टास्ते वचः प्लवगर्षभाः
४.०५८.००२ जाम्बवान् वै हरिश्रेष्ठः सह सर्वैः प्लवंगमैः
४.०५८.००२ भूतलात्सहसोत्थाय गृध्रराजानमब्रवीत्
४.०५८.००३ क्व सीता केन वा दृष्टा को वा हरति मैथिलीम्
४.०५८.००३ तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम्
४.०५८.००४ को दाशरथिबाणानां वज्रवेगनिपातिनाम्
४.०५८.००४ स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम्
४.०५८.००५ स हरीन् प्रीतिसंयुक्तान् सीता श्रुतिसमाहितान्
४.०५८.००५ पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्
४.०५८.००६ श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम्
४.०५८.००६ येन चापि ममाख्यातं यत्र चायतलोचना
४.०५८.००७ अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते
४.०५८.००७ चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः
४.०५८.००८ तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः
४.०५८.००८ आहारेण यथाकालं बिभर्ति पततां वरः
४.०५८.००९ तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजंगमाः
४.०५८.००९ मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्
४.०५८.०१० स कदा चित्क्षुधार्तस्य मम चाहारकाङ्क्षिणः
४.०५८.०१० गतसूर्योऽहनि प्राप्तो मम पुत्रो ह्यनामिषः
४.०५८.०११ स मया वृद्धभावाच्च कोपाच्च परिभर्त्सितः
४.०५८.०११ क्षुत्पिपासा परीतेन कुमारः पततां वरः
४.०५८.०१२ स ममाहारसंरोधात्पीडितः प्रीतिवर्धनः
४.०५८.०१२ अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्
४.०५८.०१३ अहं तात यथाकालमामिषार्थी खमाप्लुतः
४.०५८.०१३ महेन्द्रस्य गिरेर्द्वारमावृत्य च समास्थितः
४.०५८.०१४ तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम्
४.०५८.०१४ पन्थानमेकोऽध्यवसं संनिरोद्धुमवाङ्मुखः
४.०५८.०१५ तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्
४.०५८.०१५ स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः
४.०५८.०१६ सोऽहमभ्यवहारार्थी तौ दृष्ट्वा कृतनिश्चयः
४.०५८.०१६ तेन साम्ना विनीतेन पन्थानमभियाचितः
४.०५८.०१७ न हि सामोपपन्नानां प्रहर्ता विद्यते क्व चित्
४.०५८.०१७ नीचेष्वपि जनः कश्चित्किमङ्ग बत मद्विधः
४.०५८.०१८ स यातस्तेजसा व्योम संक्षिपन्निव वेगतः
४.०५८.०१८ अथाहं खे चरैर्भूतैरभिगम्य सभाजितः
४.०५८.०१९ दिष्ट्या जीवसि तातेति अब्रुवन्मां महर्षयः
४.०५८.०१९ कथं चित्सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्
४.०५८.०२० एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः
४.०५८.०२० स च मे रावणो राजा रक्षसां प्रतिवेदितः
४.०५८.०२१ हरन् दाशरथेर्भार्यां रामस्य जनकात्मजाम्
४.०५८.०२१ भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्
४.०५८.०२२ रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम्
४.०५८.०२२ एष कालात्ययस्तावदिति वाक्यविदां वरः
४.०५८.०२३ एतमर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत्
४.०५८.०२३ तच्छ्रुत्वापि हि मे बुद्धिर्नासीत्का चित्पराक्रमे
४.०५८.०२४ अपक्षो हि कथं पक्षी कर्म किं चिदुपक्रमेत्
४.०५८.०२४ यत्तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना
४.०५८.०२५ श्रूयतां तत्प्रवक्ष्यामि भवतां पौरुषाश्रयम्
४.०५८.०२५ वाङ्मतिभ्यां हि सार्वेषां करिष्यामि प्रियं हि वः
४.०५८.०२५ यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः
४.०५८.०२६ ते भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः
४.०५८.०२६ सहिताः कपिराजेन देवैरपि दुरासदाः
४.०५८.०२७ रामलक्ष्मणबाणाश्च निशिताः कङ्कपत्रिणः
४.०५८.०२७ त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे
४.०५८.०२८ कामं खलु दशग्रीवस्तेजोबलसमन्वितः
४.०५८.०२८ भवतां तु समर्थानां न किं चिदपि दुष्करम्
४.०५८.०२९ तदलं कालसंगेन क्रियतां बुद्धिनिश्चयः
४.०५८.०२९ न हि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः
४.०५९.००१ ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः
