RigvedaRig Veda Mandala: ( 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 ) अ आ इ ई उ ऊ ऋ ए ऐ ओ औ क ख ग घ च छ ज त द ध न प ब भ म य र ल व श ष स ह § Alphabetical Index of the Rig Veda Mantras > Rigveda: A Historical Analysis by Shrikant G. Talageri (2000) > Rigveda is at least ninety thousand years old, perhaps more: OSHO > वेदपारायणविधिः-The method of reciting the Vedas > List of the Vedic Rishis > ऋग्वेद भाष्यम् – Rig Veda Bhashyam by Sayanacharya > Core Hindutva Philosophy in the Rig Veda > Read more SamhitaSamhita अथातः सं हिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु । अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । (तैत्तिरीयोपनिषत्) Atharva Veda Samhita |Sunak Branchnch| (शौनकीय अथर्ववेद संहिता) Sam Veda Samhita | Kouthumiya | Purvarchika-Uttararchika (सामवेदः कौथुमीय) Shukla Yajurveda Kanva Shakha (Samhita) Sukla Yajurveda Samhita (शुक्लयजुर्वेदः) Rigveda Samhita Rigveda Samhita Full Text Taittiriya Samhita Charaka Samhita Manu Samhita
ऋग्वेद १
१,००१.०१ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
१,००१.०१ होतारं रत्नधातमम् ॥
१,००१.०२ अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
१,००१.०२ स देवां एह वक्षति ॥
१,००१.०३ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे ।
१,००१.०३ यशसं वीरवत्तमम् ॥
१,००१.०४ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
१,००१.०४ स इद्देवेषु गच्छति ॥
१,००१.०५ अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
१,००१.०५ देवो देवेभिरा गमत् ॥
१,००१.०६ यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
१,००१.०६ तवेत्तत्सत्यमङ्गिरः ॥
१,००१.०७ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
१,००१.०७ नमो भरन्त एमसि ॥
१,००१.०८ राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
१,००१.०८ वर्धमानं स्वे दमे ॥
१,००१.०९ स नः पितेव सूनवेऽग्ने सूपायनो भव ।
१,००१.०९ सचस्वा नः स्वस्तये ॥
१,००२.०१ वायवा याहि दर्शतेमे सोमा अरङ्कृताः ।
१,००२.०१ तेषां पाहि श्रुधी हवम् ॥
१,००२.०२ वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
१,००२.०२ सुतसोमा अहर्विदः ॥
१,००२.०३ वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
१,००२.०३ उरूची सोमपीतये ॥
१,००२.०४ इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
१,००२.०४ इन्दवो वामुशन्ति हि ॥
१,००२.०५ वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
१,००२.०५ तावा यातमुप द्रवत् ॥
१,००२.०६ वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
१,००२.०६ मक्ष्वित्था धिया नरा ॥
१,००२.०७ मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
१,००२.०७ धियं घृताचीं साधन्ता ॥
१,००२.०८ ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
१,००२.०८ क्रतुं बृहन्तमाशाथे ॥
१,००२.०९ कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
१,००२.०९ दक्षं दधाते अपसम् ॥
१,००३.०१ अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ।
१,००३.०१ पुरुभुजा चनस्यतम् ॥
१,००३.०२ अश्विना पुरुदंससा नरा शवीरया धिया ।
१,००३.०२ धिष्ण्या वनतं गिरः ॥
१,००३.०३ दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
१,००३.०३ आ यातं रुद्रवर्तनी ॥
१,००३.०४ इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
१,००३.०४ अण्वीभिस्तना पूतासः ॥
१,००३.०५ इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
१,००३.०५ उप ब्रह्माणि वाघतः ॥
१,००३.०६ इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
१,००३.०६ सुते दधिष्व नश्चनः ॥
१,००३.०७ ओमासश्चर्षणीधृतो विश्वे देवास आ गत ।
१,००३.०७ दाश्वांसो दाशुषः सुतम् ॥
१,००३.०८ विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः ।
१,००३.०८ उस्रा इव स्वसराणि ॥
१,००३.०९ विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।
१,००३.०९ मेधं जुषन्त वह्नयः ॥
१,००३.१० पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
१,००३.१० यज्ञं वष्टु धियावसुः ॥
१,००३.११ चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
१,००३.११ यज्ञं दधे सरस्वती ॥
१,००३.१२ महो अर्णः सरस्वती प्र चेतयति केतुना ।
१,००३.१२ धियो विश्वा वि राजति ॥
१,००४.०१ सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
१,००४.०१ जुहूमसि द्यविद्यवि ॥
१,००४.०२ उप नः सवना गहि सोमस्य सोमपाः पिब ।
१,००४.०२ गोदा इद्रेवतो मदः ॥
१,००४.०३ अथा ते अन्तमानां विद्याम सुमतीनाम् ।
१,००४.०३ मा नो अति ख्य आ गहि ॥
१,००४.०४ परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् ।
१,००४.०४ यस्ते सखिभ्य आ वरम् ॥
१,००४.०५ उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
१,००४.०५ दधाना इन्द्र इद्दुवः ॥
१,००४.०६ उत नः सुभगां अरिर्वोचेयुर्दस्म कृष्टयः ।
१,००४.०६ स्यामेदिन्द्रस्य शर्मणि ॥
१,००४.०७ एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
१,००४.०७ पतयन्मन्दयत्सखम् ॥
१,००४.०८ अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
१,००४.०८ प्रावो वाजेषु वाजिनम् ॥
१,००४.०९ तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
१,००४.०९ धनानामिन्द्र सातये ॥
१,००४.१० यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
१,००४.१० तस्मा इन्द्राय गायत ॥
१,००५.०१ आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
१,००५.०१ सखाय स्तोमवाहसः ॥
१,००५.०२ पुरूतमं पुरूणामीशानं वार्याणाम् ।
१,००५.०२ इन्द्रं सोमे सचा सुते ॥
१,००५.०३ स घा नो योग आ भुवत्स राये स पुरन्ध्याम् ।
१,००५.०३ गमद्वाजेभिरा स नः ॥
१,००५.०४ यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
१,००५.०४ तस्मा इन्द्राय गायत ॥
१,००५.०५ सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
१,००५.०५ सोमासो दध्याशिरः ॥
१,००५.०६ त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
१,००५.०६ इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
१,००५.०७ आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
१,००५.०७ शं ते सन्तु प्रचेतसे ॥
१,००५.०८ त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ।
१,००५.०८ त्वां वर्धन्तु नो गिरः ॥
१,००५.०९ अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
१,००५.०९ यस्मिन्विश्वानि पौंस्या ॥
१,००५.१० मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः ।
१,००५.१० ईशानो यवया वधम् ॥
१,००६.०१ युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
१,००६.०१ रोचन्ते रोचना दिवि ॥
१,००६.०२ युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
१,००६.०२ शोणा धृष्णू नृवाहसा ॥
१,००६.०३ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
१,००६.०३ समुषद्भिरजायथाः ॥
१,००६.०४ आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
१,००६.०४ दधाना नाम यज्ञियम् ॥
१,००६.०५ वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
१,००६.०५ अविन्द उस्रिया अनु ॥
१,००६.०६ देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः ।
१,००६.०६ महामनूषत श्रुतम् ॥
१,००६.०७ इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
१,००६.०७ मन्दू समानवर्चसा ॥
१,००६.०८ अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
१,००६.०८ गणैरिन्द्रस्य काम्यैः ॥
१,००६.०९ अतः परिज्मन्ना गहि दिवो वा रोचनादधि ।
१,००६.०९ समस्मिन्नृञ्जते गिरः ॥
१,००६.१० इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
१,००६.१० इन्द्रं महो वा रजसः ॥
१,००७.०१ इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
१,००७.०१ इन्द्रं वाणीरनूषत ॥
१,००७.०२ इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
१,००७.०२ इन्द्रो वज्री हिरण्ययः ॥
१,००७.०३ इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
१,००७.०३ वि गोभिरद्रिमैरयत् ॥
१,००७.०४ इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
१,००७.०४ उग्र उग्राभिरूतिभिः ॥
१,००७.०५ इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
१,००७.०५ युजं वृत्रेषु वज्रिणम् ॥
१,००७.०६ स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
१,००७.०६ अस्मभ्यमप्रतिष्कुतः ॥
१,००७.०७ तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
१,००७.०७ न विन्धे अस्य सुष्टुतिम् ॥
१,००७.०८ वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
१,००७.०८ ईशानो अप्रतिष्कुतः ॥
१,००७.०९ य एकश्चर्षणीनां वसूनामिरज्यति ।
१,००७.०९ इन्द्रः पञ्च क्षितीनाम् ॥
१,००७.१० इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
१,००७.१० अस्माकमस्तु केवलः ॥
१,००८.०१ एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
१,००८.०१ वर्षिष्ठमूतये भर ॥
१,००८.०२ नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
१,००८.०२ त्वोतासो न्यर्वता ॥
१,००८.०३ इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि ।
१,००८.०३ जयेम सं युधि स्पृधः ॥
१,००८.०४ वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
१,००८.०४ सासह्याम पृतन्यतः ॥
१,००८.०५ महां इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
१,००८.०५ द्यौर्न प्रथिना शवः ॥
१,००८.०६ समोहे वा य आशत नरस्तोकस्य सनितौ ।
१,००८.०६ विप्रासो वा धियायवः ॥
१,००८.०७ यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
१,००८.०७ उर्वीरापो न काकुदः ॥
१,००८.०८ एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
१,००८.०८ पक्वा शाखा न दाशुषे ॥
१,००८.०९ एवा हि ते विभूतय ऊतय इन्द्र मावते ।
१,००८.०९ सद्यश्चित्सन्ति दाशुषे ॥
१,००८.१० एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
१,००८.१० इन्द्राय सोमपीतये ॥
१,००९.०१ इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
१,००९.०१ महां अभिष्टिरोजसा ॥
१,००९.०२ एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
१,००९.०२ चक्रिं विश्वानि चक्रये ॥
१,००९.०३ मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
१,००९.०३ सचैषु सवनेष्वा ॥
१,००९.०४ असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
१,००९.०४ अजोषा वृषभं पतिम् ॥
१,००९.०५ सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
१,००९.०५ असदित्ते विभु प्रभु ॥
१,००९.०६ अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
१,००९.०६ तुविद्युम्न यशस्वतः ॥
१,००९.०७ सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
१,००९.०७ विश्वायुर्धेह्यक्षितम् ॥
१,००९.०८ अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
१,००९.०८ इन्द्र ता रथिनीरिषः ॥
१,००९.०९ वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
१,००९.०९ होम गन्तारमूतये ॥
१,००९.१० सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
१,००९.१० इन्द्राय शूषमर्चति ॥
१,०१०.०१ गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
१,०१०.०१ ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥
१,०१०.०२ यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् ।
१,०१०.०२ तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥
१,०१०.०३ युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
१,०१०.०३ अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥
१,०१०.०४ एहि स्तोमां अभि स्वराभि गृणीह्या रुव ।
१,०१०.०४ ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥
१,०१०.०५ उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ।
१,०१०.०५ शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥
१,०१०.०६ तमित्सखित्व ईमहे तं राये तं सुवीर्ये ।
१,०१०.०६ स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥
१,०१०.०७ सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः ।
१,०१०.०७ गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥
१,०१०.०८ नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः ।
१,०१०.०८ जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥
१,०१०.०९ आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः ।
१,०१०.०९ इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥
१,०१०.१० विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।
१,०१०.१० वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥
१,०१०.११ आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब ।
१,०१०.११ नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥
१,०१०.१२ परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
१,०१०.१२ वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥
१,०११.०१ इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः ।
१,०११.०१ रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥
१,०११.०२ सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
१,०११.०२ त्वामभि प्र णोनुमो जेतारमपराजितम् ॥
१,०११.०३ पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
१,०११.०३ यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥
१,०११.०४ पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
१,०११.०४ इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥
१,०११.०५ त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ।
१,०११.०५ त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥
१,०११.०६ तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ।
१,०११.०६ उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥
१,०११.०७ मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः ।
१,०११.०७ विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥
१,०११.०८ इन्द्रमीशानमोजसाभि स्तोमा अनूषत ।
१,०११.०८ सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥
१,०१२.०१ अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
१,०१२.०१ अस्य यज्ञस्य सुक्रतुम् ॥
१,०१२.०२ अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
१,०१२.०२ हव्यवाहं पुरुप्रियम् ॥
१,०१२.०३ अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे ।
१,०१२.०३ असि होता न ईड्यः ॥
१,०१२.०४ तां उशतो वि बोधय यदग्ने यासि दूत्यम् ।
१,०१२.०४ देवैरा सत्सि बर्हिषि ॥
१,०१२.०५ घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
१,०१२.०५ अग्ने त्वं रक्षस्विनः ॥
१,०१२.०६ अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ।
१,०१२.०६ हव्यवाड्जुह्वास्यः ॥
१,०१२.०७ कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे ।
१,०१२.०७ देवममीवचातनम् ॥
१,०१२.०८ यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
१,०१२.०८ तस्य स्म प्राविता भव ॥
१,०१२.०९ यो अग्निं देववीतये हविष्मां आविवासति ।
१,०१२.०९ तस्मै पावक मृळय ॥
१,०१२.१० स नः पावक दीदिवोऽग्ने देवां इहा वह ।
१,०१२.१० उप यज्ञं हविश्च नः ॥
१,०१२.११ स न स्तवान आ भर गायत्रेण नवीयसा ।
१,०१२.११ रयिं वीरवतीमिषम् ॥
१,०१२.१२ अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
१,०१२.१२ इमं स्तोमं जुषस्व नः ॥
१,०१३.०१ सुसमिद्धो न आ वह देवां अग्ने हविष्मते ।
१,०१३.०१ होतः पावक यक्षि च ॥
१,०१३.०२ मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।
१,०१३.०२ अद्या कृणुहि वीतये ॥
१,०१३.०३ नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।
१,०१३.०३ मधुजिह्वं हविष्कृतम् ॥
१,०१३.०४ अग्ने सुखतमे रथे देवां ईळित आ वह ।
१,०१३.०४ असि होता मनुर्हितः ॥
१,०१३.०५ स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः ।
१,०१३.०५ यत्रामृतस्य चक्षणम् ॥
१,०१३.०६ वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः ।
१,०१३.०६ अद्या नूनं च यष्टवे ॥
१,०१३.०७ नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये ।
१,०१३.०७ इदं नो बर्हिरासदे ॥
१,०१३.०८ ता सुजिह्वा उप ह्वये होतारा दैव्या कवी ।
१,०१३.०८ यज्ञं नो यक्षतामिमम् ॥
१,०१३.०९ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
१,०१३.०९ बर्हिः सीदन्त्वस्रिधः ॥
१,०१३.१० इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये ।
१,०१३.१० अस्माकमस्तु केवलः ॥
१,०१३.११ अव सृजा वनस्पते देव देवेभ्यो हविः ।
१,०१३.११ प्र दातुरस्तु चेतनम् ॥
१,०१३.१२ स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे ।
१,०१३.१२ तत्र देवां उप ह्वये ॥
१,०१४.०१ ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
१,०१४.०१ देवेभिर्याहि यक्षि च ॥
१,०१४.०२ आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
१,०१४.०२ देवेभिरग्न आ गहि ॥
१,०१४.०३ इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
१,०१४.०३ आदित्यान्मारुतं गणम् ॥
१,०१४.०४ प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
१,०१४.०४ द्रप्सा मध्वश्चमूषदः ॥
१,०१४.०५ ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।
१,०१४.०५ हविष्मन्तो अरङ्कृतः ॥
१,०१४.०६ घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
१,०१४.०६ आ देवान्सोमपीतये ॥
१,०१४.०७ तान्यजत्रां ऋतावृधोऽग्ने पत्नीवतस्कृधि ।
१,०१४.०७ मध्वः सुजिह्व पायय ॥
१,०१४.०८ ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।
१,०१४.०८ मधोरग्ने वषट्कृति ॥
१,०१४.०९ आकीं सूर्यस्य रोचनाद्विश्वान्देवां उषर्बुधः ।
१,०१४.०९ विप्रो होतेह वक्षति ॥
१,०१४.१० विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।
१,०१४.१० पिबा मित्रस्य धामभिः ॥
१,०१४.११ त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ।
१,०१४.११ सेमं नो अध्वरं यज ॥
१,०१४.१२ युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।
१,०१४.१२ ताभिर्देवां इहा वह ॥
१,०१५.०१ इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः ।
१,०१५.०१ मत्सरासस्तदोकसः ॥
१,०१५.०२ मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन ।
१,०१५.०२ यूयं हि ष्ठा सुदानवः ॥
१,०१५.०३ अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ।
१,०१५.०३ त्वं हि रत्नधा असि ॥
१,०१५.०४ अग्ने देवां इहा वह सादया योनिषु त्रिषु ।
१,०१५.०४ परि भूष पिब ऋतुना ॥
१,०१५.०५ ब्राह्मणादिन्द्र राधसः पिबा सोममृतूंरनु ।
१,०१५.०५ तवेद्धि सख्यमस्तृतम् ॥
१,०१५.०६ युवं दक्षं धृतव्रत मित्रावरुण दूळभम् ।
१,०१५.०६ ऋतुना यज्ञमाशाथे ॥
१,०१५.०७ द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
१,०१५.०७ यज्ञेषु देवमीळते ॥
१,०१५.०८ द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
१,०१५.०८ देवेषु ता वनामहे ॥
१,०१५.०९ द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
१,०१५.०९ नेष्ट्रादृतुभिरिष्यत ॥
१,०१५.१० यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ।
१,०१५.१० अध स्मा नो ददिर्भव ॥
१,०१५.११ अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ।
१,०१५.११ ऋतुना यज्ञवाहसा ॥
१,०१५.१२ गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ।
१,०१५.१२ देवान्देवयते यज ॥
१,०१६.०१ आ त्वा वहन्तु हरयो वृषणं सोमपीतये ।
१,०१६.०१ इन्द्र त्वा सूरचक्षसः ॥
१,०१६.०२ इमा धाना घृतस्नुवो हरी इहोप वक्षतः ।
१,०१६.०२ इन्द्रं सुखतमे रथे ॥
१,०१६.०३ इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे ।
१,०१६.०३ इन्द्रं सोमस्य पीतये ॥
१,०१६.०४ उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः ।
१,०१६.०४ सुते हि त्वा हवामहे ॥
१,०१६.०५ सेमं न स्तोममा गह्युपेदं सवनं सुतम् ।
१,०१६.०५ गौरो न तृषितः पिब ॥
१,०१६.०६ इमे सोमास इन्दवः सुतासो अधि बर्हिषि ।
१,०१६.०६ तां इन्द्र सहसे पिब ॥
१,०१६.०७ अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः ।
१,०१६.०७ अथा सोमं सुतं पिब ॥
१,०१६.०८ विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ।
१,०१६.०८ वृत्रहा सोमपीतये ॥
१,०१६.०९ सेमं नः काममा पृण गोभिरश्वैः शतक्रतो ।
१,०१६.०९ स्तवाम त्वा स्वाध्यः ॥
१,०१७.०१ इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ।
१,०१७.०१ ता नो मृळात ईदृशे ॥
१,०१७.०२ गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ।
१,०१७.०२ धर्तारा चर्षणीनाम् ॥
१,०१७.०३ अनुकामं तर्पयेथामिन्द्रावरुण राय आ ।
१,०१७.०३ ता वां नेदिष्ठमीमहे ॥
१,०१७.०४ युवाकु हि शचीनां युवाकु सुमतीनाम् ।
१,०१७.०४ भूयाम वाजदाव्नाम् ॥
१,०१७.०५ इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् ।
१,०१७.०५ क्रतुर्भवत्युक्थ्यः ॥
१,०१७.०६ तयोरिदवसा वयं सनेम नि च धीमहि ।
१,०१७.०६ स्यादुत प्ररेचनम् ॥
१,०१७.०७ इन्द्रावरुण वामहं हुवे चित्राय राधसे ।
१,०१७.०७ अस्मान्सु जिग्युषस्कृतम् ॥
१,०१७.०८ इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा ।
१,०१७.०८ अस्मभ्यं शर्म यच्छतम् ॥
१,०१७.०९ प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ।
१,०१७.०९ यामृधाथे सधस्तुतिम् ॥
१,०१८.०१ सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।
१,०१८.०१ कक्षीवन्तं य औशिजः ॥
१,०१८.०२ यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ।
१,०१८.०२ स नः सिषक्तु यस्तुरः ॥
१,०१८.०३ मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
१,०१८.०३ रक्षा णो ब्रह्मणस्पते ॥
१,०१८.०४ स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ।
१,०१८.०४ सोमो हिनोति मर्त्यम् ॥
१,०१८.०५ त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ।
१,०१८.०५ दक्षिणा पात्वंहसः ॥
१,०१८.०६ सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
१,०१८.०६ सनिं मेधामयासिषम् ॥
१,०१८.०७ यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन ।
१,०१८.०७ स धीनां योगमिन्वति ॥
१,०१८.०८ आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् ।
१,०१८.०८ होत्रा देवेषु गच्छति ॥
१,०१८.०९ नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ।
१,०१८.०९ दिवो न सद्ममखसम् ॥
१,०१९.०१ प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।
१,०१९.०१ मरुद्भिरग्न आ गहि ॥
१,०१९.०२ नहि देवो न मर्त्यो महस्तव क्रतुं परः ।
१,०१९.०२ मरुद्भिरग्न आ गहि ॥
१,०१९.०३ ये महो रजसो विदुर्विश्वे देवासो अद्रुहः ।
१,०१९.०३ मरुद्भिरग्न आ गहि ॥
१,०१९.०४ य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ।
१,०१९.०४ मरुद्भिरग्न आ गहि ॥
१,०१९.०५ ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः ।
१,०१९.०५ मरुद्भिरग्न आ गहि ॥
१,०१९.०६ ये नाकस्याधि रोचने दिवि देवास आसते ।
१,०१९.०६ मरुद्भिरग्न आ गहि ॥
१,०१९.०७ य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम् ।
१,०१९.०७ मरुद्भिरग्न आ गहि ॥
१,०१९.०८ आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा ।
१,०१९.०८ मरुद्भिरग्न आ गहि ॥
१,०१९.०९ अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु ।
१,०१९.०९ मरुद्भिरग्न आ गहि ॥
१,०२०.०१ अयं देवाय जन्मने स्तोमो विप्रेभिरासया ।
१,०२०.०१ अकारि रत्नधातमः ॥
१,०२०.०२ य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
१,०२०.०२ शमीभिर्यज्ञमाशत ॥
१,०२०.०३ तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् ।
१,०२०.०३ तक्षन्धेनुं सबर्दुघाम् ॥
१,०२०.०४ युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
१,०२०.०४ ऋभवो विष्ट्यक्रत ॥
१,०२०.०५ सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
१,०२०.०५ आदित्येभिश्च राजभिः ॥
१,०२०.०६ उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् ।
१,०२०.०६ अकर्त चतुरः पुनः ॥
१,०२०.०७ ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते ।
१,०२०.०७ एकमेकं सुशस्तिभिः ॥
१,०२०.०८ अधारयन्त वह्नयोऽभजन्त सुकृत्यया ।
१,०२०.०८ भागं देवेषु यज्ञियम् ॥
१,०२१.०१ इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि ।
१,०२१.०१ ता सोमं सोमपातमा ॥
१,०२१.०२ ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः ।
१,०२१.०२ ता गायत्रेषु गायत ॥
१,०२१.०३ ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे ।
१,०२१.०३ सोमपा सोमपीतये ॥
१,०२१.०४ उग्रा सन्ता हवामह उपेदं सवनं सुतम् ।
१,०२१.०४ इन्द्राग्नी एह गच्छताम् ॥
१,०२१.०५ ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् ।
१,०२१.०५ अप्रजाः सन्त्वत्रिणः ॥
१,०२१.०६ तेन सत्येन जागृतमधि प्रचेतुने पदे ।
१,०२१.०६ इन्द्राग्नी शर्म यच्छतम् ॥
१,०२२.०१ प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् ।
१,०२२.०१ अस्य सोमस्य पीतये ॥
१,०२२.०२ या सुरथा रथीतमोभा देवा दिविस्पृशा ।
१,०२२.०२ अश्विना ता हवामहे ॥
१,०२२.०३ या वां कशा मधुमत्यश्विना सूनृतावती ।
१,०२२.०३ तया यज्ञं मिमिक्षतम् ॥
१,०२२.०४ नहि वामस्ति दूरके यत्रा रथेन गच्छथः ।
१,०२२.०४ अश्विना सोमिनो गृहम् ॥
१,०२२.०५ हिरण्यपाणिमूतये सवितारमुप ह्वये ।
१,०२२.०५ स चेत्ता देवता पदम् ॥
१,०२२.०६ अपां नपातमवसे सवितारमुप स्तुहि ।
१,०२२.०६ तस्य व्रतान्युश्मसि ॥
१,०२२.०७ विभक्तारं हवामहे वसोश्चित्रस्य राधसः ।
१,०२२.०७ सवितारं नृचक्षसम् ॥
१,०२२.०८ सखाय आ नि षीदत सविता स्तोम्यो नु नः ।
१,०२२.०८ दाता राधांसि शुम्भति ॥
१,०२२.०९ अग्ने पत्नीरिहा वह देवानामुशतीरुप ।
१,०२२.०९ त्वष्टारं सोमपीतये ॥
१,०२२.१० आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् ।
१,०२२.१० वरूत्रीं धिषणां वह ॥
१,०२२.११ अभि नो देवीरवसा महः शर्मणा नृपत्नीः ।
१,०२२.११ अच्छिन्नपत्राः सचन्ताम् ॥
१,०२२.१२ इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये ।
१,०२२.१२ अग्नायीं सोमपीतये ॥
१,०२२.१३ मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।
१,०२२.१३ पिपृतां नो भरीमभिः ॥
१,०२२.१४ तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः ।
१,०२२.१४ गन्धर्वस्य ध्रुवे पदे ॥
१,०२२.१५ स्योना पृथिवि भवानृक्षरा निवेशनी ।
१,०२२.१५ यच्छा नः शर्म सप्रथः ॥
१,०२२.१६ अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
१,०२२.१६ पृथिव्याः सप्त धामभिः ॥
१,०२२.१७ इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
१,०२२.१७ समूळ्हमस्य पांसुरे ॥
१,०२२.१८ त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
१,०२२.१८ अतो धर्माणि धारयन् ॥
१,०२२.१९ विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
१,०२२.१९ इन्द्रस्य युज्यः सखा ॥
१,०२२.२० तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
१,०२२.२० दिवीव चक्षुराततम् ॥
१,०२२.२१ तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
१,०२२.२१ विष्णोर्यत्परमं पदम् ॥
१,०२३.०१ तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
१,०२३.०१ वायो तान्प्रस्थितान्पिब ॥
१,०२३.०२ उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
१,०२३.०२ अस्य सोमस्य पीतये ॥
१,०२३.०३ इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
१,०२३.०३ सहस्राक्षा धियस्पती ॥
१,०२३.०४ मित्रं वयं हवामहे वरुणं सोमपीतये ।
१,०२३.०४ जज्ञाना पूतदक्षसा ॥
१,०२३.०५ ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
१,०२३.०५ ता मित्रावरुणा हुवे ॥
१,०२३.०६ वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
१,०२३.०६ करतां नः सुराधसः ॥
१,०२३.०७ मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
१,०२३.०७ सजूर्गणेन तृम्पतु ॥
१,०२३.०८ इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
१,०२३.०८ विश्वे मम श्रुता हवम् ॥
१,०२३.०९ हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
१,०२३.०९ मा नो दुःशंस ईशत ॥
१,०२३.१० विश्वान्देवान्हवामहे मरुतः सोमपीतये ।
१,०२३.१० उग्रा हि पृश्निमातरः ॥
१,०२३.११ जयतामिव तन्यतुर्मरुतामेति धृष्णुया ।
१,०२३.११ यच्छुभं याथना नरः ॥
१,०२३.१२ हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः ।
१,०२३.१२ मरुतो मृळयन्तु नः ॥
१,०२३.१३ आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः ।
१,०२३.१३ आजा नष्टं यथा पशुम् ॥
१,०२३.१४ पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् ।
१,०२३.१४ अविन्दच्चित्रबर्हिषम् ॥
१,०२३.१५ उतो स मह्यमिन्दुभिः षड्युक्तां अनुसेषिधत् ।
१,०२३.१५ गोभिर्यवं न चर्कृषत् ॥
१,०२३.१६ अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
१,०२३.१६ पृञ्चतीर्मधुना पयः ॥
१,०२३.१७ अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
१,०२३.१७ ता नो हिन्वन्त्वध्वरम् ॥
१,०२३.१८ अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
१,०२३.१८ सिन्धुभ्यः कर्त्वं हविः ॥
१,०२३.१९ अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये ।
१,०२३.१९ देवा भवत वाजिनः ॥
१,०२३.२० अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
१,०२३.२० अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥
१,०२३.२१ आपः पृणीत भेषजं वरूथं तन्वे मम ।
१,०२३.२१ ज्योक्च सूर्यं दृशे ॥
१,०२३.२२ इदमापः प्र वहत यत्किं च दुरितं मयि ।
१,०२३.२२ यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥
१,०२३.२३ आपो अद्यान्वचारिषं रसेन समगस्महि ।
१,०२३.२३ पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥
१,०२३.२४ सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
१,०२३.२४ विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥
१,०२४.०१ कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम ।
१,०२४.०१ को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥
१,०२४.०२ अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम ।
१,०२४.०२ स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥
१,०२४.०३ अभि त्वा देव सवितरीशानं वार्याणाम् ।
१,०२४.०३ सदावन्भागमीमहे ॥
१,०२४.०४ यश्चिद्धि त इत्था भगः शशमानः पुरा निदः ।
१,०२४.०४ अद्वेषो हस्तयोर्दधे ॥
१,०२४.०५ भगभक्तस्य ते वयमुदशेम तवावसा ।
१,०२४.०५ मूर्धानं राय आरभे ॥
१,०२४.०६ नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः ।
१,०२४.०६ नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् ॥
१,०२४.०७ अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः ।
१,०२४.०७ नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः ॥
१,०२४.०८ उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ ।
१,०२४.०८ अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥
१,०२४.०९ शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु ।
१,०२४.०९ बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥
१,०२४.१० अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः ।
१,०२४.१० अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति ॥
१,०२४.११ तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
१,०२४.११ अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥
१,०२४.१२ तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे ।
१,०२४.१२ शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु ॥
१,०२४.१३ शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः ।
१,०२४.१३ अवैनं राजा वरुणः ससृज्याद्विद्वां अदब्धो वि मुमोक्तु पाशान् ॥
१,०२४.१४ अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
१,०२४.१४ क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि ॥
१,०२४.१५ उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
१,०२४.१५ अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥
१,०२५.०१ यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
१,०२५.०१ मिनीमसि द्यविद्यवि ॥
१,०२५.०२ मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
१,०२५.०२ मा हृणानस्य मन्यवे ॥
१,०२५.०३ वि मृळीकाय ते मनो रथीरश्वं न संदितम् ।
१,०२५.०३ गीर्भिर्वरुण सीमहि ॥
१,०२५.०४ परा हि मे विमन्यवः पतन्ति वस्यैष्टये ।
१,०२५.०४ वयो न वसतीरुप ॥
१,०२५.०५ कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
१,०२५.०५ मृळीकायोरुचक्षसम् ॥
१,०२५.०६ तदित्समानमाशाते वेनन्ता न प्र युच्छतः ।
१,०२५.०६ धृतव्रताय दाशुषे ॥
१,०२५.०७ वेदा यो वीनां पदमन्तरिक्षेण पतताम् ।
१,०२५.०७ वेद नावः समुद्रियः ॥
१,०२५.०८ वेद मासो धृतव्रतो द्वादश प्रजावतः ।
१,०२५.०८ वेदा य उपजायते ॥
१,०२५.०९ वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः ।
१,०२५.०९ वेदा ये अध्यासते ॥
१,०२५.१० नि षसाद धृतव्रतो वरुणः पस्त्यास्वा ।
१,०२५.१० साम्राज्याय सुक्रतुः ॥
१,०२५.११ अतो विश्वान्यद्भुता चिकित्वां अभि पश्यति ।
१,०२५.११ कृतानि या च कर्त्वा ॥
१,०२५.१२ स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् ।
१,०२५.१२ प्र ण आयूंषि तारिषत् ॥
१,०२५.१३ बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
१,०२५.१३ परि स्पशो नि षेदिरे ॥
१,०२५.१४ न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
१,०२५.१४ न देवमभिमातयः ॥
१,०२५.१५ उत यो मानुषेष्वा यशश्चक्रे असाम्या ।
१,०२५.१५ अस्माकमुदरेष्वा ॥
१,०२५.१६ परा मे यन्ति धीतयो गावो न गव्यूतीरनु ।
१,०२५.१६ इच्छन्तीरुरुचक्षसम् ॥
१,०२५.१७ सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् ।
१,०२५.१७ होतेव क्षदसे प्रियम् ॥
१,०२५.१८ दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि ।
१,०२५.१८ एता जुषत मे गिरः ॥
१,०२५.१९ इमं मे वरुण श्रुधी हवमद्या च मृळय ।
१,०२५.१९ त्वामवस्युरा चके ॥
१,०२५.२० त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि ।
१,०२५.२० स यामनि प्रति श्रुधि ॥
१,०२५.२१ उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत ।
१,०२५.२१ अवाधमानि जीवसे ॥
१,०२६.०१ वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते ।
१,०२६.०१ सेमं नो अध्वरं यज ॥
१,०२६.०२ नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
१,०२६.०२ अग्ने दिवित्मता वचः ॥
१,०२६.०३ आ हि ष्मा सूनवे पितापिर्यजत्यापये ।
१,०२६.०३ सखा सख्ये वरेण्यः ॥
१,०२६.०४ आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा ।
१,०२६.०४ सीदन्तु मनुषो यथा ॥
१,०२६.०५ पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च ।
१,०२६.०५ इमा उ षु श्रुधी गिरः ॥
१,०२६.०६ यच्चिद्धि शश्वता तना देवंदेवं यजामहे ।
१,०२६.०६ त्वे इद्धूयते हविः ॥
१,०२६.०७ प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
१,०२६.०७ प्रियाः स्वग्नयो वयम् ॥
१,०२६.०८ स्वग्नयो हि वार्यं देवासो दधिरे च नः ।
१,०२६.०८ स्वग्नयो मनामहे ॥
१,०२६.०९ अथा न उभयेषाममृत मर्त्यानाम् ।
१,०२६.०९ मिथः सन्तु प्रशस्तयः ॥
१,०२६.१० विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
१,०२६.१० चनो धाः सहसो यहो ॥
१,०२७.०१ अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
१,०२७.०१ सम्राजन्तमध्वराणाम् ॥
१,०२७.०२ स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
१,०२७.०२ मीढ्वां अस्माकं बभूयात् ॥
१,०२७.०३ स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
१,०२७.०३ पाहि सदमिद्विश्वायुः ॥
१,०२७.०४ इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् ।
१,०२७.०४ अग्ने देवेषु प्र वोचः ॥
१,०२७.०५ आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
१,०२७.०५ शिक्षा वस्वो अन्तमस्य ॥
१,०२७.०६ विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
१,०२७.०६ सद्यो दाशुषे क्षरसि ॥
१,०२७.०७ यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
१,०२७.०७ स यन्ता शश्वतीरिषः ॥
१,०२७.०८ नकिरस्य सहन्त्य पर्येता कयस्य चित् ।
१,०२७.०८ वाजो अस्ति श्रवाय्यः ॥
१,०२७.०९ स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
१,०२७.०९ विप्रेभिरस्तु सनिता ॥
१,०२७.१० जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
१,०२७.१० स्तोमं रुद्राय दृशीकम् ॥
१,०२७.११ स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
१,०२७.११ धिये वाजाय हिन्वतु ॥
१,०२७.१२ स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
१,०२७.१२ उक्थैरग्निर्बृहद्भानुः ॥
१,०२७.१३ नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
१,०२७.१३ यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥
१,०२८.०१ यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
१,०२८.०१ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
१,०२८.०२ यत्र द्वाविव जघनाधिषवण्या कृता ।
१,०२८.०२ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
१,०२८.०३ यत्र नार्यपच्यवमुपच्यवं च शिक्षते ।
१,०२८.०३ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
१,०२८.०४ यत्र मन्थां विबध्नते रश्मीन्यमितवा इव ।
१,०२८.०४ उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
१,०२८.०५ यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे ।
१,०२८.०५ इह द्युमत्तमं वद जयतामिव दुन्दुभिः ॥
१,०२८.०६ उत स्म ते वनस्पते वातो वि वात्यग्रमित् ।
१,०२८.०६ अथो इन्द्राय पातवे सुनु सोममुलूखल ॥
१,०२८.०७ आयजी वाजसातमा ता ह्युच्चा विजर्भृतः ।
१,०२८.०७ हरी इवान्धांसि बप्सता ॥
१,०२८.०८ ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः ।
१,०२८.०८ इन्द्राय मधुमत्सुतम् ॥
१,०२८.०९ उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज ।
१,०२८.०९ नि धेहि गोरधि त्वचि ॥
१,०२९.०१ यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।
१,०२९.०१ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०२ शिप्रिन्वाजानां पते शचीवस्तव दंसना ।
१,०२९.०२ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०३ नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।
१,०२९.०३ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०४ ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
१,०२९.०४ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०५ समिन्द्र गर्दभं मृण नुवन्तं पापयामुया ।
१,०२९.०५ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०६ पताति कुण्डृणाच्या दूरं वातो वनादधि ।
१,०२९.०६ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०२९.०७ सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
१,०२९.०७ आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
१,०३०.०१ आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
१,०३०.०१ मंहिष्ठं सिञ्च इन्दुभिः ॥
१,०३०.०२ शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
१,०३०.०२ एदु निम्नं न रीयते ॥
१,०३०.०३ सं यन्मदाय शुष्मिण एना ह्यस्योदरे ।
१,०३०.०३ समुद्रो न व्यचो दधे ॥
१,०३०.०४ अयमु ते समतसि कपोत इव गर्भधिम् ।
१,०३०.०४ वचस्तच्चिन्न ओहसे ॥
१,०३०.०५ स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
१,०३०.०५ विभूतिरस्तु सूनृता ॥
१,०३०.०६ ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
१,०३०.०६ समन्येषु ब्रवावहै ॥
१,०३०.०७ योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
१,०३०.०७ सखाय इन्द्रमूतये ॥
१,०३०.०८ आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
१,०३०.०८ वाजेभिरुप नो हवम् ॥
१,०३०.०९ अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
१,०३०.०९ यं ते पूर्वं पिता हुवे ॥
१,०३०.१० तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
१,०३०.१० सखे वसो जरितृभ्यः ॥
१,०३०.११ अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
१,०३०.११ सखे वज्रिन्सखीनाम् ॥
१,०३०.१२ तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु ।
१,०३०.१२ यथा त उश्मसीष्टये ॥
१,०३०.१३ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
१,०३०.१३ क्षुमन्तो याभिर्मदेम ॥
१,०३०.१४ आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
१,०३०.१४ ऋणोरक्षं न चक्र्योः ॥
१,०३०.१५ आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
१,०३०.१५ ऋणोरक्षं न शचीभिः ॥
१,०३०.१६ शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि ।
१,०३०.१६ स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात् ॥
१,०३०.१७ आश्विनावश्वावत्येषा यातं शवीरया ।
१,०३०.१७ गोमद्दस्रा हिरण्यवत् ॥
१,०३०.१८ समानयोजनो हि वां रथो दस्रावमर्त्यः ।
१,०३०.१८ समुद्रे अश्विनेयते ॥
१,०३०.१९ न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
१,०३०.१९ परि द्यामन्यदीयते ॥
१,०३०.२० कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
१,०३०.२० कं नक्षसे विभावरि ॥
१,०३०.२१ वयं हि ते अमन्मह्यान्तादा पराकात् ।
१,०३०.२१ अश्वे न चित्रे अरुषि ॥
१,०३०.२२ त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः ।
१,०३०.२२ अस्मे रयिं नि धारय ॥
१,०३१.०१ त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा ।
१,०३१.०१ तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥
१,०३१.०२ त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम् ।
१,०३१.०२ विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥
१,०३१.०३ त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते ।
१,०३१.०३ अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥
१,०३१.०४ त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
१,०३१.०४ श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥
१,०३१.०५ त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः ।
१,०३१.०५ य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥
१,०३१.०६ त्वमग्ने वृजिनवर्तनिं नरं सक्मन्पिपर्षि विदथे विचर्षणे ।
१,०३१.०६ यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥
१,०३१.०७ त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवेदिवे ।
१,०३१.०७ यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥
१,०३१.०८ त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
१,०३१.०८ ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥
१,०३१.०९ त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः ।
१,०३१.०९ तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥
१,०३१.१० त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् ।
१,०३१.१० सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥
१,०३१.११ त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम् ।
१,०३१.११ इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥
१,०३१.१२ त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य ।
१,०३१.१२ त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥
१,०३१.१३ त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे ।
१,०३१.१३ यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥
१,०३१.१४ त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत् ।
१,०३१.१४ आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥
१,०३१.१५ त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः ।
१,०३१.१५ स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥
१,०३१.१६ इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् ।
१,०३१.१६ आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥
१,०३१.१७ मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे ।
१,०३१.१७ अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥
१,०३१.१८ एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा ।
१,०३१.१८ उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥
१,०३२.०१ इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।
१,०३२.०१ अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥
१,०३२.०२ अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
१,०३२.०२ वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥
१,०३२.०३ वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य ।
१,०३२.०३ आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥
१,०३२.०४ यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः ।
१,०३२.०४ आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥
१,०३२.०५ अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
१,०३२.०५ स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥
१,०३२.०६ अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।
१,०३२.०६ नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥
१,०३२.०७ अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।
१,०३२.०७ वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥
१,०३२.०८ नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।
१,०३२.०८ याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥
१,०३२.०९ नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।
१,०३२.०९ उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥
१,०३२.१० अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।
१,०३२.१० वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥
१,०३२.११ दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः ।
१,०३२.११ अपां बिलमपिहितं यदासीद्वृत्रं जघन्वां अप तद्ववार ॥
१,०३२.१२ अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः ।
१,०३२.१२ अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥
१,०३२.१३ नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च ।
१,०३२.१३ इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥
१,०३२.१४ अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।
१,०३२.१४ नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥
१,०३२.१५ इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
१,०३२.१५ सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥
१,०३३.०१ एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति ।
१,०३३.०१ अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ॥
१,०३३.०२ उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि ।
१,०३३.०२ इन्द्रं नमस्यन्नुपमेभिरर्कैर्य स्तोतृभ्यो हव्यो अस्ति यामन् ॥
१,०३३.०३ नि सर्वसेन इषुधींरसक्त समर्यो गा अजति यस्य वष्टि ।
१,०३३.०३ चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध ॥
१,०३३.०४ वधीर्हि दस्युं धनिनं घनेनं एकश्चरन्नुपशाकेभिरिन्द्र ।
१,०३३.०४ धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ॥
१,०३३.०५ परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभि स्पर्धमानाः ।
१,०३३.०५ प्र यद्दिवो हरिव स्थातरुग्र निरव्रतां अधमो रोदस्योः ॥
१,०३३.०६ अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः ।
१,०३३.०६ वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ॥
१,०३३.०७ त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे ।
१,०३३.०७ अवादहो दिव आ दस्युमुच्चा प्र सुन्वत स्तुवतः शंसमावः ॥
१,०३३.०८ चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः ।
१,०३३.०८ न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण ॥
१,०३३.०९ परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् ।
१,०३३.०९ अमन्यमानां अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र ॥
१,०३३.१० न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् ।
१,०३३.१० युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् ॥
१,०३३.११ अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् ।
१,०३३.११ सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् ॥
१,०३३.१२ न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः ।
१,०३३.१२ यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥
१,०३३.१३ अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् ।
१,०३३.१३ सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः ॥
१,०३३.१४ आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् ।
१,०३३.१४ शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ॥
१,०३३.१५ आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् ।
१,०३३.१५ ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः ॥
१,०३४.०१ त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना ।
१,०३४.०१ युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥
१,०३४.०२ त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः ।
१,०३४.०२ त्रय स्कम्भास स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥
१,०३४.०३ समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् ।
१,०३४.०३ त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥
१,०३४.०४ त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् ।
१,०३४.०४ त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥
१,०३४.०५ त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः ।
१,०३४.०५ त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥
१,०३४.०६ त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः ।
१,०३४.०६ ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥
१,०३४.०७ त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् ।
१,०३४.०७ तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥
१,०३४.०८ त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् ।
१,०३४.०८ तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥
१,०३४.०९ क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः ।
१,०३४.०९ कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥
१,०३४.१० आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः ।
१,०३४.१० युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥
१,०३४.११ आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना ।
१,०३४.११ प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
१,०३४.१२ आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् ।
१,०३४.१२ शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥
१,०३५.०१ ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे ।
१,०३५.०१ ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥
१,०३५.०२ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
१,०३५.०२ हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
१,०३५.०३ याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् ।
१,०३५.०३ आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥
१,०३५.०४ अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
१,०३५.०४ आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥
१,०३५.०५ वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रौगं वहन्तः ।
१,०३५.०५ शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥
१,०३५.०६ तिस्रो द्यावः सवितुर्द्वा उपस्थां एका यमस्य भुवने विराषाट् ।
१,०३५.०६ आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥
१,०३५.०७ वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः ।
१,०३५.०७ क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥
१,०३५.०८ अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् ।
१,०३५.०८ हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥
१,०३५.०९ हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते ।
१,०३५.०९ अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥
१,०३५.१० हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववां यात्वर्वाङ् ।
१,०३५.१० अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥
१,०३५.११ ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे ।
१,०३५.११ तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥
१,०३६.०१ प्र वो यह्वं पुरूणां विशां देवयतीनाम् ।
१,०३६.०१ अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ॥
१,०३६.०२ जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते ।
१,०३६.०२ स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥
१,०३६.०३ प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् ।
१,०३६.०३ महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः ॥
१,०३६.०४ देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते ।
१,०३६.०४ विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः ॥
१,०३६.०५ मन्द्रो होता गृहपतिरग्ने दूतो विशामसि ।
१,०३६.०५ त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥
१,०३६.०६ त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः ।
१,०३६.०६ स त्वं नो अद्य सुमना उतापरं यक्षि देवान्सुवीर्या ॥
१,०३६.०७ तं घेमित्था नमस्विन उप स्वराजमासते ।
१,०३६.०७ होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः ॥
१,०३६.०८ घ्नन्तो वृत्रमतरन्रोदसी अप उरु क्षयाय चक्रिरे ।
१,०३६.०८ भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु ॥
१,०३६.०९ सं सीदस्व महां असि शोचस्व देववीतमः ।
१,०३६.०९ वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥
१,०३६.१० यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन ।
१,०३६.१० यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः ॥
१,०३६.११ यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि ।
१,०३६.११ तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि ॥
१,०३६.१२ रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम् ।
१,०३६.१२ त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां असि ॥
१,०३६.१३ ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
१,०३६.१३ ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥
१,०३६.१४ ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।
१,०३६.१४ कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ॥
१,०३६.१५ पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः ।
१,०३६.१५ पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥
१,०३६.१६ घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक् ।
१,०३६.१६ यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ॥
१,०३६.१७ अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् ।
१,०३६.१७ अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् ॥
१,०३६.१८ अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे ।
१,०३६.१८ अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः ॥
१,०३६.१९ नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते ।
१,०३६.१९ दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥
१,०३६.२० त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये ।
१,०३६.२० रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह ॥
१,०३७.०१ क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
१,०३७.०१ कण्वा अभि प्र गायत ॥
१,०३७.०२ ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः ।
१,०३७.०२ अजायन्त स्वभानवः ॥
१,०३७.०३ इहेव शृण्व एषां कशा हस्तेषु यद्वदान् ।
१,०३७.०३ नि यामञ्चित्रमृञ्जते ॥
१,०३७.०४ प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे ।
१,०३७.०४ देवत्तं ब्रह्म गायत ॥
१,०३७.०५ प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् ।
१,०३७.०५ जम्भे रसस्य वावृधे ॥
१,०३७.०६ को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः ।
१,०३७.०६ यत्सीमन्तं न धूनुथ ॥
१,०३७.०७ नि वो यामाय मानुषो दध्र उग्राय मन्यवे ।
१,०३७.०७ जिहीत पर्वतो गिरिः ॥
१,०३७.०८ येषामज्मेषु पृथिवी जुजुर्वां इव विश्पतिः ।
१,०३७.०८ भिया यामेषु रेजते ॥
१,०३७.०९ स्थिरं हि जानमेषां वयो मातुर्निरेतवे ।
१,०३७.०९ यत्सीमनु द्विता शवः ॥
१,०३७.१० उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत ।
१,०३७.१० वाश्रा अभिज्ञु यातवे ॥
१,०३७.११ त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम् ।
१,०३७.११ प्र च्यावयन्ति यामभिः ॥
१,०३७.१२ मरुतो यद्ध वो बलं जनां अचुच्यवीतन ।
१,०३७.१२ गिरींरचुच्यवीतन ॥
१,०३७.१३ यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना ।
१,०३७.१३ शृणोति कश्चिदेषाम् ॥
१,०३७.१४ प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः ।
१,०३७.१४ तत्रो षु मादयाध्वै ॥
१,०३७.१५ अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
१,०३७.१५ विश्वं चिदायुर्जीवसे ॥
१,०३८.०१ कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः ।
१,०३८.०१ दधिध्वे वृक्तबर्हिषः ॥
१,०३८.०२ क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः ।
१,०३८.०२ क्व वो गावो न रण्यन्ति ॥
१,०३८.०३ क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता ।
१,०३८.०३ क्वो विश्वानि सौभगा ॥
१,०३८.०४ यद्यूयं पृश्निमातरो मर्तासः स्यातन ।
१,०३८.०४ स्तोता वो अमृतः स्यात् ॥
१,०३८.०५ मा वो मृगो न यवसे जरिता भूदजोष्यः ।
१,०३८.०५ पथा यमस्य गादुप ॥
१,०३८.०६ मो षु णः परापरा निरृतिर्दुर्हणा वधीत् ।
१,०३८.०६ पदीष्ट तृष्णया सह ॥
१,०३८.०७ सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः ।
१,०३८.०७ मिहं कृण्वन्त्यवाताम् ॥
१,०३८.०८ वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति ।
१,०३८.०८ यदेषां वृष्टिरसर्जि ॥
१,०३८.०९ दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
१,०३८.०९ यत्पृथिवीं व्युन्दन्ति ॥
१,०३८.१० अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् ।
१,०३८.१० अरेजन्त प्र मानुषाः ॥
१,०३८.११ मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु ।
१,०३८.११ यातेमखिद्रयामभिः ॥
१,०३८.१२ स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् ।
१,०३८.१२ सुसंस्कृता अभीशवः ॥
१,०३८.१३ अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम् ।
१,०३८.१३ अग्निं मित्रं न दर्शतम् ॥
१,०३८.१४ मिमीहि श्लोकमास्ये पर्जन्य इव ततनः ।
१,०३८.१४ गाय गायत्रमुक्थ्यम् ॥
१,०३८.१५ वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् ।
१,०३८.१५ अस्मे वृद्धा असन्निह ॥
१,०३९.०१ प्र यदित्था परावतः शोचिर्न मानमस्यथ ।
१,०३९.०१ कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥
१,०३९.०२ स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे ।
१,०३९.०२ युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥
१,०३९.०३ परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु ।
१,०३९.०३ वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ॥
१,०३९.०४ नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः ।
१,०३९.०४ युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ॥
१,०३९.०५ प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् ।
१,०३९.०५ प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥
१,०३९.०६ उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः ।
१,०३९.०६ आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥
१,०३९.०७ आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे ।
१,०३९.०७ गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥
१,०३९.०८ युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
१,०३९.०८ वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥
१,०३९.०९ असामि हि प्रयज्यवः कण्वं दद प्रचेतसः ।
१,०३९.०९ असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥
१,०३९.१० असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः ।
१,०३९.१० ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥
१,०४०.०१ उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
१,०४०.०१ उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥
१,०४०.०२ त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते ।
१,०४०.०२ सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥
१,०४०.०३ प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।
१,०४०.०३ अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥
१,०४०.०४ यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।
१,०४०.०४ तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥
१,०४०.०५ प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
१,०४०.०५ यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥
१,०४०.०६ तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् ।
१,०४०.०६ इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥
१,०४०.०७ को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् ।
१,०४०.०७ प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥
१,०४०.०८ उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे ।
१,०४०.०८ नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥
१,०४१.०१ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
१,०४१.०१ नू चित्स दभ्यते जनः ॥
१,०४१.०२ यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
१,०४१.०२ अरिष्टः सर्व एधते ॥
१,०४१.०३ वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् ।
१,०४१.०३ नयन्ति दुरिता तिरः ॥
१,०४१.०४ सुगः पन्था अनृक्षर आदित्यास ऋतं यते ।
१,०४१.०४ नात्रावखादो अस्ति वः ॥
१,०४१.०५ यं यज्ञं नयथा नर आदित्या ऋजुना पथा ।
१,०४१.०५ प्र वः स धीतये नशत् ॥
१,०४१.०६ स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना ।
१,०४१.०६ अच्छा गच्छत्यस्तृतः ॥
१,०४१.०७ कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः ।
१,०४१.०७ महि प्सरो वरुणस्य ॥
१,०४१.०८ मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् ।
१,०४१.०८ सुम्नैरिद्व आ विवासे ॥
१,०४१.०९ चतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
१,०४१.०९ न दुरुक्ताय स्पृहयेत् ॥
१,०४२.०१ सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् ।
१,०४२.०१ सक्ष्वा देव प्र णस्पुरः ॥
१,०४२.०२ यो नः पूषन्नघो वृको दुःशेव आदिदेशति ।
१,०४२.०२ अप स्म तं पथो जहि ॥
१,०४२.०३ अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् ।
१,०४२.०३ दूरमधि स्रुतेरज ॥
१,०४२.०४ त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् ।
१,०४२.०४ पदाभि तिष्ठ तपुषिम् ॥
१,०४२.०५ आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे ।
१,०४२.०५ येन पितॄनचोदयः ॥
१,०४२.०६ अधा नो विश्वसौभग हिरण्यवाशीमत्तम ।
१,०४२.०६ धनानि सुषणा कृधि ॥
१,०४२.०७ अति नः सश्चतो नय सुगा नः सुपथा कृणु ।
१,०४२.०७ पूषन्निह क्रतुं विदः ॥
१,०४२.०८ अभि सूयवसं नय न नवज्वारो अध्वने ।
१,०४२.०८ पूषन्निह क्रतुं विदः ॥
१,०४२.०९ शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् ।
१,०४२.०९ पूषन्निह क्रतुं विदः ॥
१,०४२.१० न पूषणं मेथामसि सूक्तैरभि गृणीमसि ।
१,०४२.१० वसूनि दस्ममीमहे ॥
१,०४३.०१ कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
१,०४३.०१ वोचेम शन्तमं हृदे ॥
१,०४३.०२ यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे ।
१,०४३.०२ यथा तोकाय रुद्रियम् ॥
१,०४३.०३ यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति ।
१,०४३.०३ यथा विश्वे सजोषसः ॥
१,०४३.०४ गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् ।
१,०४३.०४ तच्छंयोः सुम्नमीमहे ॥
१,०४३.०५ यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
१,०४३.०५ श्रेष्ठो देवानां वसुः ॥
१,०४३.०६ शं नः करत्यर्वते सुगं मेषाय मेष्ये ।
१,०४३.०६ नृभ्यो नारिभ्यो गवे ॥
१,०४३.०७ अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् ।
१,०४३.०७ महि श्रवस्तुविनृम्णम् ॥
१,०४३.०८ मा नः सोमपरिबाधो मारातयो जुहुरन्त ।
१,०४३.०८ आ न इन्दो वाजे भज ॥
१,०४३.०९ यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य ।
१,०४३.०९ मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥
१,०४४.०१ अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
१,०४४.०१ आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ॥
१,०४४.०२ जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
१,०४४.०२ सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥
१,०४४.०३ अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् ।
१,०४४.०३ धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥
१,०४४.०४ श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे ।
१,०४४.०४ देवां अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥
१,०४४.०५ स्तविष्यामि त्वामहं विश्वस्यामृत भोजन ।
१,०४४.०५ अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन ॥
१,०४४.०६ सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।
१,०४४.०६ प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥
१,०४४.०७ होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।
१,०४४.०७ स आ वह पुरुहूत प्रचेतसोऽग्ने देवां इह द्रवत् ॥
१,०४४.०८ सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः ।
१,०४४.०८ कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥
१,०४४.०९ पतिर्ह्यध्वराणामग्ने दूतो विशामसि ।
१,०४४.०९ उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ॥
१,०४४.१० अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
१,०४४.१० असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥
१,०४४.११ नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् ।
१,०४४.११ मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् ॥
१,०४४.१२ यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् ।
१,०४४.१२ सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः ॥
१,०४४.१३ श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः ।
१,०४४.१३ आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥
१,०४४.१४ शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः ।
१,०४४.१४ पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥
१,०४५.०१ त्वमग्ने वसूंरिह रुद्रां आदित्यां उत ।
१,०४५.०१ यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥
१,०४५.०२ श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
१,०४५.०२ तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥
१,०४५.०३ प्रियमेधवदत्रिवज्जातवेदो विरूपवत् ।
१,०४५.०३ अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥
१,०४५.०४ महिकेरव ऊतये प्रियमेधा अहूषत ।
१,०४५.०४ राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥
१,०४५.०५ घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।
१,०४५.०५ याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥
१,०४५.०६ त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
१,०४५.०६ शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥
१,०४५.०७ नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् ।
१,०४५.०७ श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥
१,०४५.०८ आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
१,०४५.०८ बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥
१,०४५.०९ प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
१,०४५.०९ इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥
१,०४५.१० अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।
१,०४५.१० अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् ॥
१,०४६.०१ एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः ।
१,०४६.०१ स्तुषे वामश्विना बृहत् ॥
१,०४६.०२ या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
१,०४६.०२ धिया देवा वसुविदा ॥
१,०४६.०३ वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
१,०४६.०३ यद्वां रथो विभिष्पतात् ॥
१,०४६.०४ हविषा जारो अपां पिपर्ति पपुरिर्नरा ।
१,०४६.०४ पिता कुटस्य चर्षणिः ॥
१,०४६.०५ आदारो वां मतीनां नासत्या मतवचसा ।
१,०४६.०५ पातं सोमस्य धृष्णुया ॥
१,०४६.०६ या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।
१,०४६.०६ तामस्मे रासाथामिषम् ॥
१,०४६.०७ आ नो नावा मतीनां यातं पाराय गन्तवे ।
१,०४६.०७ युञ्जाथामश्विना रथम् ॥
१,०४६.०८ अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः ।
१,०४६.०८ धिया युयुज्र इन्दवः ॥
१,०४६.०९ दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे ।
१,०४६.०९ स्वं वव्रिं कुह धित्सथः ॥
१,०४६.१० अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः ।
१,०४६.१० व्यख्यज्जिह्वयासितः ॥
१,०४६.११ अभूदु पारमेतवे पन्था ऋतस्य साधुया ।
१,०४६.११ अदर्शि वि स्रुतिर्दिवः ॥
१,०४६.१२ तत्तदिदश्विनोरवो जरिता प्रति भूषति ।
१,०४६.१२ मदे सोमस्य पिप्रतोः ॥
१,०४६.१३ वावसाना विवस्वति सोमस्य पीत्या गिरा ।
१,०४६.१३ मनुष्वच्छम्भू आ गतम् ॥
१,०४६.१४ युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् ।
१,०४६.१४ ऋता वनथो अक्तुभिः ॥
१,०४६.१५ उभा पिबतमश्विनोभा नः शर्म यच्छतम् ।
१,०४६.१५ अविद्रियाभिरूतिभिः ॥
१,०४७.०१ अयं वां मधुमत्तमः सुतः सोम ऋतावृधा ।
१,०४७.०१ तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥
१,०४७.०२ त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना ।
१,०४७.०२ कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥
१,०४७.०३ अश्विना मधुमत्तमं पातं सोममृतावृधा ।
१,०४७.०३ अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥
१,०४७.०४ त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् ।
१,०४७.०४ कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥
१,०४७.०५ याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना ।
१,०४७.०५ ताभिः ष्वस्मां अवतं शुभस्पती पातं सोममृतावृधा ॥
१,०४७.०६ सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना ।
१,०४७.०६ रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥
१,०४७.०७ यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे ।
१,०४७.०७ अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥
१,०४७.०८ अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ।
१,०४७.०८ इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥
१,०४७.०९ तेन नासत्या गतं रथेन सूर्यत्वचा ।
१,०४७.०९ येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥
१,०४७.१० उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे ।
१,०४७.१० शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥
१,०४८.०१ सह वामेन न उषो व्युच्छा दुहितर्दिवः ।
१,०४८.०१ सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥
१,०४८.०२ अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।
१,०४८.०२ उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥
१,०४८.०३ उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।
१,०४८.०३ ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥
१,०४८.०४ उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
१,०४८.०४ अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥
१,०४८.०५ आ घा योषेव सूनर्युषा याति प्रभुञ्जती ।
१,०४८.०५ जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥
१,०४८.०६ वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती ।
१,०४८.०६ वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥
१,०४८.०७ एषायुक्त परावतः सूर्यस्योदयनादधि ।
१,०४८.०७ शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥
१,०४८.०८ विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।
१,०४८.०८ अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥
१,०४८.०९ उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
१,०४८.०९ आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥
१,०४८.१० विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि ।
१,०४८.१० सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥
१,०४८.११ उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
१,०४८.११ तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ॥
१,०४८.१२ विश्वान्देवां आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
१,०४८.१२ सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥
१,०४८.१३ यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
१,०४८.१३ सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥
१,०४८.१४ ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।
१,०४८.१४ सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥
१,०४८.१५ उषो यदद्य भानुना वि द्वारावृणवो दिवः ।
१,०४८.१५ प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥
१,०४८.१६ सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
१,०४८.१६ सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥
१,०४९.०१ उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि ।
१,०४९.०१ वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥
१,०४९.०२ सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् ।
१,०४९.०२ तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः ॥
१,०४९.०३ वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि ।
१,०४९.०३ उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि ॥
१,०४९.०४ व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ।
१,०४९.०४ तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥
१,०५०.०१ उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
१,०५०.०१ दृशे विश्वाय सूर्यम् ॥
१,०५०.०२ अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
१,०५०.०२ सूराय विश्वचक्षसे ॥
१,०५०.०३ अदृश्रमस्य केतवो वि रश्मयो जनां अनु ।
१,०५०.०३ भ्राजन्तो अग्नयो यथा ॥
१,०५०.०४ तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
१,०५०.०४ विश्वमा भासि रोचनम् ॥
१,०५०.०५ प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।
१,०५०.०५ प्रत्यङ्विश्वं स्वर्दृशे ॥
१,०५०.०६ येना पावक चक्षसा भुरण्यन्तं जनां अनु ।
१,०५०.०६ त्वं वरुण पश्यसि ॥
१,०५०.०७ वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः ।
१,०५०.०७ पश्यञ्जन्मानि सूर्य ॥
१,०५०.०८ सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
१,०५०.०८ शोचिष्केशं विचक्षण ॥
१,०५०.०९ अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
१,०५०.०९ ताभिर्याति स्वयुक्तिभिः ॥
१,०५०.१० उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
१,०५०.१० देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
१,०५०.११ उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।
१,०५०.११ हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥
१,०५०.१२ शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ।
१,०५०.१२ अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥
१,०५०.१३ उदगादयमादित्यो विश्वेन सहसा सह ।
१,०५०.१३ द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥
१,०५१.०१ अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् ।
१,०५१.०१ यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥
१,०५१.०२ अभीमवन्वन्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम् ।
१,०५१.०२ इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥
१,०५१.०३ त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् ।
१,०५१.०३ ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन् ॥
१,०५१.०४ त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु ।
१,०५१.०४ वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे ॥
१,०५१.०५ त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत ।
१,०५१.०५ त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ ॥
१,०५१.०६ त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयोऽतिथिग्वाय शम्बरम् ।
१,०५१.०६ महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे ॥
१,०५१.०७ त्वे विश्वा तविषी सध्र्यग्घिता तव राधः सोमपीथाय हर्षते ।
१,०५१.०७ तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या ॥
१,०५१.०८ वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान् ।
१,०५१.०८ शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन ॥
१,०५१.०९ अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः ।
१,०५१.०९ वृद्धस्य चिद्वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान संदिहः ॥
१,०५१.१० तक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः ।
१,०५१.१० आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः ॥
१,०५१.११ मन्दिष्ट यदुशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति ।
१,०५१.११ उग्रो ययिं निरपः स्रोतसासृजद्वि शुष्णस्य दृंहिता ऐरयत्पुरः ॥
१,०५१.१२ आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे ।
१,०५१.१२ इन्द्र यथा सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि ॥
१,०५१.१३ अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते ।
१,०५१.१३ मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु प्रवाच्या ॥
१,०५१.१४ इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः ।
१,०५१.१४ अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता ॥
१,०५१.१५ इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसेऽवाचि ।
१,०५१.१५ अस्मिन्निन्द्र वृजने सर्ववीराः स्मत्सूरिभिस्तव शर्मन्स्याम ॥
१,०५२.०१ त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते ।
१,०५२.०१ अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥
१,०५२.०२ स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे ।
१,०५२.०२ इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥
१,०५२.०३ स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः ।
१,०५२.०३ इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥
१,०५२.०४ आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः ।
१,०५२.०४ तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥
१,०५२.०५ अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः ।
१,०५२.०५ इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधींरिव त्रितः ॥
१,०५२.०६ परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत् ।
१,०५२.०६ वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥
१,०५२.०७ ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।
१,०५२.०७ त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् ॥
१,०५२.०८ जघन्वां उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः ।
१,०५२.०८ अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥
१,०५२.०९ बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः ।
१,०५२.०९ यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥
१,०५२.१० द्यौश्चिदस्यामवां अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते ।
१,०५२.१० वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥
१,०५२.११ यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः ।
१,०५२.११ अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥
१,०५२.१२ त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः ।
१,०५२.१२ चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥
१,०५२.१३ त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः ।
१,०५२.१३ विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् ॥
१,०५२.१४ न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः ।
१,०५२.१४ नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥
१,०५२.१५ आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा ।
१,०५२.१५ वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥
१,०५३.०१ न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
१,०५३.०१ नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते ॥
१,०५३.०२ दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।
१,०५३.०२ शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥
१,०५३.०३ शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।
१,०५३.०३ अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥
१,०५३.०४ एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।
१,०५३.०४ इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥
१,०५३.०५ समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
१,०५३.०५ सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥
१,०५३.०६ ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
१,०५३.०६ यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥
१,०५३.०७ युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।
१,०५३.०७ नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥
१,०५३.०८ त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
१,०५३.०८ त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥
१,०५३.०९ त्वमेताञ्जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः ।
१,०५३.०९ षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥
१,०५३.१० त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।
१,०५३.१० त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥
१,०५३.११ य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।
१,०५३.११ त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥
१,०५४.०१ मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे ।
१,०५४.०१ अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत ॥
१,०५४.०२ अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि ।
१,०५४.०२ यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥
१,०५४.०३ अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः ।
१,०५४.०३ बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥
१,०५४.०४ त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत् ।
१,०५४.०४ यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि ॥
१,०५४.०५ नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना ।
१,०५४.०५ प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥
१,०५४.०६ त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो ।
१,०५४.०६ त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव ॥
१,०५४.०७ स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति ।
१,०५४.०७ उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः ॥
१,०५४.०८ असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे ।
१,०५४.०८ ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥
१,०५४.०९ तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः ।
१,०५४.०९ व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व ॥
१,०५४.१० अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः ।
१,०५४.१० अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥
१,०५४.११ स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळ् इन्द्र तव्यम् ।
१,०५४.११ रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥
१,०५५.०१ दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति ।
१,०५५.०१ भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥
१,०५५.०२ सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः ।
१,०५५.०२ इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥
१,०५५.०३ त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि ।
१,०५५.०३ प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥
१,०५५.०४ स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् ।
१,०५५.०४ वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥
१,०५५.०५ स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः ।
१,०५५.०५ अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥
१,०५५.०६ स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् ।
१,०५५.०६ ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत् ॥
१,०५५.०७ दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि ।
१,०५५.०७ यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥
१,०५५.०८ अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे ।
१,०५५.०८ आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः ॥
१,०५६.०१ एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः ।
१,०५६.०१ दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम् ॥
१,०५६.०२ तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः ।
१,०५६.०२ पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥
१,०५६.०३ स तुर्वणिर्महां अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः ।
१,०५६.०३ येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि ॥
१,०५६.०४ देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः ।
१,०५६.०४ यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः ॥
१,०५६.०५ वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आतासु बर्हणा ।
१,०५६.०५ स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम् ॥
१,०५६.०६ त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः ।
१,०५६.०६ त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥
१,०५७.०१ प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे ।
१,०५७.०१ अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥
१,०५७.०२ अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः ।
१,०५७.०२ यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥
१,०५७.०३ अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे ।
१,०५७.०३ यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥
१,०५७.०४ इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो ।
१,०५७.०४ नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥
१,०५७.०५ भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण ।
१,०५७.०५ अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥
१,०५७.०६ त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ ।
१,०५७.०६ अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥
१,०५८.०१ नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः ।
१,०५८.०१ वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥
१,०५८.०२ आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति ।
१,०५८.०२ अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् ॥
१,०५८.०३ क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळ् अमर्त्यः ।
१,०५८.०३ रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति ॥
१,०५८.०४ वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः ।
१,०५८.०४ तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥
१,०५८.०५ तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः ।
१,०५८.०५ अभिव्रजन्नक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः ॥
१,०५८.०६ दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः ।
१,०५८.०६ होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥
१,०५८.०७ होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु ।
१,०५८.०७ अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥
१,०५८.०८ अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ ।
१,०५८.०८ अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः ॥
१,०५८.०९ भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म ।
१,०५८.०९ उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥
१,०५९.०१ वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते ।
१,०५९.०१ वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनां उपमिद्ययन्थ ॥
१,०५९.०२ मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः ।
१,०५९.०२ तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय ॥
१,०५९.०३ आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि ।
१,०५९.०३ या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ॥
१,०५९.०४ बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः ।
१,०५९.०४ स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः ॥
१,०५९.०५ दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् ।
१,०५९.०५ राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ ॥
१,०५९.०६ प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते ।
१,०५९.०६ वैश्वानरो दस्युमग्निर्जघन्वां अधूनोत्काष्ठा अव शम्बरं भेत् ॥
१,०५९.०७ वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा ।
१,०५९.०७ शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥
१,०६०.०१ वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् ।
१,०६०.०१ द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥
१,०६०.०२ अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः ।
१,०६०.०२ दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः ॥
१,०६०.०३ तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः ।
१,०६०.०३ यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥
१,०६०.०४ उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु ।
१,०६०.०४ दमूना गृहपतिर्दम आं अग्निर्भुवद्रयिपती रयीणाम् ॥
१,०६०.०५ तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः ।
१,०६०.०५ आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
१,०६१.०१ अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।
१,०६१.०१ ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥
१,०६१.०२ अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति ।
१,०६१.०२ इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥
१,०६१.०३ अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।
१,०६१.०३ मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥
१,०६१.०४ अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
१,०६१.०४ गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥
१,०६१.०५ अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।
१,०६१.०५ वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥
१,०६१.०६ अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।
१,०६१.०६ वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥
१,०६१.०७ अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना ।
१,०६१.०७ मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥
१,०६१.०८ अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।
१,०६१.०८ परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥
१,०६१.०९ अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् ।
१,०६१.०९ स्वराळ् इन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥
१,०६१.१० अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।
१,०६१.१० गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥
१,०६१.११ अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत् ।
१,०६१.११ ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः ॥
१,०६१.१२ अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
१,०६१.१२ गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥
१,०६१.१३ अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
१,०६१.१३ युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥
१,०६१.१४ अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते ।
१,०६१.१४ उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥
१,०६१.१५ अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः ।
१,०६१.१५ प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥
१,०६१.१६ एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
१,०६१.१६ ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
१,०६२.०१ प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत् ।
१,०६२.०१ सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥
१,०६२.०२ प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम ।
१,०६२.०२ येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥
१,०६२.०३ इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम् ।
१,०६२.०३ बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः ॥
१,०६२.०४ स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः ।
१,०६२.०४ सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥
१,०६२.०५ गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः ।
१,०६२.०५ वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ॥
१,०६२.०६ तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः ।
१,०६२.०६ उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः ॥
१,०६२.०७ द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः ।
१,०६२.०७ भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥
१,०६२.०८ सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः ।
१,०६२.०८ कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या ॥
१,०६२.०९ सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः ।
१,०६२.०९ आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥
१,०६२.१० सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः ।
१,०६२.१० पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् ॥
१,०६२.११ सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः ।
१,०६२.११ पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः ॥
१,०६२.१२ सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म ।
१,०६२.१२ द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः ॥
१,०६२.१३ सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय ।
१,०६२.१३ सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
१,०६३.०१ त्वं महां इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः ।
१,०६३.०१ यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् ॥
१,०६३.०२ आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् ।
१,०६३.०२ येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः ॥
१,०६३.०३ त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट् ।
१,०६३.०३ त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥
१,०६३.०४ त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः ।
१,०६३.०४ यद्ध शूर वृषमणः पराचैर्वि दस्यूंर्योनावकृतो वृथाषाट् ॥
१,०६३.०५ त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ ।
१,०६३.०५ व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् ॥
१,०६३.०६ त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते ।
१,०६३.०६ तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् ॥
१,०६३.०७ त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः ।
१,०६३.०७ बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥
१,०६३.०८ त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् ।
१,०६३.०८ यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥
१,०६३.०९ अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् ।
१,०६३.०९ सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
१,०६४.०१ वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः ।
१,०६४.०१ अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥
१,०६४.०२ ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः ।
१,०६४.०२ पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥
१,०६४.०३ युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव ।
१,०६४.०३ दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥
१,०६४.०४ चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे ।
१,०६४.०४ अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥
१,०६४.०५ ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत ।
१,०६४.०५ दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः ॥
१,०६४.०६ पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः ।
१,०६४.०६ अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् ॥
१,०६४.०७ महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः ।
१,०६४.०७ मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् ॥
१,०६४.०८ सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः ।
१,०६४.०८ क्षपो जिन्वन्तः पृषतीभिरृष्टिभिः समित्सबाधः शवसाहिमन्यवः ॥
१,०६४.०९ रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः ।
१,०६४.०९ आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः ॥
१,०६४.१० विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः ।
१,०६४.१० अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः ॥
१,०६४.११ हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् ।
१,०६४.११ मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥
१,०६४.१२ घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि ।
१,०६४.१२ रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये ॥
१,०६४.१३ प्र नू स मर्तः शवसा जनां अति तस्थौ व ऊती मरुतो यमावत ।
१,०६४.१३ अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति ॥
१,०६४.१४ चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन ।
१,०६४.१४ धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः ॥
१,०६४.१५ नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त ।
१,०६४.१५ सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात् ॥
१,०६५.०१ पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥
१,०६५.०२ सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः ॥
१,०६५.०३ ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिर्द्यौर्न भूम ॥
१,०६५.०४ वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥
१,०६५.०५ पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शम्भु ॥
१,०६५.०६ अत्यो नाज्मन्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते ॥
१,०६५.०७ जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति ॥
१,०६५.०८ यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः ॥
१,०६५.०९ श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत् ॥
१,०६५.१० सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥
१,०६६.०१ रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः ॥
१,०६६.०२ तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥
१,०६६.०३ दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ॥
१,०६६.०४ ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥
१,०६६.०५ दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै ॥
१,०६६.०६ चित्रो यदभ्राट्छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥
१,०६६.०७ सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥
१,०६६.०८ यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥
१,०६६.०९ तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥
१,०६६.१० सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके ॥
१,०६७.०१ वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥
१,०६७.०२ क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट् ॥
१,०६७.०३ हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन् ॥
१,०६७.०४ विदन्तीमत्र नरो धियन्धा हृदा यत्तष्टान्मन्त्रां अशंसन् ॥
१,०६७.०५ अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ॥
१,०६७.०६ प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥
१,०६७.०७ य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ॥
१,०६७.०८ वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै ॥
१,०६७.०९ वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ॥
१,०६७.१० चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥
१,०६८.०१ श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् ॥
१,०६८.०२ परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥
१,०६८.०३ आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ॥
१,०६८.०४ भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥
१,०६८.०५ ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः ॥
१,०६८.०६ यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व ॥
१,०६८.०७ होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ॥
१,०६८.०८ इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः ॥
१,०६८.०९ पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ॥
१,०६८.१० वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ॥
१,०६९.०१ शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥
१,०६९.०२ परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥
१,०६९.०३ वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् ॥
१,०६९.०४ जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे ॥
१,०६९.०५ पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥
१,०६९.०६ विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ॥
१,०६९.०७ नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ ॥
१,०६९.०८ तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि ॥
१,०६९.०९ उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै ॥
१,०६९.१० त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके ॥
१,०७०.०१ वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः ॥
१,०७०.०२ आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥
१,०७०.०३ गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ॥
१,०७०.०४ अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥
१,०७०.०५ स हि क्षपावां अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ॥
१,०७०.०६ एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान् ॥
१,०७०.०७ वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम् ॥
१,०७०.०८ अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥
१,०७०.०९ गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ॥
१,०७०.१० वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त ॥
१,०७०.११ साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥
१,०७१.०१ उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः ।
१,०७१.०१ स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः ॥
१,०७१.०२ वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण ।
१,०७१.०२ चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥
१,०७१.०३ दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः ।
१,०७१.०३ अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥
१,०७१.०४ मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् ।
१,०७१.०४ आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥
१,०७१.०५ महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् ।
१,०७१.०५ सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥
१,०७१.०६ स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् ।
१,०७१.०६ वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥
१,०७१.०७ अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः ।
१,०७१.०७ न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥
१,०७१.०८ आ यदिषे नृपतिं तेज आनट्छुचि रेतो निषिक्तं द्यौरभीके ।
१,०७१.०८ अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥
१,०७१.०९ मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे ।
१,०७१.०९ राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥
१,०७१.१० मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् ।
१,०७१.१० नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥
१,०७२.०१ नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि ।
१,०७२.०१ अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥
१,०७२.०२ अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः ।
१,०७२.०२ श्रमयुवः पदव्यो धियन्धास्तस्थुः पदे परमे चार्वग्नेः ॥
१,०७२.०३ तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् ।
१,०७२.०३ नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥
१,०७२.०४ आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः ।
१,०७२.०४ विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् ॥
१,०७२.०५ संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् ।
१,०७२.०५ रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥
१,०७२.०६ त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः ।
१,०७२.०६ तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥
१,०७२.०७ विद्वां अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः ।
१,०७२.०७ अन्तर्विद्वां अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥
१,०७२.०८ स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन् ।
१,०७२.०८ विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥
१,०७२.०९ आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
१,०७२.०९ मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥
१,०७२.१० अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् ।
१,०७२.१० अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥
१,०७३.०१ रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः ।
१,०७३.०१ स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥
१,०७३.०२ देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
१,०७३.०२ पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥
१,०७३.०३ देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
१,०७३.०३ पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥
१,०७३.०४ तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
१,०७३.०४ अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥
१,०७३.०५ वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः ।
१,०७३.०५ सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥
१,०७३.०६ ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः ।
१,०७३.०६ परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥
१,०७३.०७ त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
१,०७३.०७ नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥
१,०७३.०८ यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं च ।
१,०७३.०८ छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥
१,०७३.०९ अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः ।
१,०७३.०९ ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥
१,०७३.१० एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
१,०७३.१० शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥
१,०७४.०१ उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
१,०७४.०१ आरे अस्मे च शृण्वते ॥
१,०७४.०२ यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।
१,०७४.०२ अरक्षद्दाशुषे गयम् ॥
१,०७४.०३ उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।
१,०७४.०३ धनञ्जयो रणेरणे ॥
१,०७४.०४ यस्य दूतो असि क्षये वेषि हव्यानि वीतये ।
१,०७४.०४ दस्मत्कृणोष्यध्वरम् ॥
१,०७४.०५ तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो ।
१,०७४.०५ जना आहुः सुबर्हिषम् ॥
१,०७४.०६ आ च वहासि तां इह देवां उप प्रशस्तये ।
१,०७४.०६ हव्या सुश्चन्द्र वीतये ॥
१,०७४.०७ न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन ।
१,०७४.०७ यदग्ने यासि दूत्यम् ॥
१,०७४.०८ त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः ।
१,०७४.०८ प्र दाश्वां अग्ने अस्थात् ॥
१,०७४.०९ उत द्युमत्सुवीर्यं बृहदग्ने विवाससि ।
१,०७४.०९ देवेभ्यो देव दाशुषे ॥
१,०७५.०१ जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
१,०७५.०१ हव्या जुह्वान आसनि ॥
१,०७५.०२ अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् ।
१,०७५.०२ वोचेम ब्रह्म सानसि ॥
१,०७५.०३ कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
१,०७५.०३ को ह कस्मिन्नसि श्रितः ॥
१,०७५.०४ त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
१,०७५.०४ सखा सखिभ्य ईड्यः ॥
१,०७५.०५ यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् ।
१,०७५.०५ अग्ने यक्षि स्वं दमम् ॥
१,०७६.०१ का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा ।
१,०७६.०१ को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥
१,०७६.०२ एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
१,०७६.०२ अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥
१,०७६.०३ प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।
१,०७६.०३ अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥
१,०७६.०४ प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः ।
१,०७६.०४ वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥
१,०७६.०५ यथा विप्रस्य मनुषो हविर्भिर्देवां अयजः कविभिः कविः सन् ।
१,०७६.०५ एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥
१,०७७.०१ कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
१,०७७.०१ यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥
१,०७७.०२ यो अध्वरेषु शन्तम ऋतावा होता तमू नमोभिरा कृणुध्वम् ।
१,०७७.०२ अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥
१,०७७.०३ स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः ।
१,०७७.०३ तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥
१,०७७.०४ स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम् ।
१,०७७.०४ तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥
१,०७७.०५ एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः ।
१,०७७.०५ स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥
१,०७८.०१ अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
१,०७८.०१ द्युम्नैरभि प्र णोनुमः ॥
१,०७८.०२ तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
१,०७८.०२ द्युम्नैरभि प्र णोनुमः ॥
१,०७८.०३ तमु त्वा वाजसातममङ्गिरस्वद्धवामहे ।
१,०७८.०३ द्युम्नैरभि प्र णोनुमः ॥
१,०७८.०४ तमु त्वा वृत्रहन्तमं यो दस्यूंरवधूनुषे ।
१,०७८.०४ द्युम्नैरभि प्र णोनुमः ॥
१,०७८.०५ अवोचाम रहूगणा अग्नये मधुमद्वचः ।
१,०७८.०५ द्युम्नैरभि प्र णोनुमः ॥
१,०७९.०१ हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् ।
१,०७९.०१ शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥
१,०७९.०२ आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् ।
१,०७९.०२ शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥
१,०७९.०३ यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः ।
१,०७९.०३ अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥
१,०७९.०४ अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
१,०७९.०४ अस्मे धेहि जातवेदो महि श्रवः ॥
१,०७९.०५ स इधानो वसुष्कविरग्निरीळेन्यो गिरा ।
१,०७९.०५ रेवदस्मभ्यं पुर्वणीक दीदिहि ॥
१,०७९.०६ क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
१,०७९.०६ स तिग्मजम्भ रक्षसो दह प्रति ॥
१,०७९.०७ अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
१,०७९.०७ विश्वासु धीषु वन्द्य ॥
१,०७९.०८ आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
१,०७९.०८ विश्वासु पृत्सु दुष्टरम् ॥
१,०७९.०९ आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
१,०७९.०९ मार्डीकं धेहि जीवसे ॥
१,०७९.१० प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये ।
१,०७९.१० भरस्व सुम्नयुर्गिरः ॥
१,०७९.११ यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः ।
१,०७९.११ अस्माकमिद्वृधे भव ॥
१,०७९.१२ सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति ।
१,०७९.१२ होता गृणीत उक्थ्यः ॥
१,०८०.०१ इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् ।
१,०८०.०१ शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥
१,०८०.०२ स त्वामदद्वृषा मदः सोमः श्येनाभृतः सुतः ।
१,०८०.०२ येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम् ॥
१,०८०.०३ प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते ।
१,०८०.०३ इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥
१,०८०.०४ निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः ।
१,०८०.०४ सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम् ॥
१,०८०.०५ इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः ।
१,०८०.०५ अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥
१,०८०.०६ अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा ।
१,०८०.०६ मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् ॥
१,०८०.०७ इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् ।
१,०८०.०७ यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥
१,०८०.०८ वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु ।
१,०८०.०८ महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥
१,०८०.०९ सहस्रं साकमर्चत परि ष्टोभत विंशतिः ।
१,०८०.०९ शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् ॥
१,०८०.१० इन्द्रो वृत्रस्य तविषीं निरहन्सहसा सहः ।
१,०८०.१० महत्तदस्य पौंस्यं वृत्रं जघन्वां असृजदर्चन्ननु स्वराज्यम् ॥
१,०८०.११ इमे चित्तव मन्यवे वेपेते भियसा मही ।
१,०८०.११ यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वां अवधीरर्चन्ननु स्वराज्यम् ॥
१,०८०.१२ न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् ।
१,०८०.१२ अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥
१,०८०.१३ यद्वृत्रं तव चाशनिं वज्रेण समयोधयः ।
१,०८०.१३ अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥
१,०८०.१४ अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते ।
१,०८०.१४ त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥
१,०८०.१५ नहि नु यादधीमसीन्द्रं को वीर्या परः ।
१,०८०.१५ तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥
१,०८०.१६ यामथर्वा मनुष्पिता दध्यङ्धियमत्नत ।
१,०८०.१६ तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था समग्मतार्चन्ननु स्वराज्यम् ॥
१,०८१.०१ इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
१,०८१.०१ तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥
१,०८१.०२ असि हि वीर सेन्योऽसि भूरि पराददिः ।
१,०८१.०२ असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥
१,०८१.०३ यदुदीरत आजयो धृष्णवे धीयते धना ।
१,०८१.०३ युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥
१,०८१.०४ क्रत्वा महां अनुष्वधं भीम आ वावृधे शवः ।
१,०८१.०४ श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम् ॥
१,०८१.०५ आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि ।
१,०८१.०५ न त्वावां इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥
१,०८१.०६ यो अर्यो मर्तभोजनं पराददाति दाशुषे ।
१,०८१.०६ इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥
१,०८१.०७ मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।
१,०८१.०७ सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥
१,०८१.०८ मादयस्व सुते सचा शवसे शूर राधसे ।
१,०८१.०८ विद्मा हि त्वा पुरूवसुमुप कामान्ससृज्महेऽथा नोऽविता भव ॥
१,०८१.०९ एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
१,०८१.०९ अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥
१,०८२.०१ उपो षु शृणुही गिरो मघवन्मातथा इव ।
१,०८२.०१ यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी ॥
१,०८२.०२ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
१,०८२.०२ अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥
१,०८२.०३ सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि ।
१,०८२.०३ प्र नूनं पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्विन्द्र ते हरी ॥
१,०८२.०४ स घा तं वृषणं रथमधि तिष्ठाति गोविदम् ।
१,०८२.०४ यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥
१,०८२.०५ युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो ।
१,०८२.०५ तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी ॥
१,०८२.०६ युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः ।
१,०८२.०६ उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः ॥
१,०८३.०१ अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।
१,०८३.०१ तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥
१,०८३.०२ आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।
१,०८३.०२ प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥
१,०८३.०३ अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
१,०८३.०३ असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥
१,०८३.०४ आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
१,०८३.०४ सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥
१,०८३.०५ यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।
१,०८३.०५ आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥
१,०८३.०६ बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।
१,०८३.०६ ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥
१,०८४.०१ असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
१,०८४.०१ आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥
१,०८४.०२ इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ।
१,०८४.०२ ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥
१,०८४.०३ आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
१,०८४.०३ अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥
१,०८४.०४ इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् ।
१,०८४.०४ शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥
१,०८४.०५ इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
१,०८४.०५ सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥
१,०८४.०६ नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।
१,०८४.०६ नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥
१,०८४.०७ य एक इद्विदयते वसु मर्ताय दाशुषे ।
१,०८४.०७ ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥
१,०८४.०८ कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
१,०८४.०८ कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥
१,०८४.०९ यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति ।
१,०८४.०९ उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥
१,०८४.१० स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
१,०८४.१० या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥
१,०८४.११ ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
१,०८४.११ प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥
१,०८४.१२ ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
१,०८४.१२ व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥
१,०८४.१३ इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
१,०८४.१३ जघान नवतीर्नव ॥
१,०८४.१४ इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।
१,०८४.१४ तद्विदच्छर्यणावति ॥
१,०८४.१५ अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
१,०८४.१५ इत्था चन्द्रमसो गृहे ॥
१,०८४.१६ को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
१,०८४.१६ आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥
१,०८४.१७ क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
१,०८४.१७ कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥
१,०८४.१८ को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः ।
१,०८४.१८ कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥
१,०८४.१९ त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् ।
१,०८४.१९ न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥
१,०८४.२० मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
१,०८४.२० विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥
१,०८५.०१ प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः ।
१,०८५.०१ रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥
१,०८५.०२ त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः ।
१,०८५.०२ अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः ॥
१,०८५.०३ गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः ।
१,०८५.०३ बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम् ॥
१,०८५.०४ वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा ।
१,०८५.०४ मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् ॥
१,०८५.०५ प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः ।
१,०८५.०५ उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥
१,०८५.०६ आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।
१,०८५.०६ सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥
१,०८५.०७ तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः ।
१,०८५.०७ विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये ॥
१,०८५.०८ शूरा इवेद्युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे ।
१,०८५.०८ भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥
१,०८५.०९ त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् ।
१,०८५.०९ धत्त इन्द्रो नर्यपांसि कर्तवेऽहन्वृत्रं निरपामौब्जदर्णवम् ॥
१,०८५.१० ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम् ।
१,०८५.१० धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥
१,०८५.११ जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे ।
१,०८५.११ आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥
१,०८५.१२ या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि ।
१,०८५.१२ अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥
१,०८६.०१ मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
१,०८६.०१ स सुगोपातमो जनः ॥
१,०८६.०२ यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् ।
१,०८६.०२ मरुतः शृणुता हवम् ॥
१,०८६.०३ उत वा यस्य वाजिनोऽनु विप्रमतक्षत ।
१,०८६.०३ स गन्ता गोमति व्रजे ॥
१,०८६.०४ अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
१,०८६.०४ उक्थं मदश्च शस्यते ॥
१,०८६.०५ अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि ।
१,०८६.०५ सूरं चित्सस्रुषीरिषः ॥
१,०८६.०६ पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् ।
१,०८६.०६ अवोभिश्चर्षणीनाम् ॥
१,०८६.०७ सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः ।
१,०८६.०७ यस्य प्रयांसि पर्षथ ॥
१,०८६.०८ शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
१,०८६.०८ विदा कामस्य वेनतः ॥
१,०८६.०९ यूयं तत्सत्यशवस आविष्कर्त महित्वना ।
१,०८६.०९ विध्यता विद्युता रक्षः ॥
१,०८६.१० गूहता गुह्यं तमो वि यात विश्वमत्रिणम् ।
१,०८६.१० ज्योतिष्कर्ता यदुश्मसि ॥
१,०८७.०१ प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः ।
१,०८७.०१ जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः ॥
१,०८७.०२ उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा ।
१,०८७.०२ श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते ॥
१,०८७.०३ प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे ।
१,०८७.०३ ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥
१,०८७.०४ स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः ।
१,०८७.०४ असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः ॥
१,०८७.०५ पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा ।
१,०८७.०५ यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे ॥
१,०८७.०६ श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः ।
१,०८७.०६ ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
१,०८८.०१ आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः ।
१,०८८.०१ आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥
१,०८८.०२ तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः ।
१,०८८.०२ रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम ॥
१,०८८.०३ श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा ।
१,०८८.०३ युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् ॥
१,०८८.०४ अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम् ।
१,०८८.०४ ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै ॥
१,०८८.०५ एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः ।
१,०८८.०५ पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ॥
१,०८८.०६ एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी ।
१,०८८.०६ अस्तोभयद्वृथासामनु स्वधां गभस्त्योः ॥
१,०८९.०१ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
१,०८९.०१ देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥
१,०८९.०२ देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् ।
१,०८९.०२ देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥
१,०८९.०३ तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
१,०८९.०३ अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥
१,०८९.०४ तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
१,०८९.०४ तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥
१,०८९.०५ तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
१,०८९.०५ पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
१,०८९.०६ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
१,०८९.०६ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
१,०८९.०७ पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
१,०८९.०७ अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
१,०८९.०८ भद्रं कर्
णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
१,०८९.०८ स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
१,०८९.०९ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
१,०८९.०९ पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
१,०८९.१० अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
१,०८९.१० विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥
१,०९०.०१ ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
१,०९०.०१ अर्यमा देवैः सजोषाः ॥
१,०९०.०२ ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
१,०९०.०२ व्रता रक्षन्ते विश्वाहा ॥
१,०९०.०३ ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः ।
१,०९०.०३ बाधमाना अप द्विषः ॥
१,०९०.०४ वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
१,०९०.०४ पूषा भगो वन्द्यासः ॥
१,०९०.०५ उत नो धियो गोअग्राः पूषन्विष्णवेवयावः ।
१,०९०.०५ कर्ता नः स्वस्तिमतः ॥
१,०९०.०६ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
१,०९०.०६ माध्वीर्नः सन्त्वोषधीः ॥
१,०९०.०७ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
१,०९०.०७ मधु द्यौरस्तु नः पिता ॥
१,०९०.०८ मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः ।
१,०९०.०८ माध्वीर्गावो भवन्तु नः ॥
१,०९०.०९ शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
१,०९०.०९ शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥
१,०९१.०१ त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् ।
१,०९१.०१ तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥
१,०९१.०२ त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः ।
१,०९१.०२ त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः ॥
१,०९१.०३ राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
१,०९१.०३ शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥
१,०९१.०४ या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु ।
१,०९१.०४ तेभिर्नो विश्वैः सुमना अहेळन्राजन्सोम प्रति हव्या गृभाय ॥
१,०९१.०५ त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ।
१,०९१.०५ त्वं भद्रो असि क्रतुः ॥
१,०९१.०६ त्वं च सोम नो वशो जीवातुं न मरामहे ।
१,०९१.०६ प्रियस्तोत्रो वनस्पतिः ॥
१,०९१.०७ त्वं सोम महे भगं त्वं यून ऋतायते ।
१,०९१.०७ दक्षं दधासि जीवसे ॥
१,०९१.०८ त्वं नः सोम विश्वतो रक्षा राजन्नघायतः ।
१,०९१.०८ न रिष्येत्त्वावतः सखा ॥
१,०९१.०९ सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे ।
१,०९१.०९ ताभिर्नोऽविता भव ॥
१,०९१.१० इमं यज्ञमिदं वचो जुजुषाण उपागहि ।
१,०९१.१० सोम त्वं नो वृधे भव ॥
१,०९१.११ सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः ।
१,०९१.११ सुमृळीको न आ विश ॥
१,०९१.१२ गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः ।
१,०९१.१२ सुमित्रः सोम नो भव ॥
१,०९१.१३ सोम रारन्धि नो हृदि गावो न यवसेष्वा ।
१,०९१.१३ मर्य इव स्व ओक्ये ॥
१,०९१.१४ यः सोम सख्ये तव रारणद्देव मर्त्यः ।
१,०९१.१४ तं दक्षः सचते कविः ॥
१,०९१.१५ उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः ।
१,०९१.१५ सखा सुशेव एधि नः ॥
१,०९१.१६ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
१,०९१.१६ भवा वाजस्य संगथे ॥
१,०९१.१७ आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः ।
१,०९१.१७ भवा नः सुश्रवस्तमः सखा वृधे ॥
१,०९१.१८ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः ।
१,०९१.१८ आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥
१,०९१.१९ या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् ।
१,०९१.१९ गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥
१,०९१.२० सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति ।
१,०९१.२० सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥
१,०९१.२१ अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम् ।
१,०९१.२१ भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥
१,०९१.२२ त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः ।
१,०९१.२२ त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
१,०९१.२३ देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य ।
१,०९१.२३ मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥
१,०९२.०१ एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
१,०९२.०१ निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥
१,०९२.०२ उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
१,०९२.०२ अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥
१,०९२.०३ अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
१,०९२.०३ इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥
१,०९२.०४ अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् ।
१,०९२.०४ ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः ॥
१,०९२.०५ प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् ।
१,०९२.०५ स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् ॥
१,०९२.०६ अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति ।
१,०९२.०६ श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥
१,०९२.०७ भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
१,०९२.०७ प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्रां उप मासि वाजान् ॥
१,०९२.०८ उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् ।
१,०९२.०८ सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥
१,०९२.०९ विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति ।
१,०९२.०९ विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥
१,०९२.१० पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
१,०९२.१० श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥
१,०९२.११ व्यूर्ण्वती दिवो अन्तां अबोध्यप स्वसारं सनुतर्युयोति ।
१,०९२.११ प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥
१,०९२.१२ पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् ।
१,०९२.१२ अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥
१,०९२.१३ उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
१,०९२.१३ येन तोकं च तनयं च धामहे ॥
१,०९२.१४ उषो अद्येह गोमत्यश्वावति विभावरि ।
१,०९२.१४ रेवदस्मे व्युच्छ सूनृतावति ॥
१,०९२.१५ युक्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः ।
१,०९२.१५ अथा नो विश्वा सौभगान्या वह ॥
१,०९२.१६ अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
१,०९२.१६ अर्वाग्रथं समनसा नि यच्छतम् ॥
१,०९२.१७ यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
१,०९२.१७ आ न ऊर्जं वहतमश्विना युवम् ॥
१,०९२.१८ एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
१,०९२.१८ उषर्बुधो वहन्तु सोमपीतये ॥
१,०९३.०१ अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् ।
१,०९३.०१ प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥
१,०९३.०२ अग्नीषोमा यो अद्य वामिदं वचः सपर्यति ।
१,०९३.०२ तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥
१,०९३.०३ अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् ।
१,०९३.०३ स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥
१,०९३.०४ अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः ।
१,०९३.०४ अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥
१,०९३.०५ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।
१,०९३.०५ युवं सिन्धूंरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥
१,०९३.०६ आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।
१,०९३.०६ अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥
१,०९३.०७ अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् ।
१,०९३.०७ सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥
१,०९३.०८ यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन ।
१,०९३.०८ तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥
१,०९३.०९ अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
१,०९३.०९ सं देवत्रा बभूवथुः ॥
१,०९३.१० अग्नीषोमावनेन वां यो वां घृतेन दाशति ।
१,०९३.१० तस्मै दीदयतं बृहत् ॥
१,०९३.११ अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् ।
१,०९३.११ आ यातमुप नः सचा ॥
१,०९३.१२ अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः ।
१,०९३.१२ अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥
१,०९४.०१ इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
१,०९४.०१ भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०२ यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
१,०९४.०२ स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०३ शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।
१,०९४.०३ त्वमादित्यां आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०४ भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् ।
१,०९४.०४ जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०५ विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः ।
१,०९४.०५ चित्रः प्रकेत उषसो महां अस्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०६ त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
१,०९४.०६ विश्वा विद्वां आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०७ यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे ।
१,०९४.०७ रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०८ पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
१,०९४.०८ तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.०९ वधैर्दुःशंसां अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः ।
१,०९४.०९ अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१० यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
१,०९४.१० आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.११ अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् ।
१,०९४.११ सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१२ अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः ।
१,०९४.१२ मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१३ देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
१,०९४.१३ शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१४ तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः ।
१,०९४.१४ दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥
१,०९४.१५ यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता ।
१,०९४.१५ यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥
१,०९४.१६ स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव ।
१,०९४.१६ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,०९५.०१ द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते ।
१,०९५.०१ हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥
१,०९५.०२ दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् ।
१,०९५.०२ तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥
१,०९५.०३ त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु ।
१,०९५.०३ पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥
१,०९५.०४ क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः ।
१,०९५.०४ बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥
१,०९५.०५ आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
१,०९५.०५ उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥
१,०९५.०६ उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः ।
१,०९५.०६ स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥
१,०९५.०७ उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् ।
१,०९५.०७ उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥
१,०९५.०८ त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
१,०९५.०८ कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥
१,०९५.०९ उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम ।
१,०९५.०९ विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान् ॥
१,०९५.१० धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् ।
१,०९५.१० विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥
१,०९५.११ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
१,०९५.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,०९६.०१ स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ् अधत्त विश्वा ।
१,०९६.०१ आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०२ स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
१,०९६.०२ विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०३ तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् ।
१,०९६.०३ ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०४ स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।
१,०९६.०४ विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०५ नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
१,०९६.०५ द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०६ रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
१,०९६.०६ अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०७ नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
१,०९६.०७ सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥
१,०९६.०८ द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
१,०९६.०८ द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥
१,०९६.०९ एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
१,०९६.०९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,०९७.०१ अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
१,०९७.०१ अप नः शोशुचदघम् ॥
१,०९७.०२ सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
१,०९७.०२ अप नः शोशुचदघम् ॥
१,०९७.०३ प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
१,०९७.०३ अप नः शोशुचदघम् ॥
१,०९७.०४ प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
१,०९७.०४ अप नः शोशुचदघम् ॥
१,०९७.०५ प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
१,०९७.०५ अप नः शोशुचदघम् ॥
१,०९७.०६ त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
१,०९७.०६ अप नः शोशुचदघम् ॥
१,०९७.०७ द्विषो नो विश्वतोमुखाति नावेव पारय ।
१,०९७.०७ अप नः शोशुचदघम् ॥
१,०९७.०८ स नः सिन्धुमिव नावयाति पर्षा स्वस्तये ।
१,०९७.०८ अप नः शोशुचदघम् ॥
१,०९८.०१ वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
१,०९८.०१ इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
१,०९८.०२ पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश ।
१,०९८.०२ वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥
१,०९८.०३ वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् ।
१,०९८.०३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,०९९.०१ जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः ।
१,०९९.०१ स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥
१,१००.०१ स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट् ।
१,१००.०१ सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०२ यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति ।
१,१००.०२ वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०३ दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः ।
१,१००.०३ तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०४ सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् ।
१,१००.०४ ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०५ स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वां अमित्रान् ।
१,१००.०५ सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०६ स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् ।
१,१००.०६ अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०७ तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् ।
१,१००.०७ स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०८ तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय ।
१,१००.०८ सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.०९ स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि ।
१,१००.०९ स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१० स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य ।
१,१००.१० स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.११ स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः ।
१,१००.११ अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१२ स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा ।
१,१००.१२ चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१३ तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान् ।
१,१००.१३ तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१४ यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् ।
१,१००.१४ स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१५ न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः ।
१,१००.१५ स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥
१,१००.१६ रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य ।
१,१००.१६ वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥
१,१००.१७ एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः ।
१,१००.१७ ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥
१,१००.१८ दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् ।
१,१००.१८ सनत्क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥
१,१००.१९ विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
१,१००.१९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१०१.०१ प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
१,१०१.०१ अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०२ यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
१,१०१.०२ इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०३ यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
१,१०१.०३ यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०४ यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
१,१०१.०४ वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०५ यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
१,१०१.०५ इन्द्रो यो दस्यूंरधरां अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०६ यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
१,१०१.०६ इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०७ रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
१,१०१.०७ इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥
१,१०१.०८ यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे ।
१,१०१.०८ अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥
१,१०१.०९ त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः ।
१,१०१.०९ अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥
१,१०१.१० मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
१,१०१.१० आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥
१,१०१.११ मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
१,१०१.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१०२.०१ इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे ।
१,१०२.०१ तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥
१,१०२.०२ अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः ।
१,१०२.०२ अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् ॥
१,१०२.०३ तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे ।
१,१०२.०३ आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥
१,१०२.०४ वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे ।
१,१०२.०४ अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥
१,१०२.०५ नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः ।
१,१०२.०५ अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥
१,१०२.०६ गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजङ्करः ।
१,१०२.०६ अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः ॥
१,१०२.०७ उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः ।
१,१०२.०७ अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरन्दर ॥
१,१०२.०८ त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना ।
१,१०२.०८ अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि ॥
१,१०२.०९ त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः ।
१,१०२.०९ सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः ॥
१,१०२.१० त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च ।
१,१०२.१० त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥
१,१०२.११ विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
१,१०२.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१०३.०१ तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् ।
१,१०३.०१ क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥
१,१०३.०२ स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज ।
१,१०३.०२ अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥
१,१०३.०३ स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः ।
१,१०३.०३ विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥
१,१०३.०४ तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् ।
१,१०३.०४ उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥
१,१०३.०५ तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय ।
१,१०३.०५ स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥
१,१०३.०६ भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् ।
१,१०३.०६ य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥
१,१०३.०७ तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् ।
१,१०३.०७ अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥
१,१०३.०८ शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य ।
१,१०३.०८ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१०४.०१ योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा ।
१,१०४.०१ विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥
१,१०४.०२ ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात् ।
१,१०४.०२ देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम् ॥
१,१०४.०३ अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् ।
१,१०४.०३ क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥
१,१०४.०४ युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः ।
१,१०४.०४ अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥
१,१०४.०५ प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् ।
१,१०४.०५ अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥
१,१०४.०६ स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे ।
१,१०४.०६ मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥
१,१०४.०७ अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय ।
१,१०४.०७ मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥
१,१०४.०८ मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः ।
१,१०४.०८ आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि ॥
१,१०४.०९ अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
१,१०४.०९ उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥
१,१०५.०१ चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
१,१०५.०१ न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥
१,१०५.०२ अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् ।
१,१०५.०२ तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी ॥
१,१०५.०३ मो षु देवा अदः स्वरव पादि दिवस्परि ।
१,१०५.०३ मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी ॥
१,१०५.०४ यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति ।
१,१०५.०४ क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी ॥
१,१०५.०५ अमी ये देवा स्थन त्रिष्वा रोचने दिवः ।
१,१०५.०५ कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥
१,१०५.०६ कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम् ।
१,१०५.०६ कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥
१,१०५.०७ अहं सो अस्मि यः पुरा सुते वदामि कानि चित् ।
१,१०५.०७ तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥
१,१०५.०८ सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
१,१०५.०८ मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥
१,१०५.०९ अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता ।
१,१०५.०९ त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी ॥
१,१०५.१० अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः ।
१,१०५.१० देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥
१,१०५.११ सुपर्णा एत आसते मध्य आरोधने दिवः ।
१,१०५.११ ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥
१,१०५.१२ नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् ।
१,१०५.१२ ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥
१,१०५.१३ अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् ।
१,१०५.१३ स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी ॥
१,१०५.१४ सत्तो होता मनुष्वदा देवां अच्छा विदुष्टरः ।
१,१०५.१४ अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥
१,१०५.१५ ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे ।
१,१०५.१५ व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी ॥
१,१०५.१६ असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः ।
१,१०५.१६ न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी ॥
१,१०५.१७ त्रितः कूपेऽवहितो देवान्हवत ऊतये ।
१,१०५.१७ तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥
१,१०५.१८ अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि ।
१,१०५.१८ उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥
१,१०५.१९ एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः ।
१,१०५.१९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१०६.०१ इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे ।
१,१०६.०१ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०२ त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः ।
१,१०६.०२ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०३ अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
१,१०६.०३ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०४ नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे ।
१,१०६.०४ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०५ बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
१,१०६.०५ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०६ इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये ।
१,१०६.०६ रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
१,१०६.०७ देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
१,१०६.०७ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१०७.०१ यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः ।
१,१०७.०१ आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥
१,१०७.०२ उप नो देवा अवसा गमन्त्वङ्गिरसां सामभि स्तूयमानाः ।
१,१०७.०२ इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥
१,१०७.०३ तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् ।
१,१०७.०३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१०८.०१ य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे ।
१,१०८.०१ तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥
१,१०८.०२ यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् ।
१,१०८.०२ तावां अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥
१,१०८.०३ चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः ।
१,१०८.०३ ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥
१,१०८.०४ समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा ।
१,१०८.०४ तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥
१,१०८.०५ यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि ।
१,१०८.०५ या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥
१,१०८.०६ यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः ।
१,१०८.०६ तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.०७ यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा ।
१,१०८.०७ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.०८ यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः ।
१,१०८.०८ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.०९ यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ।
१,१०८.०९ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.१० यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः ।
१,१०८.१० अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.११ यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु ।
१,१०८.११ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.१२ यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे ।
१,१०८.१२ अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
१,१०८.१३ एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि ।
१,१०८.१३ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१०९.०१ वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान् ।
१,१०९.०१ नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् ॥
१,१०९.०२ अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ।
१,१०९.०२ अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥
१,१०९.०३ मा च्छेद्म रश्मींरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः ।
१,१०९.०३ इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे ॥
१,१०९.०४ युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति ।
१,१०९.०४ तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु ॥
१,१०९.०५ युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये ।
१,१०९.०५ तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥
१,१०९.०६ प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
१,१०९.०६ प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥
१,१०९.०७ आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः ।
१,१०९.०७ इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥
१,१०९.०८ पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतं भरेषु ।
१,१०९.०८ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,११०.०१ ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।
१,११०.०१ अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥
१,११०.०२ आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः ।
१,११०.०२ सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥
१,११०.०३ तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन ।
१,११०.०३ त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥
१,११०.०४ विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः ।
१,११०.०४ सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥
१,११०.०५ क्षेत्रमिव वि ममुस्तेजनेनं एकं पात्रमृभवो जेहमानम् ।
१,११०.०५ उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥
१,११०.०६ आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना ।
१,११०.०६ तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रजः ॥
१,११०.०७ ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः ।
१,११०.०७ युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम् ॥
१,११०.०८ निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः ।
१,११०.०८ सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥
१,११०.०९ वाजेभिर्नो वाजसातावविड्ढ्यृभुमां इन्द्र चित्रमा दर्षि राधः ।
१,११०.०९ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,१११.०१ तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इन्द्रवाहा वृषण्वसू ।
१,१११.०१ तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥
१,१११.०२ आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् ।
१,१११.०२ यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् ॥
१,१११.०३ आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः ।
१,१११.०३ सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥
१,१११.०४ ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये ।
१,१११.०४ उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥
१,१११.०५ ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्मां अविष्टु ।
१,१११.०५ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,११२.०१ ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।
१,११२.०१ याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०२ युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
१,११२.०२ याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०३ युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।
१,११२.०३ याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०४ याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।
१,११२.०४ याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०५ याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे ।
१,११२.०५ याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०६ याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।
१,११२.०६ याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०७ याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।
१,११२.०७ याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०८ याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।
१,११२.०८ याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.०९ याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।
१,११२.०९ याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१० याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् ।
१,११२.१० याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.११ याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।
१,११२.११ कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१२ याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
१,११२.१२ याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१३ याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।
१,११२.१३ याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१४ याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।
१,११२.१४ याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१५ याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
१,११२.१५ याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१६ याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।
१,११२.१६ याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१७ याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।
१,११२.१७ याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१८ याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः ।
१,११२.१८ याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.१९ याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् ।
१,११२.१९ याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२० याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।
१,११२.२० ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२१ याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।
१,११२.२१ मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२२ याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।
१,११२.२२ याभी रथां अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२३ याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।
१,११२.२३ याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
१,११२.२४ अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
१,११२.२४ अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥
१,११२.२५ द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
१,११२.२५ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,११३.०१ इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
१,११३.०१ यथा प्रसूता सवितुः सवायं एवा रात्र्युषसे योनिमारैक् ॥
१,११३.०२ रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
१,११३.०२ समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥
१,११३.०३ समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
१,११३.०३ न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥
१,११३.०४ भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।
१,११३.०४ प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥
१,११३.०५ जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् ।
१,११३.०५ दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥
१,११३.०६ क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।
१,११३.०६ विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥
१,११३.०७ एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।
१,११३.०७ विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥
१,११३.०८ परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् ।
१,११३.०८ व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥
१,११३.०९ उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।
१,११३.०९ यन्मानुषान्यक्ष्यमाणां अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥
१,११३.१० कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।
१,११३.१० अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥
१,११३.११ ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः ।
१,११३.११ अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् ॥
१,११३.१२ यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।
१,११३.१२ सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥
१,११३.१३ शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।
१,११३.१३ अथो व्युच्छादुत्तरां अनु द्यूनजरामृता चरति स्वधाभिः ॥
१,११३.१४ व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।
१,११३.१४ प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥
१,११३.१५ आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
१,११३.१५ ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥
१,११३.१६ उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति ।
१,११३.१६ आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥
१,११३.१७ स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः ।
१,११३.१७ अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥
१,११३.१८ या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।
१,११३.१८ वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥
१,११३.१९ माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।
१,११३.१९ प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥
१,११३.२० यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।
१,११३.२० तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,११४.०१ इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
१,११४.०१ यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥
१,११४.०२ मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
१,११४.०२ यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥
१,११४.०३ अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
१,११४.०३ सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥
१,११४.०४ त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे ।
१,११४.०४ आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥
१,११४.०५ दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।
१,११४.०५ हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥
१,११४.०६ इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
१,११४.०६ रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥
१,११४.०७ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
१,११४.०७ मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥
१,११४.०८ मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
१,११४.०८ वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥
१,११४.०९ उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
१,११४.०९ भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥
१,११४.१० आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।
१,११४.१० मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥
१,११४.११ अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।
१,११४.११ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,११५.०१ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
१,११५.०१ आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥
१,११५.०२ सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
१,११५.०२ यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥
१,११५.०३ भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
१,११५.०३ नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥
१,११५.०४ तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
१,११५.०४ यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥
१,११५.०५ तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
१,११५.०५ अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥
१,११५.०६ अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
१,११५.०६ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
१,११६.०१ नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमां इयर्म्यभ्रियेव वातः ।
१,११६.०१ यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥
१,११६.०२ वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना ।
१,११६.०२ तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥
१,११६.०३ तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवां अवाहाः ।
१,११६.०३ तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥
१,११६.०४ तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतङ्गैः ।
१,११६.०४ समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥
१,११६.०५ अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे ।
१,११६.०५ यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥
१,११६.०६ यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।
१,११६.०६ तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥
१,११६.०७ युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम् ।
१,११६.०७ कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ॥
१,११६.०८ हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् ।
१,११६.०८ ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥
१,११६.०९ परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम् ।
१,११६.०९ क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥
१,११६.१० जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् ।
१,११६.१० प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥
१,११६.११ तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम् ।
१,११६.११ यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय ॥
१,११६.१२ तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
१,११६.१२ दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥
१,११६.१३ अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरन्धिः ।
१,११६.१३ श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥
१,११६.१४ आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् ।
१,११६.१४ उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥
१,११६.१५ चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् ।
१,११६.१५ सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् ॥
१,११६.१६ शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
१,११६.१६ तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥
१,११६.१७ आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती ।
१,११६.१७ विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे ॥
१,११६.१८ यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता ।
१,११६.१८ रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥
१,११६.१९ रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता ।
१,११६.१९ आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥
१,११६.२० परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः ।
१,११६.२० विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ॥
१,११६.२१ एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा ।
१,११६.२१ निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥
१,११६.२२ शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः ।
१,११६.२२ शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥
१,११६.२३ अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।
१,११६.२३ पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥
१,११६.२४ दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः ।
१,११६.२४ विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥
१,११६.२५ प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः ।
१,११६.२५ उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥
१,११७.०१ मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
१,११७.०१ बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥
१,११७.०२ यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
१,११७.०२ येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥
१,११७.०३ ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
१,११७.०३ मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥
१,११७.०४ अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु ।
१,११७.०४ सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥
१,११७.०५ सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् ।
१,११७.०५ शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥
१,११७.०६ तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।
१,११७.०६ शफादश्वस्य वाजिनो जनाय शतं कुम्भां असिञ्चतं मधूनाम् ॥
१,११७.०७ युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
१,११७.०७ घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥
१,११७.०८ युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
१,११७.०८ प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥
१,११७.०९ पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् ।
१,११७.०९ सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥
१,११७.१० एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
१,११७.१० यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥
१,११७.११ सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
१,११७.११ अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥
१,११७.१२ कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
१,११७.१२ हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥
१,११७.१३ युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
१,११७.१३ युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥
१,११७.१४ युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
१,११७.१४ युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥
१,११७.१५ अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
१,११७.१५ निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥
१,११७.१६ अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
१,११७.१६ वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥
१,११७.१७ शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
१,११७.१७ आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥
१,११७.१८ शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
१,११७.१८ जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥
१,११७.१९ मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।
१,११७.१९ अथा युवामिदह्वयत्पुरन्धिरागच्छतं सीं वृषणाववोभिः ॥
१,११७.२० अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् ।
१,११७.२० युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥
१,११७.२१ यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
१,११७.२१ अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥
१,११७.२२ आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
१,११७.२२ स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥
१,११७.२३ सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
१,११७.२३ अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥
१,११७.२४ हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
१,११७.२४ त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥
१,११७.२५ एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।
१,११७.२५ ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥
१,११८.०१ आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववां यात्वर्वाङ् ।
१,११८.०१ यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥
१,११८.०२ त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।
१,११८.०२ पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥
१,११८.०३ प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
१,११८.०३ किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥
१,११८.०४ आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः ।
१,११८.०४ ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥
१,११८.०५ आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।
१,११८.०५ परि वामश्वा वपुषः पतङ्गा वयो वहन्त्वरुषा अभीके ॥
१,११८.०६ उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।
१,११८.०६ निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥
१,११८.०७ युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् ।
१,११८.०७ युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥
१,११८.०८ युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।
१,११८.०८ अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥
१,११८.०९ युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् ।
१,११८.०९ जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥
१,११८.१० ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।
१,११८.१० आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥
१,११८.११ आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
१,११८.११ हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥
१,११९.०१ आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
१,११९.०१ सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥
१,११९.०२ ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः ।
१,११९.०२ स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥
१,११९.०३ सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
१,११९.०३ युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥
१,११९.०४ युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ ।
१,११९.०४ यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥
१,११९.०५ युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् ।
१,११९.०५ आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥
१,११९.०६ युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।
१,११९.०६ युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥
१,११९.०७ युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः ।
१,११९.०७ क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥
१,११९.०८ अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् ।
१,११९.०८ स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥
१,११९.०९ उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।
१,११९.०९ युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥
१,११९.१० युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।
१,११९.१० शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥
१,१२०.०१ का राधद्धोत्राश्विना वां को वां जोष उभयोः ।
१,१२०.०१ कथा विधात्यप्रचेताः ॥
१,१२०.०२ विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः ।
१,१२०.०२ नू चिन्नु मर्ते अक्रौ ॥
१,१२०.०३ ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।
१,१२०.०३ प्रार्चद्दयमानो युवाकुः ॥
१,१२०.०४ वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा ।
१,१२०.०४ पातं च सह्यसो युवं च रभ्यसो नः ॥
१,१२०.०५ प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् ।
१,१२०.०५ प्रैषयुर्न विद्वान् ॥
१,१२०.०६ श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् ।
१,१२०.०६ आक्षी शुभस्पती दन् ॥
१,१२०.०७ युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् ।
१,१२०.०७ ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥
१,१२०.०८ मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।
१,१२०.०८ स्तनाभुजो अशिश्वीः ॥
१,१२०.०९ दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।
१,१२०.०९ इषे च नो मिमीतं धेनुमत्यै ॥
१,१२०.१० अश्विनोरसनं रथमनश्वं वाजिनीवतोः ।
१,१२०.१० तेनाहं भूरि चाकन ॥
१,१२०.११ अयं समह मा तनूह्याते जनां अनु ।
१,१२०.११ सोमपेयं सुखो रथः ॥
१,१२०.१२ अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ।
१,१२०.१२ उभा ता बस्रि नश्यतः ॥
१,१२१.०१ कदित्था नॄंः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन् ।
१,१२१.०१ प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥
१,१२१.०२ स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः ।
१,१२१.०२ अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥
१,१२१.०३ नक्षद्धवमरुणीः पूर्व्यं राट्तुरो विशामङ्गिरसामनु द्यून् ।
१,१२१.०३ तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥
१,१२१.०४ अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम् ।
१,१२१.०४ यद्ध प्रसर्गे त्रिककुं निवर्तदप द्रुहो मानुषस्य दुरो वः ॥
१,१२१.०५ तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू ।
१,१२१.०५ शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
१,१२१.०६ अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः ।
१,१२१.०६ इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥
१,१२१.०७ स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः ।
१,१२१.०७ यद्ध प्रभासि कृत्व्यां अनु द्यूननर्विशे पश्विषे तुराय ॥
१,१२१.०८ अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम् ।
१,१२१.०८ हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥
१,१२१.०९ त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा ।
१,१२१.०९ कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥
१,१२१.१० पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य ।
१,१२१.१० शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥
१,१२१.११ अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् ।
१,१२१.११ त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥
१,१२१.१२ त्वमिन्द्र नर्यो यां अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् ।
१,१२१.१२ यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥
१,१२१.१३ त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र ।
१,१२१.१३ प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥
१,१२१.१४ त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके ।
१,१२१.१४ प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥
१,१२१.१५ मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त ।
१,१२१.१५ आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥
१,१२२.०१ प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् ।
१,१२२.०१ दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥
१,१२२.०२ पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने ।
१,१२२.०२ स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥
१,१२२.०३ ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
१,१२२.०३ शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥
१,१२२.०४ उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै ।
१,१२२.०४ प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥
१,१२२.०५ आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे ।
