Atharva Veda Samhita (अथर्ववेद)
Home » Law Library Updates » Law Library » Books » Atharva Veda Samhita (अथर्ववेद)
Atharva Veda Samhita
CHAPTER – 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20
Full-Text View
1. (१,१.१ ) ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।
2. (१,१.१ ) वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥१॥
3. (१,१.२ ) पुनरेहि वचस्पते देवेन मनसा सह ।
4. (१,१.२ ) वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥२॥
5. (१,१.३ ) इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
6. (१,१.३ ) वाचस्पतिर्नि यछतु मय्येवास्तु मयि श्रुतम् ॥३॥
7. (१,१.४ ) उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् ।
8. (१,१.४ ) सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥४॥
9. (१,२.१ ) विद्मा शरस्य पितरं पर्जन्यं भूरिधायसम् ।
10. (१,२.१ ) विद्मो ष्वस्य मातरं पृथिवीं भूरिवर्पसम् ॥१॥
11. (१,२.२ ) ज्याके परि णो नमाश्मानं तन्वं कृधि ।
12. (१,२.२ ) वीडुर्वरीयोऽरातीरप द्वेषांस्या कृधि ॥२॥
13. (१,२.३ ) वृक्षं यद्गावः परिषस्वजाना अनुस्फुरं शरमर्चन्त्यृभुम् ।
14. (१,२.३ ) शरुमस्मद्यावय दिद्युमिन्द्र ॥३॥
15. (१,२.४ ) यथा द्यां च पृथिवीं चान्तस्तिष्ठति तेजनम् ।
16. (१,२.४ ) एवा रोगं चास्रावं चान्तस्तिष्ठतु मुञ्ज इत्॥४॥
17. (१,३.१ ) विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् ।
18. (१,३.१ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥१॥
19. (१,३.२ ) विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् ।
20. (१,३.२ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥२॥
21. (१,३.३ ) विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् ।
22. (१,३.३ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥३॥
23. (१,३.४ ) विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् ।
24. (१,३.४ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥४॥
25. (१,३.५ ) विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् ।
26. (१,३.५ ) तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥५॥
27. (१,३.६ ) यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् ।
28. (१,३.६ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥६॥
29. (१,३.७ ) प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव ।
30. (१,३.७ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥७॥
31. (१,३.८ ) विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।
32. (१,३.८ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥८॥
33. (१,३.९ ) यथेषुका परापतदवसृष्टाधि धन्वनः ।
34. (१,३.९ ) एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥९॥
35. (१,४.१ ) अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
36. (१,४.१ ) पृञ्चतीर्मधुना पयः ॥१॥
37. (१,४.२ ) अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
38. (१,४.२ ) ता नो हिन्वन्त्वध्वरम् ॥२॥
39. (१,४.३ ) अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
40. (१,४.३ ) सिन्धुभ्यः कर्त्वं हविः ॥३॥
41. (१,४.४ ) अप्स्वन्तरमृतमप्सु भेषजम् ।
42. (१,४.४ ) अपामुत प्रशस्तिभिरश्वा भवथ वाजिनो गावो भवथ वाजिनीः ॥४॥
43. (१,५.१ ) आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।
44. (१,५.१ ) महे रणाय चक्षसे ॥१॥
45. (१,५.२ ) यो वः शिवतमो रसस्तस्य भाजयतेह नः ।
46. (१,५.२ ) उशतीरिव मातरः ॥२॥
47. (१,५.३ ) तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।
48. (१,५.३ ) आपो जनयथा च नः ॥३॥
49. (१,५.४ ) ईशाना वार्याणां क्षयन्तीश्चर्षणीनाम् ।
50. (१,५.४ ) अपो याचामि भेषजम् ॥४॥
51. (१,६.१ ) शं नो देवीरभिष्टय आपो भवन्तु पीतये ।
52. (१,६.१ ) शं योरभि स्रवन्तु नः ॥१॥