४.०५९.००१ उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः
४.०५९.००२ तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम्
४.०५९.००२ जनितप्रत्ययो हर्षात्संपातिः पुनरब्रवीत्
४.०५९.००३ कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम
४.०५९.००३ तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम्
४.०५९.००४ अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने
४.०५९.००४ सूर्यातपपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः
४.०५९.००५ लब्धसंज्ञस्तु षड्रात्राद्विवशो विह्वलन्निव
४.०५९.००५ वीक्षमाणो दिशः सर्वा नाभिजानामि किं चन
४.०५९.००६ ततस्तु सागराञ्शैलान्नदीः सर्वाः सरांसि च
४.०५९.००६ वनान्यटविदेशांश्च समीक्ष्य मतिरागमत्
४.०५९.००७ हृष्टपक्षिगणाकीर्णः कन्दरान्तरकूटवान्
४.०५९.००७ दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः
४.०५९.००८ आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम्
४.०५९.००८ ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाभवत्
४.०५९.००९ अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना
४.०५९.००९ वसतो मम धर्मज्ञाः स्वर्गते तु निशाकरे
४.०५९.०१० अवतीर्य च विन्ध्याग्रात्कृच्छ्रेण विषमाच्छनैः
४.०५९.०१० तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः
४.०५९.०११ तमृषिं द्रष्टु कामोऽस्मि दुःखेनाभ्यागतो भृशम्
४.०५९.०११ जटायुषा मया चैव बहुशोऽभिगतो हि सः
४.०५९.०१२ तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः
४.०५९.०१२ वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते
४.०५९.०१३ उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः
४.०५९.०१३ द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम्
४.०५९.०१४ अथापश्यमदूरस्थमृषिं ज्वलिततेजसं
४.०५९.०१४ कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्
४.०५९.०१५ तमृक्षाः सृमरा व्याघ्राः सिंहा नागाः सरीसृपाः
४.०५९.०१५ परिवार्योपगच्छन्ति दातारं प्राणिनो यथा
४.०५९.०१६ ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः
४.०५९.०१६ प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्
४.०५९.०१७ ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः
४.०५९.०१७ मुहूर्तमात्रान्निष्क्रम्य ततः कार्यमपृच्छत
४.०५९.०१८ सौम्य वैकल्यतां दृष्ट्वा रोंणां ते नावगम्यते
४.०५९.०१८ अग्निदग्धाविमौ पक्षौ त्वक्चैव व्रणिता तव
४.०५९.०१९ द्वौ गृध्रौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे
४.०५९.०१९ गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ
४.०५९.०२० ज्येष्ठस्त्वं तु च संपातिर्जटायुरनुजस्तव
४.०५९.०२० मानुषं रूपमास्थाय गृह्णीतां चरणौ मम
४.०५९.०२१ किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम्
४.०५९.०२१ दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः
४.०६०.००१ ततस्तद्दारुणं कर्म दुष्करं साहसात्कृतम्
४.०६०.००१ आचचक्षे मुनेः सर्वं सूर्यानुगमनं तथा
४.०६०.००२ भगवन् व्रणयुक्तत्वाल्लज्जया चाकुलेन्द्रियः
४.०६०.००२ परिश्रान्तो न शक्नोमि वचनं परिभाषितुम्
४.०६०.००३ अहं चैव जटायुश्च संघर्षाद्दर्पमोहितौ
४.०६०.००३ आकाशं पतितौ वीरौ जिघासन्तौ पराक्रमम्
४.०६०.००४ कैलासशिखरे बद्ध्वा मुनीनामग्रतः पणम्
४.०६०.००४ रविः स्यादनुयातव्यो यावदस्तं महागिरिम्
४.०६०.००५ अथावां युगपत्प्राप्तावपश्याव महीतले
४.०६०.००५ रथचक्रप्रमाणानि नगराणि पृथक्पृथक्
४.०६०.००६ क्व चिद्वादित्रघोषांश्च ब्रह्मघोषांश्च शुश्रुव
४.०६०.००६ गायन्तीश्चाङ्गना बह्वीः पश्यावो रक्तवाससः
४.०६०.००७ तूर्णमुत्पत्य चाकाशमादित्यपथमास्थितौ
४.०६०.००७ आवामालोकयावस्तद्वनं शाद्वलसंस्थितम्
४.०६०.००८ उपलैरिव संछन्ना दृश्यते भूः शिलोच्चयैः
४.०६०.००८ आपगाभिश्च संवीता सूत्रैरिव वसुंधरा
४.०६०.००९ हिमवांश्चैव विन्ध्यश्च मेरुश्च सुमहान्नगः
४.०६०.००९ भूतले संप्रकाशन्ते नागा इव जलाशये