१,१२२.०५ प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिमग्नेः ॥
१,१२२.०६ श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् ।
१,१२२.०६ श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥
१,१२२.०७ स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे ।
१,१२२.०७ श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥
१,१२२.०८ अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः ।
१,१२२.०८ जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥
१,१२२.०९ जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् ।
१,१२२.०९ स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिरृतावा ॥
१,१२२.१० स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः ।
१,१२२.१० विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥
१,१२२.११ अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः ।
१,१२२.११ नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥
१,१२२.१२ एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे ।
१,१२२.१२ द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥
१,१२२.१३ मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना ।
१,१२२.१३ किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥
१,१२२.१४ हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः ।
१,१२२.१४ अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥
१,१२२.१५ चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः ।
१,१२२.१५ रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥
१,१२३.०१ पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः ।
१,१२३.०१ कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥
१,१२३.०२ पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री ।
१,१२३.०२ उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥
१,१२३.०३ यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।
१,१२३.०३ देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥
१,१२३.०४ गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना ।
१,१२३.०४ सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥
१,१२३.०५ भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व ।
१,१२३.०५ पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥
१,१२३.०६ उदीरतां सूनृता उत्पुरन्धीरुदग्नयः शुशुचानासो अस्थुः ।
१,१२३.०६ स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥
१,१२३.०७ अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते ।
१,१२३.०७ परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥
१,१२३.०८ सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम ।
१,१२३.०८ अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥
१,१२३.०९ जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची ।
१,१२३.०९ ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥
१,१२३.१० कन्येव तन्वा शाशदानां एषि देवि देवमियक्षमाणम् ।
१,१२३.१० संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥
१,१२३.११ सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् ।
१,१२३.११ भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥
१,१२३.१२ अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
१,१२३.१२ परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥
१,१२३.१३ ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि ।
१,१२३.१३ उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥
१,१२४.०१ उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत् ।
१,१२४.०१ देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥
१,१२४.०२ अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
१,१२४.०२ ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥
१,१२४.०३ एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् ।
१,१२४.०३ ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥
१,१२४.०४ उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।
१,१२४.०४ अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥
१,१२४.०५ पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम् ।
१,१२४.०५ व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥
१,१२४.०६ एवेदेषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् ।
१,१२४.०६ अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥
१,१२४.०७ अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् ।
१,१२४.०७ जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥
१,१२४.०८ स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव ।
१,१२४.०८ व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः ॥
१,१२४.०९ आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् ।
१,१२४.०९ ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥
१,१२४.१० प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु ।
१,१२४.१० रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥
१,१२४.११ अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम् ।
१,१२४.११ वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥
१,१२४.१२ उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
१,१२४.१२ अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥
१,१२४.१३ अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः ।
१,१२४.१३ युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥
१,१२५.०१ प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते ।
१,१२५.०१ तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥
१,१२५.०२ सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति ।
१,१२५.०२ यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥
१,१२५.०३ आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन ।
१,१२५.०३ अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥
१,१२५.०४ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
१,१२५.०४ पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
१,१२५.०५ नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति ।
१,१२५.०५ तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥
१,१२५.०६ दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः ।
१,१२५.०६ दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥
१,१२५.०७ मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः ।
१,१२५.०७ अन्यस्तेषां परिधिरस्तु कश्चिदपृणन्तमभि सं यन्तु शोकाः ॥
१,१२६.०१ अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।
१,१२६.०१ यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥
१,१२६.०२ शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।
१,१२६.०२ शतं कक्षीवां असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥
१,१२६.०३ उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
१,१२६.०३ षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवां अभिपित्वे अह्नाम् ॥
१,१२६.०४ चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
१,१२६.०४ मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥
१,१२६.०५ पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्तां अष्टावरिधायसो गाः ।
१,१२६.०५ सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥
१,१२६.०६ आगधिता परिगधिता या कशीकेव जङ्गहे ।
१,१२६.०६ ददाति मह्यं यादुरी याशूनां भोज्या शता ॥
१,१२६.०७ उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
१,१२६.०७ सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ॥
१,१२७.०१ अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
१,१२७.०१ य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
१,१२७.०१ घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥
१,१२७.०२ यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
१,१२७.०२ परिज्मानमिव द्यां होतारं चर्षणीनाम् ।
१,१२७.०२ शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥
१,१२७.०३ स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
१,१२७.०३ वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
१,१२७.०३ निःषहमाणो यमते नायते धन्वासहा नायते ॥
१,१२७.०४ दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे ।
१,१२७.०४ प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा ।
१,१२७.०४ स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥
१,१२७.०५ तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् ।
१,१२७.०५ आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे ।
१,१२७.०५ भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥
१,१२७.०६ स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः ।
१,१२७.०६ आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा ।
१,१२७.०६ अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥
१,१२७.०७ द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः ।
१,१२७.०७ अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम् ।
१,१२७.०७ प्रियां अपिधींर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥
१,१२७.०८ विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे ।
१,१२७.०८ अतिथिं मानुषाणां पितुर्न यस्यासया ।
१,१२७.०८ अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥
१,१२७.०९ त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये ।
१,१२७.०९ शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
१,१२७.०९ अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥
१,१२७.१० प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये ।
१,१२७.१० प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे ।
१,१२७.१० अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥
१,१२७.११ स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना ।
१,१२७.११ महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै ।
१,१२७.११ महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा ॥
१,१२८.०१ अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् ।
१,१२८.०१ विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते ।
१,१२८.०१ अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥
१,१२८.०२ तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता ।
१,१२८.०२ स न ऊर्जामुपाभृत्यया कृपा न जूर्यति ।
१,१२८.०२ यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥
१,१२८.०३ एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् ।
१,१२८.०३ शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
१,१२८.०३ सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥
१,१२८.०४ स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति ।
१,१२८.०४ क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
१,१२८.०४ यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥
१,१२८.०५ क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या ।
१,१२८.०५ स हि ष्मा दानमिन्वति वसूनां च मज्मना ।
१,१२८.०५ स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥
१,१२८.०६ विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् ।
१,१२८.०६ विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे ।
१,१२८.०६ विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥
१,१२८.०७ स मानुषे वृजने शन्तमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः ।
१,१२८.०७ स हव्या मानुषाणामिळा कृतानि पत्यते ।
१,१२८.०७ स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥
१,१२८.०८ अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे ।
१,१२८.०८ विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
१,१२८.०८ देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥
१,१२९.०१ यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि ।
१,१२९.०१ सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम् ।
१,१२९.०१ सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम् ॥
१,१२९.०२ स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः ।
१,१२९.०२ यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता ।
१,१२९.०२ तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम् ॥
१,१२९.०३ दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम् ।
१,१२९.०३ इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे ।
१,१२९.०३ मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥
१,१२९.०४ अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम् ।
१,१२९.०४ अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित् ।
१,१२९.०४ नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥
१,१२९.०५ नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः ।
१,१२९.०५ नेषि णो यथा पुरानेनाः शूर मन्यसे ।
१,१२९.०५ विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥
१,१२९.०६ प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति ।
१,१२९.०६ स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् ।
१,१२९.०६ अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥
१,१२९.०७ वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् ।
१,१२९.०७ दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि ।
१,१२९.०७ आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः ॥
१,१२९.०८ प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम् ।
१,१२९.०८ स्वयं सा रिषयध्यै या न उपेषे अत्रैः ।
१,१२९.०८ हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति ॥
१,१२९.०९ त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्यरक्षसा ।
१,१२९.०९ सचस्व नः पराक आ सचस्वास्तमीक आ ।
१,१२९.०९ पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥
१,१२९.१० त्वं न इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे ।
१,१२९.१० ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य ।
१,१२९.१० अन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥
१,१२९.११ पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम् ।
१,१२९.११ हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः ।
१,१२९.११ अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥
१,१३०.०१ एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः ।
१,१३०.०१ हवामहे त्वा वयं प्रयस्वन्तः सुते सचा ।
१,१३०.०१ पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥
१,१३०.०२ पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः ।
१,१३०.०२ मदाय हर्यताय ते तुविष्टमाय धायसे ।
१,१३०.०२ आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् ॥
१,१३०.०३ अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि ।
१,१३०.०३ व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः ।
१,१३०.०३ अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥
१,१३०.०४ दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् ।
१,१३०.०४ संविव्यान ओजसा शवोभिरिन्द्र मज्मना ।
१,१३०.०४ तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥
१,१३०.०५ त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथां इव वाजयतो रथां इव ।
१,१३०.०५ इत ऊतीरयुञ्जत समानमर्थमक्षितम् ।
१,१३०.०५ धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥
१,१३०.०६ इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः ।
१,१३०.०६ शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् ।
१,१३०.०६ अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥
१,१३०.०७ भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो ।
१,१३०.०७ अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत् ।
१,१३०.०७ महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥
१,१३०.०८ इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु ।
१,१३०.०८ मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत् ।
१,१३०.०८ दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥
१,१३०.०९ सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीशान आ मुषायति ।
१,१३०.०९ उशना यत्परावतोऽजगन्नूतये कवे ।
१,१३०.०९ सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥
१,१३०.१० स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः ।
१,१३०.१० दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥
१,१३१.०१ इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः ।
१,१३१.०१ इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः ।
१,१३१.०१ इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥
१,१३१.०२ विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् ।
१,१३१.०२ तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
१,१३१.०२ इन्द्रं न यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः ॥
१,१३१.०३ वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
१,१३१.०३ यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
१,१३१.०३ आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥
१,१३१.०४ विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
१,१३१.०४ शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते ।
१,१३१.०४ महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥
१,१३१.०५ आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ ।
१,१३१.०५ चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
१,१३१.०५ ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥
१,१३१.०६ उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
१,१३१.०६ यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि ।
१,१३१.०६ आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥
१,१३१.०७ त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् ।
१,१३१.०७ जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।
१,१३१.०७ रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ॥
१,१३२.०१ त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः ।
१,१३२.०१ नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते ।
१,१३२.०१ अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥
१,१३२.०२ स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि ।
१,१३२.०२ अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः ।
१,१३२.०२ अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥
१,१३२.०३ तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् ।
१,१३२.०३ वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः ।
१,१३२.०३ स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥
१,१३२.०४ नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् ।
१,१३२.०४ ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
१,१३२.०४ सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥
१,१३२.०५ सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः ।
१,१३२.०५ तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा ।
१,१३२.०५ इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ॥
१,१३२.०६ युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् ।
१,१३२.०६ दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् ।
१,१३२.०६ अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥
१,१३३.०१ उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः ।
१,१३३.०१ अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥
१,१३३.०२ अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् ।
१,१३३.०२ छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥
१,१३३.०३ अवासां मघवञ्जहि शर्धो यातुमतीनाम् ।
१,१३३.०३ वैलस्थानके अर्मके महावैलस्थे अर्मके ॥
१,१३३.०४ यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः ।
१,१३३.०४ तत्सु ते मनायति तकत्सु ते मनायति ॥
१,१३३.०५ पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण ।
१,१३३.०५ सर्वं रक्षो नि बर्हय ॥
१,१३३.०६ अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान्न भीषां अद्रिवः ।
१,१३३.०६ शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे ।
१,१३३.०६ अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥
१,१३३.०७ वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
१,१३३.०७ सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
१,१३३.०७ सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥
१,१३४.०१ आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
१,१३४.०१ ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।
१,१३४.०१ नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥
१,१३४.०२ मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
१,१३४.०२ यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
१,१३४.०२ सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥
१,१३४.०३ वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
१,१३४.०३ प्र बोधया पुरन्धिं जार आ ससतीमिव ।
१,१३४.०३ प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥
१,१३४.०४ तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
१,१३४.०४ तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
१,१३४.०४ अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥
१,१३४.०५ तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि ।
१,१३४.०५ त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
१,१३४.०५ त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥
१,१३४.०६ त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।
१,१३४.०६ उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
१,१३४.०६ विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥
१,१३५.०१ स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते ।
१,१३५.०१ तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे ।
१,१३५.०१ प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥
१,१३५.०२ तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति ।
१,१३५.०२ तवायं भाग आयुषु सोमो देवेषु हूयते ।
१,१३५.०२ वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥
१,१३५.०३ आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये ।
१,१३५.०३ तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा ।
१,१३५.०३ अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥
१,१३५.०४ आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये ।
१,१३५.०४ पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् ।
१,१३५.०४ वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥
१,१३५.०५ आ वां धियो ववृत्युरध्वरां उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम् ।
१,१३५.०५ तेषां पिबतमस्मयू आ नो गन्तमिहोत्या ।
१,१३५.०५ इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥
१,१३५.०६ इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ।
१,१३५.०६ एते वामभ्यसृक्षत तिरः पवित्रमाशवः ।
१,१३५.०६ युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥
१,१३५.०७ अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम् ।
१,१३५.०७ वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥
१,१३५.०८ अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः ।
१,१३५.०८ साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥
१,१३५.०९ इमे ये ते सु वायो बाह्वोजसोऽन्तर्नदी ते पतयन्त्युक्षणो महि व्राधन्त उक्षणः ।
१,१३५.०९ धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः ।
१,१३५.०९ सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ॥
१,१३६.०१ प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् ।
१,१३६.०१ ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।
१,१३६.०१ अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥
१,१३६.०२ अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः ।
१,१३६.०२ द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च ।
१,१३६.०२ अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥
१,१३६.०३ ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे ।
१,१३६.०३ ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती ।
१,१३६.०३ मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥
१,१३६.०४ अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः ।
१,१३६.०४ तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
१,१३६.०४ तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥
१,१३६.०५ यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः ।
१,१३६.०५ तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् ।
१,१३६.०५ उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥
१,१३६.०६ नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।
१,१३६.०६ इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् ।
१,१३६.०६ ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥
१,१३६.०७ ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः ।
१,१३६.०७ अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥
१,१३७.०१ सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे ।
१,१३७.०१ आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः ।
१,१३७.०१ इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥
१,१३७.०२ इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः ।
१,१३७.०२ उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः ।
१,१३७.०२ सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये ॥
१,१३७.०३ तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः ।
१,१३७.०३ अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये ।
१,१३७.०३ अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥
१,१३८.०१ प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते ।
१,१३८.०१ अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् ।
१,१३८.०१ विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥
१,१३८.०२ प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः ।
१,१३८.०२ हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः ।
१,१३८.०२ अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥
१,१३८.०३ यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे ।
१,१३८.०३ तामनु त्वा नवीयसीं नियुतं राय ईमहे ।
१,१३८.०३ अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥
१,१३८.०४ अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवां अजाश्व श्रवस्यतामजाश्व ।
१,१३८.०४ ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः ।
१,१३८.०४ नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥
१,१३९.०१ अस्तु श्रौषट्पुरो अग्नीं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
१,१३९.०१ यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी ।
१,१३९.०१ अध प्र सू न उप यन्तु धीतयो देवां अच्छा न धीतयः ॥
१,१३९.०२ यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना ।
१,१३९.०२ युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् ।
१,१३९.०२ धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥
१,१३९.०३ युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः ।
१,१३९.०३ युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा ।
१,१३९.०३ प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥
१,१३९.०४ अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु ।
१,१३९.०४ अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये ।
१,१३९.०४ पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥
१,१३९.०५ शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् ।
१,१३९.०५ मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥
१,१३९.०६ वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः ।
१,१३९.०६ ते त्वा मन्दन्तु दावने महे चित्राय राधसे ।
१,१३९.०६ गीर्भिर्गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥
१,१३९.०७ ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः ।
१,१३९.०७ यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन ।
१,१३९.०७ वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥
१,१३९.०८ मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
१,१३९.०८ यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
१,१३९.०८ अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥
१,१३९.०९ दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः ।
१,१३९.०९ तेषां देवेष्वायतिरस्माकं तेषु नाभयः ।
१,१३९.०९ तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥
१,१३९.१० होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः ।
१,१३९.१० जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना ।
१,१३९.१० अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥
१,१३९.११ ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।
१,१३९.११ अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥
१,१४०.०१ वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये ।
१,१४०.०१ वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥
१,१४०.०२ अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः ।
१,१४०.०२ अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥
१,१४०.०३ कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् ।
१,१४०.०३ प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥
१,१४०.०४ मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।
१,१४०.०४ असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥
१,१४०.०५ आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ।
१,१४०.०५ यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत् ॥
१,१४०.०६ भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् ।
१,१४०.०६ ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥
१,१४०.०७ स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये ।
१,१४०.०७ पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥
१,१४०.०८ तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः ।
१,१४०.०८ तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥
१,१४०.०९ अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः ।
१,१४०.०९ वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥
१,१४०.१० अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः ।
१,१४०.१० अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥
१,१४०.११ इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते ।
१,१४०.११ यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥
१,१४०.१२ रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने ।
१,१४०.१२ अस्माकं वीरां उत नो मघोनो जनांश्च या पारयाच्छर्म या च ॥
१,१४०.१३ अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः ।
१,१४०.१३ गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥
१,१४१.०१ बळ् इत्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
१,१४१.०१ यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥
१,१४१.०२ पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।
१,१४१.०२ तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥
१,१४१.०३ निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
१,१४१.०३ यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥
१,१४१.०४ प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
१,१४१.०४ उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥
१,१४१.०५ आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।
१,१४१.०५ अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥
१,१४१.०६ आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते ।
१,१४१.०६ देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥
१,१४१.०७ वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।
१,१४१.०७ तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥
१,१४१.०८ रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते ।
१,१४१.०८ आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥
१,१४१.०९ त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।
१,१४१.०९ यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥
१,१४१.१० त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।
१,१४१.१० तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥
१,१४१.११ अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् ।
१,१४१.११ रश्मींरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥
१,१४१.१२ उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः ।
१,१४१.१२ स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥
१,१४१.१३ अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः ।
१,१४१.१३ अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥
१,१४२.०१ समिद्धो अग्न आ वह देवां अद्य यतस्रुचे ।
१,१४२.०१ तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥
१,१४२.०२ घृतवन्तमुप मासि मधुमन्तं तनूनपात् ।
१,१४२.०२ यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥
१,१४२.०३ शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति ।
१,१४२.०३ नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥
१,१४२.०४ ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
१,१४२.०४ इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥
१,१४२.०५ स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे ।
१,१४२.०५ वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥
१,१४२.०६ वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः ।
१,१४२.०६ पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥
१,१४२.०७ आ भन्दमाने उपाके नक्तोषासा सुपेशसा ।
१,१४२.०७ यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥
१,१४२.०८ मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।
१,१४२.०८ यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥
१,१४२.०९ शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।
१,१४२.०९ इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥
१,१४२.१० तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना ।
१,१४२.१० त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥
१,१४२.११ अवसृजन्नुप त्मना देवान्यक्षि वनस्पते ।
१,१४२.११ अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥
१,१४२.१२ पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
१,१४२.१२ स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥
१,१४२.१३ स्वाहाकृतान्या गह्युप हव्यानि वीतये ।
१,१४२.१३ इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥
१,१४३.०१ प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।
१,१४३.०१ अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥
१,१४३.०२ स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने ।
१,१४३.०२ अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥
१,१४३.०३ अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।
१,१४३.०३ भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥
१,१४३.०४ यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।
१,१४३.०४ अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥
१,१४३.०५ न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।
१,१४३.०५ अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते ॥
१,१४३.०६ कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् ।
१,१४३.०६ चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥
१,१४३.०७ घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते ।
१,१४३.०७ इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥
१,१४३.०८ अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।
१,१४३.०८ अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥
१,१४४.०१ एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
१,१४४.०१ अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥
१,१४४.०२ अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।
१,१४४.०२ अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥
१,१४४.०३ युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः ।
१,१४४.०३ आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥
१,१४४.०४ यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
१,१४४.०४ दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥
१,१४४.०५ तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे ।
१,१४४.०५ धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥
१,१४४.०६ त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना ।
१,१४४.०६ एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥
१,१४४.०७ अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो ।
१,१४४.०७ यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमां इव क्षयः ॥
१,१४५.०१ तं पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्वीयते ।
१,१४५.०१ तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥
१,१४५.०२ तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
१,१४५.०२ न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥
१,१४५.०३ तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
१,१४५.०३ पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥
१,१४५.०४ उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
१,१४५.०४ अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥
१,१४५.०५ स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
१,१४५.०५ व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वां ऋतचिद्धि सत्यः ॥
१,१४६.०१ त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
१,१४६.०१ निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥
१,१४६.०२ उक्षा महां अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः ।
१,१४६.०२ उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥
१,१४६.०३ समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके ।
१,१४६.०३ अनपवृज्यां अध्वनो मिमाने विश्वान्केतां अधि महो दधाने ॥
१,१४६.०४ धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
१,१४६.०४ सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥
१,१४६.०५ दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
१,१४६.०५ पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥
१,१४७.०१ कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
१,१४७.०१ उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥
१,१४७.०२ बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
१,१४७.०२ पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥
१,१४७.०३ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
१,१४७.०३ ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥
१,१४७.०४ यो नो अग्ने अररिवां अघायुररातीवा मर्चयति द्वयेन ।
१,१४७.०४ मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥
१,१४७.०५ उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन ।
१,१४७.०५ अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥
१,१४८.०१ मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
१,१४८.०१ नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥
१,१४८.०२ ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् ।
१,१४८.०२ जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥
१,१४८.०३ नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः ।
१,१४८.०३ प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥
१,१४८.०४ पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा ।
१,१४८.०४ आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥
१,१४८.०५ न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
१,१४८.०५ अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥
१,१४९.०१ महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ ।
१,१४९.०१ उप ध्रजन्तमद्रयो विधन्नित् ॥
१,१४९.०२ स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः ।
१,१४९.०२ प्र यः सस्राणः शिश्रीत योनौ ॥
१,१४९.०३ आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा ।
१,१४९.०३ सूरो न रुरुक्वाञ्छतात्मा ॥
१,१४९.०४ अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।
१,१४९.०४ होता यजिष्ठो अपां सधस्थे ॥
१,१४९.०५ अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
१,१४९.०५ मर्तो यो अस्मै सुतुको ददाश ॥
१,१५०.०१ पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा ।
१,१५०.०१ तोदस्येव शरण आ महस्य ॥
१,१५०.०२ व्यनिनस्य धनिनः प्रहोषे चिदररुषः ।
१,१५०.०२ कदा चन प्रजिगतो अदेवयोः ॥
१,१५०.०३ स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि ।
१,१५०.०३ प्रप्रेत्ते अग्ने वनुषः स्याम ॥
१,१५१.०१ मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् ।
१,१५१.०१ अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः ॥
१,१५१.०२ यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः ।
१,१५१.०२ अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः ॥
१,१५१.०३ आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे ।
१,१५१.०३ यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥
१,१५१.०४ प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत् ।
१,१५१.०४ युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः ॥
१,१५१.०५ मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनवः ।
१,१५१.०५ स्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥
१,१५१.०६ आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः ।
१,१५१.०६ अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः ॥
१,१५१.०७ यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः ।
१,१५१.०७ उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥
१,१५१.०८ युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु ।
१,१५१.०८ भरन्ति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे ॥
१,१५१.०९ रेवद्वयो दधाथे रेवदाशाथे नरा मायाभिरितऊति माहिनम् ।
१,१५१.०९ न वां द्यावोऽहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम् ॥
१,१५२.०१ युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः ।
१,१५२.०१ अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥
१,१५२.०२ एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त ऋघावान् ।
१,१५२.०२ त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥
१,१५२.०३ अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
१,१५२.०३ गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥
१,१५२.०४ प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम् ।
१,१५२.०४ अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥
१,१५२.०५ अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः ।
१,१५२.०५ अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥
१,१५२.०६ आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन् ।
१,१५२.०६ पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् ॥
१,१५२.०७ आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम् ।
१,१५२.०७ अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥
१,१५३.०१ यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः ।
१,१५३.०१ घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ॥
१,१५३.०२ प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः ।
१,१५३.०२ अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥
१,१५३.०३ पीपाय धेनुरदितिरृताय जनाय मित्रावरुणा हविर्दे ।
१,१५३.०३ हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता ॥
१,१५३.०४ उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः ।
१,१५३.०४ उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥
१,१५४.०१ विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
१,१५४.०१ यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥
१,१५४.०२ प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
१,१५४.०२ यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥
१,१५४.०३ प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
१,१५४.०३ य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥
१,१५४.०४ यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।
१,१५४.०४ य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥
१,१५४.०५ तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
१,१५४.०५ उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥
१,१५४.०६ ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।
१,१५४.०६ अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥
१,१५५.०१ प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत ।
१,१५५.०१ या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥
१,१५५.०२ त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।
१,१५५.०२ या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥
१,१५५.०३ ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।
१,१५५.०३ दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥
१,१५५.०४ तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः ।
१,१५५.०४ यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥
१,१५५.०५ द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।
१,१५५.०५ तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥
१,१५५.०६ चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतींरवीविपत् ।
१,१५५.०६ बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥
१,१५६.०१ भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
१,१५६.०१ अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥
१,१५६.०२ यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
१,१५६.०२ यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥
१,१५६.०३ तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
१,१५६.०३ आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥
१,१५६.०४ तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
१,१५६.०४ दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥
१,१५६.०५ आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
१,१५६.०५ वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥
१,१५७.०१ अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा ।
१,१५७.०१ आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥
१,१५७.०२ यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
१,१५७.०२ अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥
१,१५७.०३ अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
१,१५७.०३ त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥
१,१५७.०४ आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् ।
१,१५७.०४ प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
१,१५७.०५ युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।
१,१५७.०५ युवमग्निं च वृषणावपश्च वनस्पतींरश्विनावैरयेथाम् ॥
१,१५७.०६ युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः ।
१,१५७.०६ अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥
१,१५८.०१ वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ ।
१,१५८.०१ दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती ॥
१,१५८.०२ को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः ।
१,१५८.०२ जिगृतमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ॥
१,१५८.०३ युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः ।
१,१५८.०३ उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥
१,१५८.०४ उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् ।
१,१५८.०४ मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥
१,१५८.०५ न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः ।
१,१५८.०५ शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥
१,१५८.०६ दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे ।
१,१५८.०६ अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥
१,१५९.०१ प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा ।
१,१५९.०१ देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥
१,१५९.०२ उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः ।
१,१५९.०२ सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥
१,१५९.०३ ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये ।
१,१५९.०३ स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥
१,१५९.०४ ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।
१,१५९.०४ नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥
१,१५९.०५ तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे ।
१,१५९.०५ अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥
१,१६०.०१ ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी ।
१,१६०.०१ सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥
१,१६०.०२ उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः ।
१,१६०.०२ सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥
१,१६०.०३ स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया ।
१,१६०.०३ धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥
१,१६०.०४ अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा ।
१,१६०.०४ वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः समानृचे ॥
१,१६०.०५ ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् ।
१,१६०.०५ येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम् ॥
१,१६१.०१ किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते दूत्यं कद्यदूचिम ।
१,१६१.०१ न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥
१,१६१.०२ एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम् ।
१,१६१.०२ सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥
१,१६१.०३ अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः ।
१,१६१.०३ धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि ॥
१,१६१.०४ चकृवांस ऋभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन् ।
१,१६१.०४ यदावाख्यच्चमसाञ्चतुरः कृतानादित्त्वष्टा ग्नास्वन्तर्न्यानजे ॥
१,१६१.०५ हनामैनां इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः ।
१,१६१.०५ अन्या नामानि कृण्वते सुते सचां अन्यैरेनान्कन्या नामभि स्परत् ॥
१,१६१.०६ इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत ।
१,१६१.०६ ऋभुर्विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियं भागमैतन ॥
१,१६१.०७ निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन ।
१,१६१.०७ सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवां अयातन ॥
१,१६१.०८ इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् ।
१,१६१.०८ सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥
१,१६१.०९ आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् ।
१,१६१.०९ वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसां अपिंशत ॥
१,१६१.१० श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् ।
१,१६१.१० आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः ॥
१,१६१.११ उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः स्वपस्यया नरः ।
१,१६१.११ अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ ॥
१,१६१.१२ सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः ।
१,१६१.१२ अशपत यः करस्नं व आददे यः प्राब्रवीत्प्रो तस्मा अब्रवीतन ॥
१,१६१.१३ सुषुप्वांस ऋभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत् ।
१,१६१.१३ श्वानं बस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत ॥
१,१६१.१४ दिवा यान्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण याति ।
१,१६१.१४ अद्भिर्याति वरुणः समुद्रैर्युष्मां इच्छन्तः शवसो नपातः ॥
१,१६२.०१ मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् ।
१,१६२.०१ यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
१,१६२.०२ यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
१,१६२.०२ सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥
१,१६२.०३ एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
१,१६२.०३ अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥
१,१६२.०४ यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति ।
१,१६२.०४ अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥
१,१६२.०५ होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ।
१,१६२.०५ तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
१,१६२.०६ यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
१,१६२.०६ ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥
१,१६२.०७ उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः ।
१,१६२.०७ अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥
१,१६२.०८ यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य ।
१,१६२.०८ यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥
१,१६२.०९ यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।
१,१६२.०९ यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
१,१६२.१० यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
१,१६२.१० सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥
१,१६२.११ यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
१,१६२.११ मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥
१,१६२.१२ ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति ।
१,१६२.१२ ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥
१,१६२.१३ यन्नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
१,१६२.१३ ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥
१,१६२.१४ निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः ।
१,१६२.१४ यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥
१,१६२.१५ मा त्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः ।
१,१६२.१५ इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥
१,१६२.१६ यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै ।
१,१६२.१६ संदानमर्वन्तं पड्बीशं प्रिया देवेष्वा यामयन्ति ॥
१,१६२.१७ यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
१,१६२.१७ स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
१,१६२.१८ चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति ।
१,१६२.१८ अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त ॥
१,१६२.१९ एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथ ऋतुः ।
१,१६२.१९ या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥
१,१६२.२० मा त्वा तपत्प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आ तिष्ठिपत्ते ।
१,१६२.२० मा ते गृध्नुरविशस्तातिहाय छिद्रा गात्राण्यसिना मिथू कः ॥
१,१६२.२१ न वा उ एतन्म्रियसे न रिष्यसि देवां इदेषि पथिभिः सुगेभिः ।
१,१६२.२१ हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥
१,१६२.२२ सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्रां उत विश्वापुषं रयिम् ।
१,१६२.२२ अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥
१,१६३.०१ यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् ।
१,१६३.०१ श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥
१,१६३.०२ यमेन दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् ।
१,१६३.०२ गन्धर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥
१,१६३.०३ असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन ।
१,१६३.०३ असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि ॥
१,१६३.०४ त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे ।
१,१६३.०४ उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥
१,१६३.०५ इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना ।
१,१६३.०५ अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः ॥
१,१६३.०६ आत्म
ानं ते मनसारादजानामवो दिवा पतयन्तं पतङ्गम् ।
१,१६३.०६ शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥
१,१६३.०७ अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः ।
१,१६३.०७ यदा ते मर्तो अनु भोगमानळ् आदिद्ग्रसिष्ठ ओषधीरजीगः ॥
१,१६३.०८ अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनाम् ।
१,१६३.०८ अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥
१,१६३.०९ हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् ।
१,१६३.०९ देवा इदस्य हविरद्यमायन्यो अर्वन्तं प्रथमो अध्यतिष्ठत् ॥
१,१६३.१० ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः ।
१,१६३.१० हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥
१,१६३.११ तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् ।
१,१६३.११ तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
१,१६३.१२ उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः ।
१,१६३.१२ अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥
१,१६३.१३ उप प्रागात्परमं यत्सधस्थमर्वां अच्छा पितरं मातरं च ।
१,१६३.१३ अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥
१,१६४.०१ अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
१,१६४.०१ तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥
१,१६४.०२ सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
१,१६४.०२ त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥
१,१६४.०३ इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
१,१६४.०३ सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥
१,१६४.०४ को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।
१,१६४.०४ भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् ॥
१,१६४.०५ पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि ।
१,१६४.०५ वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ ॥
१,१६४.०६ अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्मने न विद्वान् ।
१,१६४.०६ वि यस्तस्तम्भ षळ् इमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥
१,१६४.०७ इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।
१,१६४.०७ शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ॥
१,१६४.०८ माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे ।
१,१६४.०८ सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥
१,१६४.०९ युक्ता मातासीद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः ।
१,१६४.०९ अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योजनेषु ॥
१,१६४.१० तिस्रो मातॄस्त्रीन्पितॄन्बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति ।
१,१६४.१० मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥
१,१६४.११ द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
१,१६४.११ आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥
१,१६४.१२ पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
१,१६४.१२ अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम् ॥
१,१६४.१३ पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा ।
१,१६४.१३ तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥
१,१६४.१४ सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति ।
१,१६४.१४ सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥
१,१६४.१५ साकञ्जानां सप्तथमाहुरेकजं षळ् इद्यमा ऋषयो देवजा इति ।
१,१६४.१५ तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥
१,१६४.१६ स्त्रियः सतीस्तां उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः ।
१,१६४.१६ कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् ॥
१,१६४.१७ अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।
१,१६४.१७ सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः ॥
१,१६४.१८ अवः परेण पितरं यो अस्यानुवेद पर एनावरेण ।
१,१६४.१८ कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥
१,१६४.१९ ये अर्वाञ्चस्तां उ पराच आहुर्ये पराञ्चस्तां उ अर्वाच आहुः ।
१,१६४.१९ इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥
१,१६४.२० द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।
१,१६४.२० तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥
१,१६४.२१ यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति ।
१,१६४.२१ इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥
१,१६४.२२ यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
१,१६४.२२ तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद ॥
१,१६४.२३ यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत ।
१,१६४.२३ यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥
१,१६४.२४ गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
१,१६४.२४ वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥
१,१६४.२५ जगता सिन्धुं दिव्यस्तभायद्रथन्तरे सूर्यं पर्यपश्यत् ।
१,१६४.२५ गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥
१,१६४.२६ उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
१,१६४.२६ श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥
१,१६४.२७ हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
१,१६४.२७ दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
१,१६४.२८ गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ ।
१,१६४.२८ सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥
१,१६४.२९ अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता ।
१,१६४.२९ सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥
१,१६४.३० अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।
१,१६४.३० जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥
१,१६४.३१ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
१,१६४.३१ स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥
१,१६४.३२ य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् ।
१,१६४.३२ स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिमा विवेश ॥
१,१६४.३३ द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् ।
१,१६४.३३ उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥
१,१६४.३४ पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
१,१६४.३४ पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
१,१६४.३५ इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः ।
१,१६४.३५ अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥
१,१६४.३६ सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
१,१६४.३६ ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥
१,१६४.३७ न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
१,१६४.३७ यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥
१,१६४.३८ अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
१,१६४.३८ ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥
१,१६४.३९ ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
१,१६४.३९ यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥
१,१६४.४० सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम ।
१,१६४.४० अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥
१,१६४.४१ गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
१,१६४.४१ अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
१,१६४.४२ तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः ।
१,१६४.४२ ततः क्षरत्यक्षरं तद्विश्वमुप जीवति ॥
१,१६४.४३ शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।
१,१६४.४३ उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥
१,१६४.४४ त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
१,१६४.४४ विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥
१,१६४.४५ चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
१,१६४.४५ गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥
१,१६४.४६ इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
१,१६४.४६ एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
१,१६४.४७ कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
१,१६४.४७ त आववृत्रन्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥
१,१६४.४८ द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
१,१६४.४८ तस्मिन्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ॥
१,१६४.४९ यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।
१,१६४.४९ यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥
१,१६४.५० यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
१,१६४.५० ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
१,१६४.५१ समानमेतदुदकमुच्चैत्यव चाहभिः ।
१,१६४.५१ भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥
१,१६४.५२ दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् ।
१,१६४.५२ अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥
१,१६५.०१ कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः ।
१,१६५.०१ कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥
१,१६५.०२ कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त ।
१,१६५.०२ श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥
१,१६५.०३ कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था ।
१,१६५.०३ सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥
१,१६५.०४ ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
१,१६५.०४ आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥
१,१६५.०५ अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः ।
१,१६५.०५ महोभिरेतां उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥
१,१६५.०६ क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये ।
१,१६५.०६ अहं ह्युग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः ॥
१,१६५.०७ भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः ।
१,१६५.०७ भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥
१,१६५.०८ वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
१,१६५.०८ अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥
१,१६५.०९ अनुत्तमा ते मघवन्नकिर्नु न त्वावां अस्ति देवता विदानः ।
१,१६५.०९ न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥
१,१६५.१० एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ।
१,१६५.१० अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥
१,१६५.११ अमन्दन्मा मरुत स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र ।
१,१६५.११ इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥
१,१६५.१२ एवेदेते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः ।
१,१६५.१२ संचक्ष्या मरुतश्चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥
१,१६५.१३ को न्वत्र मरुतो मामहे वः प्र यातन सखींरच्छा सखायः ।
१,१६५.१३ मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥
१,१६५.१४ आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा ।
१,१६५.१४ ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥
१,१६५.१५ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
१,१६५.१५ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥
१,१६६.०१ तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे ।
१,१६६.०१ ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥
१,१६६.०२ नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः ।
१,१६६.०२ नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥
१,१६६.०३ यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे ।
१,१६६.०३ उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥
१,१६६.०४ आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् ।
१,१६६.०४ भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥
१,१६६.०५ यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः ।
१,१६६.०५ विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥
१,१६६.०६ यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन ।
१,१६६.०६ यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥
१,१६६.०७ प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः ।
१,१६६.०७ अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥
१,१६६.०८ शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत ।
१,१६६.०८ जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु ॥
१,१६६.०९ विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता ।
१,१६६.०९ अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते ॥
१,१६६.१० भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः ।
१,१६६.१० अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे ॥
१,१६६.११ महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः ।
१,१६६.११ मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥
१,१६६.१२ तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम् ।
१,१६६.१२ इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम् ॥
१,१६६.१३ तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत ।
१,१६६.१३ अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥
१,१६६.१४ येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः ।
१,१६६.१४ आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम् ॥
१,१६६.१५ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
१,१६६.१५ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥
१,१६७.०१ सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः ।
१,१६७.०१ सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥
१,१६७.०२ आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः ।
१,१६७.०२ अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥
१,१६७.०३ मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः ।
१,१६७.०३ गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥
१,१६७.०४ परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।
१,१६७.०४ न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥
१,१६७.०५ जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः ।
१,१६७.०५ आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या ॥
१,१६७.०६ आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् ।
१,१६७.०६ अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥
१,१६७.०७ प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति ।
१,१६७.०७ सचा यदीं वृषमणा अहंयु स्थिरा चिज्जनीर्वहते सुभागाः ॥
१,१६७.०८ पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् ।
१,१६७.०८ उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥
१,१६७.०९ नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः ।
१,१६७.०९ ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥
१,१६७.१० वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये ।
१,१६७.१० वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥
१,१६७.११ एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
१,१६७.११ एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥
१,१६८.०१ यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे ।
१,१६८.०१ आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः ॥
१,१६८.०२ वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः ।
१,१६८.०२ सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥
१,१६८.०३ सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते ।
१,१६८.०३ ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे ॥
१,१६८.०४ अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना ।
१,१६८.०४ अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः ॥
१,१६८.०५ को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया ।
१,१६८.०५ धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥
१,१६८.०६ क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय ।
१,१६८.०६ यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम् ॥
१,१६८.०७ सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती ।
१,१६८.०७ भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥
१,१६८.०८ प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति ।
१,१६८.०८ अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति ॥
१,१६८.०९ असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम् ।
१,१६८.०९ ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् ॥
१,१६८.१० एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
१,१६८.१० एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥
१,१६९.०१ महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता ।
१,१६९.०१ स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा ॥
१,१६९.०२ अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा ।
१,१६९.०२ मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥
१,१६९.०३ अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति ।
१,१६९.०३ अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥
१,१६९.०४ त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् ।
१,१६९.०४ स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥
१,१६९.०५ त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः ।
१,१६९.०५ ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥
१,१६९.०६ प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व ।
१,१६९.०६ अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥
१,१६९.०७ प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः ।
१,१६९.०७ ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः ॥
१,१६९.०८ त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
१,१६९.०८ स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम् ॥
१,१७०.०१ न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् ।
१,१७०.०१ अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥
१,१७०.०२ किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ।
१,१७०.०२ तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥
१,१७०.०३ किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे ।
१,१७०.०३ विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि ॥
१,१७०.०४ अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः ।
१,१७०.०४ तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥
१,१७०.०५ त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः ।
१,१७०.०५ इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥
१,१७१.०१ प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् ।
१,१७१.०१ रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् ॥
१,१७१.०२ एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः ।
१,१७१.०२ उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥
१,१७१.०३ स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः ।
१,१७१.०३ ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥
१,१७१.०४ अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः ।
१,१७१.०४ युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥
१,१७१.०५ येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् ।
१,१७१.०५ स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥
१,१७१.०६ त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः ।
१,१७१.०६ सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥
१,१७२.०१ चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः ।
१,१७२.०१ मरुतो अहिभानवः ॥
१,१७२.०२ आरे सा वः सुदानवो मरुत ऋञ्जती शरुः ।
१,१७२.०२ आरे अश्मा यमस्यथ ॥
१,१७२.०३ तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः ।
१,१७२.०३ ऊर्ध्वान्नः कर्त जीवसे ॥
१,१७३.०१ गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् ।
१,१७३.०१ गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥
१,१७३.०२ अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात् ।
१,१७३.०२ प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥
१,१७३.०३ नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः ।
१,१७३.०३ क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक् ॥
१,१७३.०४ ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते ।
१,१७३.०४ जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥
१,१७३.०५ तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः ।
१,१७३.०५ प्रतीचश्चिद्योधीयान्वृषण्वान्ववव्रुषश्चित्तमसो विहन्ता ॥
१,१७३.०६ प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै ।
१,१७३.०६ सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशमिव द्याम् ॥
१,१७३.०७ समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै ।
१,१७३.०७ सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः ॥
१,१७३.०८ एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः ।
१,१७३.०८ विश्वा ते अनु जोष्या भूद्गौः सूरींश्चिद्यदि धिषा वेषि जनान् ॥
१,१७३.०९ असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः ।
१,१७३.०९ असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था ॥
१,१७३.१० विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः ।
१,१७३.१० मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥
१,१७३.११ यज्ञो हि ष्मेन्द्रं कश्चिदृन्धञ्जुहुराणश्चिन्मनसा परियन् ।
१,१७३.११ तीर्थे नाच्छा तातृषाणमोको दीर्घो न सिध्रमा कृणोत्यध्वा ॥
१,१७३.१२ मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः ।
१,१७३.१२ महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
१,१७३.१३ एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः ।
१,१७३.१३ आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥
१,१७४.०१ त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान् ।
१,१७४.०१ त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥
१,१७४.०२ दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त् ।
१,१७४.०२ ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः ॥
१,१७४.०३ अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम् ।
१,१७४.०३ रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥
१,१७४.०४ शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना ।
१,१७४.०४ सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥
१,१७४.०५ वह कुत्समिन्द्र यस्मिञ्चाकन्स्यूमन्यू ऋज्रा वातस्याश्वा ।
१,१७४.०५ प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥
१,१७४.०६ जघन्वां इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् ।
१,१७४.०६ प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम् ॥
१,१७४.०७ रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः ।
१,१७४.०७ करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत् ॥
१,१७४.०८ सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः ।
१,१७४.०८ भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥
१,१७४.०९ त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
१,१७४.०९ प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥
१,१७४.१० त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता ।
१,१७४.१० स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥
१,१७५.०१ मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
१,१७५.०१ वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥
१,१७५.०२ आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
१,१७५.०२ सहावां इन्द्र सानसिः पृतनाषाळ् अमर्त्यः ॥
१,१७५.०३ त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
१,१७५.०३ सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥
१,१७५.०४ मुषाय सूर्यं कवे चक्रमीशान ओजसा ।
१,१७५.०४ वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥
१,१७५.०५ शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
१,१७५.०५ वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥
१,१७५.०६ यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
१,१७५.०६ तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥
१,१७६.०१ मत्सि नो वस्यैष्टय इन्द्रमिन्दो वृषा विश ।
१,१७६.०१ ऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि ॥
१,१७६.०२ तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम् ।
१,१७६.०२ अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥
१,१७६.०३ यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु ।
१,१७६.०३ स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥
१,१७६.०४ असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
१,१७६.०४ अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥
१,१७६.०५ आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् ।
१,१७६.०५ आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥
१,१७६.०६ यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
१,१७६.०६ तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥
१,१७७.०१ आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।
१,१७७.०१ स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् ॥
१,१७७.०२ ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः ।
१,१७७.०२ तां आ तिष्ठ तेभिरा याह्यर्वाङ्हवामहे त्वा सुत इन्द्र सोमे ॥
१,१७७.०३ आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि ।
१,१७७.०३ युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥
१,१७७.०४ अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोमः ।
१,१७७.०४ स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥
१,१७७.०५ ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः ।
१,१७७.०५ विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥
१,१७८.०१ यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती ।
१,१७८.०१ मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥
१,१७८.०२ न घा राजेन्द्र आ दभन्नो या नु स्वसारा कृणवन्त योनौ ।
१,१७८.०२ आपश्चिदस्मै सुतुका अवेषन्गमन्न इन्द्रः सख्या वयश्च ॥
१,१७८.०३ जेता नृभिरिन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः ।
१,१७८.०३ प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥
१,१७८.०४ एवा नृभिरिन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् ।
१,१७८.०४ समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥
१,१७८.०५ त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान् ।
१,१७८.०५ त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥
१,१७९.०१ पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः ।
१,१७९.०१ मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥
१,१७९.०२ ये चिद्धि पूर्व ऋतसाप आसन्साकं देवेभिरवदन्नृतानि ।
१,१७९.०२ ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥
१,१७९.०३ न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव ।
१,१७९.०३ जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥
१,१७९.०४ नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् ।
१,१७९.०४ लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥
१,१७९.०५ इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे ।
१,१७९.०५ यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥
१,१७९.०६ अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः ।
१,१७९.०६ उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥
१,१८०.०१ युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् ।
१,१८०.०१ हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥
१,१८०.०२ युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः ।
१,१८०.०२ स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ॥
१,१८०.०३ युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः ।
१,१८०.०३ अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान् ॥
१,१८०.०४ युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे ।
१,१८०.०४ तद्वां नरावश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥
१,१८०.०५ आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः ।
१,१८०.०५ अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥
१,१८०.०६ नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् ।
१,१८०.०६ प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम् ॥
१,१८०.०७ वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् ।
१,१८०.०७ अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥
१,१८०.०८ युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ ।
१,१८०.०८ अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः ॥
१,१८०.०९ प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता ।
१,१८०.०९ धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥
१,१८०.१० तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् ।
१,१८०.१० अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम् ॥
१,१८१.०१ कदु प्रेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् ।
१,१८१.०१ अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥
१,१८१.०२ आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।
१,१८१.०२ मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥
१,१८१.०३ आ वां रथोऽवनिर्न प्रवत्वान्सृप्रवन्धुरः सुविताय गम्याः ।
१,१८१.०३ वृष्ण स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः ॥
१,१८१.०४ इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः ।
१,१८१.०४ जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥
१,१८१.०५ प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः ।
१,१८१.०५ हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ॥
१,१८१.०६ प्र वां शरद्वान्वृषभो न निष्षाट्पूर्वीरिषश्चरति मध्व इष्णन् ।
१,१८१.०६ एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ॥
१,१८१.०७ असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरन्ती ।
१,१८१.०७ उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे ॥
१,१८१.०८ उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् ।
१,१८१.०८ वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन् ॥
१,१८१.०९ युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान् ।
१,१८१.०९ हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥
१,१८२.०१ अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः ।
१,१८२.०१ धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥
१,१८२.०२ इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा ।
१,१८२.०२ पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥
१,१८२.०३ किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते ।
१,१८२.०३ अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥
१,१८२.०४ जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना ।
१,१८२.०४ वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम ॥
१,१८२.०५ युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् ।
१,१८२.०५ येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥
१,१८२.०६ अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् ।
१,१८२.०६ चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥
१,१८२.०७ कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् ।
१,१८२.०७ पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥
१,१८२.०८ तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् ।
१,१८२.०८ अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम् ॥
१,१८३.०१ तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः ।
१,१८३.०१ येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥
१,१८३.०२ सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे ।
१,१८३.०२ वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥
१,१८३.०३ आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् ।
१,१८३.०३ येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥
१,१८३.०४ मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम् ।
१,१८३.०४ अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम् ॥
१,१८३.०५ युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् ।
१,१८३.०५ दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम् ॥
१,१८३.०६ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
१,१८३.०६ एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥
१,१८४.०१ ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः ।
१,१८४.०१ नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥
१,१८४.०२ अस्मे ऊ षु वृषणा मादयेथामुत्पणींर्हतमूर्म्या मदन्ता ।
१,१८४.०२ श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥
१,१८४.०३ श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः ।
१,१८४.०३ वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥
१,१८४.०४ अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः ।
१,१८४.०४ अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥
१,१८४.०५ एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति ।
१,१८४.०५ यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥
१,१८४.०६ अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
१,१८४.०६ एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥
१,१८५.०१ कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद ।
१,१८५.०१ विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥
१,१८५.०२ भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते ।
१,१८५.०२ नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०३ अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् ।
१,१८५.०३ तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०४ अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे ।
१,१८५.०४ उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०५ संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे ।
१,१८५.०५ अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०६ उर्वी सद्मनी बृहती ऋतेन हुवे देवानामवसा जनित्री ।
१,१८५.०६ दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०७ उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् ।
१,१८५.०७ दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०८ देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा ।
१,१८५.०८ इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
१,१८५.०९ उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम् ।
१,१८५.०९ भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥
१,१८५.१० ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः ।
१,१८५.१० पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः ॥
१,१८५.११ इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम् ।
१,१८५.११ भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम् ॥
१,१८६.०१ आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु ।
१,१८६.०१ अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥
१,१८६.०२ आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः ।
१,१८६.०२ भुवन्यथा नो विश्वे वृधासः करन्सुषाहा विथुरं न शवः ॥
१,१८६.०३ प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः ।
१,१८६.०३ असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥
१,१८६.०४ उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।
१,१८६.०४ समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन् ॥
१,१८६.०५ उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः ।
१,१८६.०५ येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥
१,१८६.०६ उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः ।
१,१८६.०६ आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥
१,१८६.०७ उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति ।
१,१८६.०७ तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥
१,१८६.०८ उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदन्तु ।
१,१८६.०८ पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥
१,१८६.०९ प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति ।
१,१८६.०९ अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः ॥
१,१८६.१० प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति ।
१,१८६.१० अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥
१,१८६.११ इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः ।
१,१८६.११ नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥
१,१८७.०१ पितुं नु स्तोषं महो धर्माणं तविषीम् ।
१,१८७.०१ यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥
१,१८७.०२ स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
१,१८७.०२ अस्माकमविता भव ॥
१,१८७.०३ उप नः पितवा चर शिवः शिवाभिरूतिभिः ।
१,१८७.०३ मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥
१,१८७.०४ तव त्ये पितो रसा रजांस्यनु विष्ठिताः ।
१,१८७.०४ दिवि वाता इव श्रिताः ॥
१,१८७.०५ तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो ।
१,१८७.०५ प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥
१,१८७.०६ त्वे पितो महानां देवानां मनो हितम् ।
१,१८७.०६ अकारि चारु केतुना तवाहिमवसावधीत् ॥
१,१८७.०७ यददो पितो अजगन्विवस्व पर्वतानाम् ।
१,१८७.०७ अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥
१,१८७.०८ यदपामोषधीनां परिंशमारिशामहे ।
१,१८७.०८ वातापे पीव इद्भव ॥
१,१८७.०९ यत्ते सोम गवाशिरो यवाशिरो भजामहे ।
१,१८७.०९ वातापे पीव इद्भव ॥
१,१८७.१० करम्भ ओषधे भव पीवो वृक्क उदारथिः ।
१,१८७.१० वातापे पीव इद्भव ॥
१,१८७.११ तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम ।
१,१८७.११ देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ॥
१,१८८.०१ समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
१,१८८.०१ दूतो हव्या कविर्वह ॥
१,१८८.०२ तनूनपादृतं यते मध्वा यज्ञः समज्यते ।
१,१८८.०२ दधत्सहस्रिणीरिषः ॥
१,१८८.०३ आजुह्वानो न ईड्यो देवां आ वक्षि यज्ञियान् ।
१,१८८.०३ अग्ने सहस्रसा असि ॥
१,१८८.०४ प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् ।
१,१८८.०४ यत्रादित्या विराजथ ॥
१,१८८.०५ विराट्सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।
१,१८८.०५ दुरो घृतान्यक्षरन् ॥
१,१८८.०६ सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।
१,१८८.०६ उषासावेह सीदताम् ॥
१,१८८.०७ प्रथमा हि सुवाचसा होतारा दैव्या कवी ।
१,१८८.०७ यज्ञं नो यक्षतामिमम् ॥
१,१८८.०८ भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।
१,१८८.०८ ता नश्चोदयत श्रिये ॥
१,१८८.०९ त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे ।
१,१८८.०९ तेषां न स्फातिमा यज ॥
१,१८८.१० उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।
१,१८८.१० अग्निर्हव्यानि सिष्वदत् ॥
१,१८८.११ पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।
१,१८८.११ स्वाहाकृतीषु रोचते ॥
१,१८९.०१ अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
१,१८९.०१ युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥
१,१८९.०२ अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।
१,१८९.०२ पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
१,१८९.०३ अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।
१,१८९.०३ पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥
१,१८९.०४ पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् ।
१,१८९.०४ मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥
१,१८९.०५ मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै ।
१,१८९.०५ मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥
१,१८९.०६ वि घ त्वावां ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम् ।
१,१८९.०६ विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् ॥
१,१८९.०७ त्वं तां अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र ।
१,१८९.०७ अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥
१,१८९.०८ अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।
१,१८९.०८ वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥
१,१९०.०१ अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः ।
१,१९०.०१ गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥
१,१९०.०२ तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि ।
१,१९०.०२ बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥
१,१९०.०३ उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू ।
१,१९०.०३ अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥
१,१९०.०४ अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः ।
१,१९०.०४ मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायां अभि द्यून् ॥
१,१९०.०५ ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः ।
१,१९०.०५ न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम् ॥
१,१९०.०६ सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः ।
१,१९०.०६ अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः ॥
१,१९०.०७ सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः ।
१,१९०.०७ स विद्वां उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥
१,१९०.०८ एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः ।
१,१९०.०८ स न स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम् ॥
१,१९१.०१ कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः ।
१,१९१.०१ द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥
१,१९१.०२ अदृष्टान्हन्त्यायत्यथो हन्ति परायती ।
१,१९१.०२ अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ॥
१,१९१.०३ शरासः कुशरासो दर्भासः सैर्या उत ।
१,१९१.०३ मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥
१,१९१.०४ नि गावो गोष्ठे असदन्नि मृगासो अविक्षत ।
१,१९१.०४ नि केतवो जनानां न्यदृष्टा अलिप्सत ॥
१,१९१.०५ एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव ।
१,१९१.०५ अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥
१,१९१.०६ द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा ।
१,१९१.०६ अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम् ॥
१,१९१.०७ ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः ।
१,१९१.०७ अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥
१,१९१.०८ उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।
१,१९१.०८ अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च यातुधान्यः ॥
१,१९१.०९ उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् ।
१,१९१.०९ आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥
१,१९१.१० सूर्ये विषमा सजामि दृतिं सुरावतो गृहे ।
१,१९१.१० सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
१,१९१.११ इयत्तिका शकुन्तिका सका जघास ते विषम् ।
१,१९१.११ सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
१,१९१.१२ त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् ।
१,१९१.१२ ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
१,१९१.१३ नवानां नवतीनां विषस्य रोपुषीणाम् ।
१,१९१.१३ सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
१,१९१.१४ त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः ।
१,१९१.१४ तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥
१,१९१.१५ इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना ।
१,१९१.१५ ततो विषं प्र वावृते पराचीरनु संवतः ॥
१,१९१.१६ कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः ।
१,१९१.१६ वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥
ऋग्वेद २
२,००१.०१ त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।
२,००१.०१ त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥
२,००१.०२ तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
२,००१.०२ तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
२,००१.०३ त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः ।
२,००१.०३ त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरन्ध्या ॥
२,००१.०४ त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः ।
२,००१.०४ त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥
२,००१.०५ त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् ।
२,००१.०५ त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥
२,००१.०६ त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।
२,००१.०६ त्वं वातैररुणैर्यासि शङ्गयस्त्वं पूषा विधतः पासि नु त्मना ॥
२,००१.०७ त्वमग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि ।
२,००१.०७ त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥
२,००१.०८ त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते ।
२,००१.०८ त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥
२,००१.०९ त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् ।
२,००१.०९ त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥
२,००१.१० त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।
२,००१.१० त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥
२,००१.११ त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।
२,००१.११ त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥
२,००१.१२ त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः ।
२,००१.१२ त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥
२,००१.१३ त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे ।
२,००१.१३ त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥
२,००१.१४ त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् ।
२,००१.१४ त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥
२,००१.१५ त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।
२,००१.१५ पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥
२,००१.१६ ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
२,००१.१६ अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥
२,००२.०१ यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा ।
२,००२.०१ समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥
२,००२.०२ अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः ।
२,००२.०२ दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥
२,००२.०३ तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे ।
२,००२.०३ रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम् ॥
२,००२.०४ तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः ।
२,००२.०४ पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ॥
२,००२.०५ स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा ।
२,००२.०५ हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥
२,००२.०६ स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि ।
२,००२.०६ आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥
२,००२.०७ दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि ।
२,००२.०७ प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥
२,००२.०८ स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना ।
२,००२.०८ होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥
२,००२.०९ एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा ।
२,००२.०९ दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि ॥
२,००२.१० वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनां अति ।
२,००२.१० अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥
२,००२.११ स नो बोधि सहस्य प्रशंस्यो यस्मिन्सुजाता इषयन्त सूरयः ।
२,००२.११ यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥
२,००२.१२ उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि ।
२,००२.१२ वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥
२,००२.१३ ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
२,००२.१३ अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥
२,००३.०१ समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् ।
२,००३.०१ होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥
२,००३.०२ नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः ।
२,००३.०२ घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥
२,००३.०३ ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य ।
२,००३.०३ स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् ॥
२,००३.०४ देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् ।
२,००३.०४ घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥
२,००३.०५ वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः ।
२,००३.०५ व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥
२,००३.०६ साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते ।
२,००३.०६ तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥
२,००३.०७ दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा ।
२,००३.०७ देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥
२,००३.०८ सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः ।
२,००३.०८ तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥
२,००३.०९ पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
२,००३.०९ प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥
२,००३.१० वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः ।
२,००३.१० त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥
२,००३.११ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतं वस्य धाम ।
२,००३.११ अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
२,००४.०१ हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् ।
२,००४.०१ मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥
२,००४.०२ इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः ।
२,००४.०२ एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥
२,००४.०३ अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् ।
२,००४.०३ स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥
२,००४.०४ अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः ।
२,००४.०४ वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥
२,००४.०५ आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
२,००४.०५ स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुरा युवा भूत् ॥
२,००४.०६ आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् ।
२,००४.०६ कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥
२,००४.०७ स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः ।
२,००४.०७ अग्निः शोचिष्मां अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥
२,००४.०८ नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि ।
२,००४.०८ अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥
२,००४.०९ त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः ।
२,००४.०९ सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥
२,००५.०१ होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।
२,००५.०१ प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम् ॥
२,००५.०२ आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि ।
२,००५.०२ मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥
२,००५.०३ दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् ।
२,००५.०३ परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥
२,००५.०४ साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।
२,००५.०४ विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ॥
२,००५.०५ ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः ।
२,००५.०५ कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥
२,००५.०६ यदी मातुरुप स्वसा घृतं भरन्त्यस्थित ।
२,००५.०६ तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥
२,००५.०७ स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम् ।
२,००५.०७ स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् ॥
२,००५.०८ यथा विद्वां अरं करद्विश्वेभ्यो यजतेभ्यः ।
२,००५.०८ अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥
२,००६.०१ इमां मे अग्ने समिधमिमामुपसदं वनेः ।
२,००६.०१ इमा उ षु श्रुधी गिरः ॥
२,००६.०२ अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे ।
२,००६.०२ एना सूक्तेन सुजात ॥
२,००६.०३ तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः ।
२,००६.०३ सपर्येम सपर्यवः ॥
२,००६.०४ स बोधि सूरिर्मघवा वसुपते वसुदावन् ।
२,००६.०४ युयोध्यस्मद्द्वेषांसि ॥
२,००६.०५ स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् ।
२,००६.०५ स नः सहस्रिणीरिषः ॥
२,००६.०६ ईळानायावस्यवे यविष्ठ दूत नो गिरा ।
२,००६.०६ यजिष्ठ होतरा गहि ॥
२,००६.०७ अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे ।
२,००६.०७ दूतो जन्येव मित्र्यः ॥
२,००६.०८ स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् ।
२,००६.०८ आ चास्मिन्सत्सि बर्हिषि ॥
२,००७.०१ श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर ।
२,००७.०१ वसो पुरुस्पृहं रयिम् ॥
२,००७.०२ मा नो अरातिरीशत देवस्य मर्त्यस्य च ।
२,००७.०२ पर्षि तस्या उत द्विषः ॥
२,००७.०३ विश्वा उत त्वया वयं धारा उदन्या इव ।
२,००७.०३ अति गाहेमहि द्विषः ॥
२,००७.०४ शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे ।
२,००७.०४ त्वं घृतेभिराहुतः ॥
२,००७.०५ त्वं नो असि भारताग्ने वशाभिरुक्षभिः ।
२,००७.०५ अष्टापदीभिराहुतः ॥
२,००७.०६ द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
२,००७.०६ सहसस्पुत्रो अद्भुतः ॥
२,००८.०१ वाजयन्निव नू रथान्योगां अग्नेरुप स्तुहि ।
२,००८.०१ यशस्तमस्य मीळ्हुषः ॥
२,००८.०२ यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् ।
२,००८.०२ चारुप्रतीक आहुतः ॥
२,००८.०३ य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते ।
२,००८.०३ यस्य व्रतं न मीयते ॥
२,००८.०४ आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा ।
२,००८.०४ अञ्जानो अजरैरभि ॥
२,००८.०५ अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः ।
२,००८.०५ विश्वा अधि श्रियो दधे ॥
२,००८.०६ अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् ।
२,००८.०६ अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः ॥
२,००९.०१ नि होता होतृषदने विदानस्त्वेषो दीदिवां असदत्सुदक्षः ।
२,००९.०१ अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
२,००९.०२ त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।
२,००९.०२ अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥
२,००९.०३ विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे ।
२,००९.०३ यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे ॥
२,००९.०४ अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः ।
२,००९.०४ त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥
२,००९.०५ उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म ।
२,००९.०५ कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥
२,००९.०६ सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति ।
२,००९.०६ अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥
२,०१०.०१ जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः ।
२,०१०.०१ श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥
२,०१०.०२ श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः ।
२,०१०.०२ श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥
२,०१०.०३ उत्तानायामजनयन्सुषूतं भुवदग्निः पुरुपेशासु गर्भः ।
२,०१०.०३ शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥
२,०१०.०४ जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
२,०१०.०४ पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥
२,०१०.०५ आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत ।
२,०१०.०५ मर्यश्री स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥
२,०१०.०६ ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम ।
२,०१०.०६ अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥
२,०११.०१ श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् ।
२,०११.०१ इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥
२,०११.०२ सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः ।
२,०११.०२ अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः ॥
२,०११.०३ उक्थेष्विन्नु शूर येषु चाकन्स्तोमेष्विन्द्र रुद्रियेषु च ।
२,०११.०३ तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥
२,०११.०४ शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः ।
२,०११.०४ शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥
२,०११.०५ गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् ।
२,०११.०५ उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥
२,०११.०६ स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि ।
२,०११.०६ स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू ॥
२,०११.०७ हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम् ।
२,०११.०७ वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन् ॥
२,०११.०८ नि पर्वतः साद्यप्रयुच्छन्सं मातृभिर्वावशानो अक्रान् ।
२,०११.०८ दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥
२,०११.०९ इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः ।
२,०११.०९ अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥
२,०११.१० अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् ।
२,०११.१० नि मायिनो दानवस्य माया अपादयत्पपिवान्सुतस्य ॥
२,०११.११ पिबापिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः ।
२,०११.११ पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव ॥
२,०११.१२ त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः ।
२,०११.१२ अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम ॥
२,०११.१३ स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः ।
२,०११.१३ शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥
२,०११.१४ रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतं नः ।
२,०११.१४ सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् ॥
२,०११.१५ व्यन्त्विन्नु येषु मन्दसानस्तृपत्सोमं पाहि द्रह्यदिन्द्र ।
२,०११.१५ अस्मान्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः ॥
२,०११.१६ बृहन्त इन्नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् ।
२,०११.१६ स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिन्द्र वाजमग्मन् ॥
२,०११.१७ उग्रेष्विन्नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र ।
२,०११.१७ प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥
२,०११.१८ धिष्वा शवः शूर येन वृत्रमवाभिनद्दानुमौर्णवाभम् ।
२,०११.१८ अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र ॥
२,०११.१९ सनेम ये त ऊतिभिस्तरन्तो विश्वा स्पृध आर्येण दस्यून् ।
२,०११.१९ अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय ॥
२,०११.२० अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः ।
२,०११.२० अवर्तयत्सूर्यो न चक्रं भिनद्वलमिन्द्रो अङ्गिरस्वान् ॥
२,०११.२१ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०११.२१ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥
२,०१२.०१ यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
२,०१२.०१ यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥
२,०१२.०२ यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपितां अरम्णात् ।
२,०१२.०२ यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥
२,०१२.०३ यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य ।
२,०१२.०३ यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥
२,०१२.०४ येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
२,०१२.०४ श्वघ्नीव यो जिगीवांल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥
२,०१२.०५ यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।
२,०१२.०५ सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥
२,०१२.०६ यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
२,०१२.०६ युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥
२,०१२.०७ यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
२,०१२.०७ यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥
२,०१२.०८ यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः ।
२,०१२.०८ समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥
२,०१२.०९ यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
२,०१२.०९ यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥
२,०१२.१० यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान ।
२,०१२.१० यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥
२,०१२.११ यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।
२,०१२.११ ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥
२,०१२.१२ यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून् ।
२,०१२.१२ यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥
२,०१२.१३ द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते ।
२,०१२.१३ यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥
२,०१२.१४ यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
२,०१२.१४ यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥
२,०१२.१५ यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।
२,०१२.१५ वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥
२,०१३.०१ ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते ।
२,०१३.०१ तदाहना अभवत्पिप्युषी पयोऽंशोः पीयूषं प्रथमं तदुक्थ्यम् ॥
२,०१३.०२ सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् ।
२,०१३.०२ समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
२,०१३.०३ अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते ।
२,०१३.०३ विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
२,०१३.०४ प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते ।
२,०१३.०४ असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
२,०१३.०५ अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः ।
२,०१३.०५ तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्सास्युक्थ्यः ॥
२,०१३.०६ यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ ।
२,०१३.०६ स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः ॥
२,०१३.०७ यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः ।
२,०१३.०७ यश्चासमा अजनो दिद्युतो दिव उरुरूर्वां अभितः सास्युक्थ्यः ॥
२,०१३.०८ यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः ।
२,०१३.०८ ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्सास्युक्थ्यः ॥
२,०१३.०९ शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ ।
२,०१३.०९ अरज्जौ दस्यून्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः ॥
२,०१३.१० विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् ।
२,०१३.१० षळ् अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः ॥
२,०१३.११ सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु ।
२,०१३.११ जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ॥
२,०१३.१२ अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् ।
२,०१३.१२ नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्सास्युक्थ्यः ॥
२,०१३.१३ अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
२,०१३.१३ इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥
२,०१४.०१ अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः ।
२,०१४.०१ कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥
२,०१४.०२ अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् ।
२,०१४.०२ तस्मा एतं भरत तद्वशायं एष इन्द्रो अर्हति पीतिमस्य ॥
२,०१४.०३ अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः ।
२,०१४.०३ तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥
२,०१४.०४ अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् ।
२,०१४.०४ यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत ॥
२,०१४.०५ अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् ।
२,०१४.०५ यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥
२,०१४.०६ अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः ।
२,०१४.०६ यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै ॥
२,०१४.०७ अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् ।
२,०१४.०७ कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥
२,०१४.०८ अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे ।
२,०१४.०८ गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥
२,०१४.०९ अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् ।
२,०१४.०९ जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ॥
२,०१४.१० अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् ।
२,०१४.१० वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत ॥
२,०१४.११ अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा ।
२,०१४.११ तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥
२,०१४.१२ अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
२,०१४.१२ इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥
२,०१५.०१ प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।
२,०१५.०१ त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान ॥
२,०१५.०२ अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम् ।
२,०१५.०२ स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०३ सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम् ।
२,०१५.०३ वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०४ स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ ।
२,०१५.०४ सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०५ स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति ।
२,०१५.०५ त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०६ सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष ।
२,०१५.०६ अजवसो जविनीभिर्विवृश्चन्सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०७ स विद्वां अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् ।
२,०१५.०७ प्रति श्रोण स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०८ भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् ।
२,०१५.०८ रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.०९ स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः ।
२,०१५.०९ रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार ॥
२,०१५.१० नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१५.१० शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥
२,०१६.०१ प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे ।
२,०१६.०१ इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद्युवानमवसे हवामहे ॥
२,०१६.०२ यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्सम्भृताधि वीर्या ।
२,०१६.०२ जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् ॥
२,०१६.०३ न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः ।
२,०१६.०३ न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥
२,०१६.०४ विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते ।
२,०१६.०४ वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥
२,०१६.०५ वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे ।
२,०१६.०५ वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥
२,०१६.०६ वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा ।
२,०१६.०६ वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥
२,०१६.०७ प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः ।
२,०१६.०७ कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे ॥
२,०१६.०८ पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी ।
२,०१६.०८ सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि ॥
२,०१६.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१६.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥
२,०१७.०१ तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते ।
२,०१७.०१ विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् ॥
२,०१७.०२ स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् ।
२,०१७.०२ शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत ॥
२,०१७.०३ अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः ।
२,०१७.०३ रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक्पृथक् ॥
२,०१७.०४ अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत ।
२,०१७.०४ आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत् ॥
२,०१७.०५ स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः ।
२,०१७.०५ अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः ॥
२,०१७.०६ सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि ।
२,०१७.०६ येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः ॥
२,०१७.०७ अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् ।
२,०१७.०७ कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः ॥
२,०१७.०८ भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिन्द्रापांसि वाजान् ।
२,०१७.०८ अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्निन्द्र वस्यसो नः ॥
२,०१७.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१७.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥
२,०१८.०१ प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः ।
२,०१८.०१ दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत् ॥
२,०१८.०२ सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता ।
२,०१८.०२ अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥
२,०१८.०३ हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन ।
२,०१८.०३ मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये ॥
२,०१८.०४ आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः ।
२,०१८.०४ आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः ॥
२,०१८.०५ आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः ।
२,०१८.०५ आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥
२,०१८.०६ आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः ।
२,०१८.०६ अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥
२,०१८.०७ मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य ।
२,०१८.०७ पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व ॥
२,०१८.०८ न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत ।
२,०१८.०८ उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम ॥
२,०१८.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१८.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥
२,०१९.०१ अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः ।
२,०१९.०१ यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः ॥
२,०१९.०२ अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् ।
२,०१९.०२ प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त ॥
२,०१९.०३ स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् ।
२,०१९.०३ अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥
२,०१९.०४ सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम् ।
२,०१९.०४ सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ॥
२,०१९.०५ स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् ।
२,०१९.०५ आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् ॥
२,०१९.०६ स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय ।
२,०१९.०६ दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य ॥
२,०१९.०७ एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः ।
२,०१९.०७ अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥
२,०१९.०८ एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः ।
२,०१९.०८ ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥
२,०१९.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०१९.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥
२,०२०.०१ वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् ।
२,०२०.०१ विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् ॥
२,०२०.०२ त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् ।
२,०२०.०२ त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा ॥
२,०२०.०३ स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता ।
२,०२०.०३ यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत् ॥
२,०२०.०४ तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च ।
२,०२०.०४ स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः ॥
२,०२०.०५ सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् ।
२,०२०.०५ मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥
२,०२०.०६ स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः ।
२,०२०.०६ अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान् ॥
२,०२०.०७ स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीरैरयद्वि ।
२,०२०.०७ अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥
२,०२०.०८ तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ ।
२,०२०.०८ प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥
२,०२०.०९ नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
२,०२०.०९ शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥
२,०२१.०१ विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते ।
२,०२१.०१ अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥
२,०२१.०२ अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे ।
२,०२१.०२ तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥
२,०२१.०३ सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः ।
२,०२१.०३ वृतञ्चयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या ॥
२,०२१.०४ अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः ।
२,०२१.०४ रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् ॥
२,०२१.०५ यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः ।
२,०२१.०५ अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत ॥
२,०२१.०६ इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
२,०२१.०६ पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥
२,०२२.०१ त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् ।
२,०२२.०१ स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
२,०२२.०२ अध त्विषीमां अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
२,०२२.०२ अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
२,०२२.०३ साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
२,०२२.०३ दाता राध स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
२,०२२.०४ तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् ।
२,०२२.०४ यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः ।
२,०२२.०४ भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् ॥
२,०२३.०१ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
२,०२३.०१ ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥
२,०२३.०२ देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः ।
२,०२३.०२ उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥
२,०२३.०३ आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि ।
२,०२३.०३ बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥
२,०२३.०४ सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् ।
२,०२३.०४ ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम् ॥
२,०२३.०५ न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः ।
२,०२३.०५ विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥
२,०२३.०६ त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे ।
२,०२३.०६ बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती ॥
२,०२३.०७ उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः ।
२,०२३.०७ बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥
२,०२३.०८ त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम् ।
२,०२३.०८ बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन् ॥
२,०२३.०९ त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि ।
२,०२३.०९ या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥
२,०२३.१० त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा ।
२,०२३.१० मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि ॥
२,०२३.११ अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः ।
२,०२३.११ असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः ॥
२,०२३.१२ अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति ।
२,०२३.१२ बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥
२,०२३.१३ भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम् ।
२,०२३.१३ विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथां इव ॥
२,०२३.१४ तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् ।
२,०२३.१४ आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय ॥
२,०२३.१५ बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।
२,०२३.१५ यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥
२,०२३.१६ मा न स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।
२,०२३.१६ आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥
२,०२३.१७ विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः ।
२,०२३.१७ स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि ॥
२,०२३.१८ तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः ।
२,०२३.१८ इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् ॥
२,०२३.१९ ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
२,०२३.१९ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥
२,०२४.०१ सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा ।
२,०२४.०१ यथा नो मीढ्वान्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥
२,०२४.०२ यो नन्त्वान्यनमन्न्योजसोतादर्दर्मन्युना शम्बराणि वि ।
२,०२४.०२ प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमन्तं वि पर्वतम् ॥
२,०२४.०३ तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता ।
२,०२४.०३ उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः ॥
२,०२४.०४ अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत् ।
२,०२४.०४ तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥
२,०२४.०५ सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः ।
२,०२४.०५ अयतन्ता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः ॥
२,०२४.०६ अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् ।
२,०२४.०६ ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥
२,०२४.०७ ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः ।
२,०२४.०७ ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् ॥
२,०२४.०८ ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना ।
२,०२४.०८ तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥
२,०२४.०९ स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः ।
२,०२४.०९ चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा ॥
२,०२४.१० विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या ।
२,०२४.१० इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥
२,०२४.११ योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ ।
२,०२४.११ स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः ॥
२,०२४.१२ विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् ।
२,०२४.१२ अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥
२,०२४.१३ उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना ।
२,०२४.१३ वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः ॥
२,०२४.१४ ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः ।
२,०२४.१४ यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥
२,०२४.१५ ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः ।
२,०२४.१५ वीरेषु वीरां उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् ॥
२,०२४.१६ ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
२,०२४.१६ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥
२,०२५.०१ इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् ।
२,०२५.०१ जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२५.०२ वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना ।
२,०२५.०२ तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२५.०३ सिन्धुर्न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींरभि वष्ट्योजसा ।
२,०२५.०३ अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२५.०४ तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति ।
२,०२५.०४ अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२५.०५ तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि ।
२,०२५.०५ देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
२,०२६.०१ ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत् ।
२,०२६.०१ सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् ॥
२,०२६.०२ यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
२,०२६.०२ हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥
२,०२६.०३ स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः ।
२,०२६.०३ देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥
२,०२६.०४ यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः ।
२,०२६.०४ उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः ॥
२,०२७.०१ इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि ।
२,०२७.०१ शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥
२,०२७.०२ इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त ।
२,०२७.०२ आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥
२,०२७.०३ त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः ।
२,०२७.०३ अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥
२,०२७.०४ धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः ।
२,०२७.०४ दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥
२,०२७.०५ विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु ।
२,०२७.०५ युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥
२,०२७.०६ सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति ।
२,०२७.०६ तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥
२,०२७.०७ पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः ।
२,०२७.०७ बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥
२,०२७.०८ तिस्रो भूमीर्धारयन्त्रींरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् ।
२,०२७.०८ ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥
२,०२७.०९ त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः ।
२,०२७.०९ अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥
२,०२७.१० त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः ।
२,०२७.१० शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥
२,०२७.११ न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।
२,०२७.११ पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥
२,०२७.१२ यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः ।
२,०२७.१२ स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥
२,०२७.१३ शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः ।
२,०२७.१३ नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥
२,०२७.१४ अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।
२,०२७.१४ उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥
२,०२७.१५ उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् ।
२,०२७.१५ उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥
२,०२७.१६ या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः ।
२,०२७.१६ अश्वीव तां अति येषं रथेनारिष्टा उरावा शर्मन्स्याम ॥
२,०२७.१७ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
२,०२७.१७ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥
२,०२८.०१ इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना ।
२,०२८.०१ अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥
२,०२८.०२ तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः ।
२,०२८.०२ उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् ॥
२,०२८.०३ तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः ।
२,०२८.०३ यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः ॥
२,०२८.०४ प्र सीमादित्यो असृजद्विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति ।
२,०२८.०४ न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन् ॥
२,०२८.०५ वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खामृतस्य ।
२,०२८.०५ मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः ॥
२,०२८.०६ अपो सु म्यक्ष वरुण भियसं मत्सम्राळ् ऋतावोऽनु मा गृभाय ।
२,०२८.०६ दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे ॥
२,०२८.०७ मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति ।
२,०२८.०७ मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥
२,०२८.०८ नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम ।
२,०२८.०८ त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि ॥
२,०२८.०९ पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् ।
२,०२८.०९ अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि ॥
२,०२८.१० यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह ।
२,०२८.१० स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥
२,०२८.११ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
२,०२८.११ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥
२,०२९.०१ धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः ।
२,०२९.०१ शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वां अवसे हुवे वः ॥
२,०२९.०२ यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत ।
२,०२९.०२ अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च ॥
२,०२९.०३ किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन ।
२,०२९.०३ यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात ॥
२,०२९.०४ हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम् ।
२,०२९.०४ मा वो रथो मध्यमवाळ् ऋते भून्मा युष्मावत्स्वापिषु श्रमिष्म ॥
२,०२९.०५ प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास ।
२,०२९.०५ आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट ॥
२,०२९.०६ अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।
२,०२९.०६ त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥
२,०२९.०७ माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
२,०२९.०७ मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥
२,०३०.०१ ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः ।
२,०३०.०१ अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् ॥
२,०३०.०२ यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच ।
२,०३०.०२ पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम् ॥
२,०३०.०३ ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार ।
२,०३०.०३ मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः ॥
२,०३०.०४ बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् ।
२,०३०.०४ यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ॥
२,०३०.०५ अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः ।
२,०३०.०५ तोकस्य सातौ तनयस्य भूरेरस्मां अर्धं कृणुतादिन्द्र गोनाम् ॥
२,०३०.०६ प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ ।
२,०३०.०६ इन्द्रासोमा युवमस्मां अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥
२,०३०.०७ न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम् ।
२,०३०.०७ यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत् ॥
२,०३०.०८ सरस्वति त्वमस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् ।
२,०३०.०८ त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥
२,०३०.०९ यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य ।
२,०३०.०९ बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥
२,०३०.१० अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि ।
२,०३०.१० ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥
२,०३०.११ तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् ।
२,०३०.११ यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥
२,०३१.०१ अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा ।
२,०३१.०१ प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥
२,०३१.०२ अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् ।
२,०३१.०२ यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥
२,०३१.०३ उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः ।
२,०३१.०३ अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥
२,०३१.०४ उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् ।
२,०३१.०४ इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती ॥
२,०३१.०५ उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा ।
२,०३१.०५ स्तुषे यद्वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे ॥
२,०३१.०६ उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत ।
२,०३१.०६ त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि ॥
२,०३१.०७ एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् ।
२,०३१.०७ श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ॥
२,०३२.०१ अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः ।
२,०३२.०१ ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥
२,०३२.०२ मा नो गुह्या रिप आयोरहन्दभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः ।
२,०३२.०२ मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥
२,०३२.०३ अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् ।
२,०३२.०३ पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥
२,०३२.०४ राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
२,०३२.०४ सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥
२,०३२.०५ यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
२,०३२.०५ ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥
२,०३२.०६ सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
२,०३२.०६ जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥
२,०३२.०७ या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
२,०३२.०७ तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥
२,०३२.०८ या गुङ्गूर्या सिनीवाली या राका या सरस्वती ।
२,०३२.०८ इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥
२,०३३.०१ आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।
२,०३३.०१ अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥
२,०३३.०२ त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः ।
२,०३३.०२ व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
२,०३३.०३ श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो ।
२,०३३.०३ पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥
२,०३३.०४ मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती ।
२,०३३.०४ उन्नो वीरां अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥
२,०३३.०५ हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय ।
२,०३३.०५ ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥
२,०३३.०६ उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम् ।
२,०३३.०६ घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥
२,०३३.०७ क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
२,०३३.०७ अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥
२,०३३.०८ प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि ।
२,०३३.०८ नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥
२,०३३.०९ स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ।
२,०३३.०९ ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥
२,०३३.१० अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् ।
२,०३३.१० अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥
२,०३३.११ स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
२,०३३.११ मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः ॥
२,०३३.१२ कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् ।
२,०३३.१२ भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥
२,०३३.१३ या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु ।
२,०३३.१३ यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥
२,०३३.१४ परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् ।
२,०३३.१४ अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥
२,०३३.१५ एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि ।
२,०३३.१५ हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥
२,०३४.०१ धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः ।
२,०३४.०१ अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥
२,०३४.०२ द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः ।
२,०३४.०२ रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥
२,०३४.०३ उक्षन्ते अश्वां अत्यां इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः ।
२,०३४.०३ हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥
२,०३४.०४ पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः ।
२,०३४.०४ पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥
२,०३४.०५ इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः ।
२,०३४.०५ आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥
२,०३४.०६ आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन ।
२,०३४.०६ अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् ॥
२,०३४.०७ तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे ।
२,०३४.०७ इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥
२,०३४.०८ यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः ।
२,०३४.०८ धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥
२,०३४.०९ यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः ।
२,०३४.०९ वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ॥
२,०३४.१० चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः ।
२,०३४.१० यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥
२,०३४.११ तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।
२,०३४.११ हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥
२,०३४.१२ ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु ।
२,०३४.१२ उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥
२,०३४.१३ ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।
२,०३४.१३ निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥
२,०३४.१४ तां इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि ।
२,०३४.१४ त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ॥
२,०३४.१५ यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् ।
२,०३४.१५ अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥
२,०३५.०१ उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।
२,०३५.०१ अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥
२,०३५.०२ इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् ।
२,०३५.०२ अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥
२,०३५.०३ समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति ।
२,०३५.०३ तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥
२,०३५.०४ तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः ।
२,०३५.०४ स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥
२,०३५.०५ अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् ।
२,०३५.०५ कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥
२,०३५.०६ अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन् ।
२,०३५.०६ आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥
२,०३५.०७ स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति ।
२,०३५.०७ सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ॥
२,०३५.०८ यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।
२,०३५.०८ वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥
२,०३५.०९ अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः ।
२,०३५.०९ तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ॥
२,०३५.१० हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः ।
२,०३५.१० हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥
२,०३५.११ तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् ।
२,०३५.११ यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥
२,०३५.१२ अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः ।
२,०३५.१२ सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥
२,०३५.१३ स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति ।
२,०३५.१३ सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥
२,०३५.१४ अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् ।
२,०३५.१४ आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥
२,०३५.१५ अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् ।
२,०३५.१५ विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥
२,०३६.०१ तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्सीमविभिरद्रिभिर्नरः ।
२,०३६.०१ पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥
२,०३६.०२ यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत ।
२,०३६.०२ आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥
२,०३६.०३ अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
२,०३६.०३ अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥
२,०३६.०४ आ वक्षि देवां इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु ।
२,०३६.०४ प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥
२,०३६.०५ एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।
२,०३६.०५ तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥
२,०३६.०६ जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु ।
२,०३६.०६ अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥
२,०३७.०१ मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम् ।
२,०३७.०१ तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
२,०३७.०२ यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।
२,०३७.०२ अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
२,०३७.०३ मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते ।
२,०३७.०३ आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
२,०३७.०४ अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् ।
२,०३७.०४ तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥
२,०३७.०५ अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् ।
२,०३७.०५ पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ॥
२,०३७.०६ जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् ।
२,०३७.०६ विश्वेभिर्विश्वां ऋतुना वसो मह उशन्देवां उशतः पायया हविः ॥
२,०३८.०१ उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् ।
२,०३८.०१ नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ ॥
२,०३८.०२ विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति ।
२,०३८.०२ आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥
२,०३८.०३ आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः ।
२,०३८.०३ अह्यर्षूणां चिन्न्ययां अविष्यामनु व्रतं सवितुर्मोक्यागात् ॥
२,०३८.०४ पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः ।
२,०३८.०४ उत्संहायास्थाद्व्यृतूंरदर्धररमतिः सविता देव आगात् ॥
२,०३८.०५ नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ।
२,०३८.०५ ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥
२,०३८.०६ समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् ।
२,०३८.०६ शश्वां अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥
२,०३८.०७ त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः ।
२,०३८.०७ वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥
२,०३८.०८ याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः ।
२,०३८.०८ विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः ॥
२,०३८.०९ न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः ।
२,०३८.०९ नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥
२,०३८.१० भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर्नो अव्याः ।
२,०३८.१० आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥
२,०३८.११ अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् ।
२,०३८.११ शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ॥
२,०३९.०१ ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ ।
२,०३९.०१ ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥
२,०३९.०२ प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे ।
२,०३९.०२ मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥
२,०३९.०३ शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः ।
२,०३९.०३ चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा ॥
२,०३९.०४ नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ।
२,०३९.०४ श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् ॥
२,०३९.०५ वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् ।
२,०३९.०५ हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥
२,०३९.०६ ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः ।
२,०३९.०६ नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥
२,०३९.०७ हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि ।
२,०३९.०७ इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥
२,०३९.०८ एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् ।
२,०३९.०८ तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः ॥
२,०४०.०१ सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
२,०४०.०१ जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥
२,०४०.०२ इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा ।
२,०४०.०२ आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥
२,०४०.०३ सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ।
२,०४०.०३ विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥
२,०४०.०४ दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे ।
२,०४०.०४ तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥
२,०४०.०५ विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति ।
२,०४०.०५ सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥
२,०४०.०६ धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु ।
२,०४०.०६ अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः ॥
२,०४१.०१ वायो ये ते सहस्रिणो रथासस्तेभिरा गहि ।
२,०४१.०१ नियुत्वान्सोमपीतये ॥
२,०४१.०२ नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते ।
२,०४१.०२ गन्तासि सुन्वतो गृहम् ॥
२,०४१.०३ शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः ।
२,०४१.०३ आ यातं पिबतं नरा ॥
२,०४१.०४ अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
२,०४१.०४ ममेदिह श्रुतं हवम् ॥
२,०४१.०५ राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।
२,०४१.०५ सहस्रस्थूण आसाते ॥
२,०४१.०६ ता सम्राजा घृतासुती आदित्या दानुनस्पती ।
२,०४१.०६ सचेते अनवह्वरम् ॥
२,०४१.०७ गोमदू षु नासत्याश्वावद्यातमश्विना ।
२,०४१.०७ वर्ती रुद्रा नृपाय्यम् ॥
२,०४१.०८ न यत्परो नान्तर आदधर्षद्वृषण्वसू ।
२,०४१.०८ दुःशंसो मर्त्यो रिपुः ॥
२,०४१.०९ ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् ।
२,०४१.०९ धिष्ण्या वरिवोविदम् ॥
२,०४१.१० इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् ।
२,०४१.१० स हि स्थिरो विचर्षणिः ॥
२,०४१.११ इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् ।
२,०४१.११ भद्रं भवाति नः पुरः ॥
२,०४१.१२ इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।
२,०४१.१२ जेता शत्रून्विचर्षणिः ॥
२,०४१.१३ विश्वे देवास आ गत शृणुता म इमं हवम् ।
२,०४१.१३ एदं बर्हिर्नि षीदत ॥
२,०४१.१४ तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः ।
२,०४१.१४ एतं पिबत काम्यम् ॥
२,०४१.१५ इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
२,०४१.१५ विश्वे मम श्रुता हवम् ॥
२,०४१.१६ अम्बितमे नदीतमे देवितमे सरस्वति ।
२,०४१.१६ अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥
२,०४१.१७ त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् ।
२,०४१.१७ शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥
२,०४१.१८ इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।
२,०४१.१८ या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥
२,०४१.१९ प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे ।
२,०४१.१९ अग्निं च हव्यवाहनम् ॥
२,०४१.२० द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् ।
२,०४१.२० यज्ञं देवेषु यच्छताम् ॥
२,०४१.२१ आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः ।
२,०४१.२१ इहाद्य सोमपीतये ॥
२,०४२.०१ कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम् ।
२,०४२.०१ सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत् ॥
२,०४२.०२ मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता ।
२,०४२.०२ पित्र्यामनु प्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादी वदेह ॥
२,०४२.०३ अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते ।
२,०४२.०३ मा न स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः ॥
२,०४३.०१ प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः ।
२,०४३.०१ उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥
२,०४३.०२ उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ।
२,०४३.०२ वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥
२,०४३.०३ आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः ।
२,०४३.०३ यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥
ऋग्वेद ३
३,००१.०१ सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
३,००१.०१ देवां अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥
३,००१.०२ प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् ।
३,००१.०२ दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥
३,००१.०३ मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः ।
३,००१.०३ अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥
३,००१.०४ अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा ।
३,००१.०४ शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥
३,००१.०५ शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।
३,००१.०५ शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥
३,००१.०६ वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
३,००१.०६ सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥
३,००१.०७ स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् ।
३,००१.०७ अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥
३,००१.०८ बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।
३,००१.०८ श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥
३,००१.०९ पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः ।
३,००१.०९ गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥
३,००१.१० पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः ।
३,००१.१० वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥
३,००१.११ उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
३,००१.११ ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥
३,००१.१२ अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।
३,००१.१२ उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥
३,००१.१३ अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् ।
३,००१.१३ देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥
३,००१.१४ बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः ।
३,००१.१४ गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥
३,००१.१५ ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
३,००१.१५ देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥
३,००१.१६ उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।
३,००१.१६ सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंरदेवान् ॥
३,००१.१७ आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् ।
३,००१.१७ प्रति मर्तां अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥
३,००१.१८ नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
३,००१.१८ घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥
३,००१.१९ आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।
३,००१.१९ अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥
३,००१.२० एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
३,००१.२० महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥
३,००१.२१ जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
३,००१.२१ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
३,००१.२२ इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
३,००१.२२ प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥
३,००१.२३ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००१.२३ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥
३,००२.०१ वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि ।
३,००२.०१ द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥
३,००२.०२ स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः ।
३,००२.०२ हव्यवाळ् अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥
३,००२.०३ क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः ।
३,००२.०३ रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥
३,००२.०४ आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् ।
३,००२.०४ रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥
३,००२.०५ अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः ।
३,००२.०५ यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥
३,००२.०६ पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः ।
३,००२.०६ अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥
३,००२.०७ आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् ।
३,००२.०७ सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥
३,००२.०८ नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् ।
३,००२.०८ रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥
३,००२.०९ तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः ।
३,००२.०९ तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥
३,००२.१० विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे ।
३,००२.१० स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥
३,००२.११ स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः ।
३,००२.११ वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥
३,००२.१२ वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः ।
३,००२.१२ स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥
३,००२.१३ ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् ।
३,००२.१३ तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥
३,००२.१४ शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् ।
३,००२.१४ अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥
३,००२.१५ मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् ।
३,००२.१५ रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥
३,००३.०१ वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
३,००३.०१ अग्निर्हि देवां अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥
३,००३.०२ अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।
३,००३.०२ क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥
३,००३.०३ केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः ।
३,००३.०३ अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके ॥
३,००३.०४ पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् ।
३,००३.०४ आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥
३,००३.०५ चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् ।
३,००३.०५ विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥
३,००३.०६ अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया ।
३,००३.०६ रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥
३,००३.०७ अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः ।
३,००३.०७ वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम् ॥
३,००३.०८ विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् ।
३,००३.०८ अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे ॥
३,००३.०९ विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः ।
३,००३.०९ तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः ॥
३,००३.१० वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण ।
३,००३.१० जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥
३,००३.११ वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः ।
३,००३.११ उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥
३,००४.०१ समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः ।
३,००४.०१ आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने ॥
३,००४.०२ यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः ।
३,००४.०२ सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥
३,००४.०३ प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै ।
३,००४.०३ अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥
३,००४.०४ ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि ।
३,००४.०४ दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥
३,००४.०५ सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन ।
३,००४.०५ नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥
३,००४.०६ आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे ।
३,
००४.०६ यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वां उत वा महोभिः ॥
३,००४.०७ दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
३,००४.०७ ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥
३,००४.०८ आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
३,००४.०८ सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥
३,००४.०९ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
३,००४.०९ यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
३,००४.१० वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
३,००४.१० सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
३,००४.११ आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
३,००४.११ बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥
३,००५.०१ प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम् ।
३,००५.०१ पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥
३,००५.०२ प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भि स्तोतॄणां नमस्य उक्थैः ।
३,००५.०२ पूर्वीरृतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके ॥
३,००५.०३ अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् ।
३,००५.०३ आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम् ॥
३,००५.०४ मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः ।
३,००५.०४ मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् ॥
३,००५.०५ पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य ।
३,००५.०५ पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥
३,००५.०६ ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् ।
३,००५.०६ ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥
३,००५.०७ आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः ।
३,००५.०७ दीद्यानः शुचिरृष्वः पावकः पुनःपुनर्मातरा नव्यसी कः ॥
३,००५.०८ सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन ।
३,००५.०८ आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे ॥
३,००५.०९ उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः ।
३,००५.०९ मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥
३,००५.१० उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् ।
३,००५.१० यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥
३,००५.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००५.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥
३,००६.०१ प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
३,००६.०१ दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥
३,००६.०२ आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।
३,००६.०२ दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥
३,००६.०३ द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय ।
३,००६.०३ यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥
३,००६.०४ महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः ।
३,००६.०४ आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥
३,००६.०५ व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ ।
३,००६.०५ त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥
३,००६.०६ ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व ।
३,००६.०६ अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः ॥
३,००६.०७ दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः ।
३,००६.०७ अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥
३,००६.०८ उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः ।
३,००६.०८ ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥
३,००६.०९ ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।
३,००६.०९ पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥
३,००६.१० स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः ।
३,००६.१० प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥
३,००६.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००६.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥
३,००७.०१ प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः ।
३,००७.०१ परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥
३,००७.०२ दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः ।
३,००७.०२ ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः ॥
३,००७.०३ आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम् ।
३,००७.०३ प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥
३,००७.०४ महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति ।
३,००७.०४ व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥
३,००७.०५ जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति ।
३,००७.०५ दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥
३,००७.०६ उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् ।
३,००७.०६ उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष ॥
३,००७.०७ अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः ।
३,००७.०७ प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥
३,००७.०८ दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
३,००७.०८ ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥
३,००७.०९ वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः ।
३,००७.०९ देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥
३,००७.१० पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः ।
३,००७.१० उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य ॥
३,००७.११ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,००७.११ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥
३,००८.०१ अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
३,००८.०१ यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥
३,००८.०२ समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम् ।
३,००८.०२ आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥
३,००८.०३ उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि ।
३,००८.०३ सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥
३,००८.०४ युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः ।
३,००८.०४ तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥
३,००८.०५ जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
३,००८.०५ पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् ॥
३,००८.०६ यान्वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष ।
३,००८.०६ ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् ॥
३,००८.०७ ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः ।
३,००८.०७ ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥
३,००८.०८ आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् ।
३,००८.०८ सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम् ॥
३,००८.०९ हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः ।
३,००८.०९ उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः ॥
३,००८.१० शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् ।
३,००८.१० वाघद्भिर्वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ॥
३,००८.११ वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम ।
३,००८.११ यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय ॥
३,००९.०१ सखायस्त्वा ववृमहे देवं मर्तास ऊतये ।
३,००९.०१ अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥
३,००९.०२ कायमानो वना त्वं यन्मातॄरजगन्नपः ।
३,००९.०२ न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥
३,००९.०३ अति तृष्टं ववक्षिथाथैव सुमना असि ।
३,००९.०३ प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः ॥