53. (१,६.२ ) अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
54. (१,६.२ ) अग्निं च विश्वशंभुवम् ॥२॥
55. (१,६.३ ) आपः पृणीत भेषजं वरूथं तन्वे मम ।
56. (१,६.३ ) ज्योक्च सूर्यं दृशे ॥३॥
57. (१,६.४ ) शं न आपो धन्वन्याः शमु सन्त्वनूप्याः ।
58. (१,६.४ ) शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः ।
59. (१,६.४ ) शिवा नः सन्तु वार्षिकीः ॥४॥
60. (१,७.१ ) स्तुवानमग्न आ वह यातुधानं किमीदिनम् ।
61. (१,७.१ ) त्वं हि देव वन्दितो हन्ता दस्योर्बभूविथ ॥१॥
62. (१,७.२ ) आज्यस्य परमेष्ठिन् जातवेदस्तनूवशिन् ।
63. (१,७.२ ) अग्ने तौलस्य प्राशान यातुधानान् वि लापय ॥२॥
64. (१,७.३ ) वि लपन्तु यातुधाना अत्त्रिणो ये किमीदिनः ।
65. (१,७.३ ) अथेदमग्ने नो हविरिन्द्रश्च प्रति हर्यतम् ॥३॥
66. (१,७.४ ) अग्निः पूर्व आ रभतां प्रेन्द्रो नुदतु बाहुमान् ।
67. (१,७.४ ) ब्रवीतु सर्वो यातुमान् अयमस्मीत्येत्य ॥४॥
68. (१,७.५ ) पश्याम ते वीर्यं जातवेदः प्र णो ब्रूहि यातुधानान् नृचक्षः ।
69. (१,७.५ ) त्वया सर्वे परितप्ताः पुरस्तात्त आ यन्तु प्रब्रुवाणा उपेदम् ॥५॥
70. (१,७.६ ) आ रभस्व जातवेदोऽस्माकार्थाय जज्ञिषे ।
71. (१,७.६ ) दूतो नो अग्ने भूत्वा यातुधानान् वि लापय ॥६॥
72. (१,७.७ ) त्वमग्ने यातुधानान् उपबद्धामिहा वह ।
73. (१,७.७ ) अथैषामिन्द्रो वज्रेणापि शीर्षाणि वृश्चतु ॥७॥
74. (१,८.१ ) इदं हविर्यातुधानान् नादी फेनमिवा वहत्।
75. (१,८.१ ) य इदं स्त्री पुमान् अकरिह स स्तुवतां जनः ॥१॥
76. (१,८.२ ) अयं स्तुवान आगमदिमं स्म प्रति हर्यत ।
77. (१,८.२ ) बृहस्पते वशे लब्ध्वाग्नीषोमा वि विध्यतम् ॥२॥
78. (१,८.३ ) यातुधानस्य सोमप जहि प्रजां नयस्व च ।
79. (१,८.३ ) नि स्तुवानस्य पातय परमक्ष्युतावरम् ॥३॥
80. (१,८.४ ) यत्रैषामग्ने जनिमानि वेत्थ गुहा सतामत्त्रिणां जातवेदः ।
81. (१,८.४ ) तांस्त्वं ब्रह्मणा वावृधानो जह्येषां शततर्हमग्ने ॥४॥
82. (१,९.१ ) अस्मिन् वसु वसवो धारयन्त्विन्द्रः पूषा वरुणो मित्रो अग्निः ।
83. (१,९.१ ) इममादित्या उत विश्वे च देवा उत्तरस्मिन् ज्योतिषि धारयन्तु ॥१॥
84. (१,९.२ ) अस्य देवाः प्रदिशि ज्योतिरस्तु सूर्यो अग्निरुत वा हिरण्यम् ।
85. (१,९.२ ) सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥२॥
86. (१,९.३ ) येनेन्द्राय समभरः पयांस्युत्तमेन ब्रह्मणा जातवेदः ।
87. (१,९.३ ) तेन त्वमग्न इह वर्धयेमं सजातानां श्रैष्ठ्य आ धेह्येनम् ॥३॥
88. (१,९.४ ) ऐषां यज्ञमुत वर्चो ददेऽहं रायस्पोषमुत चित्तान्यग्ने ।
89. (१,९.४ ) सपत्ना अस्मदधरे भवन्तूत्तमं नाकमधि रोहयेमम् ॥४॥
90. (१,१०.१ ) अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।
91. (१,१०.१ ) ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥१॥
92. (१,१०.२ ) नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् ।
93. (१,१०.२ ) सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥२॥
94. (१,१०.३ ) यदुवक्थानृतं जिह्वया वृजिनं बहु ।
95. (१,१०.३ ) राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥३॥
96. (१,१०.४ ) मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि ।
97. (१,१०.४ ) सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥४॥
98. (१,११.१ ) वषट्ते पूषन्न् अस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः ।
99. (१,११.१ ) सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥१॥
100. (१,११.२ ) चतस्रो दिवः प्रदिशश्चतस्रो भूम्या उत ।
101. (१,११.२ ) देवा गर्भं समैरयन् तं व्यूर्णुवन्तु सूतवे ॥२॥
102. (१,११.३ ) सूषा व्यूर्णोतु वि योनिं हापयामसि ।
103. (१,११.३ ) श्रथया सूषणे त्वमव त्वं बिष्कले सृज ॥३॥
104. (१,११.४ ) नेव मांसे न पीवसि नेव मज्जस्वाहतम् ।
105. (१,११.४ ) अवैतु पृश्नि शेवलं शुने जराय्वत्तवेऽव जरायु पद्यताम् ॥४॥
106. (१,११.५ ) वि ते भिनद्मि मेहनं वि योनिं वि गवीनिके ।
107. (१,११.५ ) वि मातरं च पुत्रं च वि कुमारं जरायुणाव जरायु पद्यताम् ॥५॥