४.०६०.०१० तीव्रस्वेदश्च खेदश्च भयं चासीत्तदावयोः
४.०६०.०१० समाविशत मोहश्च मोहान्मूर्छा च दारुणा
४.०६०.०११ न दिग्विज्ञायते याम्या नागेन्या न च वारुणी
४.०६०.०११ युगान्ते नियतो लोको हतो दग्ध इवाग्निना
४.०६०.०१२ यत्नेन महता भूयो रविः समवलोकितः
४.०६०.०१२ तुल्यः पृथ्वीप्रमाणेन भास्करः प्रतिभाति नौ
४.०६०.०१३ जटायुर्मामनापृच्छ्य निपपात महीं ततः
४.०६०.०१३ तं दृष्ट्वा तूर्णमाकाशादात्मानं मुक्तवानहम्
४.०६०.०१४ पक्षिभ्यां च मया गुप्तो जटायुर्न प्रदह्यत
४.०६०.०१४ प्रमादात्तत्र निर्दग्धः पतन् वायुपथादहम्
४.०६०.०१५ आशङ्के तं निपतितं जनस्थाने जटायुषम्
४.०६०.०१५ अहं तु पतितो विन्ध्ये दग्धपक्षो जडीकृतः
४.०६०.०१६ राज्येन हीनो भ्रात्रा च पक्षाभ्यां विक्रमेण च
४.०६०.०१६ सर्वथा मर्तुमेवेच्छन् पतिष्ये शिखराद्गिरेः
४.०६१.००१ एवमुक्त्वा मुनिश्रेष्ठमरुदं दुःखितो भृशम्
४.०६१.००१ अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत्
४.०६१.००२ पक्षौ च ते प्रपक्षौ च पुनरन्यौ भविष्यतः
४.०६१.००२ चक्षुषी चैव प्राणाश्च विक्रमश्च बलं च ते
४.०६१.००३ पुराणे सुमहत्कार्यं भविष्यं हि मया श्रुतम्
४.०६१.००३ दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम
४.०६१.००४ राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः
४.०६१.००४ तस्य पुत्रो महातेजा रामो नाम भविष्यति
४.०६१.००५ अरण्यं च सह भ्रात्रा लक्ष्मणेन गमिष्यति
४.०६१.००५ तस्मिन्नर्थे नियुक्तः सन् पित्रा सत्यपराक्रमः
४.०६१.००६ नैरृतो रावणो नाम तस्या भार्यां हरिष्यति
४.०६१.००६ राक्षसेन्द्रो जनस्थानादवध्यः सुरदानवैः
४.०६१.००७ सा च कामैः प्रलोभ्यन्ती भक्ष्यैर्भोज्यैश्च मैथिली
४.०६१.००७ न भोक्ष्यति महाभागा दुःखमग्ना यशस्विनी
४.०६१.००८ परमान्नं तु वैदेह्या ज्ञात्वा दास्यति वासवः
४.०६१.००८ यदन्नममृतप्रख्यं सुराणामपि दुर्लभम्
४.०६१.००९ तदन्नं मैथिली प्राप्य विज्ञायेन्द्रादिदं त्विति
४.०६१.००९ अग्रमुद्धृत्य रामाय भूतले निर्वपिष्यति
४.०६१.०१० यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः
४.०६१.०१० देवत्वं गतयोर्वापि तयोरन्नमिदं त्विति
४.०६१.०११ एष्यन्त्यन्वेषकास्तस्या रामदूताः प्लवंगमाः
४.०६१.०११ आख्येया राममहिषी त्वया तेभ्यो विहंगम
४.०६१.०१२ सर्वथा तु न गन्तव्यमीदृशः क्व गमिष्यसि
४.०६१.०१२ देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे
४.०६१.०१३ उत्सहेयमहं कर्तुमद्यैव त्वां सपक्षकम्
४.०६१.०१३ इहस्थस्त्वं तु लोकानां हितं कार्यं करिष्यसि
४.०६१.०१४ त्वयापि खलु तत्कार्यं तयोश्च नृपपुत्रयोः
४.०६१.०१४ ब्राह्मणानां सुराणां च मुनीनां वासवस्य च
४.०६१.०१५ इच्छाम्यहमपि द्रष्टुं भ्रातरु रामलक्ष्मणौ
४.०६१.०१५ नेच्छे चिरं धारयितुं प्राणांस्त्यक्ष्ये कलेवरम्
४.०६२.००१ एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः
४.०६२.००१ मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम्
४.०६२.००२ कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः
४.०६२.००२ अहं विन्ध्यं समारुह्य भवतः प्रतिपालये
४.०६२.००३ अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम्
४.०६२.००३ देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः
४.०६२.००४ महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे
४.०६२.००४ मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्
४.०६२.००५ उत्थितां मरणे बुद्धिं मुनि वाक्यैर्निवर्तये
४.०६२.००५ बुद्धिर्या तेन मे दत्ता प्राणसंरक्षणाय तु
४.०६२.००५ सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः
४.०६२.००६ बुध्यता च मया वीर्यं रावणस्य दुरात्मनः
४.०६२.००६ पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम्
४.०६२.००७ तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ
४.०६२.००७ न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम्
४.०६२.००८ तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह
४.०६२.००८ उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्
४.०६२.००९ स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः
४.०६२.००९ प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्
४.०६२.०१० निशाकरस्य महर्षेः प्रभावादमितात्मनः
४.०६२.०१० आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ
४.०६२.०११ यौवने वर्तमानस्य ममासीद्यः पराक्रमः
४.०६२.०११ तमेवाद्यावगच्छामि बलं पौरुषमेव च
४.०६२.०१२ सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ
४.०६२.०१२ पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः
४.०६२.०१३ इत्युक्त्वा तान् हरीन् सर्वान् संपातिः पततां वरः
४.०६२.०१३ उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम्
४.०६२.०१४ तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः
४.०६२.०१४ बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः
४.०६२.०१५ अथ पवनसमानविक्रमाः॑ प्लवगवराः प्रतिलब्ध पौरुषाः
४.०६२.०१५ अभिजिदभिमुखां दिशं ययुर्॑ जनकसुता परिमार्गणोन्मुखाः
४.०६३.००१ आख्याता गृध्रराजेन समुत्पत्य प्लवंगमाः
४.०६३.००१ संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः
४.०६३.००२ संपातेर्वचनं श्रुत्वा हरयो रावणक्षयम्
४.०६३.००२ हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः
४.०६३.००३ अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः
४.०६३.००३ कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम्
४.०६३.००४ दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम्
४.०६३.००४ संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः
४.०६३.००५ सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले
४.०६३.००५ व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम्
४.०६३.००६ प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः
४.०६३.००६ क्व चित्पर्वतमात्रैश्च जलराशिभिरावृतम्
४.०६३.००७ संकुलं दानवेन्द्रैश्च पातालतलवासिभिः
४.०६३.००७ रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः
४.०६३.००८ आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः
४.०६३.००८ विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन्
४.०६३.००९ विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात्
४.०६३.००९ आश्वासयामास हरीन् भयार्तान् हरिसत्तमः
४.०६३.०१० न निषादेन नः कार्यं विषादो दोषवत्तरः
४.०६३.०१० विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः
४.०६३.०११ विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते
४.०६३.०११ तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति
४.०६३.०१२ तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह
४.०६३.०१२ हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्
४.०६३.०१३ सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ
४.०६३.०१३ वासवं परिवार्येव मरुतां वाहिनी स्थिता
४.०६३.०१४ कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत्
४.०६३.०१४ अन्यत्र वालितनयादन्यत्र च हनूमतः
४.०६३.०१५ ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः
४.०६३.०१५ अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत्
४.०६३.०१६ क इदानीं महातेजा लङ्घयिष्यति सागरम्
४.०६३.०१६ कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम्
४.०६३.०१७ को वीरो योजनशतं लङ्घयेत प्लवंगमाः
४.०६३.०१७ इमांश्च यूथपान् सर्वान्मोचयेत्को महाभयात्
४.०६३.०१८ कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च
४.०६३.०१८ इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्
४.०६३.०१९ कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम्
४.०६३.०१९ अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम्
४.०६३.०२० यदि कश्चित्समर्थो वः सागरप्लवने हरिः
४.०६३.०२० स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्