३,००९.०४ ईयिवांसमति स्रिधः शश्वतीरति सश्चतः ।
३,००९.०४ अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥
३,००९.०५ ससृवांसमिव त्मनाग्निमित्था तिरोहितम् ।
३,००९.०५ ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥
३,००९.०६ तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।
३,००९.०६ विश्वान्यद्यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥
३,००९.०७ तद्भद्रं तव दंसना पाकाय चिच्छदयति ।
३,००९.०७ त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥
३,००९.०८ आ जुहोता स्वध्वरं शीरं पावकशोचिषम् ।
३,००९.०८ आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत ॥
३,००९.०९ त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
३,००९.०९ औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥
३,०१०.०१ त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
३,०१०.०१ देवं मर्तास इन्धते समध्वरे ॥
३,०१०.०२ त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते ।
३,०१०.०२ गोपा ऋतस्य दीदिहि स्वे दमे ॥
३,०१०.०३ स घा यस्ते ददाशति समिधा जातवेदसे ।
३,०१०.०३ सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥
३,०१०.०४ स केतुरध्वराणामग्निर्देवेभिरा गमत् ।
३,०१०.०४ अञ्जानः सप्त होतृभिर्हविष्मते ॥
३,०१०.०५ प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।
३,०१०.०५ विपां ज्योतींषि बिभ्रते न वेधसे ॥
३,०१०.०६ अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
३,०१०.०६ महे वाजाय द्रविणाय दर्शतः ॥
३,०१०.०७ अग्ने यजिष्ठो अध्वरे देवान्देवयते यज ।
३,०१०.०७ होता मन्द्रो वि राजस्यति स्रिधः ॥
३,०१०.०८ स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् ।
३,०१०.०८ भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥
३,०१०.०९ तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते ।
३,०१०.०९ हव्यवाहममर्त्यं सहोवृधम् ॥
३,०११.०१ अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः ।
३,०११.०१ स वेद यज्ञमानुषक् ॥
३,०११.०२ स हव्यवाळ् अमर्त्य उशिग्दूतश्चनोहितः ।
३,०११.०२ अग्निर्धिया समृण्वति ॥
३,०११.०३ अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।
३,०११.०३ अर्थं ह्यस्य तरणि ॥
३,०११.०४ अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
३,०११.०४ वह्निं देवा अकृण्वत ॥
३,०११.०५ अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
३,०११.०५ तूर्णी रथः सदा नवः ॥
३,०११.०६ साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
३,०११.०६ अग्निस्तुविश्रवस्तमः ॥
३,०११.०७ अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः ।
३,०११.०७ क्षयं पावकशोचिषः ॥
३,०११.०८ परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
३,०११.०८ विप्रासो जातवेदसः ॥
३,०११.०९ अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
३,०११.०९ त्वे देवास एरिरे ॥
३,०१२.०१ इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् ।
३,०१२.०१ अस्य पातं धियेषिता ॥
३,०१२.०२ इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
३,०१२.०२ अया पातमिमं सुतम् ॥
३,०१२.०३ इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
३,०१२.०३ ता सोमस्येह तृम्पताम् ॥
३,०१२.०४ तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
३,०१२.०४ इन्द्राग्नी वाजसातमा ॥
३,०१२.०५ प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
३,०१२.०५ इन्द्राग्नी इष आ वृणे ॥
३,०१२.०६ इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
३,०१२.०६ साकमेकेन कर्मणा ॥
३,०१२.०७ इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
३,०१२.०७ ऋतस्य पथ्या अनु ॥
३,०१२.०८ इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
३,०१२.०८ युवोरप्तूर्यं हितम् ॥
३,०१२.०९ इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
३,०१२.०९ तद्वां चेति प्र वीर्यम् ॥
३,०१३.०१ प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै ।
३,०१३.०१ गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥
३,०१३.०२ ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः ।
३,०१३.०२ हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे ॥
३,०१३.०३ स यन्ता विप्र एषां स यज्ञानामथा हि षः ।
३,०१३.०३ अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥
३,०१३.०४ स नः शर्माणि वीतयेऽग्निर्यच्छतु शन्तमा ।
३,०१३.०४ यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥
३,०१३.०५ दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः ।
३,०१३.०५ ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् ॥
३,०१३.०६ उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः ।
३,०१३.०६ शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥
३,०१३.०७ नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु ।
३,०१३.०७ द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥
३,०१४.०१ आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः ।
३,०१४.०१ विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥
३,०१४.०२ अयामि ते नमौक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः ।
३,०१४.०२ विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥
३,०१४.०३ द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ ।
३,०१४.०३ यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥
३,०१४.०४ मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् ।
३,०१४.०४ यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्सूर्यो नॄन् ॥
३,०१४.०५ वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य ।
३,०१४.०५ यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥
३,०१४.०६ त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः ।
३,०१४.०६ त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥
३,०१४.०७ तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
३,०१४.०७ त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥
३,०१५.०१ वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।
३,०१५.०१ सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥
३,०१५.०२ त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः ।
३,०१५.०२ जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात ॥
३,०१५.०३ त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि ।
३,०१५.०३ वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥
३,०१५.०४ अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् ।
३,०१५.०४ यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते ॥
३,०१५.०५ अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः ।
३,०१५.०५ रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥
३,०१५.०६ प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे ।
३,०१५.०६ देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥
३,०१५.०७ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,०१५.०७ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥
३,०१६.०१ अयमग्निः सुवीर्यस्येशे महः सौभगस्य ।
३,०१६.०१ राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥
३,०१६.०२ इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः ।
३,०१६.०२ अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥
३,०१६.०३ स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य ।
३,०१६.०३ तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥
३,०१६.०४ चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः ।
३,०१६.०४ आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥
३,०१६.०५ मा नो अग्नेऽमतये मावीरतायै रीरधः ।
३,०१६.०५ मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि ॥
३,०१६.०६ शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे ।
३,०१६.०६ सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥
३,०१७.०१ समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।
३,०१७.०१ शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥
३,०१७.०२ यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् ।
३,०१७.०२ एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥
३,०१७.०३ त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
३,०१७.०३ ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥
३,०१७.०४ अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
३,०१७.०४ त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥
३,०१७.०५ यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः ।
३,०१७.०५ तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥
३,०१८.०१ भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः ।
३,०१८.०१ पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः ॥
३,०१८.०२ तपो ष्वग्ने अन्तरां अमित्रान्तपा शंसमररुषः परस्य ।
३,०१८.०२ तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः ॥
३,०१८.०३ इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
३,०१८.०३ यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥
३,०१८.०४ उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि ।
३,०१८.०४ रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः ॥
३,०१८.०५ कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः ।
३,०१८.०५ स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥
३,०१९.०१ अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् ।
३,०१९.०१ स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥
३,०१९.०२ प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् ।
३,०१९.०२ प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥
३,०१९.०३ स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
३,०१९.०३ अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥
३,०१९.०४ भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।
३,०१९.०४ स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥
३,०१९.०५ यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः ।
३,०१९.०५ स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥
३,०२०.०१ अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः ।
३,०२०.०१ सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥
३,०२०.०२ अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः ।
३,०२०.०२ तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥
३,०२०.०३ अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम ।
३,०२०.०३ याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥
३,०२०.०४ अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा ।
३,०२०.०४ स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥
३,०२०.०५ दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् ।
३,०२०.०५ अश्विना मित्रावरुणा भगं च वसून्रुद्रां आदित्यां इह हुवे ॥
३,०२१.०१ इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
३,०२१.०१ स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥
३,०२१.०२ घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः ।
३,०२१.०२ स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
३,०२१.०३ तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य ।
३,०२१.०३ ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥
३,०२१.०४ तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य ।
३,०२१.०४ कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
३,०२१.०५ ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे ।
३,०२१.०५ श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि ॥
३,०२२.०१ अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः ।
३,०२२.०१ सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः ॥
३,०२२.०२ अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र ।
३,०२२.०२ येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥
३,०२२.०३ अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवां ऊचिषे धिष्ण्या ये ।
३,०२२.०३ या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥
३,०२२.०४ पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
३,०२२.०४ जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः ॥
३,०२२.०५ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,०२२.०५ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥
३,०२३.०१ निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता ।
३,०२३.०१ जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥
३,०२३.०२ अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् ।
३,०२३.०२ अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥
३,०२३.०३ दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम् ।
३,०२३.०३ अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥
३,०२३.०४ नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् ।
३,०२३.०४ दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥
३,०२३.०५ इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
३,०२३.०५ स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥
३,०२४.०१ अग्ने सहस्व पृतना अभिमातीरपास्य ।
३,०२४.०१ दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे ॥
३,०२४.०२ अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः ।
३,०२४.०२ जुषस्व सू नो अध्वरम् ॥
३,०२४.०३ अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत ।
३,०२४.०३ एदं बर्हिः सदो मम ॥
३,०२४.०४ अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः ।
३,०२४.०४ यज्ञेषु य उ चायवः ॥
३,०२४.०५ अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् ।
३,०२४.०५ शिशीहि नः सूनुमतः ॥
३,०२५.०१ अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः ।
३,०२५.०१ ऋधग्देवां इह यजा चिकित्वः ॥
३,०२५.०२ अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन् ।
३,०२५.०२ स नो देवां एह वहा पुरुक्षो ॥
३,०२५.०३ अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः ।
३,०२५.०३ क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः ॥
३,०२५.०४ अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् ।
३,०२५.०४ अमर्धन्ता सोमपेयाय देवा ॥
३,०२५.०५ अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः ।
३,०२५.०५ सधस्थानि महयमान ऊती ॥
३,०२६.०१ वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् ।
३,०२६.०१ सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥
३,०२६.०२ तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् ।
३,०२६.०२ बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥
३,०२६.०३ अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे ।
३,०२६.०३ स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥
३,०२६.०४ प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत ।
३,०२६.०४ बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ॥
३,०२६.०५ अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् ।
३,०२६.०५ ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥
३,०२६.०६ व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे ।
३,०२६.०६ पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥
३,०२६.०७ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।
३,०२६.०७ अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥
३,०२६.०८ त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् ।
३,०२६.०८ वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥
३,०२६.०९ शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् ।
३,०२६.०९ मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥
३,०२७.०१ प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
३,०२७.०१ देवाञ्जिगाति सुम्नयुः ॥
३,०२७.०२ ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।
३,०२७.०२ श्रुष्टीवानं धितावानम् ॥
३,०२७.०३ अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
३,०२७.०३ अति द्वेषांसि तरेम ॥
३,०२७.०४ समिध्यमानो अध्वरेऽग्निः पावक ईड्यः ।
३,०२७.०४ शोचिष्केशस्तमीमहे ॥
३,०२७.०५ पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः ।
३,०२७.०५ अग्निर्यज्ञस्य हव्यवाट् ॥
३,०२७.०६ तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।
३,०२७.०६ आ चक्रुरग्निमूतये ॥
३,०२७.०७ होता देवो अमर्त्यः पुरस्तादेति मायया ।
३,०२७.०७ विदथानि प्रचोदयन् ॥
३,०२७.०८ वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
३,०२७.०८ विप्रो यज्ञस्य साधनः ॥
३,०२७.०९ धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
३,०२७.०९ दक्षस्य पितरं तना ॥
३,०२७.१० नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।
३,०२७.१० अग्ने सुदीतिमुशिजम् ॥
३,०२७.११ अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः ।
३,०२७.११ विप्रा वाजैः समिन्धते ॥
३,०२७.१२ ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि ।
३,०२७.१२ अग्निमीळे कविक्रतुम् ॥
३,०२७.१३ ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
३,०२७.१३ समग्निरिध्यते वृषा ॥
३,०२७.१४ वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
३,०२७.१४ तं हविष्मन्त ईळते ॥
३,०२७.१५ वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
३,०२७.१५ अग्ने दीद्यतं बृहत् ॥
३,०२८.०१ अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः ।
३,०२८.०१ प्रातःसावे धियावसो ॥
३,०२८.०२ पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः ।
३,०२८.०२ तं जुषस्व यविष्ठ्य ॥
३,०२८.०३ अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम् ।
३,०२८.०३ सहसः सूनुरस्यध्वरे हितः ॥
३,०२८.०४ माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व ।
३,०२८.०४ अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥
३,०२८.०५ अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् ।
३,०२८.०५ अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् ॥
३,०२८.०६ अग्ने वृधान आहुतिं पुरोळाशं जातवेदः ।
३,०२८.०६ जुषस्व तिरोअह्न्यम् ॥
३,०२९.०१ अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् ।
३,०२९.०१ एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥
३,०२९.०२ अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
३,०२९.०२ दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
३,०२९.०३ उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान ।
३,०२९.०३ अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥
३,०२९.०४ इळायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
३,०२९.०४ जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥
३,०२९.०५ मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् ।
३,०२९.०५ यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् ॥
३,०२९.०६ यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा ।
३,०२९.०६ चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥
३,०२९.०७ जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
३,०२९.०७ यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥
३,०२९.०८ सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ ।
३,०२९.०८ देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥
३,०२९.०९ कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ ।
३,०२९.०९ अयमग्निः पृतनाषाट्सुवीरो येन देवासो असहन्त दस्यून् ॥
३,०२९.१० अयं ते योनिरृत्वियो यतो जातो अरोचथाः ।
३,०२९.१० तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥
३,०२९.११ तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते ।
३,०२९.११ मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥
३,०२९.१२ सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
३,०२९.१२ अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥
३,०२९.१३ अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् ।
३,०२९.१३ दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥
३,०२९.१४ प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
३,०२९.१४ न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥
३,०२९.१५ अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः ।
३,०२९.१५ द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे ॥
३,०२९.१६ यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह ।
३,०२९.१६ ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वां उप याहि सोमम् ॥
३,०३०.०१ इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि ।
३,०३०.०१ तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥
३,०३०.०२ न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम् ।
३,०३०.०२ स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥
३,०३०.०३ इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान् ।
३,०३०.०३ यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥
३,०३०.०४ त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः ।
३,०३०.०४ तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः ॥
३,०३०.०५ उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् ।
३,०३०.०५ इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते ॥
३,०३०.०६ प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् ।
३,०३०.०६ जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ॥
३,०३०.०७ यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः ।
३,०३०.०७ भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः ॥
३,०३०.०८ सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम् ।
३,०३०.०८ अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ ॥
३,०३०.०९ नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ ।
३,०३०.०९ अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः ॥
३,०३०.१० अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार ।
३,०३०.१० सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः ॥
३,०३०.११ एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् ।
३,०३०.११ उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥
३,०३०.१२ दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः ।
३,०३०.१२ सं यदानळ् अध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥
३,०३०.१३ दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् ।
३,०३०.१३ विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि ॥
३,०३०.१४ महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः ।
३,०३०.१४ विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय ॥
३,०३०.१५ इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः ।
३,०३०.१५ दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥
३,०३०.१६ सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् ।
३,०३०.१६ वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व ॥
३,०३०.१७ उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि ।
३,०३०.१७ आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥
३,०३०.१८ स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः ।
३,०३०.१८ रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥
३,०३०.१९ आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके ।
३,०३०.१९ ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् ॥
३,०३०.२० इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
३,०३०.२० स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
३,०३०.२१ आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः ।
३,०३०.२१ दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः ॥
३,०३०.२२ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३०.२२ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०३१.०१ शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वां ऋतस्य दीधितिं सपर्यन् ।
३,०३१.०१ पिता यत्र दुहितुः सेकमृञ्जन्सं शग्म्येन मनसा दधन्वे ॥
३,०३१.०२ न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम् ।
३,०३१.०२ यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् ॥
३,०३१.०३ अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्रां अरुषस्य प्रयक्षे ।
३,०३१.०३ महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः ॥
३,०३१.०४ अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् ।
३,०३१.०४ तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ॥
३,०३१.०५ वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः ।
३,०३१.०५ विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश ॥
३,०३१.०६ विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः ।
३,०३१.०६ अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥
३,०३१.०७ अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।
३,०३१.०७ ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥
३,०३१.०८ सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् ।
३,०३१.०८ प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखींरमुञ्चन्निरवद्यात् ॥
३,०३१.०९ नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् ।
३,०३१.०९ इदं चिन्नु सदनं भूर्येषां येन मासां असिषासन्नृतेन ॥
३,०३१.१० सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः ।
३,०३१.१० वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान् ॥
३,०३१.११ स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः ।
३,०३१.११ उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥
३,०३१.१२ पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् ।
३,०३१.१२ विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥
३,०३१.१३ मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः ।
३,०३१.१३ गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः ॥
३,०३१.१४ मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः ।
३,०३१.१४ महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः ॥
३,०३१.१५ महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् ।
३,०३१.१५ इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम् ॥
३,०३१.१६ अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः ।
३,०३१.१६ मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥
३,०३१.१७ अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे ।
३,०३१.१७ परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥
३,०३१.१८ पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः ।
३,०३१.१८ आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥
३,०३१.१९ तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् ।
३,०३१.१९ द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः ॥
३,०३१.२० मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम् ।
३,०३१.२० इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥
३,०३१.२१ अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णां अरुषैर्धामभिर्गात् ।
३,०३१.२१ प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥
३,०३१.२२ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३१.२२ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०३२.०१ इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत्ते ।
३,०३२.०१ प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व ॥
३,०३२.०२ गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय ।
३,०३२.०२ ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व ॥
३,०३२.०३ ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः ।
३,०३२.०३ माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥
३,०३२.०४ त इन्न्वस्य मधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसन् ।
३,०३२.०४ येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥
३,०३२.०५ मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय ।
३,०३२.०५ स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ॥
३,०३२.०६ त्वमपो यद्ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ ।
३,०३२.०६ शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम् ॥
३,०३२.०७ यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम् ।
३,०३२.०७ यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥
३,०३२.०८ इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे ।
३,०३२.०८ दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥
३,०३२.०९ अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम् ।
३,०३२.०९ न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥
३,०३२.१० त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् ।
३,०३२.१० यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥
३,०३२.११ अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् ।
३,०३२.११ न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः ॥
३,०३२.१२ यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः ।
३,०३२.१२ यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत् ॥
३,०३२.१३ यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् ।
३,०३२.१३ य स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥
३,०३२.१४ विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः ।
३,०३२.१४ अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥
३,०३२.१५ आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै ।
३,०३२.१५ समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥
३,०३२.१६ न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त ।
३,०३२.१६ इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् ॥
३,०३२.१७ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३२.१७ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०३३.०१ प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
३,०३३.०१ गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ॥
३,०३३.०२ इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।
३,०३३.०२ समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥
३,०३३.०३ अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म ।
३,०३३.०३ वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥
३,०३३.०४ एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
३,०३३.०४ न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥
३,०३३.०५ रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।
३,०३३.०५ प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥
३,०३३.०६ इन्द्रो अस्मां अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् ।
३,०३३.०६ देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥
३,०३३.०७ प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् ।
३,०३३.०७ वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥
३,०३३.०८ एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।
३,०३३.०८ उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥
३,०३३.०९ ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
३,०३३.०९ नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥
३,०३३.१० आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।
३,०३३.१० नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥
३,०३३.११ यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः ।
३,०३३.११ अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥
३,०३३.१२ अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् ।
३,०३३.१२ प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥
३,०३३.१३ उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
३,०३३.१३ मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥
३,०३४.०१ इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
३,०३४.०१ ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥
३,०३४.०२ मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
३,०३४.०२ इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥
३,०३४.०३ इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
३,०३४.०३ अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥
३,०३४.०४ इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
३,०३४.०४ प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥
३,०३४.०५ इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
३,०३४.०५ अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥
३,०३४.०६ महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
३,०३४.०६ वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥
३,०३४.०७ युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
३,०३४.०७ विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥
३,०३४.०८ सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
३,०३४.०८ ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥
३,०३४.०९ ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
३,०३४.०९ हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् ॥
३,०३४.१० इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।
३,०३४.१० बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥
३,०३४.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३४.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०३५.०१ तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ ।
३,०३५.०१ पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥
३,०३५.०२ उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि ।
३,०३५.०२ द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम् ॥
३,०३५.०३ उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः ।
३,०३५.०३ ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥
३,०३५.०४ ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
३,०३५.०४ स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वां उप याहि सोमम् ॥
३,०३५.०५ मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये ।
३,०३५.०५ अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥
३,०३५.०६ तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि ।
३,०३५.०६ अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥
३,०३५.०७ स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् ।
३,०३५.०७ तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥
३,०३५.०८ इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् ।
३,०३५.०८ तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥
३,०३५.०९ यां आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते ।
३,०३५.०९ तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥
३,०३५.१० इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र ।
३,०३५.१० अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥
३,०३५.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३५.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०३६.०१ इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः ।
३,०३६.०१ सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥
३,०३६.०२ इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः ।
३,०३६.०२ प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥
३,०३६.०३ पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे ।
३,०३६.०३ यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ॥
३,०३६.०४ महां अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः ।
३,०३६.०४ नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन् ॥
३,०३६.०५ महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन ।
३,०३६.०५ इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥
३,०३६.०६ प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः ।
३,०३६.०६ अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥
३,०३६.०७ समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः ।
३,०३६.०७ अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥
३,०३६.०८ ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि ।
३,०३६.०८ अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वां अवृणीत सोमम् ॥
३,०३६.०९ आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् ।
३,०३६.०९ इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥
३,०३६.१० अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः ।
३,०३६.१० अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन् ॥
३,०३६.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३६.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०३७.०१ वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
३,०३७.०१ इन्द्र त्वा वर्तयामसि ॥
३,०३७.०२ अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
३,०३७.०२ इन्द्र कृण्वन्तु वाघतः ॥
३,०३७.०३ नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।
३,०३७.०३ इन्द्राभिमातिषाह्ये ॥
३,०३७.०४ पुरुष्टुतस्य धामभिः शतेन महयामसि ।
३,०३७.०४ इन्द्रस्य चर्षणीधृतः ॥
३,०३७.०५ इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।
३,०३७.०५ भरेषु वाजसातये ॥
३,०३७.०६ वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।
३,०३७.०६ इन्द्र वृत्राय हन्तवे ॥
३,०३७.०७ द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च ।
३,०३७.०७ इन्द्र साक्ष्वाभिमातिषु ॥
३,०३७.०८ शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
३,०३७.०८ इन्द्र सोमं शतक्रतो ॥
३,०३७.०९ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
३,०३७.०९ इन्द्र तानि त आ वृणे ॥
३,०३७.१० अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
३,०३७.१० उत्ते शुष्मं तिरामसि ॥
३,०३७.११ अर्वावतो न आ गह्यथो शक्र परावतः ।
३,०३७.११ उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥
३,०३८.०१ अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः ।
३,०३८.०१ अभि प्रियाणि मर्मृशत्पराणि कवींरिच्छामि संदृशे सुमेधाः ॥
३,०३८.०२ इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् ।
३,०३८.०२ इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥
३,०३८.०३ नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् ।
३,०३८.०३ सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते धायसे धुः ॥
३,०३८.०४ आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः ।
३,०३८.०४ महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥
३,०३८.०५ असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः ।
३,०३८.०५ दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥
३,०३८.०६ त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि ।
३,०३८.०६ अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वां अपि वायुकेशान् ॥
३,०३८.०७ तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः ।
३,०३८.०७ अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥
३,०३८.०८ तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् ।
३,०३८.०८ आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥
३,०३८.०९ युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् ।
३,०३८.०९ गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥
३,०३८.१० शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३८.१० शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०३९.०१ इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति ।
३,०३९.०१ या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य ॥
३,०३९.०२ दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना ।
३,०३९.०२ भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥
३,०३९.०३ यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् ।
३,०३९.०३ वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥
३,०३९.०४ नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः ।
३,०३९.०४ इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥
३,०३९.०५ सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् ।
३,०३९.०५ सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥
३,०३९.०६ इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः ।
३,०३९.०६ गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥
३,०३९.०७ ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके ।
३,०३९.०७ इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥
३,०३९.०८ ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः ।
३,०३९.०८ भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥
३,०३९.०९ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०३९.०९ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०४०.०१ इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
३,०४०.०१ स पाहि मध्वो अन्धसः ॥
३,०४०.०२ इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
३,०४०.०२ पिबा वृषस्व तातृपिम् ॥
३,०४०.०३ इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः ।
३,०४०.०३ तिर स्तवान विश्पते ॥
३,०४०.०४ इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
३,०४०.०४ क्षयं चन्द्रास इन्दवः ॥
३,०४०.०५ दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।
३,०४०.०५ तव द्युक्षास इन्दवः ॥
३,०४०.०६ गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
३,०४०.०६ इन्द्र त्वादातमिद्यशः ॥
३,०४०.०७ अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
३,०४०.०७ पीत्वी सोमस्य वावृधे ॥
३,०४०.०८ अर्वावतो न आ गहि परावतश्च वृत्रहन् ।
३,०४०.०८ इमा जुषस्व नो गिरः ॥
३,०४०.०९ यदन्तरा परावतमर्वावतं च हूयसे ।
३,०४०.०९ इन्द्रेह तत आ गहि ॥
३,०४१.०१ आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।
३,०४१.०१ हरिभ्यां याह्यद्रिवः ॥
३,०४१.०२ सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् ।
३,०४१.०२ अयुज्रन्प्रातरद्रयः ॥
३,०४१.०३ इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
३,०४१.०३ वीहि शूर पुरोळाशम् ॥
३,०४१.०४ रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
३,०४१.०४ उक्थेष्विन्द्र गिर्वणः ॥
३,०४१.०५ मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।
३,०४१.०५ इन्द्रं वत्सं न मातरः ॥
३,०४१.०६ स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
३,०४१.०६ न स्तोतारं निदे करः ॥
३,०४१.०७ वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।
३,०४१.०७ उत त्वमस्मयुर्वसो ॥
३,०४१.०८ मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।
३,०४१.०८ इन्द्र स्वधावो मत्स्वेह ॥
३,०४१.०९ अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।
३,०४१.०९ घृतस्नू बर्हिरासदे ॥
३,०४२.०१ उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
३,०४२.०१ हरिभ्यां यस्ते अस्मयुः ॥
३,०४२.०२ तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।
३,०४२.०२ कुविन्न्वस्य तृप्णवः ॥
३,०४२.०३ इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः ।
३,०४२.०३ आवृते सोमपीतये ॥
३,०४२.०४ इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
३,०४२.०४ उक्थेभिः कुविदागमत् ॥
३,०४२.०५ इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो ।
३,०४२.०५ जठरे वाजिनीवसो ॥
३,०४२.०६ विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे ।
३,०४२.०६ अधा ते सुम्नमीमहे ॥
३,०४२.०७ इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
३,०४२.०७ आगत्या वृषभिः सुतम् ॥
३,०४२.०८ तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
३,०४२.०८ एष रारन्तु ते हृदि ॥
३,०४२.०९ त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
३,०४२.०९ कुशिकासो अवस्यवः ॥
३,०४३.०१ आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् ।
३,०४३.०१ प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥
३,०४३.०२ आ याहि पूर्वीरति चर्षणीरां अर्य आशिष उप नो हरिभ्याम् ।
३,०४३.०२ इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥
३,०४३.०३ आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् ।
३,०४३.०३ अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥
३,०४३.०४ आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा ।
३,०४३.०४ धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि ॥
३,०४३.०५ कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् ।
३,०४३.०५ कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥
३,०४३.०६ आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु ।
३,०४३.०६ प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः ॥
३,०४३.०७ इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार ।
३,०४३.०७ यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥
३,०४३.०८ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०४३.०८ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०४४.०१ अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
३,०४४.०१ जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥
३,०४४.०२ हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।
३,०४४.०२ विद्वांश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥
३,०४४.०३ द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् ।
३,०४४.०३ अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥
३,०४४.०४ जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् ।
३,०४४.०४ हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् ॥
३,०४४.०५ इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् ।
३,०४४.०५ अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥
३,०४५.०१ आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
३,०४५.०१ मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव तां इहि ॥
३,०४५.०२ वृत्रखादो वलंरुजः पुरां दर्मो अपामजः ।
३,०४५.०२ स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः ॥
३,०४५.०३ गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव ।
३,०४५.०३ प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥
३,०४५.०४ आ नस्तुजं रयिं भरांशं न प्रतिजानते ।
३,०४५.०४ वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥
३,०४५.०५ स्वयुरिन्द्र स्वराळ् असि स्मद्दिष्टिः स्वयशस्तरः ।
३,०४५.०५ स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥
३,०४६.०१ युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः ।
३,०४६.०१ अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥
३,०४६.०२ महां असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् ।
३,०४६.०२ एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥
३,०४६.०३ प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः ।
३,०४६.०३ प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी ॥
३,०४६.०४ उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् ।
३,०४६.०४ इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥
३,०४६.०५ यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया ।
३,०४६.०५ तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥
३,०४७.०१ मरुत्वां इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
३,०४७.०१ आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥
३,०४७.०२ सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
३,०४७.०२ जहि शत्रूंरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
३,०४७.०३ उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः ।
३,०४७.०३ यां आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥
३,०४७.०४ ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ।
३,०४७.०४ ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥
३,०४७.०५ मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।
३,०४७.०५ विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥
३,०४८.०१ सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य ।
३,०४८.०१ साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥
३,०४८.०२ यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठाम् ।
३,०४८.०२ तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥
३,०४८.०३ उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः ।
३,०४८.०३ प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥
३,०४८.०४ उग्रस्तुराषाळ् अभिभूत्योजा यथावशं तन्वं चक्र एषः ।
३,०४८.०४ त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥
३,०४८.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०४८.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०४९.०१ शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् ।
३,०४९.०१ यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥
३,०४९.०२ यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् ।
३,०४९.०२ इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥
३,०४९.०३ सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् ।
३,०४९.०३ भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥
३,०४९.०४ धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् ।
३,०४९.०४ क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥
३,०४९.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०४९.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०५०.०१ इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् ।
३,०५०.०१ ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः काममृध्याः ॥
३,०५०.०२ आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः ।
३,०५०.०२ इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः ॥
३,०५०.०३ गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः ।
३,०५०.०३ मन्दानः सोमं पपिवां ऋजीषिन्समस्मभ्यं पुरुधा गा इषण्य ॥
३,०५०.०४ इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
३,०५०.०४ स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
३,०५०.०५ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
३,०५०.०५ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
३,०५१.०१ चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत ।
३,०५१.०१ वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥
३,०५१.०२ शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः ।
३,०५१.०२ वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् ॥
३,०५१.०३ आकरे वसोर्जरिता पनस्यतेऽनेहस स्तुभ इन्द्रो दुवस्यति ।
३,०५१.०३ विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥
३,०५१.०४ नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः ।
३,०५१.०४ सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥
३,०५१.०५ पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति ।
३,०५१.०५ इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ॥
३,०५१.०६ तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व ।
३,०५१.०६ बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥
३,०५१.०७ इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
३,०५१.०७ तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥
३,०५१.०८ स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः ।
३,०५१.०८ जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥
३,०५१.०९ अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः ।
३,०५१.०९ तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥
३,०५१.१० इदं ह्यन्वोजसा सुतं राधानां पते ।
३,०५१.१० पिबा त्वस्य गिर्वणः ॥
३,०५१.११ यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् ।
३,०५१.११ स त्वा ममत्तु सोम्यम् ॥
३,०५१.१२ प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
३,०५१.१२ प्र बाहू शूर राधसे ॥
३,०५२.०१ धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ।
३,०५२.०१ इन्द्र प्रातर्जुषस्व नः ॥
३,०५२.०२ पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च ।
३,०५२.०२ तुभ्यं हव्यानि सिस्रते ॥
३,०५२.०३ पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
३,०५२.०३ वधूयुरिव योषणाम् ॥
३,०५२.०४ पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।
३,०५२.०४ इन्द्र क्रतुर्हि ते बृहन् ॥
३,०५२.०५ माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् ।
३,०५२.०५ प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥
३,०५२.०६ तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।
३,०५२.०६ ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥
३,०५२.०७ पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।
३,०५२.०७ अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥
३,०५२.०८ प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् ।
३,०५२.०८ दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥
३,०५३.०१ इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः ।
३,०५३.०१ वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता ॥
३,०५३.०२ तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि ।
३,०५३.०२ पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥
३,०५३.०३ शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् ।
३,०५३.०३ एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥
३,०५३.०४ जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु ।
३,०५३.०४ यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ ॥
३,०५३.०५ परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् ।
३,०५३.०५ यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥
३,०५३.०६ अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते ।
३,०५३.०६ यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥
३,०५३.०७ इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः ।
३,०५३.०७ विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥
३,०५३.०८ रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् ।
३,०५३.०८ त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा ॥
३,०५३.०९ महां ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः ।
३,०५३.०९ विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः ॥
३,०५३.१० हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा ।
३,०५३.१० देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥
३,०५३.११ उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः ।
३,०५३.११ राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥
३,०५३.१२ य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् ।
३,०५३.१२ विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम् ॥
३,०५३.१३ विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे ।
३,०५३.१३ करदिन्नः सुराधसः ॥
३,०५३.१४ किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् ।
३,०५३.१४ आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥
३,०५३.१५ ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता ।
३,०५३.१५ आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् ॥
३,०५३.१६ ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।
३,०५३.१६ सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥
३,०५३.१७ स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि ।
३,०५३.१७ इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ॥
३,०५३.१८ बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः ।
३,०५३.१८ बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥
३,०५३.१९ अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् ।
३,०५३.१९ अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ॥
३,०५३.२० अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् ।
३,०५३.२० स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥
३,०५३.२१ इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व ।
३,०५३.२१ यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥
३,०५३.२२ परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति ।
३,०५३.२२ उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति ॥
३,०५३.२३ न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः ।
३,०५३.२३ नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति ॥
३,०५३.२४ इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् ।
३,०५३.२४ हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ ॥
३,०५४.०१ इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः ।
३,०५४.०१ शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः ॥
३,०५४.०२ महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन् ।
३,०५४.०२ ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥
३,०५४.०३ युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् ।
३,०५४.०३ इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥
३,०५४.०४ उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः ।
३,०५४.०४ नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥
३,०५४.०५ को अद्धा वेद क इह प्र वोचद्देवां अच्छा पथ्या का समेति ।
३,०५४.०५ ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥
३,०५४.०६ कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती ।
३,०५४.०६ नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥
३,०५४.०७ समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके ।
३,०५४.०७ उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम ॥
३,०५४.०८ विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते ।
३,०५४.०८ एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम् ॥
३,०५४.०९ सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि तन्नः ।
३,०५४.०९ देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः ॥
३,०५४.१० इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः शृणवन्नग्निजिह्वाः ।
३,०५४.१० मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥
३,०५४.११ हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः ।
३,०५४.११ देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम् ॥
३,०५४.१२ सुकृत्सुपाणिः स्ववां ऋतावा देवस्त्वष्टावसे तानि नो धात् ।
३,०५४.१२ पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट ॥
३,०५४.१३ विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः ।
३,०५४.१३ सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं तुरासः ॥
३,०५४.१४ विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् ।
३,०५४.१४ उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः ॥
३,०५४.१५ इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा ।
३,०५४.१५ पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥
३,०५४.१६ नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम ।
३,०५४.१६ युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ॥
३,०५४.१७ महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे ।
३,०५४.१७ सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः ॥
३,०५४.१८ अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि ।
३,०५४.१८ युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमां अस्तु गातुः ॥
३,०५४.१९ देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु सर्वताता ।
३,०५४.१९ शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् ॥
३,०५४.२० शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः ।
३,०५४.२० आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥
३,०५४.२१ सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त ।
३,०५४.२१ भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥
३,०५४.२२ स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ।
३,०५४.२२ विश्वां अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः ॥
३,०५५.०१ उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः ।
३,०५५.०१ व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥
३,०५५.०२ मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।
३,०५५.०२ पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥
३,०५५.०३ वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।
३,०५५.०३ समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम् ॥
३,०५५.०४ समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।
३,०५५.०४ अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥
३,०५५.०५ आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः ।
३,०५५.०५ अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥
३,०५५.०६ शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः ।
३,०५५.०६ मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥
३,०५५.०७ द्विमाता होता विदथेषु सम्राळ् अन्वग्रं चरति क्षेति बुध्नः ।
३,०५५.०७ प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥
३,०५५.०८ शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् ।
३,०५५.०८ अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥
३,०५५.०९ नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन ।
३,०५५.०९ वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥
३,०५५.१० विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।
३,०५५.१० अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥
३,०५५.११ नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् ।
३,०५५.११ श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥
३,०५५.१२ माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।
३,०५५.१२ ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥
३,०५५.१३ अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ।
३,०५५.१३ ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥
३,०५५.१४ पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।
३,०५५.१४ ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥
३,०५५.१५ पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् ।
३,०५५.१५ सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥
३,०५५.१६ आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।
३,०५५.१६ नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥
३,०५५.१७ यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः ।
३,०५५.१७ स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥
३,०५५.१८ वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः ।
३,०५५.१८ षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥
३,०५५.१९ देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
३,०५५.१९ इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥
३,०५५.२० मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।
३,०५५.२० शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥
३,०५५.२१ इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।
३,०५५.२१ पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥
३,०५५.२२ निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति ।
३,०५५.२२ सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम् ॥
३,०५६.०१ न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि ।
३,०५६.०१ न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ॥
३,०५६.०२ षड्भारां एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः ।
३,०५६.०२ तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका ॥
३,०५६.०३ त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् ।
३,०५६.०३ त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः शश्वतीनाम् ॥
३,०५६.०४ अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम ।
३,०५६.०४ आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन् ॥
३,०५६.०५ त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् ।
३,०५६.०५ ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ॥
३,०५६.०६ त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः ।
३,०५६.०६ त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः ॥
३,०५६.०७ त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी ।
३,०५६.०७ आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ॥
३,०५६.०८ त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः ।
३,०५६.०८ ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ॥
३,०५७.०१ प्र मे विविक्वां अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् ।
३,०५७.०१ सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥
३,०५७.०२ इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।
३,०५७.०२ विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥
३,०५७.०३ या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् ।
३,०५७.०३ अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥
३,०५७.०४ अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा ।
३,०५७.०४ इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥
३,०५७.०५ या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।
३,०५७.०५ तयेह विश्वां अवसे यजत्राना सादय पायया चा मधूनि ॥
३,०५७.०६ या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा ।
३,०५७.०६ तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥
३,०५८.०१ धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः ।
३,०५८.०१ आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः ॥
३,०५८.०२ सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः ।
३,०५८.०२ जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥
३,०५८.०३ सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
३,०५८.०३ किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥
३,०५८.०४ आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते ।
३,०५८.०४ इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥
३,०५८.०५ तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु ।
३,०५८.०५ एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् ॥
३,०५८.०६ पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् ।
३,०५८.०६ पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥
३,०५८.०७ अश्विना वायुना युवं सुदक्षा नियुद्भिष्च सजोषसा युवाना ।
३,०५८.०७ नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥
३,०५८.०८ अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः ।
३,०५८.०८ रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥
३,०५८.०९ अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।
३,०५८.०९ रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥
३,०५९.०१ मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
३,०५९.०१ मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥
३,०५९.०२ प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन ।
३,०५९.०२ न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥
३,०५९.०३ अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
३,०५९.०३ आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥
३,०५९.०४ अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः ।
३,०५९.०४ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
३,०५९.०५ महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
३,०५९.०५ तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥
३,०५९.०६ मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
३,०५९.०६ द्युम्नं चित्रश्रवस्तमम् ॥
३,०५९.०७ अभि यो महिना दिवं मित्रो बभूव सप्रथाः ।
३,०५९.०७ अभि श्रवोभिः पृथिवीम् ॥
३,०५९.०८ मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
३,०५९.०८ स देवान्विश्वान्बिभर्ति ॥
३,०५९.०९ मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे ।
३,०५९.०९ इष इष्टव्रता अकः ॥
३,०६०.०१ इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा ।
३,०६०.०१ याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥
३,०६०.०२ याभिः शचीभिश्चमसां अपिंशत यया धिया गामरिणीत चर्मणः ।
३,०६०.०२ येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥
३,०६०.०३ इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे ।
३,०६०.०३ सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥
३,०६०.०४ इन्द्रेण याथ सरथं सुते सचां अथो वशानां भवथा सह श्रिया ।
३,०६०.०४ न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥
३,०६०.०५ इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः ।
३,०६०.०५ धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥
३,०६०.०६ इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने शच्या पुरुष्टुत ।
३,०६०.०६ इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥
३,०६०.०७ इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् ।
३,०६०.०७ शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥
३,०६१.०१ उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि ।
३,०६१.०१ पुराणी देवि युवतिः पुरन्धिरनु व्रतं चरसि विश्ववारे ॥
३,०६१.०२ उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
३,०६१.०२ आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥
३,०६१.०३ उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।
३,०६१.०३ समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥
३,०६१.०४ अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
३,०६१.०४ स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥
३,०६१.०५ अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् ।
३,०६१.०५ ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥
३,०६१.०६ ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।
३,०६१.०६ आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥
३,०६१.०७ ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।
३,०६१.०७ मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥
३,०६२.०१ इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
३,०६२.०१ क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥
३,०६२.०२ अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति ।
३,०६२.०२ सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥
३,०६२.०३ अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः ।
३,०६२.०३ अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥
३,०६२.०४ बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
३,०६२.०४ रास्व रत्नानि दाशुषे ॥
३,०६२.०५ शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत ।
३,०६२.०५ अनाम्योज आ चके ॥
३,०६२.०६ वृषभं चर्षणीनां विश्वरूपमदाभ्यम् ।
३,०६२.०६ बृहस्पतिं वरेण्यम् ॥
३,०६२.०७ इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी ।
३,०६२.०७ अस्माभिस्तुभ्यं शस्यते ॥
३,०६२.०८ तां जुषस्व गिरं मम वाजयन्तीमवा धियम् ।
३,०६२.०८ वधूयुरिव योषणाम् ॥
३,०६२.०९ यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
३,०६२.०९ स नः पूषाविता भुवत् ॥
३,०६२.१० तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
३,०६२.१० धियो यो नः प्रचोदयात् ॥
३,०६२.११ देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या ।
३,०६२.११ भगस्य रातिमीमहे ॥
३,०६२.१२ देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः ।
३,०६२.१२ नमस्यन्ति धियेषिताः ॥
३,०६२.१३ सोमो जिगाति गातुविद्देवानामेति निष्कृतम् ।
३,०६२.१३ ऋतस्य योनिमासदम् ॥
३,०६२.१४ सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
३,०६२.१४ अनमीवा इषस्करत् ॥
३,०६२.१५ अस्माकमायुर्वर्धयन्नभिमातीः सहमानः ।
३,०६२.१५ सोमः सधस्थमासदत् ॥
३,०६२.१६ आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् ।
३,०६२.१६ मध्वा रजांसि सुक्रतू ॥
३,०६२.१७ उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
३,०६२.१७ द्राघिष्ठाभिः शुचिव्रता ॥
३,०६२.१८ गृणाना जमदग्निना योनावृतस्य सीदतम् ।
३,०६२.१८ पातं सोममृतावृधा ॥
ऋग्वेद ४
४,००१.०१ त्वां ह्यग्ने सदमित्समन्यवो देवासो देवमरतिं न्येरिर इति क्रत्वा न्येरिरे ।
४,००१.०१ अमर्त्यं यजत मर्त्येष्वा देवमादेवं जनत प्रचेतसं विश्वमादेवं जनत प्रचेतसम् ॥
४,००१.०२ स भ्रातरं वरुणमग्न आ ववृत्स्व देवां अच्छा सुमती यज्ञवनसं ज्येष्ठं यज्ञवनसम् ।
४,००१.०२ ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥
४,००१.०३ सखे सखायमभ्या ववृत्स्वाशुं न चक्रं रथ्येव रंह्यास्मभ्यं दस्म रंह्या ।
४,००१.०३ अग्ने मृळीकं वरुणे सचा विदो मरुत्सु विश्वभानुषु ।
४,००१.०३ तोकाय तुजे शुशुचान शं कृध्यस्मभ्यं दस्म शं कृधि ॥
४,००१.०४ त्वं नो अग्ने वरुणस्य विद्वान्देवस्य हेळोऽव यासिसीष्ठाः ।
४,००१.०४ यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषांसि प्र मुमुग्ध्यस्मत् ॥
४,००१.०५ स त्वं नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ ।
४,००१.०५ अव यक्ष्व नो वरुणं रराणो वीहि मृळीकं सुहवो न एधि ॥
४,००१.०६ अस्य श्रेष्ठा सुभगस्य संदृग्देवस्य चित्रतमा मर्त्येषु ।
४,००१.०६ शुचि घृतं न तप्तमघ्न्याया स्पार्हा देवस्य मंहनेव धेनोः ॥
४,००१.०७ त्रिरस्य ता परमा सन्ति सत्या स्पार्हा देवस्य जनिमान्यग्नेः ।
४,००१.०७ अनन्ते अन्तः परिवीत आगाच्छुचिः शुक्रो अर्यो रोरुचानः ॥
४,००१.०८ स दूतो विश्वेदभि वष्टि सद्मा होता हिरण्यरथो रंसुजिह्वः ।
४,००१.०८ रोहिदश्वो वपुष्यो विभावा सदा रण्वः पितुमतीव संसत् ॥
४,००१.०९ स चेतयन्मनुषो यज्ञबन्धुः प्र तं मह्या रशनया नयन्ति ।
४,००१.०९ स क्षेत्यस्य दुर्यासु साधन्देवो मर्तस्य सधनित्वमाप ॥
४,००१.१० स तू नो अग्निर्नयतु प्रजानन्नच्छा रत्नं देवभक्तं यदस्य ।
४,००१.१० धिया यद्विश्वे अमृता अकृण्वन्द्यौष्पिता जनिता सत्यमुक्षन् ॥
४,००१.११ स जायत प्रथमः पस्त्यासु महो बुध्ने रजसो अस्य योनौ ।
४,००१.११ अपादशीर्षा गुहमानो अन्तायोयुवानो वृषभस्य नीळे ॥
४,००१.१२ प्र शर्ध आर्त प्रथमं विपन्यां ऋतस्य योना वृषभस्य नीळे ।
४,००१.१२ स्पार्हो युवा वपुष्यो विभावा सप्त प्रियासोऽजनयन्त वृष्णे ॥
४,००१.१३ अस्माकमत्र पितरो मनुष्या अभि प्र सेदुरृतमाशुषाणाः ।
४,००१.१३ अश्मव्रजाः सुदुघा वव्रे अन्तरुदुस्रा आजन्नुषसो हुवानाः ॥
४,००१.१४ ते मर्मृजत ददृवांसो अद्रिं तदेषामन्ये अभितो वि वोचन् ।
४,००१.१४ पश्वयन्त्रासो अभि कारमर्चन्विदन्त ज्योतिश्चकृपन्त धीभिः ॥
४,००१.१५ ते गव्यता मनसा दृध्रमुब्धं गा येमानं परि षन्तमद्रिम् ।
४,००१.१५ दृळ्हं नरो वचसा दैव्येन व्रजं गोमन्तमुशिजो वि वव्रुः ॥
४,००१.१६ ते मन्वत प्रथमं नाम धेनोस्त्रिः सप्त मातुः परमाणि विन्दन् ।
४,००१.१६ तज्जानतीरभ्यनूषत व्रा आविर्भुवदरुणीर्यशसा गोः ॥
४,००१.१७ नेशत्तमो दुधितं रोचत द्यौरुद्देव्या उषसो भानुरर्त ।
४,००१.१७ आ सूर्यो बृहतस्तिष्ठदज्रां ऋजु मर्तेषु वृजिना च पश्यन् ॥
४,००१.१८ आदित्पश्चा बुबुधाना व्यख्यन्नादिद्रत्नं धारयन्त द्युभक्तम् ।
४,००१.१८ विश्वे विश्वासु दुर्यासु देवा मित्र धिये वरुण सत्यमस्तु ॥
४,००१.१९ अच्छा वोचेय शुशुचानमग्निं होतारं विश्वभरसं यजिष्ठम् ।
४,००१.१९ शुच्यूधो अतृणन्न गवामन्धो न पूतं परिषिक्तमंशोः ॥
४,००१.२० विश्वेषामदितिर्यज्ञियानां विश्वेषामतिथिर्मानुषाणाम् ।
४,००१.२० अग्निर्देवानामव आवृणानः सुमृळीको भवतु जातवेदाः ॥
४,००२.०१ यो मर्त्येष्वमृत ऋतावा देवो देवेष्वरतिर्निधायि ।
४,००२.०१ होता यजिष्ठो मह्ना शुचध्यै हव्यैरग्निर्मनुष ईरयध्यै ॥
४,००२.०२ इह त्वं सूनो सहसो नो अद्य जातो जातां उभयां अन्तरग्ने ।
४,००२.०२ दूत ईयसे युयुजान ऋष्व ऋजुमुष्कान्वृषणः शुक्रांश्च ॥
४,००२.०३ अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा ।
४,००२.०३ अन्तरीयसे अरुषा युजानो युष्मांश्च देवान्विश आ च मर्तान् ॥
४,००२.०४ अर्यमणं वरुणं मित्रमेषामिन्द्राविष्णू मरुतो अश्विनोत ।
४,००२.०४ स्वश्वो अग्ने सुरथः सुराधा एदु वह सुहविषे जनाय ॥
४,००२.०५ गोमां अग्नेऽविमां अश्वी यज्ञो नृवत्सखा सदमिदप्रमृष्यः ।
४,००२.०५ इळावां एषो असुर प्रजावान्दीर्घो रयिः पृथुबुध्नः सभावान् ॥
४,००२.०६ यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया ।
४,००२.०६ भुवस्तस्य स्वतवांः पायुरग्ने विश्वस्मात्सीमघायत उरुष्य ॥
४,००२.०७ यस्ते भरादन्नियते चिदन्नं निशिषन्मन्द्रमतिथिमुदीरत् ।
४,००२.०७ आ देवयुरिनधते दुरोणे तस्मिन्रयिर्ध्रुवो अस्तु दास्वान् ॥
४,००२.०८ यस्त्वा दोषा य उषसि प्रशंसात्प्रियं वा त्वा कृणवते हविष्मान् ।
४,००२.०८ अश्वो न स्वे दम आ हेम्यावान्तमंहसः पीपरो दाश्वांसम् ॥
४,००२.०९ यस्तुभ्यमग्ने अमृताय दाशद्दुवस्त्वे कृणवते यतस्रुक् ।
४,००२.०९ न स राया शशमानो वि योषन्नैनमंहः परि वरदघायोः ॥
४,००२.१० यस्य त्वमग्ने अध्वरं जुजोषो देवो मर्तस्य सुधितं रराणः ।
४,००२.१० प्रीतेदसद्धोत्रा सा यविष्ठासाम यस्य विधतो वृधासः ॥
४,००२.११ चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् ।
४,००२.११ राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य ॥
४,००२.१२ कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः ।
४,००२.१२ अतस्त्वं दृश्यां अग्न एतान्पड्भिः पश्येरद्भुतां अर्य एवैः ॥
४,००२.१३ त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ ।
४,००२.१३ रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः ॥
४,००२.१४ अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः ।
४,००२.१४ रथं न क्रन्तो अपसा भुरिजोरृतं येमुः सुध्य आशुषाणाः ॥
४,००२.१५ अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् ।
४,००२.१५ दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥
४,००२.१६ अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः ।
४,००२.१६ शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥
४,००२.१७ सुकर्माणः सुरुचो देवयन्तोऽयो न देवा जनिमा धमन्तः ।
४,००२.१७ शुचन्तो अग्निं ववृधन्त इन्द्रमूर्वं गव्यं परिषदन्तो अग्मन् ॥
४,००२.१८ आ यूथेव क्षुमति पश्वो अख्यद्देवानां यज्जनिमान्त्युग्र ।
४,००२.१८ मर्तानां चिदुर्वशीरकृप्रन्वृधे चिदर्य उपरस्यायोः ॥
४,००२.१९ अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः ।
४,००२.१९ अनूनमग्निं पुरुधा सुश्चन्द्रं देवस्य मर्मृजतश्चारु चक्षुः ॥
४,००२.२० एता ते अग्न उचथानि वेधोऽवोचाम कवये ता जुषस्व ।
४,००२.२० उच्छोचस्व कृणुहि वस्यसो नो महो रायः पुरुवार प्र यन्धि ॥
४,००३.०१ आ वो राजानमध्वरस्य रुद्रं होतारं सत्ययजं रोदस्योः ।
४,००३.०१ अग्निं पुरा तनयित्नोरचित्ताद्धिरण्यरूपमवसे कृणुध्वम् ॥
४,००३.०२ अयं योनिश्चकृमा यं वयं ते जायेव पत्य उशती सुवासाः ।
४,००३.०२ अर्वाचीनः परिवीतो नि षीदेमा उ ते स्वपाक प्रतीचीः ॥
४,००३.०३ आशृण्वते अदृपिताय मन्म नृचक्षसे सुमृळीकाय वेधः ।
४,००३.०३ देवाय शस्तिममृताय शंस ग्रावेव सोता मधुषुद्यमीळे ॥
४,००३.०४ त्वं चिन्नः शम्या अग्ने अस्या ऋतस्य बोध्यृतचित्स्वाधीः ।
४,००३.०४ कदा त उक्था सधमाद्यानि कदा भवन्ति सख्या गृहे ते ॥
४,००३.०५ कथा ह तद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगः ।
४,००३.०५ कथा मित्राय मीळ्हुषे पृथिव्यै ब्रवः कदर्यम्णे कद्भगाय ॥
४,००३.०६ कद्धिष्ण्यासु वृधसानो अग्ने कद्वाताय प्रतवसे शुभंये ।
४,००३.०६ परिज्मने नासत्याय क्षे ब्रवः कदग्ने रुद्राय नृघ्ने ॥
४,००३.०७ कथा महे पुष्टिम्भराय पूष्णे कद्रुद्राय सुमखाय हविर्दे ।
४,००३.०७ कद्विष्णव उरुगायाय रेतो ब्रवः कदग्ने शरवे बृहत्यै ॥
४,००३.०८ कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः ।
४,००३.०८ प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥
४,००३.०९ ऋतेन ऋतं नियतमीळ आ गोरामा सचा मधुमत्पक्वमग्ने ।
४,००३.०९ कृष्णा सती रुशता धासिनैषा जामर्येण पयसा पीपाय ॥
४,००३.१० ऋतेन हि ष्मा वृषभश्चिदक्तः पुमां अग्निः पयसा पृष्ठ्येन ।
४,००३.१० अस्पन्दमानो अचरद्वयोधा वृषा शुक्रं दुदुहे पृश्निरूधः ॥
४,००३.११ ऋतेनाद्रिं व्यसन्भिदन्तः समङ्गिरसो नवन्त गोभिः ।
४,००३.११ शुनं नरः परि षदन्नुषासमाविः स्वरभवज्जाते अग्नौ ॥
४,००३.१२ ऋतेन देवीरमृता अमृक्ता अर्णोभिरापो मधुमद्भिरग्ने ।
४,००३.१२ वाजी न सर्गेषु प्रस्तुभानः प्र सदमित्स्रवितवे दधन्युः ॥
४,००३.१३ मा कस्य यक्षं सदमिद्धुरो गा मा वेशस्य प्रमिनतो मापेः ।
४,००३.१३ मा भ्रातुरग्ने अनृजोरृणं वेर्मा सख्युर्दक्षं रिपोर्भुजेम ॥
४,००३.१४ रक्षा णो अग्ने तव रक्षणेभी रारक्षाणः सुमख प्रीणानः ।
४,००३.१४ प्रति ष्फुर वि रुज वीड्वंहो जहि रक्षो महि चिद्वावृधानम् ॥
४,००३.१५ एभिर्भव सुमना अग्ने अर्कैरिमान्स्पृश मन्मभिः शूर वाजान् ।
४,००३.१५ उत ब्रह्माण्यङ्गिरो जुषस्व सं ते शस्तिर्देववाता जरेत ॥
४,००३.१६ एता विश्वा विदुषे तुभ्यं वेधो नीथान्यग्ने निण्या वचांसि ।
४,००३.१६ निवचना कवये काव्यान्यशंसिषं मतिभिर्विप्र उक्थैः ॥
४,००४.०१ कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवां इभेन ।
४,००४.०१ तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥
४,००४.०२ तव भ्रमास आशुया पतन्त्यनु स्पृश धृषता शोशुचानः ।
४,००४.०२ तपूंष्यग्ने जुह्वा पतङ्गानसंदितो वि सृज विष्वगुल्काः ॥
४,००४.०३ प्रति स्पशो वि सृज तूर्णितमो भवा पायुर्विशो अस्या अदब्धः ।
४,००४.०३ यो नो दूरे अघशंसो यो अन्त्यग्ने माकिष्टे व्यथिरा दधर्षीत् ॥
४,००४.०४ उदग्ने तिष्ठ प्रत्या तनुष्व न्यमित्रां ओषतात्तिग्महेते ।
४,००४.०४ यो नो अरातिं समिधान चक्रे नीचा तं धक्ष्यतसं न शुष्कम् ॥
४,००४.०५ ऊर्ध्वो भव प्रति विध्याध्यस्मदाविष्कृणुष्व दैव्यान्यग्ने ।
४,००४.०५ अव स्थिरा तनुहि यातुजूनां जामिमजामिं प्र मृणीहि शत्रून् ॥
४,००४.०६ स ते जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुमैरत् ।
४,००४.०६ विश्वान्यस्मै सुदिनानि रायो द्युम्नान्यर्यो वि दुरो अभि द्यौत् ॥
४,००४.०७ सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषा य उक्थैः ।
४,००४.०७ पिप्रीषति स्व आयुषि दुरोणे विश्वेदस्मै सुदिना सासदिष्टिः ॥
४,००४.०८ अर्चामि ते सुमतिं घोष्यर्वाक्सं ते वावाता जरतामियं गीः ।
४,००४.०८ स्वश्वास्त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेरनु द्यून् ॥
४,००४.०९ इह त्वा भूर्या चरेदुप त्मन्दोषावस्तर्दीदिवांसमनु द्यून् ।
४,००४.०९ क्रीळन्तस्त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवांसो जनानाम् ॥
४,००४.१० यस्त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन ।
४,००४.१० तस्य त्राता भवसि तस्य सखा यस्त आतिथ्यमानुषग्जुजोषत् ॥
४,००४.११ महो रुजामि बन्धुता वचोभिस्तन्मा पितुर्गोतमादन्वियाय ।
४,००४.११ त्वं नो अस्य वचसश्चिकिद्धि होतर्यविष्ठ सुक्रतो दमूनाः ॥
४,००४.१२ अस्वप्नजस्तरणयः सुशेवा अतन्द्रासोऽवृका अश्रमिष्ठाः ।
४,००४.१२ ते पायवः सध्र्यञ्चो निषद्याग्ने तव नः पान्त्वमूर ॥
४,००४.१३ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
४,००४.१३ ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥
४,००४.१४ त्वया वयं सधन्यस्त्वोतास्तव प्रणीत्यश्याम वाजान् ।
४,००४.१४ उभा शंसा सूदय सत्यतातेऽनुष्ठुया कृणुह्यह्रयाण ॥
४,००४.१५ अया ते अग्ने समिधा विधेम प्रति स्तोमं शस्यमानं गृभाय ।
४,००४.१५ दहाशसो रक्षसः पाह्यस्मान्द्रुहो निदो मित्रमहो अवद्यात् ॥
४,००५.०१ वैश्वानराय मीळ्हुषे सजोषाः कथा दाशेमाग्नये बृहद्भाः ।
४,००५.०१ अनूनेन बृहता वक्षथेनोप स्तभायदुपमिन्न रोधः ॥
४,००५.०२ मा निन्दत य इमां मह्यं रातिं देवो ददौ मर्त्याय स्वधावान् ।
४,००५.०२ पाकाय गृत्सो अमृतो विचेता वैश्वानरो नृतमो यह्वो अग्निः ॥
४,००५.०३ साम द्विबर्हा महि तिग्मभृष्टिः सहस्ररेता वृषभस्तुविष्मान् ।
४,००५.०३ पदं न गोरपगूळ्हं विविद्वानग्निर्मह्यं प्रेदु वोचन्मनीषाम् ॥
४,००५.०४ प्र तां अग्निर्बभसत्तिग्मजम्भस्तपिष्ठेन शोचिषा यः सुराधाः ।
४,००५.०४ प्र ये मिनन्ति वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि ॥
४,००५.०५ अभ्रातरो न योषणो व्यन्तः पतिरिपो न जनयो दुरेवाः ।
४,००५.०५ पापासः सन्तो अनृता असत्या इदं पदमजनता गभीरम् ॥
४,००५.०६ इदं मे अग्ने कियते पावकामिनते गुरुं भारं न मन्म ।
४,००५.०६ बृहद्दधाथ धृषता गभीरं यह्वं पृष्ठं प्रयसा सप्तधातु ॥
४,००५.०७ तमिन्न्वेव समना समानमभि क्रत्वा पुनती धीतिरश्याः ।
४,००५.०७ ससस्य चर्मन्नधि चारु पृश्नेरग्रे रुप आरुपितं जबारु ॥
४,००५.०८ प्रवाच्यं वचसः किं मे अस्य गुहा हितमुप निणिग्वदन्ति ।
४,००५.०८ यदुस्रियाणामप वारिव व्रन्पाति प्रियं रुपो अग्रं पदं वेः ॥
४,००५.०९ इदमु त्यन्महि महामनीकं यदुस्रिया सचत पूर्व्यं गौः ।
४,००५.०९ ऋतस्य पदे अधि दीद्यानं गुहा रघुष्यद्रघुयद्विवेद ॥
४,००५.१० अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः ।
४,००५.१० मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा ॥
४,००५.११ ऋतं वोचे नमसा पृच्छ्यमानस्तवाशसा जातवेदो यदीदम् ।
४,००५.११ त्वमस्य क्षयसि यद्ध विश्वं दिवि यदु द्रविणं यत्पृथिव्याम् ॥
४,००५.१२ किं नो अस्य द्रविणं कद्ध रत्नं वि नो वोचो जातवेदश्चिकित्वान् ।
४,००५.१२ गुहाध्वनः परमं यन्नो अस्य रेकु पदं न निदाना अगन्म ॥
४,००५.१३ का मर्यादा वयुना कद्ध वाममच्छा गमेम रघवो न वाजम् ।
४,००५.१३ कदा नो देवीरमृतस्य पत्नीः सूरो वर्णेन ततनन्नुषासः ॥
४,००५.१४ अनिरेण वचसा फल्ग्वेन प्रतीत्येन कृधुनातृपासः ।
४,००५.१४ अधा ते अग्ने किमिहा वदन्त्यनायुधास आसता सचन्ताम् ॥
४,००५.१५ अस्य श्रिये समिधानस्य वृष्णो वसोरनीकं दम आ रुरोच ।
४,००५.१५ रुशद्वसानः सुदृशीकरूपः क्षितिर्न राया पुरुवारो अद्यौत् ॥
४,००६.०१ ऊर्ध्व ऊ षु णो अध्वरस्य होतरग्ने तिष्ठ देवताता यजीयान् ।
४,००६.०१ त्वं हि विश्वमभ्यसि मन्म प्र वेधसश्चित्तिरसि मनीषाम् ॥
४,००६.०२ अमूरो होता न्यसादि विक्ष्वग्निर्मन्द्रो विदथेषु प्रचेताः ।
४,००६.०२ ऊर्ध्वं भानुं सवितेवाश्रेन्मेतेव धूमं स्तभायदुप द्याम् ॥
४,००६.०३ यता सुजूर्णी रातिनी घृताची प्रदक्षिणिद्देवतातिमुराणः ।
४,००६.०३ उदु स्वरुर्नवजा नाक्रः पश्वो अनक्ति सुधितः सुमेकः ॥
४,००६.०४ स्तीर्णे बर्हिषि समिधाने अग्ना ऊर्ध्वो अध्वर्युर्जुजुषाणो अस्थात् ।
४,००६.०४ पर्यग्निः पशुपा न होता त्रिविष्ट्येति प्रदिव उराणः ॥
४,००६.०५ परि त्मना मितद्रुरेति होताग्निर्मन्द्रो मधुवचा ऋतावा ।
४,००६.०५ द्रवन्त्यस्य वाजिनो न शोका भयन्ते विश्वा भुवना यदभ्राट् ॥
४,००६.०६ भद्रा ते अग्ने स्वनीक संदृग्घोरस्य सतो विषुणस्य चारुः ।
४,००६.०६ न यत्ते शोचिस्तमसा वरन्त न ध्वस्मानस्तन्वी रेप आ धुः ॥
४,००६.०७ न यस्य सातुर्जनितोरवारि न मातरापितरा नू चिदिष्टौ ।
४,००६.०७ अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु ॥
४,००६.०८ द्विर्यं पञ्च जीजनन्संवसानाः स्वसारो अग्निं मानुषीषु विक्षु ।
४,००६.०८ उषर्बुधमथर्यो न दन्तं शुक्रं स्वासं परशुं न तिग्मम् ॥
४,००६.०९ तव त्ये अग्ने हरितो घृतस्ना रोहितास ऋज्वञ्चः स्वञ्चः ।
४,००६.०९ अरुषासो वृषण ऋजुमुष्का आ देवतातिमह्वन्त दस्माः ॥
४,००६.१० ये ह त्ये ते सहमाना अयासस्त्वेषासो अग्ने अर्चयश्चरन्ति ।
४,००६.१० श्येनासो न दुवसनासो अर्थं तुविष्वणसो मारुतं न शर्धः ॥
४,००६.११ अकारि ब्रह्म समिधान तुभ्यं शंसात्युक्थं यजते व्यू धाः ।
४,००६.११ होतारमग्निं मनुषो नि षेदुर्नमस्यन्त उशिजः शंसमायोः ॥
४,००७.०१ अयमिह प्रथमो धायि धातृभिर्होता यजिष्ठो अध्वरेष्वीड्यः ।
४,००७.०१ यमप्नवानो भृगवो विरुरुचुर्वनेषु चित्रं विभ्वं विशेविशे ॥
४,००७.०२ अग्ने कदा त आनुषग्भुवद्देवस्य चेतनम् ।
४,००७.०२ अधा हि त्वा जगृभ्रिरे मर्तासो विक्ष्वीड्यम् ॥
४,००७.०३ ऋतावानं विचेतसं पश्यन्तो द्यामिव स्तृभिः ।
४,००७.०३ विश्वेषामध्वराणां हस्कर्तारं दमेदमे ॥
४,००७.०४ आशुं दूतं विवस्वतो विश्वा यश्चर्षणीरभि ।
४,००७.०४ आ जभ्रुः केतुमायवो भृगवाणं विशेविशे ॥
४,००७.०५ तमीं होतारमानुषक्चिकित्वांसं नि षेदिरे ।
४,००७.०५ रण्वं पावकशोचिषं यजिष्ठं सप्त धामभिः ॥
४,००७.०६ तं शश्वतीषु मातृषु वन आ वीतमश्रितम् ।
४,००७.०६ चित्रं सन्तं गुहा हितं सुवेदं कूचिदर्थिनम् ॥
४,००७.०७ ससस्य यद्वियुता सस्मिन्नूधन्नृतस्य धामन्रणयन्त देवाः ।
४,००७.०७ महां अग्निर्नमसा रातहव्यो वेरध्वराय सदमिदृतावा ॥
४,००७.०८ वेरध्वरस्य दूत्यानि विद्वानुभे अन्ता रोदसी संचिकित्वान् ।
४,००७.०८ दूत ईयसे प्रदिव उराणो विदुष्टरो दिव आरोधनानि ॥
४,००७.०९ कृष्णं त एम रुशतः पुरो भाश्चरिष्ण्वर्चिर्वपुषामिदेकम् ।
४,००७.०९ यदप्रवीता दधते ह गर्भं सद्यश्चिज्जातो भवसीदु दूतः ॥
४,००७.१० सद्यो जातस्य ददृशानमोजो यदस्य वातो अनुवाति शोचिः ।
४,००७.१० वृणक्ति तिग्मामतसेषु जिह्वां स्थिरा चिदन्ना दयते वि जम्भैः ॥
४,००७.११ तृषु यदन्ना तृषुणा ववक्ष तृषुं दूतं कृणुते यह्वो अग्निः ।
४,००७.११ वातस्य मेळिं सचते निजूर्वन्नाशुं न वाजयते हिन्वे अर्वा ॥
४,००८.०१ दूतं वो विश्ववेदसं हव्यवाहममर्त्यम् ।
४,००८.०१ यजिष्ठमृञ्जसे गिरा ॥
४,००८.०२ स हि वेदा वसुधितिं महां आरोधनं दिवः ।
४,००८.०२ स देवां एह वक्षति ॥
४,००८.०३ स वेद देव आनमं देवां ऋतायते दमे ।
४,००८.०३ दाति प्रियाणि चिद्वसु ॥
४,००८.०४ स होता सेदु दूत्यं चिकित्वां अन्तरीयते ।
४,००८.०४ विद्वां आरोधनं दिवः ॥
४,००८.०५ ते स्याम ये अग्नये ददाशुर्हव्यदातिभिः ।
४,००८.०५ य ईं पुष्यन्त इन्धते ॥
४,००८.०६ ते राया ते सुवीर्यैः ससवांसो वि शृण्विरे ।
४,००८.०६ ये अग्ना दधिरे दुवः ॥
४,००८.०७ अस्मे रायो दिवेदिवे सं चरन्तु पुरुस्पृहः ।
४,००८.०७ अस्मे वाजास ईरताम् ॥
४,००८.०८ स विप्रश्चर्षणीनां शवसा मानुषाणाम् ।
४,००८.०८ अति क्षिप्रेव विध्यति ॥
४,००९.०१ अग्ने मृळ महां असि य ईमा देवयुं जनम् ।
४,००९.०१ इयेथ बर्हिरासदम् ॥
४,००९.०२ स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः ।
४,००९.०२ दूतो विश्वेषां भुवत् ॥
४,००९.०३ स सद्म परि णीयते होता मन्द्रो दिविष्टिषु ।
४,००९.०३ उत पोता नि षीदति ॥
४,००९.०४ उत ग्ना अग्निरध्वर उतो गृहपतिर्दमे ।
४,००९.०४ उत ब्रह्मा नि षीदति ॥
४,००९.०५ वेषि ह्यध्वरीयतामुपवक्ता जनानाम् ।
४,००९.०५ हव्या च मानुषाणाम् ॥
४,००९.०६ वेषीद्वस्य दूत्यं यस्य जुजोषो अध्वरम् ।
४,००९.०६ हव्यं मर्तस्य वोळ्हवे ॥
४,००९.०७ अस्माकं जोष्यध्वरमस्माकं यज्ञमङ्गिरः ।
४,००९.०७ अस्माकं शृणुधी हवम् ॥
४,००९.०८ परि ते दूळभो रथोऽस्मां अश्नोतु विश्वतः ।
४,००९.०८ येन रक्षसि दाशुषः ॥
४,०१०.०१ अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् ।
४,०१०.०१ ऋध्यामा त ओहैः ॥
४,०१०.०२ अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।
४,०१०.०२ रथीरृतस्य बृहतो बभूथ ॥
४,०१०.०३ एभिर्नो अर्कैर्भवा नो अर्वाङ्स्वर्ण ज्योतिः ।
४,०१०.०३ अग्ने विश्वेभिः सुमना अनीकैः ॥
४,०१०.०४ आभिष्टे अद्य गीर्भिर्गृणन्तोऽग्ने दाशेम ।
४,०१०.०४ प्र ते दिवो न स्तनयन्ति शुष्माः ॥
४,०१०.०५ तव स्वादिष्ठाग्ने संदृष्टिरिदा चिदह्न इदा चिदक्तोः ।
४,०१०.०५ श्रिये रुक्मो न रोचत उपाके ॥
४,०१०.०६ घृतं न पूतं तनूररेपाः शुचि हिरण्यम् ।
४,०१०.०६ तत्ते रुक्मो न रोचत स्वधावः ॥
४,०१०.०७ कृतं चिद्धि ष्मा सनेमि द्वेषोऽग्न इनोषि मर्तात् ।
४,०१०.०७ इत्था यजमानादृतावः ॥
४,०१०.०८ शिवा नः सख्या सन्तु भ्रात्राग्ने देवेषु युष्मे ।
४,०१०.०८ सा नो नाभिः सदने सस्मिन्नूधन् ॥
४,०११.०१ भद्रं ते अग्ने सहसिन्ननीकमुपाक आ रोचते सूर्यस्य ।
४,०११.०१ रुशद्दृशे ददृशे नक्तया चिदरूक्षितं दृश आ रूपे अन्नम् ॥
४,०११.०२ वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः ।
४,०११.०२ विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म ॥
४,०११.०३ त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि ।
४,०११.०३ त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥
४,०११.०४ त्वद्वाजी वाजम्भरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः ।
४,०११.०४ त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवां अग्ने अर्वा ॥
४,०११.०५ त्वामग्ने प्रथमं देवयन्तो देवं मर्ता अमृत मन्द्रजिह्वम् ।
४,०११.०५ द्वेषोयुतमा विवासन्ति धीभिर्दमूनसं गृहपतिममूरम् ॥
४,०११.०६ आरे अस्मदमतिमारे अंह आरे विश्वां दुर्मतिं यन्निपासि ।
४,०११.०६ दोषा शिवः सहसः सूनो अग्ने यं देव आ चित्सचसे स्वस्ति ॥
४,०१२.०१ यस्त्वामग्न इनधते यतस्रुक्त्रिस्ते अन्नं कृणवत्सस्मिन्नहन् ।
४,०१२.०१ स सु द्युम्नैरभ्यस्तु प्रसक्षत्तव क्रत्वा जातवेदश्चिकित्वान् ॥
४,०१२.०२ इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् ।
४,०१२.०२ स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥
४,०१२.०३ अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः ।
४,०१२.०३ दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥
४,०१२.०४ यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः ।
४,०१२.०४ कृधी ष्वस्मां अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥
४,०१२.०५ महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् ।
४,०१२.०५ मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥
४,०१२.०६ यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
४,०१२.०६ एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥
४,०१३.०१ प्रत्यग्निरुषसामग्रमख्यद्विभातीनां सुमना रत्नधेयम् ।
४,०१३.०१ यातमश्विना सुकृतो दुरोणमुत्सूर्यो ज्योतिषा देव एति ॥
४,०१३.०२ ऊर्ध्वं भानुं सविता देवो अश्रेद्द्रप्सं दविध्वद्गविषो न सत्वा ।
४,०१३.०२ अनु व्रतं वरुणो यन्ति मित्रो यत्सूर्यं दिव्यारोहयन्ति ॥
४,०१३.०३ यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम् ।
४,०१३.०३ तं सूर्यं हरितः सप्त यह्वी स्पशं विश्वस्य जगतो वहन्ति ॥
४,०१३.०४ वहिष्ठेभिर्विहरन्यासि तन्तुमवव्ययन्नसितं देव वस्म ।
४,०१३.०४ दविध्वतो रश्मयः सूर्यस्य चर्मेवावाधुस्तमो अप्स्वन्तः ॥
४,०१३.०५ अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।
४,०१३.०५ कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥
४,०१४.०१ प्रत्यग्निरुषसो जातवेदा अख्यद्देवो रोचमाना महोभिः ।
४,०१४.०१ आ नासत्योरुगाया रथेनेमं यज्ञमुप नो यातमच्छ ॥
४,०१४.०२ ऊर्ध्वं केतुं सविता देवो अश्रेज्ज्योतिर्विश्वस्मै भुवनाय कृण्वन् ।
४,०१४.०२ आप्रा द्यावापृथिवी अन्तरिक्षं वि सूर्यो रश्मिभिश्चेकितानः ॥
४,०१४.०३ आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना ।
४,०१४.०३ प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन ॥
४,०१४.०४ आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ ।
४,०१४.०४ इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम् ॥
४,०१४.०५ अनायतो अनिबद्धः कथायं न्यङ्ङुत्तानोऽव पद्यते न ।
४,०१४.०५ कया याति स्वधया को ददर्श दिव स्कम्भः समृतः पाति नाकम् ॥
४,०१५.०१ अग्निर्होता नो अध्वरे वाजी सन्परि णीयते ।
४,०१५.०१ देवो देवेषु यज्ञियः ॥
४,०१५.०२ परि त्रिविष्ट्यध्वरं यात्यग्नी रथीरिव ।
४,०१५.०२ आ देवेषु प्रयो दधत् ॥
४,०१५.०३ परि वाजपतिः कविरग्निर्हव्यान्यक्रमीत् ।
४,०१५.०३ दधद्रत्नानि दाशुषे ॥
४,०१५.०४ अयं यः सृञ्जये पुरो दैववाते समिध्यते ।
४,०१५.०४ द्युमां अमित्रदम्भनः ॥
४,०१५.०५ अस्य घा वीर ईवतोऽग्नेरीशीत मर्त्यः ।
४,०१५.०५ तिग्मजम्भस्य मीळ्हुषः ॥
४,०१५.०६ तमर्वन्तं न सानसिमरुषं न दिवः शिशुम् ।
४,०१५.०६ मर्मृज्यन्ते दिवेदिवे ॥
४,०१५.०७ बोधद्यन्मा हरिभ्यां कुमारः साहदेव्यः ।
४,०१५.०७ अच्छा न हूत उदरम् ॥
४,०१५.०८ उत त्या यजता हरी कुमारात्साहदेव्यात् ।
४,०१५.०८ प्रयता सद्य आ ददे ॥
४,०१५.०९ एष वां देवावश्विना कुमारः साहदेव्यः ।
४,०१५.०९ दीर्घायुरस्तु सोमकः ॥
४,०१५.१० तं युवं देवावश्विना कुमारं साहदेव्यम् ।
४,०१५.१० दीर्घायुषं कृणोतन ॥
४,०१६.०१ आ सत्यो यातु मघवां ऋजीषी द्रवन्त्वस्य हरय उप नः ।
४,०१६.०१ तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥
४,०१६.०२ अव स्य शूराध्वनो नान्तेऽस्मिन्नो अद्य सवने मन्दध्यै ।
४,०१६.०२ शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥
४,०१६.०३ कविर्न निण्यं विदथानि साधन्वृषा यत्सेकं विपिपानो अर्चात् ।
४,०१६.०३ दिव इत्था जीजनत्सप्त कारूनह्ना चिच्चक्रुर्वयुना गृणन्तः ॥
४,०१६.०४ स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।
४,०१६.०४ अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥
४,०१६.०५ ववक्ष इन्द्रो अमितमृजीष्युभे आ पप्रौ रोदसी महित्वा ।
४,०१६.०५ अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥
४,०१६.०६ विश्वानि शक्रो नर्याणि विद्वानपो रिरेच सखिभिर्निकामैः ।
४,०१६.०६ अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥
४,०१६.०७ अपो वृत्रं वव्रिवांसं पराहन्प्रावत्ते वज्रं पृथिवी सचेताः ।
४,०१६.०७ प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवञ्छवसा शूर धृष्णो ॥
४,०१६.०८ अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते ।
४,०१६.०८ स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्नङ्गिरोभिर्गृणानः ॥
४,०१६.०९ अच्छा कविं नृमणो गा अभिष्टौ स्वर्षाता मघवन्नाधमानम् ।
४,०१६.०९ ऊतिभिस्तमिषणो द्युम्नहूतौ नि मायावानब्रह्मा दस्युरर्त ॥
४,०१६.१० आ दस्युघ्ना मनसा याह्यस्तं भुवत्ते कुत्सः सख्ये निकामः ।
४,०१६.१० स्वे योनौ नि षदतं सरूपा वि वां चिकित्सदृतचिद्ध नारी ॥
४,०१६.११ यासि कुत्सेन सरथमवस्युस्तोदो वातस्य हर्योरीशानः ।
४,०१६.११ ऋज्रा वाजं न गध्यं युयूषन्कविर्यदहन्पार्याय भूषात् ॥
४,०१६.१२ कुत्साय शुष्णमशुषं नि बर्हीः प्रपित्वे अह्नः कुयवं सहस्रा ।
४,०१६.१२ सद्यो दस्यून्प्र मृण कुत्स्येन प्र सूरश्चक्रं वृहतादभीके ॥
४,०१६.१३ त्वं पिप्रुं मृगयं शूशुवांसमृजिश्वने वैदथिनाय रन्धीः ।
४,०१६.१३ पञ्चाशत्कृष्णा नि वपः सहस्रात्कं न पुरो जरिमा वि दर्दः ॥
४,०१६.१४ सूर उपाके तन्वं दधानो वि यत्ते चेत्यमृतस्य वर्पः ।
४,०१६.१४ मृगो न हस्ती तविषीमुषाणः सिंहो न भीम आयुधानि बिभ्रत् ॥
४,०१६.१५ इन्द्रं कामा वसूयन्तो अग्मन्स्वर्मीळ्हे न सवने चकानाः ।
४,०१६.१५ श्रवस्यवः शशमानास उक्थैरोको न रण्वा सुदृशीव पुष्टिः ॥
४,०१६.१६ तमिद्व इन्द्रं सुहवं हुवेम यस्ता चकार नर्या पुरूणि ।
४,०१६.१६ यो मावते जरित्रे गध्यं चिन्मक्षू वाजं भरति स्पार्हराधाः ॥
४,०१६.१७ तिग्मा यदन्तरशनिः पताति कस्मिञ्चिच्छूर मुहुके जनानाम् ।
४,०१६.१७ घोरा यदर्य समृतिर्भवात्यध स्मा नस्तन्वो बोधि गोपाः ॥
४,०१६.१८ भुवोऽविता वामदेवस्य धीनां भुवः सखावृको वाजसातौ ।
४,०१६.१८ त्वामनु प्रमतिमा जगन्मोरुशंसो जरित्रे विश्वध स्याः ॥
४,०१६.१९ एभिर्नृभिरिन्द्र त्वायुभिष्ट्वा मघवद्भिर्मघवन्विश्व आजौ ।
४,०१६.१९ द्यावो न द्युम्नैरभि सन्तो अर्यः क्षपो मदेम शरदश्च पूर्वीः ॥
४,०१६.२० एवेदिन्द्राय वृषभाय वृष्णे ब्रह्माकर्म भृगवो न रथम् ।
४,०१६.२० नू चिद्यथा नः सख्या वियोषदसन्न उग्रोऽविता तनूपाः ॥
४,०१६.२१ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
४,०१६.२१ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
४,०१७.०१ त्वं महां इन्द्र तुभ्यं ह क्षा अनु क्षत्रं मंहना मन्यत द्यौः ।
४,०१७.०१ त्वं वृत्रं शवसा जघन्वान्सृजः सिन्धूंरहिना जग्रसानान् ॥
४,०१७.०२ तव त्विषो जनिमन्रेजत द्यौ रेजद्भूमिर्भियसा स्वस्य मन्योः ।
४,०१७.०२ ऋघायन्त सुभ्वः पर्वतास आर्दन्धन्वानि सरयन्त आपः ॥
४,०१७.०३ भिनद्गिरिं शवसा वज्रमिष्णन्नाविष्कृण्वानः सहसान ओजः ।
४,०१७.०३ वधीद्वृत्रं वज्रेण मन्दसानः सरन्नापो जवसा हतवृष्णीः ॥
४,०१७.०४ सुवीरस्ते जनिता मन्यत द्यौरिन्द्रस्य कर्ता स्वपस्तमो भूत् ।
४,०१७.०४ य ईं जजान स्वर्यं सुवज्रमनपच्युतं सदसो न भूम ॥
४,०१७.०५ य एक इच्च्यावयति प्र भूमा राजा कृष्टीनां पुरुहूत इन्द्रः ।
४,०१७.०५ सत्यमेनमनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः ॥
४,०१७.०६ सत्रा सोमा अभवन्नस्य विश्वे सत्रा मदासो बृहतो मदिष्ठाः ।
४,०१७.०६ सत्राभवो वसुपतिर्वसूनां दत्रे विश्वा अधिथा इन्द्र कृष्टीः ॥
४,०१७.०७ त्वमध प्रथमं जायमानोऽमे विश्वा अधिथा इन्द्र कृष्टीः ।
४,०१७.०७ त्वं प्रति प्रवत आशयानमहिं वज्रेण मघवन्वि वृश्चः ॥
४,०१७.०८ सत्राहणं दाधृषिं तुम्रमिन्द्रं महामपारं वृषभं सुवज्रम् ।
४,०१७.०८ हन्ता यो वृत्रं सनितोत वाजं दाता मघानि मघवा सुराधाः ॥
४,०१७.०९ अयं वृतश्चातयते समीचीर्य आजिषु मघवा शृण्व एकः ।
४,०१७.०९ अयं वाजं भरति यं सनोत्यस्य प्रियासः सख्ये स्याम ॥
४,०१७.१० अयं शृण्वे अध जयन्नुत घ्नन्नयमुत प्र कृणुते युधा गाः ।
४,०१७.१० यदा सत्यं कृणुते मन्युमिन्द्रो विश्वं दृळ्हं भयत एजदस्मात् ॥
४,०१७.११ समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः ।
४,०१७.११ एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता सम्भरश्च वस्वः ॥
४,०१७.१२ कियत्स्विदिन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान ।
४,०१७.१२ यो अस्य शुष्मं मुहुकैरियर्ति वातो न जूत स्तनयद्भिरभ्रैः ॥
४,०१७.१३ क्षियन्तं त्वमक्षियन्तं कृणोतीयर्ति रेणुं मघवा समोहम् ।
४,०१७.१३ विभञ्जनुरशनिमां इव द्यौरुत स्तोतारं मघवा वसौ धात् ॥
४,०१७.१४ अयं चक्रमिषणत्सूर्यस्य न्येतशं रीरमत्ससृमाणम् ।
४,०१७.१४ आ कृष्ण ईं जुहुराणो जिघर्ति त्वचो बुध्ने रजसो अस्य योनौ ॥
४,०१७.१५ असिक्न्यां यजमानो न होता ॥
४,०१७.१६ गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ।
४,०१७.१६ जनीयन्तो जनिदामक्षितोतिमा च्यावयामोऽवते न कोशम् ॥
४,०१७.१७ त्राता नो बोधि ददृशान आपिरभिख्याता मर्डिता सोम्यानाम् ।
४,०१७.१७ सखा पिता पितृतमः पितॄणां कर्तेमु लोकमुशते वयोधाः ॥
४,०१७.१८ सखीयतामविता बोधि सखा गृणान इन्द्र स्तुवते वयो धाः ।
४,०१७.१८ वयं ह्या ते चकृमा सबाध आभिः शमीभिर्महयन्त इन्द्र ॥
४,०१७.१९ स्तुत इन्द्रो मघवा यद्ध वृत्रा भूरीण्येको अप्रतीनि हन्ति ।
४,०१७.१९ अस्य प्रियो जरिता यस्य शर्मन्नकिर्देवा वारयन्ते न मर्ताः ॥
४,०१७.२० एवा न इन्द्रो मघवा विरप्शी करत्सत्या चर्षणीधृदनर्वा ।
४,०१७.२० त्वं राजा जनुषां धेह्यस्मे अधि श्रवो माहिनं यज्जरित्रे ॥
४,०१७.२१ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
४,०१७.२१ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
४,०१८.०१ अयं पन्था अनुवित्तः पुराणो यतो देवा उदजायन्त विश्वे ।
४,०१८.०१ अतश्चिदा जनिषीष्ट प्रवृद्धो मा मातरममुया पत्तवे कः ॥
४,०१८.०२ नाहमतो निरया दुर्गहैतत्तिरश्चता पार्श्वान्निर्गमाणि ।
४,०१८.०२ बहूनि मे अकृता कर्त्वानि युध्यै त्वेन सं त्वेन पृच्छै ॥
४,०१८.०३ परायतीं मातरमन्वचष्ट न नानु गान्यनु नू गमानि ।
४,०१८.०३ त्वष्टुर्गृहे अपिबत्सोममिन्द्रः शतधन्यं चम्वोः सुतस्य ॥
४,०१८.०४ किं स ऋधक्कृणवद्यं सहस्रं मासो जभार शरदश्च पूर्वीः ।
४,०१८.०४ नही न्वस्य प्रतिमानमस्त्यन्तर्जातेषूत ये जनित्वाः ॥
४,०१८.०५ अवद्यमिव मन्यमाना गुहाकरिन्द्रं माता वीर्येणा न्यृष्टम् ।
४,०१८.०५ अथोदस्थात्स्वयमत्कं वसान आ रोदसी अपृणाज्जायमानः ॥
४,०१८.०६ एता अर्षन्त्यललाभवन्तीरृतावरीरिव संक्रोशमानाः ।
४,०१८.०६ एता वि पृच्छ किमिदं भनन्ति कमापो अद्रिं परिधिं रुजन्ति ॥
४,०१८.०७ किमु ष्विदस्मै निविदो भनन्तेन्द्रस्यावद्यं दिधिषन्त आपः ।
४,०१८.०७ ममैतान्पुत्रो महता वधेन वृत्रं जघन्वां असृजद्वि सिन्धून् ॥
४,०१८.०८ ममच्चन त्वा युवतिः परास ममच्चन त्वा कुषवा जगार ।
४,०१८.०८ ममच्चिदापः शिशवे ममृड्युर्ममच्चिदिन्द्रः सहसोदतिष्ठत् ॥
४,०१८.०९ ममच्चन ते मघवन्व्यंसो निविविध्वां अप हनू जघान ।
४,०१८.०९ अधा निविद्ध उत्तरो बभूवाञ्छिरो दासस्य सं पिणग्वधेन ॥
४,०१८.१० गृष्टिः ससूव स्थविरं तवागामनाधृष्यं वृषभं तुम्रमिन्द्रम् ।
४,०१८.१० अरीळ्हं वत्सं चरथाय माता स्वयं गातुं तन्व इच्छमानम् ॥
४,०१८.११ उत माता महिषमन्ववेनदमी त्वा जहति पुत्र देवाः ।
४,०१८.११ अथाब्रवीद्वृत्रमिन्द्रो हनिष्यन्सखे विष्णो वितरं वि क्रमस्व ॥
४,०१८.१२ कस्ते मातरं विधवामचक्रच्छयुं कस्त्वामजिघांसच्चरन्तम् ।
४,०१८.१२ कस्ते देवो अधि मार्डीक आसीद्यत्प्राक्षिणाः पितरं पादगृह्य ॥
४,०१८.१३ अवर्त्या शुन आन्त्राणि पेचे न देवेषु विविदे मर्डितारम् ।
४,०१८.१३ अपश्यं जायाममहीयमानामधा मे श्येनो मध्वा जभार ॥
४,०१९.०१ एवा त्वामिन्द्र वज्रिन्नत्र विश्वे देवासः सुहवास ऊमाः ।
४,०१९.०१ महामुभे रोदसी वृद्धमृष्वं निरेकमिद्वृणते वृत्रहत्ये ॥
४,०१९.०२ अवासृजन्त जिव्रयो न देवा भुवः सम्राळ् इन्द्र सत्ययोनिः ।
४,०१९.०२ अहन्नहिं परिशयानमर्णः प्र वर्तनीररदो विश्वधेनाः ॥
४,०१९.०३ अतृप्णुवन्तं वियतमबुध्यमबुध्यमानं सुषुपाणमिन्द्र ।
४,०१९.०३ सप्त प्रति प्रवत आशयानमहिं वज्रेण वि रिणा अपर्वन् ॥
४,०१९.०४ अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः ।
४,०१९.०४ दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥
४,०१९.०५ अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः ।
४,०१९.०५ अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृतां अरिणा इन्द्र सिन्धून् ॥
४,०१९.०६ त्वं महीमवनिं विश्वधेनां तुर्वीतये वय्याय क्षरन्तीम् ।
४,०१९.०६ अरमयो नमसैजदर्णः सुतरणां अकृणोरिन्द्र सिन्धून् ॥
४,०१९.०७ प्राग्रुवो नभन्वो न वक्वा ध्वस्रा अपिन्वद्युवतीरृतज्ञाः ।
४,०१९.०७ धन्वान्यज्रां अपृणक्तृषाणां अधोगिन्द्र स्तर्यो दंसुपत्नीः ॥
४,०१९.०८ पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वां असृजद्वि सिन्धून् ।
४,०१९.०८ परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥
४,०१९.०९ वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ ।
४,०१९.०९ व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥
४,०१९.१० प्र ते पूर्वाणि करणानि विप्राविद्वां आह विदुषे करांसि ।
४,०१९.१० यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥
४,०१९.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
४,०१९.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
४,०२०.०१ आ न इन्द्रो दूरादा न आसादभिष्टिकृदवसे यासदुग्रः ।
४,०२०.०१ ओजिष्ठेभिर्नृपतिर्वज्रबाहुः संगे समत्सु तुर्वणिः पृतन्यून् ॥
४,०२०.०२ आ न इन्द्रो हरिभिर्यात्वच्छार्वाचीनोऽवसे राधसे च ।
४,०२०.०२ तिष्ठाति वज्री मघवा विरप्शीमं यज्ञमनु नो वाजसातौ ॥
४,०२०.०३ इमं यज्ञं त्वमस्माकमिन्द्र पुरो दधत्सनिष्यसि क्रतुं नः ।
४,०२०.०३ श्वघ्नीव वज्रिन्सनये धनानां त्वया वयमर्य आजिं जयेम ॥
४,०२०.०४ उशन्नु षु णः सुमना उपाके सोमस्य नु सुषुतस्य स्वधावः ।
४,०२०.०४ पा इन्द्र प्रतिभृतस्य मध्वः समन्धसा ममदः पृष्ठ्येन ॥
४,०२०.०५ वि यो ररप्श ऋषिभिर्नवेभिर्वृक्षो न पक्वः सृण्यो न जेता ।
४,०२०.०५ मर्यो न योषामभि मन्यमानोऽच्छा विवक्मि पुरुहूतमिन्द्रम् ॥
४,०२०.०६ गिरिर्न यः स्वतवां ऋष्व इन्द्रः सनादेव सहसे जात उग्रः ।
४,०२०.०६ आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥
४,०२०.०७ न यस्य वर्ता जनुषा न्वस्ति न राधस आमरीता मघस्य ।
४,०२०.०७ उद्वावृषाणस्तविषीव उग्रास्मभ्यं दद्धि पुरुहूत रायः ॥
४,०२०.०८ ईक्षे रायः क्षयस्य चर्षणीनामुत व्रजमपवर्तासि गोनाम् ।
४,०२०.०८ शिक्षानरः समिथेषु प्रहावान्वस्वो राशिमभिनेतासि भूरिम् ॥
४,०२०.०९ कया तच्छृण्वे शच्या शचिष्ठो यया कृणोति मुहु का चिदृष्वः ।
४,०२०.०९ पुरु दाशुषे विचयिष्ठो अंहोऽथा दधाति द्रविणं जरित्रे ॥
४,०२०.१० मा नो मर्धीरा भरा दद्धि तन्नः प्र दाशुषे दातवे भूरि यत्ते ।
४,०२०.१० नव्ये देष्णे शस्ते अस्मिन्त उक्थे प्र ब्रवाम वयमिन्द्र स्तुवन्तः ॥
४,०२०.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
४,०२०.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
४,०२१.०१ आ यात्विन्द्रोऽवस उप न इह स्तुतः सधमादस्तु शूरः ।
४,०२१.०१ वावृधानस्तविषीर्यस्य पूर्वीर्द्यौर्न क्षत्रमभिभूति पुष्यात् ॥
४,०२१.०२ तस्येदिह स्तवथ वृष्ण्यानि तुविद्युम्नस्य तुविराधसो नॄन् ।
४,०२१.०२ यस्य क्रतुर्विदथ्यो न सम्राट्साह्वान्तरुत्रो अभ्यस्ति कृष्टीः ॥
४,०२१.०३ आ यात्विन्द्रो दिव आ पृथिव्या मक्षू समुद्रादुत वा पुरीषात् ।
४,०२१.०३ स्वर्णरादवसे नो मरुत्वान्परावतो वा सदनादृतस्य ॥
४,०२१.०४ स्थूरस्य रायो बृहतो य ईशे तमु ष्टवाम विदथेष्विन्द्रम् ।
४,०२१.०४ यो वायुना जयति गोमतीषु प्र धृष्णुया नयति वस्यो अच्छ ॥
४,०२१.०५ उप यो नमो नमसि स्तभायन्नियर्ति वाचं जनयन्यजध्यै ।
४,०२१.०५ ऋञ्जसानः पुरुवार उक्थैरेन्द्रं कृण्वीत सदनेषु होता ॥
४,०२१.०६ धिषा यदि धिषण्यन्तः सरण्यान्सदन्तो अद्रिमौशिजस्य गोहे ।
४,०२१.०६ आ दुरोषाः पास्त्यस्य होता यो नो महान्संवरणेषु वह्निः ॥
४,०२१.०७ सत्रा यदीं भार्वरस्य वृष्णः सिषक्ति शुष्म स्तुवते भराय ।
४,०२१.०७ गुहा यदीमौशिजस्य गोहे प्र यद्धिये प्रायसे मदाय ॥
४,०२१.०८ वि यद्वरांसि पर्वतस्य वृण्वे पयोभिर्जिन्वे अपां जवांसि ।
४,०२१.०८ विदद्गौरस्य गवयस्य गोहे यदी वाजाय सुध्यो वहन्ति ॥
४,०२१.०९ भद्रा ते हस्ता सुकृतोत पाणी प्रयन्तारा स्तुवते राध इन्द्र ।
४,०२१.०९ का ते निषत्तिः किमु नो ममत्सि किं नोदुदु हर्षसे दातवा उ ॥
४,०२१.१० एवा वस्व इन्द्रः सत्यः सम्राड्ढन्ता वृत्रं वरिवः पूरवे कः ।
४,०२१.१० पुरुष्टुत क्रत्वा नः शग्धि रायो भक्षीय तेऽवसो दैव्यस्य ॥
४,०२१.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
४,०२१.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
४,०२२.०१ यन्न इन्द्रो जुजुषे यच्च वष्टि तन्नो महान्करति शुष्म्या चित् ।
४,०२२.०१ ब्रह्म स्तोमं मघवा सोममुक्था यो अश्मानं शवसा बिभ्रदेति ॥
४,०२२.०२ वृषा वृषन्धिं चतुरश्रिमस्यन्नुग्रो बाहुभ्यां नृतमः शचीवान् ।
४,०२२.०२ श्रिये परुष्णीमुषमाण ऊर्णां यस्याः पर्वाणि सख्याय विव्ये ॥
४,०२२.०३ यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः ।
४,०२२.०३ दधानो वज्रं बाह्वोरुशन्तं द्याममेन रेजयत्प्र भूम ॥
४,०२२.०४ विश्वा रोधांसि प्रवतश्च पूर्वीर्द्यौरृष्वाज्जनिमन्रेजत क्षाः ।
४,०२२.०४ आ मातरा भरति शुष्म्या गोर्नृवत्परिज्मन्नोनुवन्त वाताः ॥
४,०२२.०५ ता तू त इन्द्र महतो महानि विश्वेष्वित्सवनेषु प्रवाच्या ।
४,०२२.०५ यच्छूर धृष्णो धृषता दधृष्वानहिं वज्रेण शवसाविवेषीः ॥
४,०२२.०६ ता तू ते सत्या तुविनृम्ण विश्वा प्र धेनवः सिस्रते वृष्ण ऊध्नः ।
४,०२२.०६ अधा ह त्वद्वृषमणो भियानाः प्र सिन्धवो जवसा चक्रमन्त ॥
४,०२२.०७ अत्राह ते हरिवस्ता उ देवीरवोभिरिन्द्र स्तवन्त स्वसारः ।
४,०२२.०७ यत्सीमनु प्र मुचो बद्बधाना दीर्घामनु प्रसितिं स्यन्दयध्यै ॥
४,०२२.०८ पिपीळे अंशुर्मद्यो न सिन्धुरा त्वा शमी शशमानस्य शक्तिः ।
४,०२२.०८ अस्मद्र्यक्छुशुचानस्य यम्या आशुर्न रश्मिं तुव्योजसं गोः ॥
४,०२२.०९ अस्मे वर्षिष्ठा कृणुहि ज्येष्ठा नृम्णानि सत्रा सहुरे सहांसि ।
४,०२२.०९ अस्मभ्यं वृत्रा सुहनानि रन्धि जहि वधर्वनुषो मर्त्यस्य ॥
४,०२२.१० अस्माकमित्सु शृणुहि त्वमिन्द्रास्मभ्यं चित्रां उप माहि वाजान् ।
४,०२२.१० अस्मभ्यं विश्वा इषणः पुरन्धीरस्माकं सु मघवन्बोधि गोदाः ॥
४,०२२.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
४,०२२.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
४,०२३.०१ कथा महामवृधत्कस्य होतुर्यज
्ञं जुषाणो अभि सोममूधः ।
४,०२३.०१ पिबन्नुशानो जुषमाणो अन्धो ववक्ष ऋष्वः शुचते धनाय ॥
४,०२३.०२ को अस्य वीरः सधमादमाप समानंश सुमतिभिः को अस्य ।
४,०२३.०२ कदस्य चित्रं चिकिते कदूती वृधे भुवच्छशमानस्य यज्योः ॥
४,०२३.०३ कथा शृणोति हूयमानमिन्द्रः कथा शृण्वन्नवसामस्य वेद ।
४,०२३.०३ का अस्य पूर्वीरुपमातयो ह कथैनमाहुः पपुरिं जरित्रे ॥
४,०२३.०४ कथा सबाधः शशमानो अस्य नशदभि द्रविणं दीध्यानः ।
४,०२३.०४ देवो भुवन्नवेदा म ऋतानां नमो जगृभ्वां अभि यज्जुजोषत् ॥
४,०२३.०५ कथा कदस्या उषसो व्युष्टौ देवो मर्तस्य सख्यं जुजोष ।
४,०२३.०५ कथा कदस्य सख्यं सखिभ्यो ये अस्मिन्कामं सुयुजं ततस्रे ॥
४,०२३.०६ किमादमत्रं सख्यं सखिभ्यः कदा नु ते भ्रात्रं प्र ब्रवाम ।
४,०२३.०६ श्रिये सुदृशो वपुरस्य सर्गाः स्वर्ण चित्रतममिष आ गोः ॥
४,०२३.०७ द्रुहं जिघांसन्ध्वरसमनिन्द्रां तेतिक्ते तिग्मा तुजसे अनीका ।
४,०२३.०७ ऋणा चिद्यत्र ऋणया न उग्रो दूरे अज्ञाता उषसो बबाधे ॥
४,०२३.०८ ऋतस्य हि शुरुधः सन्ति पूर्वीरृतस्य धीतिर्वृजिनानि हन्ति ।
४,०२३.०८ ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥
४,०२३.०९ ऋतस्य दृळ्हा धरुणानि सन्ति पुरूणि चन्द्रा वपुषे वपूंषि ।
४,०२३.०९ ऋतेन दीर्घमिषणन्त पृक्ष ऋतेन गाव ऋतमा विवेशुः ॥
४,०२३.१० ऋतं येमान ऋतमिद्वनोत्यृतस्य शुष्मस्तुरया उ गव्युः ।
४,०२३.१० ऋताय पृथ्वी बहुले गभीरे ऋताय धेनू परमे दुहाते ॥
४,०२३.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
४,०२३.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
४,०२४.०१ का सुष्टुतिः शवसः सूनुमिन्द्रमर्वाचीनं राधस आ ववर्तत् ।
४,०२४.०१ ददिर्हि वीरो गृणते वसूनि स गोपतिर्निष्षिधां नो जनासः ॥
४,०२४.०२ स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः ।
४,०२४.०२ स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥
४,०२४.०३ तमिन्नरो वि ह्वयन्ते समीके रिरिक्वांसस्तन्वः कृण्वत त्राम् ।
४,०२४.०३ मिथो यत्त्यागमुभयासो अग्मन्नरस्तोकस्य तनयस्य सातौ ॥
४,०२४.०४ क्रतूयन्ति क्षितयो योग उग्राशुषाणासो मिथो अर्णसातौ ।
४,०२४.०४ सं यद्विशोऽववृत्रन्त युध्मा आदिन्नेम इन्द्रयन्ते अभीके ॥
४,०२४.०५ आदिद्ध नेम इन्द्रियं यजन्त आदित्पक्तिः पुरोळाशं रिरिच्यात् ।
४,०२४.०५ आदित्सोमो वि पपृच्यादसुष्वीनादिज्जुजोष वृषभं यजध्यै ॥
४,०२४.०६ कृणोत्यस्मै वरिवो य इत्थेन्द्राय सोममुशते सुनोति ।
४,०२४.०६ सध्रीचीनेन मनसाविवेनन्तमित्सखायं कृणुते समत्सु ॥
४,०२४.०७ य इन्द्राय सुनवत्सोममद्य पचात्पक्तीरुत भृज्जाति धानाः ।
४,०२४.०७ प्रति मनायोरुचथानि हर्यन्तस्मिन्दधद्वृषणं शुष्ममिन्द्रः ॥
४,०२४.०८ यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः ।
४,०२४.०८ अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥
४,०२४.०९ भूयसा वस्नमचरत्कनीयोऽविक्रीतो अकानिषं पुनर्यन् ।
४,०२४.०९ स भूयसा कनीयो नारिरेचीद्दीना दक्षा वि दुहन्ति प्र वाणम् ॥
४,०२४.१० क इमं दशभिर्ममेन्द्रं क्रीणाति धेनुभिः ।
४,०२४.१० यदा वृत्राणि जङ्घनदथैनं मे पुनर्ददत् ॥
४,०२४.११ नू ष्टुत इन्द्र नू गृणान इषं जरित्रे नद्यो न पीपेः ।
४,०२४.११ अकारि ते हरिवो ब्रह्म नव्यं धिया स्याम रथ्यः सदासाः ॥
४,०२५.०१ को अद्य नर्यो देवकाम उशन्निन्द्रस्य सख्यं जुजोष ।
४,०२५.०१ को वा महेऽवसे पार्याय समिद्धे अग्नौ सुतसोम ईट्टे ॥
४,०२५.०२ को नानाम वचसा सोम्याय मनायुर्वा भवति वस्त उस्राः ।
४,०२५.०२ क इन्द्रस्य युज्यं कः सखित्वं को भ्रात्रं वष्टि कवये क ऊती ॥
४,०२५.०३ को देवानामवो अद्या वृणीते क आदित्यां अदितिं ज्योतिरीट्टे ।
४,०२५.०३ कस्याश्विनाविन्द्रो अग्निः सुतस्यांशोः पिबन्ति मनसाविवेनम् ॥
४,०२५.०४ तस्मा अग्निर्भारतः शर्म यंसज्ज्योक्पश्यात्सूर्यमुच्चरन्तम् ।
४,०२५.०४ य इन्द्राय सुनवामेत्याह नरे नर्याय नृतमाय नृणाम् ॥
४,०२५.०५ न तं जिनन्ति बहवो न दभ्रा उर्वस्मा अदितिः शर्म यंसत् ।
४,०२५.०५ प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी ॥
४,०२५.०६ सुप्राव्यः प्राशुषाळ् एष वीरः सुष्वेः पक्तिं कृणुते केवलेन्द्रः ।
४,०२५.०६ नासुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवहन्तेदवाचः ॥
४,०२५.०७ न रेवता पणिना सख्यमिन्द्रोऽसुन्वता सुतपाः सं गृणीते ।
४,०२५.०७ आस्य वेदः खिदति हन्ति नग्नं वि सुष्वये पक्तये केवलो भूत् ॥
४,०२५.०८ इन्द्रं परेऽवरे मध्यमास इन्द्रं यान्तोऽवसितास इन्द्रम् ।
४,०२५.०८ इन्द्रं क्षियन्त उत युध्यमाना इन्द्रं नरो वाजयन्तो हवन्ते ॥
४,०२६.०१ अहं मनुरभवं सूर्यश्चाहं कक्षीवां ऋषिरस्मि विप्रः ।
४,०२६.०१ अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा ॥
४,०२६.०२ अहं भूमिमददामार्यायाहं वृष्टिं दाशुषे मर्त्याय ।
४,०२६.०२ अहमपो अनयं वावशाना मम देवासो अनु केतमायन् ॥
४,०२६.०३ अहं पुरो मन्दसानो व्यैरं नव साकं नवतीः शम्बरस्य ।
४,०२६.०३ शततमं वेश्यं सर्वताता दिवोदासमतिथिग्वं यदावम् ॥
४,०२६.०४ प्र सु ष विभ्यो मरुतो विरस्तु प्र श्येनः श्येनेभ्य आशुपत्वा ।
४,०२६.०४ अचक्रया यत्स्वधया सुपर्णो हव्यं भरन्मनवे देवजुष्टम् ॥
४,०२६.०५ भरद्यदि विरतो वेविजानः पथोरुणा मनोजवा असर्जि ।
४,०२६.०५ तूयं ययौ मधुना सोम्येनोत श्रवो विविदे श्येनो अत्र ॥
४,०२६.०६ ऋजीपी श्येनो ददमानो अंशुं परावतः शकुनो मन्द्रं मदम् ।
४,०२६.०६ सोमं भरद्दादृहाणो देवावान्दिवो अमुष्मादुत्तरादादाय ॥
४,०२६.०७ आदाय श्येनो अभरत्सोमं सहस्रं सवां अयुतं च साकम् ।
४,०२६.०७ अत्रा पुरन्धिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥
४,०२७.०१ गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा ।
४,०२७.०१ शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् ॥
४,०२७.०२ न घा स मामप जोषं जभाराभीमास त्वक्षसा वीर्येण ।
४,०२७.०२ ईर्मा पुरन्धिरजहादरातीरुत वातां अतरच्छूशुवानः ॥
४,०२७.०३ अव यच्छ्येनो अस्वनीदध द्योर्वि यद्यदि वात ऊहुः पुरन्धिम् ।
४,०२७.०३ सृजद्यदस्मा अव ह क्षिपज्ज्यां कृशानुरस्ता मनसा भुरण्यन् ॥
४,०२७.०४ ऋजिप्य ईमिन्द्रावतो न भुज्युं श्येनो जभार बृहतो अधि ष्णोः ।
४,०२७.०४ अन्तः पतत्पतत्र्यस्य पर्णमध यामनि प्रसितस्य तद्वेः ॥
४,०२७.०५ अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः ।
४,०२७.०५ अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै ॥
४,०२८.०१ त्वा युजा तव तत्सोम सख्य इन्द्रो अपो मनवे सस्रुतस्कः ।
४,०२८.०१ अहन्नहिमरिणात्सप्त सिन्धूनपावृणोदपिहितेव खानि ॥
४,०२८.०२ त्वा युजा नि खिदत्सूर्यस्येन्द्रश्चक्रं सहसा सद्य इन्दो ।
४,०२८.०२ अधि ष्णुना बृहता वर्तमानं महो द्रुहो अप विश्वायु धायि ॥
४,०२८.०३ अहन्निन्द्रो अदहदग्निरिन्दो पुरा दस्यून्मध्यन्दिनादभीके ।
४,०२८.०३ दुर्गे दुरोणे क्रत्वा न यातां पुरू सहस्रा शर्वा नि बर्हीत् ॥
४,०२८.०४ विश्वस्मात्सीमधमां इन्द्र दस्यून्विशो दासीरकृणोरप्रशस्ताः ।
४,०२८.०४ अबाधेथाममृणतं नि शत्रूनविन्देथामपचितिं वधत्रैः ॥
४,०२८.०५ एवा सत्यं मघवाना युवं तदिन्द्रश्च सोमोर्वमश्व्यं गोः ।
४,०२८.०५ आदर्दृतमपिहितान्यश्ना रिरिचथुः क्षाश्चित्ततृदाना ॥
४,०२९.०१ आ न स्तुत उप वाजेभिरूती इन्द्र याहि हरिभिर्मन्दसानः ।
४,०२९.०१ तिरश्चिदर्यः सवना पुरूण्याङ्गूषेभिर्गृणानः सत्यराधाः ॥
४,०२९.०२ आ हि ष्मा याति नर्यश्चिकित्वान्हूयमानः सोतृभिरुप यज्ञम् ।
४,०२९.०२ स्वश्वो यो अभीरुर्मन्यमानः सुष्वाणेभिर्मदति सं ह वीरैः ॥
४,०२९.०३ श्रावयेदस्य कर्णा वाजयध्यै जुष्टामनु प्र दिशं मन्दयध्यै ।
४,०२९.०३ उद्वावृषाणो राधसे तुविष्मान्करन्न इन्द्रः सुतीर्थाभयं च ॥
४,०२९.०४ अच्छा यो गन्ता नाधमानमूती इत्था विप्रं हवमानं गृणन्तम् ।
४,०२९.०४ उप त्मनि दधानो धुर्याशून्सहस्राणि शतानि वज्रबाहुः ॥
४,०२९.०५ त्वोतासो मघवन्निन्द्र विप्रा वयं ते स्याम सूरयो गृणन्तः ।
४,०२९.०५ भेजानासो बृहद्दिवस्य राय आकाय्यस्य दावने पुरुक्षोः ॥
४,०३०.०१ नकिरिन्द्र त्वदुत्तरो न ज्यायां अस्ति वृत्रहन् ।
४,०३०.०१ नकिरेवा यथा त्वम् ॥
४,०३०.०२ सत्रा ते अनु कृष्टयो विश्वा चक्रेव वावृतुः ।
४,०३०.०२ सत्रा महां असि श्रुतः ॥
४,०३०.०३ विश्वे चनेदना त्वा देवास इन्द्र युयुधुः ।
४,०३०.०३ यदहा नक्तमातिरः ॥
४,०३०.०४ यत्रोत बाधितेभ्यश्चक्रं कुत्साय युध्यते ।
४,०३०.०४ मुषाय इन्द्र सूर्यम् ॥
४,०३०.०५ यत्र देवां ऋघायतो विश्वां अयुध्य एक इत् ।
४,०३०.०५ त्वमिन्द्र वनूंरहन् ॥
४,०३०.०६ यत्रोत मर्त्याय कमरिणा इन्द्र सूर्यम् ।
४,०३०.०६ प्रावः शचीभिरेतशम् ॥
४,०३०.०७ किमादुतासि वृत्रहन्मघवन्मन्युमत्तमः ।
४,०३०.०७ अत्राह दानुमातिरः ॥
४,०३०.०८ एतद्घेदुत वीर्यमिन्द्र चकर्थ पौंस्यम् ।
४,०३०.०८ स्त्रियं यद्दुर्हणायुवं वधीर्दुहितरं दिवः ॥
४,०३०.०९ दिवश्चिद्घा दुहितरं महान्महीयमानाम् ।
४,०३०.०९ उषासमिन्द्र सं पिणक् ॥
४,०३०.१० अपोषा अनसः सरत्सम्पिष्टादह बिभ्युषी ।
४,०३०.१० नि यत्सीं शिश्नथद्वृषा ॥
४,०३०.११ एतदस्या अनः शये सुसम्पिष्टं विपाश्या ।
४,०३०.११ ससार सीं परावतः ॥
४,०३०.१२ उत सिन्धुं विबाल्यं वितस्थानामधि क्षमि ।
४,०३०.१२ परि ष्ठा इन्द्र मायया ॥
४,०३०.१३ उत शुष्णस्य धृष्णुया प्र मृक्षो अभि वेदनम् ।
४,०३०.१३ पुरो यदस्य सम्पिणक् ॥
४,०३०.१४ उत दासं कौलितरं बृहतः पर्वतादधि ।
४,०३०.१४ अवाहन्निन्द्र शम्बरम् ॥
४,०३०.१५ उत दासस्य वर्चिनः सहस्राणि शतावधीः ।
४,०३०.१५ अधि पञ्च प्रधींरिव ॥
४,०३०.१६ उत त्यं पुत्रमग्रुवः परावृक्तं शतक्रतुः ।
४,०३०.१६ उक्थेष्विन्द्र आभजत् ॥
४,०३०.१७ उत त्या तुर्वशायदू अस्नातारा शचीपतिः ।
४,०३०.१७ इन्द्रो विद्वां अपारयत् ॥
४,०३०.१८ उत त्या सद्य आर्या सरयोरिन्द्र पारतः ।
४,०३०.१८ अर्णाचित्ररथावधीः ॥
४,०३०.१९ अनु द्वा जहिता नयोऽन्धं श्रोणं च वृत्रहन् ।
४,०३०.१९ न तत्ते सुम्नमष्टवे ॥
४,०३०.२० शतमश्मन्मयीनां पुरामिन्द्रो व्यास्यत् ।
४,०३०.२० दिवोदासाय दाशुषे ॥
४,०३०.२१ अस्वापयद्दभीतये सहस्रा त्रिंशतं हथैः ।
४,०३०.२१ दासानामिन्द्रो मायया ॥
४,०३०.२२ स घेदुतासि वृत्रहन्समान इन्द्र गोपतिः ।
४,०३०.२२ यस्ता विश्वानि चिच्युषे ॥
४,०३०.२३ उत नूनं यदिन्द्रियं करिष्या इन्द्र पौंस्यम् ।
४,०३०.२३ अद्या नकिष्टदा मिनत् ॥
४,०३०.२४ वामंवामं त आदुरे देवो ददात्वर्यमा ।
४,०३०.२४ वामं पूषा वामं भगो वामं देवः करूळती ॥
४,०३१.०१ कया नश्चित्र आ भुवदूती सदावृधः सखा ।
४,०३१.०१ कया शचिष्ठया वृता ॥
४,०३१.०२ कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
४,०३१.०२ दृळ्हा चिदारुजे वसु ॥
४,०३१.०३ अभी षु णः सखीनामविता जरितॄणाम् ।
४,०३१.०३ शतं भवास्यूतिभिः ॥
४,०३१.०४ अभी न आ ववृत्स्व चक्रं न वृत्तमर्वतः ।
४,०३१.०४ नियुद्भिश्चर्षणीनाम् ॥
४,०३१.०५ प्रवता हि क्रतूनामा हा पदेव गच्छसि ।
४,०३१.०५ अभक्षि सूर्ये सचा ॥
४,०३१.०६ सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे ।
४,०३१.०६ अध त्वे अध सूर्ये ॥
४,०३१.०७ उत स्मा हि त्वामाहुरिन्मघवानं शचीपते ।
४,०३१.०७ दातारमविदीधयुम् ॥
४,०३१.०८ उत स्मा सद्य इत्परि शशमानाय सुन्वते ।
४,०३१.०८ पुरू चिन्मंहसे वसु ॥
४,०३१.०९ नहि ष्मा ते शतं चन राधो वरन्त आमुरः ।
४,०३१.०९ न च्यौत्नानि करिष्यतः ॥
४,०३१.१० अस्मां अवन्तु ते शतमस्मान्सहस्रमूतयः ।
४,०३१.१० अस्मान्विश्वा अभिष्टयः ॥
४,०३१.११ अस्मां इहा वृणीष्व सख्याय स्वस्तये ।
४,०३१.११ महो राये दिवित्मते ॥
४,०३१.१२ अस्मां अविड्ढि विश्वहेन्द्र राया परीणसा ।
४,०३१.१२ अस्मान्विश्वाभिरूतिभिः ॥
४,०३१.१३ अस्मभ्यं तां अपा वृधि व्रजां अस्तेव गोमतः ।
४,०३१.१३ नवाभिरिन्द्रोतिभिः ॥
४,०३१.१४ अस्माकं धृष्णुया रथो द्युमां इन्द्रानपच्युतः ।
४,०३१.१४ गव्युरश्वयुरीयते ॥
४,०३१.१५ अस्माकमुत्तमं कृधि श्रवो देवेषु सूर्य ।
४,०३१.१५ वर्षिष्ठं द्यामिवोपरि ॥
४,०३२.०१ आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि ।
४,०३२.०१ महान्महीभिरूतिभिः ॥
४,०३२.०२ भृमिश्चिद्घासि तूतुजिरा चित्र चित्रिणीष्वा ।
४,०३२.०२ चित्रं कृणोष्यूतये ॥
४,०३२.०३ दभ्रेभिश्चिच्छशीयांसं हंसि व्राधन्तमोजसा ।
४,०३२.०३ सखिभिर्ये त्वे सचा ॥
४,०३२.०४ वयमिन्द्र त्वे सचा वयं त्वाभि नोनुमः ।
४,०३२.०४ अस्मांस्मां इदुदव ॥
४,०३२.०५ स नश्चित्राभिरद्रिवोऽनवद्याभिरूतिभिः ।
४,०३२.०५ अनाधृष्टाभिरा गहि ॥
४,०३२.०६ भूयामो षु त्वावतः सखाय इन्द्र गोमतः ।
४,०३२.०६ युजो वाजाय घृष्वये ॥
४,०३२.०७ त्वं ह्येक ईशिष इन्द्र वाजस्य गोमतः ।
४,०३२.०७ स नो यन्धि महीमिषम् ॥
४,०३२.०८ न त्वा वरन्ते अन्यथा यद्दित्ससि स्तुतो मघम् ।
४,०३२.०८ स्तोतृभ्य इन्द्र गिर्वणः ॥
४,०३२.०९ अभि त्वा गोतमा गिरानूषत प्र दावने ।
४,०३२.०९ इन्द्र वाजाय घृष्वये ॥
४,०३२.१० प्र ते वोचाम वीर्या या मन्दसान आरुजः ।
४,०३२.१० पुरो दासीरभीत्य ॥
४,०३२.११ ता ते गृणन्ति वेधसो यानि चकर्थ पौंस्या ।
४,०३२.११ सुतेष्विन्द्र गिर्वणः ॥
४,०३२.१२ अवीवृधन्त गोतमा इन्द्र त्वे स्तोमवाहसः ।
४,०३२.१२ ऐषु धा वीरवद्यशः ॥
४,०३२.१३ यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
४,०३२.१३ तं त्वा वयं हवामहे ॥
४,०३२.१४ अर्वाचीनो वसो भवास्मे सु मत्स्वान्धसः ।
४,०३२.१४ सोमानामिन्द्र सोमपाः ॥
४,०३२.१५ अस्माकं त्वा मतीनामा स्तोम इन्द्र यच्छतु ।
४,०३२.१५ अर्वागा वर्तया हरी ॥
४,०३२.१६ पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
४,०३२.१६ वधूयुरिव योषणाम् ॥
४,०३२.१७ सहस्रं व्यतीनां युक्तानामिन्द्रमीमहे ।
४,०३२.१७ शतं सोमस्य खार्यः ॥
४,०३२.१८ सहस्रा ते शता वयं गवामा च्यावयामसि ।
४,०३२.१८ अस्मत्रा राध एतु ते ॥
४,०३२.१९ दश ते कलशानां हिरण्यानामधीमहि ।
४,०३२.१९ भूरिदा असि वृत्रहन् ॥
४,०३२.२० भूरिदा भूरि देहि नो मा दभ्रं भूर्या भर ।
४,०३२.२० भूरि घेदिन्द्र दित्ससि ॥
४,०३२.२१ भूरिदा ह्यसि श्रुतः पुरुत्रा शूर वृत्रहन् ।
४,०३२.२१ आ नो भजस्व राधसि ॥
४,०३२.२२ प्र ते बभ्रू विचक्षण शंसामि गोषणो नपात् ।
४,०३२.२२ माभ्यां गा अनु शिश्रथः ॥
४,०३२.२३ कनीनकेव विद्रधे नवे द्रुपदे अर्भके ।
४,०३२.२३ बभ्रू यामेषु शोभेते ॥
४,०३२.२४ अरं म उस्रयाम्णेऽरमनुस्रयाम्णे ।
४,०३२.२४ बभ्रू यामेष्वस्रिधा ॥
४,०३३.०१ प्र ऋभुभ्यो दूतमिव वाचमिष्य उपस्तिरे श्वैतरीं धेनुमीळे ।
४,०३३.०१ ये वातजूतास्तरणिभिरेवैः परि द्यां सद्यो अपसो बभूवुः ॥
४,०३३.०२ यदारमक्रन्नृभवः पितृभ्यां परिविष्टी वेषणा दंसनाभिः ।
४,०३३.०२ आदिद्देवानामुप सख्यमायन्धीरासः पुष्टिमवहन्मनायै ॥
४,०३३.०३ पुनर्ये चक्रुः पितरा युवाना सना यूपेव जरणा शयाना ।
४,०३३.०३ ते वाजो विभ्वां ऋभुरिन्द्रवन्तो मधुप्सरसो नोऽवन्तु यज्ञम् ॥
४,०३३.०४ यत्संवत्समृभवो गामरक्षन्यत्संवत्समृभवो मा अपिंशन् ।
४,०३३.०४ यत्संवत्समभरन्भासो अस्यास्ताभिः शमीभिरमृतत्वमाशुः ॥
४,०३३.०५ ज्येष्ठ आह चमसा द्वा करेति कनीयान्त्रीन्कृणवामेत्याह ।
४,०३३.०५ कनिष्ठ आह चतुरस्करेति त्वष्ट ऋभवस्तत्पनयद्वचो वः ॥
४,०३३.०६ सत्यमूचुर्नर एवा हि चक्रुरनु स्वधामृभवो जग्मुरेताम् ।
४,०३३.०६ विभ्राजमानांश्चमसां अहेवावेनत्त्वष्टा चतुरो ददृश्वान् ॥
४,०३३.०७ द्वादश द्यून्यदगोह्यस्यातिथ्ये रणन्नृभवः ससन्तः ।
४,०३३.०७ सुक्षेत्राकृण्वन्ननयन्त सिन्धून्धन्वातिष्ठन्नोषधीर्निम्नमापः ॥
४,०३३.०८ रथं ये चक्रुः सुवृतं नरेष्ठां ये धेनुं विश्वजुवं विश्वरूपाम् ।
४,०३३.०८ त आ तक्षन्त्वृभवो रयिं नः स्ववसः स्वपसः सुहस्ताः ॥
४,०३३.०९ अपो ह्येषामजुषन्त देवा अभि क्रत्वा मनसा दीध्यानाः ।
४,०३३.०९ वाजो देवानामभवत्सुकर्मेन्द्रस्य ऋभुक्षा वरुणस्य विभ्वा ॥
४,०३३.१० ये हरी मेधयोक्था मदन्त इन्द्राय चक्रुः सुयुजा ये अश्वा ।
४,०३३.१० ते रायस्पोषं द्रविणान्यस्मे धत्त ऋभवः क्षेमयन्तो न मित्रम् ॥
४,०३३.११ इदाह्नः पीतिमुत वो मदं धुर्न ऋते श्रान्तस्य सख्याय देवाः ।
४,०३३.११ ते नूनमस्मे ऋभवो वसूनि तृतीये अस्मिन्सवने दधात ॥
४,०३४.०१ ऋभुर्विभ्वा वाज इन्द्रो नो अच्छेमं यज्ञं रत्नधेयोप यात ।
४,०३४.०१ इदा हि वो धिषणा देव्यह्नामधात्पीतिं सं मदा अग्मता वः ॥
४,०३४.०२ विदानासो जन्मनो वाजरत्ना उत ऋतुभिरृभवो मादयध्वम् ।
४,०३४.०२ सं वो मदा अग्मत सं पुरन्धिः सुवीरामस्मे रयिमेरयध्वम् ॥
४,०३४.०३ अयं वो यज्ञ ऋभवोऽकारि यमा मनुष्वत्प्रदिवो दधिध्वे ।
४,०३४.०३ प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्वे अग्रियोत वाजाः ॥
४,०३४.०४ अभूदु वो विधते रत्नधेयमिदा नरो दाशुषे मर्त्याय ।
४,०३४.०४ पिबत वाजा ऋभवो ददे वो महि तृतीयं सवनं मदाय ॥
४,०३४.०५ आ वाजा यातोप न ऋभुक्षा महो नरो द्रविणसो गृणानाः ।
४,०३४.०५ आ वः पीतयोऽभिपित्वे अह्नामिमा अस्तं नवस्व इव ग्मन् ॥
४,०३४.०६ आ नपातः शवसो यातनोपेमं यज्ञं नमसा हूयमानाः ।
४,०३४.०६ सजोषसः सूरयो यस्य च स्थ मध्वः पात रत्नधा इन्द्रवन्तः ॥
४,०३४.०७ सजोषा इन्द्र वरुणेन सोमं सजोषाः पाहि गिर्वणो मरुद्भिः ।
४,०३४.०७ अग्रेपाभिरृतुपाभिः सजोषा ग्नास्पत्नीभी रत्नधाभिः सजोषाः ॥
४,०३४.०८ सजोषस आदित्यैर्मादयध्वं सजोषस ऋभवः पर्वतेभिः ।
४,०३४.०८ सजोषसो दैव्येना सवित्रा सजोषसः सिन्धुभी रत्नधेभिः ॥
४,०३४.०९ ये अश्विना ये पितरा य ऊती धेनुं ततक्षुरृभवो ये अश्वा ।
४,०३४.०९ ये अंसत्रा य ऋधग्रोदसी ये विभ्वो नरः स्वपत्यानि चक्रुः ॥
४,०३४.१० ये गोमन्तं वाजवन्तं सुवीरं रयिं धत्थ वसुमन्तं पुरुक्षुम् ।
४,०३४.१० ते अग्रेपा ऋभवो मन्दसाना अस्मे धत्त ये च रातिं गृणन्ति ॥
४,०३४.११ नापाभूत न वोऽतीतृषामानिःशस्ता ऋभवो यज्ञे अस्मिन् ।
४,०३४.११ समिन्द्रेण मदथ सं मरुद्भिः सं राजभी रत्नधेयाय देवाः ॥
४,०३५.०१ इहोप यात शवसो नपातः सौधन्वना ऋभवो माप भूत ।
४,०३५.०१ अस्मिन्हि वः सवने रत्नधेयं गमन्त्विन्द्रमनु वो मदासः ॥
४,०३५.०२ आगन्नृभूणामिह रत्नधेयमभूत्सोमस्य सुषुतस्य पीतिः ।
४,०३५.०२ सुकृत्यया यत्स्वपस्यया चं एकं विचक्र चमसं चतुर्धा ॥
४,०३५.०३ व्यकृणोत चमसं चतुर्धा सखे वि शिक्षेत्यब्रवीत ।
४,०३५.०३ अथैत वाजा अमृतस्य पन्थां गणं देवानामृभवः सुहस्ताः ॥
४,०३५.०४ किम्मयः स्विच्चमस एष आस यं काव्येन चतुरो विचक्र ।
४,०३५.०४ अथा सुनुध्वं सवनं मदाय पात ऋभवो मधुनः सोम्यस्य ॥
४,०३५.०५ शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम् ।
४,०३५.०५ शच्या हरी धनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नाः ॥
४,०३५.०६ यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय ।
४,०३५.०६ तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः ॥
४,०३५.०७ प्रातः सुतमपिबो हर्यश्व माध्यन्दिनं सवनं केवलं ते ।
४,०३५.०७ समृभुभिः पिबस्व रत्नधेभिः सखींर्यां इन्द्र चकृषे सुकृत्या ॥
४,०३५.०८ ये देवासो अभवता सुकृत्या श्येना इवेदधि दिवि निषेद ।
४,०३५.०८ ते रत्नं धात शवसो नपातः सौधन्वना अभवतामृतासः ॥
४,०३५.०९ यत्तृतीयं सवनं रत्नधेयमकृणुध्वं स्वपस्या सुहस्ताः ।
४,०३५.०९ तदृभवः परिषिक्तं व एतत्सं मदेभिरिन्द्रियेभिः पिबध्वम् ॥
४,०३६.०१ अनश्वो जातो अनभीशुरुक्थ्यो रथस्त्रिचक्रः परि वर्तते रजः ।
४,०३६.०१ महत्तद्वो देव्यस्य प्रवाचनं द्यामृभवः पृथिवीं यच्च पुष्यथ ॥
४,०३६.०२ रथं ये चक्रुः सुवृतं सुचेतसोऽविह्वरन्तं मनसस्परि ध्यया ।
४,०३६.०२ तां ऊ न्वस्य सवनस्य पीतय आ वो वाजा ऋभवो वेदयामसि ॥
४,०३६.०३ तद्वो वाजा ऋभवः सुप्रवाचनं देवेषु विभ्वो अभवन्महित्वनम् ।
४,०३६.०३ जिव्री यत्सन्ता पितरा सनाजुरा पुनर्युवाना चरथाय तक्षथ ॥
४,०३६.०४ एकं वि चक्र चमसं चतुर्वयं निश्चर्मणो गामरिणीत धीतिभिः ।
४,०३६.०४ अथा देवेष्वमृतत्वमानश श्रुष्टी वाजा ऋभवस्तद्व उक्थ्यम् ॥
४,०३६.०५ ऋभुतो रयिः प्रथमश्रवस्तमो वाजश्रुतासो यमजीजनन्नरः ।
४,०३६.०५ विभ्वतष्टो विदथेषु प्रवाच्यो यं देवासोऽवथा स विचर्षणिः ॥
४,०३६.०६ स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः ।
४,०३६.०६ स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वां ऋभवो यमाविषुः ॥
४,०३६.०७ श्रेष्ठं वः पेशो अधि धायि दर्शतं स्तोमो वाजा ऋभवस्तं जुजुष्टन ।
४,०३६.०७ धीरासो हि ष्ठा कवयो विपश्चितस्तान्व एना ब्रह्मणा वेदयामसि ॥
४,०३६.०८ यूयमस्मभ्यं धिषणाभ्यस्परि विद्वांसो विश्वा नर्याणि भोजना ।
४,०३६.०८ द्युमन्तं वाजं वृषशुष्ममुत्तममा नो रयिमृभवस्तक्षता वयः ॥
४,०३६.०९ इह प्रजामिह रयिं रराणा इह श्रवो वीरवत्तक्षता नः ।
४,०३६.०९ येन वयं चितयेमात्यन्यान्तं वाजं चित्रमृभवो ददा नः ॥
४,०३७.०१ उप नो वाजा अध्वरमृभुक्षा देवा यात पथिभिर्देवयानैः ।
४,०३७.०१ यथा यज्ञं मनुषो विक्ष्वासु दधिध्वे रण्वाः सुदिनेष्वह्नाम् ॥
४,०३७.०२ ते वो हृदे मनसे सन्तु यज्ञा जुष्टासो अद्य घृतनिर्णिजो गुः ।
४,०३७.०२ प्र वः सुतासो हरयन्त पूर्णाः क्रत्वे दक्षाय हर्षयन्त पीताः ॥
४,०३७.०३ त्र्युदायं देवहितं यथा व स्तोमो वाजा ऋभुक्षणो ददे वः ।
४,०३७.०३ जुह्वे मनुष्वदुपरासु विक्षु युष्मे सचा बृहद्दिवेषु सोमम् ॥
४,०३७.०४ पीवोअश्वाः शुचद्रथा हि भूतायःशिप्रा वाजिनः सुनिष्काः ।
४,०३७.०४ इन्द्रस्य सूनो शवसो नपातोऽनु वश्चेत्यग्रियं मदाय ॥
४,०३७.०५ ऋभुमृभुक्षणो रयिं वाजे वाजिन्तमं युजम् ।
४,०३७.०५ इन्द्रस्वन्तं हवामहे सदासातममश्विनम् ॥
४,०३७.०६ सेदृभवो यमवथ यूयमिन्द्रश्च मर्त्यम् ।
४,०३७.०६ स धीभिरस्तु सनिता मेधसाता सो अर्वता ॥
४,०३७.०७ वि नो वाजा ऋभुक्षणः पथश्चितन यष्टवे ।
४,०३७.०७ अस्मभ्यं सूरय स्तुता विश्वा आशास्तरीषणि ॥
४,०३७.०८ तं नो वाजा ऋभुक्षण इन्द्र नासत्या रयिम् ।
४,०३७.०८ समश्वं चर्षणिभ्य आ पुरु शस्त मघत्तये ॥
४,०३८.०१ उतो हि वां दात्रा सन्ति पूर्वा या पूरुभ्यस्त्रसदस्युर्नितोशे ।
४,०३८.०१ क्षेत्रासां ददथुरुर्वरासां घनं दस्युभ्यो अभिभूतिमुग्रम् ॥
४,०३८.०२ उत वाजिनं पुरुनिष्षिध्वानं दधिक्रामु ददथुर्विश्वकृष्टिम् ।
४,०३८.०२ ऋजिप्यं श्येनं प्रुषितप्सुमाशुं चर्कृत्यमर्यो नृपतिं न शूरम् ॥
४,०३८.०३ यं सीमनु प्रवतेव द्रवन्तं विश्वः पूरुर्मदति हर्षमाणः ।
४,०३८.०३ पड्भिर्गृध्यन्तं मेधयुं न शूरं रथतुरं वातमिव ध्रजन्तम् ॥
४,०३८.०४ यः स्मारुन्धानो गध्या समत्सु सनुतरश्चरति गोषु गच्छन् ।
४,०३८.०४ आविरृजीको विदथा निचिक्यत्तिरो अरतिं पर्याप आयोः ॥
४,०३८.०५ उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु ।
४,०३८.०५ नीचायमानं जसुरिं न श्येनं श्रवश्चाच्छा पशुमच्च यूथम् ॥
४,०३८.०६ उत स्मासु प्रथमः सरिष्यन्नि वेवेति श्रेणिभी रथानाम् ।
४,०३८.०६ स्रजं कृण्वानो जन्यो न शुभ्वा रेणुं रेरिहत्किरणं ददश्वान् ॥
४,०३८.०७ उत स्य वाजी सहुरिरृतावा शुश्रूषमाणस्तन्वा समर्ये ।
४,०३८.०७ तुरं यतीषु तुरयन्नृजिप्योऽधि भ्रुवोः किरते रेणुमृञ्जन् ॥
४,०३८.०८ उत स्मास्य तन्यतोरिव द्योरृघायतो अभियुजो भयन्ते ।
४,०३८.०८ यदा सहस्रमभि षीमयोधीद्दुर्वर्तुः स्मा भवति भीम ऋञ्जन् ॥
४,०३८.०९ उत स्मास्य पनयन्ति जना जूतिं कृष्टिप्रो अभिभूतिमाशोः ।
४,०३८.०९ उतैनमाहुः समिथे वियन्तः परा दधिक्रा असरत्सहस्रैः ॥
४,०३८.१० आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान ।
४,०३८.१० सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचांसि ॥
४,०३९.०१ आशुं दधिक्रां तमु नु ष्टवाम दिवस्पृथिव्या उत चर्किराम ।
४,०३९.०१ उच्छन्तीर्मामुषसः सूदयन्त्वति विश्वानि दुरितानि पर्षन् ॥
४,०३९.०२ महश्चर्कर्म्यर्वतः क्रतुप्रा दधिक्राव्णः पुरुवारस्य वृष्णः ।
४,०३९.०२ यं पूरुभ्यो दीदिवांसं नाग्निं ददथुर्मित्रावरुणा ततुरिम् ॥
४,०३९.०३ यो अश्वस्य दधिक्राव्णो अकारीत्समिद्धे अग्ना उषसो व्युष्टौ ।
४,०३९.०३ अनागसं तमदितिः कृणोतु स मित्रेण वरुणेना सजोषाः ॥
४,०३९.०४ दधिक्राव्ण इष ऊर्जो महो यदमन्महि मरुतां नाम भद्रम् ।
४,०३९.०४ स्वस्तये वरुणं मित्रमग्निं हवामह इन्द्रं वज्रबाहुम् ॥
४,०३९.०५ इन्द्रमिवेदुभये वि ह्वयन्त उदीराणा यज्ञमुपप्रयन्तः ।
४,०३९.०५ दधिक्रामु सूदनं मर्त्याय ददथुर्मित्रावरुणा नो अश्वम् ॥
४,०३९.०६ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
४,०३९.०६ सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत् ॥
४,०४०.०१ दधिक्राव्ण इदु नु चर्किराम विश्वा इन्मामुषसः सूदयन्तु ।
४,०४०.०१ अपामग्नेरुषसः सूर्यस्य बृहस्पतेराङ्गिरसस्य जिष्णोः ॥
४,०४०.०२ सत्वा भरिषो गविषो दुवन्यसच्छ्रवस्यादिष उषसस्तुरण्यसत् ।
४,०४०.०२ सत्यो द्रवो द्रवरः पतङ्गरो दधिक्रावेषमूर्जं स्वर्जनत् ॥
४,०४०.०३ उत स्मास्य द्रवतस्तुरण्यतः पर्णं न वेरनु वाति प्रगर्धिनः ।
४,०४०.०३ श्येनस्येव ध्रजतो अङ्कसं परि दधिक्राव्णः सहोर्जा तरित्रतः ॥
४,०४०.०४ उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्ष आसनि ।
४,०४०.०४ क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्कांस्यन्वापनीफणत् ॥
४,०४०.०५ हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् ।
४,०४०.०५ नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥
४,०४१.०१ इन्द्रा को वां वरुणा सुम्नमाप स्तोमो हविष्मां अमृतो न होता ।
४,०४१.०१ यो वां हृदि क्रतुमां अस्मदुक्तः पस्पर्शदिन्द्रावरुणा नमस्वान् ॥
४,०४१.०२ इन्द्रा ह यो वरुणा चक्र आपी देवौ मर्तः सख्याय प्रयस्वान् ।
४,०४१.०२ स हन्ति वृत्रा समिथेषु शत्रूनवोभिर्वा महद्भिः स प्र शृण्वे ॥
४,०४१.०३ इन्द्रा ह रत्नं वरुणा धेष्ठेत्था नृभ्यः शशमानेभ्यस्ता ।
४,०४१.०३ यदी सखाया सख्याय सोमैः सुतेभिः सुप्रयसा मादयैते ॥
४,०४१.०४ इन्द्रा युवं वरुणा दिद्युमस्मिन्नोजिष्ठमुग्रा नि वधिष्टं वज्रम् ।
४,०४१.०४ यो नो दुरेवो वृकतिर्दभीतिस्तस्मिन्मिमाथामभिभूत्योजः ॥
४,०४१.०५ इन्द्रा युवं वरुणा भूतमस्या धियः प्रेतारा वृषभेव धेनोः ।
४,०४१.०५ सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥
४,०४१.०६ तोके हिते तनय उर्वरासु सूरो दृशीके वृषणश्च पौंस्ये ।
४,०४१.०६ इन्द्रा नो अत्र वरुणा स्यातामवोभिर्दस्मा परितक्म्यायाम् ॥
४,०४१.०७ युवामिद्ध्यवसे पूर्व्याय परि प्रभूती गविषः स्वापी ।
४,०४१.०७ वृणीमहे सख्याय प्रियाय शूरा मंहिष्ठा पितरेव शम्भू ॥
४,०४१.०८ ता वां धियोऽवसे वाजयन्तीराजिं न जग्मुर्युवयूः सुदानू ।
४,०४१.०८ श्रिये न गाव उप सोममस्थुरिन्द्रं गिरो वरुणं मे मनीषाः ॥
४,०४१.०९ इमा इन्द्रं वरुणं मे मनीषा अग्मन्नुप द्रविणमिच्छमानाः ।
४,०४१.०९ उपेमस्थुर्जोष्टार इव वस्वो रघ्वीरिव श्रवसो भिक्षमाणाः ॥
४,०४१.१० अश्व्यस्य त्मना रथ्यस्य पुष्टेर्नित्यस्य रायः पतयः स्याम ।
४,०४१.१० ता चक्राणा ऊतिभिर्नव्यसीभिरस्मत्रा रायो नियुतः सचन्ताम् ॥
४,०४१.११ आ नो बृहन्ता बृहतीभिरूती इन्द्र यातं वरुण वाजसातौ ।
४,०४१.११ यद्दिद्यवः पृतनासु प्रक्रीळान्तस्य वां स्याम सनितार आजेः ॥
४,०४२.०१ मम द्विता राष्ट्रं क्षत्रियस्य विश्वायोर्विश्वे अमृता यथा नः ।
४,०४२.०१ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥
४,०४२.०२ अहं राजा वरुणो मह्यं तान्यसुर्याणि प्रथमा धारयन्त ।
४,०४२.०२ क्रतुं सचन्ते वरुणस्य देवा राजामि कृष्टेरुपमस्य वव्रेः ॥
४,०४२.०३ अहमिन्द्रो वरुणस्ते महित्वोर्वी गभीरे रजसी सुमेके ।
४,०४२.०३ त्वष्टेव विश्वा भुवनानि विद्वान्समैरयं रोदसी धारयं च ॥
४,०४२.०४ अहमपो अपिन्वमुक्षमाणा धारयं दिवं सदन ऋतस्य ।
४,०४२.०४ ऋतेन पुत्रो अदितेरृतावोत त्रिधातु प्रथयद्वि भूम ॥
४,०४२.०५ मां नरः स्वश्वा वाजयन्तो मां वृताः समरणे हवन्ते ।
४,०४२.०५ कृणोम्याजिं मघवाहमिन्द्र इयर्मि रेणुमभिभूत्योजाः ॥
४,०४२.०६ अहं ता विश्वा चकरं नकिर्मा दैव्यं सहो वरते अप्रतीतम् ।
४,०४२.०६ यन्मा सोमासो ममदन्यदुक्थोभे भयेते रजसी अपारे ॥
४,०४२.०७ विदुष्टे विश्वा भुवनानि तस्य ता प्र ब्रवीषि वरुणाय वेधः ।
४,०४२.०७ त्वं वृत्राणि शृण्विषे जघन्वान्त्वं वृतां अरिणा इन्द्र सिन्धून् ॥
४,०४२.०८ अस्माकमत्र पितरस्त आसन्सप्त ऋषयो दौर्गहे बध्यमाने ।
४,०४२.०८ त आयजन्त त्रसदस्युमस्या इन्द्रं न वृत्रतुरमर्धदेवम् ॥
४,०४२.०९ पुरुकुत्सानी हि वामदाशद्धव्येभिरिन्द्रावरुणा नमोभिः ।
४,०४२.०९ अथा राजानं त्रसदस्युमस्या वृत्रहणं ददथुरर्धदेवम् ॥
४,०४२.१० राया वयं ससवांसो मदेम हव्येन देवा यवसेन गावः ।
४,०४२.१० तां धेनुमिन्द्रावरुणा युवं नो विश्वाहा धत्तमनपस्फुरन्तीम् ॥
४,०४३.०१ क उ श्रवत्कतमो यज्ञियानां वन्दारु देवः कतमो जुषाते ।
४,०४३.०१ कस्येमां देवीममृतेषु प्रेष्ठां हृदि श्रेषाम सुष्टुतिं सुहव्याम् ॥
४,०४३.०२ को मृळाति कतम आगमिष्ठो देवानामु कतमः शम्भविष्ठः ।
४,०४३.०२ रथं कमाहुर्द्रवदश्वमाशुं यं सूर्यस्य दुहितावृणीत ॥
४,०४३.०३ मक्षू हि ष्मा गच्छथ ईवतो द्यूनिन्द्रो न शक्तिं परितक्म्यायाम् ।
४,०४३.०३ दिव आजाता दिव्या सुपर्णा कया शचीनां भवथः शचिष्ठा ॥
४,०४३.०४ का वां भूदुपमातिः कया न आश्विना गमथो हूयमाना ।
४,०४३.०४ को वां महश्चित्त्यजसो अभीक उरुष्यतं माध्वी दस्रा न ऊती ॥
४,०४३.०५ उरु वां रथः परि नक्षति द्यामा यत्समुद्रादभि वर्तते वाम् ।
४,०४३.०५ मध्वा माध्वी मधु वां प्रुषायन्यत्सीं वां पृक्षो भुरजन्त पक्वाः ॥
४,०४३.०६ सिन्धुर्ह वां रसया सिञ्चदश्वान्घृणा वयोऽरुषासः परि ग्मन् ।
४,०४३.०६ तदू षु वामजिरं चेति यानं येन पती भवथः सूर्यायाः ॥
४,०४३.०७ इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
४,०४३.०७ उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥
४,०४४.०१ तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।
४,०४४.०१ यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥
४,०४४.०२ युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
४,०४४.०२ युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥
४,०४४.०३ को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
४,०४४.०३ ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत् ॥
४,०४४.०४ हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
४,०४४.०४ पिबाथ इन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥
४,०४४.०५ आ नो यातं दिवो अच्छा पृथिव्या हिरण्ययेन सुवृता रथेन ।
४,०४४.०५ मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥
४,०४४.०६ नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।
४,०४४.०६ नरो यद्वामश्विना स्तोममावन्सधस्तुतिमाजमीळ्हासो अग्मन् ॥
४,०४४.०७ इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
४,०४४.०७ उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक् ॥
४,०४५.०१ एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि ।
४,०४५.०१ पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥
४,०४५.०२ उद्वां पृक्षासो मधुमन्त ईरते रथा अश्वास उषसो व्युष्टिषु ।
४,०४५.०२ अपोर्णुवन्तस्तम आ परीवृतं स्वर्ण शुक्रं तन्वन्त आ रजः ॥
४,०४५.०३ मध्वः पिबतं मधुपेभिरासभिरुत प्रियं मधुने युञ्जाथां रथम् ।
४,०४५.०३ आ वर्तनिं मधुना जिन्वथस्पथो दृतिं वहेथे मधुमन्तमश्विना ॥
४,०४५.०४ हंसासो ये वां मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः ।
४,०४५.०४ उदप्रुतो मन्दिनो मन्दिनिस्पृशो मध्वो न मक्षः सवनानि गच्छथः ॥
४,०४५.०५ स्वध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते प्रति वस्तोरश्विना ।
४,०४५.०५ यन्निक्तहस्तस्तरणिर्विचक्षणः सोमं सुषाव मधुमन्तमद्रिभिः ॥
४,०४५.०६ आकेनिपासो अहभिर्दविध्वतः स्वर्ण शुक्रं तन्वन्त आ रजः ।
४,०४५.०६ सूरश्चिदश्वान्युयुजान ईयते विश्वां अनु स्वधया चेतथस्पथः ॥
४,०४५.०७ प्र वामवोचमश्विना धियन्धा रथः स्वश्वो अजरो यो अस्ति ।
४,०४५.०७ येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिं भोजमच्छ ॥
४,०४६.०१ अग्रं पिबा मधूनां सुतं वायो दिविष्टिषु ।
४,०४६.०१ त्वं हि पूर्वपा असि ॥
४,०४६.०२ शतेना नो अभिष्टिभिर्नियुत्वां इन्द्रसारथिः ।
४,०४६.०२ वायो सुतस्य तृम्पतम् ॥
४,०४६.०३ आ वां सहस्रं हरय इन्द्रवायू अभि प्रयः ।
४,०४६.०३ वहन्तु सोमपीतये ॥
४,०४६.०४ रथं हिरण्यवन्धुरमिन्द्रवायू स्वध्वरम् ।
४,०४६.०४ आ हि स्थाथो दिविस्पृशम् ॥
४,०४६.०५ रथेन पृथुपाजसा दाश्वांसमुप गच्छतम् ।
४,०४६.०५ इन्द्रवायू इहा गतम् ॥
४,०४६.०६ इन्द्रवायू अयं सुतस्तं देवेभिः सजोषसा ।
४,०४६.०६ पिबतं दाशुषो गृहे ॥
४,०४६.०७ इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम् ।
४,०४६.०७ इह वां सोमपीतये ॥
४,०४७.०१ वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
४,०४७.०१ आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥
४,०४७.०२ इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः ।
४,०४७.०२ युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥
४,०४७.०३ वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती ।
४,०४७.०३ नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥
४,०४७.०४ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
४,०४७.०४ अस्मे ता यज्ञवाहसेन्द्रवायू नि यच्छतम् ॥
४,०४८.०१ विहि होत्रा अवीता विपो न रायो अर्यः ।
४,०४८.०१ वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥
४,०४८.०२ निर्युवाणो अशस्तीर्नियुत्वां इन्द्रसारथिः ।
४,०४८.०२ वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥
४,०४८.०३ अनु कृष्णे वसुधिती येमाते विश्वपेशसा ।
४,०४८.०३ वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥
४,०४८.०४ वहन्तु त्वा मनोयुजो युक्तासो नवतिर्नव ।
४,०४८.०४ वायवा चन्द्रेण रथेन याहि सुतस्य पीतये ॥
४,०४८.०५ वायो शतं हरीणां युवस्व पोष्याणाम् ।
४,०४८.०५ उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥
४,०४९.०१ इदं वामास्ये हविः प्रियमिन्द्राबृहस्पती ।
४,०४९.०१ उक्थं मदश्च शस्यते ॥
४,०४९.०२ अयं वां परि षिच्यते सोम इन्द्राबृहस्पती ।
४,०४९.०२ चारुर्मदाय पीतये ॥
४,०४९.०३ आ न इन्द्राबृहस्पती गृहमिन्द्रश्च गच्छतम् ।
४,०४९.०३ सोमपा सोमपीतये ॥
४,०४९.०४ अस्मे इन्द्राबृहस्पती रयिं धत्तं शतग्विनम् ।
४,०४९.०४ अश्वावन्तं सहस्रिणम् ॥
४,०४९.०५ इन्द्राबृहस्पती वयं सुते गीर्भिर्हवामहे ।
४,०४९.०५ अस्य सोमस्य पीतये ॥
४,०४९.०६ सोममिन्द्राबृहस्पती पिबतं दाशुषो गृहे ।
४,०४९.०६ मादयेथां तदोकसा ॥
४,०५०.०१ यस्तस्तम्भ सहसा वि ज्मो अन्तान्बृहस्पतिस्त्रिषधस्थो रवेण ।
४,०५०.०१ तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥
४,०५०.०२ धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे ।
४,०५०.०२ पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥
४,०५०.०३ बृहस्पते या परमा परावदत आ त ऋतस्पृशो नि षेदुः ।
४,०५०.०३ तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥
४,०५०.०४ बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
४,०५०.०४ सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥
४,०५०.०५ स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।
४,०५०.०५ बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत् ॥
४,०५०.०६ एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
४,०५०.०६ बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥
४,०५०.०७ स इद्राजा प्रतिजन्यानि विश्वा शुष्मेण तस्थावभि वीर्येण ।
४,०५०.०७ बृहस्पतिं यः सुभृतं बिभर्ति वल्गूयति वन्दते पूर्वभाजम् ॥
४,०५०.०८ स इत्क्षेति सुधित ओकसि स्वे तस्मा इळा पिन्वते विश्वदानीम् ।
४,०५०.०८ तस्मै विशः स्वयमेवा नमन्ते यस्मिन्ब्रह्मा राजनि पूर्व एति ॥
४,०५०.०९ अप्रतीतो जयति सं धनानि प्रतिजन्यान्युत या सजन्या ।
४,०५०.०९ अवस्यवे यो वरिवः कृणोति ब्रह्मणे राजा तमवन्ति देवाः ॥
४,०५०.१० इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन्यज्ञे मन्दसाना वृषण्वसू ।
४,०५०.१० आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यच्छतम् ॥
४,०५०.११ बृहस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर्भूत्वस्मे ।
४,०५०.११ अविष्टं धियो जिगृतं पुरन्धीर्जजस्तमर्यो वनुषामरातीः ॥
४,०५१.०१ इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् ।
४,०५१.०१ नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥
४,०५१.०२ अस्थुरु चित्रा उषसः पुरस्तान्मिता इव स्वरवोऽध्वरेषु ।
४,०५१.०२ व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥
४,०५१.०३ उच्छन्तीरद्य चितयन्त भोजान्राधोदेयायोषसो मघोनीः ।
४,०५१.०३ अचित्रे अन्तः पणयः ससन्त्वबुध्यमानास्तमसो विमध्ये ॥
४,०५१.०४ कुवित्स देवीः सनयो नवो वा यामो बभूयादुषसो वो अद्य ।
४,०५१.०४ येना नवग्वे अङ्गिरे दशग्वे सप्तास्ये रेवती रेवदूष ॥
४,०५१.०५ यूयं हि देवीरृतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः ।
४,०५१.०५ प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥
४,०५१.०६ क्व स्विदासां कतमा पुराणी यया विधाना विदधुरृभूणाम् ।
४,०५१.०६ शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥
४,०५१.०७ ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः ।
४,०५१.०७ यास्वीजानः शशमान उक्थै स्तुवञ्छंसन्द्रविणं सद्य आप ॥
४,०५१.०८ ता आ चरन्ति समना पुरस्तात्समानतः समना पप्रथानाः ।
४,०५१.०८ ऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥
४,०५१.०९ ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति ।
४,०५१.०९ गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥
४,०५१.१० रयिं दिवो दुहितरो विभातीः प्रजावन्तं यच्छतास्मासु देवीः ।
४,०५१.१० स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥
४,०५१.११ तद्वो दिवो दुहितरो विभातीरुप ब्रुव उषसो यज्ञकेतुः ।
४,०५१.११ वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥
४,०५२.०१ प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।
४,०५२.०१ दिवो अदर्शि दुहिता ॥
४,०५२.०२ अश्वेव चित्रारुषी माता गवामृतावरी ।
४,०५२.०२ सखाभूदश्विनोरुषाः ॥
४,०५२.०३ उत सखास्यश्विनोरुत माता गवामसि ।
४,०५२.०३ उतोषो वस्व ईशिषे ॥
४,०५२.०४ यावयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि ।
४,०५२.०४ प्रति स्तोमैरभुत्स्महि ॥
४,०५२.०५ प्रति भद्रा अदृक्षत गवां सर्गा न रश्मयः ।
४,०५२.०५ ओषा अप्रा उरु ज्रयः ॥
४,०५२.०६ आपप्रुषी विभावरि व्यावर्ज्योतिषा तमः ।
४,०५२.०६ उषो अनु स्वधामव ॥
४,०५२.०७ आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् ।
४,०५२.०७ उषः शुक्रेण शोचिषा ॥
४,०५३.०१ तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः ।
४,०५३.०१ छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महां उदयान्देवो अक्तुभिः ॥
४,०५३.०२ दिवो धर्ता भुवनस्य प्रजापतिः पिशङ्गं द्रापिं प्रति मुञ्चते कविः ।
४,०५३.०२ विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥
४,०५३.०३ आप्रा रजांसि दिव्यानि पार्थिवा श्लोकं देवः कृणुते स्वाय धर्मणे ।
४,०५३.०३ प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥
४,०५३.०४ अदाभ्यो भुवनानि प्रचाकशद्व्रतानि देवः सविताभि रक्षते ।
४,०५३.०४ प्रास्राग्बाहू भुवनस्य प्रजाभ्यो धृतव्रतो महो अज्मस्य राजति ॥
४,०५३.०५ त्रिरन्तरिक्षं सविता महित्वना त्री रजांसि परिभुस्त्रीणि रोचना ।
४,०५३.०५ तिस्रो दिवः पृथिवीस्तिस्र इन्वति त्रिभिर्व्रतैरभि नो रक्षति त्मना ॥
४,०५३.०६ बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुरुभयस्य यो वशी ।
४,०५३.०६ स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥
४,०५३.०७ आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् ।
४,०५३.०७ स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥
४,०५४.०१ अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः ।
४,०५४.०१ वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥
४,०५४.०२ देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वं सुवसि भागमुत्तमम् ।
४,०५४.०२ आदिद्दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥
४,०५४.०३ अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता ।
४,०५४.०३ देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः ॥
४,०५४.०४ न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति ।
४,०५४.०४ यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन्दिवः सुवति सत्यमस्य तत् ॥
४,०५४.०५ इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयां एभ्यः सुवसि पस्त्यावतः ।
४,०५४.०५ यथायथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥
४,०५४.०६ ये ते त्रिरहन्सवितः सवासो दिवेदिवे सौभगमासुवन्ति ।
४,०५४.०६ इन्द्रो द्यावापृथिवी सिन्धुरद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥
४,०५५.०१ को वस्त्राता वसवः को वरूता द्यावाभूमी अदिते त्रासीथां नः ।
४,०५५.०१ सहीयसो वरुण मित्र मर्तात्को वोऽध्वरे वरिवो धाति देवाः ॥
४,०५५.०२ प्र ये धामानि पूर्व्याण्यर्चान्वि यदुच्छान्वियोतारो अमूराः ।
४,०५५.०२ विधातारो वि ते दधुरजस्रा ऋतधीतयो रुरुचन्त दस्माः ॥
४,०५५.०३ प्र पस्त्यामदितिं सिन्धुमर्कैः स्वस्तिमीळे सख्याय देवीम् ।
४,०५५.०३ उभे यथा नो अहनी निपात उषासानक्ता करतामदब्धे ॥
४,०५५.०४ व्यर्यमा वरुणश्चेति पन्थामिषस्पतिः सुवितं गातुमग्निः ।
४,०५५.०४ इन्द्राविष्णू नृवदु षु स्तवाना शर्म नो यन्तममवद्वरूथम् ॥
४,०५५.०५ आ पर्वतस्य मरुतामवांसि देवस्य त्रातुरव्रि भगस्य ।
४,०५५.०५ पात्पतिर्जन्यादंहसो नो मित्रो मित्रियादुत न उरुष्येत् ॥
४,०५५.०६ नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः ।
४,०५५.०६ समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो अप व्रन् ॥
४,०५५.०७ देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
४,०५५.०७ नहि मित्रस्य वरुणस्य धासिमर्हामसि प्रमियं सान्वग्नेः ॥
४,०५५.०८ अग्निरीशे वसव्यस्याग्निर्महः सौभगस्य ।
४,०५५.०८ तान्यस्मभ्यं रासते ॥
४,०५५.०९ उषो मघोन्या वह सूनृते वार्या पुरु ।
४,०५५.०९ अस्मभ्यं वाजिनीवति ॥
४,०५५.१० तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।
४,०५५.१० इन्द्रो नो राधसा गमत् ॥
४,०५६.०१ मही द्यावापृथिवी इह ज्येष्ठे रुचा भवतां शुचयद्भिरर्कैः ।
४,०५६.०१ यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥
४,०५६.०२ देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे ।
४,०५६.०२ ऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिरर्कैः ॥
४,०५६.०३ स इत्स्वपा भुवनेष्वास य इमे द्यावापृथिवी जजान ।
४,०५६.०३ उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या समैरत् ॥
४,०५६.०४ नू रोदसी बृहद्भिर्नो वरूथैः पत्नीवद्भिरिषयन्ती सजोषाः ।
४,०५६.०४ उरूची विश्वे यजते नि पातं धिया स्याम रथ्यः सदासाः ॥
४,०५६.०५ प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
४,०५६.०५ शुची उप प्रशस्तये ॥
४,०५६.०६ पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।
४,०५६.०६ ऊह्याथे सनादृतम् ॥
४,०५६.०७ मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतम् ।
४,०५६.०७ परि यज्ञं नि षेदथुः ॥
४,०५७.०१ क्षेत्रस्य पतिना वयं हितेनेव जयामसि ।
४,०५७.०१ गामश्वं पोषयित्न्वा स नो मृळातीदृशे ॥
४,०५७.०२ क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
४,०५७.०२ मधुश्चुतं घृतमिव सुपूतमृतस्य नः पतयो मृळयन्तु ॥
४,०५७.०३ मधुमतीरोषधीर्द्याव आपो मधुमन्नो भवत्वन्तरिक्षम् ।
४,०५७.०३ क्षेत्रस्य पतिर्मधुमान्नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥
४,०५७.०४ शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
४,०५७.०४ शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥
४,०५७.०५ शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः ।
४,०५७.०५ तेनेमामुप सिञ्चतम् ॥
४,०५७.०६ अर्वाची सुभगे भव सीते वन्दामहे त्वा ।
४,०५७.०६ यथा नः सुभगाससि यथा नः सुफलाससि ॥
४,०५७.०७ इन्द्रः सीतां नि गृह्णातु तां पूषानु यच्छतु ।
४,०५७.०७ सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥
४,०५७.०८ शुनं नः फाला वि कृषन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः ।
४,०५७.०८ शुनं पर्जन्यो मधुना पयोभिः शुनासीरा शुनमस्मासु धत्तम् ॥
४,०५८.०१ समुद्रादूर्मिर्मधुमां उदारदुपांशुना सममृतत्वमानट् ।
४,०५८.०१ घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ॥
४,०५८.०२ वयं नाम प्र ब्रवामा घृतस्यास्मिन्यज्ञे धारयामा नमोभिः ।
४,०५८.०२ उप ब्रह्मा शृणवच्छस्यमानं चतुःशृङ्गोऽवमीद्गौर एतत् ॥
४,०५८.०३ चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य ।
४,०५८.०३ त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आ विवेश ॥
४,०५८.०४ त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविन्दन् ।
४,०५८.०४ इन्द्र एकं सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ॥
४,०५८.०५ एता अर्षन्ति हृद्यात्समुद्राच्छतव्रजा रिपुणा नावचक्षे ।
४,०५८.०५ घृतस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम् ॥
४,०५८.०६ सम्यक्स्रवन्ति सरितो न धेना अन्तर्हृदा मनसा पूयमानाः ।
४,०५८.०६ एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणोरीषमाणाः ॥
४,०५८.०७ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
४,०५८.०७ घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥
४,०५८.०८ अभि प्रवन्त समनेव योषाः कल्याण्यः स्मयमानासो अग्निम् ।
४,०५८.०८ घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥
४,०५८.०९ कन्या इव वहतुमेतवा उ अञ्ज्यञ्जाना अभि चाकशीमि ।
४,०५८.०९ यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभि तत्पवन्ते ॥
४,०५८.१० अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
४,०५८.१० इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ॥
४,०५८.११ धामन्ते विश्वं भुवनमधि श्रितमन्तः समुद्रे हृद्यन्तरायुषि ।
४,०५८.११ अपामनीके समिथे य आभृतस्तमश्याम मधुमन्तं त ऊर्मिम् ॥
ऋग्वेद ५
५,००१.०१ अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।
५,००१.०१ यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥
५,००१.०२ अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।
५,००१.०२ समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥
५,००१.०३ यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।
५,००१.०३ आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥
५,००१.०४ अग्निमच्छा देवयतां मनांसि चक्षूंषीव सूर्ये सं चरन्ति ।
५,००१.०४ यदीं सुवाते उषसा विरूपे श्वेतो वाजी जायते अग्रे अह्नाम् ॥
५,००१.०५ जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्वरुषो वनेषु ।
५,००१.०५ दमेदमे सप्त रत्ना दधानोऽग्निर्होता नि षसादा यजीयान् ॥
५,००१.०६ अग्निर्होता न्यसीदद्यजीयानुपस्थे मातुः सुरभा उ लोके ।
५,००१.०६ युवा कविः पुरुनिष्ठ ऋतावा धर्ता कृष्टीनामुत मध्य इद्धः ॥
५,००१.०७ प्र णु त्यं विप्रमध्वरेषु साधुमग्निं होतारमीळते नमोभिः ।
५,००१.०७ आ यस्ततान रोदसी ऋतेन नित्यं मृजन्ति वाजिनं घृतेन ॥
५,००१.०८ मार्जाल्यो मृज्यते स्वे दमूनाः कविप्रशस्तो अतिथिः शिवो नः ।
५,००१.०८ सहस्रशृङ्गो वृषभस्तदोजा विश्वां अग्ने सहसा प्रास्यन्यान् ॥
५,००१.०९ प्र सद्यो अग्ने अत्येष्यन्यानाविर्यस्मै चारुतमो बभूथ ।
५,००१.०९ ईळेन्यो वपुष्यो विभावा प्रियो विशामतिथिर्मानुषीणाम् ॥
५,००१.१० तुभ्यं भरन्ति क्षितयो यविष्ठ बलिमग्ने अन्तित ओत दूरात् ।
५,००१.१० आ भन्दिष्ठस्य सुमतिं चिकिद्धि बृहत्ते अग्ने महि शर्म भद्रम् ॥
५,००१.११ आद्य रथं भानुमो भानुमन्तमग्ने तिष्ठ यजतेभिः समन्तम् ।
५,००१.११ विद्वान्पथीनामुर्वन्तरिक्षमेह देवान्हविरद्याय वक्षि ॥
५,००१.१२ अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे ।
५,००१.१२ गविष्ठिरो नमसा स्तोममग्नौ दिवीव रुक्ममुरुव्यञ्चमश्रेत् ॥
५,००२.०१ कुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे ।
५,००२.०१ अनीकमस्य न मिनज्जनासः पुरः पश्यन्ति निहितमरतौ ॥
५,००२.०२ कमेतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान ।
५,००२.०२ पूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यदसूत माता ॥
५,००२.०३ हिरण्यदन्तं शुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानम् ।
५,००२.०३ ददानो अस्मा अमृतं विपृक्वत्किं मामनिन्द्राः कृणवन्ननुक्थाः ॥
५,००२.०४ क्षेत्रादपश्यं सनुतश्चरन्तं सुमद्यूथं न पुरु शोभमानम् ।
५,००२.०४ न ता अगृभ्रन्नजनिष्ट हि षः पलिक्नीरिद्युवतयो भवन्ति ॥
५,००२.०५ के मे मर्यकं वि यवन्त गोभिर्न येषां गोपा अरणश्चिदास ।
५,००२.०५ य ईं जगृभुरव ते सृजन्त्वाजाति पश्व उप नश्चिकित्वान् ॥
५,००२.०६ वसां राजानं वसतिं जनानामरातयो नि दधुर्मर्त्येषु ।
५,००२.०६ ब्रह्माण्यत्रेरव तं सृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥
५,००२.०७ शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः ।
५,००२.०७ एवास्मदग्ने वि मुमुग्धि पाशान्होतश्चिकित्व इह तू निषद्य ॥
५,००२.०८ हृणीयमानो अप हि मदैयेः प्र मे देवानां व्रतपा उवाच ।
५,००२.०८ इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥
५,००२.०९ वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
५,००२.०९ प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥
५,००२.१० उत स्वानासो दिवि षन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ ।
५,००२.१० मदे चिदस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥
५,००२.११ एतं ते स्तोमं तुविजात विप्रो रथं न धीरः स्वपा अतक्षम् ।
५,००२.११ यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम ॥
५,००२.१२ तुविग्रीवो वृषभो वावृधानोऽशत्र्वर्यः समजाति वेदः ।
५,००२.१२ इतीममग्निममृता अवोचन्बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत् ॥
५,००३.०१ त्वमग्ने वरुणो जायसे यत्त्वं मित्रो भवसि यत्समिद्धः ।
५,००३.०१ त्वे विश्वे सहसस्पुत्र देवास्त्वमिन्द्रो दाशुषे मर्त्याय ॥
५,००३.०२ त्वमर्यमा भवसि यत्कनीनां नाम स्वधावन्गुह्यं बिभर्षि ।
५,००३.०२ अञ्जन्ति मित्रं सुधितं न गोभिर्यद्दम्पती समनसा कृणोषि ॥
५,००३.०३ तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् ।
५,००३.०३ पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम् ॥
५,००३.०४ तव श्रिया सुदृशो देव देवाः पुरू दधाना अमृतं सपन्त ।
५,००३.०४ होतारमग्निं मनुषो नि षेदुर्दशस्यन्त उशिजः शंसमायोः ॥
५,००३.०५ न त्वद्धोता पूर्वो अग्ने यजीयान्न काव्यैः परो अस्ति स्वधावः ।
५,००३.०५ विशश्च यस्या अतिथिर्भवासि स यज्ञेन वनवद्देव मर्तान् ॥
५,००३.०६ वयमग्ने वनुयाम त्वोता वसूयवो हविषा बुध्यमानाः ।
५,००३.०६ वयं समर्ये विदथेष्वह्नां वयं राया सहसस्पुत्र मर्तान् ॥
५,००३.०७ यो न आगो अभ्येनो भरात्यधीदघमघशंसे दधात ।
५,००३.०७ जही चिकित्वो अभिशस्तिमेतामग्ने यो नो मर्चयति द्वयेन ॥
५,००३.०८ त्वामस्या व्युषि देव पूर्वे दूतं कृण्वाना अयजन्त हव्यैः ।
५,००३.०८ संस्थे यदग्न ईयसे रयीणां देवो मर्तैर्वसुभिरिध्यमानः ॥
५,००३.०९ अव स्पृधि पितरं योधि विद्वान्पुत्रो यस्ते सहसः सून ऊहे ।
५,००३.०९ कदा चिकित्वो अभि चक्षसे नोऽग्ने कदां ऋतचिद्यातयासे ॥
५,००३.१० भूरि नाम वन्दमानो दधाति पिता वसो यदि तज्जोषयासे ।
५,००३.१० कुविद्देवस्य सहसा चकानः सुम्नमग्निर्वनते वावृधानः ॥
५,००३.११ त्वमङ्ग जरितारं यविष्ठ विश्वान्यग्ने दुरिताति पर्षि ।
५,००३.११ स्तेना अदृश्रन्रिपवो जनासोऽज्ञातकेता वृजिना अभूवन् ॥
५,००३.१२ इमे यामासस्त्वद्रिगभूवन्वसवे वा तदिदागो अवाचि ।
५,००३.१२ नाहायमग्निरभिशस्तये नो न रीषते वावृधानः परा दात् ॥
५,००४.०१ त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन् ।
५,००४.०१ त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम् ॥
५,००४.०२ हव्यवाळ् अग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे ।
५,००४.०२ सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ॥
५,००४.०३ विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम् ।
५,००४.०३ नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥
५,००४.०४ जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य ।
५,००४.०४ जुषस्व नः समिधं जातवेद आ च देवान्हविरद्याय वक्षि ॥
५,००४.०५ जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।
५,००४.०५ विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥
५,००४.०६ वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे स्वायै ।
५,००४.०६ पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥
५,००४.०७ वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे ।
५,००४.०७ अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥
५,००४.०८ अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् ।
५,००४.०८ वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥
५,००४.०९ विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि ।
५,००४.०९ अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥
५,००४.१० यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि ।
५,००४.१० जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम् ॥
५,००४.११ यस्मै त्वं सुकृते जातवेद उ लोकमग्ने कृणवः स्योनम् ।
५,००४.११ अश्विनं स पुत्रिणं वीरवन्तं गोमन्तं रयिं नशते स्वस्ति ॥
५,००५.०१ सुसमिद्धाय शोचिषे घृतं तीव्रं जुहोतन ।
५,००५.०१ अग्नये जातवेदसे ॥
५,००५.०२ नराशंसः सुषूदतीमं यज्ञमदाभ्यः ।
५,००५.०२ कविर्हि मधुहस्त्यः ॥
५,००५.०३ ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
५,००५.०३ सुखै रथेभिरूतये ॥
५,००५.०४ ऊर्णम्रदा वि प्रथस्वाभ्यर्का अनूषत ।
५,००५.०४ भवा नः शुभ्र सातये ॥
५,००५.०५ देवीर्द्वारो वि श्रयध्वं सुप्रायणा न ऊतये ।
५,००५.०५ प्रप्र यज्ञं पृणीतन ॥
५,००५.०६ सुप्रतीके वयोवृधा यह्वी ऋतस्य मातरा ।
५,००५.०६ दोषामुषासमीमहे ॥
५,००५.०७ वातस्य पत्मन्नीळिता दैव्या होतारा मनुषः ।
५,००५.०७ इमं नो यज्ञमा गतम् ॥
५,००५.०८ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
५,००५.०८ बर्हिः सीदन्त्वस्रिधः ॥
५,००५.०९ शिवस्त्वष्टरिहा गहि विभुः पोष उत त्मना ।
५,००५.०९ यज्ञेयज्ञे न उदव ॥
५,००५.१० यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।
५,००५.१० तत्र हव्यानि गामय ॥
५,००५.११ स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः ।
५,००५.११ स्वाहा देवेभ्यो हविः ॥
५,००६.०१ अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
५,००६.०१ अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥
५,००६.०२ सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।
५,००६.०२ समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥
५,००६.०३ अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।
५,००६.०३ अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥
५,००६.०४ आ ते अग्न इधीमहि द्युमन्तं देवाजरम् ।
५,००६.०४ यद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥
५,००६.०५ आ ते अग्न ऋचा हविः शुक्रस्य शोचिषस्पते ।
५,००६.०५ सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर ॥
५,००६.०६ प्रो त्ये अग्नयोऽग्निषु विश्वं पुष्यन्ति वार्यम् ।
५,००६.०६ ते हिन्विरे त इन्विरे त इषण्यन्त्यानुषगिषं स्तोतृभ्य आ भर ॥
५,००६.०७ तव त्ये अग्ने अर्चयो महि व्राधन्त वाजिनः ।
५,००६.०७ ये पत्वभिः शफानां व्रजा भुरन्त गोनामिषं स्तोतृभ्य आ भर ॥
५,००६.०८ नवा नो अग्न आ भर स्तोतृभ्यः सुक्षितीरिषः ।
५,००६.०८ ते स्याम य आनृचुस्त्वादूतासो दमेदम इषं स्तोतृभ्य आ भर ॥
५,००६.०९ उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि ।
५,००६.०९ उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ॥
५,००६.१० एवां अग्निमजुर्यमुर्गीर्भिर्यज्ञेभिरानुषक् ।
५,००६.१० दधदस्मे सुवीर्यमुत त्यदाश्वश्व्यमिषं स्तोतृभ्य आ भर ॥
५,००७.०१ सखायः सं वः सम्यञ्चमिषं स्तोमं चाग्नये ।
५,००७.०१ वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
५,००७.०२ कुत्रा चिद्यस्य समृतौ रण्वा नरो नृषदने ।
५,००७.०२ अर्हन्तश्चिद्यमिन्धते संजनयन्ति जन्तवः ॥
५,००७.०३ सं यदिषो वनामहे सं हव्या मानुषाणाम् ।
५,००७.०३ उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे ॥
५,००७.०४ स स्मा कृणोति केतुमा नक्तं चिद्दूर आ सते ।
५,००७.०४ पावको यद्वनस्पतीन्प्र स्मा मिनात्यजरः ॥
५,००७.०५ अव स्म यस्य वेषणे स्वेदं पथिषु जुह्वति ।
५,००७.०५ अभीमह स्वजेन्यं भूमा पृष्ठेव रुरुहुः ॥
५,००७.०६ यं मर्त्यः पुरुस्पृहं विदद्विश्वस्य धायसे ।
५,००७.०६ प्र स्वादनं पितूनामस्ततातिं चिदायवे ॥
५,००७.०७ स हि ष्मा धन्वाक्षितं दाता न दात्या पशुः ।
५,००७.०७ हिरिश्मश्रुः शुचिदन्नृभुरनिभृष्टतविषिः ॥
५,००७.०८ शुचिः ष्म यस्मा अत्रिवत्प्र स्वधितीव रीयते ।
५,००७.०८ सुषूरसूत माता क्राणा यदानशे भगम् ॥
५,००७.०९ आ यस्ते सर्पिरासुतेऽग्ने शमस्ति धायसे ।
५,००७.०९ ऐषु द्युम्नमुत श्रव आ चित्तं मर्त्येषु धाः ॥
५,००७.१० इति चिन्मन्युमध्रिजस्त्वादातमा पशुं ददे ।
५,००७.१० आदग्ने अपृणतोऽत्रिः सासह्याद्दस्यूनिषः सासह्यान्नॄन् ॥
५,००८.०१ त्वामग्न ऋतायवः समीधिरे प्रत्नं प्रत्नास ऊतये सहस्कृत ।
५,००८.०१ पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गृहपतिं वरेण्यम् ॥
५,००८.०२ त्वामग्ने अतिथिं पूर्व्यं विशः शोचिष्केशं गृहपतिं नि षेदिरे ।
५,००८.०२ बृहत्केतुं पुरुरूपं धनस्पृतं सुशर्माणं स्ववसं जरद्विषम् ॥
५,००८.०३ त्वामग्ने मानुषीरीळते विशो होत्राविदं विविचिं रत्नधातमम् ।
५,००८.०३ गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घृतश्रियम् ॥
५,००८.०४ त्वामग्ने धर्णसिं विश्वधा वयं गीर्भिर्गृणन्तो नमसोप सेदिम ।
५,००८.०४ स नो जुषस्व समिधानो अङ्गिरो देवो मर्तस्य यशसा सुदीतिभिः ॥
५,००८.०५ त्वमग्ने पुरुरूपो विशेविशे वयो दधासि प्रत्नथा पुरुष्टुत ।
५,००८.०५ पुरूण्यन्ना सहसा वि राजसि त्विषिः सा ते तित्विषाणस्य नाधृषे ॥
५,००८.०६ त्वामग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम् ।
५,००८.०६ उरुज्रयसं घृतयोनिमाहुतं त्वेषं चक्षुर्दधिरे चोदयन्मति ॥
५,००८.०७ त्वामग्ने प्रदिव आहुतं घृतैः सुम्नायवः सुषमिधा समीधिरे ।
५,००८.०७ स वावृधान ओषधीभिरुक्षितोऽभि ज्रयांसि पार्थिवा वि तिष्ठसे ॥
५,००९.०१ त्वामग्ने हविष्मन्तो देवं मर्तास ईळते ।
५,००९.०१ मन्ये त्वा जातवेदसं स हव्या वक्ष्यानुषक् ॥
५,००९.०२ अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः ।
५,००९.०२ सं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥
५,००९.०३ उत स्म यं शिशुं यथा नवं जनिष्टारणी ।
५,००९.०३ धर्तारं मानुषीणां विशामग्निं स्वध्वरम् ॥
५,००९.०४ उत स्म दुर्गृभीयसे पुत्रो न ह्वार्याणाम् ।
५,००९.०४ पुरू यो दग्धासि वनाग्ने पशुर्न यवसे ॥
५,००९.०५ अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः ।
५,००९.०५ यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा ॥
५,००९.०६ तवाहमग्न ऊतिभिर्मित्रस्य च प्रशस्तिभिः ।
५,००९.०६ द्वेषोयुतो न दुरिता तुर्याम मर्त्यानाम् ॥
५,००९.०७ तं नो अग्ने अभी नरो रयिं सहस्व आ भर ।
५,००९.०७ स क्षेपयत्स पोषयद्भुवद्वाजस्य सातय उतैधि पृत्सु नो वृधे ॥
५,०१०.०१ अग्न ओजिष्ठमा भर द्युम्नमस्मभ्यमध्रिगो ।
५,०१०.०१ प्र नो राया परीणसा रत्सि वाजाय पन्थाम् ॥
५,०१०.०२ त्वं नो अग्ने अद्भुत क्रत्वा दक्षस्य मंहना ।
५,०१०.०२ त्वे असुर्यमारुहत्क्राणा मित्रो न यज्ञियः ॥
५,०१०.०३ त्वं नो अग्न एषां गयं पुष्टिं च वर्धय ।
५,०१०.०३ ये स्तोमेभिः प्र सूरयो नरो मघान्यानशुः ॥
५,०१०.०४ ये अग्ने चन्द्र ते गिरः शुम्भन्त्यश्वराधसः ।
५,०१०.०४ शुष्मेभिः शुष्मिणो नरो दिवश्चिद्येषां बृहत्सुकीर्तिर्बोधति त्मना ॥
५,०१०.०५ तव त्ये अग्ने अर्चयो भ्राजन्तो यन्ति धृष्णुया ।
५,०१०.०५ परिज्मानो न विद्युतः स्वानो रथो न वाजयुः ॥
५,०१०.०६ नू नो अग्न ऊतये सबाधसश्च रातये ।
५,०१०.०६ अस्माकासश्च सूरयो विश्वा आशास्तरीषणि ॥
५,०१०.०७ त्वं नो अग्ने अङ्गिर स्तुत स्तवान आ भर ।
५,०१०.०७ होतर्विभ्वासहं रयिं स्तोतृभ्य स्तवसे च न उतैधि पृत्सु नो वृधे ॥
५,०११.०१ जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।
५,०११.०१ घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥
५,०११.०२ यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे ।
५,०११.०२ इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥
५,०११.०३ असम्मृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः ।
५,०११.०३ घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः ॥
५,०११.०४ अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे ।
५,०११.०४ अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम् ॥
५,०११.०५ तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे ।
५,०११.०५ त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च ॥
५,०११.०६ त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।
५,०११.०६ स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥
५,०१२.०१ प्राग्नये बृहते यज्ञियाय ऋतस्य वृष्णे असुराय मन्म ।
५,०१२.०१ घृतं न यज्ञ आस्ये सुपूतं गिरं भरे वृषभाय प्रतीचीम् ॥
५,०१२.०२ ऋतं चिकित्व ऋतमिच्चिकिद्ध्यृतस्य धारा अनु तृन्धि पूर्वीः ।
५,०१२.०२ नाहं यातुं सहसा न द्वयेन ऋतं सपाम्यरुषस्य वृष्णः ॥
५,०१२.०३ कया नो अग्न ऋतयन्नृतेन भुवो नवेदा उचथस्य नव्यः ।
५,०१२.०३ वेदा मे देव ऋतुपा ऋतूनां नाहं पतिं सनितुरस्य रायः ॥
५,०१२.०४ के ते अग्ने रिपवे बन्धनासः के पायवः सनिषन्त द्युमन्तः ।
५,०१२.०४ के धासिमग्ने अनृतस्य पान्ति क आसतो वचसः सन्ति गोपाः ॥
५,०१२.०५ सखायस्ते विषुणा अग्न एते शिवासः सन्तो अशिवा अभूवन् ।
५,०१२.०५ अधूर्षत स्वयमेते वचोभिरृजूयते वृजिनानि ब्रुवन्तः ॥
५,०१२.०६ यस्ते अग्ने नमसा यज्ञमीट्ट ऋतं स पात्यरुषस्य वृष्णः ।
५,०१२.०६ तस्य क्षयः पृथुरा साधुरेतु प्रसर्स्राणस्य नहुषस्य शेषः ॥
५,०१३.०१ अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि ।
५,०१३.०१ अग्ने अर्चन्त ऊतये ॥
५,०१३.०२ अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।
५,०१३.०२ देवस्य द्रविणस्यवः ॥
५,०१३.०३ अग्निर्जुषत नो गिरो होता यो मानुषेष्वा ।
५,०१३.०३ स यक्षद्दैव्यं जनम् ॥
५,०१३.०४ त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
५,०१३.०४ त्वया यज्ञं वि तन्वते ॥
५,०१३.०५ त्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् ।
५,०१३.०५ स नो रास्व सुवीर्यम् ॥
५,०१३.०६ अग्ने नेमिररां इव देवांस्त्वं परिभूरसि ।
५,०१३.०६ आ राधश्चित्रमृञ्जसे ॥
५,०१४.०१ अग्निं स्तोमेन बोधय समिधानो अमर्त्यम् ।
५,०१४.०१ हव्या देवेषु नो दधत् ॥
५,०१४.०२ तमध्वरेष्वीळते देवं मर्ता अमर्त्यम् ।
५,०१४.०२ यजिष्ठं मानुषे जने ॥
५,०१४.०३ तं हि शश्वन्त ईळते स्रुचा देवं घृतश्चुता ।
५,०१४.०३ अग्निं हव्याय वोळ्हवे ॥
५,०१४.०४ अग्निर्जातो अरोचत घ्नन्दस्यूञ्ज्योतिषा तमः ।
५,०१४.०४ अविन्दद्गा अपः स्वः ॥
५,०१४.०५ अग्निमीळेन्यं कविं घृतपृष्ठं सपर्यत ।
५,०१४.०५ वेतु मे शृणवद्धवम् ॥
५,०१४.०६ अग्निं घृतेन वावृधु स्तोमेभिर्विश्वचर्षणिम् ।
५,०१४.०६ स्वाधीभिर्वचस्युभिः ॥
५,०१५.०१ प्र वेधसे कवये वेद्याय गिरं भरे यशसे पूर्व्याय ।
५,०१५.०१ घृतप्रसत्तो असुरः सुशेवो रायो धर्ता धरुणो वस्वो अग्निः ॥
५,०१५.०२ ऋतेन ऋतं धरुणं धारयन्त यज्ञस्य शाके परमे व्योमन् ।
५,०१५.०२ दिवो धर्मन्धरुणे सेदुषो नॄञ्जातैरजातां अभि ये ननक्षुः ॥
५,०१५.०३ अङ्होयुवस्तन्वस्तन्वते वि वयो महद्दुष्टरं पूर्व्याय ।
५,०१५.०३ स संवतो नवजातस्तुतुर्यात्सिङ्हं न क्रुद्धमभितः परि ष्ठुः ॥
५,०१५.०४ मातेव यद्भरसे पप्रथानो जनंजनं धायसे चक्षसे च ।
५,०१५.०४ वयोवयो जरसे यद्दधानः परि त्मना विषुरूपो जिगासि ॥
५,०१५.०५ वाजो नु ते शवसस्पात्वन्तमुरुं दोघं धरुणं देव रायः ।
५,०१५.०५ पदं न तायुर्गुहा दधानो महो राये चितयन्नत्रिमस्पः ॥
५,०१६.०१ बृहद्वयो हि भानवेऽर्चा देवायाग्नये ।
५,०१६.०१ यं मित्रं न प्रशस्तिभिर्मर्तासो दधिरे पुरः ॥
५,०१६.०२ स हि द्युभिर्जनानां होता दक्षस्य बाह्वोः ।
५,०१६.०२ वि हव्यमग्निरानुषग्भगो न वारमृण्वति ॥
५,०१६.०३ अस्य स्तोमे मघोनः सख्ये वृद्धशोचिषः ।
५,०१६.०३ विश्वा यस्मिन्तुविष्वणि समर्ये शुष्ममादधुः ॥
५,०१६.०४ अधा ह्यग्न एषां सुवीर्यस्य मंहना ।
५,०१६.०४ तमिद्यह्वं न रोदसी परि श्रवो बभूवतुः ॥
५,०१६.०५ नू न एहि वार्यमग्ने गृणान आ भर ।
५,०१६.०५ ये वयं ये च सूरयः स्वस्ति धामहे सचोतैधि पृत्सु नो वृधे ॥
५,०१७.०१ आ यज्ञैर्देव मर्त्य इत्था तव्यांसमूतये ।
५,०१७.०१ अग्निं कृते स्वध्वरे पूरुरीळीतावसे ॥
५,०१७.०२ अस्य हि स्वयशस्तर आसा विधर्मन्मन्यसे ।
५,०१७.०२ तं नाकं चित्रशोचिषं मन्द्रं परो मनीषया ॥
५,०१७.०३ अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा ।
५,०१७.०३ दिवो न यस्य रेतसा बृहच्छोचन्त्यर्चयः ॥
५,०१७.०४ अस्य क्रत्वा विचेतसो दस्मस्य वसु रथ आ ।
५,०१७.०४ अधा विश्वासु हव्योऽग्निर्विक्षु प्र शस्यते ॥
५,०१७.०५ नू न इद्धि वार्यमासा सचन्त सूरयः ।
५,०१७.०५ ऊर्जो नपादभिष्टये पाहि शग्धि स्वस्तय उतैधि पृत्सु नो वृधे ॥
५,०१८.०१ प्रातरग्निः पुरुप्रियो विश स्तवेतातिथिः ।
५,०१८.०१ विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति ॥
५,०१८.०२ द्विताय मृक्तवाहसे स्वस्य दक्षस्य मंहना ।
५,०१८.०२ इन्दुं स धत्त आनुषक्स्तोता चित्ते अमर्त्य ॥
५,०१८.०३ तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम् ।
५,०१८.०३ अरिष्टो येषां रथो व्यश्वदावन्नीयते ॥
५,०१८.०४ चित्रा वा येषु दीधितिरासन्नुक्था पान्ति ये ।
५,०१८.०४ स्तीर्णं बर्हिः स्वर्णरे श्रवांसि दधिरे परि ॥
५,०१८.०५ ये मे पञ्चाशतं ददुरश्वानां सधस्तुति ।
५,०१८.०५ द्युमदग्ने महि श्रवो बृहत्कृधि मघोनां नृवदमृत नृणाम् ॥
५,०१९.०१ अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत ।
५,०१९.०१ उपस्थे मातुर्वि चष्टे ॥
५,०१९.०२ जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति ।
५,०१९.०२ आ दृळ्हां पुरं विविशुः ॥
५,०१९.०३ आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः ।
५,०१९.०३ निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥
५,०१९.०४ प्रियं दुग्धं न काम्यमजामि जाम्योः सचा ।
५,०१९.०४ घर्मो न वाजजठरोऽदब्धः शश्वतो दभः ॥
५,०१९.०५ क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः ।
५,०१९.०५ ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥
५,०२०.०१ यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम् ।
५,०२०.०१ तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥
५,०२०.०२ ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः ।
५,०२०.०२ अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे ॥
५,०२०.०३ होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम् ।
५,०२०.०३ यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥
५,०२०.०४ इत्था यथा त ऊतये सहसावन्दिवेदिवे ।
५,०२०.०४ राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥
५,०२१.०१ मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि ।
५,०२१.०१ अग्ने मनुष्वदङ्गिरो देवान्देवयते यज ॥
५,०२१.०२ त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे ।
५,०२१.०२ स्रुचस्त्वा यन्त्यानुषक्सुजात सर्पिरासुते ॥
५,०२१.०३ त्वां विश्वे सजोषसो देवासो दूतमक्रत ।
५,०२१.०३ सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते ॥
५,०२१.०४ देवं वो देवयज्ययाग्निमीळीत मर्त्यः ।
५,०२१.०४ समिद्धः शुक्र दीदिह्यृतस्य योनिमासदः ससस्य योनिमासदः ॥
५,०२२.०१ प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे ।
५,०२२.०१ यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि ॥
५,०२२.०२ न्यग्निं जातवेदसं दधाता देवमृत्विजम् ।
५,०२२.०२ प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ॥
५,०२२.०३ चिकित्विन्मनसं त्वा देवं मर्तास ऊतये ।
५,०२२.०३ वरेण्यस्य तेऽवस इयानासो अमन्महि ॥
५,०२२.०४ अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य ।
५,०२२.०४ तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः ॥
५,०२३.०१ अग्ने सहन्तमा भर द्युम्नस्य प्रासहा रयिम् ।
५,०२३.०१ विश्वा यश्चर्षणीरभ्यासा वाजेषु सासहत् ॥
५,०२३.०२ तमग्ने पृतनाषहं रयिं सहस्व आ भर ।
५,०२३.०२ त्वं हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥
५,०२३.०३ विश्वे हि त्वा सजोषसो जनासो वृक्तबर्हिषः ।
५,०२३.०३ होतारं सद्मसु प्रियं व्यन्ति वार्या पुरु ॥
५,०२३.०४ स हि ष्मा विश्वचर्षणिरभिमाति सहो दधे ।
५,०२३.०४ अग्न एषु क्षयेष्वा रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥
५,०२४.०१ अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः ॥
५,०२४.०२ वसुरग्निर्वसुश्रवा अच्छा नक्षि द्युमत्तमं रयिं दाः ॥
५,०२४.०३ स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात् ॥
५,०२४.०४ तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥
५,०२५.०१ अच्छा वो अग्निमवसे देवं गासि स नो वसुः ।
५,०२५.०१ रासत्पुत्र ऋषूणामृतावा पर्षति द्विषः ॥
५,०२५.०२ स हि सत्यो यं पूर्वे चिद्देवासश्चिद्यमीधिरे ।
५,०२५.०२ होतारं मन्द्रजिह्वमित्सुदीतिभिर्विभावसुम् ॥
५,०२५.०३ स नो धीती वरिष्ठया श्रेष्ठया च सुमत्या ।
५,०२५.०३ अग्ने रायो दिदीहि नः सुवृक्तिभिर्वरेण्य ॥
५,०२५.०४ अग्निर्देवेषु राजत्यग्निर्मर्तेष्वाविशन् ।
५,०२५.०४ अग्निर्नो हव्यवाहनोऽग्निं धीभिः सपर्यत ॥
५,०२५.०५ अग्निस्तुविश्रवस्तमं तुविब्रह्माणमुत्तमम् ।
५,०२५.०५ अतूर्तं श्रावयत्पतिं पुत्रं ददाति दाशुषे ॥
५,०२५.०६ अग्निर्ददाति सत्पतिं सासाह यो युधा नृभिः ।
५,०२५.०६ अग्निरत्यं रघुष्यदं जेतारमपराजितम् ॥
५,०२५.०७ यद्वाहिष्ठं तदग्नये बृहदर्च विभावसो ।
५,०२५.०७ महिषीव त्वद्रयिस्त्वद्वाजा उदीरते ॥
५,०२५.०८ तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत् ।
५,०२५.०८ उतो ते तन्यतुर्यथा स्वानो अर्त त्मना दिवः ॥
५,०२५.०९ एवां अग्निं वसूयवः सहसानं ववन्दिम ।
५,०२५.०९ स नो विश्वा अति द्विषः पर्षन्नावेव सुक्रतुः ॥
५,०२६.०१ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।
५,०२६.०१ आ देवान्वक्षि यक्षि च ॥
५,०२६.०२ तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशम् ।
५,०२६.०२ देवां आ वीतये वह ॥
५,०२६.०३ वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि ।
५,०२६.०३ अग्ने बृहन्तमध्वरे ॥
५,०२६.०४ अग्ने विश्वेभिरा गहि देवेभिर्हव्यदातये ।
५,०२६.०४ होतारं त्वा वृणीमहे ॥
५,०२६.०५ यजमानाय सुन्वत आग्ने सुवीर्यं वह ।
५,०२६.०५ देवैरा सत्सि बर्हिषि ॥
५,०२६.०६ समिधानः सहस्रजिदग्ने धर्माणि पुष्यसि ।
५,०२६.०६ देवानां दूत उक्थ्यः ॥
५,०२६.०७ न्यग्निं जातवेदसं होत्रवाहं यविष्ठ्यम् ।
५,०२६.०७ दधाता देवमृत्विजम् ॥
५,०२६.०८ प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ।
५,०२६.०८ स्तृणीत बर्हिरासदे ॥
५,०२६.०९ एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः ।
५,०२६.०९ देवासः सर्वया विशा ॥
५,०२७.०१ अनस्वन्ता सत्पतिर्मामहे मे गावा चेतिष्ठो असुरो मघोनः ।
५,०२७.०१ त्रैवृष्णो अग्ने दशभिः सहस्रैर्वैश्वानर त्र्यरुणश्चिकेत ॥
५,०२७.०२ यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति ।
५,०२७.०२ वैश्वानर सुष्टुतो वावृधानोऽग्ने यच्छ त्र्यरुणाय शर्म ॥
५,०२७.०३ एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं त्रसदस्युः ।
५,०२७.०३ यो मे गिरस्तुविजातस्य पूर्वीर्युक्तेनाभि त्र्यरुणो गृणाति ॥
५,०२७.०४ यो म इति प्रवोचत्यश्वमेधाय सूरये ।
५,०२७.०४ दददृचा सनिं यते ददन्मेधामृतायते ॥
५,०२७.०५ यस्य मा परुषाः शतमुद्धर्षयन्त्युक्षणः ।
५,०२७.०५ अश्वमेधस्य दानाः सोमा इव त्र्याशिरः ॥
५,०२७.०६ इन्द्राग्नी शतदाव्न्यश्वमेधे सुवीर्यम् ।
५,०२७.०६ क्षत्रं धारयतं बृहद्दिवि सूर्यमिवाजरम् ॥
५,०२८.०१ समिद्धो अग्निर्दिवि शोचिरश्रेत्प्रत्यङ्ङुषसमुर्विया वि भाति ।
५,०२८.०१ एति प्राची विश्ववारा नमोभिर्देवां ईळाना हविषा घृताची ॥
५,०२८.०२ समिध्यमानो अमृतस्य राजसि हविष्कृण्वन्तं सचसे स्वस्तये ।
५,०२८.०२ विश्वं स धत्ते द्रविणं यमिन्वस्यातिथ्यमग्ने नि च धत्त इत्पुरः ॥
५,०२८.०३ अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
५,०२८.०३ सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥
५,०२८.०४ समिद्धस्य प्रमहसोऽग्ने वन्दे तव श्रियम् ।
५,०२८.०४ वृषभो द्युम्नवां असि समध्वरेष्विध्यसे ॥
५,०२८.०५ समिद्धो अग्न आहुत देवान्यक्षि स्वध्वर ।
५,०२८.०५ त्वं हि हव्यवाळ् असि ॥
५,०२८.०६ आ जुहोता दुवस्यताग्निं प्रयत्यध्वरे ।
५,०२८.०६ वृणीध्वं हव्यवाहनम् ॥
५,०२९.०१ त्र्यर्यमा मनुषो देवताता त्री रोचना दिव्या धारयन्त ।
५,०२९.०१ अर्चन्ति त्वा मरुतः पूतदक्षास्त्वमेषामृषिरिन्द्रासि धीरः ॥
५,०२९.०२ अनु यदीं मरुतो मन्दसानमार्चन्निन्द्रं पपिवांसं सुतस्य ।
५,०२९.०२ आदत्त वज्रमभि यदहिं हन्नपो यह्वीरसृजत्सर्तवा उ ॥
५,०२९.०३ उत ब्रह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः ।
५,०२९.०३ तद्धि हव्यं मनुषे गा अविन्ददहन्नहिं पपिवां इन्द्रो अस्य ॥
५,०२९.०४ आद्रोदसी वितरं वि ष्कभायत्संविव्यानश्चिद्भियसे मृगं कः ।
५,०२९.०४ जिगर्तिमिन्द्रो अपजर्गुराणः प्रति श्वसन्तमव दानवं हन् ॥
५,०२९.०५ अध क्रत्वा मघवन्तुभ्यं देवा अनु विश्वे अददुः सोमपेयम् ।
५,०२९.०५ यत्सूर्यस्य हरितः पतन्तीः पुरः सतीरुपरा एतशे कः ॥
५,०२९.०६ नव यदस्य नवतिं च भोगान्साकं वज्रेण मघवा विवृश्चत् ।
५,०२९.०६ अर्चन्तीन्द्रं मरुतः सधस्थे त्रैष्टुभेन वचसा बाधत द्याम् ॥
५,०२९.०७ सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि ।
५,०२९.०७ त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम् ॥
५,०२९.०८ त्री यच्छता महिषाणामघो मास्त्री सरांसि मघवा सोम्यापाः ।
५,०२९.०८ कारं न विश्वे अह्वन्त देवा भरमिन्द्राय यदहिं जघान ॥
५,०२९.०९ उशना यत्सहस्यैरयातं गृहमिन्द्र जूजुवानेभिरश्वैः ।
५,०२९.०९ वन्वानो अत्र सरथं ययाथ कुत्सेन देवैरवनोर्ह शुष्णम् ॥
५,०२९.१० प्रान्यच्चक्रमवृहः सूर्यस्य कुत्सायान्यद्वरिवो यातवेऽकः ।
५,०२९.१० अनासो दस्यूंरमृणो वधेन नि दुर्योण आवृणङ्मृध्रवाचः ॥
५,०२९.११ स्तोमासस्त्वा गौरिवीतेरवर्धन्नरन्धयो वैदथिनाय पिप्रुम् ।
५,०२९.११ आ त्वामृजिश्वा सख्याय चक्रे पचन्पक्तीरपिबः सोममस्य ॥
५,०२९.१२ नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्यर्चन्त्यर्कैः ।
५,०२९.१२ गव्यं चिदूर्वमपिधानवन्तं तं चिन्नरः शशमाना अप व्रन् ॥
५,०२९.१३ कथो नु ते परि चराणि विद्वान्वीर्या मघवन्या चकर्थ ।
५,०२९.१३ या चो नु नव्या कृणवः शविष्ठ प्रेदु ता ते विदथेषु ब्रवाम ॥
५,०२९.१४ एता विश्वा चकृवां इन्द्र भूर्यपरीतो जनुषा वीर्येण ।
५,०२९.१४ या चिन्नु वज्रिन्कृणवो दधृष्वान्न ते वर्ता तविष्या अस्ति तस्याः ॥