108. (१,११.६ ) यथा वातो यथा मनो यथा पतन्ति पक्षिणः ।
109. (१,११.६ ) एवा त्वं दशमास्य साकं जरायुणा पताव जरायु पद्यताम् ॥६॥
110. (१,१२.१ ) जरायुजः प्रथम उस्रियो वृषा वाताभ्रजा स्तनयन्न् एति वृष्ट्या ।
111. (१,१२.१ ) स नो मृडाति तन्व ऋजुगो रुजन् य एकमोजस्त्रेधा विचक्रमे ॥१॥
112. (१,१२.२ ) अङ्गेअङ्गे शोचिषा शिश्रियाणं नमस्यन्तस्त्वा हविषा विधेम ।
113. (१,१२.२ ) अङ्कान्त्समङ्कान् हविषा विधेम यो अग्रभीत्पर्वास्या ग्रभीता ॥२॥
114. (१,१२.३ ) मुञ्च शीर्षक्त्या उत कास एनं परुष्परुराविवेशा यो अस्य ।
115. (१,१२.३ ) यो अभ्रजा वातजा यश्च शुष्मो वनस्पतीन्त्सचतां पर्वतांश्च ॥३॥
116. (१,१२.४ ) शं मे परस्मै गात्राय शमस्त्ववराय मे ।
117. (१,१२.४ ) शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे मम ॥४॥
118. (१,१३.१ ) नमस्ते अस्तु विद्युते नमस्ते स्तनयित्नवे ।
119. (१,१३.१ ) नमस्ते अस्त्वश्मने येना दूडाशे अस्यसि ॥१॥
120. (१,१३.२ ) नमस्ते प्रवतो नपाद्यतस्तपः समूहसि ।
121. (१,१३.२ ) मृडया नस्तनूभ्यो मयस्तोकेभ्यस्कृधि ॥२॥
122. (१,१३.३ ) प्रवतो नपान् नम एवास्तु तुभ्यं नमस्ते हेतये तपुषे च कृण्मः ।
123. (१,१३.३ ) विद्म ते धाम परमं गुहा यत्समुद्रे अन्तर्निहितासि नाभिः ॥३॥
124. (१,१३.४ ) यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम् ।
125. (१,१३.४ ) सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥४॥
126. (१,१४.१ ) भगमस्या वर्च आदिष्यधि वृक्षादिव स्रजम् ।
127. (१,१४.१ ) महाबुध्न इव पर्वतो ज्योक्पितृष्वास्ताम् ॥१॥
128. (१,१४.२ ) एषा ते राजन् कन्या वधूर्नि धूयतां यम ।
129. (१,१४.२ ) सा मातुर्बध्यतां गृहेऽथो भ्रातुरथो पितुः ॥२॥
130. (१,१४.३ ) एषा ते कुलपा राजन् तामु ते परि दद्मसि ।
131. (१,१४.३ ) ज्योक्पितृष्वासाता आ शीर्ष्णः शमोप्यात्॥३॥
132. (१,१४.४ ) असितस्य ते ब्रह्मणा कश्यपस्य गयस्य च ।
133. (१,१४.४ ) अन्तःकोशमिव जामयोऽपि नह्यामि ते भगम् ॥४ ॥
134. (१,१५.१ ) सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः ।
135. (१,१५.१ ) इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥१॥
136. (१,१५.२ ) इहैव हवमा यात म इह संस्रावणा उतेमं वर्धयता गिरः ।
137. (१,१५.२ ) इहैतु सर्वो यः पशुरस्मिन् तिष्ठतु या रयिः ॥२॥
138. (१,१५.३ ) ये नदीनां संस्रवन्त्युत्सासः सदमक्षिताः ।
139. (१,१५.३ ) तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥३॥
140. (१,१५.४ ) ये सर्पिषः संस्रवन्ति क्षीरस्य चोदकस्य च
141. (१,१५.४ ) तेभिर्मे सर्वैः संस्रावैर्धनं सं स्रावयामसि ॥४॥
142. (१,१६.१ ) येऽमावास्यां रात्रिमुदस्थुर्व्राजमत्त्रिणः ।
143. (१,१६.१ ) अग्निस्तुरीयो यातुहा सो अस्मभ्यमधि ब्रवत्॥१॥
144. (१,१६.२ ) सीसायाध्याह वरुणः सीसायाग्निरुपावति ।
145. (१,१६.२ ) सीसं म इन्द्रः प्रायछत्तदङ्ग यातुचातनम् ॥२॥
146. (१,१६.३ ) इदं विष्कन्धं सहत इदं बाधते अत्त्रिणः ।
147. (१,१६.३ ) अनेन विश्वा ससहे या जातानि पिशाच्याः ॥३॥
148. (१,१६.४ ) यदि नो गां हंसि यद्यश्वं यदि पूरुषम् ।
149. (१,१६.४ ) तं त्वा सीसेन विध्यामो यथा नोऽसो अवीरहा ॥४॥
150. (१,१७.१ ) अमूर्या यन्ति योषितो हिरा लोहितवाससः ।
151. (१,१७.१ ) अभ्रातर इव जामयस्तिष्ठन्तु हतवर्चसः ॥१॥
152. (१,१७.२ ) तिष्ठावरे तिष्ठ पर उत त्वं तिष्ठ मध्यमे ।
153. (१,१७.२ ) कनिष्ठिका च तिष्ठति तिष्ठादिद्धमनिर्मही ॥२॥
154. (१,१७.३ ) शतस्य धमनीनां सहस्रस्य हिराणाम् ।
155. (१,१७.३ ) अस्थुरिन् मध्यमा इमाः साकमन्ता अरंसत ॥३॥
156. (१,१७.४ ) परि वः सिकतावती धनूर्बृहत्यक्रमीत्।
157. (१,१७.४ ) तिष्ठतेलयता सु कम् ॥४॥
158. (१,१८.१ ) निर्लक्ष्म्यं ललाम्यं निररातिं सुवामसि ।
159. (१,१८.१ ) अथ या भद्रा तानि नः प्रजाया अरातिं नयामसि ॥१॥
160. (१,१८.२ ) निररणिं सविता साविषक्पदोर्निर्हस्तयोर्वरुणो मित्रो अर्यमा ।
161. (१,१८.२ ) निरस्मभ्यमनुमती रराणा प्रेमां देवा असाविषुः सौभगाय ॥२॥