४.०६३.०२१ अङ्गदस्य वचः श्रुत्वा न कश्चित्किं चिदब्रवीत्
४.०६३.०२१ स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी
४.०६३.०२२ पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः
४.०६३.०२२ सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः
४.०६३.०२३ व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः
४.०६३.०२३ न हि वो गमने संगः कदा चिदपि कस्य चित्
४.०६३.०२४ ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः
४.०६४.००१ ततोऽङ्गदवचः श्रुत्वा सर्वे ते वानरोत्तमाः
४.०६४.००१ स्वं स्वं गतौ समुत्साहमाहुस्तत्र यथाक्रमम्
४.०६४.००२ गजो गवाक्षो गवयः शरभो गन्धमादनः
४.०६४.००२ मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवांस्तथा
४.०६४.००३ आबभाषे गजस्तत्र प्लवेयं दशयोजनम्
४.०६४.००३ गवाक्षो योजनान्याह गमिष्यामीति विंशतिम्
४.०६४.००४ गवयो वानरस्तत्र वानरांस्तानुवाच ह
४.०६४.००४ त्रिंशतं तु गमिष्यामि योजनानां प्लवंगमाः
४.०६४.००५ शरभो वानरस्तत्र वानरांस्तानुवाच ह
४.०६४.००५ चत्वारिंशद्गमिष्यामि योजनानां न संशयः
४.०६४.००६ वानरांस्तु महातेजा अब्रवीद्गन्धमादनः
४.०६४.००६ योजनानां गमिष्यामि पञ्चाशत्तु न संशयः
४.०६४.००७ मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह
४.०६४.००७ योजनानां परं षष्टिमहं प्लवितुमुत्सहे
४.०६४.००८ ततस्तत्र महातेजा द्विविदः प्रत्यभाषत
४.०६४.००८ गमिष्यामि न संदेहः सप्ततिं योजनान्यहम्
४.०६४.००९ सुषेणस्तु हरिश्रेष्ठः प्रोक्तवान् कपिसत्तमान्
४.०६४.००९ अशीतिं योजनानां तु प्लवेयं प्लवगर्षभाः
४.०६४.०१० तेषां कथयतां तत्र सर्वांस्ताननुमान्य च
४.०६४.०१० ततो वृद्धतमस्तेषां जाम्बवान् प्रत्यभाषत
४.०६४.०११ पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः
४.०६४.०११ ते वयं वयसः पारमनुप्राप्ताः स्म साम्प्रतम्
४.०६४.०१२ किं तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम्
४.०६४.०१२ यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ
४.०६४.०१३ साम्प्रतं कालभेदेन या गतिस्तां निबोधत
४.०६४.०१३ नवतिं योजनानां तु गमिष्यामि न संशयः
४.०६४.०१४ तांश्च सर्वान् हरिश्रेष्ठाञ्जाम्बवान् पुनरब्रवीत्
४.०६४.०१४ न खल्वेतावदेवासीद्गमने मे पराक्रमः
४.०६४.०१५ मया महाबलैश्चैव यज्ञे विष्णुः सनातनः
४.०६४.०१५ प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमः
४.०६४.०१६ स इदानीमहं वृद्धः प्लवने मन्दविक्रमः
४.०६४.०१६ यौवने च तदासीन्मे बलमप्रतिमं परैः
४.०६४.०१७ संप्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम्
४.०६४.०१७ नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति
४.०६४.०१८ अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा
४.०६४.०१८ अनुमान्य महाप्राज्ञो जाम्बवन्तं महाकपिम्
४.०६४.०१९ अहमेतद्गमिष्यामि योजनानां शतं महत्
४.०६४.०१९ निवर्तने तु मे शक्तिः स्यान्न वेति न निश्चितम्
४.०६४.०२० तमुवाच हरिश्रेष्ठो जाम्बवान् वाक्यकोविदः
४.०६४.०२० ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम
४.०६४.०२१ कामं शतसहस्रं वा न ह्येष विधिरुच्यते
४.०६४.०२१ योजनानां भवाञ्शक्तो गन्तुं प्रतिनिवर्तितुम्
४.०६४.०२२ न हि प्रेषयिता तत स्वामी प्रेष्यः कथं चन
४.०६४.०२२ भवतायं जनः सर्वः प्रेष्यः प्लवगसत्तम
४.०६४.०२३ भवान् कलत्रमस्माकं स्वामिभावे व्यवस्थितः
४.०६४.०२३ स्वामी कलत्रं सैन्यस्य गतिरेषा परंतप
४.०६४.०२४ तस्मात्कलत्रवत्तात प्रतिपाल्यः सदा भवान्
४.०६४.०२४ अपि चैतस्य कार्यस्य भवान्मूलमरिंदम
४.०६४.०२५ मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः
४.०६४.०२५ मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः
४.०६४.०२६ तद्भवानस्या कार्यस्य साधने सत्यविक्रमः
४.०६४.०२६ बुद्धिविक्रमसंपन्नो हेतुरत्र परंतपः
४.०६४.०२७ गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम
४.०६४.०२७ भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने
४.०६४.०२८ उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः
४.०६४.०२८ प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः
४.०६४.०२९ यदि नाहं गमिष्यामि नान्यो वानरपुंगवः
४.०६४.०२९ पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम्
४.०६४.०३० न ह्यकृत्वा हरिपतेः संदेशं तस्य धीमतः
४.०६४.०३० तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम्
४.०६४.०३१ स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः
४.०६४.०३१ अतीत्य तस्य संदेशं विनाशो गमने भवेत्
४.०६४.०३२ तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः
४.०६४.०३२ तद्भवानेव दृष्टार्थः संचिन्तयितुमर्हति
४.०६४.०३३ सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः
४.०६४.०३३ जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम्
४.०६४.०३४ अस्य ते वीर कार्यस्य न किं चित्परिहीयते
४.०६४.०३४ एष संचोदयाम्येनं यः कार्यं साधयिष्यति
४.०६४.०३५ ततः प्रतीतं प्लवतां वरिष्ठम्॑ एकान्तमाश्रित्य सुखोपविष्टम्
४.०६४.०३५ संचोदयामास हरिप्रवीरो॑ हरिप्रवीरं हनुमन्तमेव
४.०६५.००१ अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम्
४.०६५.००१ जाम्बवान् समुदीक्ष्यैवं हनुमन्तमथाब्रवीत्
४.०६५.००२ वीर वानरलोकस्य सर्वशास्त्रमथाब्रवीत्
४.०६५.००२ तूष्णीमेकान्तमाश्रित्य हनुमन् किं न जल्पसि
४.०६५.००३ हनुमन् हरिराजस्य सुग्रीवस्य समो ह्यसि
४.०६५.००३ रामलक्ष्मणयोश्चापि तेजसा च बलेन च
४.०६५.००४ अरिष्टनेमिनः पुत्रौ वैनतेयो महाबलः
४.०६५.००४ गरुत्मानिव विख्यात उत्तमः सर्वपक्षिणाम्
४.०६५.००५ बहुशो हि मया दृष्टः सागरे स महाबलः
४.०६५.००५ भुजगानुद्धरन् पक्षी महावेगो महायशाः
४.०६५.००६ पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव
४.०६५.००६ विक्रमश्चापि वेगश्च न ते तेनापहीयते
४.०६५.००७ बलं बुद्धिश्च तेजश्च सत्त्वं च हरिसत्तम
४.०६५.००७ विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे
४.०६५.००८ अप्सराप्सरसां श्रेष्ठा विख्याता पुञ्जिकस्थला
४.०६५.००८ अज्ञनेति परिख्याता पत्नी केसरिणो हरेः
४.०६५.००९ अभिशापादभूत्तात वानरी कामरूपिणी
४.०६५.००९ दुहिता वानरेन्द्रस्य कुञ्जरस्य महात्मनः
४.०६५.०१० कपित्वे चारुसर्वाङ्गी कदा चित्कामरूपिणी
४.०६५.०१० मानुषं विग्रहं कृत्वा यौवनोत्तमशालिनी
४.०६५.०११ अचरत्पर्वतस्याग्रे प्रावृडम्बुदसंनिभे
४.०६५.०११ विचित्रमाल्याभरणा महार्हक्षौमवासिनी
४.०६५.०१२ तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम्
४.०६५.०१२ स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः
४.०६५.०१३ स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ
४.०६५.०१३ स्तनौ च पीनौ सहितौ सुजातं चारु चाननम्
४.०६५.०१४ तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम्
४.०६५.०१४ दृष्ट्वैव शुभसर्वाग्नीं पवनः काममोहितः
४.०६५.०१५ स तां भुजाभ्यां पीनाभ्यां पर्यष्वजत मारुतः
४.०६५.०१५ मन्मथाविष्टसर्वाङ्गो गतात्मा तामनिन्दिताम्
४.०६५.०१६ सा तु तत्रैव संभ्रान्ता सुवृत्ता वाक्यमब्रवीत्
४.०६५.०१६ एकपत्नीव्रतमिदं को नाशयितुमिच्छति
४.०६५.०१७ अञ्जनाया वचः श्रुत्वा मारुतः प्रत्यभाषत
४.०६५.०१७ न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम्
४.०६५.०१८ मनसास्मि गतो यत्त्वां परिष्वज्य यशस्विनि
४.०६५.०१८ वीर्यवान् बुद्धिसंपन्नः पुत्रस्तव भविष्यति
४.०६५.०१९ अभ्युत्थितं ततः सूर्यं बालो दृष्ट्वा महावने
४.०६५.०१९ फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्यपतो दिवम्
४.०६५.०२० शतानि त्रीणि गत्वाथ योजनानां महाकपे
४.०६५.०२० तेजसा तस्य निर्धूतो न विषादं ततो गतः
४.०६५.०२१ तावदापततस्तूर्णमन्तरिक्षं महाकपे
४.०६५.०२१ क्षिप्तमिन्द्रेण ते वज्रं क्रोधाविष्टेन धीमता
४.०६५.०२२ ततः शैलाग्रशिखरे वामो हनुरभज्यत
४.०६५.०२२ ततो हि नामधेयं ते हनुमानिति कीर्त्यते
४.०६५.०२३ ततस्त्वां निहतं दृष्ट्वा वायुर्गन्धवहः स्वयम्