५,०२९.१५ इन्द्र ब्रह्म क्रियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म ।
५,०२९.१५ वस्त्रेव भद्रा सुकृता वसूयू रथं न धीरः स्वपा अतक्षम् ॥
५,०३०.०१ क्व स्य वीरः को अपश्यदिन्द्रं सुखरथमीयमानं हरिभ्याम् ।
५,०३०.०१ यो राया वज्री सुतसोममिच्छन्तदोको गन्ता पुरुहूत ऊती ॥
५,०३०.०२ अवाचचक्षं पदमस्य सस्वरुग्रं निधातुरन्वायमिच्छन् ।
५,०३०.०२ अपृच्छमन्यां उत ते म आहुरिन्द्रं नरो बुबुधाना अशेम ॥
५,०३०.०३ प्र नु वयं सुते या ते कृतानीन्द्र ब्रवाम यानि नो जुजोषः ।
५,०३०.०३ वेददविद्वाञ्छृणवच्च विद्वान्वहतेऽयं मघवा सर्वसेनः ॥
५,०३०.०४ स्थिरं मनश्चकृषे जात इन्द्र वेषीदेको युधये भूयसश्चित् ।
५,०३०.०४ अश्मानं चिच्छवसा दिद्युतो वि विदो गवामूर्वमुस्रियाणाम् ॥
५,०३०.०५ परो यत्त्वं परम आजनिष्ठाः परावति श्रुत्यं नाम बिभ्रत् ।
५,०३०.०५ अतश्चिदिन्द्रादभयन्त देवा विश्वा अपो अजयद्दासपत्नीः ॥
५,०३०.०६ तुभ्येदेते मरुतः सुशेवा अर्चन्त्यर्कं सुन्वन्त्यन्धः ।
५,०३०.०६ अहिमोहानमप आशयानं प्र मायाभिर्मायिनं सक्षदिन्द्रः ॥
५,०३०.०७ वि षू मृधो जनुषा दानमिन्वन्नहन्गवा मघवन्संचकानः ।
५,०३०.०७ अत्रा दासस्य नमुचेः शिरो यदवर्तयो मनवे गातुमिच्छन् ॥
५,०३०.०८ युजं हि मामकृथा आदिदिन्द्र शिरो दासस्य नमुचेर्मथायन् ।
५,०३०.०८ अश्मानं चित्स्वर्यं वर्तमानं प्र चक्रियेव रोदसी मरुद्भ्यः ॥
५,०३०.०९ स्त्रियो हि दास आयुधानि चक्रे किं मा करन्नबला अस्य सेनाः ।
५,०३०.०९ अन्तर्ह्यख्यदुभे अस्य धेने अथोप प्रैद्युधये दस्युमिन्द्रः ॥
५,०३०.१० समत्र गावोऽभितोऽनवन्तेहेह वत्सैर्वियुता यदासन् ।
५,०३०.१० सं ता इन्द्रो असृजदस्य शाकैर्यदीं सोमासः सुषुता अमन्दन् ॥
५,०३०.११ यदीं सोमा बभ्रुधूता अमन्दन्नरोरवीद्वृषभः सादनेषु ।
५,०३०.११ पुरन्दरः पपिवां इन्द्रो अस्य पुनर्गवामददादुस्रियाणाम् ॥
५,०३०.१२ भद्रमिदं रुशमा अग्ने अक्रन्गवां चत्वारि ददतः सहस्रा ।
५,०३०.१२ ऋणञ्चयस्य प्रयता मघानि प्रत्यग्रभीष्म नृतमस्य नृणाम् ॥
५,०३०.१३ सुपेशसं माव सृजन्त्यस्तं गवां सहस्रै रुशमासो अग्ने ।
५,०३०.१३ तीव्रा इन्द्रमममन्दुः सुतासोऽक्तोर्व्युष्टौ परितक्म्यायाः ॥
५,०३०.१४ औच्छत्सा रात्री परितक्म्या यां ऋणञ्चये राजनि रुशमानाम् ।
५,०३०.१४ अत्यो न वाजी रघुरज्यमानो बभ्रुश्चत्वार्यसनत्सहस्रा ॥
५,०३०.१५ चतुःसहस्रं गव्यस्य पश्वः प्रत्यग्रभीष्म रुशमेष्वग्ने ।
५,०३०.१५ घर्मश्चित्तप्तः प्रवृजे य आसीदयस्मयस्तं वादाम विप्राः ॥
५,०३१.०१ इन्द्रो रथाय प्रवतं कृणोति यमध्यस्थान्मघवा वाजयन्तम् ।
५,०३१.०१ यूथेव पश्वो व्युनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥
५,०३१.०२ आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व ।
५,०३१.०२ नहि त्वदिन्द्र वस्यो अन्यदस्त्यमेनांश्चिज्जनिवतश्चकर्थ ॥
५,०३१.०३ उद्यत्सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा ।
५,०३१.०३ प्राचोदयत्सुदुघा वव्रे अन्तर्वि ज्योतिषा संववृत्वत्तमोऽवः ॥
५,०३१.०४ अनवस्ते रथमश्वाय तक्षन्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ।
५,०३१.०४ ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥
५,०३१.०५ वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः ।
५,०३१.०५ अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥
५,०३१.०६ प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ ।
५,०३१.०६ शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥
५,०३१.०७ तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः ।
५,०३१.०७ शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूंरसेधः ॥
५,०३१.०८ त्वमपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र ।
५,०३१.०८ उग्रमयातमवहो ह कुत्सं सं ह यद्वामुशनारन्त देवाः ॥
५,०३१.०९ इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु ।
५,०३१.०९ निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥
५,०३१.१० वातस्य युक्तान्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः ।
५,०३१.१० विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥
५,०३१.११ सूरश्चिद्रथं परितक्म्यायां पूर्वं करदुपरं जूजुवांसम् ।
५,०३१.११ भरच्चक्रमेतशः सं रिणाति पुरो दधत्सनिष्यति क्रतुं नः ॥
५,०३१.१२ आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन् ।
५,०३१.१२ वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति ॥
५,०३१.१३ ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् ।
५,०३१.१३ वावन्धि यज्यूंरुत तेषु धेह्योजो जनेषु येषु ते स्याम ॥
५,०३२.०१ अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानां अरम्णाः ।
५,०३२.०१ महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥
५,०३२.०२ त्वमुत्सां ऋतुभिर्बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन् ।
५,०३२.०२ अहिं चिदुग्र प्रयुतं शयानं जघन्वां इन्द्र तविषीमधत्थाः ॥
५,०३२.०३ त्यस्य चिन्महतो निर्मृगस्य वधर्जघान तविषीभिरिन्द्रः ।
५,०३२.०३ य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान् ॥
५,०३२.०४ त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम् ।
५,०३२.०४ वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥
५,०३२.०५ त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म ।
५,०३२.०५ यदीं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥
५,०३२.०६ त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम् ।
५,०३२.०६ तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान ॥
५,०३२.०७ उद्यदिन्द्रो महते दानवाय वधर्यमिष्ट सहो अप्रतीतम् ।
५,०३२.०७ यदीं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोरधमं चकार ॥
५,०३२.०८ त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्याददुग्रः ।
५,०३२.०८ अपादमत्रं महता वधेन नि दुर्योण आवृणङ्मृध्रवाचम् ॥
५,०३२.०९ को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः ।
५,०३२.०९ इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥
५,०३२.१० न्यस्मै देवी स्वधितिर्जिहीत इन्द्राय गातुरुशतीव येमे ।
५,०३२.१० सं यदोजो युवते विश्वमाभिरनु स्वधाव्ने क्षितयो नमन्त ॥
५,०३२.११ एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु ।
५,०३२.११ तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम् ॥
५,०३२.१२ एवा हि त्वामृतुथा यातयन्तं मघा विप्रेभ्यो ददतं शृणोमि ।
५,०३२.१२ किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः काममिन्द्र ॥
५,०३३.०१ महि महे तवसे दीध्ये नॄनिन्द्रायेत्था तवसे अतव्यान् ।
५,०३३.०१ यो अस्मै सुमतिं वाजसातौ स्तुतो जने समर्यश्चिकेत ॥
५,०३३.०२ स त्वं न इन्द्र धियसानो अर्कैर्हरीणां वृषन्योक्त्रमश्रेः ।
५,०३३.०२ या इत्था मघवन्ननु जोषं वक्षो अभि प्रार्यः सक्षि जनान् ॥
५,०३३.०३ न ते त इन्द्राभ्यस्मदृष्वायुक्तासो अब्रह्मता यदसन् ।
५,०३३.०३ तिष्ठा रथमधि तं वज्रहस्ता रश्मिं देव यमसे स्वश्वः ॥
५,०३३.०४ पुरू यत्त इन्द्र सन्त्युक्था गवे चकर्थोर्वरासु युध्यन् ।
५,०३३.०४ ततक्षे सूर्याय चिदोकसि स्वे वृषा समत्सु दासस्य नाम चित् ॥
५,०३३.०५ वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश्च रथाः ।
५,०३३.०५ आस्माञ्जगम्यादहिशुष्म सत्वा भगो न हव्यः प्रभृथेषु चारुः ॥
५,०३३.०६ पपृक्षेण्यमिन्द्र त्वे ह्योजो नृम्णानि च नृतमानो अमर्तः ।
५,०३३.०६ स न एनीं वसवानो रयिं दाः प्रार्य स्तुषे तुविमघस्य दानम् ॥
५,०३३.०७ एवा न इन्द्रोतिभिरव पाहि गृणतः शूर कारून् ।
५,०३३.०७ उत त्वचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः ॥
५,०३३.०८ उत त्ये मा पौरुकुत्स्यस्य सूरेस्त्रसदस्योर्हिरणिनो रराणाः ।
५,०३३.०८ वहन्तु मा दश श्येतासो अस्य गैरिक्षितस्य क्रतुभिर्नु सश्चे ॥
५,०३३.०९ उत त्ये मा मारुताश्वस्य शोणाः क्रत्वामघासो विदथस्य रातौ ।
५,०३३.०९ सहस्रा मे च्यवतानो ददान आनूकमर्यो वपुषे नार्चत् ॥
५,०३३.१० उत त्ये मा ध्वन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः ।
५,०३३.१० मह्ना रायः संवरणस्य ऋषेर्व्रजं न गावः प्रयता अपि ग्मन् ॥
५,०३४.०१ अजातशत्रुमजरा स्वर्वत्यनु स्वधामिता दस्ममीयते ।
५,०३४.०१ सुनोतन पचत ब्रह्मवाहसे पुरुष्टुताय प्रतरं दधातन ॥
५,०३४.०२ आ यः सोमेन जठरमपिप्रतामन्दत मघवा मध्वो अन्धसः ।
५,०३४.०२ यदीं मृगाय हन्तवे महावधः सहस्रभृष्टिमुशना वधं यमत् ॥
५,०३४.०३ यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमां अह ।
५,०३४.०३ अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवासखः ॥
५,०३४.०४ यस्यावधीत्पितरं यस्य मातरं यस्य शक्रो भ्रातरं नात ईषते ।
५,०३४.०४ वेतीद्वस्य प्रयता यतङ्करो न किल्बिषादीषते वस्व आकरः ॥
५,०३४.०५ न पञ्चभिर्दशभिर्वष्ट्यारभं नासुन्वता सचते पुष्यता चन ।
५,०३४.०५ जिनाति वेदमुया हन्ति वा धुनिरा देवयुं भजति गोमति व्रजे ॥
५,०३४.०६ वित्वक्षणः समृतौ चक्रमासजोऽसुन्वतो विषुणः सुन्वतो वृधः ।
५,०३४.०६ इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासमार्यः ॥
५,०३४.०७ समीं पणेरजति भोजनं मुषे वि दाशुषे भजति सूनरं वसु ।
५,०३४.०७ दुर्गे चन ध्रियते विश्व आ पुरु जनो यो अस्य तविषीमचुक्रुधत् ॥
५,०३४.०८ सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु ।
५,०३४.०८ युजं ह्यन्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः ॥
५,०३४.०९ सहस्रसामाग्निवेशिं गृणीषे शत्रिमग्न उपमां केतुमर्यः ।
५,०३४.०९ तस्मा आपः संयतः पीपयन्त तस्मिन्क्षत्रममवत्त्वेषमस्तु ॥
५,०३५.०१ यस्ते साधिष्ठोऽवस इन्द्र क्रतुष्टमा भर ।
५,०३५.०१ अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥
५,०३५.०२ यदिन्द्र ते चतस्रो यच्छूर सन्ति तिस्रः ।
५,०३५.०२ यद्वा पञ्च क्षितीनामवस्तत्सु न आ भर ॥
५,०३५.०३ आ तेऽवो वरेण्यं वृषन्तमस्य हूमहे ।
५,०३५.०३ वृषजूतिर्हि जज्ञिष आभूभिरिन्द्र तुर्वणिः ॥
५,०३५.०४ वृषा ह्यसि राधसे जज्ञिषे वृष्णि ते शवः ।
५,०३५.०४ स्वक्षत्रं ते धृषन्मनः सत्राहमिन्द्र पौंस्यम् ॥
५,०३५.०५ त्वं तमिन्द्र मर्त्यममित्रयन्तमद्रिवः ।
५,०३५.०५ सर्वरथा शतक्रतो नि याहि शवसस्पते ॥
५,०३५.०६ त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
५,०३५.०६ उग्रं पूर्वीषु पूर्व्यं हवन्ते वाजसातये ॥
५,०३५.०७ अस्माकमिन्द्र दुष्टरं पुरोयावानमाजिषु ।
५,०३५.०७ सयावानं धनेधने वाजयन्तमवा रथम् ॥
५,०३५.०८ अस्माकमिन्द्रेहि नो रथमवा पुरन्ध्या ।
५,०३५.०८ वयं शविष्ठ वार्यं दिवि श्रवो दधीमहि दिवि स्तोमं मनामहे ॥
५,०३६.०१ स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम् ।
५,०३६.०१ धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् ॥
५,०३६.०२ आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे ।
५,०३६.०२ अनु त्वा राजन्नर्वतो न हिन्वन्गीर्भिर्मदेम पुरुहूत विश्वे ॥
५,०३६.०३ चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः ।
५,०३६.०३ रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः ॥
५,०३६.०४ एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः ।
५,०३६.०४ प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः ॥
५,०३६.०५ वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम् ।
५,०३६.०५ स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः ॥
५,०३६.०६ यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमानावदिष्ट ।
५,०३६.०६ यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥
५,०३७.०१ सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः ।
५,०३७.०१ तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह ॥
५,०३७.०२ समिद्धाग्निर्वनवत्स्तीर्णबर्हिर्युक्तग्रावा सुतसोमो जराते ।
५,०३७.०२ ग्रावाणो यस्येषिरं वदन्त्ययदध्वर्युर्हविषाव सिन्धुम् ॥
५,०३७.०३ वधूरियं पतिमिच्छन्त्येति य ईं वहाते महिषीमिषिराम् ।
५,०३७.०३ आस्य श्रवस्याद्रथ आ च घोषात्पुरू सहस्रा परि वर्तयाते ॥
५,०३७.०४ न स राजा व्यथते यस्मिन्निन्द्रस्तीव्रं सोमं पिबति गोसखायम् ।
५,०३७.०४ आ सत्वनैरजति हन्ति वृत्रं क्षेति क्षितीः सुभगो नाम पुष्यन् ॥
५,०३७.०५ पुष्यात्क्षेमे अभि योगे भवात्युभे वृतौ संयती सं जयाति ।
५,०३७.०५ प्रियः सूर्ये प्रियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत् ॥
५,०३८.०१ उरोष्ट इन्द्र राधसो विभ्वी रातिः शतक्रतो ।
५,०३८.०१ अधा नो विश्वचर्षणे द्युम्ना सुक्षत्र मंहय ॥
५,०३८.०२ यदीमिन्द्र श्रवाय्यमिषं शविष्ठ दधिषे ।
५,०३८.०२ पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम् ॥
५,०३८.०३ शुष्मासो ये ते अद्रिवो मेहना केतसापः ।
५,०३८.०३ उभा देवावभिष्टये दिवश्च ग्मश्च राजथः ॥
५,०३८.०४ उतो नो अस्य कस्य चिद्दक्षस्य तव वृत्रहन् ।
५,०३८.०४ अस्मभ्यं नृम्णमा भरास्मभ्यं नृमणस्यसे ॥
५,०३८.०५ नू त आभिरभिष्टिभिस्तव शर्मञ्छतक्रतो ।
५,०३८.०५ इन्द्र स्याम सुगोपाः शूर स्याम सुगोपाः ॥
५,०३९.०१ यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः ।
५,०३९.०१ राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥
५,०३९.०२ यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।
५,०३९.०२ विद्याम तस्य ते वयमकूपारस्य दावने ॥
५,०३९.०३ यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।
५,०३९.०३ तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥
५,०३९.०४ मंहिष्ठं वो मघोनां राजानं चर्षणीनाम् ।
५,०३९.०४ इन्द्रमुप प्रशस्तये पूर्वीभिर्जुजुषे गिरः ॥
५,०३९.०५ अस्मा इत्काव्यं वच उक्थमिन्द्राय शंस्यम् ।
५,०३९.०५ तस्मा उ ब्रह्मवाहसे गिरो वर्धन्त्यत्रयो गिरः शुम्भन्त्यत्रयः ॥
५,०४०.०१ आ याह्यद्रिभिः सुतं सोमं सोमपते पिब ।
५,०४०.०१ वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥
५,०४०.०२ वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
५,०४०.०२ वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥
५,०४०.०३ वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
५,०४०.०३ वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥
५,०४०.०४ ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।
५,०४०.०४ युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यन्दिने सवने मत्सदिन्द्रः ॥
५,०४०.०५ यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः ।
५,०४०.०५ अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥
५,०४०.०६ स्वर्भानोरध यदिन्द्र माया अवो दिवो वर्तमाना अवाहन् ।
५,०४०.०६ गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण ब्रह्मणाविन्ददत्रिः ॥
५,०४०.०७ मा मामिमं तव सन्तमत्र इरस्या द्रुग्धो भियसा नि गारीत् ।
५,०४०.०७ त्वं मित्रो असि सत्यराधास्तौ मेहावतं वरुणश्च राजा ॥
५,०४०.०८ ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् ।
५,०४०.०८ अत्रिः सूर्यस्य दिवि चक्षुराधात्स्वर्भानोरप माया अघुक्षत् ॥
५,०४०.०९ यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः ।
५,०४०.०९ अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥
५,०४१.०१ को नु वां मित्रावरुणावृतायन्दिवो वा महः पार्थिवस्य वा दे ।
५,०४१.०१ ऋतस्य वा सदसि त्रासीथां नो यज्ञायते वा पशुषो न वाजान् ॥
५,०४१.०२ ते नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतो जुषन्त ।
५,०४१.०२ नमोभिर्वा ये दधते सुवृक्तिं स्तोमं रुद्राय मीळ्हुषे सजोषाः ॥
५,०४१.०३ आ वां येष्ठाश्विना हुवध्यै वातस्य पत्मन्रथ्यस्य पुष्टौ ।
५,०४१.०३ उत वा दिवो असुराय मन्म प्रान्धांसीव यज्यवे भरध्वम् ॥
५,०४१.०४ प्र सक्षणो दिव्यः कण्वहोता त्रितो दिवः सजोषा वातो अग्निः ।
५,०४१.०४ पूषा भगः प्रभृथे विश्वभोजा आजिं न जग्मुराश्वश्वतमाः ॥
५,०४१.०५ प्र वो रयिं युक्ताश्वं भरध्वं राय एषेऽवसे दधीत धीः ।
५,०४१.०५ सुशेव एवैरौशिजस्य होता ये व एवा मरुतस्तुराणाम् ॥
५,०४१.०६ प्र वो वायुं रथयुजं कृणुध्वं प्र देवं विप्रं पनितारमर्कैः ।
५,०४१.०६ इषुध्यव ऋतसापः पुरन्धीर्वस्वीर्नो अत्र पत्नीरा धिये धुः ॥
५,०४१.०७ उप व एषे वन्द्येभिः शूषैः प्र यह्वी दिवश्चितयद्भिरर्कैः ।
५,०४१.०७ उषासानक्ता विदुषीव विश्वमा हा वहतो मर्त्याय यज्ञम् ॥
५,०४१.०८ अभि वो अर्चे पोष्यावतो नॄन्वास्तोष्पतिं त्वष्टारं रराणः ।
५,०४१.०८ धन्या सजोषा धिषणा नमोभिर्वनस्पतींरोषधी राय एषे ॥
५,०४१.०९ तुजे नस्तने पर्वताः सन्तु स्वैतवो ये वसवो न वीराः ।
५,०४१.०९ पनित आप्त्यो यजतः सदा नो वर्धान्नः शंसं नर्यो अभिष्टौ ॥
५,०४१.१० वृष्णो अस्तोषि भूम्यस्य गर्भं त्रितो नपातमपां सुवृक्ति ।
५,०४१.१० गृणीते अग्निरेतरी न शूषैः शोचिष्केशो नि रिणाति वना ॥
५,०४१.११ कथा महे रुद्रियाय ब्रवाम कद्राये चिकितुषे भगाय ।
५,०४१.११ आप ओषधीरुत नोऽवन्तु द्यौर्वना गिरयो वृक्षकेशाः ॥
५,०४१.१२ शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयां इषिरः परिज्मा ।
५,०४१.१२ शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥
५,०४१.१३ विदा चिन्नु महान्तो ये व एवा ब्रवाम दस्मा वार्यं दधानाः ।
५,०४१.१३ वयश्चन सुभ्व आव यन्ति क्षुभा मर्तमनुयतं वधस्नैः ॥
५,०४१.१४ आ दैव्यानि पार्थिवानि जन्मापश्चाच्छा सुमखाय वोचम् ।
५,०४१.१४ वर्धन्तां द्यावो गिरश्चन्द्राग्रा उदा वर्धन्तामभिषाता अर्णाः ॥
५,०४१.१५ पदेपदे मे जरिमा नि धायि वरूत्री वा शक्रा या पायुभिश्च ।
५,०४१.१५ सिषक्तु माता मही रसा नः स्मत्सूरिभिरृजुहस्त ऋजुवनिः ॥
५,०४१.१६ कथा दाशेम नमसा सुदानूनेवया मरुतो अच्छोक्तौ प्रश्रवसो मरुतो अच्छोक्तौ ।
५,०४१.१६ मा नोऽहिर्बुध्न्यो रिषे धादस्माकं भूदुपमातिवनिः ॥
५,०४१.१७ इति चिन्नु प्रजायै पशुमत्यै देवासो वनते मर्त्यो व आ देवासो वनते मर्त्यो वः ।
५,०४१.१७ अत्रा शिवां तन्वो धासिमस्या जरां चिन्मे निरृतिर्जग्रसीत ॥
५,०४१.१८ तां वो देवाः सुमतिमूर्जयन्तीमिषमश्याम वसवः शसा गोः ।
५,०४१.१८ सा नः सुदानुर्मृळयन्ती देवी प्रति द्रवन्ती सुविताय गम्याः ॥
५,०४१.१९ अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु ।
५,०४१.१९ उर्वशी वा बृहद्दिवा गृणानाभ्यूर्ण्वाना प्रभृथस्यायोः ॥
५,०४१.२० सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥
५,०४२.०१ प्र शन्तमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः ।
५,०४२.०१ पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः ॥
५,०४२.०२ प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम् ।
५,०४२.०२ ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु ॥
५,०४२.०३ उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन ।
५,०४२.०३ स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥
५,०४२.०४ समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति ।
५,०४२.०४ सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥
५,०४२.०५ देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् ।
५,०४२.०५ ऋभुक्षा वाज उत वा पुरन्धिरवन्तु नो अमृतासस्तुरासः ॥
५,०४२.०६ मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि ।
५,०४२.०६ न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप ॥
५,०४२.०७ उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम् ।
५,०४२.०७ यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम् ॥
५,०४२.०८ तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः ।
५,०४२.०८ ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास्तेषु रायः ॥
५,०४२.०९ विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः ।
५,०४२.०९ अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व ॥
५,०४२.१० य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।
५,०४२.१० यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥
५,०४२.११ तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
५,०४२.११ यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥
५,०४२.१२ दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः ।
५,०४२.१२ सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः ॥
५,०४२.१३ प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम् ।
५,०४२.१३ य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः ॥
५,०४२.१४ प्र सुष्टुति स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः ।
५,०४२.१४ यो अब्दिमां उदनिमां इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥
५,०४२.१५ एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूंर्युवन्यूंरुदश्याः ।
५,०४२.१५ कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वां अयासः ॥
५,०४२.१६ प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतींरोषधी राये अश्याः ।
५,०४२.१६ देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥
५,०४२.१७ उरौ देवा अनिबाधे स्याम ॥
५,०४२.१८ समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
५,०४२.१८ आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥
५,०४३.०१ आ धेनवः पयसा तूर्ण्यर्था अमर्धन्तीरुप नो यन्तु मध्वा ।
५,०४३.०१ महो राये बृहतीः सप्त विप्रो मयोभुवो जरिता जोहवीति ॥
५,०४३.०२ आ सुष्टुती नमसा वर्तयध्यै द्यावा वाजाय पृथिवी अमृध्रे ।
५,०४३.०२ पिता माता मधुवचाः सुहस्ता भरेभरे नो यशसावविष्टाम् ॥
५,०४३.०३ अध्वर्यवश्चकृवांसो मधूनि प्र वायवे भरत चारु शुक्रम् ।
५,०४३.०३ होतेव नः प्रथमः पाह्यस्य देव मध्वो ररिमा ते मदाय ॥
५,०४३.०४ दश क्षिपो युञ्जते बाहू अद्रिं सोमस्य या शमितारा सुहस्ता ।
५,०४३.०४ मध्वो रसं सुगभस्तिर्गिरिष्ठां चनिश्चदद्दुदुहे शुक्रमंशुः ॥
५,०४३.०५ असावि ते जुजुषाणाय सोमः क्रत्वे दक्षाय बृहते मदाय ।
५,०४३.०५ हरी रथे सुधुरा योगे अर्वागिन्द्र प्रिया कृणुहि हूयमानः ॥
५,०४३.०६ आ नो महीमरमतिं सजोषा ग्नां देवीं नमसा रातहव्याम् ।
५,०४३.०६ मधोर्मदाय बृहतीमृतज्ञामाग्ने वह पथिभिर्देवयानैः ॥
५,०४३.०७ अञ्जन्ति यं प्रथयन्तो न विप्रा वपावन्तं नाग्निना तपन्तः ।
५,०४३.०७ पितुर्न पुत्र उपसि प्रेष्ठ आ घर्मो अग्निमृतयन्नसादि ॥
५,०४३.०८ अच्छा मही बृहती शन्तमा गीर्दूतो न गन्त्वश्विना हुवध्यै ।
५,०४३.०८ मयोभुवा सरथा यातमर्वाग्गन्तं निधिं धुरमाणिर्न नाभिम् ॥
५,०४३.०९ प्र तव्यसो नमौक्तिं तुरस्याहं पूष्ण उत वायोरदिक्षि ।
५,०४३.०९ या राधसा चोदितारा मतीनां या वाजस्य द्रविणोदा उत त्मन् ॥
५,०४३.१० आ नामभिर्मरुतो वक्षि विश्वाना रूपेभिर्जातवेदो हुवानः ।
५,०४३.१० यज्ञं गिरो जरितुः सुष्टुतिं च विश्वे गन्त मरुतो विश्व ऊती ॥
५,०४३.११ आ नो दिवो बृहतः पर्वतादा सरस्वती यजता गन्तु यज्ञम् ।
५,०४३.११ हवं देवी जुजुषाणा घृताची शग्मां नो वाचमुशती शृणोतु ॥
५,०४३.१२ आ वेधसं नीलपृष्ठं बृहन्तं बृहस्पतिं सदने सादयध्वम् ।
५,०४३.१२ सादद्योनिं दम आ दीदिवांसं हिरण्यवर्णमरुषं सपेम ॥
५,०४३.१३ आ धर्णसिर्बृहद्दिवो रराणो विश्वेभिर्गन्त्वोमभिर्हुवानः ।
५,०४३.१३ ग्ना वसान ओषधीरमृध्रस्त्रिधातुशृङ्गो वृषभो वयोधाः ॥
५,०४३.१४ मातुष्पदे परमे शुक्र आयोर्विपन्यवो रास्पिरासो अग्मन् ।
५,०४३.१४ सुशेव्यं नमसा रातहव्याः शिशुं मृजन्त्यायवो न वासे ॥
५,०४३.१५ बृहद्वयो बृहते तुभ्यमग्ने धियाजुरो मिथुनासः सचन्त ।
५,०४३.१५ देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥
५,०४३.१६ उरौ देवा अनिबाधे स्याम ॥
५,०४३.१७ समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
५,०४३.१७ आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥
५,०४४.०१ तं प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिं बर्हिषदं स्वर्विदम् ।
५,०४४.०१ प्रतीचीनं वृजनं दोहसे गिराशुं जयन्तमनु यासु वर्धसे ॥
५,०४४.०२ श्रिये सुदृशीरुपरस्य याः स्वर्विरोचमानः ककुभामचोदते ।
५,०४४.०२ सुगोपा असि न दभाय सुक्रतो परो मायाभिरृत आस नाम ते ॥
५,०४४.०३ अत्यं हविः सचते सच्च धातु चारिष्टगातुः स होता सहोभरिः ।
५,०४४.०३ प्रसर्स्राणो अनु बर्हिर्वृषा शिशुर्मध्ये युवाजरो विस्रुहा हितः ॥
५,०४४.०४ प्र व एते सुयुजो यामन्निष्टये नीचीरमुष्मै यम्य ऋतावृधः ।
५,०४४.०४ सुयन्तुभिः सर्वशासैरभीशुभिः क्रिविर्नामानि प्रवणे मुषायति ॥
५,०४४.०५ संजर्भुराणस्तरुभिः सुतेगृभं वयाकिनं चित्तगर्भासु सुस्वरुः ।
५,०४४.०५ धारवाकेष्वृजुगाथ शोभसे वर्धस्व पत्नीरभि जीवो अध्वरे ॥
५,०४४.०६ यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे सिध्रयाप्स्वा ।
५,०४४.०६ महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः ॥
५,०४४.०७ वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः ।
५,०४४.०७ घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥
५,०४४.०८ ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते ।
५,०४४.०८ यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥
५,०४४.०९ समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता ।
५,०४४.०९ अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥
५,०४४.१० स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः ।
५,०४४.१० अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् ॥
५,०४४.११ श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः ।
५,०४४.११ समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते ॥
५,०४४.१२ सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा ।
५,०४४.१२ उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥
५,०४४.१३ सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः ।
५,०४४.१३ भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् ॥
५,०४४.१४ यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।
५,०४४.१४ यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥
५,०४४.१५ अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति ।
५,०४४.१५ अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥
५,०४५.०१ विदा दिवो विष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः ।
५,०४५.०१ अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥
५,०४५.०२ वि सूर्यो अमतिं न श्रियं सादोर्वाद्गवां माता जानती गात् ।
५,०४५.०२ धन्वर्णसो नद्यः खादोअर्णा स्थूणेव सुमिता दृंहत द्यौः ॥
५,०४५.०३ अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।
५,०४५.०३ वि पर्वतो जिहीत साधत द्यौराविवासन्तो दसयन्त भूम ॥
५,०४५.०४ सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै ।
५,०४५.०४ उक्थेभिर्हि ष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥
५,०४५.०५ एतो न्वद्य सुध्यो भवाम प्र दुच्छुना मिनवामा वरीयः ।
५,०४५.०५ आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ ॥
५,०४५.०६ एता धियं कृणवामा सखायोऽप या मातां ऋणुत व्रजं गोः ।
५,०४५.०६ यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम् ॥
५,०४५.०७ अनूनोदत्र हस्तयतो अद्रिरार्चन्येन दश मासो नवग्वाः ।
५,०४५.०७ ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार ॥
५,०४५.०८ विश्वे अस्या व्युषि माहिनायाः सं यद्गोभिरङ्गिरसो नवन्त ।
५,०४५.०८ उत्स आसां परमे सधस्थ ऋतस्य पथा सरमा विदद्गाः ॥
५,०४५.०९ आ सूर्यो यातु सप्ताश्वः क्षेत्रं यदस्योर्विया दीर्घयाथे ।
५,०४५.०९ रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥
५,०४५.१० आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः ।
५,०४५.१० उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥
५,०४५.११ धियं वो अप्सु दधिषे स्वर्षां ययातरन्दश मासो नवग्वाः ।
५,०४५.११ अया धिया स्याम देवगोपा अया धिया तुतुर्यामात्यंहः ॥
५,०४६.०१ हयो न विद्वां अयुजि स्वयं धुरि तां वहामि प्रतरणीमवस्युवम् ।
५,०४६.०१ नास्या वश्मि विमुचं नावृतं पुनर्विद्वान्पथः पुरएत ऋजु नेषति ॥
५,०४६.०२ अग्न इन्द्र वरुण मित्र देवाः शर्धः प्र यन्त मारुतोत विष्णो ।
५,०४६.०२ उभा नासत्या रुद्रो अध ग्नाः पूषा भगः सरस्वती जुषन्त ॥
५,०४६.०३ इन्द्राग्नी मित्रावरुणादितिं स्वः पृथिवीं द्यां मरुतः पर्वतां अपः ।
५,०४६.०३ हुवे विष्णुं पूषणं ब्रह्मणस्पतिं भगं नु शंसं सवितारमूतये ॥
५,०४६.०४ उत नो विष्णुरुत वातो अस्रिधो द्रविणोदा उत सोमो मयस्करत् ।
५,०४६.०४ उत ऋभव उत राये नो अश्विनोत त्वष्टोत विभ्वानु मंसते ॥
५,०४६.०५ उत त्यन्नो मारुतं शर्ध आ गमद्दिविक्षयं यजतं बर्हिरासदे ।
५,०४६.०५ बृहस्पतिः शर्म पूषोत नो यमद्वरूथ्यं वरुणो मित्रो अर्यमा ॥
५,०४६.०६ उत त्ये नः पर्वतासः सुशस्तयः सुदीतयो नद्यस्त्रामणे भुवन् ।
५,०४६.०६ भगो विभक्ता शवसावसा गमदुरुव्यचा अदितिः श्रोतु मे हवम् ॥
५,०४६.०७ देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
५,०४६.०७ याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत ॥
५,०४६.०८ उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट् ।
५,०४६.०८ आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥
५,०४७.०१ प्रयुञ्जती दिव एति ब्रुवाणा मही माता दुहितुर्बोधयन्ती ।
५,०४७.०१ आविवासन्ती युवतिर्मनीषा पितृभ्य आ सदने जोहुवाना ॥
५,०४७.०२ अजिरासस्तदप ईयमाना आतस्थिवांसो अमृतस्य नाभिम् ।
५,०४७.०२ अनन्तास उरवो विश्वतः सीं परि द्यावापृथिवी यन्ति पन्थाः ॥
५,०४७.०३ उक्षा समुद्रो अरुषः सुपर्णः पूर्वस्य योनिं पितुरा विवेश ।
५,०४७.०३ मध्ये दिवो निहितः पृश्निरश्मा वि चक्रमे रजसस्पात्यन्तौ ॥
५,०४७.०४ चत्वार ईं बिभ्रति क्षेमयन्तो दश गर्भं चरसे धापयन्ते ।
५,०४७.०४ त्रिधातवः परमा अस्य गावो दिवश्चरन्ति परि सद्यो अन्तान् ॥
५,०४७.०५ इदं वपुर्निवचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः ।
५,०४७.०५ द्वे यदीं बिभृतो मातुरन्ये इहेह जाते यम्या सबन्धू ॥
५,०४७.०६ वि तन्वते धियो अस्मा अपांसि वस्त्रा पुत्राय मातरो वयन्ति ।
५,०४७.०६ उपप्रक्षे वृषणो मोदमाना दिवस्पथा वध्वो यन्त्यच्छ ॥
५,०४७.०७ तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।
५,०४७.०७ अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥
५,०४८.०१ कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् ।
५,०४८.०१ आमेन्यस्य रजसो यदभ्र आं अपो वृणाना वितनोति मायिनी ॥
५,०४८.०२ ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः ।
५,०४८.०२ अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः ॥
५,०४८.०३ आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि ।
५,०४८.०३ शतं वा यस्य प्रचरन्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा ॥
५,०४८.०४ तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः ।
५,०४८.०४ सचा यदि पितुमन्तमिव क्षयं रत्नं दधाति भरहूतये विशे ॥
५,०४८.०५ स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम् ।
५,०४८.०५ न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥
५,०४९.०१ देवं वो अद्य सवितारमेषे भगं च रत्नं विभजन्तमायोः ।
५,०४९.०१ आ वां नरा पुरुभुजा ववृत्यां दिवेदिवे चिदश्विना सखीयन् ॥
५,०४९.०२ प्रति प्रयाणमसुरस्य विद्वान्सूक्तैर्देवं सवितारं दुवस्य ।
५,०४९.०२ उप ब्रुवीत नमसा विजानञ्ज्येष्ठं च रत्नं विभजन्तमायोः ॥
५,०४९.०३ अदत्रया दयते वार्याणि पूषा भगो अदितिर्वस्त उस्रः ।
५,०४९.०३ इन्द्रो विष्णुर्वरुणो मित्रो अग्निरहानि भद्रा जनयन्त दस्माः ॥
५,०४९.०४ तन्नो अनर्वा सविता वरूथं तत्सिन्धव इषयन्तो अनु ग्मन् ।
५,०४९.०४ उप यद्वोचे अध्वरस्य होता रायः स्याम पतयो वाजरत्नाः ॥
५,०४९.०५ प्र ये वसुभ्य ईवदा नमो दुर्ये मित्रे वरुणे सूक्तवाचः ।
५,०४९.०५ अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम ॥
५,०५०.०१ विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् ।
५,०५०.०१ विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥
५,०५०.०२ ते ते देव नेतर्ये चेमां अनुशसे ।
५,०५०.०२ ते राया ते ह्यापृचे सचेमहि सचथ्यैः ॥
५,०५०.०३ अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत ।
५,०५०.०३ आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः ॥
५,०५०.०४ यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः ।
५,०५०.०४ नृमणा वीरपस्त्योऽर्णा धीरेव सनिता ॥
५,०५०.०५ एष ते देव नेता रथस्पतिः शं रयिः ।
५,०५०.०५ शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥
५,०५१.०१ अग्ने सुतस्य पीतये विश्वैरूमेभिरा गहि ।
५,०५१.०१ देवेभिर्हव्यदातये ॥
५,०५१.०२ ऋतधीतय आ गत सत्यधर्माणो अध्वरम् ।
५,०५१.०२ अग्नेः पिबत जिह्वया ॥
५,०५१.०३ विप्रेभिर्विप्र सन्त्य प्रातर्यावभिरा गहि ।
५,०५१.०३ देवेभिः सोमपीतये ॥
५,०५१.०४ अयं सोमश्चमू सुतोऽमत्रे परि षिच्यते ।
५,०५१.०४ प्रिय इन्द्राय वायवे ॥
५,०५१.०५ वायवा याहि वीतये जुषाणो हव्यदातये ।
५,०५१.०५ पिबा सुतस्यान्धसो अभि प्रयः ॥
५,०५१.०६ इन्द्रश्च वायवेषां सुतानां पीतिमर्हथः ।
५,०५१.०६ ताञ्जुषेथामरेपसावभि प्रयः ॥
५,०५१.०७ सुता इन्द्राय वायवे सोमासो दध्याशिरः ।
५,०५१.०७ निम्नं न यन्ति सिन्धवोऽभि प्रयः ॥
५,०५१.०८ सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः ।
५,०५१.०८ आ याह्यग्ने अत्रिवत्सुते रण ॥
५,०५१.०९ सजूर्मित्रावरुणाभ्यां सजूः सोमेन विष्णुना ।
५,०५१.०९ आ याह्यग्ने अत्रिवत्सुते रण ॥
५,०५१.१० सजूरादित्यैर्वसुभिः सजूरिन्द्रेण वायुना ।
५,०५१.१० आ याह्यग्ने अत्रिवत्सुते रण ॥
५,०५१.११ स्वस्ति नो मिमीतामश्विना भगः स्वस्ति देव्यदितिरनर्वणः ।
५,०५१.११ स्वस्ति पूषा असुरो दधातु नः स्वस्ति द्यावापृथिवी सुचेतुना ॥
५,०५१.१२ स्वस्तये वायुमुप ब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः ।
५,०५१.१२ बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥
५,०५१.१३ विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुरग्निः स्वस्तये ।
५,०५१.१३ देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥
५,०५१.१४ स्वस्ति मित्रावरुणा स्वस्ति पथ्ये रेवति ।
५,०५१.१४ स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि ॥
५,०५१.१५ स्वस्ति पन्थामनु चरेम सूर्याचन्द्रमसाविव ।
५,०५१.१५ पुनर्ददताघ्नता जानता सं गमेमहि ॥
५,०५२.०१ प्र श्यावाश्व धृष्णुयार्चा मरुद्भिरृक्वभिः ।
५,०५२.०१ ये अद्रोघमनुष्वधं श्रवो मदन्ति यज्ञियाः ॥
५,०५२.०२ ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया ।
५,०५२.०२ ते यामन्ना धृषद्विनस्त्मना पान्ति शश्वतः ॥
५,०५२.०३ ते स्यन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः ।
५,०५२.०३ मरुतामधा महो दिवि क्षमा च मन्महे ॥
५,०५२.०४ मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया ।
५,०५२.०४ विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥
५,०५२.०५ अर्हन्तो ये सुदानवो नरो असामिशवसः ।
५,०५२.०५ प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥
५,०५२.०६ आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत ।
५,०५२.०६ अन्वेनां अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः ॥
५,०५२.०७ ये वावृधन्त पार्थिवा य उरावन्तरिक्ष आ ।
५,०५२.०७ वृजने वा नदीनां सधस्थे वा महो दिवः ॥
५,०५२.०८ शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम् ।
५,०५२.०८ उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥
५,०५२.०९ उत स्म ते परुष्ण्यामूर्णा वसत शुन्ध्यवः ।
५,०५२.०९ उत पव्या रथानामद्रिं भिन्दन्त्योजसा ॥
५,०५२.१० आपथयो विपथयोऽन्तस्पथा अनुपथाः ।
५,०५२.१० एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते ॥
५,०५२.११ अधा नरो न्योहतेऽधा नियुत ओहते ।
५,०५२.११ अधा पारावता इति चित्रा रूपाणि दर्श्या ॥
५,०५२.१२ छन्दस्तुभः कुभन्यव उत्समा कीरिणो नृतुः ।
५,०५२.१२ ते मे के चिन्न तायव ऊमा आसन्दृशि त्विषे ॥
५,०५२.१३ य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः ।
५,०५२.१३ तमृषे मारुतं गणं नमस्या रमया गिरा ॥
५,०५२.१४ अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा ।
५,०५२.१४ दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥
५,०५२.१५ नू मन्वान एषां देवां अच्छा न वक्षणा ।
५,०५२.१५ दाना सचेत सूरिभिर्यामश्रुतेभिरञ्जिभिः ॥
५,०५२.१६ प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् ।
५,०५२.१६ अधा पितरमिष्मिणं रुद्रं वोचन्त शिक्वसः ॥
५,०५२.१७ सप्त मे सप्त शाकिन एकमेका शता ददुः ।
५,०५२.१७ यमुनायामधि श्रुतमुद्राधो गव्यं मृजे नि राधो अश्व्यं मृजे ॥
५,०५३.०१ को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम् ।
५,०५३.०१ यद्युयुज्रे किलास्यः ॥
५,०५३.०२ ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः ।
५,०५३.०२ कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥
५,०५३.०३ ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे ।
५,०५३.०३ नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि ॥
५,०५३.०४ ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु ।
५,०५३.०४ श्राया रथेषु धन्वसु ॥
५,०५३.०५ युष्माकं स्मा रथां अनु मुदे दधे मरुतो जीरदानवः ।
५,०५३.०५ वृष्टी द्यावो यतीरिव ॥
५,०५३.०६ आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः ।
५,०५३.०६ वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥
५,०५३.०७ ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा ।
५,०५३.०७ स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः ॥
५,०५३.०८ आ यात मरुतो दिव आन्तरिक्षादमादुत ।
५,०५३.०८ माव स्थात परावतः ॥
५,०५३.०९ मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् ।
५,०५३.०९ मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥
५,०५३.१० तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम् ।
५,०५३.१० अनु प्र यन्ति वृष्टयः ॥
५,०५३.११ शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः ।
५,०५३.११ अनु क्रामेम धीतिभिः ॥
५,०५३.१२ कस्मा अद्य सुजाताय रातहव्याय प्र ययुः ।
५,०५३.१२ एना यामेन मरुतः ॥
५,०५३.१३ येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् ।
५,०५३.१३ अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम् ॥
५,०५३.१४ अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः ।
५,०५३.१४ वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥
५,०५३.१५ सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः ।
५,०५३.१५ यं त्रायध्वे स्याम ते ॥
५,०५३.१६ स्तुहि भोजान्स्तुवतो अस्य यामनि रणन्गावो न यवसे ।
५,०५३.१६ यतः पूर्वां इव सखींरनु ह्वय गिरा गृणीहि कामिनः ॥
५,०५४.०१ प्र शर्धाय मारुताय स्वभानव इमां वाचमनजा पर्वतच्युते ।
५,०५४.०१ घर्मस्तुभे दिव आ पृष्ठयज्वने द्युम्नश्रवसे महि नृम्णमर्चत ॥
५,०५४.०२ प्र वो मरुतस्तविषा उदन्यवो वयोवृधो अश्वयुजः परिज्रयः ।
५,०५४.०२ सं विद्युता दधति वाशति त्रितः स्वरन्त्यापोऽवना परिज्रयः ॥
५,०५४.०३ विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः ।
५,०५४.०३ अब्दया चिन्मुहुरा ह्रादुनीवृत स्तनयदमा रभसा उदोजसः ॥
५,०५४.०४ व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यन्तरिक्षं वि रजांसि धूतयः ।
५,०५४.०४ वि यदज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥
५,०५४.०५ तद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम् ।
५,०५४.०५ एता न यामे अगृभीतशोचिषोऽनश्वदां यन्न्ययातना गिरिम् ॥
५,०५४.०६ अभ्राजि शर्धो मरुतो यदर्णसं मोषथा वृक्षं कपनेव वेधसः ।
५,०५४.०६ अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम् ॥
५,०५४.०७ न स जीयते मरुतो न हन्यते न स्रेधति न व्यथते न रिष्यति ।
५,०५४.०७ नास्य राय उप दस्यन्ति नोतय ऋषिं वा यं राजानं वा सुषूदथ ॥
५,०५४.०८ नियुत्वन्तो ग्रामजितो यथा नरोऽर्यमणो न मरुतः कबन्धिनः ।
५,०५४.०८ पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा ॥
५,०५४.०९ प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः ।
५,०५४.०९ प्रवत्वतीः पथ्या अन्तरिक्ष्याः प्रवत्वन्तः पर्वता जीरदानवः ॥
५,०५४.१० यन्मरुतः सभरसः स्वर्णरः सूर्य उदिते मदथा दिवो नरः ।
५,०५४.१० न वोऽश्वाः श्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारमश्नुथ ॥
५,०५४.११ अंसेषु व ऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः ।
५,०५४.११ अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥
५,०५४.१२ तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ ।
५,०५४.१२ समच्यन्त वृजनातित्विषन्त यत्स्वरन्ति घोषं विततमृतायवः ॥
५,०५४.१३ युष्मादत्तस्य मरुतो विचेतसो रायः स्याम रथ्यो वयस्वतः ।
५,०५४.१३ न यो युच्छति तिष्यो यथा दिवोऽस्मे रारन्त मरुतः सहस्रिणम् ॥
५,०५४.१४ यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम् ।
५,०५४.१४ यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥
५,०५४.१५ तद्वो यामि द्रविणं सद्यऊतयो येना स्वर्ण ततनाम नॄंरभि ।
५,०५४.१५ इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥
५,०५५.०१ प्रयज्यवो मरुतो भ्राजदृष्टयो बृहद्वयो दधिरे रुक्मवक्षसः ।
५,०५५.०१ ईयन्ते अश्वैः सुयमेभिराशुभिः शुभं यातामनु रथा अवृत्सत ॥
५,०५५.०२ स्वयं दधिध्वे तविषीं यथा विद बृहन्महान्त उर्विया वि राजथ ।
५,०५५.०२ उतान्तरिक्षं ममिरे व्योजसा शुभं यातामनु रथा अवृत्सत ॥
५,०५५.०३ साकं जाताः सुभ्वः साकमुक्षिताः श्रिये चिदा प्रतरं वावृधुर्नरः ।
५,०५५.०३ विरोकिणः सूर्यस्येव रश्मयः शुभं यातामनु रथा अवृत्सत ॥
५,०५५.०४ आभूषेण्यं वो मरुतो महित्वनं दिदृक्षेण्यं सूर्यस्येव चक्षणम् ।
५,०५५.०४ उतो अस्मां अमृतत्वे दधातन शुभं यातामनु रथा अवृत्सत ॥
५,०५५.०५ उदीरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः ।
५,०५५.०५ न वो दस्रा उप दस्यन्ति धेनवः शुभं यातामनु रथा अवृत्सत ॥
५,०५५.०६ यदश्वान्धूर्षु पृषतीरयुग्ध्वं हिरण्ययान्प्रत्यत्कां अमुग्ध्वम् ।
५,०५५.०६ विश्वा इत्स्पृधो मरुतो व्यस्यथ शुभं यातामनु रथा अवृत्सत ॥
५,०५५.०७ न पर्वता न नद्यो वरन्त वो यत्राचिध्वं मरुतो गच्छथेदु तत् ।
५,०५५.०७ उत द्यावापृथिवी याथना परि शुभं यातामनु रथा अवृत्सत ॥
५,०५५.०८ यत्पूर्व्यं मरुतो यच्च नूतनं यदुद्यते वसवो यच्च शस्यते ।
५,०५५.०८ विश्वस्य तस्य भवथा नवेदसः शुभं यातामनु रथा अवृत्सत ॥
५,०५५.०९ मृळत नो मरुतो मा वधिष्टनास्मभ्यं शर्म बहुलं वि यन्तन ।
५,०५५.०९ अधि स्तोत्रस्य सख्यस्य गातन शुभं यातामनु रथा अवृत्सत ॥
५,०५५.१० यूयमस्मान्नयत वस्यो अच्छा निरंहतिभ्यो मरुतो गृणानाः ।
५,०५५.१० जुषध्वं नो हव्यदातिं यजत्रा वयं स्याम पतयो रयीणाम् ॥
५,०५६.०१ अग्ने शर्धन्तमा गणं पिष्टं रुक्मेभिरञ्जिभिः ।
५,०५६.०१ विशो अद्य मरुतामव ह्वये दिवश्चिद्रोचनादधि ॥
५,०५६.०२ यथा चिन्मन्यसे हृदा तदिन्मे जग्मुराशसः ।
५,०५६.०२ ये ते नेदिष्ठं हवनान्यागमन्तान्वर्ध भीमसंदृशः ॥
५,०५६.०३ मीळ्हुष्मतीव पृथिवी पराहता मदन्त्येत्यस्मदा ।
५,०५६.०३ ऋक्षो न वो मरुतः शिमीवां अमो दुध्रो गौरिव भीमयुः ॥
५,०५६.०४ नि ये रिणन्त्योजसा वृथा गावो न दुर्धुरः ।
५,०५६.०४ अश्मानं चित्स्वर्यं पर्वतं गिरिं प्र च्यावयन्ति यामभिः ॥
५,०५६.०५ उत्तिष्ठ नूनमेषां स्तोमैः समुक्षितानाम् ।
५,०५६.०५ मरुतां पुरुतममपूर्व्यं गवां सर्गमिव ह्वये ॥
५,०५६.०६ युङ्ग्ध्वं ह्यरुषी रथे युङ्ग्ध्वं रथेषु रोहितः ।
५,०५६.०६ युङ्ग्ध्वं हरी अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ॥
५,०५६.०७ उत स्य वाज्यरुषस्तुविष्वणिरिह स्म धायि दर्शतः ।
५,०५६.०७ मा वो यामेषु मरुतश्चिरं करत्प्र तं रथेषु चोदत ॥
५,०५६.०८ रथं नु मारुतं वयं श्रवस्युमा हुवामहे ।
५,०५६.०८ आ यस्मिन्तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥
५,०५६.०९ तं वः शर्धं रथेशुभं त्वेषं पनस्युमा हुवे ।
५,०५६.०९ यस्मिन्सुजाता सुभगा महीयते सचा मरुत्सु मीळ्हुषी ॥
५,०५७.०१ आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन ।
५,०५७.०१ इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥
५,०५७.०२ वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः ।
५,०५७.०२ स्वश्वा स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥
५,०५७.०३ धूनुथ द्यां पर्वतान्दाशुषे वसु नि वो वना जिहते यामनो भिया ।
५,०५७.०३ कोपयथ पृथिवीं पृश्निमातरः शुभे यदुग्राः पृषतीरयुग्ध्वम् ॥
५,०५७.०४ वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः ।
५,०५७.०४ पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवोरवः ॥
५,०५७.०५ पुरुद्रप्सा अञ्जिमन्तः सुदानवस्त्वेषसंदृशो अनवभ्रराधसः ।
५,०५७.०५ सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥
५,०५७.०६ ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम् ।
५,०५७.०६ नृम्णा शीर्षस्वायुधा रथेषु वो विश्वा वः श्रीरधि तनूषु पिपिशे ॥
५,०५७.०७ गोमदश्वावद्रथवत्सुवीरं चन्द्रवद्राधो मरुतो ददा नः ।
५,०५७.०७ प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वोऽवसो दैव्यस्य ॥
५,०५७.०८ हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः ।
५,०५७.०८ सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥
५,०५८.०१ तमु नूनं तविषीमन्तमेषां स्तुषे गणं मारुतं नव्यसीनाम् ।
५,०५८.०१ य आश्वश्वा अमवद्वहन्त उतेशिरे अमृतस्य स्वराजः ॥
५,०५८.०२ त्वेषं गणं तवसं खादिहस्तं धुनिव्रतं मायिनं दातिवारम् ।
५,०५८.०२ मयोभुवो ये अमिता महित्वा वन्दस्व विप्र तुविराधसो नॄन् ॥
५,०५८.०३ आ वो यन्तूदवाहासो अद्य वृष्टिं ये विश्वे मरुतो जुनन्ति ।
५,०५८.०३ अयं यो अग्निर्मरुतः समिद्ध एतं जुषध्वं कवयो युवानः ॥
५,०५८.०४ यूयं राजानमिर्यं जनाय विभ्वतष्टं जनयथा यजत्राः ।
५,०५८.०४ युष्मदेति मुष्टिहा बाहुजूतो युष्मत्सदश्वो मरुतः सुवीरः ॥
५,०५८.०५ अरा इवेदचरमा अहेव प्रप्र जायन्ते अकवा महोभिः ।
५,०५८.०५ पृश्नेः पुत्रा उपमासो रभिष्ठाः स्वया मत्या मरुतः सं मिमिक्षुः ॥
५,०५८.०६ यत्प्रायासिष्ट पृषतीभिरश्वैर्वीळुपविभिर्मरुतो रथेभिः ।
५,०५८.०६ क्षोदन्त आपो रिणते वनान्यवोस्रियो वृषभः क्रन्दतु द्यौः ॥
५,०५८.०७ प्रथिष्ट यामन्पृथिवी चिदेषां भर्तेव गर्भं स्वमिच्छवो धुः ।
५,०५८.०७ वातान्ह्यश्वान्धुर्यायुयुज्रे वर्षं स्वेदं चक्रिरे रुद्रियासः ॥
५,०५८.०८ हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः ।
५,०५८.०८ सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥
५,०५९.०१ प्र व स्पळ् अक्रन्सुविताय दावनेऽर्चा दिवे प्र पृथिव्या ऋतं भरे ।
५,०५९.०१ उक्षन्ते अश्वान्तरुषन्त आ रजोऽनु स्वं भानुं श्रथयन्ते अर्णवैः ॥
५,०५९.०२ अमादेषां भियसा भूमिरेजति नौर्न पूर्णा क्षरति व्यथिर्यती ।
५,०५९.०२ दूरेदृशो ये चितयन्त एमभिरन्तर्महे विदथे येतिरे नरः ॥
५,०५९.०३ गवामिव श्रियसे शृङ्गमुत्तमं सूर्यो न चक्षू रजसो विसर्जने ।
५,०५९.०३ अत्या इव सुभ्वश्चारव स्थन मर्या इव श्रियसे चेतथा नरः ॥
५,०५९.०४ को वो महान्ति महतामुदश्नवत्कस्काव्या मरुतः को ह पौंस्या ।
५,०५९.०४ यूयं ह भूमिं किरणं न रेजथ प्र यद्भरध्वे सुविताय दावने ॥
५,०५९.०५ अश्वा इवेदरुषासः सबन्धवः शूरा इव प्रयुधः प्रोत युयुधुः ।
५,०५९.०५ मर्या इव सुवृधो वावृधुर्नरः सूर्यस्य चक्षुः प्र मिनन्ति वृष्टिभिः ॥
५,०५९.०६ ते अज्येष्ठा अकनिष्ठास उद्भिदोऽमध्यमासो महसा वि वावृधुः ।
५,०५९.०६ सुजातासो जनुषा पृश्निमातरो दिवो मर्या आ नो अ
च्छा जिगातन ॥
५,०५९.०७ वयो न ये श्रेणीः पप्तुरोजसान्तान्दिवो बृहतः सानुनस्परि ।
५,०५९.०७ अश्वास एषामुभये यथा विदुः प्र पर्वतस्य नभनूंरचुच्यवुः ॥
५,०५९.०८ मिमातु द्यौरदितिर्वीतये नः सं दानुचित्रा उषसो यतन्ताम् ।
५,०५९.०८ आचुच्यवुर्दिव्यं कोशमेत ऋषे रुद्रस्य मरुतो गृणानाः ॥
५,०६०.०१ ईळे अग्निं स्ववसं नमोभिरिह प्रसत्तो वि चयत्कृतं नः ।
५,०६०.०१ रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणिन्मरुतां स्तोममृध्याम् ॥
५,०६०.०२ आ ये तस्थुः पृषतीषु श्रुतासु सुखेषु रुद्रा मरुतो रथेषु ।
५,०६०.०२ वना चिदुग्रा जिहते नि वो भिया पृथिवी चिद्रेजते पर्वतश्चित् ॥
५,०६०.०३ पर्वतश्चिन्महि वृद्धो बिभाय दिवश्चित्सानु रेजत स्वने वः ।
५,०६०.०३ यत्क्रीळथ मरुत ऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥
५,०६०.०४ वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे ।
५,०६०.०४ श्रिये श्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥
५,०६०.०५ अज्येष्ठासो अकनिष्ठास एते सं भ्रातरो वावृधुः सौभगाय ।
५,०६०.०५ युवा पिता स्वपा रुद्र एषां सुदुघा पृश्निः सुदिना मरुद्भ्यः ॥
५,०६०.०६ यदुत्तमे मरुतो मध्यमे वा यद्वावमे सुभगासो दिवि ष्ठ ।
५,०६०.०६ अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम ॥
५,०६०.०७ अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः ।
५,०६०.०७ ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥
५,०६०.०८ अग्ने मरुद्भिः शुभयद्भिरृक्वभिः सोमं पिब मन्दसानो गणश्रिभिः ।
५,०६०.०८ पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥
५,०६१.०१ के ष्ठा नरः श्रेष्ठतमा य एकएक आयय ।
५,०६१.०१ परमस्याः परावतः ॥
५,०६१.०२ क्व वोऽश्वाः क्वाभीशवः कथं शेक कथा यय ।
५,०६१.०२ पृष्ठे सदो नसोर्यमः ॥
५,०६१.०३ जघने चोद एषां वि सक्थानि नरो यमुः ।
५,०६१.०३ पुत्रकृथे न जनयः ॥
५,०६१.०४ परा वीरास एतन मर्यासो भद्रजानयः ।
५,०६१.०४ अग्नितपो यथासथ ॥
५,०६१.०५ सनत्साश्व्यं पशुमुत गव्यं शतावयम् ।
५,०६१.०५ श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत् ॥
५,०६१.०६ उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी ।
५,०६१.०६ अदेवत्रादराधसः ॥
५,०६१.०७ वि या जानाति जसुरिं वि तृष्यन्तं वि कामिनम् ।
५,०६१.०७ देवत्रा कृणुते मनः ॥
५,०६१.०८ उत घा नेमो अस्तुतः पुमां इति ब्रुवे पणिः ।
५,०६१.०८ स वैरदेय इत्समः ॥
५,०६१.०९ उत मेऽरपद्युवतिर्ममन्दुषी प्रति श्यावाय वर्तनिम् ।
५,०६१.०९ वि रोहिता पुरुमीळ्हाय येमतुर्विप्राय दीर्घयशसे ॥
५,०६१.१० यो मे धेनूनां शतं वैददश्विर्यथा ददत् ।
५,०६१.१० तरन्त इव मंहना ॥
५,०६१.११ य ईं वहन्त आशुभिः पिबन्तो मदिरं मधु ।
५,०६१.११ अत्र श्रवांसि दधिरे ॥
५,०६१.१२ येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्वा ।
५,०६१.१२ दिवि रुक्म इवोपरि ॥
५,०६१.१३ युवा स मारुतो गणस्त्वेषरथो अनेद्यः ।
५,०६१.१३ शुभंयावाप्रतिष्कुतः ॥
५,०६१.१४ को वेद नूनमेषां यत्रा मदन्ति धूतयः ।
५,०६१.१४ ऋतजाता अरेपसः ॥
५,०६१.१५ यूयं मर्तं विपन्यवः प्रणेतार इत्था धिया ।
५,०६१.१५ श्रोतारो यामहूतिषु ॥
५,०६१.१६ ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः ।
५,०६१.१६ आ यज्ञियासो ववृत्तन ॥
५,०६१.१७ एतं मे स्तोममूर्म्ये दार्भ्याय परा वह ।
५,०६१.१७ गिरो देवि रथीरिव ॥
५,०६१.१८ उत मे वोचतादिति सुतसोमे रथवीतौ ।
५,०६१.१८ न कामो अप वेति मे ॥
५,०६१.१९ एष क्षेति रथवीतिर्मघवा गोमतीरनु ।
५,०६१.१९ पर्वतेष्वपश्रितः ॥
५,०६२.०१ ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान् ।
५,०६२.०१ दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम् ॥
५,०६२.०२ तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे ।
५,०६२.०२ विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त ॥
५,०६२.०३ अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः ।
५,०६२.०३ वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥
५,०६२.०४ आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक् ।
५,०६२.०४ घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति ॥
५,०६२.०५ अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा ।
५,०६२.०५ नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः ॥
५,०६२.०६ अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः ।
५,०६२.०६ राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ ॥
५,०६२.०७ हिरण्यनिर्णिगयो अस्य स्थूणा वि भ्राजते दिव्यश्वाजनीव ।
५,०६२.०७ भद्रे क्षेत्रे निमिता तिल्विले वा सनेम मध्वो अधिगर्त्यस्य ॥
५,०६२.०८ हिरण्यरूपमुषसो व्युष्टावयस्थूणमुदिता सूर्यस्य ।
५,०६२.०८ आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च ॥
५,०६२.०९ यद्बंहिष्ठं नातिविधे सुदानू अच्छिद्रं शर्म भुवनस्य गोपा ।
५,०६२.०९ तेन नो मित्रावरुणावविष्टं सिषासन्तो जिगीवांसः स्याम ॥
५,०६३.०१ ऋतस्य गोपावधि तिष्ठथो रथं सत्यधर्माणा परमे व्योमनि ।
५,०६३.०१ यमत्र मित्रावरुणावथो युवं तस्मै वृष्टिर्मधुमत्पिन्वते दिवः ॥
५,०६३.०२ सम्राजावस्य भुवनस्य राजथो मित्रावरुणा विदथे स्वर्दृशा ।
५,०६३.०२ वृष्टिं वां राधो अमृतत्वमीमहे द्यावापृथिवी वि चरन्ति तन्यवः ॥
५,०६३.०३ सम्राजा उग्रा वृषभा दिवस्पती पृथिव्या मित्रावरुणा विचर्षणी ।
५,०६३.०३ चित्रेभिरभ्रैरुप तिष्ठथो रवं द्यां वर्षयथो असुरस्य मायया ॥
५,०६३.०४ माया वां मित्रावरुणा दिवि श्रिता सूर्यो ज्योतिश्चरति चित्रमायुधम् ।
५,०६३.०४ तमभ्रेण वृष्ट्या गूहथो दिवि पर्जन्य द्रप्सा मधुमन्त ईरते ॥
५,०६३.०५ रथं युञ्जते मरुतः शुभे सुखं शूरो न मित्रावरुणा गविष्टिषु ।
५,०६३.०५ रजांसि चित्रा वि चरन्ति तन्यवो दिवः सम्राजा पयसा न उक्षतम् ॥
५,०६३.०६ वाचं सु मित्रावरुणाविरावतीं पर्जन्यश्चित्रां वदति त्विषीमतीम् ।
५,०६३.०६ अभ्रा वसत मरुतः सु मायया द्यां वर्षयतमरुणामरेपसम् ॥
५,०६३.०७ धर्मणा मित्रावरुणा विपश्चिता व्रता रक्षेथे असुरस्य मायया ।
५,०६३.०७ ऋतेन विश्वं भुवनं वि राजथः सूर्यमा धत्थो दिवि चित्र्यं रथम् ॥
५,०६४.०१ वरुणं वो रिशादसमृचा मित्रं हवामहे ।
५,०६४.०१ परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरम् ॥
५,०६४.०२ ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते ।
५,०६४.०२ शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥
५,०६४.०३ यन्नूनमश्यां गतिं मित्रस्य यायां पथा ।
५,०६४.०३ अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥
५,०६४.०४ युवाभ्यां मित्रावरुणोपमं धेयामृचा ।
५,०६४.०४ यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥
५,०६४.०५ आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ ।
५,०६४.०५ स्वे क्षये मघोनां सखीनां च वृधसे ॥
५,०६४.०६ युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः ।
५,०६४.०६ उरु णो वाजसातये कृतं राये स्वस्तये ॥
५,०६४.०७ उच्छन्त्यां मे यजता देवक्षत्रे रुशद्गवि ।
५,०६४.०७ सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसम् ॥
५,०६५.०१ यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः ।
५,०६५.०१ वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥
५,०६५.०२ ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा ।
५,०६५.०२ ता सत्पती ऋतावृध ऋतावाना जनेजने ॥
५,०६५.०३ ता वामियानोऽवसे पूर्वा उप ब्रुवे सचा ।
५,०६५.०३ स्वश्वासः सु चेतुना वाजां अभि प्र दावने ॥
५,०६५.०४ मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते ।
५,०६५.०४ मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः ॥
५,०६५.०५ वयं मित्रस्यावसि स्याम सप्रथस्तमे ।
५,०६५.०५ अनेहसस्त्वोतयः सत्रा वरुणशेषसः ॥
५,०६५.०६ युवं मित्रेमं जनं यतथः सं च नयथः ।
५,०६५.०६ मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम् ॥
५,०६६.०१ आ चिकितान सुक्रतू देवौ मर्त रिशादसा ।
५,०६६.०१ वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥
५,०६६.०२ ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते ।
५,०६६.०२ अध व्रतेव मानुषं स्वर्ण धायि दर्शतम् ॥
५,०६६.०३ ता वामेषे रथानामुर्वीं गव्यूतिमेषाम् ।
५,०६६.०३ रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे ॥
५,०६६.०४ अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता ।
५,०६६.०४ नि केतुना जनानां चिकेथे पूतदक्षसा ॥
५,०६६.०५ तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम् ।
५,०६६.०५ ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥
५,०६६.०६ आ यद्वामीयचक्षसा मित्र वयं च सूरयः ।
५,०६६.०६ व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥
५,०६७.०१ बळ् इत्था देव निष्कृतमादित्या यजतं बृहत् ।
५,०६७.०१ वरुण मित्रार्यमन्वर्षिष्ठं क्षत्रमाशाथे ॥
५,०६७.०२ आ यद्योनिं हिरण्ययं वरुण मित्र सदथः ।
५,०६७.०२ धर्तारा चर्षणीनां यन्तं सुम्नं रिशादसा ॥
५,०६७.०३ विश्वे हि विश्ववेदसो वरुणो मित्रो अर्यमा ।
५,०६७.०३ व्रता पदेव सश्चिरे पान्ति मर्त्यं रिषः ॥
५,०६७.०४ ते हि सत्या ऋतस्पृश ऋतावानो जनेजने ।
५,०६७.०४ सुनीथासः सुदानवोऽंहोश्चिदुरुचक्रयः ॥
५,०६७.०५ को नु वां मित्रास्तुतो वरुणो वा तनूनाम् ।
५,०६७.०५ तत्सु वामेषते मतिरत्रिभ्य एषते मतिः ॥
५,०६८.०१ प्र वो मित्राय गायत वरुणाय विपा गिरा ।
५,०६८.०१ महिक्षत्रावृतं बृहत् ॥
५,०६८.०२ सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च ।
५,०६८.०२ देवा देवेषु प्रशस्ता ॥
५,०६८.०३ ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।
५,०६८.०३ महि वां क्षत्रं देवेषु ॥
५,०६८.०४ ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।
५,०६८.०४ अद्रुहा देवौ वर्धेते ॥
५,०६८.०५ वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।
५,०६८.०५ बृहन्तं गर्तमाशाते ॥
५,०६९.०१ त्री रोचना वरुण त्रींरुत द्यून्त्रीणि मित्र धारयथो रजांसि ।
५,०६९.०१ वावृधानावमतिं क्षत्रियस्यानु व्रतं रक्षमाणावजुर्यम् ॥
५,०६९.०२ इरावतीर्वरुण धेनवो वां मधुमद्वां सिन्धवो मित्र दुह्रे ।
५,०६९.०२ त्रयस्तस्थुर्वृषभासस्तिसृणां धिषणानां रेतोधा वि द्युमन्तः ॥
५,०६९.०३ प्रातर्देवीमदितिं जोहवीमि मध्यन्दिन उदिता सूर्यस्य ।
५,०६९.०३ राये मित्रावरुणा सर्वतातेळे तोकाय तनयाय शं योः ॥
५,०६९.०४ या धर्तारा रजसो रोचनस्योतादित्या दिव्या पार्थिवस्य ।
५,०६९.०४ न वां देवा अमृता आ मिनन्ति व्रतानि मित्रावरुणा ध्रुवाणि ॥
५,०७०.०१ पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।
५,०७०.०१ मित्र वंसि वां सुमतिम् ॥
५,०७०.०२ ता वां सम्यगद्रुह्वाणेषमश्याम धायसे ।
५,०७०.०२ वयं ते रुद्रा स्याम ॥
५,०७०.०३ पातं नो रुद्रा पायुभिरुत त्रायेथां सुत्रात्रा ।
५,०७०.०३ तुर्याम दस्यून्तनूभिः ॥
५,०७०.०४ मा कस्याद्भुतक्रतू यक्षं भुजेमा तनूभिः ।
५,०७०.०४ मा शेषसा मा तनसा ॥
५,०७१.०१ आ नो गन्तं रिशादसा वरुण मित्र बर्हणा ।
५,०७१.०१ उपेमं चारुमध्वरम् ॥
५,०७१.०२ विश्वस्य हि प्रचेतसा वरुण मित्र राजथः ।
५,०७१.०२ ईशाना पिप्यतं धियः ॥
५,०७१.०३ उप नः सुतमा गतं वरुण मित्र दाशुषः ।
५,०७१.०३ अस्य सोमस्य पीतये ॥
५,०७२.०१ आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत् ।
५,०७२.०१ नि बर्हिषि सदतं सोमपीतये ॥
५,०७२.०२ व्रतेन स्थो ध्रुवक्षेमा धर्मणा यातयज्जना ।
५,०७२.०२ नि बर्हिषि सदतं सोमपीतये ॥
५,०७२.०३ मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये ।
५,०७२.०३ नि बर्हिषि सदतां सोमपीतये ॥
५,०७३.०१ यदद्य स्थः परावति यदर्वावत्यश्विना ।
५,०७३.०१ यद्वा पुरू पुरुभुजा यदन्तरिक्ष आ गतम् ॥
५,०७३.०२ इह त्या पुरुभूतमा पुरू दंसांसि बिभ्रता ।
५,०७३.०२ वरस्या याम्यध्रिगू हुवे तुविष्टमा भुजे ॥
५,०७३.०३ ईर्मान्यद्वपुषे वपुश्चक्रं रथस्य येमथुः ।
५,०७३.०३ पर्यन्या नाहुषा युगा मह्ना रजांसि दीयथः ॥
५,०७३.०४ तदू षु वामेना कृतं विश्वा यद्वामनु ष्टवे ।
५,०७३.०४ नाना जातावरेपसा समस्मे बन्धुमेयथुः ॥
५,०७३.०५ आ यद्वां सूर्या रथं तिष्ठद्रघुष्यदं सदा ।
५,०७३.०५ परि वामरुषा वयो घृणा वरन्त आतपः ॥
५,०७३.०६ युवोरत्रिश्चिकेतति नरा सुम्नेन चेतसा ।
५,०७३.०६ घर्मं यद्वामरेपसं नासत्यास्ना भुरण्यति ॥
५,०७३.०७ उग्रो वां ककुहो ययिः शृण्वे यामेषु संतनिः ।
५,०७३.०७ यद्वां दंसोभिरश्विनात्रिर्नराववर्तति ॥
५,०७३.०८ मध्व ऊ षु मधूयुवा रुद्रा सिषक्ति पिप्युषी ।
५,०७३.०८ यत्समुद्राति पर्षथः पक्वाः पृक्षो भरन्त वाम् ॥
५,०७३.०९ सत्यमिद्वा उ अश्विना युवामाहुर्मयोभुवा ।
५,०७३.०९ ता यामन्यामहूतमा यामन्ना मृळयत्तमा ॥
५,०७३.१० इमा ब्रह्माणि वर्धनाश्विभ्यां सन्तु शन्तमा ।
५,०७३.१० या तक्षाम रथां इवावोचाम बृहन्नमः ॥
५,०७४.०१ कूष्ठो देवावश्विनाद्या दिवो मनावसू ।
५,०७४.०१ तच्छ्रवथो वृषण्वसू अत्रिर्वामा विवासति ॥
५,०७४.०२ कुह त्या कुह नु श्रुता दिवि देवा नासत्या ।
५,०७४.०२ कस्मिन्ना यतथो जने को वां नदीनां सचा ॥
५,०७४.०३ कं याथः कं ह गच्छथः कमच्छा युञ्जाथे रथम् ।
५,०७४.०३ कस्य ब्रह्माणि रण्यथो वयं वामुश्मसीष्टये ॥
५,०७४.०४ पौरं चिद्ध्युदप्रुतं पौर पौराय जिन्वथः ।
५,०७४.०४ यदीं गृभीततातये सिंहमिव द्रुहस्पदे ॥
५,०७४.०५ प्र च्यवानाज्जुजुरुषो वव्रिमत्कं न मुञ्चथः ।
५,०७४.०५ युवा यदी कृथः पुनरा काममृण्वे वध्वः ॥
५,०७४.०६ अस्ति हि वामिह स्तोता स्मसि वां संदृशि श्रिये ।
५,०७४.०६ नू श्रुतं म आ गतमवोभिर्वाजिनीवसू ॥
५,०७४.०७ को वामद्य पुरूणामा वव्ने मर्त्यानाम् ।
५,०७४.०७ को विप्रो विप्रवाहसा को यज्ञैर्वाजिनीवसू ॥
५,०७४.०८ आ वां रथो रथानां येष्ठो यात्वश्विना ।
५,०७४.०८ पुरू चिदस्मयुस्तिर आङ्गूषो मर्त्येष्वा ॥
५,०७४.०९ शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः ।
५,०७४.०९ अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥
५,०७४.१० अश्विना यद्ध कर्हि चिच्छुश्रूयातमिमं हवम् ।
५,०७४.१० वस्वीरू षु वां भुजः पृञ्चन्ति सु वां पृचः ॥
५,०७५.०१ प्रति प्रियतमं रथं वृषणं वसुवाहनम् ।
५,०७५.०१ स्तोता वामश्विनावृषि स्तोमेन प्रति भूषति माध्वी मम श्रुतं हवम् ॥
५,०७५.०२ अत्यायातमश्विना तिरो विश्वा अहं सना ।
५,०७५.०२ दस्रा हिरण्यवर्तनी सुषुम्ना सिन्धुवाहसा माध्वी मम श्रुतं हवम् ॥
५,०७५.०३ आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवम् ।
५,०७५.०३ रुद्रा हिरण्यवर्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवम् ॥
५,०७५.०४ सुष्टुभो वां वृषण्वसू रथे वाणीच्याहिता ।
५,०७५.०४ उत वां ककुहो मृगः पृक्षः कृणोति वापुषो माध्वी मम श्रुतं हवम् ॥
५,०७५.०५ बोधिन्मनसा रथ्येषिरा हवनश्रुता ।
५,०७५.०५ विभिश्च्यवानमश्विना नि याथो अद्वयाविनं माध्वी मम श्रुतं हवम् ॥
५,०७५.०६ आ वां नरा मनोयुजोऽश्वासः प्रुषितप्सवः ।
५,०७५.०६ वयो वहन्तु पीतये सह सुम्नेभिरश्विना माध्वी मम श्रुतं हवम् ॥
५,०७५.०७ अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
५,०७५.०७ तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या माध्वी मम श्रुतं हवम् ॥
५,०७५.०८ अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती ।
५,०७५.०८ अवस्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥
५,०७५.०९ अभूदुषा रुशत्पशुराग्निरधाय्यृत्वियः ।
५,०७५.०९ अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् ॥
५,०७६.०१ आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।
५,०७६.०१ अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥
५,०७६.०२ न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।
५,०७६.०२ दिवाभिपित्वेऽवसागमिष्ठा प्रत्यवर्तिं दाशुषे शम्भविष्ठा ॥
५,०७६.०३ उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।
५,०७६.०३ दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥
५,०७६.०४ इदं हि वां प्रदिवि स्थानमोक इमे गृहा अश्विनेदं दुरोणम् ।
५,०७६.०४ आ नो दिवो बृहतः पर्वतादाद्भ्यो यातमिषमूर्जं वहन्ता ॥
५,०७६.०५ समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
५,०७६.०५ आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥
५,०७७.०१ प्रातर्यावाणा प्रथमा यजध्वं पुरा गृध्रादररुषः पिबातः ।
५,०७७.०१ प्रातर्हि यज्ञमश्विना दधाते प्र शंसन्ति कवयः पूर्वभाजः ॥
५,०७७.०२ प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् ।
५,०७७.०२ उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यजमानो वनीयान् ॥
५,०७७.०३ हिरण्यत्वङ्मधुवर्णो घृतस्नुः पृक्षो वहन्ना रथो वर्तते वाम् ।
५,०७७.०३ मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा ॥
५,०७७.०४ यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठं पित्वो ररते विभागे ।
५,०७७.०४ स तोकमस्य पीपरच्छमीभिरनूर्ध्वभासः सदमित्तुतुर्यात् ॥
५,०७७.०५ समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
५,०७७.०५ आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥
५,०७८.०१ अश्विनावेह गच्छतं नासत्या मा वि वेनतम् ।
५,०७८.०१ हंसाविव पततमा सुतां उप ॥
५,०७८.०२ अश्विना हरिणाविव गौराविवानु यवसम् ।
५,०७८.०२ हंसाविव पततमा सुतां उप ॥
५,०७८.०३ अश्विना वाजिनीवसू जुषेथां यज्ञमिष्टये ।
५,०७८.०३ हंसाविव पततमा सुतां उप ॥
५,०७८.०४ अत्रिर्यद्वामवरोहन्नृबीसमजोहवीन्नाधमानेव योषा ।
५,०७८.०४ श्येनस्य चिज्जवसा नूतनेनागच्छतमश्विना शन्तमेन ॥
५,०७८.०५ वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव ।
५,०७८.०५ श्रुतं मे अश्विना हवं सप्तवध्रिं च मुञ्चतम् ॥
५,०७८.०६ भीताय नाधमानाय ऋषये सप्तवध्रये ।
५,०७८.०६ मायाभिरश्विना युवं वृक्षं सं च वि चाचथः ॥
५,०७८.०७ यथा वातः पुष्करिणीं समिङ्गयति सर्वतः ।
५,०७८.०७ एवा ते गर्भ एजतु निरैतु दशमास्यः ॥
५,०७८.०८ यथा वातो यथा वनं यथा समुद्र एजति ।
५,०७८.०८ एवा त्वं दशमास्य सहावेहि जरायुणा ॥
५,०७८.०९ दश मासाञ्छशयानः कुमारो अधि मातरि ।
५,०७८.०९ निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥
५,०७९.०१ महे नो अद्य बोधयोषो राये दिवित्मती ।
५,०७९.०१ यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥
५,०७९.०२ या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।
५,०७९.०२ सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥
५,०७९.०३ सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।
५,०७९.०३ यो व्यौच्छः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥
५,०७९.०४ अभि ये त्वा विभावरि स्तोमैर्गृणन्ति वह्नयः ।
५,०७९.०४ मघैर्मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसूनृते ॥
५,०७९.०५ यच्चिद्धि ते गणा इमे छदयन्ति मघत्तये ।
५,०७९.०५ परि चिद्वष्टयो दधुर्ददतो राधो अह्रयं सुजाते अश्वसूनृते ॥
५,०७९.०६ ऐषु धा वीरवद्यश उषो मघोनि सूरिषु ।
५,०७९.०६ ये नो राधांस्यह्रया मघवानो अरासत सुजाते अश्वसूनृते ॥
५,०७९.०७ तेभ्यो द्युम्नं बृहद्यश उषो मघोन्या वह ।
५,०७९.०७ ये नो राधांस्यश्व्या गव्या भजन्त सूरयः सुजाते अश्वसूनृते ॥
५,०७९.०८ उत नो गोमतीरिष आ वहा दुहितर्दिवः ।
५,०७९.०८ साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिरर्चिभिः सुजाते अश्वसूनृते ॥
५,०७९.०९ व्युच्छा दुहितर्दिवो मा चिरं तनुथा अपः ।
५,०७९.०९ नेत्त्वा स्तेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसूनृते ॥
५,०७९.१० एतावद्वेदुषस्त्वं भूयो वा दातुमर्हसि ।
५,०७९.१० या स्तोतृभ्यो विभावर्युच्छन्ती न प्रमीयसे सुजाते अश्वसूनृते ॥
५,०८०.०१ द्युतद्यामानं बृहतीमृतेन ऋतावरीमरुणप्सुं विभातीम् ।
५,०८०.०१ देवीमुषसं स्वरावहन्तीं प्रति विप्रासो मतिभिर्जरन्ते ॥
५,०८०.०२ एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे ।
५,०८०.०२ बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम् ॥
५,०८०.०३ एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे ।
५,०८०.०३ पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥
५,०८०.०४ एषा व्येनी भवति द्विबर्हा आविष्कृण्वाना तन्वं पुरस्तात् ।
५,०८०.०४ ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥
५,०८०.०५ एषा शुभ्रा न तन्वो विदानोर्ध्वेव स्नाती दृशये नो अस्थात् ।
५,०८०.०५ अप द्वेषो बाधमाना तमांस्युषा दिवो दुहिता ज्योतिषागात् ॥
५,०८०.०६ एषा प्रतीची दुहिता दिवो नॄन्योषेव भद्रा नि रिणीते अप्सः ।
५,०८०.०६ व्यूर्ण्वती दाशुषे वार्याणि पुनर्ज्योतिर्युवतिः पूर्वथाकः ॥
५,०८१.०१ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः ।
५,०८१.०१ वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥
५,०८१.०२ विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे ।
५,०८१.०२ वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥
५,०८१.०३ यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा ।
५,०८१.०३ यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥
५,०८१.०४ उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि ।
५,०८१.०४ उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥
५,०८१.०५ उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः ।
५,०८१.०५ उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवित स्तोममानशे ॥
५,०८२.०१ तत्सवितुर्वृणीमहे वयं देवस्य भोजनम् ।
५,०८२.०१ श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि ॥
५,०८२.०२ अस्य हि स्वयशस्तरं सवितुः कच्चन प्रियम् ।
५,०८२.०२ न मिनन्ति स्वराज्यम् ॥
५,०८२.०३ स हि रत्नानि दाशुषे सुवाति सविता भगः ।
५,०८२.०३ तं भागं चित्रमीमहे ॥
५,०८२.०४ अद्या नो देव सवितः प्रजावत्सावीः सौभगम् ।
५,०८२.०४ परा दुष्ष्वप्न्यं सुव ॥
५,०८२.०५ विश्वानि देव सवितर्दुरितानि परा सुव ।
५,०८२.०५ यद्भद्रं तन्न आ सुव ॥
५,०८२.०६ अनागसो अदितये देवस्य सवितुः सवे ।
५,०८२.०६ विश्वा वामानि धीमहि ॥
५,०८२.०७ आ विश्वदेवं सत्पतिं सूक्तैरद्या वृणीमहे ।
५,०८२.०७ सत्यसवं सवितारम् ॥
५,०८२.०८ य इमे उभे अहनी पुर एत्यप्रयुच्छन् ।
५,०८२.०८ स्वाधीर्देवः सविता ॥
५,०८२.०९ य इमा विश्वा जातान्याश्रावयति श्लोकेन ।
५,०८२.०९ प्र च सुवाति सविता ॥
५,०८३.०१ अच्छा वद तवसं गीर्भिराभि स्तुहि पर्जन्यं नमसा विवास ।
५,०८३.०१ कनिक्रदद्वृषभो जीरदानू रेतो दधात्योषधीषु गर्भम् ॥
५,०८३.०२ वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् ।
५,०८३.०२ उतानागा ईषते वृष्ण्यावतो यत्पर्जन्य स्तनयन्हन्ति दुष्कृतः ॥
५,०८३.०३ रथीव कशयाश्वां अभिक्षिपन्नाविर्दूतान्कृणुते वर्ष्यां अह ।
५,०८३.०३ दूरात्सिंहस्य स्तनथा उदीरते यत्पर्जन्यः कृणुते वर्ष्यं नभः ॥
५,०८३.०४ प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिहते पिन्वते स्वः ।
५,०८३.०४ इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीं रेतसावति ॥
५,०८३.०५ यस्य व्रते पृथिवी नन्नमीति यस्य व्रते शफवज्जर्भुरीति ।
५,०८३.०५ यस्य व्रत ओषधीर्विश्वरूपाः स नः पर्जन्य महि शर्म यच्छ ॥
५,०८३.०६ दिवो नो वृष्टिं मरुतो ररीध्वं प्र पिन्वत वृष्णो अश्वस्य धाराः ।
५,०८३.०६ अर्वाङेतेन स्तनयित्नुनेह्यपो निषिञ्चन्नसुरः पिता नः ॥
५,०८३.०७ अभि क्रन्द स्तनय गर्भमा धा उदन्वता परि दीया रथेन ।
५,०८३.०७ दृतिं सु कर्ष विषितं न्यञ्चं समा भवन्तूद्वतो निपादाः ॥
५,०८३.०८ महान्तं कोशमुदचा नि षिञ्च स्यन्दन्तां कुल्या विषिताः पुरस्तात् ।
५,०८३.०८ घृतेन द्यावापृथिवी व्युन्धि सुप्रपाणं भवत्वघ्न्याभ्यः ॥
५,०८३.०९ यत्पर्जन्य कनिक्रदत्स्तनयन्हंसि दुष्कृतः ।
५,०८३.०९ प्रतीदं विश्वं मोदते यत्किं च पृथिव्यामधि ॥
५,०८३.१० अवर्षीर्वर्षमुदु षू गृभायाकर्धन्वान्यत्येतवा उ ।
५,०८३.१० अजीजन ओषधीर्भोजनाय कमुत प्रजाभ्योऽविदो मनीषाम् ॥
५,०८४.०१ बळ् इत्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
५,०८४.०१ प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥
५,०८४.०२ स्तोमासस्त्वा विचारिणि प्रति ष्टोभन्त्यक्तुभिः ।
५,०८४.०२ प्र या वाजं न हेषन्तं पेरुमस्यस्यर्जुनि ॥
५,०८४.०३ दृळ्हा चिद्या वनस्पतीन्क्ष्मया दर्धर्ष्योजसा ।
५,०८४.०३ यत्ते अभ्रस्य विद्युतो दिवो वर्षन्ति वृष्टयः ॥
५,०८५.०१ प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय ।
५,०८५.०१ वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥
५,०८५.०२ वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु ।
५,०८५.०२ हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ ॥
५,०८५.०३ नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम् ।
५,०८५.०३ तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥
५,०८५.०४ उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित् ।
५,०८५.०४ समभ्रेण वसत पर्वतासस्तविषीयन्तः श्रथयन्त वीराः ॥
५,०८५.०५ इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचम् ।
५,०८५.०५ मानेनेव तस्थिवां अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥
५,०८५.०६ इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष ।
५,०८५.०६ एकं यदुद्ना न पृणन्त्येनीरासिञ्चन्तीरवनयः समुद्रम् ॥
५,०८५.०७ अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा ।
५,०८५.०७ वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् ॥
५,०८५.०८ कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म ।
५,०८५.०८ सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥
५,०८६.०१ इन्द्राग्नी यमवथ उभा वाजेषु मर्त्यम् ।
५,०८६.०१ दृळ्हा चित्स प्र भेदति द्युम्ना वाणीरिव त्रितः ॥
५,०८६.०२ या पृतनासु दुष्टरा या वाजेषु श्रवाय्या ।
५,०८६.०२ या पञ्च चर्षणीरभीन्द्राग्नी ता हवामहे ॥
५,०८६.०३ तयोरिदमवच्छवस्तिग्मा दिद्युन्मघोनोः ।
५,०८६.०३ प्रति द्रुणा गभस्त्योर्गवां वृत्रघ्न एषते ॥
५,०८६.०४ ता वामेषे रथानामिन्द्राग्नी हवामहे ।
५,०८६.०४ पती तुरस्य राधसो विद्वांसा गिर्वणस्तमा ॥
५,०८६.०५ ता वृधन्तावनु द्यून्मर्ताय देवावदभा ।
५,०८६.०५ अर्हन्ता चित्पुरो दधेऽंशेव देवावर्वते ॥
५,०८६.०६ एवेन्द्राग्निभ्यामहावि हव्यं शूष्यं घृतं न पूतमद्रिभिः ।
५,०८६.०६ ता सूरिषु श्रवो बृहद्रयिं गृणत्सु दिधृतमिषं गृणत्सु दिधृतम् ॥
५,०८७.०१ प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् ।
५,०८७.०१ प्र शर्धाय प्रयज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ॥
५,०८७.०२ प्र ये जाता महिना ये च नु स्वयं प्र विद्मना ब्रुवत एवयामरुत् ।
५,०८७.०२ क्रत्वा तद्वो मरुतो नाधृषे शवो दाना मह्ना तदेषामधृष्टासो नाद्रयः ॥
५,०८७.०३ प्र ये दिवो बृहतः शृण्विरे गिरा सुशुक्वानः सुभ्व एवयामरुत् ।
५,०८७.०३ न येषामिरी सधस्थ ईष्ट आं अग्नयो न स्वविद्युतः प्र स्यन्द्रासो धुनीनाम् ॥
५,०८७.०४ स चक्रमे महतो निरुरुक्रमः समानस्मात्सदस एवयामरुत् ।
५,०८७.०४ यदायुक्त त्मना स्वादधि ष्णुभिर्विष्पर्धसो विमहसो जिगाति शेवृधो नृभिः ॥
५,०८७.०५ स्वनो न वोऽमवान्रेजयद्वृषा त्वेषो ययिस्तविष एवयामरुत् ।
५,०८७.०५ येना सहन्त ऋञ्जत स्वरोचिष स्थारश्मानो हिरण्ययाः स्वायुधास इष्मिणः ॥
५,०८७.०६ अपारो वो महिमा वृद्धशवसस्त्वेषं शवोऽवत्वेवयामरुत् ।
५,०८७.०६ स्थातारो हि प्रसितौ संदृशि स्थन ते न उरुष्यता निदः शुशुक्वांसो नाग्नयः ॥
५,०८७.०७ ते रुद्रासः सुमखा अग्नयो यथा तुविद्युम्ना अवन्त्वेवयामरुत् ।
५,०८७.०७ दीर्घं पृथु पप्रथे सद्म पार्थिवं येषामज्मेष्वा महः शर्धांस्यद्भुतैनसाम् ॥
५,०८७.०८ अद्वेषो नो मरुतो गातुमेतन श्रोता हवं जरितुरेवयामरुत् ।
५,०८७.०८ विष्णोर्महः समन्यवो युयोतन स्मद्रथ्यो न दंसनाप द्वेषांसि सनुतः ॥
५,०८७.०९ गन्ता नो यज्ञं यज्ञियाः सुशमि श्रोता हवमरक्ष एवयामरुत् ।
५,०८७.०९ ज्येष्ठासो न पर्वतासो व्योमनि यूयं तस्य प्रचेतसः स्यात दुर्धर्तवो निदः ॥
ऋग्वेद ६
६,००१.०१ त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
६,००१.०१ त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥
६,००१.०२ अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन् ।
६,००१.०२ तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥
६,००१.०३ वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् ।
६,००१.०३ रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥
६,००१.०४ पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् ।
६,००१.०४ नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥
६,००१.०५ त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
६,००१.०५ त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणाम् ॥
६,००१.०६ सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान् ।
६,००१.०६ तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम ॥
६,००१.०७ तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः ।
६,००१.०७ त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
६,००१.०८ विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
६,००१.०८ प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् ॥
६,००१.०९ सो अग्न ईजे शशमे च मर्तो यस्त आनट्समिधा हव्यदातिम् ।
६,००१.०९ य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥
६,००१.१० अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।
६,००१.१० वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥
६,००१.११ आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।
६,००१.११ बृहद्भिर्वाजै स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥
६,००१.१२ नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।
६,००१.१२ पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥
६,००१.१३ पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम् ।
६,००१.१३ पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे ॥
६,००२.०१ त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे ।
६,००२.०१ त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥
६,००२.०२ त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते ।
६,००२.०२ त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः ॥
६,००२.०३ सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते ।
६,००२.०३ यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ॥
६,००२.०४ ऋधद्यस्ते सुदानवे धिया मर्तः शशमते ।
६,००२.०४ ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥
६,००२.०५ समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् ।
६,००२.०५ वयावन्तं स पुष्यति क्षयमग्ने शतायुषम् ॥
६,००२.०६ त्वेषस्ते धूम ऋण्वति दिवि षञ्छुक्र आततः ।
६,००२.०६ सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥
६,००२.०७ अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः ।
६,००२.०७ रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः ॥
६,००२.०८ क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः ।
६,००२.०८ परिज्मेव स्वधा गयोऽत्यो न ह्वार्यः शिशुः ॥
६,००२.०९ त्वं त्या चिदच्युताग्ने पशुर्न यवसे ।
६,००२.०९ धामा ह यत्ते अजर वना वृश्चन्ति शिक्वसः ॥
६,००२.१० वेषि ह्यध्वरीयतामग्ने होता दमे विशाम् ।
६,००२.१० समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः ॥
६,००२.११ अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।
६,००२.११ वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥
६,००३.०१ अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे ।
६,००३.०१ यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥
६,००३.०२ ईजे यज्ञेभिः शशमे शमीभिरृधद्वारायाग्नये ददाश ।
६,००३.०२ एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥
६,००३.०३ सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः ।
६,००३.०३ हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः ॥
६,००३.०४ तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा ।
६,००३.०४ विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत् ॥
६,००३.०५ स इदस्तेव प्रति धादसिष्यञ्छिशीत तेजोऽयसो न धाराम् ।
६,००३.०५ चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः ॥
६,००३.०६ स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः ।
६,००३.०६ नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् ॥
६,००३.०७ दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत् ।
६,००३.०७ घृणा न यो ध्रजसा पत्मना यन्ना रोदसी वसुना दं सुपत्नी ॥
६,००३.०८ धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः ।
६,००३.०८ शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥
६,००४.०१ यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि ।
६,००४.०१ एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान् ॥
६,००४.०२ स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात् ।
६,००४.०२ विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः ॥
६,००४.०३ द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः ।
६,००४.०३ वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥
६,००४.०४ वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम् ।
६,००४.०४ स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः ॥
६,००४.०५ नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून् ।
६,००४.०५ तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत् ॥
६,००४.०६ आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा ।
६,००४.०६ चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् ॥
६,००४.०७ त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने ।
६,००४.०७ इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥
६,००४.०८ नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः ।
६,००४.०८ ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः ॥
६,००५.०१ हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम् ।
६,००५.०१ य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥
६,००५.०२ त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः ।
६,००५.०२ क्षामेव विश्वा भुवनानि यस्मिन्सं सौभगानि दधिरे पावके ॥
६,००५.०३ त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम् ।
६,००५.०३ अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि ॥
६,००५.०४ यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् ।
६,००५.०४ तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान् ॥
६,००५.०५ यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत् ।
६,००५.०५ स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥
६,००५.०६ स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् ।
६,००५.०६ यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म ॥
६,००५.०७ अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम् ।
६,००५.०७ अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते ॥
६,००६.०१ प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः ।
६,००६.०१ वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥
६,००६.०२ स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः ।
६,००६.०२ यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥
६,००६.०३ वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति ।
६,००६.०३ तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥
६,००६.०४ ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः ।
६,००६.०४ अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥
६,००६.०५ अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना ।
६,००६.०५ शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥
६,००६.०६ आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ ।
६,००६.०६ स बाधस्वाप भया सहोभि स्पृधो वनुष्यन्वनुषो नि जूर्व ॥
६,००६.०७ स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् ।
६,००६.०७ चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व ॥
६,००७.०१ मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् ।
६,००७.०१ कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥
६,००७.०२ नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त ।
६,००७.०२ वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥
६,००७.०३ त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः ।
६,००७.०३ वैश्वानर त्वमस्मासु धेहि वसूनि राजन्स्पृहयाय्याणि ॥
६,००७.०४ त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते ।
६,००७.०४ तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥
६,००७.०५ वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष ।
६,००७.०५ यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम् ॥
६,००७.०६ वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना ।
६,००७.०६ तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥
६,००७.०७ वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः ।
६,००७.०७ परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता ॥
६,००८.०१ पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः ।
६,००८.०१ वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये ॥
६,००८.०२ स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत ।
६,००८.०२ व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥
६,००८.०३ व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः ।
६,००८.०३ वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम् ॥
६,००८.०४ अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम् ।
६,००८.०४ आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥
६,००८.०५ युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम् ।
६,००८.०५ पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा ॥
६,००८.०६ अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीर्यम् ।
६,००८.०६ वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ॥
६,००८.०७ अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन् ।
६,००८.०७ रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः ॥
६,००९.०१ अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः ।
६,००९.०१ वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥
६,००९.०२ नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः ।
६,००९.०२ कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥
६,००९.०३ स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति ।
६,००९.०३ य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥
६,००९.०४ अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु ।
६,००९.०४ अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥
६,००९.०५ ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः ।
६,००९.०५ विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥
६,००९.०६ वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् ।
६,००९.०६ वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥
६,००९.०७ विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् ।
६,००९.०७ वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥
६,०१०.०१ पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम् ।
६,०१०.०१ पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥
६,०१०.०२ तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः ।
६,०१०.०२ स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥
६,०१०.०३ पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः ।
६,०१०.०३ चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ॥
६,०१०.०४ आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा ।
६,०१०.०४ अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥
६,०१०.०५ नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि ।
६,०१०.०५ ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान् ॥
६,०१०.०६ इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान् ।
६,०१०.०६ भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ ॥
६,०१०.०७ वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ॥
६,०११.०१ यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति ।
६,०११.०१ आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥
६,०११.०२ त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु ।
६,०११.०२ पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम् ॥
६,०११.०३ धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै ।
६,०११.०३ वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥
६,०११.०४ अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची ।
६,०११.०४ आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥
६,०११.०५ वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः ।
६,०११.०५ अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥
६,०११.०६ दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः ।
६,०११.०६ रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥
६,०१२.०१ मध्ये होता दुरोणे बर्हिषो राळ् अग्निस्तोदस्य रोदसी यजध्यै ।
६,०१२.०१ अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान ॥
६,०१२.०२ आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्सर्वतातेव नु द्यौः ।
६,०१२.०२ त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥
६,०१२.०३ तेजिष्ठा यस्यारतिर्वनेराट्तोदो अध्वन्न वृधसानो अद्यौत् ।
६,०१२.०३ अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु ॥
६,०१२.०४ सास्माकेभिरेतरी न शूषैरग्नि ष्टवे दम आ जातवेदाः ।
६,०१२.०४ द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥
६,०१२.०५ अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम् ।
६,०१२.०५ सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥
६,०१२.०६ स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः ।
६,०१२.०६ वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥
६,०१३.०१ त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः ।
६,०१३.०१ श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥
६,०१३.०२ त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः ।
६,०१३.०२ अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥
६,०१३.०३ स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम् ।
६,०१३.०३ यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥
६,०१३.०४ यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् ।
६,०१३.०४ विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ॥
६,०१३.०५ ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः ।
६,०१३.०५ कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥
६,०१३.०६ वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः ।
६,०१३.०६ विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ॥
६,०१४.०१ अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।
६,०१४.०१ भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥
६,०१४.०२ अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः ।
६,०१४.०२ अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥
६,०१४.०३ नाना ह्यग्नेऽवसे स्पर्धन्ते रायो अर्यः ।
६,०१४.०३ तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् ॥
६,०१४.०४ अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम् ।
६,०१४.०४ यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥
६,०१४.०५ अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति ।
६,०१४.०५ सहावा यस्यावृतो रयिर्वाजेष्ववृतः ॥
६,०१४.०६ अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।
६,०१४.०६ वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥
६,०१५.०१ इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा ।
६,०१५.०१ वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतम् ॥
६,०१५.०२ मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम् ।
६,०१५.०२ स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे ॥
६,०१५.०३ स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः ।
६,०१५.०३ रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥
६,०१५.०४ द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम् ।
६,०१५.०४ विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे ॥
६,०१५.०५ पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना ।
६,०१५.०५ तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥
६,०१५.०६ अग्निमग्निं वः समिधा दुवस्यत प्रियम्प्रियं वो अतिथिं गृणीषणि ।
६,०१५.०६ उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥
६,०१५.०७ समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् ।
६,०१५.०७ विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ॥
६,०१५.०८ त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् ।
६,०१५.०८ देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥
६,०१५.०९ विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे ।
६,०१५.०९ यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥
६,०१५.१० तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम ।
६,०१५.१० स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत् ॥
६,०१५.११ तमग्ने पास्युत तं पिपर्षि यस्त आनट्कवये शूर धीतिम् ।
६,०१५.११ यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया ॥
६,०१५.१२ त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।
६,०१५.१२ सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥
६,०१५.१३ अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।
६,०१५.१३ देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॥
६,०१५.१४ अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।
६,०१५.१४ ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य ॥
६,०१५.१५ अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै ।
६,०१५.१५ अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥
६,०१५.१६ अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् ।
६,०१५.१६ कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥
६,०१५.१७ इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः ।
६,०१५.१७ यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः ॥
६,०१५.१८ जनिष्वा देववीतये सर्वताता स्वस्तये ।
६,०१५.१८ आ देवान्वक्ष्यमृतां ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥
६,०१५.१९ वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् ।
६,०१५.१९ अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि ॥
६,०१६.०१ त्वमग्ने यज्ञानां होता विश्वेषां हितः ।
६,०१६.०१ देवेभिर्मानुषे जने ॥
६,०१६.०२ स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।
६,०१६.०२ आ देवान्वक्षि यक्षि च ॥
६,०१६.०३ वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।
६,०१६.०३ अग्ने यज्ञेषु सुक्रतो ॥
६,०१६.०४ त्वामीळे अध द्विता भरतो वाजिभिः शुनम् ।
६,०१६.०४ ईजे यज्ञेषु यज्ञियम् ॥
६,०१६.०५ त्वमिमा वार्या पुरु दिवोदासाय सुन्वते ।
६,०१६.०५ भरद्वाजाय दाशुषे ॥
६,०१६.०६ त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् ।
६,०१६.०६ शृण्वन्विप्रस्य सुष्टुतिम् ॥
६,०१६.०७ त्वामग्ने स्वाध्यो मर्तासो देववीतये ।
६,०१६.०७ यज्ञेषु देवमीळते ॥
६,०१६.०८ तव प्र यक्षि संदृशमुत क्रतुं सुदानवः ।
६,०१६.०८ विश्वे जुषन्त कामिनः ॥
६,०१६.०९ त्वं होता मनुर्हितो वह्निरासा विदुष्टरः ।
६,०१६.०९ अग्ने यक्षि दिवो विशः ॥
६,०१६.१० अग्न आ याहि वीतये गृणानो हव्यदातये ।
६,०१६.१० नि होता सत्सि बर्हिषि ॥
६,०१६.११ तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि ।
६,०१६.११ बृहच्छोचा यविष्ठ्य ॥
६,०१६.१२ स नः पृथु श्रवाय्यमच्छा देव विवाससि ।
६,०१६.१२ बृहदग्ने सुवीर्यम् ॥
६,०१६.१३ त्वामग्ने पुष्करादध्यथर्वा निरमन्थत ।
६,०१६.१३ मूर्ध्नो विश्वस्य वाघतः ॥
६,०१६.१४ तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः ।
६,०१६.१४ वृत्रहणं पुरन्दरम् ॥
६,०१६.१५ तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
६,०१६.१५ धनञ्जयं रणेरणे ॥
६,०१६.१६ एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।
६,०१६.१६ एभिर्वर्धास इन्दुभिः ॥
६,०१६.१७ यत्र क्व च ते मनो दक्षं दधस उत्तरम् ।
६,०१६.१७ तत्रा सदः कृणवसे ॥
६,०१६.१८ नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो ।
६,०१६.१८ अथा दुवो वनवसे ॥
६,०१६.१९ आग्निरगामि भारतो वृत्रहा पुरुचेतनः ।
६,०१६.१९ दिवोदासस्य सत्पतिः ॥
६,०१६.२० स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना ।
६,०१६.२० वन्वन्नवातो अस्तृतः ॥
६,०१६.२१ स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता ।
६,०१६.२१ बृहत्ततन्थ भानुना ॥
६,०१६.२२ प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया ।
६,०१६.२२ अर्च गाय च वेधसे ॥
६,०१६.२३ स हि यो मानुषा युगा सीदद्धोता कविक्रतुः ।
६,०१६.२३ दूतश्च हव्यवाहनः ॥
६,०१६.२४ ता राजाना शुचिव्रतादित्यान्मारुतं गणम् ।
६,०१६.२४ वसो यक्षीह रोदसी ॥
६,०१६.२५ वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय ।
६,०१६.२५ ऊर्जो नपादमृतस्य ॥
६,०१६.२६ क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्सुरेक्णाः ।
६,०१६.२६ मर्त आनाश सुवृक्तिम् ॥
६,०१६.२७ ते ते अग्ने त्वोता इषयन्तो विश्वमायुः ।
६,०१६.२७ तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः ॥
६,०१६.२८ अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम् ।
६,०१६.२८ अग्निर्नो वनते रयिम् ॥
६,०१६.२९ सुवीरं रयिमा भर जातवेदो विचर्षणे ।
६,०१६.२९ जहि रक्षांसि सुक्रतो ॥
६,०१६.३० त्वं नः पाह्यंहसो जातवेदो अघायतः ।
६,०१६.३० रक्षा णो ब्रह्मणस्कवे ॥
६,०१६.३१ यो नो अग्ने दुरेव आ मर्तो वधाय दाशति ।
६,०१६.३१ तस्मान्नः पाह्यंहसः ॥
६,०१६.३२ त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् ।
६,०१६.३२ मर्तो यो नो जिघांसति ॥
६,०१६.३३ भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य ।
६,०१६.३३ अग्ने वरेण्यं वसु ॥
६,०१६.३४ अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।
६,०१६.३४ समिद्धः शुक्र आहुतः ॥
६,०१६.३५ गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।
६,०१६.३५ सीदन्नृतस्य योनिमा ॥
६,०१६.३६ ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।
६,०१६.३६ अग्ने यद्दीदयद्दिवि ॥
६,०१६.३७ उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत ।
६,०१६.३७ अग्ने ससृज्महे गिरः ॥
६,०१६.३८ उप च्छायामिव घृणेरगन्म शर्म ते वयम् ।
६,०१६.३८ अग्ने हिरण्यसंदृशः ॥
६,०१६.३९ य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः ।
६,०१६.३९ अग्ने पुरो रुरोजिथ ॥
६,०१६.४० आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।
६,०१६.४० विशामग्निं स्वध्वरम् ॥
६,०१६.४१ प्र देवं देववीतये भरता वसुवित्तमम् ।
६,०१६.४१ आ स्वे योनौ नि षीदतु ॥
६,०१६.४२ आ जातं जातवेदसि प्रियं शिशीतातिथिम् ।
६,०१६.४२ स्योन आ गृहपतिम् ॥
६,०१६.४३ अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
६,०१६.४३ अरं वहन्ति मन्यवे ॥
६,०१६.४४ अच्छा नो याह्या वहाभि प्रयांसि वीतये ।
६,०१६.४४ आ देवान्सोमपीतये ॥
६,०१६.४५ उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।
६,०१६.४५ शोचा वि भाह्यजर ॥
६,०१६.४६ वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान् ।
६,०१६.४६ होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत् ॥
६,०१६.४७ आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि ।
६,०१६.४७ ते ते भवन्तूक्षण ऋषभासो वशा उत ॥
६,०१६.४८ अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम् ।
६,०१६.४८ येना वसून्याभृता तृळ्हा रक्षांसि वाजिना ॥
६,०१७.०१ पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र ।
६,०१७.०१ वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः ॥
६,०१७.०२ स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम् ।
६,०१७.०२ यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्रां अभि तृन्धि वाजान् ॥
६,०१७.०३ एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।
६,०१७.०३ आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥
६,०१७.०४ ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् ।
६,०१७.०४ महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम् ॥
६,०१७.०५ येभिः सूर्यमुषसं मन्दसानोऽवासयोऽप दृळ्हानि दर्द्रत् ।
६,०१७.०५ महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात् ॥
६,०१७.०६ तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः ।
६,०१७.०६ और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान् ॥
६,०१७.०७ पप्राथ क्षां महि दंसो व्युर्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः ।
६,०१७.०७ अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥
६,०१७.०८ अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय ।
६,०१७.०८ अदेवो यदभ्यौहिष्ट देवान्स्वर्षाता वृणत इन्द्रमत्र ॥
६,०१७.०९ अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः ।
६,०१७.०९ अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान ॥
६,०१७.१० अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् ।
६,०१७.१० निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥
६,०१७.११ वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषां इन्द्र तुभ्यम् ।
६,०१७.११ पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै ॥
६,०१७.१२ आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् ।
६,०१७.१२ तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् ॥
६,०१७.१३ एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् ।
६,०१७.१३ सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात् ॥
६,०१७.१४ स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् ।
६,०१७.१४ भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥
६,०१७.१५ अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥
६,०१८.०१ तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः ।
६,०१८.०१ अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम् ॥
६,०१८.०२ स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमां ऋजीषी ।
६,०१८.०२ बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा ॥
६,०१८.०३ त्वं ह नु त्यददमायो दस्यूंरेकः कृष्टीरवनोरार्याय ।
६,०१८.०३ अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः ॥
६,०१८.०४ सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य ।
६,०१८.०४ उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव ॥
६,०१८.०५ तन्नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङ्गिरोभिः ।
६,०१८.०५ हन्नच्युतच्युद्दस्मेषयन्तमृणोः पुरो वि दुरो अस्य विश्वाः ॥
६,०१८.०६ स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये ।
६,०१८.०६ स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत्समत्सु ॥
६,०१८.०७ स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे ।
६,०१८.०७ स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥
६,०१८.०८ स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च ।
६,०१८.०८ वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥
६,०१८.०९ उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथमिन्द्र तिष्ठ ।
६,०१८.०९ धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥
६,०१८.१० अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा ।
६,०१८.१० गम्भीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च ॥
६,०१८.११ आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक् ।
६,०१८.११ याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः ॥
६,०१८.१२ प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः ।
६,०१८.१२ नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥
६,०१८.१३ प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै ।
६,०१८.१३ पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ ॥
६,०१८.१४ अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम् ।
६,०१८.१४ करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥
६,०१८.१५ अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः ।
६,०१८.१५ कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ॥
६,०१९.०१ महां इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।
६,०१९.०१ अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥
६,०१९.०२ इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम् ।
६,०१९.०२ अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि ॥
६,०१९.०३ पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि ।
६,०१९.०३ यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्या ववृत्स्वाजौ ॥
६,०१९.०४ तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम ।
६,०१९.०४ यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः ॥
६,०१९.०५ धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः ।
६,०१९.०५ सं जग्मिरे पथ्या रायो अस्मिन्समुद्रे न सिन्धवो यादमानाः ॥
६,०१९.०६ शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम् ।
६,०१९.०६ विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै ॥
६,०१९.०७ यस्ते मदः पृतनाषाळ् अमृध्र इन्द्र तं न आ भर शूशुवांसम् ।
६,०१९.०७ येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः ॥
६,०१९.०८ आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम् ।
६,०१९.०८ येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामींरजामीन् ॥
६,०१९.०९ आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् ।
६,०१९.०९ आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥
६,०१९.१० नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः ।
६,०१९.१० ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम् ॥
६,०१९.११ मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।
६,०१९.११ विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥
६,०१९.१२ जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि ।
६,०१९.१२ अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु ॥
६,०१९.१३ वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम ।
६,०१९.१३ घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः ॥
६,०२०.०१ द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् ।
६,०२०.०१ तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥
६,०२०.०२ दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम् ।
६,०२०.०२ अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः ॥
६,०२०.०३ तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः ।
६,०२०.०३ राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत् ॥
६,०२०.०४ शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ ।
६,०२०.०४ वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र ॥
६,०२०.०५ महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः ।
६,०२०.०५ उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ॥
६,०२०.०६ प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् ।
६,०२०.०६ प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति ॥
६,०२०.०७ वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः ।
६,०२०.०७ सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः ॥
६,०२०.०८ स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः ।
६,०२०.०८ आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै ॥
६,०२०.०९ स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ ।
६,०२०.०९ तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम् ॥
६,०२०.१० सनेम तेऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः ।
६,०२०.१० सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन् ॥
६,०२०.११ त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय ।
६,०२०.११ परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम् ॥
६,०२०.१२ त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
६,०२०.१२ प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥
६,०२०.१३ तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप् ।
६,०२०.१३ दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्यर्कैः ॥
६,०२१.०१ इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते ।
६,०२१.०१ धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥
६,०२१.०२ तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम् ।
६,०२१.०२ यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥
६,०२१.०३ स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार ।
६,०२१.०३ कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥
६,०२१.०४ यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु ।
६,०२१.०४ कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥
६,०२१.०५ इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः ।
६,०२१.०५ ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥
६,०२१.०६ तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः ।
६,०२१.०६ अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम् ॥
६,०२१.०७ अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ ।
६,०२१.०७ तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥
६,०२१.०८ स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः ।
६,०२१.०८ त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ ॥
६,०२१.०९ प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य ।
६,०२१.०९ प्र पूषणं विष्णुमग्निं पुरन्धिं सवितारमोषधीः पर्वतांश्च ॥
६,०२१.१० इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः ।
६,०२१.१० श्रुधी हवमा हुवतो हुवानो न त्वावां अन्यो अमृत त्वदस्ति ॥
६,०२१.११ नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः ।
६,०२१.११ ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ॥
६,०२१.१२ स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः ।
६,०२१.१२ ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥
६,०२२.०१ य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।
६,०२२.०१ यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान् ॥
६,०२२.०२ तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।
६,०२२.०२ नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥
६,०२२.०३ तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।
६,०२२.०३ यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥
६,०२२.०४ तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।
६,०२२.०४ कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥
६,०२२.०५ तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।
६,०२२.०५ तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥
६,०२२.०६ अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।
६,०२२.०६ अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥
६,०२२.०७ तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।
६,०२२.०७ स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि ॥
६,०२२.०८ आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।
६,०२२.०८ तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥
६,०२२.०९ भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् ।
६,०२२.०९ धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥
६,०२२.१० आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।
६,०२२.१० यया दासान्यार्याणि वृत्रा करो वज्रिन्सुतुका नाहुषाणि ॥
६,०२२.११ स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।
६,०२२.११ न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥
६,०२३.०१ सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे ।
६,०२३.०१ यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि ॥
६,०२३.०२ यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ ।
६,०२३.०२ यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून् ॥
६,०२३.०३ पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती ।
६,०२३.०३ कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥
६,०२३.०४ गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः ।
६,०२३.०४ कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ॥
६,०२३.०५ अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः ।
६,०२३.०५ सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥
६,०२३.०६ ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः ।
६,०२३.०६ सुते सोमे सुतपाः शन्तमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥
६,०२३.०७ स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र ।
६,०२३.०७ एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥
६,०२३.०८ स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु ।
६,०२३.०८ प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः ॥
६,०२३.०९ तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् ।
६,०२३.०९ कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति ॥
६,०२३.१० एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः ।
६,०२३.१० असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ॥
६,०२४.०१ वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी ।
६,०२४.०१ अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ॥
६,०२४.०२ ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः ।
६,०२४.०२ वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥
६,०२४.०३ अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः ।
६,०२४.०३ वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः ॥
६,०२४.०४ शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः ।
६,०२४.०४ वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥
६,०२४.०५ अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः ।
६,०२४.०५ मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ॥
६,०२४.०६ वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः ।
६,०२४.०६ तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥
६,०२४.०७ न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति ।
६,०२४.०७ वृद्धस्य चिद्वर्धतामस्य तनू स्तोमेभिरुक्थैश्च शस्यमाना ॥
६,०२४.०८ न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् ।
६,०२४.०८ अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै ॥
६,०२४.०९ गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान् ।
६,०२४.०९ स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् ॥
६,०२४.१० सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः ।
६,०२४.१० अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥
६,०२५.०१ या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति ।
६,०२५.०१ ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र ॥
६,०२५.०२ आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र ।
६,०२५.०२ आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥
६,०२५.०३ इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे ।
६,०२५.०३ त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥
६,०२५.०४ शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते ।
६,०२५.०४ तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥
६,०२५.०५ नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध ।
६,०२५.०५ इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि ॥
६,०२५.०६ स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते ।
६,०२५.०६ वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥
६,०२५.०७ अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता ।
६,०२५.०७ अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥
६,०२५.०८ अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये ।
६,०२५.०८ अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये ॥
६,०२५.०९ एवा न स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः ।
६,०२५.०९ विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥
६,०२६.०१ श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः ।
६,०२६.०१ सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः ॥
६,०२६.०२ त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ ।
६,०२६.०२ त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥
६,०२६.०३ त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् ।
६,०२६.०३ त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥
६,०२६.०४ त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम् ।
६,०२६.०४ त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः ॥
६,०२६.०५ त्वं तदुक्थमिन्द्र बर्हणा कः प्र यच्छता सहस्रा शूर दर्षि ।
६,०२६.०५ अव गिरेर्दासं शम्बरं हन्प्रावो दिवोदासं चित्राभिरूती ॥
६,०२६.०६ त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्र सिष्वप् ।
६,०२६.०६ त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन् ॥
६,०२६.०७ अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः ।
६,०२६.०७ त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ ॥
६,०२६.०८ वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः ।
६,०२६.०८ प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥
६,०२७.०१ किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार ।
६,०२७.०१ रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः ॥
६,०२७.०२ सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार ।
६,०२७.०२ रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः ॥
६,०२७.०३ नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म ।
६,०२७.०३ न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते ॥
६,०२७.०४ एतत्त्यत्त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः ।
६,०२७.०४ वज्रस्य यत्ते निहतस्य शुष्मात्स्वनाच्चिदिन्द्र परमो ददार ॥
६,०२७.०५ वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन् ।
६,०२७.०५ वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त् ॥
६,०२७.०६ त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत श्रवस्या ।
६,०२७.०६ वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्यायन् ॥
६,०२७.०७ यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा ।
६,०२७.०७ स सृञ्जयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन् ॥
६,०२७.०८ द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् ।
६,०२७.०८ अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥
६,०२८.०१ आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
६,०२८.०१ प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥
६,०२८.०२ इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति ।
६,०२८.०२ भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥
६,०२८.०३ न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।
६,०२८.०३ देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥
६,०२८.०४ न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।
६,०२८.०४ उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥
६,०२८.०५ गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः ।
६,०२८.०५ इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥
६,०२८.०६ यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।
६,०२८.०६ भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥
६,०२८.०७ प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
६,०२८.०७ मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥
६,०२८.०८ उपेदमुपपर्चनमासु गोषूप पृच्यताम् ।
६,०२८.०८ उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये ॥
६,०२९.०१ इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः ।
६,०२९.०१ महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥
६,०२९.०२ आ यस्मिन्हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः ।
६,०२९.०२ आ रश्मयो गभस्त्यो स्थूरयोराध्वन्नश्वासो वृषणो युजानाः ॥
६,०२९.०३ श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान् ।
६,०२९.०३ वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ ॥
६,०२९.०४ स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते सन्ति धानाः ।
६,०२९.०४ इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥
६,०२९.०५ न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा ।
६,०२९.०५ आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥
६,०२९.०६ एवेदिन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा ।
६,०२९.०६ एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥
६,०३०.०१ भूय इद्वावृधे वीर्यायं एको अजुर्यो दयते वसूनि ।
६,०३०.०१ प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥
६,०३०.०२ अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति ।
६,०३०.०२ दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् ॥
६,०३०.०३ अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र ।
६,०३०.०३ नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि ॥
६,०३०.०४ सत्यमित्तन्न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् ।
६,०३०.०४ अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥
६,०३०.०५ त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य ।
६,०३०.०५ राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन्द्यामुषासम् ॥
६,०३१.०१ अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः ।
६,०३१.०१ वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः ॥
६,०३१.०२ त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि ।
६,०३१.०२ द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥
६,०३१.०३ त्वं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ ।
६,०३१.०३ दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि ॥
६,०३१.०४ त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः ।
६,०३१.०४ अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥
६,०३१.०५ स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम् ।
६,०३१.०५ याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः ॥
६,०३२.०१ अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय ।
६,०३२.०१ विरप्शिने वज्रिणे शन्तमानि वचांस्यासा स्थविराय तक्षम् ॥
६,०३२.०२ स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः ।
६,०३२.०२ स्वाधीभिरृक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥
६,०३२.०३ स वह्निभिरृक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय ।
६,०३२.०३ पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन् ॥
६,०३२.०४ स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः ।
६,०३२.०४ पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥
६,०३२.०५ स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट् ।
६,०३२.०५ इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम् ॥
६,०३३.०१ य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्स्वभिष्टिर्दास्वान् ।
६,०३३.०१ सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥
६,०३३.०२ त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ ।
६,०३३.०२ त्वं विप्रेभिर्वि पणींरशायस्त्वोत इत्सनिता वाजमर्वा ॥
६,०३३.०३ त्वं तां इन्द्रोभयां अमित्रान्दासा वृत्राण्यार्या च शूर ।
६,०३३.०३ वधीर्वनेव सुधितेभिरत्कैरा पृत्सु दर्षि नृणां नृतम ॥
६,०३३.०४ स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः ।
६,०३३.०४ स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥
६,०३३.०५ नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ ।
६,०३३.०५ इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः ॥
६,०३४.०१ सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः ।
६,०३४.०१ पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥
६,०३४.०२ पुरुहूतो यः पुरुगूर्त ऋभ्वां एकः पुरुप्रशस्तो अस्ति यज्ञैः ।
६,०३४.०२ रथो न महे शवसे युजानोऽस्माभिरिन्द्रो अनुमाद्यो भूत् ॥
६,०३४.०३ न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः ।
६,०३४.०३ यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥
६,०३४.०४ अस्मा एतद्दिव्यर्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः ।
६,०३४.०४ जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः ॥
६,०३४.०५ अस्मा एतन्मह्याङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि ।
६,०३४.०५ असद्यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च ॥
६,०३५.०१ कदा भुवन्रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः ।
६,०३५.०१ कदा स्तोमं वासयोऽस्य राया कदा धियः करसि वाजरत्नाः ॥
६,०३५.०२ कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन् ।
६,०३५.०२ त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥
६,०३५.०३ कर्हि स्वित्तदिन्द्र यज्जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ ।
६,०३५.०३ कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥
६,०३५.०४ स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः ।
६,०३५.०४ पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥
६,०३५.०५ तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे ।
६,०३५.०५ मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व ॥
६,०३६.०१ सत्रा मदासस्तव विश्वजन्याः सत्रा रायोऽध ये पार्थिवासः ।
६,०३६.०१ सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यम् ॥
६,०३६.०२ अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय ।
६,०३६.०२ स्यूमगृभे दुधयेऽर्वते च क्रतुं वृञ्जन्त्यपि वृत्रहत्ये ॥
६,०३६.०३ तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम् ।
६,०३६.०३ समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥
६,०३६.०४ स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः ।
६,०३६.०४ पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ॥
६,०३६.०५ स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः ।
६,०३६.०५ असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः ॥
६,०३७.०१ अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु ।
६,०३७.०१ कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य ॥
६,०३७.०२ प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यन्तो अभूवन् ।
६,०३७.०२ इन्द्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा ॥
६,०३७.०३ आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः ।
६,०३७.०३ अभि श्रव ऋज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥
६,०३७.०४ वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः ।
६,०३७.०४ यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन् ॥
६,०३७.०५ इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः ।
६,०३७.०५ इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥
६,०३८.०१ अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम् ।
६,०३८.०१ पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः ॥
६,०३८.०२ दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः ।
६,०३८.०२ एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना ॥
६,०३८.०३ तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः ।
६,०३८.०३ ब्रह्मा च गिरो दधिरे समस्मिन्महांश्च स्तोमो अधि वर्धदिन्द्रे ॥
६,०३८.०४ वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म ।
६,०३८.०४ वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥
६,०३८.०५ एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय ।
६,०३८.०५ महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु ॥
६,०३९.०१ मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः ।
६,०३९.०१ अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥
६,०३९.०२ अयमुशानः पर्यद्रिमुस्रा ऋतधीतिभिरृतयुग्युजानः ।
६,०३९.०२ रुजदरुग्णं वि वलस्य सानुं पणींर्वचोभिरभि योधदिन्द्रः ॥
६,०३९.०३ अयं द्योतयदद्युतो व्यक्तून्दोषा वस्तोः शरद इन्दुरिन्द्र ।
६,०३९.०३ इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ॥
६,०३९.०४ अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः ।
६,०३९.०४ अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥
६,०३९.०५ नू गृणानो गृणते प्रत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः ।
६,०३९.०५ अप ओषधीरविषा वनानि गा अर्वतो नॄनृचसे रिरीहि ॥
६,०४०.०१ इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया ।
६,०४०.०१ उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥
६,०४०.०२ अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् ।
६,०४०.०२ तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै ॥
६,०४०.०३ समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः ।
६,०४०.०३ त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥
६,०४०.०४ आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम् ।
६,०४०.०४ उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे वयो धात् ॥
६,०४०.०५ यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि ।
६,०४०.०५ अतो नो यज्ञमवसे नियुत्वान्सजोषाः पाहि गिर्वणो मरुद्भिः ॥
६,०४१.०१ अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः ।
६,०४१.०१ गावो न वज्रिन्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥
६,०४१.०२ या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम् ।
६,०४१.०२ तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः ॥
६,०४१.०३ एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः ।
६,०४१.०३ एतं पिब हरिव स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम् ॥
६,०४१.०४ सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय ।
६,०४१.०४ एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥
६,०४१.०५ ह्वयामसि त्वेन्द्र याह्यर्वाङरं ते सोमस्तन्वे भवाति ।
६,०४१.०५ शतक्रतो मादयस्वा सुतेषु प्रास्मां अव पृतनासु प्र विक्षु ॥
६,०४२.०१ प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
६,०४२.०१ अरङ्गमाय जग्मयेऽपश्चाद्दघ्वने नरे ॥
६,०४२.०२ एमेनं प्रत्येतन सोमेभिः सोमपातमम् ।
६,०४२.०२ अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥
६,०४२.०३ यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
६,०४२.०३ वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते ॥
६,०४२.०४ अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
६,०४२.०४ कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥
६,०४३.०१ यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः ।
६,०४३.०१ अयं स सोम इन्द्र ते सुतः पिब ॥
६,०४३.०२ यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे ।
६,०४३.०२ अयं स सोम इन्द्र ते सुतः पिब ॥
६,०४३.०३ यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः ।
६,०४३.०३ अयं स सोम इन्द्र ते सुतः पिब ॥
६,०४३.०४ यस्य मन्दानो अन्धसो माघोनं दधिषे शवः ।
६,०४३.०४ अयं स सोम इन्द्र ते सुतः पिब ॥
६,०४४.०१ यो रयिवो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः ।
६,०४४.०१ सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
६,०४४.०२ यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् ।
६,०४४.०२ सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
६,०४४.०३ येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः ।
६,०४४.०३ सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
६,०४४.०४ त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् ।
६,०४४.०४ इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम् ॥
६,०४४.०५ यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः ।
६,०४४.०५ तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ॥
६,०४४.०६ तद्व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि ।
६,०४४.०६ विपो न यस्योतयो वि यद्रोहन्ति सक्षितः ॥
६,०४४.०७ अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत् ।
६,०४४.०७ ससवान्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः ॥
६,०४४.०८ ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् ।
६,०४४.०८ दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः ॥
६,०४४.०९ द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः ।
६,०४४.०९ वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्मां अविड्ढि ॥
६,०४४.१० इन्द्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः ।
६,०४४.१० नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनं त्वाहुः ॥
६,०४४.११ मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम ।
६,०४४.११ पूर्वीष्ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः ॥
६,०४४.१२ उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या ।
६,०४४.१२ त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः ॥
६,०४४.१३ अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा ।
६,०४४.१३ यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम् ॥
६,०४४.१४ अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान ।
६,०४४.१४ तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥
६,०४४.१५ पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः ।
६,०४४.१५ गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः ॥
६,०४४.१६ इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि ।
६,०४४.१६ मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः ॥
६,०४४.१७ एना मन्दानो जहि शूर शत्रूञ्जामिमजामिं मघवन्नमित्रान् ।
६,०४४.१७ अभिषेणां अभ्यादेदिशानान्पराच इन्द्र प्र मृणा जही च ॥
६,०४४.१८ आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः ।
६,०४४.१८ अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम् ॥
६,०४४.१९ आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः ।
६,०४४.१९ अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥
६,०४४.२० आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः ।
६,०४४.२० इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥
६,०४४.२१ वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् ।
६,०४४.२१ वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥
६,०४४.२२ अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत् ।
६,०४४.२२ अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ॥
६,०४४.२३ अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः ।
६,०४४.२३ अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम् ॥
६,०४४.२४ अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम् ।
६,०४४.२४ अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् ॥
६,०४५.०१ य आनयत्परावतः सुनीती तुर्वशं यदुम् ।
६,०४५.०१ इन्द्रः स नो युवा सखा ॥
६,०४५.०२ अविप्रे चिद्वयो दधदनाशुना चिदर्वता ।
६,०४५.०२ इन्द्रो जेता हितं धनम् ॥
६,०४५.०३ महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
६,०४५.०३ नास्य क्षीयन्त ऊतयः ॥
६,०४५.०४ सखायो ब्रह्मवाहसेऽर्चत प्र च गायत ।
६,०४५.०४ स हि नः प्रमतिर्मही ॥
६,०४५.०५ त्वमेकस्य वृत्रहन्नविता द्वयोरसि ।
६,०४५.०५ उतेदृशे यथा वयम् ॥
६,०४५.०६ नयसीद्वति द्विषः कृणोष्युक्थशंसिनः ।
६,०४५.०६ नृभिः सुवीर उच्यसे ॥
६,०४५.०७ ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम् ।
६,०४५.०७ गां न दोहसे हुवे ॥
६,०४५.०८ यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता ।
६,०४५.०८ वीरस्य पृतनाषहः ॥
६,०४५.०९ वि दृळ्हानि चिदद्रिवो जनानां शचीपते ।
६,०४५.०९ वृह माया अनानत ॥
६,०४५.१० तमु त्वा सत्य सोमपा इन्द्र वाजानां पते ।
६,०४५.१० अहूमहि श्रवस्यवः ॥
६,०४५.११ तमु त्वा यः पुरासिथ यो वा नूनं हिते धने ।
६,०४५.११ हव्यः स श्रुधी हवम् ॥
६,०४५.१२ धीभिरर्वद्भिरर्वतो वाजां इन्द्र श्रवाय्यान् ।
६,०४५.१२ त्वया जेष्म हितं धनम् ॥
६,०४५.१३ अभूरु वीर गिर्वणो महां इन्द्र धने हिते ।
६,०४५.१३ भरे वितन्तसाय्यः ॥
६,०४५.१४ या त ऊतिरमित्रहन्मक्षूजवस्तमासति ।
६,०४५.१४ तया नो हिनुही रथम् ॥
६,०४५.१५ स रथेन रथीतमोऽस्माकेनाभियुग्वना ।
६,०४५.१५ जेषि जिष्णो हितं धनम् ॥
६,०४५.१६ य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः ।
६,०४५.१६ पतिर्जज्ञे वृषक्रतुः ॥
६,०४५.१७ यो गृणतामिदासिथापिरूती शिवः सखा ।
६,०४५.१७ स त्वं न इन्द्र मृळय ॥
६,०४५.१८ धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः ।
६,०४५.१८ सासहीष्ठा अभि स्पृधः ॥
६,०४५.१९ प्रत्नं रयीणां युजं सखायं कीरिचोदनम् ।
६,०४५.१९ ब्रह्मवाहस्तमं हुवे ॥
६,०४५.२० स हि विश्वानि पार्थिवां एको वसूनि पत्यते ।
६,०४५.२० गिर्वणस्तमो अध्रिगुः ॥
६,०४५.२१ स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः ।
६,०४५.२१ गोमद्भिर्गोपते धृषत् ॥
६,०४५.२२ तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
६,०४५.२२ शं यद्गवे न शाकिने ॥
६,०४५.२३ न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
६,०४५.२३ यत्सीमुप श्रवद्गिरः ॥
६,०४५.२४ कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
६,०४५.२४ शचीभिरप नो वरत् ॥
६,०४५.२५ इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः ।
६,०४५.२५ इन्द्र वत्सं न मातरः ॥
६,०४५.२६ दूणाशं सख्यं तव गौरसि वीर गव्यते ।
६,०४५.२६ अश्वो अश्वायते भव ॥
६,०४५.२७ स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
६,०४५.२७ न स्तोतारं निदे करः ॥
६,०४५.२८ इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः ।
६,०४५.२८ वत्सं गावो न धेनवः ॥
६,०४५.२९ पुरूतमं पुरूणां स्तोतॄणां विवाचि ।
६,०४५.२९ वाजेभिर्वाजयताम् ॥
६,०४५.३० अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः ।
६,०४५.३० अस्मान्राये महे हिनु ॥
६,०४५.३१ अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात् ।
६,०४५.३१ उरुः कक्षो न गाङ्ग्यः ॥
६,०४५.३२ यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी ।
६,०४५.३२ सद्यो दानाय मंहते ॥
६,०४५.३३ तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
६,०४५.३३ बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥
६,०४६.०१ त्वामिद्धि हवामहे साता वाजस्य कारवः ।
६,०४६.०१ त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥
६,०४६.०२ स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
६,०४६.०२ गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥
६,०४६.०३ यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् ।
६,०४६.०३ सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥
६,०४६.०४ बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम ।
६,०४६.०४ अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये ॥
६,०४६.०५ इन्द्र ज्येष्ठं न आ भरं ओजिष्ठं पपुरि श्रवः ।
६,०४६.०५ येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥
६,०४६.०६ त्वामुग्रमवसे चर्षणीसहं राजन्देवेषु हूमहे ।
६,०४६.०६ विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान्सुषहान्कृधि ॥
६,०४६.०७ यदिन्द्र नाहुषीष्वां ओजो नृम्णं च कृष्टिषु ।
६,०४६.०७ यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या ॥
६,०४६.०८ यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम् ।
६,०४६.०८ अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे ॥
६,०४६.०९ इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् ।
६,०४६.०९ छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥
६,०४६.१० ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।
६,०४६.१० अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव ॥
६,०४६.११ अध स्मा नो वृधे भवेन्द्र नायमवा युधि ।
६,०४६.११ यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः ॥
६,०४६.१२ यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम् ।
६,०४६.१२ अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः ॥
६,०४६.१३ यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने ।
६,०४६.१३ असमने अध्वनि वृजिने पथि श्येनां इव श्रवस्यतः ॥
६,०४६.१४ सिन्धूंरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि ।
६,०४६.१४ आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि ॥
६,०४७.०१ स्वादुष्किलायं मधुमां उतायं तीव्रः किलायं रसवां उतायम् ।
६,०४७.०१ उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥
६,०४७.०२ अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद ।
६,०४७.०२ पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥
६,०४७.०३ अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः ।
६,०४७.०३ अयं षळ् उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ॥
६,०४७.०४ अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः ।
६,०४७.०४ अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम् ॥
६,०४७.०५ अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके ।
६,०४७.०५ अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान् ॥
६,०४७.०६ धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
६,०४७.०६ माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि ॥
६,०४७.०७ इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।
६,०४७.०७ भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥
६,०४७.०८ उरुं नो लोकमनु नेषि विद्वान्स्वर्वज्ज्योतिरभयं स्वस्ति ।
६,०४७.०८ ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥
६,०४७.०९ वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा ।
६,०४७.०९ इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः ॥
६,०४७.१० इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम् ।
६,०४७.१० यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम् ॥
६,०४७.११ त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
६,०४७.११ ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥
६,०४७.१२ इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः ।
६,०४७.१२ बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
६,०४७.१३ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
६,०४७.१३ स सुत्रामा स्ववां इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥
६,०४७.१४ अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते ।
६,०४७.१४ उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून् ॥
६,०४७.१५ क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत् ।
६,०४७.१५ पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः ॥
६,०४७.१६ शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
६,०४७.१६ एधमानद्विळ् उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥
६,०४७.१७ परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
६,०४७.१७ अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥
६,०४७.१८ रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
६,०४७.१८ इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥
६,०४७.१९ युजानो हरिता रथे भूरि त्वष्टेह राजति ।
६,०४७.१९ को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥
६,०४७.२० अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत् ।
६,०४७.२० बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्द्र पन्थाम् ॥
६,०४७.२१ दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
६,०४७.२१ अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥
६,०४७.२२ प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात् ।
६,०४७.२२ दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म ॥
६,०४७.२३ दशाश्वान्दश कोशान्दश वस्त्राधिभोजना ।
६,०४७.२३ दशो हिरण्यपिण्डान्दिवोदासादसानिषम् ॥
६,०४७.२४ दश रथान्प्रष्टिमतः शतं गा अथर्वभ्यः ।
६,०४७.२४ अश्वथः पायवेऽदात् ॥
६,०४७.२५ महि राधो विश्वजन्यं दधानान्भरद्वाजान्सार्ञ्जयो अभ्ययष्ट ॥
६,०४७.२६ वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
६,०४७.२६ गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥
६,०४७.२७ दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।
६,०४७.२७ अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥
६,०४७.२८ इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
६,०४७.२८ सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
६,०४७.२९ उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
६,०४७.२९ स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥
६,०४७.३० आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः ।
६,०४७.३० अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥
६,०४७.३१ आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति ।
६,०४७.३१ समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥
६,०४८.०१ यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
६,०४८.०१ प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥
६,०४८.०२ ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।
६,०४८.०२ भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥
६,०४८.०३ वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा ।
६,०४८.०३ अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ॥
६,०४८.०४ महो देवान्यजसि यक्ष्यानुषक्तव क्रत्वोत दंसना ।
६,०४८.०४ अर्वाचः सीं कृणुह्यग्नेऽवसे रास्व वाजोत वंस्व ॥
६,०४८.०५ यमापो अद्रयो वना गर्भमृतस्य पिप्रति ।
६,०४८.०५ सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥
६,०४८.०६ आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि ।
६,०४८.०६ तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा ॥
६,०४८.०७ बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा ।
६,०४८.०७ भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥
६,०४८.०८ विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम् ।
६,०४८.०८ शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ॥
६,०४८.०९ त्वं नश्चित्र ऊत्या वसो राधांसि चोदय ।
६,०४८.०९ अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥
६,०४८.१० पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।
६,०४८.१० अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च ॥
६,०४८.११ आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः ।
६,०४८.११ सृजध्वमनपस्फुराम् ॥
६,०४८.१२ या शर्धाय मारुताय स्वभानवे श्रवोऽमृत्यु धुक्षत ।
६,०४८.१२ या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी ॥
६,०४८.१३ भरद्वाजायाव धुक्षत द्विता ।
६,०४८.१३ धेनुं च विश्वदोहसमिषं च विश्वभोजसम् ॥
६,०४८.१४ तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम् ।
६,०४८.१४ अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥
६,०४८.१५ त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता ।
६,०४८.१५ सं सहस्रा कारिषच्चर्षणिभ्य आं आविर्गूळ्हा वसू करत्सुवेदा नो वसू करत् ॥
६,०४८.१६ आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे ।
६,०४८.१६ अघा अर्यो अरातयः ॥
६,०४८.१७ मा काकम्बीरमुद्वृहो वनस्पतिमशस्तीर्वि हि नीनशः ।
६,०४८.१७ मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥
६,०४८.१८ दृतेरिव तेऽवृकमस्तु सख्यम् ।
६,०४८.१८ अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥
६,०४८.१९ परो हि मर्त्यैरसि समो देवैरुत श्रिया ।
६,०४८.१९ अभि ख्यः पूषन्पृतनासु नस्त्वमवा नूनं यथा पुरा ॥
६,०४८.२० वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता ।
६,०४८.२० देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥
६,०४८.२१ सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः ।
६,०४८.२१ त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥
६,०४८.२२ सकृद्ध द्यौरजायत सकृद्भूमिरजायत ।
६,०४८.२२ पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते ॥
६,०४९.०१ स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता ।
६,०४९.०१ त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥
६,०४९.०२ विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः ।
६,०४९.०२ दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै ॥
६,०४९.०३ अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या ।
६,०४९.०३ मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥
६,०४९.०४ प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् ।
६,०४९.०४ द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥
६,०४९.०५ स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः ।
६,०४९.०५ येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥
६,०४९.०६ पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि ।
६,०४९.०६ सत्यश्रुतः कवयो यस्य गीर्भिर्जगत स्थातर्जगदा कृणुध्वम् ॥
६,०४९.०७ पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
६,०४९.०७ ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥
६,०४९.०८ पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळ् अर्कम् ।
६,०४९.०८ स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥
६,०४९.०९ प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम् ।
६,०४९.०९ होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ॥
६,०४९.१० भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ ।
६,०४९.१० बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥
६,०४९.११ आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् ।
६,०४९.११ अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥
६,०४९.१२ प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम् ।
६,०४९.१२ स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः ॥
६,०४९.१३ यो रजांसि विममे पार्थिवानि त्रिश्चिद्विष्णुर्मनवे बाधिताय ।
६,०४९.१३ तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च ॥
६,०४९.१४ तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात् ।
६,०४९.१४ तदोषधीभिरभि रातिषाचो भगः पुरन्धिर्जिन्वतु प्र राये ॥
६,०४९.१५ नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपाम् ।
६,०४९.१५ क्षयं दाताजरं येन जनान्स्पृधो अदेवीरभि च क्रमाम विश आदेवीरभ्यश्नवाम ॥
६,०५०.०१ हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम् ।
६,०५०.०१ अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्सवितारं भगं च ॥
६,०५०.०२ सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान् ।
६,०५०.०२ द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥
६,०५०.०३ उत द्यावापृथिवी क्षत्रमुरु बृहद्रोदसी शरणं सुषुम्ने ।
६,०५०.०३ महस्करथो वरिवो यथा नोऽस्मे क्षयाय धिषणे अनेहः ॥
६,०५०.०४ आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः ।
६,०५०.०४ यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥
६,०५०.०५ मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा ।
६,०५०.०५ श्रुत्वा हवं मरुतो यद्ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥
६,०५०.०६ अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन ।
६,०५०.०६ श्रवदिद्धवमुप च स्तवानो रासद्वाजां उप महो गृणानः ॥
६,०५०.०७ ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः ।
६,०५०.०७ यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः ॥
६,०५०.०८ आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात् ।
६,०५०.०८ यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥
६,०५०.०९ उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्नध्वरे ववृत्याः ।
६,०५०.०९ स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः ॥
६,०५०.१० उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा ।
६,०५०.१० अत्रिं न महस्तमसोऽमुमुक्तं तूर्वतं नरा दुरितादभीके ॥
६,०५०.११ ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः ।
६,०५०.११ दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥
६,०५०.१२ ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः ।
६,०५०.१२ ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ॥
६,०५०.१३ उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः ।
६,०५०.१३ त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः ॥
६,०५०.१४ उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः ।
६,०५०.१४ विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥
६,०५०.१५ एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः ।
६,०५०.१५ ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥
६,०५१.०१ उदु त्यच्चक्षुर्महि मित्रयोरां एति प्रियं वरुणयोरदब्धम् ।
६,०५१.०१ ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत् ॥
६,०५१.०२ वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः ।
६,०५१.०२ ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥
६,०५१.०३ स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् ।
६,०५१.०३ अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥
६,०५१.०४ रिशादसः सत्पतींरदब्धान्महो राज्ञः सुवसनस्य दातॄन् ।
६,०५१.०४ यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥
६,०५१.०५ द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः ।
६,०५१.०५ विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥
६,०५१.०६ मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः ।
६,०५१.०६ यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ॥
६,०५१.०७ मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे ।
६,०५१.०७ विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥
६,०५१.०८ नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् ।
६,०५१.०८ नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे ॥
६,०५१.०९ ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् ।
६,०५१.०९ तां आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः ॥
६,०५१.१० ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति ।
६,०५१.१० सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः ॥
६,०५१.११ ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः ।
६,०५१.११ सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥
६,०५१.१२ नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता ।
६,०५१.१२ आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ॥
६,०५१.१३ अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् ।
६,०५१.१३ दविष्ठमस्य सत्पते कृधी सुगम् ॥
६,०५१.१४ ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः ।
६,०५१.१४ जही न्यत्रिणं पणिं वृको हि षः ॥
६,०५१.१५ यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
६,०५१.१५ कर्ता नो अध्वन्ना सुगं गोपा अमा ॥
६,०५१.१६ अपि पन्थामगन्महि स्वस्तिगामनेहसम् ।
६,०५१.१६ येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥
६,०५२.०१ न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः ।
६,०५२.०१ उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ॥
६,०५२.०२ अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् ।
६,०५२.०२ तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥
६,०५२.०३ किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः ।
६,०५२.०३ किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य ॥
६,०५२.०४ अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः ।
६,०५२.०४ अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ ॥
६,०५२.०५ विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् ।
६,०५२.०५ तथा करद्वसुपतिर्वसूनां देवां ओहानोऽवसागमिष्ठः ॥
६,०५२.०६ इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना ।
६,०५२.०६ पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥
६,०५२.०७ विश्वे देवास आ गत शृणुता म इमं हवम् ।
६,०५२.०७ एदं बर्हिर्नि षीदत ॥
६,०५२.०८ यो वो देवा घृतस्नुना हव्येन प्रतिभूषति ।
६,०५२.०८ तं विश्व उप गच्छथ ॥
६,०५२.०९ उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।
६,०५२.०९ सुमृळीका भवन्तु नः ॥
६,०५२.१० विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः ।
६,०५२.१० जुषन्तां युज्यं पयः ॥
६,०५२.११ स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा ।
६,०५२.११ इमा हव्या जुषन्त नः ॥
६,०५२.१२ इमं नो अग्ने अध्वरं होतर्वयुनशो यज ।
६,०५२.१२ चिकित्वान्दैव्यं जनम् ॥
६,०५२.१३ विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।
६,०५२.१३ ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् ॥
६,०५२.१४ विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म ।
६,०५२.१४ मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम ॥
६,०५२.१५ ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे ।
६,०५२.१५ ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः ॥
६,०५२.१६ अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः ।
६,०५२.१६ इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे ॥
६,०५२.१७ स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे ।
६,०५२.१७ अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥
६,०५३.०१ वयमु त्वा पथस्पते रथं न वाजसातये ।
६,०५३.०१ धिये पूषन्नयुज्महि ॥
६,०५३.०२ अभि नो नर्यं वसु वीरं प्रयतदक्षिणम् ।
६,०५३.०२ वामं गृहपतिं नय ॥
६,०५३.०३ अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय ।
६,०५३.०३ पणेश्चिद्वि म्रदा मनः ॥
६,०५३.०४ वि पथो वाजसातये चिनुहि वि मृधो जहि ।
६,०५३.०४ साधन्तामुग्र नो धियः ॥
६,०५३.०५ परि तृन्धि पणीनामारया हृदया कवे ।
६,०५३.०५ अथेमस्मभ्यं रन्धय ॥
६,०५३.०६ वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम् ।
६,०५३.०६ अथेमस्मभ्यं रन्धय ॥
६,०५३.०७ आ रिख किकिरा कृणु पणीनां हृदया कवे ।
६,०५३.०७ अथेमस्मभ्यं रन्धय ॥
६,०५३.०८ यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणे ।
६,०५३.०८ तया समस्य हृदयमा रिख किकिरा कृणु ॥
६,०५३.०९ या ते अष्ट्रा गोओपशाघृणे पशुसाधनी ।
६,०५३.०९ तस्यास्ते सुम्नमीमहे ॥
६,०५३.१० उत नो गोषणिं धियमश्वसां वाजसामुत ।
६,०५३.१० नृवत्कृणुहि वीतये ॥
६,०५४.०१ सं पूषन्विदुषा नय यो अञ्जसानुशासति ।
६,०५४.०१ य एवेदमिति ब्रवत् ॥
६,०५४.०२ समु पूष्णा गमेमहि यो गृहां अभिशासति ।
६,०५४.०२ इम एवेति च ब्रवत् ॥
६,०५४.०३ पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते ।
६,०५४.०३ नो अस्य व्यथते पविः ॥
६,०५४.०४ यो अस्मै हविषाविधन्न तं पूषापि मृष्यते ।
६,०५४.०४ प्रथमो विन्दते वसु ॥
६,०५४.०५ पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः ।
६,०५४.०५ पूषा वाजं सनोतु नः ॥
६,०५४.०६ पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः ।
६,०५४.०६ अस्माकं स्तुवतामुत ॥
६,०५४.०७ माकिर्नेशन्माकीं रिषन्माकीं सं शारि केवटे ।
६,०५४.०७ अथारिष्टाभिरा गहि ॥
६,०५४.०८ शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम् ।
६,०५४.०८ ईशानं राय ईमहे ॥
६,०५४.०९ पूषन्तव व्रते वयं न रिष्येम कदा चन ।
६,०५४.०९ स्तोतारस्त इह स्मसि ॥
६,०५४.१० परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।
६,०५४.१० पुनर्नो नष्टमाजतु ॥
६,०५५.०१ एहि वां विमुचो नपादाघृणे सं सचावहै ।
६,०५५.०१ रथीरृतस्य नो भव ॥
६,०५५.०२ रथीतमं कपर्दिनमीशानं राधसो महः ।
६,०५५.०२ रायः सखायमीमहे ॥
६,०५५.०३ रायो धारास्याघृणे वसो राशिरजाश्व ।
६,०५५.०३ धीवतोधीवतः सखा ॥
६,०५५.०४ पूषणं न्वजाश्वमुप स्तोषाम वाजिनम् ।
६,०५५.०४ स्वसुर्यो जार उच्यते ॥
६,०५५.०५ मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः ।
६,०५५.०५ भ्रातेन्द्रस्य सखा मम ॥
६,०५५.०६ आजासः पूषणं रथे निशृम्भास्ते जनश्रियम् ।
६,०५५.०६ देवं वहन्तु बिभ्रतः ॥
६,०५६.०१ य एनमादिदेशति करम्भादिति पूषणम् ।
६,०५६.०१ न तेन देव आदिशे ॥
६,०५६.०२ उत घा स रथीतमः सख्या सत्पतिर्युजा ।
६,०५६.०२ इन्द्रो वृत्राणि जिघ्नते ॥
६,०५६.०३ उतादः परुषे गवि सूरश्चक्रं हिरण्ययम् ।
६,०५६.०३ न्यैरयद्रथीतमः ॥
६,०५६.०४ यदद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः ।
६,०५६.०४ तत्सु नो मन्म साधय ॥
६,०५६.०५ इमं च नो गवेषणं सातये सीषधो गणम् ।
६,०५६.०५ आरात्पूषन्नसि श्रुतः ॥
६,०५६.०६ आ ते स्वस्तिमीमह आरेअघामुपावसुम् ।
६,०५६.०६ अद्या च सर्वतातये श्वश्च सर्वतातये ॥
६,०५७.०१ इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।
६,०५७.०१ हुवेम वाजसातये ॥
६,०५७.०२ सोममन्य उपासदत्पातवे चम्वोः सुतम् ।
६,०५७.०२ करम्भमन्य इच्छति ॥
६,०५७.०३ अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता ।
६,०५७.०३ ताभ्यां वृत्राणि जिघ्नते ॥
६,०५७.०४ यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः ।
६,०५७.०४ तत्र पूषाभवत्सचा ॥
६,०५७.०५ तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव ।
६,०५७.०५ इन्द्रस्य चा रभामहे ॥
६,०५७.०६ उत्पूषणं युवामहेऽभीशूंरिव सारथिः ।
६,०५७.०६ मह्या इन्द्रं स्वस्तये ॥
६,०५८.०१ शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि ।
६,०५८.०१ विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥
६,०५८.०२ अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः ।
६,०५८.०२ अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते ॥
६,०५८.०३ यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति ।
६,०५८.०३ ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥
६,०५८.०४ पूषा सुबन्धुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः ।
६,०५८.०४ यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥
६,०५९.०१ प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः ।
६,०५९.०१ हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥
६,०५९.०२ बळ् इत्था महिमा वामिन्द्राग्नी पनिष्ठ आ ।
६,०५९.०२ समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा ॥
६,०५९.०३ ओकिवांसा सुते सचां अश्वा सप्ती इवादने ।
६,०५९.०३ इन्द्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥
६,०५९.०४ य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा ।
६,०५९.०४ जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥
६,०५९.०५ इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति ।
६,०५९.०५ विषूचो अश्वान्युयुजान ईयत एकः समान आ रथे ॥
६,०५९.०६ इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः ।
६,०५९.०६ हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत् ॥
६,०५९.०७ इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः ।
६,०५९.०७ मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु ॥
६,०५९.०८ इन्द्राग्नी तपन्ति माघा अर्यो अरातयः ।
६,०५९.०८ अप द्वेषांस्या कृतं युयुतं सूर्यादधि ॥
६,०५९.०९ इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा ।
६,०५९.०९ आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥
६,०५९.१० इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता ।
६,०५९.१० विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ॥
६,०६०.०१ श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।
६,०६०.०१ इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥
६,०६०.०२ ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः ।
६,०६०.०२ दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥
६,०६०.०३ आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् ।
६,०६०.०३ युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ॥
६,०६०.०४ ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् ।
६,०६०.०४ इन्द्राग्नी न मर्धतः ॥
६,०६०.०५ उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।
६,०६०.०५ ता नो मृळात ईदृशे ॥
६,०६०.०६ हतो वृत्राण्यार्या हतो दासानि सत्पती ।
६,०६०.०६ हतो विश्वा अप द्विषः ॥
६,०६०.०७ इन्द्राग्नी युवामिमेऽभि स्तोमा अनूषत ।
६,०६०.०७ पिबतं शम्भुवा सुतम् ॥
६,०६०.०८ या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
६,०६०.०८ इन्द्राग्नी ताभिरा गतम् ॥
६,०६०.०९ ताभिरा गच्छतं नरोपेदं सवनं सुतम् ।
६,०६०.०९ इन्द्राग्नी सोमपीतये ॥
६,०६०.१० तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।
६,०६०.१० कृष्णा कृणोति जिह्वया ॥
६,०६०.११ य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः ।
६,०६०.११ द्युम्नाय सुतरा अपः ॥
६,०६०.१२ ता नो वाजवतीरिष आशून्पिपृतमर्वतः ।
६,०६०.१२ इन्द्रमग्निं च वोळ्हवे ॥
६,०६०.१३ उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ।
६,०६०.१३ उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम् ॥
६,०६०.१४ आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतम् ।
६,०६०.१४ सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥
६,०६०.१५ इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः ।
६,०६०.१५ वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥
६,०६१.०१ इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।
६,०६१.०१ या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥
६,०६१.०२ इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः ।
६,०६१.०२ पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥
६,०६१.०३ सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।
६,०६१.०३ उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥
६,०६१.०४ प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती ।
६,०६१.०४ धीनामवित्र्यवतु ॥
६,०६१.०५ यस्त्वा देवि सरस्वत्युपब्रूते धने हिते ।
६,०६१.०५ इन्द्रं न वृत्रतूर्ये ॥
६,०६१.०६ त्वं देवि सरस्वत्यवा वाजेषु वाजिनि ।
६,०६१.०६ रदा पूषेव नः सनिम् ॥
६,०६१.०७ उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।
६,०६१.०७ वृत्रघ्नी वष्टि सुष्टुतिम् ॥
६,०६१.०८ यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः ।
६,०६१.०८ अमश्चरति रोरुवत् ॥
६,०६१.०९ सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी ।
६,०६१.०९ अतन्नहेव सूर्यः ॥
६,०६१.१० उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
६,०६१.१० सरस्वती स्तोम्या भूत् ॥
६,०६१.११ आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् ।
६,०६१.११ सरस्वती निदस्पातु ॥
६,०६१.१२ त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती ।
६,०६१.१२ वाजेवाजे हव्या भूत् ॥
६,०६१.१३ प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।
६,०६१.१३ रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥
६,०६१.१४ सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।
६,०६१.१४ जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥
६,०६२.०१ स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः ।
६,०६२.०१ या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि ॥
६,०६२.०२ ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः ।
६,०६२.०२ पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान् ॥
६,०६२.०३ ता ह त्यद्वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः ।
६,०६२.०३ मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य ॥
६,०६२.०४ ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती ।
६,०६२.०४ शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत्प्रत्नो अध्रुग्युवाना ॥
६,०६२.०५ ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे ।
६,०६२.०५ या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥
६,०६२.०६ ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः ।
६,०६२.०६ अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥
६,०६२.०७ वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः ।
६,०६२.०७ दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू ॥
६,०६२.०८ यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा ।
६,०६२.०८ तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात ॥
६,०६२.०९ य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् ।
६,०६२.०९ गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय ॥
६,०६२.१० अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन ।
६,०६२.१० सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् ॥
६,०६२.११ आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् ।
६,०६२.११ दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥
६,०६३.०१ क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।
६,०६३.०१ आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥
६,०६३.०२ अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः ।
६,०६३.०२ परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात् ॥
६,०६३.०३ अकारि वामन्धसो वरीमन्
नस्तारि बर्हिः सुप्रायणतमम् ।
६,०६३.०३ उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥
६,०६३.०४ ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची ।
६,०६३.०४ प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन् ॥
६,०६३.०५ अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् ।
६,०६३.०५ प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम् ॥
६,०६३.०६ युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः ।
६,०६३.०६ प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम् ॥
६,०६३.०७ आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु ।
६,०६३.०७ प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥
६,०६३.०८ पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् ।
६,०६३.०८ स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् ॥
६,०६३.०९ उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा ।
६,०६३.०९ शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान् ॥
६,०६३.१० सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् ।
६,०६३.१० भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः ॥
६,०६३.११ आ वां सुम्ने वरिमन्सूरिभिः ष्याम् ॥
६,०६४.०१ उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः ।
६,०६४.०१ कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥
६,०६४.०२ भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् ।
६,०६४.०२ आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥
६,०६४.०३ वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् ।
६,०६४.०३ अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा ॥
६,०६४.०४ सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो ।
६,०६४.०४ सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै ॥
६,०६४.०५ सा वह योक्षभिरवातोषो वरं वहसि जोषमनु ।
६,०६४.०५ त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥
६,०६४.०६ उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
६,०६४.०६ अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥
६,०६५.०१ एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः ।
६,०६५.०१ या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् ॥
६,०६५.०२ वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः ।
६,०६५.०२ अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥
६,०६५.०३ श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय ।
६,०६५.०३ मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥
६,०६५.०४ इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ।
६,०६५.०४ इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित् ॥
६,०६५.०५ इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति ।
६,०६५.०५ व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः ॥
६,०६५.०६ उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि ।
६,०६५.०६ सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः ॥
६,०६६.०१ वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम् ।
६,०६६.०१ मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः ॥
६,०६६.०२ ये अग्नयो न शोशुचन्निधाना द्विर्यत्त्रिर्मरुतो वावृधन्त ।
६,०६६.०२ अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन् ॥
६,०६६.०३ रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाधृविर्भरध्यै ।
६,०६६.०३ विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात् ॥
६,०६६.०४ न य ईषन्ते जनुषोऽया न्वन्तः सन्तोऽवद्यानि पुनानाः ।
६,०६६.०४ निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः ॥
६,०६६.०५ मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः ।
६,०६६.०५ न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान् ॥
६,०६६.०६ त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके ।
६,०६६.०६ अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः ॥
६,०६६.०७ अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः ।
६,०६६.०७ अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् ॥
६,०६६.०८ नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ ।
६,०६६.०८ तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः ॥
६,०६६.०९ प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् ।
६,०६६.०९ ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥
६,०६६.१० त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः ।
६,०६६.१० अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥
६,०६६.११ तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे ।
६,०६६.११ दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥
६,०६७.०१ विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै ।
६,०६७.०१ सं या रश्मेव यमतुर्यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ॥
६,०६७.०२ इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ ।
६,०६७.०२ यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू ॥
६,०६७.०३ आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना ।
६,०६७.०३ सं यावप्नस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा ॥
६,०६७.०४ अश्वा न या वाजिना पूतबन्धू ऋता यद्गर्भमदितिर्भरध्यै ।
६,०६७.०४ प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥
६,०६७.०५ विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः ।
६,०६७.०५ परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः ॥
६,०६७.०६ ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः ।
६,०६७.०६ दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः ॥
६,०६७.०७ ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति ।
६,०६७.०७ न मृष्यन्ते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरन्ते ॥
६,०६७.०८ ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिरृते भूत् ।
६,०६७.०८ तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः ॥
६,०६७.०९ प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति ।
६,०६७.०९ न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥
६,०६७.१० वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः ।
६,०६७.१० आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥
६,०६७.११ अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु ।
६,०६७.११ अनु यद्गाव स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन् ॥
६,०६८.०१ श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै ।
६,०६८.०१ आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् ॥
६,०६८.०२ ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् ।
६,०६८.०२ मघोनां मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥
६,०६८.०३ ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना ।
६,०६८.०३ वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः ॥
६,०६८.०४ ग्नाश्च यन्नरश्च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः ।
६,०६८.०४ प्रैभ्य इन्द्रावरुणा महित्वा द्यौश्च पृथिवि भूतमुर्वी ॥
६,०६८.०५ स इत्सुदानुः स्ववां ऋतावेन्द्रा यो वां वरुण दाशति त्मन् ।
६,०६८.०५ इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान् ॥
६,०६८.०६ यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम् ।
६,०६८.०६ अस्मे स इन्द्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः ॥
६,०६८.०७ उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् ।
६,०६८.०७ येषां शुष्मः पृतनासु साह्वान्प्र सद्यो द्युम्ना तिरते ततुरिः ॥
६,०६८.०८ नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा ।
६,०६८.०८ इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम ॥
६,०६८.०९ प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः ।
६,०६८.०९ अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा ॥
६,०६८.१० इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता ।
६,०६८.१० युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥
६,०६८.११ इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
६,०६८.११ इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथाम् ॥
६,०६९.०१ सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य ।
६,०६९.०१ जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥
६,०६९.०२ या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना ।
६,०६९.०२ प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥
६,०६९.०३ इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।
६,०६९.०३ सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥
६,०६९.०४ आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु ।
६,०६९.०४ जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥
६,०६९.०५ इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे ।
६,०६९.०५ अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥
६,०६९.०६ इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।
६,०६९.०६ घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः ॥
६,०६९.०७ इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ।
६,०६९.०७ आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥
६,०६९.०८ उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः ।
६,०६९.०८ इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥
६,०७०.०१ घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
६,०७०.०१ द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥
६,०७०.०२ असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते ।
६,०७०.०२ राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥
६,०७०.०३ यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति ।
६,०७०.०३ प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता ॥
६,०७०.०४ घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा ।
६,०७०.०४ उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥
६,०७०.०५ मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते ।
६,०७०.०५ दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥
६,०७०.०६ ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा ।
६,०७०.०६ संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम् ॥
६,०७१.०१ उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः ।
६,०७१.०१ घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥
६,०७१.०२ देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने ।
६,०७१.०२ यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥
६,०७१.०३ अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम् ।
६,०७१.०३ हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत ॥
६,०७१.०४ उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् ।
६,०७१.०४ अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥
६,०७१.०५ उदू अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका ।
६,०७१.०५ दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम् ॥
६,०७१.०६ वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः ।
६,०७१.०६ वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥
६,०७२.०१ इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः ।
६,०७२.०१ युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च ॥
६,०७२.०२ इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह ।
६,०७२.०२ उप द्यां स्कम्भथु स्कम्भनेनाप्रथतं पृथिवीं मातरं वि ॥
६,०७२.०३ इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।
६,०७२.०३ प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥
६,०७२.०४ इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु ।
६,०७२.०४ जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥
६,०७२.०५ इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे ।
६,०७२.०५ युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥
६,०७३.०१ यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।
६,०७३.०१ द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥
६,०७३.०२ जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार ।
६,०७३.०२ घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूंरमित्रान्पृत्सु साहन् ॥
६,०७३.०३ बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः ।
६,०७३.०३ अपः सिषासन्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥
६,०७४.०१ सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयोऽरमश्नुवन्तु ।
६,०७४.०१ दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥
६,०७४.०२ सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
६,०७४.०२ आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥
६,०७४.०३ सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् ।
६,०७४.०३ अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥
६,०७४.०४ तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः ।
६,०७४.०४ प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥
६,०७५.०१ जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे ।
६,०७५.०१ अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥
६,०७५.०२ धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
६,०७५.०२ धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥
६,०७५.०३ वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
६,०७५.०३ योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती ॥
६,०७५.०४ ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे ।
६,०७५.०४ अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥
६,०७५.०५ बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य ।
६,०७५.०५ इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
६,०७५.०६ रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।
६,०७५.०६ अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥
६,०७५.०७ तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः ।
६,०७५.०७ अवक्रामन्तः प्रपदैरमित्रान्क्षिणन्ति शत्रूंरनपव्ययन्तः ॥
६,०७५.०८ रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म ।
६,०७५.०८ तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥
६,०७५.०९ स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
६,०७५.०९ चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
६,०७५.१० ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा ।
६,०७५.१० पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत ॥
६,०७५.११ सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता ।
६,०७५.११ यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् ॥
६,०७५.१२ ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः ।
६,०७५.१२ सोमो अधि ब्रवीतु नोऽदितिः शर्म यच्छतु ॥
६,०७५.१३ आ जङ्घन्ति सान्वेषां जघनां उप जिघ्नते ।
६,०७५.१३ अश्वाजनि प्रचेतसोऽश्वान्समत्सु चोदय ॥
६,०७५.१४ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
६,०७५.१४ हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥
६,०७५.१५ आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम् ।
६,०७५.१५ इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः ॥
६,०७५.१६ अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
६,०७५.१६ गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः ॥
६,०७५.१७ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
६,०७५.१७ तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥
६,०७५.१८ मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
६,०७५.१८ उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥
६,०७५.१९ यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति ।
६,०७५.१९ देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥
ऋग्वेद ७
७,००१.०१ अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
७,००१.०१ दूरेदृशं गृहपतिमथर्युम् ॥
७,००१.०२ तमग्निमस्ते वसवो न्यृण्वन्सुप्रतिचक्षमवसे कुतश्चित् ।
७,००१.०२ दक्षाय्यो यो दम आस नित्यः ॥