162. (१,१८.३ ) यत्त आत्मनि तन्वां घोरमस्ति यद्वा केशेषु प्रतिचक्षणे वा ।
163. (१,१८.३ ) सर्वं तद्वाचाप हन्मो वयं देवस्त्वा सविता सूदयतु ॥३॥
164. (१,१८.४ ) रिश्यपदीं वृषदतीं गोषेधां विधमामुत ।
165. (१,१८.४ ) विलीढ्यं ललाम्यं ता अस्मन् नाशयामसि ॥४॥
166. (१,१९.१ ) मा नो विदन् विव्याधिनो मो अभिव्याधिनो विदन् ।
167. (१,१९.१ ) आराच्छरव्या अस्मद्विषूचीरिन्द्र पातय ॥१॥
168. (१,१९.२ ) विष्वञ्चो अस्मच्छरवः पतन्तु ये अस्ता ये चास्याः ।
169. (१,१९.२ ) दैवीर्मनुष्येसवो ममामित्रान् वि विध्यत ॥२॥
170. (१,१९.३ ) यो नः स्वो यो अरणः सजात उत निष्ट्यो यो अस्मामभिदासति ।
171. (१,१९.३ ) रुद्रः शरव्ययैतान् ममामित्रान् वि विध्यतु ॥३॥
172. (१,१९.४ ) यः सपत्नो योऽसपत्नो यश्च द्विषन् छपाति नः ।
173. (१,१९.४ ) देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥४॥
174. (१,२०.१ ) अदारसृद्भवतु देव सोमास्मिन् यज्ञे मरुतो मृडता नः ।
175. (१,२०.१ ) मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥१॥
176. (१,२०.२ ) यो अद्य सेन्यो वधोऽघायूनामुदीरते ।
177. (१,२०.२ ) युवं तं मित्रावरुणावस्मद्यावयतं परि ॥२॥
178. (१,२०.३ ) इतश्च यदमुतश्च यद्वधं वरुण यावय ।
179. (१,२०.३ ) वि महच्छर्म यछ वरीयो यावया वधम् ॥३॥
180. (१,२०.४ ) शास इत्था महामस्यमित्रसाहो अस्तृतः ।
181. (१,२०.४ ) न यस्य हन्यते सखा न जीयते कदा चन ॥४॥
182. (१,२१.१ ) स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।
183. (१,२१.१ ) वृषेन्द्रः पुर एतु नः सोमपा अभयंकरः ॥१॥
184. (१,२१.२ ) वि न इन्द्र मृधो जहि नीचा यछ पृतन्यतः ।
185. (१,२१.२ ) अधमं गमया तमो यो अस्मामभिदासति ॥२॥
186. (१,२१.३ ) वि रक्षो वि मृधो जहि वि वृत्रस्य हनू रुज ।
187. (१,२१.३ ) वि मन्युमिन्द्र वृत्रहन्न् अमित्रस्याभिदासतः ॥३॥
188. (१,२१.४ ) अपेन्द्र द्विषतो मनोऽप जिज्यासतो वधम् ।
189. (१,२१.४ ) वि महच्छर्म यछ वरीयो यावया वधम् ॥४॥
190. (१,२२.१ ) अनु सूर्यमुदयतां हृद्द्योतो हरिमा च ते ।
191. (१,२२.१ ) गो रोहितस्य वर्णेन तेन त्वा परि दध्मसि ॥१॥
192. (१,२२.२ ) परि त्वा रोहितैर्वर्णैर्दीर्घायुत्वाय दध्मसि ।
193. (१,२२.२ ) यथायमरपा असदथो अहरितो भुवत्॥२॥
194. (१,२२.३ ) या रोहिणीर्देवत्या गावो या उत रोहिणीः ।
195. (१,२२.३ ) रूपंरूपं वयोवयस्ताभिष्ट्वा परि दध्मसि ॥३॥
196. (१,२२.४ ) शुकेषु ते हरिमाणं रोपणाकासु दध्मसि ।
197. (१,२२.४ ) अथो हारिद्रवेषु ते हरिमाणं नि दध्मसि ॥४॥
198. (१,२३.१ ) नक्तंजातासि ओषधे रामे कृष्णे असिक्नि च ।
199. (१,२३.१ ) इदं रजनि रजय किलासं पलितं च यत्॥१॥
200. (१,२३.२ ) किलासं च पलितं च निरितो नाशया पृषत्।
201. (१,२३.२ ) आ त्वा स्वो विशतां वर्णः परा शुक्लानि पातय ॥२॥
202. (१,२३.३ ) असितं ते प्रलयनमास्थानमसितं तव ।
203. (१,२३.३ ) असिक्नी अस्योषधे निरितो नाशया पृषत्॥३॥
204. (१,२३.४ ) अस्थिजस्य किलासस्य तनूजस्य च यत्त्वचि ।
205. (१,२३.४ ) दूष्या कृतस्य ब्रह्मणा लक्ष्म श्वेतमनीनशम् ॥४॥
206. (१,२४.१ ) सुपर्णो जातः प्रथमस्तस्य त्वं पित्तमासिथ ।
207. (१,२४.१ ) तदासुरी युधा जिता रूपं चक्रे वनस्पतीन् ॥१॥
208. (१,२४.२ ) आसुरी चक्रे प्रथमेदं किलासभेषजमिदं किलासनाशनम् ।
209. (१,२४.२ ) अनीनशत्किलासं सरूपामकरत्त्वचम् ॥२॥
210. (१,२४.३ ) सरूपा नाम ते माता सरूपो नाम ते पिता ।
211. (१,२४.३ ) सरूपकृत्त्वमोषधे सा सरूपमिदं कृधि ॥३॥
212. (१,२४.४ ) श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता ।
213. (१,२४.४ ) इदमू षु प्र साधय पुना रूपाणि कल्पय ॥४॥
214. (१,२५.१ ) यदग्निरापो अदहत्प्रविश्य यत्राकृण्वन् धर्मधृतो नमांसि ।
215. (१,२५.१ ) तत्र त आहुः परमं जनित्रं स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥१॥
216. (१,२५.२ ) यद्यर्चिर्यदि वासि शोचिः शकल्येषि यदि वा ते जनित्रम् ।
217. (१,२५.२ ) ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥२॥