४.०६५.०२३ त्रैलोक्ये भृशसंक्रुद्धो न ववौ वै प्रभञ्जनः
४.०६५.०२४ संभ्रान्ताश्च सुराः सर्वे त्रैलोक्ये क्षुभिते सति
४.०६५.०२४ प्रसादयन्ति संक्रुद्धं मारुतं भुवनेश्वराः
४.०६५.०२५ प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ
४.०६५.०२५ अशस्त्रवध्यतां तात समरे सत्यविक्रम
४.०६५.०२६ वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च
४.०६५.०२६ सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम्
४.०६५.०२७ स्वच्छन्दतश्च मरणं ते भूयादिति वै प्रभो
४.०६५.०२७ स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः
४.०६५.०२८ मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः
४.०६५.०२८ त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः
४.०६५.०२९ वयमद्य गतप्राणा भवानस्मासु साम्प्रतम्
४.०६५.०२९ दाक्ष्यविक्रमसंपन्नः पक्षिराज इवापरः
४.०६५.०३० त्रिविक्रमे मया तात सशैलवनकानना
४.०६५.०३० त्रिः सप्तकृत्वः पृथिवी परिक्रान्ता प्रदक्षिणम्
४.०६५.०३१ तदा चौषधयोऽस्माभिः संचिता देवशासनात्
४.०६५.०३१ निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम्
४.०६५.०३२ स इदानीमहं वृद्धः परिहीनपराक्रमः
४.०६५.०३२ साम्प्रतं कालमस्माकं भवान् सर्वगुणान्वितः
४.०६५.०३३ तद्विजृम्भस्व विक्रान्तः प्लवतामुत्तमो ह्यसि
४.०६५.०३३ त्वद्वीर्यं द्रष्टुकामेयं सर्वा वानरवाहिनी
४.०६५.०३४ उत्तिष्ठ हरिशार्दूल लङ्घयस्व महार्णवम्
४.०६५.०३४ परा हि सर्वभूतानां हनुमन् या गतिस्तव
४.०६५.०३५ विषाण्णा हरयः सर्वे हनुमन् किमुपेक्षसे
४.०६५.०३५ विक्रमस्व महावेगो विष्णुस्त्रीन् विक्रमानिव
४.०६५.०३६ ततस्तु वै जाम्बवताभिचोदितः॑ प्रतीतवेगः पवनात्मजः कपिः
४.०६५.०३६ प्रहर्षयंस्तां हरिवीर वाहिनीं॑ चकार रूपं महदात्मनस्तदा
४.०६६.००१ संस्तूयमानो हनुमान् व्यवर्धत महाबलः
४.०६६.००१ समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान्
४.०६६.००२ तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः
४.०६६.००२ तेजसापूर्यमाणस्य रूपमासीदनुत्तमम्
४.०६६.००३ यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे
४.०६६.००३ मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते
४.०६६.००४ अशोभत मुखं तस्य जृम्भमाणस्य धीमतः
४.०६६.००४ अम्बरीषोपमं दीप्तं विधूम इव पावकः
४.०६६.००५ हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः
४.०६६.००५ अभिवाद्य हरीन् वृद्धान् हनुमानिदमब्रवीत्
४.०६६.००६ अरुजन् पर्वताग्राणि हुताशनसखोऽनिलः
४.०६६.००६ बलवानप्रमेयश्च वायुराकाशगोचरः
४.०६६.००७ तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः
४.०६६.००७ मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः
४.०६६.००८ उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्
४.०६६.००८ मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः
४.०६६.००९ बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे
४.०६६.००९ समाप्लावयितुं लोकं सपर्वतनदीह्रदम्
४.०६६.०१० ममोरुजङ्घावेगेन भविष्यति समुत्थितः
४.०६६.०१० संमूर्छितमहाग्राहः समुद्रो वरुणालयः
४.०६६.०११ पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम्
४.०६६.०११ वैनतेयमहं शक्तः परिगन्तुं सहस्रशः
४.०६६.०१२ उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्
४.०६६.०१२ अनस्तमितमादित्यमभिगन्तुं समुत्सहे
४.०६६.०१३ ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे
४.०६६.०१३ प्रवेगेनैव महता भीमेन प्लवगर्षभाः
४.०६६.०१४ उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्
४.०६६.०१४ सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम्
४.०६६.०१५ पर्वतान् कम्पयिष्यामि प्लवमानः प्लवंगमाः
४.०६६.०१५ हरिष्ये चोरुवेगेन प्लवमानो महार्णवम्
४.०६६.०१६ लतानां वीरुधां पुष्पं पादपानां च सर्वशः
४.०६६.०१६ अनुयास्यति मामद्य प्लवमानं विहायसा
४.०६६.०१६ भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे
४.०६६.०१७ चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च
४.०६६.०१७ द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः
४.०६६.०१८ महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः
४.०६६.०१८ दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्
४.०६६.०१९ विधमिष्यामि जीमूतान् कम्पयिष्यामि पर्वतान्
४.०६६.०१९ सागरं क्षोभयिष्यामि प्लवमानः समाहितः
४.०६६.०२० वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा
४.०६६.०२० ऋते सुपर्णराजानं मारुतं वा महाबलम्
४.०६६.०२० न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत्
४.०६६.०२१ निमेषान्तरमात्रेण निरालम्भनमम्बरम्
४.०६६.०२१ सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता
४.०६६.०२२ भविष्यति हि मे रूपं प्लवमानस्य सागरम्
४.०६६.०२२ विष्णोः प्रक्रममाणस्य तदा त्रीन् विक्रमानिव
४.०६६.०२३ बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा
४.०६६.०२३ अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः
४.०६६.०२४ मारुतस्य समो वेगे गरुडस्य समो जवे
४.०६६.०२४ अयुतं योजनानां तु गमिष्यामीति मे मतिः
४.०६६.०२५ वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः
४.०६६.०२५ विक्रम्य सहसा हस्तादमृतं तदिहानये
४.०६६.०२५ लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः
४.०६६.०२६ तमेवं वानरश्रेष्ठं गर्जन्तममितौजसं
४.०६६.०२६ उवाच परिसंहृष्टो जाम्बवान् हरिसत्तमः
४.०६६.०२७ वीर केसरिणः पुत्र वेगवन्मारुतात्मज
४.०६६.०२७ ज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः
४.०६६.०२८ तव कल्याणरुचयः कपिमुख्याः समागताः
४.०६६.०२८ मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः
४.०६६.०२९ ऋषीणां च प्रसादेन कपिवृद्धमतेन च
४.०६६.०२९ गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम्
४.०६६.०३० स्थास्यामश्चैकपादेन यावदागमनं तव
४.०६६.०३० त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम्
४.०६६.०३१ ततस्तु हरिशार्दूलस्तानुवाच वनौकसः
४.०६६.०३१ नेयं मम मही वेगं प्लवने धारयिष्यति
४.०६६.०३२ एतानि हि नगस्यास्य शिलासंकटशालिनः
४.०६६.०३२ शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च
४.०६६.०३३ एतानि मम निष्पेषं पादयोः पततां वराः
४.०६६.०३३ प्लवतो धारयिष्यन्ति योजनानामितः शतम्
४.०६६.०३४ ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः
४.०६६.०३४ आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः
४.०६६.०३५ वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम्
४.०६६.०३५ लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम्
४.०६६.०३६ सिंहशार्दूलचरितं मत्तमातङ्गसेवितम्
४.०६६.०३६ मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम्
४.०६६.०३७ महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः
४.०६६.०३७ विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः
४.०६६.०३८ पादाभ्यां पीडितस्तेन महाशैलो महात्मना
४.०६६.०३८ ररास सिंहाभिहतो महान्मत्त इव द्विपः
४.०६६.०३९ मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः
४.०६६.०३९ वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः
४.०६६.०४० नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः
४.०६६.०४० उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि
४.०६६.०४१ त्यज्यमानमहासानुः संनिलीनमहोरगः
४.०६६.०४१ शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः
४.०६६.०४२ निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः
४.०६६.०४२ सपताक इवाभाति स तदा धरणीधरः
४.०६६.०४३ ऋषिभिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयः
४.०६६.०४३ सीदन्महति कान्तारे सार्थहीन इवाध्वगः
४.०६६.०४४ स वेगवान् वेगसमाहितात्मा॑ हरिप्रवीरः परवीरहन्ता
४.०६६.०४४ मनः समाधाय महानुभावो॑ जगाम लङ्कां मनसा मनस्वी

Part [Kandam] – 1  2  3  5  6