७,००१.०३ प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।
७,००१.०३ त्वां शश्वन्त उप यन्ति वाजाः ॥
७,००१.०४ प्र ते अग्नयोऽग्निभ्यो वरं निः सुवीरासः शोशुचन्त द्युमन्तः ।
७,००१.०४ यत्रा नरः समासते सुजाताः ॥
७,००१.०५ दा नो अग्ने धिया रयिं सुवीरं स्वपत्यं सहस्य प्रशस्तम् ।
७,००१.०५ न यं यावा तरति यातुमावान् ॥
७,००१.०६ उप यमेति युवतिः सुदक्षं दोषा वस्तोर्हविष्मती घृताची ।
७,००१.०६ उप स्वैनमरमतिर्वसूयुः ॥
७,००१.०७ विश्वा अग्नेऽप दहारातीर्येभिस्तपोभिरदहो जरूथम् ।
७,००१.०७ प्र निस्वरं चातयस्वामीवाम् ॥
७,००१.०८ आ यस्ते अग्न इधते अनीकं वसिष्ठ शुक्र दीदिवः पावक ।
७,००१.०८ उतो न एभि स्तवथैरिह स्याः ॥
७,००१.०९ वि ये ते अग्ने भेजिरे अनीकं मर्ता नरः पित्र्यासः पुरुत्रा ।
७,००१.०९ उतो न एभिः सुमना इह स्याः ॥
७,००१.१० इमे नरो वृत्रहत्येषु शूरा विश्वा अदेवीरभि सन्तु मायाः ।
७,००१.१० ये मे धियं पनयन्त प्रशस्ताम् ॥
७,००१.११ मा शूने अग्ने नि षदाम नृणां माशेषसोऽवीरता परि त्वा ।
७,००१.११ प्रजावतीषु दुर्यासु दुर्य ॥
७,००१.१२ यमश्वी नित्यमुपयाति यज्ञं प्रजावन्तं स्वपत्यं क्षयं नः ।
७,००१.१२ स्वजन्मना शेषसा वावृधानम् ॥
७,००१.१३ पाहि नो अग्ने रक्षसो अजुष्टात्पाहि धूर्तेरररुषो अघायोः ।
७,००१.१३ त्वा युजा पृतनायूंरभि ष्याम् ॥
७,००१.१४ सेदग्निरग्नींरत्यस्त्वन्यान्यत्र वाजी तनयो वीळुपाणिः ।
७,००१.१४ सहस्रपाथा अक्षरा समेति ॥
७,००१.१५ सेदग्निर्यो वनुष्यतो निपाति समेद्धारमंहस उरुष्यात् ।
७,००१.१५ सुजातासः परि चरन्ति वीराः ॥
७,००१.१६ अयं सो अग्निराहुतः पुरुत्रा यमीशानः समिदिन्धे हविष्मान् ।
७,००१.१६ परि यमेत्यध्वरेषु होता ॥
७,००१.१७ त्वे अग्न आहवनानि भूरीशानास आ जुहुयाम नित्या ।
७,००१.१७ उभा कृण्वन्तो वहतू मियेधे ॥
७,००१.१८ इमो अग्ने वीततमानि हव्याजस्रो वक्षि देवतातिमच्छ ।
७,००१.१८ प्रति न ईं सुरभीणि व्यन्तु ॥
७,००१.१९ मा नो अग्नेऽवीरते परा दा दुर्वाससेऽमतये मा नो अस्यै ।
७,००१.१९ मा नः क्षुधे मा रक्षस ऋतावो मा नो दमे मा वन आ जुहूर्थाः ॥
७,००१.२० नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
७,००१.२० रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥
७,००१.२१ त्वमग्ने सुहवो रण्वसंदृक्सुदीती सूनो सहसो दिदीहि ।
७,००१.२१ मा त्वे सचा तनये नित्य आ धङ्मा वीरो अस्मन्नर्यो वि दासीत् ॥
७,००१.२२ मा नो अग्ने दुर्भृतये सचैषु देवेद्धेष्वग्निषु प्र वोचः ।
७,००१.२२ मा ते अस्मान्दुर्मतयो भृमाच्चिद्देवस्य सूनो सहसो नशन्त ॥
७,००१.२३ स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम् ।
७,००१.२३ स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥
७,००१.२४ महो नो अग्ने सुवितस्य विद्वान्रयिं सूरिभ्य आ वहा बृहन्तम् ।
७,००१.२४ येन वयं सहसावन्मदेमाविक्षितास आयुषा सुवीराः ॥
७,००१.२५ नू मे ब्रह्माण्यग्न उच्छशाधि त्वं देव मघवद्भ्यः सुषूदः ।
७,००१.२५ रातौ स्यामोभयास आ ते यूयं पात स्वस्तिभिः सदा नः ॥
७,००२.०१ जुषस्व नः समिधमग्ने अद्य शोचा बृहद्यजतं धूममृण्वन् ।
७,००२.०१ उप स्पृश दिव्यं सानु स्तूपैः सं रश्मिभिस्ततनः सूर्यस्य ॥
७,००२.०२ नराशंसस्य महिमानमेषामुप स्तोषाम यजतस्य यज्ञैः ।
७,००२.०२ ये सुक्रतवः शुचयो धियन्धाः स्वदन्ति देवा उभयानि हव्या ॥
७,००२.०३ ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम् ।
७,००२.०३ मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन्महेम ॥
७,००२.०४ सपर्यवो भरमाणा अभिज्ञु प्र वृञ्जते नमसा बर्हिरग्नौ ।
७,००२.०४ आजुह्वाना घृतपृष्ठं पृषद्वदध्वर्यवो हविषा मर्जयध्वम् ॥
७,००२.०५ स्वाध्यो वि दुरो देवयन्तोऽशिश्रयू रथयुर्देवताता ।
७,००२.०५ पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन् ॥
७,००२.०६ उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः ।
७,००२.०६ बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय श्रयेताम् ॥
७,००२.०७ विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै ।
७,००२.०७ ऊर्ध्वं नो अध्वरं कृतं हवेषु ता देवेषु वनथो वार्याणि ॥
७,००२.०८ आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
७,००२.०८ सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥
७,००२.०९ तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
७,००२.०९ यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
७,००२.१० वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
७,००२.१० सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
७,००२.११ आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
७,००२.११ बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥
७,००३.०१ अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वम् ।
७,००३.०१ यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥
७,००३.०२ प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।
७,००३.०२ आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥
७,००३.०३ उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।
७,००३.०३ अच्छा द्यामरुषो धूम एति सं दूतो अग्न ईयसे हि देवान् ॥
७,००३.०४ वि यस्य ते पृथिव्यां पाजो अश्रेत्तृषु यदन्ना समवृक्त जम्भैः ।
७,००३.०४ सेनेव सृष्टा प्रसितिष्ट एति यवं न दस्म जुह्वा विवेक्षि ॥
७,००३.०५ तमिद्दोषा तमुषसि यविष्ठमग्निमत्यं न मर्जयन्त नरः ।
७,००३.०५ निशिशाना अतिथिमस्य योनौ दीदाय शोचिराहुतस्य वृष्णः ॥
७,००३.०६ सुसंदृक्ते स्वनीक प्रतीकं वि यद्रुक्मो न रोचस उपाके ।
७,००३.०६ दिवो न ते तन्यतुरेति शुष्मश्चित्रो न सूरः प्रति चक्षि भानुम् ॥
७,००३.०७ यथा वः स्वाहाग्नये दाशेम परीळाभिर्घृतवद्भिश्च हव्यैः ।
७,००३.०७ तेभिर्नो अग्ने अमितैर्महोभिः शतं पूर्भिरायसीभिर्नि पाहि ॥
७,००३.०८ या वा ते सन्ति दाशुषे अधृष्टा गिरो वा याभिर्नृवतीरुरुष्याः ।
७,००३.०८ ताभिर्नः सूनो सहसो नि पाहि स्मत्सूरीञ्जरितॄञ्जातवेदः ॥
७,००३.०९ निर्यत्पूतेव स्वधितिः शुचिर्गात्स्वया कृपा तन्वा रोचमानः ।
७,००३.०९ आ यो मात्रोरुशेन्यो जनिष्ट देवयज्याय सुक्रतुः पावकः ॥
७,००३.१० एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
७,००३.१० विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
७,००४.०१ प्र वः शुक्राय भानवे भरध्वं हव्यं मतिं चाग्नये सुपूतम् ।
७,००४.०१ यो दैव्यानि मानुषा जनूंष्यन्तर्विश्वानि विद्मना जिगाति ॥
७,००४.०२ स गृत्सो अग्निस्तरुणश्चिदस्तु यतो यविष्ठो अजनिष्ट मातुः ।
७,००४.०२ सं यो वना युवते शुचिदन्भूरि चिदन्ना समिदत्ति सद्यः ॥
७,००४.०३ अस्य देवस्य संसद्यनीके यं मर्तासः श्येतं जगृभ्रे ।
७,००४.०३ नि यो गृभं पौरुषेयीमुवोच दुरोकमग्निरायवे शुशोच ॥
७,००४.०४ अयं कविरकविषु प्रचेता मर्तेष्वग्निरमृतो नि धायि ।
७,००४.०४ स मा नो अत्र जुहुरः सहस्वः सदा त्वे सुमनसः स्याम ॥
७,००४.०५ आ यो योनिं देवकृतं ससाद क्रत्वा ह्यग्निरमृतां अतारीत् ।
७,००४.०५ तमोषधीश्च वनिनश्च गर्भं भूमिश्च विश्वधायसं बिभर्ति ॥
७,००४.०६ ईशे ह्यग्निरमृतस्य भूरेरीशे रायः सुवीर्यस्य दातोः ।
७,००४.०६ मा त्वा वयं सहसावन्नवीरा माप्सवः परि षदाम मादुवः ॥
७,००४.०७ परिषद्यं ह्यरणस्य रेक्णो नित्यस्य रायः पतयः स्याम ।
७,००४.०७ न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥
७,००४.०८ नहि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ ।
७,००४.०८ अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळ् एतु नव्यः ॥
७,००४.०९ त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।
७,००४.०९ सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥
७,००४.१० एता नो अग्ने सौभगा दिदीह्यपि क्रतुं सुचेतसं वतेम ।
७,००४.१० विश्वा स्तोतृभ्यो गृणते च सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
७,००५.०१ प्राग्नये तवसे भरध्वं गिरं दिवो अरतये पृथिव्याः ।
७,००५.०१ यो विश्वेषाममृतानामुपस्थे वैश्वानरो वावृधे जागृवद्भिः ॥
७,००५.०२ पृष्टो दिवि धाय्यग्निः पृथिव्यां नेता सिन्धूनां वृषभ स्तियानाम् ।
७,००५.०२ स मानुषीरभि विशो वि भाति वैश्वानरो वावृधानो वरेण ॥
७,००५.०३ त्वद्भिया विश आयन्नसिक्नीरसमना जहतीर्भोजनानि ।
७,००५.०३ वैश्वानर पूरवे शोशुचानः पुरो यदग्ने दरयन्नदीदेः ॥
७,००५.०४ तव त्रिधातु पृथिवी उत द्यौर्वैश्वानर व्रतमग्ने सचन्त ।
७,००५.०४ त्वं भासा रोदसी आ ततन्थाजस्रेण शोचिषा शोशुचानः ॥
७,००५.०५ त्वामग्ने हरितो वावशाना गिरः सचन्ते धुनयो घृताचीः ।
७,००५.०५ पतिं कृष्टीनां रथ्यं रयीणां वैश्वानरमुषसां केतुमह्नाम् ॥
७,००५.०६ त्वे असुर्यं वसवो न्यृण्वन्क्रतुं हि ते मित्रमहो जुषन्त ।
७,००५.०६ त्वं दस्यूंरोकसो अग्न आज उरु ज्योतिर्जनयन्नार्याय ॥
७,००५.०७ स जायमानः परमे व्योमन्वायुर्न पाथः परि पासि सद्यः ।
७,००५.०७ त्वं भुवना जनयन्नभि क्रन्नपत्याय जातवेदो दशस्यन् ॥
७,००५.०८ तामग्ने अस्मे इषमेरयस्व वैश्वानर द्युमतीं जातवेदः ।
७,००५.०८ यया राधः पिन्वसि विश्ववार पृथु श्रवो दाशुषे मर्त्याय ॥
७,००५.०९ तं नो अग्ने मघवद्भ्यः पुरुक्षुं रयिं नि वाजं श्रुत्यं युवस्व ।
७,००५.०९ वैश्वानर महि नः शर्म यच्छ रुद्रेभिरग्ने वसुभिः सजोषाः ॥
७,००६.०१ प्र सम्राजो असुरस्य प्रशस्तिं पुंसः कृष्टीनामनुमाद्यस्य ।
७,००६.०१ इन्द्रस्येव प्र तवसस्कृतानि वन्दे दारुं वन्दमानो विवक्मि ॥
७,००६.०२ कविं केतुं धासिं भानुमद्रेर्हिन्वन्ति शं राज्यं रोदस्योः ।
७,००६.०२ पुरन्दरस्य गीर्भिरा विवासेऽग्नेर्व्रतानि पूर्व्या महानि ॥
७,००६.०३ न्यक्रतून्ग्रथिनो मृध्रवाचः पणींरश्रद्धां अवृधां अयज्ञान् ।
७,००६.०३ प्रप्र तान्दस्यूंरग्निर्विवाय पूर्वश्चकारापरां अयज्यून् ॥
७,००६.०४ यो अपाचीने तमसि मदन्तीः प्राचीश्चकार नृतमः शचीभिः ।
७,००६.०४ तमीशानं वस्वो अग्निं गृणीषेऽनानतं दमयन्तं पृतन्यून् ॥
७,००६.०५ यो देह्यो अनमयद्वधस्नैर्यो अर्यपत्नीरुषसश्चकार ।
७,००६.०५ स निरुध्या नहुषो यह्वो अग्निर्विशश्चक्रे बलिहृतः सहोभिः ॥
७,००६.०६ यस्य शर्मन्नुप विश्वे जनास एवैस्तस्थुः सुमतिं भिक्षमाणाः ।
७,००६.०६ वैश्वानरो वरमा रोदस्योराग्निः ससाद पित्रोरुपस्थम् ॥
७,००६.०७ आ देवो ददे बुध्न्या वसूनि वैश्वानर उदिता सूर्यस्य ।
७,००६.०७ आ समुद्रादवरादा परस्मादाग्निर्ददे दिव आ पृथिव्याः ॥
७,००७.०१ प्र वो देवं चित्सहसानमग्निमश्वं न वाजिनं हिषे नमोभिः ।
७,००७.०१ भवा नो दूतो अध्वरस्य विद्वान्त्मना देवेषु विविदे मितद्रुः ॥
७,००७.०२ आ याह्यग्ने पथ्या अनु स्वा मन्द्रो देवानां सख्यं जुषाणः ।
७,००७.०२ आ सानु शुष्मैर्नदयन्पृथिव्या जम्भेभिर्विश्वमुशधग्वनानि ॥
७,००७.०३ प्राचीनो यज्ञः सुधितं हि बर्हिः प्रीणीते अग्निरीळितो न होता ।
७,००७.०३ आ मातरा विश्ववारे हुवानो यतो यविष्ठ जज्ञिषे सुशेवः ॥
७,००७.०४ सद्यो अध्वरे रथिरं जनन्त मानुषासो विचेतसो य एषाम् ।
७,००७.०४ विशामधायि विश्पतिर्दुरोणेऽग्निर्मन्द्रो मधुवचा ऋतावा ॥
७,००७.०५ असादि वृतो वह्निराजगन्वानग्निर्ब्रह्मा नृषदने विधर्ता ।
७,००७.०५ द्यौश्च यं पृथिवी वावृधाते आ यं होता यजति विश्ववारम् ॥
७,००७.०६ एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन् ।
७,००७.०६ प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य ॥
७,००७.०७ नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
७,००७.०७ इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥
७,००८.०१ इन्धे राजा समर्यो नमोभिर्यस्य प्रतीकमाहुतं घृतेन ।
७,००८.०१ नरो हव्येभिरीळते सबाध आग्निरग्र उषसामशोचि ॥
७,००८.०२ अयमु ष्य सुमहां अवेदि होता मन्द्रो मनुषो यह्वो अग्निः ।
७,००८.०२ वि भा अकः ससृजानः पृथिव्यां कृष्णपविरोषधीभिर्ववक्षे ॥
७,००८.०३ कया नो अग्ने वि वसः सुवृक्तिं कामु स्वधामृणवः शस्यमानः ।
७,००८.०३ कदा भवेम पतयः सुदत्र रायो वन्तारो दुष्टरस्य साधोः ॥
७,००८.०४ प्रप्रायमग्निर्भरतस्य शृण्वे वि यत्सूर्यो न रोचते बृहद्भाः ।
७,००८.०४ अभि यः पूरुं पृतनासु तस्थौ द्युतानो दैव्यो अतिथिः शुशोच ॥
७,००८.०५ असन्नित्त्वे आहवनानि भूरि भुवो विश्वेभिः सुमना अनीकैः ।
७,००८.०५ स्तुतश्चिदग्ने शृण्विषे गृणानः स्वयं वर्धस्व तन्वं सुजात ॥
७,००८.०६ इदं वचः शतसाः संसहस्रमुदग्नये जनिषीष्ट द्विबर्हाः ।
७,००८.०६ शं यत्स्तोतृभ्य आपये भवाति द्युमदमीवचातनं रक्षोहा ॥
७,००८.०७ नू त्वामग्न ईमहे वसिष्ठा ईशानं सूनो सहसो वसूनाम् ।
७,००८.०७ इषं स्तोतृभ्यो मघवद्भ्य आनड्यूयं पात स्वस्तिभिः सदा नः ॥
७,००९.०१ अबोधि जार उषसामुपस्थाद्धोता मन्द्रः कवितमः पावकः ।
७,००९.०१ दधाति केतुमुभयस्य जन्तोर्हव्या देवेषु द्रविणं सुकृत्सु ॥
७,००९.०२ स सुक्रतुर्यो वि दुरः पणीनां पुनानो अर्कं पुरुभोजसं नः ।
७,००९.०२ होता मन्द्रो विशां दमूनास्तिरस्तमो ददृशे राम्याणाम् ॥
७,००९.०३ अमूरः कविरदितिर्विवस्वान्सुसंसन्मित्रो अतिथिः शिवो नः ।
७,००९.०३ चित्रभानुरुषसां भात्यग्रेऽपां गर्भः प्रस्व आ विवेश ॥
७,००९.०४ ईळेन्यो वो मनुषो युगेषु समनगा अशुचज्जातवेदाः ।
७,००९.०४ सुसंदृशा भानुना यो विभाति प्रति गावः समिधानं बुधन्त ॥
७,००९.०५ अग्ने याहि दूत्यं मा रिषण्यो देवां अच्छा ब्रह्मकृता गणेन ।
७,००९.०५ सरस्वतीं मरुतो अश्विनापो यक्षि देवान्रत्नधेयाय विश्वान् ॥
७,००९.०६ त्वामग्ने समिधानो वसिष्ठो जरूथं हन्यक्षि राये पुरन्धिम् ।
७,००९.०६ पुरुणीथा जातवेदो जरस्व यूयं पात स्वस्तिभिः सदा नः ॥
७,०१०.०१ उषो न जारः पृथु पाजो अश्रेद्दविद्युतद्दीद्यच्छोशुचानः ।
७,०१०.०१ वृषा हरिः शुचिरा भाति भासा धियो हिन्वान उशतीरजीगः ॥
७,०१०.०२ स्वर्ण वस्तोरुषसामरोचि यज्ञं तन्वाना उशिजो न मन्म ।
७,०१०.०२ अग्निर्जन्मानि देव आ वि विद्वान्द्रवद्दूतो देवयावा वनिष्ठः ॥
७,०१०.०३ अच्छा गिरो मतयो देवयन्तीरग्निं यन्ति द्रविणं भिक्षमाणाः ।
७,०१०.०३ सुसंदृशं सुप्रतीकं स्वञ्चं हव्यवाहमरतिं मानुषाणाम् ॥
७,०१०.०४ इन्द्रं नो अग्ने वसुभिः सजोषा रुद्रं रुद्रेभिरा वहा बृहन्तम् ।
७,०१०.०४ आदित्येभिरदितिं विश्वजन्यां बृहस्पतिमृक्वभिर्विश्ववारम् ॥
७,०१०.०५ मन्द्रं होतारमुशिजो यविष्ठमग्निं विश ईळते अध्वरेषु ।
७,०१०.०५ स हि क्षपावां अभवद्रयीणामतन्द्रो दूतो यजथाय देवान् ॥
७,०११.०१ महां अस्यध्वरस्य प्रकेतो न ऋते त्वदमृता मादयन्ते ।
७,०११.०१ आ विश्वेभिः सरथं याहि देवैर्न्यग्ने होता प्रथमः सदेह ॥
७,०११.०२ त्वामीळते अजिरं दूत्याय हविष्मन्तः सदमिन्मानुषासः ।
७,०११.०२ यस्य देवैरासदो बर्हिरग्नेऽहान्यस्मै सुदिना भवन्ति ॥
७,०११.०३ त्रिश्चिदक्तोः प्र चिकितुर्वसूनि त्वे अन्तर्दाशुषे मर्त्याय ।
७,०११.०३ मनुष्वदग्न इह यक्षि देवान्भवा नो दूतो अभिशस्तिपावा ॥
७,०११.०४ अग्निरीशे बृहतो अध्वरस्याग्निर्विश्वस्य हविषः कृतस्य ।
७,०११.०४ क्रतुं ह्यस्य वसवो जुषन्ताथा देवा दधिरे हव्यवाहम् ॥
७,०११.०५ आग्ने वह हविरद्याय देवानिन्द्रज्येष्ठास इह मादयन्ताम् ।
७,०११.०५ इमं यज्ञं दिवि देवेषु धेहि यूयं पात स्वस्तिभिः सदा नः ॥
७,०१२.०१ अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः स्वे दुरोणे ।
७,०१२.०१ चित्रभानुं रोदसी अन्तरुर्वी स्वाहुतं विश्वतः प्रत्यञ्चम् ॥
७,०१२.०२ स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः ।
७,०१२.०२ स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥
७,०१२.०३ त्वं वरुण उत मित्रो अग्ने त्वां वर्धन्ति मतिभिर्वसिष्ठाः ।
७,०१२.०३ त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
७,०१३.०१ प्राग्नये विश्वशुचे धियन्धेऽसुरघ्ने मन्म धीतिं भरध्वम् ।
७,०१३.०१ भरे हविर्न बर्हिषि प्रीणानो वैश्वानराय यतये मतीनाम् ॥
७,०१३.०२ त्वमग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः ।
७,०१३.०२ त्वं देवां अभिशस्तेरमुञ्चो वैश्वानर जातवेदो महित्वा ॥
७,०१३.०३ जातो यदग्ने भुवना व्यख्यः पशून्न गोपा इर्यः परिज्मा ।
७,०१३.०३ वैश्वानर ब्रह्मणे विन्द गातुं यूयं पात स्वस्तिभिः सदा नः ॥
७,०१४.०१ समिधा जातवेदसे देवाय देवहूतिभिः ।
७,०१४.०१ हविर्भिः शुक्रशोचिषे नमस्विनो वयं दाशेमाग्नये ॥
७,०१४.०२ वयं ते अग्ने समिधा विधेम वयं दाशेम सुष्टुती यजत्र ।
७,०१४.०२ वयं घृतेनाध्वरस्य होतर्वयं देव हविषा भद्रशोचे ॥
७,०१४.०३ आ नो देवेभिरुप देवहूतिमग्ने याहि वषट्कृतिं जुषाणः ।
७,०१४.०३ तुभ्यं देवाय दाशतः स्याम यूयं पात स्वस्तिभिः सदा नः ॥
७,०१५.०१ उपसद्याय मीळ्हुष आस्ये जुहुता हविः ।
७,०१५.०१ यो नो नेदिष्ठमाप्यम् ॥
७,०१५.०२ यः पञ्च चर्षणीरभि निषसाद दमेदमे ।
७,०१५.०२ कविर्गृहपतिर्युवा ॥
७,०१५.०३ स नो वेदो अमात्यमग्नी रक्षतु विश्वतः ।
७,०१५.०३ उतास्मान्पात्वंहसः ॥
७,०१५.०४ नवं नु स्तोममग्नये दिवः श्येनाय जीजनम् ।
७,०१५.०४ वस्वः कुविद्वनाति नः ॥
७,०१५.०५ स्पार्हा यस्य श्रियो दृशे रयिर्वीरवतो यथा ।
७,०१५.०५ अग्रे यज्ञस्य शोचतः ॥
७,०१५.०६ सेमां वेतु वषट्कृतिमग्निर्जुषत नो गिरः ।
७,०१५.०६ यजिष्ठो हव्यवाहनः ॥
७,०१५.०७ नि त्वा नक्ष्य विश्पते द्युमन्तं देव धीमहि ।
७,०१५.०७ सुवीरमग्न आहुत ॥
७,०१५.०८ क्षप उस्रश्च दीदिहि स्वग्नयस्त्वया वयम् ।
७,०१५.०८ सुवीरस्त्वमस्मयुः ॥
७,०१५.०९ उप त्वा सातये नरो विप्रासो यन्ति धीतिभिः ।
७,०१५.०९ उपाक्षरा सहस्रिणी ॥
७,०१५.१० अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
७,०१५.१० शुचिः पावक ईड्यः ॥
७,०१५.११ स नो राधांस्या भरेशानः सहसो यहो ।
७,०१५.११ भगश्च दातु वार्यम् ॥
७,०१५.१२ त्वमग्ने वीरवद्यशो देवश्च सविता भगः ।
७,०१५.१२ दितिश्च दाति वार्यम् ॥
७,०१५.१३ अग्ने रक्षा णो अंहसः प्रति ष्म देव रीषतः ।
७,०१५.१३ तपिष्ठैरजरो दह ॥
७,०१५.१४ अधा मही न आयस्यनाधृष्टो नृपीतये ।
७,०१५.१४ पूर्भवा शतभुजिः ॥
७,०१५.१५ त्वं नः पाह्यंहसो दोषावस्तरघायतः ।
७,०१५.१५ दिवा नक्तमदाभ्य ॥
७,०१६.०१ एना वो अग्निं नमसोर्जो नपातमा हुवे ।
७,०१६.०१ प्रियं चेतिष्ठमरतिं स्वध्वरं विश्वस्य दूतममृतम् ॥
७,०१६.०२ स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः ।
७,०१६.०२ सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥
७,०१६.०३ उदस्य शोचिरस्थादाजुह्वानस्य मीळ्हुषः ।
७,०१६.०३ उद्धूमासो अरुषासो दिविस्पृशः समग्निमिन्धते नरः ॥
७,०१६.०४ तं त्वा दूतं कृण्महे यशस्तमं देवां आ वीतये वह ।
७,०१६.०४ विश्वा सूनो सहसो मर्तभोजना रास्व तद्यत्त्वेमहे ॥
७,०१६.०५ त्वमग्ने गृहपतिस्त्वं होता नो अध्वरे ।
७,०१६.०५ त्वं पोता विश्ववार प्रचेता यक्षि वेषि च वार्यम् ॥
७,०१६.०६ कृधि रत्नं यजमानाय सुक्रतो त्वं हि रत्नधा असि ।
७,०१६.०६ आ न ऋते शिशीहि विश्वमृत्विजं सुशंसो यश्च दक्षते ॥
७,०१६.०७ त्वे अग्ने स्वाहुत प्रियासः सन्तु सूरयः ।
७,०१६.०७ यन्तारो ये मघवानो जनानामूर्वान्दयन्त गोनाम् ॥
७,०१६.०८ येषामिळा घृतहस्ता दुरोण आं अपि प्राता निषीदति ।
७,०१६.०८ तांस्त्रायस्व सहस्य द्रुहो निदो यच्छा नः शर्म दीर्घश्रुत् ॥
७,०१६.०९ स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः ।
७,०१६.०९ अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥
७,०१६.१० ये राधांसि ददत्यश्व्या मघा कामेन श्रवसो महः ।
७,०१६.१० तां अंहसः पिपृहि पर्तृभिष्ट्वं शतं पूर्भिर्यविष्ठ्य ॥
७,०१६.११ देवो वो द्रविणोदाः पूर्णां विवष्ट्यासिचम् ।
७,०१६.११ उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥
७,०१६.१२ तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।
७,०१६.१२ दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥
७,०१७.०१ अग्ने भव सुषमिधा समिद्ध उत बर्हिरुर्विया वि स्तृणीताम् ॥
७,०१७.०२ उत द्वार उशतीर्वि श्रयन्तामुत देवां उशत आ वहेह ॥
७,०१७.०३ अग्ने वीहि हविषा यक्षि देवान्स्वध्वरा कृणुहि जातवेदः ॥
७,०१७.०४ स्वध्वरा करति जातवेदा यक्षद्देवां अमृतान्पिप्रयच्च ॥
७,०१७.०५ वंस्व विश्वा वार्याणि प्रचेतः सत्या भवन्त्वाशिषो नो अद्य ॥
७,०१७.०६ त्वामु ते दधिरे हव्यवाहं देवासो अग्न ऊर्ज आ नपातम् ॥
७,०१७.०७ ते ते देवाय दाशतः स्याम महो नो रत्ना वि दध इयानः ॥
७,०१८.०१ त्वे ह यत्पितरश्चिन्न इन्द्र विश्वा वामा जरितारो असन्वन् ।
७,०१८.०१ त्वे गावः सुदुघास्त्वे ह्यश्वास्त्वं वसु देवयते वनिष्ठः ॥
७,०१८.०२ राजेव हि जनिभिः क्षेष्येवाव द्युभिरभि विदुष्कविः सन् ।
७,०१८.०२ पिशा गिरो मघवन्गोभिरश्वैस्त्वायतः शिशीहि राये अस्मान् ॥
७,०१८.०३ इमा उ त्वा पस्पृधानासो अत्र मन्द्रा गिरो देवयन्तीरुप स्थुः ।
७,०१८.०३ अर्वाची ते पथ्या राय एतु स्याम ते सुमताविन्द्र शर्मन् ॥
७,०१८.०४ धेनुं न त्वा सूयवसे दुदुक्षन्नुप ब्रह्माणि ससृजे वसिष्ठः ।
७,०१८.०४ त्वामिन्मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वच्छ ॥
७,०१८.०५ अर्णांसि चित्पप्रथाना सुदास इन्द्रो गाधान्यकृणोत्सुपारा ।
७,०१८.०५ शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामकृणोदशस्तीः ॥
७,०१८.०६ पुरोळा इत्तुर्वशो यक्षुरासीद्राये मत्स्यासो निशिता अपीव ।
७,०१८.०६ श्रुष्टिं चक्रुर्भृगवो द्रुह्यवश्च सखा सखायमतरद्विषूचोः ॥
७,०१८.०७ आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः ।
७,०१८.०७ आ योऽनयत्सधमा आर्यस्य गव्या तृत्सुभ्यो अजगन्युधा नॄन् ॥
७,०१८.०८ दुराध्यो अदितिं स्रेवयन्तोऽचेतसो वि जगृभ्रे परुष्णीम् ।
७,०१८.०८ मह्नाविव्यक्पृथिवीं पत्यमानः पशुष्कविरशयच्चायमानः ॥
७,०१८.०९ ईयुरर्थं न न्यर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम ।
७,०१८.०९ सुदास इन्द्रः सुतुकां अमित्रानरन्धयन्मानुषे वध्रिवाचः ॥
७,०१८.१० ईयुर्गावो न यवसादगोपा यथाकृतमभि मित्रं चितासः ।
७,०१८.१० पृश्निगावः पृश्निनिप्रेषितासः श्रुष्टिं चक्रुर्नियुतो रन्तयश्च ॥
७,०१८.११ एकं च यो विंशतिं च श्रवस्या वैकर्णयोर्जनान्राजा न्यस्तः ।
७,०१८.११ दस्मो न सद्मन्नि शिशाति बर्हिः शूरः सर्गमकृणोदिन्द्र एषाम् ॥
७,०१८.१२ अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः ।
७,०१८.१२ वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥
७,०१८.१३ वि सद्यो विश्वा दृंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः ।
७,०१८.१३ व्यानवस्य तृत्सवे गयं भाग्जेष्म पूरुं विदथे मृध्रवाचम् ॥
७,०१८.१४ नि गव्यवोऽनवो द्रुह्यवश्च षष्टिः शता सुषुपुः षट्सहस्रा ।
७,०१८.१४ षष्टिर्वीरासो अधि षड्दुवोयु विश्वेदिन्द्रस्य वीर्या कृतानि ॥
७,०१८.१५ इन्द्रेणैते तृत्सवो वेविषाणा आपो न सृष्टा अधवन्त नीचीः ।
७,०१८.१५ दुर्मित्रासः प्रकलविन्मिमाना जहुर्विश्वानि भोजना सुदासे ॥
७,०१८.१६ अर्धं वीरस्य शृतपामनिन्द्रं परा शर्धन्तं नुनुदे अभि क्षाम् ।
७,०१८.१६ इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिं पत्यमानः ॥
७,०१८.१७ आध्रेण चित्तद्वेकं चकार सिंह्यं चित्पेत्वेना जघान ।
७,०१८.१७ अव स्रक्तीर्वेश्यावृश्चदिन्द्रः प्रायच्छद्विश्वा भोजना सुदासे ॥
७,०१८.१८ शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम् ।
७,०१८.१८ मर्तां एन स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र ॥
७,०१८.१९ आवदिन्द्रं यमुना तृत्सवश्च प्रात्र भेदं सर्वताता मुषायत् ।
७,०१८.१९ अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि ॥
७,०१८.२० न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः ।
७,०१८.२० देवकं चिन्मान्यमानं जघन्थाव त्मना बृहतः शम्बरं भेत् ॥
७,०१८.२१ प्र ये गृहादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः ।
७,०१८.२१ न ते भोजस्य सख्यं मृषन्ताधा सूरिभ्यः सुदिना व्युच्छान् ॥
७,०१८.२२ द्वे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः ।
७,०१८.२२ अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन् ॥
७,०१८.२३ चत्वारो मा पैजवनस्य दानाः स्मद्दिष्टयः कृशनिनो निरेके ।
७,०१८.२३ ऋज्रासो मा पृथिविष्ठाः सुदासस्तोकं तोकाय श्रवसे वहन्ति ॥
७,०१८.२४ यस्य श्रवो रोदसी अन्तरुर्वी शीर्ष्णेशीर्ष्णे विबभाजा विभक्ता ।
७,०१८.२४ सप्तेदिन्द्रं न स्रवतो गृणन्ति नि युध्यामधिमशिशादभीके ॥
७,०१८.२५ इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः ।
७,०१८.२५ अविष्टना पैजवनस्य केतं दूणाशं क्षत्रमजरं दुवोयु ॥
७,०१९.०१ यस्तिग्मशृङ्गो वृषभो न भीम एकः कृष्टीश्च्यावयति प्र विश्वाः ।
७,०१९.०१ यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥
७,०१९.०२ त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।
७,०१९.०२ दासं यच्छुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥
७,०१९.०३ त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।
७,०१९.०३ प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥
७,०१९.०४ त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
७,०१९.०४ त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥
७,०१९.०५ तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।
७,०१९.०५ निवेशने शततमाविवेषीरहञ्च वृत्रं नमुचिमुताहन् ॥
७,०१९.०६ सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
७,०१९.०६ वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥
७,०१९.०७ मा ते अस्यां सहसावन्परिष्टावघाय भूम हरिवः परादै ।
७,०१९.०७ त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥
७,०१९.०८ प्रियास इत्ते मघवन्नभिष्टौ नरो मदेम शरणे सखायः ।
७,०१९.०८ नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥
७,०१९.०९ सद्यश्चिन्नु ते मघवन्नभिष्टौ नरः शंसन्त्युक्थशास उक्था ।
७,०१९.०९ ये ते हवेभिर्वि पणींरदाशन्नस्मान्वृणीष्व युज्याय तस्मै ॥
७,०१९.१० एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।
७,०१९.१० तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥
७,०१९.११ नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।
७,०१९.११ उप नो वाजान्मिमीह्युप स्तीन्यूयं पात स्वस्तिभिः सदा नः ॥
७,०२०.०१ उग्रो जज्ञे वीर्याय स्वधावाञ्चक्रिरपो नर्यो यत्करिष्यन् ।
७,०२०.०१ जग्मिर्युवा नृषदनमवोभिस्त्राता न इन्द्र एनसो महश्चित् ॥
७,०२०.०२ हन्ता वृत्रमिन्द्रः शूशुवानः प्रावीन्नु वीरो जरितारमूती ।
७,०२०.०२ कर्ता सुदासे अह वा उ लोकं दाता वसु मुहुरा दाशुषे भूत् ॥
७,०२०.०३ युध्मो अनर्वा खजकृत्समद्वा शूरः सत्राषाड्जनुषेमषाळ्हः ।
७,०२०.०३ व्यास इन्द्रः पृतनाः स्वोजा अधा विश्वं शत्रूयन्तं जघान ॥
७,०२०.०४ उभे चिदिन्द्र रोदसी महित्वा पप्राथ तविषीभिस्तुविष्मः ।
७,०२०.०४ नि वज्रमिन्द्रो हरिवान्मिमिक्षन्समन्धसा मदेषु वा उवोच ॥
७,०२०.०५ वृषा जजान वृषणं रणाय तमु चिन्नारी नर्यं ससूव ।
७,०२०.०५ प्र यः सेनानीरध नृभ्यो अस्तीनः सत्वा गवेषणः स धृष्णुः ॥
७,०२०.०६ नू चित्स भ्रेषते जनो न रेषन्मनो यो अस्य घोरमाविवासात् ।
७,०२०.०६ यज्ञैर्य इन्द्रे दधते दुवांसि क्षयत्स राय ऋतपा ऋतेजाः ॥
७,०२०.०७ यदिन्द्र पूर्वो अपराय शिक्षन्नयज्ज्यायान्कनीयसो देष्णम् ।
७,०२०.०७ अमृत इत्पर्यासीत दूरमा चित्र चित्र्यं भरा रयिं नः ॥
७,०२०.०८ यस्त इन्द्र प्रियो जनो ददाशदसन्निरेके अद्रिवः सखा ते ।
७,०२०.०८ वयं ते अस्यां सुमतौ चनिष्ठाः स्याम वरूथे अघ्नतो नृपीतौ ॥
७,०२०.०९ एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट ।
७,०२०.०९ रायस्कामो जरितारं त आगन्त्वमङ्ग शक्र वस्व आ शको नः ॥
७,०२०.१० स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
७,०२०.१० वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥
७,०२१.०१ असावि देवं गोऋजीकमन्धो न्यस्मिन्निन्द्रो जनुषेमुवोच ।
७,०२१.०१ बोधामसि त्वा हर्यश्व यज्ञैर्बोधा न स्तोममन्धसो मदेषु ॥
७,०२१.०२ प्र यन्ति यज्ञं विपयन्ति बर्हिः सोममादो विदथे दुध्रवाचः ।
७,०२१.०२ न्यु भ्रियन्ते यशसो गृभादा दूरौपब्दो वृषणो नृषाचः ॥
७,०२१.०३ त्वमिन्द्र स्रवितवा अपस्कः परिष्ठिता अहिना शूर पूर्वीः ।
७,०२१.०३ त्वद्वावक्रे रथ्यो न धेना रेजन्ते विश्वा कृत्रिमाणि भीषा ॥
७,०२१.०४ भीमो विवेषायुधेभिरेषामपांसि विश्वा नर्याणि विद्वान् ।
७,०२१.०४ इन्द्रः पुरो जर्हृषाणो वि दूधोद्वि वज्रहस्तो महिना जघान ॥
७,०२१.०५ न यातव इन्द्र जूजुवुर्नो न वन्दना शविष्ठ वेद्याभिः ।
७,०२१.०५ स शर्धदर्यो विषुणस्य जन्तोर्मा शिश्नदेवा अपि गुरृतं नः ॥
७,०२१.०६ अभि क्रत्वेन्द्र भूरध ज्मन्न ते विव्यङ्महिमानं रजांसि ।
७,०२१.०६ स्वेना हि वृत्रं शवसा जघन्थ न शत्रुरन्तं विविदद्युधा ते ॥
७,०२१.०७ देवाश्चित्ते असुर्याय पूर्वेऽनु क्षत्राय ममिरे सहांसि ।
७,०२१.०७ इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहुवन्त सातौ ॥
७,०२१.०८ कीरिश्चिद्धि त्वामवसे जुहावेशानमिन्द्र सौभगस्य भूरेः ।
७,०२१.०८ अवो बभूथ शतमूते अस्मे अभिक्षत्तुस्त्वावतो वरूता ॥
७,०२१.०९ सखायस्त इन्द्र विश्वह स्याम नमोवृधासो महिना तरुत्र ।
७,०२१.०९ वन्वन्तु स्मा तेऽवसा समीकेऽभीतिमर्यो वनुषां शवांसि ॥
७,०२१.१० स न इन्द्र त्वयताया इषे धास्त्मना च ये मघवानो जुनन्ति ।
७,०२१.१० वस्वी षु ते जरित्रे अस्तु शक्तिर्यूयं पात स्वस्तिभिः सदा नः ॥
७,०२२.०१ पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
७,०२२.०१ सोतुर्बाहुभ्यां सुयतो नार्वा ॥
७,०२२.०२ यस्ते मदो युज्यश्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
७,०२२.०२ स त्वामिन्द्र प्रभूवसो ममत्तु ॥
७,०२२.०३ बोधा सु मे मघवन्वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
७,०२२.०३ इमा ब्रह्म सधमादे जुषस्व ॥
७,०२२.०४ श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषाम् ।
७,०२२.०४ कृष्वा दुवांस्यन्तमा सचेमा ॥
७,०२२.०५ न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।
७,०२२.०५ सदा ते नाम स्वयशो विवक्मि ॥
७,०२२.०६ भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।
७,०२२.०६ मारे अस्मन्मघवञ्ज्योक्कः ॥
७,०२२.०७ तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।
७,०२२.०७ त्वं नृभिर्हव्यो विश्वधासि ॥
७,०२२.०८ नू चिन्नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।
७,०२२.०८ न वीर्यमिन्द्र ते न राधः ॥
७,०२२.०९ ये च पूर्व ऋषयो ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः ।
७,०२२.०९ अस्मे ते सन्तु सख्या शिवानि यूयं पात स्वस्तिभिः सदा नः ॥
७,०२३.०१ उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
७,०२३.०१ आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥
७,०२३.०२ अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।
७,०२३.०२ नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥
७,०२३.०३ युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।
७,०२३.०३ वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥
७,०२३.०४ आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्नृतं जरितारस्त इन्द्र ।
७,०२३.०४ याहि वायुर्न नियुतो नो अच्छा त्वं हि धीभिर्दयसे वि वाजान् ॥
७,०२३.०५ ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
७,०२३.०५ एको देवत्रा दयसे हि मर्तानस्मिञ्छूर सवने मादयस्व ॥
७,०२३.०६ एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
७,०२३.०६ स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥
७,०२४.०१ योनिष्ट इन्द्र सदने अकारि तमा नृभिः पुरुहूत प्र याहि ।
७,०२४.०१ असो यथा नोऽविता वृधे च ददो वसूनि ममदश्च सोमैः ॥
७,०२४.०२ गृभीतं ते मन इन्द्र द्विबर्हाः सुतः सोमः परिषिक्ता मधूनि ।
७,०२४.०२ विसृष्टधेना भरते सुवृक्तिरियमिन्द्रं जोहुवती मनीषा ॥
७,०२४.०३ आ नो दिव आ पृथिव्या ऋजीषिन्निदं बर्हिः सोमपेयाय याहि ।
७,०२४.०३ वहन्तु त्वा हरयो मद्र्यञ्चमाङ्गूषमच्छा तवसं मदाय ॥
७,०२४.०४ आ नो विश्वाभिरूतिभिः सजोषा ब्रह्म जुषाणो हर्यश्व याहि ।
७,०२४.०४ वरीवृजत्स्थविरेभिः सुशिप्रास्मे दधद्वृषणं शुष्ममिन्द्र ॥
७,०२४.०५ एष स्तोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि ।
७,०२४.०५ इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥
७,०२४.०६ एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
७,०२४.०६ इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥
७,०२५.०१ आ ते मह इन्द्रोत्युग्र समन्यवो यत्समरन्त सेनाः ।
७,०२५.०१ पताति दिद्युन्नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग्वि चारीत् ॥
७,०२५.०२ नि दुर्ग इन्द्र श्नथिह्यमित्रां अभि ये नो मर्तासो अमन्ति ।
७,०२५.०२ आरे तं शंसं कृणुहि निनित्सोरा नो भर सम्भरणं वसूनाम् ॥
७,०२५.०३ शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु ।
७,०२५.०३ जहि वधर्वनुषो मर्त्यस्यास्मे द्युम्नमधि रत्नं च धेहि ॥
७,०२५.०४ त्वावतो हीन्द्र क्रत्वे अस्मि त्वावतोऽवितुः शूर रातौ ।
७,०२५.०४ विश्वेदहानि तविषीव उग्रं ओकः कृणुष्व हरिवो न मर्धीः ॥
७,०२५.०५ कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः ।
७,०२५.०५ सत्रा कृधि सुहना शूर वृत्रा वयं तरुत्राः सनुयाम वाजम् ॥
७,०२५.०६ एवा न इन्द्र वार्यस्य पूर्धि प्र ते महीं सुमतिं वेविदाम ।
७,०२५.०६ इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात स्वस्तिभिः सदा नः ॥
७,०२६.०१ न सोम इन्द्रमसुतो ममाद नाब्रह्माणो मघवानं सुतासः ।
७,०२६.०१ तस्मा उक्थं जनये यज्जुजोषन्नृवन्नवीयः शृणवद्यथा नः ॥
७,०२६.०२ उक्थौक्थे सोम इन्द्रं ममाद नीथेनीथे मघवानं सुतासः ।
७,०२६.०२ यदीं सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥
७,०२६.०३ चकार ता कृणवन्नूनमन्या यानि ब्रुवन्ति वेधसः सुतेषु ।
७,०२६.०३ जनीरिव पतिरेकः समानो नि मामृजे पुर इन्द्रः सु सर्वाः ॥
७,०२६.०४ एवा तमाहुरुत शृण्व इन्द्र एको विभक्ता तरणिर्मघानाम् ।
७,०२६.०४ मिथस्तुर ऊतयो यस्य पूर्वीरस्मे भद्राणि सश्चत प्रियाणि ॥
७,०२६.०५ एवा वसिष्ठ इन्द्रमूतये नॄन्कृष्टीनां वृषभं सुते गृणाति ।
७,०२६.०५ सहस्रिण उप नो माहि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥
७,०२७.०१ इन्द्रं नरो नेमधिता हवन्ते यत्पार्या युनजते धियस्ताः ।
७,०२७.०१ शूरो नृषाता शवसश्चकान आ गोमति व्रजे भजा त्वं नः ॥
७,०२७.०२ य इन्द्र शुष्मो मघवन्ते अस्ति शिक्षा सखिभ्यः पुरुहूत नृभ्यः ।
७,०२७.०२ त्वं हि दृळ्हा मघवन्विचेता अपा वृधि परिवृतं न राधः ॥
७,०२७.०३ इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
७,०२७.०३ ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक् ॥
७,०२७.०४ नू चिन्न इन्द्रो मघवा सहूती दानो वाजं नि यमते न ऊती ।
७,०२७.०४ अनूना यस्य दक्षिणा पीपाय वामं नृभ्यो अभिवीता सखिभ्यः ॥
७,०२७.०५ नू इन्द्र राये वरिवस्कृधी न आ ते मनो ववृत्याम मघाय ।
७,०२७.०५ गोमदश्वावद्रथवद्व्यन्तो यूयं पात स्वस्तिभिः सदा नः ॥
७,०२८.०१ ब्रह्मा ण इन्द्रोप याहि विद्वानर्वाञ्चस्ते हरयः सन्तु युक्ताः ।
७,०२८.०१ विश्वे चिद्धि त्वा विहवन्त मर्ता अस्माकमिच्छृणुहि विश्वमिन्व ॥
७,०२८.०२ हवं त इन्द्र महिमा व्यानड्ब्रह्म यत्पासि शवसिन्नृषीणाम् ।
७,०२८.०२ आ यद्वज्रं दधिषे हस्त उग्र घोरः सन्क्रत्वा जनिष्ठा अषाळ्हः ॥
७,०२८.०३ तव प्रणीतीन्द्र जोहुवानान्सं यन्नॄन्न रोदसी निनेथ ।
७,०२८.०३ महे क्षत्राय शवसे हि जज्ञेऽतूतुजिं चित्तूतुजिरशिश्नत् ॥
७,०२८.०४ एभिर्न इन्द्राहभिर्दशस्य दुर्मित्रासो हि क्षितयः पवन्ते ।
७,०२८.०४ प्रति यच्चष्टे अनृतमनेना अव द्विता वरुणो मायी नः सात् ॥
७,०२८.०५ वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
७,०२८.०५ यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥
७,०२९.०१ अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकाः ।
७,०२९.०१ पिबा त्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥
७,०२९.०२ ब्रह्मन्वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् ।
७,०२९.०२ अस्मिन्नू षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥
७,०२९.०३ का ते अस्त्यरङ्कृतिः सूक्तैः कदा नूनं ते मघवन्दाशेम ।
७,०२९.०३ विश्वा मतीरा ततने त्वायाधा म इन्द्र शृणवो हवेमा ॥
७,०२९.०४ उतो घा ते पुरुष्या इदासन्येषां पूर्वेषामशृणोरृषीणाम् ।
७,०२९.०४ अधाहं त्वा मघवञ्जोहवीमि त्वं न इन्द्रासि प्रमतिः पितेव ॥
७,०२९.०५ वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
७,०२९.०५ यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥
७,०३०.०१ आ नो देव शवसा याहि शुष्मिन्भवा वृध इन्द्र रायो अस्य ।
७,०३०.०१ महे नृम्णाय नृपते सुवज्र महि क्षत्राय पौंस्याय शूर ॥
७,०३०.०२ हवन्त उ त्वा हव्यं विवाचि तनूषु शूराः सूर्यस्य सातौ ।
७,०३०.०२ त्वं विश्वेषु सेन्यो जनेषु त्वं वृत्राणि रन्धया सुहन्तु ॥
७,०३०.०३ अहा यदिन्द्र सुदिना व्युच्छान्दधो यत्केतुमुपमं समत्सु ।
७,०३०.०३ न्यग्निः सीददसुरो न होता हुवानो अत्र सुभगाय देवान् ॥
७,०३०.०४ वयं ते त इन्द्र ये च देव स्तवन्त शूर ददतो मघानि ।
७,०३०.०४ यच्छा सूरिभ्य उपमं वरूथं स्वाभुवो जरणामश्नवन्त ॥
७,०३०.०५ वोचेमेदिन्द्रं मघवानमेनं महो रायो राधसो यद्ददन्नः ।
७,०३०.०५ यो अर्चतो ब्रह्मकृतिमविष्ठो यूयं पात स्वस्तिभिः सदा नः ॥
७,०३१.०१ प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
७,०३१.०१ सखायः सोमपाव्ने ॥
७,०३१.०२ शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः ।
७,०३१.०२ चकृमा सत्यराधसे ॥
७,०३१.०३ त्वं न इन्द्र वाजयुस्त्वं गव्युः शतक्रतो ।
७,०३१.०३ त्वं हिरण्ययुर्वसो ॥
७,०३१.०४ वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
७,०३१.०४ विद्धी त्वस्य नो वसो ॥
७,०३१.०५ मा नो निदे च वक्तवेऽर्यो रन्धीरराव्णे ।
७,०३१.०५ त्वे अपि क्रतुर्मम ॥
७,०३१.०६ त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
७,०३१.०६ त्वया प्रति ब्रुवे युजा ॥
७,०३१.०७ महां उतासि यस्य तेऽनु स्वधावरी सहः ।
७,०३१.०७ मम्नाते इन्द्र रोदसी ॥
७,०३१.०८ तं त्वा मरुत्वती परि भुवद्वाणी सयावरी ।
७,०३१.०८ नक्षमाणा सह द्युभिः ॥
७,०३१.०९ ऊर्ध्वासस्त्वान्विन्दवो भुवन्दस्ममुप द्यवि ।
७,०३१.०९ सं ते नमन्त कृष्टयः ॥
७,०३१.१० प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
७,०३१.१० विशः पूर्वीः प्र चरा चर्षणिप्राः ॥
७,०३१.११ उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।
७,०३१.११ तस्य व्रतानि न मिनन्ति धीराः ॥
७,०३१.१२ इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।
७,०३१.१२ हर्यश्वाय बर्हया समापीन् ॥
७,०३२.०१ मो षु त्वा वाघतश्चनारे अस्मन्नि रीरमन् ।
७,०३२.०१ आरात्ताच्चित्सधमादं न आ गहीह वा सन्नुप श्रुधि ॥
७,०३२.०२ इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।
७,०३२.०२ इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥
७,०३२.०३ रायस्कामो वज्रहस्तं सुदक्षिणं पुत्रो न पितरं हुवे ॥
७,०३२.०४ इम इन्द्राय सुन्विरे सोमासो दध्याशिरः ।
७,०३२.०४ तां आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥
७,०३२.०५ श्रवच्छ्रुत्कर्ण ईयते वसूनां नू चिन्नो मर्धिषद्गिरः ।
७,०३२.०५ सद्यश्चिद्यः सहस्राणि शता ददन्नकिर्दित्सन्तमा मिनत् ॥
७,०३२.०६ स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः ।
७,०३२.०६ यस्ते गभीरा सवनानि वृत्रहन्सुनोत्या च धावति ॥
७,०३२.०७ भवा वरूथं मघवन्मघोनां यत्समजासि शर्धतः ।
७,०३२.०७ वि त्वाहतस्य वेदनं भजेमह्या दूणाशो भरा गयम् ॥
७,०३२.०८ सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
७,०३२.०८ पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥
७,०३२.०९ मा स्रेधत सोमिनो दक्षता महे कृणुध्वं राय आतुजे ।
७,०३२.०९ तरणिरिज्जयति क्षेति पुष्यति न देवासः कवत्नवे ॥
७,०३२.१० नकिः सुदासो रथं पर्यास न रीरमत् ।
७,०३२.१० इन्द्रो यस्याविता यस्य मरुतो गमत्स गोमति व्रजे ॥
७,०३२.११ गमद्वाजं वाजयन्निन्द्र मर्त्यो यस्य त्वमविता भुवः ।
७,०३२.११ अस्माकं बोध्यविता रथानामस्माकं शूर नृणाम् ॥
७,०३२.१२ उदिन्न्वस्य रिच्यतेऽंशो धनं न जिग्युषः ।
७,०३२.१२ य इन्द्रो हरिवान्न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥
७,०३२.१३ मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
७,०३२.१३ पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत् ॥
७,०३२.१४ कस्तमिन्द्र त्वावसुमा मर्त्यो दधर्षति ।
७,०३२.१४ श्रद्धा इत्ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ॥
७,०३२.१५ मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।
७,०३२.१५ तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥
७,०३२.१६ तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमम् ।
७,०३२.१६ सत्रा विश्वस्य परमस्य राजसि नकिष्ट्वा गोषु वृण्वते ॥
७,०३२.१७ त्वं विश्वस्य धनदा असि श्रुतो य ईं भवन्त्याजयः ।
७,०३२.१७ तवायं विश्वः पुरुहूत पार्थिवोऽवस्युर्नाम भिक्षते ॥
७,०३२.१८ यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
७,०३२.१८ स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥
७,०३२.१९ शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।
७,०३२.१९ नहि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता चन ॥
७,०३२.२० तरणिरित्सिषासति वाजं पुरन्ध्या युजा ।
७,०३२.२० आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्र्वम् ॥
७,०३२.२१ न दुष्टुती मर्त्यो विन्दते वसु न स्रेधन्तं रयिर्नशत् ।
७,०३२.२१ सुशक्तिरिन्मघवन्तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥
७,०३२.२२ अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
७,०३२.२२ ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥
७,०३२.२३ न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
७,०३२.२३ अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥
७,०३२.२४ अभी षतस्तदा भरेन्द्र ज्यायः कनीयसः ।
७,०३२.२४ पुरूवसुर्हि मघवन्सनादसि भरेभरे च हव्यः ॥
७,०३२.२५ परा णुदस्व मघवन्नमित्रान्सुवेदा नो वसू कृधि ।
७,०३२.२५ अस्माकं बोध्यविता महाधने भवा वृधः सखीनाम् ॥
७,०३२.२६ इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
७,०३२.२६ शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥
७,०३२.२७ मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
७,०३२.२७ त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥
७,०३३.०१ श्वित्यञ्चो मा दक्षिणतस्कपर्दा धियञ्जिन्वासो अभि हि प्रमन्दुः ।
७,०३३.०१ उत्तिष्ठन्वोचे परि बर्हिषो नॄन्न मे दूरादवितवे वसिष्ठाः ॥
७,०३३.०२ दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम् ।
७,०३३.०२ पाशद्युम्नस्य वायतस्य सोमात्सुतादिन्द्रोऽवृणीता वसिष्ठान् ॥
७,०३३.०३ एवेन्नु कं सिन्धुमेभिस्ततारेवेन्नु कं भेदमेभिर्जघान ।
७,०३३.०३ एवेन्नु कं दाशराज्ञे सुदासं प्रावदिन्द्रो ब्रह्मणा वो वसिष्ठाः ॥
७,०३३.०४ जुष्टी नरो ब्रह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ ।
७,०३३.०४ यच्छक्वरीषु बृहता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः ॥
७,०३३.०५ उद्द्यामिवेत्तृष्णजो नाथितासोऽदीधयुर्दाशराज्ञे वृतासः ।
७,०३३.०५ वसिष्ठस्य स्तुवत इन्द्रो अश्रोदुरुं तृत्सुभ्यो अकृणोदु लोकम् ॥
७,०३३.०६ दण्डा इवेद्गोअजनास आसन्परिच्छिन्ना भरता अर्भकासः ।
७,०३३.०६ अभवच्च पुरएता वसिष्ठ आदित्तृत्सूनां विशो अप्रथन्त ॥
७,०३३.०७ त्रयः कृण्वन्ति भुवनेषु रेतस्तिस्रः प्रजा आर्या ज्योतिरग्राः ।
७,०३३.०७ त्रयो घर्मास उषसं सचन्ते सर्वां इत्तां अनु विदुर्वसिष्ठाः ॥
७,०३३.०८ सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः ।
७,०३३.०८ वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥
७,०३३.०९ त इन्निण्यं हृदयस्य प्रकेतैः सहस्रवल्शमभि सं चरन्ति ।
७,०३३.०९ यमेन ततं परिधिं वयन्तोऽप्सरस उप सेदुर्वसिष्ठाः ॥
७,०३३.१० विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा ।
७,०३३.१० तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजभार ॥
७,०३३.११ उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधि जातः ।
७,०३३.११ द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वे देवाः पुष्करे त्वाददन्त ॥
७,०३३.१२ स प्रकेत उभयस्य प्रविद्वान्सहस्रदान उत वा सदानः ।
७,०३३.१२ यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥
७,०३३.१३ सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् ।
७,०३३.१३ ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वसिष्ठम् ॥
७,०३३.१४ उक्थभृतं सामभृतं बिभर्ति ग्रावाणं बिभ्रत्प्र वदात्यग्रे ।
७,०३३.१४ उपैनमाध्वं सुमनस्यमाना आ वो गच्छाति प्रतृदो वसिष्ठः ॥
७,०३४.०१ प्र शुक्रैतु देवी मनीषा अस्मत्सुतष्टो रथो न वाजी ॥
७,०३४.०२ विदुः पृथिव्या दिवो जनित्रं शृण्वन्त्यापो अध क्षरन्तीः ॥
७,०३४.०३ आपश्चिदस्मै पिन्वन्त पृथ्वीर्वृत्रेषु शूरा मंसन्त उग्राः ॥
७,०३४.०४ आ धूर्ष्वस्मै दधाताश्वानिन्द्रो न वज्री हिरण्यबाहुः ॥
७,०३४.०५ अभि प्र स्थाताहेव यज्ञं यातेव पत्मन्त्मना हिनोत ॥
७,०३४.०६ त्मना समत्सु हिनोत यज्ञं दधात केतुं जनाय वीरम् ॥
७,०३४.०७ उदस्य शुष्माद्भानुर्नार्त बिभर्ति भारं पृथिवी न भूम ॥
७,०३४.०८ ह्वयामि देवां अयातुरग्ने साधन्नृतेन धियं दधामि ॥
७,०३४.०९ अभि वो देवीं धियं दधिध्वं प्र वो देवत्रा वाचं कृणुध्वम् ॥
७,०३४.१० आ चष्ट आसां पाथो नदीनां वरुण उग्रः सहस्रचक्षाः ॥
७,०३४.११ राजा राष्ट्रानां पेशो नदीनामनुत्तमस्मै क्षत्रं विश्वायु ॥
७,०३४.१२ अविष्टो अस्मान्विश्वासु विक्ष्वद्युं कृणोत शंसं निनित्सोः ॥
७,०३४.१३ व्येतु दिद्युद्द्विषामशेवा युयोत विष्वग्रपस्तनूनाम् ॥
७,०३४.१४ अवीन्नो अग्निर्हव्यान्नमोभिः प्रेष्ठो अस्मा अधायि स्तोमः ॥
७,०३४.१५ सजूर्देवेभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥
७,०३४.१६ अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु षीदन् ॥
७,०३४.१७ मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः ॥
७,०३४.१८ उत न एषु नृषु श्रवो धुः प्र राये यन्तु शर्धन्तो अर्यः ॥
७,०३४.१९ तपन्ति शत्रुं स्वर्ण भूमा महासेनासो अमेभिरेषाम् ॥
७,०३४.२० आ यन्नः पत्नीर्गमन्त्यच्छा त्वष्टा सुपाणिर्दधातु वीरान् ॥
७,०३४.२१ प्रति न स्तोमं त्वष्टा जुषेत स्यादस्मे अरमतिर्वसूयुः ॥
७,०३४.२२ ता नो रासन्रातिषाचो वसून्या रोदसी वरुणानी शृणोतु ।
७,०३४.२२ वरूत्रीभिः सुशरणो नो अस्तु त्वष्टा सुदत्रो वि दधातु रायः ॥
७,०३४.२३ तन्नो रायः पर्वतास्तन्न आपस्तद्रातिषाच ओषधीरुत द्यौः ।
७,०३४.२३ वनस्पतिभिः पृथिवी सजोषा उभे रोदसी परि पासतो नः ॥
७,०३४.२४ अनु तदुर्वी रोदसी जिहातामनु द्युक्षो वरुण इन्द्रसखा ।
७,०३४.२४ अनु विश्वे मरुतो ये सहासो रायः स्याम धरुणं धियध्यै ॥
७,०३४.२५ तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
७,०३४.२५ शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥
७,०३५.०१ शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
७,०३५.०१ शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥
७,०३५.०२ शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिः शमु सन्तु रायः ।
७,०३५.०२ शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥
७,०३५.०३ शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
७,०३५.०३ शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥
७,०३५.०४ शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
७,०३५.०४ शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥
७,०३५.०५ शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
७,०३५.०५ शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥
७,०३५.०६ शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
७,०३५.०६ शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥
७,०३५.०७ शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
७,०३५.०७ शं नः स्वरूणां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥
७,०३५.०८ शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः प्रदिशो भवन्तु ।
७,०३५.०८ शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥
७,०३५.०९ शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
७,०३५.०९ शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥
७,०३५.१० शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
७,०३५.१० शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शम्भुः ॥
७,०३५.११ शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
७,०३५.११ शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥
७,०३५.१२ शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
७,०३५.१२ शं न ऋभवः सुकृतः सुहस्ताः शं नो भवन्तु पितरो हवेषु ॥
७,०३५.१३ शं नो अज एकपाद्देवो अस्तु शं नोऽहिर्बुध्न्यः शं समुद्रः ।
७,०३५.१३ शं नो अपां नपात्पेरुरस्तु शं नः पृश्निर्भवतु देवगोपा ॥
७,०३५.१४ आदित्या रुद्रा वसवो जुषन्तेदं ब्रह्म क्रियमाणं नवीयः ।
७,०३५.१४ शृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥
७,०३५.१५ ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अमृता ऋतज्ञाः ।
७,०३५.१५ ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥
७,०३६.०१ प्र ब्रह्मैतु सदनादृतस्य वि रश्मिभिः ससृजे सूर्यो गाः ।
७,०३६.०१ वि सानुना पृथिवी सस्र उर्वी पृथु प्रतीकमध्येधे अग्निः ॥
७,०३६.०२ इमां वां मित्रावरुणा सुवृक्तिमिषं न कृण्वे असुरा नवीयः ।
७,०३६.०२ इनो वामन्यः पदवीरदब्धो जनं च मित्रो यतति ब्रुवाणः ॥
७,०३६.०३ आ वातस्य ध्रजतो रन्त इत्या अपीपयन्त धेनवो न सूदाः ।
७,०३६.०३ महो दिवः सदने जायमानोऽचिक्रदद्वृषभः सस्मिन्नूधन् ॥
७,०३६.०४ गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू ।
७,०३६.०४ प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम् ॥
७,०३६.०५ यजन्ते अस्य सख्यं वयश्च नमस्विनः स्व ऋतस्य धामन् ।
७,०३६.०५ वि पृक्षो बाबधे नृभि स्तवान इदं नमो रुद्राय प्रेष्ठम् ॥
७,०३६.०६ आ यत्साकं यशसो वावशानाः सरस्वती सप्तथी सिन्धुमाता ।
७,०३६.०६ याः सुष्वयन्त सुदुघाः सुधारा अभि स्वेन पयसा पीप्यानाः ॥
७,०३६.०७ उत त्ये नो मरुतो मन्दसाना धियं तोकं च वाजिनोऽवन्तु ।
७,०३६.०७ मा नः परि ख्यदक्षरा चरन्त्यवीवृधन्युज्यं ते रयिं नः ॥
७,०३६.०८ प्र वो महीमरमतिं कृणुध्वं प्र पूषणं विदथ्यं न वीरम् ।
७,०३६.०८ भगं धियोऽवितारं नो अस्याः सातौ वाजं रातिषाचं पुरन्धिम् ॥
७,०३६.०९ अच्छायं वो मरुतः श्लोक एत्वच्छा विष्णुं निषिक्तपामवोभिः ।
७,०३६.०९ उत प्रजायै गृणते वयो धुर्यूयं पात स्वस्तिभिः सदा नः ॥
७,०३७.०१ आ वो वाहिष्ठो वहतु स्तवध्यै रथो वाजा ऋभुक्षणो अमृक्तः ।
७,०३७.०१ अभि त्रिपृष्ठैः सवनेषु सोमैर्मदे सुशिप्रा महभिः पृणध्वम् ॥
७,०३७.०२ यूयं ह रत्नं मघवत्सु धत्थ स्वर्दृश ऋभुक्षणो अमृक्तम् ।
७,०३७.०२ सं यज्ञेषु स्वधावन्तः पिबध्वं वि नो राधांसि मतिभिर्दयध्वम् ॥
७,०३७.०३ उवोचिथ हि मघवन्देष्णं महो अर्भस्य वसुनो विभागे ।
७,०३७.०३ उभा ते पूर्णा वसुना गभस्ती न सूनृता नि यमते वसव्या ॥
७,०३७.०४ त्वमिन्द्र स्वयशा ऋभुक्षा वाजो न साधुरस्तमेष्यृक्वा ।
७,०३७.०४ वयं नु ते दाश्वांसः स्याम ब्रह्म कृण्वन्तो हरिवो वसिष्ठाः ॥
७,०३७.०५ सनितासि प्रवतो दाशुषे चिद्याभिर्विवेषो हर्यश्व धीभिः ।
७,०३७.०५ ववन्मा नु ते युज्याभिरूती कदा न इन्द्र राय आ दशस्येः ॥
७,०३७.०६ वासयसीव वेधसस्त्वं नः कदा न इन्द्र वचसो बुबोधः ।
७,०३७.०६ अस्तं तात्या धिया रयिं सुवीरं पृक्षो नो अर्वा न्युहीत वाजी ॥
७,०३७.०७ अभि यं देवी निरृतिश्चिदीशे नक्षन्त इन्द्रं शरदः सुपृक्षः ।
७,०३७.०७ उप त्रिबन्धुर्जरदष्टिमेत्यस्ववेशं यं कृणवन्त मर्ताः ॥
७,०३७.०८ आ नो राधांसि सवित स्तवध्या आ रायो यन्तु पर्वतस्य रातौ ।
७,०३७.०८ सदा नो दिव्यः पायुः सिषक्तु यूयं पात स्वस्तिभिः सदा नः ॥
७,०३८.०१ उदु ष्य देवः सविता ययाम हिरण्ययीममतिं यामशिश्रेत् ।
७,०३८.०१ नूनं भगो हव्यो मानुषेभिर्वि यो रत्ना पुरूवसुर्दधाति ॥
७,०३८.०२ उदु तिष्ठ सवितः श्रुध्यस्य हिरण्यपाणे प्रभृतावृतस्य ।
७,०३८.०२ व्युर्वीं पृथ्वीममतिं सृजान आ नृभ्यो मर्तभोजनं सुवानः ॥
७,०३८.०३ अपि ष्टुतः सविता देवो अस्तु यमा चिद्विश्वे वसवो गृणन्ति ।
७,०३८.०३ स न स्तोमान्नमस्यश्चनो धाद्विश्वेभिः पातु पायुभिर्नि सूरीन् ॥
७,०३८.०४ अभि यं देव्यदितिर्गृणाति सवं देवस्य सवितुर्जुषाणा ।
७,०३८.०४ अभि सम्राजो वरुणो गृणन्त्यभि मित्रासो अर्यमा सजोषाः ॥
७,०३८.०५ अभि ये मिथो वनुषः सपन्ते रातिं दिवो रातिषाचः पृथिव्याः ।
७,०३८.०५ अहिर्बुध्न्य उत नः शृणोतु वरूत्र्येकधेनुभिर्नि पातु ॥
७,०३८.०६ अनु तन्नो जास्पतिर्मंसीष्ट रत्नं देवस्य सवितुरियानः ।
७,०३८.०६ भगमुग्रोऽवसे जोहवीति भगमनुग्रो अध याति रत्नम् ॥
७,०३८.०७ शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः ।
७,०३८.०७ जम्भयन्तोऽहिं वृकं रक्षांसि सनेम्यस्मद्युयवन्नमीवाः ॥
७,०३८.०८ वाजेवाजेऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
७,०३८.०८ अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैः ॥
७,०३९.०१ ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत्प्रतीची जूर्णिर्देवतातिमेति ।
७,०३९.०१ भेजाते अद्री रथ्येव पन्थामृतं होता न इषितो यजाति ॥
७,०३९.०२ प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते ।
७,०३९.०२ विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥
७,०३९.०३ ज्मया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः ।
७,०३९.०३ अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य जग्मुषो नो अस्य ॥
७,०३९.०४ ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः ।
७,०३९.०४ तां अध्वर उशतो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरन्धिम् ॥
७,०३९.०५ आग्ने गिरो दिव आ पृथिव्या मित्रं वह वरुणमिन्द्रमग्निम् ।
७,०३९.०५ आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम् ॥
७,०३९.०६ ररे हव्यं मतिभिर्यज्ञियानां नक्षत्कामं मर्त्यानामसिन्वन् ।
७,०३९.०६ धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः ॥
७,०३९.०७ नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः ।
७,०३९.०७ यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥
७,०४०.०१ ओ श्रुष्टिर्विदथ्या समेतु प्रति स्तोमं दधीमहि तुराणाम् ।
७,०४०.०१ यदद्य देवः सविता सुवाति स्यामास्य रत्निनो विभागे ॥
७,०४०.०२ मित्रस्तन्नो वरुणो रोदसी च द्युभक्तमिन्द्रो अर्यमा ददातु ।
७,०४०.०२ दिदेष्टु देव्यदिती रेक्णो वायुश्च यन्नियुवैते भगश्च ॥
७,०४०.०३ सेदुग्रो अस्तु मरुतः स शुष्मी यं मर्त्यं पृषदश्वा अवाथ ।
७,०४०.०३ उतेमग्निः सरस्वती जुनन्ति न तस्य रायः पर्येतास्ति ॥
७,०४०.०४ अयं हि नेता वरुण ऋतस्य मित्रो राजानो अर्यमापो धुः ।
७,०४०.०४ सुहवा देव्यदितिरनर्वा ते नो अंहो अति पर्षन्नरिष्टान् ॥
७,०४०.०५ अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभृथे हविर्भिः ।
७,०४०.०५ विदे हि रुद्रो रुद्रियं महित्वं यासिष्टं वर्तिरश्विनाविरावत् ॥
७,०४०.०६ मात्र पूषन्नाघृण इरस्यो वरूत्री यद्रातिषाचश्च रासन् ।
७,०४०.०६ मयोभुवो नो अर्वन्तो नि पान्तु वृष्टिं परिज्मा वातो ददातु ॥
७,०४०.०७ नू रोदसी अभिष्टुते वसिष्ठैरृतावानो वरुणो मित्रो अग्निः ।
७,०४०.०७ यच्छन्तु चन्द्रा उपमं नो अर्कं यूयं पात स्वस्तिभिः सदा नः ॥
७,०४१.०१ प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
७,०४१.०१ प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हुवेम ॥
७,०४१.०२ प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता ।
७,०४१.०२ आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥
७,०४१.०३ भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन्नः ।
७,०४१.०३ भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥
७,०४१.०४ उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
७,०४१.०४ उतोदिता मघवन्सूर्यस्य वयं देवानां सुमतौ स्याम ॥
७,०४१.०५ भग एव भगवां अस्तु देवास्तेन वयं भगवन्तः स्याम ।
७,०४१.०५ तं त्वा भग सर्व इज्जोहवीति स नो भग पुरएता भवेह ॥
७,०४१.०६ समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
७,०४१.०६ अर्वाचीनं वसुविदं भगं नो रथमिवाश्वा वाजिन आ वहन्तु ॥
७,०४१.०७ अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
७,०४१.०७ घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥
७,०४२.०१ प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु ।
७,०४२.०१ प्र धेनव उदप्रुतो नवन्त युज्यातामद्री अध्वरस्य पेशः ॥
७,०४२.०२ सुगस्ते अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च ।
७,०४२.०२ ये वा सद्मन्नरुषा वीरवाहो हुवे देवानां जनिमानि सत्तः ॥
७,०४२.०३ समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके ।
७,०४२.०३ यजस्व सु पुर्वणीक देवाना यज्ञियामरमतिं ववृत्याः ॥
७,०४२.०४ यदा वीरस्य रेवतो दुरोणे स्योनशीरतिथिराचिकेतत् ।
७,०४२.०४ सुप्रीतो अग्निः सुधितो दम आ स विशे दाति वार्यमियत्यै ॥
७,०४२.०५ इमं नो अग्ने अध्वरं जुषस्व मरुत्स्विन्द्रे यशसं कृधी नः ।
७,०४२.०५ आ नक्ता बर्हिः सदतामुषासोशन्ता मित्रावरुणा यजेह ॥
७,०४२.०६ एवाग्निं सहस्यं वसिष्ठो रायस्कामो विश्वप्स्न्यस्य स्तौत् ।
७,०४२.०६ इषं रयिं पप्रथद्वाजमस्मे यूयं पात स्वस्तिभिः सदा नः ॥
७,०४३.०१ प्र वो यज्ञेषु देवयन्तो अर्चन्द्यावा नमोभिः पृथिवी इषध्यै ।
७,०४३.०१ येषां ब्रह्माण्यसमानि विप्रा विष्वग्वियन्ति वनिनो न शाखाः ॥
७,०४३.०२ प्र यज्ञ एतु हेत्वो न सप्तिरुद्यच्छध्वं समनसो घृताचीः ।
७,०४३.०२ स्तृणीत बर्हिरध्वराय साधूर्ध्वा शोचींषि देवयून्यस्थुः ॥
७,०४३.०३ आ पुत्रासो न मातरं विभृत्राः सानौ देवासो बर्हिषः सदन्तु ।
७,०४३.०३ आ विश्वाची विदथ्यामनक्त्वग्ने मा नो देवताता मृधस्कः ॥
७,०४३.०४ ते सीषपन्त जोषमा यजत्रा ऋतस्य धाराः सुदुघा दुहानाः ।
७,०४३.०४ ज्येष्ठं वो अद्य मह आ वसूनामा गन्तन समनसो यति ष्ठ ॥
७,०४३.०५ एवा नो अग्ने विक्ष्वा दशस्य त्वया वयं सहसावन्नास्क्राः ।
७,०४३.०५ राया युजा सधमादो अरिष्टा यूयं पात स्वस्तिभिः सदा नः ॥
७,०४४.०१ दधिक्रां वः प्रथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे ।
७,०४४.०१ इन्द्रं विष्णुं पूषणं ब्रह्मणस्पतिमादित्यान्द्यावापृथिवी अपः स्वः ॥
७,०४४.०२ दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः ।
७,०४४.०२ इळां देवीं बर्हिषि सादयन्तोऽश्विना विप्रा सुहवा हुवेम ॥
७,०४४.०३ दधिक्रावाणं बुबुधानो अग्निमुप ब्रुव उषसं सूर्यं गाम् ।
७,०४४.०३ ब्रध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद्दुरिता यावयन्तु ॥
७,०४४.०४ दधिक्रावा प्रथमो वाज्यर्वाग्रे रथानां भवति प्रजानन् ।
७,०४४.०४ संविदान उषसा सूर्येणादित्येभिर्वसुभिरङ्गिरोभिः ॥
७,०४४.०५ आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ ।
७,०४४.०५ शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः ॥
७,०४५.०१ आ देवो यातु सविता सुरत्नोऽन्तरिक्षप्रा वहमानो अश्वैः ।
७,०४५.०१ हस्ते दधानो नर्या पुरूणि निवेशयञ्च प्रसुवञ्च भूम ॥
७,०४५.०२ उदस्य बाहू शिथिरा बृहन्ता हिरण्यया दिवो अन्तां अनष्टाम् ।
७,०४५.०२ नूनं सो अस्य महिमा पनिष्ट सूरश्चिदस्मा अनु दादपस्याम् ॥
७,०४५.०३ स घा नो देवः सविता सहावा साविषद्वसुपतिर्वसूनि ।
७,०४५.०३ विश्रयमाणो अमतिमुरूचीं मर्तभोजनमध रासते नः ॥
७,०४५.०४ इमा गिरः सवितारं सुजिह्वं पूर्णगभस्तिमीळते सुपाणिम् ।
७,०४५.०४ चित्रं वयो बृहदस्मे दधातु यूयं पात स्वस्तिभिः सदा नः ॥
७,०४६.०१ इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने ।
७,०४६.०१ अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥
७,०४६.०२ स हि क्षयेण क्षम्यस्य जन्मनः साम्राज्येन दिव्यस्य चेतति ।
७,०४६.०२ अवन्नवन्तीरुप नो दुरश्चरानमीवो रुद्र जासु नो भव ॥
७,०४६.०३ या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः ।
७,०४६.०३ सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥
७,०४६.०४ मा नो वधी रुद्र मा परा दा मा ते भूम प्रसितौ हीळितस्य ।
७,०४६.०४ आ नो भज बर्हिषि जीवशंसे यूयं पात स्वस्तिभिः सदा नः ॥
७,०४७.०१ आपो यं वः प्रथमं देवयन्त इन्द्रपानमूर्मिमकृण्वतेळः ।
७,०४७.०१ तं वो वयं शुचिमरिप्रमद्य घृतप्रुषं मधुमन्तं वनेम ॥
७,०४७.०२ तमूर्मिमापो मधुमत्तमं वोऽपां नपादवत्वाशुहेमा ।
७,०४७.०२ यस्मिन्निन्द्रो वसुभिर्मादयाते तमश्याम देवयन्तो वो अद्य ॥
७,०४७.०३ शतपवित्राः स्वधया मदन्तीर्देवीर्देवानामपि यन्ति पाथः ।
७,०४७.०३ ता इन्द्रस्य न मिनन्ति व्रतानि सिन्धुभ्यो हव्यं घृतवज्जुहोत ॥
७,०४७.०४ याः सूर्यो रश्मिभिराततान याभ्य इन्द्रो अरदद्गातुमूर्मिम् ।
७,०४७.०४ ते सिन्धवो वरिवो धातना नो यूयं पात स्वस्तिभिः सदा नः ॥
७,०४८.०१ ऋभुक्षणो वाजा मादयध्वमस्मे नरो मघवानः सुतस्य ।
७,०४८.०१ आ वोऽर्वाचः क्रतवो न यातां विभ्वो रथं नर्यं वर्तयन्तु ॥
७,०४८.०२ ऋभुरृभुभिरभि वः स्याम विभ्वो विभुभिः शवसा शवांसि ।
७,०४८.०२ वाजो अस्मां अवतु वाजसाताविन्द्रेण युजा तरुषेम वृत्रम् ॥
७,०४८.०३ ते चिद्धि पूर्वीरभि सन्ति शासा विश्वां अर्य उपरताति वन्वन् ।
७,०४८.०३ इन्द्रो विभ्वां ऋभुक्षा वाजो अर्यः शत्रोर्मिथत्या कृणवन्वि नृम्णम् ॥
७,०४८.०४ नू देवासो वरिवः कर्तना नो भूत नो विश्वेऽवसे सजोषाः ।
७,०४८.०४ समस्मे इषं वसवो ददीरन्यूयं पात स्वस्तिभिः सदा नः ॥
७,०४९.०१ समुद्रज्येष्ठाः सलिलस्य मध्यात्पुनाना यन्त्यनिविशमानाः ।
७,०४९.०१ इन्द्रो या वज्री वृषभो रराद ता आपो देवीरिह मामवन्तु ॥
७,०४९.०२ या आपो दिव्या उत वा स्रवन्ति खनित्रिमा उत वा याः स्वयञ्जाः ।
७,०४९.०२ समुद्रार्था याः शुचयः पावकास्ता आपो देवीरिह मामवन्तु ॥
७,०४९.०३ यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ्जनानाम् ।
७,०४९.०३ मधुश्चुतः शुचयो याः पावकास्ता आपो देवीरिह मामवन्तु ॥
७,०४९.०४ यासु राजा वरुणो यासु सोमो विश्वे देवा यासूर्जं मदन्ति ।
७,०४९.०४ वैश्वानरो यास्वग्निः प्रविष्टस्ता आपो देवीरिह मामवन्तु ॥
७,०५०.०१ आ मां मित्रावरुणेह रक्षतं कुलाययद्विश्वयन्मा न आ गन् ।
७,०५०.०१ अजकावं दुर्दृशीकं तिरो दधे मा मां पद्येन रपसा विदत्त्सरुः ॥
७,०५०.०२ यद्विजामन्परुषि वन्दनं भुवदष्ठीवन्तौ परि कुल्फौ च देहत् ।
७,०५०.०२ अग्निष्टच्छोचन्नप बाधतामितो मा मां पद्येन रपसा विदत्त्सरुः ॥
७,०५०.०३ यच्छल्मलौ भवति यन्नदीषु यदोषधीभ्यः परि जायते विषम् ।
७,०५०.०३ विश्वे देवा निरितस्तत्सुवन्तु मा मां पद्येन रपसा विदत्त्सरुः ॥
७,०५०.०४ याः प्रवतो निवत उद्वत उदन्वतीरनुदकाश्च याः ।
७,०५०.०४ ता अस्मभ्यं पयसा पिन्वमानाः शिवा देवीरशिपदा भवन्तु सर्वा नद्यो अशिमिदा भवन्तु ॥
७,०५१.०१ आदित्यानामवसा नूतनेन सक्षीमहि शर्मणा शन्तमेन ।
७,०५१.०१ अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
७,०५१.०२ आदित्यासो अदितिर्मादयन्तां मित्रो अर्यमा वरुणो रजिष्ठाः ।
७,०५१.०२ अस्माकं सन्तु भुवनस्य गोपाः पिबन्तु सोममवसे नो अद्य ॥
७,०५१.०३ आदित्या विश्वे मरुतश्च विश्वे देवाश्च विश्व ऋभवश्च विश्वे ।
७,०५१.०३ इन्द्रो अग्निरश्विना तुष्टुवाना यूयं पात स्वस्तिभिः सदा नः ॥
७,०५२.०१ आदित्यासो अदितयः स्याम पूर्देवत्रा वसवो मर्त्यत्रा ।
७,०५२.०१ सनेम मित्रावरुणा सनन्तो भवेम द्यावापृथिवी भवन्तः ॥
७,०५२.०२ मित्रस्तन्नो वरुणो मामहन्त शर्म तोकाय तनयाय गोपाः ।
७,०५२.०२ मा वो भुजेमान्यजातमेनो मा तत्कर्म वसवो यच्चयध्वे ॥
७,०५२.०३ तुरण्यवोऽङ्गिरसो नक्षन्त रत्नं देवस्य सवितुरियानाः ।
७,०५२.०३ पिता च तन्नो महान्यजत्रो विश्वे देवाः समनसो जुषन्त ॥
७,०५३.०१ प्र द्यावा यज्ञैः पृथिवी नमोभिः सबाध ईळे बृहती यजत्रे ।
७,०५३.०१ ते चिद्धि पूर्वे कवयो गृणन्तः पुरो मही दधिरे देवपुत्रे ॥
७,०५३.०२ प्र पूर्वजे पितरा नव्यसीभिर्गीर्भिः कृणुध्वं सदने ऋतस्य ।
७,०५३.०२ आ नो द्यावापृथिवी दैव्येन जनेन यातं महि वां वरूथम् ॥
७,०५३.०३ उतो हि वां रत्नधेयानि सन्ति पुरूणि द्यावापृथिवी सुदासे ।
७,०५३.०३ अस्मे धत्तं यदसदस्कृधोयु यूयं पात स्वस्तिभिः सदा नः ॥
७,०५४.०१ वास्तोष्पते प्रति जानीह्यस्मान्स्वावेशो अनमीवो भवा नः ।
७,०५४.०१ यत्त्वेमहे प्रति तन्नो जुषस्व शं नो भव द्विपदे शं चतुष्पदे ॥
७,०५४.०२ वास्तोष्पते प्रतरणो न एधि गयस्फानो गोभिरश्वेभिरिन्दो ।
७,०५४.०२ अजरासस्ते सख्ये स्याम पितेव पुत्रान्प्रति नो जुषस्व ॥
७,०५४.०३ वास्तोष्पते शग्मया संसदा ते सक्षीमहि रण्वया गातुमत्या ।
७,०५४.०३ पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥
७,०५५.०१ अमीवहा वास्तोष्पते विश्वा रूपाण्याविशन् ।
७,०५५.०१ सखा सुशेव एधि नः ॥
७,०५५.०२ यदर्जुन सारमेय दतः पिशङ्ग यच्छसे ।
७,०५५.०२ वीव भ्राजन्त ऋष्टय उप स्रक्वेषु बप्सतो नि षु स्वप ॥
७,०५५.०३ स्तेनं राय सारमेय तस्करं वा पुनःसर ।
७,०५५.०३ स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥
७,०५५.०४ त्वं सूकरस्य दर्दृहि तव दर्दर्तु सूकरः ।
७,०५५.०४ स्तोतॄनिन्द्रस्य रायसि किमस्मान्दुच्छुनायसे नि षु स्वप ॥
७,०५५.०५ सस्तु माता सस्तु पिता सस्तु श्वा सस्तु विश्पतिः ।
७,०५५.०५ ससन्तु सर्वे ज्ञातयः सस्त्वयमभितो जनः ॥
७,०५५.०६ य आस्ते यश्च चरति यश्च पश्यति नो जनः ।
७,०५५.०६ तेषां सं हन्मो अक्षाणि यथेदं हर्म्यं तथा ॥
७,०५५.०७ सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत् ।
७,०५५.०७ तेना सहस्येना वयं नि जनान्स्वापयामसि ॥
७,०५५.०८ प्रोष्ठेशया वह्येशया नारीर्यास्तल्पशीवरीः ।
७,०५५.०८ स्त्रियो याः पुण्यगन्धास्ताः सर्वाः स्वापयामसि ॥
७,०५६.०१ क ईं व्यक्ता नरः सनीळा रुद्रस्य मर्या अध स्वश्वाः ॥
७,०५६.०२ नकिर्ह्येषां जनूंषि वेद ते अङ्ग विद्रे मिथो जनित्रम् ॥
७,०५६.०३ अभि स्वपूभिर्मिथो वपन्त वातस्वनसः श्येना अस्पृध्रन् ॥
७,०५६.०४ एतानि धीरो निण्या चिकेत पृश्निर्यदूधो मही जभार ॥
७,०५६.०५ सा विट्सुवीरा मरुद्भिरस्तु सनात्सहन्ती पुष्यन्ती नृम्णम् ॥
७,०५६.०६ यामं येष्ठाः शुभा शोभिष्ठाः श्रिया सम्मिश्ला ओजोभिरुग्राः ॥
७,०५६.०७ उग्रं व ओज स्थिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान् ॥
७,०५६.०८ शुभ्रो वः शुष्मः क्रुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धृष्णोः ॥
७,०५६.०९ सनेम्यस्मद्युयोत दिद्युं मा वो दुर्मतिरिह प्रणङ्नः ॥
७,०५६.१० प्रिया वो नाम हुवे तुराणामा यत्तृपन्मरुतो वावशानाः ॥
७,०५६.११ स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः शुम्भमानाः ॥
७,०५६.१२ शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः ।
७,०५६.१२ ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः ॥
७,०५६.१३ अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः ।
७,०५६.१३ वि विद्युतो न वृष्टिभी रुचाना अनु स्वधामायुधैर्यच्छमानाः ॥
७,०५६.१४ प्र बुध्न्या व ईरते महांसि प्र नामानि प्रयज्यवस्तिरध्वम् ।
७,०५६.१४ सहस्रियं दम्यं भागमेतं गृहमेधीयं मरुतो जुषध्वम् ॥
७,०५६.१५ यदि स्तुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन् ।
७,०५६.१५ मक्षू रायः सुवीर्यस्य दात नू चिद्यमन्य आदभदरावा ॥
७,०५६.१६ अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः ।
७,०५६.१६ ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीळिनः पयोधाः ॥
७,०५६.१७ दशस्यन्तो नो मरुतो मृळन्तु वरिवस्यन्तो रोदसी सुमेके ।
७,०५६.१७ आरे गोहा नृहा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम् ॥
७,०५६.१८ आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गृणानः ।
७,०५६.१८ य ईवतो वृषणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः ॥
७,०५६.१९ इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति ।
७,०५६.१९ इमे शंसं वनुष्यतो नि पान्ति गुरु द्वेषो अररुषे दधन्ति ॥
७,०५६.२० इमे रध्रं चिन्मरुतो जुनन्ति भृमिं चिद्यथा वसवो जुषन्त ।
७,०५६.२० अप बाधध्वं वृषणस्तमांसि धत्त विश्वं तनयं तोकमस्मे ॥
७,०५६.२१ मा वो दात्रान्मरुतो निरराम मा पश्चाद्दघ्म रथ्यो विभागे ।
७,०५६.२१ आ न स्पार्हे भजतना वसव्ये यदीं सुजातं वृषणो वो अस्ति ॥
७,०५६.२२ सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु ।
७,०५६.२२ अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥
७,०५६.२३ भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित् ।
७,०५६.२३ मरुद्भिरुग्रः पृतनासु साळ्हा मरुद्भिरित्सनिता वाजमर्वा ॥
७,०५६.२४ अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता ।
७,०५६.२४ अपो येन सुक्षितये तरेमाध स्वमोको अभि वः स्याम ॥
७,०५६.२५ तन्न इन्द्रो वरुणो मित्रो अग्निराप ओषधीर्वनिनो जुषन्त ।
७,०५६.२५ शर्मन्स्याम मरुतामुपस्थे यूयं पात स्वस्तिभिः सदा नः ॥
७,०५७.०१ मध्वो वो नाम मारुतं यजत्राः प्र यज्ञेषु शवसा मदन्ति ।
७,०५७.०१ ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः ॥
७,०५७.०२ निचेतारो हि मरुतो गृणन्तं प्रणेतारो यजमानस्य मन्म ।
७,०५७.०२ अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः ॥
७,०५७.०३ नैतावदन्ये मरुतो यथेमे भ्राजन्ते रुक्मैरायुधैस्तनूभिः ।
७,०५७.०३ आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम् ॥
७,०५७.०४ ऋधक्सा वो मरुतो दिद्युदस्तु यद्व आगः पुरुषता कराम ।
७,०५७.०४ मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा ॥
७,०५७.०५ कृते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः ।
७,०५७.०५ प्र णोऽवत सुमतिभिर्यजत्राः प्र वाजेभिस्तिरत पुष्यसे नः ॥
७,०५७.०६ उत स्तुतासो मरुतो व्यन्तु विश्वेभिर्नामभिर्नरो हवींषि ।
७,०५७.०६ ददात नो अमृतस्य प्रजायै जिगृत रायः सूनृता मघानि ॥
७,०५७.०७ आ स्तुतासो मरुतो विश्व ऊती अच्छा सूरीन्सर्वताता जिगात ।
७,०५७.०७ ये नस्त्मना शतिनो वर्धयन्ति यूयं पात स्वस्तिभिः सदा नः ॥
७,०५८.०१ प्र साकमुक्षे अर्चता गणाय यो दैव्यस्य धाम्नस्तुविष्मान् ।
७,०५८.०१ उत क्षोदन्ति रोदसी महित्वा नक्षन्ते नाकं निरृतेरवंशात् ॥
७,०५८.०२ जनूश्चिद्वो मरुतस्त्वेष्येण भीमासस्तुविमन्यवोऽयासः ।
७,०५८.०२ प्र ये महोभिरोजसोत सन्ति विश्वो वो यामन्भयते स्वर्दृक् ॥
७,०५८.०३ बृहद्वयो मघवद्भ्यो दधात जुजोषन्निन्मरुतः सुष्टुतिं नः ।
७,०५८.०३ गतो नाध्वा वि तिराति जन्तुं प्र ण स्पार्हाभिरूतिभिस्तिरेत ॥
७,०५८.०४ युष्मोतो विप्रो मरुतः शतस्वी युष्मोतो अर्वा सहुरिः सहस्री ।
७,०५८.०४ युष्मोतः सम्राळ् उत हन्ति वृत्रं प्र तद्वो अस्तु धूतयो देष्णम् ॥
७,०५८.०५ तां आ रुद्रस्य मीळ्हुषो विवासे कुविन्नंसन्ते मरुतः पुनर्नः ।
७,०५८.०५ यत्सस्वर्ता जिहीळिरे यदाविरव तदेन ईमहे तुराणाम् ॥
७,०५८.०६ प्र सा वाचि सुष्टुतिर्मघोनामिदं सूक्तं मरुतो जुषन्त ।
७,०५८.०६ आराच्चिद्द्वेषो वृषणो युयोत यूयं पात स्वस्तिभिः सदा नः ॥
७,०५९.०१ यं त्रायध्व इदमिदं देवासो यं च नयथ ।
७,०५९.०१ तस्मा अग्ने वरुण मित्रार्यमन्मरुतः शर्म यच्छत ॥
७,०५९.०२ युष्माकं देवा अवसाहनि प्रिय ईजानस्तरति द्विषः ।
७,०५९.०२ प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ॥
७,०५९.०३ नहि वश्चरमं चन वसिष्ठः परिमंसते ।
७,०५९.०३ अस्माकमद्य मरुतः सुते सचा विश्वे पिबत कामिनः ॥
७,०५९.०४ नहि व ऊतिः पृतनासु मर्धति यस्मा अराध्वं नरः ।
७,०५९.०४ अभि व आवर्त्सुमतिर्नवीयसी तूयं यात पिपीषवः ॥
७,०५९.०५ ओ षु घृष्विराधसो यातनान्धांसि पीतये ।
७,०५९.०५ इमा वो हव्या मरुतो ररे हि कं मो ष्वन्यत्र गन्तन ॥
७,०५९.०६ आ च नो बर्हिः सदताविता च न स्पार्हाणि दातवे वसु ।
७,०५९.०६ अस्रेधन्तो मरुतः सोम्ये मधौ स्वाहेह मादयाध्वै ॥
७,०५९.०७ सस्वश्चिद्धि तन्वः शुम्भमाना आ हंसासो नीलपृष्ठा अपप्तन् ।
७,०५९.०७ विश्वं शर्धो अभितो मा नि षेद नरो न रण्वाः सवने मदन्तः ॥
७,०५९.०८ यो नो मरुतो अभि दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
७,०५९.०८ द्रुहः पाशान्प्रति स मुचीष्ट तपिष्ठेन हन्मना हन्तना तम् ॥
७,०५९.०९ सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
७,०५९.०९ युष्माकोती रिशादसः ॥
७,०५९.१० गृहमेधास आ गत मरुतो माप भूतन ।
७,०५९.१० युष्माकोती सुदानवः ॥
७,०५९.११ इहेह वः स्वतवसः कवयः सूर्यत्वचः ।
७,०५९.११ यज्ञं मरुत आ वृणे ॥
७,०५९.१२ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
७,०५९.१२ उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
७,०६०.०१ यदद्य सूर्य ब्रवोऽनागा उद्यन्मित्राय वरुणाय सत्यम् ।
७,०६०.०१ वयं देवत्रादिते स्याम तव प्रियासो अर्यमन्गृणन्तः ॥
७,०६०.०२ एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन् ।
७,०६०.०२ विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥
७,०६०.०३ अयुक्त सप्त हरितः सधस्थाद्या ईं वहन्ति सूर्यं घृताचीः ।
७,०६०.०३ धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे ॥
७,०६०.०४ उद्वां पृक्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः ।
७,०६०.०४ यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणः सजोषाः ॥
७,०६०.०५ इमे चेतारो अनृतस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति ।
७,०६०.०५ इम ऋतस्य वावृधुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः ॥
७,०६०.०६ इमे मित्रो वरुणो दूळभासोऽचेतसं चिच्चितयन्ति दक्षैः ।
७,०६०.०६ अपि क्रतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथा नयन्ति ॥
७,०६०.०७ इमे दिवो अनिमिषा पृथिव्याश्चिकित्वांसो अचेतसं नयन्ति ।
७,०६०.०७ प्रव्राजे चिन्नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन् ॥
७,०६०.०८ यद्गोपावददितिः शर्म भद्रं मित्रो यच्छन्ति वरुणः सुदासे ।
७,०६०.०८ तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः ॥
७,०६०.०९ अव वेदिं होत्राभिर्यजेत रिपः काश्चिद्वरुणध्रुतः सः ।
७,०६०.०९ परि द्वेषोभिरर्यमा वृणक्तूरुं सुदासे वृषणा उ लोकम् ॥
७,०६०.१० सस्वश्चिद्धि समृतिस्त्वेष्येषामपीच्येन सहसा सहन्ते ।
७,०६०.१० युष्मद्भिया वृषणो रेजमाना दक्षस्य चिन्महिना मृळता नः ॥
७,०६०.११ यो ब्रह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः ।
७,०६०.११ सीक्षन्त मन्युं मघवानो अर्य उरु क्षयाय चक्रिरे सुधातु ॥
७,०६०.१२ इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
७,०६०.१२ विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥
७,०६१.०१ उद्वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान् ।
७,०६१.०१ अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत ॥
७,०६१.०२ प्र वां स मित्रावरुणावृतावा विप्रो मन्मानि दीर्घश्रुदियर्ति ।
७,०६१.०२ यस्य ब्रह्माणि सुक्रतू अवाथ आ यत्क्रत्वा न शरदः पृणैथे ॥
७,०६१.०३ प्रोरोर्मित्रावरुणा पृथिव्याः प्र दिव ऋष्वाद्बृहतः सुदानू ।
७,०६१.०३ स्पशो दधाथे ओषधीषु विक्ष्वृधग्यतो अनिमिषं रक्षमाणा ॥
७,०६१.०४ शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा ।
७,०६१.०४ अयन्मासा अयज्वनामवीराः प्र यज्ञमन्मा वृजनं तिराते ॥
७,०६१.०५ अमूरा विश्वा वृषणाविमा वां न यासु चित्रं ददृशे न यक्षम् ।
७,०६१.०५ द्रुहः सचन्ते अनृता जनानां न वां निण्यान्यचिते अभूवन् ॥
७,०६१.०६ समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः ।
७,०६१.०६ प्र वां मन्मान्यृचसे नवानि कृतानि ब्रह्म जुजुषन्निमानि ॥
७,०६१.०७ इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि ।
७,०६१.०७ विश्वानि दुर्गा पिपृतं तिरो नो यूयं पात स्वस्तिभिः सदा नः ॥
७,०६२.०१ उत्सूर्यो बृहदर्चींष्यश्रेत्पुरु विश्वा जनिम मानुषाणाम् ।
७,०६२.०१ समो दिवा ददृशे रोचमानः क्रत्वा कृतः सुकृतः कर्तृभिर्भूत् ॥
७,०६२.०२ स सूर्य प्रति पुरो न उद्गा एभि स्तोमेभिरेतशेभिरेवैः ।
७,०६२.०२ प्र नो मित्राय वरुणाय वोचोऽनागसो अर्यम्णे अग्नये च ॥
७,०६२.०३ वि नः सहस्रं शुरुधो रदन्त्वृतावानो वरुणो मित्रो अग्निः ।
७,०६२.०३ यच्छन्तु चन्द्रा उपमं नो अर्कमा नः कामं पूपुरन्तु स्तवानाः ॥
७,०६२.०४ द्यावाभूमी अदिते त्रासीथां नो ये वां जज्ञुः सुजनिमान ऋष्वे ।
७,०६२.०४ मा हेळे भूम वरुणस्य वायोर्मा मित्रस्य प्रियतमस्य नृणाम् ॥
७,०६२.०५ प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिमुक्षतं घृतेन ।
७,०६२.०५ आ नो जने श्रवयतं युवाना श्रुतं मे मित्रावरुणा हवेमा ॥
७,०६२.०६ नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
७,०६२.०६ सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
७,०६३.०१ उद्वेति सुभगो विश्वचक्षाः साधारणः सूर्यो मानुषाणाम् ।
७,०६३.०१ चक्षुर्मित्रस्य वरुणस्य देवश्चर्मेव यः समविव्यक्तमांसि ॥
७,०६३.०२ उद्वेति प्रसवीता जनानां महान्केतुरर्णवः सूर्यस्य ।
७,०६३.०२ समानं चक्रं पर्याविवृत्सन्यदेतशो वहति धूर्षु युक्तः ॥
७,०६३.०३ विभ्राजमान उषसामुपस्थाद्रेभैरुदेत्यनुमद्यमानः ।
७,०६३.०३ एष मे देवः सविता चच्छन्द यः समानं न प्रमिनाति धाम ॥
७,०६३.०४ दिवो रुक्म उरुचक्षा उदेति दूरेअर्थस्तरणिर्भ्राजमानः ।
७,०६३.०४ नूनं जनाः सूर्येण प्रसूता अयन्नर्थानि कृणवन्नपांसि ॥
७,०६३.०५ यत्रा चक्रुरमृता गातुमस्मै श्येनो न दीयन्नन्वेति पाथः ।
७,०६३.०५ प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः ॥
७,०६३.०६ नू मित्रो वरुणो अर्यमा नस्त्मने तोकाय वरिवो दधन्तु ।
७,०६३.०६ सुगा नो विश्वा सुपथानि सन्तु यूयं पात स्वस्तिभिः सदा नः ॥
७,०६४.०१ दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् ।
७,०६४.०१ हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त ॥
७,०६४.०२ आ राजाना मह ऋतस्य गोपा सिन्धुपती क्षत्रिया यातमर्वाक् ।
७,०६४.०२ इळां नो मित्रावरुणोत वृष्टिमव दिव इन्वतं जीरदानू ॥
७,०६४.०३ मित्रस्तन्नो वरुणो देवो अर्यः प्र साधिष्ठेभिः पथिभिर्नयन्तु ।
७,०६४.०३ ब्रवद्यथा न आदरिः सुदास इषा मदेम सह देवगोपाः ॥
७,०६४.०४ यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च ।
७,०६४.०४ उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥
७,०६४.०५ एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।
७,०६४.०५ अविष्टं धियो जिगृतं पुरन्धीर्यूयं पात स्वस्तिभिः सदा नः ॥
७,०६५.०१ प्रति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम् ।
७,०६५.०१ ययोरसुर्यमक्षितं ज्येष्ठं विश्वस्य यामन्नाचिता जिगत्नु ॥
७,०६५.०२ ता हि देवानामसुरा तावर्या ता नः क्षितीः करतमूर्जयन्तीः ।
७,०६५.०२ अश्याम मित्रावरुणा वयं वां द्यावा च यत्र पीपयन्नहा च ॥
७,०६५.०३ ता भूरिपाशावनृतस्य सेतू दुरत्येतू रिपवे मर्त्याय ।
७,०६५.०३ ऋतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम ॥
७,०६५.०४ आ नो मित्रावरुणा हव्यजुष्टिं घृतैर्गव्यूतिमुक्षतमिळाभिः ।
७,०६५.०४ प्रति वामत्र वरमा जनाय पृणीतमुद्नो दिव्यस्य चारोः ॥
७,०६५.०५ एष स्तोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवेऽयामि ।
७,०६५.०५ अविष्टं धियो जिगृतं पुरन्धीर्यूयं पात स्वस्तिभिः सदा नः ॥
७,०६६.०१ प्र मित्रयोर्वरुणयो स्तोमो न एतु शूष्यः ।
७,०६६.०१ नमस्वान्तुविजातयोः ॥
७,०६६.०२ या धारयन्त देवाः सुदक्षा दक्षपितरा ।
७,०६६.०२ असुर्याय प्रमहसा ॥
७,०६६.०३ ता न स्तिपा तनूपा वरुण जरितॄणाम् ।
७,०६६.०३ मित्र साधयतं धियः ॥
७,०६६.०४ यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।
७,०६६.०४ सुवाति सविता भगः ॥
७,०६६.०५ सुप्रावीरस्तु स क्षयः प्र नु यामन्सुदानवः ।
७,०६६.०५ ये नो अंहोऽतिपिप्रति ॥
७,०६६.०६ उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।
७,०६६.०६ महो राजान ईशते ॥
७,०६६.०७ प्रति वां सूर उदिते मित्रं गृणीषे वरुणम् ।
७,०६६.०७ अर्यमणं रिशादसम् ॥
७,०६६.०८ राया हिरण्यया मतिरियमवृकाय शवसे ।
७,०६६.०८ इयं विप्रा मेधसातये ॥
७,०६६.०९ ते स्याम देव वरुण ते मित्र सूरिभिः सह ।
७,०६६.०९ इषं स्वश्च धीमहि ॥
७,०६६.१० बहवः सूरचक्षसोऽग्निजिह्वा ऋतावृधः ।
७,०६६.१० त्रीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः ॥
७,०६६.११ वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चादृचम् ।
७,०६६.११ अनाप्यं वरुणो मित्रो अर्यमा क्षत्रं राजान आशत ॥
७,०६६.१२ तद्वो अद्य मनामहे सूक्तैः सूर उदिते ।
७,०६६.१२ यदोहते वरुणो मित्रो अर्यमा यूयमृतस्य रथ्यः ॥
७,०६६.१३ ऋतावान ऋतजाता ऋतावृधो घोरासो अनृतद्विषः ।
७,०६६.१३ तेषां वः सुम्ने सुच्छर्दिष्टमे नरः स्याम ये च सूरयः ॥
७,०६६.१४ उदु त्यद्दर्शतं वपुर्दिव एति प्रतिह्वरे ।
७,०६६.१४ यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम् ॥
७,०६६.१५ शीर्ष्णःशीर्ष्णो जगतस्तस्थुषस्पतिं समया विश्वमा रजः ।
७,०६६.१५ सप्त स्वसारः सुविताय सूर्यं वहन्ति हरितो रथे ॥
७,०६६.१६ तच्चक्षुर्देवहितं शुक्रमुच्चरत् ।
७,०६६.१६ पश्येम शरदः शतं जीवेम शरदः शतम् ॥
७,०६६.१७ काव्येभिरदाभ्या यातं वरुण द्युमत् ।
७,०६६.१७ मित्रश्च सोमपीतये ॥
७,०६६.१८ दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा ।
७,०६६.१८ पिबतं सोममातुजी ॥
७,०६६.१९ आ यातं मित्रावरुणा जुषाणावाहुतिं नरा ।
७,०६६.१९ पातं सोममृतावृधा ॥
७,०६७.०१ प्रति वां रथं नृपती जरध्यै हविष्मता मनसा यज्ञियेन ।
७,०६७.०१ यो वां दूतो न धिष्ण्यावजीगरच्छा सूनुर्न पितरा विवक्मि ॥
७,०६७.०२ अशोच्यग्निः समिधानो अस्मे उपो अदृश्रन्तमसश्चिदन्ताः ।
७,०६७.०२ अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः ॥
७,०६७.०३ अभि वां नूनमश्विना सुहोता स्तोमैः सिषक्ति नासत्या विवक्वान् ।
७,०६७.०३ पूर्वीभिर्यातं पथ्याभिरर्वाक्स्वर्विदा वसुमता रथेन ॥
७,०६७.०४ अवोर्वां नूनमश्विना युवाकुर्हुवे यद्वां सुते माध्वी वसूयुः ।
७,०६७.०४ आ वां वहन्तु स्थविरासो अश्वाः पिबाथो अस्मे सुषुता मधूनि ॥
७,०६७.०५ प्राचीमु देवाश्विना धियं मेऽमृध्रां सातये कृतं वसूयुम् ।
७,०६७.०५ विश्वा अविष्टं वाज आ पुरन्धीस्ता नः शक्तं शचीपती शचीभिः ॥
७,०६७.०६ अविष्टं धीष्वश्विना न आसु प्रजावद्रेतो अह्रयं नो अस्तु ।
७,०६७.०६ आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिं गमेम ॥
७,०६७.०७ एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे ।
७,०६७.०७ अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥
७,०६७.०८ एकस्मिन्योगे भुरणा समाने परि वां सप्त स्रवतो रथो गात् ।
७,०६७.०८ न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयो वहन्ति ॥
७,०६७.०९ असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति ।
७,०६७.०९ प्र ये बन्धुं सूनृताभिस्तिरन्ते गव्या पृञ्चन्तो अश्व्या मघानि ॥
७,०६७.१० नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
७,०६७.१० धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥
७,०६८.०१ आ शुभ्रा यातमश्विना स्वश्वा गिरो दस्रा जुजुषाणा युवाकोः ।
७,०६८.०१ हव्यानि च प्रतिभृता वीतं नः ॥
७,०६८.०२ प्र वामन्धांसि मद्यान्यस्थुररं गन्तं हविषो वीतये मे ।
७,०६८.०२ तिरो अर्यो हवनानि श्रुतं नः ॥
७,०६८.०३ प्र वां रथो मनोजवा इयर्ति तिरो रजांस्यश्विना शतोतिः ।
७,०६८.०३ अस्मभ्यं सूर्यावसू इयानः ॥
७,०६८.०४ अयं ह यद्वां देवया उ अद्रिरूर्ध्वो विवक्ति सोमसुद्युवभ्याम् ।
७,०६८.०४ आ वल्गू विप्रो ववृतीत हव्यैः ॥
७,०६८.०५ चित्रं ह यद्वां भोजनं न्वस्ति न्यत्रये महिष्वन्तं युयोतम् ।
७,०६८.०५ यो वामोमानं दधते प्रियः सन् ॥
७,०६८.०६ उत त्यद्वां जुरते अश्विना भूच्च्यवानाय प्रतीत्यं हविर्दे ।
७,०६८.०६ अधि यद्वर्प इतऊति धत्थः ॥
७,०६८.०७ उत त्यं भुज्युमश्विना सखायो मध्ये जहुर्दुरेवासः समुद्रे ।
७,०६८.०७ निरीं पर्षदरावा यो युवाकुः ॥
७,०६८.०८ वृकाय चिज्जसमानाय शक्तमुत श्रुतं शयवे हूयमाना ।
७,०६८.०८ यावघ्न्यामपिन्वतमपो न स्तर्यं चिच्छक्त्यश्विना शचीभिः ॥
७,०६८.०९ एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा ।
७,०६८.०९ इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभिः सदा नः ॥
७,०६९.०१ आ वां रथो रोदसी बद्बधानो हिरण्ययो वृषभिर्यात्वश्वैः ।
७,०६९.०१ घृतवर्तनिः पविभी रुचान इषां वोळ्हा नृपतिर्वाजिनीवान् ॥
७,०६९.०२ स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः ।
७,०६९.०२ विशो येन गच्छथो देवयन्तीः कुत्रा चिद्याममश्विना दधाना ॥
७,०६९.०३ स्वश्वा यशसा यातमर्वाग्दस्रा निधिं मधुमन्तं पिबाथः ।
७,०६९.०३ वि वां रथो वध्वा यादमानोऽन्तान्दिवो बाधते वर्तनिभ्याम् ॥
७,०६९.०४ युवोः श्रियं परि योषावृणीत सूरो दुहिता परितक्म्यायाम् ।
७,०६९.०४ यद्देवयन्तमवथः शचीभिः परि घ्रंसमोमना वां वयो गात् ॥
७,०६९.०५ यो ह स्य वां रथिरा वस्त उस्रा रथो युजानः परियाति वर्तिः ।
७,०६९.०५ तेन नः शं योरुषसो व्युष्टौ न्यश्विना वहतं यज्ञे अस्मिन् ॥
७,०६९.०६ नरा गौरेव विद्युतं तृषाणास्माकमद्य सवनोप यातम् ।
७,०६९.०६ पुरुत्रा हि वां मतिभिर्हवन्ते मा वामन्ये नि यमन्देवयन्तः ॥
७,०६९.०७ युवं भुज्युमवविद्धं समुद्र उदूहथुरर्णसो अस्रिधानैः ।
७,०६९.०७ पतत्रिभिरश्रमैरव्यथिभिर्दंसनाभिरश्विना पारयन्ता ॥
७,०६९.०८ नू मे हवमा शृणुतं युवाना यासिष्टं वर्तिरश्विनाविरावत् ।
७,०६९.०८ धत्तं रत्नानि जरतं च सूरीन्यूयं पात स्वस्तिभिः सदा नः ॥
७,०७०.०१ आ विश्ववाराश्विना गतं नः प्र तत्स्थानमवाचि वां पृथिव्याम् ।
७,०७०.०१ अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदथुर्ध्रुवसे न योनिम् ॥
७,०७०.०२ सिषक्ति सा वां सुमतिश्चनिष्ठातापि घर्मो मनुषो दुरोणे ।
७,०७०.०२ यो वां समुद्रान्सरितः पिपर्त्येतग्वा चिन्न सुयुजा युजानः ॥
७,०७०.०३ यानि स्थानान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु ।
७,०७०.०३ नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥
७,०७०.०४ चनिष्टं देवा ओषधीष्वप्सु यद्योग्या अश्नवैथे ऋषीणाम् ।
७,०७०.०४ पुरूणि रत्ना दधतौ न्यस्मे अनु पूर्वाणि चख्यथुर्युगानि ॥
७,०७०.०५ शुश्रुवांसा चिदश्विना पुरूण्यभि ब्रह्माणि चक्षाथे ऋषीणाम् ।
७,०७०.०५ प्रति प्र यातं वरमा जनायास्मे वामस्तु सुमतिश्चनिष्ठा ॥
७,०७०.०६ यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो भवाति ।
७,०७०.०६ उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥
७,०७०.०७ इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
७,०७०.०७ इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥
७,०७१.०१ अप स्वसुरुषसो नग्जिहीते रिणक्ति कृष्णीररुषाय पन्थाम् ।
७,०७१.०१ अश्वामघा गोमघा वां हुवेम दिवा नक्तं शरुमस्मद्युयोतम् ॥
७,०७१.०२ उपायातं दाशुषे मर्त्याय रथेन वाममश्विना वहन्ता ।
७,०७१.०२ युयुतमस्मदनिराममीवां दिवा नक्तं माध्वी त्रासीथां नः ॥
७,०७१.०३ आ वां रथमवमस्यां व्युष्टौ सुम्नायवो वृषणो वर्तयन्तु ।
७,०७१.०३ स्यूमगभस्तिमृतयुग्भिरश्वैराश्विना वसुमन्तं वहेथाम् ॥
७,०७१.०४ यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमां उस्रयामा ।
७,०७१.०४ आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥
७,०७१.०५ युवं च्यवानं जरसोऽमुमुक्तं नि पेदव ऊहथुराशुमश्वम् ।
७,०७१.०५ निरंहसस्तमस स्पर्तमत्रिं नि जाहुषं शिथिरे धातमन्तः ॥
७,०७१.०६ इयं मनीषा इयमश्विना गीरिमां सुवृक्तिं वृषणा जुषेथाम् ।
७,०७१.०६ इमा ब्रह्माणि युवयून्यग्मन्यूयं पात स्वस्तिभिः सदा नः ॥
७,०७२.०१ आ गोमता नासत्या रथेनाश्वावता पुरुश्चन्द्रेण यातम् ।
७,०७२.०१ अभि वां विश्वा नियुतः सचन्ते स्पार्हया श्रिया तन्वा शुभाना ॥
७,०७२.०२ आ नो देवेभिरुप यातमर्वाक्सजोषसा नासत्या रथेन ।
७,०७२.०२ युवोर्हि नः सख्या पित्र्याणि समानो बन्धुरुत तस्य वित्तम् ॥
७,०७२.०३ उदु स्तोमासो अश्विनोरबुध्रञ्जामि ब्रह्माण्युषसश्च देवीः ।
७,०७२.०३ आविवासन्रोदसी धिष्ण्येमे अच्छा विप्रो नासत्या विवक्ति ॥
७,०७२.०४ वि चेदुच्छन्त्यश्विना उषासः प्र वां ब्रह्माणि कारवो भरन्ते ।
७,०७२.०४ ऊर्ध्वं भानुं सविता देवो अश्रेद्बृहदग्नयः समिधा जरन्ते ॥
७,०७२.०५ आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
७,०७२.०५ आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥
७,०७३.०१ अतारिष्म तमसस्पारमस्य प्रति स्तोमं देवयन्तो दधानाः ।
७,०७३.०१ पुरुदंसा पुरुतमा पुराजामर्त्या हवते अश्विना गीः ॥
७,०७३.०२ न्यु प्रियो मनुषः सादि होता नासत्या यो यजते वन्दते च ।
७,०७३.०२ अश्नीतं मध्वो अश्विना उपाक आ वां वोचे विदथेषु प्रयस्वान् ॥
७,०७३.०३ अहेम यज्ञं पथामुराणा इमां सुवृक्तिं वृषणा जुषेथाम् ।
७,०७३.०३ श्रुष्टीवेव प्रेषितो वामबोधि प्रति स्तोमैर्जरमाणो वसिष्ठः ॥
७,०७३.०४ उप त्या वह्नी गमतो विशं नो रक्षोहणा सम्भृता वीळुपाणी ।
७,०७३.०४ समन्धांस्यग्मत मत्सराणि मा नो मर्धिष्टमा गतं शिवेन ॥
७,०७३.०५ आ पश्चातान्नासत्या पुरस्तादाश्विना यातमधरादुदक्तात् ।
७,०७३.०५ आ विश्वतः पाञ्चजन्येन राया यूयं पात स्वस्तिभिः सदा नः ॥
७,०७४.०१ इमा उ वां दिविष्टय उस्रा हवन्ते अश्विना ।
७,०७४.०१ अयं वामह्वेऽवसे शचीवसू विशंविशं हि गच्छथः ॥
७,०७४.०२ युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते ।
७,०७४.०२ अर्वाग्रथं समनसा नि यच्छतं पिबतं सोम्यं मधु ॥
७,०७४.०३ आ यातमुप भूषतं मध्वः पिबतमश्विना ।
७,०७४.०३ दुग्धं पयो वृषणा जेन्यावसू मा नो मर्धिष्टमा गतम् ॥
७,०७४.०४ अश्वासो ये वामुप दाशुषो गृहं युवां दीयन्ति बिभ्रतः ।
७,०७४.०४ मक्षूयुभिर्नरा हयेभिरश्विना देवा यातमस्मयू ॥
७,०७४.०५ अधा ह यन्तो अश्विना पृक्षः सचन्त सूरयः ।
७,०७४.०५ ता यंसतो मघवद्भ्यो ध्रुवं यशश्छर्दिरस्मभ्यं नासत्या ॥
७,०७४.०६ प्र ये ययुरवृकासो रथा इव नृपातारो जनानाम् ।
७,०७४.०६ उत स्वेन शवसा शूशुवुर्नर उत क्षियन्ति सुक्षितिम् ॥
७,०७५.०१ व्युषा आवो दिविजा ऋतेनाविष्कृण्वाना महिमानमागात् ।
७,०७५.०१ अप द्रुहस्तम आवरजुष्टमङ्गिरस्तमा पथ्या अजीगः ॥
७,०७५.०२ महे नो अद्य सुविताय बोध्युषो महे सौभगाय प्र यन्धि ।
७,०७५.०२ चित्रं रयिं यशसं धेह्यस्मे देवि मर्तेषु मानुषि श्रवस्युम् ॥
७,०७५.०३ एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगुः ।
७,०७५.०३ जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः ॥
७,०७५.०४ एषा स्या युजाना पराकात्पञ्च क्षितीः परि सद्यो जिगाति ।
७,०७५.०४ अभिपश्यन्ती वयुना जनानां दिवो दुहिता भुवनस्य पत्नी ॥
७,०७५.०५ वाजिनीवती सूर्यस्य योषा चित्रामघा राय ईशे वसूनाम् ।
७,०७५.०५ ऋषिष्टुता जरयन्ती मघोन्युषा उच्छति वह्निभिर्गृणाना ॥
७,०७५.०६ प्रति द्युतानामरुषासो अश्वाश्चित्रा अदृश्रन्नुषसं वहन्तः ।
७,०७५.०६ याति शुभ्रा विश्वपिशा रथेन दधाति रत्नं विधते जनाय ॥
७,०७५.०७ सत्या सत्येभिर्महती महद्भिर्देवी देवेभिर्यजता यजत्रैः ।
७,०७५.०७ रुजद्दृळ्हानि दददुस्रियाणां प्रति गाव उषसं वावशन्त ॥
७,०७५.०८ नू नो गोमद्वीरवद्धेहि रत्नमुषो अश्वावत्पुरुभोजो अस्मे ।
७,०७५.०८ मा नो बर्हिः पुरुषता निदे कर्यूयं पात स्वस्तिभिः सदा नः ॥
७,०७६.०१ उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ।
७,०७६.०१ क्रत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनं विश्वमुषाः ॥
७,०७६.०२ प्र मे पन्था देवयाना अदृश्रन्नमर्धन्तो वसुभिरिष्कृतासः ।
७,०७६.०२ अभूदु केतुरुषसः पुरस्तात्प्रतीच्यागादधि हर्म्येभ्यः ॥
७,०७६.०३ तानीदहानि बहुलान्यासन्या प्राचीनमुदिता सूर्यस्य ।
७,०७६.०३ यतः परि जार इवाचरन्त्युषो ददृक्षे न पुनर्यतीव ॥
७,०७६.०४ त इद्देवानां सधमाद आसन्नृतावानः कवयः पूर्व्यासः ।
७,०७६.०४ गूळ्हं ज्योतिः पितरो अन्वविन्दन्सत्यमन्त्रा अजनयन्नुषासम् ॥
७,०७६.०५ समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते ।
७,०७६.०५ ते देवानां न मिनन्ति व्रतान्यमर्धन्तो वसुभिर्यादमानाः ॥
७,०७६.०६ प्रति त्वा स्तोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः ।
७,०७६.०६ गवां नेत्री वाजपत्नी न उच्छोषः सुजाते प्रथमा जरस्व ॥
७,०७६.०७ एषा नेत्री राधसः सूनृतानामुषा उच्छन्ती रिभ्यते वसिष्ठैः ।
७,०७६.०७ दीर्घश्रुतं रयिमस्मे दधाना यूयं पात स्वस्तिभिः सदा नः ॥
७,०७७.०१ उपो रुरुचे युवतिर्न योषा विश्वं जीवं प्रसुवन्ती चरायै ।
७,०७७.०१ अभूदग्निः समिधे मानुषाणामकर्ज्योतिर्बाधमाना तमांसि ॥
७,०७७.०२ विश्वं प्रतीची सप्रथा उदस्थाद्रुशद्वासो बिभ्रती शुक्रमश्वैत् ।
७,०७७.०२ हिरण्यवर्णा सुदृशीकसंदृग्गवां माता नेत्र्यह्नामरोचि ॥
७,०७७.०३ देवानां चक्षुः सुभगा वहन्ती श्वेतं नयन्ती सुदृशीकमश्वम् ।
७,०७७.०३ उषा अदर्शि रश्मिभिर्व्यक्ता चित्रामघा विश्वमनु प्रभूता ॥
७,०७७.०४ अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः ।
७,०७७.०४ यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥
७,०७७.०५ अस्मे श्रेष्ठेभिर्भानुभिर्वि भाह्युषो देवि प्रतिरन्ती न आयुः ।
७,०७७.०५ इषं च नो दधती विश्ववारे गोमदश्वावद्रथवच्च राधः ॥
७,०७७.०६ यां त्वा दिवो दुहितर्वर्धयन्त्युषः सुजाते मतिभिर्वसिष्ठाः ।
७,०७७.०६ सास्मासु धा रयिमृष्वं बृहन्तं यूयं पात स्वस्तिभिः सदा नः ॥
७,०७८.०१ प्रति केतवः प्रथमा अदृश्रन्नूर्ध्वा अस्या अञ्जयो वि श्रयन्ते ।
७,०७८.०१ उषो अर्वाचा बृहता रथेन ज्योतिष्मता वाममस्मभ्यं वक्षि ॥
७,०७८.०२ प्रति षीमग्निर्जरते समिद्धः प्रति विप्रासो मतिभिर्गृणन्तः ।
७,०७८.०२ उषा याति ज्योतिषा बाधमाना विश्वा तमांसि दुरिताप देवी ॥
७,०७८.०३ एता उ त्याः प्रत्यदृश्रन्पुरस्ताज्ज्योतिर्यच्छन्तीरुषसो विभातीः ।
७,०७८.०३ अजीजनन्सूर्यं यज्ञमग्निमपाचीनं तमो अगादजुष्टम् ॥
७,०७८.०४ अचेति दिवो दुहिता मघोनी विश्वे पश्यन्त्युषसं विभातीम् ।
७,०७८.०४ आस्थाद्रथं स्वधया युज्यमानमा यमश्वासः सुयुजो वहन्ति ॥
७,०७८.०५ प्रति त्वाद्य सुमनसो बुधन्तास्माकासो मघवानो वयं च ।
७,०७८.०५ तिल्विलायध्वमुषसो विभातीर्यूयं पात स्वस्तिभिः सदा नः ॥
७,०७९.०१ व्युषा आवः पथ्या जनानां पञ्च क्षितीर्मानुषीर्बोधयन्ती ।
७,०७९.०१ सुसंदृग्भिरुक्षभिर्भानुमश्रेद्वि सूर्यो रोदसी चक्षसावः ॥
७,०७९.०२ व्यञ्जते दिवो अन्तेष्वक्तून्विशो न युक्ता उषसो यतन्ते ।
७,०७९.०२ सं ते गावस्तम आ वर्तयन्ति ज्योतिर्यच्छन्ति सवितेव बाहू ॥
७,०७९.०३ अभूदुषा इन्द्रतमा मघोन्यजीजनत्सुविताय श्रवांसि ।
७,०७९.०३ वि दिवो देवी दुहिता दधात्यङ्गिरस्तमा सुकृते वसूनि ॥
७,०७९.०४ तावदुषो राधो अस्मभ्यं रास्व यावत्स्तोतृभ्यो अरदो गृणाना ।
७,०७९.०४ यां त्वा जज्ञुर्वृषभस्या रवेण वि दृळ्हस्य दुरो अद्रेरौर्णोः ॥
७,०७९.०५ देवंदेवं राधसे चोदयन्त्यस्मद्र्यक्सूनृता ईरयन्ती ।
७,०७९.०५ व्युच्छन्ती नः सनये धियो धा यूयं पात स्वस्तिभिः सदा नः ॥
७,०८०.०१ प्रति स्तोमेभिरुषसं वसिष्ठा गीर्भिर्विप्रासः प्रथमा अबुध्रन् ।
७,०८०.०१ विवर्तयन्तीं रजसी समन्ते आविष्कृण्वतीं भुवनानि विश्वा ॥
७,०८०.०२ एषा स्या नव्यमायुर्दधाना गूढ्वी तमो ज्योतिषोषा अबोधि ।
७,०८०.०२ अग्र एति युवतिरह्रयाणा प्राचिकितत्सूर्यं यज्ञमग्निम् ॥
७,०८०.०३ अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः ।
७,०८०.०३ घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥
७,०८१.०१ प्रत्यु अदर्श्यायत्युच्छन्ती दुहिता दिवः ।
७,०८१.०१ अपो महि व्ययति चक्षसे तमो ज्योतिष्कृणोति सूनरी ॥
७,०८१.०२ उदुस्रियाः सृजते सूर्यः सचां उद्यन्नक्षत्रमर्चिवत् ।
७,०८१.०२ तवेदुषो व्युषि सूर्यस्य च सं भक्तेन गमेमहि ॥
७,०८१.०३ प्रति त्वा दुहितर्दिव उषो जीरा अभुत्स्महि ।
७,०८१.०३ या वहसि पुरु स्पार्हं वनन्वति रत्नं न दाशुषे मयः ॥
७,०८१.०४ उच्छन्ती या कृणोषि मंहना महि प्रख्यै देवि स्वर्दृशे ।
७,०८१.०४ तस्यास्ते रत्नभाज ईमहे वयं स्याम मातुर्न सूनवः ॥
७,०८१.०५ तच्चित्रं राध आ भरोषो यद्दीर्घश्रुत्तमम् ।
७,०८१.०५ यत्ते दिवो दुहितर्मर्तभोजनं तद्रास्व भुनजामहै ॥
७,०८१.०६ श्रवः सूरिभ्यो अमृतं वसुत्वनं वाजां अस्मभ्यं गोमतः ।
७,०८१.०६ चोदयित्री मघोनः सूनृतावत्युषा उच्छदप स्रिधः ॥
७,०८२.०१ इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यच्छतम् ।
७,०८२.०१ दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
७,०८२.०२ सम्राळ् अन्यः स्वराळ् अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू ।
७,०८२.०२ विश्वे देवासः परमे व्योमनि सं वामोजो वृषणा सं बलं दधुः ॥
७,०८२.०३ अन्वपां खान्यतृन्तमोजसा सूर्यमैरयतं दिवि प्रभुम् ।
७,०८२.०३ इन्द्रावरुणा मदे अस्य मायिनोऽपिन्वतमपितः पिन्वतं धियः ॥
७,०८२.०४ युवामिद्युत्सु पृतनासु वह्नयो युवां क्षेमस्य प्रसवे मितज्ञवः ।
७,०८२.०४ ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे ॥
७,०८२.०५ इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्य मज्मना ।
७,०८२.०५ क्षेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते ॥
७,०८२.०६ महे शुल्काय वरुणस्य नु त्विष ओजो मिमाते ध्रुवमस्य यत्स्वम् ।
७,०८२.०६ अजामिमन्यः श्नथयन्तमातिरद्दभ्रेभिरन्यः प्र वृणोति भूयसः ॥
७,०८२.०७ न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन ।
७,०८२.०७ यस्य देवा गच्छथो वीथो अध्वरं न तं मर्तस्य नशते परिह्वृतिः ॥
७,०८२.०८ अर्वाङ्नरा दैव्येनावसा गतं शृणुतं हवं यदि मे जुजोषथः ।
७,०८२.०८ युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यच्छतम् ॥
७,०८२.०९ अस्माकमिन्द्रावरुणा भरेभरे पुरोयोधा भवतं कृष्ट्योजसा ।
७,०८२.०९ यद्वां हवन्त उभये अध स्पृधि नरस्तोकस्य तनयस्य सातिषु ॥
७,०८२.१० अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
७,०८२.१० अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥
७,०८३.०१ युवां नरा पश्यमानास आप्यं प्राचा गव्यन्तः पृथुपर्शवो ययुः ।
७,०८३.०१ दासा च वृत्रा हतमार्याणि च सुदासमिन्द्रावरुणावसावतम् ॥
७,०८३.०२ यत्रा नरः समयन्ते कृतध्वजो यस्मिन्नाजा भवति किं चन प्रियम् ।
७,०८३.०२ यत्रा भयन्ते भुवना स्वर्दृशस्तत्रा न इन्द्रावरुणाधि वोचतम् ॥
७,०८३.०३ सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् ।
७,०८३.०३ अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम् ॥
७,०८३.०४ इन्द्रावरुणा वधनाभिरप्रति भेदं वन्वन्ता प्र सुदासमावतम् ।
७,०८३.०४ ब्रह्माण्येषां शृणुतं हवीमनि सत्या तृत्सूनामभवत्पुरोहितिः ॥
७,०८३.०५ इन्द्रावरुणावभ्या तपन्ति माघान्यर्यो वनुषामरातयः ।
७,०८३.०५ युवं हि वस्व उभयस्य राजथोऽध स्मा नोऽवतं पार्ये दिवि ॥
७,०८३.०६ युवां हवन्त उभयास आजिष्विन्द्रं च वस्वो वरुणं च सातये ।
७,०८३.०६ यत्र राजभिर्दशभिर्निबाधितं प्र सुदासमावतं तृत्सुभिः सह ॥
७,०८३.०७ दश राजानः समिता अयज्यवः सुदासमिन्द्रावरुणा न युयुधुः ।
७,०८३.०७ सत्या नृणामद्मसदामुपस्तुतिर्देवा एषामभवन्देवहूतिषु ॥
७,०८३.०८ दाशराज्ञे परियत्ताय विश्वतः सुदास इन्द्रावरुणावशिक्षतम् ।
७,०८३.०८ श्वित्यञ्चो यत्र नमसा कपर्दिनो धिया धीवन्तो असपन्त तृत्सवः ॥
७,०८३.०९ वृत्राण्यन्यः समिथेषु जिघ्नते व्रतान्यन्यो अभि रक्षते सदा ।
७,०८३.०९ हवामहे वां वृषणा सुवृक्तिभिरस्मे इन्द्रावरुणा शर्म यच्छतम् ॥
७,०८३.१० अस्मे इन्द्रो वरुणो मित्रो अर्यमा द्युम्नं यच्छन्तु महि शर्म सप्रथः ।
७,०८३.१० अवध्रं ज्योतिरदितेरृतावृधो देवस्य श्लोकं सवितुर्मनामहे ॥
७,०८४.०१ आ वां राजानावध्वरे ववृत्यां हव्येभिरिन्द्रावरुणा नमोभिः ।
७,०८४.०१ प्र वां घृताची बाह्वोर्दधाना परि त्मना विषुरूपा जिगाति ॥
७,०८४.०२ युवो राष्ट्रं बृहदिन्वति द्यौर्यौ सेतृभिररज्जुभिः सिनीथः ।
७,०८४.०२ परि नो हेळो वरुणस्य वृज्या उरुं न इन्द्रः कृणवदु लोकम् ॥
७,०८४.०३ कृतं नो यज्ञं विदथेषु चारुं कृतं ब्रह्माणि सूरिषु प्रशस्ता ।
७,०८४.०३ उपो रयिर्देवजूतो न एतु प्र ण स्पार्हाभिरूतिभिस्तिरेतम् ॥
७,०८४.०४ अस्मे इन्द्रावरुणा विश्ववारं रयिं धत्तं वसुमन्तं पुरुक्षुम् ।
७,०८४.०४ प्र य आदित्यो अनृता मिनात्यमिता शूरो दयते वसूनि ॥
७,०८४.०५ इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
७,०८४.०५ सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥
७,०८५.०१ पुनीषे वामरक्षसं मनीषां सोममिन्द्राय वरुणाय जुह्वत् ।
७,०८५.०१ घृतप्रतीकामुषसं न देवीं ता नो यामन्नुरुष्यतामभीके ॥
७,०८५.०२ स्पर्धन्ते वा उ देवहूये अत्र येषु ध्वजेषु दिद्यवः पतन्ति ।
७,०८५.०२ युवं तां इन्द्रावरुणावमित्रान्हतं पराचः शर्वा विषूचः ॥
७,०८५.०३ आपश्चिद्धि स्वयशसः सदस्सु देवीरिन्द्रं वरुणं देवता धुः ।
७,०८५.०३ कृष्टीरन्यो धारयति प्रविक्ता वृत्राण्यन्यो अप्रतीनि हन्ति ॥
७,०८५.०४ स सुक्रतुरृतचिदस्तु होता य आदित्य शवसा वां नमस्वान् ।
७,०८५.०४ आववर्तदवसे वां हविष्मानसदित्स सुविताय प्रयस्वान् ॥
७,०८५.०५ इयमिन्द्रं वरुणमष्ट मे गीः प्रावत्तोके तनये तूतुजाना ।
७,०८५.०५ सुरत्नासो देववीतिं गमेम यूयं पात स्वस्तिभिः सदा नः ॥
७,०८६.०१ धीरा त्वस्य महिना जनूंषि वि यस्तस्तम्भ रोदसी चिदुर्वी ।
७,०८६.०१ प्र नाकमृष्वं नुनुदे बृहन्तं द्विता नक्षत्रं पप्रथच्च भूम ॥
७,०८६.०२ उत स्वया तन्वा सं वदे तत्कदा न्वन्तर्वरुणे भुवानि ।
७,०८६.०२ किं मे हव्यमहृणानो जुषेत कदा मृळीकं सुमना अभि ख्यम् ॥
७,०८६.०३ पृच्छे तदेनो वरुण दिदृक्षूपो एमि चिकितुषो विपृच्छम् ।
७,०८६.०३ समानमिन्मे कवयश्चिदाहुरयं ह तुभ्यं वरुणो हृणीते ॥
७,०८६.०४ किमाग आस वरुण ज्येष्ठं यत्स्तोतारं जिघांससि सखायम् ।
७,०८६.०४ प्र तन्मे वोचो दूळभ स्वधावोऽव त्वानेना नमसा तुर इयाम् ॥
७,०८६.०५ अव द्रुग्धानि पित्र्या सृजा नोऽव या वयं चकृमा तनूभिः ।
७,०८६.०५ अव राजन्पशुतृपं न तायुं सृजा वत्सं न दाम्नो वसिष्ठम् ॥
७,०८६.०६ न स स्वो दक्षो वरुण ध्रुतिः सा सुरा मन्युर्विभीदको अचित्तिः ।
७,०८६.०६ अस्ति ज्यायान्कनीयस उपारे स्वप्नश्चनेदनृतस्य प्रयोता ॥
७,०८६.०७ अरं दासो न मीळ्हुषे कराण्यहं देवाय भूर्णयेऽनागाः ।
७,०८६.०७ अचेतयदचितो देवो अर्यो गृत्सं राये कवितरो जुनाति ॥
७,०८६.०८ अयं सु तुभ्यं वरुण स्वधावो हृदि स्तोम उपश्रितश्चिदस्तु ।
७,०८६.०८ शं नः क्षेमे शमु योगे नो अस्तु यूयं पात स्वस्तिभिः सदा नः ॥
७,०८७.०१ रदत्पथो वरुणः सूर्याय प्रार्णांसि समुद्रिया नदीनाम् ।
७,०८७.०१ सर्गो न सृष्टो अर्वतीरृतायञ्चकार महीरवनीरहभ्यः ॥
७,०८७.०२ आत्मा ते वातो रज आ नवीनोत्पशुर्न भूर्णिर्यवसे ससवान् ।
७,०८७.०२ अन्तर्मही बृहती रोदसीमे विश्वा ते धाम वरुण प्रियाणि ॥
७,०८७.०३ परि स्पशो वरुणस्य स्मदिष्टा उभे पश्यन्ति रोदसी सुमेके ।
७,०८७.०३ ऋतावानः कवयो यज्ञधीराः प्रचेतसो य इषयन्त मन्म ॥
७,०८७.०४ उवाच मे वरुणो मेधिराय त्रिः सप्त नामाघ्न्या बिभर्ति ।
७,०८७.०४ विद्वान्पदस्य गुह्या न वोचद्युगाय विप्र उपराय शिक्षन् ॥
७,०८७.०५ तिस्रो द्यावो निहिता अन्तरस्मिन्तिस्रो भूमीरुपराः षड्विधानाः ।
७,०८७.०५ गृत्सो राजा वरुणश्चक्र एतं दिवि प्रेङ्खं हिरण्ययं शुभे कम् ॥
७,०८७.०६ अव सिन्धुं वरुणो द्यौरिव स्थाद्द्रप्सो न श्वेतो मृगस्तुविष्मान् ।
७,०८७.०६ गम्भीरशंसो रजसो विमानः सुपारक्षत्रः सतो अस्य राजा ॥
७,०८७.०७ यो मृळयाति चक्रुषे चिदागो वयं स्याम वरुणे अनागाः ।
७,०८७.०७ अनु व्रतान्यदितेरृधन्तो यूयं पात स्वस्तिभिः सदा नः ॥
७,०८८.०१ प्र शुन्ध्युवं वरुणाय प्रेष्ठां मतिं वसिष्ठ मीळ्हुषे भरस्व ।
७,०८८.०१ य ईमर्वाञ्चं करते यजत्रं सहस्रामघं वृषणं बृहन्तम् ॥
७,०८८.०२ अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि ।
७,०८८.०२ स्वर्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥
७,०८८.०३ आ यद्रुहाव वरुणश्च नावं प्र यत्समुद्रमीरयाव मध्यम् ।
७,०८८.०३ अधि यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्खयावहै शुभे कम् ॥
७,०८८.०४ वसिष्ठं ह वरुणो नाव्याधादृषिं चकार स्वपा महोभिः ।
७,०८८.०४ स्तोतारं विप्रः सुदिनत्वे अह्नां यान्नु द्यावस्ततनन्यादुषासः ॥
७,०८८.०५ क्व त्यानि नौ सख्या बभूवुः सचावहे यदवृकं पुरा चित् ।
७,०८८.०५ बृहन्तं मानं वरुण स्वधावः सहस्रद्वारं जगमा गृहं ते ॥
७,०८८.०६ य आपिर्नित्यो वरुण प्रियः सन्त्वामागांसि कृणवत्सखा ते ।
७,०८८.०६ मा त एनस्वन्तो यक्षिन्भुजेम यन्धि ष्मा विप्र स्तुवते वरूथम् ॥
७,०८८.०७ ध्रुवासु त्वासु क्षितिषु क्षियन्तो व्यस्मत्पाशं वरुणो मुमोचत् ।
७,०८८.०७ अवो वन्वाना अदितेरुपस्थाद्यूयं पात स्वस्तिभिः सदा नः ॥
७,०८९.०१ मो षु वरुण मृन्मयं गृहं राजन्नहं गमम् ।
७,०८९.०१ मृळा सुक्षत्र मृळय ॥
७,०८९.०२ यदेमि प्रस्फुरन्निव दृतिर्न ध्मातो अद्रिवः ।
७,०८९.०२ म
ृळा सुक्षत्र मृळय ॥
७,०८९.०३ क्रत्वः समह दीनता प्रतीपं जगमा शुचे ।
७,०८९.०३ मृळा सुक्षत्र मृळय ॥
७,०८९.०४ अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम् ।
७,०८९.०४ मृळा सुक्षत्र मृळय ॥
७,०८९.०५ यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरामसि ।
७,०८९.०५ अचित्ती यत्तव धर्मा युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥
७,०९०.०१ प्र वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः ।
७,०९०.०१ वह वायो नियुतो याह्यच्छा पिबा सुतस्यान्धसो मदाय ॥
७,०९०.०२ ईशानाय प्रहुतिं यस्त आनट्छुचिं सोमं शुचिपास्तुभ्यं वायो ।
७,०९०.०२ कृणोषि तं मर्त्येषु प्रशस्तं जातोजातो जायते वाज्यस्य ॥
७,०९०.०३ राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम् ।
७,०९०.०३ अध वायुं नियुतः सश्चत स्वा उत श्वेतं वसुधितिं निरेके ॥
७,०९०.०४ उच्छन्नुषसः सुदिना अरिप्रा उरु ज्योतिर्विविदुर्दीध्यानाः ।
७,०९०.०४ गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु प्रदिवः सस्रुरापः ॥
७,०९०.०५ ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः क्रतुना वहन्ति ।
७,०९०.०५ इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते ॥
७,०९०.०६ ईशानासो ये दधते स्वर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः ।
७,०९०.०६ इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पृतनासु सह्युः ॥
७,०९०.०७ अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
७,०९०.०७ वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥
७,०९१.०१ कुविदङ्ग नमसा ये वृधासः पुरा देवा अनवद्यास आसन् ।
७,०९१.०१ ते वायवे मनवे बाधितायावासयन्नुषसं सूर्येण ॥
७,०९१.०२ उशन्ता दूता न दभाय गोपा मासश्च पाथः शरदश्च पूर्वीः ।
७,०९१.०२ इन्द्रवायू सुष्टुतिर्वामियाना मार्डीकमीट्टे सुवितं च नव्यम् ॥
७,०९१.०३ पीवोअन्नां रयिवृधः सुमेधाः श्वेतः सिषक्ति नियुतामभिश्रीः ।
७,०९१.०३ ते वायवे समनसो वि तस्थुर्विश्वेन्नरः स्वपत्यानि चक्रुः ॥
७,०९१.०४ यावत्तरस्तन्वो यावदोजो यावन्नरश्चक्षसा दीध्यानाः ।
७,०९१.०४ शुचिं सोमं शुचिपा पातमस्मे इन्द्रवायू सदतं बर्हिरेदम् ॥
७,०९१.०५ नियुवाना नियुत स्पार्हवीरा इन्द्रवायू सरथं यातमर्वाक् ।
७,०९१.०५ इदं हि वां प्रभृतं मध्वो अग्रमध प्रीणाना वि मुमुक्तमस्मे ॥
७,०९१.०६ या वां शतं नियुतो याः सहस्रमिन्द्रवायू विश्ववाराः सचन्ते ।
७,०९१.०६ आभिर्यातं सुविदत्राभिरर्वाक्पातं नरा प्रतिभृतस्य मध्वः ॥
७,०९१.०७ अर्वन्तो न श्रवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः ।
७,०९१.०७ वाजयन्तः स्ववसे हुवेम यूयं पात स्वस्तिभिः सदा नः ॥
७,०९२.०१ आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार ।
७,०९२.०१ उपो ते अन्धो मद्यमयामि यस्य देव दधिषे पूर्वपेयम् ॥
७,०९२.०२ प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै ।
७,०९२.०२ प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः ॥
७,०९२.०३ प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे ।
७,०९२.०३ नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥
७,०९२.०४ ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः ।
७,०९२.०४ घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥
७,०९२.०५ आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् ।
७,०९२.०५ वायो अस्मिन्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥
७,०९३.०१ शुचिं नु स्तोमं नवजातमद्येन्द्राग्नी वृत्रहणा जुषेथाम् ।
७,०९३.०१ उभा हि वां सुहवा जोहवीमि ता वाजं सद्य उशते धेष्ठा ॥
७,०९३.०२ ता सानसी शवसाना हि भूतं साकंवृधा शवसा शूशुवांसा ।
७,०९३.०२ क्षयन्तौ रायो यवसस्य भूरेः पृङ्क्तं वाजस्य स्थविरस्य घृष्वेः ॥
७,०९३.०३ उपो ह यद्विदथं वाजिनो गुर्धीभिर्विप्राः प्रमतिमिच्छमानाः ।
७,०९३.०३ अर्वन्तो न काष्ठां नक्षमाणा इन्द्राग्नी जोहुवतो नरस्ते ॥
७,०९३.०४ गीर्भिर्विप्रः प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् ।
७,०९३.०४ इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥
७,०९३.०५ सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते ।
७,०९३.०५ अदेवयुं विदथे देवयुभिः सत्रा हतं सोमसुता जनेन ॥
७,०९३.०६ इमामु षु सोमसुतिमुप न एन्द्राग्नी सौमनसाय यातम् ।
७,०९३.०६ नू चिद्धि परिमम्नाथे अस्माना वां शश्वद्भिर्ववृतीय वाजैः ॥
७,०९३.०७ सो अग्न एना नमसा समिद्धोऽच्छा मित्रं वरुणमिन्द्रं वोचेः ।
७,०९३.०७ यत्सीमागश्चकृमा तत्सु मृळ तदर्यमादितिः शिश्रथन्तु ॥
७,०९३.०८ एता अग्न आशुषाणास इष्टीर्युवोः सचाभ्यश्याम वाजान् ।
७,०९३.०८ मेन्द्रो नो विष्णुर्मरुतः परि ख्यन्यूयं पात स्वस्तिभिः सदा नः ॥
७,०९४.०१ इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः ।
७,०९४.०१ अभ्राद्वृष्टिरिवाजनि ॥
७,०९४.०२ शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः ।
७,०९४.०२ ईशाना पिप्यतं धियः ॥
७,०९४.०३ मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये ।
७,०९४.०३ मा नो रीरधतं निदे ॥
७,०९४.०४ इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।
७,०९४.०४ धिया धेना अवस्यवः ॥
७,०९४.०५ ता हि शश्वन्त ईळत इत्था विप्रास ऊतये ।
७,०९४.०५ सबाधो वाजसातये ॥
७,०९४.०६ ता वां गीर्भिर्विपन्यवः प्रयस्वन्तो हवामहे ।
७,०९४.०६ मेधसाता सनिष्यवः ॥
७,०९४.०७ इन्द्राग्नी अवसा गतमस्मभ्यं चर्षणीसहा ।
७,०९४.०७ मा नो दुःशंस ईशत ॥
७,०९४.०८ मा कस्य नो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
७,०९४.०८ इन्द्राग्नी शर्म यच्छतम् ॥
७,०९४.०९ गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे ।
७,०९४.०९ इन्द्राग्नी तद्वनेमहि ॥
७,०९४.१० यत्सोम आ सुते नर इन्द्राग्नी अजोहवुः ।
७,०९४.१० सप्तीवन्ता सपर्यवः ॥
७,०९४.११ उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा ।
७,०९४.११ आङ्गूषैराविवासतः ॥
७,०९४.१२ ताविद्दुःशंसं मर्त्यं दुर्विद्वांसं रक्षस्विनम् ।
७,०९४.१२ आभोगं हन्मना हतमुदधिं हन्मना हतम् ॥
७,०९५.०१ प्र क्षोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः ।
७,०९५.०१ प्रबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः ॥
७,०९५.०२ एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् ।
७,०९५.०२ रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥
७,०९५.०३ स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु ।
७,०९५.०३ स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥
७,०९५.०४ उत स्या नः सरस्वती जुषाणोप श्रवत्सुभगा यज्णे अस्मिन् ।
७,०९५.०४ मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः ॥
७,०९५.०५ इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व ।
७,०९५.०५ तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥
७,०९५.०६ अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः ।
७,०९५.०६ वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥
७,०९६.०१ बृहदु गायिषे वचोऽसुर्या नदीनाम् ।
७,०९६.०१ सरस्वतीमिन्महया सुवृक्तिभि स्तोमैर्वसिष्ठ रोदसी ॥
७,०९६.०२ उभे यत्ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः ।
७,०९६.०२ सा नो बोध्यवित्री मरुत्सखा चोद राधो मघोनाम् ॥
७,०९६.०३ भद्रमिद्भद्रा कृणवत्सरस्वत्यकवारी चेतति वाजिनीवती ।
७,०९६.०३ गृणाना जमदग्निवत्स्तुवाना च वसिष्ठवत् ॥
७,०९६.०४ जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।
७,०९६.०४ सरस्वन्तं हवामहे ॥
७,०९६.०५ ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
७,०९६.०५ तेभिर्नोऽविता भव ॥
७,०९६.०६ पीपिवांसं सरस्वत स्तनं यो विश्वदर्शतः ।
७,०९६.०६ भक्षीमहि प्रजामिषम् ॥
७,०९७.०१ यज्ञे दिवो नृषदने पृथिव्या नरो यत्र देवयवो मदन्ति ।
७,०९७.०१ इन्द्राय यत्र सवनानि सुन्वे गमन्मदाय प्रथमं वयश्च ॥
७,०९७.०२ आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः ।
७,०९७.०२ यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥
७,०९७.०३ तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे ।
७,०९७.०३ इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥
७,०९७.०४ स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति ।
७,०९७.०४ कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान् ॥
७,०९७.०५ तमा नो अर्कममृताय जुष्टमिमे धासुरमृतासः पुराजाः ।
७,०९७.०५ शुचिक्रन्दं यजतं पस्त्यानां बृहस्पतिमनर्वाणं हुवेम ॥
७,०९७.०६ तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
७,०९७.०६ सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥
७,०९७.०७ स हि शुचिः शतपत्रः स शुन्ध्युर्हिरण्यवाशीरिषिरः स्वर्षाः ।
७,०९७.०७ बृहस्पतिः स स्वावेश ऋष्वः पुरू सखिभ्य आसुतिं करिष्ठः ॥
७,०९७.०८ देवी देवस्य रोदसी जनित्री बृहस्पतिं वावृधतुर्महित्वा ।
७,०९७.०८ दक्षाय्याय दक्षता सखायः करद्ब्रह्मणे सुतरा सुगाधा ॥
७,०९७.०९ इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि ।
७,०९७.०९ अविष्टं धियो जिगृतं पुरन्धीर्जजस्तमर्यो वनुषामरातीः ॥
७,०९७.१० बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
७,०९७.१० धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥
७,०९८.०१ अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् ।
७,०९८.०१ गौराद्वेदीयां अवपानमिन्द्रो विश्वाहेद्याति सुतसोममिच्छन् ॥
७,०९८.०२ यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।
७,०९८.०२ उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान् ॥
७,०९८.०३ जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।
७,०९८.०३ एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥
७,०९८.०४ यद्योधया महतो मन्यमानान्साक्षाम तान्बाहुभिः शाशदानान् ।
७,०९८.०४ यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥
७,०९८.०५ प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।
७,०९८.०५ यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥
७,०९८.०६ तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।
७,०९८.०६ गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥
७,०९८.०७ बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
७,०९८.०७ धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥
७,०९९.०१ परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति ।
७,०९९.०१ उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥
७,०९९.०२ न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप ।
७,०९९.०२ उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥
७,०९९.०३ इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या ।
७,०९९.०३ व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥
७,०९९.०४ उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् ।
७,०९९.०४ दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥
७,०९९.०५ इन्द्राविष्णू दृंहिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् ।
७,०९९.०५ शतं वर्चिनः सहस्रं च साकं हथो अप्रत्यसुरस्य वीरान् ॥
७,०९९.०६ इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती ।
७,०९९.०६ ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥
७,०९९.०७ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
७,०९९.०७ वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥
७,१००.०१ नू मर्तो दयते सनिष्यन्यो विष्णव उरुगायाय दाशत् ।
७,१००.०१ प्र यः सत्राचा मनसा यजात एतावन्तं नर्यमाविवासात् ॥
७,१००.०२ त्वं विष्णो सुमतिं विश्वजन्यामप्रयुतामेवयावो मतिं दाः ।
७,१००.०२ पर्चो यथा नः सुवितस्य भूरेरश्वावतः पुरुश्चन्द्रस्य रायः ॥
७,१००.०३ त्रिर्देवः पृथिवीमेष एतां वि चक्रमे शतर्चसं महित्वा ।
७,१००.०३ प्र विष्णुरस्तु तवसस्तवीयान्त्वेषं ह्यस्य स्थविरस्य नाम ॥
७,१००.०४ वि चक्रमे पृथिवीमेष एतां क्षेत्राय विष्णुर्मनुषे दशस्यन् ।
७,१००.०४ ध्रुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार ॥
७,१००.०५ प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् ।
७,१००.०५ तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥
७,१००.०६ किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि ।
७,१००.०६ मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥
७,१००.०७ वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् ।
७,१००.०७ वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥
७,१०१.०१ तिस्रो वाचः प्र वद ज्योतिरग्रा या एतद्दुह्रे मधुदोघमूधः ।
७,१०१.०१ स वत्सं कृण्वन्गर्भमोषधीनां सद्यो जातो वृषभो रोरवीति ॥
७,१०१.०२ यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे ।
७,१०१.०२ स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योतिः स्वभिष्ट्यस्मे ॥
७,१०१.०३ स्तरीरु त्वद्भवति सूत उ त्वद्यथावशं तन्वं चक्र एषः ।
७,१०१.०३ पितुः पयः प्रति गृभ्णाति माता तेन पिता वर्धते तेन पुत्रः ॥
७,१०१.०४ यस्मिन्विश्वानि भुवनानि तस्थुस्तिस्रो द्यावस्त्रेधा सस्रुरापः ।
७,१०१.०४ त्रयः कोशास उपसेचनासो मध्व श्चोतन्त्यभितो विरप्शम् ॥
७,१०१.०५ इदं वचः पर्जन्याय स्वराजे हृदो अस्त्वन्तरं तज्जुजोषत् ।
७,१०१.०५ मयोभुवो वृष्टयः सन्त्वस्मे सुपिप्पला ओषधीर्देवगोपाः ॥
७,१०१.०६ स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च ।
७,१०१.०६ तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभिः सदा नः ॥
७,१०२.०१ पर्जन्याय प्र गायत दिवस्पुत्राय मीळ्हुषे ।
७,१०२.०१ स नो यवसमिच्छतु ॥
७,१०२.०२ यो गर्भमोषधीनां गवां कृणोत्यर्वताम् ।
७,१०२.०२ पर्जन्यः पुरुषीणाम् ॥
७,१०२.०३ तस्मा इदास्ये हविर्जुहोता मधुमत्तमम् ।
७,१०२.०३ इळां नः संयतं करत् ॥
७,१०३.०१ संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
७,१०३.०१ वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥
७,१०३.०२ दिव्या आपो अभि यदेनमायन्दृतिं न शुष्कं सरसी शयानम् ।
७,१०३.०२ गवामह न मायुर्वत्सिनीनां मण्डूकानां वग्नुरत्रा समेति ॥
७,१०३.०३ यदीमेनां उशतो अभ्यवर्षीत्तृष्यावतः प्रावृष्यागतायाम् ।
७,१०३.०३ अख्खलीकृत्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति ॥
७,१०३.०४ अन्यो अन्यमनु गृभ्णात्येनोरपां प्रसर्गे यदमन्दिषाताम् ।
७,१०३.०४ मण्डूको यदभिवृष्टः कनिष्कन्पृश्निः सम्पृङ्क्ते हरितेन वाचम् ॥
७,१०३.०५ यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः ।
७,१०३.०५ सर्वं तदेषां समृधेव पर्व यत्सुवाचो वदथनाध्यप्सु ॥
७,१०३.०६ गोमायुरेको अजमायुरेकः पृश्निरेको हरित एक एषाम् ।
७,१०३.०६ समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः ॥
७,१०३.०७ ब्राह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः ।
७,१०३.०७ संवत्सरस्य तदहः परि ष्ठ यन्मण्डूकाः प्रावृषीणं बभूव ॥
७,१०३.०८ ब्राह्मणासः सोमिनो वाचमक्रत ब्रह्म कृण्वन्तः परिवत्सरीणम् ।
७,१०३.०८ अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित् ॥
७,१०३.०९ देवहितिं जुगुपुर्द्वादशस्य ऋतुं नरो न प्र मिनन्त्येते ।
७,१०३.०९ संवत्सरे प्रावृष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम् ॥
७,१०३.१० गोमायुरदादजमायुरदात्पृश्निरदाद्धरितो नो वसूनि ।
७,१०३.१० गवां मण्डूका ददतः शतानि सहस्रसावे प्र तिरन्त आयुः ॥
७,१०४.०१ इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
७,१०४.०१ परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्रिणः ॥
७,१०४.०२ इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निवां इव ।
७,१०४.०२ ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥
७,१०४.०३ इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।
७,१०४.०३ यथा नातः पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥
७,१०४.०४ इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
७,१०४.०४ उत्तक्षतं स्वर्यं पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥
७,१०४.०५ इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
७,१०४.०५ तपुर्वधेभिरजरेभिरत्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥
७,१०४.०६ इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
७,१०४.०६ यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपतीव जिन्वतम् ॥
७,१०४.०७ प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।
७,१०४.०७ इन्द्रासोमा दुष्कृते मा सुगं भूद्यो नः कदा चिदभिदासति द्रुहा ॥
७,१०४.०८ यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
७,१०४.०८ आप इव काशिना संगृभीता असन्नस्त्वासत इन्द्र वक्ता ॥
७,१०४.०९ ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।
७,१०४.०९ अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥
७,१०४.१० यो नो रसं दिप्सति पित्वो अग्ने यो अश्वानां यो गवां यस्तनूनाम् ।
७,१०४.१० रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥
७,१०४.११ परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।
७,१०४.११ प्रति शुष्यतु यशो अस्य देवा यो नो दिवा दिप्सति यश्च नक्तम् ॥
७,१०४.१२ सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।
७,१०४.१२ तयोर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥
७,१०४.१३ न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।
७,१०४.१३ हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥
७,१०४.१४ यदि वाहमनृतदेव आस मोघं वा देवां अप्यूहे अग्ने ।
७,१०४.१४ किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥
७,१०४.१५ अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य ।
७,१०४.१५ अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥
७,१०४.१६ यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह ।
७,१०४.१६ इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥
७,१०४.१७ प्र या जिगाति खर्गलेव नक्तमप द्रुहा तन्वं गूहमाना ।
७,१०४.१७ वव्रां अनन्तां अव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥
७,१०४.१८ वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन ।
७,१०४.१८ वयो ये भूत्वी पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥
७,१०४.१९ प्र वर्तय दिवो अश्मानमिन्द्र सोमशितं मघवन्सं शिशाधि ।
७,१०४.१९ प्राक्तादपाक्तादधरादुदक्तादभि जहि रक्षसः पर्वतेन ॥
७,१०४.२० एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।
७,१०४.२० शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥
७,१०४.२१ इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
७,१०४.२१ अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्सत एति रक्षसः ॥
७,१०४.२२ उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
७,१०४.२२ सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥
७,१०४.२३ मा नो रक्षो अभि नड्यातुमावतामपोच्छतु मिथुना या किमीदिना ।
७,१०४.२३ पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥
७,१०४.२४ इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
७,१०४.२४ विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्सूर्यमुच्चरन्तम् ॥
७,१०४.२५ प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
७,१०४.२५ रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥
ऋग्वेद ८
८,००१.०१ मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
८,००१.०१ इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥
८,००१.०२ अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
८,००१.०२ विद्वेषणं संवननोभयङ्करं मंहिष्ठमुभयाविनम् ॥
८,००१.०३ यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
८,००१.०३ अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥
८,००१.०४ वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् ।
८,००१.०४ उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
८,००१.०५ महे चन त्वामद्रिवः परा शुल्काय देयाम् ।
८,००१.०५ न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥
८,००१.०६ वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।
८,००१.०६ माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥
८,००१.०७ क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
८,००१.०७ अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥
८,००१.०८ प्रास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः ।
८,००१.०८ याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ॥
८,००१.०९ ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः ।
८,००१.०९ अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ॥
८,००१.१० आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम् ।
८,००१.१० इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥
८,००१.११ यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना ।
८,००१.११ वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम् ॥
८,००१.१२ य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
८,००१.१२ संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥
८,००१.१३ मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
८,००१.१३ वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥
८,००१.१४ अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
८,००१.१४ सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि ॥
८,००१.१५ यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः ।
८,००१.१५ तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥
८,००१.१६ आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि ।
८,००१.१६ उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम् ॥
८,००१.१७ सोता हि सोममद्रिभिरेमेनमप्सु धावत ।
८,००१.१७ गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः ॥
८,००१.१८ अध ज्मो अध वा दिवो बृहतो रोचनादधि ।
८,००१.१८ अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥
८,००१.१९ इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् ।
८,००१.१९ शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम् ॥
८,००१.२० मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा ।
८,००१.२० भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥
८,००१.२१ मदेनेषितं मदमुग्रमुग्रेण शवसा ।
८,००१.२१ विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः ॥
८,००१.२२ शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।
८,००१.२२ स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥
८,००१.२३ एन्द्र याहि मत्स्व चित्रेण देव राधसा ।
८,००१.२३ सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम् ॥
८,००१.२४ आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
८,००१.२४ ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥
८,००१.२५ आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
८,००१.२५ शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥
८,००१.२६ पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव ।
८,००१.२६ परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥
८,००१.२७ य एको अस्ति दंसना महां उग्रो अभि व्रतैः ।
८,००१.२७ गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥
८,००१.२८ त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् ।
८,००१.२८ त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥
८,००१.२९ मम त्वा सूर उदिते मम मध्यन्दिने दिवः ।
८,००१.२९ मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥
८,००१.३० स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् ।
८,००१.३० निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥
८,००१.३१ आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् ।
८,००१.३१ उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥
८,००१.३२ य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया ।
८,००१.३२ एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥
८,००१.३३ अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः ।
८,००१.३३ अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥
८,००१.३४ अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः ।
८,००१.३४ शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥
८,००२.०१ इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् ।
८,००२.०१ अनाभयिन्ररिमा ते ॥
८,००२.०२ नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।
८,००२.०२ अश्वो न निक्तो नदीषु ॥
८,००२.०३ तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
८,००२.०३ इन्द्र त्वास्मिन्सधमादे ॥
८,००२.०४ इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः ।
८,००२.०४ अन्तर्देवान्मर्त्यांश्च ॥
८,००२.०५ न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् ।
८,००२.०५ अपस्पृण्वते सुहार्दम् ॥
८,००२.०६ गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते ।
८,००२.०६ अभित्सरन्ति धेनुभिः ॥
८,००२.०७ त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य ।
८,००२.०७ स्वे क्षये सुतपाव्नः ॥
८,००२.०८ त्रयः कोशास श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः ।
८,००२.०८ समाने अधि भार्मन् ॥
८,००२.०९ शुचिरसि पुरुनिष्ठाः क्षीरैर्मध्यत आशीर्तः ।
८,००२.०९ दध्ना मन्दिष्ठः शूरस्य ॥
८,००२.१० इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः ।
८,००२.१० शुक्रा आशिरं याचन्ते ॥
८,००२.११ तां आशिरं पुरोळाशमिन्द्रेमं सोमं श्रीणीहि ।
८,००२.११ रेवन्तं हि त्वा शृणोमि ॥
८,००२.१२ हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
८,००२.१२ ऊधर्न नग्ना जरन्ते ॥
८,००२.१३ रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
८,००२.१३ प्रेदु हरिवः श्रुतस्य ॥
८,००२.१४ उक्थं चन शस्यमानमगोररिरा चिकेत ।
८,००२.१४ न गायत्रं गीयमानम् ॥
८,००२.१५ मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
८,००२.१५ शिक्षा शचीवः शचीभिः ॥
८,००२.१६ वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
८,००२.१६ कण्वा उक्थेभिर्जरन्ते ॥
८,००२.१७ न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।
८,००२.१७ तवेदु स्तोमं चिकेत ॥
८,००२.१८ इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
८,००२.१८ यन्ति प्रमादमतन्द्राः ॥
८,००२.१९ ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् ।
८,००२.१९ महां इव युवजानिः ॥
८,००२.२० मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत् ।
८,००२.२० अश्रीर इव जामाता ॥
८,००२.२१ विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम् ।
८,००२.२१ त्रिषु जातस्य मनांसि ॥
८,००२.२२ आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् ।
८,००२.२२ यशस्तरं शतमूतेः ॥
८,००२.२३ ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय ।
८,००२.२३ भरा पिबन्नर्याय ॥
८,००२.२४ यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः ।
८,००२.२४ वाजं स्तोतृभ्यो गोमन्तम् ॥
८,००२.२५ पन्यम्पन्यमित्सोतार आ धावत मद्याय ।
८,००२.२५ सोमं वीराय शूराय ॥
८,००२.२६ पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
८,००२.२६ नि यमते शतमूतिः ॥
८,००२.२७ एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
८,००२.२७ गीर्भिः श्रुतं गिर्वणसम् ॥
८,००२.२८ स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।
८,००२.२८ शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥
८,००२.२९ स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय ।
८,००२.२९ इन्द्र कारिणं वृधन्तः ॥
८,००२.३० गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि ।
८,००२.३० सत्रा दधिरे शवांसि ॥
८,००२.३१ एवेदेष तुविकूर्मिर्वाजां एको वज्रहस्तः ।
८,००२.३१ सनादमृक्तो दयते ॥
८,००२.३२ हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः ।
८,००२.३२ महान्महीभिः शचीभिः ॥
८,००२.३३ यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च ।
८,००२.३३ अनु घेन्मन्दी मघोनः ॥
८,००२.३४ एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे ।
८,००२.३४ वाजदावा मघोनाम् ॥
८,००२.३५ प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति ।
८,००२.३५ इनो वसु स हि वोळ्हा ॥
८,००२.३६ सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः ।
८,००२.३६ सत्योऽविता विधन्तम् ॥
८,००२.३७ यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा ।
८,००२.३७ यो भूत्सोमैः सत्यमद्वा ॥
८,००२.३८ गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम् ।
८,००२.३८ कण्वासो गात वाजिनम् ॥
८,००२.३९ य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान् ।
८,००२.३९ ये अस्मिन्काममश्रियन् ॥
८,००२.४० इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम् ।
८,००२.४० मेषो भूतोऽभि यन्नयः ॥
८,००२.४१ शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् ।
८,००२.४१ अष्टा परः सहस्रा ॥
८,००२.४२ उत सु त्ये पयोवृधा माकी रणस्य नप्त्या ।
८,००२.४२ जनित्वनाय मामहे ॥
८,००३.०१ पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
८,००३.०१ आपिर्नो बोधि सधमाद्यो वृधेऽस्मां अवन्तु ते धियः ॥
८,००३.०२ भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
८,००३.०२ अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥
८,००३.०३ इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
८,००३.०३ पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥
८,००३.०४ अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
८,००३.०४ सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
८,००३.०५ इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
८,००३.०५ इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥
८,००३.०६ इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
८,००३.०६ इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥
८,००३.०७ अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
८,००३.०७ समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥
८,००३.०८ अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
८,००३.०८ अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥
८,००३.०९ तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
८,००३.०९ येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥
८,००३.१० येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
८,००३.१० सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥
८,००३.११ शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् ।
८,००३.११ शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥
८,००३.१२ शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः ।
८,००३.१२ शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥
८,००३.१३ कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
८,००३.१३ नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥
८,००३.१४ कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
८,००३.१४ कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥
८,००३.१५ उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।
८,००३.१५ सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
८,००३.१६ कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
८,००३.१६ इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥
८,००३.१७ युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
८,००३.१७ अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि ॥
८,००३.१८ इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये ।
८,००३.१८ स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥
८,००३.१९ निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।
८,००३.१९ निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥
८,००३.२० निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः ।
८,००३.२० निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥
८,००३.२१ यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः ।
८,००३.२१ विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥
८,००३.२२ रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।
८,००३.२२ अदाद्रायो विबोधनम् ॥
८,००३.२३ यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।
८,००३.२३ अस्तं वयो न तुग्र्यम् ॥
८,००३.२४ आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् ।
८,००३.२४ तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥
८,००४.०१ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
८,००४.०१ सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥
८,००४.०२ यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
८,००४.०२ कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥
८,००४.०३ यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् ।
८,००४.०३ आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥
८,००४.०४ मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
८,००४.०४ आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥
८,००४.०५ प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा ।
८,००४.०५ विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥
८,००४.०६ सहस्रेणेव सचते यवीयुधा यस्त आनळ् उपस्तुतिम् ।
८,००४.०६ पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ॥
८,००४.०७ मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
८,००४.०७ महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥
८,००४.०८ सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति ।
८,००४.०८ मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥
८,००४.०९ अश्वी रथी सुरूप इद्गोमां इदिन्द्र ते सखा ।
८,००४.०९ श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥
८,००४.१० ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशां अनु ।
८,००४.१० निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः ॥
८,००४.११ अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति ।
८,००४.११ उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥
८,००४.१२ स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि ।
८,००४.१२ इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥
८,००४.१३ रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन ।
८,००४.१३ अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥
८,००४.१४ उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः ।
८,००४.१४ अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ॥
८,००४.१५ प्र पूषणं वृणीमहे युज्याय पुरूवसुम् ।
८,००४.१५ स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥
८,००४.१६ सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन ।
८,००४.१६ त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥
८,००४.१७ वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे ।
८,००४.१७ न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने ॥
८,००४.१८ परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य ।
८,००४.१८ अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ॥
८,००४.१९ स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु ।
८,००४.१९ राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ॥
८,००४.२० धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः ।
८,००४.२० षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः ॥
८,००४.२१ वृक्षाश्चिन्मे अभिपित्वे अरारणुः ।
८,००४.२१ गां भजन्त मेहनाश्वं भजन्त मेहना ॥
८,००५.०१ दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् ।
८,००५.०१ वि भानुं विश्वधातनत् ॥
८,००५.०२ नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा ।
८,००५.०२ सचेथे अश्विनोषसम् ॥
८,००५.०३ युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।
८,००५.०३ वाचं दूतो यथोहिषे ॥
८,००५.०४ पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू ।
८,००५.०४ स्तुषे कण्वासो अश्विना ॥
८,००५.०५ मंहिष्ठा वाजसातमेषयन्ता शुभस्पती ।
८,००५.०५ गन्तारा दाशुषो गृहम् ॥
८,००५.०६ ता सुदेवाय दाशुषे सुमेधामवितारिणीम् ।
८,००५.०६ घृतैर्गव्यूतिमुक्षतम् ॥
८,००५.०७ आ न स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः ।
८,००५.०७ यातमश्वेभिरश्विना ॥
८,००५.०८ येभिस्तिस्रः परावतो दिवो विश्वानि रोचना ।
८,००५.०८ त्रींरक्तून्परिदीयथः ॥
८,००५.०९ उत नो गोमतीरिष उत सातीरहर्विदा ।
८,००५.०९ वि पथः सातये सितम् ॥
८,००५.१० आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् ।
८,००५.१० वोळ्हमश्वावतीरिषः ॥
८,००५.११ वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी ।
८,००५.११ पिबतं सोम्यं मधु ॥
८,००५.१२ अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः ।
८,००५.१२ छर्दिर्यन्तमदाभ्यम् ॥
८,००५.१३ नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् ।
८,००५.१३ मो ष्वन्यां उपारतम् ॥
८,००५.१४ अस्य पिबतमश्विना युवं मदस्य चारुणः ।
८,००५.१४ मध्वो रातस्य धिष्ण्या ॥
८,००५.१५ अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् ।
८,००५.१५ पुरुक्षुं विश्वधायसम् ॥
८,००५.१६ पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः ।
८,००५.१६ वाघद्भिरश्विना गतम् ॥
८,००५.१७ जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः ।
८,००५.१७ युवां हवन्ते अश्विना ॥
८,००५.१८ अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः ।
८,००५.१८ युवाभ्यां भूत्वश्विना ॥
८,००५.१९ यो ह वां मधुनो दृतिराहितो रथचर्षणे ।
८,००५.१९ ततः पिबतमश्विना ॥
८,००५.२० तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।
८,००५.२० वहतं पीवरीरिषः ॥
८,००५.२१ उत नो दिव्या इष उत सिन्धूंरहर्विदा ।
८,००५.२१ अप द्वारेव वर्षथः ॥
८,००५.२२ कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा ।
८,००५.२२ यद्वां रथो विभिष्पतात् ॥
८,००५.२३ युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।
८,००५.२३ शश्वदूतीर्दशस्यथः ॥
८,००५.२४ ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः ।
८,००५.२४ यद्वां वृषण्वसू हुवे ॥
८,००५.२५ यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम् ।
८,००५.२५ अत्रिं शिञ्जारमश्विना ॥
८,००५.२६ यथोत कृत्व्ये धनेऽंशुं गोष्वगस्त्यम् ।
८,००५.२६ यथा वाजेषु सोभरिम् ॥
८,००५.२७ एतावद्वां वृषण्वसू अतो वा भूयो अश्विना ।
८,००५.२७ गृणन्तः सुम्नमीमहे ॥
८,००५.२८ रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना ।
८,००५.२८ आ हि स्थाथो दिविस्पृशम् ॥
८,००५.२९ हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः ।
८,००५.२९ उभा चक्रा हिरण्यया ॥
८,००५.३० तेन नो वाजिनीवसू परावतश्चिदा गतम् ।
८,००५.३० उपेमां सुष्टुतिं मम ॥
८,००५.३१ आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना ।
८,००५.३१ इषो दासीरमर्त्या ॥
८,००५.३२ आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना ।
८,००५.३२ पुरुश्चन्द्रा नासत्या ॥
८,००५.३३ एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः ।
८,००५.३३ अच्छा स्वध्वरं जनम् ॥
८,००५.३४ रथं वामनुगायसं य इषा वर्तते सह ।
८,००५.३४ न चक्रमभि बाधते ॥
८,००५.३५ हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः ।
८,००५.३५ धीजवना नासत्या ॥
८,००५.३६ युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू ।
८,००५.३६ ता नः पृङ्क्तमिषा रयिम् ॥
८,००५.३७ ता मे अश्विना सनीनां विद्यातं नवानाम् ।
८,००५.३७ यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम् ॥
८,००५.३८ यो मे हिरण्यसंदृशो दश राज्ञो अमंहत ।
८,००५.३८ अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥
८,००५.३९ माकिरेना पथा गाद्येनेमे यन्ति चेदयः ।
८,००५.३९ अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः ॥
८,००६.०१ महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव ।
८,००६.०१ स्तोमैर्वत्सस्य वावृधे ॥
८,००६.०२ प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
८,००६.०२ विप्रा ऋतस्य वाहसा ॥
८,००६.०३ कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
८,००६.०३ जामि ब्रुवत आयुधम् ॥
८,००६.०४ समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
८,००६.०४ समुद्रायेव सिन्धवः ॥
८,००६.०५ ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
८,००६.०५ इन्द्रश्चर्मेव रोदसी ॥
८,००६.०६ वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
८,००६.०६ शिरो बिभेद वृष्णिना ॥
८,००६.०७ इमा अभि प्र णोनुमो विपामग्रेषु धीतयः ।
८,००६.०७ अग्नेः शोचिर्न दिद्युतः ॥
८,००६.०८ गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः ।
८,००६.०८ कण्वा ऋतस्य धारया ॥
८,००६.०९ प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् ।
८,००६.०९ प्र ब्रह्म पूर्वचित्तये ॥
८,००६.१० अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
८,००६.१० अहं सूर्य इवाजनि ॥
८,००६.११ अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
८,००६.११ येनेन्द्रः शुष्ममिद्दधे ॥
८,००६.१२ ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
८,००६.१२ ममेद्वर्धस्व सुष्टुतः ॥
८,००६.१३ यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् ।
८,००६.१३ अपः समुद्रमैरयत् ॥
८,००६.१४ नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।
८,००६.१४ वृषा ह्युग्र शृण्विषे ॥
८,००६.१५ न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् ।
८,००६.१५ न विव्यचन्त भूमयः ॥
८,००६.१६ यस्त इन्द्र महीरप स्तभूयमान आशयत् ।
८,००६.१६ नि तं पद्यासु शिश्नथः ॥
८,००६.१७ य इमे रोदसी मही समीची समजग्रभीत् ।
८,००६.१७ तमोभिरिन्द्र तं गुहः ॥
८,००६.१८ य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः ।
८,००६.१८ ममेदुग्र श्रुधी हवम् ॥
८,००६.१९ इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।
८,००६.१९ एनामृतस्य पिप्युषीः ॥
८,००६.२० या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् ।
८,००६.२० परि धर्मेव सूर्यम् ॥
८,००६.२१ त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः ।
८,००६.२१ त्वां सुतास इन्दवः ॥
८,००६.२२ तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः ।
८,००६.२२ यज्ञो वितन्तसाय्यः ॥
८,००६.२३ आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् ।
८,००६.२३ उत प्रजां सुवीर्यम् ॥
८,००६.२४ उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा ।
८,००६.२४ अग्रे विक्षु प्रदीदयत् ॥
८,००६.२५ अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।
८,००६.२५ यदिन्द्र मृळयासि नः ॥
८,००६.२६ यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः ।
८,००६.२६ महां अपार ओजसा ॥
८,००६.२७ तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये ।
८,००६.२७ उरुज्रयसमिन्दुभिः ॥
८,००६.२८ उपह्वरे गिरीणां संगथे च नदीनाम् ।
८,००६.२८ धिया विप्रो अजायत ॥
८,००६.२९ अतः समुद्रमुद्वतश्चिकित्वां अव पश्यति ।
८,००६.२९ यतो विपान एजति ॥
८,००६.३० आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् ।
८,००६.३० परो यदिध्यते दिवा ॥
८,००६.३१ कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।
८,००६.३१ उतो शविष्ठ वृष्ण्यम् ॥
८,००६.३२ इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव ।
८,००६.३२ उत प्र वर्धया मतिम् ॥
८,००६.३३ उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः ।
८,००६.३३ विप्रा अतक्ष्म जीवसे ॥
८,००६.३४ अभि कण्वा अनूषतापो न प्रवता यतीः ।
८,००६.३४ इन्द्रं वनन्वती मतिः ॥
८,००६.३५ इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः ।
८,००६.३५ अनुत्तमन्युमजरम् ॥
८,००६.३६ आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।
८,००६.३६ इममिन्द्र सुतं पिब ॥
८,००६.३७ त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
८,००६.३७ हवन्ते वाजसातये ॥
८,००६.३८ अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् ।
८,००६.३८ अनु सुवानास इन्दवः ॥
८,००६.३९ मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।
८,००६.३९ मत्स्वा विवस्वतो मती ॥
८,००६.४० वावृधान उप द्यवि वृषा वज्र्यरोरवीत् ।
८,००६.४० वृत्रहा सोमपातमः ॥
८,००६.४१ ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा ।
८,००६.४१ इन्द्र चोष्कूयसे वसु ॥
८,००६.४२ अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः ।
८,००६.४२ शतं वहन्तु हरयः ॥
८,००६.४३ इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् ।
८,००६.४३ कण्वा उक्थेन वावृधुः ॥
८,००६.४४ इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः ।
८,००६.४४ इन्द्रं सनिष्युरूतये ॥
८,००६.४५ अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
८,००६.४५ सोमपेयाय वक्षतः ॥
८,००६.४६ शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे ।
८,००६.४६ राधांसि याद्वानाम् ॥
८,००६.४७ त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ।
८,००६.४७ ददुष्पज्राय साम्ने ॥
८,००६.४८ उदानट्ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् ।
८,००६.४८ श्रवसा याद्वं जनम् ॥
८,००७.०१ प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् ।
८,००७.०१ वि पर्वतेषु राजथ ॥
८,००७.०२ यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् ।
८,००७.०२ नि पर्वता अहासत ॥
८,००७.०३ उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः ।
८,००७.०३ धुक्षन्त पिप्युषीमिषम् ॥
८,००७.०४ वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् ।
८,००७.०४ यद्यामं यान्ति वायुभिः ॥
८,००७.०५ नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे ।
८,००७.०५ महे शुष्माय येमिरे ॥
८,००७.०६ युष्मां उ नक्तमूतये युष्मान्दिवा हवामहे ।
८,००७.०६ युष्मान्प्रयत्यध्वरे ॥
८,००७.०७ उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते ।
८,००७.०७ वाश्रा अधि ष्णुना दिवः ॥
८,००७.०८ सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे ।
८,००७.०८ ते भानुभिर्वि तस्थिरे ॥
८,००७.०९ इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः ।
८,००७.०९ इमं मे वनता हवम् ॥
८,००७.१० त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।
८,००७.१० उत्सं कवन्धमुद्रिणम् ॥
८,००७.११ मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे ।
८,००७.११ आ तू न उप गन्तन ॥
८,००७.१२ यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।
८,००७.१२ उत प्रचेतसो मदे ॥
८,००७.१३ आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् ।
८,००७.१३ इयर्ता मरुतो दिवः ॥
८,००७.१४ अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् ।
८,००७.१४ सुवानैर्मन्दध्व इन्दुभिः ॥
८,००७.१५ एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः ।
८,००७.१५ अदाभ्यस्य मन्मभिः ॥
८,००७.१६ ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः ।
८,००७.१६ उत्सं दुहन्तो अक्षितम् ॥
८,००७.१७ उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः ।
८,००७.१७ उत्स्तोमैः पृश्निमातरः ॥
८,००७.१८ येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् ।
८,००७.१८ राये सु तस्य धीमहि ॥
८,००७.१९ इमा उ वः सुदानवो घृतं न पिप्युषीरिषः ।
८,००७.१९ वर्धान्काण्वस्य मन्मभिः ॥
८,००७.२० क्व नूनं सुदानवो मदथा वृक्तबर्हिषः ।
८,००७.२० ब्रह्मा को वः सपर्यति ॥
८,००७.२१ नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः ।
८,००७.२१ शर्धां ऋतस्य जिन्वथ ॥
८,००७.२२ समु त्ये महतीरपः सं क्षोणी समु सूर्यम् ।
८,००७.२२ सं वज्रं पर्वशो दधुः ॥
८,००७.२३ वि वृत्रं पर्वशो ययुर्वि पर्वतां अराजिनः ।
८,००७.२३ चक्राणा वृष्णि पौंस्यम् ॥
८,००७.२४ अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् ।
८,००७.२४ अन्विन्द्रं वृत्रतूर्ये ॥
८,००७.२५ विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः ।
८,००७.२५ शुभ्रा व्यञ्जत श्रिये ॥
८,००७.२६ उशना यत्परावत उक्ष्णो रन्ध्रमयातन ।
८,००७.२६ द्यौर्न चक्रदद्भिया ॥
८,००७.२७ आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः ।
८,००७.२७ देवास उप गन्तन ॥
८,००७.२८ यदेषां पृषती रथे प्रष्टिर्वहति रोहितः ।
८,००७.२८ यान्ति शुभ्रा रिणन्नपः ॥
८,००७.२९ सुषोमे शर्यणावत्यार्जीके पस्त्यावति ।
८,००७.२९ ययुर्निचक्रया नरः ॥
८,००७.३० कदा गच्छाथ मरुत इत्था विप्रं हवमानम् ।
८,००७.३० मार्डीकेभिर्नाधमानम् ॥
८,००७.३१ कद्ध नूनं कधप्रियो यदिन्द्रमजहातन ।
८,००७.३१ को वः सखित्व ओहते ॥
८,००७.३२ सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः ।
८,००७.३२ स्तुषे हिरण्यवाशीभिः ॥
८,००७.३३ ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय ।
८,००७.३३ ववृत्यां चित्रवाजान् ॥
८,००७.३४ गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः ।
८,००७.३४ पर्वताश्चिन्नि येमिरे ॥
८,००७.३५ आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः ।
८,००७.३५ धातार स्तुवते वयः ॥
८,००७.३६ अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा ।
८,००७.३६ ते भानुभिर्वि तस्थिरे ॥
८,००८.०१ आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् ।
८,००८.०१ दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥
८,००८.०२ आ नूनं यातमश्विना रथेन सूर्यत्वचा ।
८,००८.०२ भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥
८,००८.०३ आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः ।
८,००८.०३ पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥
८,००८.०४ आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया ।
८,००८.०४ पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥
८,००८.०५ आ नो यातमुपश्रुत्यश्विना सोमपीतये ।
८,००८.०५ स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥
८,००८.०६ यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा ।
८,००८.०६ आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥
८,००८.०७ दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा ।
८,००८.०७ धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥
८,००८.०८ किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना ।
८,००८.०८ पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥
८,००८.०९ आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना ।
८,००८.०९ अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा ॥
८,००८.१० आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू ।
८,००८.१० विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥
८,००८.११ अतः सहस्रनिर्णिजा रथेना यातमश्विना ।
८,००८.११ वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥
८,००८.१२ पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।
८,००८.१२ स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥
८,००८.१३ आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया ।
८,००८.१३ कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥
८,००८.१४ यन्नासत्या परावति यद्वा स्थो अध्यम्बरे ।
८,००८.१४ अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥
८,००८.१५ यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् ।
८,००८.१५ तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥
८,००८.१६ प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् ।
८,००८.१६ यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥
८,००८.१७ आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा ।
८,००८.१७ कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥
८,००८.१८ आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
८,००८.१८ राजन्तावध्वराणामश्विना यामहूतिषु ॥
८,००८.१९ आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् ।
८,००८.१९ यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥
८,००८.२० याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् ।
८,००८.२० याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥
८,००८.२१ याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने ।
८,००८.२१ ताभिः ष्वस्मां अश्विना प्रावतं वाजसातये ॥
८,००८.२२ प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना ।
८,००८.२२ पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥
८,००८.२३ त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः ।
८,००८.२३ कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥
८,००९.०१ आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
८,००९.०१ प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥
८,००९.०२ यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषां अनु ।
८,००९.०२ नृम्णं तद्धत्तमश्विना ॥
८,००९.०३ ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
८,००९.०३ एवेत्काण्वस्य बोधतम् ॥
८,००९.०४ अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
८,००९.०४ अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥
८,००९.०५ यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
८,००९.०५ तेन माविष्टमश्विना ॥
८,००९.०६ यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।
८,००९.०६ अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥
८,००९.०७ आ नूनमश्विनोरृषि स्तोमं चिकेत वामया ।
८,००९.०७ आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥
८,००९.०८ आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
८,००९.०८ आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥
८,००९.०९ यदद्य वां नासत्योक्थैराचुच्युवीमहि ।
८,००९.०९ यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥
८,००९.१० यद्वां कक्षीवां उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।
८,००९.१० पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥
८,००९.११ यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा ।
८,००९.११ वर्तिस्तोकाय तनयाय यातम् ॥
८,००९.१२ यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
८,००९.१२ यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥
८,००९.१३ यदद्याश्विनावहं हुवेय वाजसातये ।
८,००९.१३ यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥
८,००९.१४ आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
८,००९.१४ इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥
८,००९.१५ यन्नासत्या पराके अर्वाके अस्ति भेषजम् ।
८,००९.१५ तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥
८,००९.१६ अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।
८,००९.१६ व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥
८,००९.१७ प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
८,००९.१७ प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥
८,००९.१८ यदुषो यासि भानुना सं सूर्येण रोचसे ।
८,००९.१८ आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥
८,००९.१९ यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।
८,००९.१९ यद्वा वाणीरनूषत प्र देवयन्तो अश्विना ॥
८,००९.२० प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
८,००९.२० प्र दक्षाय प्रचेतसा ॥
८,००९.२१ यन्नूनं धीभिरश्विना पितुर्योना निषीदथः ।
८,००९.२१ यद्वा सुम्नेभिरुक्थ्या ॥
८,०१०.०१ यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।
८,०१०.०१ यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥
८,०१०.०२ यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् ।
८,०१०.०२ बृहस्पतिं विश्वान्देवां अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥
८,०१०.०३ त्या न्वश्विना हुवे सुदंससा गृभे कृता ।
८,०१०.०३ ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥
८,०१०.०४ ययोरधि प्र यज्ञा असूरे सन्ति सूरयः ।
८,०१०.०४ ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥
८,०१०.०५ यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू ।
८,०१०.०५ यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥
८,०१०.०६ यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।
८,०१०.०६ यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥
८,०११.०१ त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
८,०११.०१ त्वं यज्ञेष्वीड्यः ॥
८,०११.०२ त्वमसि प्रशस्यो विदथेषु सहन्त्य ।
८,०११.०२ अग्ने रथीरध्वराणाम् ॥
८,०११.०३ स त्वमस्मदप द्विषो युयोधि जातवेदः ।
८,०११.०३ अदेवीरग्ने अरातीः ॥
८,०११.०४ अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः ।
८,०११.०४ नोप वेषि जातवेदः ॥
८,०११.०५ मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
८,०११.०५ विप्रासो जातवेदसः ॥
८,०११.०६ विप्रं विप्रासोऽवसे देवं मर्तास ऊतये ।
८,०११.०६ अग्निं गीर्भिर्हवामहे ॥
८,०११.०७ आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
८,०११.०७ अग्ने त्वाङ्कामया गिरा ॥
८,०११.०८ पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
८,०११.०८ समत्सु त्वा हवामहे ॥
८,०११.०९ समत्स्वग्निमवसे वाजयन्तो हवामहे ।
८,०११.०९ वाजेषु चित्रराधसम् ॥
८,०११.१० प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
८,०११.१० स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥
८,०१२.०१ य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
८,०१२.०१ येना हंसि न्यत्रिणं तमीमहे ॥
८,०१२.०२ येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
८,०१२.०२ येना समुद्रमाविथा तमीमहे ॥
८,०१२.०३ येन सिन्धुं महीरपो रथां इव प्रचोदयः ।
८,०१२.०३ पन्थामृतस्य यातवे तमीमहे ॥
८,०१२.०४ इमं स्तोममभिष्टये घृतं न पूतमद्रिवः ।
८,०१२.०४ येना नु सद्य ओजसा ववक्षिथ ॥
८,०१२.०५ इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।
८,०१२.०५ इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ॥
८,०१२.०६ यो नो देवः परावतः सखित्वनाय मामहे ।
८,०१२.०६ दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥
८,०१२.०७ ववक्षुरस्य केतवो उत वज्रो गभस्त्योः ।
८,०१२.०७ यत्सूर्यो न रोदसी अवर्धयत् ॥
८,०१२.०८ यदि प्रवृद्ध सत्पते सहस्रं महिषां अघः ।
८,०१२.०८ आदित्त इन्द्रियं महि प्र वावृधे ॥
८,०१२.०९ इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति ।
८,०१२.०९ अग्निर्वनेव सासहिः प्र वावृधे ॥
८,०१२.१० इयं त ऋत्वियावती धीतिरेति नवीयसी ।
८,०१२.१० सपर्यन्ती पुरुप्रिया मिमीत इत् ॥
८,०१२.११ गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक् ।
८,०१२.११ स्तोमैरिन्द्रस्य वावृधे मिमीत इत् ॥
८,०१२.१२ सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये ।
८,०१२.१२ प्राची वाशीव सुन्वते मिमीत इत् ॥
८,०१२.१३ यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः ।
८,०१२.१३ घृतं न पिप्य आसन्यृतस्य यत् ॥
८,०१२.१४ उत स्वराजे अदिति स्तोममिन्द्राय जीजनत् ।
८,०१२.१४ पुरुप्रशस्तमूतय ऋतस्य यत् ॥
८,०१२.१५ अभि वह्नय ऊतयेऽनूषत प्रशस्तये ।
८,०१२.१५ न देव विव्रता हरी ऋतस्य यत् ॥
८,०१२.१६ यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
८,०१२.१६ यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥
८,०१२.१७ यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
८,०१२.१७ अस्माकमित्सुते रणा समिन्दुभिः ॥
८,०१२.१८ यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
८,०१२.१८ उक्थे वा यस्य रण्यसि समिन्दुभिः ॥
८,०१२.१९ देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि ।
८,०१२.१९ अधा यज्ञाय तुर्वणे व्यानशुः ॥
८,०१२.२० यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम् ।
८,०१२.२० होत्राभिरिन्द्रं वावृधुर्व्यानशुः ॥
८,०१२.२१ महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
८,०१२.२१ विश्वा वसूनि दाशुषे व्यानशुः ॥
८,०१२.२२ इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः ।
८,०१२.२२ इन्द्रं वाणीरनूषता समोजसे ॥
८,०१२.२३ महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम् ।
८,०१२.२३ अर्कैरभि प्र णोनुमः समोजसे ॥
८,०१२.२४ न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् ।
८,०१२.२४ अमादिदस्य तित्विषे समोजसः ॥
८,०१२.२५ यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः ।
८,०१२.२५ आदित्ते हर्यता हरी ववक्षतुः ॥
८,०१२.२६ यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः ।
८,०१२.२६ आदित्ते हर्यता हरी ववक्षतुः ॥
८,०१२.२७ यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे ।
८,०१२.२७ आदित्ते हर्यता हरी ववक्षतुः ॥
८,०१२.२८ यदा ते हर्यता हरी वावृधाते दिवेदिवे ।
८,०१२.२८ आदित्ते विश्वा भुवनानि येमिरे ॥
८,०१२.२९ यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे ।
८,०१२.२९ आदित्ते विश्वा भुवनानि येमिरे ॥
८,०१२.३० यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः ।
८,०१२.३० आदित्ते विश्वा भुवनानि येमिरे ॥
८,०१२.३१ इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।
८,०१२.३१ जामिं पदेव पिप्रतीं प्राध्वरे ॥
८,०१२.३२ यदस्य धामनि प्रिये समीचीनासो अस्वरन् ।
८,०१२.३२ नाभा यज्ञस्य दोहना प्राध्वरे ॥
८,०१२.३३ सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः ।
८,०१२.३३ होतेव पूर्वचित्तये प्राध्वरे ॥
८,०१३.०१ इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् ।
८,०१३.०१ विदे वृधस्य दक्षसो महान्हि षः ॥
८,०१३.०२ स प्रथमे व्योमनि देवानां सदने वृधः ।
८,०१३.०२ सुपारः सुश्रवस्तमः समप्सुजित् ॥
८,०१३.०३ तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम् ।
८,०१३.०३ भवा नः सुम्ने अन्तमः सखा वृधे ॥
८,०१३.०४ इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः ।
८,०१३.०४ मन्दानो अस्य बर्हिषो वि राजसि ॥
८,०१३.०५ नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे ।
८,०१३.०५ रयिं नश्चित्रमा भरा स्वर्विदम् ॥
८,०१३.०६ स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः ।
८,०१३.०६ वया इवानु रोहते जुषन्त यत् ॥
८,०१३.०७ प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम् ।
८,०१३.०७ मदेमदे ववक्षिथा सुकृत्वने ॥
८,०१३.०८ क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः ।
८,०१३.०८ अया धिया य उच्यते पतिर्दिवः ॥
८,०१३.०९ उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी ।
८,०१३.०९ नमोवृधैरवस्युभिः सुते रण ॥
८,०१३.१० स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा ।
८,०१३.१० गन्तारा दाशुषो गृहं नमस्विनः ॥
८,०१३.११ तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः ।
८,०१३.११ आ याहि यज्ञमाशुभिः शमिद्धि ते ॥
८,०१३.१२ इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय ।
८,०१३.१२ श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥
८,०१३.१३ हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः ।
८,०१३.१३ जुषाण इन्द्र सप्तिभिर्न आ गहि ॥
८,०१३.१४ आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः ।
८,०१३.१४ तन्तुं तनुष्व पूर्व्यं यथा विदे ॥
८,०१३.१५ यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
८,०१३.१५ यद्वा समुद्रे अन्धसोऽवितेदसि ॥
८,०१३.१६ इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः ।
८,०१३.१६ इन्द्रे हविष्मतीर्विशो अराणिषुः ॥
८,०१३.१७ तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः ।
८,०१३.१७ इन्द्रं क्षोणीरवर्धयन्वया इव ॥
८,०१३.१८ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
८,०१३.१८ तमिद्वर्धन्तु नो गिरः सदावृधम् ॥
८,०१३.१९ स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे ।
८,०१३.१९ शुचिः पावक उच्यते सो अद्भुतः ॥
८,०१३.२० तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु ।
८,०१३.२० मनो यत्रा वि तद्दधुर्विचेतसः ॥
८,०१३.२१ यदि मे सख्यमावर इमस्य पाह्यन्धसः ।
८,०१३.२१ येन विश्वा अति द्विषो अतारिम ॥
८,०१३.२२ कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः ।
८,०१३.२२ कदा नो गव्ये अश्व्ये वसौ दधः ॥
८,०१३.२३ उत ते सुष्टुता हरी वृषणा वहतो रथम् ।
८,०१३.२३ अजुर्यस्य मदिन्तमं यमीमहे ॥
८,०१३.२४ तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः ।
८,०१३.२४ नि बर्हिषि प्रिये सददध द्विता ॥
८,०१३.२५ वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः ।
८,०१३.२५ धुक्षस्व पिप्युषीमिषमवा च नः ॥
८,०१३.२६ इन्द्र त्वमवितेदसीत्था स्तुवतो अद्रिवः ।
८,०१३.२६ ऋतादियर्मि ते धियं मनोयुजम् ॥
८,०१३.२७ इह त्या सधमाद्या युजानः सोमपीतये ।
८,०१३.२७ हरी इन्द्र प्रतद्वसू अभि स्वर ॥
८,०१३.२८ अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् ।
८,०१३.२८ उतो मरुत्वतीर्विशो अभि प्रयः ॥
८,०१३.२९ इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि ।
८,०१३.२९ नाभा यज्ञस्य सं दधुर्यथा विदे ॥
८,०१३.३० अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे ।
८,०१३.३० मिमीते यज्ञमानुषग्विचक्ष्य ॥
८,०१३.३१ वृषायमिन्द्र ते रथ उतो ते वृषणा हरी ।
८,०१३.३१ वृषा त्वं शतक्रतो वृषा हवः ॥
८,०१३.३२ वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
८,०१३.३२ वृषा यज्ञो यमिन्वसि वृषा हवः ॥
८,०१३.३३ वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
८,०१३.३३ वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥
८,०१४.०१ यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
८,०१४.०१ स्तोता मे गोषखा स्यात् ॥
८,०१४.०२ शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
८,०१४.०२ यदहं गोपतिः स्याम् ॥
८,०१४.०३ धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
८,०१४.०३ गामश्वं पिप्युषी दुहे ॥
८,०१४.०४ न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
८,०१४.०४ यद्दित्ससि स्तुतो मघम् ॥
८,०१४.०५ यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
८,०१४.०५ चक्राण ओपशं दिवि ॥
८,०१४.०६ वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
८,०१४.०६ ऊतिमिन्द्रा वृणीमहे ॥
८,०१४.०७ व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना ।
८,०१४.०७ इन्द्रो यदभिनद्वलम् ॥
८,०१४.०८ उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
८,०१४.०८ अर्वाञ्चं नुनुदे वलम् ॥
८,०१४.०९ इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च ।
८,०१४.०९ स्थिराणि न पराणुदे ॥
८,०१४.१० अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते ।
८,०१४.१० वि ते मदा अराजिषुः ॥
८,०१४.११ त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
८,०१४.११ स्तोतॄणामुत भद्रकृत् ॥
८,०१४.१२ इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
८,०१४.१२ उप यज्ञं सुराधसम् ॥
८,०१४.१३ अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
८,०१४.१३ विश्वा यदजय स्पृधः ॥
८,०१४.१४ मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
८,०१४.१४ अव दस्यूंरधूनुथाः ॥
८,०१४.१५ असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
८,०१४.१५ सोमपा उत्तरो भवन् ॥
८,०१५.०१ तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
८,०१५.०१ इन्द्रं गीर्भिस्तविषमा विवासत ॥
८,०१५.०२ यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
८,०१५.०२ गिरींरज्रां अपः स्वर्वृषत्वना ॥
८,०१५.०३ स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे ।
८,०१५.०३ इन्द्र जैत्रा श्रवस्या च यन्तवे ॥
८,०१५.०४ तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
८,०१५.०४ उ लोककृत्नुमद्रिवो हरिश्रियम् ॥
८,०१५.०५ येन ज्योतींष्यायवे मनवे च विवेदिथ ।
८,०१५.०५ मन्दानो अस्य बर्हिषो वि राजसि ॥
८,०१५.०६ तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
८,०१५.०६ वृषपत्नीरपो जया दिवेदिवे ॥
८,०१५.०७ तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
८,०१५.०७ वज्रं शिशाति धिषणा वरेण्यम् ॥
८,०१५.०८ तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
८,०१५.०८ त्वामापः पर्वतासश्च हिन्विरे ॥
८,०१५.०९ त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
८,०१५.०९ त्वां शर्धो मदत्यनु मारुतम् ॥
८,०१५.१० त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे ।
८,०१५.१० सत्रा विश्वा स्वपत्यानि दधिषे ॥
८,०१५.११ सत्रा त्वं पुरुष्टुतं एको वृत्राणि तोशसे ।
८,०१५.११ नान्य इन्द्रात्करणं भूय इन्वति ॥
८,०१५.१२ यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये ।
८,०१५.१२ अस्माकेभिर्नृभिरत्रा स्वर्जय ॥
८,०१५.१३ अरं क्षयाय नो महे विश्वा रूपाण्याविशन् ।
८,०१५.१३ इन्द्रं जैत्राय हर्षया शचीपतिम् ॥
८,०१६.०१ प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
८,०१६.०१ नरं नृषाहं मंहिष्ठम् ॥
८,०१६.०२ यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या ।
८,०१६.०२ अपामवो न समुद्रे ॥
८,०१६.०३ तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
८,०१६.०३ महो वाजिनं सनिभ्यः ॥
८,०१६.०४ यस्यानूना गभीरा मदा उरवस्तरुत्राः ।
८,०१६.०४ हर्षुमन्तः शूरसातौ ॥
८,०१६.०५ तमिद्धनेषु हितेष्वधिवाकाय हवन्ते ।
८,०१६.०५ येषामिन्द्रस्ते जयन्ति ॥
८,०१६.०६ तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः ।
८,०१६.०६ एष इन्द्रो वरिवस्कृत् ॥
८,०१६.०७ इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः ।
८,०१६.०७ महान्महीभिः शचीभिः ॥
८,०१६.०८ स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।
८,०१६.०८ एकश्चित्सन्नभिभूतिः ॥
८,०१६.०९ तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः ।
८,०१६.०९ इन्द्रं वर्धन्ति क्षितयः ॥
८,०१६.१० प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
८,०१६.१० सासह्वांसं युधामित्रान् ॥
८,०१६.११ स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
८,०१६.११ इन्द्रो विश्वा अति द्विषः ॥
८,०१६.१२ स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च ।
८,०१६.१२ अच्छा च नः सुम्नं नेषि ॥
८,०१७.०१ आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
८,०१७.०१ एदं बर्हिः सदो मम ॥
८,०१७.०२ आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
८,०१७.०२ उप ब्रह्माणि नः शृणु ॥
८,०१७.०३ ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
८,०१७.०३ सुतावन्तो हवामहे ॥
८,०१७.०४ आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।
८,०१७.०४ पिबा सु शिप्रिन्नन्धसः ॥
८,०१७.०५ आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।
८,०१७.०५ गृभाय जिह्वया मधु ॥
८,०१७.०६ स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव ।
८,०१७.०६ सोमः शमस्तु ते हृदे ॥
८,०१७.०७ अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
८,०१७.०७ प्र सोम इन्द्र सर्पतु ॥
८,०१७.०८ तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे ।
८,०१७.०८ इन्द्रो वृत्राणि जिघ्नते ॥
८,०१७.०९ इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
८,०१७.०९ वृत्राणि वृत्रहञ्जहि ॥
८,०१७.१० दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।
८,०१७.१० यजमानाय सुन्वते ॥
८,०१७.११ अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
८,०१७.११ एहीमस्य द्रवा पिब ॥
८,०१७.१२ शाचिगो शाचिपूजनायं रणाय ते सुतः ।
८,०१७.१२ आखण्डल प्र हूयसे ॥
८,०१७.१३ यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
८,०१७.१३ न्यस्मिन्दध्र आ मनः ॥
८,०१७.१४ वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् ।
८,०१७.१४ द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ॥
८,०१७.१५ पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः ।
८,०१७.१५ भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥
८,०१८.०१ इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः ।
८,०१८.०१ आदित्यानामपूर्व्यं सवीमनि ॥
८,०१८.०२ अनर्वाणो ह्येषां पन्था आदित्यानाम् ।
८,०१८.०२ अदब्धाः सन्ति पायवः सुगेवृधः ॥
८,०१८.०३ तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।
८,०१८.०३ शर्म यच्छन्तु सप्रथो यदीमहे ॥
८,०१८.०४ देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि ।
८,०१८.०४ स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ॥
८,०१८.०५ ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे ।
८,०१८.०५ अंहोश्चिदुरुचक्रयोऽनेहसः ॥
८,०१८.०६ अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः ।
८,०१८.०६ अदितिः पात्वंहसः सदावृधा ॥
८,०१८.०७ उत स्या नो दिवा मतिरदितिरूत्या गमत् ।
८,०१८.०७ सा शन्ताति मयस्करदप स्रिधः ॥
८,०१८.०८ उत त्या दैव्या भिषजा शं नः करतो अश्विना ।
८,०१८.०८ युयुयातामितो रपो अप स्रिधः ॥
८,०१८.०९ शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः ।
८,०१८.०९ शं वातो वात्वरपा अप स्रिधः ॥
८,०१८.१० अपामीवामप स्रिधमप सेधत दुर्मतिम् ।
८,०१८.१० आदित्यासो युयोतना नो अंहसः ॥
८,०१८.११ युयोता शरुमस्मदां आदित्यास उतामतिम् ।
८,०१८.११ ऋधग्द्वेषः कृणुत विश्ववेदसः ॥
८,०१८.१२ तत्सु नः शर्म यच्छतादित्या यन्मुमोचति ।
८,०१८.१२ एनस्वन्तं चिदेनसः सुदानवः ॥
८,०१८.१३ यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः ।
८,०१८.१३ स्वैः ष एवै रिरिषीष्ट युर्जनः ॥
८,०१८.१४ समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम् ।
८,०१८.१४ यो अस्मत्रा दुर्हणावां उप द्वयुः ॥
८,०१८.१५ पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् ।
८,०१८.१५ उप द्वयुं चाद्वयुं च वसवः ॥
८,०१८.१६ आ शर्म पर्वतानामोतापां वृणीमहे ।
८,०१८.१६ द्यावाक्षामारे अस्मद्रपस्कृतम् ॥
८,०१८.१७ ते नो भद्रेण शर्मणा युष्माकं नावा वसवः ।
८,०१८.१७ अति विश्वानि दुरिता पिपर्तन ॥
८,०१८.१८ तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे ।
८,०१८.१८ आदित्यासः सुमहसः कृणोतन ॥
८,०१८.१९ यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत ।
८,०१८.१९ युष्मे इद्वो अपि ष्मसि सजात्ये ॥
८,०१८.२० बृहद्वरूथं मरुतां देवं त्रातारमश्विना ।
८,०१८.२० मित्रमीमहे वरुणं स्वस्तये ॥
८,०१८.२१ अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् ।
८,०१८.२१ त्रिवरूथं मरुतो यन्त नश्छर्दिः ॥
८,०१८.२२ ये चिद्धि मृत्युबन्धव आदित्या मनवः स्मसि ।
८,०१८.२२ प्र सू न आयुर्जीवसे तिरेतन ॥
८,०१९.०१ तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
८,०१९.०१ देवत्रा हव्यमोहिरे ॥
८,०१९.०२ विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् ।
८,०१९.०२ अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥
८,०१९.०३ यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् ।
८,०१९.०३ अस्य यज्ञस्य सुक्रतुम् ॥
८,०१९.०४ ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् ।
८,०१९.०४ स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥
८,०१९.०५ यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
८,०१९.०५ यो नमसा स्वध्वरः ॥
८,०१९.०६ तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः ।
८,०१९.०६ न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥
८,०१९.०७ स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते ।
८,०१९.०७ सुवीरस्त्वमस्मयुः ॥
८,०१९.०८ प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः ।
८,०१९.०८ त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम् ॥
८,०१९.०९ सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः ।
८,०१९.०९ स धीभिरस्तु सनिता ॥
८,०१९.१० यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते ।
८,०१९.१० सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥
८,०१९.११ यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः ।
८,०१९.११ हव्या वा वेविषद्विषः ॥
८,०१९.१२ विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु ।
८,०१९.१२ अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥
८,०१९.१३ यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति ।
८,०१९.१३ गिरा वाजिरशोचिषम् ॥
८,०१९.१४ समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः ।
८,०१९.१४ विश्वेत्स धीभिः सुभगो जनां अति द्युम्नैरुद्न इव तारिषत् ॥
८,०१९.१५ तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् ।
८,०१९.१५ मन्युं जनस्य दूढ्यः ॥
८,०१९.१६ येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः ।
८,०१९.१६ वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥
८,०१९.१७ ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् ।
८,०१९.१७ विप्रासो देव सुक्रतुम् ॥
८,०१९.१८ त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि ।
८,०१९.१८ त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥
८,०१९.१९ भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
८,०१९.१९ भद्रा उत प्रशस्तयः ॥
८,०१९.२० भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः ।
८,०१९.२० अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥
८,०१९.२१ ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे ।
८,०१९.२१ यजिष्ठं हव्यवाहनम् ॥
८,०१९.२२ तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये ।
८,०१९.२२ यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः ॥
८,०१९.२३ यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च ।
८,०१९.२३ असुर इव निर्णिजम् ॥
८,०१९.२४ यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना ।
८,०१९.२४ विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥
८,०१९.२५ यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः ।
८,०१९.२५ सहसः सूनवाहुत ॥
८,०१९.२६ न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य ।
८,०१९.२६ न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया ॥
८,०१९.२७ पितुर्न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ॥
८,०१९.२८ तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो ।
८,०१९.२८ सदा देवस्य मर्त्यः ॥
८,०१९.२९ तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः ।
८,०१९.२९ त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥
८,०१९.३० प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः ।
८,०१९.३० यस्य त्वं सख्यमावरः ॥
८,०१९.३१ तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
८,०१९.३१ त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥
८,०१९.३२ तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे ।
८,०१९.३२ सम्राजं त्रासदस्यवम् ॥
८,०१९.३३ यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव ।
८,०१९.३३ विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥
८,०१९.३४ यमादित्यासो अद्रुहः पारं नयथ मर्त्यम् ।
८,०१९.३४ मघोनां विश्वेषां सुदानवः ॥
८,०१९.३५ यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषां अनु ।
८,०१९.३५ वयं ते वो वरुण मित्रार्यमन्स्यामेदृतस्य रथ्यः ॥
८,०१९.३६ अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् ।
८,०१९.३६ मंहिष्ठो अर्यः सत्पतिः ॥
८,०१९.३७ उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि ।
८,०१९.३७ तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः ॥
८,०२०.०१ आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।
८,०२०.०१ स्थिरा चिन्नमयिष्णवः ॥
८,०२०.०२ वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।
८,०२०.०२ इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥
८,०२०.०३ विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् ।
८,०२०.०३ विष्णोरेषस्य मीळ्हुषाम् ॥
८,०२०.०४ वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी ।
८,०२०.०४ प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥
८,०२०.०५ अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः ।
८,०२०.०५ भूमिर्यामेषु रेजते ॥
८,०२०.०६ अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् ।
८,०२०.०६ यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥
८,०२०.०७ स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः ।
८,०२०.०७ वहन्ते अह्रुतप्सवः ॥
८,०२०.०८ गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।
८,०२०.०८ गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥
८,०२०.०९ प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् ।
८,०२०.०९ हव्या वृषप्रयाव्णे ॥
८,०२०.१० वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।
८,०२०.१० आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥
८,०२०.११ समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।
८,०२०.११ दविद्युतत्यृष्टयः ॥
८,०२०.१२ त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे ।
८,०२०.१२ स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥
८,०२०.१३ येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे ।
८,०२०.१३ वयो न पित्र्यं सहः ॥
८,०२०.१४ तान्वन्दस्व मरुतस्तां उप स्तुहि तेषां हि धुनीनाम् ।
८,०२०.१४ अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥
८,०२०.१५ सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु ।
८,०२०.१५ यो वा नूनमुतासति ॥
८,०२०.१६ यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ ।
८,०२०.१६ अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥
८,०२०.१७ यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः ।
८,०२०.१७ युवानस्तथेदसत् ॥
८,०२०.१८ ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये ।
८,०२०.१८ अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥
८,०२०.१९ यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा ।
८,०२०.१९ गाय गा इव चर्कृषत् ॥
८,०२०.२० साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।
८,०२०.२० वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥
८,०२०.२१ गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः ।
८,०२०.२१ रिहते ककुभो मिथः ॥
८,०२०.२२ मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति ।
८,०२०.२२ अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥
८,०२०.२३ मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।
८,०२०.२३ यूयं सखायः सप्तयः ॥
८,०२०.२४ याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् ।
८,०२०.२४ मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥
८,०२०.२५ यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः ।
८,०२०.२५ यत्पर्वतेषु भेषजम् ॥
८,०२०.२६ विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत ।
८,०२०.२६ क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥
८,०२१.०१ वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
८,०२१.०१ वाजे चित्रं हवामहे ॥
८,०२१.०२ उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।
८,०२१.०२ त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥
८,०२१.०३ आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते ।
८,०२१.०३ सोमं सोमपते पिब ॥
८,०२१.०४ वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम ।
८,०२१.०४ या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥
८,०२१.०५ सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।
८,०२१.०५ अभि त्वामिन्द्र नोनुमः ॥
८,०२१.०६ अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः ।