218. (१,२५.३ ) यदि शोको यदि वाभिशोको यदि वा राज्ञो वरुणस्यासि पुत्रः ।
219. (१,२५.३ ) ह्रूडुर्नामासि हरितस्य देव स नः संविद्वान् परि वृङ्ग्धि तक्मन् ॥३॥
220. (१,२५.४ ) नमः शीताय तक्मने नमो रूराय शोचिषे कृणोमि ।
221. (१,२५.४ ) यो अन्येद्युरुभयद्युरभ्येति तृतीयकाय नमो अस्तु तक्मने ॥४॥
222. (१,२६.१ ) आरेऽसावस्मदस्तु हेतिर्देवासो असत्।
223. (१,२६.१ ) आरे अश्मा यमस्यथ ॥१॥
224. (१,२६.२ ) सखासावस्मभ्यमस्तु रातिः सखेन्द्रो भगः ।
225. (१,२६.२ ) सविता चित्रराधाः ॥२॥
226. (१,२६.३ ) यूयं नः प्रवतो नपान् मरुतः सूर्यत्वचसः ।
227. (१,२६.३ ) शर्म यछथ सप्रथाः ॥३॥
228. (१,२६.४ ) सुषूदत मृडत मृडया नस्तनूभ्यो ।
229. (१,२६.४ ) मयस्तोकेभ्यस्कृधि ॥४॥
230. (१,२७.१ ) अमूः पारे पृदाक्वस्त्रिषप्ता निर्जरायवः ।
231. (१,२७.१ ) तासां जरायुभिर्वयमक्ष्यावपि व्ययामस्यघायोः परिपन्थिनः ॥१॥
232. (१,२७.२ ) विषूच्येतु कृन्तती पिनाकमिव बिभ्रती ।
233. (१,२७.२ ) विष्वक्पुनर्भुवा मनोऽसमृद्धा अघायवः ॥२॥
234. (१,२७.३ ) न बहवः समशकन् नार्भका अभि दाधृषुः ।
235. (१,२७.३ ) वेणोरद्गा इवाभितोऽसमृद्धा अघायवः ॥३॥
236. (१,२७.४ ) प्रेतं पादौ प्र स्फुरतं वहतं पृणतो गृहान् ।
237. (१,२७.४ ) इन्द्रान्येतु प्रथमाजीतामुषिता पुरः ॥४॥
238. (१,२८.१ ) उप प्रागाद्देवो अग्नी रक्षोहामीवचातनः ।
239. (१,२८.१ ) दहन्न् अप द्वयाविनो यातुधानान् किमीदिनः ॥१॥
240. (१,२८.२ ) प्रति दह यातुधानान् प्रति देव किमीदिनः ।
241. (१,२८.२ ) प्रतीचीः कृष्णवर्तने सं दह यातुधान्यः ॥२॥
242. (१,२८.३ ) या शशाप शपनेन याघं मूरमादधे ।
243. (१,२८.३ ) या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
244. (१,२८.४ ) पुत्रमत्तु यातुधानीः स्वसारमुत नप्त्यम् ।
245. (१,२८.४ ) अधा मिथो विकेश्यो वि घ्नतां यातुधान्यो वि तृह्यन्तामराय्यः ॥४॥
246. (१,२९.१ ) अभीवर्तेन मणिना येनेन्द्रो अभिववृधे ।
247. (१,२९.१ ) तेनास्मान् ब्रह्मणस्पतेऽभि राष्ट्राय वर्धय ॥१॥
248. (१,२९.२ ) अभिवृत्य सपत्नान् अभि या नो अरातयः ।
249. (१,२९.२ ) अभि पृतन्यन्तं तिष्ठाभि यो नो दुरस्यति ॥२॥
250. (१,२९.३ ) अभि त्वा देवः सविताभि षोमो अवीवृधत्।
251. (१,२९.३ ) अभि त्वा विश्वा भूतान्यभीवर्तो यथाससि ॥३॥
252. (१,२९.४ ) अभीवर्तो अभिभवः सपत्नक्षयणो मणिः ।
253. (१,२९.४ ) राष्ट्राय मह्यं बध्यतां सपत्नेभ्यः पराभुवे ॥४॥
254. (१,२९.५ ) उदसौ सूर्यो अगादुदिदं मामकं वचः ।
255. (१,२९.५ ) यथाहं शत्रुहोऽसान्यसपत्नः सपत्नहा ॥५॥
256. (१,२९.६ ) सपत्नक्षयणो वृषाभिरष्ट्रो विषासहिः ।
257. (१,२९.६ ) यथाहमेषां वीराणां विराजानि जनस्य च ॥६॥
258. (१,३०.१ ) विश्वे देवा वसवो रक्षतेममुतादित्या जागृत यूयमस्मिन् ।
259. (१,३०.१ ) मेमं सनाभिरुत वान्यनाभिर्मेमं प्रापत्पौरुषेयो वधो यः ॥१॥
260. (१,३०.२ ) ये वो देवाः पितरो ये च पुत्राः सचेतसो मे शृणुतेदमुक्तम् ।
261. (१,३०.२ ) सर्वेभ्यो वः परि ददाम्येतं स्वस्त्येनं जरसे वहाथ ॥२॥
262. (१,३०.३ ) ये देवा दिवि ष्ठ ये पृथिव्यां ये अन्तरिक्ष ओषधीषु पशुष्वप्स्वन्तः ।
263. (१,३०.३ ) ते कृणुत जरसमायुरस्मै शतमन्यान् परि वृणक्तु मृत्यून् ॥३॥
264. (१,३०.४ ) येषां प्रयाजा उत वानुयाजा हुतभागा अहुतादश्च देवाः ।
265. (१,३०.४ ) येषां वः पञ्च प्रदिशो विभक्तास्तान् वो अस्मै सत्रसदः कृणोमि ॥४॥
266. (१,३१.१ ) आशानामाशापालेभ्यश्चतुर्भ्यो अमृतेभ्यः ।
267. (१,३१.१ ) इदं भूतस्याध्यक्षेभ्यो विधेम हविषा वयम् ॥१॥
268. (१,३१.२ ) य आशानामाशापालाश्चत्वार स्थन देवाः ।
269. (१,३१.२ ) ते नो निरृत्याः पाशेभ्यो मुञ्चतांहसोअंहसः ॥२॥
270. (१,३१.३ ) अस्रामस्त्वा हविषा यजाम्यश्लोणस्त्वा घृतेन जुहोमि ।
271. (१,३१.३ ) य आशानामाशापालस्तुरीयो देवः स नः सुभूतमेह वक्षत्॥३॥
272. (१,३१.४ ) स्वस्ति मात्र उत पित्रे नो अस्तु स्वस्ति गोभ्यो जगते पुरुषेभ्यः ।
273. (१,३१.४ ) विश्वं सुभूतं सुविदत्रं नो अस्तु ज्योगेव दृशेम सूर्यम् ॥४॥