८,०२१.०६ सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः ॥
८,०२१.०७ नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः ।
८,०२१.०७ विद्मा पुरा परीणसः ॥
८,०२१.०८ विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे ।
८,०२१.०८ उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ॥
८,०२१.०९ यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
८,०२१.०९ सखाय इन्द्रमूतये ॥
८,०२१.१० हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
८,०२१.१० आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥
८,०२१.११ त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि ।
८,०२१.११ संस्थे जनस्य गोमतः ॥
८,०२१.१२ जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः ।
८,०२१.१२ नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः ॥
८,०२१.१३ अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
८,०२१.१३ युधेदापित्वमिच्छसे ॥
८,०२१.१४ नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
८,०२१.१४ यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥
८,०२१.१५ मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः ।
८,०२१.१५ नि षदाम सचा सुते ॥
८,०२१.१६ मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि ।
८,०२१.१६ दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे ॥
८,०२१.१७ इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु ।
८,०२१.१७ त्वं वा चित्र दाशुषे ॥
८,०२१.१८ चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु ।
८,०२१.१८ पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥
८,०२२.०१ ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये ।
८,०२२.०१ यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥
८,०२२.०२ पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम् ।
८,०२२.०२ सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम् ॥
८,०२२.०३ इह त्या पुरुभूतमा देवा नमोभिरश्विना ।
८,०२२.०३ अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम् ॥
८,०२२.०४ युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।
८,०२२.०४ अस्मां अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥
८,०२२.०५ रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना ।
८,०२२.०५ परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥
८,०२२.०६ दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।
८,०२२.०६ ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥
८,०२२.०७ उप नो वाजिनीवसू यातमृतस्य पथिभिः ।
८,०२२.०७ येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥
८,०२२.०८ अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू ।
८,०२२.०८ आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥
८,०२२.०९ आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू ।
८,०२२.०९ युञ्जाथां पीवरीरिषः ॥
८,०२२.१० याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम् ।
८,०२२.१० ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम् ॥
८,०२२.११ यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे ।
८,०२२.११ वयं गीर्भिर्विपन्यवः ॥
८,०२२.१२ ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् ।
८,०२२.१२ इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥
८,०२२.१३ ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे ।
८,०२२.१३ ता उ नमोभिरीमहे ॥
८,०२२.१४ ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी ।
८,०२२.१४ मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम् ॥
८,०२२.१५ आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी ।
८,०२२.१५ हुवे पितेव सोभरी ॥
८,०२२.१६ मनोजवसा वृषणा मदच्युता मक्षुङ्गमाभिरूतिभिः ।
८,०२२.१६ आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा ॥
८,०२२.१७ आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा ।
८,०२२.१७ गोमद्दस्रा हिरण्यवत् ॥
८,०२२.१८ सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना ।
८,०२२.१८ अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ॥
८,०२३.०१ ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् ।
८,०२३.०१ चरिष्णुधूममगृभीतशोचिषम् ॥
८,०२३.०२ दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा ।
८,०२३.०२ उत स्तुषे विष्पर्धसो रथानाम् ॥
८,०२३.०३ येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे ।
८,०२३.०३ उपविदा वह्निर्विन्दते वसु ॥
८,०२३.०४ उदस्य शोचिरस्थाद्दीदियुषो व्यजरम् ।
८,०२३.०४ तपुर्जम्भस्य सुद्युतो गणश्रियः ॥
८,०२३.०५ उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
८,०२३.०५ अभिख्या भासा बृहता शुशुक्वनिः ॥
८,०२३.०६ अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् ।
८,०२३.०६ यथा दूतो बभूथ हव्यवाहनः ॥
८,०२३.०७ अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् ।
८,०२३.०७ तमया वाचा गृणे तमु व स्तुषे ॥
८,०२३.०८ यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत् ।
८,०२३.०८ मित्रं न जने सुधितमृतावनि ॥
८,०२३.०९ ऋतावानमृतायवो यज्ञस्य साधनं गिरा ।
८,०२३.०९ उपो एनं जुजुषुर्नमसस्पदे ॥
८,०२३.१० अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः ।
८,०२३.१० होता यो अस्ति विक्ष्वा यशस्तमः ॥
८,०२३.११ अग्ने तव त्ये अजरेन्धानासो बृहद्भाः ।
८,०२३.११ अश्वा इव वृषणस्तविषीयवः ॥
८,०२३.१२ स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम् ।
८,०२३.१२ प्राव नस्तोके तनये समत्स्वा ॥
८,०२३.१३ यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि ।
८,०२३.१३ विश्वेदग्निः प्रति रक्षांसि सेधति ॥
८,०२३.१४ श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते ।
८,०२३.१४ नि मायिनस्तपुषा रक्षसो दह ॥
८,०२३.१५ न तस्य मायया चन रिपुरीशीत मर्त्यः ।
८,०२३.१५ यो अग्नये ददाश हव्यदातिभिः ॥
८,०२३.१६ व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः ।
८,०२३.१६ महो राये तमु त्वा समिधीमहि ॥
८,०२३.१७ उशना काव्यस्त्वा नि होतारमसादयत् ।
८,०२३.१७ आयजिं त्वा मनवे जातवेदसम् ॥
८,०२३.१८ विश्वे हि त्वा सजोषसो देवासो दूतमक्रत ।
८,०२३.१८ श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥
८,०२३.१९ इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः ।
८,०२३.१९ पावकं कृष्णवर्तनिं विहायसम् ॥
८,०२३.२० तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् ।
८,०२३.२० विशामग्निमजरं प्रत्नमीड्यम् ॥
८,०२३.२१ यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् ।
८,०२३.२१ भूरि पोषं स धत्ते वीरवद्यशः ॥
८,०२३.२२ प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् ।
८,०२३.२२ प्रति स्रुगेति नमसा हविष्मती ॥
८,०२३.२३ आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् ।
८,०२३.२३ मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥
८,०२३.२४ नूनमर्च विहायसे स्तोमेभि स्थूरयूपवत् ।
८,०२३.२४ ऋषे वैयश्व दम्यायाग्नये ॥
८,०२३.२५ अतिथिं मानुषाणां सूनुं वनस्पतीनाम् ।
८,०२३.२५ विप्रा अग्निमवसे प्रत्नमीळते ॥
८,०२३.२६ महो विश्वां अभि षतोऽभि हव्यानि मानुषा ।
८,०२३.२६ अग्ने नि षत्सि नमसाधि बर्हिषि ॥
८,०२३.२७ वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः ।
८,०२३.२७ सुवीर्यस्य प्रजावतो यशस्वतः ॥
८,०२३.२८ त्वं वरो सुषाम्णेऽग्ने जनाय चोदय ।
८,०२३.२८ सदा वसो रातिं यविष्ठ शश्वते ॥
८,०२३.२९ त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः ।
८,०२३.२९ महो रायः सातिमग्ने अपा वृधि ॥
८,०२३.३० अग्ने त्वं यशा अस्या मित्रावरुणा वह ।
८,०२३.३० ऋतावाना सम्राजा पूतदक्षसा ॥
८,०२४.०१ सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे ।
८,०२४.०१ स्तुष ऊ षु वो नृतमाय धृष्णवे ॥
८,०२४.०२ शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
८,०२४.०२ मघैर्मघोनो अति शूर दाशसि ॥
८,०२४.०३ स न स्तवान आ भर रयिं चित्रश्रवस्तमम् ।
८,०२४.०३ निरेके चिद्यो हरिवो वसुर्ददिः ॥
८,०२४.०४ आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम् ।
८,०२४.०४ धृषता धृष्णो स्तवमान आ भर ॥
८,०२४.०५ न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः ।
८,०२४.०५ न परिबाधो हरिवो गविष्टिषु ॥
८,०२४.०६ आ त्वा गोभिरिव व्रजं गीर्भिरृणोम्यद्रिवः ।
८,०२४.०६ आ स्मा कामं जरितुरा मनः पृण ॥
८,०२४.०७ विश्वानि विश्वमनसो धिया नो वृत्रहन्तम ।
८,०२४.०७ उग्र प्रणेतरधि षू वसो गहि ॥
८,०२४.०८ वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः ।
८,०२४.०८ वसो स्पार्हस्य पुरुहूत राधसः ॥
८,०२४.०९ इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः ।
८,०२४.०९ अमृक्ता रातिः पुरुहूत दाशुषे ॥
८,०२४.१० आ वृषस्व महामह महे नृतम राधसे ।
८,०२४.१० दृळ्हश्चिद्दृह्य मघवन्मघत्तये ॥
८,०२४.११ नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः ।
८,०२४.११ मघवञ्छग्धि तव तन्न ऊतिभिः ॥
८,०२४.१२ नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे ।
८,०२४.१२ राये द्युम्नाय शवसे च गिर्वणः ॥
८,०२४.१३ एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
८,०२४.१३ प्र राधसा चोदयाते महित्वना ॥
८,०२४.१४ उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम् ।
८,०२४.१४ नूनं श्रुधि स्तुवतो अश्व्यस्य ॥
८,०२४.१५ नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत् ।
८,०२४.१५ नकी राया नैवथा न भन्दना ॥
८,०२४.१६ एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
८,०२४.१६ एवा हि वीर स्तवते सदावृधः ॥
८,०२४.१७ इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम् ।
८,०२४.१७ उदानंश शवसा न भन्दना ॥
८,०२४.१८ तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
८,०२४.१८ अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥
८,०२४.१९ एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
८,०२४.१९ कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥
८,०२४.२० अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
८,०२४.२० घृतात्स्वादीयो मधुनश्च वोचत ॥
८,०२४.२१ यस्यामितानि वीर्या न राधः पर्येतवे ।
८,०२४.२१ ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥
८,०२४.२२ स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
८,०२४.२२ अर्यो गयं मंहमानं वि दाशुषे ॥
८,०२४.२३ एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
८,०२४.२३ सुविद्वांसं चर्कृत्यं चरणीनाम् ॥
८,०२४.२४ वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
८,०२४.२४ अहरहः शुन्ध्युः परिपदामिव ॥
८,०२४.२५ तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने ।
८,०२४.२५ द्विता कुत्साय शिश्नथो नि चोदय ॥
८,०२४.२६ तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे ।
८,०२४.२६ स त्वं नो विश्वा अभिमातीः सक्षणिः ॥
८,०२४.२७ य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु ।
८,०२४.२७ वधर्दासस्य तुविनृम्ण नीनमः ॥
८,०२४.२८ यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् ।
८,०२४.२८ व्यश्वेभ्यः सुभगे वाजिनीवति ॥
८,०२४.२९ आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः ।
८,०२४.२९ स्थूरं च राधः शतवत्सहस्रवत् ॥
८,०२४.३० यत्त्वा पृच्छादीजानः कुहया कुहयाकृते ।
८,०२४.३० एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥
८,०२५.०१ ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया ।
८,०२५.०१ ऋतावाना यजसे पूतदक्षसा ॥
८,०२५.०२ मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः ।
८,०२५.०२ सनात्सुजाता तनया धृतव्रता ॥
८,०२५.०३ ता माता विश्ववेदसासुर्याय प्रमहसा ।
८,०२५.०३ मही जजानादितिरृतावरी ॥
८,०२५.०४ महान्ता मित्रावरुणा सम्राजा देवावसुरा ।
८,०२५.०४ ऋतावानावृतमा घोषतो बृहत् ॥
८,०२५.०५ नपाता शवसो महः सूनू दक्षस्य सुक्रतू ।
८,०२५.०५ सृप्रदानू इषो वास्त्वधि क्षितः ॥
८,०२५.०६ सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ।
८,०२५.०६ नभस्वतीरा वां चरन्तु वृष्टयः ॥
८,०२५.०७ अधि या बृहतो दिवोऽभि यूथेव पश्यतः ।
८,०२५.०७ ऋतावाना सम्राजा नमसे हिता ॥
८,०२५.०८ ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
८,०२५.०८ धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥
८,०२५.०९ अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा ।
८,०२५.०९ नि चिन्मिषन्ता निचिरा नि चिक्यतुः ॥
८,०२५.१० उत नो देव्यदितिरुरुष्यतां नासत्या ।
८,०२५.१० उरुष्यन्तु मरुतो वृद्धशवसः ॥
८,०२५.११ ते नो नावमुरुष्यत दिवा नक्तं सुदानवः ।
८,०२५.११ अरिष्यन्तो नि पायुभिः सचेमहि ॥
८,०२५.१२ अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे ।
८,०२५.१२ श्रुधि स्वयावन्सिन्धो पूर्वचित्तये ॥
८,०२५.१३ तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम् ।
८,०२५.१३ मित्रो यत्पान्ति वरुणो यदर्यमा ॥
८,०२५.१४ उत नः सिन्धुरपां तन्मरुतस्तदश्विना ।
८,०२५.१४ इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ॥
८,०२५.१५ ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित् ।
८,०२५.१५ तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥
८,०२५.१६ अयमेक इत्था पुरूरु चष्टे वि विश्पतिः ।
८,०२५.१६ तस्य व्रतान्यनु वश्चरामसि ॥
८,०२५.१७ अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम ।
८,०२५.१७ मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥
८,०२५.१८ परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः ।
८,०२५.१८ उभे आ पप्रौ रोदसी महित्वा ॥
८,०२५.१९ उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः ।
८,०२५.१९ अग्निर्न शुक्रः समिधान आहुतः ॥
८,०२५.२० वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।
८,०२५.२० ईशे हि पित्वोऽविषस्य दावने ॥
८,०२५.२१ तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे ।
८,०२५.२१ भोजेष्वस्मां अभ्युच्चरा सदा ॥
८,०२५.२२ ऋज्रमुक्षण्यायने रजतं हरयाणे ।
८,०२५.२२ रथं युक्तमसनाम सुषामणि ॥
८,०२५.२३ ता मे अश्व्यानां हरीणां नितोशना ।
८,०२५.२३ उतो नु कृत्व्यानां नृवाहसा ॥
८,०२५.२४ स्मदभीशू कशावन्ता विप्रा नविष्ठया मती ।
८,०२५.२४ महो वाजिनावर्वन्ता सचासनम् ॥
८,०२६.०१ युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु ।
८,०२६.०१ अतूर्तदक्षा वृषणा वृषण्वसू ॥
८,०२६.०२ युवं वरो सुषाम्णे महे तने नासत्या ।
८,०२६.०२ अवोभिर्याथो वृषणा वृषण्वसू ॥
८,०२६.०३ ता वामद्य हवामहे हव्येभिर्वाजिनीवसू ।
८,०२६.०३ पूर्वीरिष इषयन्तावति क्षपः ॥
८,०२६.०४ आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा ।
८,०२६.०४ उप स्तोमान्तुरस्य दर्शथः श्रिये ॥
८,०२६.०५ जुहुराणा चिदश्विना मन्येथां वृषण्वसू ।
८,०२६.०५ युवं हि रुद्रा पर्षथो अति द्विषः ॥
८,०२६.०६ दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः ।
८,०२६.०६ धियञ्जिन्वा मधुवर्णा शुभस्पती ॥
८,०२६.०७ उप नो यातमश्विना राया विश्वपुषा सह ।
८,०२६.०७ मघवाना सुवीरावनपच्युता ॥
८,०२६.०८ आ मे अस्य प्रतीव्यमिन्द्रनासत्या गतम् ।
८,०२६.०८ देवा देवेभिरद्य सचनस्तमा ॥
८,०२६.०९ वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् ।
८,०२६.०९ सुमतिभिरुप विप्राविहा गतम् ॥
८,०२६.१० अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् ।
८,०२६.१० नेदीयसः कूळयातः पणींरुत ॥
८,०२६.११ वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः ।
८,०२६.११ सजोषसा वरुणो मित्रो अर्यमा ॥
८,०२६.१२ युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः ।
८,०२६.१२ अहरहर्वृषण मह्यं शिक्षतम् ॥
८,०२६.१३ यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव ।
८,०२६.१३ सपर्यन्ता शुभे चक्राते अश्विना ॥
८,०२६.१४ यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् ।
८,०२६.१४ वर्तिरश्विना परि यातमस्मयू ॥
८,०२६.१५ अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् ।
८,०२६.१५ विषुद्रुहेव यज्ञमूहथुर्गिरा ॥
८,०२६.१६ वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा ।
८,०२६.१६ युवाभ्यां भूत्वश्विना ॥
८,०२६.१७ यददो दिवो अर्णव इषो वा मदथो गृहे ।
८,०२६.१७ श्रुतमिन्मे अमर्त्या ॥
८,०२६.१८ उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् ।
८,०२६.१८ सिन्धुर्हिरण्यवर्तनिः ॥
८,०२६.१९ स्मदेतया सुकीर्त्याश्विना श्वेतया धिया ।
८,०२६.१९ वहेथे शुभ्रयावाना ॥
८,०२६.२० युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।
८,०२६.२० आन्नो वायो मधु पिबास्माकं सवना गहि ॥
८,०२६.२१ तव वायवृतस्पते त्वष्टुर्जामातरद्भुत ।
८,०२६.२१ अवांस्या वृणीमहे ॥
८,०२६.२२ त्वष्टुर्जामातरं वयमीशानं राय ईमहे ।
८,०२६.२२ सुतावन्तो वायुं द्युम्ना जनासः ॥
८,०२६.२३ वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् ।
८,०२६.२३ वहस्व महः पृथुपक्षसा रथे ॥
८,०२६.२४ त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे ।
८,०२६.२४ ग्रावाणं नाश्वपृष्ठं मंहना ॥
८,०२६.२५ स त्वं नो देव मनसा वायो मन्दानो अग्रियः ।
८,०२६.२५ कृधि वाजां अपो धियः ॥
८,०२७.०१ अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।
८,०२७.०१ ऋचा यामि मरुतो ब्रह्मणस्पतिं देवां अवो वरेण्यम् ॥
८,०२७.०२ आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः ।
८,०२७.०२ विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः ॥
८,०२७.०३ प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः ।
८,०२७.०३ आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥
८,०२७.०४ विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः ।
८,०२७.०४ अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥
८,०२७.०५ आ नो अद्य समनसो गन्ता विश्वे सजोषसः ।
८,०२७.०५ ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥
८,०२७.०६ अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।
८,०२७.०६ आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः ॥
८,०२७.०७ वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।
८,०२७.०७ सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥
८,०२७.०८ आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया ।
८,०२७.०८ इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥
८,०२७.०९ वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत ।
८,०२७.०९ न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति ॥
८,०२७.१० अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् ।
८,०२७.१० प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥
८,०२७.११ इदा हि व उपस्तुतिमिदा वामस्य भक्तये ।
८,०२७.११ उप वो विश्ववेदसो नमस्युरां असृक्ष्यन्यामिव ॥
८,०२७.१२ उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः ।
८,०२७.१२ नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः ॥
८,०२७.१३ देवंदेवं वोऽवसे देवंदेवमभिष्टये ।
८,०२७.१३ देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥
८,०२७.१४ देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।
८,०२७.१४ ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥
८,०२७.१५ प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् ।
८,०२७.१५ न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥
८,०२७.१६ प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ।
८,०२७.१६ प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते ॥
८,०२७.१७ ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः ।
८,०२७.१७ अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥
८,०२७.१८ अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् ।
८,०२७.१८ एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ॥
८,०२७.१९ यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।
८,०२७.१९ यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यन्दिने दिवः ॥
८,०२७.२० यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे ।
८,०२७.२० वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥
८,०२७.२१ यदद्य सूर उदिते यन्मध्यन्दिन आतुचि ।
८,०२७.२१ वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥
८,०२७.२२ वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् ।
८,०२७.२२ अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥
८,०२८.०१ ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् ।
८,०२८.०१ विदन्नह द्वितासनन् ॥
८,०२८.०२ वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः ।
८,०२८.०२ पत्नीवन्तो वषट्कृताः ॥
८,०२८.०३ ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् ।
८,०२८.०३ पुरस्तात्सर्वया विशा ॥
८,०२८.०४ यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् ।
८,०२८.०४ अरावा चन मर्त्यः ॥
८,०२८.०५ सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् ।
८,०२८.०५ सप्तो अधि श्रियो धिरे ॥
८,०२९.०१ बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥
८,०२९.०२ योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः ॥
८,०२९.०३ वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ॥
८,०२९.०४ वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥
८,०२९.०५ तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ॥
८,०२९.०६ पथ एकः पीपाय तस्करो यथां एष वेद निधीनाम् ॥
८,०२९.०७ त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥
८,०२९.०८ विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः ॥
८,०२९.०९ सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥
८,०२९.१० अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् ॥
८,०३०.०१ नहि वो अस्त्यर्भको देवासो न कुमारकः ।
८,०३०.०१ विश्वे सतोमहान्त इत् ॥
८,०३०.०२ इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च ।
८,०३०.०२ मनोर्देवा यज्ञियासः ॥
८,०३०.०३ ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत ।
८,०३०.०३ मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः ॥
८,०३०.०४ ये देवास इह स्थन विश्वे वैश्वानरा उत ।
८,०३०.०४ अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥
८,०३१.०१ यो यजाति यजात इत्सुनवच्च पचाति च ।
८,०३१.०१ ब्रह्मेदिन्द्रस्य चाकनत् ॥
८,०३१.०२ पुरोळाशं यो अस्मै सोमं ररत आशिरम् ।
८,०३१.०२ पादित्तं शक्रो अंहसः ॥
८,०३१.०३ तस्य द्युमां असद्रथो देवजूतः स शूशुवत् ।
८,०३१.०३ विश्वा वन्वन्नमित्रिया ॥
८,०३१.०४ अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे ।
८,०३१.०४ इळा धेनुमती दुहे ॥
८,०३१.०५ या दम्पती समनसा सुनुत आ च धावतः ।
८,०३१.०५ देवासो नित्ययाशिरा ॥
८,०३१.०६ प्रति प्राशव्यां इतः सम्यञ्चा बर्हिराशाते ।
८,०३१.०६ न ता वाजेषु वायतः ॥
८,०३१.०७ न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः ।
८,०३१.०७ श्रवो बृहद्विवासतः ॥
८,०३१.०८ पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः ।
८,०३१.०८ उभा हिरण्यपेशसा ॥
८,०३१.०९ वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् ।
८,०३१.०९ समूधो रोमशं हतो देवेषु कृणुतो दुवः ॥
८,०३१.१० आ शर्म पर्वतानां वृणीमहे नदीनाम् ।
८,०३१.१० आ विष्णोः सचाभुवः ॥
८,०३१.११ ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।
८,०३१.११ उरुरध्वा स्वस्तये ॥
८,०३१.१२ अरमतिरनर्वणो विश्वो देवस्य मनसा ।
८,०३१.१२ आदित्यानामनेह इत् ॥
८,०३१.१३ यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः ।
८,०३१.१३ सुगा ऋतस्य पन्थाः ॥
८,०३१.१४ अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् ।
८,०३१.१४ सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥
८,०३१.१५ मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।
८,०३१.१५ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
८,०३१.१६ न यजमान रिष्यसि न सुन्वान न देवयो ।
८,०३१.१६ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
८,०३१.१७ नकिष्टं कर्मणा नशन्न प्र योषन्न योषति ।
८,०३१.१७ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
८,०३१.१८ असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् ।
८,०३१.१८ देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
८,०३२.०१ प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
८,०३२.०१ मदे सोमस्य वोचत ॥
८,०३२.०२ यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् ।
८,०३२.०२ वधीदुग्रो रिणन्नपः ॥
८,०३२.०३ न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर ।
८,०३२.०३ कृषे तदिन्द्र पौंस्यम् ॥
८,०३२.०४ प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।
८,०३२.०४ हुवे सुशिप्रमूतये ॥
८,०३२.०५ स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः ।
८,०३२.०५ पुरं न शूर दर्षसि ॥
८,०३२.०६ यदि मे रारणः सुत उक्थे वा दधसे चनः ।
८,०३२.०६ आरादुप स्वधा गहि ॥
८,०३२.०७ वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।
८,०३२.०७ त्वं नो जिन्व सोमपाः ॥
८,०३२.०८ उत नः पितुमा भर संरराणो अविक्षितम् ।
८,०३२.०८ मघवन्भूरि ते वसु ॥
८,०३२.०९ उत नो गोमतस्कृधि हिरण्यवतो अश्विनः ।
८,०३२.०९ इळाभिः सं रभेमहि ॥
८,०३२.१० बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
८,०३२.१० साधु कृण्वन्तमवसे ॥
८,०३२.११ यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा ।
८,०३२.११ जरितृभ्यः पुरूवसुः ॥
८,०३२.१२ स नः शक्रश्चिदा शकद्दानवां अन्तराभरः ।
८,०३२.१२ इन्द्रो विश्वाभिरूतिभिः ॥
८,०३२.१३ यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
८,०३२.१३ तमिन्द्रमभि गायत ॥
८,०३२.१४ आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।
८,०३२.१४ भूरेरीशानमोजसा ॥
८,०३२.१५ नकिरस्य शचीनां नियन्ता सूनृतानाम् ।
८,०३२.१५ नकिर्वक्ता न दादिति ॥
८,०३२.१६ न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् ।
८,०३२.१६ न सोमो अप्रता पपे ॥
८,०३२.१७ पन्य इदुप गायत पन्य उक्थानि शंसत ।
८,०३२.१७ ब्रह्मा कृणोत पन्य इत् ॥
८,०३२.१८ पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः ।
८,०३२.१८ इन्द्रो यो यज्वनो वृधः ॥
८,०३२.१९ वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।
८,०३२.१९ इन्द्र पिब सुतानाम् ॥
८,०३२.२० पिब स्वधैनवानामुत यस्तुग्र्ये सचा ।
८,०३२.२० उतायमिन्द्र यस्तव ॥
८,०३२.२१ अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
८,०३२.२१ इमं रातं सुतं पिब ॥
८,०३२.२२ इहि तिस्रः परावत इहि पञ्च जनां अति ।
८,०३२.२२ धेना इन्द्रावचाकशत् ॥
८,०३२.२३ सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः ।
८,०३२.२३ निम्नमापो न सध्र्यक् ॥
८,०३२.२४ अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
८,०३२.२४ भरा सुतस्य पीतये ॥
८,०३२.२५ य उद्नः फलिगं भिनन्न्यक्सिन्धूंरवासृजत् ।
८,०३२.२५ यो गोषु पक्वं धारयत् ॥
८,०३२.२६ अहन्वृत्रमृचीषम और्णवाभमहीशुवम् ।
८,०३२.२६ हिमेनाविध्यदर्बुदम् ॥
८,०३२.२७ प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।
८,०३२.२७ देवत्तं ब्रह्म गायत ॥
८,०३२.२८ यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः ।
८,०३२.२८ इन्द्रो देवेषु चेतति ॥
८,०३२.२९ इह त्या सधमाद्या हरी हिरण्यकेश्या ।
८,०३२.२९ वोळ्हामभि प्रयो हितम् ॥
८,०३२.३० अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
८,०३२.३० सोमपेयाय वक्षतः ॥
८,०३३.०१ वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
८,०३३.०१ पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥
८,०३३.०२ स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
८,०३३.०२ कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥
८,०३३.०३ कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
८,०३३.०३ पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥
८,०३३.०४ पाहि गायान्धसो मद इन्द्राय मेध्यातिथे ।
८,०३३.०४ यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥
८,०३३.०५ यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे ।
८,०३३.०५ य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ॥
८,०३३.०६ यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः ।
८,०३३.०६ विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः ॥
८,०३३.०७ क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
८,०३३.०७ अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥
८,०३३.०८ दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
८,०३३.०८ नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥
८,०३३.०९ य उग्रः सन्ननिष्टृत स्थिरो रणाय संस्कृतः ।
८,०३३.०९ यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥
८,०३३.१० सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः ।
८,०३३.१० वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥
८,०३३.११ वृषणस्ते अभीशवो वृषा कशा हिरण्ययी ।
८,०३३.११ वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥
८,०३३.१२ वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर ।
८,०३३.१२ वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम् ॥
८,०३३.१३ एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् ।
८,०३३.१३ नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥
८,०३३.१४ वहन्तु त्वा रथेष्ठामा हरयो रथयुजः ।
८,०३३.१४ तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो ॥
८,०३३.१५ अस्माकमद्यान्तमं स्तोमं धिष्व महामह ।
८,०३३.१५ अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ॥
८,०३३.१६ नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति ।
८,०३३.१६ यो अस्मान्वीर आनयत् ॥
८,०३३.१७ इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः ।
८,०३३.१७ उतो अह क्रतुं रघुम् ॥
८,०३३.१८ सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् ।
८,०३३.१८ एवेद्धूर्वृष्ण उत्तरा ॥
८,०३३.१९ अधः पश्यस्व मोपरि संतरां पादकौ हर ।
८,०३३.१९ मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ ॥
८,०३४.०१ एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् ।
८,०३४.०१ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०२ आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु ।
८,०३४.०२ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०३ अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
८,०३४.०३ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०४ आ त्वा कण्वा इहावसे हवन्ते वाजसातये ।
८,०३४.०४ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०५ दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् ।
८,०३४.०५ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०६ स्मत्पुरन्धिर्न आ गहि विश्वतोधीर्न ऊतये ।
८,०३४.०६ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०७ आ नो याहि महेमते सहस्रोते शतामघ ।
८,०३४.०७ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०८ आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः ।
८,०३४.०८ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.०९ आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः ।
८,०३४.०९ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१० आ याह्यर्य आ परि स्वाहा सोमस्य पीतये ।
८,०३४.१० दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.११ आ नो याह्युपश्रुत्युक्थेषु रणया इह ।
८,०३४.११ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१२ सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः ।
८,०३४.१२ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१३ आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।
८,०३४.१३ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१४ आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि ।
८,०३४.१४ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१५ आ नः सहस्रशो भरायुतानि शतानि च ।
८,०३४.१५ दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
८,०३४.१६ आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः ।
८,०३४.१६ ओजिष्ठमश्व्यं पशुम् ॥
८,०३४.१७ य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः ।
८,०३४.१७ भ्राजन्ते सूर्या इव ॥
८,०३४.१८ पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु ।
८,०३४.१८ तिष्ठं वनस्य मध्य आ ॥
८,०३५.०१ अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।
८,०३५.०१ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
८,०३५.०२ विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।
८,०३५.०२ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
८,०३५.०३ विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।
८,०३५.०३ सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
८,०३५.०४ जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् ।
८,०३५.०४ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
८,०३५.०५ स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् ।
८,०३५.०५ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
८,०३५.०६ गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् ।
८,०३५.०६ सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
८,०३५.०७ हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः ।
८,०३५.०७ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
८,०३५.०८ हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः ।
८,०३५.०८ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
८,०३५.०९ श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः ।
८,०३५.०९ सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
८,०३५.१० पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।
८,०३५.१० सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
८,०३५.११ जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् ।
८,०३५.११ सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
८,०३५.१२ हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् ।
८,०३५.१२ सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
८,०३५.१३ मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
८,०३५.१३ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
८,०३५.१४ अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
८,०३५.१४ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
८,०३५.१५ ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
८,०३५.१५ सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
८,०३५.१६ ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।
८,०३५.१६ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
८,०३५.१७ क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः ।
८,०३५.१७ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
८,०३५.१८ धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।
८,०३५.१८ सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
८,०३५.१९ अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।
८,०३५.१९ सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
८,०३५.२० सर्गां इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता ।
८,०३५.२० सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
८,०३५.२१ रश्मींरिव यच्छतमध्वरां उप श्यावाश्वस्य सुन्वतो मदच्युता ।
८,०३५.२१ सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
८,०३५.२२ अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु ।
८,०३५.२२ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
८,०३५.२३ नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
८,०३५.२३ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
८,०३५.२४ स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः ।
८,०३५.२४ आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
८,०३६.०१ अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०१ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०२ प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०२ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०३ ऊर्जा देवां अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०३ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०४ जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०४ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०५ जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०५ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०६ अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो ।
८,०३६.०६ यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
८,०३६.०७ श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
८,०३६.०७ प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥
८,०३७.०१ प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०१ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०२ सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०२ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०३ एकराळ् अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०३ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०४ सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०४ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०५ क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०५ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०६ क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०३७.०६ माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
८,०३७.०७ श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
८,०३७.०७ प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥
८,०३८.०१ यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
८,०३८.०१ इन्द्राग्नी तस्य बोधतम् ॥
८,०३८.०२ तोशासा रथयावाना वृत्रहणापराजिता ।
८,०३८.०२ इन्द्राग्नी तस्य बोधतम् ॥
८,०३८.०३ इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
८,०३८.०३ इन्द्राग्नी तस्य बोधतम् ॥
८,०३८.०४ जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती ।
८,०३८.०४ इन्द्राग्नी आ गतं नरा ॥
८,०३८.०५ इमा जुषेथां सवना येभिर्हव्यान्यूहथुः ।
८,०३८.०५ इन्द्राग्नी आ गतं नरा ॥
८,०३८.०६ इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम ।
८,०३८.०६ इन्द्राग्नी आ गतं नरा ॥
८,०३८.०७ प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू ।
८,०३८.०७ इन्द्राग्नी सोमपीतये ॥
८,०३८.०८ श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् ।
८,०३८.०८ इन्द्राग्नी सोमपीतये ॥
८,०३८.०९ एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
८,०३८.०९ इन्द्राग्नी सोमपीतये ॥
८,०३८.१० आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे ।
८,०३८.१० याभ्यां गायत्रमृच्यते ॥
८,०३९.०१ अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै ।
८,०३९.०१ अग्निर्देवां अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे ॥
८,०३९.०२ न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम् ।
८,०३९.०२ न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे ॥
८,०३९.०३ अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि ।
८,०३९.०३ स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे ॥
८,०३९.०४ तत्तदग्निर्वयो दधे यथायथा कृपण्यति ।
८,०३९.०४ ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे ॥
८,०३९.०५ स चिकेत सहीयसाग्निश्चित्रेण कर्मणा ।
८,०३९.०५ स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे ॥
८,०३९.०६ अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् ।
८,०३९.०६ अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे ॥
८,०३९.०७ अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा ।
८,०३९.०७ स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ॥
८,०३९.०८ यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु ।
८,०३९.०८ तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥
८,०३९.०९ अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः ।
८,०३९.०९ स त्रींरेकादशां इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे ॥
८,०३९.१० त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि ।
८,०३९.१० त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे ॥
८,०४०.०१ इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् ।
८,०४०.०१ येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे ॥
८,०४०.०२ नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् ।
८,०४०.०२ स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥
८,०४०.०३ ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः ।
८,०४०.०३ ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥
८,०४०.०४ अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा ।
८,०४०.०४ ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥
८,०४०.०५ प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत ।
८,०४०.०५ या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥
८,०४०.०६ अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय ।
८,०४०.०६ वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥
८,०४०.०७ यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा ।
८,०४०.०७ अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥
८,०४०.०८ या नु श्वेताववो दिव उच्चरात उप द्युभिः ।
८,०४०.०८ इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥
८,०४०.०९ पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः ।
८,०४०.०९ वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥
८,०४०.१० तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् ।
८,०४०.१० उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥
८,०४०.११ तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् ।
८,०४०.११ उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे ॥
८,०४०.१२ एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि ।
८,०४०.१२ त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥
८,०४१.०१ अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः ।
८,०४१.०१ यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥
८,०४१.०२ तमू षु समना गिरा पितॄणां च मन्मभिः ।
८,०४१.०२ नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥
८,०४१.०३ स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः ।
८,०४१.०३ तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ॥
८,०४१.०४ यः ककुभो निधारयः पृथिव्यामधि दर्शतः ।
८,०४१.०४ स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे ॥
८,०४१.०५ यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या ।
८,०४१.०५ स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥
८,०४१.०६ यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता ।
८,०४१.०६ त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्तामन्यके समे ॥
८,०४१.०७ य आस्वत्क आशये विश्वा जातान्येषाम् ।
८,०४१.०७ परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥
८,०४१.०८ स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे ।
८,०४१.०८ स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥
८,०४१.०९ यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः ।
८,०४१.०९ त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥
८,०४१.१० यः श्वेतां अधिनिर्णिजश्चक्रे कृष्णां अनु व्रता ।
८,०४१.१० स धाम पूर्व्यं ममे य स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥
८,०४२.०१ अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।
८,०४२.०१ आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥
८,०४२.०२ एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
८,०४२.०२ स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥
८,०४२.०३ इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ।
८,०४२.०३ ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥
८,०४२.०४ आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।
८,०४२.०४ नासत्या सोमपीतये नभन्तामन्यके समे ॥
८,०४२.०५ यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् ।
८,०४२.०५ नासत्या सोमपीतये नभन्तामन्यके समे ॥
८,०४२.०६ एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
८,०४२.०६ नासत्या सोमपीतये नभन्तामन्यके समे ॥
८,०४३.०१ इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः ।
८,०४३.०१ गिर स्तोमास ईरते ॥
८,०४३.०२ अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।
८,०४३.०२ अग्ने जनामि सुष्टुतिम् ॥
८,०४३.०३ आरोका इव घेदह तिग्मा अग्ने तव त्विषः ।
८,०४३.०३ दद्भिर्वनानि बप्सति ॥
८,०४३.०४ हरयो धूमकेतवो वातजूता उप द्यवि ।
८,०४३.०४ यतन्ते वृथगग्नयः ॥
८,०४३.०५ एते त्ये वृथगग्नय इद्धासः समदृक्षत ।
८,०४३.०५ उषसामिव केतवः ॥
८,०४३.०६ कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।
८,०४३.०
६ अग्निर्यद्रोधति क्षमि ॥
८,०४३.०७ धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति ।
८,०४३.०७ पुनर्यन्तरुणीरपि ॥
८,०४३.०८ जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् ।
८,०४३.०८ अग्निर्वनेषु रोचते ॥
८,०४३.०९ अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे ।
८,०४३.०९ गर्भे सञ्जायसे पुनः ॥
८,०४३.१० उदग्ने तव तद्घृतादर्ची रोचत आहुतम् ।
८,०४३.१० निंसानं जुह्वो मुखे ॥
८,०४३.११ उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
८,०४३.११ स्तोमैर्विधेमाग्नये ॥
८,०४३.१२ उत त्वा नमसा वयं होतर्वरेण्यक्रतो ।
८,०४३.१२ अग्ने समिद्भिरीमहे ॥
८,०४३.१३ उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत ।
८,०४३.१३ अङ्गिरस्वद्धवामहे ॥
८,०४३.१४ त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता ।
८,०४३.१४ सखा सख्या समिध्यसे ॥
८,०४३.१५ स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् ।
८,०४३.१५ अग्ने वीरवतीमिषम् ॥
८,०४३.१६ अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।
८,०४३.१६ इमं स्तोमं जुषस्व मे ॥
८,०४३.१७ उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।
८,०४३.१७ गोष्ठं गाव इवाशत ॥
८,०४३.१८ तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
८,०४३.१८ अग्ने कामाय येमिरे ॥
८,०४३.१९ अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः ।
८,०४३.१९ अद्मसद्याय हिन्विरे ॥
८,०४३.२० तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् ।
८,०४३.२० वह्निं होतारमीळते ॥
८,०४३.२१ पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
८,०४३.२१ समत्सु त्वा हवामहे ॥
८,०४३.२२ तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः ।
८,०४३.२२ इमं नः शृणवद्धवम् ॥
८,०४३.२३ तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् ।
८,०४३.२३ अग्ने घ्नन्तमप द्विषः ॥
८,०४३.२४ विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् ।
८,०४३.२४ अग्निमीळे स उ श्रवत् ॥
८,०४३.२५ अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् ।
८,०४३.२५ सप्तिं न वाजयामसि ॥
८,०४३.२६ घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा ।
८,०४३.२६ अग्ने तिग्मेन दीदिहि ॥
८,०४३.२७ यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम ।
८,०४३.२७ अग्ने स बोधि मे वचः ॥
८,०४३.२८ यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत ।
८,०४३.२८ तं त्वा गीर्भिर्हवामहे ॥
८,०४३.२९ तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् ।
८,०४३.२९ धासिं हिन्वन्त्यत्तवे ॥
८,०४३.३० ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः ।
८,०४३.३० तरन्तः स्याम दुर्गहा ॥
८,०४३.३१ अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् ।
८,०४३.३१ हृद्भिर्मन्द्रेभिरीमहे ॥
८,०४३.३२ स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः ।
८,०४३.३२ शर्धन्तमांसि जिघ्नसे ॥
८,०४३.३३ तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति ।
८,०४३.३३ त्वदग्ने वार्यं वसु ॥
८,०४४.०१ समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ।
८,०४४.०१ आस्मिन्हव्या जुहोतन ॥
८,०४४.०२ अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना ।
८,०४४.०२ प्रति सूक्तानि हर्य नः ॥
८,०४४.०३ अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे ।
८,०४४.०३ देवां आ सादयादिह ॥
८,०४४.०४ उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
८,०४४.०४ अग्ने शुक्रास ईरते ॥
८,०४४.०५ उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत ।
८,०४४.०५ अग्ने हव्या जुषस्व नः ॥
८,०४४.०६ मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् ।
८,०४४.०६ अग्निमीळे स उ श्रवत् ॥
८,०४४.०७ प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् ।
८,०४४.०७ अध्वराणामभिश्रियम् ॥
८,०४४.०८ जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक् ।
८,०४४.०८ अग्ने यज्ञं नय ऋतुथा ॥
८,०४४.०९ समिधान उ सन्त्य शुक्रशोच इहा वह ।
८,०४४.०९ चिकित्वान्दैव्यं जनम् ॥
८,०४४.१० विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् ।
८,०४४.१० यज्ञानां केतुमीमहे ॥
८,०४४.११ अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः ।
८,०४४.११ भिन्धि द्वेषः सहस्कृत ॥
८,०४४.१२ अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् ।
८,०४४.१२ कविर्विप्रेण वावृधे ॥
८,०४४.१३ ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम् ।
८,०४४.१३ अस्मिन्यज्ञे स्वध्वरे ॥
८,०४४.१४ स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
८,०४४.१४ देवैरा सत्सि बर्हिषि ॥
८,०४४.१५ यो अग्निं तन्वो दमे देवं मर्तः सपर्यति ।
८,०४४.१५ तस्मा इद्दीदयद्वसु ॥
८,०४४.१६ अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
८,०४४.१६ अपां रेतांसि जिन्वति ॥
८,०४४.१७ उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
८,०४४.१७ तव ज्योतींष्यर्चयः ॥
८,०४४.१८ ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ।
८,०४४.१८ स्तोता स्यां तव शर्मणि ॥
८,०४४.१९ त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः ।
८,०४४.१९ त्वां वर्धन्तु नो गिरः ॥
८,०४४.२० अदब्धस्य स्वधावतो दूतस्य रेभतः सदा ।
८,०४४.२० अग्नेः सख्यं वृणीमहे ॥
८,०४४.२१ अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः ।
८,०४४.२१ शुची रोचत आहुतः ॥
८,०४४.२२ उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा ।
८,०४४.२२ अग्ने सख्यस्य बोधि नः ॥
८,०४४.२३ यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् ।
८,०४४.२३ स्युष्टे सत्या इहाशिषः ॥
८,०४४.२४ वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः ।
८,०४४.२४ स्याम ते सुमतावपि ॥
८,०४४.२५ अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः ।
८,०४४.२५ गिरो वाश्रास ईरते ॥
८,०४४.२६ युवानं विश्पतिं कविं विश्वादं पुरुवेपसम् ।
८,०४४.२६ अग्निं शुम्भामि मन्मभिः ॥
८,०४४.२७ यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे ।
८,०४४.२७ स्तोमैरिषेमाग्नये ॥
८,०४४.२८ अयमग्ने त्वे अपि जरिता भूतु सन्त्य ।
८,०४४.२८ तस्मै पावक मृळय ॥
८,०४४.२९ धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा ।
८,०४४.२९ अग्ने दीदयसि द्यवि ॥
८,०४४.३० पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे ।
८,०४४.३० प्र ण आयुर्वसो तिर ॥
८,०४५.०१ आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
८,०४५.०१ येषामिन्द्रो युवा सखा ॥
८,०४५.०२ बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः ।
८,०४५.०२ येषामिन्द्रो युवा सखा ॥
८,०४५.०३ अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
८,०४५.०३ येषामिन्द्रो युवा सखा ॥
८,०४५.०४ आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् ।
८,०४५.०४ क उग्राः के ह शृण्विरे ॥
८,०४५.०५ प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् ।
८,०४५.०५ यस्ते शत्रुत्वमाचके ॥
८,०४५.०६ उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् ।
८,०४५.०६ यद्वीळयासि वीळु तत् ॥
८,०४५.०७ यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप ।
८,०४५.०७ रथीतमो रथीनाम् ॥
८,०४५.०८ वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह ।
८,०४५.०८ भवा नः सुश्रवस्तमः ॥
८,०४५.०९ अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये ।
८,०४५.०९ न यं धूर्वन्ति धूर्तयः ॥
८,०४५.१० वृज्याम ते परि द्विषोऽरं ते शक्र दावने ।
८,०४५.१० गमेमेदिन्द्र गोमतः ॥
८,०४५.११ शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः ।
८,०४५.११ विवक्षणा अनेहसः ॥
८,०४५.१२ ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता ।
८,०४५.१२ जरितृभ्यो विमंहते ॥
८,०४५.१३ विद्मा हि त्वा धनञ्जयमिन्द्र दृळ्हा चिदारुजम् ।
८,०४५.१३ आदारिणं यथा गयम् ॥
८,०४५.१४ ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः ।
८,०४५.१४ आ त्वा पणिं यदीमहे ॥
८,०४५.१५ यस्ते रेवां अदाशुरिः प्रममर्ष मघत्तये ।
८,०४५.१५ तस्य नो वेद आ भर ॥
८,०४५.१६ इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
८,०४५.१६ पुष्टावन्तो यथा पशुम् ॥
८,०४५.१७ उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये ।
८,०४५.१७ दूरादिह हवामहे ॥
८,०४५.१८ यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।
८,०४५.१८ भवेरापिर्नो अन्तमः ॥
८,०४५.१९ यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि ।
८,०४५.१९ गोदा इदिन्द्र बोधि नः ॥
८,०४५.२० आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते ।
८,०४५.२० उश्मसि त्वा सधस्थ आ ॥
८,०४५.२१ स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने ।
८,०४५.२१ नकिर्यं वृण्वते युधि ॥
८,०४५.२२ अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
८,०४५.२२ तृम्पा व्यश्नुही मदम् ॥
८,०४५.२३ मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
८,०४५.२३ माकीं ब्रह्मद्विषो वनः ॥
८,०४५.२४ इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
८,०४५.२४ सरो गौरो यथा पिब ॥
८,०४५.२५ या वृत्रहा परावति सना नवा च चुच्युवे ।
८,०४५.२५ ता संसत्सु प्र वोचत ॥
८,०४५.२६ अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
८,०४५.२६ अत्रादेदिष्ट पौंस्यम् ॥
८,०४५.२७ सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् ।
८,०४५.२७ व्यानट्तुर्वणे शमि ॥
८,०४५.२८ तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
८,०४५.२८ समानमु प्र शंसिषम् ॥
८,०४५.२९ ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् ।
८,०४५.२९ इन्द्रं सोमे सचा सुते ॥
८,०४५.३० यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम् ।
८,०४५.३० गोभ्यो गातुं निरेतवे ॥
८,०४५.३१ यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि ।
८,०४५.३१ मा तत्करिन्द्र मृळय ॥
८,०४५.३२ दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि ।
८,०४५.३२ जिगात्विन्द्र ते मनः ॥
८,०४५.३३ तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः ।
८,०४५.३३ यदिन्द्र मृळयासि नः ॥
८,०४५.३४ मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु ।
८,०४५.३४ वधीर्मा शूर भूरिषु ॥
८,०४५.३५ बिभया हि त्वावत उग्रादभिप्रभङ्गिणः ।
८,०४५.३५ दस्मादहमृतीषहः ॥
८,०४५.३६ मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो ।
८,०४५.३६ आवृत्वद्भूतु ते मनः ॥
८,०४५.३७ को नु मर्या अमिथितः सखा सखायमब्रवीत् ।
८,०४५.३७ जहा को अस्मदीषते ॥
८,०४५.३८ एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः ।
८,०४५.३८ श्वघ्नीव निवता चरन् ॥
८,०४५.३९ आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।
८,०४५.३९ यदीं ब्रह्मभ्य इद्ददः ॥
८,०४५.४० भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
८,०४५.४० वसु स्पार्हं तदा भर ॥
८,०४५.४१ यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
८,०४५.४१ वसु स्पार्हं तदा भर ॥
८,०४५.४२ यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
८,०४५.४२ वसु स्पार्हं तदा भर ॥
८,०४६.०१ त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।
८,०४६.०१ स्मसि स्थातर्हरीणाम् ॥
८,०४६.०२ त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् ।
८,०४६.०२ विद्म दातारं रयीणाम् ॥
८,०४६.०३ आ यस्य ते महिमानं शतमूते शतक्रतो ।
८,०४६.०३ गीर्भिर्गृणन्ति कारवः ॥
८,०४६.०४ सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा ।
८,०४६.०४ मित्रः पान्त्यद्रुहः ॥
८,०४६.०५ दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते ।
८,०४६.०५ सदा राया पुरुस्पृहा ॥
८,०४६.०६ तमिन्द्रं दानमीमहे शवसानमभीर्वम् ।
८,०४६.०६ ईशानं राय ईमहे ॥
८,०४६.०७ तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा ।
८,०४६.०७ तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥
८,०४६.०८ यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः ।
८,०४६.०८ य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः ॥
८,०४६.०९ यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता ।
८,०४६.०९ स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥
८,०४६.१० गव्यो षु णो यथा पुराश्वयोत रथया ।
८,०४६.१० वरिवस्य महामह ॥
८,०४६.११ नहि ते शूर राधसोऽन्तं विन्दामि सत्रा ।
८,०४६.११ दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥
८,०४६.१२ य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः ।
८,०४६.१२ तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥
८,०४६.१३ स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥
८,०४६.१४ अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् ।
८,०४६.१४ इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥
८,०४६.१५ ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् ।
८,०४६.१५ नूनमथ ॥
८,०४६.१६ विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः ।
८,०४६.१६ कृपयतो नूनमत्यथ ॥
८,०४६.१७ महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरङ्गमाय जग्मये ।
८,०४६.१७ यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ॥
८,०४६.१८ ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् ।
८,०४६.१८ यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥
८,०४६.१९ प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर ।
८,०४६.१९ रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥
८,०४६.२० सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत ।
८,०४६.२० प्रासहा सम्राट्सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् ॥
८,०४६.२१ आ स एतु य ईवदां अदेवः पूर्तमाददे ।
८,०४६.२१ यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे ॥
८,०४६.२२ षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता ।
८,०४६.२२ दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥
८,०४६.२३ दश श्यावा ऋधद्रयो वीतवारास आशवः ।
८,०४६.२३ मथ्रा नेमिं नि वावृतुः ॥
८,०४६.२४ दानासः पृथुश्रवसः कानीतस्य सुराधसः ।
८,०४६.२४ रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः ॥
८,०४६.२५ आ नो वायो महे तने याहि मखाय पाजसे ।
८,०४६.२५ वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने ॥
८,०४६.२६ यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् ।
८,०४६.२६ एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥
८,०४६.२७ यो म इमं चिदु त्मनामन्दच्चित्रं दावने ।
८,०४६.२७ अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥
८,०४६.२८ उचथ्ये वपुषि यः स्वराळ् उत वायो घृतस्नाः ।
८,०४६.२८ अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत् ॥
८,०४६.२९ अध प्रियमिषिराय षष्टिं सहस्रासनम् ।
८,०४६.२९ अश्वानामिन्न वृष्णाम् ॥
८,०४६.३० गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ॥
८,०४६.३१ अध यच्चारथे गणे शतमुष्ट्रां अचिक्रदत् ।
८,०४६.३१ अध श्वित्नेषु विंशतिं शता ॥
८,०४६.३२ शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे ।
८,०४६.३२ ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥
८,०४६.३३ अध स्या योषणा मही प्रतीची वशमश्व्यम् ।
८,०४६.३३ अधिरुक्मा वि नीयते ॥
८,०४७.०१ महि वो महतामवो वरुण मित्र दाशुषे ।
८,०४७.०१ यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०२ विदा देवा अघानामादित्यासो अपाकृतिम् ।
८,०४७.०२ पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०३ व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन ।
८,०४७.०३ विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०४ यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।
८,०४७.०४ मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०५ परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा ।
८,०४७.०५ स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०६ परिह्वृतेदना जनो युष्मादत्तस्य वायति ।
८,०४७.०६ देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०७ न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु ।
८,०४७.०७ यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०८ युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु ।
८,०४७.०८ यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.०९ अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु ।
८,०४७.०९ माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१० यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम् ।
८,०४७.१० त्रिधातु यद्वरूथ्यं तदस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.११ आदित्या अव हि ख्यताधि कूलादिव स्पशः ।
८,०४७.११ सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१२ नेह भद्रं रक्षस्विने नावयै नोपया उत ।
८,०४७.१२ गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१३ यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् ।
८,०४७.१३ त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१४ यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः ।
८,०४७.१४ त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१५ निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः ।
८,०४७.१५ त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१६ तदन्नाय तदपसे तं भागमुपसेदुषे ।
८,०४७.१६ त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१७ यथा कलां यथा शफं यथ ऋणं संनयामसि ।
८,०४७.१७ एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४७.१८ अजैष्माद्यासनाम चाभूमानागसो वयम् ।
८,०४७.१८ उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
८,०४८.०१ स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।
८,०४८.०१ विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥
८,०४८.०२ अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य ।
८,०४८.०२ इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥
८,०४८.०३ अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
८,०४८.०३ किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥
८,०४८.०४ शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः ।
८,०४८.०४ सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः ॥
८,०४८.०५ इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु ।
८,०४८.०५ ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः ॥
८,०४८.०६ अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।
८,०४८.०६ अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिमच्छ ॥
८,०४८.०७ इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
८,०४८.०७ सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥
८,०४८.०८ सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि ।
८,०४८.०८ अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः ॥
८,०४८.०९ त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः ।
८,०४८.०९ यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥
८,०४८.१० ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।
८,०४८.१० अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥
८,०४८.११ अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः ।
८,०४८.११ आ सोमो अस्मां अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः ॥
८,०४८.१२ यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्यां आविवेश ।
८,०४८.१२ तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥
८,०४८.१३ त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ ।
८,०४८.१३ तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥
८,०४८.१४ त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः ।
८,०४८.१४ वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥
८,०४८.१५ त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः ।
८,०४८.१५ त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥
८,०४९.०१ अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
८,०४९.०१ यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥
८,०४९.०२ शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
८,०४९.०२ गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥
८,०४९.०३ आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।
८,०४९.०३ आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे ॥
८,०४९.०४ अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।
८,०४९.०४ आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥
८,०४९.०५ आ न स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।
८,०४९.०५ यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥
८,०४९.०६ उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।
८,०४९.०६ उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥
८,०४९.०७ यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।
८,०४९.०७ अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥
८,०४९.०८ अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।
८,०४९.०८ येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥
८,०४९.०९ एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।
८,०४९.०९ यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥
८,०४९.१० यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे ।
८,०४९.१० यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत् ॥
८,०५०.०१ प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।
८,०५०.०१ यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
८,०५०.०२ शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
८,०५०.०२ गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥
८,०५०.०३ यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः ।
८,०५०.०३ आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥
८,०५०.०४ अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः ।
८,०५०.०४ आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥
८,०५०.०५ आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।
८,०५०.०५ यं ते स्वदावन्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥
८,०५०.०६ प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।
८,०५०.०६ उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥
८,०५०.०७ यद्ध नूनं परावति यद्वा पृथिव्यां दिवि ।
८,०५०.०७ युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥
८,०५०.०८ रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।
८,०५०.०८ येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे ॥
८,०५०.०९ एतावतस्ते वसो विद्याम शूर नव्यसः ।
८,०५०.०९ यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥
८,०५०.१० यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि ।
८,०५०.१० यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥
८,०५१.०१ यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् ।
८,०५१.०१ नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥
८,०५१.०२ पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् ।
८,०५१.०२ सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः ॥
८,०५१.०३ य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः ।
८,०५१.०३ इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥
८,०५१.०४ यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।
८,०५१.०४ स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम् ॥
८,०५१.०५ यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् ।
८,०५१.०५ विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥
८,०५१.०६ यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।
८,०५१.०६ तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
८,०५१.०७ कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
८,०५१.०७ उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥
८,०५१.०८ प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।
८,०५१.०८ यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥
८,०५१.०९ यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
८,०५१.०९ तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥
८,०५१.१० तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
८,०५१.१० अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥
८,०५२.०१ यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।
८,०५२.०१ यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥
८,०५२.०२ पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।
८,०५२.०२ यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥
८,०५२.०३ य उक्था केवला दधे यः सोमं धृषितापिबत् ।
८,०५२.०३ यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥
८,०५२.०४ यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।
८,०५२.०४ तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥
८,०५२.०५ यो नो दाता स नः पिता महां उग्र ईशानकृत् ।
८,०५२.०५ अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥
८,०५२.०६ यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।
८,०५२.०६ वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥
८,०५२.०७ कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।
८,०५२.०७ तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवि ॥
८,०५२.०८ यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।
८,०५२.०८ अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम् ॥
८,०५२.०९ अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
८,०५२.०९ पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥
८,०५२.१० समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।
८,०५२.१० सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥
८,०५३.०१ उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।
८,०५३.०१ पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥
८,०५३.०२ य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे ।
८,०५३.०२ तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥
८,०५३.०३ आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः ।
८,०५३.०३ ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ॥
८,०५३.०४ विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु ।
८,०५३.०४ शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥
८,०५३.०५ इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।
८,०५३.०५ आ शन्तम शन्तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥
८,०५३.०६ आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् ।
८,०५३.०६ प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् ॥
८,०५३.०७ यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।
८,०५३.०७ वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ॥
८,०५३.०८ अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।
८,०५३.०८ त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम् ॥
८,०५४.०१ एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः ।
८,०५४.०१ ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः ॥
८,०५४.०२ नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे ।
८,०५४.०२ यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥
८,०५४.०३ आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
८,०५४.०३ वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम् ॥
८,०५४.०४ पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः ।
८,०५४.०४ आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥
८,०५४.०५ यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम ।
८,०५४.०५ तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥
८,०५४.०६ आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।
८,०५४.०६ वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥
८,०५४.०७ सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् ।
८,०५४.०७ अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् ॥
८,०५४.०८ वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।
८,०५४.०८ महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥
८,०५५.०१ भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति ।
८,०५५.०१ राधस्ते दस्यवे वृक ॥
८,०५५.०२ शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते ।
८,०५५.०२ मह्ना दिवं न तस्तभुः ॥
८,०५५.०३ शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि ।
८,०५५.०३ शतं मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥
८,०५५.०४ सुदेवा स्थ काण्वायना वयोवयो विचरन्तः ।
८,०५५.०४ अश्वासो न चङ्क्रमत ॥
८,०५५.०५ आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः ।
८,०५५.०५ श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥
८,०५६.०१ प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् ।
८,०५६.०१ द्यौर्न प्रथिना शवः ॥
८,०५६.०२ दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः ।
८,०५६.०२ नित्याद्रायो अमंहत ॥
८,०५६.०३ शतं मे गर्दभानां शतमूर्णावतीनाम् ।
८,०५६.०३ शतं दासां अति स्रजः ॥
८,०५६.०४ तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता ।
८,०५६.०४ अश्वानामिन्न यूथ्याम् ॥
८,०५६.०५ अचेत्यग्निश्चिकितुर्हव्यवाट्स सुमद्रथः ।
८,०५६.०५ अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥
८,०५७.०१ युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा ।
८,०५७.०१ आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥
८,०५७.०२ युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् ।
८,०५७.०२ अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥
८,०५७.०३ पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
८,०५७.०३ सहस्रं शंसा उत ये गविष्टौ सर्वां इत्तां उप याता पिबध्यै ॥
८,०५७.०४ अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
८,०५७.०४ पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः ॥
८,०५८.०१ यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति ।
८,०५८.०१ यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥
८,०५८.०२ एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः ।
८,०५८.०२ एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् ॥
८,०५८.०३ ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् ।
८,०५८.०३ चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै ॥
८,०५९.०१ इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् ।
८,०५९.०१ यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥
८,०५९.०२ निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत ।
८,०५९.०२ या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥
८,०५९.०३ सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः ।
८,०५९.०३ ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥
८,०५९.०४ घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य ।
८,०५९.०४ या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् ॥
८,०५९.०५ अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् ।
८,०५९.०५ अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥
८,०५९.०६ इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे ।
८,०५९.०६ यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥
८,०५९.०७ इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् ।
८,०५९.०७ प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥
८,०६०.०१ अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
८,०६०.०१ आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥
८,०६०.०२ अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
८,०६०.०२ ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥
८,०६०.०३ अग्ने कविर्वेधा असि होता पावक यक्ष्यः ।
८,०६०.०३ मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥
८,०६०.०४ अद्रोघमा वहोशतो यविष्ठ्य देवां अजस्र वीतये ।
८,०६०.०४ अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥
८,०६०.०५ त्वमित्सप्रथा अस्यग्ने त्रातरृतस्कविः ।
८,०६०.०५ त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥
८,०६०.०६ शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महां असि ।
८,०६०.०६ देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥
८,०६०.०७ यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि ।
८,०६०.०७ एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥
८,०६०.०८ मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।
८,०६०.०८ अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥
८,०६०.०९ पाहि नो अग्न एकया पाह्युत द्वितीयया ।
८,०६०.०९ पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥
८,०६०.१० पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
८,०६०.१० त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥
८,०६०.११ आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् ।
८,०६०.११ रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥
८,०६०.१२ येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः ।
८,०६०.१२ स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥
८,०६०.१३ शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् ।
८,०६०.१३ तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥
८,०६०.१४ नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे ।
८,०६०.१४ स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥
८,०६०.१५ शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते ।
८,०६०.१५ अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥
८,०६०.१६ सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् ।
८,०६०.१६ भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनां अति ॥
८,०६०.१७ अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।
८,०६०.१७ अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥
८,०६०.१८ केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना ।
८,०६०.१८ इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
८,०६०.१९ अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः ।
८,०६०.१९ अप्रोषिवान्गृहपतिर्महां असि दिवस्पायुर्दुरोणयुः ॥
८,०६०.२० मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् ।
८,०६०.२० परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥
८,०६१.०१ उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
८,०६१.०१ सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥
८,०६१.०२ तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
८,०६१.०२ उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥
८,०६१.०३ आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः ।
८,०६१.०३ विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥
८,०६१.०४ अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः ।
८,०६१.०४ सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥
८,०६१.०५ शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
८,०६१.०५ भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥
८,०६१.०६ पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
८,०६१.०६ नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥
८,०६१.०७ त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
८,०६१.०७ उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥
८,०६१.०८ त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
८,०६१.०८ आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥
८,०६१.०९ अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः ।
८,०६१.०९ स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन ॥
८,०६१.१० उग्रबाहुर्म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद्धवम् ।
८,०६१.१० वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥
८,०६१.११ न पापासो मनामहे नारायासो न जळ्हवः ।
८,०६१.११ यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥
८,०६१.१२ उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् ।
८,०६१.१२ वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥
८,०६१.१३ यत इन्द्र भयामहे ततो नो अभयं कृधि ।
८,०६१.१३ मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥
८,०६१.१४ त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।
८,०६१.१४ तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
८,०६१.१५ इन्द्र स्पळ् उत वृत्रहा परस्पा नो वरेण्यः ।
८,०६१.१५ स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥
८,०६१.१६ त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः ।
८,०६१.१६ आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥
८,०६१.१७ अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
८,०६१.१७ विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः ॥
८,०६१.१८ प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।
८,०६१.१८ उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥
८,०६२.०१ प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति ।
८,०६२.०१ उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥
८,०६२.०२ अयुजो असमो नृभिरेकः कृष्टीरयास्यः ।
८,०६२.०२ पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ॥
८,०६२.०३ अहितेन चिदर्वता जीरदानुः सिषासति ।
८,०६२.०३ प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥
८,०६२.०४ आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना ।
८,०६२.०४ येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥
८,०६२.०५ धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् ।
८,०६२.०५ तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥
८,०६२.०६ अव चष्ट ऋचीषमोऽवतां इव मानुषः ।
८,०६२.०६ जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः ॥
८,०६२.०७ विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः ।
८,०६२.०७ भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥
८,०६२.०८ गृणे तदिन्द्र ते शव उपमं देवतातये ।
८,०६२.०८ यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥
८,०६२.०९ समनेव वपुष्यतः कृणवन्मानुषा युगा ।
८,०६२.०९ विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः ॥
८,०६२.१० उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम् ।
८,०६२.१० भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः ॥
८,०६२.११ अहं च त्वं च वृत्रहन्सं युज्याव सनिभ्य आ ।
८,०६२.११ अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥
८,०६२.१२ सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् ।
८,०६२.१२ महां असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥
८,०६३.०१ स पूर्व्यो महानां वेनः क्रतुभिरानजे ।
८,०६३.०१ यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥
८,०६३.०२ दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः ।
८,०६३.०२ उक्था ब्रह्म च शंस्या ॥
८,०६३.०३ स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोदप ।
८,०६३.०३ स्तुषे तदस्य पौंस्यम् ॥
८,०६३.०४ स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।
८,०६३.०४ शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥
८,०६३.०५ आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
८,०६३.०५ श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥
८,०६३.०६ इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।
८,०६३.०६ यमर्का अध्वरं विदुः ॥
८,०६३.०७ यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।
८,०६३.०७ अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥
८,०६३.०८ इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या ।
८,०६३.०८ प्रावश्चक्रस्य वर्तनिम् ॥
८,०६३.०९ अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।
८,०६३.०९ यवं न पश्व आ ददे ॥
८,०६३.१० तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः ।
८,०६३.१० स्याम मरुत्वतो वृधे ॥
८,०६३.११ बळ् ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।
८,०६३.११ जेषामेन्द्र त्वया युजा ॥
८,०६३.१२ अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
८,०६३.१२ यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ॥
८,०६४.०१ उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
८,०६४.०१ अव ब्रह्मद्विषो जहि ॥
८,०६४.०२ पदा पणींरराधसो नि बाधस्व महां असि ।
८,०६४.०२ नहि त्वा कश्चन प्रति ॥
८,०६४.०३ त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
८,०६४.०३ त्वं राजा जनानाम् ॥
८,०६४.०४ एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् ।
८,०६४.०४ ओभे पृणासि रोदसी ॥
८,०६४.०५ त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
८,०६४.०५ वि स्तोतृभ्यो रुरोजिथ ॥
८,०६४.०६ वयमु त्वा दिवा सुते वयं नक्तं हवामहे ।
८,०६४.०६ अस्माकं काममा पृण ॥
८,०६४.०७ क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।
८,०६४.०७ ब्रह्मा कस्तं सपर्यति ॥
८,०६४.०८ कस्य स्वित्सवनं वृषा जुजुष्वां अव गच्छति ।
८,०६४.०८ इन्द्रं क उ स्विदा चके ॥
८,०६४.०९ कं ते दाना असक्षत वृत्रहन्कं सुवीर्या ।
८,०६४.०९ उक्थे क उ स्विदन्तमः ॥
८,०६४.१० अयं ते मानुषे जने सोमः पूरुषु सूयते ।
८,०६४.१० तस्येहि प्र द्रवा पिब ॥
८,०६४.११ अयं ते शर्यणावति सुषोमायामधि प्रियः ।
८,०६४.११ आर्जीकीये मदिन्तमः ॥
८,०६४.१२ तमद्य राधसे महे चारुं मदाय घृष्वये ।
८,०६४.१२ एहीमिन्द्र द्रवा पिब ॥
८,०६५.०१ यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
८,०६५.०१ आ याहि तूयमाशुभिः ॥
८,०६५.०२ यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।
८,०६५.०२ यद्वा समुद्रे अन्धसः ॥
८,०६५.०३ आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।
८,०६५.०३ इन्द्र सोमस्य पीतये ॥
८,०६५.०४ आ त इन्द्र महिमानं हरयो देव ते महः ।
८,०६५.०४ रथे वहन्तु बिभ्रतः ॥
८,०६५.०५ इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् ।
८,०६५.०५ एहि नः सुतं पिब ॥
८,०६५.०६ सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे ।
८,०६५.०६ इदं नो बर्हिरासदे ॥
८,०६५.०७ यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
८,०६५.०७ तं त्वा वयं हवामहे ॥
८,०६५.०८ इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।
८,०६५.०८ जुषाण इन्द्र तत्पिब ॥
८,०६५.०९ विश्वां अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।
८,०६५.०९ अस्मे धेहि श्रवो बृहत् ॥
८,०६५.१० दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
८,०६५.१० मा देवा मघवा रिषत् ॥
८,०६५.११ सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।
८,०६५.११ शुक्रं हिरण्यमा ददे ॥
८,०६५.१२ नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
८,०६५.१२ श्रवो देवेष्वक्रत ॥
८,०६६.०१ तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
८,०६६.०१ बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥
८,०६६.०२ न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः ।
८,०६६.०२ य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥
८,०६६.०३ यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।
८,०६६.०३ स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा ॥
८,०६६.०४ निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे ।
८,०६६.०४ वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत् ॥
८,०६६.०५ यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् ।
८,०६६.०५ वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥
८,०६६.०६ सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।
८,०६६.०६ त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥
८,०६६.०७ वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।
८,०६६.०७ तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥
८,०६६.०८ वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
८,०६६.०८ सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥
८,०६६.०९ कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।
८,०६६.०९ केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥
८,०६६.१० कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम् ।
८,०६६.१० इन्द्रो विश्वान्बेकनाटां अहर्दृश उत क्रत्वा पणींरभि ॥
८,०६६.११ वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् ।
८,०६६.११ पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥
८,०६६.१२ पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः ।
८,०६६.१२ तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥
८,०६६.१३ वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि ।
८,०६६.१३ नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥
८,०६६.१४ त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि ।
८,०६६.१४ त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥
८,०६६.१५ सोम इद्वः सुतो अस्तु कलयो मा बिभीतन ।
८,०६६.१५ अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥
८,०६७.०१ त्यान्नु क्षत्रियां अव आदित्यान्याचिषामहे ।
८,०६७.०१ सुमृळीकां अभिष्टये ॥
८,०६७.०२ मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा ।
८,०६७.०२ आदित्यासो यथा विदुः ॥
८,०६७.०३ तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे ।
८,०६७.०३ आदित्यानामरङ्कृते ॥
८,०६७.०४ महि वो महतामवो वरुण मित्रार्यमन् ।
८,०६७.०४ अवांस्या वृणीमहे ॥
८,०६७.०५ जीवान्नो अभि धेतनादित्यासः पुरा हथात् ।
८,०६७.०५ कद्ध स्थ हवनश्रुतः ॥
८,०६७.०६ यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः ।
८,०६७.०६ तेना नो अधि वोचत ॥
८,०६७.०७ अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः ।
८,०६७.०७ आदित्या अद्भुतैनसः ॥
८,०६७.०८ मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि ।
८,०६७.०८ इन्द्र इद्धि श्रुतो वशी ॥
८,०६७.०९ मा नो मृचा रिपूणां वृजिनानामविष्यवः ।
८,०६७.०९ देवा अभि प्र मृक्षत ॥
८,०६७.१० उत त्वामदिते मह्यहं देव्युप ब्रुवे ।
८,०६७.१० सुमृळीकामभिष्टये ॥
८,०६७.११ पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः ।
८,०६७.११ माकिस्तोकस्य नो रिषत् ॥
८,०६७.१२ अनेहो न उरुव्रज उरूचि वि प्रसर्तवे ।
८,०६७.१२ कृधि तोकाय जीवसे ॥
८,०६७.१३ ये मूर्धानः क्षितीनामदब्धासः स्वयशसः ।
८,०६७.१३ व्रता रक्षन्ते अद्रुहः ॥
८,०६७.१४ ते न आस्नो वृकाणामादित्यासो मुमोचत ।
८,०६७.१४ स्तेनं बद्धमिवादिते ॥
८,०६७.१५ अपो षु ण इयं शरुरादित्या अप दुर्मतिः ।
८,०६७.१५ अस्मदेत्वजघ्नुषी ॥
८,०६७.१६ शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् ।
८,०६७.१६ पुरा नूनं बुभुज्महे ॥
८,०६७.१७ शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः ।
८,०६७.१७ देवाः कृणुथ जीवसे ॥
८,०६७.१८ तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति ।
८,०६७.१८ बन्धाद्बद्धमिवादिते ॥
८,०६७.१९ नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे ।
८,०६७.१९ यूयमस्मभ्यं मृळत ॥
८,०६७.२० मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः ।
८,०६७.२० पुरा नु जरसो वधीत् ॥
८,०६७.२१ वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् ।
८,०६७.२१ विष्वग्वि वृहता रपः ॥
८,०६८.०१ आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।
८,०६८.०१ तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते ॥
८,०६८.०२ तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
८,०६८.०२ आ पप्राथ महित्वना ॥
८,०६८.०३ यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
८,०६८.०३ हस्ता वज्रं हिरण्ययम् ॥
८,०६८.०४ विश्वानरस्य वस्पतिमनानतस्य शवसः ।
८,०६८.०४ एवैश्च चर्षणीनामूती हुवे रथानाम् ॥
८,०६८.०५ अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः ।
८,०६८.०५ नाना हवन्त ऊतये ॥
८,०६८.०६ परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम् ।
८,०६८.०६ ईशानं चिद्वसूनाम् ॥
८,०६८.०७ तंतमिद्राधसे मह इन्द्रं चोदामि पीतये ।
८,०६८.०७ यः पूर्व्यामनुष्टुतिमीशे कृष्टीनां नृतुः ॥
८,०६८.०८ न यस्य ते शवसान सख्यमानंश मर्त्यः ।
८,०६८.०८ नकिः शवांसि ते नशत् ॥
८,०६८.०९ त्वोतासस्त्वा युजाप्सु सूर्ये महद्धनम् ।
८,०६८.०९ जयेम पृत्सु वज्रिवः ॥
८,०६८.१० तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम ।
८,०६८.१० इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम् ॥
८,०६८.११ यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः ।
८,०६८.११ यज्ञो वितन्तसाय्यः ॥
८,०६८.१२ उरु णस्तन्वे तन उरु क्षयाय नस्कृधि ।
८,०६८.१२ उरु णो यन्धि जीवसे ॥
८,०६८.१३ उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् ।
८,०६८.१३ देववीतिं मनामहे ॥
८,०६८.१४ उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या ।
८,०६८.१४ तिष्ठन्ति स्वादुरातयः ॥
८,०६८.१५ ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि ।
८,०६८.१५ आश्वमेधस्य रोहिता ॥
८,०६८.१६ सुरथां आतिथिग्वे स्वभीशूंरार्क्षे ।
८,०६८.१६ आश्वमेधे सुपेशसः ॥
८,०६८.१७ षळ् अश्वां आतिथिग्व इन्द्रोते वधूमतः ।
८,०६८.१७ सचा पूतक्रतौ सनम् ॥
८,०६८.१८ ऐषु चेतद्वृषण्वत्यन्तरृज्रेष्वरुषी ।
८,०६८.१८ स्वभीशुः कशावती ॥
८,०६८.१९ न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यः ।
८,०६८.१९ अवद्यमधि दीधरत् ॥
८,०६९.०१ प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
८,०६९.०१ धिया वो मेधसातये पुरन्ध्या विवासति ॥
८,०६९.०२ नदं व ओदतीनां नदं योयुवतीनाम् ।
८,०६९.०२ पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥
८,०६९.०३ ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
८,०६९.०३ जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥
८,०६९.०४ अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
८,०६९.०४ सूनुं सत्यस्य सत्पतिम् ॥
८,०६९.०५ आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
८,०६९.०५ यत्राभि संनवामहे ॥
८,०६९.०६ इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
८,०६९.०६ यत्सीमुपह्वरे विदत् ॥
८,०६९.०७ उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
८,०६९.०७ मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥
८,०६९.०८ अर्चत प्रार्चत प्रियमेधासो अर्चत ।
८,०६९.०८ अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥
८,०६९.०९ अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
८,०६९.०९ पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥
८,०६९.१० आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
८,०६९.१० अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥
८,०६९.११ अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।
८,०६९.११ वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥
८,०६९.१२ सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
८,०६९.१२ अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥
८,०६९.१३ यो व्यतींरफाणयत्सुयुक्तां उप दाशुषे ।
८,०६९.१३ तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥
८,०६९.१४ अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
८,०६९.१४ भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥
८,०६९.१५ अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् ।
८,०६९.१५ स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥
८,०६९.१६ आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् ।
८,०६९.१६ अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥
८,०६९.१७ तं घेमित्था नमस्विन उप स्वराजमासते ।
८,०६९.१७ अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥
८,०६९.१८ अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
८,०६९.१८ पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥
८,०७०.०१ यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
८,०७०.०१ विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
८,०७०.०२ इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि ।
८,०७०.०२ हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥
८,०७०.०३ नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।
८,०७०.०३ इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥
८,०७०.०४ अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।
८,०७०.०४ सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥
८,०७०.०५ यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
८,०७०.०५ न त्वा वज्रिन्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥
८,०७०.०६ आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।
८,०७०.०६ अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥
८,०७०.०७ न सीमदेव आपदिषं दीर्घायो मर्त्यः ।
८,०७०.०७ एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते ॥
८,०७०.०८ तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम् ।
८,०७०.०८ यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः ॥
८,०७०.०९ उदू षु णो वसो महे मृशस्व शूर राधसे ।
८,०७०.०९ उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे ॥
८,०७०.१० त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि ।
८,०७०.१० मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः ॥
८,०७०.११ अन्यव्रतममानुषमयज्वानमदेवयुम् ।
८,०७०.११ अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः ॥
८,०७०.१२ त्वं न इन्द्रासां हस्ते शविष्ठ दावने ।
८,०७०.१२ धानानां न सं गृभायास्मयुर्द्विः सं गृभायास्मयुः ॥
८,०७०.१३ सखायः क्रतुमिच्छत कथा राधाम शरस्य ।
८,०७०.१३ उपस्तुतिं भोजः सूरिर्यो अह्रयः ॥
८,०७०.१४ भूरिभिः समह ऋषिभिर्बर्हिष्मद्भि स्तविष्यसे ।
८,०७०.१४ यदित्थमेकमेकमिच्छर वत्सान्पराददः ॥
८,०७०.१५ कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् ।
८,०७०.१५ अजां सूरिर्न धातवे ॥
८,०७१.०१ त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
८,०७१.०१ उत द्विषो मर्त्यस्य ॥
८,०७१.०२ नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।
८,०७१.०२ त्वमिदसि क्षपावान् ॥
८,०७१.०३ स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।
८,०७१.०३ रयिं देहि विश्ववारम् ॥
८,०७१.०४ न तमग्ने अरातयो मर्तं युवन्त रायः ।
८,०७१.०४ यं त्रायसे दाश्वांसम् ॥
८,०७१.०५ यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय ।
८,०७१.०५ स तवोती गोषु गन्ता ॥
८,०७१.०६ त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय ।
८,०७१.०६ प्र णो नय वस्यो अच्छ ॥
८,०७१.०७ उरुष्या णो मा परा दा अघायते जातवेदः ।
८,०७१.०७ दुराध्ये मर्ताय ॥
८,०७१.०८ अग्ने माकिष्टे देवस्य रातिमदेवो युयोत ।
८,०७१.०८ त्वमीशिषे वसूनाम् ॥
८,०७१.०९ स नो वस्व उप मास्यूर्जो नपान्माहिनस्य ।
८,०७१.०९ सखे वसो जरितृभ्यः ॥
८,०७१.१० अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
८,०७१.१० अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥
८,०७१.११ अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
८,०७१.११ द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥
८,०७१.१२ अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।
८,०७१.१२ अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥
८,०७१.१३ अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् ।
८,०७१.१३ अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥
८,०७१.१४ अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।
८,०७१.१४ अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥
८,०७१.१५ अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।
८,०७१.१५ विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम् ॥
८,०७२.०१ हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः ।
८,०७२.०१ विद्वां अस्य प्रशासनम् ॥
८,०७२.०२ नि तिग्ममभ्यंशुं सीदद्धोता मनावधि ।
८,०७२.०२ जुषाणो अस्य सख्यम् ॥
८,०७२.०३ अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया ।
८,०७२.०३ गृभ्णन्ति जिह्वया ससम् ॥
८,०७२.०४ जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् ।
८,०७२.०४ दृषदं जिह्वयावधीत् ॥
८,०७२.०५ चरन्वत्सो रुशन्निह निदातारं न विन्दते ।
८,०७२.०५ वेति स्तोतव अम्ब्यम् ॥
८,०७२.०६ उतो न्वस्य यन्महदश्वावद्योजनं बृहद् ।
८,०७२.०६ दामा रथस्य ददृशे ॥
८,०७२.०७ दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः ।
८,०७२.०७ तीर्थे सिन्धोरधि स्वरे ॥
८,०७२.०८ आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् ।
८,०७२.०८ खेदया त्रिवृता दिवः ॥
८,०७२.०९ परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी ।
८,०७२.०९ मध्वा होतारो अञ्जते ॥
८,०७२.१० सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् ।
८,०७२.१० नीचीनबारमक्षितम् ॥
८,०७२.११ अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
८,०७२.११ अवतस्य विसर्जने ॥
८,०७२.१२ गाव उपावतावतं मही यज्ञस्य रप्सुदा ।
८,०७२.१२ उभा कर्णा हिरण्यया ॥
८,०७२.१३ आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् ।
८,०७२.१३ रसा दधीत वृषभम् ॥
८,०७२.१४ ते जानत स्वमोक्यं सं वत्सासो न मातृभिः ।
८,०७२.१४ मिथो नसन्त जामिभिः ॥
८,०७२.१५ उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
८,०७२.१५ इन्द्रे अग्ना नमः स्वः ॥
८,०७२.१६ अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः ।
८,०७२.१६ सूर्यस्य सप्त रश्मिभिः ॥
८,०७२.१७ सोमस्य मित्रावरुणोदिता सूर आ ददे ।
८,०७२.१७ तदातुरस्य भेषजम् ॥
८,०७२.१८ उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् ।
८,०७२.१८ परि द्यां जिह्वयातनत् ॥
८,०७३.०१ उदीराथामृतायते युञ्जाथामश्विना रथम् ।
८,०७३.०१ अन्ति षद्भूतु वामवः ॥
८,०७३.०२ निमिषश्चिज्जवीयसा रथेना यातमश्विना ।
८,०७३.०२ अन्ति षद्भूतु वामवः ॥
८,०७३.०३ उप स्तृणीतमत्रये हिमेन घर्ममश्विना ।
८,०७३.०३ अन्ति षद्भूतु वामवः ॥
८,०७३.०४ कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।
८,०७३.०४ अन्ति षद्भूतु वामवः ॥
८,०७३.०५ यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम् ।
८,०७३.०५ अन्ति षद्भूतु वामवः ॥
८,०७३.०६ अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् ।
८,०७३.०६ अन्ति षद्भूतु वामवः ॥
८,०७३.०७ अवन्तमत्रये गृहं कृणुतं युवमश्विना ।
८,०७३.०७ अन्ति षद्भूतु वामवः ॥
८,०७३.०८ वरेथे अग्निमातपो वदते वल्ग्वत्रये ।
८,०७३.०८ अन्ति षद्भूतु वामवः ॥
८,०७३.०९ प्र सप्तवध्रिराशसा धारामग्नेरशायत ।
८,०७३.०९ अन्ति षद्भूतु वामवः ॥
८,०७३.१० इहा गतं वृषण्वसू शृणुतं म इमं हवम् ।
८,०७३.१० अन्ति षद्भूतु वामवः ॥
८,०७३.११ किमिदं वां पुराणवज्जरतोरिव शस्यते ।
८,०७३.११ अन्ति षद्भूतु वामवः ॥
८,०७३.१२ समानं वां सजात्यं समानो बन्धुरश्विना ।
८,०७३.१२ अन्ति षद्भूतु वामवः ॥
८,०७३.१३ यो वां रजांस्यश्विना रथो वियाति रोदसी ।
८,०७३.१३ अन्ति षद्भूतु वामवः ॥
८,०७३.१४ आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् ।
८,०७३.१४ अन्ति षद्भूतु वामवः ॥
८,०७३.१५ मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम् ।
८,०७३.१५ अन्ति षद्भूतु वामवः ॥
८,०७३.१६ अरुणप्सुरुषा अभूदकर्ज्योतिरृतावरी ।
८,०७३.१६ अन्ति षद्भूतु वामवः ॥
८,०७३.१७ अश्विना सु विचाकशद्वृक्षं परशुमां इव ।
८,०७३.१७ अन्ति षद्भूतु वामवः ॥
८,०७३.१८ पुरं न धृष्णवा रुज कृष्णया बाधितो विशा ।
८,०७३.१८ अन्ति षद्भूतु वामवः ॥
८,०७४.०१ विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
८,०७४.०१ अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥
८,०७४.०२ यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
८,०७४.०२ प्रशंसन्ति प्रशस्तिभिः ॥
८,०७४.०३ पन्यांसं जातवेदसं यो देवतात्युद्यता ।
८,०७४.०३ हव्यान्यैरयद्दिवि ॥
८,०७४.०४ आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् ।
८,०७४.०४ यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥
८,०७४.०५ अमृतं जातवेदसं तिरस्तमांसि दर्शतम् ।
८,०७४.०५ घृताहवनमीड्यम् ॥
८,०७४.०६ सबाधो यं जना इमेऽग्निं हव्येभिरीळते ।
८,०७४.०६ जुह्वानासो यतस्रुचः ॥
८,०७४.०७ इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा ।
८,०७४.०७ मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे ॥
८,०७४.०८ सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया ।
८,०७४.०८ तया वर्धस्व सुष्टुतः ॥
८,०७४.०९ सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः ।
८,०७४.०९ दधीत वृत्रतूर्ये ॥
८,०७४.१० अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् ।
८,०७४.१० यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥
८,०७४.११ यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः ।
८,०७४.११ स पावक श्रुधी हवम् ॥
८,०७४.१२ यं त्वा जनास ईळते सबाधो वाजसातये ।
८,०७४.१२ स बोधि वृत्रतूर्ये ॥
८,०७४.१३ अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।
८,०७४.१३ शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥
८,०७४.१४ मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।
८,०७४.१४ सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥
८,०७४.१५ सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् ।
८,०७४.१५ नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥
८,०७५.०१ युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीरिव ।
८,०७५.०१ नि होता पूर्व्यः सदः ॥
८,०७५.०२ उत नो देव देवां अच्छा वोचो विदुष्टरः ।
८,०७५.०२ श्रद्विश्वा वार्या कृधि ॥
८,०७५.०३ त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत ।
८,०७५.०३ ऋतावा यज्ञियो भुवः ॥
८,०७५.०४ अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः ।
८,०७५.०४ मूर्धा कवी रयीणाम् ॥
८,०७५.०५ तं नेमिमृभवो यथा नमस्व सहूतिभिः ।
८,०७५.०५ नेदीयो यज्ञमङ्गिरः ॥
८,०७५.०६ तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।
८,०७५.०६ वृष्णे चोदस्व सुष्टुतिम् ॥
८,०७५.०७ कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः ।
८,०७५.०७ पणिं गोषु स्तरामहे ॥
८,०७५.०८ मा नो देवानां विशः प्रस्नातीरिवोस्राः ।
८,०७५.०८ कृशं न हासुरघ्न्याः ॥
८,०७५.०९ मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।
८,०७५.०९ ऊर्मिर्न नावमा वधीत् ॥
८,०७५.१० नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
८,०७५.१० अमैरमित्रमर्दय ॥
८,०७५.११ कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् ।
८,०७५.११ उरुकृदुरु णस्कृधि ॥
८,०७५.१२ मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा ।
८,०७५.१२ संवर्गं सं रयिं जय ॥
८,०७५.१३ अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना ।
८,०७५.१३ वर्धा नो अमवच्छवः ॥
८,०७५.१४ यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा ।
८,०७५.१४ तं घेदग्निर्वृधावति ॥
८,०७५.१५ परस्या अधि संवतोऽवरां अभ्या तर ।
८,०७५.१५ यत्राहमस्मि तां अव ॥
८,०७५.१६ विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः ।
८,०७५.१६ अधा ते सुम्नमीमहे ॥
८,०७६.०१ इमं नु मायिनं हुव इन्द्रमीशानमोजसा ।
८,०७६.०१ मरुत्वन्तं न वृञ्जसे ॥
८,०७६.०२ अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः ।
८,०७६.०२ वज्रेण शतपर्वणा ॥
८,०७६.०३ वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् ।
८,०७६.०३ सृजन्समुद्रिया अपः ॥
८,०७६.०४ अयं ह येन वा इदं स्वर्मरुत्वता जितम् ।
८,०७६.०४ इन्द्रेण सोमपीतये ॥
८,०७६.०५ मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् ।
८,०७६.०५ इन्द्रं गीर्भिर्हवामहे ॥
८,०७६.०६ इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
८,०७६.०६ अस्य सोमस्य पीतये ॥
८,०७६.०७ मरुत्वां इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
८,०७६.०७ अस्मिन्यज्ञे पुरुष्टुत ॥
८,०७६.०८ तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
८,०७६.०८ हृदा हूयन्त उक्थिनः ॥
८,०७६.०९ पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
८,०७६.०९ वज्रं शिशान ओजसा ॥
८,०७६.१० उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
८,०७६.१० सोममिन्द्र चमू सुतम् ॥
८,०७६.११ अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
८,०७६.११ इन्द्र यद्दस्युहाभवः ॥
८,०७६.१२ वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
८,०७६.१२ इन्द्रात्परि तन्वं ममे ॥
८,०७७.०१ जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् ।
८,०७७.०१ क उग्राः के ह शृण्विरे ॥
८,०७७.०२ आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् ।
८,०७७.०२ ते पुत्र सन्तु निष्टुरः ॥
८,०७७.०३ समित्तान्वृत्रहाखिदत्खे अरां इव खेदया ।
८,०७७.०३ प्रवृद्धो दस्युहाभवत् ॥
८,०७७.०४ एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् ।
८,०७७.०४ इन्द्रः सोमस्य काणुका ॥
८,०७७.०५ अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा ।
८,०७७.०५ इन्द्रो ब्रह्मभ्य इद्वृधे ॥
८,०७७.०६ निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् ।
८,०७७.०६ इन्द्रो बुन्दं स्वाततम् ॥
८,०७७.०७ शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् ।
८,०७७.०७ यमिन्द्र चकृषे युजम् ॥
८,०७७.०८ तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।
८,०७७.०८ सद्यो जात ऋभुष्ठिर ॥
८,०७७.०९ एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।
८,०७७.०९ हृदा वीड्वधारयः ॥
८,०७७.१० विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।
८,०७७.१० शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥
८,०७७.११ तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः ।
८,०७७.११ उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥
८,०७८.०१ पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर ।
८,०७८.०१ शता च शूर गोनाम् ॥
८,०७८.०२ आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ।
८,०७८.०२ सचा मना हिरण्यया ॥
८,०७८.०३ उत नः कर्णशोभना पुरूणि धृष्णवा भर ।
८,०७८.०३ त्वं हि शृण्विषे वसो ॥
८,०७८.०४ नकीं वृधीक इन्द्र ते न सुषा न सुदा उत ।
८,०७८.०४ नान्यस्त्वच्छूर वाघतः ॥
८,०७८.०५ नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे ।
८,०७८.०५ विश्वं शृणोति पश्यति ॥
८,०७८.०६ स मन्युं मर्त्यानामदब्धो नि चिकीषते ।
८,०७८.०६ पुरा निदश्चिकीषते ॥
८,०७८.०७ क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः ।
८,०७८.०७ वृत्रघ्नः सोमपाव्नः ॥
८,०७८.०८ त्वे वसूनि संगता विश्वा च सोम सौभगा ।
८,०७८.०८ सुदात्वपरिह्वृता ॥
८,०७८.०९ त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः ।
८,०७८.०९ त्वामश्वयुरेषते ॥
८,०७८.१० तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे ।
८,०७८.१० दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना ॥
८,०७९.०१ अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः ।
८,०७९.०१ ऋषिर्विप्रः काव्येन ॥
८,०७९.०२ अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।
८,०७९.०२ प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥
८,०७९.०३ त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः ।
८,०७९.०३ उरु यन्तासि वरूथम् ॥
८,०७९.०४ त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् ।
८,०७९.०४ यावीरघस्य चिद्द्वेषः ॥
८,०७९.०५ अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् ।
८,०७९.०५ ववृज्युस्तृष्यतः कामम् ॥
८,०७९.०६ विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् ।
८,०७९.०६ प्रेमायुस्तारीदतीर्णम् ॥
८,०७९.०७ सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः ।
८,०७९.०७ भवा नः सोम शं हृदे ॥
८,०७९.०८ मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।
८,०७९.०८ मा नो हार्दि त्विषा वधीः ॥
८,०७९.०९ अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे ।
८,०७९.०९ राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥
८,०८०.०१ नह्यन्यं बळाकरं मर्डितारं शतक्रतो ।
८,०८०.०१ त्वं न इन्द्र मृळय ॥
८,०८०.०२ यो नः शश्वत्पुराविथामृध्रो वाजसातये ।
८,०८०.०२ स त्वं न इन्द्र मृळय ॥
८,०८०.०३ किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि ।
८,०८०.०३ कुवित्स्विन्द्र णः शकः ॥
८,०८०.०४ इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः ।
८,०८०.०४ पुरस्तादेनं मे कृधि ॥
८,०८०.०५ हन्तो नु किमाससे प्रथमं नो रथं कृधि ।
८,०८०.०५ उपमं वाजयु श्रवः ॥
८,०८०.०६ अवा नो वाजयुं रथं सुकरं ते किमित्परि ।
८,०८०.०६ अस्मान्सु जिग्युषस्कृधि ॥
८,०८०.०७ इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम् ।
८,०८०.०७ इयं धीरृत्वियावती ॥
८,०८०.०८ मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम् ।
८,०८०.०८ अपावृक्ता अरत्नयः ॥
८,०८०.०९ तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि ।
८,०८०.०९ आदित्पतिर्न ओहसे ॥
८,०८०.१० अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः ।
८,०८०.१० तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥
८,०८१.०१ आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
८,०८१.०१ महाहस्ती दक्षिणेन ॥
८,०८१.०२ विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् ।
८,०८१.०२ तुविमात्रमवोभिः ॥
८,०८१.०३ नहि त्वा शूर देवा न मर्तासो दित्सन्तम् ।
८,०८१.०३ भीमं न गां वारयन्ते ॥
८,०८१.०४ एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम् ।
८,०८१.०४ न राधसा मर्धिषन्नः ॥
८,०८१.०५ प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम् ।
८,०८१.०५ अभि राधसा जुगुरत् ॥
८,०८१.०६ आ नो भर दक्षिणेनाभि सव्येन प्र मृश ।
८,०८१.०६ इन्द्र मा नो वसोर्निर्भाक् ॥
८,०८१.०७ उप क्रमस्वा भर धृषता धृष्णो जनानाम् ।
८,०८१.०७ अदाशूष्टरस्य वेदः ॥
८,०८१.०८ इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः ।
८,०८१.०८ अस्माभिः सु तं सनुहि ॥
८,०८१.०९ सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः ।
८,०८१.०९ वशैश्च मक्षू जरन्ते ॥
८,०८२.०१ आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
८,०८२.०१ मध्वः प्रति प्रभर्मणि ॥
८,०८२.०२ तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
८,०८२.०२ पिबा दधृग्यथोचिषे ॥
८,०८२.०३ इषा मन्दस्वादु तेऽरं वराय मन्यवे ।
८,०८२.०३ भुवत्त इन्द्र शं हृदे ॥
८,०८२.०४ आ त्वशत्रवा गहि न्युक्थानि च हूयसे ।
८,०८२.०४ उपमे रोचने दिवः ॥
८,०८२.०५ तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
८,०८२.०५ प्र सोम इन्द्र हूयते ॥
८,०८२.०६ इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः ।
८,०८२.०६ वि पीतिं तृप्तिमश्नुहि ॥
८,०८२.०७ य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
८,०८२.०७ पिबेदस्य त्वमीशिषे ॥
८,०८२.०८ यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे ।
८,०८२.०८ पिबेदस्य त्वमीशिषे ॥
८,०८२.०९ यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् ।
८,०८२.०९ पिबेदस्य त्वमीशिषे ॥
८,०८३.०१ देवानामिदवो महत्तदा वृणीमहे वयम् ।
८,०८३.०१ वृष्णामस्मभ्यमूतये ॥
८,०८३.०२ ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा ।
८,०८३.०२ वृधासश्च प्रचेतसः ॥
८,०८३.०३ अति नो विष्पिता पुरु नौभिरपो न पर्षथ ।
८,०८३.०३ यूयमृतस्य रथ्यः ॥
८,०८३.०४ वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् ।
८,०८३.०४ वामं ह्यावृणीमहे ॥
८,०८३.०५ वामस्य हि प्रचेतस ईशानाशो रिशादसः ।
८,०८३.०५ नेमादित्या अघस्य यत् ॥
८,०८३.०६ वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना ।
८,०८३.०६ देवा वृधाय हूमहे ॥
८,०८३.०७ अधि न इन्द्रैषां विष्णो सजात्यानाम् ।
८,०८३.०७ इता मरुतो अश्विना ॥
८,०८३.०८ प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।
८,०८३.०८ मातुर्गर्भे भरामहे ॥
८,०८३.०९ यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
८,०८३.०९ अधा चिद्व उत ब्रुवे ॥
८,०८४.०१ प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् ।
८,०८४.०१ अग्निं रथं न वेद्यम् ॥
८,०८४.०२ कविमिव प्रचेतसं यं देवासो अध द्विता ।
८,०८४.०२ नि मर्त्येष्वादधुः ॥
८,०८४.०३ त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः ।
८,०८४.०३ रक्षा तोकमुत त्मना ॥
८,०८४.०४ कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् ।
८,०८४.०४ वराय देव मन्यवे ॥
८,०८४.०५ दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
८,०८४.०५ कदु वोच इदं नमः ॥
८,०८४.०६ अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।
८,०८४.०६ वाजद्रविणसो गिरः ॥
८,०८४.०७ कस्य नूनं परीणसो धियो जिन्वसि दम्पते ।
८,०८४.०७ गोषाता यस्य ते गिरः ॥
८,०८४.०८ तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु ।
८,०८४.०८ स्वेषु क्षयेषु वाजिनम् ॥
८,०८४.०९ क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः ।
८,०८४.०९ अग्ने सुवीर एधते ॥
८,०८५.०१ आ मे हवं नासत्याश्विना गच्छतं युवम् ।
८,०८५.०१ मध्वः सोमस्य पीतये ॥
८,०८५.०२ इमं मे स्तोममश्विनेमं मे शृणुतं हवम् ।
८,०८५.०२ मध्वः सोमस्य पीतये ॥
८,०८५.०३ अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।
८,०८५.०३ मध्वः सोमस्य पीतये ॥
८,०८५.०४ शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा ।
८,०८५.०४ मध्वः सोमस्य पीतये ॥
८,०८५.०५ छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा ।
८,०८५.०५ मध्वः सोमस्य पीतये ॥
८,०८५.०६ गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना ।
८,०८५.०६ मध्वः सोमस्य पीतये ॥
८,०८५.०७ युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू ।
८,०८५.०७ मध्वः सोमस्य पीतये ॥
८,०८५.०८ त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना ।
८,०८५.०८ मध्वः सोमस्य पीतये ॥
८,०८५.०९ नू मे गिरो नासत्याश्विना प्रावतं युवम् ।
८,०८५.०९ मध्वः सोमस्य पीतये ॥
८,०८६.०१ उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः ।
८,०८६.०१ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८६.०२ कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यैष्टये ।
८,०८६.०२ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८६.०३ युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये ।
८,०८६.०३ ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८६.०४ उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे ।
८,०८६.०४ यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८६.०५ ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे ।
८,०८६.०५ ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥
८,०८७.०१ द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् ।
८,०८७.०१ मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥
८,०८७.०२ पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा ।
८,०८७.०२ ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥
८,०८७.०३ आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
८,०८७.०३ ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥
८,०८७.०४ पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् ।
८,०८७.०४ ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥
८,०८७.०५ आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः ।
८,०८७.०५ दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥
८,०८७.०६ वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
८,०८७.०६ ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥
८,०८८.०१ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
८,०८८.०१ अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥
८,०८८.०२ द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
८,०८८.०२ क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥
८,०८८.०३ न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।
८,०८८.०३ यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥
८,०८८.०४ योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।
८,०८८.०४ आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥
८,०८८.०५ प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि ।
८,०८८.०५ न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥
८,०८८.०६ नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि ।
८,०८८.०६ अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥
८,०८९.०१ बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् ।
८,०८९.०१ येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥
८,०८९.०२ अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् ।
८,०८९.०२ देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥
८,०८९.०३ प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
८,०८९.०३ वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥
८,०८९.०४ अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।
८,०८९.०४ अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥
८,०८९.०५ यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
८,०८९.०५ तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम् ॥
८,०८९.०६ तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
८,०८९.०६ तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥
८,०८९.०७ आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।
८,०८९.०७ घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥
८,०९०.०१ आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
८,०९०.०१ उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥
८,०९०.०२ त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
८,०९०.०२ तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥
८,०९०.०३ ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता ।
८,०९०.०३ इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥
८,०९०.०४ त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे ।
८,०९०.०४ स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥
८,०९०.०५ त्वमिन्द्र यशा अस्यृजीषी शवसस्पते ।
८,०९०.०५ त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता ॥
८,०९०.०६ तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।
८,०९०.०६ महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥
८,०९१.०१ कन्या वारवायती सोममपि स्रुताविदत् ।
८,०९१.०१ अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥
८,०९१.०२ असौ य एषि वीरको गृहंगृहं विचाकशद् ।
८,०९१.०२ इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥
८,०९१.०३ आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि ।
८,०९१.०३ शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव ॥
८,०९१.०४ कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् ।
८,०९१.०४ कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै ॥
८,०९१.०५ इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
८,०९१.०५ शिरस्ततस्योर्वरामादिदं म उपोदरे ॥
८,०९१.०६ असौ च या न उर्वरादिमां तन्वं मम ।
८,०९१.०६ अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥
८,०९१.०७ खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
८,०९१.०७ अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥
८,०९२.०१ पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
८,०९२.०१ विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥
८,०९२.०२ पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् ।
८,०९२.०२ इन्द्र इति ब्रवीतन ॥
८,०९२.०३ इन्द्र इन्नो महानां दाता वाजानां नृतुः ।
८,०९२.०३ महां अभिज्ञ्वा यमत् ॥
८,०९२.०४ अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः ।
८,०९२.०४ इन्दोरिन्द्रो यवाशिरः ॥
८,०९२.०५ तं वभि प्रार्चतेन्द्रं सोमस्य पीतये ।
८,०९२.०५ तदिद्ध्यस्य वर्धनम् ॥
८,०९२.०६ अस्य पीत्वा मदानां देवो देवस्यौजसा ।
८,०९२.०६ विश्वाभि भुवना भुवत् ॥
८,०९२.०७ त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् ।
८,०९२.०७ आ च्यावयस्यूतये ॥
८,०९२.०८ युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् ।
८,०९२.०८ नरमवार्यक्रतुम् ॥
८,०९२.०९ शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम ।
८,०९२.०९ अवा नः पार्ये धने ॥
८,०९२.१० अतश्चिदिन्द्र ण उपा याहि शतवाजया ।
८,०९२.१० इषा सहस्रवाजया ॥
८,०९२.११ अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे ।
८,०९२.११ जयेम पृत्सु वज्रिवः ॥
८,०९२.१२ वयमु त्वा शतक्रतो गावो न यवसेष्वा ।
८,०९२.१२ उक्थेषु रणयामसि ॥
८,०९२.१३ विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।
८,०९२.१३ अगन्म वज्रिन्नाशसः ॥
८,०९२.१४ त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः ।
८,०९२.१४ न त्वामिन्द्राति रिच्यते ॥
८,०९२.१५ स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा ।
८,०९२.१५ धियाविड्ढि पुरन्ध्या ॥
८,०९२.१६ यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः ।
८,०९२.१६ तेन नूनं मदे मदेः ॥
८,०९२.१७ यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः ।
८,०९२.१७ य ओजोदातमो मदः ॥
८,०९२.१८ विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः ।
८,०९२.१८ विश्वासु दस्म कृष्टिषु ॥
८,०९२.१९ इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।
८,०९२.१९ अर्कमर्चन्तु कारवः ॥
८,०९२.२० यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
८,०९२.२० इन्द्रं सुते हवामहे ॥
८,०९२.२१ त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
८,०९२.२१ तमिद्वर्धन्तु नो गिरः ॥
८,०९२.२२ आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
८,०९२.२२ न त्वामिन्द्राति रिच्यते ॥
८,०९२.२३ विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।
८,०९२.२३ य इन्द्र जठरेषु ते ॥
८,०९२.२४ अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
८,०९२.२४ अरं धामभ्य इन्दवः ॥
८,०९२.२५ अरमश्वाय गायति श्रुतकक्षो अरं गवे ।
८,०९२.२५ अरमिन्द्रस्य धाम्ने ॥
८,०९२.२६ अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि ।
८,०९२.२६ अरं ते शक्र दावने ॥
८,०९२.२७ पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः ।
८,०९२.२७ अरं गमाम ते वयम् ॥
८,०९२.२८ एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
८,०९२.२८ एवा ते राध्यं मनः ॥
८,०९२.२९ एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
८,०९२.२९ अधा चिदिन्द्र मे सचा ॥
८,०९२.३० मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।
८,०९२.३० मत्स्वा सुतस्य गोमतः ॥
८,०९२.३१ मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन् ।
८,०९२.३१ त्वा युजा वनेम तत् ॥
८,०९२.३२ त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः ।
८,०९२.३२ त्वमस्माकं तव स्मसि ॥
८,०९२.३३ त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् ।
८,०९२.३३ सखाय इन्द्र कारवः ॥
८,०९३.०१ उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
८,०९३.०१ अस्तारमेषि सूर्य ॥
८,०९३.०२ नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
८,०९३.०२ अहिं च वृत्रहावधीत् ॥
८,०९३.०३ स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
८,०९३.०३ उरुधारेव दोहते ॥
८,०९३.०४ यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।
८,०९३.०४ सर्वं तदिन्द्र ते वशे ॥
८,०९३.०५ यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
८,०९३.०५ उतो तत्सत्यमित्तव ॥
८,०९३.०६ ये सोमासः परावति ये अर्वावति सुन्विरे ।
८,०९३.०६ सर्वांस्तां इन्द्र गच्छसि ॥
८,०९३.०७ तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
८,०९३.०७ स वृषा वृषभो भुवत् ॥
८,०९३.०८ इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
८,०९३.०८ द्युम्नी श्लोकी स सोम्यः ॥
८,०९३.०९ गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
८,०९३.०९ ववक्ष ऋष्वो अस्तृतः ॥
८,०९३.१० दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः ।
८,०९३.१० त्वं च मघवन्वशः ॥
८,०९३.११ यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् ।
८,०९३.११ न देवो नाध्रिगुर्जनः ॥
८,०९३.१२ अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।
८,०९३.१२ उभे सुशिप्र रोदसी ॥
८,०९३.१३ त्वमेतदधारयः कृष्णासु रोहिणीषु च ।
८,०९३.१३ परुष्णीषु रुशत्पयः ॥
८,०९३.१४ वि यदहेरध त्विषो विश्वे देवासो अक्रमुः ।
८,०९३.१४ विदन्मृगस्य तां अमः ॥
८,०९३.१५ आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् ।
८,०९३.१५ अजातशत्रुरस्तृतः ॥
८,०९३.१६ श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् ।
८,०९३.१६ आ शुषे राधसे महे ॥
८,०९३.१७ अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
८,०९३.१७ यत्सोमेसोम आभवः ॥
८,०९३.१८ बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।
८,०९३.१८ शृणोतु शक्र आशिषम् ॥
८,०९३.१९ कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
८,०९३.१९ कया स्तोतृभ्य आ भर ॥
८,०९३.२० कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् ।
८,०९३.२० वृत्रहा सोमपीतये ॥
८,०९३.२१ अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् ।
८,०९३.२१ प्रयन्ता बोधि दाशुषे ॥
८,०९३.२२ पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
८,०९३.२२ अपां जग्मिर्निचुम्पुणः ॥
८,०९३.२३ इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
८,०९३.२३ अच्छावभृथमोजसा ॥
८,०९३.२४ इह त्या सधमाद्या हरी हिरण्यकेश्या ।
८,०९३.२४ वोळ्हामभि प्रयो हितम् ॥
८,०९३.२५ तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो ।
८,०९३.२५ स्तोतृभ्य इन्द्रमा वह ॥
८,०९३.२६ आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे ।
८,०९३.२६ स्तोतृभ्य इन्द्रमर्चत ॥
८,०९३.२७ आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो ।
८,०९३.२७ स्तोतृभ्य इन्द्र मृळय ॥
८,०९३.२८ भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो ।
८,०९३.२८ यदिन्द्र मृळयासि नः ॥
८,०९३.२९ स नो विश्वान्या भर सुवितानि शतक्रतो ।
८,०९३.२९ यदिन्द्र मृळयासि नः ॥
८,०९३.३० त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे ।
८,०९३.३० यदिन्द्र मृळयासि नः ॥
८,०९३.३१ उप नो हरिभिः सुतं याहि मदानां पते ।
८,०९३.३१ उप नो हरिभिः सुतम् ॥
८,०९३.३२ द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
८,०९३.३२ उप नो हरिभिः सुतम् ॥
८,०९३.३३ त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
८,०९३.३३ उप नो हरिभिः सुतम् ॥
८,०९३.३४ इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् ।
८,०९३.३४ वाजी ददातु वाजिनम् ॥
८,०९४.०१ गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् ।
८,०९४.०१ युक्ता वह्नी रथानाम् ॥
८,०९४.०२ यस्या देवा उपस्थे व्रता विश्वे धारयन्ते ।
८,०९४.०२ सूर्यामासा दृशे कम् ॥
८,०९४.०३ तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
८,०९४.०३ मरुतः सोमपीतये ॥
८,०९४.०४ अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
८,०९४.०४ उत स्वराजो अश्विना ॥
८,०९४.०५ पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
८,०९४.०५ त्रिषधस्थस्य जावतः ॥
८,०९४.०६ उतो न्वस्य जोषमां इन्द्रः सुतस्य गोमतः ।
८,०९४.०६ प्रातर्होतेव मत्सति ॥
८,०९४.०७ कदत्विषन्त सूरयस्तिर आप इव स्रिधः ।
८,०९४.०७ अर्षन्ति पूतदक्षसः ॥
८,०९४.०८ कद्वो अद्य महानां देवानामवो वृणे ।
८,०९४.०८ त्मना च दस्मवर्चसाम् ॥
८,०९४.०९ आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः ।
८,०९४.०९ मरुतः सोमपीतये ॥
८,०९४.१० त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे ।
८,०९४.१० अस्य सोमस्य पीतये ॥
८,०९४.११ त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे ।
८,०९४.११ अस्य सोमस्य पीतये ॥
८,०९४.१२ त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।
८,०९४.१२ अस्य सोमस्य पीतये ॥
८,०९५.०१ आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः ।
८,०९५.०१ अभि त्वा समनूषतेन्द्र वत्सं न मातरः ॥
८,०९५.०२ आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
८,०९५.०२ पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥
८,०९५.०३ पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् ।
८,०९५.०३ त्वं हि शश्वतीनां पती राजा विशामसि ॥
८,०९५.०४ श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
८,०९५.०४ सुवीर्यस्य गोमतो रायस्पूर्धि महां असि ॥
८,०९५.०५ इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत् ।
८,०९५.०५ चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥
८,०९५.०६ तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
८,०९५.०६ पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥
८,०९५.०७ एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
८,०९५.०७ शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥
८,०९५.०८ इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
८,०९५.०८ शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥
८,०९५.०९ इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
८,०९५.०९ शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥
८,०९६.०१ अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
८,०९६.०१ अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥
८,०९६.०२ अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् ।
८,०९६.०२ न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥
८,०९६.०३ इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः ।
८,०९६.०३ शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके ॥
८,०९६.०४ मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् ।
८,०९६.०४ मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम् ॥
८,०९६.०५ आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ ।
८,०९६.०५ प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥
८,०९६.०६ तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् ।
८,०९६.०६ इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥
८,०९६.०७ वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।
८,०९६.०७ मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥
८,०९६.०८ त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः ।
८,०९६.०८ उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥
८,०९६.०९ तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष ।
८,०९६.०९ अनायुधासो असुरा अदेवाश्चक्रेण तां अप वप ऋजीषिन् ॥
८,०९६.१० मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः ।
८,०९६.१० गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् ॥
८,०९६.११ उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम् ।
८,०९६.११ नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् ॥
८,०९६.१२ तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास ।
८,०९६.१२ उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत् ॥
८,०९६.१३ अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
८,०९६.१३ आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥
८,०९६.१४ द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
८,०९६.१४ नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥
८,०९६.१५ अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
८,०९६.१५ विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥
८,०९६.१६ त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
८,०९६.१६ गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥
८,०९६.१७ त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
८,०९६.१७ त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥
८,०९६.१८ त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
८,०९६.१८ त्वं सिन्धूंरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥
८,०९६.१९ स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।
८,०९६.१९ य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥
८,०९६.२० स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
८,०९६.२० स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥
८,०९६.२१ स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
८,०९६.२१ कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥
८,०९७.०१ या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः ।
८,०९७.०१ स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥
८,०९७.०२ यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
८,०९७.०२ यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥
८,०९७.०३ य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः ।
८,०९७.०३ स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं ततः ॥
८,०९७.०४ यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
८,०९७.०४ अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति ॥
८,०९७.०५ यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि ।
८,०९७.०५ यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि ॥
८,०९७.०६ स नः सोमेषु सोमपाः सुतेषु शवसस्पते ।
८,०९७.०६ मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥
८,०९७.०७ मा न इन्द्र परा वृणग्भवा नः सधमाद्यः ।
८,०९७.०७ त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥
८,०९७.०८ अस्मे इन्द्र सचा सुते नि षदा पीतये मधु ।
८,०९७.०८ कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते ॥
८,०९७.०९ न त्वा देवास आशत न मर्त्यासो अद्रिवः ।
८,०९७.०९ विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥
८,०९७.१० विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
८,०९७.१० क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥
८,०९७.११ समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये ।
८,०९७.११ स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥
८,०९७.१२ नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
८,०९७.१२ सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥
८,०९७.१३ तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
८,०९७.१३ मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥
८,०९७.१४ त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै ।
८,०९७.१४ त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥
८,०९७.१५ तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि ।
८,०९७.१५ कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥
८,०९८.०१ इन्द्राय साम गायत विप्राय बृहते बृहत् ।
८,०९८.०१ धर्मकृते विपश्चिते पनस्यवे ॥
८,०९८.०२ त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
८,०९८.०२ विश्वकर्मा विश्वदेवो महां असि ॥
८,०९८.०३ विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
८,०९८.०३ देवास्त इन्द्र सख्याय येमिरे ॥
८,०९८.०४ एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
८,०९८.०४ गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥
८,०९८.०५ अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
८,०९८.०५ इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥
८,०९८.०६ त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
८,०९८.०६ हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥
८,०९८.०७ अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे ।
८,०९८.०७ उदेव यन्त उदभिः ॥
८,०९८.०८ वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
८,०९८.०८ वावृध्वांसं चिदद्रिवो दिवेदिवे ॥
८,०९८.०९ युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
८,०९८.०९ इन्द्रवाहा वचोयुजा ॥
८,०९८.१० त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे ।
८,०९८.१० आ वीरं पृतनाषहम् ॥
८,०९८.११ त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
८,०९८.११ अधा ते सुम्नमीमहे ॥
८,०९८.१२ त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
८,०९८.१२ स नो रास्व सुवीर्यम् ॥
८,०९९.०१ त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
८,०९९.०१ स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि ॥
८,०९९.०२ मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः ।
८,०९९.०२ तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ॥
८,०९९.०३ श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
८,०९९.०३ वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥
८,०९९.०४ अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
८,०९९.०४ सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥
८,०९९.०५ त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
८,०९९.०५ अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥
८,०९९.०६ अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
८,०९९.०६ विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥
८,०९९.०७ इत ऊती वो अजरं प्रहेतारमप्रहितम् ।
८,०९९.०७ आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥
८,०९९.०८ इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् ।
८,०९९.०८ समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम् ॥
८,१००.०१ अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात् ।
८,१००.०१ यदा मह्यं दीधरो भागमिन्द्रादिन्मया कृणवो वीर्याणि ॥
८,१००.०२ दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः ।
८,१००.०२ असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि ॥
८,१००.०३ प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति ।
८,१००.०३ नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम ॥
८,१००.०४ अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना ।
८,१००.०४ ऋतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि ॥
८,१००.०५ आ यन्मा वेना अरुहन्नृतस्यं एकमासीनं हर्यतस्य पृष्ठे ।
८,१००.०५ मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः ॥
८,१००.०६ विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते ।
८,१००.०६ पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥
८,१००.०७ प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् ।
८,१००.०७ नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् ॥
८,१००.०८ मनोजवा अयमान आयसीमतरत्पुरम् ।
८,१००.०८ दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥
८,१००.०९ समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः ।
८,१००.०९ भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् ॥
८,१००.१० यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
८,१००.१० चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥
८,१००.११ देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
८,१००.११ सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥
८,१००.१२ सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे ।
८,१००.१२ हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥
८,१०१.०१ ऋधगित्था स मर्त्यः शशमे देवतातये ।
८,१०१.०१ यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥
८,१०१.०२ वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा ।
८,१०१.०२ ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥
८,१०१.०३ प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् ।
८,१०१.०३ अयःशीर्षा मदेरघुः ॥
८,१०१.०४ न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते ।
८,१०१.०४ तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम् ॥
८,१०१.०५ प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो ।
८,१०१.०५ वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥
८,१०१.०६ ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम् ।
८,१०१.०६ ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥
८,१०१.०७ आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा ।
८,१०१.०७ उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥
८,१०१.०८ रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।
८,१०१.०८ प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना ॥
८,१०१.०९ आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
८,१०१.०९ अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते ॥
८,१०१.१० वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये ।
८,१०१.१० अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥
८,१०१.११ बण्महां असि सूर्य बळ् आदित्य महां असि ।
८,१०१.११ महस्ते सतो महिमा पनस्यतेऽद्धा देव महां असि ॥
८,१०१.१२ बट्सूर्य श्रवसा महां असि सत्रा देव महां असि ।
८,१०१.१२ मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥
८,१०१.१३ इयं या नीच्यर्किणी रूपा रोहिण्या कृता ।
८,१०१.१३ चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु ॥
८,१०१.१४ प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे ।
८,१०१.१४ बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ॥
८,१०१.१५ माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।
८,१०१.१५ प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥
८,१०१.१६ वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम् ।
८,१०१.१६ देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः ॥
८,१०२.०१ त्वमग्ने बृहद्वयो दधासि देव दाशुषे ।
८,१०२.०१ कविर्गृहपतिर्युवा ॥
८,१०२.०२ स न ईळानया सह देवां अग्ने दुवस्युवा ।
८,१०२.०२ चिकिद्विभानवा वह ॥
८,१०२.०३ त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य ।
८,१०२.०३ अभि ष्मो वाजसातये ॥
८,१०२.०४ और्वभृगुवच्छुचिमप्नवानवदा हुवे ।
८,१०२.०४ अग्निं समुद्रवाससम् ॥
८,१०२.०५ हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः ।
८,१०२.०५ अग्निं समुद्रवाससम् ॥
८,१०२.०६ आ सवं सवितुर्यथा भगस्येव भुजिं हुवे ।
८,१०२.०६ अग्निं समुद्रवाससम् ॥
८,१०२.०७ अग्निं वो वृधन्तमध्वराणां पुरूतमम् ।
८,१०२.०७ अच्छा नप्त्रे सहस्वते ॥
८,१०२.०८ अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।
८,१०२.०८ अस्य क्रत्वा यशस्वतः ॥
८,१०२.०९ अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।
८,१०२.०९ आ वाजैरुप नो गमत् ॥
८,१०२.१० विश्वेषामिह स्तुहि होतॄणां यशस्तमम् ।
८,१०२.१० अग्निं यज्ञेषु पूर्व्यम् ॥
८,१०२.११ शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा ।
८,१०२.११ दीदाय दीर्घश्रुत्तमः ॥
८,१०२.१२ तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् ।
८,१०२.१२ मित्रं न यातयज्जनम् ॥
८,१०२.१३ उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
८,१०२.१३ वायोरनीके अस्थिरन् ॥
८,१०२.१४ यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् ।
८,१०२.१४ आपश्चिन्नि दधा पदम् ॥
८,१०२.१५ पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः ।
८,१०२.१५ भद्रा सूर्य इवोपदृक् ॥
८,१०२.१६ अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा ।
८,१०२.१६ आ देवान्वक्षि यक्षि च ॥
८,१०२.१७ तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः ।
८,१०२.१७ हव्यवाहममर्त्यम् ॥
८,१०२.१८ प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् ।
८,१०२.१८ हव्यवाहं नि षेदिरे ॥
८,१०२.१९ नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति ।
८,१०२.१९ अथैतादृग्भरामि ते ॥
८,१०२.२० यदग्ने कानि कानि चिदा ते दारूणि दध्मसि ।
८,१०२.२० ता जुषस्व यविष्ठ्य ॥
८,१०२.२१ यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति ।
८,१०२.२१ सर्वं तदस्तु ते घृतम् ॥
८,१०२.२२ अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।
८,१०२.२२ अग्निमीधे विवस्वभिः ॥
८,१०३.०१ अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
८,१०३.०१ उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥
८,१०३.०२ प्र दैवोदासो अग्निर्देवां अच्छा न मज्मना ।
८,१०३.०२ अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥
८,१०३.०३ यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
८,१०३.०३ सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥
८,१०३.०४ प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् ।
८,१०३.०४ स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥
८,१०३.०५ स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः ।
८,१०३.०५ त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥
८,१०३.०६ यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
८,१०३.०६ मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥
८,१०३.०७ अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
८,१०३.०७ उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥
८,१०३.०८ प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
८,१०३.०८ उपस्तुतासो अग्नये ॥
८,१०३.०९ आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।
८,१०३.०९ कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥
८,१०३.१० प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् ।
८,१०३.१० अग्निं रथानां यमम् ॥
८,१०३.११ उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति ।
८,१०३.११ दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥
८,१०३.१२ मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः ।
८,१०३.१२ यः सुहोता स्वध्वरः ॥
८,१०३.१३ मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः ।
८,१०३.१३ कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥
८,१०३.१४ आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।
८,१०३.१४ सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥
ऋग्वेद ९
९,००१.०१ स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
९,००१.०१ इन्द्राय पातवे सुतः ॥
९,००१.०२ रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् ।
९,००१.०२ द्रुणा सधस्थमासदत् ॥
९,००१.०३ वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः ।
९,००१.०३ पर्षि राधो मघोनाम् ॥
९,००१.०४ अभ्यर्ष महानां देवानां वीतिमन्धसा ।
९,००१.०४ अभि वाजमुत श्रवः ॥
९,००१.०५ त्वामच्छा चरामसि तदिदर्थं दिवेदिवे ।
९,००१.०५ इन्दो त्वे न आशसः ॥
९,००१.०६ पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
९,००१.०६ वारेण शश्वता तना ॥
९,००१.०७ तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश ।
९,००१.०७ स्वसारः पार्ये दिवि ॥
९,००१.०८ तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम् ।
९,००१.०८ त्रिधातु वारणं मधु ॥
९,००१.०९ अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् ।
९,००१.०९ सोममिन्द्राय पातवे ॥
९,००१.१० अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते ।
९,००१.१० शूरो मघा च मंहते ॥
९,००२.०१ पवस्व देववीरति पवित्रं सोम रंह्या ।
९,००२.०१ इन्द्रमिन्दो वृषा विश ॥
९,००२.०२ आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः ।
९,००२.०२ आ योनिं धर्णसिः सदः ॥
९,००२.०३ अधुक्षत प्रियं मधु धारा सुतस्य वेधसः ।
९,००२.०३ अपो वसिष्ट सुक्रतुः ॥
९,००२.०४ महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः ।
९,००२.०४ यद्गोभिर्वासयिष्यसे ॥
९,००२.०५ समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
९,००२.०५ सोमः पवित्रे अस्मयुः ॥
९,००२.०६ अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।
९,००२.०६ सं सूर्येण रोचते ॥
९,००२.०७ गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः ।
९,००२.०७ याभिर्मदाय शुम्भसे ॥
९,००२.०८ तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे ।
९,००२.०८ तव प्रशस्तयो महीः ॥
९,००२.०९ अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया ।
९,००२.०९ पर्जन्यो वृष्टिमां इव ॥
९,००२.१० गोषा इन्दो नृषा अस्यश्वसा वाजसा उत ।
९,००२.१० आत्मा यज्ञस्य पूर्व्यः ॥
९,००३.०१ एष देवो अमर्त्यः पर्णवीरिव दीयति ।
९,००३.०१ अभि द्रोणान्यासदम् ॥
९,००३.०२ एष देवो विपा कृतोऽति ह्वरांसि धावति ।
९,००३.०२ पवमानो अदाभ्यः ॥
९,००३.०३ एष देवो विपन्युभिः पवमान ऋतायुभिः ।
९,००३.०३ हरिर्वाजाय मृज्यते ॥
९,००३.०४ एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
९,००३.०४ पवमानः सिषासति ॥
९,००३.०५ एष देवो रथर्यति पवमानो दशस्यति ।
९,००३.०५ आविष्कृणोति वग्वनुम् ॥
९,००३.०६ एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
९,००३.०६ दधद्रत्नानि दाशुषे ॥
९,००३.०७ एष दिवं वि धावति तिरो रजांसि धारया ।
९,००३.०७ पवमानः कनिक्रदत् ॥
९,००३.०८ एष दिवं व्यासरत्तिरो रजांस्यस्पृतः ।
९,००३.०८ पवमानः स्वध्वरः ॥
९,००३.०९ एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
९,००३.०९ हरिः पवित्रे अर्षति ॥
९,००३.१० एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
९,००३.१० धारया पवते सुतः ॥
९,००४.०१ सना च सोम जेषि च पवमान महि श्रवः ।
९,००४.०१ अथा नो वस्यसस्कृधि ॥
९,००४.०२ सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा ।
९,००४.०२ अथा नो वस्यसस्कृधि ॥
९,००४.०३ सना दक्षमुत क्रतुमप सोम मृधो जहि ।
९,००४.०३ अथा नो वस्यसस्कृधि ॥
९,००४.०४ पवीतारः पुनीतन सोममिन्द्राय पातवे ।
९,००४.०४ अथा नो वस्यसस्कृधि ॥
९,००४.०५ त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः ।
९,००४.०५ अथा नो वस्यसस्कृधि ॥
९,००४.०६ तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् ।
९,००४.०६ अथा नो वस्यसस्कृधि ॥
९,००४.०७ अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् ।
९,००४.०७ अथा नो वस्यसस्कृधि ॥
९,००४.०८ अभ्यर्षानपच्युतो रयिं समत्सु सासहिः ।
९,००४.०८ अथा नो वस्यसस्कृधि ॥
९,००४.०९ त्वां यज्ञैरवीवृधन्पवमान विधर्मणि ।
९,००४.०९ अथा नो वस्यसस्कृधि ॥
९,००४.१० रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर ।
९,००४.१० अथा नो वस्यसस्कृधि ॥
९,००५.०१ समिद्धो विश्वतस्पतिः पवमानो वि राजति ।
९,००५.०१ प्रीणन्वृषा कनिक्रदत् ॥
९,००५.०२ तनूनपात्पवमानः शृङ्गे शिशानो अर्षति ।
९,००५.०२ अन्तरिक्षेण रारजत् ॥
९,००५.०३ ईळेन्यः पवमानो रयिर्वि राजति द्युमान् ।
९,००५.०३ मधोर्धाराभिरोजसा ॥
९,००५.०४ बर्हिः प्राचीनमोजसा पवमान स्तृणन्हरिः ।
९,००५.०४ देवेषु देव ईयते ॥
९,००५.०५ उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः ।
९,००५.०५ पवमानेन सुष्टुताः ॥
९,००५.०६ सुशिल्पे बृहती मही पवमानो वृषण्यति ।
९,००५.०६ नक्तोषासा न दर्शते ॥
९,००५.०७ उभा देवा नृचक्षसा होतारा दैव्या हुवे ।
९,००५.०७ पवमान इन्द्रो वृषा ॥
९,००५.०८ भारती पवमानस्य सरस्वतीळा मही ।
९,००५.०८ इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः ॥
९,००५.०९ त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे ।
९,००५.०९ इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥
९,००५.१० वनस्पतिं पवमान मध्वा समङ्ग्धि धारया ।
९,००५.१० सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् ॥
९,००५.११ विश्वे देवाः स्वाहाकृतिं पवमानस्या गत ।
९,००५.११ वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः ॥
९,००६.०१ मन्द्रया सोम धारया वृषा पवस्व देवयुः ।
९,००६.०१ अव्यो वारेष्वस्मयुः ॥
९,००६.०२ अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर ।
९,००६.०२ अभि वाजिनो अर्वतः ॥
९,००६.०३ अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ ।
९,००६.०३ अभि वाजमुत श्रवः ॥
९,००६.०४ अनु द्रप्सास इन्दव आपो न प्रवतासरन् ।
९,००६.०४ पुनाना इन्द्रमाशत ॥
९,००६.०५ यमत्यमिव वाजिनं मृजन्ति योषणो दश ।
९,००६.०५ वने क्रीळन्तमत्यविम् ॥
९,००६.०६ तं गोभिर्वृषणं रसं मदाय देववीतये ।
९,००६.०६ सुतं भराय सं सृज ॥
९,००६.०७ देवो देवाय धारयेन्द्राय पवते सुतः ।
९,००६.०७ पयो यदस्य पीपयत् ॥
९,००६.०८ आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः ।
९,००६.०८ प्रत्नं नि पाति काव्यम् ॥
९,००६.०९ एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये ।
९,००६.०९ गुहा चिद्दधिषे गिरः ॥
९,००७.०१ असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः ।
९,००७.०१ विदाना अस्य योजनम् ॥
९,००७.०२ प्र धारा मध्वो अग्रियो महीरपो वि गाहते ।
९,००७.०२ हविर्हविष्षु वन्द्यः ॥
९,००७.०३ प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने ।
९,००७.०३ सद्माभि सत्यो अध्वरः ॥
९,००७.०४ परि यत्काव्या कविर्नृम्णा वसानो अर्षति ।
९,००७.०४ स्वर्वाजी सिषासति ॥
९,००७.०५ पवमानो अभि स्पृधो विशो राजेव सीदति ।
९,००७.०५ यदीमृण्वन्ति वेधसः ॥
९,००७.०६ अव्यो वारे परि प्रियो हरिर्वनेषु सीदति ।
९,००७.०६ रेभो वनुष्यते मती ॥
९,००७.०७ स वायुमिन्द्रमश्विना साकं मदेन गच्छति ।
९,००७.०७ रणा यो अस्य धर्मभिः ॥
९,००७.०८ आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः ।
९,००७.०८ विदाना अस्य शक्मभिः ॥
९,००७.०९ अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये ।
९,००७.०९ श्रवो वसूनि सं जितम् ॥
९,००८.०१ एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।
९,००८.०१ वर्धन्तो अस्य वीर्यम् ॥
९,००८.०२ पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।
९,००८.०२ ते नो धान्तु सुवीर्यम् ॥
९,००८.०३ इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
९,००८.०३ ऋतस्य योनिमासदम् ॥
९,००८.०४ मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः ।
९,००८.०४ अनु विप्रा अमादिषुः ॥
९,००८.०५ देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।
९,००८.०५ सं गोभिर्वासयामसि ॥
९,००८.०६ पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।
९,००८.०६ परि गव्यान्यव्यत ॥
९,००८.०७ मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
९,००८.०७ इन्दो सखायमा विश ॥
९,००८.०८ वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।
९,००८.०८ सहो नः सोम पृत्सु धाः ॥
९,००८.०९ नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् ।
९,००८.०९ भक्षीमहि प्रजामिषम् ॥
९,००९.०१ परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
९,००९.०१ सुवानो याति कविक्रतुः ॥
९,००९.०२ प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे ।
९,००९.०२ वीत्यर्ष चनिष्ठया ॥
९,००९.०३ स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।
९,००९.०३ महान्मही ऋतावृधा ॥
९,००९.०४ स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः ।
९,००९.०४ या एकमक्षि वावृधुः ॥
९,००९.०५ ता अभि सन्तमस्तृतं महे युवानमा दधुः ।
९,००९.०५ इन्दुमिन्द्र तव व्रते ॥
९,००९.०६ अभि वह्निरमर्त्यः सप्त पश्यति वावहिः ।
९,००९.०६ क्रिविर्देवीरतर्पयत् ॥
९,००९.०७ अवा कल्पेषु नः पुमस्तमांसि सोम योध्या ।
९,००९.०७ तानि पुनान जङ्घनः ॥
९,००९.०८ नू नव्यसे नवीयसे सूक्ताय साधया पथः ।
९,००९.०८ प्रत्नवद्रोचया रुचः ॥
९,००९.०९ पवमान महि श्रवो गामश्वं रासि वीरवत् ।
९,००९.०९ सना मेधां सना स्वः ॥
९,०१०.०१ प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः ।
९,०१०.०१ सोमासो राये अक्रमुः ॥
९,०१०.०२ हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।
९,०१०.०२ भरासः कारिणामिव ॥
९,०१०.०३ राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते ।
९,०१०.०३ यज्ञो न सप्त धातृभिः ॥
९,०१०.०४ परि सुवानास इन्दवो मदाय बर्हणा गिरा ।
९,०१०.०४ सुता अर्षन्ति धारया ॥
९,०१०.०५ आपानासो विवस्वतो जनन्त उषसो भगम् ।
९,०१०.०५ सूरा अण्वं वि तन्वते ॥
९,०१०.०६ अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः ।
९,०१०.०६ वृष्णो हरस आयवः ॥
९,०१०.०७ समीचीनास आसते होतारः सप्तजामयः ।
९,०१०.०७ पदमेकस्य पिप्रतः ॥
९,०१०.०८ नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा ।
९,०१०.०८ कवेरपत्यमा दुहे ॥
९,०१०.०९ अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितम् ।
९,०१०.०९ सूरः पश्यति चक्षसा ॥
९,०११.०१ उपास्मै गायता नरः पवमानायेन्दवे ।
९,०११.०१ अभि देवां इयक्षते ॥
९,०११.०२ अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः ।
९,०११.०२ देवं देवाय देवयु ॥
९,०११.०३ स नः पवस्व शं गवे शं जनाय शमर्वते ।
९,०११.०३ शं राजन्नोषधीभ्यः ॥
९,०११.०४ बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।
९,०११.०४ सोमाय गाथमर्चत ॥
९,०११.०५ हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन ।
९,०११.०५ मधावा धावता मधु ॥
९,०११.०६ नमसेदुप सीदत दध्नेदभि श्रीणीतन ।
९,०११.०६ इन्दुमिन्द्रे दधातन ॥
९,०११.०७ अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
९,०११.०७ देवेभ्यो अनुकामकृत् ॥
९,०११.०८ इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
९,०११.०८ मनश्चिन्मनसस्पतिः ॥
९,०११.०९ पवमान सुवीर्यं रयिं सोम रिरीहि नः ।
९,०११.०९ इन्दविन्द्रेण नो युजा ॥
९,०१२.०१ सोमा असृग्रमिन्दवः सुता ऋतस्य सादने ।
९,०१२.०१ इन्द्राय मधुमत्तमाः ॥
९,०१२.०२ अभि विप्रा अनूषत गावो वत्सं न मातरः ।
९,०१२.०२ इन्द्रं सोमस्य पीतये ॥
९,०१२.०३ मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।
९,०१२.०३ सोमो गौरी अधि श्रितः ॥
९,०१२.०४ दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।
९,०१२.०४ सोमो यः सुक्रतुः कविः ॥
९,०१२.०५ यः सोमः कलशेष्वां अन्तः पवित्र आहितः ।
९,०१२.०५ तमिन्दुः परि षस्वजे ॥
९,०१२.०६ प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।
९,०१२.०६ जिन्वन्कोशं मधुश्चुतम् ॥
९,०१२.०७ नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः ।
९,०१२.०७ हिन्वानो मानुषा युगा ॥
९,०१२.०८ अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति ।
९,०१२.०८ विप्रस्य धारया कविः ॥
९,०१२.०९ आ पवमान धारय रयिं सहस्रवर्चसम् ।
९,०१२.०९ अस्मे इन्दो स्वाभुवम् ॥
९,०१३.०१ सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।
९,०१३.०१ वायोरिन्द्रस्य निष्कृतम् ॥
९,०१३.०२ पवमानमवस्यवो विप्रमभि प्र गायत ।
९,०१३.०२ सुष्वाणं देववीतये ॥
९,०१३.०३ पवन्ते वाजसातये सोमाः सहस्रपाजसः ।
९,०१३.०३ गृणाना देववीतये ॥
९,०१३.०४ उत नो वाजसातये पवस्व बृहतीरिषः ।
९,०१३.०४ द्युमदिन्दो सुवीर्यम् ॥
९,०१३.०५ ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् ।
९,०१३.०५ सुवाना देवास इन्दवः ॥
९,०१३.०६ अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।
९,०१३.०६ वि वारमव्यमाशवः ॥
९,०१३.०७ वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः ।
९,०१३.०७ दधन्विरे गभस्त्योः ॥
९,०१३.०८ जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।
९,०१३.०८ विश्वा अप द्विषो जहि ॥
९,०१३.०९ अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।
९,०१३.०९ योनावृतस्य सीदत ॥
९,०१४.०१ परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः ।
९,०१४.०१ कारं बिभ्रत्पुरुस्पृहम् ॥
९,०१४.०२ गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः ।
९,०१४.०२ परिष्कृण्वन्ति धर्णसिम् ॥
९,०१४.०३ आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत ।
९,०१४.०३ यदी गोभिर्वसायते ॥
९,०१४.०४ निरिणानो वि धावति जहच्छर्याणि तान्वा ।
९,०१४.०४ अत्रा सं जिघ्नते युजा ॥
९,०१४.०५ नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा ।
९,०१४.०५ गाः कृण्वानो न निर्णिजम् ॥
९,०१४.०६ अति श्रिती तिरश्चता गव्या जिगात्यण्व्या ।
९,०१४.०६ वग्नुमियर्ति यं विदे ॥
९,०१४.०७ अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम् ।
९,०१४.०७ पृष्ठा गृभ्णत वाजिनः ॥
९,०१४.०८ परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा ।
९,०१४.०८ वसूनि याह्यस्मयुः ॥
९,०१५.०१ एष धिया यात्यण्व्या शूरो रथेभिराशुभिः ।
९,०१५.०१ गच्छन्निन्द्रस्य निष्कृतम् ॥
९,०१५.०२ एष पुरू धियायते बृहते देवतातये ।
९,०१५.०२ यत्रामृतास आसते ॥
९,०१५.०३ एष हितो वि नीयतेऽन्तः शुभ्रावता पथा ।
९,०१५.०३ यदी तुञ्जन्ति भूर्णयः ॥
९,०१५.०४ एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा ।
९,०१५.०४ नृम्णा दधान ओजसा ॥
९,०१५.०५ एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः ।
९,०१५.०५ पतिः सिन्धूनां भवन् ॥
९,०१५.०६ एष वसूनि पिब्दना परुषा ययिवां अति ।
९,०१५.०६ अव शादेषु गच्छति ॥
९,०१५.०७ एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
९,०१५.०७ प्रचक्राणं महीरिषः ॥
९,०१५.०८ एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः ।
९,०१५.०८ स्वायुधं मदिन्तमम् ॥
९,०१६.०१ प्र ते सोतार ओण्यो रसं मदाय घृष्वये ।
९,०१६.०१ सर्गो न तक्त्येतशः ॥
९,०१६.०२ क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा ।
९,०१६.०२ गोषामण्वेषु सश्चिम ॥
९,०१६.०३ अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज ।
९,०१६.०३ पुनीहीन्द्राय पातवे ॥
९,०१६.०४ प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति ।
९,०१६.०४ क्रत्वा सधस्थमासदत् ॥
९,०१६.०५ प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत ।
९,०१६.०५ महे भराय कारिणः ॥
९,०१६.०६ पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः ।
९,०१६.०६ शूरो न गोषु तिष्ठति ॥
९,०१६.०७ दिवो न सानु पिप्युषी धारा सुतस्य वेधसः ।
९,०१६.०७ वृथा पवित्रे अर्षति ॥
९,०१६.०८ त्वं सोम विपश्चितं तना पुनान आयुषु ।
९,०१६.०८ अव्यो वारं वि धावसि ॥
९,०१७.०१ प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः ।
९,०१७.०१ सोमा असृग्रमाशवः ॥
९,०१७.०२ अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव ।
९,०१७.०२ इन्द्रं सोमासो अक्षरन् ॥
९,०१७.०३ अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति ।
९,०१७.०३ विघ्नन्रक्षांसि देवयुः ॥
९,०१७.०४ आ कलशेषु धावति पवित्रे परि षिच्यते ।
९,०१७.०४ उक्थैर्यज्ञेषु वर्धते ॥
९,०१७.०५ अति त्री सोम रोचना रोहन्न भ्राजसे दिवम् ।
९,०१७.०५ इष्णन्सूर्यं न चोदयः ॥
९,०१७.०६ अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः ।
९,०१७.०६ दधानाश्चक्षसि प्रियम् ॥
९,०१७.०७ तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः ।
९,०१७.०७ मृजन्ति देवतातये ॥
९,०१७.०८ मधोर्धारामनु क्षर तीव्रः सधस्थमासदः ।
९,०१७.०८ चारुरृताय पीतये ॥
९,०१८.०१ परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः ।
९,०१८.०१ मदेषु सर्वधा असि ॥
९,०१८.०२ त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
९,०१८.०२ मदेषु सर्वधा असि ॥
९,०१८.०३ तव विश्वे सजोषसो देवासः पीतिमाशत ।
९,०१८.०३ मदेषु सर्वधा असि ॥
९,०१८.०४ आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे ।
९,०१८.०४ मदेषु सर्वधा असि ॥
९,०१८.०५ य इमे रोदसी मही सं मातरेव दोहते ।
९,०१८.०५ मदेषु सर्वधा असि ॥
९,०१८.०६ परि यो रोदसी उभे सद्यो वाजेभिरर्षति ।
९,०१८.०६ मदेषु सर्वधा असि ॥
९,०१८.०७ स शुष्मी कलशेष्वा पुनानो अचिक्रदत् ।
९,०१८.०७ मदेषु सर्वधा असि ॥
९,०१९.०१ यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु ।
९,०१९.०१ तन्नः पुनान आ भर ॥
९,०१९.०२ युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती ।
९,०१९.०२ ईशाना पिप्यतं धियः ॥
९,०१९.०३ वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि ।
९,०१९.०३ हरिः सन्योनिमासदत् ॥
९,०१९.०४ अवावशन्त धीतयो वृषभस्याधि रेतसि ।
९,०१९.०४ सूनोर्वत्सस्य मातरः ॥
९,०१९.०५ कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत् ।
९,०१९.०५ याः शुक्रं दुहते पयः ॥
९,०१९.०६ उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु ।
९,०१९.०६ पवमान विदा रयिम् ॥
९,०१९.०७ नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर ।
९,०१९.०७ दूरे वा सतो अन्ति वा ॥
९,०२०.०१ प्र कविर्देववीतयेऽव्यो वारेभिरर्षति ।
९,०२०.०१ साह्वान्विश्वा अभि स्पृधः ॥
९,०२०.०२ स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति ।
९,०२०.०२ पवमानः सहस्रिणम् ॥
९,०२०.०३ परि विश्वानि चेतसा मृशसे पवसे मती ।
९,०२०.०३ स नः सोम श्रवो विदः ॥
९,०२०.०४ अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् ।
९,०२०.०४ इषं स्तोतृभ्य आ भर ॥
९,०२०.०५ त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ ।
९,०२०.०५ पुनानो वह्ने अद्भुत ॥
९,०२०.०६ स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।
९,०२०.०६ सोमश्चमूषु सीदति ॥
९,०२०.०७ क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।
९,०२०.०७ दधत्स्तोत्रे सुवीर्यम् ॥
९,०२१.०१ एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः ।
९,०२१.०१ मत्सरासः स्वर्विदः ॥
९,०२१.०२ प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः ।
९,०२१.०२ स्वयं स्तोत्रे वयस्कृतः ॥
९,०२१.०३ वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् ।
९,०२१.०३ सिन्धोरूर्मा व्यक्षरन् ॥
९,०२१.०४ एते विश्वानि वार्या पवमानास आशत ।
९,०२१.०४ हिता न सप्तयो रथे ॥
९,०२१.०५ आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे ।
९,०२१.०५ यो अस्मभ्यमरावा ॥
९,०२१.०६ ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।
९,०२१.०६ शुक्राः पवध्वमर्णसा ॥
९,०२१.०७ एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत ।
९,०२१.०७ सतः प्रासाविषुर्मतिम् ॥
९,०२२.०१ एते सोमास आशवो रथा इव प्र वाजिनः ।
९,०२२.०१ सर्गाः सृष्टा अहेषत ॥
९,०२२.०२ एते वाता इवोरवः पर्जन्यस्येव वृष्टयः ।
९,०२२.०२ अग्नेरिव भ्रमा वृथा ॥
९,०२२.०३ एते पूता विपश्चितः सोमासो दध्याशिरः ।
९,०२२.०३ विपा व्यानशुर्धियः ॥
९,०२२.०४ एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः ।
९,०२२.०४ इयक्षन्तः पथो रजः ॥
९,०२२.०५ एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः ।
९,०२२.०५ उतेदमुत्तमं रजः ॥
९,०२२.०६ तन्तुं तन्वानमुत्तममनु प्रवत आशत ।
९,०२२.०६ उतेदमुत्तमाय्यम् ॥
९,०२२.०७ त्वं सोम पणिभ्य आ वसु गव्यानि धारयः ।
९,०२२.०७ ततं तन्तुमचिक्रदः ॥
९,०२३.०१ सोमा असृग्रमाशवो मधोर्मदस्य धारया ।
९,०२३.०१ अभि विश्वानि काव्या ॥
९,०२३.०२ अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।
९,०२३.०२ रुचे जनन्त सूर्यम् ॥
९,०२३.०३ आ पवमान नो भरार्यो अदाशुषो गयम् ।
९,०२३.०३ कृधि प्रजावतीरिषः ॥
९,०२३.०४ अभि सोमास आयवः पवन्ते मद्यं मदम् ।
९,०२३.०४ अभि कोशं मधुश्चुतम् ॥
९,०२३.०५ सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् ।
९,०२३.०५ सुवीरो अभिशस्तिपाः ॥
९,०२३.०६ इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः ।
९,०२३.०६ इन्दो वाजं सिषाससि ॥
९,०२३.०७ अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति ।
९,०२३.०७ जघान जघनच्च नु ॥
९,०२४.०१ प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
९,०२४.०१ श्रीणाना अप्सु मृञ्जत ॥
९,०२४.०२ अभि गावो अधन्विषुरापो न प्रवता यतीः ।
९,०२४.०२ पुनाना इन्द्रमाशत ॥
९,०२४.०३ प्र पवमान धन्वसि सोमेन्द्राय पातवे ।
९,०२४.०३ नृभिर्यतो वि नीयसे ॥
९,०२४.०४ त्वं सोम नृमादनः पवस्व चर्षणीसहे ।
९,०२४.०४ सस्निर्यो अनुमाद्यः ॥
९,०२४.०५ इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि ।
९,०२४.०५ अरमिन्द्रस्य धाम्ने ॥
९,०२४.०६ पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः ।
९,०२४.०६ शुचिः पावको अद्भुतः ॥
९,०२४.०७ शुचिः पावक उच्यते सोमः सुतस्य मध्वः ।
९,०२४.०७ देवावीरघशंसहा ॥
९,०२५.०१ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
९,०२५.०१ मरुद्भ्यो वायवे मदः ॥
९,०२५.०२ पवमान धिया हितोऽभि योनिं कनिक्रदत् ।
९,०२५.०२ धर्मणा वायुमा विश ॥
९,०२५.०३ सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।
९,०२५.०३ वृत्रहा देववीतमः ॥
९,०२५.०४ विश्वा रूपाण्याविशन्पुनानो याति हर्यतः ।
९,०२५.०४ यत्रामृतास आसते ॥
९,०२५.०५ अरुषो जनयन्गिरः सोमः पवत आयुषक् ।
९,०२५.०५ इन्द्रं गच्छन्कविक्रतुः ॥
९,०२५.०६ आ पवस्व मदिन्तम पवित्रं धारया कवे ।
९,०२५.०६ अर्कस्य योनिमासदम् ॥
९,०२६.०१ तममृक्षन्त वाजिनमुपस्थे अदितेरधि ।
९,०२६.०१ विप्रासो अण्व्या धिया ॥
९,०२६.०२ तं गावो अभ्यनूषत सहस्रधारमक्षितम् ।
९,०२६.०२ इन्दुं धर्तारमा दिवः ॥
९,०२६.०३ तं वेधां मेधयाह्यन्पवमानमधि द्यवि ।
९,०२६.०३ धर्णसिं भूरिधायसम् ॥
९,०२६.०४ तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः ।
९,०२६.०४ पतिं वाचो अदाभ्यम् ॥
९,०२६.०५ तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः ।
९,०२६.०५ हर्यतं भूरिचक्षसम् ॥
९,०२६.०६ तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् ।
९,०२६.०६ इन्दविन्द्राय मत्सरम् ॥
९,०२७.०१ एष कविरभिष्टुतः पवित्रे अधि तोशते ।
९,०२७.०१ पुनानो घ्नन्नप स्रिधः ॥
९,०२७.०२ एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
९,०२७.०२ पवित्रे दक्षसाधनः ॥
९,०२७.०३ एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
९,०२७.०३ सोमो वनेषु विश्ववित् ॥
९,०२७.०४ एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
९,०२७.०४ इन्दुः सत्राजिदस्तृतः ॥
९,०२७.०५ एष सूर्येण हासते पवमानो अधि द्यवि ।
९,०२७.०५ पवित्रे मत्सरो मदः ॥
९,०२७.०६ एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
९,०२७.०६ पुनान इन्दुरिन्द्रमा ॥
९,०२८.०१ एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
९,०२८.०१ अव्यो वारं वि धावति ॥
९,०२८.०२ एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
९,०२८.०२ विश्वा धामान्याविशन् ॥
९,०२८.०३ एष देवः शुभायतेऽधि योनावमर्त्यः ।
९,०२८.०३ वृत्रहा देववीतमः ॥
९,०२८.०४ एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
९,०२८.०४ अभि द्रोणानि धावति ॥
९,०२८.०५ एष सूर्यमरोचयत्पवमानो विचर्षणिः ।
९,०२८.०५ विश्वा धामानि विश्ववित् ॥
९,०२८.०६ एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
९,०२८.०६ देवावीरघशंसहा ॥
९,०२९.०१ प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
९,०२९.०१ देवां अनु प्रभूषतः ॥
९,०२९.०२ सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
९,०२९.०२ ज्योतिर्जज्ञानमुक्थ्यम् ॥
९,०२९.०३ सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
९,०२९.०३ वर्धा समुद्रमुक्थ्यम् ॥
९,०२९.०४ विश्वा वसूनि संजयन्पवस्व सोम धारया ।
९,०२९.०४ इनु द्वेषांसि सध्र्यक् ॥
९,०२९.०५ रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित् ।
९,०२९.०
५ निदो यत्र मुमुच्महे ॥
९,०२९.०६ एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया ।
९,०२९.०६ द्युमन्तं शुष्ममा भर ॥
९,०३०.०१ प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् ।
९,०३०.०१ पुनानो वाचमिष्यति ॥
९,०३०.०२ इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत् ।
९,०३०.०२ इयर्ति वग्नुमिन्द्रियम् ॥
९,०३०.०३ आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम् ।
९,०३०.०३ पवस्व सोम धारया ॥
९,०३०.०४ प्र सोमो अति धारया पवमानो असिष्यदत् ।
९,०३०.०४ अभि द्रोणान्यासदम् ॥
९,०३०.०५ अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः ।
९,०३०.०५ इन्दविन्द्राय पीतये ॥
९,०३०.०६ सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे ।
९,०३०.०६ चारुं शर्धाय मत्सरम् ॥
९,०३१.०१ प्र सोमासः स्वाध्यः पवमानासो अक्रमुः ।
९,०३१.०१ रयिं कृण्वन्ति चेतनम् ॥
९,०३१.०२ दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः ।
९,०३१.०२ भवा वाजानां पतिः ॥
९,०३१.०३ तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः ।
९,०३१.०३ सोम वर्धन्ति ते महः ॥
९,०३१.०४ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
९,०३१.०४ भवा वाजस्य संगथे ॥
९,०३१.०५ तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् ।
९,०३१.०५ वर्षिष्ठे अधि सानवि ॥
९,०३१.०६ स्वायुधस्य ते सतो भुवनस्य पते वयम् ।
९,०३१.०६ इन्दो सखित्वमुश्मसि ॥
९,०३२.०१ प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
९,०३२.०१ सुता विदथे अक्रमुः ॥
९,०३२.०२ आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
९,०३२.०२ इन्दुमिन्द्राय पीतये ॥
९,०३२.०३ आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् ।
९,०३२.०३ अत्यो न गोभिरज्यते ॥
९,०३२.०४ उभे सोमावचाकशन्मृगो न तक्तो अर्षसि ।
९,०३२.०४ सीदन्नृतस्य योनिमा ॥
९,०३२.०५ अभि गावो अनूषत योषा जारमिव प्रियम् ।
९,०३२.०५ अगन्नाजिं यथा हितम् ॥
९,०३२.०६ अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च ।
९,०३२.०६ सनिं मेधामुत श्रवः ॥
९,०३३.०१ प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः ।
९,०३३.०१ वनानि महिषा इव ॥
९,०३३.०२ अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।
९,०३३.०२ वाजं गोमन्तमक्षरन् ॥
९,०३३.०३ सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
९,०३३.०३ सोमा अर्षन्ति विष्णवे ॥
९,०३३.०४ तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।
९,०३३.०४ हरिरेति कनिक्रदत् ॥
९,०३३.०५ अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः ।
९,०३३.०५ मर्मृज्यन्ते दिवः शिशुम् ॥
९,०३३.०६ रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः ।
९,०३३.०६ आ पवस्व सहस्रिणः ॥
९,०३४.०१ प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति ।
९,०३४.०१ रुजद्दृळ्हा व्योजसा ॥
९,०३४.०२ सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
९,०३४.०२ सोमो अर्षति विष्णवे ॥
९,०३४.०३ वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः ।
९,०३४.०३ दुहन्ति शक्मना पयः ॥
९,०३४.०४ भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः ।
९,०३४.०४ सं रूपैरज्यते हरिः ॥
९,०३४.०५ अभीमृतस्य विष्टपं दुहते पृश्निमातरः ।
९,०३४.०५ चारु प्रियतमं हविः ॥
९,०३४.०६ समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः ।
९,०३४.०६ धेनूर्वाश्रो अवीवशत् ॥
९,०३५.०१ आ नः पवस्व धारया पवमान रयिं पृथुम् ।
९,०३५.०१ यया ज्योतिर्विदासि नः ॥
९,०३५.०२ इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय ।
९,०३५.०२ रायो धर्ता न ओजसा ॥
९,०३५.०३ त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः ।
९,०३५.०३ क्षरा णो अभि वार्यम् ॥
९,०३५.०४ प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः ।
९,०३५.०४ व्रता विदान आयुधा ॥
९,०३५.०५ तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि ।
९,०३५.०५ सोमं जनस्य गोपतिम् ॥
९,०३५.०६ विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः ।
९,०३५.०६ पुनानस्य प्रभूवसोः ॥
९,०३६.०१ असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।
९,०३६.०१ कार्ष्मन्वाजी न्यक्रमीत् ॥
९,०३६.०२ स वह्निः सोम जागृविः पवस्व देववीरति ।
९,०३६.०२ अभि कोशं मधुश्चुतम् ॥
९,०३६.०३ स नो ज्योतींषि पूर्व्य पवमान वि रोचय ।
९,०३६.०३ क्रत्वे दक्षाय नो हिनु ॥
९,०३६.०४ शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः ।
९,०३६.०४ पवते वारे अव्यये ॥
९,०३६.०५ स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा ।
९,०३६.०५ पवतामान्तरिक्ष्या ॥
९,०३६.०६ आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि ।
९,०३६.०६ वीरयुः शवसस्पते ॥
९,०३७.०१ स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
९,०३७.०१ विघ्नन्रक्षांसि देवयुः ॥
९,०३७.०२ स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
९,०३७.०२ अभि योनिं कनिक्रदत् ॥
९,०३७.०३ स वाजी रोचना दिवः पवमानो वि धावति ।
९,०३७.०३ रक्षोहा वारमव्ययम् ॥
९,०३७.०४ स त्रितस्याधि सानवि पवमानो अरोचयत् ।
९,०३७.०४ जामिभिः सूर्यं सह ॥
९,०३७.०५ स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
९,०३७.०५ सोमो वाजमिवासरत् ॥
९,०३७.०६ स देवः कविनेषितोऽभि द्रोणानि धावति ।
९,०३७.०६ इन्दुरिन्द्राय मंहना ॥
९,०३८.०१ एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति ।
९,०३८.०१ गच्छन्वाजं सहस्रिणम् ॥
९,०३८.०२ एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
९,०३८.०२ इन्दुमिन्द्राय पीतये ॥
९,०३८.०३ एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
९,०३८.०३ याभिर्मदाय शुम्भते ॥
९,०३८.०४ एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
९,०३८.०४ गच्छञ्जारो न योषितम् ॥
९,०३८.०५ एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
९,०३८.०५ य इन्दुर्वारमाविशत् ॥
९,०३८.०६ एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
९,०३८.०६ क्रन्दन्योनिमभि प्रियम् ॥
९,०३९.०१ आशुरर्ष बृहन्मते परि प्रियेण धाम्ना ।
९,०३९.०१ यत्र देवा इति ब्रवन् ॥
९,०३९.०२ परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः ।
९,०३९.०२ वृष्टिं दिवः परि स्रव ॥
९,०३९.०३ सुत एति पवित्र आ त्विषिं दधान ओजसा ।
९,०३९.०३ विचक्षाणो विरोचयन् ॥
९,०३९.०४ अयं स यो दिवस्परि रघुयामा पवित्र आ ।
९,०३९.०४ सिन्धोरूर्मा व्यक्षरत् ॥
९,०३९.०५ आविवासन्परावतो अथो अर्वावतः सुतः ।
९,०३९.०५ इन्द्राय सिच्यते मधु ॥
९,०३९.०६ समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः ।
९,०३९.०६ योनावृतस्य सीदत ॥
९,०४०.०१ पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
९,०४०.०१ शुम्भन्ति विप्रं धीतिभिः ॥
९,०४०.०२ आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः ।
९,०४०.०२ ध्रुवे सदसि सीदति ॥
९,०४०.०३ नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
९,०४०.०३ आ पवस्व सहस्रिणम् ॥
९,०४०.०४ विश्वा सोम पवमान द्युम्नानीन्दवा भर ।
९,०४०.०४ विदाः सहस्रिणीरिषः ॥
९,०४०.०५ स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् ।
९,०४०.०५ जरितुर्वर्धया गिरः ॥
९,०४०.०६ पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
९,०४०.०६ वृषन्निन्दो न उक्थ्यम् ॥
९,०४१.०१ प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।
९,०४१.०१ घ्नन्तः कृष्णामप त्वचम् ॥
९,०४१.०२ सुवितस्य मनामहेऽति सेतुं दुराव्यम् ।
९,०४१.०२ साह्वांसो दस्युमव्रतम् ॥
९,०४१.०३ शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।
९,०४१.०३ चरन्ति विद्युतो दिवि ॥
९,०४१.०४ आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।
९,०४१.०४ अश्वावद्वाजवत्सुतः ॥
९,०४१.०५ स पवस्व विचर्षण आ मही रोदसी पृण ।
९,०४१.०५ उषाः सूर्यो न रश्मिभिः ॥
९,०४१.०६ परि णः शर्मयन्त्या धारया सोम विश्वतः ।
९,०४१.०६ सरा रसेव विष्टपम् ॥
९,०४२.०१ जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् ।
९,०४२.०१ वसानो गा अपो हरिः ॥
९,०४२.०२ एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।
९,०४२.०२ धारया पवते सुतः ॥
९,०४२.०३ वावृधानाय तूर्वये पवन्ते वाजसातये ।
९,०४२.०३ सोमाः सहस्रपाजसः ॥
९,०४२.०४ दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते ।
९,०४२.०४ क्रन्दन्देवां अजीजनत् ॥
९,०४२.०५ अभि विश्वानि वार्याभि देवां ऋतावृधः ।
९,०४२.०५ सोमः पुनानो अर्षति ॥
९,०४२.०६ गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः ।
९,०४२.०६ पवस्व बृहतीरिषः ॥
९,०४३.०१ यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः ।
९,०४३.०१ तं गीर्भिर्वासयामसि ॥