274. (१,३२.१ ) इदं जनासो विदथ महद्ब्रह्म वदिष्यति ।
275. (१,३२.१ ) न तत्पृथिव्यां नो दिवि येन प्राणन्ति वीरुधः ॥१॥
276. (१,३२.२ ) अन्तरिक्ष आसां स्थाम श्रान्तसदामिव ।
277. (१,३२.२ ) आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥२॥
278. (१,३२.३ ) यद्रोदसी रेजमाने भूमिश्च निरतक्षतम् ।
279. (१,३२.३ ) आर्द्रं तदद्य सर्वदा समुद्रस्येव श्रोत्याः ॥३॥
280. (१,३२.४ ) विश्वमन्यामभीवार तदन्यस्यामधि श्रितम् ।
281. (१,३२.४ ) दिवे च विश्ववेदसे पृथिव्यै चाकरं नमः ॥४॥
282. (१,३३.१ ) हिरण्यवर्णाः शुचयः पावका यासु जातः सविता यास्वग्निः ।
283. (१,३३.१ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥१॥
284. (१,३३.२ ) यासां राजा वरुणो याति मध्ये सत्यानृते अवपश्यन् जनानाम् ।
285. (१,३३.२ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥२॥
286. (१,३३.३ ) यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति ।
287. (१,३३.३ ) या अग्निं गर्भं दधिरे सुवर्णास्ता न आपः शं स्योना भवन्तु ॥३॥
288. (१,३३.४ ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ।
289. (१,३३.४ ) घृतश्चुतः शुचयो याः पावकास्ता न आपः शं स्योना भवन्तु ॥४॥
290. (१,३४.१ ) इयं वीरुन् मधुजाता मधुना त्वा खनामसि ।
291. (१,३४.१ ) मधोरधि प्रजातासि सा नो मधुमतस्कृधि ॥१॥
292. (१,३४.२ ) जिह्वाया अग्रे मधु मे जिह्वामूले मधूलकम् ।
293. (१,३४.२ ) ममेदह क्रतावसो मम चित्तमुपायसि ॥२॥
294. (१,३४.३ ) मधुमन् मे निक्रमणं मधुमन् मे परायणम् ।
295. (१,३४.३ ) वाचा वदामि मधुमद्भूयासं मधुसंदृशः ॥३॥
296. (१,३४.४ ) मधोरस्मि मधुतरो मदुघान् मधुमत्तरः ।
297. (१,३४.४ ) मामित्किल त्वं वनाः शाखां मधुमतीमिव ॥४॥
298. (१,३४.५ ) परि त्वा परितत्नुनेक्षुणागामविद्विषे ।
299. (१,३४.५ ) यथा मां कमिन्यसो यथा मन् नापगा असः ॥५॥
300. (१,३५.१ ) यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।
301. (१,३५.१ ) तत्ते बद्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥१॥
302. (१,३५.२ ) नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत्।
303. (१,३५.२ ) यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥२॥
304. (१,३५.३ ) अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।
305. (१,३५.३ ) इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥३॥
306. (१,३५.४ ) समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।
307. (१,३५.४ ) इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥४॥
308. (२,१.१ ) वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम् ।
309. (२,१.१ ) इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥१॥
310. (२,१.२ ) प्र तद्वोचेदमृतस्य विद्वान् गन्धर्वो धाम परमं गुहा यत्।
311. (२,१.२ ) त्रीणि पदानि निहिता गुहास्य यस्तानि वेद स पितुष्पितासत्॥२॥
312. (२,१.३ ) स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा ।
313. (२,१.३ ) यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥३॥
314. (२,१.४ ) परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य ।
315. (२,१.४ ) वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वेषो अग्निः ॥४॥
316. (२,१.५ ) परि विश्वा भुवनान्यायमृतस्य तन्तुं विततं दृशे कम् ।
317. (२,१.५ ) यत्र देवा अमृतमानशानाः समाने योनावध्यैरयन्त ॥५॥
318. (२,२.१ ) दिव्यो गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यो विक्ष्वीड्यः ।
319. (२,२.१ ) तं त्वा यौमि ब्रह्मणा दिव्य देव नमस्ते अस्तु दिवि ते सधस्थम् ॥१॥
320. (२,२.२ ) दिवि स्पृष्टो यजतः सूर्यत्वगवयाता हरसो दैव्यस्य ।
321. (२,२.२ ) मृडात्गन्धर्वो भुवनस्य यस्पतिरेक एव नमस्यः सुशेवाः ॥२॥
322. (२,२.३ ) अनवद्याभिः समु जग्म आभिरप्सरास्वपि गन्धर्व आसीत्।
323. (२,२.३ ) समुद्र आसां सदनं म आहुर्यतः सद्य आ च परा च यन्ति ॥३॥