९,०४३.०२ तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा ।
९,०४३.०२ इन्दुमिन्द्राय पीतये ॥
९,०४३.०३ पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः ।
९,०४३.०३ विप्रस्य मेध्यातिथेः ॥
९,०४३.०४ पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् ।
९,०४३.०४ इन्दो सहस्रवर्चसम् ॥
९,०४३.०५ इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ ।
९,०४३.०५ यदक्षारति देवयुः ॥
९,०४३.०६ पवस्व वाजसातये विप्रस्य गृणतो वृधे ।
९,०४३.०६ सोम रास्व सुवीर्यम् ॥
९,०४४.०१ प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि ।
९,०४४.०१ अभि देवां अयास्यः ॥
९,०४४.०२ मती जुष्टो धिया हितः सोमो हिन्वे परावति ।
९,०४४.०२ विप्रस्य धारया कविः ॥
९,०४४.०३ अयं देवेषु जागृविः सुत एति पवित्र आ ।
९,०४४.०३ सोमो याति विचर्षणिः ॥
९,०४४.०४ स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् ।
९,०४४.०४ बर्हिष्मां आ विवासति ॥
९,०४४.०५ स नो भगाय वायवे विप्रवीरः सदावृधः ।
९,०४४.०५ सोमो देवेष्वा यमत् ॥
९,०४४.०६ स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः ।
९,०४४.०६ वाजं जेषि श्रवो बृहत् ॥
९,०४५.०१ स पवस्व मदाय कं नृचक्षा देववीतये ।
९,०४५.०१ इन्दविन्द्राय पीतये ॥
९,०४५.०२ स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे ।
९,०४५.०२ देवान्सखिभ्य आ वरम् ॥
९,०४५.०३ उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् ।
९,०४५.०३ वि नो राये दुरो वृधि ॥
९,०४५.०४ अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि ।
९,०४५.०४ इन्दुर्देवेषु पत्यते ॥
९,०४५.०५ समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् ।
९,०४५.०५ इन्दुं नावा अनूषत ॥
९,०४५.०६ तया पवस्व धारया यया पीतो विचक्षसे ।
९,०४५.०६ इन्दो स्तोत्रे सुवीर्यम् ॥
९,०४६.०१ असृग्रन्देववीतयेऽत्यासः कृत्व्या इव ।
९,०४६.०१ क्षरन्तः पर्वतावृधः ॥
९,०४६.०२ परिष्कृतास इन्दवो योषेव पित्र्यावती ।
९,०४६.०२ वायुं सोमा असृक्षत ॥
९,०४६.०३ एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः ।
९,०४६.०३ इन्द्रं वर्धन्ति कर्मभिः ॥
९,०४६.०४ आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना ।
९,०४६.०४ गोभिः श्रीणीत मत्सरम् ॥
९,०४६.०५ स पवस्व धनञ्जय प्रयन्ता राधसो महः ।
९,०४६.०५ अस्मभ्यं सोम गातुवित् ॥
९,०४६.०६ एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः ।
९,०४६.०६ इन्द्राय मत्सरं मदम् ॥
९,०४७.०१ अया सोमः सुकृत्यया महश्चिदभ्यवर्धत ।
९,०४७.०१ मन्दान उद्वृषायते ॥
९,०४७.०२ कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा ।
९,०४७.०२ ऋणा च धृष्णुश्चयते ॥
९,०४७.०३ आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् ।
९,०४७.०३ उक्थं यदस्य जायते ॥
९,०४७.०४ स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति ।
९,०४७.०४ यदी मर्मृज्यते धियः ॥
९,०४७.०५ सिषासतू रयीणां वाजेष्वर्वतामिव ।
९,०४७.०५ भरेषु जिग्युषामसि ॥
९,०४८.०१ तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
९,०४८.०१ चारुं सुकृत्ययेमहे ॥
९,०४८.०२ संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् ।
९,०४८.०२ शतं पुरो रुरुक्षणिम् ॥
९,०४८.०३ अतस्त्वा रयिमभि राजानं सुक्रतो दिवः ।
९,०४८.०३ सुपर्णो अव्यथिर्भरत् ॥
९,०४८.०४ विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् ।
९,०४८.०४ गोपामृतस्य विर्भरत् ॥
९,०४८.०५ अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे ।
९,०४८.०५ अभिष्टिकृद्विचर्षणिः ॥
९,०४९.०१ पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।
९,०४९.०१ अयक्ष्मा बृहतीरिषः ॥
९,०४९.०२ तया पवस्व धारया यया गाव इहागमन् ।
९,०४९.०२ जन्यास उप नो गृहम् ॥
९,०४९.०३ घृतं पवस्व धारया यज्ञेषु देववीतमः ।
९,०४९.०३ अस्मभ्यं वृष्टिमा पव ॥
९,०४९.०४ स न ऊर्जे व्यव्ययं पवित्रं धाव धारया ।
९,०४९.०४ देवासः शृणवन्हि कम् ॥
९,०४९.०५ पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् ।
९,०४९.०५ प्रत्नवद्रोचयन्रुचः ॥
९,०५०.०१ उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः ।
९,०५०.०१ वाणस्य चोदया पविम् ॥
९,०५०.०२ प्रसवे त उदीरते तिस्रो वाचो मखस्युवः ।
९,०५०.०२ यदव्य एषि सानवि ॥
९,०५०.०३ अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः ।
९,०५०.०३ पवमानं मधुश्चुतम् ॥
९,०५०.०४ आ पवस्व मदिन्तम पवित्रं धारया कवे ।
९,०५०.०४ अर्कस्य योनिमासदम् ॥
९,०५०.०५ स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः ।
९,०५०.०५ इन्दविन्द्राय पीतये ॥
९,०५१.०१ अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज ।
९,०५१.०१ पुनीहीन्द्राय पातवे ॥
९,०५१.०२ दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
९,०५१.०२ सुनोता मधुमत्तमम् ॥
९,०५१.०३ तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते ।
९,०५१.०३ पवमानस्य मरुतः ॥
९,०५१.०४ त्वं हि सोम वर्धयन्सुतो मदाय भूर्णये ।
९,०५१.०४ वृषन्स्तोतारमूतये ॥
९,०५१.०५ अभ्यर्ष विचक्षण पवित्रं धारया सुतः ।
९,०५१.०५ अभि वाजमुत श्रवः ॥
९,०५२.०१ परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा ।
९,०५२.०१ सुवानो अर्ष पवित्र आ ॥
९,०५२.०२ तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः ।
९,०५२.०२ सहस्रधारो यात्तना ॥
९,०५२.०३ चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय ।
९,०५२.०३ वधैर्वधस्नवीङ्खय ॥
९,०५२.०४ नि शुष्ममिन्दवेषां पुरुहूत जनानाम् ।
९,०५२.०४ यो अस्मां आदिदेशति ॥
९,०५२.०५ शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् ।
९,०५२.०५ पवस्व मंहयद्रयिः ॥
९,०५३.०१ उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
९,०५३.०१ नुदस्व याः परिस्पृधः ॥
९,०५३.०२ अया निजघ्निरोजसा रथसंगे धने हिते ।
९,०५३.०२ स्तवा अबिभ्युषा हृदा ॥
९,०५३.०३ अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।
९,०५३.०३ रुज यस्त्वा पृतन्यति ॥
९,०५३.०४ तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् ।
९,०५३.०४ इन्दुमिन्द्राय मत्सरम् ॥
९,०५४.०१ अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
९,०५४.०१ पयः सहस्रसामृषिम् ॥
९,०५४.०२ अयं सूर्य इवोपदृगयं सरांसि धावति ।
९,०५४.०२ सप्त प्रवत आ दिवम् ॥
९,०५४.०३ अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
९,०५४.०३ सोमो देवो न सूर्यः ॥
९,०५४.०४ परि णो देववीतये वाजां अर्षसि गोमतः ।
९,०५४.०४ पुनान इन्दविन्द्रयुः ॥
९,०५५.०१ यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव ।
९,०५५.०१ सोम विश्वा च सौभगा ॥
९,०५५.०२ इन्दो यथा तव स्तवो यथा ते जातमन्धसः ।
९,०५५.०२ नि बर्हिषि प्रिये सदः ॥
९,०५५.०३ उत नो गोविदश्ववित्पवस्व सोमान्धसा ।
९,०५५.०३ मक्षूतमेभिरहभिः ॥
९,०५५.०४ यो जिनाति न जीयते हन्ति शत्रुमभीत्य ।
९,०५५.०४ स पवस्व सहस्रजित् ॥
९,०५६.०१ परि सोम ऋतं बृहदाशुः पवित्रे अर्षति ।
९,०५६.०१ विघ्नन्रक्षांसि देवयुः ॥
९,०५६.०२ यत्सोमो वाजमर्षति शतं धारा अपस्युवः ।
९,०५६.०२ इन्द्रस्य सख्यमाविशन् ॥
९,०५६.०३ अभि त्वा योषणो दश जारं न कन्यानूषत ।
९,०५६.०३ मृज्यसे सोम सातये ॥
९,०५६.०४ त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव ।
९,०५६.०४ नॄन्स्तोतॄन्पाह्यंहसः ॥
९,०५७.०१ प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
९,०५७.०१ अच्छा वाजं सहस्रिणम् ॥
९,०५७.०२ अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
९,०५७.०२ हरिस्तुञ्जान आयुधा ॥
९,०५७.०३ स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।
९,०५७.०३ श्येनो न वंसु षीदति ॥
९,०५७.०४ स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
९,०५७.०४ पुनान इन्दवा भर ॥
९,०५८.०१ तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
९,०५८.०१ तरत्स मन्दी धावति ॥
९,०५८.०२ उस्रा वेद वसूनां मर्तस्य देव्यवसः ।
९,०५८.०२ तरत्स मन्दी धावति ॥
९,०५८.०३ ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ।
९,०५८.०३ तरत्स मन्दी धावति ॥
९,०५८.०४ आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे ।
९,०५८.०४ तरत्स मन्दी धावति ॥
९,०५९.०१ पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् ।
९,०५९.०१ प्रजावद्रत्नमा भर ॥
९,०५९.०२ पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः ।
९,०५९.०२ पवस्व धिषणाभ्यः ॥
९,०५९.०३ त्वं सोम पवमानो विश्वानि दुरिता तर ।
९,०५९.०३ कविः सीद नि बर्हिषि ॥
९,०५९.०४ पवमान स्वर्विदो जायमानोऽभवो महान् ।
९,०५९.०४ इन्दो विश्वां अभीदसि ॥
९,०६०.०१ प्र गायत्रेण गायत पवमानं विचर्षणिम् ।
९,०६०.०१ इन्दुं सहस्रचक्षसम् ॥
९,०६०.०२ तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् ।
९,०६०.०२ अति वारमपाविषुः ॥
९,०६०.०३ अति वारान्पवमानो असिष्यदत्कलशां अभि धावति ।
९,०६०.०३ इन्द्रस्य हार्द्याविशन् ॥
९,०६०.०४ इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे ।
९,०६०.०४ प्रजावद्रेत आ भर ॥
९,०६१.०१ अया वीती परि स्रव यस्त इन्दो मदेष्वा ।
९,०६१.०१ अवाहन्नवतीर्नव ॥
९,०६१.०२ पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् ।
९,०६१.०२ अध त्यं तुर्वशं यदुम् ॥
९,०६१.०३ परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् ।
९,०६१.०३ क्षरा सहस्रिणीरिषः ॥
९,०६१.०४ पवमानस्य ते वयं पवित्रमभ्युन्दतः ।
९,०६१.०४ सखित्वमा वृणीमहे ॥
९,०६१.०५ ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया ।
९,०६१.०५ तेभिर्नः सोम मृळय ॥
९,०६१.०६ स नः पुनान आ भर रयिं वीरवतीमिषम् ।
९,०६१.०६ ईशानः सोम विश्वतः ॥
९,०६१.०७ एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् ।
९,०६१.०७ समादित्येभिरख्यत ॥
९,०६१.०८ समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
९,०६१.०८ सं सूर्यस्य रश्मिभिः ॥
९,०६१.०९ स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
९,०६१.०९ चारुर्मित्रे वरुणे च ॥
९,०६१.१० उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे ।
९,०६१.१० उग्रं शर्म महि श्रवः ॥
९,०६१.११ एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् ।
९,०६१.११ सिषासन्तो वनामहे ॥
९,०६१.१२ स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
९,०६१.१२ वरिवोवित्परि स्रव ॥
९,०६१.१३ उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् ।
९,०६१.१३ इन्दुं देवा अयासिषुः ॥
९,०६१.१४ तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
९,०६१.१४ य इन्द्रस्य हृदंसनिः ॥
९,०६१.१५ अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।
९,०६१.१५ वर्धा समुद्रमुक्थ्यम् ॥
९,०६१.१६ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् ।
९,०६१.१६ ज्योतिर्वैश्वानरं बृहत् ॥
९,०६१.१७ पवमानस्य ते रसो मदो राजन्नदुच्छुनः ।
९,०६१.१७ वि वारमव्यमर्षति ॥
९,०६१.१८ पवमान रसस्तव दक्षो वि राजति द्युमान् ।
९,०६१.१८ ज्योतिर्विश्वं स्वर्दृशे ॥
९,०६१.१९ यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
९,०६१.१९ देवावीरघशंसहा ॥
९,०६१.२० जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
९,०६१.२० गोषा उ अश्वसा असि ॥
९,०६१.२१ सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः ।
९,०६१.२१ सीदञ्छ्येनो न योनिमा ॥
९,०६१.२२ स पवस्व य आविथेन्द्रं वृत्राय हन्तवे ।
९,०६१.२२ वव्रिवांसं महीरपः ॥
९,०६१.२३ सुवीरासो वयं धना जयेम सोम मीढ्वः ।
९,०६१.२३ पुनानो वर्ध नो गिरः ॥
९,०६१.२४ त्वोतासस्तवावसा स्याम वन्वन्त आमुरः ।
९,०६१.२४ सोम व्रतेषु जागृहि ॥
९,०६१.२५ अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।
९,०६१.२५ गच्छन्निन्द्रस्य निष्कृतम् ॥
९,०६१.२६ महो नो राय आ भर पवमान जही मृधः ।
९,०६१.२६ रास्वेन्दो वीरवद्यशः ॥
९,०६१.२७ न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन् ।
९,०६१.२७ यत्पुनानो मखस्यसे ॥
९,०६१.२८ पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
९,०६१.२८ विश्वा अप द्विषो जहि ॥
९,०६१.२९ अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे ।
९,०६१.२९ सासह्याम पृतन्यतः ॥
९,०६१.३० या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे ।
९,०६१.३० रक्षा समस्य नो निदः ॥
९,०६२.०१ एते असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
९,०६२.०१ विश्वान्यभि सौभगा ॥
९,०६२.०२ विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः ।
९,०६२.०२ तना कृण्वन्तो अर्वते ॥
९,०६२.०३ कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् ।
९,०६२.०३ इळामस्मभ्यं संयतम् ॥
९,०६२.०४ असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
९,०६२.०४ श्येनो न योनिमासदत् ॥
९,०६२.०५ शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः ।
९,०६२.०५ स्वदन्ति गावः पयोभिः ॥
९,०६२.०६ आदीमश्वं न हेतारोऽशूशुभन्नमृताय ।
९,०६२.०६ मध्वो रसं सधमादे ॥
९,०६२.०७ यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये ।
९,०६२.०७ ताभिः पवित्रमासदः ॥
९,०६२.०८ सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया ।
९,०६२.०८ सीदन्योना वनेष्वा ॥
९,०६२.०९ त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।
९,०६२.०९ वरिवोविद्घृतं पयः ॥
९,०६२.१० अयं विचर्षणिर्हितः पवमानः स चेतति ।
९,०६२.१० हिन्वान आप्यं बृहत् ॥
९,०६२.११ एष वृषा वृषव्रतः पवमानो अशस्तिहा ।
९,०६२.११ करद्वसूनि दाशुषे ॥
९,०६२.१२ आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् ।
९,०६२.१२ पुरुश्चन्द्रं पुरुस्पृहम् ॥
९,०६२.१३ एष स्य परि षिच्यते मर्मृज्यमान आयुभिः ।
९,०६२.१३ उरुगायः कविक्रतुः ॥
९,०६२.१४ सहस्रोतिः शतामघो विमानो रजसः कविः ।
९,०६२.१४ इन्द्राय पवते मदः ॥
९,०६२.१५ गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते ।
९,०६२.१५ विर्योना वसताविव ॥
९,०६२.१६ पवमानः सुतो नृभिः सोमो वाजमिवासरत् ।
९,०६२.१६ चमूषु शक्मनासदम् ॥
९,०६२.१७ तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे ।
९,०६२.१७ ऋषीणां सप्त धीतिभिः ॥
९,०६२.१८ तं सोतारो धनस्पृतमाशुं वाजाय यातवे ।
९,०६२.१८ हरिं हिनोत वाजिनम् ॥
९,०६२.१९ आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः ।
९,०६२.१९ शूरो न गोषु तिष्ठति ॥
९,०६२.२० आ त इन्दो मदाय कं पयो दुहन्त्यायवः ।
९,०६२.२० देवा देवेभ्यो मधु ॥
९,०६२.२१ आ नः सोमं पवित्र आ सृजता मधुमत्तमम् ।
९,०६२.२१ देवेभ्यो देवश्रुत्तमम् ॥
९,०६२.२२ एते सोमा असृक्षत गृणानाः श्रवसे महे ।
९,०६२.२२ मदिन्तमस्य धारया ॥
९,०६२.२३ अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।
९,०६२.२३ सनद्वाजः परि स्रव ॥
९,०६२.२४ उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।
९,०६२.२४ गृणानो जमदग्निना ॥
९,०६२.२५ पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।
९,०६२.२५ अभि विश्वानि काव्या ॥
९,०६२.२६ त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।
९,०६२.२६ पवस्व विश्वमेजय ॥
९,०६२.२७ तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
९,०६२.२७ तुभ्यमर्षन्ति सिन्धवः ॥
९,०६२.२८ प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः ।
९,०६२.२८ अभि शुक्रामुपस्तिरम् ॥
९,०६२.२९ इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम् ।
९,०६२.२९ ईशानं वीतिराधसम् ॥
९,०६२.३० पवमान ऋतः कविः सोमः पवित्रमासदत् ।
९,०६२.३० दधत्स्तोत्रे सुवीर्यम् ॥
९,०६३.०१ आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् ।
९,०६३.०१ अस्मे श्रवांसि धारय ॥
९,०६३.०२ इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः ।
९,०६३.०२ चमूष्वा नि षीदसि ॥
९,०६३.०३ सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् ।
९,०६३.०३ मधुमां अस्तु वायवे ॥
९,०६३.०४ एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः ।
९,०६३.०४ सोमा ऋतस्य धारया ॥
९,०६३.०५ इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।
९,०६३.०५ अपघ्नन्तो अराव्णः ॥
९,०६३.०६ सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः ।
९,०६३.०६ इन्द्रं गच्छन्त इन्दवः ॥
९,०६३.०७ अया पवस्व धारया यया सूर्यमरोचयः ।
९,०६३.०७ हिन्वानो मानुषीरपः ॥
९,०६३.०८ अयुक्त सूर एतशं पवमानो मनावधि ।
९,०६३.०८ अन्तरिक्षेण यातवे ॥
९,०६३.०९ उत त्या हरितो दश सूरो अयुक्त यातवे ।
९,०६३.०९ इन्दुरिन्द्र इति ब्रुवन् ॥
९,०६३.१० परीतो वायवे सुतं गिर इन्द्राय मत्सरम् ।
९,०६३.१० अव्यो वारेषु सिञ्चत ॥
९,०६३.११ पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् ।
९,०६३.११ यो दूणाशो वनुष्यता ॥
९,०६३.१२ अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् ।
९,०६३.१२ अभि वाजमुत श्रवः ॥
९,०६३.१३ सोमो देवो न सूर्योऽद्रिभिः पवते सुतः ।
९,०६३.१३ दधानः कलशे रसम् ॥
९,०६३.१४ एते धामान्यार्या शुक्रा ऋतस्य धारया ।
९,०६३.१४ वाजं गोमन्तमक्षरन् ॥
९,०६३.१५ सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः ।
९,०६३.१५ पवित्रमत्यक्षरन् ॥
९,०६३.१६ प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।
९,०६३.१६ मदो यो देववीतमः ॥
९,०६३.१७ तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् ।
९,०६३.१७ इन्दुमिन्द्राय मत्सरम् ॥
९,०६३.१८ आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ।
९,०६३.१८ वाजं गोमन्तमा भर ॥
९,०६३.१९ परि वाजे न वाजयुमव्यो वारेषु सिञ्चत ।
९,०६३.१९ इन्द्राय मधुमत्तमम् ॥
९,०६३.२० कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः ।
९,०६३.२० वृषा कनिक्रदर्षति ॥
९,०६३.२१ वृषणं धीभिरप्तुरं सोममृतस्य धारया ।
९,०६३.२१ मती विप्राः समस्वरन् ॥
९,०६३.२२ पवस्व देवायुषगिन्द्रं गच्छतु ते मदः ।
९,०६३.२२ वायुमा रोह धर्मणा ॥
९,०६३.२३ पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
९,०६३.२३ प्रियः समुद्रमा विश ॥
९,०६३.२४ अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
९,०६३.२४ नुदस्वादेवयुं जनम् ॥
९,०६३.२५ पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
९,०६३.२५ अभि विश्वानि काव्या ॥
९,०६३.२६ पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
९,०६३.२६ घ्नन्तो विश्वा अप द्विषः ॥
९,०६३.२७ पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
९,०६३.२७ पृथिव्या अधि सानवि ॥
९,०६३.२८ पुनानः सोम धारयेन्दो विश्वा अप स्रिधः ।
९,०६३.२८ जहि रक्षांसि सुक्रतो ॥
९,०६३.२९ अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत् ।
९,०६३.२९ द्युमन्तं शुष्ममुत्तमम् ॥
९,०६३.३० अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।
९,०६३.३० इन्दो विश्वानि वार्या ॥
९,०६४.०१ वृषा सोम द्युमां असि वृषा देव वृषव्रतः ।
९,०६४.०१ वृषा धर्माणि दधिषे ॥
९,०६४.०२ वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः ।
९,०६४.०२ सत्यं वृषन्वृषेदसि ॥
९,०६४.०३ अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।
९,०६४.०३ वि नो राये दुरो वृधि ॥
९,०६४.०४ असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
९,०६४.०४ शुक्रासो वीरयाशवः ॥
९,०६४.०५ शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।
९,०६४.०५ पवन्ते वारे अव्यये ॥
९,०६४.०६ ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
९,०६४.०६ पवन्तामान्तरिक्ष्या ॥
९,०६४.०७ पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।
९,०६४.०७ सूर्यस्येव न रश्मयः ॥
९,०६४.०८ केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि ।
९,०६४.०८ समुद्रः सोम पिन्वसे ॥
९,०६४.०९ हिन्वानो वाचमिष्यसि पवमान विधर्मणि ।
९,०६४.०९ अक्रान्देवो न सूर्यः ॥
९,०६४.१० इन्दुः पविष्ट चेतनः प्रियः कवीनां मती ।
९,०६४.१० सृजदश्वं रथीरिव ॥
९,०६४.११ ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् ।
९,०६४.११ सीदन्नृतस्य योनिमा ॥
९,०६४.१२ स नो अर्ष पवित्र आ मदो यो देववीतमः ।
९,०६४.१२ इन्दविन्द्राय पीतये ॥
९,०६४.१३ इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
९,०६४.१३ इन्दो रुचाभि गा इहि ॥
९,०६४.१४ पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः ।
९,०६४.१४ हरे सृजान आशिरम् ॥
९,०६४.१५ पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् ।
९,०६४.१५ द्युतानो वाजिभिर्यतः ॥
९,०६४.१६ प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः ।
९,०६४.१६ धिया जूता असृक्षत ॥
९,०६४.१७ मर्मृजानास आयवो वृथा समुद्रमिन्दवः ।
९,०६४.१७ अग्मन्नृतस्य योनिमा ॥
९,०६४.१८ परि णो याह्यस्मयुर्विश्वा वसून्योजसा ।
९,०६४.१८ पाहि नः शर्म वीरवत् ॥
९,०६४.१९ मिमाति वह्निरेतशः पदं युजान ऋक्वभिः ।
९,०६४.१९ प्र यत्समुद्र आहितः ॥
९,०६४.२० आ यद्योनिं हिरण्ययमाशुरृतस्य सीदति ।
९,०६४.२० जहात्यप्रचेतसः ॥
९,०६४.२१ अभि वेना अनूषतेयक्षन्ति प्रचेतसः ।
९,०६४.२१ मज्जन्त्यविचेतसः ॥
९,०६४.२२ इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
९,०६४.२२ ऋतस्य योनिमासदम् ॥
९,०६४.२३ तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः ।
९,०६४.२३ सं त्वा मृजन्त्यायवः ॥
९,०६४.२४ रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे ।
९,०६४.२४ पवमानस्य मरुतः ॥
९,०६४.२५ त्वं सोम विपश्चितं पुनानो वाचमिष्यसि ।
९,०६४.२५ इन्दो सहस्रभर्णसम् ॥
९,०६४.२६ उतो सहस्रभर्णसं वाचं सोम मखस्युवम् ।
९,०६४.२६ पुनान इन्दवा भर ॥
९,०६४.२७ पुनान इन्दवेषां पुरुहूत जनानाम् ।
९,०६४.२७ प्रियः समुद्रमा विश ॥
९,०६४.२८ दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
९,०६४.२८ सोमाः शुक्रा गवाशिरः ॥
९,०६४.२९ हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् ।
९,०६४.२९ सीदन्तो वनुषो यथा ॥
९,०६४.३० ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः ।
९,०६४.३० पवस्व सूर्यो दृशे ॥
९,०६५.०१ हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् ।
९,०६५.०१ महामिन्दुं महीयुवः ॥
९,०६५.०२ पवमान रुचारुचा देवो देवेभ्यस्परि ।
९,०६५.०२ विश्वा वसून्या विश ॥
९,०६५.०३ आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
९,०६५.०३ इषे पवस्व संयतम् ॥
९,०६५.०४ वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
९,०६५.०४ पवमान स्वाध्यः ॥
९,०६५.०५ आ पवस्व सुवीर्यं मन्दमानः स्वायुध ।
९,०६५.०५ इहो ष्विन्दवा गहि ॥
९,०६५.०६ यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः ।
९,०६५.०६ द्रुणा सधस्थमश्नुषे ॥
९,०६५.०७ प्र सोमाय व्यश्ववत्पवमानाय गायत ।
९,०६५.०७ महे सहस्रचक्षसे ॥
९,०६५.०८ यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः ।
९,०६५.०८ इन्दुमिन्द्राय पीतये ॥
९,०६५.०९ तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः ।
९,०६५.०९ सखित्वमा वृणीमहे ॥
९,०६५.१० वृषा पवस्व धारया मरुत्वते च मत्सरः ।
९,०६५.१० विश्वा दधान ओजसा ॥
९,०६५.११ तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम् ।
९,०६५.११ हिन्वे वाजेषु वाजिनम् ॥
९,०६५.१२ अया चित्तो विपानया हरिः पवस्व धारया ।
९,०६५.१२ युजं वाजेषु चोदय ॥
९,०६५.१३ आ न इन्दो महीमिषं पवस्व विश्वदर्शतः ।
९,०६५.१३ अस्मभ्यं सोम गातुवित् ॥
९,०६५.१४ आ कलशा अनूषतेन्दो धाराभिरोजसा ।
९,०६५.१४ एन्द्रस्य पीतये विश ॥
९,०६५.१५ यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः ।
९,०६५.१५ स पवस्वाभिमातिहा ॥
९,०६५.१६ राजा मेधाभिरीयते पवमानो मनावधि ।
९,०६५.१६ अन्तरिक्षेण यातवे ॥
९,०६५.१७ आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् ।
९,०६५.१७ वहा भगत्तिमूतये ॥
९,०६५.१८ आ नः सोम सहो जुवो रूपं न वर्चसे भर ।
९,०६५.१८ सुष्वाणो देववीतये ॥
९,०६५.१९ अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
९,०६५.१९ सीदञ्छ्येनो न योनिमा ॥
९,०६५.२० अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
९,०६५.२० सोमो अर्षति विष्णवे ॥
९,०६५.२१ इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
९,०६५.२१ आ पवस्व सहस्रिणम् ॥
९,०६५.२२ ये सोमासः परावति ये अर्वावति सुन्विरे ।
९,०६५.२२ ये वादः शर्यणावति ॥
९,०६५.२३ य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् ।
९,०६५.२३ ये वा जनेषु पञ्चसु ॥
९,०६५.२४ ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् ।
९,०६५.२४ सुवाना देवास इन्दवः ॥
९,०६५.२५ पवते हर्यतो हरिर्गृणानो जमदग्निना ।
९,०६५.२५ हिन्वानो गोरधि त्वचि ॥
९,०६५.२६ प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः ।
९,०६५.२६ श्रीणाना अप्सु मृञ्जत ॥
९,०६५.२७ तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये ।
९,०६५.२७ स पवस्वानया रुचा ॥
९,०६५.२८ आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।
९,०६५.२८ पान्तमा पुरुस्पृहम् ॥
९,०६५.२९ आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् ।
९,०६५.२९ पान्तमा पुरुस्पृहम् ॥
९,०६५.३० आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा ।
९,०६५.३० पान्तमा पुरुस्पृहम् ॥
९,०६६.०१ पवस्व विश्वचर्षणेऽभि विश्वानि काव्या ।
९,०६६.०१ सखा सखिभ्य ईड्यः ॥
९,०६६.०२ ताभ्यां विश्वस्य राजसि ये पवमान धामनी ।
९,०६६.०२ प्रतीची सोम तस्थतुः ॥
९,०६६.०३ परि धामानि यानि ते त्वं सोमासि विश्वतः ।
९,०६६.०३ पवमान ऋतुभिः कवे ॥
९,०६६.०४ पवस्व जनयन्निषोऽभि विश्वानि वार्या ।
९,०६६.०४ सखा सखिभ्य ऊतये ॥
९,०६६.०५ तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते ।
९,०६६.०५ पवित्रं सोम धामभिः ॥
९,०६६.०६ तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते ।
९,०६६.०६ तुभ्यं धावन्ति धेनवः ॥
९,०६६.०७ प्र सोम याहि धारया सुत इन्द्राय मत्सरः ।
९,०६६.०७ दधानो अक्षिति श्रवः ॥
९,०६६.०८ समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः ।
९,०६६.०८ विप्रमाजा विवस्वतः ॥
९,०६६.०९ मृजन्ति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि ।
९,०६६.०९ रेभो यदज्यसे वने ॥
९,०६६.१० पवमानस्य ते कवे वाजिन्सर्गा असृक्षत ।
९,०६६.१० अर्वन्तो न श्रवस्यवः ॥
९,०६६.११ अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।
९,०६६.११ अवावशन्त धीतयः ॥
९,०६६.१२ अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।
९,०६६.१२ अग्मन्नृतस्य योनिमा ॥
९,०६६.१३ प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः ।
९,०६६.१३ यद्गोभिर्वासयिष्यसे ॥
९,०६६.१४ अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः ।
९,०६६.१४ इन्दो सखित्वमुश्मसि ॥
९,०६६.१५ आ पवस्व गविष्टये महे सोम नृचक्षसे ।
९,०६६.१५ एन्द्रस्य जठरे विश ॥
९,०६६.१६ महां असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः ।
९,०६६.१६ युध्वा सञ्छश्वज्जिगेथ ॥
९,०६६.१७ य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः ।
९,०६६.१७ भूरिदाभ्यश्चिन्मंहीयान् ॥
९,०६६.१८ त्वं सोम सूर एषस्तोकस्य साता तनूनाम् ।
९,०६६.१८ वृणीमहे सख्याय वृणीमहे युज्याय ॥
९,०६६.१९ अग्न आयूंषि पवस आ सुवोर्जमिषं च नः ।
९,०६६.१९ आरे बाधस्व दुच्छुनाम् ॥
९,०६६.२० अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।
९,०६६.२० तमीमहे महागयम् ॥
९,०६६.२१ अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
९,०६६.२१ दधद्रयिं मयि पोषम् ॥
९,०६६.२२ पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम् ।
९,०६६.२२ सूरो न विश्वदर्शतः ॥
९,०६६.२३ स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः ।
९,०६६.२३ इन्दुरत्यो विचक्षणः ॥
९,०६६.२४ पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् ।
९,०६६.२४ कृष्णा तमांसि जङ्घनत् ॥
९,०६६.२५ पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत ।
९,०६६.२५ जीरा अजिरशोचिषः ॥
९,०६६.२६ पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
९,०६६.२६ हरिश्चन्द्रो मरुद्गणः ॥
९,०६६.२७ पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः ।
९,०६६.२७ दधत्स्तोत्रे सुवीर्यम् ॥
९,०६६.२८ प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् ।
९,०६६.२८ पुनान इन्दुरिन्द्रमा ॥
९,०६६.२९ एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः ।
९,०६६.२९ इन्द्रं मदाय जोहुवत् ॥
९,०६६.३० यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः ।
९,०६६.३० तेन नो मृळ जीवसे ॥
९,०६७.०१ त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
९,०६७.०१ पवस्व मंहयद्रयिः ॥
९,०६७.०२ त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः ।
९,०६७.०२ इन्द्राय सूरिरन्धसा ॥
९,०६७.०३ त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
९,०६७.०३ द्युमन्तं शुष्ममुत्तमम् ॥
९,०६७.०४ इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया ।
९,०६७.०४ हरिर्वाजमचिक्रदत् ॥
९,०६७.०५ इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा ।
९,०६७.०५ वि वाजान्सोम गोमतः ॥
९,०६७.०६ आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् ।
९,०६७.०६ भरा सोम सहस्रिणम् ॥
९,०६७.०७ पवमानास इन्दवस्तिरः पवित्रमाशवः ।
९,०६७.०७ इन्द्रं यामेभिराशत ॥
९,०६७.०८ ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः ।
९,०६७.०८ आयुः पवत आयवे ॥
९,०६७.०९ हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् ।
९,०६७.०९ अभि गिरा समस्वरन् ॥
९,०६७.१० अविता नो अजाश्वः पूषा यामनियामनि ।
९,०६७.१० आ भक्षत्कन्यासु नः ॥
९,०६७.११ अयं सोमः कपर्दिने घृतं न पवते मधु ।
९,०६७.११ आ भक्षत्कन्यासु नः ॥
९,०६७.१२ अयं त आघृणे सुतो घृतं न पवते शुचि ।
९,०६७.१२ आ भक्षत्कन्यासु नः ॥
९,०६७.१३ वाचो जन्तुः कवीनां पवस्व सोम धारया ।
९,०६७.१३ देवेषु रत्नधा असि ॥
९,०६७.१४ आ कलशेषु धावति श्येनो वर्म वि गाहते ।
९,०६७.१४ अभि द्रोणा कनिक्रदत् ॥
९,०६७.१५ परि प्र सोम ते रसोऽसर्जि कलशे सुतः ।
९,०६७.१५ श्येनो न तक्तो अर्षति ॥
९,०६७.१६ पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥
९,०६७.१७ असृग्रन्देववीतये वाजयन्तो रथा इव ॥
९,०६७.१८ ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत ॥
९,०६७.१९ ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि ।
९,०६७.१९ दधत्स्तोत्रे सुवीर्यम् ॥
९,०६७.२० एष तुन्नो अभिष्टुतः पवित्रमति गाहते ।
९,०६७.२० रक्षोहा वारमव्ययम् ॥
९,०६७.२१ यदन्ति यच्च दूरके भयं विन्दति मामिह ।
९,०६७.२१ पवमान वि तज्जहि ॥
९,०६७.२२ पवमानः सो अद्य नः पवित्रेण विचर्षणिः ।
९,०६७.२२ यः पोता स पुनातु नः ॥
९,०६७.२३ यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
९,०६७.२३ ब्रह्म तेन पुनीहि नः ॥
९,०६७.२४ यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ।
९,०६७.२४ ब्रह्मसवैः पुनीहि नः ॥
९,०६७.२५ उभाभ्यां देव सवितः पवित्रेण सवेन च ।
९,०६७.२५ मां पुनीहि विश्वतः ॥
९,०६७.२६ त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः ।
९,०६७.२६ अग्ने दक्षैः पुनीहि नः ॥
९,०६७.२७ पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
९,०६७.२७ विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥
९,०६७.२८ प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः ।
९,०६७.२८ देवेभ्य उत्तमं हविः ॥
९,०६७.२९ उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
९,०६७.२९ अगन्म बिभ्रतो नमः ॥
९,०६७.३० अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम ।
९,०६७.३० आखुं चिदेव देव सोम ॥
९,०६७.३१ यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् ।
९,०६७.३१ सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥
९,०६७.३२ पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् ।
९,०६७.३२ तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥
९,०६८.०१ प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः ।
९,०६८.०१ बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥
९,०६८.०२ स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः ।
९,०६८.०२ तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥
९,०६८.०३ वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता ।
९,०६८.०३ मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे ॥
९,०६८.०४ स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् ।
९,०६८.०४ अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः ॥
९,०६८.०५ सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः ।
९,०६८.०५ यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् ॥
९,०६८.०६ मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः ।
९,०६८.०६ तं मर्जयन्त सुवृधं नदीष्वां उशन्तमंशुं परियन्तमृग्मियम् ॥
९,०६८.०७ त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् ।
९,०६८.०७ अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥
९,०६८.०८ परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः ।
९,०६८.०८ यो धारया मधुमां ऊर्मिणा दिव इयर्ति वाचं रयिषाळ् अमर्त्यः ॥
९,०६८.०९ अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति ।
९,०६८.०९ अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् ॥
९,०६८.१० एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व ।
९,०६८.१० अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥
९,०६९.०१ इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि ।
९,०६९.०१ उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते ॥
९,०६९.०२ उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।
९,०६९.०२ पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति ॥
९,०६९.०३ अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेरृतं यते ।
९,०६९.०३ हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥
९,०६९.०४ उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् ।
९,०६९.०४ अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥
९,०६९.०५ अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत ।
९,०६९.०५ दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् ॥
९,०६९.०६ सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते ।
९,०६९.०६ तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥
९,०६९.०७ सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत ।
९,०६९.०७ शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥
९,०६९.०८ आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम् ।
९,०६९.०८ यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥
९,०६९.०९ एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ ।
९,०६९.०९ सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥
९,०६९.१० इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः ।
९,०६९.१० भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥
९,०७०.०१ त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि ।
९,०७०.०१ चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥
९,०७०.०२ स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
९,०७०.०२ तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥
९,०७०.०३ ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।
९,०७०.०३ येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥
९,०७०.०४ स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा ।
९,०७०.०४ व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥
९,०७०.०५ स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः ।
९,०७०.०५ वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥
९,०७०.०६ स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः ।
९,०७०.०६ जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः ॥
९,०७०.०७ रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः ।
९,०७०.०७ आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी ॥
९,०७०.०८ शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि ।
९,०७०.०८ जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥
९,०७०.०९ पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश ।
९,०७०.०९ पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥
९,०७०.१० हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व ।
९,०७०.१० नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद स्पः ॥
९,०७१.०१ आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः ।
९,०७१.०१ हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे ॥
९,०७१.०२ प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम् ।
९,०७१.०२ जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना ॥
९,०७१.०३ अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती ।
९,०७१.०३ स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥
९,०७१.०४ परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् ।
९,०७१.०४ आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः ॥
९,०७१.०५ समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ ।
९,०७१.०५ जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् ॥
९,०७१.०६ श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति ।
९,०७१.०६ ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवां अप्येति यज्ञियः ॥
९,०७१.०७ परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि ।
९,०७१.०७ सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति ॥
९,०७१.०८ त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः ।
९,०७१.०८ अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥
९,०७१.०९ उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य ।
९,०७१.०९ दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥
९,०७२.०१ हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते ।
९,०७२.०१ उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ॥
९,०७२.०२ साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः ।
९,०७२.०२ यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ॥
९,०७२.०३ अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम् ।
९,०७२.०३ अन्वस्मै जोषमभरद्विनङ्गृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥
९,०७२.०४ नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुरृत्वियः ।
९,०७२.०४ पुरन्धिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते ॥
९,०७२.०५ नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते ।
९,०७२.०५ आप्राः क्रतून्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः ॥
९,०७२.०६ अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः ।
९,०७२.०६ समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥
९,०७२.०७ नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः ।
९,०७२.०७ इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥
९,०७२.०८ स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो ।
९,०७२.०८ मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि ॥
९,०७२.०९ आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् ।
९,०७२.०९ उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥
९,०७३.०१ स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः ।
९,०७३.०१ त्रीन्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन् ॥
९,०७३.०२ सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् ।
९,०७३.०२ मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन् ॥
९,०७३.०३ पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् ।
९,०७३.०३ महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥
९,०७३.०४ सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः ।
९,०७३.०४ अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः ॥
९,०७३.०५ पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान् ।
९,०७३.०५ इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि ॥
९,०७३.०६ प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः ।
९,०७३.०६ अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥
९,०७३.०७ सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः ।
९,०७३.०७ रुद्रास एषामिषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥
९,०७३.०८ ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे ।
९,०७३.०८ विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥
९,०७३.०९ ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया ।
९,०७३.०९ धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः ॥
९,०७४.०१ शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति ।
९,०७४.०१ दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥
९,०७४.०२ दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः ।
९,०७४.०२ सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥
९,०७४.०३ महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते ।
९,०७४.०३ ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिरृग्मियः ॥
९,०७४.०४ आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते ।
९,०७४.०४ समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥
९,०७४.०५ अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम् ।
९,०७४.०५ दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥
९,०७४.०६ सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः ।
९,०७४.०६ चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥
९,०७४.०७ श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वां असुरो वेद भूमनः ।
९,०७४.०७ धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥
९,०७४.०८ अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् ।
९,०७४.०८ आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥
९,०७४.०९ अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति ।
९,०७४.०९ स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥
९,०७५.०१ अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
९,०७५.०१ आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥
९,०७५.०२ ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।
९,०७५.०२ दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः ॥
९,०७५.०३ अव द्युतानः कलशां अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये ।
९,०७५.०३ अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥
९,०७५.०४ अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः ।
९,०७५.०४ रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥
९,०७५.०५ परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् ।
९,०७५.०५ ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् ॥
९,०७६.०१ धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।
९,०७६.०१ हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥
९,०७६.०२ शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु ।
९,०७६.०२ इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥
९,०७६.०३ इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।
९,०७६.०३ प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजां उप मासि शश्वतः ॥
९,०७६.०४ विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळ् अवीवशत् ।
९,०७६.०४ यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥
९,०७६.०५ वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् ।
९,०७६.०५ स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥
९,०७७.०१ एष प्र कोशे मधुमां अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः ।
९,०७७.०१ अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥
९,०७७.०२ स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः ।
९,०७७.०२ स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥
९,०७७.०३ ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते ।
९,०७७.०३ ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥
९,०७७.०४ अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः ।
९,०७७.०४ इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥
९,०७७.०५ चक्रिर्दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग्यते ।
९,०७७.०५ असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥
९,०७८.०१ प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति ।
९,०७८.०१ गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥
९,०७८.०२ इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने ।
९,०७८.०२ पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ॥
९,०७८.०३ समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् ।
९,०७८.०३ ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥
९,०७८.०४ गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् ।
९,०७८.०४ यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥
९,०७८.०५ एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि ।
९,०७८.०५ जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥
९,०७९.०१ अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः ।
९,०७९.०१ वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः ॥
९,०७९.०२ प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि ।
९,०७९.०२ तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥
९,०७९.०३ उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः ।
९,०७९.०३ धन्वन्न तृष्णा समरीत तां अभि सोम जहि पवमान दुराध्यः ॥
९,०७९.०४ दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः ।
९,०७९.०४ अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः ॥
९,०७९.०५ एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः ।
९,०७९.०५ निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः ॥
९,०८०.०१ सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि ।
९,०८०.०१ बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥
९,०८०.०२ यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान् ।
९,०८०.०२ मघोनामायुः प्रतिरन्महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥
९,०८०.०३ एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः ।
९,०८०.०३ प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा ॥
९,०८०.०४ तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः ।
९,०८०.०४ नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवां आ पवस्वा सहस्रजित् ॥
९,०८०.०५ तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिपः ।
९,०८०.०५ इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ॥
९,०८१.०१ प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः ।
९,०८१.०१ दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ॥
९,०८१.०२ अच्छा हि सोमः कलशां असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा ।
९,०८१.०२ अथा देवानामुभयस्य जन्मनो विद्वां अश्नोत्यमुत इतश्च यत् ॥
९,०८१.०३ आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः ।
९,०८१.०३ शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥
९,०८१.०४ आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः ।
९,०८१.०४ बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥
९,०८१.०५ उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता ।
९,०८१.०५ भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥
९,०८२.०१ असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
९,०८२.०१ पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् ॥
९,०८२.०२ कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
९,०८२.०२ अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥
९,०८२.०३ पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
९,०८२.०३ स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे ॥
९,०८२.०४ जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते ।
९,०८२.०४ अन्तर्वाणीषु प्र चरा सु जीवसेऽनिन्द्यो वृजने सोम जागृहि ॥
९,०८२.०५ यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो ।
९,०८२.०५ एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते ॥
९,०८३.०१ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
९,०८३.०१ अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥
९,०८३.०२ तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् ।
९,०८३.०२ अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा ॥
९,०८३.०३ अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः ।
९,०८३.०३ मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥
९,०८३.०४ गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः ।
९,०८३.०४ गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥
९,०८३.०५ हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम् ।
९,०८३.०५ राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् ॥
९,०८४.०१ पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे ।
९,०८४.०१ कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥
९,०८४.०२ आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति ।
९,०८४.०२ कृण्वन्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥
९,०८४.०३ आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः ।
९,०८४.०३ आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥
९,०८४.०४ एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् ।
९,०८४.०४ इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥
९,०८४.०५ अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् ।
९,०८४.०५ धनञ्जयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥
९,०८५.०१ इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह ।
९,०८५.०१ मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥
९,०८५.०२ अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः ।
९,०८५.०२ जहि शत्रूंरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि ॥
९,०८५.०३ अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः ।
९,०८५.०३ अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते ॥
९,०८५.०४ सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु ।
९,०८५.०४ जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ॥
९,०८५.०५ कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि ।
९,०८५.०५ मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ॥
९,०८५.०६ स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने ।
९,०८५.०६ स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ॥
९,०८५.०७ अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते ।
९,०८५.०७ पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः ॥
९,०८५.०८ पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः ।
९,०८५.०८ माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम् ॥
९,०८५.०९ अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः ।
९,०८५.०९ राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः ॥
९,०८५.१० दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् ।
९,०८५.१० अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ ॥
९,०८५.११ नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः ।
९,०८५.११ शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥
९,०८५.१२ ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य ।
९,०८५.१२ भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः ॥
९,०८६.०१ प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना ।
९,०८६.०१ दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते ॥
९,०८६.०२ प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् ।
९,०८६.०२ धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ॥
९,०८६.०३ अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् ।
९,०८६.०३ वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥
९,०८६.०४ प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि ।
९,०८६.०४ प्रान्तरृषय स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥
९,०८६.०५ विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः ।
९,०८६.०५ व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ॥
९,०८६.०६ उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।
९,०८६.०६ यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥
९,०८६.०७ यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् ।
९,०८६.०७ सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥
९,०८६.०८ राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः ।
९,०८६.०८ अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥
९,०८६.०९ दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः ।
९,०८६.०९ इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥
९,०८६.१० ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः ।
९,०८६.१० दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥
९,०८६.११ अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः ।
९,०८६.११ हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥
९,०८६.१२ अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति ।
९,०८६.१२ अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥
९,०८६.१३ अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा ।
९,०८६.१३ तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥
९,०८६.१४ द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः ।
९,०८६.१४ स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥
९,०८६.१५ सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे ।
९,०८६.१५ पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः ॥
९,०८६.१६ प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम् ।
९,०८६.१६ मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥
९,०८६.१७ प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः ।
९,०८६.१७ सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः ॥
९,०८६.१८ आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम् ।
९,०८६.१८ या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥
९,०८६.१९ वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः ।
९,०८६.१९ क्राणा सिन्धूनां कलशां अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥
९,०८६.२० मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां अचिक्रदत् ।
९,०८६.२० त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे ॥
९,०८६.२१ अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
९,०८६.२१ अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥
९,०८६.२२ पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ ।
९,०८६.२२ सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥
९,०८६.२३ अद्रिभिः सुतः पवसे पवित्र आं इन्दविन्द्रस्य जठरेष्वाविशन् ।
९,०८६.२३ त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥
९,०८६.२४ त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः ।
९,०८६.२४ त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् ॥
९,०८६.२५ अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः ।
९,०८६.२५ अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत ॥
९,०८६.२६ इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्सुपथानि यज्यवे ।
९,०८६.२६ गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति ॥
९,०८६.२७ असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः ।
९,०८६.२७ क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः ॥
९,०८६.२८ तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि ।
९,०८६.२८ अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि ॥
९,०८६.२९ त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि ।
९,०८६.२९ त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥
९,०८६.३० त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे ।
९,०८६.३० त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥
९,०८६.३१ प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः ।
९,०८६.३१ सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥
९,०८६.३२ स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे ।
९,०८६.३२ नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् ॥
९,०८६.३३ राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् ।
९,०८६.३३ सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ॥
९,०८६.३४ पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया ।
९,०८६.३४ गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥
९,०८६.३५ इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि ।
९,०८६.३५ इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥
९,०८६.३६ सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् ।
९,०८६.३६ अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥
९,०८६.३७ ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः ।
९,०८६.३७ तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥
९,०८६.३८ त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।
९,०८६.३८ स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥
९,०८६.३९ गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।
९,०८६.३९ त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥
९,०८६.४० उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते ।
९,०८६.४० राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥
९,०८६.४१ स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि ।
९,०८६.४१ ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥
९,०८६.४२ सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः ।
९,०८६.४२ द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि ॥
९,०८६.४३ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।
९,०८६.४३ सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते ॥
९,०८६.४४ विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
९,०८६.४४ अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः ॥
९,०८६.४५ अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
९,०८६.४५ हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥
९,०८६.४६ असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति ।
९,०८६.४६ अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः ॥
९,०८६.४७ प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः ।
९,०८६.४७ यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥
९,०८६.४८ पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् ।
९,०८६.४८ जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः ॥
९,०८७.०१ प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।
९,०८७.०१ अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥
९,०८७.०२ स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः ।
९,०८७.०२ पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥
९,०८७.०३ ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।
९,०८७.०३ स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥
९,०८७.०४ एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः ।
९,०८७.०४ सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥
९,०८७.०५ एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि ।
९,०८७.०५ पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः ॥
९,०८७.०६ परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः ।
९,०८७.०६ अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष ॥
९,०८७.०७ एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा ।
९,०८७.०७ तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा ॥
९,०८७.०८ एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद ।
९,०८७.०८ दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा ॥
९,०८७.०९ उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः ।
९,०८७.०९ पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत् ॥
९,०८८.०१ अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
९,०८८.०१ त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥
९,०८८.०२ स ईं रथो न भुरिषाळ् अयोजि महः पुरूणि सातये वसूनि ।
९,०८८.०२ आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥
९,०८८.०३ वायुर्न यो नियुत्वां इष्टयामा नासत्येव हव आ शम्भविष्ठः ।
९,०८८.०३ विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥
९,०८८.०४ इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित् ।
९,०८८.०४ पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥
९,०८८.०५ अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु ।
९,०८८.०५ जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम् ॥
९,०८८.०६ एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः ।
९,०८८.०६ वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशां असृग्रन् ॥
९,०८८.०७ शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
९,०८८.०७ आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥
९,०८८.०८ राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
९,०८८.०८ शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥
९,०८९.०१ प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः ।
९,०८९.०१ सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः ॥
९,०८९.०२ राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम् ।
९,०८९.०२ अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम् ॥
९,०८९.०३ सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् ।
९,०८९.०३ शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा ॥
९,०८९.०४ मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम् ।
९,०८९.०४ स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति ॥
९,०८९.०५ चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः ।
९,०८९.०५ ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः ॥
९,०८९.०६ विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य ।
९,०८९.०६ असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय ॥
९,०८९.०७ वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व ।
९,०८९.०७ शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥
९,०९०.०१ प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् ।
९,०९०.०१ इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥
९,०९०.०२ अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः ।
९,०९०.०२ वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि ॥
९,०९०.०३ शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि ।
९,०९०.०३ तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् ॥
९,०९०.०४ उरुगव्यूतिरभयानि कृण्वन्समीचीने आ पवस्वा पुरन्धी ।
९,०९०.०४ अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥
९,०९०.०५ मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम् ।
९,०९०.०५ मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय ॥
९,०९०.०६ एवा राजेव क्रतुमां अमेन विश्वा घनिघ्नद्दुरिता पवस्व ।
९,०९०.०६ इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः ॥
९,०९१.०१ असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी ।
९,०९१.०१ दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ ॥
९,०९१.०२ वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः ।
९,०९१.०२ प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः ॥
९,०९१.०३ वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः ।
९,०९१.०३ सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति ॥
९,०९१.०४ रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् ।
९,०९१.०४ वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम् ॥
९,०९१.०५ स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः ।
९,०९१.०५ ये दुःषहासो वनुषा बृहन्तस्तांस्ते अश्याम पुरुकृत्पुरुक्षो ॥
९,०९१.०६ एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि ।
९,०९१.०६ शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि ॥
९,०९२.०१ परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः ।
९,०९२.०१ आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवां अजुषत प्रयोभिः ॥
९,०९२.०२ अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ ।
९,०९२.०२ सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥
९,०९२.०३ प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम् ।
९,०९२.०३ भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः ॥
९,०९२.०४ तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः ।
९,०९२.०४ दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥
९,०९२.०५ तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त ।
९,०९२.०५ ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥
९,०९२.०६ परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः ।
९,०९२.०६ सोमः पुनानः कलशां अयासीत्सीदन्मृगो न महिषो वनेषु ॥
९,०९३.०१ साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
९,०९३.०१ हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥
९,०९३.०२ सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
९,०९३.०२ मर्यो न योषामभि निष्कृतं यन्सं गच्छते कलश उस्रियाभिः ॥
९,०९३.०३ उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।
९,०९३.०३ मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥
९,०९३.०४ स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः ।
९,०९३.०४ रथिरायतामुशती पुरन्धिरस्मद्र्यगा दावने वसूनाम् ॥
९,०९३.०५ नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम् ।
९,०९३.०५ प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् ॥
९,०९४.०१ अधि यदस्मिन्वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः ।
९,०९४.०१ अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥
९,०९४.०२ द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त ।
९,०९४.०२ धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम् ॥
९,०९४.०३ परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ।
९,०९४.०३ देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः ॥
९,०९४.०४ श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति ।
९,०९४.०४ श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ ॥
९,०९४.०५ इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् ।
९,०९४.०५ विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥
९,०९५.०१ कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः ।
९,०९५.०१ नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः ॥
९,०९५.०२ हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् ।
९,०९५.०२ देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥
९,०९५.०३ अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ ।
९,०९५.०३ नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् ॥
९,०९५.०४ तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम् ।
९,०९५.०४ तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥
९,०९५.०५ इष्यन्वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् ।
९,०९५.०५ इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥
९,०९६.०१ प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना ।
९,०९६.०१ भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥
९,०९६.०२ समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः ।
९,०९६.०२ आ तिष्ठति रथमिन्द्रस्य सखा विद्वां एना सुमतिं यात्यच्छ ॥
९,०९६.०३ स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः ।
९,०९६.०३ कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥
९,०९६.०४ अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते ।
९,०९६.०४ तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ॥
९,०९६.०५ सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
९,०९६.०५ जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥
९,०९६.०६ ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
९,०९६.०६ श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥
९,०९६.०७ प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः ।
९,०९६.०७ अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥
९,०९६.०८ स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष ।
९,०९६.०८ इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन् ॥
९,०९६.०९ परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय ।
९,०९६.०९ सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति ॥
९,०९६.१० स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ ।
९,०९६.१० अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥
९,०९६.११ त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
९,०९६.११ वन्वन्नवातः परिधींरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥
९,०९६.१२ यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान् ।
९,०९६.१२ एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥
९,०९६.१३ पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये ।
९,०९६.१३ अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥
९,०९६.१४ वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ ।
९,०९६.१४ सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः ॥
९,०९६.१५ एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः ।
९,०९६.१५ पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥
९,०९६.१६ स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम ।
९,०९६.१६ अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥
९,०९६.१७ शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन ।
९,०९६.१७ कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन् ॥
९,०९६.१८ ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम् ।
९,०९६.१८ तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप् ॥
९,०९६.१९ चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।
९,०९६.१९ अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥
९,०९६.२० मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम् ।
९,०९६.२० वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश ॥
९,०९६.२१ पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष ।
९,०९६.२१ क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥
९,०९६.२२ प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशां आ विवेश ।
९,०९६.२२ साम कृण्वन्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम् ॥
९,०९६.२३ अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः ।
९,०९६.२३ सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥
९,०९६.२४ आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः ।
९,०९६.२४ हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम् ॥
९,०९७.०१ अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् ।
९,०९७.०१ सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता ॥
९,०९७.०२ भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन् ।
९,०९७.०२ आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥
९,०९७.०३ समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।
९,०९७.०३ अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥
९,०९७.०४ प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय ।
९,०९७.०४ स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥
९,०९७.०५ इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय ।
९,०९७.०५ नृभि स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥
९,०९७.०६ स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय ।
९,०९७.०६ देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥
९,०९७.०७ प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
९,०९७.०७ महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥
९,०९७.०८ प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः ।
९,०९७.०८ आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥
९,०९७.०९ स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः ।
९,०९७.०९ परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥
९,०९७.१० इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
९,०९७.१० हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥
९,०९७.११ अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
९,०९७.११ इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥
९,०९७.१२ अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन् ।
९,०९७.१२ इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥
९,०९७.१३ वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम् ।
९,०९७.१३ इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् ॥
९,०९७.१४ रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् ।
९,०९७.१४ पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥
९,०९७.१५ एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः ।
९,०९७.१५ परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥
९,०९७.१६ जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् ।
९,०९७.१६ घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥
९,०९७.१७ वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शङ्गयीं जीरदानुम् ।
९,०९७.१७ स्तुकेव वीता धन्वा विचिन्वन्बन्धूंरिमां अवरां इन्दो वायून् ॥
९,०९७.१८ ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम ।
९,०९७.१८ अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥
९,०९७.१९ जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये ।
९,०९७.१९ सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये ॥
९,०९७.२० अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ ।
९,०९७.२० एते शुक्रासो धन्वन्ति सोमा देवासस्तां उप याता पिबध्यै ॥
९,०९७.२१ एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु ।
९,०९७.२१ सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम् ॥
९,०९७.२२ तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके ।
९,०९७.२२ आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥
९,०९७.२३ प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः ।
९,०९७.२३ धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥
९,०९७.२४ पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् ।
९,०९७.२४ द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः ॥
९,०९७.२५ अर्वां इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष ।
९,०९७.२५ स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥
९,०९७.२६ देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः ।
९,०९७.२६ आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥
९,०९७.२७ एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः ।
९,०९७.२७ महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥
९,०९७.२८ अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् ।
९,०९७.२८ अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥
९,०९७.२९ शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति ।
९,०९७.२९ इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥
९,०९७.३० दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः ।
९,०९७.३० पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम् ॥
९,०९७.३१ प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् ।
९,०९७.३१ पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥
९,०९७.३२ कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम ।
९,०९७.३२ स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥
९,०९७.३३ दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ ।
९,०९७.३३ एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥
९,०९७.३४ तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् ।
९,०९७.३४ गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥
९,०९७.३५ सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
९,०९७.३५ सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥
९,०९७.३६ एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
९,०९७.३६ इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् ॥
९,०९७.३७ आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु ।
९,०९७.३७ सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥
९,०९७.३८ स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः ।
९,०९७.३८ प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥
९,०९७.३९ स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् ।
९,०९७.३९ येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥
९,०९७.४० अक्रान्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा ।
९,०९७.४० वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥
९,०९७.४१ महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
९,०९७.४१ अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥
९,०९७.४२ मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
९,०९७.४२ मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥
९,०९७.४३ ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च ।
९,०९७.४३ अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः ॥
९,०९७.४४ मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च ।
९,०९७.४४ स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥
९,०९७.४५ सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः ।
९,०९७.४५ आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः ॥
९,०९७.४६ एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् ।
९,०९७.४६ स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥
९,०९७.४७ एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः ।
९,०९७.४७ वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥
९,०९७.४८ नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः ।
९,०९७.४८ अप्सु स्वादिष्ठो मधुमां ऋतावा देवो न यः सविता सत्यमन्मा ॥
९,०९७.४९ अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः ।
९,०९७.४९ अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥
९,०९७.५० अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
९,०९७.५० अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥
९,०९७.५१ अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।
९,०९७.५१ अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥
९,०९७.५२ अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व ।
९,०९७.५२ ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥
९,०९७.५३ उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
९,०९७.५३ षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥
९,०९७.५४ महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे ।
९,०९७.५४ अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः ॥
९,०९७.५५ सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः ।
९,०९७.५५ असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥
९,०९७.५६ एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा ।
९,०९७.५६ द्रप्सां ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥
९,०९७.५७ इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः ।
९,०९७.५७ हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥
९,०९७.५८ त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।
९,०९७.५८ तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥
९,०९८.०१ अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम् ।
९,०९८.०१ इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥
९,०९८.०२ परि ष्य सुवानो अव्ययं रथे न वर्माव्यत ।
९,०९८.०२ इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः ॥
९,०९८.०३ परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः ।
९,०९८.०३ धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥
९,०९८.०४ स हि त्वं देव शश्वते वसु मर्ताय दाशुषे ।
९,०९८.०४ इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥
९,०९८.०५ वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः ।
९,०९८.०५ नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥
९,०९८.०६ द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम् ।
९,०९८.०६ प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम् ॥
९,०९८.०७ परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
९,०९८.०७ यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥
९,०९८.०८ अस्य वो ह्यवसा पान्तो दक्षसाधनम् ।
९,०९८.०८ यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः ॥
९,०९८.०९ स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी ।
९,०९८.०९ देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि ॥
९,०९८.१० इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
९,०९८.१० नरे च दक्षिणावते देवाय सदनासदे ॥
९,०९८.११ ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् ।
९,०९८.११ अपप्रोथन्तः सनुतर्हुरश्चितः प्रातस्तां अप्रचेतसः ॥
९,०९८.१२ तं सखायः पुरोरुचं यूयं वयं च सूरयः ।
९,०९८.१२ अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥
९,०९९.०१ आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् ।
९,०९९.०१ शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ॥
९,०९९.०२ अध क्षपा परिष्कृतो वाजां अभि प्र गाहते ।
९,०९९.०२ यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥
९,०९९.०३ तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
९,०९९.०३ यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥
९,०९९.०४ तं गाथया पुराण्या पुनानमभ्यनूषत ।
९,०९९.०४ उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥
९,०९९.०५ तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् ।
९,०९९.०५ दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥
९,०९९.०६ स पुनानो मदिन्तमः सोमश्चमूषु सीदति ।
९,०९९.०६ पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥
९,०९९.०७ स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः ।
९,०९९.०७ विदे यदासु संददिर्महीरपो वि गाहते ॥
९,०९९.०८ सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे ।
९,०९९.०८ इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि ॥
९,१००.०१ अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् ।
९,१००.०१ वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥
९,१००.०२ पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
९,१००.०२ त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥
९,१००.०३ त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः ।
९,१००.०३ त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥
९,१००.०४ परि ते जिग्युषो यथा धारा सुतस्य धावति ।
९,१००.०४ रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥
९,१००.०५ क्रत्वे दक्षाय नः कवे पवस्व सोम धारया ।
९,१००.०५ इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥
९,१००.०६ पवस्व वाजसातमः पवित्रे धारया सुतः ।
९,१००.०६ इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥
९,१००.०७ त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः ।
९,१००.०७ वत्सं जातं न धेनवः पवमान विधर्मणि ॥
९,१००.०८ पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः ।
९,१००.०८ शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥
९,१००.०९ त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
९,१००.०९ प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥
९,१०१.०१ पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
९,१०१.०१ अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥
९,१०१.०२ यो धारया पावकया परिप्रस्यन्दते सुतः ।
९,१०१.०२ इन्दुरश्वो न कृत्व्यः ॥
९,१०१.०३ तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
९,१०१.०३ यज्ञं हिन्वन्त्यद्रिभिः ॥
९,१०१.०४ सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
९,१०१.०४ पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥
९,१०१.०५ इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
९,१०१.०५ वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥
९,१०१.०६ सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
९,१०१.०६ सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥
९,१०१.०७ अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
९,१०१.०७ पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥
९,१०१.०८ समु प्रिया अनूषत गावो मदाय घृष्वयः ।
९,१०१.०८ सोमासः कृण्वते पथः पवमानास इन्दवः ॥
९,१०१.०९ य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् ।
९,१०१.०९ यः पञ्च चर्षणीरभि रयिं येन वनामहै ॥
९,१०१.१० सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
९,१०१.१० मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥
९,१०१.११ सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
९,१०१.११ इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥
९,१०१.१२ एते पूता विपश्चितः सोमासो दध्याशिरः ।
९,१०१.१२ सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥
९,१०१.१३ प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः ।
९,१०१.१३ अप श्वानमराधसं हता मखं न भृगवः ॥
९,१०१.१४ आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।
९,१०१.१४ सरज्जारो न योषणां वरो न योनिमासदम् ॥
९,१०१.१५ स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।
९,१०१.१५ हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥
९,१०१.१६ अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि ।
९,१०१.१६ कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् ॥
९,१०२.०१ क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् ।
९,१०२.०१ विश्वा परि प्रिया भुवदध द्विता ॥
९,१०२.०२ उप त्रितस्य पाष्योरभक्त यद्गुहा पदम् ।
९,१०२.०२ यज्ञस्य सप्त धामभिरध प्रियम् ॥
९,१०२.०३ त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् ।
९,१०२.०३ मिमीते अस्य योजना वि सुक्रतुः ॥
९,१०२.०४ जज्ञानं सप्त मातरो वेधामशासत श्रिये ।
९,१०२.०४ अयं ध्रुवो रयीणां चिकेत यत् ॥
९,१०२.०५ अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः ।
९,१०२.०५ स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥
९,१०२.०६ यमी गर्भमृतावृधो दृशे चारुमजीजनन् ।
९,१०२.०६ कविं मंहिष्ठमध्वरे पुरुस्पृहम् ॥
९,१०२.०७ समीचीने अभि त्मना यह्वी ऋतस्य मातरा ।
९,१०२.०७ तन्वाना यज्ञमानुषग्यदञ्जते ॥
९,१०२.०८ क्रत्वा शुक्रेभिरक्षभिरृणोरप व्रजं दिवः ।
९,१०२.०८ हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥
९,१०३.०१ प्र पुनानाय वेधसे सोमाय वच उद्यतम् ।
९,१०३.०१ भृतिं न भरा मतिभिर्जुजोषते ॥
९,१०३.०२ परि वाराण्यव्यया गोभिरञ्जानो अर्षति ।
९,१०३.०२ त्री षधस्था पुनानः कृणुते हरिः ॥
९,१०३.०३ परि कोशं मधुश्चुतमव्यये वारे अर्षति ।
९,१०३.०३ अभि वाणीरृषीणां सप्त नूषत ॥
९,१०३.०४ परि णेता मतीनां विश्वदेवो अदाभ्यः ।
९,१०३.०४ सोमः पुनानश्चम्वोर्विशद्धरिः ॥
९,१०३.०५ परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् ।
९,१०३.०५ पुनानो वाघद्वाघद्भिरमर्त्यः ॥
९,१०३.०६ परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः ।
९,१०३.०६ व्यानशिः पवमानो वि धावति ॥
९,१०४.०१ सखाय आ नि षीदत पुनानाय प्र गायत ।
९,१०४.०१ शिशुं न यज्ञैः परि भूषत श्रिये ॥
९,१०४.०२ समी वत्सं न मातृभिः सृजता गयसाधनम् ।
९,१०४.०२ देवाव्यं मदमभि द्विशवसम् ॥
९,१०४.०३ पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
९,१०४.०३ यथा मित्राय वरुणाय शन्तमः ॥
९,१०४.०४ अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत ।
९,१०४.०४ गोभिष्टे वर्णमभि वासयामसि ॥
९,१०४.०५ स नो मदानां पत इन्दो देवप्सरा असि ।
९,१०४.०५ सखेव सख्ये गातुवित्तमो भव ॥
९,१०४.०६ सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् ।
९,१०४.०६ अपादेवं द्वयुमंहो युयोधि नः ॥
९,१०५.०१ तं वः सखायो मदाय पुनानमभि गायत ।
९,१०५.०१ शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥
९,१०५.०२ सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
९,१०५.०२ देवावीर्मदो मतिभिः परिष्कृतः ॥
९,१०५.०३ अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
९,१०५.०३ अयं देवेभ्यो मधुमत्तमः सुतः ॥
९,१०५.०४ गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धन्व ।
९,१०५.०४ शुचिं ते वर्णमधि गोषु दीधरम् ॥
९,१०५.०५ स नो हरीणां पत इन्दो देवप्सरस्तमः ।
९,१०५.०५ सखेव सख्ये नर्यो रुचे भव ॥
९,१०५.०६ सनेमि त्वमस्मदां अदेवं कं चिदत्रिणम् ।
९,१०५.०६ साह्वां इन्दो परि बाधो अप द्वयुम् ॥
९,१०६.०१ इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
९,१०६.०१ श्रुष्टी जातास इन्दवः स्वर्विदः ॥
९,१०६.०२ अयं भराय सानसिरिन्द्राय पवते सुतः ।
९,१०६.०२ सोमो जैत्रस्य चेतति यथा विदे ॥
९,१०६.०३ अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् ।
९,१०६.०३ वज्रं च वृषणं भरत्समप्सुजित् ॥
९,१०६.०४ प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव ।
९,१०६.०४ द्युमन्तं शुष्ममा भरा स्वर्विदम् ॥
९,१०६.०५ इन्द्राय वृषणं मदं पवस्व विश्वदर्शतः ।
९,१०६.०५ सहस्रयामा पथिकृद्विचक्षणः ॥
९,१०६.०६ अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः ।
९,१०६.०६ सहस्रं याहि पथिभिः कनिक्रदत् ॥
९,१०६.०७ पवस्व देववीतय इन्दो धाराभिरोजसा ।
९,१०६.०७ आ कलशं मधुमान्सोम नः सदः ॥
९,१०६.०८ तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
९,१०६.०८ त्वां देवासो अमृताय कं पपुः ॥
९,१०६.०९ आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
९,१०६.०९ वृष्टिद्यावो रीत्यापः स्वर्विदः ॥
९,१०६.१० सोमः पुनान ऊर्मिणाव्यो वारं वि धावति ।
९,१०६.१० अग्रे वाचः पवमानः कनिक्रदत् ॥
९,१०६.११ धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम् ।
९,१०६.११ अभि त्रिपृष्ठं मतयः समस्वरन् ॥
९,१०६.१२ असर्जि कलशां अभि मीळ्हे सप्तिर्न वाजयुः ।
९,१०६.१२ पुनानो वाचं जनयन्नसिष्यदत् ॥
९,१०६.१३ पवते हर्यतो हरिरति ह्वरांसि रंह्या ।
९,१०६.१३ अभ्यर्षन्स्तोतृभ्यो वीरवद्यशः ॥
९,१०६.१४ अया पवस्व देवयुर्मधोर्धारा असृक्षत ।
९,१०६.१४ रेभन्पवित्रं पर्येषि विश्वतः ॥
९,१०७.०१ परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
९,१०७.०१ दधन्वां यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ॥
९,१०७.०२ नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
९,१०७.०२ सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥
९,१०७.०३ परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥
९,१०७.०४ पुनानः सोम धारयापो वसानो अर्षसि ।
९,१०७.०४ आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः ॥
९,१०७.०५ दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
९,१०७.०५ आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः ॥
९,१०७.०६ पुनानः सोम जागृविरव्यो वारे परि प्रियः ।
९,१०७.०६ त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥
९,१०७.०७ सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः ।
९,१०७.०७ त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥
९,१०७.०८ सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम् ।
९,१०७.०८ अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥
९,१०७.०९ अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
९,१०७.०९ समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥
९,१०७.१० आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया ।
९,१०७.१० जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे ॥
९,१०७.११ स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः ।
९,१०७.११ अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥
९,१०७.१२ प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
९,१०७.१२ अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥
९,१०७.१३ आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।
९,१०७.१३ तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥
९,१०७.१४ अभि सोमास आयवः पवन्ते मद्यं मदम् ।
९,१०७.१४ समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥
९,१०७.१५ तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
९,१०७.१५ अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥
९,१०७.१६ नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥
९,१०७.१७ इन्द्राय पवते मदः सोमो मरुत्वते सुतः ।
९,१०७.१७ सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥
९,१०७.१८ पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति ।
९,१०७.१८ अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥
९,१०७.१९ तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।
९,१०७.१९ पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि ॥
९,१०७.२० उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि ।
९,१०७.२० घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥
९,१०७.२१ मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
९,१०७.२१ रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥
९,१०७.२२ मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने ।
९,१०७.२२ देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥
९,१०७.२३ पवस्व वाजसातयेऽभि विश्वानि काव्या ।
९,१०७.२३ त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥
९,१०७.२४ स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः ।
९,१०७.२४ त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥
९,१०७.२५ पवमाना असृक्षत पवित्रमति धारया ।
९,१०७.२५ मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥
९,१०७.२६ अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः ।
९,१०७.२६ जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् ॥
९,१०८.०१ पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
९,१०८.०१ महि द्युक्षतमो मदः ॥
९,१०८.०२ यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः ।
९,१०८.०२ स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥
९,१०८.०३ त्वं ह्यङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
९,१०८.०३ अमृतत्वाय घोषयः ॥
९,१०८.०४ येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
९,१०८.०४ देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः ॥
९,१०८.०५ एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः ।
९,१०८.०५ क्रीळन्नूर्मिरपामिव ॥
९,१०८.०६ य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा ।
९,१०८.०६ अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॥
९,१०८.०७ आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् ।
९,१०८.०७ वनक्रक्षमुदप्रुतम् ॥
९,१०८.०८ सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने ।
९,१०८.०८ ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥
९,१०८.०९ अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः ।
९,१०८.०९ वि कोशं मध्यमं युव ॥
९,१०८.१० आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।
९,१०८.१० वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ॥
९,१०८.११ एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः ।
९,१०८.११ विश्वा वसूनि बिभ्रतम् ॥
९,१०८.१२ वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः ।
९,१०८.१२ स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा ॥
९,१०८.१३ स सुन्वे यो वसूनां यो रायामानेता य इळानाम् ।
९,१०८.१३ सोमो यः सुक्षितीनाम् ॥
९,१०८.१४ यस्य न इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः ।
९,१०८.१४ आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥
९,१०८.१५ इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः ।
९,१०८.१५ पवस्व मधुमत्तमः ॥
९,१०८.१६ इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः ।
९,१०८.१६ जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥
९,१०९.०१ परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥
९,१०९.०२ इन्द्रस्ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥
९,१०९.०३ एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥
९,१०९.०४ पवस्व सोम महान्समुद्रः पिता देवानां विश्वाभि धाम ॥
९,१०९.०५ शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥
९,१०९.०६ दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥
९,१०९.०७ पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः ॥
९,१०९.०८ नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित् ॥
९,१०९.०९ इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः ॥
९,१०९.१० पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥
९,१०९.११ तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥
९,१०९.१२ शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥
९,१०९.१३ इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥
९,१०९.१४ बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥
९,१०९.१५ पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥
९,१०९.१६ प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥
९,१०९.१७ स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥
९,१०९.१८ प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥
९,१०९.१९ असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः ॥
९,१०९.२० अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय ॥
९,१०९.२१ देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति ॥
९,१०९.२२ इन्दुरिन्द्राय तोशते नि तोशते श्रीणन्नुग्रो रिणन्नपः ॥
९,११०.०१ पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
९,११०.०१ द्विषस्तरध्या ऋणया न ईयसे ॥
९,११०.०२ अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
९,११०.०२ वाजां अभि पवमान प्र गाहसे ॥
९,११०.०३ अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
९,११०.०३ गोजीरया रंहमाणः पुरन्ध्या ॥
९,११०.०४ अजीजनो अमृत मर्त्येष्वां ऋतस्य धर्मन्नमृतस्य चारुणः ।
९,११०.०४ सदासरो वाजमच्छा सनिष्यदत् ॥
९,११०.०५ अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् ।
९,११०.०५ शर्याभिर्न भरमाणो गभस्त्योः ॥
९,११०.०६ आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
९,११०.०६ वारं न देवः सविता व्यूर्णुते ॥
९,११०.०७ त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः ।
९,११०.०७ स त्वं नो वीर वीर्याय चोदय ॥
९,११०.०८ दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत ।
९,११०.०८ इन्द्रमभि जायमानं समस्वरन् ॥
९,११०.०९ अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
९,११०.०९ यूथे न निष्ठा वृषभो वि तिष्ठसे ॥
९,११०.१० सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः ।
९,११०.१० सहस्रधारः शतवाज इन्दुः ॥
९,११०.११ एष पुनानो मधुमां ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः ।
९,११०.११ वाजसनिर्वरिवोविद्वयोधाः ॥
९,११०.१२ स पवस्व सहमानः पृतन्यून्सेधन्रक्षांस्यप दुर्गहाणि ।
९,११०.१२ स्वायुधः सासह्वान्सोम शत्रून् ॥
९,१११.०१ अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः ।
९,१११.०१ धारा सुतस्य रोचते पुनानो अरुषो हरिः ।
९,१११.०१ विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिरृक्वभिः ॥
९,१११.०२ त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
९,१११.०२ परावतो न साम तद्यत्रा रणन्ति धीतयः ।
९,१११.०२ त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥
९,१११.०३ पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
९,१११.०३ अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् ।
९,१११.०३ वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥
९,११२.०१ नानानं वा उ नो धियो वि व्रतानि जनानाम् ।
९,११२.०१ तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥
९,११२.०२ जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् ।
९,११२.०२ कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥
९,११२.०३ कारुरहं ततो भिषगुपलप्रक्षिणी नना ।
९,११२.०३ नानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥
९,११२.०४ अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः ।
९,११२.०४ शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥
९,११३.०१ शर्यणावति सोममिन्द्रः पिबतु वृत्रहा ।
९,११३.०१ बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव ॥
९,११३.०२ आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः ।
९,११३.०२ ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥
९,११३.०३ पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् ।
९,११३.०३ तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव ॥
९,११३.०४ ऋतं वदन्नृतद्युम्न सत्यं वदन्सत्यकर्मन् ।
९,११३.०४ श्रद्धां वदन्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥
९,११३.०५ सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः ।
९,११३.०५ सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥
९,११३.०६ यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् ।
९,११३.०६ ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥
९,११३.०७ यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् ।
९,११३.०७ तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥
९,११३.०८ यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
९,११३.०८ यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
९,११३.०९ यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
९,११३.०९ लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
९,११३.१० यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् ।
९,११३.१० स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
९,११३.११ यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
९,११३.११ कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
९,११४.०१ य इन्दोः पवमानस्यानु धामान्यक्रमीत् ।
९,११४.०१ तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव ॥
९,११४.०२ ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः ।
९,११४.०२ सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥
९,११४.०३ सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
९,११४.०३ देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥
९,११४.०४ यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः ।
९,११४.०४ अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव ॥
ऋग्वेद १०
१०,००१.०१ अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् ।
१०,००१.०१ अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥
१०,००१.०२ स जातो गर्भो असि रोदस्योरग्ने चारुर्विभृत ओषधीषु ।
१०,००१.०२ चित्रः शिशुः परि तमांस्यक्तून्प्र मातृभ्यो अधि कनिक्रदद्गाः ॥
१०,००१.०३ विष्णुरित्था परममस्य विद्वाञ्जातो बृहन्नभि पाति तृतीयम् ।
१०,००१.०३ आसा यदस्य पयो अक्रत स्वं सचेतसो अभ्यर्चन्त्यत्र ॥
१०,००१.०४ अत उ त्वा पितुभृतो जनित्रीरन्नावृधं प्रति चरन्त्यन्नैः ।
१०,००१.०४ ता ईं प्रत्येषि पुनरन्यरूपा असि त्वं विक्षु मानुषीषु होता ॥
१०,००१.०५ होतारं चित्ररथमध्वरस्य यज्ञस्ययज्ञस्य केतुं रुशन्तम् ।
१०,००१.०५ प्रत्यर्धिं देवस्यदेवस्य मह्ना श्रिया त्वग्निमतिथिं जनानाम् ॥
१०,००१.०६ स तु वस्त्राण्यध पेशनानि वसानो अग्निर्नाभा पृथिव्याः ।
१०,००१.०६ अरुषो जातः पद इळायाः पुरोहितो राजन्यक्षीह देवान् ॥
१०,००१.०७ आ हि द्यावापृथिवी अग्न उभे सदा पुत्रो न मातरा ततन्थ ।
१०,००१.०७ प्र याह्यच्छोशतो यविष्ठाथा वह सहस्येह देवान् ॥
१०,००२.०१ पिप्रीहि देवां उशतो यविष्ठ विद्वां ऋतूंरृतुपते यजेह ।
१०,००२.०१ ये दैव्या ऋत्विजस्तेभिरग्ने त्वं होतॄणामस्यायजिष्ठः ॥
१०,००२.०२ वेषि होत्रमुत पोत्रं जनानां मन्धातासि द्रविणोदा ऋतावा ।
१०,००२.०२ स्वाहा वयं कृणवामा हवींषि देवो देवान्यजत्वग्निरर्हन् ॥
१०,००२.०३ आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनु प्रवोळ्हुम् ।
१०,००२.०३ अग्निर्विद्वान्स यजात्सेदु होता सो अध्वरान्स ऋतून्कल्पयाति ॥
१०,००२.०४ यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
१०,००२.०४ अग्निष्टद्विश्वमा पृणाति विद्वान्येभिर्देवां ऋतुभिः कल्पयाति ॥
१०,००२.०५ यत्पाकत्रा मनसा दीनदक्षा न यज्ञस्य मन्वते मर्त्यासः ।
१०,००२.०५ अग्निष्टद्धोता क्रतुविद्विजानन्यजिष्ठो देवां ऋतुशो यजाति ॥
१०,००२.०६ विश्वेषां ह्यध्वराणामनीकं चित्रं केतुं जनिता त्वा जजान ।
१०,००२.०६ स आ यजस्व नृवतीरनु क्षा स्पार्हा इषः क्षुमतीर्विश्वजन्याः ॥
१०,००२.०७ यं त्वा द्यावापृथिवी यं त्वापस्त्वष्टा यं त्वा सुजनिमा जजान ।
१०,००२.०७ पन्थामनु प्रविद्वान्पितृयाणं द्युमदग्ने समिधानो वि भाहि ॥
१०,००३.०१ इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि ।
१०,००३.०१ चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥
१०,००३.०२ कृष्णां यदेनीमभि वर्पसा भूज्जनयन्योषां बृहतः पितुर्जाम् ।
१०,००३.०२ ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥
१०,००३.०३ भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।
१०,००३.०३ सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥
१०,००३.०४ अस्य यामासो बृहतो न वग्नूनिन्धाना अग्नेः सख्युः शिवस्य ।
१०,००३.०४ ईड्यस्य वृष्णो बृहतः स्वासो भामासो यामन्नक्तवश्चिकित्रे ॥
१०,००३.०५ स्वना न यस्य भामासः पवन्ते रोचमानस्य बृहतः सुदिवः ।
१०,००३.०५ ज्येष्ठेभिर्यस्तेजिष्ठैः क्रीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति द्याम् ॥
१०,००३.०६ अस्य शुष्मासो ददृशानपवेर्जेहमानस्य स्वनयन्नियुद्भिः ।
१०,००३.०६ प्रत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा ॥
१०,००३.०७ स आ वक्षि महि न आ च सत्सि दिवस्पृथिव्योररतिर्युवत्योः ।
१०,००३.०७ अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भी रभस्वां एह गम्याः ॥
१०,००४.०१ प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु ।
१०,००४.०१ धन्वन्निव प्रपा असि त्वमग्न इयक्षवे पूरवे प्रत्न राजन् ॥
१०,००४.०२ यं त्वा जनासो अभि संचरन्ति गाव उष्णमिव व्रजं यविष्ठ ।
१०,००४.०२ दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन ॥
१०,००४.०३ शिशुं न त्वा जेन्यं वर्धयन्ती माता बिभर्ति सचनस्यमाना ।
१०,००४.०३ धनोरधि प्रवता यासि हर्यञ्जिगीषसे पशुरिवावसृष्टः ॥
१०,००४.०४ मूरा अमूर न वयं चिकित्वो महित्वमग्ने त्वमङ्ग वित्से ।
१०,००४.०४ शये वव्रिश्चरति जिह्वयादन्रेरिह्यते युवतिं विश्पतिः सन् ॥
१०,००४.०५ कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः ।
१०,००४.०५ अस्नातापो वृषभो न प्र वेति सचेतसो यं प्रणयन्त मर्ताः ॥
१०,००४.०६ तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्यधीताम् ।
१०,००४.०६ इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथं न शुचयद्भिरङ्गैः ॥
१०,००४.०७ ब्रह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत् ।
१०,००४.०७ रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुच्छन् ॥
१०,००५.०१ एकः समुद्रो धरुणो रयीणामस्मद्धृदो भूरिजन्मा वि चष्टे ।
१०,००५.०१ सिषक्त्यूधर्निण्योरुपस्थ उत्सस्य मध्ये निहितं पदं वेः ॥
१०,००५.०२ समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः ।
१०,००५.०२ ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि ॥
१०,००५.०३ ऋतायिनी मायिनी सं दधाते मित्वा शिशुं जज्ञतुर्वर्धयन्ती ।
१०,००५.०३ विश्वस्य नाभिं चरतो ध्रुवस्य कवेश्चित्तन्तुं मनसा वियन्तः ॥
१०,००५.०४ ऋतस्य हि वर्तनयः सुजातमिषो वाजाय प्रदिवः सचन्ते ।
१०,००५.०४ अधीवासं रोदसी वावसाने घृतैरन्नैर्वावृधाते मधूनाम् ॥
१०,००५.०५ सप्त स्वसॄररुषीर्वावशानो विद्वान्मध्व उज्जभारा दृशे कम् ।
१०,००५.०५ अन्तर्येमे अन्तरिक्षे पुराजा इच्छन्वव्रिमविदत्पूषणस्य ॥
१०,००५.०६ सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् ।
१०,००५.०६ आयोर्ह स्कम्भ उपमस्य नीळे पथां विसर्गे धरुणेषु तस्थौ ॥
१०,००५.०७ असच्च सच्च परमे व्योमन्दक्षस्य जन्मन्नदितेरुपस्थे ।
१०,००५.०७ अग्निर्ह नः प्रथमजा ऋतस्य पूर्व आयुनि वृषभश्च धेनुः ॥
१०,००६.०१ अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ ।
१०,००६.०१ ज्येष्ठेभिर्यो भानुभिरृषूणां पर्येति परिवीतो विभावा ॥
१०,००६.०२ यो भानुभिर्विभावा विभात्यग्निर्देवेभिरृतावाजस्रः ।
१०,००६.०२ आ यो विवाय सख्या सखिभ्योऽपरिह्वृतो अत्यो न सप्तिः ॥
१०,००६.०३ ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसो व्युष्टौ ।
१०,००६.०३ आ यस्मिन्मना हवींष्यग्नावरिष्टरथ स्कभ्नाति शूषैः ॥
१०,००६.०४ शूषेभिर्वृधो जुषाणो अर्कैर्देवां अच्छा रघुपत्वा जिगाति ।
१०,००६.०४ मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान् ॥
१०,००६.०५ तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिरा कृणुध्वम् ।
१०,००६.०५ आ यं विप्रासो मतिभिर्गृणन्ति जातवेदसं जुह्वं सहानाम् ॥
१०,००६.०६ सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वाः सप्तीवन्त एवैः ।
१०,००६.०६ अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥
१०,००६.०७ अधा ह्यग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ ।
१०,००६.०७ तं ते देवासो अनु केतमायन्नधावर्धन्त प्रथमास ऊमाः ॥
१०,००७.०१ स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर्धेहि यजथाय देव ।
१०,००७.०१ सचेमहि तव दस्म प्रकेतैरुरुष्या ण उरुभिर्देव शंसैः ॥
१०,००७.०२ इमा अग्ने मतयस्तुभ्यं जाता गोभिरश्वैरभि गृणन्ति राधः ।
१०,००७.०२ यदा ते मर्तो अनु भोगमानड्वसो दधानो मतिभिः सुजात ॥
१०,००७.०३ अग्निं मन्ये पितरमग्निमापिमग्निं भ्रातरं सदमित्सखायम् ।
१०,००७.०३ अग्नेरनीकं बृहतः सपर्यं दिवि शुक्रं यजतं सूर्यस्य ॥
१०,००७.०४ सिध्रा अग्ने धियो अस्मे सनुत्रीर्यं त्रायसे दम आ नित्यहोता ।
१०,००७.०४ ऋतावा स रोहिदश्वः पुरुक्षुर्द्युभिरस्मा अहभिर्वाममस्तु ॥
१०,००७.०५ द्युभिर्हितं मित्रमिव प्रयोगं प्रत्नमृत्विजमध्वरस्य जारम् ।
१०,००७.०५ बाहुभ्यामग्निमायवोऽजनन्त विक्षु होतारं न्यसादयन्त ॥
१०,००७.०६ स्वयं यजस्व दिवि देव देवान्किं ते पाकः कृणवदप्रचेताः ।
१०,००७.०६ यथायज ऋतुभिर्देव देवानेवा यजस्व तन्वं सुजात ॥
१०,००७.०७ भवा नो अग्नेऽवितोत गोपा भवा वयस्कृदुत नो वयोधाः ।
१०,००७.०७ रास्वा च नः सुमहो हव्यदातिं त्रास्वोत नस्तन्वो अप्रयुच्छन् ॥
१०,००८.०१ प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति ।
१०,००८.०१ दिवश्चिदन्तां उपमां उदानळ् अपामुपस्थे महिषो ववर्ध ॥
१०,००८.०२ मुमोद गर्भो वृषभः ककुद्मानस्रेमा वत्सः शिमीवां अरावीत् ।
१०,००८.०२ स देवतात्युद्यतानि कृण्वन्स्वेषु क्षयेषु प्रथमो जिगाति ॥
१०,००८.०३ आ यो मूर्धानं पित्रोररब्ध न्यध्वरे दधिरे सूरो अर्णः ।
१०,००८.०३ अस्य पत्मन्नरुषीरश्वबुध्ना ऋतस्य योनौ तन्वो जुषन्त ॥
१०,००८.०४ उषौषो हि वसो अग्रमेषि त्वं यमयोरभवो विभावा ।
१०,००८.०४ ऋताय सप्त दधिषे पदानि जनयन्मित्रं तन्वे स्वायै ॥
१०,००८.०५ भुवश्चक्षुर्मह ऋतस्य गोपा भुवो वरुणो यदृताय वेषि ।
१०,००८.०५ भुवो अपां नपाज्जातवेदो भुवो दूतो यस्य हव्यं जुजोषः ॥
१०,००८.०६ भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसे शिवाभिः ।
१०,००८.०६ दिवि मूर्धानं दधिषे स्वर्षां जिह्वामग्ने चकृषे हव्यवाहम् ॥
१०,००८.०७ अस्य त्रितः क्रतुना वव्रे अन्तरिच्छन्धीतिं पितुरेवैः परस्य ।
१०,००८.०७ सचस्यमानः पित्रोरुपस्थे जामि ब्रुवाण आयुधानि वेति ॥
१०,००८.०८ स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत् ।
१०,००८.०८ त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः ॥
१०,००८.०९ भूरीदिन्द्र उदिनक्षन्तमोजोऽवाभिनत्सत्पतिर्मन्यमानम् ।
१०,००८.०९ त्वाष्ट्रस्य चिद्विश्वरूपस्य गोनामाचक्राणस्त्रीणि शीर्षा परा वर्क् ॥
१०,००९.०१ आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
१०,००९.०१ महे रणाय चक्षसे ॥
१०,००९.०२ यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
१०,००९.०२ उशतीरिव मातरः ॥
१०,००९.०३ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
१०,००९.०३ आपो जनयथा च नः ॥
१०,००९.०४ शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
१०,००९.०४ शं योरभि स्रवन्तु नः ॥
१०,००९.०५ ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
१०,००९.०५ अपो याचामि भेषजम् ॥
१०,००९.०६ अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
१०,००९.०६ अग्निं च विश्वशम्भुवम् ॥
१०,००९.०७ आपः पृणीत भेषजं वरूथं तन्वे मम ।
१०,००९.०७ ज्योक्च सूर्यं दृशे ॥
१०,००९.०८ इदमापः प्र वहत यत्किं च दुरितं मयि ।
१०,००९.०८ यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥
१०,००९.०९ आपो अद्यान्वचारिषं रसेन समगस्महि ।
१०,००९.०९ पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥
१०,०१०.०१ ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।
१०,०१०.०१ पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥
१०,०१०.०२ न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवाति ।
१०,०१०.०२ महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥
१०,०१०.०३ उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।
१०,०१०.०३ नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविश्याः ॥
१०,०१०.०४ न यत्पुरा चकृमा कद्ध नूनमृता वदन्तो अनृतं रपेम ।
१०,०१०.०४ गन्धर्वो अप्स्वप्या च योषा सा नो नाभिः परमं जामि तन्नौ ॥
१०,०१०.०५ गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।
१०,०१०.०५ नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥
१०,०१०.०६ को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत् ।
१०,०१०.०६ बृहन्मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥
१०,०१०.०७ यमस्य मा यम्यं काम आगन्समाने योनौ सहशेय्याय ।
१०,०१०.०७ जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥
१०,०१०.०८ न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।
१०,०१०.०८ अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥
१०,०१०.०९ रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन्मिमीयात् ।
१०,०१०.०९ दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य बिभृयादजामि ॥
१०,०१०.१० आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि ।
१०,०१०.१० उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व स
ुभगे पतिं मत् ॥
१०,०१०.११ किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन्निरृतिर्निगच्छात् ।
१०,०१०.११ काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥
१०,०१०.१२ न वा उ ते तन्वा तन्वं सं पपृच्यां पापमाहुर्यः स्वसारं निगच्छात् ।
१०,०१०.१२ अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत् ॥
१०,०१०.१३ बतो बतासि यम नैव ते मनो हृदयं चाविदाम ।
१०,०१०.१३ अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजाते लिबुजेव वृक्षम् ॥
१०,०१०.१४ अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् ।
१०,०१०.१४ तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥
१०,०११.०१ वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।
१०,०११.०१ विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजतु यज्ञियां ऋतून् ॥
१०,०११.०२ रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु मे मनः ।
१०,०११.०२ इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥
१०,०११.०३ सो चिन्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।
१०,०११.०३ यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥
१०,०११.०४ अध त्यं द्रप्सं विभ्वं विचक्षणं विराभरदिषितः श्येनो अध्वरे ।
१०,०११.०४ यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥
१०,०११.०५ सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।
१०,०११.०५ विप्रस्य वा यच्छशमान उक्थ्यं वाजं ससवां उपयासि भूरिभिः ॥
१०,०११.०६ उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
१०,०११.०६ विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥
१०,०११.०७ यस्ते अग्ने सुमतिं मर्तो अक्षत्सहसः सूनो अति स प्र शृण्वे ।
१०,०११.०७ इषं दधानो वहमानो अश्वैरा स द्युमां अमवान्भूषति द्यून् ॥
१०,०११.०८ यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
१०,०११.०८ रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥
१०,०११.०९ श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
१०,०११.०९ आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥
१०,०१२.०१ द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
१०,०१२.०१ देवो यन्मर्तान्यजथाय कृण्वन्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥
१०,०१२.०२ देवो देवान्परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
१०,०१२.०२ धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥
१०,०१२.०३ स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
१०,०१२.०३ विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥
१०,०१२.०४ अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
१०,०१२.०४ अहा यद्द्यावोऽसुनीतिमयन्मध्वा नो अत्र पितरा शिशीताम् ॥
१०,०१२.०५ किं स्विन्नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
१०,०१२.०५ मित्रश्चिद्धि ष्मा जुहुराणो देवाञ्छ्लोको न यातामपि वाजो अस्ति ॥
१०,०१२.०६ दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।
१०,०१२.०६ यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥
१०,०१२.०७ यस्मिन्देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
१०,०१२.०७ सूर्ये ज्योतिरदधुर्मास्यक्तून्परि द्योतनिं चरतो अजस्रा ॥
१०,०१२.०८ यस्मिन्देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
१०,०१२.०८ मित्रो नो अत्रादितिरनागान्सविता देवो वरुणाय वोचत् ॥
१०,०१२.०९ श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
१०,०१२.०९ आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥
१०,०१३.०१ युजे वां ब्रह्म पूर्व्यं नमोभिर्वि श्लोक एतु पथ्येव सूरेः ।
१०,०१३.०१ शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥
१०,०१३.०२ यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः ।
१०,०१३.०२ आ सीदतं स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः ॥
१०,०१३.०३ पञ्च पदानि रुपो अन्वरोहं चतुष्पदीमन्वेमि व्रतेन ।
१०,०१३.०३ अक्षरेण प्रति मिम एतामृतस्य नाभावधि सं पुनामि ॥
१०,०१३.०४ देवेभ्यः कमवृणीत मृत्युं प्रजायै कममृतं नावृणीत ।
१०,०१३.०४ बृहस्पतिं यज्ञमकृण्वत ऋषिं प्रियां यमस्तन्वं प्रारिरेचीत् ॥
१०,०१३.०५ सप्त क्षरन्ति शिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवतन्नृतम् ।
१०,०१३.०५ उभे इदस्योभयस्य राजत उभे यतेते उभयस्य पुष्यतः ॥
१०,०१४.०१ परेयिवांसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् ।
१०,०१४.०१ वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥
१०,०१४.०२ यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।
१०,०१४.०२ यत्रा नः पूर्वे पितरः परेयुरेना जज्ञानाः पथ्या अनु स्वाः ॥
१०,०१४.०३ मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः ।
१०,०१४.०३ यांश्च देवा वावृधुर्ये च देवान्स्वाहान्ये स्वधयान्ये मदन्ति ॥
१०,०१४.०४ इमं यम प्रस्तरमा हि सीदाङ्गिरोभिः पितृभिः संविदानः ।
१०,०१४.०४ आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन्हविषा मादयस्व ॥
१०,०१४.०५ अङ्गिरोभिरा गहि यज्ञियेभिर्यम वैरूपैरिह मादयस्व ।
१०,०१४.०५ विवस्वन्तं हुवे यः पिता तेऽस्मिन्यज्ञे बर्हिष्या निषद्य ॥
१०,०१४.०६ अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
१०,०१४.०६ तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥
१०,०१४.०७ प्रेहि प्रेहि पथिभिः पूर्व्येभिर्यत्रा नः पूर्वे पितरः परेयुः ।
१०,०१४.०७ उभा राजाना स्वधया मदन्ता यमं पश्यासि वरुणं च देवम् ॥
१०,०१४.०८ सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।
१०,०१४.०८ हित्वायावद्यं पुनरस्तमेहि सं गच्छस्व तन्वा सुवर्चाः ॥
१०,०१४.०९ अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।
१०,०१४.०९ अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥
१०,०१४.१० अति द्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा ।
१०,०१४.१० अथा पितॄन्सुविदत्रां उपेहि यमेन ये सधमादं मदन्ति ॥
१०,०१४.११ यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसौ ।
१०,०१४.११ ताभ्यामेनं परि देहि राजन्स्वस्ति चास्मा अनमीवं च धेहि ॥
१०,०१४.१२ उरूणसावसुतृपा उदुम्बलौ यमस्य दूतौ चरतो जनां अनु ।
१०,०१४.१२ तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥
१०,०१४.१३ यमाय सोमं सुनुत यमाय जुहुता हविः ।
१०,०१४.१३ यमं ह यज्ञो गच्छत्यग्निदूतो अरङ्कृतः ॥
१०,०१४.१४ यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत ।
१०,०१४.१४ स नो देवेष्वा यमद्दीर्घमायुः प्र जीवसे ॥
१०,०१४.१५ यमाय मधुमत्तमं राज्ञे हव्यं जुहोतन ।
१०,०१४.१५ इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥
१०,०१४.१६ त्रिकद्रुकेभिः पतति षळ् उर्वीरेकमिद्बृहत् ।
१०,०१४.१६ त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आहिता ॥
१०,०१५.०१ उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः ।
१०,०१५.०१ असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
१०,०१५.०२ इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो य उपरास ईयुः ।
१०,०१५.०२ ये पार्थिवे रजस्या निषत्ता ये वा नूनं सुवृजनासु विक्षु ॥
१०,०१५.०३ आहं पितॄन्सुविदत्रां अवित्सि नपातं च विक्रमणं च विष्णोः ।
१०,०१५.०३ बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥
१०,०१५.०४ बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
१०,०१५.०४ त आ गतावसा शन्तमेनाथा नः शं योररपो दधात ॥
१०,०१५.०५ उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
१०,०१५.०५ त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥
१०,०१५.०६ आच्या जानु दक्षिणतो निषद्येमं यज्ञमभि गृणीत विश्वे ।
१०,०१५.०६ मा हिंसिष्ट पितरः केन चिन्नो यद्व आगः पुरुषता कराम ॥
१०,०१५.०७ आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।
१०,०१५.०७ पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥
१०,०१५.०८ ये नः पूर्वे पितरः सोम्यासोऽनूहिरे सोमपीथं वसिष्ठाः ।
१०,०१५.०८ तेभिर्यमः संरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥
१०,०१५.०९ ये तातृषुर्देवत्रा जेहमाना होत्राविद स्तोमतष्टासो अर्कैः ।
१०,०१५.०९ आग्ने याहि सुविदत्रेभिरर्वाङ्सत्यैः कव्यैः पितृभिर्घर्मसद्भिः ॥
१०,०१५.१० ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं दधानाः ।
१०,०१५.१० आग्ने याहि सहस्रं देववन्दैः परैः पूर्वैः पितृभिर्घर्मसद्भिः ॥
१०,०१५.११ अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।
१०,०१५.११ अत्ता हवींषि प्रयतानि बर्हिष्यथा रयिं सर्ववीरं दधातन ॥
१०,०१५.१२ त्वमग्न ईळितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वी ।
१०,०१५.१२ प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥
१०,०१५.१३ ये चेह पितरो ये च नेह यांश्च विद्म यां उ च न प्रविद्म ।
१०,०१५.१३ त्वं वेत्थ यति ते जातवेदः स्वधाभिर्यज्ञं सुकृतं जुषस्व ॥
१०,०१५.१४ ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
१०,०१५.१४ तेभिः स्वराळ् असुनीतिमेतां यथावशं तन्वं कल्पयस्व ॥
१०,०१६.०१ मैनमग्ने वि दहो माभि शोचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
१०,०१६.०१ यदा शृतं कृणवो जातवेदोऽथेमेनं प्र हिणुतात्पितृभ्यः ॥
१०,०१६.०२ शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्यः ।
१०,०१६.०२ यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥
१०,०१६.०३ सूर्यं चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा ।
१०,०१६.०३ अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥
१०,०१६.०४ अजो भागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
१०,०१६.०४ यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥
१०,०१६.०५ अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः ।
१०,०१६.०५ आयुर्वसान उप वेतु शेषः सं गच्छतां तन्वा जातवेदः ॥
१०,०१६.०६ यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
१०,०१६.०६ अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणां आविवेश ॥
१०,०१६.०७ अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व पीवसा मेदसा च ।
१०,०१६.०७ नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्ष्यन्पर्यङ्खयाते ॥
१०,०१६.०८ इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।
१०,०१६.०८ एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ते ॥
१०,०१६.०९ क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।
१०,०१६.०९ इहैवायमितरो जातवेदा देवेभ्यो हव्यं वहतु प्रजानन् ॥
१०,०१६.१० यो अग्निः क्रव्यात्प्रविवेश वो गृहमिमं पश्यन्नितरं जातवेदसम् ।
१०,०१६.१० तं हरामि पितृयज्ञाय देवं स घर्ममिन्वात्परमे सधस्थे ॥
१०,०१६.११ यो अग्निः क्रव्यवाहनः पितॄन्यक्षदृतावृधः ।
१०,०१६.११ प्रेदु हव्यानि वोचति देवेभ्यश्च पितृभ्य आ ॥
१०,०१६.१२ उशन्तस्त्वा नि धीमह्युशन्तः समिधीमहि ।
१०,०१६.१२ उशन्नुशत आ वह पितॄन्हविषे अत्तवे ॥
१०,०१६.१३ यं त्वमग्ने समदहस्तमु निर्वापया पुनः ।
१०,०१६.१३ कियाम्ब्वत्र रोहतु पाकदूर्वा व्यल्कशा ॥
१०,०१६.१४ शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
१०,०१६.१४ मण्डूक्या सु सं गम इमं स्वग्निं हर्षय ॥
१०,०१७.०१ त्वष्टा दुहित्रे वहतुं कृणोतीतीदं विश्वं भुवनं समेति ।
१०,०१७.०१ यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥
१०,०१७.०२ अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते ।
१०,०१७.०२ उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥
१०,०१७.०३ पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः ।
१०,०१७.०३ स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥
१०,०१७.०४ आयुर्विश्वायुः परि पासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् ।
१०,०१७.०४ यत्रासते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु ॥
१०,०१७.०५ पूषेमा आशा अनु वेद सर्वाः सो अस्मां अभयतमेन नेषत् ।
१०,०१७.०५ स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रजानन् ॥
१०,०१७.०६ प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
१०,०१७.०६ उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥
१०,०१७.०७ सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
१०,०१७.०७ सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥
१०,०१७.०८ सरस्वति या सरथं ययाथ स्वधाभिर्देवि पितृभिर्मदन्ती ।
१०,०१७.०८ आसद्यास्मिन्बर्हिषि मादयस्वानमीवा इष आ धेह्यस्मे ॥
१०,०१७.०९ सरस्वतीं यां पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
१०,०१७.०९ सहस्रार्घमिळो अत्र भागं रायस्पोषं यजमानेषु धेहि ॥
१०,०१७.१० आपो अस्मान्मातरः शुन्धयन्तु घृतेन नो घृतप्वः पुनन्तु ।
१०,०१७.१० विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥
१०,०१७.११ द्रप्सश्चस्कन्द प्रथमां अनु द्यूनिमं च योनिमनु यश्च पूर्वः ।
१०,०१७.११ समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥
१०,०१७.१२ यस्ते द्रप्स स्कन्दति यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात् ।
१०,०१७.१२ अध्वर्योर्वा परि वा यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् ॥
१०,०१७.१३ यस्ते द्रप्स स्कन्नो यस्ते अंशुरवश्च यः परः स्रुचा ।
१०,०१७.१३ अयं देवो बृहस्पतिः सं तं सिञ्चतु राधसे ॥
१०,०१७.१४ पयस्वतीरोषधयः पयस्वन्मामकं वचः ।
१०,०१७.१४ अपां पयस्वदित्पयस्तेन मा सह शुन्धत ॥
१०,०१८.०१ परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् ।
१०,०१८.०१ चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥
१०,०१८.०२ मृत्योः पदं योपयन्तो यदैत द्राघीय आयुः प्रतरं दधानाः ।
१०,०१८.०२ आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवत यज्ञियासः ॥
१०,०१८.०३ इमे जीवा वि मृतैराववृत्रन्नभूद्भद्रा देवहूतिर्नो अद्य ।
१०,०१८.०३ प्राञ्चो अगाम नृतये हसाय द्राघीय आयुः प्रतरं दधानाः ॥
१०,०१८.०४ इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
१०,०१८.०४ शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेन ॥
१०,०१८.०५ यथाहान्यनुपूर्वं भवन्ति यथ ऋतव ऋतुभिर्यन्ति साधु ।
१०,०१८.०५ यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥
१०,०१८.०६ आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति ष्ठ ।
१०,०१८.०६ इह त्वष्टा सुजनिमा सजोषा दीर्घमायुः करति जीवसे वः ॥
१०,०१८.०७ इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं विशन्तु ।
१०,०१८.०७ अनश्रवोऽनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥
१०,०१८.०८ उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
१०,०१८.०८ हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥
१०,०१८.०९ धनुर्हस्तादाददानो मृतस्यास्मे क्षत्राय वर्चसे बलाय ।
१०,०१८.०९ अत्रैव त्वमिह वयं सुवीरा विश्वा स्पृधो अभिमातीर्जयेम ॥
१०,०१८.१० उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
१०,०१८.१० ऊर्णम्रदा युवतिर्दक्षिणावत एषा त्वा पातु निरृतेरुपस्थात् ॥
१०,०१८.११ उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना ।
१०,०१८.११ माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥
१०,०१८.१२ उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
१०,०१८.१२ ते गृहासो घृतश्चुतो भवन्तु विश्वाहास्मै शरणाः सन्त्वत्र ॥
१०,०१८.१३ उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन्मो अहं रिषम् ।
१०,०१८.१३ एतां स्थूणां पितरो धारयन्तु तेऽत्रा यमः सादना ते मिनोतु ॥
१०,०१८.१४ प्रतीचीने मामहनीष्वाः पर्णमिवा दधुः ।
१०,०१८.१४ प्रतीचीं जग्रभा वाचमश्वं रशनया यथा ॥
१०,०१९.०१ नि वर्तध्वं मानु गातास्मान्सिषक्त रेवतीः ।
१०,०१९.०१ अग्नीषोमा पुनर्वसू अस्मे धारयतं रयिम् ॥
१०,०१९.०२ पुनरेना नि वर्तय पुनरेना न्या कुरु ।
१०,०१९.०२ इन्द्र एणा नि यच्छत्वग्निरेना उपाजतु ॥
१०,०१९.०३ पुनरेता नि वर्तन्तामस्मिन्पुष्यन्तु गोपतौ ।
१०,०१९.०३ इहैवाग्ने नि धारयेह तिष्ठतु या रयिः ॥
१०,०१९.०४ यन्नियानं न्ययनं संज्ञानं यत्परायणम् ।
१०,०१९.०४ आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥
१०,०१९.०५ य उदानड्व्ययनं य उदानट्परायणम् ।
१०,०१९.०५ आवर्तनं निवर्तनमपि गोपा नि वर्तताम् ॥
१०,०१९.०६ आ निवर्त नि वर्तय पुनर्न इन्द्र गा देहि ।
१०,०१९.०६ जीवाभिर्भुनजामहै ॥
१०,०१९.०७ परि वो विश्वतो दध ऊर्जा घृतेन पयसा ।
१०,०१९.०७ ये देवाः के च यज्ञियास्ते रय्या सं सृजन्तु नः ॥
१०,०१९.०८ आ निवर्तन वर्तय नि निवर्तन वर्तय ।
१०,०१९.०८ भूम्याश्चतस्रः प्रदिशस्ताभ्य एना नि वर्तय ॥
१०,०२०.०१ भद्रं नो अपि वातय मनः ॥
१०,०२०.०२ अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम् ।
१०,०२०.०२ यस्य धर्मन्स्वरेनीः सपर्यन्ति मातुरूधः ॥
१०,०२०.०३ यमासा कृपनीळं भासाकेतुं वर्धयन्ति ।
१०,०२०.०३ भ्राजते श्रेणिदन् ॥
१०,०२०.०४ अर्यो विशां गातुरेति प्र यदानड्दिवो अन्तान् ।
१०,०२०.०४ कविरभ्रं दीद्यानः ॥
१०,०२०.०५ जुषद्धव्या मानुषस्योर्ध्वस्तस्थावृभ्वा यज्ञे ।
१०,०२०.०५ मिन्वन्सद्म पुर एति ॥
१०,०२०.०६ स हि क्षेमो हविर्यज्ञः श्रुष्टीदस्य गातुरेति ।
१०,०२०.०६ अग्निं देवा वाशीमन्तम् ॥
१०,०२०.०७ यज्ञासाहं दुव इषेऽग्निं पूर्वस्य शेवस्य ।
१०,०२०.०७ अद्रेः सूनुमायुमाहुः ॥
१०,०२०.०८ नरो ये के चास्मदा विश्वेत्ते वाम आ स्युः ।
१०,०२०.०८ अग्निं हविषा वर्धन्तः ॥
१०,०२०.०९ कृष्णः श्वेतोऽरुषो यामो अस्य ब्रध्न ऋज्र उत शोणो यशस्वान् ।
१०,०२०.०९ हिरण्यरूपं जनिता जजान ॥
१०,०२०.१० एवा ते अग्ने विमदो मनीषामूर्जो नपादमृतेभिः सजोषाः ।
१०,०२०.१० गिर आ वक्षत्सुमतीरियान इषमूर्जं सुक्षितिं विश्वमाभाः ॥
१०,०२१.०१ आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे ।
१०,०२१.०१ यज्ञाय स्तीर्णबर्हिषे वि वो मदे शीरं पावकशोचिषं विवक्षसे ॥
१०,०२१.०२ त्वामु ते स्वाभुवः शुम्भन्त्यश्वराधसः ।
१०,०२१.०२ वेति त्वामुपसेचनी वि वो मद ऋजीतिरग्न आहुतिर्विवक्षसे ॥
१०,०२१.०३ त्वे धर्माण आसते जुहूभिः सिञ्चतीरिव ।
१०,०२१.०३ कृष्णा रूपाण्यर्जुना वि वो मदे विश्वा अधि श्रियो धिषे विवक्षसे ॥
१०,०२१.०४ यमग्ने मन्यसे रयिं सहसावन्नमर्त्य ।
१०,०२१.०४ तमा नो वाजसातये वि वो मदे यज्ञेषु चित्रमा भरा विवक्षसे ॥
१०,०२१.०५ अग्निर्जातो अथर्वणा विदद्विश्वानि काव्या ।
१०,०२१.०५ भुवद्दूतो विवस्वतो वि वो मदे प्रियो यमस्य काम्यो विवक्षसे ॥
१०,०२१.०६ त्वां यज्ञेष्वीळतेऽग्ने प्रयत्यध्वरे ।
१०,०२१.०६ त्वं वसूनि काम्या वि वो मदे विश्वा दधासि दाशुषे विवक्षसे ॥
१०,०२१.०७ त्वां यज्ञेष्वृत्विजं चारुमग्ने नि षेदिरे ।
१०,०२१.०७ घृतप्रतीकं मनुषो वि वो मदे शुक्रं चेतिष्ठमक्षभिर्विवक्षसे ॥
१०,०२१.०८ अग्ने शुक्रेण शोचिषोरु प्रथयसे बृहत् ।
१०,०२१.०८ अभिक्रन्दन्वृषायसे वि वो मदे गर्भं दधासि जामिषु विवक्षसे ॥
१०,०२२.०१ कुह श्रुत इन्द्रः कस्मिन्नद्य जने मित्रो न श्रूयते ।
१०,०२२.०१ ऋषीणां वा यः क्षये गुहा वा चर्कृषे गिरा ॥
१०,०२२.०२ इह श्रुत इन्द्रो अस्मे अद्य स्तवे वज्र्यृचीषमः ।
१०,०२२.०२ मित्रो न यो जनेष्वा यशश्चक्रे असाम्या ॥
१०,०२२.०३ महो यस्पतिः शवसो असाम्या महो नृम्णस्य तूतुजिः ।
१०,०२२.०३ भर्ता वज्रस्य धृष्णोः पिता पुत्रमिव प्रियम् ॥
१०,०२२.०४ युजानो अश्वा वातस्य धुनी देवो देवस्य वज्रिवः ।
१०,०२२.०४ स्यन्ता पथा विरुक्मता सृजान स्तोष्यध्वनः ॥
१०,०२२.०५ त्वं त्या चिद्वातस्याश्वागा ऋज्रा त्मना वहध्यै ।
१०,०२२.०५ ययोर्देवो न मर्त्यो यन्ता नकिर्विदाय्यः ॥
१०,०२२.०६ अध ग्मन्तोशना पृच्छते वां कदर्था न आ गृहम् ।
१०,०२२.०६ आ जग्मथुः पराकाद्दिवश्च ग्मश्च मर्त्यम् ॥
१०,०२२.०७ आ न इन्द्र पृक्षसेऽस्माकं ब्रह्मोद्यतम् ।
१०,०२२.०७ तत्त्वा याचामहेऽवः शुष्णं यद्धन्नमानुषम् ॥
१०,०२२.०८ अकर्मा दस्युरभि नो अमन्तुरन्यव्रतो अमानुषः ।
१०,०२२.०८ त्वं तस्यामित्रहन्वधर्दासस्य दम्भय ॥
१०,०२२.०९ त्वं न इन्द्र शूर शूरैरुत त्वोतासो बर्हणा ।
१०,०२२.०९ पुरुत्रा ते वि पूर्तयो नवन्त क्षोणयो यथा ॥
१०,०२२.१० त्वं तान्वृत्रहत्ये चोदयो नॄन्कार्पाणे शूर वज्रिवः ।
१०,०२२.१० गुहा यदी कवीनां विशां नक्षत्रशवसाम् ॥
१०,०२२.११ मक्षू ता त इन्द्र दानाप्नस आक्षाणे शूर वज्रिवः ।
१०,०२२.११ यद्ध शुष्णस्य दम्भयो जातं विश्वं सयावभिः ॥
१०,०२२.१२ माकुध्र्यगिन्द्र शूर वस्वीरस्मे भूवन्नभिष्टयः ।
१०,०२२.१२ वयंवयं त आसां सुम्ने स्याम वज्रिवः ॥
१०,०२२.१३ अस्मे ता त इन्द्र सन्तु सत्याहिंसन्तीरुपस्पृशः ।
१०,०२२.१३ विद्याम यासां भुजो धेनूनां न वज्रिवः ॥
१०,०२२.१४ अहस्ता यदपदी वर्धत क्षाः शचीभिर्वेद्यानाम् ।
१०,०२२.१४ शुष्णं परि प्रदक्षिणिद्विश्वायवे नि शिश्नथः ॥
१०,०२२.१५ पिबापिबेदिन्द्र शूर सोमं मा रिषण्यो वसवान वसुः सन् ।
१०,०२२.१५ उत त्रायस्व गृणतो मघोनो महश्च रायो रेवतस्कृधी नः ॥
१०,०२३.०१ यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यं विव्रतानाम् ।
१०,०२३.०१ प्र श्मश्रु दोधुवदूर्ध्वथा भूद्वि सेनाभिर्दयमानो वि राधसा ॥
१०,०२३.०२ हरी न्वस्य या वने विदे वस्विन्द्रो मघैर्मघवा वृत्रहा भुवत् ।
१०,०२३.०२ ऋभुर्वाज ऋभुक्षाः पत्यते शवोऽव क्ष्णौमि दासस्य नाम चित् ॥
१०,०२३.०३ यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।
१०,०२३.०३ आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥
१०,०२३.०४ सो चिन्नु वृष्टिर्यूथ्या स्वा सचां इन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
१०,०२३.०४ अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम् ॥
१०,०२३.०५ यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
१०,०२३.०५ तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥
१०,०२३.०६ स्तोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमं सुदानवे ।
१०,०२३.०६ विद्मा ह्यस्य भोजनमिनस्य यदा पशुं न गोपाः करामहे ॥
१०,०२३.०७ माकिर्न एना सख्या वि यौषुस्तव चेन्द्र विमदस्य च ऋषेः ।
१०,०२३.०७ विद्मा हि ते प्रमतिं देव जामिवदस्मे ते सन्तु सख्या शिवानि ॥
१०,०२४.०१ इन्द्र सोममिमं पिब मधुमन्तं चमू सुतम् ।
१०,०२४.०१ अस्मे रयिं नि धारय वि वो मदे सहस्रिणं पुरूवसो विवक्षसे ॥
१०,०२४.०२ त्वां यज्ञेभिरुक्थैरुप हव्येभिरीमहे ।
१०,०२४.०२ शचीपते शचीनां वि वो मदे श्रेष्ठं नो धेहि वार्यं विवक्षसे ॥
१०,०२४.०३ यस्पतिर्वार्याणामसि रध्रस्य चोदिता ।
१०,०२४.०३ इन्द्र स्तोतॄणामविता वि वो मदे द्विषो नः पाह्यंहसो विवक्षसे ॥
१०,०२४.०४ युवं शक्रा मायाविना समीची निरमन्थतम् ।
१०,०२४.०४ विमदेन यदीळिता नासत्या निरमन्थतम् ॥
१०,०२४.०५ विश्वे देवा अकृपन्त समीच्योर्निष्पतन्त्योः ।
१०,०२४.०५ नासत्यावब्रुवन्देवाः पुनरा वहतादिति ॥
१०,०२४.०६ मधुमन्मे परायणं मधुमत्पुनरायनम् ।
१०,०२४.०६ ता नो देवा देवतया युवं मधुमतस्कृतम् ॥
१०,०२५.०१ भद्रं नो अपि वातय मनो दक्षमुत क्रतुम् ।
१०,०२५.०१ अधा ते सख्ये अन्धसो वि वो मदे रणन्गावो न यवसे विवक्षसे ॥
१०,०२५.०२ हृदिस्पृशस्त आसते विश्वेषु सोम धामसु ।
१०,०२५.०२ अधा कामा इमे मम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ॥
१०,०२५.०३ उत व्रतानि सोम ते प्राहं मिनामि पाक्या ।
१०,०२५.०३ अधा पितेव सूनवे वि वो मदे मृळा नो अभि चिद्वधाद्विवक्षसे ॥
१०,०२५.०४ समु प्र यन्ति धीतयः सर्गासोऽवतां इव ।
१०,०२५.०४ क्रतुं नः सोम जीवसे वि वो मदे धारया चमसां इव विवक्षसे ॥
१०,०२५.०५ तव त्ये सोम शक्तिभिर्निकामासो व्यृण्विरे ।
१०,०२५.०५ गृत्सस्य धीरास्तवसो वि वो मदे व्रजं गोमन्तमश्विनं विवक्षसे ॥
१०,०२५.०६ पशुं नः सोम रक्षसि पुरुत्रा विष्ठितं जगत् ।
१०,०२५.०६ समाकृणोषि जीवसे वि वो मदे विश्वा सम्पश्यन्भुवना विवक्षसे ॥
१०,०२५.०७ त्वं नः सोम विश्वतो गोपा अदाभ्यो भव ।
१०,०२५.०७ सेध राजन्नप स्रिधो वि वो मदे मा नो दुःशंस ईशता विवक्षसे ॥
१०,०२५.०८ त्वं नः सोम सुक्रतुर्वयोधेयाय जागृहि ।
१०,०२५.०८ क्षेत्रवित्तरो मनुषो वि वो मदे द्रुहो नः पाह्यंहसो विवक्षसे ॥
१०,०२५.०९ त्वं नो वृत्रहन्तमेन्द्रस्येन्दो शिवः सखा ।
१०,०२५.०९ यत्सीं हवन्ते समिथे वि वो मदे युध्यमानास्तोकसातौ विवक्षसे ॥
१०,०२५.१० अयं घ स तुरो मद इन्द्रस्य वर्धत प्रियः ।
१०,०२५.१० अयं कक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ॥
१०,०२५.११ अयं विप्राय दाशुषे वाजां इयर्ति गोमतः ।
१०,०२५.११ अयं सप्तभ्य आ वरं वि वो मदे प्रान्धं श्रोणं च तारिषद्विवक्षसे ॥
१०,०२६.०१ प्र ह्यच्छा मनीषा स्पार्हा यन्ति नियुतः ।
१०,०२६.०१ प्र दस्रा नियुद्रथः पूषा अविष्टु माहिनः ॥
१०,०२६.०२ यस्य त्यन्महित्वं वाताप्यमयं जनः ।
१०,०२६.०२ विप्र आ वंसद्धीतिभिश्चिकेत सुष्टुतीनाम् ॥
१०,०२६.०३ स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा ।
१०,०२६.०३ अभि प्सुरः प्रुषायति व्रजं न आ प्रुषायति ॥
१०,०२६.०४ मंसीमहि त्वा वयमस्माकं देव पूषन् ।
१०,०२६.०४ मतीनां च साधनं विप्राणां चाधवम् ॥
१०,०२६.०५ प्रत्यर्धिर्यज्ञानामश्वहयो रथानाम् ।
१०,०२६.०५ ऋषिः स यो मनुर्हितो विप्रस्य यावयत्सखः ॥
१०,०२६.०६ आधीषमाणायाः पतिः शुचायाश्च शुचस्य च ।
१०,०२६.०६ वासोवायोऽवीनामा वासांसि मर्मृजत् ॥
१०,०२६.०७ इनो वाजानां पतिरिनः पुष्टीनां सखा ।
१०,०२६.०७ प्र श्मश्रु हर्यतो दूधोद्वि वृथा यो अदाभ्यः ॥
१०,०२६.०८ आ ते रथस्य पूषन्नजा धुरं ववृत्युः ।
१०,०२६.०८ विश्वस्यार्थिनः सखा सनोजा अनपच्युतः ॥
१०,०२६.०९ अस्माकमूर्जा रथं पूषा अविष्टु माहिनः ।
१०,०२६.०९ भुवद्वाजानां वृध इमं नः शृणवद्धवम् ॥
१०,०२७.०१ असत्सु मे जरितः साभिवेगो यत्सुन्वते यजमानाय शिक्षम् ।
१०,०२७.०१ अनाशीर्दामहमस्मि प्रहन्ता सत्यध्वृतं वृजिनायन्तमाभुम् ॥
१०,०२७.०२ यदीदहं युधये संनयान्यदेवयून्तन्वा शूशुजानान् ।
१०,०२७.०२ अमा ते तुम्रं वृषभं पचानि तीव्रं सुतं पञ्चदशं नि षिञ्चम् ॥
१०,०२७.०३ नाहं तं वेद य इति ब्रवीत्यदेवयून्समरणे जघन्वान् ।
१०,०२७.०३ यदावाख्यत्समरणमृघावदादिद्ध मे वृषभा प्र ब्रुवन्ति ॥
१०,०२७.०४ यदज्ञातेषु वृजनेष्वासं विश्वे सतो मघवानो म आसन् ।
१०,०२७.०४ जिनामि वेत्क्षेम आ सन्तमाभुं प्र तं क्षिणां पर्वते पादगृह्य ॥
१०,०२७.०५ न वा उ मां वृजने वारयन्ते न पर्वतासो यदहं मनस्ये ।
१०,०२७.०५ मम स्वनात्कृधुकर्णो भयात एवेदनु द्यून्किरणः समेजात् ॥
१०,०२७.०६ दर्शन्न्वत्र शृतपां अनिन्द्रान्बाहुक्षदः शरवे पत्यमानान् ।
१०,०२७.०६ घृषुं वा ये निनिदुः सखायमध्यू न्वेषु पवयो ववृत्युः ॥
१०,०२७.०७ अभूर्वौक्षीर्व्यु आयुरानड्दर्षन्नु पूर्वो अपरो नु दर्षत् ।
१०,०२७.०७ द्वे पवस्ते परि तं न भूतो यो अस्य पारे रजसो विवेष ॥
१०,०२७.०८ गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः ।
१०,०२७.०८ हवा इदर्यो अभितः समायन्कियदासु स्वपतिश्छन्दयाते ॥
१०,०२७.०९ सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः ।
१०,०२७.०९ अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥
१०,०२७.१० अत्रेदु मे मंससे सत्यमुक्तं द्विपाच्च यच्चतुष्पात्संसृजानि ।
१०,०२७.१० स्त्रीभिर्यो अत्र वृषणं पृतन्यादयुद्धो अस्य वि भजानि वेदः ॥
१०,०२७.११ यस्यानक्षा दुहिता जात्वास कस्तां विद्वां अभि मन्याते अन्धाम् ।
१०,०२७.११ कतरो मेनिं प्रति तं मुचाते य ईं वहाते य ईं वा वरेयात् ॥
१०,०२७.१२ कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसा वार्येण ।
१०,०२७.१२ भद्रा वधूर्भवति यत्सुपेशाः स्वयं सा मित्रं वनुते जने चित् ॥
१०,०२७.१३ पत्तो जगार प्रत्यञ्चमत्ति शीर्ष्णा शिरः प्रति दधौ वरूथम् ।
१०,०२७.१३ आसीन ऊर्ध्वामुपसि क्षिणाति न्यङ्ङुत्तानामन्वेति भूमिम् ॥
१०,०२७.१४ बृहन्नच्छायो अपलाशो अर्वा तस्थौ माता विषितो अत्ति गर्भः ।
१०,०२७.१४ अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ॥
१०,०२७.१५ सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात्समजग्मिरन्ते ।
१०,०२७.१५ नव पश्चातात्स्थिविमन्त आयन्दश प्राक्सानु वि तिरन्त्यश्नः ॥
१०,०२७.१६ दशानामेकं कपिलं समानं तं हिन्वन्ति क्रतवे पार्याय ।
१०,०२७.१६ गर्भं माता सुधितं वक्षणास्ववेनन्तं तुषयन्ती बिभर्ति ॥
१०,०२७.१७ पीवानं मेषमपचन्त वीरा न्युप्ता अक्षा अनु दीव आसन् ।
१०,०२७.१७ द्वा धनुं बृहतीमप्स्वन्तः पवित्रवन्ता चरतः पुनन्ता ॥
१०,०२७.१८ वि क्रोशनासो विष्वञ्च आयन्पचाति नेमो नहि पक्षदर्धः ।
१०,०२७.१८ अयं मे देवः सविता तदाह द्र्वन्न इद्वनवत्सर्पिरन्नः ॥
१०,०२७.१९ अपश्यं ग्रामं वहमानमारादचक्रया स्वधया वर्तमानम् ।
१०,०२७.१९ सिषक्त्यर्यः प्र युगा जनानां सद्यः शिश्ना प्रमिनानो नवीयान् ॥
१०,०२७.२० एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि ।
१०,०२७.२० आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान् ॥
१०,०२७.२१ अयं यो वज्रः पुरुधा विवृत्तोऽवः सूर्यस्य बृहतः पुरीषात् ।
१०,०२७.२१ श्रव इदेना परो अन्यदस्ति तदव्यथी जरिमाणस्तरन्ति ॥
१०,०२७.२२ वृक्षेवृक्षे नियता मीमयद्गौस्ततो वयः प्र पतान्पूरुषादः ।
१०,०२७.२२ अथेदं विश्वं भुवनं भयात इन्द्राय सुन्वदृषये च शिक्षत् ॥
१०,०२७.२३ देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुपरा उदायन् ।
१०,०२७.२३ त्रयस्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम् ॥
१०,०२७.२४ सा ते जीवातुरुत तस्य विद्धि मा स्मैतादृगप गूहः समर्ये ।
१०,०२७.२४ आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते ॥
१०,०२८.०१ विश्वो ह्यन्यो अरिराजगाम ममेदह श्वशुरो ना जगाम ।
१०,०२८.०१ जक्षीयाद्धाना उत सोमं पपीयात्स्वाशितः पुनरस्तं जगायात् ॥
१०,०२८.०२ स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः ।
१०,०२८.०२ विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥
१०,०२८.०३ अद्रिणा ते मन्दिन इन्द्र तूयान्सुन्वन्ति सोमान्पिबसि त्वमेषाम् ।
१०,०२८.०३ पचन्ति ते वृषभां अत्सि तेषां पृक्षेण यन्मघवन्हूयमानः ॥
१०,०२८.०४ इदं सु मे जरितरा चिकिद्धि प्रतीपं शापं नद्यो वहन्ति ।
१०,०२८.०४ लोपाशः सिंहं प्रत्यञ्चमत्साः क्रोष्टा वराहं निरतक्त कक्षात् ॥
१०,०२८.०५ कथा त एतदहमा चिकेतं गृत्सस्य पाकस्तवसो मनीषाम् ।
१०,०२८.०५ त्वं नो विद्वां ऋतुथा वि वोचो यमर्धं ते मघवन्क्षेम्या धूः ॥
१०,०२८.०६ एवा हि मां तवसं वर्धयन्ति दिवश्चिन्मे बृहत उत्तरा धूः ।
१०,०२८.०६ पुरू सहस्रा नि शिशामि साकमशत्रुं हि मा जनिता जजान ॥
१०,०२८.०७ एवा हि मां तवसं जज्ञुरुग्रं कर्मन्कर्मन्वृषणमिन्द्र देवाः ।
१०,०२८.०७ वधीं वृत्रं वज्रेण मन्दसानोऽप व्रजं महिना दाशुषे वम् ॥
१०,०२८.०८ देवास आयन्परशूंरबिभ्रन्वना वृश्चन्तो अभि विड्भिरायन् ।
१०,०२८.०८ नि सुद्र्वं दधतो वक्षणासु यत्रा कृपीटमनु तद्दहन्ति ॥
१०,०२८.०९ शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् ।
१०,०२८.०९ बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः ॥
१०,०२८.१० सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः ।
१०,०२८.१० निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत् ॥
१०,०२८.११ तेभ्यो गोधा अयथं कर्षदेतद्ये ब्रह्मणः प्रतिपीयन्त्यन्नैः ।
१०,०२८.११ सिम उक्ष्णोऽवसृष्टां अदन्ति स्वयं बलानि तन्वः शृणानाः ॥
१०,०२८.१२ एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्वः सोम उक्थैः ।
१०,०२८.१२ नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः ॥
१०,०२९.०१ वने न वा यो न्यधायि चाकञ्छुचिर्वां स्तोमो भुरणावजीगः ।
१०,०२९.०१ यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्यो नृतमः क्षपावान् ॥
१०,०२९.०२ प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।
१०,०२९.०२ अनु त्रिशोकः शतमावहन्नॄन्कुत्सेन रथो यो असत्ससवान् ॥
१०,०२९.०३ कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।
१०,०२९.०३ कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥
१०,०२९.०४ कदु द्युम्नमिन्द्र त्वावतो नॄन्कया धिया करसे कन्न आगन् ।
१०,०२९.०४ मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन्मनीषाः ॥
१०,०२९.०५ प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
१०,०२९.०५ गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥
१०,०२९.०६ मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।
१०,०२९.०६ वराय ते घृतवन्तः सुतासः स्वाद्मन्भवन्तु पीतये मधूनि ॥
१०,०२९.०७ आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।
१०,०२९.०७ स वावृधे वरिमन्ना पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥
१०,०२९.०८ व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
१०,०२९.०८ आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥
१०,०३०.०१ प्र देवत्रा ब्रह्मणे गातुरेत्वपो अच्छा मनसो न प्रयुक्ति ।
१०,०३०.०१ महीं मित्रस्य वरुणस्य धासिं पृथुज्रयसे रीरधा सुवृक्तिम् ॥
१०,०३०.०२ अध्वर्यवो हविष्मन्तो हि भूताच्छाप इतोशतीरुशन्तः ।
१०,०३०.०२ अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः ॥
१०,०३०.०३ अध्वर्यवोऽप इता समुद्रमपां नपातं हविषा यजध्वम् ।
१०,०३०.०३ स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तं सुनोत ॥
१०,०३०.०४ यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु ।
१०,०३०.०४ अपां नपान्मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्याय ॥
१०,०३०.०५ याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्न मर्यः ।
१०,०३०.०५ ता अध्वर्यो अपो अच्छा परेहि यदासिञ्चा ओषधीभिः पुनीतात् ॥
१०,०३०.०६ एवेद्यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यच्छ ।
१०,०३०.०६ सं जानते मनसा सं चिकित्रेऽध्वर्यवो धिषणापश्च देवीः ॥
१०,०३०.०७ यो वो वृताभ्यो अकृणोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत् ।
१०,०३०.०७ तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनं प्र हिणोतनापः ॥
१०,०३०.०८ प्रास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवो मध्व उत्सः ।
१०,०३०.०८ घृतपृष्ठमीड्यमध्वरेष्वापो रेवतीः शृणुता हवं मे ॥
१०,०३०.०९ तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं प्र हेत य उभे इयर्ति ।
१०,०३०.०९ मदच्युतमौशानं नभोजां परि त्रितन्तुं विचरन्तमुत्सम् ॥
१०,०३०.१० आवर्वृततीरध नु द्विधारा गोषुयुधो न नियवं चरन्तीः ।
१०,०३०.१० ऋषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्व सवृधः सयोनीः ॥
१०,०३०.११ हिनोता नो अध्वरं देवयज्या हिनोत ब्रह्म सनये धनानाम् ।
१०,०३०.११ ऋतस्य योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥
१०,०३०.१२ आपो रेवतीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च ।
१०,०३०.१२ रायश्च स्थ स्वपत्यस्य पत्नीः सरस्वती तद्गृणते वयो धात् ॥
१०,०३०.१३ प्रति यदापो अदृश्रमायतीर्घृतं पयांसि बिभ्रतीर्मधूनि ।
१०,०३०.१३ अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमं सुषुतं भरन्तीः ॥
१०,०३०.१४ एमा अग्मन्रेवतीर्जीवधन्या अध्वर्यवः सादयता सखायः ।
१०,०३०.१४ नि बर्हिषि धत्तन सोम्यासोऽपां नप्त्रा संविदानास एनाः ॥
१०,०३०.१५ आग्मन्नाप उशतीर्बर्हिरेदं न्यध्वरे असदन्देवयन्तीः ।
१०,०३०.१५ अध्वर्यवः सुनुतेन्द्राय सोममभूदु वः सुशका देवयज्या ॥
१०,०३१.०१ आ नो देवानामुप वेतु शंसो विश्वेभिस्तुरैरवसे यजत्रः ।
१०,०३१.०१ तेभिर्वयं सुषखायो भवेम तरन्तो विश्वा दुरिता स्याम ॥
१०,०३१.०२ परि चिन्मर्तो द्रविणं ममन्यादृतस्य पथा नमसा विवासेत् ।
१०,०३१.०२ उत स्वेन क्रतुना सं वदेत श्रेयांसं दक्षं मनसा जगृभ्यात् ॥
१०,०३१.०३ अधायि धीतिरससृग्रमंशास्तीर्थे न दस्ममुप यन्त्यूमाः ।
१०,०३१.०३ अभ्यानश्म सुवितस्य शूषं नवेदसो अमृतानामभूम ॥
१०,०३१.०४ नित्यश्चाकन्यात्स्वपतिर्दमूना यस्मा उ देवः सविता जजान ।
१०,०३१.०४ भगो वा गोभिरर्यमेमनज्यात्सो अस्मै चारुश्छदयदुत स्यात् ॥
१०,०३१.०५ इयं सा भूया उषसामिव क्षा यद्ध क्षुमन्तः शवसा समायन् ।
१०,०३१.०५ अस्य स्तुतिं जरितुर्भिक्षमाणा आ नः शग्मास उप यन्तु वाजाः ॥
१०,०३१.०६ अस्येदेषा सुमतिः पप्रथानाभवत्पूर्व्या भूमना गौः ।
१०,०३१.०६ अस्य सनीळा असुरस्य योनौ समान आ भरणे बिभ्रमाणाः ॥
१०,०३१.०७ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
१०,०३१.०७ संतस्थाने अजरे इतऊती अहानि पूर्वीरुषसो जरन्त ॥
१०,०३१.०८ नैतावदेना परो अन्यदस्त्युक्षा स द्यावापृथिवी बिभर्ति ।
१०,०३१.०८ त्वचं पवित्रं कृणुत स्वधावान्यदीं सूर्यं न हरितो वहन्ति ॥
१०,०३१.०९ स्तेगो न क्षामत्येति पृथ्वीं मिहं न वातो वि ह वाति भूम ।
१०,०३१.०९ मित्रो यत्र वरुणो अज्यमानोऽग्निर्वने न व्यसृष्ट शोकम् ॥
१०,०३१.१० स्तरीर्यत्सूत सद्यो अज्यमाना व्यथिरव्यथीः कृणुत स्वगोपा ।
१०,०३१.१० पुत्रो यत्पूर्वः पित्रोर्जनिष्ट शम्यां गौर्जगार यद्ध पृच्छान् ॥
१०,०३१.११ उत कण्वं नृषदः पुत्रमाहुरुत श्यावो धनमादत्त वाजी ।
१०,०३१.११ प्र कृष्णाय रुशदपिन्वतोधरृतमत्र नकिरस्मा अपीपेत् ॥
१०,०३२.०१ प्र सु ग्मन्ता धियसानस्य सक्षणि वरेभिर्वरां अभि षु प्रसीदतः ।
१०,०३२.०१ अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति ॥
१०,०३२.०२ वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसा पुरुष्टुत ।
१०,०३२.०२ ये त्वा वहन्ति मुहुरध्वरां उप ते सु वन्वन्तु वग्वनां अराधसः ॥
१०,०३२.०३ तदिन्मे छन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति ।
१०,०३२.०३ जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः ॥
१०,०३२.०४ तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः ।
१०,०३२.०४ माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जनः ॥
१०,०३२.०५ प्र वोऽच्छा रिरिचे देवयुष्पदमेको रुद्रेभिर्याति तुर्वणिः ।
१०,०३२.०५ जरा वा येष्वमृतेषु दावने परि व ऊमेभ्यः सिञ्चता मधु ॥
१०,०३२.०६ निधीयमानमपगूळ्हमप्सु प्र मे देवानां व्रतपा उवाच ।
१०,०३२.०६ इन्द्रो विद्वां अनु हि त्वा चचक्ष तेनाहमग्ने अनुशिष्ट आगाम् ॥
१०,०३२.०७ अक्षेत्रवित्क्षेत्रविदं ह्यप्राट्स प्रैति क्षेत्रविदानुशिष्टः ।
१०,०३२.०७ एतद्वै भद्रमनुशासनस्योत स्रुतिं विन्दत्यञ्जसीनाम् ॥
१०,०३२.०८ अद्येदु प्राणीदममन्निमाहापीवृतो अधयन्मातुरूधः ।
१०,०३२.०८ एमेनमाप जरिमा युवानमहेळन्वसुः सुमना बभूव ॥
१०,०३२.०९ एतानि भद्रा कलश क्रियाम कुरुश्रवण ददतो मघानि ।
१०,०३२.०९ दान इद्वो मघवानः सो अस्त्वयं च सोमो हृदि यं बिभर्मि ॥
१०,०३३.०१ प्र मा युयुज्रे प्रयुजो जनानां वहामि स्म पूषणमन्तरेण ।
१०,०३३.०१ विश्वे देवासो अध मामरक्षन्दुःशासुरागादिति घोष आसीत् ॥
१०,०३३.०२ सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
१०,०३३.०२ नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥
१०,०३३.०३ मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो ।
१०,०३३.०३ सकृत्सु नो मघवन्निन्द्र मृळयाधा पितेव नो भव ॥
१०,०३३.०४ कुरुश्रवणमावृणि राजानं त्रासदस्यवम् ।
१०,०३३.०४ मंहिष्ठं वाघतामृषिः ॥
१०,०३३.०५ यस्य मा हरितो रथे तिस्रो वहन्ति साधुया ।
१०,०३३.०५ स्तवै सहस्रदक्षिणे ॥
१०,०३३.०६ यस्य प्रस्वादसो गिर उपमश्रवसः पितुः ।
१०,०३३.०६ क्षेत्रं न रण्वमूचुषे ॥
१०,०३३.०७ अधि पुत्रोपमश्रवो नपान्मित्रातिथेरिहि ।
१०,०३३.०७ पितुष्टे अस्मि वन्दिता ॥
१०,०३३.०८ यदीशीयामृतानामुत वा मर्त्यानाम् ।
१०,०३३.०८ जीवेदिन्मघवा मम ॥
१०,०३३.०९ न देवानामति व्रतं शतात्मा चन जीवति ।
१०,०३३.०९ तथा युजा वि वावृते ॥
१०,०३४.०१ प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः ।
१०,०३४.०१ सोमस्येव मौजवतस्य भक्षो विभीदको जागृविर्मह्यमच्छान् ॥
१०,०३४.०२ न मा मिमेथ न जिहीळ एषा शिवा सखिभ्य उत मह्यमासीत् ।
१०,०३४.०२ अक्षस्याहमेकपरस्य हेतोरनुव्रतामप जायामरोधम् ॥
१०,०३४.०३ द्वेष्टि श्वश्रूरप जाया रुणद्धि न नाथितो विन्दते मर्डितारम् ।
१०,०३४.०३ अश्वस्येव जरतो वस्न्यस्य नाहं विन्दामि कितवस्य भोगम् ॥
१०,०३४.०४ अन्ये जायां परि मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः ।
१०,०३४.०४ पिता माता भ्रातर एनमाहुर्न जानीमो नयता बद्धमेतम् ॥
१०,०३४.०५ यदादीध्ये न दविषाण्येभिः परायद्भ्योऽव हीये सखिभ्यः ।
१०,०३४.०५ न्युप्ताश्च बभ्रवो वाचमक्रतं एमीदेषां निष्कृतं जारिणीव ॥
१०,०३४.०६ सभामेति कितवः पृच्छमानो जेष्यामीति तन्वा शूशुजानः ।
१०,०३४.०६ अक्षासो अस्य वि तिरन्ति कामं प्रतिदीव्ने दधत आ कृतानि ॥
१०,०३४.०७ अक्षास इदङ्कुशिनो नितोदिनो निकृत्वानस्तपनास्तापयिष्णवः ।
१०,०३४.०७ कुमारदेष्णा जयतः पुनर्हणो मध्वा सम्पृक्ताः कितवस्य बर्हणा ॥
१०,०३४.०८ त्रिपञ्चाशः क्रीळति व्रात एषां देव इव सविता सत्यधर्मा ।
१०,०३४.०८ उग्रस्य चिन्मन्यवे ना नमन्ते राजा चिदेभ्यो नम इत्कृणोति ॥
१०,०३४.०९ नीचा वर्तन्त उपरि स्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते ।
१०,०३४.०९ दिव्या अङ्गारा इरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति ॥
१०,०३४.१० जाया तप्यते कितवस्य हीना माता पुत्रस्य चरतः क्व स्वित् ।
१०,०३४.१० ऋणावा बिभ्यद्धनमिच्छमानोऽन्येषामस्तमुप नक्तमेति ॥
१०,०३४.११ स्त्रियं दृष्ट्वाय कितवं ततापान्येषां जायां सुकृतं च योनिम् ।
१०,०३४.११ पूर्वाह्णे अश्वान्युयुजे हि बभ्रून्सो अग्नेरन्ते वृषलः पपाद ॥
१०,०३४.१२ यो वः सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव ।
१०,०३४.१२ तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥
१०,०३४.१३ अक्षैर्मा दीव्यः कृषिमित्कृषस्व वित्ते रमस्व बहु मन्यमानः ।
१०,०३४.१३ तत्र गावः कितव तत्र जाया तन्मे वि चष्टे सवितायमर्यः ॥
१०,०३४.१४ मित्रं कृणुध्वं खलु मृळता नो मा नो घोरेण चरताभि धृष्णु ।
१०,०३४.१४ नि वो नु मन्युर्विशतामरातिरन्यो बभ्रूणां प्रसितौ न्वस्तु ॥
१०,०३५.०१ अबुध्रमु त्य इन्द्रवन्तो अग्नयो ज्योतिर्भरन्त उषसो व्युष्टिषु ।
१०,०३५.०१ मही द्यावापृथिवी चेततामपोऽद्या देवानामव आ वृणीमहे ॥
१०,०३५.०२ दिवस्पृथिव्योरव आ वृणीमहे मातॄन्सिन्धून्पर्वताञ्छर्यणावतः ।
१०,०३५.०२ अनागास्त्वं सूर्यमुषासमीमहे भद्रं सोमः सुवानो अद्या कृणोतु नः ॥
१०,०३५.०३ द्यावा नो अद्य पृथिवी अनागसो मही त्रायेतां सुविताय मातरा ।
१०,०३५.०३ उषा उच्छन्त्यप बाधतामघं स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.०४ इयं न उस्रा प्रथमा सुदेव्यं रेवत्सनिभ्यो रेवती व्युच्छतु ।
१०,०३५.०४ आरे मन्युं दुर्विदत्रस्य धीमहि स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.०५ प्र याः सिस्रते सूर्यस्य रश्मिभिर्ज्योतिर्भरन्तीरुषसो व्युष्टिषु ।
१०,०३५.०५ भद्रा नो अद्य श्रवसे व्युच्छत स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.०६ अनमीवा उषस आ चरन्तु न उदग्नयो जिहतां ज्योतिषा बृहत् ।
१०,०३५.०६ आयुक्षातामश्विना तूतुजिं रथं स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.०७ श्रेष्ठं नो अद्य सवितर्वरेण्यं भागमा सुव स हि रत्नधा असि ।
१०,०३५.०७ रायो जनित्रीं धिषणामुप ब्रुवे स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.०८ पिपर्तु मा तदृतस्य प्रवाचनं देवानां यन्मनुष्या अमन्महि ।
१०,०३५.०८ विश्वा इदुस्रा स्पळ् उदेति सूर्यः स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.०९ अद्वेषो अद्य बर्हिष स्तरीमणि ग्राव्णां योगे मन्मनः साध ईमहे ।
१०,०३५.०९ आदित्यानां शर्मणि स्था भुरण्यसि स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.१० आ नो बर्हिः सधमादे बृहद्दिवि देवां ईळे सादया सप्त होतॄन् ।
१०,०३५.१० इन्द्रं मित्रं वरुणं सातये भगं स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.११ त आदित्या आ गता सर्वतातये वृधे नो यज्ञमवता सजोषसः ।
१०,०३५.११ बृहस्पतिं पूषणमश्विना भगं स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.१२ तन्नो देवा यच्छत सुप्रवाचनं छर्दिरादित्याः सुभरं नृपाय्यम् ।
१०,०३५.१२ पश्वे तोकाय तनयाय जीवसे स्वस्त्यग्निं समिधानमीमहे ॥
१०,०३५.१३ विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्वग्नयः समिद्धाः ।
१०,०३५.१३ विश्वे नो देवा अवसा गमन्तु विश्वमस्तु द्रविणं वाजो अस्मे ॥
१०,०३५.१४ यं देवासोऽवथ वाजसातौ यं त्रायध्वे यं पिपृथात्यंहः ।
१०,०३५.१४ यो वो गोपीथे न भयस्य वेद ते स्याम देववीतये तुरासः ॥
१०,०३६.०१ उषासानक्ता बृहती सुपेशसा द्यावाक्षामा वरुणो मित्रो अर्यमा ।
१०,०३६.०१ इन्द्रं हुवे मरुतः पर्वतां अप आदित्यान्द्यावापृथिवी अपः स्वः ॥
१०,०३६.०२ द्यौश्च नः पृथिवी च प्रचेतस ऋतावरी रक्षतामंहसो रिषः ।
१०,०३६.०२ मा दुर्विदत्रा निरृतिर्न ईशत तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.०३ विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवतः ।
१०,०३६.०३ स्वर्वज्ज्योतिरवृकं नशीमहि तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.०४ ग्रावा वदन्नप रक्षांसि सेधतु दुष्ष्वप्न्यं निरृतिं विश्वमत्रिणम् ।
१०,०३६.०४ आदित्यं शर्म मरुतामशीमहि तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.०५ एन्द्रो बर्हिः सीदतु पिन्वतामिळा बृहस्पतिः सामभिरृक्वो अर्चतु ।
१०,०३६.०५ सुप्रकेतं जीवसे मन्म धीमहि तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.०६ दिविस्पृशं यज्ञमस्माकमश्विना जीराध्वरं कृणुतं सुम्नमिष्टये ।
१०,०३६.०६ प्राचीनरश्मिमाहुतं घृतेन तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.०७ उप ह्वये सुहवं मारुतं गणं पावकमृष्वं सख्याय शम्भुवम् ।
१०,०३६.०७ रायस्पोषं सौश्रवसाय धीमहि तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.०८ अपां पेरुं जीवधन्यं भरामहे देवाव्यं सुहवमध्वरश्रियम् ।
१०,०३६.०८ सुरश्मिं सोममिन्द्रियं यमीमहि तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.०९ सनेम तत्सुसनिता सनित्वभिर्वयं जीवा जीवपुत्रा अनागसः ।
१०,०३६.०९ ब्रह्मद्विषो विष्वगेनो भरेरत तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.१० ये स्था मनोर्यज्ञियास्ते शृणोतन यद्वो देवा ईमहे तद्ददातन ।
१०,०३६.१० जैत्रं क्रतुं रयिमद्वीरवद्यशस्तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.११ महदद्य महतामा वृणीमहेऽवो देवानां बृहतामनर्वणाम् ।
१०,०३६.११ यथा वसु वीरजातं नशामहै तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.१२ महो अग्नेः समिधानस्य शर्मण्यनागा मित्रे वरुणे स्वस्तये ।
१०,०३६.१२ श्रेष्ठे स्याम सवितुः सवीमनि तद्देवानामवो अद्या वृणीमहे ॥
१०,०३६.१३ ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ।
१०,०३६.१३ ते सौभगं वीरवद्गोमदप्नो दधातन द्रविणं चित्रमस्मे ॥
१०,०३६.१४ सविता पश्चातात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् ।
१०,०३६.१४ सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः ॥
१०,०३७.०१ नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तदृतं सपर्यत ।
१०,०३७.०१ दूरेदृशे देवजाताय केतवे दिवस्पुत्राय सूर्याय शंसत ॥
१०,०३७.०२ सा मा सत्योक्तिः परि पातु विश्वतो द्यावा च यत्र ततनन्नहानि च ।
१०,०३७.०२ विश्वमन्यन्नि विशते यदेजति विश्वाहापो विश्वाहोदेति सूर्यः ॥
१०,०३७.०३ न ते अदेवः प्रदिवो नि वासते यदेतशेभिः पतरै रथर्यसि ।
१०,०३७.०३ प्राचीनमन्यदनु वर्तते रज उदन्येन ज्योतिषा यासि सूर्य ॥
१०,०३७.०४ येन सूर्य ज्योतिषा बाधसे तमो जगच्च विश्वमुदियर्षि भानुना ।
१०,०३७.०४ तेनास्मद्विश्वामनिरामनाहुतिमपामीवामप दुष्ष्वप्न्यं सुव ॥
१०,०३७.०५ विश्वस्य हि प्रेषितो रक्षसि व्रतमहेळयन्नुच्चरसि स्वधा अनु ।
१०,०३७.०५ यदद्य त्वा सूर्योपब्रवामहै तं नो देवा अनु मंसीरत क्रतुम् ॥
१०,०३७.०६ तं नो द्यावापृथिवी तन्न आप इन्द्रः शृण्वन्तु मरुतो हवं वचः ।
१०,०३७.०६ मा शूने भूम सूर्यस्य संदृशि भद्रं जीवन्तो जरणामशीमहि ॥
१०,०३७.०७ विश्वाहा त्वा सुमनसः सुचक्षसः प्रजावन्तो अनमीवा अनागसः ।
१०,०३७.०७ उद्यन्तं त्वा मित्रमहो दिवेदिवे ज्योग्जीवाः प्रति पश्येम सूर्य ॥
१०,०३७.०८ महि ज्योतिर्बिभ्रतं त्वा विचक्षण भास्वन्तं चक्षुषेचक्षुषे मयः ।
१०,०३७.०८ आरोहन्तं बृहतः पाजसस्परि वयं जीवाः प्रति पश्येम सूर्य ॥
१०,०३७.०९ यस्य ते विश्वा भुवनानि केतुना प्र चेरते नि च विशन्ते अक्तुभिः ।
१०,०३७.०९ अनागास्त्वेन हरिकेश सूर्याह्नाह्ना नो वस्यसावस्यसोदिहि ॥
१०,०३७.१० शं नो भव चक्षसा शं नो अह्ना शं भानुना शं हिमा शं घृणेन ।
१०,०३७.१० यथा शमध्वञ्छमसद्दुरोणे तत्सूर्य द्रविणं धेहि चित्रम् ॥
१०,०३७.११ अस्माकं देवा उभयाय जन्मने शर्म यच्छत द्विपदे चतुष्पदे ।
१०,०३७.११ अदत्पिबदूर्जयमानमाशितं तदस्मे शं योररपो दधातन ॥
१०,०३७.१२ यद्वो देवाश्चकृम जिह्वया गुरु मनसो वा प्रयुती देवहेळनम् ।
१०,०३७.१२ अरावा यो नो अभि दुच्छुनायते तस्मिन्तदेनो वसवो नि धेतन ॥
१०,०३८.०१ अस्मिन्न इन्द्र पृत्सुतौ यशस्वति शिमीवति क्रन्दसि प्राव सातये ।
१०,०३८.०१ यत्र गोषाता धृषितेषु खादिषु विष्वक्पतन्ति दिद्यवो नृषाह्ये ॥
१०,०३८.०२ स नः क्षुमन्तं सदने व्यूर्णुहि गोअर्णसं रयिमिन्द्र श्रवाय्यम् ।
१०,०३८.०२ स्याम ते जयतः शक्र मेदिनो यथा वयमुश्मसि तद्वसो कृधि ॥
१०,०३८.०३ यो नो दास आर्यो वा पुरुष्टुतादेव इन्द्र युधये चिकेतति ।
१०,०३८.०३ अस्माभिष्टे सुषहाः सन्तु शत्रवस्त्वया वयं तान्वनुयाम संगमे ॥
१०,०३८.०४ यो दभ्रेभिर्हव्यो यश्च भूरिभिर्यो अभीके वरिवोविन्नृषाह्ये ।
१०,०३८.०४ तं विखादे सस्निमद्य श्रुतं नरमर्वाञ्चमिन्द्रमवसे करामहे ॥
१०,०३८.०५ स्ववृजं हि त्वामहमिन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम् ।
१०,०३८.०५ प्र मुञ्चस्व परि कुत्सादिहा गहि किमु त्वावान्मुष्कयोर्बद्ध आसते ॥
१०,०३९.०१ यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता ।
१०,०३९.०१ शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥
१०,०३९.०२ चोदयतं सूनृताः पिन्वतं धिय उत्पुरन्धीरीरयतं तदुश्मसि ।
१०,०३९.०२ यशसं भागं कृणुतं नो अश्विना सोमं न चारुं मघवत्सु नस्कृतम् ॥
१०,०३९.०३ अमाजुरश्चिद्भवथो युवं भगोऽनाशोश्चिदवितारापमस्य चित् ।
१०,०३९.०३ अन्धस्य चिन्नासत्या कृशस्य चिद्युवामिदाहुर्भिषजा रुतस्य चित् ॥
१०,०३९.०४ युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः ।
१०,०३९.०४ निष्टौग्र्यमूहथुरद्भ्यस्परि विश्वेत्ता वां सवनेषु प्रवाच्या ॥
१०,०३९.०५ पुराणा वां वीर्या प्र ब्रवा जनेऽथो हासथुर्भिषजा मयोभुवा ।
१०,०३९.०५ ता वां नु नव्याववसे करामहेऽयं नासत्या श्रदरिर्यथा दधत् ॥
१०,०३९.०६ इयं वामह्वे शृणुतं मे अश्विना पुत्रायेव पितरा मह्यं शिक्षतम् ।
१०,०३९.०६ अनापिरज्ञा असजात्यामतिः पुरा तस्या अभिशस्तेरव स्पृतम् ॥
१०,०३९.०७ युवं रथेन विमदाय शुन्ध्युवं न्यूहथुः पुरुमित्रस्य योषणाम् ।
१०,०३९.०७ युवं हवं वध्रिमत्या अगच्छतं युवं सुषुतिं चक्रथुः पुरन्धये ॥
१०,०३९.०८ युवं विप्रस्य जरणामुपेयुषः पुनः कलेरकृणुतं युवद्वयः ।
१०,०३९.०८ युवं वन्दनमृश्यदादुदूपथुर्युवं सद्यो विश्पलामेतवे कृथः ॥
१०,०३९.०९ युवं ह रेभं वृषणा गुहा हितमुदैरयतं ममृवांसमश्विना ।
१०,०३९.०९ युवमृबीसमुत तप्तमत्रय ओमन्वन्तं चक्रथुः सप्तवध्रये ॥
१०,०३९.१० युवं श्वेतं पेदवेऽश्विनाश्वं नवभिर्वाजैर्नवती च वाजिनम् ।
१०,०३९.१० चर्कृत्यं ददथुर्द्रावयत्सखं भगं न नृभ्यो हव्यं मयोभुवम् ॥
१०,०३९.११ न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितं नकिर्भयम् ।
१०,०३९.११ यमश्विना सुहवा रुद्रवर्तनी पुरोरथं कृणुथः पत्न्या सह ॥
१०,०३९.१२ आ तेन यातं मनसो जवीयसा रथं यं वामृभवश्चक्रुरश्विना ।
१०,०३९.१२ यस्य योगे दुहिता जायते दिव उभे अहनी सुदिने विवस्वतः ॥
१०,०३९.१३ ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवे धेनुमश्विना ।
१०,०३९.१३ वृकस्य चिद्वर्तिकामन्तरास्याद्युवं शचीभिर्ग्रसिताममुञ्चतम् ॥
१०,०३९.१४ एतं वां स्तोममश्विनावकर्मातक्षाम भृगवो न रथम् ।
१०,०३९.१४ न्यमृक्षाम योषणां न मर्ये नित्यं न सूनुं तनयं दधानाः ॥
१०,०४०.०१ रथं यान्तं कुह को ह वां नरा प्रति द्युमन्तं सुविताय भूषति ।
१०,०४०.०१ प्रातर्यावाणं विभ्वं विशेविशे वस्तोर्वस्तोर्वहमानं धिया शमि ॥
१०,०४०.०२ कुह स्विद्दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः ।
१०,०४०.०२ को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते सधस्थ आ ॥
१०,०४०.०३ प्रातर्जरेथे जरणेव कापया वस्तोर्वस्तोर्यजता गच्छथो गृहम् ।
१०,०४०.०३ कस्य ध्वस्रा भवथः कस्य वा नरा राजपुत्रेव सवनाव गच्छथः ॥
१०,०४०.०४ युवां मृगेव वारणा मृगण्यवो दोषा वस्तोर्हविषा नि ह्वयामहे ।
१०,०४०.०४ युवं होत्रामृतुथा जुह्वते नरेषं जनाय वहथः शुभस्पती ॥
१०,०४०.०५ युवां ह घोषा पर्यश्विना यती राज्ञ ऊचे दुहिता पृच्छे वां नरा ।
१०,०४०.०५ भूतं मे अह्न उत भूतमक्तवेऽश्वावते रथिने शक्तमर्वते ॥
१०,०४०.०६ युवं कवी ष्ठः पर्यश्विना रथं विशो न कुत्सो जरितुर्नशायथः ।
१०,०४०.०६ युवोर्ह मक्षा पर्यश्विना मध्वासा भरत निष्कृतं न योषणा ॥
१०,०४०.०७ युवं ह भुज्युं युवमश्विना वशं युवं शिञ्जारमुशनामुपारथुः ।
१०,०४०.०७ युवो ररावा परि सख्यमासते युवोरहमवसा सुम्नमा चके ॥
१०,०४०.०८ युवं ह कृशं युवमश्विना शयुं युवं विधन्तं विधवामुरुष्यथः ।
१०,०४०.०८ युवं सनिभ्य स्तनयन्तमश्विनाप व्रजमूर्णुथः सप्तास्यम् ॥
१०,०४०.०९ जनिष्ट योषा पतयत्कनीनको वि चारुहन्वीरुधो दंसना अनु ।
१०,०४०.०९ आस्मै रीयन्ते निवनेव सिन्धवोऽस्मा अह्ने भवति तत्पतित्वनम् ॥
१०,०४०.१० जीवं रुदन्ति वि मयन्ते अध्वरे दीर्घामनु प्रसितिं दीधियुर्नरः ।
१०,०४०.१० वामं पितृभ्यो य इदं समेरिरे मयः पतिभ्यो जनयः परिष्वजे ॥
१०,०४०.११ न तस्य विद्म तदु षु प्र वोचत युवा ह यद्युवत्याः क्षेति योनिषु ।
१०,०४०.११ प्रियोस्रियस्य वृषभस्य रेतिनो गृहं गमेमाश्विना तदुश्मसि ॥
१०,०४०.१२ आ वामगन्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अयंसत ।
१०,०४०.१२ अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यां अशीमहि ॥
१०,०४०.१३ ता मन्दसाना मनुषो दुरोण आ धत्तं रयिं सहवीरं वचस्यवे ।
१०,०४०.१३ कृतं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथेष्ठामप दुर्मतिं हतम् ॥
१०,०४०.१४ क्व स्विदद्य कतमास्वश्विना विक्षु दस्रा मादयेते शुभस्पती ।
१०,०४०.१४ क ईं नि येमे कतमस्य जग्मतुर्विप्रस्य वा यजमानस्य वा गृहम् ॥
१०,०४१.०१ समानमु त्यं पुरुहूतमुक्थ्यं रथं त्रिचक्रं सवना गनिग्मतम् ।
१०,०४१.०१ परिज्मानं विदथ्यं सुवृक्तिभिर्वयं व्युष्टा उषसो हवामहे ॥
१०,०४१.०२ प्रातर्युजं नासत्याधि तिष्ठथः प्रातर्यावाणं मधुवाहनं रथम् ।
१०,०४१.०२ विशो येन गच्छथो यज्वरीर्नरा कीरेश्चिद्यज्ञं होतृमन्तमश्विना ॥
१०,०४१.०३ अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वा धृतदक्षं दमूनसम् ।
१०,०४१.०३ विप्रस्य वा यत्सवनानि गच्छथोऽत आ यातं मधुपेयमश्विना ॥
१०,०४२.०१ अस्तेव सु प्रतरं लायमस्यन्भूषन्निव प्र भरा स्तोममस्मै ।
१०,०४२.०१ वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥
१०,०४२.०२ दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।
१०,०४२.०२ कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥
१०,०४२.०३ किमङ्ग त्वा मघवन्भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।
१०,०४२.०३ अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥
१०,०४२.०४ त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।
१०,०४२.०४ अत्रा युजं कृणुते यो हविष्मान्नासुन्वता सख्यं वष्टि शूरः ॥
१०,०४२.०५ धनं न स्यन्द्रं बहुलं यो अस्मै तीव्रान्सोमां आसुनोति प्रयस्वान् ।
१०,०४२.०५ तस्मै शत्रून्सुतुकान्प्रातरह्नो नि स्वष्ट्रान्युवति हन्ति वृत्रम् ॥
१०,०४२.०६ यस्मिन्वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।
१०,०४२.०६ आराच्चित्सन्भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥
१०,०४२.०७ आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।
१०,०४२.०७ अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥
१०,०४२.०८ प्र यमन्तर्वृषसवासो अग्मन्तीव्राः सोमा बहुलान्तास इन्द्रम् ।
१०,०४२.०८ नाह दामानं मघवा नि यंसन्नि सुन्वते वहति भूरि वामम् ॥
१०,०४२.०९ उत प्रहामतिदीव्या जयाति कृतं यच्छ्वघ्नी विचिनोति काले ।
१०,०४२.०९ यो देवकामो न धना रुणद्धि समित्तं राया सृजति स्वधावान् ॥
१०,०४२.१० गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
१०,०४२.१० वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
१०,०४२.११ बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
१०,०४२.११ इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
१०,०४३.०१ अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।
१०,०४३.०१ परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥
१०,०४३.०२ न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय ।
१०,०४३.०२ राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्सु सोमेऽवपानमस्तु ते ॥
१०,०४३.०३ विषूवृदिन्द्रो अमतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते ।
१०,०४३.०३ तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥
१०,०४३.०४ वयो न वृक्षं सुपलाशमासदन्सोमास इन्द्रं मन्दिनश्चमूषदः ।
१०,०४३.०४ प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥
१०,०४३.०५ कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन्मघवा सूर्यं जयत् ।
१०,०४३.०५ न तत्ते अन्यो अनु वीर्यं शकन्न पुराणो मघवन्नोत नूतनः ॥
१०,०४३.०६ विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा ।
१०,०४३.०६ यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥
१०,०४३.०७ आपो न सिन्धुमभि यत्समक्षरन्सोमास इन्द्रं कुल्या इव ह्रदम् ।
१०,०४३.०७ वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥
१०,०४३.०८ वृषा न क्रुद्धः पतयद्रजस्स्वा यो अर्यपत्नीरकृणोदिमा अपः ।
१०,०४३.०८ स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥
१०,०४३.०९ उज्जायतां परशुर्ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत् ।
१०,०४३.०९ वि रोचतामरुषो भानुना शुचिः स्वर्ण शुक्रं शुशुचीत सत्पतिः ॥
१०,०४३.१० गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
१०,०४३.१० वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
१०,०४३.११ बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
१०,०४३.११ इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
१०,०४४.०१ आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।
१०,०४४.०१ प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥
१०,०४४.०२ सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।
१०,०४४.०२ शीभं राजन्सुपथा याह्यर्वाङ्वर्धाम ते पपुषो वृष्ण्यानि ॥
१०,०४४.०३ एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् ।
१०,०४४.०३ प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥
१०,०४४.०४ एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे ।
१०,०४४.०४ ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥
१०,०४४.०५ गमन्नस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।
१०,०४४.०५ त्वमीशिषे सास्मिन्ना सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥
१०,०४४.०६ पृथक्प्रायन्प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।
१०,०४४.०६ न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केपयः ॥
१०,०४४.०७ एवैवापागपरे सन्तु दूढ्योऽश्वा येषां दुर्युज आयुयुज्रे ।
१०,०४४.०७ इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥
१०,०४४.०८ गिरींरज्रान्रेजमानां अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत् ।
१०,०४४.०८ समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥
१०,०४४.०९ इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवञ्छफारुजः ।
१०,०४४.०९ अस्मिन्सु ते सवने अस्त्वोक्यं सुत इष्टौ मघवन्बोध्याभगः ॥
१०,०४४.१० गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
१०,०४४.१० वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥
१०,०४४.११ बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
१०,०४४.११ इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
१०,०४५.०१ दिवस्परि प्रथमं जज्ञे अग्निरस्मद्द्वितीयं परि जातवेदाः ।
१०,०४५.०१ तृतीयमप्सु नृमणा अजस्रमिन्धान एनं जरते स्वाधीः ॥
१०,०४५.०२ विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते धाम विभृता पुरुत्रा ।
१०,०४५.०२ विद्मा ते नाम परमं गुहा यद्विद्मा तमुत्सं यत आजगन्थ ॥
१०,०४५.०३ समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन् ।
१०,०४५.०३ तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन् ॥
१०,०४५.०४ अक्रन्ददग्नि स्तनयन्निव द्यौः क्षामा रेरिहद्वीरुधः समञ्जन् ।
१०,०४५.०४ सद्यो जज्ञानो वि हीमिद्धो अख्यदा रोदसी भानुना भात्यन्तः ॥
१०,०४५.०५ श्रीणामुदारो धरुणो रयीणां मनीषाणां प्रार्पणः सोमगोपाः ।
१०,०४५.०५ वसुः सूनुः सहसो अप्सु राजा वि भात्यग्र उषसामिधानः ॥
१०,०४५.०६ विश्वस्य केतुर्भुवनस्य गर्भ आ रोदसी अपृणाज्जायमानः ।
१०,०४५.०६ वीळुं चिदद्रिमभिनत्परायञ्जना यदग्निमयजन्त पञ्च ॥
१०,०४५.०७ उशिक्पावको अरतिः सुमेधा मर्तेष्वग्निरमृतो नि धायि ।
१०,०४५.०७ इयर्ति धूममरुषं भरिभ्रदुच्छुक्रेण शोचिषा द्यामिनक्षन् ॥
१०,०४५.०८ दृशानो रुक्म उर्विया व्यद्यौद्दुर्मर्षमायुः श्रिये रुचानः ।
१०,०४५.०८ अग्निरमृतो अभवद्वयोभिर्यदेनं द्यौर्जनयत्सुरेताः ॥
१०,०४५.०९ यस्ते अद्य कृणवद्भद्रशोचेऽपूपं देव घृतवन्तमग्ने ।
१०,०४५.०९ प्र तं नय प्रतरं वस्यो अच्छाभि सुम्नं देवभक्तं यविष्ठ ॥
१०,०४५.१० आ तं भज सौश्रवसेष्वग्न उक्थौक्थ आ भज शस्यमाने ।
१०,०४५.१० प्रियः सूर्ये प्रियो अग्ना भवात्युज्जातेन भिनददुज्जनित्वैः ॥
१०,०४५.११ त्वामग्ने यजमाना अनु द्यून्विश्वा वसु दधिरे वार्याणि ।
१०,०४५.११ त्वया सह द्रविणमिच्छमाना व्रजं गोमन्तमुशिजो वि वव्रुः ॥
१०,०४५.१२ अस्ताव्यग्निर्नरां सुशेवो वैश्वानर ऋषिभिः सोमगोपाः ।
१०,०४५.१२ अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥
१०,०४६.०१ प्र होता जातो महान्नभोविन्नृषद्वा सीददपामुपस्थे ।
१०,०४६.०१ दधिर्यो धायि स ते वयांसि यन्ता वसूनि विधते तनूपाः ॥
१०,०४६.०२ इमं विधन्तो अपां सधस्थे पशुं न नष्टं पदैरनु ग्मन् ।
१०,०४६.०२ गुहा चतन्तमुशिजो नमोभिरिच्छन्तो धीरा भृगवोऽविन्दन् ॥
१०,०४६.०३ इमं त्रितो भूर्यविन्ददिच्छन्वैभूवसो मूर्धन्यघ्न्यायाः ।
१०,०४६.०३ स शेवृधो जात आ हर्म्येषु नाभिर्युवा भवति रोचनस्य ॥
१०,०४६.०४ मन्द्रं होतारमुशिजो नमोभिः प्राञ्चं यज्ञं नेतारमध्वराणाम् ।
१०,०४६.०४ विशामकृण्वन्नरतिं पावकं हव्यवाहं दधतो मानुषेषु ॥
१०,०४६.०५ प्र भूर्जयन्तं महां विपोधां मूरा अमूरं पुरां दर्माणम् ।
१०,०४६.०५ नयन्तो गर्भं वनां धियं धुर्हिरिश्मश्रुं नार्वाणं धनर्चम् ॥
१०,०४६.०६ नि पस्त्यासु त्रित स्तभूयन्परिवीतो योनौ सीददन्तः ।
१०,०४६.०६ अतः संगृभ्या विशां दमूना विधर्मणायन्त्रैरीयते नॄन् ॥
१०,०४६.०७ अस्याजरासो दमामरित्रा अर्चद्धूमासो अग्नयः पावकाः ।
१०,०४६.०७ श्वितीचयः श्वात्रासो भुरण्यवो वनर्षदो वायवो न सोमाः ॥
१०,०४६.०८ प्र जिह्वया भरते वेपो अग्निः प्र वयुनानि चेतसा पृथिव्याः ।
१०,०४६.०८ तमायवः शुचयन्तं पावकं मन्द्रं होतारं दधिरे यजिष्ठम् ॥
१०,०४६.०९ द्यावा यमग्निं पृथिवी जनिष्टामापस्त्वष्टा भृगवो यं सहोभिः ।
१०,०४६.०९ ईळेन्यं प्रथमं मातरिश्वा देवास्ततक्षुर्मनवे यजत्रम् ॥
१०,०४६.१० यं त्वा देवा दधिरे हव्यवाहं पुरुस्पृहो मानुषासो यजत्रम् ।
१०,०४६.१० स यामन्नग्ने स्तुवते वयो धाः प्र देवयन्यशसः सं हि पूर्वीः ॥
१०,०४७.०१ जगृभ्मा ते दक्षिणमिन्द्र हस्तं वसूयवो वसुपते वसूनाम् ।
१०,०४७.०१ विद्मा हि त्वा गोपतिं शूर गोनामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०,०४७.०२ स्वायुधं स्ववसं सुनीथं चतुःसमुद्रं धरुणं रयीणाम् ।
१०,०४७.०२ चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०,०४७.०३ सुब्रह्माणं देववन्तं बृहन्तमुरुं गभीरं पृथुबुध्नमिन्द्र ।
१०,०४७.०३ श्रुतऋषिमुग्रमभिमातिषाहमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०,०४७.०४ सनद्वाजं विप्रवीरं तरुत्रं धनस्पृतं शूशुवांसं सुदक्षम् ।
१०,०४७.०४ दस्युहनं पूर्भिदमिन्द्र सत्यमस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०,०४७.०५ अश्वावन्तं रथिनं वीरवन्तं सहस्रिणं शतिनं वाजमिन्द्र ।
१०,०४७.०५ भद्रव्रातं विप्रवीरं स्वर्षामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०,०४७.०६ प्र सप्तगुमृतधीतिं सुमेधां बृहस्पतिं मतिरच्छा जिगाति ।
१०,०४७.०६ य आङ्गिरसो नमसोपसद्योऽस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०,०४७.०७ वनीवानो मम दूतास इन्द्रं स्तोमाश्चरन्ति सुमतीरियानाः ।
१०,०४७.०७ हृदिस्पृशो मनसा वच्यमाना अस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०,०४७.०८ यत्त्वा यामि दद्धि तन्न इन्द्र बृहन्तं क्षयमसमं जनानाम् ।
१०,०४७.०८ अभि तद्द्यावापृथिवी गृणीतामस्मभ्यं चित्रं वृषणं रयिं दाः ॥
१०,०४८.०१ अहं भुवं वसुनः पूर्व्यस्पतिरहं धनानि सं जयामि शश्वतः ।
१०,०४८.०१ मां हवन्ते पितरं न जन्तवोऽहं दाशुषे वि भजामि भोजनम् ॥
१०,०४८.०२ अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि ।
१०,०४८.०२ अहं दस्युभ्यः परि नृम्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने ॥
१०,०४८.०३ मह्यं त्वष्टा वज्रमतक्षदायसं मयि देवासोऽवृजन्नपि क्रतुम् ।
१०,०४८.०३ ममानीकं सूर्यस्येव दुष्टरं मामार्यन्ति कृतेन कर्त्वेन च ॥
१०,०४८.०४ अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेना हिरण्ययम् ।
१०,०४८.०४ पुरू सहस्रा नि शिशामि दाशुषे यन्मा सोमास उक्थिनो अमन्दिषुः ॥
१०,०४८.०५ अहमिन्द्रो न परा जिग्य इद्धनं न मृत्यवेऽव तस्थे कदा चन ।
१०,०४८.०५ सोममिन्मा सुन्वन्तो याचता वसु न मे पूरवः सख्ये रिषाथन ॥
१०,०४८.०६ अहमेताञ्छाश्वसतो द्वाद्वेन्द्रं ये वज्रं युधयेऽकृण्वत ।
१०,०४८.०६ आह्वयमानां अव हन्मनाहनं दृळ्हा वदन्ननमस्युर्नमस्विनः ॥
१०,०४८.०७ अभीदमेकमेको अस्मि निष्षाळ् अभी द्वा किमु त्रयः करन्ति ।
१०,०४८.०७ खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥
१०,०४८.०८ अहं गुङ्गुभ्यो अतिथिग्वमिष्करमिषं न वृत्रतुरं विक्षु धारयम् ।
१०,०४८.०८ यत्पर्णयघ्न उत वा करञ्जहे प्राहं महे वृत्रहत्ये अशुश्रवि ॥
१०,०४८.०९ प्र मे नमी साप्य इषे भुजे भूद्गवामेषे सख्या कृणुत द्विता ।
१०,०४८.०९ दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम् ॥
१०,०४८.१० प्र नेमस्मिन्ददृशे सोमो अन्तर्गोपा नेममाविरस्था कृणोति ।
१०,०४८.१० स तिग्मशृङ्गं वृषभं युयुत्सन्द्रुहस्तस्थौ बहुले बद्धो अन्तः ॥
१०,०४८.११ आदित्यानां वसूनां रुद्रियाणां देवो देवानां न मिनामि धाम ।
१०,०४८.११ ते मा भद्राय शवसे ततक्षुरपराजितमस्तृतमषाळ्हम् ॥
१०,०४९.०१ अहं दां गृणते पूर्व्यं वस्वहं ब्रह्म कृणवं मह्यं वर्धनम् ।
१०,०४९.०१ अहं भुवं यजमानस्य चोदितायज्वनः साक्षि विश्वस्मिन्भरे ॥
१०,०४९.०२ मां धुरिन्द्रं नाम देवता दिवश्च ग्मश्चापां च जन्तवः ।
१०,०४९.०२ अहं हरी वृषणा विव्रता रघू अहं वज्रं शवसे धृष्ण्वा ददे ॥
१०,०४९.०३ अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः ।
१०,०४९.०३ अहं शुष्णस्य श्नथिता वधर्यमं न यो रर आर्यं नाम दस्यवे ॥
१०,०४९.०४ अहं पितेव वेतसूंरभिष्टये तुग्रं कुत्साय स्मदिभं च रन्धयम् ।
१०,०४९.०४ अहं भुवं यजमानस्य राजनि प्र यद्भरे तुजये न प्रियाधृषे ॥
१०,०४९.०५ अहं रन्धयं मृगयं श्रुतर्वणे यन्माजिहीत वयुना चनानुषक् ।
१०,०४९.०५ अहं वेशं नम्रमायवेऽकरमहं सव्याय पड्गृभिमरन्धयम् ॥
१०,०४९.०६ अहं स यो नववास्त्वं बृहद्रथं सं वृत्रेव दासं वृत्रहारुजम् ।
१०,०४९.०६ यद्वर्धयन्तं प्रथयन्तमानुषग्दूरे पारे रजसो रोचनाकरम् ॥
१०,०४९.०७ अहं सूर्यस्य परि याम्याशुभिः प्रैतशेभिर्वहमान ओजसा ।
१०,०४९.०७ यन्मा सावो मनुष आह निर्णिज ऋधक्कृषे दासं कृत्व्यं हथैः ॥
१०,०४९.०८ अहं सप्तहा नहुषो नहुष्टरः प्राश्रावयं शवसा तुर्वशं यदुम् ।
१०,०४९.०८ अहं न्यन्यं सहसा सहस्करं नव व्राधतो नवतिं च वक्षयम् ॥
१०,०४९.०९ अहं सप्त स्रवतो धारयं वृषा द्रवित्न्वः पृथिव्यां सीरा अधि ।
१०,०४९.०९ अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदं मनवे गातुमिष्टये ॥
१०,०४९.१० अहं तदासु धारयं यदासु न देवश्चन त्वष्टाधारयद्रुशत् ।
१०,०४९.१० स्पार्हं गवामूधस्सु वक्षणास्वा मधोर्मधु श्वात्र्यं सोममाशिरम् ॥
१०,०४९.११ एवा देवां इन्द्रो विव्ये नॄन्प्र च्यौत्नेन मघवा सत्यराधाः ।
१०,०४९.११ विश्वेत्ता ते हरिवः शचीवोऽभि तुरासः स्वयशो गृणन्ति ॥
१०,०५०.०१ प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे ।
१०,०५०.०१ इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥
१०,०५०.०२ सो चिन्नु सख्या नर्य इन स्तुतश्चर्कृत्य इन्द्रो मावते नरे ।
१०,०५०.०२ विश्वासु धूर्षु वाजकृत्येषु सत्पते वृत्रे वाप्स्वभि शूर मन्दसे ॥
१०,०५०.०३ के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान् ।
१०,०५०.०३ के ते वाजायासुर्याय हिन्विरे के अप्सु स्वासूर्वरासु पौंस्ये ॥
१०,०५०.०४ भुवस्त्वमिन्द्र ब्रह्मणा महान्भुवो विश्वेषु सवनेषु यज्ञियः ।
१०,०५०.०४ भुवो नॄंश्च्यौत्नो विश्वस्मिन्भरे ज्येष्ठश्च मन्त्रो विश्वचर्षणे ॥
१०,०५०.०५ अवा नु कं ज्यायान्यज्ञवनसो महीं त ओमात्रां कृष्टयो विदुः ।
१०,०५०.०५ असो नु कमजरो वर्धाश्च विश्वेदेता सवना तूतुमा कृषे ॥
१०,०५०.०६ एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे ।
१०,०५०.०६ वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥
१०,०५०.०७ ये ते विप्र ब्रह्मकृतः सुते सचा वसूनां च वसुनश्च दावने ।
१०,०५०.०७ प्र ते सुम्नस्य मनसा पथा भुवन्मदे सुतस्य सोम्यस्यान्धसः ॥
१०,०५१.०१ महत्तदुल्बं स्थविरं तदासीद्येनाविष्टितः प्रविवेशिथापः ।
१०,०५१.०१ विश्वा अपश्यद्बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ॥
१०,०५१.०२ को मा ददर्श कतमः स देवो यो मे तन्वो बहुधा पर्यपश्यत् ।
१०,०५१.०२ क्वाह मित्रावरुणा क्षियन्त्यग्नेर्विश्वाः समिधो देवयानीः ॥
१०,०५१.०३ ऐच्छाम त्वा बहुधा जातवेदः प्रविष्टमग्ने अप्स्वोषधीषु ।
१०,०५१.०३ तं त्वा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम् ॥
१०,०५१.०४ होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्र देवाः ।