324. (२,२.४ ) अभ्रिये दिद्युन् नक्षत्रिये या विश्वावसुं गन्धर्वं सचध्वे ।
325. (२,२.४ ) ताभ्यो वो देवीर्नम इत्कृणोमि ॥४॥
326. (२,२.५ ) याः क्लन्दास्तमिषीचयोऽक्षकामा मनोमुहः ।
327. (२,२.५ ) ताभ्यो गन्धर्वभ्योऽप्सराभ्योऽकरं नमः ॥५॥
328. (२,३.१ ) अदो यदवधावत्यवत्कमधि पर्वतात्।
329. (२,३.१ ) तत्ते कृणोमि भेषजं सुभेषजं यथाससि ॥१॥
330. (२,३.२ ) आदङ्गा कुविदङ्ग शतं या भेषजानि ते ।
331. (२,३.२ ) तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥२॥
332. (२,३.३ ) नीचैः खनन्त्यसुरा अरुस्राणमिदं महत्।
333. (२,३.३ ) तदास्रावस्य भेषजं तदु रोगमनीनशत्॥३॥
334. (२,३.४ ) उपजीका उद्भरन्ति समुद्रादधि भेषजम् ।
335. (२,३.४ ) तदास्रावस्य भेषजं तदु रोगमशीशमत्॥४॥
336. (२,३.५ ) अरुस्राणमिदं महत्पृथिव्या अध्युद्भृतम् ।
337. (२,३.५ ) तदास्रावस्य भेषजं तदु रोगमनीनशत्॥५॥
338. (२,३.६ ) शं नो भवन्त्वप ओषधयः शिवाः ।
339. (२,३.६ ) इन्द्रस्य वज्रो अप हन्तु रक्षस आराद्विसृष्टा इषवः पतन्तु रक्षसाम् ॥६॥
340. (२,४.१ ) दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव ।
341. (२,४.१ ) मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥१॥
342. (२,४.२ ) जङ्गिडो जम्भाद्विशराद्विष्कन्धादभिशोचनात्।
343. (२,४.२ ) मणिः सहस्रवीर्यः परि णः पातु विश्वतः ॥२॥
344. (२,४.३ ) अयं विष्कन्धं सहतेऽयं बाधते अत्त्रिणः ।
345. (२,४.३ ) अयं नो विश्वभेषजो जङ्गिडः पात्वंहसः ॥३॥
346. (२,४.४ ) देवैर्दत्तेन मणिना जङ्गिडेन मयोभुवा ।
347. (२,४.४ ) विष्कन्धं सर्वा रक्षांसि व्यायामे सहामहे ॥४॥
348. (२,४.५ ) शणश्च मा जङ्गिडश्च विष्कन्धादभि रक्षताम् ।
349. (२,४.५ ) अरण्यादन्य आभृतः कृष्या अन्यो रसेभ्यः ॥५॥
350. (२,४.६ ) कृत्यादूषिरयं मणिरथो अरातिदूषिः ।
351. (२,४.६ ) अथो सहस्वान् जङ्गिडः प्र ण आयुंषि तारिषत्॥६॥
352. (२,५.१ ) इन्द्र जुषस्व प्र वहा याहि शूर हरिभ्याम् ।
353. (२,५.१ ) पिबा सुतस्य मतेरिह मधोश्चकानश्चारुर्मदाय ॥१॥
354. (२,५.२ ) इन्द्र जठरं नव्यो न पृणस्व मधोर्दिवो न ।
355. (२,५.२ ) अस्य सुतस्य स्वर्णोप त्वा मदाः सुवाचो अगुः ॥२॥
356. (२,५.३ ) इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न ।
357. (२,५.३ ) बिभेद वलं भृगुर्न ससहे शत्रून् मदे सोमस्य ॥३॥
358. (२,५.४ ) आ त्वा विशन्तु सुतास इन्द्र पृणस्व कुक्षी विड्ढि शक्र धियेह्या नः ।
359. (२,५.४ ) श्रुधी हवं गिरो मे जुषस्वेन्द्र स्वयुग्भिर्मत्स्वेह महे रणाय ॥४॥
360. (२,५.५ ) इन्द्रस्य नु प्र वोचं वीर्याणि यानि चकार प्रथमानि वज्री ।
361. (२,५.५ ) अहन्न् अहिमनु अपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥५॥
362. (२,५.६ ) अहन्न् अहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
363. (२,५.६ ) वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥६॥
364. (२,५.७ ) वृषायमाणो अवृणीत सोमं त्रिकद्रुकेषु अपिबत्सुतस्य ।
365. (२,५.७ ) आ सायकं मघवादत्त वज्रमहन्न् एनं प्रथमजामहीनाम् ॥७॥
366. (२,६.१ ) समास्त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या ।
367. (२,६.१ ) सं दिव्येन दीदिहि रोचनेन विश्वा आ माहि प्रदिशश्चतस्रः ॥१॥
368. (२,६.२ ) सं चेध्यस्वाग्ने प्र च वर्धयेममुच्च तिष्ठ महते सौभगाय ।
369. (२,६.२ ) मा ते रिषन्न् उपसत्तारो अग्ने ब्रह्माणस्ते यशसः सन्तु मान्ये ॥२॥
370. (२,६.३ ) त्वामग्ने वृणते ब्राह्मणा इमे शिवो अग्ने संवरणे भवा नः ।
371. (२,६.३ ) सपत्नहाग्ने अभिमातिजिद्भव स्वे गये जागृह्यप्रयुछन् ॥३॥
372. (२,६.४ ) क्षत्रेणाग्ने स्वेन सं रभस्व मित्रेणाग्ने मित्रधा यतस्व ।
373. (२,६.४ ) सजातानां मध्यमेष्ठा राज्ञामग्ने विहव्यो दीदिहीह ॥४॥
374. (२,६.५ ) अति निहो अति सृधोऽत्यचित्तीरति द्विषः ।
375. (२,६.५ ) विश्वा ह्यग्ने दुरिता तर त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
376. (२,७.१ ) अघद्विष्टा देवजाता वीरुच्छपथयोपनी ।