१०,०५१.०४ तस्य मे तन्वो बहुधा निविष्टा एतमर्थं न चिकेताहमग्निः ॥
१०,०५१.०५ एहि मनुर्देवयुर्यज्ञकामोऽरङ्कृत्या तमसि क्षेष्यग्ने ।
१०,०५१.०५ सुगान्पथः कृणुहि देवयानान्वह हव्यानि सुमनस्यमानः ॥
१०,०५१.०६ अग्नेः पूर्वे भ्रातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः ।
१०,०५१.०६ तस्माद्भिया वरुण दूरमायं गौरो न क्षेप्नोरविजे ज्यायाः ॥
१०,०५१.०७ कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो न रिष्याः ।
१०,०५१.०७ अथा वहासि सुमनस्यमानो भागं देवेभ्यो हविषः सुजात ॥
१०,०५१.०८ प्रयाजान्मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् ।
१०,०५१.०८ घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥
१०,०५१.०९ तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः ।
१०,०५१.०९ तवाग्ने यज्ञोऽयमस्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥
१०,०५२.०१ विश्वे देवाः शास्तन मा यथेह होता वृतो मनवै यन्निषद्य ।
१०,०५२.०१ प्र मे ब्रूत भागधेयं यथा वो येन पथा हव्यमा वो वहानि ॥
१०,०५२.०२ अहं होता न्यसीदं यजीयान्विश्वे देवा मरुतो मा जुनन्ति ।
१०,०५२.०२ अहरहरश्विनाध्वर्यवं वां ब्रह्मा समिद्भवति साहुतिर्वाम् ॥
१०,०५२.०३ अयं यो होता किरु स यमस्य कमप्यूहे यत्समञ्जन्ति देवाः ।
१०,०५२.०३ अहरहर्जायते मासिमास्यथा देवा दधिरे हव्यवाहम् ॥
१०,०५२.०४ मां देवा दधिरे हव्यवाहमपम्लुक्तं बहु कृच्छ्रा चरन्तम् ।
१०,०५२.०४ अग्निर्विद्वान्यज्ञं नः कल्पयाति पञ्चयामं त्रिवृतं सप्ततन्तुम् ॥
१०,०५२.०५ आ वो यक्ष्यमृतत्वं सुवीरं यथा वो देवा वरिवः कराणि ।
१०,०५२.०५ आ बाह्वोर्वज्रमिन्द्रस्य धेयामथेमा विश्वाः पृतना जयाति ॥
१०,०५२.०६ त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
१०,०५२.०६ औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥
१०,०५३.०१ यमैच्छाम मनसा सोऽयमागाद्यज्ञस्य विद्वान्परुषश्चिकित्वान् ।
१०,०५३.०१ स नो यक्षद्देवताता यजीयान्नि हि षत्सदन्तरः पूर्वो अस्मत् ॥
१०,०५३.०२ अराधि होता निषदा यजीयानभि प्रयांसि सुधितानि हि ख्यत् ।
१०,०५३.०२ यजामहै यज्ञियान्हन्त देवां ईळामहा ईड्यां आज्येन ॥
१०,०५३.०३ साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदाम गुह्याम् ।
१०,०५३.०३ स आयुरागात्सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य ॥
१०,०५३.०४ तदद्य वाचः प्रथमं मसीय येनासुरां अभि देवा असाम ।
१०,०५३.०४ ऊर्जाद उत यज्ञियासः पञ्च जना मम होत्रं जुषध्वम् ॥
१०,०५३.०५ पञ्च जना मम होत्रं जुषन्तां गोजाता उत ये यज्ञियासः ।
१०,०५३.०५ पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥
१०,०५३.०६ तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
१०,०५३.०६ अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥
१०,०५३.०७ अक्षानहो नह्यतनोत सोम्या इष्कृणुध्वं रशना ओत पिंशत ।
१०,०५३.०७ अष्टावन्धुरं वहताभितो रथं येन देवासो अनयन्नभि प्रियम् ॥
१०,०५३.०८ अश्मन्वती रीयते सं रभध्वमुत्तिष्ठत प्र तरता सखायः ।
१०,०५३.०८ अत्रा जहाम ये असन्नशेवाः शिवान्वयमुत्तरेमाभि वाजान् ॥
१०,०५३.०९ त्वष्टा माया वेदपसामपस्तमो बिभ्रत्पात्रा देवपानानि शन्तमा ।
१०,०५३.०९ शिशीते नूनं परशुं स्वायसं येन वृश्चादेतशो ब्रह्मणस्पतिः ॥
१०,०५३.१० सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरमृताय तक्षथ ।
१०,०५३.१० विद्वांसः पदा गुह्यानि कर्तन येन देवासो अमृतत्वमानशुः ॥
१०,०५३.११ गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोत जिह्वया ।
१०,०५३.११ स विश्वाहा सुमना योग्या अभि सिषासनिर्वनते कार इज्जितिम् ॥
१०,०५४.०१ तां सु ते कीर्तिं मघवन्महित्वा यत्त्वा भीते रोदसी अह्वयेताम् ।
१०,०५४.०१ प्रावो देवां आतिरो दासमोजः प्रजायै त्वस्यै यदशिक्ष इन्द्र ॥
१०,०५४.०२ यदचरस्तन्वा वावृधानो बलानीन्द्र प्रब्रुवाणो जनेषु ।
१०,०५४.०२ मायेत्सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननु पुरा विवित्से ॥
१०,०५४.०३ क उ नु ते महिमनः समस्यास्मत्पूर्व ऋषयोऽन्तमापुः ।
१०,०५४.०३ यन्मातरं च पितरं च साकमजनयथास्तन्वः स्वायाः ॥
१०,०५४.०४ चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति ।
१०,०५४.०४ त्वमङ्ग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ॥
१०,०५४.०५ त्वं विश्वा दधिषे केवलानि यान्याविर्या च गुहा वसूनि ।
१०,०५४.०५ काममिन्मे मघवन्मा वि तारीस्त्वमाज्ञाता त्वमिन्द्रासि दाता ॥
१०,०५४.०६ यो अदधाज्ज्योतिषि ज्योतिरन्तर्यो असृजन्मधुना सं मधूनि ।
१०,०५४.०६ अध प्रियं शूषमिन्द्राय मन्म ब्रह्मकृतो बृहदुक्थादवाचि ॥
१०,०५५.०१ दूरे तन्नाम गुह्यं पराचैर्यत्त्वा भीते अह्वयेतां वयोधै ।
१०,०५५.०१ उदस्तभ्नाः पृथिवीं द्यामभीके भ्रातुः पुत्रान्मघवन्तित्विषाणः ॥
१०,०५५.०२ महत्तन्नाम गुह्यं पुरुस्पृग्येन भूतं जनयो येन भव्यम् ।
१०,०५५.०२ प्रत्नं जातं ज्योतिर्यदस्य प्रियं प्रियाः समविशन्त पञ्च ॥
१०,०५५.०३ आ रोदसी अपृणादोत मध्यं पञ्च देवां ऋतुशः सप्तसप्त ।
१०,०५५.०३ चतुस्त्रिंशता पुरुधा वि चष्टे सरूपेण ज्योतिषा विव्रतेन ॥
१०,०५५.०४ यदुष औच्छः प्रथमा विभानामजनयो येन पुष्टस्य पुष्टम् ।
१०,०५५.०४ यत्ते जामित्वमवरं परस्या महन्महत्या असुरत्वमेकम् ॥
१०,०५५.०५ विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।
१०,०५५.०५ देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥
१०,०५५.०६ शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीळः ।
१०,०५५.०६ यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥
१०,०५५.०७ ऐभिर्ददे वृष्ण्या पौंस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।
१०,०५५.०७ ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥
१०,०५५.०८ युजा कर्माणि जनयन्विश्वौजा अशस्तिहा विश्वमनास्तुराषाट् ।
१०,०५५.०८ पीत्वी सोमस्य दिव आ वृधानः शूरो निर्युधाधमद्दस्यून् ॥
१०,०५६.०१ इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
१०,०५६.०१ संवेशने तन्वश्चारुरेधि प्रियो देवानां परमे जनित्रे ॥
१०,०५६.०२ तनूष्टे वाजिन्तन्वं नयन्ती वाममस्मभ्यं धातु शर्म तुभ्यम् ।
१०,०५६.०२ अह्रुतो महो धरुणाय देवान्दिवीव ज्योतिः स्वमा मिमीयाः ॥
१०,०५६.०३ वाज्यसि वाजिनेना सुवेनीः सुवित स्तोमं सुवितो दिवं गाः ।
१०,०५६.०३ सुवितो धर्म प्रथमानु सत्या सुवितो देवान्सुवितोऽनु पत्म ॥
१०,०५६.०४ महिम्न एषां पितरश्चनेशिरे देवा देवेष्वदधुरपि क्रतुम् ।
१०,०५६.०४ समविव्यचुरुत यान्यत्विषुरैषां तनूषु नि विविशुः पुनः ॥
१०,०५६.०५ सहोभिर्विश्वं परि चक्रमू रजः पूर्वा धामान्यमिता मिमानाः ।
१०,०५६.०५ तनूषु विश्वा भुवना नि येमिरे प्रासारयन्त पुरुध प्रजा अनु ॥
१०,०५६.०६ द्विधा सूनवोऽसुरं स्वर्विदमास्थापयन्त तृतीयेन कर्मणा ।
१०,०५६.०६ स्वां प्रजां पितरः पित्र्यं सह आवरेष्वदधुस्तन्तुमाततम् ॥
१०,०५६.०७ नावा न क्षोदः प्रदिशः पृथिव्याः स्वस्तिभिरति दुर्गाणि विश्वा ।
१०,०५६.०७ स्वां प्रजां बृहदुक्थो महित्वावरेष्वदधादा परेषु ॥
१०,०५७.०१ मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
१०,०५७.०१ मान्त स्थुर्नो अरातयः ॥
१०,०५७.०२ यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
१०,०५७.०२ तमाहुतं नशीमहि ॥
१०,०५७.०३ मनो न्वा हुवामहे नाराशंसेन सोमेन ।
१०,०५७.०३ पितॄणां च मन्मभिः ॥
१०,०५७.०४ आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे ।
१०,०५७.०४ ज्योक्च सूर्यं दृशे ॥
१०,०५७.०५ पुनर्नः पितरो मनो ददातु दैव्यो जनः ।
१०,०५७.०५ जीवं व्रातं सचेमहि ॥
१०,०५७.०६ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः ।
१०,०५७.०६ प्रजावन्तः सचेमहि ॥
१०,०५८.०१ यत्ते यमं वैवस्वतं मनो जगाम दूरकम् ।
१०,०५८.०१ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.०२ यत्ते दिवं यत्पृथिवीं मनो जगाम दूरकम् ।
१०,०५८.०२ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.०३ यत्ते भूमिं चतुर्भृष्टिं मनो जगाम दूरकम् ।
१०,०५८.०३ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.०४ यत्ते चतस्रः प्रदिशो मनो जगाम दूरकम् ।
१०,०५८.०४ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.०५ यत्ते समुद्रमर्णवं मनो जगाम दूरकम् ।
१०,०५८.०५ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.०६ यत्ते मरीचीः प्रवतो मनो जगाम दूरकम् ।
१०,०५८.०६ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.०७ यत्ते अपो यदोषधीर्मनो जगाम दूरकम् ।
१०,०५८.०७ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.०८ यत्ते सूर्यं यदुषसं मनो जगाम दूरकम् ।
१०,०५८.०८ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.०९ यत्ते पर्वतान्बृहतो मनो जगाम दूरकम् ।
१०,०५८.०९ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.१० यत्ते विश्वमिदं जगन्मनो जगाम दूरकम् ।
१०,०५८.१० तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.११ यत्ते पराः परावतो मनो जगाम दूरकम् ।
१०,०५८.११ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५८.१२ यत्ते भूतं च भव्यं च मनो जगाम दूरकम् ।
१०,०५८.१२ तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
१०,०५९.०१ प्र तार्यायुः प्रतरं नवीय स्थातारेव क्रतुमता रथस्य ।
१०,०५९.०१ अध च्यवान उत्तवीत्यर्थं परातरं सु निरृतिर्जिहीताम् ॥
१०,०५९.०२ सामन्नु राये निधिमन्न्वन्नं करामहे सु पुरुध श्रवांसि ।
१०,०५९.०२ ता नो विश्वानि जरिता ममत्तु परातरं सु निरृतिर्जिहीताम् ॥
१०,०५९.०३ अभी ष्वर्यः पौंस्यैर्भवेम द्यौर्न भूमिं गिरयो नाज्रान् ।
१०,०५९.०३ ता नो विश्वानि जरिता चिकेत परातरं सु निरृतिर्जिहीताम् ॥
१०,०५९.०४ मो षु णः सोम मृत्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम् ।
१०,०५९.०४ द्युभिर्हितो जरिमा सू नो अस्तु परातरं सु निरृतिर्जिहीताम् ॥
१०,०५९.०५ असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः ।
१०,०५९.०५ रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥
१०,०५९.०६ असुनीते पुनरस्मासु चक्षुः पुनः प्राणमिह नो धेहि भोगम् ।
१०,०५९.०६ ज्योक्पश्येम सूर्यमुच्चरन्तमनुमते मृळया नः स्वस्ति ॥
१०,०५९.०७ पुनर्नो असुं पृथिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम् ।
१०,०५९.०७ पुनर्नः सोमस्तन्वं ददातु पुनः पूषा पथ्यां या स्वस्तिः ॥
१०,०५९.०८ शं रोदसी सुबन्धवे यह्वी ऋतस्य मातरा ।
१०,०५९.०८ भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
१०,०५९.०९ अव द्वके अव त्रिका दिवश्चरन्ति भेषजा ।
१०,०५९.०९ क्षमा चरिष्ण्वेककं भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
१०,०५९.१० समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्या अनः ।
१०,०५९.१० भरतामप यद्रपो द्यौः पृथिवि क्षमा रपो मो षु ते किं चनाममत् ॥
१०,०६०.०१ आ जनं त्वेषसंदृशं माहीनानामुपस्तुतम् ।
१०,०६०.०१ अगन्म बिभ्रतो नमः ॥
१०,०६०.०२ असमातिं नितोशनं त्वेषं निययिनं रथम् ।
१०,०६०.०२ भजेरथस्य सत्पतिम् ॥
१०,०६०.०३ यो जनान्महिषां इवातितस्थौ पवीरवान् ।
१०,०६०.०३ उतापवीरवान्युधा ॥
१०,०६०.०४ यस्येक्ष्वाकुरुप व्रते रेवान्मराय्येधते ।
१०,०६०.०४ दिवीव पञ्च कृष्टयः ॥
१०,०६०.०५ इन्द्र क्षत्रासमातिषु रथप्रोष्ठेषु धारय ।
१०,०६०.०५ दिवीव सूर्यं दृशे ॥
१०,०६०.०६ अगस्त्यस्य नद्भ्यः सप्ती युनक्षि रोहिता ।
१०,०६०.०६ पणीन्न्यक्रमीरभि विश्वान्राजन्नराधसः ॥
१०,०६०.०७ अयं मातायं पितायं जीवातुरागमत् ।
१०,०६०.०७ इदं तव प्रसर्पणं सुबन्धवेहि निरिहि ॥
१०,०६०.०८ यथा युगं वरत्रया नह्यन्ति धरुणाय कम् ।
१०,०६०.०८ एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
१०,०६०.०९ यथेयं पृथिवी मही दाधारेमान्वनस्पतीन् ।
१०,०६०.०९ एवा दाधार ते मनो जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
१०,०६०.१० यमादहं वैवस्वतात्सुबन्धोर्मन आभरम् ।
१०,०६०.१० जीवातवे न मृत्यवेऽथो अरिष्टतातये ॥
१०,०६०.११ न्यग्वातोऽव वाति न्यक्तपति सूर्यः ।
१०,०६०.११ नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥
१०,०६०.१२ अयं मे हस्तो भगवानयं मे भगवत्तरः ।
१०,०६०.१२ अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥
१०,०६१.०१ इदमित्था रौद्रं गूर्तवचा ब्रह्म क्रत्वा शच्यामन्तराजौ ।
१०,०६१.०१ क्राणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन् ॥
१०,०६१.०२ स इद्दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीत वेदिम् ।
१०,०६१.०२ तूर्वयाणो गूर्तवचस्तमः क्षोदो न रेत इतऊति सिञ्चत् ॥
१०,०६१.०३ मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथो द्रवन्ता ।
१०,०६१.०३ आ यः शर्याभिस्तुविनृम्णो अस्याश्रीणीतादिशं गभस्तौ ॥
१०,०६१.०४ कृष्णा यद्गोष्वरुणीषु सीदद्दिवो नपाताश्विना हुवे वाम् ।
१०,०६१.०४ वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसा नेषमस्मृतध्रू ॥
१०,०६१.०५ प्रथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्यो अपौहत् ।
१०,०६१.०५ पुनस्तदा वृहति यत्कनाया दुहितुरा अनुभृतमनर्वा ॥
१०,०६१.०६ मध्या यत्कर्त्वमभवदभीके कामं कृण्वाने पितरि युवत्याम् ।
१०,०६१.०६ मनानग्रेतो जहतुर्वियन्ता सानौ निषिक्तं सुकृतस्य योनौ ॥
१०,०६१.०७ पिता यत्स्वां दुहितरमधिष्कन्क्ष्मया रेतः संजग्मानो नि षिञ्चत् ।
१०,०६१.०७ स्वाध्योऽजनयन्ब्रह्म देवा वास्तोष्पतिं व्रतपां निरतक्षन् ॥
१०,०६१.०८ स ईं वृषा न फेनमस्यदाजौ स्मदा परैदप दभ्रचेताः ।
१०,०६१.०८ सरत्पदा न दक्षिणा परावृङ्न ता नु मे पृशन्यो जगृभ्रे ॥
१०,०६१.०९ मक्षू न वह्निः प्रजाया उपब्दिरग्निं न नग्न उप सीददूधः ।
१०,०६१.०९ सनितेध्मं सनितोत वाजं स धर्ता जज्ञे सहसा यवीयुत् ॥
१०,०६१.१० मक्षू कनायाः सख्यं नवग्वा ऋतं वदन्त ऋतयुक्तिमग्मन् ।
१०,०६१.१० द्विबर्हसो य उप गोपमागुरदक्षिणासो अच्युता दुदुक्षन् ॥
१०,०६१.११ मक्षू कनायाः सख्यं नवीयो राधो न रेत ऋतमित्तुरण्यन् ।
१०,०६१.११ शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
१०,०६१.१२ पश्वा यत्पश्चा वियुता बुधन्तेति ब्रवीति वक्तरी रराणः ।
१०,०६१.१२ वसोर्वसुत्वा कारवोऽनेहा विश्वं विवेष्टि द्रविणमुप क्षु ॥
१०,०६१.१३ तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदन्तो नार्षदं बिभित्सन् ।
१०,०६१.१३ वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् ॥
१०,०६१.१४ भर्गो ह नामोत यस्य देवाः स्वर्ण ये त्रिषधस्थे निषेदुः ।
१०,०६१.१४ अग्निर्ह नामोत जातवेदाः श्रुधी नो होतरृतस्य होताध्रुक् ॥
१०,०६१.१५ उत त्या मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तये यजध्यै ।
१०,०६१.१५ मनुष्वद्वृक्तबर्हिषे रराणा मन्दू हितप्रयसा विक्षु यज्यू ॥
१०,०६१.१६ अयं स्तुतो राजा वन्दि वेधा अपश्च विप्रस्तरति स्वसेतुः ।
१०,०६१.१६ स कक्षीवन्तं रेजयत्सो अग्निं नेमिं न चक्रमर्वतो रघुद्रु ॥
१०,०६१.१७ स द्विबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वं दुहध्यै ।
१०,०६१.१७ सं यन्मित्रावरुणा वृञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः ॥
१०,०६१.१८ तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपति प्र वेनन् ।
१०,०६१.१८ सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥
१०,०६१.१९ इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मि सर्वः ।
१०,०६१.१९ द्विजा अह प्रथमजा ऋतस्येदं धेनुरदुहज्जायमाना ॥
१०,०६१.२० अधासु मन्द्रो अरतिर्विभावाव स्यति द्विवर्तनिर्वनेषाट् ।
१०,०६१.२० ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन्मक्षू स्थिरं शेवृधं सूत माता ॥
१०,०६१.२१ अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः ।
१०,०६१.२१ श्रुधि त्वं सुद्रविणो नस्त्वं याळ् आश्वघ्नस्य वावृधे सूनृताभिः ॥
१०,०६१.२२ अध त्वमिन्द्र विद्ध्यस्मान्महो राये नृपते वज्रबाहुः ।
१०,०६१.२२ रक्षा च नो मघोनः पाहि सूरीननेहसस्ते हरिवो अभिष्टौ ॥
१०,०६१.२३ अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः ।
१०,०६१.२३ विप्रः प्रेष्ठः स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् ॥
१०,०६१.२४ अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु ।
१०,०६१.२४ सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥
१०,०६१.२५ युवोर्यदि सख्यायास्मे शर्धाय स्तोमं जुजुषे नमस्वान् ।
१०,०६१.२५ विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गातुर्दाशत्सूनृतायै ॥
१०,०६१.२६ स गृणानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः ।
१०,०६१.२६ वर्धदुक्थैर्वचोभिरा हि नूनं व्यध्वैति पयस उस्रियायाः ॥
१०,०६१.२७ त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः ।
१०,०६१.२७ ये वाजां अनयता वियन्तो ये स्था निचेतारो अमूराः ॥
१०,०६२.०१ ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्वमानश ।
१०,०६२.०१ तेभ्यो भद्रमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
१०,०६२.०२ य उदाजन्पितरो गोमयं वस्वृतेनाभिन्दन्परिवत्सरे वलम् ।
१०,०६२.०२ दीर्घायुत्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
१०,०६२.०३ य ऋतेन सूर्यमारोहयन्दिव्यप्रथयन्पृथिवीं मातरं वि ।
१०,०६२.०३ सुप्रजास्त्वमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
१०,०६२.०४ अयं नाभा वदति वल्गु वो गृहे देवपुत्रा ऋषयस्तच्छृणोतन ।
१०,०६२.०४ सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रति गृभ्णीत मानवं सुमेधसः ॥
१०,०६२.०५ विरूपास इदृषयस्त इद्गम्भीरवेपसः ।
१०,०६२.०५ ते अङ्गिरसः सूनवस्ते अग्नेः परि जज्ञिरे ॥
१०,०६२.०६ ये अग्नेः परि जज्ञिरे विरूपासो दिवस्परि ।
१०,०६२.०६ नवग्वो नु दशग्वो अङ्गिरस्तमो सचा देवेषु मंहते ॥
१०,०६२.०७ इन्द्रेण युजा निः सृजन्त वाघतो व्रजं गोमन्तमश्विनम् ।
१०,०६२.०७ सहस्रं मे ददतो अष्टकर्ण्यः श्रवो देवेष्वक्रत ॥
१०,०६२.०८ प्र नूनं जायतामयं मनुस्तोक्मेव रोहतु ।
१०,०६२.०८ यः सहस्रं शताश्वं सद्यो दानाय मंहते ॥
१०,०६२.०९ न तमश्नोति कश्चन दिव इव सान्वारभम् ।
१०,०६२.०९ सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे ॥
१०,०६२.१० उत दासा परिविषे स्मद्दिष्टी गोपरीणसा ।
१०,०६२.१० यदुस्तुर्वश्च मामहे ॥
१०,०६२.११ सहस्रदा ग्रामणीर्मा रिषन्मनुः सूर्येणास्य यतमानैतु दक्षिणा ।
१०,०६२.११ सावर्णेर्देवाः प्र तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम् ॥
१०,०६३.०१ परावतो ये दिधिषन्त आप्यं मनुप्रीतासो जनिमा विवस्वतः ।
१०,०६३.०१ ययातेर्ये नहुष्यस्य बर्हिषि देवा आसते ते अधि ब्रुवन्तु नः ॥
१०,०६३.०२ विश्वा हि वो नमस्यानि वन्द्या नामानि देवा उत यज्ञियानि वः ।
१०,०६३.०२ ये स्थ जाता अदितेरद्भ्यस्परि ये पृथिव्यास्ते म इह श्रुता हवम् ॥
१०,०६३.०३ येभ्यो माता मधुमत्पिन्वते पयः पीयूषं द्यौरदितिरद्रिबर्हाः ।
१०,०६३.०३ उक्थशुष्मान्वृषभरान्स्वप्नसस्तां आदित्यां अनु मदा स्वस्तये ॥
१०,०६३.०४ नृचक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतत्वमानशुः ।
१०,०६३.०४ ज्योतीरथा अहिमाया अनागसो दिवो वर्ष्माणं वसते स्वस्तये ॥
१०,०६३.०५ सम्राजो ये सुवृधो यज्ञमाययुरपरिह्वृता दधिरे दिवि क्षयम् ।
१०,०६३.०५ तां आ विवास नमसा सुवृक्तिभिर्महो आदित्यां अदितिं स्वस्तये ॥
१०,०६३.०६ को व स्तोमं राधति यं जुजोषथ विश्वे देवासो मनुषो यति ष्ठन ।
१०,०६३.०६ को वोऽध्वरं तुविजाता अरं करद्यो नः पर्षदत्यंहः स्वस्तये ॥
१०,०६३.०७ येभ्यो होत्रां प्रथमामायेजे मनुः समिद्धाग्निर्मनसा सप्त होतृभिः ।
१०,०६३.०७ त आदित्या अभयं शर्म यच्छत सुगा नः कर्त सुपथा स्वस्तये ॥
१०,०६३.०८ य ईशिरे भुवनस्य प्रचेतसो विश्वस्य स्थातुर्जगतश्च मन्तवः ।
१०,०६३.०८ ते नः कृतादकृतादेनसस्पर्यद्या देवासः पिपृता स्वस्तये ॥
१०,०६३.०९ भरेष्विन्द्रं सुहवं हवामहेऽंहोमुचं सुकृतं दैव्यं जनम् ।
१०,०६३.०९ अग्निं मित्रं वरुणं सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥
१०,०६३.१० सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
१०,०६३.१० दैवीं नावं स्वरित्रामनागसमस्रवन्तीमा रुहेमा स्वस्तये ॥
१०,०६३.११ विश्वे यजत्रा अधि वोचतोतये त्रायध्वं नो दुरेवाया अभिह्रुतः ।
१०,०६३.११ सत्यया वो देवहूत्या हुवेम शृण्वतो देवा अवसे स्वस्तये ॥
१०,०६३.१२ अपामीवामप विश्वामनाहुतिमपारातिं दुर्विदत्रामघायतः ।
१०,०६३.१२ आरे देवा द्वेषो अस्मद्युयोतनोरु णः शर्म यच्छता स्वस्तये ॥
१०,०६३.१३ अरिष्टः स मर्तो विश्व एधते प्र प्रजाभिर्जायते धर्मणस्परि ।
१०,०६३.१३ यमादित्यासो नयथा सुनीतिभिरति विश्वानि दुरिता स्वस्तये ॥
१०,०६३.१४ यं देवासोऽवथ वाजसातौ यं शूरसाता मरुतो हिते धने ।
१०,०६३.१४ प्रातर्यावाणं रथमिन्द्र सानसिमरिष्यन्तमा रुहेमा स्वस्तये ॥
१०,०६३.१५ स्वस्ति नः पथ्यासु धन्वसु स्वस्त्यप्सु वृजने स्वर्वति ।
१०,०६३.१५ स्वस्ति नः पुत्रकृथेषु योनिषु स्वस्ति राये मरुतो दधातन ॥
१०,०६३.१६ स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।
१०,०६३.१६ सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥
१०,०६३.१७ एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
१०,०६३.१७ ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥
१०,०६४.०१ कथा देवानां कतमस्य यामनि सुमन्तु नाम शृण्वतां मनामहे ।
१०,०६४.०१ को मृळाति कतमो नो मयस्करत्कतम ऊती अभ्या ववर्तति ॥
१०,०६४.०२ क्रतूयन्ति क्रतवो हृत्सु धीतयो वेनन्ति वेनाः पतयन्त्या दिशः ।
१०,०६४.०२ न मर्डिता विद्यते अन्य एभ्यो देवेषु मे अधि कामा अयंसत ॥
१०,०६४.०३ नरा वा शंसं पूषणमगोह्यमग्निं देवेद्धमभ्यर्चसे गिरा ।
१०,०६४.०३ सूर्यामासा चन्द्रमसा यमं दिवि त्रितं वातमुषसमक्तुमश्विना ॥
१०,०६४.०४ कथा कविस्तुवीरवान्कया गिरा बृहस्पतिर्वावृधते सुवृक्तिभिः ।
१०,०६४.०४ अज एकपात्सुहवेभिरृक्वभिरहिः शृणोतु बुध्न्यो हवीमनि ॥
१०,०६४.०५ दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि ।
१०,०६४.०५ अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥
१०,०६४.०६ ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनो मितद्रवः ।
१०,०६४.०६ सहस्रसा मेधसाताविव त्मना महो ये धनं समिथेषु जभ्रिरे ॥
१०,०६४.०७ प्र वो वायुं रथयुजं पुरन्धिं स्तोमैः कृणुध्वं सख्याय पूषणम् ।
१०,०६४.०७ ते हि देवस्य सवितुः सवीमनि क्रतुं सचन्ते सचितः सचेतसः ॥
१०,०६४.०८ त्रिः सप्त सस्रा नद्यो महीरपो वनस्पतीन्पर्वतां अग्निमूतये ।
१०,०६४.०८ कृशानुमस्तॄन्तिष्यं सधस्थ आ रुद्रं रुद्रेषु रुद्रियं हवामहे ॥
१०,०६४.०९ सरस्वती सरयुः सिन्धुरूर्मिभिर्महो महीरवसा यन्तु वक्षणीः ।
१०,०६४.०९ देवीरापो मातरः सूदयित्न्वो घृतवत्पयो मधुमन्नो अर्चत ॥
१०,०६४.१० उत माता बृहद्दिवा शृणोतु नस्त्वष्टा देवेभिर्जनिभिः पिता वचः ।
१०,०६४.१० ऋभुक्षा वाजो रथस्पतिर्भगो रण्वः शंसः शशमानस्य पातु नः ॥
१०,०६४.११ रण्वः संदृष्टौ पितुमां इव क्षयो भद्रा रुद्राणां मरुतामुपस्तुतिः ।
१०,०६४.११ गोभिः ष्याम यशसो जनेष्वा सदा देवास इळया सचेमहि ॥
१०,०६४.१२ यां मे धियं मरुत इन्द्र देवा अददात वरुण मित्र यूयम् ।
१०,०६४.१२ तां पीपयत पयसेव धेनुं कुविद्गिरो अधि रथे वहाथ ॥
१०,०६४.१३ कुविदङ्ग प्रति यथा चिदस्य नः सजात्यस्य मरुतो बुबोधथ ।
१०,०६४.१३ नाभा यत्र प्रथमं संनसामहे तत्र जामित्वमदितिर्दधातु नः ॥
१०,०६४.१४ ते हि द्यावापृथिवी मातरा मही देवी देवाञ्जन्मना यज्ञिये इतः ।
१०,०६४.१४ उभे बिभृत उभयं भरीमभिः पुरू रेतांसि पितृभिश्च सिञ्चतः ॥
१०,०६४.१५ वि षा होत्रा विश्वमश्नोति वार्यं बृहस्पतिररमतिः पनीयसी ।
१०,०६४.१५ ग्रावा यत्र मधुषुदुच्यते बृहदवीवशन्त मतिभिर्मनीषिणः ॥
१०,०६४.१६ एवा कविस्तुवीरवां ऋतज्ञा द्रविणस्युर्द्रविणसश्चकानः ।
१०,०६४.१६ उक्थेभिरत्र मतिभिश्च विप्रोऽपीपयद्गयो दिव्यानि जन्म ॥
१०,०६४.१७ एवा प्लतेः सूनुरवीवृधद्वो विश्व आदित्या अदिते मनीषी ।
१०,०६४.१७ ईशानासो नरो अमर्त्येनास्तावि जनो दिव्यो गयेन ॥
१०,०६५.०१ अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वती सजोषसः ।
१०,०६५.०१ आदित्या विष्णुर्मरुतः स्वर्बृहत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतिः ॥
१०,०६५.०२ इन्द्राग्नी वृत्रहत्येषु सत्पती मिथो हिन्वाना तन्वा समोकसा ।
१०,०६५.०२ अन्तरिक्षं मह्या पप्रुरोजसा सोमो घृतश्रीर्महिमानमीरयन् ॥
१०,०६५.०३ तेषां हि मह्ना महतामनर्वणां स्तोमां इयर्म्यृतज्ञा ऋतावृधाम् ।
१०,०६५.०३ ये अप्सवमर्णवं चित्रराधसस्ते नो रासन्तां महये सुमित्र्याः ॥
१०,०६५.०४ स्वर्णरमन्तरिक्षाणि रोचना द्यावाभूमी पृथिवीं स्कम्भुरोजसा ।
१०,०६५.०४ पृक्षा इव महयन्तः सुरातयो देवा स्तवन्ते मनुषाय सूरयः ॥
१०,०६५.०५ मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा न प्रयुच्छतः ।
१०,०६५.०५ ययोर्धाम धर्मणा रोचते बृहद्ययोरुभे रोदसी नाधसी वृतौ ॥
१०,०६५.०६ या गौर्वर्तनिं पर्येति निष्कृतं पयो दुहाना व्रतनीरवारतः ।
१०,०६५.०६ सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद्धविषा विवस्वते ॥
१०,०६५.०७ दिवक्षसो अग्निजिह्वा ऋतावृध ऋतस्य योनिं विमृशन्त आसते ।
१०,०६५.०७ द्यां स्कभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वी तन्वी नि मामृजुः ॥
१०,०६५.०८ परिक्षिता पितरा पूर्वजावरी ऋतस्य योना क्षयतः समोकसा ।
१०,०६५.०८ द्यावापृथिवी वरुणाय सव्रते घृतवत्पयो महिषाय पिन्वतः ॥
१०,०६५.०९ पर्जन्यावाता वृषभा पुरीषिणेन्द्रवायू वरुणो मित्रो अर्यमा ।
१०,०६५.०९ देवां आदित्यां अदितिं हवामहे ये पार्थिवासो दिव्यासो अप्सु ये ॥
१०,०६५.१० त्वष्टारं वायुमृभवो य ओहते दैव्या होतारा उषसं स्वस्तये ।
१०,०६५.१० बृहस्पतिं वृत्रखादं सुमेधसमिन्द्रियं सोमं धनसा उ ईमहे ॥
१०,०६५.११ ब्रह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन्पृथिवीं पर्वतां अपः ।
१०,०६५.११ सूर्यं दिवि रोहयन्तः सुदानव आर्या व्रता विसृजन्तो अधि क्षमि ॥
१०,०६५.१२ भुज्युमंहसः पिपृथो निरश्विना श्यावं पुत्रं वध्रिमत्या अजिन्वतम् ।
१०,०६५.१२ कमद्युवं विमदायोहथुर्युवं विष्णाप्वं विश्वकायाव सृजथः ॥
१०,०६५.१३ पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः ।
१०,०६५.१३ विश्वे देवासः शृणवन्वचांसि मे सरस्वती सह धीभिः पुरन्ध्या ॥
१०,०६५.१४ विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्रा अमृता ऋतज्ञाः ।
१०,०६५.१४ रातिषाचो अभिषाचः स्वर्विदः स्वर्गिरो ब्रह्म सूक्तं जुषेरत ॥
१०,०६५.१५ देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
१०,०६५.१५ ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥
१०,०६६.०१ देवान्हुवे बृहच्छ्रवसः स्वस्तये ज्योतिष्कृतो अध्वरस्य प्रचेतसः ।
१०,०६६.०१ ये वावृधुः प्रतरं विश्ववेदस इन्द्रज्येष्ठासो अमृता ऋतावृधः ॥
१०,०६६.०२ इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः ।
१०,०६६.०२ मरुद्गणे वृजने मन्म धीमहि माघोने यज्ञं जनयन्त सूरयः ॥
१०,०६६.०३ इन्द्रो वसुभिः परि पातु नो गयमादित्यैर्नो अदितिः शर्म यच्छतु ।
१०,०६६.०३ रुद्रो रुद्रेभिर्देवो मृळयाति नस्त्वष्टा नो ग्नाभिः सुविताय जिन्वतु ॥
१०,०६६.०४ अदितिर्द्यावापृथिवी ऋतं महदिन्द्राविष्णू मरुतः स्वर्बृहत् ।
१०,०६६.०४ देवां आदित्यां अवसे हवामहे वसून्रुद्रान्सवितारं सुदंससम् ॥
१०,०६६.०५ सरस्वान्धीभिर्वरुणो धृतव्रतः पूषा विष्णुर्महिमा वायुरश्विना ।
१०,०६६.०५ ब्रह्मकृतो अमृता विश्ववेदसः शर्म नो यंसन्त्रिवरूथमंहसः ॥
१०,०६६.०६ वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः ।
१०,०६६.०६ वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥
१०,०६६.०७ अग्नीषोमा वृषणा वाजसातये पुरुप्रशस्ता वृषणा उप ब्रुवे ।
१०,०६६.०७ यावीजिरे वृषणो देवयज्यया ता नः शर्म त्रिवरूथं वि यंसतः ॥
१०,०६६.०८ धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिवा अध्वराणामभिश्रियः ।
१०,०६६.०८ अग्निहोतार ऋतसापो अद्रुहोऽपो असृजन्ननु वृत्रतूर्ये ॥
१०,०६६.०९ द्यावापृथिवी जनयन्नभि व्रताप ओषधीर्वनिनानि यज्ञिया ।
१०,०६६.०९ अन्तरिक्षं स्वरा पप्रुरूतये वशं देवासस्तन्वी नि मामृजुः ॥
१०,०६६.१० धर्तारो दिव ऋभवः सुहस्ता वातापर्जन्या महिषस्य तन्यतोः ।
१०,०६६.१० आप ओषधीः प्र तिरन्तु नो गिरो भगो रातिर्वाजिनो यन्तु मे हवम् ॥
१०,०६६.११ समुद्रः सिन्धू रजो अन्तरिक्षमज एकपात्तनयित्नुरर्णवः ।
१०,०६६.११ अहिर्बुध्न्यः शृणवद्वचांसि मे विश्वे देवास उत सूरयो मम ॥
१०,०६६.१२ स्याम वो मनवो देववीतये प्राञ्चं नो यज्ञं प्र णयत साधुया ।
१०,०६६.१२ आदित्या रुद्रा वसवः सुदानव इमा ब्रह्म शस्यमानानि जिन्वत ॥
१०,०६६.१३ दैव्या होतारा प्रथमा पुरोहित ऋतस्य पन्थामन्वेमि साधुया ।
१०,०६६.१३ क्षेत्रस्य पतिं प्रतिवेशमीमहे विश्वान्देवां अमृतां अप्रयुच्छतः ॥
१०,०६६.१४ वसिष्ठासः पितृवद्वाचमक्रत देवां ईळाना ऋषिवत्स्वस्तये ।
१०,०६६.१४ प्रीता इव ज्ञातयः काममेत्यास्मे देवासोऽव धूनुता वसु ॥
१०,०६६.१५ देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभि प्रतस्थुः ।
१०,०६६.१५ ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥
१०,०६७.०१ इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत् ।
१०,०६७.०१ तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥
१०,०६७.०२ ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।
१०,०६७.०२ विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥
१०,०६७.०३ हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
१०,०६७.०३ बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वां अगायत् ॥
१०,०६७.०४ अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।
१०,०६७.०४ बृहस्पतिस्तमसि ज्योतिरिच्छन्नुदुस्रा आकर्वि हि तिस्र आवः ॥
१०,०६७.०५ विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत् ।
१०,०६७.०५ बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्निव द्यौः ॥
१०,०६७.०६ इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।
१०,०६७.०६ स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात् ॥
१०,०६७.०७ स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।
१०,०६७.०७ ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट् ॥
१०,०६७.०८ ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।
१०,०६७.०८ बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥
१०,०६७.०९ तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।
१०,०६७.०९ बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥
१०,०६७.१० यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
१०,०६७.१० बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥
१०,०६७.११ सत्यामाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।
१०,०६७.११ पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥
१०,०६७.१२ इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।
१०,०६७.१२ अहन्नहिमरिणात्सप्त सिन्धून्देवैर्द्यावापृथिवी प्रावतं नः ॥
१०,०६८.०१ उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
१०,०६८.०१ गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥
१०,०६८.०२ सं गोभिराङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।
१०,०६८.०२ जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥
१०,०६८.०३ साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।
१०,०६८.०३ बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥
१०,०६८.०४ आप्रुषायन्मधुन ऋतस्य योनिमवक्षिपन्नर्क उल्कामिव द्योः ।
१०,०६८.०४ बृहस्पतिरुद्धरन्नश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥
१०,०६८.०५ अप ज्योतिषा तमो अन्तरिक्षादुद्नः शीपालमिव वात आजत् ।
१०,०६८.०५ बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥
१०,०६८.०६ यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।
१०,०६८.०६ दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥
१०,०६८.०७ बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत् ।
१०,०६८.०७ आण्डेव भित्त्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत् ॥
१०,०६८.०८ अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् ।
१०,०६८.०८ निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥
१०,०६८.०९ सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।
१०,०६८.०९ बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥
१०,०६८.१० हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।
१०,०६८.१० अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥
१०,०६८.११ अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।
१०,०६८.११ रात्र्यां तमो अदधुर्ज्योतिरहन्बृहस्पतिर्भिनदद्रिं विदद्गाः ॥
१०,०६८.१२ इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
१०,०६८.१२ बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात् ॥
१०,०६९.०१ भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः ।
१०,०६९.०१ यदीं सुमित्रा विशो अग्र इन्धते घृतेनाहुतो जरते दविद्युतत् ॥
१०,०६९.०२ घृतमग्नेर्वध्र्यश्वस्य वर्धनं घृतमन्नं घृतं वस्य मेदनम् ।
१०,०६९.०२ घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥
१०,०६९.०३ यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः ।
१०,०६९.०३ स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥
१०,०६९.०४ यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व ।
१०,०६९.०४ स न स्तिपा उत भवा तनूपा दात्रं रक्षस्व यदिदं ते अस्मे ॥
१०,०६९.०५ भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानाम् ।
१०,०६९.०५ शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥
१०,०६९.०६ समज्र्या पर्वत्या वसूनि दासा वृत्राण्यार्या जिगेथ ।
१०,०६९.०६ शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूंरभि ष्याः ॥
१०,०६९.०७ दीर्घतन्तुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा ।
१०,०६९.०७ द्युमान्द्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥
१०,०६९.०८ त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक् ।
१०,०६९.०८ त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसे देवयद्भिः ॥
१०,०६९.०९ देवाश्चित्ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् ।
१०,०६९.०९ यत्सम्पृच्छं मानुषीर्विश आयन्त्वं नृभिरजयस्त्वावृधेभिः ॥
१०,०६९.१० पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन् ।
१०,०६९.१० जुषाणो अस्य समिधं यविष्ठोत पूर्वां अवनोर्व्राधतश्चित् ॥
१०,०६९.११ शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः ।
१०,०६९.११ समनं चिददहश्चित्रभानोऽव व्राधन्तमभिनद्वृधश्चित् ॥
१०,०६९.१२ अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात्प्रेद्धो नमसोपवाक्यः ।
१०,०६९.१२ स नो अजामींरुत वा विजामीनभि तिष्ठ शर्धतो वाध्र्यश्व ॥
१०,०७०.०१ इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीम् ।
१०,०७०.०१ वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥
१०,०७०.०२ आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः ।
१०,०७०.०२ ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥
१०,०७०.०३ शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् ।
१०,०७०.०३ वहिष्ठैरश्वैः सुवृता रथेना देवान्वक्षि नि षदेह होता ॥
१०,०७०.०४ वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे ।
१०,०७०.०४ अहेळता मनसा देव बर्हिरिन्द्रज्येष्ठां उशतो यक्षि देवान् ॥
१०,०७०.०५ दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वम् ।
१०,०७०.०५ उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वम् ॥
१०,०७०.०६ देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ ।
१०,०७०.०६ आ वां देवास उशती उशन्त उरौ सीदन्तु सुभगे उपस्थे ॥
१०,०७०.०७ ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे ।
१०,०७०.०७ पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथाम् ॥
१०,०७०.०८ तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चकृमा वः स्योनम् ।
१०,०७०.०८ मनुष्वद्यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषन्त ॥
१०,०७०.०९ देव त्वष्टर्यद्ध चारुत्वमानड्यदङ्गिरसामभवः सचाभूः ।
१०,०७०.०९ स देवानां पाथ उप प्र विद्वां उशन्यक्षि द्रविणोदः सुरत्नः ॥
१०,०७०.१० वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् ।
१०,०७०.१० स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे ॥
१०,०७०.११ आग्ने वह वरुणमिष्टये न इन्द्रं दिवो मरुतो अन्तरिक्षात् ।
१०,०७०.११ सीदन्तु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयन्ताम् ॥
१०,०७१.०१ बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः ।
१०,०७१.०१ यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥
१०,०७१.०२ सक्तुमिव तितौना पुनन्तो यत्र धीरा मनसा वाचमक्रत ।
१०,०७१.०२ अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥
१०,०७१.०३ यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम् ।
१०,०७१.०३ तामाभृत्या व्यदधुः पुरुत्रा तां सप्त रेभा अभि सं नवन्ते ॥
१०,०७१.०४ उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् ।
१०,०७१.०४ उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥
१०,०७१.०५ उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु ।
१०,०७१.०५ अधेन्वा चरति माययैष वाचं शुश्रुवां अफलामपुष्पाम् ॥
१०,०७१.०६ यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति ।
१०,०७१.०६ यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम् ॥
१०,०७१.०७ अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः ।
१०,०७१.०७ आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
१०,०७१.०८ हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः ।
१०,०७१.०८ अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥
१०,०७१.०९ इमे ये नार्वाङ्न परश्चरन्ति न ब्राह्मणासो न सुतेकरासः ।
१०,०७१.०९ त एते वाचमभिपद्य पापया सिरीस्तन्त्रं तन्वते अप्रजज्ञयः ॥
१०,०७१.१० सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः ।
१०,०७१.१० किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ॥
१०,०७१.११ ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
१०,०७१.११ ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥
१०,०७२.०१ देवानां नु वयं जाना प्र वोचाम विपन्यया ।
१०,०७२.०१ उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ॥
१०,०७२.०२ ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् ।
१०,०७२.०२ देवानां पूर्व्ये युगेऽसतः सदजायत ॥
१०,०७२.०३ देवानां युगे प्रथमेऽसतः सदजायत ।
१०,०७२.०३ तदाशा अन्वजायन्त तदुत्तानपदस्परि ॥
१०,०७२.०४ भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त ।
१०,०७२.०४ अदितेर्दक्षो अजायत दक्षाद्वदितिः परि ॥
१०,०७२.०५ अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
१०,०७२.०५ तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥
१०,०७२.०६ यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत ।
१०,०७२.०६ अत्रा वो नृत्यतामिव तीव्रो रेणुरपायत ॥
१०,०७२.०७ यद्देवा यतयो यथा भुवनान्यपिन्वत ।
१०,०७२.०७ अत्रा समुद्र आ गूळ्हमा सूर्यमजभर्तन ॥
१०,०७२.०८ अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि ।
१०,०७२.०८ देवां उप प्रैत्सप्तभिः परा मार्ताण्डमास्यत् ॥
१०,०७२.०९ सप्तभिः पुत्रैरदितिरुप प्रैत्पूर्व्यं युगम् ।
१०,०७२.०९ प्रजायै मृत्यवे त्वत्पुनर्मार्ताण्डमाभरत् ॥
१०,०७३.०१ जनिष्ठा उग्रः सहसे तुराय मन्द्र ओजिष्ठो बहुलाभिमानः ।
१०,०७३.०१ अवर्धन्निन्द्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥
१०,०७३.०२ द्रुहो निषत्ता पृशनी चिदेवैः पुरू शंसेन वावृधुष्ट इन्द्रम् ।
१०,०७३.०२ अभीवृतेव ता महापदेन ध्वान्तात्प्रपित्वादुदरन्त गर्भाः ॥
१०,०७३.०३ ऋष्वा ते पादा प्र यज्जिगास्यवर्धन्वाजा उत ये चिदत्र ।
१०,०७३.०३ त्वमिन्द्र सालावृकान्सहस्रमासन्दधिषे अश्विना ववृत्याः ॥
१०,०७३.०४ समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि ।
१०,०७३.०४ वसाव्यामिन्द्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥
१०,०७३.०५ मन्दमान ऋतादधि प्रजायै सखिभिरिन्द्र इषिरेभिरर्थम् ।
१०,०७३.०५ आभिर्हि माया उप दस्युमागान्मिहः प्र तम्रा अवपत्तमांसि ॥
१०,०७३.०६ सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निन्द्र उषसो यथानः ।
१०,०७३.०६ ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघन्थ ॥
१०,०७३.०७ त्वं जघन्थ नमुचिं मखस्युं दासं कृण्वान ऋषये विमायम् ।
१०,०७३.०७ त्वं चकर्थ मनवे स्योनान्पथो देवत्राञ्जसेव यानान् ॥
१०,०७३.०८ त्वमेतानि पप्रिषे वि नामेशान इन्द्र दधिषे गभस्तौ ।
१०,०७३.०८ अनु त्वा देवाः शवसा मदन्त्युपरिबुध्नान्वनिनश्चकर्थ ॥
१०,०७३.०९ चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् ।
१०,०७३.०९ पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥
१०,०७३.१० अश्वादियायेति यद्वदन्त्योजसो जातमुत मन्य एनम् ।
१०,०७३.१० मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद ॥
१०,०७३.११ वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः ।
१०,०७३.११ अप ध्वान्तमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥
१०,०७४.०१ वसूनां वा चर्कृष इयक्षन्धिया वा यज्ञैर्वा रोदस्योः ।
१०,०७४.०१ अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥
१०,०७४.०२ हव एषामसुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षाम् ।
१०,०७४.०२ चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिः कृणवन्त स्वैः ॥
१०,०७४.०३ इयमेषाममृतानां गीः सर्वताता ये कृपणन्त रत्नम् ।
१०,०७४.०३ धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि ॥
१०,०७४.०४ आ तत्त इन्द्रायवः पनन्ताभि य ऊर्वं गोमन्तं तितृत्सान् ।
१०,०७४.०४ सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् ॥
१०,०७४.०५ शचीव इन्द्रमवसे कृणुध्वमनानतं दमयन्तं पृतन्यून् ।
१०,०७४.०५ ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः ॥
१०,०७४.०६ यद्वावान पुरुतमं पुराषाळ् आ वृत्रहेन्द्रो नामान्यप्राः ।
१०,०७४.०६ अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत् ॥
१०,०७५.०१ प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः ।
१०,०७५.०१ प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिन्धुरोजसा ॥
१०,०७५.०२ प्र तेऽरदद्वरुणो यातवे पथः सिन्धो यद्वाजां अभ्यद्रवस्त्वम् ।
१०,०७५.०२ भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ॥
१०,०७५.०३ दिवि स्वनो यतते भूम्योपर्यनन्तं शुष्ममुदियर्ति भानुना ।
१०,०७५.०३ अभ्रादिव प्र स्तनयन्ति वृष्टयः सिन्धुर्यदेति वृषभो न रोरुवत् ॥
१०,०७५.०४ अभि त्वा सिन्धो शिशुमिन्न मातरो वाश्रा अर्षन्ति पयसेव धेनवः ।
१०,०७५.०४ राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि ॥
१०,०७५.०५ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ।
१०,०७५.०५ असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥
१०,०७५.०६ तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या ।
१०,०७५.०६ त्वं सिन्धो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे ॥
१०,०७५.०७ ऋजीत्येनी रुशती महित्वा परि ज्रयांसि भरते रजांसि ।
१०,०७५.०७ अदब्धा सिन्धुरपसामपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥
१०,०७५.०८ स्वश्वा सिन्धुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती ।
१०,०७५.०८ ऊर्णावती युवतिः सीलमावत्युताधि वस्ते सुभगा मधुवृधम् ॥
१०,०७५.०९ सुखं रथं युयुजे सिन्धुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ ।
१०,०७५.०९ महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः ॥
१०,०७६.०१ आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन ।
१०,०७६.०१ उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥
१०,०७६.०२ तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि ।
१०,०७६.०२ विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥
१०,०७६.०३ तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् ।
१०,०७६.०३ गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वरां अशिश्रयुः ॥
१०,०७६.०४ अप हत रक्षसो भङ्गुरावत स्कभायत निरृतिं सेधतामतिम् ।
१०,०७६.०४ आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः ॥
१०,०७६.०५ दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः ।
१०,०७६.०५ वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥
१०,०७६.०६ भुरन्तु नो यशसः सोत्वन्धसो ग्रावाणो वाचा दिविता दिवित्मता ।
१०,०७६.०६ नरो यत्र दुहते काम्यं मध्वाघोषयन्तो अभितो मिथस्तुरः ॥
१०,०७६.०७ सुन्वन्ति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहन्ति ते ।
१०,०७६.०७ दुहन्त्यूधरुपसेचनाय कं नरो हव्या न मर्जयन्त आसभिः ॥
१०,०७६.०८ एते नरः स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः ।
१०,०७६.०८ वामंवामं वो दिव्याय धाम्ने वसुवसु वः पार्थिवाय सुन्वते ॥
१०,०७७.०१ अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मन्तो न यज्ञा विजानुषः ।
१०,०७७.०१ सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥
१०,०७७.०२ श्रिये मर्यासो अञ्जींरकृण्वत सुमारुतं न पूर्वीरति क्षपः ।
१०,०७७.०२ दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः ॥
१०,०७७.०३ प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः ।
१०,०७७.०३ पाजस्वन्तो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥
१०,०७७.०४ युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति ।
१०,०७७.०४ विश्वप्सुर्यज्ञो अर्वागयं सु वः प्रयस्वन्तो न सत्राच आ गत ॥
१०,०७७.०५ यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मन्तो न भासा व्युष्टिषु ।
१०,०७७.०५ श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥
१०,०७७.०६ प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः ।
१०,०७७.०६ विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥
१०,०७७.०७ य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् ।
१०,०७७.०७ रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु ॥
१०,०७७.०८ ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शम्भविष्ठाः ।
१०,०७७.०८ ते नोऽवन्तु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥
१०,०७८.०१ विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः ।
१०,०७८.०१ राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥
१०,०७८.०२ अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः ।
१०,०७८.०२ प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥
१०,०७८.०३ वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिणः ।
१०,०७८.०३ वर्मण्वन्तो न योधाः शिमीवन्तः पितॄणां न शंसाः सुरातयः ॥
१०,०७८.०४ रथानां न येऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः ।
१०,०७८.०४ वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभः ॥
१०,०७८.०५ अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः ।
१०,०७८.०५ आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अङ्गिरसो न सामभिः ॥
१०,०७८.०६ ग्रावाणो न सूरयः सिन्धुमातर आदर्दिरासो अद्रयो न विश्वहा ।
१०,०७८.०६ शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्नुत त्विषा ॥
१०,०७८.०७ उषसां न केतवोऽध्वरश्रियः शुभंयवो नाञ्जिभिर्व्यश्वितन् ।
१०,०७८.०७ सिन्धवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥
१०,०७८.०८ सुभागान्नो देवाः कृणुता सुरत्नानस्मान्स्तोतॄन्मरुतो वावृधानाः ।
१०,०७८.०८ अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि सन्ति ॥
१०,०७९.०१ अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु ।
१०,०७९.०१ नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥
१०,०७९.०२ गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि ।
१०,०७९.०२ अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु ॥
१०,०७९.०३ प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः ।
१०,०७९.०३ ससं न पक्वमविदच्छुचन्तं रिरिह्वांसं रिप उपस्थे अन्तः ॥
१०,०७९.०४ तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति ।
१०,०७९.०४ नाहं देवस्य मर्त्यश्चिकेताग्निरङ्ग विचेताः स प्रचेताः ॥
१०,०७९.०५ यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति ।
१०,०७९.०५ तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वम् ॥
१०,०७९.०६ किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान् ।
१०,०७९.०६ अक्रीळन्क्रीळन्हरिरत्तवेऽदन्वि पर्वशश्चकर्त गामिवासिः ॥
१०,०७९.०७ विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् ।
१०,०७९.०७ चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः ॥
१०,०८०.०१ अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठाम् ।
१०,०८०.०१ अग्नी रोदसी वि चरत्समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम् ॥
१०,०८०.०२ अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश ।
१०,०८०.०२ अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥
१०,०८०.०३ अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम् ।
१०,०८०.०३ अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्नृमेधं प्रजयासृजत्सम् ॥
१०,०८०.०४ अग्निर्दाद्द्रविणं वीरपेशा अग्निरृषिं यः सहस्रा सनोति ।
१०,०८०.०४ अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा ॥
१०,०८०.०५ अग्निमुक्थैरृषयो वि ह्वयन्तेऽग्निं नरो यामनि बाधितासः ।
१०,०८०.०५ अग्निं वयो अन्तरिक्षे पतन्तोऽग्निः सहस्रा परि याति गोनाम् ॥
१०,०८०.०६ अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः ।
१०,०८०.०६ अग्निर्गान्धर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता ॥
१०,०८०.०७ अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिम् ।
१०,०८०.०७ अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व ॥
१०,०८१.०१ य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः ।
१०,०८१.०१ स आशिषा द्रविणमिच्छमानः प्रथमच्छदवरां आ विवेश ॥
१०,०८१.०२ किं स्विदासीदधिष्ठानमारम्भणं कतमत्स्वित्कथासीत् ।
१०,०८१.०२ यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥
१०,०८१.०३ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
१०,०८१.०३ सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥
१०,०८१.०४ किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।
१०,०८१.०४ मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥
१०,०८१.०५ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा ।
१०,०८१.०५ शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥
१०,०८१.०६ विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्याम् ।
१०,०८१.०६ मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥
१०,०८१.०७ वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम ।
१०,०८१.०७ स नो विश्वानि हवनानि जोषद्विश्वशम्भूरवसे साधुकर्मा ॥
१०,०८२.०१ चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने ।
१०,०८२.०१ यदे
दन्ता अददृहन्त पूर्व आदिद्द्यावापृथिवी अप्रथेताम् ॥
१०,०८२.०२ विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् ।
१०,०८२.०२ तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥
१०,०८२.०३ यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।
१०,०८२.०३ यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या ॥
१०,०८२.०४ त आयजन्त द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना ।
१०,०८२.०४ असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥
१०,०८२.०५ परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति ।
१०,०८२.०५ कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यन्त विश्वे ॥
१०,०८२.०६ तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ।
१०,०८२.०६ अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥
१०,०८२.०७ न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ।
१०,०८२.०७ नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ॥
१०,०८३.०१ यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।
१०,०८३.०१ साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥
१०,०८३.०२ मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
१०,०८३.०२ मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥
१०,०८३.०३ अभीहि मन्यो तवसस्तवीयान्तपसा युजा वि जहि शत्रून् ।
१०,०८३.०३ अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥
१०,०८३.०४ त्वं हि मन्यो अभिभूत्योजाः स्वयम्भूर्भामो अभिमातिषाहः ।
१०,०८३.०४ विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥
१०,०८३.०५ अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
१०,०८३.०५ तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥
१०,०८३.०६ अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः ।
१०,०८३.०६ मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥
१०,०८३.०७ अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जङ्घनाव भूरि ।
१०,०८३.०७ जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥
१०,०८४.०१ त्वया मन्यो सरथमारुजन्तो हर्षमाणासो धृषिता मरुत्वः ।
१०,०८४.०१ तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥
१०,०८४.०२ अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।
१०,०८४.०२ हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥
१०,०८४.०३ सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् ।
१०,०८४.०३ उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वम् ॥
१०,०८४.०४ एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि ।
१०,०८४.०४ अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्महे ॥
१०,०८४.०५ विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह ।
१०,०८४.०५ प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥
१०,०८४.०६ आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरम् ।
१०,०८४.०६ क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥
१०,०८४.०७ संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः ।
१०,०८४.०७ भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥
१०,०८५.०१ सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
१०,०८५.०१ ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥
१०,०८५.०२ सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
१०,०८५.०२ अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥
१०,०८५.०३ सोमं मन्यते पपिवान्यत्सम्पिंषन्त्योषधिम् ।
१०,०८५.०३ सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥
१०,०८५.०४ आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
१०,०८५.०४ ग्राव्णामिच्छृण्वन्तिष्ठसि न ते अश्नाति पार्थिवः ॥
१०,०८५.०५ यत्त्वा देव प्रपिबन्ति तत आ प्यायसे पुनः ।
१०,०८५.०५ वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥
१०,०८५.०६ रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
१०,०८५.०६ सूर्याया भद्रमिद्वासो गाथयैति परिष्कृतम् ॥
१०,०८५.०७ चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
१०,०८५.०७ द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥
१०,०८५.०८ स्तोमा आसन्प्रतिधयः कुरीरं छन्द ओपशः ।
१०,०८५.०८ सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥
१०,०८५.०९ सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
१०,०८५.०९ सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात् ॥
१०,०८५.१० मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।
१०,०८५.१० शुक्रावनड्वाहावास्तां यदयात्सूर्या गृहम् ॥
१०,०८५.११ ऋक्सामाभ्यामभिहितौ गावौ ते सामनावितः ।
१०,०८५.११ श्रोत्रं ते चक्रे आस्तां दिवि पन्थाश्चराचारः ॥
१०,०८५.१२ शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
१०,०८५.१२ अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥
१०,०८५.१३ सूर्याया वहतुः प्रागात्सविता यमवासृजत् ।
१०,०८५.१३ अघासु हन्यन्ते गावोऽर्जुन्योः पर्युह्यते ॥
१०,०८५.१४ यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
१०,०८५.१४ विश्वे देवा अनु तद्वामजानन्पुत्रः पितराववृणीत पूषा ॥
१०,०८५.१५ यदयातं शुभस्पती वरेयं सूर्यामुप ।
१०,०८५.१५ क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥
१०,०८५.१६ द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
१०,०८५.१६ अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥
१०,०८५.१७ सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
१०,०८५.१७ ये भूतस्य प्रचेतस इदं तेभ्योऽकरं नमः ॥
१०,०८५.१८ पूर्वापरं चरतो माययैतौ शिशू क्रीळन्तौ परि यातो अध्वरम् ।
१०,०८५.१८ विश्वान्यन्यो भुवनाभिचष्ट ऋतूंरन्यो विदधज्जायते पुनः ॥
१०,०८५.१९ नवोनवो भवति जायमानोऽह्नां केतुरुषसामेत्यग्रम् ।
१०,०८५.१९ भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥
१०,०८५.२० सुकिंशुकं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
१०,०८५.२० आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतुं कृणुष्व ॥
१०,०८५.२१ उदीर्ष्वातः पतिवती ह्येषा विश्वावसुं नमसा गीर्भिरीळे ।
१०,०८५.२१ अन्यामिच्छ पितृषदं व्यक्तां स ते भागो जनुषा तस्य विद्धि ॥
१०,०८५.२२ उदीर्ष्वातो विश्वावसो नमसेळा महे त्वा ।
१०,०८५.२२ अन्यामिच्छ प्रफर्व्यं सं जायां पत्या सृज ॥
१०,०८५.२३ अनृक्षरा ऋजवः सन्तु पन्था येभिः सखायो यन्ति नो वरेयम् ।
१०,०८५.२३ समर्यमा सं भगो नो निनीयात्सं जास्पत्यं सुयममस्तु देवाः ॥
१०,०८५.२४ प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवः ।
१०,०८५.२४ ऋतस्य योनौ सुकृतस्य लोकेऽरिष्टां त्वा सह पत्या दधामि ॥
१०,०८५.२५ प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।
१०,०८५.२५ यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥
१०,०८५.२६ पूषा त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
१०,०८५.२६ गृहान्गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥
१०,०८५.२७ इह प्रियं प्रजया ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि ।
१०,०८५.२७ एना पत्या तन्वं सं सृजस्वाधा जिव्री विदथमा वदाथः ॥
१०,०८५.२८ नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
१०,०८५.२८ एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥
१०,०८५.२९ परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
१०,०८५.२९ कृत्यैषा पद्वती भूत्व्या जाया विशते पतिम् ॥
१०,०८५.३० अश्रीरा तनूर्भवति रुशती पापयामुया ।
१०,०८५.३० पतिर्यद्वध्वो वाससा स्वमङ्गमभिधित्सते ॥
१०,०८५.३१ ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनादनु ।
१०,०८५.३१ पुनस्तान्यज्ञिया देवा नयन्तु यत आगताः ॥
१०,०८५.३२ मा विदन्परिपन्थिनो य आसीदन्ति दम्पती ।
१०,०८५.३२ सुगेभिर्दुर्गमतीतामप द्रान्त्वरातयः ॥
१०,०८५.३३ सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
१०,०८५.३३ सौभाग्यमस्यै दत्त्वायाथास्तं वि परेतन ॥
१०,०८५.३४ तृष्टमेतत्कटुकमेतदपाष्ठवद्विषवन्नैतदत्तवे ।
१०,०८५.३४ सूर्यां यो ब्रह्मा विद्यात्स इद्वाधूयमर्हति ॥
१०,०८५.३५ आशसनं विशसनमथो अधिविकर्तनम् ।
१०,०८५.३५ सूर्यायाः पश्य रूपाणि तानि ब्रह्मा तु शुन्धति ॥
१०,०८५.३६ गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
१०,०८५.३६ भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥
१०,०८५.३७ तां पूषञ्छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
१०,०८५.३७ या न ऊरू उशती विश्रयाते यस्यामुशन्तः प्रहराम शेपम् ॥
१०,०८५.३८ तुभ्यमग्रे पर्यवहन्सूर्यां वहतुना सह ।
१०,०८५.३८ पुनः पतिभ्यो जायां दा अग्ने प्रजया सह ॥
१०,०८५.३९ पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
१०,०८५.३९ दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥
१०,०८५.४० सोमः प्रथमो विविदे गन्धर्वो विविद उत्तरः ।
१०,०८५.४० तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥
१०,०८५.४१ सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।
१०,०८५.४१ रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥
१०,०८५.४२ इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
१०,०८५.४२ क्रीळन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वे गृहे ॥
१०,०८५.४३ आ नः प्रजां जनयतु प्रजापतिराजरसाय समनक्त्वर्यमा ।
१०,०८५.४३ अदुर्मङ्गलीः पतिलोकमा विश शं नो भव द्विपदे शं चतुष्पदे ॥
१०,०८५.४४ अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः ।
१०,०८५.४४ वीरसूर्देवकामा स्योना शं नो भव द्विपदे शं चतुष्पदे ॥
१०,०८५.४५ इमां त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृणु ।
१०,०८५.४५ दशास्यां पुत्राना धेहि पतिमेकादशं कृधि ॥
१०,०८५.४६ सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्र्वां भव ।
१०,०८५.४६ ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥
१०,०८५.४७ समञ्जन्तु विश्वे देवाः समापो हृदयानि नौ ।
१०,०८५.४७ सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ ॥
१०,०८६.०१ वि हि सोतोरसृक्षत नेन्द्रं देवममंसत ।
१०,०८६.०१ यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.०२ परा हीन्द्र धावसि वृषाकपेरति व्यथिः ।
१०,०८६.०२ नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.०३ किमयं त्वां वृषाकपिश्चकार हरितो मृगः ।
१०,०८६.०३ यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.०४ यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि ।
१०,०८६.०४ श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.०५ प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत् ।
१०,०८६.०५ शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.०६ न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत् ।
१०,०८६.०६ न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.०७ उवे अम्ब सुलाभिके यथेवाङ्ग भविष्यति ।
१०,०८६.०७ भसन्मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.०८ किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।
१०,०८६.०८ किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.०९ अवीरामिव मामयं शरारुरभि मन्यते ।
१०,०८६.०९ उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१० संहोत्रं स्म पुरा नारी समनं वाव गच्छति ।
१०,०८६.१० वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.११ इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।
१०,०८६.११ नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१२ नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते ।
१०,०८६.१२ यस्येदमप्यं हविः प्रियं देवेषु गच्छति विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१३ वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे ।
१०,०८६.१३ घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१४ उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम् ।
१०,०८६.१४ उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१५ वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत् ।
१०,०८६.१५ मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१६ न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत् ।
१०,०८६.१६ सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१७ न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।
१०,०८६.१७ सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृद्विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१८ अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत् ।
१०,०८६.१८ असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.१९ अयमेमि विचाकशद्विचिन्वन्दासमार्यम् ।
१०,०८६.१९ पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.२० धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना ।
१०,०८६.२० नेदीयसो वृषाकपेऽस्तमेहि गृहां उप विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.२१ पुनरेहि वृषाकपे सुविता कल्पयावहै ।
१०,०८६.२१ य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.२२ यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।
१०,०८६.२२ क्व स्य पुल्वघो मृगः कमगञ्जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥
१०,०८६.२३ पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् ।
१०,०८६.२३ भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥
१०,०८७.०१ रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।
१०,०८७.०१ शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥
१०,०८७.०२ अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः ।
१०,०८७.०२ आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् ॥
१०,०८७.०३ उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च ।
१०,०८७.०३ उतान्तरिक्षे परि याहि राजञ्जम्भैः सं धेह्यभि यातुधानान् ॥
१०,०८७.०४ यज्ञैरिषूः संनममानो अग्ने वाचा शल्यां अशनिभिर्दिहानः ।
१०,०८७.०४ ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम् ॥
१०,०८७.०५ अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
१०,०८७.०५ प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् ॥
१०,०८७.०६ यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।
१०,०८७.०६ यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः ॥
१०,०८७.०७ उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात् ।
१०,०८७.०७ अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥
१०,०८७.०८ इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति ।
१०,०८७.०८ तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥
१०,०८७.०९ तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
१०,०८७.०९ हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥
१०,०८७.१० नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।
१०,०८७.१० तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥
१०,०८७.११ त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
१०,०८७.११ तमर्चिषा स्फूर्जयञ्जातवेदः समक्षमेनं गृणते नि वृङ्धि ॥
१०,०८७.१२ तदग्ने चक्षुः प्रति धेहि रेभे शफारुजं येन पश्यसि यातुधानम् ।
१०,०८७.१२ अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥
१०,०८७.१३ यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
१०,०८७.१३ मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥
१०,०८७.१४ परा शृणीहि तपसा यातुधानान्पराग्ने रक्षो हरसा शृणीहि ।
१०,०८७.१४ परार्चिषा मूरदेवाञ्छृणीहि परासुतृपो अभि शोशुचानः ॥
१०,०८७.१५ पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु तृष्टाः ।
१०,०८७.१५ वाचास्तेनं शरव ऋच्छन्तु मर्मन्विश्वस्यैतु प्रसितिं यातुधानः ॥
१०,०८७.१६ यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
१०,०८७.१६ यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥
१०,०८७.१७ संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।
१०,०८७.१७ पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मन् ॥
१०,०८७.१८ विषं गवां यातुधानाः पिबन्त्वा वृश्च्यन्तामदितये दुरेवाः ।
१०,०८७.१८ परैनान्देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥
१०,०८७.१९ सनादग्ने मृणसि यातुधानान्न त्वा रक्षांसि पृतनासु जिग्युः ।
१०,०८७.१९ अनु दह सहमूरान्क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥
१०,०८७.२० त्वं नो अग्ने अधरादुदक्तात्त्वं पश्चादुत रक्षा पुरस्तात् ।
१०,०८७.२० प्रति ते ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥
१०,०८७.२१ पश्चात्पुरस्तादधरादुदक्तात्कविः काव्येन परि पाहि राजन् ।
१०,०८७.२१ सखे सखायमजरो जरिम्णेऽग्ने मर्तां अमर्त्यस्त्वं नः ॥
१०,०८७.२२ परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
१०,०८७.२२ धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावताम् ॥
१०,०८७.२३ विषेण भङ्गुरावतः प्रति ष्म रक्षसो दह ।
१०,०८७.२३ अग्ने तिग्मेन शोचिषा तपुरग्राभिरृष्टिभिः ॥
१०,०८७.२४ प्रत्यग्ने मिथुना दह यातुधाना किमीदिना ।
१०,०८७.२४ सं त्वा शिशामि जागृह्यदब्धं विप्र मन्मभिः ॥
१०,०८७.२५ प्रत्यग्ने हरसा हरः शृणीहि विश्वतः प्रति ।
१०,०८७.२५ यातुधानस्य रक्षसो बलं वि रुज वीर्यम् ॥
१०,०८८.०१ हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ ।
१०,०८८.०१ तस्य भर्मणे भुवनाय देवा धर्मणे कं स्वधया पप्रथन्त ॥
१०,०८८.०२ गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ ।
१०,०८८.०२ तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥
१०,०८८.०३ देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरं बृहन्तम् ।
१०,०८८.०३ यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ॥
१०,०८८.०४ यो होतासीत्प्रथमो देवजुष्टो यं समाञ्जन्नाज्येना वृणानाः ।
१०,०८८.०४ स पतत्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः ॥
१०,०८८.०५ यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन ।
१०,०८८.०५ तं त्वाहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवो रोदसिप्राः ॥
१०,०८८.०६ मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् ।
१०,०८८.०६ मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥
१०,०८८.०७ दृशेन्यो यो महिना समिद्धोऽरोचत दिवियोनिर्विभावा ।
१०,०८८.०७ तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व आजुहवुस्तनूपाः ॥
१०,०८८.०८ सूक्तवाकं प्रथममादिदग्निमादिद्धविरजनयन्त देवाः ।
१०,०८८.०८ स एषां यज्ञो अभवत्तनूपास्तं द्यौर्वेद तं पृथिवी तमापः ॥
१०,०८८.०९ यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा ।
१०,०८८.०९ सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥
१०,०८८.१० स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम् ।
१०,०८८.१० तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥
१०,०८८.११ यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् ।
१०,०८८.११ यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥
१०,०८८.१२ विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् ।
१०,०८८.१२ आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् ॥
१०,०८८.१३ वैश्वानरं कवयो यज्ञियासोऽग्निं देवा अजनयन्नजुर्यम् ।
१०,०८८.१३ नक्षत्रं प्रत्नममिनच्चरिष्णु यक्षस्याध्यक्षं तविषं बृहन्तम् ॥
१०,०८८.१४ वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमच्छा वदामः ।
१०,०८८.१४ यो महिम्ना परिबभूवोर्वी उतावस्तादुत देवः परस्तात् ॥
१०,०८८.१५ द्वे स्रुती अशृणवं पितॄणामहं देवानामुत मर्त्यानाम् ।
१०,०८८.१५ ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं च ॥
१०,०८८.१६ द्वे समीची बिभृतश्चरन्तं शीर्षतो जातं मनसा विमृष्टम् ।
१०,०८८.१६ स प्रत्यङ्विश्वा भुवनानि तस्थावप्रयुच्छन्तरणिर्भ्राजमानः ॥
१०,०८८.१७ यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद ।
१०,०८८.१७ आ शेकुरित्सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥
१०,०८८.१८ कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु स्विदापः ।
१०,०८८.१८ नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥
१०,०८८.१९ यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः ।
१०,०८८.१९ तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन् ॥
१०,०८९.०१ इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् ।
१०,०८९.०१ आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥
१०,०८९.०२ स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा ।
१०,०८९.०२ अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥
१०,०८९.०३ समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम् ।
१०,०८९.०३ वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे ॥
१०,०८९.०४ इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् ।
१०,०८९.०४ यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥
१०,०८९.०५ आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमां ऋजीषी ।
१०,०८९.०५ सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥
१०,०८९.०६ न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः ।
१०,०८९.०६ यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥
१०,०८९.०७ जघान वृत्रं स्वधितिर्वनेव रुरोज पुरो अरदन्न सिन्धून् ।
१०,०८९.०७ बिभेद गिरिं नवमिन्न कुम्भमा गा इन्द्रो अकृणुत स्वयुग्भिः ॥
१०,०८९.०८ त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि ।
१०,०८९.०८ प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥
१०,०८९.०९ प्र ये मित्रं प्रार्यमणं दुरेवाः प्र संगिरः प्र वरुणं मिनन्ति ।
१०,०८९.०९ न्यमित्रेषु वधमिन्द्र तुम्रं वृषन्वृषाणमरुषं शिशीहि ॥
१०,०८९.१० इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् ।
१०,०८९.१० इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥
१०,०८९.११ प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः ।
१०,०८९.११ प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥
१०,०८९.१२ प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः ।
१०,०८९.१२ अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥
१०,०८९.१३ अन्वह मासा अन्विद्वनान्यन्वोषधीरनु पर्वतासः ।
१०,०८९.१३ अन्विन्द्रं रोदसी वावशाने अन्वापो अजिहत जायमानम् ॥
१०,०८९.१४ कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् ।
१०,०८९.१४ मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥
१०,०८९.१५ शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र ।
१०,०८९.१५ अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्तां अभि ष्युः ॥
१०,०८९.१६ पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् ।
१०,०८९.१६ इमामाघोषन्नवसा सहूतिं तिरो विश्वां अर्चतो याह्यर्वाङ् ॥
१०,०८९.१७ एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् ।
१०,०८९.१७ विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥
१०,०८९.१८ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
१०,०८९.१८ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
१०,०९०.०१ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
१०,०९०.०१ स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥
१०,०९०.०२ पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् ।
१०,०९०.०२ उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥
१०,०९०.०३ एतावानस्य महिमातो ज्यायांश्च पूरुषः ।
१०,०९०.०३ पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
१०,०९०.०४ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
१०,०९०.०४ ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥
१०,०९०.०५ तस्माद्विराळ् अजायत विराजो अधि पूरुषः ।
१०,०९०.०५ स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥
१०,०९०.०६ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
१०,०९०.०६ वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥
१०,०९०.०७ तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
१०,०९०.०७ तेन देवा अयजन्त साध्या ऋषयश्च ये ॥
१०,०९०.०८ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
१०,०९०.०८ पशून्तांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥
१०,०९०.०९ तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
१०,०९०.०९ छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
१०,०९०.१० तस्मादश्वा अजायन्त ये के चोभयादतः ।
१०,०९०.१० गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥
१०,०९०.११ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
१०,०९०.११ मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥
१०,०९०.१२ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।
१०,०९०.१२ ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥
१०,०९०.१३ चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
१०,०९०.१३ मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥
१०,०९०.१४ नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
१०,०९०.१४ पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकां अकल्पयन् ॥
१०,०९०.१५ सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
१०,०९०.१५ देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥
१०,०९०.१६ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
१०,०९०.१६ ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
१०,०९१.०१ सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे ।
१०,०९१.०१ विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥
१०,०९१.०२ स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव ।
१०,०९१.०२ जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशंविशम् ॥
१०,०९१.०३ सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् ।
१०,०९१.०३ वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥
१०,०९१.०४ प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः ।
१०,०९१.०४ आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥
१०,०९१.०५ तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः ।
१०,०९१.०५ यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥
१०,०९१.०६ तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।
१०,०९१.०६ तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥
१०,०९१.०७ वातोपधूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।
१०,०९१.०७ आ ते यतन्ते रथ्यो यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥
१०,०९१.०८ मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् ।
१०,०९१.०८ तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत् ॥
१०,०९१.०९ त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः ।
१०,०९१.०९ यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥
१०,०९१.१० तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
१०,०९१.१० तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
१०,०९१.११ यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति ।
१०,०९१.११ तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि ॥
१०,०९१.१२ इमा अस्मै मतयो वाचो अस्मदां ऋचो गिरः सुष्टुतयः समग्मत ।
१०,०९१.१२ वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥
१०,०९१.१३ इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः ।
१०,०९१.१३ भूया अन्तरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥
१०,०९१.१४ यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः ।
१०,०९१.१४ कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥
१०,०९१.१५ अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः ।
१०,०९१.१५ वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
१०,०९२.०१ यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम् ।
१०,०९२.०१ शोचञ्छुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत ॥
१०,०९२.०२ इममञ्जस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनम् ।
१०,०९२.०२ अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ॥
१०,०९२.०३ बळ् अस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे ।
१०,०९२.०३ यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन् ॥
१०,०९२.०४ ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिः पनीयसी ।
१०,०९२.०४ इन्द्रो मित्रो वरुणः सं चिकित्रिरेऽथो भगः सविता पूतदक्षसः ॥
१०,०९२.०५ प्र रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिं दधन्विरे ।
१०,०९२.०५ येभिः परिज्मा परियन्नुरु ज्रयो वि रोरुवज्जठरे विश्वमुक्षते ॥
१०,०९२.०६ क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः ।
१०,०९२.०६ तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रो देवेभिरर्वशेभिरर्वशः ॥
१०,०९२.०७ इन्द्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये ।
१०,०९२.०७ प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥
१०,०९२.०८ सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद्भयते तवीयसः ।
१०,०९२.०८ भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरि स्तन्नबाधितः ॥
१०,०९२.०९ स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन ।
१०,०९२.०९ येभिः शिवः स्ववां एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः ॥
१०,०९२.१० ते हि प्रजाया अभरन्त वि श्रवो बृहस्पतिर्वृषभः सोमजामयः ।
१०,०९२.१० यज्ञैरथर्वा प्रथमो वि धारयद्देवा दक्षैर्भृगवः सं चिकित्रिरे ॥
१०,०९२.११ ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरङ्गो यमोऽदितिः ।
१०,०९२.११ देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे ॥
१०,०९२.१२ उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्यो हवीमनि ।
१०,०९२.१२ सूर्यामासा विचरन्ता दिविक्षिता धिया शमीनहुषी अस्य बोधतम् ॥
१०,०९२.१३ प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये ।
१०,०९२.१३ आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतम् ॥
१०,०९२.१४ विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि ।
१०,०९२.१४ ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिम् ॥
१०,०९२.१५ रेभदत्र जनुषा पूर्वो अङ्गिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरम् ।
१०,०९२.१५ येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति ॥
१०,०९३.०१ महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः ।
१०,०९३.०१ तेभिर्नः पातं सह्यस एभिर्नः पातं शूषणि ॥
१०,०९३.०२ यज्ञेयज्ञे स मर्त्यो देवान्सपर्यति ।
१०,०९३.०२ यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् ॥
१०,०९३.०३ विश्वेषामिरज्यवो देवानां वार्महः ।
१०,०९३.०३ विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥
१०,०९३.०४ ते घा राजानो अमृतस्य मन्द्रा अर्यमा मित्रो वरुणः परिज्मा ।
१०,०९३.०४ कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥
१०,०९३.०५ उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या ।
१०,०९३.०५ सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः ॥
१०,०९३.०६ उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यताम् ।
१०,०९३.०६ महः स राय एषतेऽति धन्वेव दुरिता ॥
१०,०९३.०७ उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः ।
१०,०९३.०७ ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥
१०,०९३.०८ ऋभुरृभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना ।
१०,०९३.०८ दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥
१०,०९३.०९ कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनाम् ।
१०,०९३.०९ सहो न इन्द्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥
१०,०९३.१० ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः ।
१०,०९३.१० पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥
१०,०९३.११ एतं शंसमिन्द्रास्मयुष्ट्वं कूचित्सन्तं सहसावन्नभिष्टये ।
१०,०९३.११ सदा पाह्यभिष्टये मेदतां वेदता वसो ॥
१०,०९३.१२ एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधन्त नृणाम् ।
१०,०९३.१२ संवननं नाश्व्यं तष्टेवानपच्युतम् ॥
१०,०९३.१३ वावर्त येषां राया युक्तैषां हिरण्ययी ।
१०,०९३.१३ नेमधिता न पौंस्या वृथेव विष्टान्ता ॥
१०,०९३.१४ प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु ।
१०,०९३.१४ ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् ॥
१०,०९३.१५ अधीन्न्वत्र सप्ततिं च सप्त च ।
१०,०९३.१५ सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥
१०,०९४.०१ प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः ।
१०,०९४.०१ यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः ॥
१०,०९४.०२ एते वदन्ति शतवत्सहस्रवदभि क्रन्दन्ति हरितेभिरासभिः ।
१०,०९४.०२ विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥
१०,०९४.०३ एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि ।
१०,०९४.०३ वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥
१०,०९४.०४ बृहद्वदन्ति मदिरेण मन्दिनेन्द्रं क्रोशन्तोऽविदन्नना मधु ।
१०,०९४.०४ संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयन्तः पृथिवीमुपब्दिभिः ॥
१०,०९४.०५ सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
१०,०९४.०५ न्यङ्नि यन्त्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः ॥
१०,०९४.०६ उग्रा इव प्रवहन्तः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः ।
१०,०९४.०६ यच्छ्वसन्तो जग्रसाना अराविषुः शृण्व एषां प्रोथथो अर्वतामिव ॥
१०,०९४.०७ दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।
१०,०९४.०७ दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥
१०,०९४.०८ ते अद्रयो दशयन्त्रास आशवस्तेषामाधानं पर्येति हर्यतम् ।
१०,०९४.०८ त ऊ सुतस्य सोम्यस्यान्धसोऽंशोः पीयूषं प्रथमस्य भेजिरे ॥
१०,०९४.०९ ते सोमादो हरी इन्द्रस्य निंसतेऽंशुं दुहन्तो अध्यासते गवि ।
१०,०९४.०९ तेभिर्दुग्धं पपिवान्सोम्यं मध्विन्द्रो वर्धते प्रथते वृषायते ॥
१०,०९४.१० वृषा वो अंशुर्न किला रिषाथनेळावन्तः सदमित्स्थनाशिताः ।
१०,०९४.१० रैवत्येव महसा चारव स्थन यस्य ग्रावाणो अजुषध्वमध्वरम् ॥
१०,०९४.११ तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः ।
१०,०९४.११ अनातुरा अजरा स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥
१०,०९४.१२ ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युञ्जते ।
१०,०९४.१२ अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवुः ॥
१०,०९४.१३ तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभिः ।
१०,०९४.१३ वपन्तो बीजमिव धान्याकृतः पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥
१०,०९४.१४ सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदन्तः ।
१०,०९४.१४ वि षू मुञ्चा सुषुवुषो मनीषां वि वर्तन्तामद्रयश्चायमानाः ॥
१०,०९५.०१ हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु ।
१०,०९५.०१ न नौ मन्त्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥
१०,०९५.०२ किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव ।
१०,०९५.०२ पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि ॥
१०,०९५.०३ इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः ।
१०,०९५.०३ अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयन्त धुनयः ॥
१०,०९५.०४ सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यन्तिगृहात् ।
१०,०९५.०४ अस्तं ननक्षे यस्मिञ्चाकन्दिवा नक्तं श्नथिता वैतसेन ॥
१०,०९५.०५ त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मेऽव्यत्यै पृणासि ।
१०,०९५.०५ पुरूरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥
१०,०९५.०६ या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रन्थिनी चरण्युः ।
१०,०९५.०६ ता अञ्जयोऽरुणयो न सस्रुः श्रिये गावो न धेनवोऽनवन्त ॥
१०,०९५.०७ समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्यः स्वगूर्ताः ।
१०,०९५.०७ महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः ॥
१०,०९५.०८ सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे ।
१०,०९५.०८ अप स्म मत्तरसन्ती न भुज्युस्ता अत्रसन्रथस्पृशो नाश्वाः ॥
१०,०९५.०९ यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पृङ्क्ते ।
१०,०९५.०९ ता आतयो न तन्वः शुम्भत स्वा अश्वासो न क्रीळयो दन्दशानाः ॥
१०,०९५.१० विद्युन्न या पतन्ती दविद्योद्भरन्ती मे अप्या काम्यानि ।
१०,०९५.१० जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥
१०,०९५.११ जज्ञिष इत्था गोपीथ्याय हि दधाथ तत्पुरूरवो म ओजः ।
१०,०९५.११ अशासं त्वा विदुषी सस्मिन्नहन्न म आशृणोः किमभुग्वदासि ॥
१०,०९५.१२ कदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्तयद्विजानन् ।
१०,०९५.१२ को दम्पती समनसा वि यूयोदध यदग्निः श्वशुरेषु दीदयत् ॥
१०,०९५.१३ प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रन्ददाध्ये शिवायै ।
१०,०९५.१३ प्र तत्ते हिनवा यत्ते अस्मे परेह्यस्तं नहि मूर मापः ॥
१०,०९५.१४ सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गन्तवा उ ।
१०,०९५.१४ अधा शयीत निरृतेरुपस्थेऽधैनं वृका रभसासो अद्युः ॥
१०,०९५.१५ पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् ।
१०,०९५.१५ न वै स्त्रैणानि सख्यानि सन्ति सालावृकाणां हृदयान्येता ॥
१०,०९५.१६ यद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः ।
१०,०९५.१६ घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥
१०,०९५.१७ अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः ।
१०,०९५.१७ उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥
१०,०९५.१८ इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबन्धुः ।
१०,०९५.१८ प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥
१०,०९६.०१ प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
१०,०९६.०१ घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥
१०,०९६.०२ हरिं हि योनिमभि ये समस्वरन्हिन्वन्तो हरी दिव्यं यथा सदः ।
१०,०९६.०२ आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूषं हरिवन्तमर्चत ॥
१०,०९६.०३ सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।
१०,०९६.०३ द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥
१०,०९६.०४ दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।
१०,०९६.०४ तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥
१०,०९६.०५ त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।
१०,०९६.०५ त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥
१०,०९६.०६ ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
१०,०९६.०६ पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥
१०,०९६.०७ अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा ।
१०,०९६.०७ अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥
१०,०९६.०८ हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
१०,०९६.०८ अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥
१०,०९६.०९ स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
१०,०९६.०९ प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥
१०,०९६.१० उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवां अचिक्रदत् ।
१०,०९६.१० मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥
१०,०९६.११ आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
१०,०९६.११ प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥
१०,०९६.१२ आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
१०,०९६.१२ पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिम् ॥
१०,०९६.१३ अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
१०,०९६.१३ ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषञ्जठर आ वृषस्व ॥
१०,०९७.०१ या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।
१०,०९७.०१ मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥
१०,०९७.०२ शतं वो अम्ब धामानि सहस्रमुत वो रुहः ।
१०,०९७.०२ अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥
१०,०९७.०३ ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।
१०,०९७.०३ अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥
१०,०९७.०४ ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे ।
१०,०९७.०४ सनेयमश्वं गां वास आत्मानं तव पूरुष ॥
१०,०९७.०५ अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।
१०,०९७.०५ गोभाज इत्किलासथ यत्सनवथ पूरुषम् ॥
१०,०९७.०६ यत्रौषधीः समग्मत राजानः समिताविव ।
१०,०९७.०६ विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥
१०,०९७.०७ अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम् ।
१०,०९७.०७ आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥
१०,०९७.०८ उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।
१०,०९७.०८ धनं सनिष्यन्तीनामात्मानं तव पूरुष ॥
१०,०९७.०९ इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः ।
१०,०९७.०९ सीराः पतत्रिणी स्थन यदामयति निष्कृथ ॥
१०,०९७.१० अति विश्वाः परिष्ठा स्तेन इव व्रजमक्रमुः ।
१०,०९७.१० ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥
१०,०९७.११ यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।
१०,०९७.११ आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
१०,०९७.१२ यस्यौषधीः प्रसर्पथाङ्गमङ्गं परुष्परुः ।
१०,०९७.१२ ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥
१०,०९७.१३ साकं यक्ष्म प्र पत चाषेण किकिदीविना ।
१०,०९७.१३ साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
१०,०९७.१४ अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।
१०,०९७.१४ ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥
१०,०९७.१५ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
१०,०९७.१५ बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥
१०,०९७.१६ मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
१०,०९७.१६ अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥
१०,०९७.१७ अवपतन्तीरवदन्दिव ओषधयस्परि ।
१०,०९७.१७ यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥
१०,०९७.१८ या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
१०,०९७.१८ तासां त्वमस्युत्तमारं कामाय शं हृदे ॥
१०,०९७.१९ या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।
१०,०९७.१९ बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यम् ॥
१०,०९७.२० मा वो रिषत्खनिता यस्मै चाहं खनामि वः ।
१०,०९७.२० द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम् ॥
१०,०९७.२१ याश्चेदमुपशृण्वन्ति याश्च दूरं परागताः ।
१०,०९७.२१ सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यम् ॥
१०,०९७.२२ ओषधयः सं वदन्ते सोमेन सह राज्ञा ।
१०,०९७.२२ यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥
१०,०९७.२३ त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।
१०,०९७.२३ उपस्तिरस्तु सोऽस्माकं यो अस्मां अभिदासति ॥
१०,०९८.०१ बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा ।
१०,०९८.०१ आदित्यैर्वा यद्वसुभिर्मरुत्वान्स पर्जन्यं शन्तनवे वृषाय ॥
१०,०९८.०२ आ देवो दूतो अजिरश्चिकित्वान्त्वद्देवापे अभि मामगच्छत् ।
१०,०९८.०२ प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥
१०,०९८.०३ अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिराम् ।
१०,०९८.०३ यया वृष्टिं शन्तनवे वनाव दिवो द्रप्सो मधुमां आ विवेश ॥
१०,०९८.०४ आ नो द्रप्सा मधुमन्तो विशन्त्विन्द्र देह्यधिरथं सहस्रम् ।
१०,०९८.०४ नि षीद होत्रमृतुथा यजस्व देवान्देवापे हविषा सपर्य ॥
१०,०९८.०५ आर्ष्टिषेणो होत्रमृषिर्निषीदन्देवापिर्देवसुमतिं चिकित्वान् ।
१०,०९८.०५ स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥
१०,०९८.०६ अस्मिन्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् ।
१०,०९८.०६ ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥
१०,०९८.०७ यद्देवापिः शन्तनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् ।
१०,०९८.०७ देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥
१०,०९८.०८ यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे ।
१०,०९८.०८ विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमन्तम् ॥
१०,०९८.०९ त्वां पूर्व ऋषयो गीर्भिरायन्त्वामध्वरेषु पुरुहूत विश्वे ।
१०,०९८.०९ सहस्राण्यधिरथान्यस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥
१०,०९८.१० एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्रा ।
१०,०९८.१० तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितो रिरीहि ॥
१०,०९८.११ एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इन्द्राय भागम् ।
१०,०९८.११ विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥
१०,०९८.१२ अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध ।
१०,०९८.१२ अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥
१०,०९९.०१ कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै ।
१०,०९९.०१ कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥
१०,०९९.०२ स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद ।
१०,०९९.०२ स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥
१०,०९९.०३ स वाजं यातापदुष्पदा यन्स्वर्षाता परि षदत्सनिष्यन् ।
१०,०९९.०३ अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवां अभि वर्पसा भूत् ॥
१०,०९९.०४ स यह्व्योऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः ।
१०,०९९.०४ अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥
१०,०९९.०५ स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात् ।
१०,०९९.०५ वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥
१०,०९९.०६ स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् ।
१०,०९९.०६ अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन् ॥
१०,०९९.०७ स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुम् ।
१०,०९९.०७ स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हन्दस्युहत्ये ॥
१०,०९९.०८ सो अभ्रियो न यवस उदन्यन्क्षयाय गातुं विदन्नो अस्मे ।
१०,०९९.०८ उप यत्सीददिन्दुं शरीरैः श्येनोऽयोपाष्टिर्हन्ति दस्यून् ॥
१०,०९९.०९ स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् ।
१०,०९९.०९ अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम् ॥
१०,०९९.१० अयं दशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो न मायी ।
१०,०९९.१० अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् ॥
१०,०९९.११ अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रोः ।
१०,०९९.११ सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् ॥
१०,०९९.१२ एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिन्द्रम् ।
१०,०९९.१२ स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः ॥
१०,१००.०१ इन्द्र दृह्य मघवन्त्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे ।
१०,१००.०१ देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥
१०,१००.०२ भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रन्ददिष्टये ।
१०,१००.०२ गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥
१०,१००.०३ आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते ।
१०,१००.०३ यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥
१०,१००.०४ इन्द्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः ।
१०,१००.०४ यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे ॥
१०,१००.०५ इन्द्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः ।
१०,१००.०५ यज्ञो मनुः प्रमतिर्नः पिता हि कमा सर्वतातिमदितिं वृणीमहे ॥
१०,१००.०६ इन्द्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः ।
१०,१००.०६ यज्ञश्च भूद्विदथे चारुरन्तम आ सर्वतातिमदितिं वृणीमहे ॥
१०,१००.०७ न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनम् ।
१०,१००.०७ माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे ॥
१०,१००.०८ अपामीवां सविता साविषन्न्यग्वरीय इदप सेधन्त्वद्रयः ।
१०,१००.०८ ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे ॥
१०,१००.०९ ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत ।
१०,१००.०९ स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे ॥
१०,१००.१० ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अङ्ग्ध्वे ।
१०,१००.१० तनूरेव तन्वो अस्तु भेषजमा सर्वतातिमदितिं वृणीमहे ॥
१०,१००.११ क्रतुप्रावा जरिता शश्वतामव इन्द्र इद्भद्रा प्रमतिः सुतावताम् ।
१०,१००.११ पूर्णमूधर्दिव्यं यस्य सिक्तय आ सर्वतातिमदितिं वृणीमहे ॥
१०,१००.१२ चित्रस्ते भानुः क्रतुप्रा अभिष्टिः सन्ति स्पृधो जरणिप्रा अधृष्टाः ।
१०,१००.१२ रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः ॥
१०,१०१.०१ उद्बुध्यध्वं समनसः सखायः समग्निमिन्ध्वं बहवः सनीळाः ।
१०,१०१.०१ दधिक्रामग्निमुषसं च देवीमिन्द्रावतोऽवसे नि ह्वये वः ॥
१०,१०१.०२ मन्द्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वम् ।
१०,१०१.०२ इष्कृणुध्वमायुधारं कृणुध्वं प्राञ्चं यज्ञं प्र णयता सखायः ॥
१०,१०१.०३ युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजम् ।
१०,१०१.०३ गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥
१०,१०१.०४ सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् ।
१०,१०१.०४ धीरा देवेषु सुम्नया ॥
१०,१०१.०५ निराहावान्कृणोतन सं वरत्रा दधातन ।
१०,१०१.०५ सिञ्चामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितम् ॥
१०,१०१.०६ इष्कृताहावमवतं सुवरत्रं सुषेचनम् ।
१०,१०१.०६ उद्रिणं सिञ्चे अक्षितम् ॥
१०,१०१.०७ प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् ।
१०,१०१.०७ द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिञ्चता नृपाणम् ॥
१०,१०१.०८ व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि ।
१०,१०१.०८ पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् ॥
१०,१०१.०९ आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह ।
१०,१०१.०९ सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥
१०,१०१.१० आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ।
१०,१०१.१० परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त ॥
१०,१०१.११ उभे धुरौ वह्निरापिब्दमानोऽन्तर्योनेव चरति द्विजानिः ।
१०,१०१.११ वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनन्त उत्सम् ॥
१०,१०१.१२ कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।
१०,१०१.१२ निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥
१०,१०२.०१ प्र ते रथं मिथूकृतमिन्द्रोऽवतु धृष्णुया ।
१०,१०२.०१ अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥
१०,१०२.०२ उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रम् ।
१०,१०२.०२ रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिन्द्रसेना ॥
१०,१०२.०३ अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः ।
१०,१०२.०३ दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥
१०,१०२.०४ उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति ।
१०,१०२.०४ प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥
१०,१०२.०५ न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः ।
१०,१०२.०५ तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥
१०,१०२.०६ ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी ।
१०,१०२.०६ दुधेर्युक्तस्य द्रवतः सहानस ऋच्छन्ति ष्मा निष्पदो मुद्गलानीम् ॥
१०,१०२.०७ उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन् ।
१०,१०२.०७ इन्द्र उदावत्पतिमघ्न्यानामरंहत पद्याभिः ककुद्मान् ॥
१०,१०२.०८ शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः ।
१०,१०२.०८ नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥
१०,१०२.०९ इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् ।
१०,१०२.०९ येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥
१०,१०२.१० आरे अघा को न्वित्था ददर्श यं युञ्जन्ति तं वा स्थापयन्ति ।
१०,१०२.१० नास्मै तृणं नोदकमा भरन्त्युत्तरो धुरो वहति प्रदेदिशत् ॥
१०,१०२.११ परिवृक्तेव पतिविद्यमानट्पीप्याना कूचक्रेणेव सिञ्चन् ।
१०,१०२.११ एषैष्या चिद्रथ्या जयेम सुमङ्गलं सिनवदस्तु सातम् ॥
१०,१०२.१२ त्वं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः ।
१०,१०२.१२ वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥
१०,१०३.०१ आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
१०,१०३.०१ संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥
१०,१०३.०२ संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।
१०,१०३.०२ तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
१०,१०३.०३ स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
१०,१०३.०३ संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥
१०,१०३.०४ बृहस्पते परि दीया रथेन रक्षोहामित्रां अपबाधमानः ।
१०,१०३.०४ प्रभञ्जन्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानाम् ॥
१०,१०३.०५ बलविज्ञाय स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।
१०,१०३.०५ अभिवीरो अभिसत्वा सहोजा जैत्रमिन्द्र रथमा तिष्ठ गोवित् ॥
१०,१०३.०६ गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ।
१०,१०३.०६ इमं सजाता अनु वीरयध्वमिन्द्रं सखायो अनु सं रभध्वम् ॥
१०,१०३.०७ अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिन्द्रः ।
१०,१०३.०७ दुश्च्यवनः पृतनाषाळ् अयुध्योऽस्माकं सेना अवतु प्र युत्सु ॥
१०,१०३.०८ इन्द्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
१०,१०३.०८ देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्त्वग्रम् ॥
१०,१०३.०९ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
१०,१०३.०९ महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥
१०,१०३.१० उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि ।
१०,१०३.१० उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यन्तु घोषाः ॥
१०,१०३.११ अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
१०,१०३.११ अस्माकं वीरा उत्तरे भवन्त्वस्मां उ देवा अवता हवेषु ॥
१०,१०३.१२ अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि ।
१०,१०३.१२ अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥
१०,१०३.१३ प्रेता जयता नर इन्द्रो वः शर्म यच्छतु ।
१०,१०३.१३ उग्रा वः सन्तु बाहवोऽनाधृष्या यथासथ ॥
१०,१०४.०१ असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयम् ।
१०,१०४.०१ तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्र पिबा सुतस्य ॥
१०,१०४.०२ अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
१०,१०४.०२ मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥
१०,१०४.०३ प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
१०,१०४.०३ इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥
१०,१०४.०४ ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
१०,१०४.०४ प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥
१०,१०४.०५ प्रणीतिभिष्टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः ।
१०,१०४.०५ मंहिष्ठामूतिं वितिरे दधाना स्तोतार इन्द्र तव सूनृताभिः ॥
१०,१०४.०६ उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य ।
१०,१०४.०६ इन्द्र त्वा यज्ञः क्षममाणमानड्दाश्वां अस्यध्वरस्य प्रकेतः ॥
१०,१०४.०७ सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुवृक्तिम् ।
१०,१०४.०७ उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुः पनन्त ॥
१०,१०४.०८ सप्तापो देवीः सुरणा अमृक्ता याभिः सिन्धुमतर इन्द्र पूर्भित् ।
१०,१०४.०८ नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः ॥
१०,१०४.०९ अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि देव एकः ।
१०,१०४.०९ इन्द्र यास्त्वं वृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ॥
१०,१०४.१० वीरेण्यः क्रतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे ।
१०,१०४.१० आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः ॥
१०,१०४.११ शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
१०,१०४.११ शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥
१०,१०५.०१ कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद्वाः ।
१०,१०५.०१ दीर्घं सुतं वाताप्याय ॥
१०,१०५.०२ हरी यस्य सुयुजा विव्रता वेरर्वन्तानु शेपा ।
१०,१०५.०२ उभा रजी न केशिना पतिर्दन् ॥
१०,१०५.०३ अप योरिन्द्रः पापज आ मर्तो न शश्रमाणो बिभीवान् ।
१०,१०५.०३ शुभे यद्युयुजे तविषीवान् ॥
१०,१०५.०४ सचायोरिन्द्रश्चर्कृष आं उपानसः सपर्यन् ।
१०,१०५.०४ नदयोर्विव्रतयोः शूर इन्द्रः ॥
१०,१०५.०५ अधि यस्तस्थौ केशवन्ता व्यचस्वन्ता न पुष्ट्यै ।
१०,१०५.०५ वनोति शिप्राभ्यां शिप्रिणीवान् ॥
१०,१०५.०६ प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष शूरः शवसा ।
१०,१०५.०६ ऋभुर्न क्रतुभिर्मातरिश्वा ॥
१०,१०५.०७ वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् ।
१०,१०५.०७ अरुतहनुरद्भुतं न रजः ॥
१०,१०५.०८ अव नो वृजिना शिशीह्यृचा वनेमानृचः ।
१०,१०५.०८ नाब्रह्मा यज्ञ ऋधग्जोषति त्वे ॥
१०,१०५.०९ ऊर्ध्वा यत्ते त्रेतिनी भूद्यज्ञस्य धूर्षु सद्मन् ।
१०,१०५.०९ सजूर्नावं स्वयशसं सचायोः ॥
१०,१०५.१० श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः ।
१०,१०५.१० यया स्वे पात्रे सिञ्चस उत् ॥
१०,१०५.११ शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत् ।
१०,१०५.११ आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सम् ॥
१०,१०६.०१ उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव ।
१०,१०६.०१ सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥
१०,१०६.०२ उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुरेथः ।
१०,१०६.०२ दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥
१०,१०६.०३ साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरा गमिष्टम् ।
१०,१०६.०३ अग्निरिव देवयोर्दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥
१०,१०६.०४ आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै ।
१०,१०६.०४ इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमा गमिष्टम् ॥
१०,१०६.०५ वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता ।
१०,१०६.०५ वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥
१०,१०६.०६ सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका ।
१०,१०६.०६ उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु ॥
१०,१०६.०७ पज्रेव चर्चरं जारं मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा ।
१०,१०६.०७ ऋभू नापत्खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद्रयीणाम् ॥
१०,१०६.०८ घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारम् ।
१०,१०६.०८ पतरेव चचरा चन्द्रनिर्णिङ्मनऋङ्गा मनन्या न जग्मी ॥
१०,१०६.०९ बृहन्तेव गम्भरेषु प्रतिष्ठां पादेव गाधं तरते विदाथः ।
१०,१०६.०९ कर्णेव शासुरनु हि स्मराथोऽंशेव नो भजतं चित्रमप्नः ॥
१०,१०६.१० आरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे ।
१०,१०६.१० कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे ॥
१०,१०६.११ ऋध्याम स्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोप यातम् ।
१०,१०६.११ यशो न पक्वं मधु गोष्वन्तरा भूतांशो अश्विनोः काममप्राः ॥
१०,१०७.०१ आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि ।
१०,१०७.०१ महि ज्योतिः पितृभिर्दत्तमागादुरुः पन्था दक्षिणाया अदर्शि ॥
१०,१०७.०२ उच्चा दिवि दक्षिणावन्तो अस्थुर्ये अश्वदाः सह ते सूर्येण ।
१०,१०७.०२ हिरण्यदा अमृतत्वं भजन्ते वासोदाः सोम प्र तिरन्त आयुः ॥
१०,१०७.०३ दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणन्ति ।
१०,१०७.०३ अथा नरः प्रयतदक्षिणासोऽवद्यभिया बहवः पृणन्ति ॥
१०,१०७.०४ शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः ।
१०,१०७.०४ ये पृणन्ति प्र च यच्छन्ति संगमे ते दक्षिणां दुहते सप्तमातरम् ॥
१०,१०७.०५ दक्षिणावान्प्रथमो हूत एति दक्षिणावान्ग्रामणीरग्रमेति ।
१०,१०७.०५ तमेव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणामाविवाय ॥
१०,१०७.०६ तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासम् ।
१०,१०७.०६ स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥
१०,१०७.०७ दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चन्द्रमुत यद्धिरण्यम् ।
१०,१०७.०७ दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥
१०,१०७.०८ न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यन्ति न व्यथन्ते ह भोजाः ।
१०,१०७.०८ इदं यद्विश्वं भुवनं स्वश्चैतत्सर्वं दक्षिणैभ्यो ददाति ॥
१०,१०७.०९ भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं या सुवासाः ।
१०,१०७.०९ भोजा जिग्युरन्तःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयन्ति ॥
१०,१०७.१० भोजायाश्वं सं मृजन्त्याशुं भोजायास्ते कन्या शुम्भमाना ।
१०,१०७.१० भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रम् ॥
१०,१०७.११ भोजमश्वाः सुष्ठुवाहो वहन्ति सुवृद्रथो वर्तते दक्षिणायाः ।
१०,१०७.११ भोजं देवासोऽवता भरेषु भोजः शत्रून्समनीकेषु जेता ॥
१०,१०८.०१ किमिच्छन्ती सरमा प्रेदमानड्दूरे ह्यध्वा जगुरिः पराचैः ।
१०,१०८.०१ कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयांसि ॥
१०,१०८.०२ इन्द्रस्य दूतीरिषिता चरामि मह इच्छन्ती पणयो निधीन्वः ।
१०,१०८.०२ अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि ॥
१०,१०८.०३ कीदृङ्ङिन्द्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् ।
१०,१०८.०३ आ च गच्छान्मित्रमेना दधामाथा गवां गोपतिर्नो भवाति ॥
१०,१०८.०४ नाहं तं वेद दभ्यं दभत्स यस्येदं दूतीरसरं पराकात् ।
१०,१०८.०४ न तं गूहन्ति स्रवतो गभीरा हता इन्द्रेण पणयः शयध्वे ॥
१०,१०८.०५ इमा गावः सरमे या ऐच्छः परि दिवो अन्तान्सुभगे पतन्ती ।
१०,१०८.०५ कस्त एना अव सृजादयुध्व्युतास्माकमायुधा सन्ति तिग्मा ॥
१०,१०८.०६ असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः सन्तु पापीः ।
१०,१०८.०६ अधृष्टो व एतवा अस्तु पन्था बृहस्पतिर्व उभया न मृळात् ॥
१०,१०८.०७ अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः ।
१०,१०८.०७ रक्षन्ति तं पणयो ये सुगोपा रेकु पदमलकमा जगन्थ ॥
१०,१०८.०८ एह गमन्नृषयः सोमशिता अयास्यो अङ्गिरसो नवग्वाः ।
१०,१०८.०८ त एतमूर्वं वि भजन्त गोनामथैतद्वचः पणयो वमन्नित् ॥
१०,१०८.०९ एवा च त्वं सरम आजगन्थ प्रबाधिता सहसा दैव्येन ।
१०,१०८.०९ स्वसारं त्वा कृणवै मा पुनर्गा अप ते गवां सुभगे भजाम ॥
१०,१०८.१० नाहं वेद भ्रातृत्वं नो स्वसृत्वमिन्द्रो विदुरङ्गिरसश्च घोराः ।
१०,१०८.१० गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः ॥
१०,१०८.११ दूरमित पणयो वरीय उद्गावो यन्तु मिनतीरृतेन ।
१०,१०८.११ बृहस्पतिर्या अविन्दन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च विप्राः ॥
१०,१०९.०१ तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।
१०,१०९.०१ वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥
१०,१०९.०२ सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।
१०,१०९.०२ अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥
१०,१०९.०३ हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् ।
१०,१०९.०३ न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥
१०,१०९.०४ देवा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसे ये निषेदुः ।
१०,१०९.०४ भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥
१०,१०९.०५ ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
१०,१०९.०५ तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥
१०,१०९.०६ पुनर्वै देवा अददुः पुनर्मनुष्या उत ।
१०,१०९.०६ राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥
१०,१०९.०७ पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् ।
१०,१०९.०७ ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते ॥
१०,११०.०१ समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः ।
१०,११०.०१ आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥
१०,११०.०२ तनूनपात्पथ ऋतस्य यानान्मध्वा समञ्जन्स्वदया सुजिह्व ।
१०,११०.०२ मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥
१०,११०.०३ आजुह्वान ईड्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
१०,११०.०३ त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥
१०,११०.०४ प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
१०,११०.०४ व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥
१०,११०.०५ व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
१०,११०.०५ देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥
१०,११०.०६ आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
१०,११०.०६ दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥
१०,११०.०७ दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
१०,११०.०७ प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥
१०,११०.०८ आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयन्ती ।
१०,११०.०८ तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदन्तु ॥
१०,११०.०९ य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।
१०,११०.०९ तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥
१०,११०.१० उपावसृज त्मन्या समञ्जन्देवानां पाथ ऋतुथा हवींषि ।
१०,११०.१० वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥
१०,११०.११ सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
१०,११०.११ अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥
१०,१११.०१ मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः सन्ति नृणाम् ।
१०,१११.०१ इन्द्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥
१०,१११.०२ ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् ।
१०,१११.०२ उदतिष्ठत्तविषेणा रवेण महान्ति चित्सं विव्याचा रजांसि ॥
१०,१११.०३ इन्द्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय ।
१०,१११.०३ आन्मेनां कृण्वन्नच्युतो भुवद्गोः पतिर्दिवः सनजा अप्रतीतः ॥
१०,१११.०४ इन्द्रो मह्ना महतो अर्णवस्य व्रतामिनादङ्गिरोभिर्गृणानः ।
१०,१११.०४ पुरूणि चिन्नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥
१०,१११.०५ इन्द्रो दिवः प्रतिमानं पृथिव्या विश्वा वेद सवना हन्ति शुष्णम् ।
१०,१११.०५ महीं चिद्द्यामातनोत्सूर्येण चास्कम्भ चित्कम्भनेन स्कभीयान् ॥
१०,१११.०६ वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्य मायाः ।
१०,१११.०६ वि धृष्णो अत्र धृषता जघन्थाथाभवो मघवन्बाह्वोजाः ॥
१०,१११.०७ सचन्त यदुषसः सूर्येण चित्रामस्य केतवो रामविन्दन् ।
१०,१११.०७ आ यन्नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद ॥
१०,१११.०८ दूरं किल प्रथमा जग्मुरासामिन्द्रस्य याः प्रसवे सस्रुरापः ।
१०,१११.०८ क्व स्विदग्रं क्व बुध्न आसामापो मध्यं क्व वो नूनमन्तः ॥
१०,१११.०९ सृजः सिन्धूंरहिना जग्रसानां आदिदेताः प्र विविज्रे जवेन ।
१०,१११.०९ मुमुक्षमाणा उत या मुमुच्रेऽधेदेता न रमन्ते नितिक्ताः ॥
१०,१११.१० सध्रीचीः सिन्धुमुशतीरिवायन्सनाज्जार आरितः पूर्भिदासाम् ।
१०,१११.१० अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इन्द्र पूर्वीः ॥
१०,११२.०१ इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः ।
१०,११२.०१ हर्षस्व हन्तवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम ॥
१०,११२.०२ यस्ते रथो मनसो जवीयानेन्द्र तेन सोमपेयाय याहि ।
१०,११२.०२ तूयमा ते हरयः प्र द्रवन्तु येभिर्यासि वृषभिर्मन्दमानः ॥
१०,११२.०३ हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व ।
१०,११२.०३ अस्माभिरिन्द्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥
१०,११२.०४ यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्ताम् ।
१०,११२.०४ तदोक आ हरिभिरिन्द्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥
१०,११२.०५ यस्य शश्वत्पपिवां इन्द्र शत्रूननानुकृत्या रण्या चकर्थ ।
१०,११२.०५ स ते पुरन्धिं तविषीमियर्ति स ते मदाय सुत इन्द्र सोमः ॥
१०,११२.०६ इदं ते पात्रं सनवित्तमिन्द्र पिबा सोममेना शतक्रतो ।
१०,११२.०६ पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यन्ति देवाः ॥
१०,११२.०७ वि हि त्वामिन्द्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयन्ते ।
१०,११२.०७ अस्माकं ते मधुमत्तमानीमा भुवन्सवना तेषु हर्य ॥
१०,११२.०८ प्र त इन्द्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि ।
१०,११२.०८ सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गाम् ॥
१०,११२.०९ नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् ।
१०,११२.०९ न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवञ्चित्रमर्च ॥
१०,११२.१० अभिख्या नो मघवन्नाधमानान्सखे बोधि वसुपते सखीनाम् ।
१०,११२.१० रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥
१०,११३.०१ तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावताम् ।
१०,११३.०१ यदैत्कृण्वानो महिमानमिन्द्रियं पीत्वी सोमस्य क्रतुमां अवर्धत ॥
१०,११३.०२ तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते ।
१०,११३.०२ देवेभिरिन्द्रो मघवा सयावभिर्वृत्रं जघन्वां अभवद्वरेण्यः ॥
१०,११३.०३ वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे ।
१०,११३.०३ विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिन्द्रियम् ॥
१०,११३.०४ जज्ञान एव व्यबाधत स्पृधः प्रापश्यद्वीरो अभि पौंस्यं रणम् ।
१०,११३.०४ अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुम् ॥
१०,११३.०५ आदिन्द्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत ।
१०,११३.०५ अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे ॥
१०,११३.०६ इन्द्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयन्त मन्यवे ।
१०,११३.०६ वृत्रं यदुग्रो व्यवृश्चदोजसापो बिभ्रतं तमसा परीवृतम् ॥
१०,११३.०७ या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौ समीयतुः ।
१०,११३.०७ ध्वान्तं तमोऽव दध्वसे हत इन्द्रो मह्ना पूर्वहूतावपत्यत ॥
१०,११३.०८ विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्सोमवत्या वचस्यया ।
१०,११३.०८ रद्धं वृत्रमहिमिन्द्रस्य हन्मनाग्निर्न जम्भैस्तृष्वन्नमावयत् ॥
१०,११३.०९ भूरि दक्षेभिर्वचनेभिरृक्वभिः सख्येभिः सख्यानि प्र वोचत ।
१०,११३.०९ इन्द्रो धुनिं च चुमुरिं च दम्भयञ्छ्रद्धामनस्या शृणुते दभीतये ॥
१०,११३.१० त्वं पुरूण्या भरा स्वश्व्या येभिर्मंसै निवचनानि शंसन् ।
१०,११३.१० सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्विया गाधमद्य ॥
१०,११४.०१ घर्मा समन्ता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम ।
१०,११४.०१ दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कम् ॥
१०,११४.०२ तिस्रो देष्ट्राय निरृतीरुपासते दीर्घश्रुतो वि हि जानन्ति वह्नयः ।
१०,११४.०२ तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥
१०,११४.०३ चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।
१०,११४.०३ तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयम् ॥
१०,११४.०४ एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे ।
१०,११४.०४ तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥
१०,११४.०५ सुपर्णं विप्राः कवयो वचोभिरेकं सन्तं बहुधा कल्पयन्ति ।
१०,११४.०५ छन्दांसि च दधतो अध्वरेषु ग्रहान्सोमस्य मिमते द्वादश ॥
१०,११४.०६ षट्त्रिंशांश्च चतुरः कल्पयन्तश्छन्दांसि च दधत आद्वादशम् ।
१०,११४.०६ यज्ञं विमाय कवयो मनीष ऋक्सामाभ्यां प्र रथं वर्तयन्ति ॥
१०,११४.०७ चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयन्ति सप्त ।
१०,११४.०७ आप्नानं तीर्थं क इह प्र वोचद्येन पथा प्रपिबन्ते सुतस्य ॥
१०,११४.०८ सहस्रधा पञ्चदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् ।
१०,११४.०८ सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् ॥
१०,११४.०९ कश्छन्दसां योगमा वेद धीरः को धिष्ण्यां प्रति वाचं पपाद ।
१०,११४.०९ कमृत्विजामष्टमं शूरमाहुर्हरी इन्द्रस्य नि चिकाय कः स्वित् ॥
१०,११४.१० भूम्या अन्तं पर्येके चरन्ति रथस्य धूर्षु युक्तासो अस्थुः ।
१०,११४.१० श्रमस्य दायं वि भजन्त्येभ्यो यदा यमो भवति हर्म्ये हितः ॥
१०,११५.०१ चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे ।
१०,११५.०१ अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥
१०,११५.०२ अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवते भस्मना दता ।
१०,११५.०२ अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥
१०,११५.०३ तं वो विं न द्रुषदं देवमन्धस इन्दुं प्रोथन्तं प्रवपन्तमर्णवम् ।
१०,११५.०३ आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजन्तमध्वनः ॥
१०,११५.०४ वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि सन्त्यच्युताः ।
१०,११५.०४ आ रण्वासो युयुधयो न सत्वनं त्रितं नशन्त प्र शिषन्त इष्टये ॥
१०,११५.०५ स इदग्निः कण्वतमः कण्वसखार्यः परस्यान्तरस्य तरुषः ।
१०,११५.०५ अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः ॥
१०,११५.०६ वाजिन्तमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे ।
१०,११५.०६ अनुद्रे चिद्यो धृषता वरं सते महिन्तमाय धन्वनेदविष्यते ॥
१०,११५.०७ एवाग्निर्मर्तैः सह सूरिभिर्वसु ष्टवे सहसः सूनरो नृभिः ।
१०,११५.०७ मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि सन्ति मानुषान् ॥
१०,११५.०८ ऊर्जो नपात्सहसावन्निति त्वोपस्तुतस्य वन्दते वृषा वाक् ।
१०,११५.०८ त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥
१०,११५.०९ इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन् ।
१०,११५.०९ तांश्च पाहि गृणतश्च सूरीन्वषड्वषळ् इत्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन् ॥
१०,११६.०१ पिबा सोमं महत इन्द्रियाय पिबा वृत्राय हन्तवे शविष्ठ ।
१०,११६.०१ पिब राये शवसे हूयमानः पिब मध्वस्तृपदिन्द्रा वृषस्व ॥
१०,११६.०२ अस्य पिब क्षुमतः प्रस्थितस्येन्द्र सोमस्य वरमा सुतस्य ।
१०,११६.०२ स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥
१०,११६.०३ ममत्तु त्वा दिव्यः सोम इन्द्र ममत्तु यः सूयते पार्थिवेषु ।
१०,११६.०३ ममत्तु येन वरिवश्चकर्थ ममत्तु येन निरिणासि शत्रून् ॥
१०,११६.०४ आ द्विबर्हा अमिनो यात्विन्द्रो वृषा हरिभ्यां परिषिक्तमन्धः ।
१०,११६.०४ गव्या सुतस्य प्रभृतस्य मध्वः सत्रा खेदामरुशहा वृषस्व ॥
१०,११६.०५ नि तिग्मानि भ्राशयन्भ्राश्यान्यव स्थिरा तनुहि यातुजूनाम् ।
१०,११६.०५ उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून्विगदेषु वृश्च ॥
१०,११६.०६ व्यर्य इन्द्र तनुहि श्रवांस्योज स्थिरेव धन्वनोऽभिमातीः ।
१०,११६.०६ अस्मद्र्यग्वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व ॥
१०,११६.०७ इदं हविर्मघवन्तुभ्यं रातं प्रति सम्राळ् अहृणानो गृभाय ।
१०,११६.०७ तुभ्यं सुतो मघवन्तुभ्यं पक्वोऽद्धीन्द्र पिब च प्रस्थितस्य ॥
१०,११६.०८ अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमम् ।
१०,११६.०८ प्रयस्वन्तः प्रति हर्यामसि त्वा सत्याः सन्तु यजमानस्य कामाः ॥
१०,११६.०९ प्रेन्द्राग्निभ्यां सुवचस्यामियर्मि सिन्धाविव प्रेरयं नावमर्कैः ।
१०,११६.०९ अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश्च ॥
१०,११७.०१ न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छन्ति मृत्यवः ।
१०,११७.०१ उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विन्दते ॥
१०,११७.०२ य आध्राय चकमानाय पित्वोऽन्नवान्सन्रफितायोपजग्मुषे ।
१०,११७.०२ स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विन्दते ॥
१०,११७.०३ स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय ।
१०,११७.०३ अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायम् ॥
१०,११७.०४ न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः ।
१०,११७.०४ अपास्मात्प्रेयान्न तदोको अस्ति पृणन्तमन्यमरणं चिदिच्छेत् ॥
१०,११७.०५ पृणीयादिन्नाधमानाय तव्यान्द्राघीयांसमनु पश्येत पन्थाम् ।
१०,११७.०५ ओ हि वर्तन्ते रथ्येव चक्रान्यमन्यमुप तिष्ठन्त रायः ॥
१०,११७.०६ मोघमन्नं विन्दते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य ।
१०,११७.०६ नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥
१०,११७.०७ कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृङ्क्ते चरित्रैः ।
१०,११७.०७ वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणन्तमभि ष्यात् ॥
१०,११७.०८ एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् ।
१०,११७.०८ चतुष्पादेति द्विपदामभिस्वरे सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥
१०,११७.०९ समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते ।
१०,११७.०९ यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्सन्तौ न समं पृणीतः ॥
१०,११८.०१ अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा ।
१०,११८.०१ स्वे क्षये शुचिव्रत ॥
१०,११८.०२ उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे ।
१०,११८.०२ यत्त्वा स्रुचः समस्थिरन् ॥
१०,११८.०३ स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा ।
१०,११८.०३ स्रुचा प्रतीकमज्यते ॥
१०,११८.०४ घृतेनाग्निः समज्यते मधुप्रतीक आहुतः ।
१०,११८.०४ रोचमानो विभावसुः ॥
१०,११८.०५ जरमाणः समिध्यसे देवेभ्यो हव्यवाहन ।
१०,११८.०५ तं त्वा हवन्त मर्त्याः ॥
१०,११८.०६ तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत ।
१०,११८.०६ अदाभ्यं गृहपतिम् ॥
१०,११८.०७ अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह ।
१०,११८.०७ गोपा ऋतस्य दीदिहि ॥
१०,११८.०८ स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः ।
१०,११८.०८ उरुक्षयेषु दीद्यत् ॥
१०,११८.०९ तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे ।
१०,११८.०९ यजिष्ठं मानुषे जने ॥
१०,११९.०१ इति वा इति मे मनो गामश्वं सनुयामिति ।
१०,११९.०१ कुवित्सोमस्यापामिति ॥
१०,११९.०२ प्र वाता इव दोधत उन्मा पीता अयंसत ।
१०,११९.०२ कुवित्सोमस्यापामिति ॥
१०,११९.०३ उन्मा पीता अयंसत रथमश्वा इवाशवः ।
१०,११९.०३ कुवित्सोमस्यापामिति ॥
१०,११९.०४ उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियम् ।
१०,११९.०४ कुवित्सोमस्यापामिति ॥
१०,११९.०५ अहं तष्टेव वन्धुरं पर्यचामि हृदा मतिम् ।
१०,११९.०५ कुवित्सोमस्यापामिति ॥
१०,११९.०६ नहि मे अक्षिपच्चनाच्छान्त्सुः पञ्च कृष्टयः ।
१०,११९.०६ कुवित्सोमस्यापामिति ॥
१०,११९.०७ नहि मे रोदसी उभे अन्यं पक्षं चन प्रति ।
१०,११९.०७ कुवित्सोमस्यापामिति ॥
१०,११९.०८ अभि द्यां महिना भुवमभीमां पृथिवीं महीम् ।
१०,११९.०८ कुवित्सोमस्यापामिति ॥
१०,११९.०९ हन्ताहं पृथिवीमिमां नि दधानीह वेह वा ।
१०,११९.०९ कुवित्सोमस्यापामिति ॥
१०,११९.१० ओषमित्पृथिवीमहं जङ्घनानीह वेह वा ।
१०,११९.१० कुवित्सोमस्यापामिति ॥
१०,११९.११ दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषम् ।
१०,११९.११ कुवित्सोमस्यापामिति ॥
१०,११९.१२ अहमस्मि महामहोऽभिनभ्यमुदीषितः ।
१०,११९.१२ कुवित्सोमस्यापामिति ॥
१०,११९.१३ गृहो याम्यरङ्कृतो देवेभ्यो हव्यवाहनः ।
१०,११९.१३ कुवित्सोमस्यापामिति ॥
१०,१२०.०१ तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
१०,१२०.०१ सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥
१०,१२०.०२ वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
१०,१२०.०२ अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥
१०,१२०.०३ त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।
१०,१२०.०३ स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥
१०,१२०.०४ इति चिद्धि त्वा धना जयन्तं मदेमदे अनुमदन्ति विप्राः ।
१०,१२०.०४ ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्यातुधाना दुरेवाः ॥
१०,१२०.०५ त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
१०,१२०.०५ चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥
१०,१२०.०६ स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् ।
१०,१२०.०६ आ दर्षते शवसा सप्त दानून्प्र साक्षते प्रतिमानानि भूरि ॥
१०,१२०.०७ नि तद्दधिषेऽवरं परं च यस्मिन्नाविथावसा दुरोणे ।
१०,१२०.०७ आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥
१०,१२०.०८ इमा ब्रह्म बृहद्दिवो विवक्तीन्द्राय शूषमग्रियः स्वर्षाः ।
१०,१२०.०८ महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥
१०,१२०.०९ एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
१०,१२०.०९ स्वसारो मातरिभ्वरीररिप्रा हिन्वन्ति च शवसा वर्धयन्ति च ॥
१०,१२१.०१ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
१०,१२१.०१ स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
१०,१२१.०२ य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
१०,१२१.०२ यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
१०,१२१.०३ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।
१०,१२१.०३ य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥
१०,१२१.०४ यस्येमे हिमवन्तो महित्वा यस्य समुद्रं रसया सहाहुः ।
१०,१२१.०४ यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
१०,१२१.०५ येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्व स्तभितं येन नाकः ।
१०,१२१.०५ यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
१०,१२१.०६ यं क्रन्दसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने ।
१०,१२१.०६ यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥
१०,१२१.०७ आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयन्तीरग्निम् ।
१०,१२१.०७ ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥
१०,१२१.०८ यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयन्तीर्यज्ञम् ।
१०,१२१.०८ यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ॥
१०,१२१.०९ मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान ।
१०,१२१.०९ यश्चापश्चन्द्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥
१०,१२१.१० प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव ।
१०,१२१.१० यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ॥
१०,१२२.०१ वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यम् ।
१०,१२२.०१ स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यम् ॥
१०,१२२.०२ जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो ।
१०,१२२.०२ घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्ननु व्रतम् ॥
१०,१२२.०३ सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व ।
१०,१२२.०३ सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट्समिधा तं जुषस्व ॥
१०,१२२.०४ यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मन्त ईळते सप्त वाजिनम् ।
१०,१२२.०४ शृण्वन्तमग्निं घृतपृष्ठमुक्षणं पृणन्तं देवं पृणते सुवीर्यम् ॥
१०,१२२.०५ त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व ।
१०,१२२.०५ त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः ॥
१०,१२२.०६ इषं दुहन्सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो ।
१०,१२२.०६ अग्ने घृतस्नुस्त्रिरृतानि दीद्यद्वर्तिर्यज्ञं परियन्सुक्रतूयसे ॥
१०,१२२.०७ त्वामिदस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजन्त मानुषाः ।
१०,१२२.०७ त्वां देवा महयाय्याय वावृधुराज्यमग्ने निमृजन्तो अध्वरे ॥
१०,१२२.०८ नि त्वा वसिष्ठा अह्वन्त वाजिनं गृणन्तो अग्ने विदथेषु वेधसः ।
१०,१२२.०८ रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः ॥
१०,१२३.०१ अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
१०,१२३.०१ इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
१०,१२३.०२ समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि ।
१०,१२३.०२ ऋतस्य सानावधि विष्टपि भ्राट्समानं योनिमभ्यनूषत व्राः ॥
१०,१२३.०३ समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः ।
१०,१२३.०३ ऋतस्य सानावधि चक्रमाणा रिहन्ति मध्वो अमृतस्य वाणीः ॥
१०,१२३.०४ जानन्तो रूपमकृपन्त विप्रा मृगस्य घोषं महिषस्य हि ग्मन् ।
१०,१२३.०४ ऋतेन यन्तो अधि सिन्धुमस्थुर्विदद्गन्धर्वो अमृतानि नाम ॥
१०,१२३.०५ अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् ।
१०,१२३.०५ चरत्प्रियस्य योनिषु प्रियः सन्सीदत्पक्षे हिरण्यये स वेनः ॥
१०,१२३.०६ नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।
१०,१२३.०६ हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम् ॥
१०,१२३.०७ ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि ।
१०,१२३.०७ वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि ॥
१०,१२३.०८ द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।
१०,१२३.०८ भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥
१०,१२४.०१ इमं नो अग्न उप यज्ञमेहि पञ्चयामं त्रिवृतं सप्ततन्तुम् ।
१०,१२४.०१ असो हव्यवाळ् उत नः पुरोगा ज्योगेव दीर्घं तम आशयिष्ठाः ॥
१०,१२४.०२ अदेवाद्देवः प्रचता गुहा यन्प्रपश्यमानो अमृतत्वमेमि ।
१०,१२४.०२ शिवं यत्सन्तमशिवो जहामि स्वात्सख्यादरणीं नाभिमेमि ॥
१०,१२४.०३ पश्यन्नन्यस्या अतिथिं वयाया ऋतस्य धाम वि मिमे पुरूणि ।
१०,१२४.०३ शंसामि पित्रे असुराय शेवमयज्ञियाद्यज्ञियं भागमेमि ॥
१०,१२४.०४ बह्वीः समा अकरमन्तरस्मिन्निन्द्रं वृणानः पितरं जहामि ।
१०,१२४.०४ अग्निः सोमो वरुणस्ते च्यवन्ते पर्यावर्द्राष्ट्रं तदवाम्यायन् ॥
१०,१२४.०५ निर्माया उ त्ये असुरा अभूवन्त्वं च मा वरुण कामयासे ।
१०,१२४.०५ ऋतेन राजन्ननृतं विविञ्चन्मम राष्ट्रस्याधिपत्यमेहि ॥
१०,१२४.०६ इदं स्वरिदमिदास वाममयं प्रकाश उर्वन्तरिक्षम् ।
१०,१२४.०६ हनाव वृत्रं निरेहि सोम हविष्ट्वा सन्तं हविषा यजाम ॥
१०,१२४.०७ कविः कवित्वा दिवि रूपमासजदप्रभूती वरुणो निरपः सृजत् ।
१०,१२४.०७ क्षेमं कृण्वाना जनयो न सिन्धवस्ता अस्य वर्णं शुचयो भरिभ्रति ॥
१०,१२४.०८ ता अस्य ज्येष्ठमिन्द्रियं सचन्ते ता ईमा क्षेति स्वधया मदन्तीः ।
१०,१२४.०८ ता ईं विशो न राजानं वृणाना बीभत्सुवो अप वृत्रादतिष्ठन् ॥
१०,१२४.०९ बीभत्सूनां सयुजं हंसमाहुरपां दिव्यानां सख्ये चरन्तम् ।
१०,१२४.०९ अनुष्टुभमनु चर्चूर्यमाणमिन्द्रं नि चिक्युः कवयो मनीषा ॥
१०,१२५.०१ अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
१०,१२५.०१ अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥
१०,१२५.०२ अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
१०,१२५.०२ अहं दधामि द्रविणं हविष्मते सुप्राव्ये यजमानाय सुन्वते ॥
१०,१२५.०३ अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
१०,१२५.०३ तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तीम् ॥
१०,१२५.०४ मया सो अन्नमत्ति यो विपश्यति यः प्राणिति य ईं शृणोत्युक्तम् ।
१०,१२५.०४ अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रद्धिवं ते वदामि ॥
१०,१२५.०५ अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुत मानुषेभिः ।
१०,१२५.०५ यं कामये तंतमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥
१०,१२५.०६ अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
१०,१२५.०६ अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आ विवेश ॥
१०,१२५.०७ अहं सुवे पितरमस्य मूर्धन्मम योनिरप्स्वन्तः समुद्रे ।
१०,१२५.०७ ततो वि तिष्ठे भुवनानु विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥
१०,१२५.०८ अहमेव वात इव प्र वाम्यारभमाणा भुवनानि विश्वा ।
१०,१२५.०८ परो दिवा पर एना पृथिव्यैतावती महिना सं बभूव ॥
१०,१२६.०१ न तमंहो न दुरितं देवासो अष्ट मर्त्यम् ।
१०,१२६.०१ सजोषसो यमर्यमा मित्रो नयन्ति वरुणो अति द्विषः ॥
१०,१२६.०२ तद्धि वयं वृणीमहे वरुण मित्रार्यमन् ।
१०,१२६.०२ येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विषः ॥
१०,१२६.०३ ते नूनं नोऽयमूतये वरुणो मित्रो अर्यमा ।
१०,१२६.०३ नयिष्ठा उ नो नेषणि पर्षिष्ठा उ नः पर्षण्यति द्विषः ॥
१०,१२६.०४ यूयं विश्वं परि पाथ वरुणो मित्रो अर्यमा ।
१०,१२६.०४ युष्माकं शर्मणि प्रिये स्याम सुप्रणीतयोऽति द्विषः ॥
१०,१२६.०५ आदित्यासो अति स्रिधो वरुणो मित्रो अर्यमा ।
१०,१२६.०५ उग्रं मरुद्भी रुद्रं हुवेमेन्द्रमग्निं स्वस्तयेऽति द्विषः ॥
१०,१२६.०६ नेतार ऊ षु णस्तिरो वरुणो मित्रो अर्यमा ।
१०,१२६.०६ अति विश्वानि दुरिता राजानश्चर्षणीनामति द्विषः ॥
१०,१२६.०७ शुनमस्मभ्यमूतये वरुणो मित्रो अर्यमा ।
१०,१२६.०७ शर्म यच्छन्तु सप्रथ आदित्यासो यदीमहे अति द्विषः ॥
१०,१२६.०८ यथा ह त्यद्वसवो गौर्यं चित्पदि षिताममुञ्चता यजत्राः ।
१०,१२६.०८ एवो ष्वस्मन्मुञ्चता व्यंहः प्र तार्यग्ने प्रतरं न आयुः ॥
१०,१२७.०१ रात्री व्यख्यदायती पुरुत्रा देव्यक्षभिः ।
१०,१२७.०१ विश्वा अधि श्रियोऽधित ॥
१०,१२७.०२ ओर्वप्रा अमर्त्या निवतो देव्युद्वतः ।
१०,१२७.०२ ज्योतिषा बाधते तमः ॥
१०,१२७.०३ निरु स्वसारमस्कृतोषसं देव्यायती ।
१०,१२७.०३ अपेदु हासते तमः ॥
१०,१२७.०४ सा नो अद्य यस्या वयं नि ते यामन्नविक्ष्महि ।
१०,१२७.०४ वृक्षे न वसतिं वयः ॥
१०,१२७.०५ नि ग्रामासो अविक्षत नि पद्वन्तो नि पक्षिणः ।
१०,१२७.०५ नि श्येनासश्चिदर्थिनः ॥
१०,१२७.०६ यावया वृक्यं वृकं यवय स्तेनमूर्म्ये ।
१०,१२७.०६ अथा नः सुतरा भव ॥
१०,१२७.०७ उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित ।
१०,१२७.०७ उष ऋणेव यातय ॥
१०,१२७.०८ उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ।
१०,१२७.०८ रात्रि स्तोमं न जिग्युषे ॥
१०,१२८.०१ ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
१०,१२८.०१ मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥
१०,१२८.०२ मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
१०,१२८.०२ ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामे अस्मिन् ॥
१०,१२८.०३ मयि देवा द्रविणमा यजन्तां मय्याशीरस्तु मयि देवहूतिः ।
१०,१२८.०३ दैव्या होतारो वनुषन्त पूर्वेऽरिष्टाः स्याम तन्वा सुवीराः ॥
१०,१२८.०४ मह्यं यजन्तु मम यानि हव्याकूतिः सत्या मनसो मे अस्तु ।
१०,१२८.०४ एनो मा नि गां कतमच्चनाहं विश्वे देवासो अधि वोचता नः ॥
१०,१२८.०५ देवीः षळ् उर्वीरुरु नः कृणोत विश्वे देवास इह वीरयध्वम् ।
१०,१२८.०५ मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥
१०,१२८.०६ अग्ने मन्युं प्रतिनुदन्परेषामदब्धो गोपाः परि पाहि नस्त्वम् ।
१०,१२८.०६ प्रत्यञ्चो यन्तु निगुतः पुनस्तेऽमैषां चित्तं प्रबुधां वि नेशत् ॥
१०,१२८.०७ धाता धातॄणां भुवनस्य यस्पतिर्देवं त्रातारमभिमातिषाहम् ।
१०,१२८.०७ इमं यज्ञमश्विनोभा बृहस्पतिर्देवाः पान्तु यजमानं न्यर्थात् ॥
१०,१२८.०८ उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः ।
१०,१२८.०८ स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः ॥
१०,१२८.०९ ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामहे तान् ।
१०,१२८.०९ वसवो रुद्रा आदित्या उपरिस्पृशं मोग्रं चेत्तारमधिराजमक्रन् ॥
१०,१२९.०१ नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।
१०,१२९.०१ किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम् ॥
१०,१२९.०२ न मृत्युरासीदमृतं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः ।
१०,१२९.०२ आनीदवातं स्वधया तदेकं तस्माद्धान्यन्न परः किं चनास ॥
१०,१२९.०३ तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतं सलिलं सर्वमा इदम् ।
१०,१२९.०३ तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम् ॥
१०,१२९.०४ कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमं यदासीत् ।
१०,१२९.०४ सतो बन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयो मनीषा ॥
१०,१२९.०५ तिरश्चीनो विततो रश्मिरेषामधः स्विदासी३ उपरि स्विदासी३ ।
१०,१२९.०५ रेतोधा आसन्महिमान आसन्स्वधा अवस्तात्प्रयतिः परस्तात् ॥
१०,१२९.०६ को अद्धा वेद क इह प्र वोचत्कुत आजाता कुत इयं विसृष्टिः ।
१०,१२९.०६ अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यत आबभूव ॥
१०,१२९.०७ इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न ।
१०,१२९.०७ यो अस्याध्यक्षः परमे व्योमन्सो अङ्ग वेद यदि वा न वेद ॥
१०,१३०.०१ यो यज्ञो विश्वतस्तन्तुभिस्तत एकशतं देवकर्मेभिरायतः ।
१०,१३०.०१ इमे वयन्ति पितरो य आययुः प्र वयाप वयेत्यासते तते ॥
१०,१३०.०२ पुमां एनं तनुत उत्कृणत्ति पुमान्वि तत्ने अधि नाके अस्मिन् ।
१०,१३०.०२ इमे मयूखा उप सेदुरू सदः सामानि चक्रुस्तसराण्योतवे ॥
१०,१३०.०३ कासीत्प्रमा प्रतिमा किं निदानमाज्यं किमासीत्परिधिः क आसीत् ।
१०,१३०.०३ छन्दः किमासीत्प्रौगं किमुक्थं यद्देवा देवमयजन्त विश्वे ॥
१०,१३०.०४ अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता सं बभूव ।
१०,१३०.०४ अनुष्टुभा सोम उक्थैर्महस्वान्बृहस्पतेर्बृहती वाचमावत् ॥
१०,१३०.०५ विराण्मित्रावरुणयोरभिश्रीरिन्द्रस्य त्रिष्टुबिह भागो अह्नः ।
१०,१३०.०५ विश्वान्देवाञ्जगत्या विवेश तेन चाकॢप्र ऋषयो मनुष्याः ॥
१०,१३०.०६ चाकॢप्रे तेन ऋषयो मनुष्या यज्ञे जाते पितरो नः पुराणे ।
१०,१३०.०६ पश्यन्मन्ये मनसा चक्षसा तान्य इमं यज्ञमयजन्त पूर्वे ॥
१०,१३०.०७ सहस्तोमाः सहछन्दस आवृतः सहप्रमा ऋषयः सप्त दैव्याः ।
१०,१३०.०७ पूर्वेषां पन्थामनुदृश्य धीरा अन्वालेभिरे रथ्यो न रश्मीन् ॥
१०,१३१.०१ अप प्राच इन्द्र विश्वां अमित्रानपापाचो अभिभूते नुदस्व ।
१०,१३१.०१ अपोदीचो अप शूराधराच उरौ यथा तव शर्मन्मदेम ॥
१०,१३१.०२ कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
१०,१३१.०२ इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
१०,१३१.०३ नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।
१०,१३१.०३ गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥
१०,१३१.०४ युवं सुराममश्विना नमुचावासुरे सचा ।
१०,१३१.०४ विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥
१०,१३१.०५ पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।
१०,१३१.०५ यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥
१०,१३१.०६ इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः ।
१०,१३१.०६ बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
१०,१३१.०७ तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
१०,१३१.०७ स सुत्रामा स्ववां इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥
१०,१३२.०१ ईजानमिद्द्यौर्गूर्तावसुरीजानं भूमिरभि प्रभूषणि ।
१०,१३२.०१ ईजानं देवावश्विनावभि सुम्नैरवर्धताम् ॥
१०,१३२.०२ ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वता यजामसि ।
१०,१३२.०२ युवोः क्राणाय सख्यैरभि ष्याम रक्षसः ॥
१०,१३२.०३ अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्णः पत्यमानाः ।
१०,१३२.०३ दद्वां वा यत्पुष्यति रेक्णः सं वारन्नकिरस्य मघानि ॥
१०,१३२.०४ असावन्यो असुर सूयत द्यौस्त्वं विश्वेषां वरुणासि राजा ।
१०,१३२.०४ मूर्धा रथस्य चाकन्नैतावतैनसान्तकध्रुक् ॥
१०,१३२.०५ अस्मिन्स्वेतच्छकपूत एनो हिते मित्रे निगतान्हन्ति वीरान् ।
१०,१३२.०५ अवोर्वा यद्धात्तनूष्ववः प्रियासु यज्ञियास्वर्वा ॥
१०,१३२.०६ युवोर्हि मातादितिर्विचेतसा द्यौर्न भूमिः पयसा पुपूतनि ।
१०,१३२.०६ अव प्रिया दिदिष्टन सूरो निनिक्त रश्मिभिः ॥
१०,१३२.०७ युवं ह्यप्नराजावसीदतं तिष्ठद्रथं न धूर्षदं वनर्षदम् ।
१०,१३२.०७ ता नः कणूकयन्तीर्नृमेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ॥
१०,१३३.०१ प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
१०,१३३.०१ अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
१०,१३३.०२ त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिम् ।
१०,१३३.०२ अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
१०,१३३.०३ वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
१०,१३३.०३ अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
१०,१३३.०४ यो न इन्द्राभितो जनो वृकायुरादिदेशति ।
१०,१३३.०४ अधस्पदं तमीं कृधि विबाधो असि सासहिर्नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
१०,१३३.०५ यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः ।
१०,१३३.०५ अव तस्य बलं तिर महीव द्यौरध त्मना नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
१०,१३३.०६ वयमिन्द्र त्वायवः सखित्वमा रभामहे ।
१०,१३३.०६ ऋतस्य नः पथा नयाति विश्वानि दुरिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥
१०,१३३.०७ अस्मभ्यं सु त्वमिन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे ।
१०,१३३.०७ अच्छिद्रोध्नी पीपयद्यथा नः सहस्रधारा पयसा मही गौः ॥
१०,१३४.०१ उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
१०,१३४.०१ महान्तं त्वा महीनां सम्राजं चर्षणीनां देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
१०,१३४.०२ अव स्म दुर्हणायतो मर्तस्य तनुहि स्थिरम् ।
१०,१३४.०२ अधस्पदं तमीं कृधि यो अस्मां आदिदेशति देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
१०,१३४.०३ अव त्या बृहतीरिषो विश्वश्चन्द्रा अमित्रहन् ।
१०,१३४.०३ शचीभिः शक्र धूनुहीन्द्र विश्वाभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
१०,१३४.०४ अव यत्त्वं शतक्रतविन्द्र विश्वानि धूनुषे ।
१०,१३४.०४ रयिं न सुन्वते सचा सहस्रिणीभिरूतिभिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
१०,१३४.०५ अव स्वेदा इवाभितो विष्वक्पतन्तु दिद्यवः ।
१०,१३४.०५ दूर्वाया इव तन्तवो व्यस्मदेतु दुर्मतिर्देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
१०,१३४.०६ दीर्घं ह्यङ्कुशं यथा शक्तिं बिभर्षि मन्तुमः ।
१०,१३४.०६ पूर्वेण मघवन्पदाजो वयां यथा यमो देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ॥
१०,१३४.०७ नकिर्देवा मिनीमसि नकिरा योपयामसि मन्त्रश्रुत्यं चरामसि ।
१०,१३४.०७ पक्षेभिरपिकक्षेभिरत्राभि सं रभामहे ॥
१०,१३५.०१ यस्मिन्वृक्षे सुपलाशे देवैः सम्पिबते यमः ।
१०,१३५.०१ अत्रा नो विश्पतिः पिता पुराणां अनु वेनति ॥
१०,१३५.०२ पुराणां अनुवेनन्तं चरन्तं पापयामुया ।
१०,१३५.०२ असूयन्नभ्यचाकशं तस्मा अस्पृहयं पुनः ॥
१०,१३५.०३ यं कुमार नवं रथमचक्रं मनसाकृणोः ।
१०,१३५.०३ एकेषं विश्वतः प्राञ्चमपश्यन्नधि तिष्ठसि ॥
१०,१३५.०४ यं कुमार प्रावर्तयो रथं विप्रेभ्यस्परि ।
१०,१३५.०४ तं सामानु प्रावर्तत समितो नाव्याहितम् ॥
१०,१३५.०५ कः कुमारमजनयद्रथं को निरवर्तयत् ।
१०,१३५.०५ कः स्वित्तदद्य नो ब्रूयादनुदेयी यथाभवत् ॥
१०,१३५.०६ यथाभवदनुदेयी ततो अग्रमजायत ।
१०,१३५.०६ पुरस्ताद्बुध्न आततः पश्चान्निरयणं कृतम् ॥
१०,१३५.०७ इदं यमस्य सादनं देवमानं यदुच्यते ।
१०,१३५.०७ इयमस्य धम्यते नाळीरयं गीर्भिः परिष्कृतः ॥
१०,१३६.०१ केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।
१०,१३६.०१ केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥
१०,१३६.०२ मुनयो वातरशनाः पिशङ्गा वसते मला ।
१०,१३६.०२ वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥
१०,१३६.०३ उन्मदिता मौनेयेन वातां आ तस्थिमा वयम् ।
१०,१३६.०३ शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥
१०,१३६.०४ अन्तरिक्षेण पतति विश्वा रूपावचाकशत् ।
१०,१३६.०४ मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥
१०,१३६.०५ वातस्याश्वो वायोः सखाथो देवेषितो मुनिः ।
१०,१३६.०५ उभौ समुद्रावा क्षेति यश्च पूर्व उतापरः ॥
१०,१३६.०६ अप्सरसां गन्धर्वाणां मृगाणां चरणे चरन् ।
१०,१३६.०६ केशी केतस्य विद्वान्सखा स्वादुर्मदिन्तमः ॥
१०,१३६.०७ वायुरस्मा उपामन्थत्पिनष्टि स्मा कुनन्नमा ।
१०,१३६.०७ केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥
१०,१३७.०१ उत देवा अवहितं देवा उन्नयथा पुनः ।
१०,१३७.०१ उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥
१०,१३७.०२ द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।
१०,१३७.०२ दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः ॥
१०,१३७.०३ आ वात वाहि भेषजं वि वात वाहि यद्रपः ।
१०,१३७.०३ त्वं हि विश्वभेषजो देवानां दूत ईयसे ॥
१०,१३७.०४ आ त्वागमं शन्तातिभिरथो अरिष्टतातिभिः ।
१०,१३७.०४ दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते ॥
१०,१३७.०५ त्रायन्तामिह देवास्त्रायतां मरुतां गणः ।
१०,१३७.०५ त्रायन्तां विश्वा भूतानि यथायमरपा असत् ॥
१०,१३७.०६ आप इद्वा उ भेषजीरापो अमीवचातनीः ।
१०,१३७.०६ आपः सर्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥
१०,१३७.०७ हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
१०,१३७.०७ अनामयित्नुभ्यां त्वा ताभ्यां त्वोप स्पृशामसि ॥
१०,१३८.०१ तव त्य इन्द्र सख्येषु वह्नय ऋतं मन्वाना व्यदर्दिरुर्वलम् ।
१०,१३८.०१ यत्रा दशस्यन्नुषसो रिणन्नपः कुत्साय मन्मन्नह्यश्च दंसयः ॥
१०,१३८.०२ अवासृजः प्रस्वः श्वञ्चयो गिरीनुदाज उस्रा अपिबो मधु प्रियम् ।
१०,१३८.०२ अवर्धयो वनिनो अस्य दंससा शुशोच सूर्य ऋतजातया गिरा ॥
१०,१३८.०३ वि सूर्यो मध्ये अमुचद्रथं दिवो विदद्दासाय प्रतिमानमार्यः ।
१०,१३८.०३ दृळ्हानि पिप्रोरसुरस्य मायिन इन्द्रो व्यास्यच्चकृवां ऋजिश्वना ॥
१०,१३८.०४ अनाधृष्टानि धृषितो व्यास्यन्निधींरदेवां अमृणदयास्यः ।
१०,१३८.०४ मासेव सूर्यो वसु पुर्यमा ददे गृणानः शत्रूंरशृणाद्विरुक्मता ॥
१०,१३८.०५ अयुद्धसेनो विभ्वा विभिन्दता दाशद्वृत्रहा तुज्यानि तेजते ।
१०,१३८.०५ इन्द्रस्य वज्रादबिभेदभिश्नथः प्राक्रामच्छुन्ध्यूरजहादुषा अनः ॥
१०,१३८.०६ एता त्या ते श्रुत्यानि केवला यदेक एकमकृणोरयज्ञम् ।
१०,१३८.०६ मासां विधानमदधा अधि द्यवि त्वया विभिन्नं भरति प्रधिं पिता ॥
१०,१३९.०१ सूर्यरश्मिर्हरिकेशः पुरस्तात्सविता ज्योतिरुदयां अजस्रम् ।
१०,१३९.०१ तस्य पूषा प्रसवे याति विद्वान्सम्पश्यन्विश्वा भुवनानि गोपाः ॥
१०,१३९.०२ नृचक्षा एष दिवो मध्य आस्त आपप्रिवान्रोदसी अन्तरिक्षम् ।
१०,१३९.०२ स विश्वाचीरभि चष्टे घृताचीरन्तरा पूर्वमपरं च केतुम् ॥
१०,१३९.०३ रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टे शचीभिः ।
१०,१३९.०३ देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे धनानाम् ॥
१०,१३९.०४ विश्वावसुं सोम गन्धर्वमापो ददृशुषीस्तदृतेना व्यायन् ।
१०,१३९.०४ तदन्ववैदिन्द्रो रारहाण आसां परि सूर्यस्य परिधींरपश्यत् ॥
१०,१३९.०५ विश्वावसुरभि तन्नो गृणातु दिव्यो गन्धर्वो रजसो विमानः ।
१०,१३९.०५ यद्वा घा सत्यमुत यन्न विद्म धियो हिन्वानो धिय इन्नो अव्याः ॥
१०,१३९.०६ सस्निमविन्दच्चरणे नदीनामपावृणोद्दुरो अश्मव्रजानाम् ।
१०,१३९.०६ प्रासां गन्धर्वो अमृतानि वोचदिन्द्रो दक्षं परि जानादहीनाम् ॥
१०,१४०.०१ अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
१०,१४०.०१ बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥
१०,१४०.०२ पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
१०,१४०.०२ पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥
१०,१४०.०३ ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।
१०,१४०.०३ त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥
१०,१४०.०४ इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
१०,१४०.०४ स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥
१०,१४०.०५ इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
१०,१४०.०५ रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ॥
१०,१४०.०६ ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।
१०,१४०.०६ श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥
१०,१४१.०१ अग्ने अच्छा वदेह नः प्रत्यङ्नः सुमना भव ।
१०,१४१.०१ प्र नो यच्छ विशस्पते धनदा असि नस्त्वम् ॥
१०,१४१.०२ प्र नो यच्छत्वर्यमा प्र भगः प्र बृहस्पतिः ।
१०,१४१.०२ प्र देवाः प्रोत सूनृता रायो देवी ददातु नः ॥
१०,१४१.०३ सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे ।
१०,१४१.०३ आदित्यान्विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥
१०,१४१.०४ इन्द्रवायू बृहस्पतिं सुहवेह हवामहे ।
१०,१४१.०४ यथा नः सर्व इज्जनः संगत्यां सुमना असत् ॥
१०,१४१.०५ अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।
१०,१४१.०५ वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥
१०,१४१.०६ त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
१०,१४१.०६ त्वं नो देवतातये रायो दानाय चोदय ॥
१०,१४२.०१ अयमग्ने जरिता त्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम् ।
१०,१४२.०१ भद्रं हि शर्म त्रिवरूथमस्ति त आरे हिंसानामप दिद्युमा कृधि ॥
१०,१४२.०२ प्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना न्यृञ्जसे ।
१०,१४२.०२ प्र सप्तयः प्र सनिषन्त नो धियः पुरश्चरन्ति पशुपा इव त्मना ॥
१०,१४२.०३ उत वा उ परि वृणक्षि बप्सद्बहोरग्न उलपस्य स्वधावः ।
१०,१४२.०३ उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषीं चुक्रुधाम ॥
१०,१४२.०४ यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना ।
१०,१४२.०४ यदा ते वातो अनुवाति शोचिर्वप्तेव श्मश्रु वपसि प्र भूम ॥
१०,१४२.०५ प्रत्यस्य श्रेणयो ददृश्र एकं नियानं बहवो रथासः ।
१०,१४२.०५ बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥
१०,१४२.०६ उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः ।
१०,१४२.०६ उच्छ्वञ्चस्व नि नम वर्धमान आ त्वाद्य विश्वे वसवः सदन्तु ॥
१०,१४२.०७ अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
१०,१४२.०७ अन्यं कृणुष्वेतः पन्थां तेन याहि वशां अनु ॥
१०,१४२.०८ आयने ते परायणे दूर्वा रोहन्तु पुष्पिणीः ।
१०,१४२.०८ ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥
१०,१४३.०१ त्यं चिदत्रिमृतजुरमर्थमश्वं न यातवे ।
१०,१४३.०१ कक्षीवन्तं यदी पुना रथं न कृणुथो नवम् ॥
१०,१४३.०२ त्यं चिदश्वं न वाजिनमरेणवो यमत्नत ।
१०,१४३.०२ दृळ्हं ग्रन्थिं न वि ष्यतमत्रिं यविष्ठमा रजः ॥
१०,१४३.०३ नरा दंसिष्ठावत्रये शुभ्रा सिषासतं धियः ।
१०,१४३.०३ अथा हि वां दिवो नरा पुन स्तोमो न विशसे ॥
१०,१४३.०४ चिते तद्वां सुराधसा रातिः सुमतिरश्विना ।
१०,१४३.०४ आ यन्नः सदने पृथौ समने पर्षथो नरा ॥
१०,१४३.०५ युवं भुज्युं समुद्र आ रजसः पार ईङ्खितम् ।
१०,१४३.०५ यातमच्छा पतत्रिभिर्नासत्या सातये कृतम् ॥
१०,१४३.०६ आ वां सुम्नैः शंयू इव मंहिष्ठा विश्ववेदसा ।
१०,१४३.०६ समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥
१०,१४४.०१ अयं हि ते अमर्त्य इन्दुरत्यो न पत्यते ।
१०,१४४.०१ दक्षो विश्वायुर्वेधसे ॥
१०,१४४.०२ अयमस्मासु काव्य ऋभुर्वज्रो दास्वते ।
१०,१४४.०२ अयं बिभर्त्यूर्ध्वकृशनं मदमृभुर्न कृत्व्यं मदम् ॥
१०,१४४.०३ घृषुः श्येनाय कृत्वन आसु स्वासु वंसगः ।
१०,१४४.०३ अव दीधेदहीशुवः ॥
१०,१४४.०४ यं सुपर्णः परावतः श्येनस्य पुत्र आभरत् ।
१०,१४४.०४ शतचक्रं योऽह्यो वर्तनिः ॥
१०,१४४.०५ यं ते श्येनश्चारुमवृकं पदाभरदरुणं मानमन्धसः ।
१०,१४४.०५ एना वयो वि तार्यायुर्जीवस एना जागार बन्धुता ॥
१०,१४४.०६ एवा तदिन्द्र इन्दुना देवेषु चिद्धारयाते महि त्यजः ।
१०,१४४.०६ क्रत्वा वयो वि तार्यायुः सुक्रतो क्रत्वायमस्मदा सुतः ॥
१०,१४५.०१ इमां खनाम्योषधिं वीरुधं बलवत्तमाम् ।
१०,१४५.०१ यया सपत्नीं बाधते यया संविन्दते पतिम् ॥
१०,१४५.०२ उत्तानपर्णे सुभगे देवजूते सहस्वति ।
१०,१४५.०२ सपत्नीं मे परा धम पतिं मे केवलं कुरु ॥
१०,१४५.०३ उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।
१०,१४५.०३ अथा सपत्नी या ममाधरा साधराभ्यः ॥
१०,१४५.०४ नह्यस्या नाम गृभ्णामि नो अस्मिन्रमते जने ।
१०,१४५.०४ परामेव परावतं सपत्नीं गमयामसि ॥
१०,१४५.०५ अहमस्मि सहमानाथ त्वमसि सासहिः ।
१०,१४५.०५ उभे सहस्वती भूत्वी सपत्नीं मे सहावहै ॥
१०,१४५.०६ उप तेऽधां सहमानामभि त्वाधां सहीयसा ।
१०,१४५.०६ मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥
१०,१४६.०१ अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि ।
१०,१४६.०१ कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती३ ॥
१०,१४६.०२ वृषारवाय वदते यदुपावति चिच्चिकः ।
१०,१४६.०२ आघाटिभिरिव धावयन्नरण्यानिर्महीयते ॥
१०,१४६.०३ उत गाव इवादन्त्युत वेश्मेव दृश्यते ।
१०,१४६.०३ उतो अरण्यानिः सायं शकटीरिव सर्जति ॥
१०,१४६.०४ गामङ्गैष आ ह्वयति दार्वङ्गैषो अपावधीत् ।
१०,१४६.०४ वसन्नरण्यान्यां सायमक्रुक्षदिति मन्यते ॥
१०,१४६.०५ न वा अरण्यानिर्हन्त्यन्यश्चेन्नाभिगच्छति ।
१०,१४६.०५ स्वादोः फलस्य जग्ध्वाय यथाकामं नि पद्यते ॥
१०,१४६.०६ आञ्जनगन्धिं सुरभिं बह्वन्नामकृषीवलाम् ।
१०,१४६.०६ प्राहं मृगाणां मातरमरण्यानिमशंसिषम् ॥
१०,१४७.०१ श्रत्ते दधामि प्रथमाय मन्यवेऽहन्यद्वृत्रं नर्यं विवेरपः ।
१०,१४७.०१ उभे यत्त्वा भवतो रोदसी अनु रेजते शुष्मात्पृथिवी चिदद्रिवः ॥
१०,१४७.०२ त्वं मायाभिरनवद्य मायिनं श्रवस्यता मनसा वृत्रमर्दयः ।
१०,१४७.०२ त्वामिन्नरो वृणते गविष्टिषु त्वां विश्वासु हव्यास्विष्टिषु ॥
१०,१४७.०३ ऐषु चाकन्धि पुरुहूत सूरिषु वृधासो ये मघवन्नानशुर्मघम् ।
१०,१४७.०३ अर्चन्ति तोके तनये परिष्टिषु मेधसाता वाजिनमह्रये धने ॥
१०,१४७.०४ स इन्नु रायः सुभृतस्य चाकनन्मदं यो अस्य रंह्यं चिकेतति ।
१०,१४७.०४ त्वावृधो मघवन्दाश्वध्वरो मक्षू स वाजं भरते धना नृभिः ॥
१०,१४७.०५ त्वं शर्धाय महिना गृणान उरु कृधि मघवञ्छग्धि रायः ।
१०,१४७.०५ त्वं नो मित्रो वरुणो न मायी पित्वो न दस्म दयसे विभक्ता ॥
१०,१४८.०१ सुष्वाणास इन्द्र स्तुमसि त्वा ससवांसश्च तुविनृम्ण वाजम् ।
१०,१४८.०१ आ नो भर सुवितं यस्य चाकन्त्मना तना सनुयाम त्वोताः ॥
१०,१४८.०२ ऋष्वस्त्वमिन्द्र शूर जातो दासीर्विशः सूर्येण सह्याः ।
१०,१४८.०२ गुहा हितं गुह्यं गूळ्हमप्सु बिभृमसि प्रस्रवणे न सोमम् ॥
१०,१४८.०३ अर्यो वा गिरो अभ्यर्च विद्वानृषीणां विप्रः सुमतिं चकानः ।
१०,१४८.०३ ते स्याम ये रणयन्त सोमैरेनोत तुभ्यं रथोळ्ह भक्षैः ॥
१०,१४८.०४ इमा ब्रह्मेन्द्र तुभ्यं शंसि दा नृभ्यो नृणां शूर शवः ।
१०,१४८.०४ तेभिर्भव सक्रतुर्येषु चाकन्नुत त्रायस्व गृणत उत स्तीन् ॥
१०,१४८.०५ श्रुधी हवमिन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः ।
१०,१४८.०५ आ यस्ते योनिं घृतवन्तमस्वारूर्मिर्न निम्नैर्द्रवयन्त वक्वाः ॥
१०,१४९.०१ सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् ।
१०,१४९.०१ अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥
१०,१४९.०२ यत्रा समुद्र स्कभितो व्यौनदपां नपात्सविता तस्य वेद ।
१०,१४९.०२ अतो भूरत आ उत्थितं रजोऽतो द्यावापृथिवी अप्रथेताम् ॥
१०,१४९.०३ पश्चेदमन्यदभवद्यजत्रममर्त्यस्य भुवनस्य भूना ।
१०,१४९.०३ सुपर्णो अङ्ग सवितुर्गरुत्मान्पूर्वो जातः स उ अस्यानु धर्म ॥
१०,१४९.०४ गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना ।
१०,१४९.०४ पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः ॥
१०,१४९.०५ हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् ।
१०,१४९.०५ एवा त्वार्चन्नवसे वन्दमानः सोमस्येवांशुं प्रति जागराहम् ॥
१०,१५०.०१ समिद्धश्चित्समिध्यसे देवेभ्यो हव्यवाहन ।
१०,१५०.०१ आदित्यै रुद्रैर्वसुभिर्न आ गहि मृळीकाय न आ गहि ॥
१०,१५०.०२ इमं यज्ञमिदं वचो जुजुषाण उपागहि ।
१०,१५०.०२ मर्तासस्त्वा समिधान हवामहे मृळीकाय हवामहे ॥
१०,१५०.०३ त्वामु जातवेदसं विश्ववारं गृणे धिया ।
१०,१५०.०३ अग्ने देवां आ वह नः प्रियव्रतान्मृळीकाय प्रियव्रतान् ॥
१०,१५०.०४ अग्निर्देवो देवानामभवत्पुरोहितोऽग्निं मनुष्या ऋषयः समीधिरे ।
१०,१५०.०४ अग्निं महो धनसातावहं हुवे मृळीकं धनसातये ॥
१०,१५०.०५ अग्निरत्रिं भरद्वाजं गविष्ठिरं प्रावन्नः कण्वं त्रसदस्युमाहवे ।
१०,१५०.०५ अग्निं वसिष्ठो हवते पुरोहितो मृळीकाय पुरोहितः ॥
१०,१५१.०१ श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः ।
१०,१५१.०१ श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥
१०,१५१.०२ प्रियं श्रद्धे ददतः प्रियं श्रद्धे दिदासतः ।
१०,१५१.०२ प्रियं भोजेषु यज्वस्विदं म उदितं कृधि ॥
१०,१५१.०३ यथा देवा असुरेषु श्रद्धामुग्रेषु चक्रिरे ।
१०,१५१.०३ एवं भोजेषु यज्वस्वस्माकमुदितं कृधि ॥
१०,१५१.०४ श्रद्धां देवा यजमाना वायुगोपा उपासते ।
१०,१५१.०४ श्रद्धां हृदय्ययाकूत्या श्रद्धया विन्दते वसु ॥
१०,१५१.०५ श्रद्धां प्रातर्हवामहे श्रद्धां मध्यन्दिनं परि ।
१०,१५१.०५ श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद्धापयेह नः ॥
१०,१५२.०१ शास इत्था महां अस्यमित्रखादो अद्भुतः ।
१०,१५२.०१ न यस्य हन्यते सखा न जीयते कदा चन ॥
१०,१५२.०२ स्वस्तिदा विशस्पतिर्वृत्रहा विमृधो वशी ।
१०,१५२.०२ वृषेन्द्रः पुर एतु नः सोमपा अभयङ्करः ॥
१०,१५२.०३ वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
१०,१५२.०३ वि मन्युमिन्द्र वृत्रहन्नमित्रस्याभिदासतः ॥
१०,१५२.०४ वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः ।
१०,१५२.०४ यो अस्मां अभिदासत्यधरं गमया तमः ॥
१०,१५२.०५ अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।
१०,१५२.०५ वि मन्योः शर्म यच्छ वरीयो यवया वधम् ॥
१०,१५३.०१ ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
१०,१५३.०१ भेजानासः सुवीर्यम् ॥
१०,१५३.०२ त्वमिन्द्र बलादधि सहसो जात ओजसः ।
१०,१५३.०२ त्वं वृषन्वृषेदसि ॥
१०,१५३.०३ त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।
१०,१५३.०३ उद्द्यामस्तभ्ना ओजसा ॥
१०,१५३.०४ त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
१०,१५३.०४ वज्रं शिशान ओजसा ॥
१०,१५३.०५ त्वमिन्द्राभिभूरसि विश्वा जातान्योजसा ।
१०,१५३.०५ स विश्वा भुव आभवः ॥
१०,१५४.०१ सोम एकेभ्यः पवते घृतमेक उपासते ।
१०,१५४.०१ येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात् ॥
१०,१५४.०२ तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
१०,१५४.०२ तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात् ॥
१०,१५४.०३ ये युध्यन्ते प्रधनेषु शूरासो ये तनूत्यजः ।
१०,१५४.०३ ये वा सहस्रदक्षिणास्तांश्चिदेवापि गच्छतात् ॥
१०,१५४.०४ ये चित्पूर्व ऋतसाप ऋतावान ऋतावृधः ।
१०,१५४.०४ पितॄन्तपस्वतो यम तांश्चिदेवापि गच्छतात् ॥
१०,१५४.०५ सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
१०,१५४.०५ ऋषीन्तपस्वतो यम तपोजां अपि गच्छतात् ॥
१०,१५५.०१ अरायि काणे विकटे गिरिं गच्छ सदान्वे ।
१०,१५५.०१ शिरिम्बिठस्य सत्वभिस्तेभिष्ट्वा चातयामसि ॥
१०,१५५.०२ चत्तो इतश्चत्तामुतः सर्वा भ्रूणान्यारुषी ।
१०,१५५.०२ अराय्यं ब्रह्मणस्पते तीक्ष्णशृण्गोदृषन्निहि ॥
१०,१५५.०३ अदो यद्दारु प्लवते सिन्धोः पारे अपूरुषम् ।
१०,१५५.०३ तदा रभस्व दुर्हणो तेन गच्छ परस्तरम् ॥
१०,१५५.०४ यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।
१०,१५५.०४ हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥
१०,१५५.०५ परीमे गामनेषत पर्यग्निमहृषत ।
१०,१५५.०५ देवेष्वक्रत श्रवः क इमां आ दधर्षति ॥
१०,१५६.०१ अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।
१०,१५६.०१ तेन जेष्म धनंधनम् ॥
१०,१५६.०२ यया गा आकरामहे सेनयाग्ने तवोत्या ।
१०,१५६.०२ तां नो हिन्व मघत्तये ॥
१०,१५६.०३ आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनम् ।
१०,१५६.०३ अङ्धि खं वर्तया पणिम् ॥
१०,१५६.०४ अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि ।
१०,१५६.०४ दधज्ज्योतिर्जनेभ्यः ॥
१०,१५६.०५ अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।
१०,१५६.०५ बोधा स्तोत्रे वयो दधत् ॥
१०,१५७.०१ इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ॥
१०,१५७.०२ यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥
१०,१५७.०३ आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ॥
१०,१५७.०४ हत्वाय देवा असुरान्यदायन्देवा देवत्वमभिरक्षमाणाः ॥
१०,१५७.०५ प्रत्यञ्चमर्कमनयञ्छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ॥
१०,१५८.०१ सूर्यो नो दिवस्पातु वातो अन्तरिक्षात् ।
१०,१५८.०१ अग्निर्नः पार्थिवेभ्यः ॥
१०,१५८.०२ जोषा सवितर्यस्य ते हरः शतं सवां अर्हति ।
१०,१५८.०२ पाहि नो दिद्युतः पतन्त्याः ॥
१०,१५८.०३ चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः ।
१०,१५८.०३ चक्षुर्धाता दधातु नः ॥
१०,१५८.०४ चक्षुर्नो धेहि चक्षुषे चक्षुर्विख्यै तनूभ्यः ।
१०,१५८.०४ सं चेदं वि च पश्येम ॥
१०,१५८.०५ सुसंदृशं त्वा वयं प्रति पश्येम सूर्य ।
१०,१५८.०५ वि पश्येम नृचक्षसः ॥
१०,१५९.०१ उदसौ सूर्यो अगादुदयं मामको भगः ।
१०,१५९.०१ अहं तद्विद्वला पतिमभ्यसाक्षि विषासहिः ॥
१०,१५९.०२ अहं केतुरहं मूर्धाहमुग्रा विवाचनी ।
१०,१५९.०२ ममेदनु क्रतुं पतिः सेहानाया उपाचरेत् ॥
१०,१५९.०३ मम पुत्राः शत्रुहणोऽथो मे दुहिता विराट् ।
१०,१५९.०३ उताहमस्मि संजया पत्यौ मे श्लोक उत्तमः ॥
१०,१५९.०४ येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
१०,१५९.०४ इदं तदक्रि देवा असपत्ना किलाभुवम् ॥
१०,१५९.०५ असपत्ना सपत्नघ्नी जयन्त्यभिभूवरी ।
१०,१५९.०५ आवृक्षमन्यासां वर्चो राधो अस्थेयसामिव ॥
१०,१५९.०६ समजैषमिमा अहं सपत्नीरभिभूवरी ।
१०,१५९.०६ यथाहमस्य वीरस्य विराजानि जनस्य च ॥
१०,१६०.०१ तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
१०,१६०.०१ इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन्तुभ्यमिमे सुतासः ॥
१०,१६०.०२ तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति ।
१०,१६०.०२ इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वां इह पाहि सोमम् ॥
१०,१६०.०३ य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।
१०,१६०.०३ न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥
१०,१६०.०४ अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान्न सुनोति सोमम् ।
१०,१६०.०४ निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥
१०,१६०.०५ अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
१०,१६०.०५ आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥
१०,१६१.०१ मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात् ।
१०,१६१.०१ ग्राहिर्जग्राह यदि वैतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥
१०,१६१.०२ यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
१०,१६१.०२ तमा हरामि निरृतेरुपस्थादस्पार्षमेनं शतशारदाय ॥
१०,१६१.०३ सहस्राक्षेण शतशारदेन शतायुषा हविषाहार्षमेनम् ।
१०,१६१.०३ शतं यथेमं शरदो नयातीन्द्रो विश्वस्य दुरितस्य पारम् ॥
१०,१६१.०४ शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् ।
१०,१६१.०४ शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ॥
१०,१६१.०५ आहार्षं त्वाविदं त्वा पुनरागाः पुनर्नव ।
१०,१६१.०५ सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥
१०,१६२.०१ ब्रह्मणाग्निः संविदानो रक्षोहा बाधतामितः ।
१०,१६२.०१ अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥
१०,१६२.०२ यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
१०,१६२.०२ अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत् ॥
१०,१६२.०३ यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
१०,१६२.०३ जातं यस्ते जिघांसति तमितो नाशयामसि ॥
१०,१६२.०४ यस्त ऊरू विहरत्यन्तरा दम्पती शये ।
१०,१६२.०४ योनिं यो अन्तरारेळ्हि तमितो नाशयामसि ॥
१०,१६२.०५ यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।
१०,१६२.०५ प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥
१०,१६२.०६ यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
१०,१६२.०६ प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥
१०,१६३.०१ अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
१०,१६३.०१ यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥
१०,१६३.०२ ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात् ।
१०,१६३.०२ यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥
१०,१६३.०३ आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोर्हृदयादधि ।
१०,१६३.०३ यक्ष्मं मतस्नाभ्यां यक्नः प्लाशिभ्यो वि वृहामि ते ॥
१०,१६३.०४ ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
१०,१६३.०४ यक्ष्मं श्रोणिभ्यां भासदाद्भंससो वि वृहामि ते ॥
१०,१६३.०५ मेहनाद्वनङ्करणाल्लोमभ्यस्ते नखेभ्यः ।
१०,१६३.०५ यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥
१०,१६३.०६ अङ्गादङ्गाल्लोम्नोलोम्नो जातं पर्वणिपर्वणि ।
१०,१६३.०६ यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥
१०,१६४.०१ अपेहि मनसस्पतेऽप क्राम परश्चर ।
१०,१६४.०१ परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥
१०,१६४.०२ भद्रं वै वरं वृणते भद्रं युञ्जन्ति दक्षिणम् ।
१०,१६४.०२ भद्रं वैवस्वते चक्षुर्बहुत्रा जीवतो मनः ॥
१०,१६४.०३ यदाशसा निःशसाभिशसोपारिम जाग्रतो यत्स्वपन्तः ।
१०,१६४.०३ अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥
१०,१६४.०४ यदिन्द्र ब्रह्मणस्पतेऽभिद्रोहं चरामसि ।
१०,१६४.०४ प्रचेता न आङ्गिरसो द्विषतां पात्वंहसः ॥
१०,१६४.०५ अजैष्माद्यासनाम चाभूमानागसो वयम् ।
१०,१६४.०५ जाग्रत्स्वप्नः संकल्पः पापो यं द्विष्मस्तं स ऋच्छतु यो नो द्वेष्टि तमृच्छतु ॥
१०,१६५.०१ देवाः कपोत इषितो यदिच्छन्दूतो निरृत्या इदमाजगाम ।
१०,१६५.०१ तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
१०,१६५.०२ शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु ।
१०,१६५.०२ अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥
१०,१६५.०३ हेतिः पक्षिणी न दभात्यस्मानाष्ट्र्यां पदं कृणुते अग्निधाने ।
१०,१६५.०३ शं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मा नो हिंसीदिह देवाः कपोतः ॥
१०,१६५.०४ यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति ।
१०,१६५.०४ यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥
१०,१६५.०५ ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि
गां नयध्वम् ।
१०,१६५.०५ संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्र पतात्पतिष्ठः ॥
१०,१६६.०१ ऋषभं मा समानानां सपत्नानां विषासहिम् ।
१०,१६६.०१ हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम् ॥
१०,१६६.०२ अहमस्मि सपत्नहेन्द्र इवारिष्टो अक्षतः ।
१०,१६६.०२ अधः सपत्ना मे पदोरिमे सर्वे अभिष्ठिताः ॥
१०,१६६.०३ अत्रैव वोऽपि नह्याम्युभे आर्त्नी इव ज्यया ।
१०,१६६.०३ वाचस्पते नि षेधेमान्यथा मदधरं वदान् ॥
१०,१६६.०४ अभिभूरहमागमं विश्वकर्मेण धाम्ना ।
१०,१६६.०४ आ वश्चित्तमा वो व्रतमा वोऽहं समितिं ददे ॥
१०,१६६.०५ योगक्षेमं व आदायाहं भूयासमुत्तम आ वो मूर्धानमक्रमीम् ।
१०,१६६.०५ अधस्पदान्म उद्वदत मण्डूका इवोदकान्मण्डूका उदकादिव ॥
१०,१६७.०१ तुभ्येदमिन्द्र परि षिच्यते मधु त्वं सुतस्य कलशस्य राजसि ।
१०,१६७.०१ त्वं रयिं पुरुवीरामु नस्कृधि त्वं तपः परितप्याजयः स्वः ॥
१०,१६७.०२ स्वर्जितं महि मन्दानमन्धसो हवामहे परि शक्रं सुतां उप ।
१०,१६७.०२ इमं नो यज्ञमिह बोध्या गहि स्पृधो जयन्तं मघवानमीमहे ॥
१०,१६७.०३ सोमस्य राज्ञो वरुणस्य धर्मणि बृहस्पतेरनुमत्या उ शर्मणि ।
१०,१६७.०३ तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशां अभक्षयम् ॥
१०,१६७.०४ प्रसूतो भक्षमकरं चरावपि स्तोमं चेमं प्रथमः सूरिरुन्मृजे ।
१०,१६७.०४ सुते सातेन यद्यागमं वां प्रति विश्वामित्रजमदग्नी दमे ॥
१०,१६८.०१ वातस्य नु महिमानं रथस्य रुजन्नेति स्तनयन्नस्य घोषः ।
१०,१६८.०१ दिविस्पृग्यात्यरुणानि कृण्वन्नुतो एति पृथिव्या रेणुमस्यन् ॥
१०,१६८.०२ सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषाः ।
१०,१६८.०२ ताभिः सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥
१०,१६८.०३ अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः ।
१०,१६८.०३ अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥
१०,१६८.०४ आत्मा देवानां भुवनस्य गर्भो यथावशं चरति देव एषः ।
१०,१६८.०४ घोषा इदस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ॥
१०,१६९.०१ मयोभूर्वातो अभि वातूस्रा ऊर्जस्वतीरोषधीरा रिशन्ताम् ।
१०,१६९.०१ पीवस्वतीर्जीवधन्याः पिबन्त्ववसाय पद्वते रुद्र मृळ ॥
१०,१६९.०२ याः सरूपा विरूपा एकरूपा यासामग्निरिष्ट्या नामानि वेद ।
१०,१६९.०२ या अङ्गिरसस्तपसेह चक्रुस्ताभ्यः पर्जन्य महि शर्म यच्छ ॥
१०,१६९.०३ या देवेषु तन्वमैरयन्त यासां सोमो विश्वा रूपाणि वेद ।
१०,१६९.०३ ता अस्मभ्यं पयसा पिन्वमानाः प्रजावतीरिन्द्र गोष्ठे रिरीहि ॥
१०,१६९.०४ प्रजापतिर्मह्यमेता रराणो विश्वैर्देवैः पितृभिः संविदानः ।
१०,१६९.०४ शिवाः सतीरुप नो गोष्ठमाकस्तासां वयं प्रजया सं सदेम ॥
१०,१७०.०१ विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतम् ।
१०,१७०.०१ वातजूतो यो अभिरक्षति त्मना प्रजाः पुपोष पुरुधा वि राजति ॥
१०,१७०.०२ विभ्राड्बृहत्सुभृतं वाजसातमं धर्मन्दिवो धरुणे सत्यमर्पितम् ।
१०,१७०.०२ अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ॥
१०,१७०.०३ इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।
१०,१७०.०३ विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतम् ॥
१०,१७०.०४ विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
१०,१७०.०४ येनेमा विश्वा भुवनान्याभृता विश्वकर्मणा विश्वदेव्यावता ॥
१०,१७१.०१ त्वं त्यमिटतो रथमिन्द्र प्रावः सुतावतः ।
१०,१७१.०१ अशृणोः सोमिनो हवम् ॥
१०,१७१.०२ त्वं मखस्य दोधतः शिरोऽव त्वचो भरः ।
१०,१७१.०२ अगच्छः सोमिनो गृहम् ॥
१०,१७१.०३ त्वं त्यमिन्द्र मर्त्यमास्त्रबुध्नाय वेन्यम् ।
१०,१७१.०३ मुहुः श्रथ्ना मनस्यवे ॥
१०,१७१.०४ त्वं त्यमिन्द्र सूर्यं पश्चा सन्तं पुरस्कृधि ।
१०,१७१.०४ देवानां चित्तिरो वशम् ॥
१०,१७२.०१ आ याहि वनसा सह गावः सचन्त वर्तनिं यदूधभिः ॥
१०,१७२.०२ आ याहि वस्व्या धिया मंहिष्ठो जारयन्मखः सुदानुभिः ॥
१०,१७२.०३ पितुभृतो न तन्तुमित्सुदानवः प्रति दध्मो यजामसि ॥
१०,१७२.०४ उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ॥
१०,१७३.०१ आ त्वाहार्षमन्तरेधि ध्रुवस्तिष्ठाविचाचलिः ।
१०,१७३.०१ विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत् ॥
१०,१७३.०२ इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलिः ।
१०,१७३.०२ इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥
१०,१७३.०३ इममिन्द्रो अदीधरद्ध्रुवं ध्रुवेण हविषा ।
१०,१७३.०३ तस्मै सोमो अधि ब्रवत्तस्मा उ ब्रह्मणस्पतिः ॥
१०,१७३.०४ ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवासः पर्वता इमे ।
१०,१७३.०४ ध्रुवं विश्वमिदं जगद्ध्रुवो राजा विशामयम् ॥
१०,१७३.०५ ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
१०,१७३.०५ ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥
१०,१७३.०६ ध्रुवं ध्रुवेण हविषाभि सोमं मृशामसि ।
१०,१७३.०६ अथो त इन्द्रः केवलीर्विशो बलिहृतस्करत् ॥
१०,१७४.०१ अभीवर्तेन हविषा येनेन्द्रो अभिवावृते ।
१०,१७४.०१ तेनास्मान्ब्रह्मणस्पतेऽभि राष्ट्राय वर्तय ॥
१०,१७४.०२ अभिवृत्य सपत्नानभि या नो अरातयः ।
१०,१७४.०२ अभि पृतन्यन्तं तिष्ठाभि यो न इरस्यति ॥
१०,१७४.०३ अभि त्वा देवः सविताभि सोमो अवीवृतत् ।
१०,१७४.०३ अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥
१०,१७४.०४ येनेन्द्रो हविषा कृत्व्यभवद्द्युम्न्युत्तमः ।
१०,१७४.०४ इदं तदक्रि देवा असपत्नः किलाभुवम् ॥
१०,१७४.०५ असपत्नः सपत्नहाभिराष्ट्रो विषासहिः ।
१०,१७४.०५ यथाहमेषां भूतानां विराजानि जनस्य च ॥
१०,१७५.०१ प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा ।
१०,१७५.०१ धूर्षु युज्यध्वं सुनुत ॥
१०,१७५.०२ ग्रावाणो अप दुच्छुनामप सेधत दुर्मतिम् ।
१०,१७५.०२ उस्राः कर्तन भेषजम् ॥
१०,१७५.०३ ग्रावाण उपरेष्वा महीयन्ते सजोषसः ।
१०,१७५.०३ वृष्णे दधतो वृष्ण्यम् ॥
१०,१७५.०४ ग्रावाणः सविता नु वो देवः सुवतु धर्मणा ।
१०,१७५.०४ यजमानाय सुन्वते ॥
१०,१७६.०१ प्र सूनव ऋभूणां बृहन्नवन्त वृजना ।
१०,१७६.०१ क्षामा ये विश्वधायसोऽश्नन्धेनुं न मातरम् ॥
१०,१७६.०२ प्र देवं देव्या धिया भरता जातवेदसम् ।
१०,१७६.०२ हव्या नो वक्षदानुषक् ॥
१०,१७६.०३ अयमु ष्य प्र देवयुर्होता यज्ञाय नीयते ।
१०,१७६.०३ रथो न योरभीवृतो घृणीवाञ्चेतति त्मना ॥
१०,१७६.०४ अयमग्निरुरुष्यत्यमृतादिव जन्मनः ।
१०,१७६.०४ सहसश्चित्सहीयान्देवो जीवातवे कृतः ॥
१०,१७७.०१ पतङ्गमक्तमसुरस्य मायया हृदा पश्यन्ति मनसा विपश्चितः ।
१०,१७७.०१ समुद्रे अन्तः कवयो वि चक्षते मरीचीनां पदमिच्छन्ति वेधसः ॥
१०,१७७.०२ पतङ्गो वाचं मनसा बिभर्ति तां गन्धर्वोऽवदद्गर्भे अन्तः ।
१०,१७७.०२ तां द्योतमानां स्वर्यं मनीषामृतस्य पदे कवयो नि पान्ति ॥
१०,१७७.०३ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
१०,१७७.०३ स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥
१०,१७८.०१ त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् ।
१०,१७८.०१ अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥
१०,१७८.०२ इन्द्रस्येव रातिमाजोहुवानाः स्वस्तये नावमिवा रुहेम ।
१०,१७८.०२ उर्वी न पृथ्वी बहुले गभीरे मा वामेतौ मा परेतौ रिषाम ॥
१०,१७८.०३ सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान ।
१०,१७८.०३ सहस्रसाः शतसा अस्य रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥
१०,१७९.०१ उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।
१०,१७९.०१ यदि श्रातो जुहोतन यद्यश्रातो ममत्तन ॥
१०,१७९.०२ श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो विमध्यम् ।
१०,१७९.०२ परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥
१०,१७९.०३ श्रातं मन्य ऊधनि श्रातमग्नौ सुश्रातं मन्ये तदृतं नवीयः ।
१०,१७९.०३ माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन्पुरुकृज्जुषाणः ॥
१०,१८०.०१ प्र ससाहिषे पुरुहूत शत्रूञ्ज्येष्ठस्ते शुष्म इह रातिरस्तु ।
१०,१८०.०१ इन्द्रा भर दक्षिणेना वसूनि पतिः सिन्धूनामसि रेवतीनाम् ॥
१०,१८०.०२ मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगन्था परस्याः ।
१०,१८०.०२ सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून्ताळ्हि वि मृधो नुदस्व ॥
१०,१८०.०३ इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।
१०,१८०.०३ अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥
१०,१८१.०१ प्रथश्च यस्य सप्रथश्च नामानुष्टुभस्य हविषो हविर्यत् ।
१०,१८१.०१ धातुर्द्युतानात्सवितुश्च विष्णो रथन्तरमा जभारा वसिष्ठः ॥
१०,१८१.०२ अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
१०,१८१.०२ धातुर्द्युतानात्सवितुश्च विष्णोर्भरद्वाजो बृहदा चक्रे अग्नेः ॥
१०,१८१.०३ तेऽविन्दन्मनसा दीध्याना यजु ष्कन्नं प्रथमं देवयानम् ।
१०,१८१.०३ धातुर्द्युतानात्सवितुश्च विष्णोरा सूर्यादभरन्घर्ममेते ॥
१०,१८२.०१ बृहस्पतिर्नयतु दुर्गहा तिरः पुनर्नेषदघशंसाय मन्म ।
१०,१८२.०१ क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
१०,१८२.०२ नराशंसो नोऽवतु प्रयाजे शं नो अस्त्वनुयाजो हवेषु ।
१०,१८२.०२ क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
१०,१८२.०३ तपुर्मूर्धा तपतु रक्षसो ये ब्रह्मद्विषः शरवे हन्तवा उ ।
१०,१८२.०३ क्षिपदशस्तिमप दुर्मतिं हन्नथा करद्यजमानाय शं योः ॥
१०,१८३.०१ अपश्यं त्वा मनसा चेकितानं तपसो जातं तपसो विभूतम् ।
१०,१८३.०१ इह प्रजामिह रयिं रराणः प्र जायस्व प्रजया पुत्रकाम ॥
१०,१८३.०२ अपश्यं त्वा मनसा दीध्यानां स्वायां तनू ऋत्व्ये नाधमानाम् ।
१०,१८३.०२ उप मामुच्चा युवतिर्बभूयाः प्र जायस्व प्रजया पुत्रकामे ॥
१०,१८३.०३ अहं गर्भमदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।
१०,१८३.०३ अहं प्रजा अजनयं पृथिव्यामहं जनिभ्यो अपरीषु पुत्रान् ॥
१०,१८४.०१ विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
१०,१८४.०१ आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥
१०,१८४.०२ गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
१०,१८४.०२ गर्भं ते अश्विनौ देवावा धत्तां पुष्करस्रजा ॥
१०,१८४.०३ हिरण्ययी अरणी यं निर्मन्थतो अश्विना ।
१०,१८४.०३ तं ते गर्भं हवामहे दशमे मासि सूतवे ॥
१०,१८५.०१ महि त्रीणामवोऽस्तु द्युक्षं मित्रस्यार्यम्णः ।
१०,१८५.०१ दुराधर्षं वरुणस्य ॥
१०,१८५.०२ नहि तेषाममा चन नाध्वसु वारणेषु ।
१०,१८५.०२ ईशे रिपुरघशंसः ॥
१०,१८५.०३ यस्मै पुत्रासो अदितेः प्र जीवसे मर्त्याय ।
१०,१८५.०३ ज्योतिर्यच्छन्त्यजस्रम् ॥
१०,१८६.०१ वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।
१०,१८६.०१ प्र ण आयूंषि तारिषत् ॥
१०,१८६.०२ उत वात पितासि न उत भ्रातोत नः सखा ।
१०,१८६.०२ स नो जीवातवे कृधि ॥
१०,१८६.०३ यददो वात ते गृहेऽमृतस्य निधिर्हितः ।
१०,१८६.०३ ततो नो देहि जीवसे ॥
१०,१८७.०१ प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
१०,१८७.०१ स नः पर्षदति द्विषः ॥
१०,१८७.०२ यः परस्याः परावतस्तिरो धन्वातिरोचते ।
१०,१८७.०२ स नः पर्षदति द्विषः ॥
१०,१८७.०३ यो रक्षांसि निजूर्वति वृषा शुक्रेण शोचिषा ।
१०,१८७.०३ स नः पर्षदति द्विषः ॥
१०,१८७.०४ यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
१०,१८७.०४ स नः पर्षदति द्विषः ॥
१०,१८७.०५ यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
१०,१८७.०५ स नः पर्षदति द्विषः ॥
१०,१८८.०१ प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् ।
१०,१८८.०१ इदं नो बर्हिरासदे ॥
१०,१८८.०२ अस्य प्र जातवेदसो विप्रवीरस्य मीळ्हुषः ।
१०,१८८.०२ महीमियर्मि सुष्टुतिम् ॥
१०,१८८.०३ या रुचो जातवेदसो देवत्रा हव्यवाहनीः ।
१०,१८८.०३ ताभिर्नो यज्ञमिन्वतु ॥
१०,१८९.०१ आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।
१०,१८९.०१ पितरं च प्रयन्स्वः ॥
१०,१८९.०२ अन्तश्चरति रोचनास्य प्राणादपानती ।
१०,१८९.०२ व्यख्यन्महिषो दिवम् ॥
१०,१८९.०३ त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते ।
१०,१८९.०३ प्रति वस्तोरह द्युभिः ॥
१०,१९०.०१ ऋतं च सत्यं चाभीद्धात्तपसोऽध्यजायत ।
१०,१९०.०१ ततो रात्र्यजायत ततः समुद्रो अर्णवः ॥
१०,१९०.०२ समुद्रादर्णवादधि संवत्सरो अजायत ।
१०,१९०.०२ अहोरात्राणि विदधद्विश्वस्य मिषतो वशी ॥
१०,१९०.०३ सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् ।
१०,१९०.०३ दिवं च पृथिवीं चान्तरिक्षमथो स्वः ॥
१०,१९१.०१ संसमिद्युवसे वृषन्नग्ने विश्वान्यर्य आ ।
१०,१९१.०१ इळस्पदे समिध्यसे स नो वसून्या भर ॥
१०,१९१.०२ सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् ।
१०,१९१.०२ देवा भागं यथा पूर्वे संजानाना उपासते ॥
१०,१९१.०३ समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् ।
१०,१९१.०३ समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥
१०,१९१.०४ समानी व आकूतिः समाना हृदयानि वः ।
१०,१९१.०४ समानमस्तु वो मनो यथा वः सुसहासति ॥