377. (२,७.१ ) आपो मलमिव प्राणैक्षीत्सर्वान् मच्छपथामधि ॥१॥
378. (२,७.२ ) यश्च सापत्नः शपथो जाम्याः शपथश्च यः ।
379. (२,७.२ ) ब्रह्मा यन् मन्युतः शपात्सर्वं तन् नो अधस्पदम् ॥२॥
380. (२,७.३ ) दिवो मूलमवततं पृथिव्या अध्युत्ततम् ।
381. (२,७.३ ) तेन सहस्रकाण्डेन परि णः पाहि विश्वतः ॥३॥
382. (२,७.४ ) परि मां परि मे प्रजां परि णः पाहि यद्धनम् ।
383. (२,७.४ ) अरातिर्नो मा तारीन् मा नस्तारिशुरभिमातयः ॥४॥
384. (२,७.५ ) शप्तारमेतु शपथो यः सुहार्त्तेन नः सह ।
385. (२,७.५ ) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणीमसि ॥५॥
386. (२,८.१ ) उदगातां भगवती विचृतौ नाम तारके ।
387. (२,८.१ ) वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥१॥
388. (२,८.२ ) अपेयं रात्र्युछत्वपोछन्त्वभिकृत्वरीः ।
389. (२,८.२ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥२॥
390. (२,८.३ ) बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।
391. (२,८.३ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥३॥
392. (२,८.४ ) नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।
393. (२,८.४ ) वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥४॥
394. (२,८.५ ) नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।
395. (२,८.५ ) नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुछतु ॥५॥
396. (२,९.१ ) दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।
397. (२,९.१ ) अथो एनं वनस्पते जीवानां लोकमुन् नय ॥१॥
398. (२,९.२ ) आगादुदगादयं जीवानां व्रातमप्यगात्।
399. (२,९.२ ) अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥२॥
400. (२,९.३ ) अधीतीरध्यगादयमधि जीवपुरा अगान् ।
401. (२,९.३ ) शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥३॥
402. (२,९.४ ) देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः ।
403. (२,९.४ ) चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥४॥
404. (२,९.५ ) यश्चकार स निष्करत्स एव सुभिषक्तमः ।
405. (२,९.५ ) स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥५॥
406. (२,१०.१ ) क्षेत्रियात्त्वा निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
407. (२,१०.१ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥१॥
408. (२,१०.२ ) शं ते अग्निः सहाद्भिरस्तु शं सोमः सहौषधीभिः ।
409. (२,१०.२ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
410. (२,१०.२ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥२॥
411. (२,१०.३ ) शं ते वातो अन्तरिक्षे वयो धाच्छं ते भवन्तु प्रदिशश्चतस्रः ।
412. (२,१०.३ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
413. (२,१०.३ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥३॥
414. (२,१०.४ ) इमा या देवीः प्रदिशश्चतस्रो वातपत्नीरभि सूर्यो विचष्टे ।
415. (२,१०.४ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
416. (२,१०.४ ) अनागसं ब्रह्मणा त्वा कृनोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥४॥
417. (२,१०.५ ) तासु त्वान्तर्जरस्या दधामि प्र यक्ष्म एतु निरृतिः पराचैः ।
418. (२,१०.५ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
419. (२,१०.५ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥५॥
420. (२,१०.६ ) अमुक्था यक्ष्माद्दुरितादवद्याद्द्रुहः पाशाद्ग्राह्याश्चोदमुक्थाः ।
421. (२,१०.६ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
422. (२,१०.६ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥६॥
423. (२,१०.७ ) अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके ।
424. (२,१०.७ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
425. (२,१०.७ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥७॥
426. (२,१०.८ ) सूर्यमृतं तमसो ग्राह्या अधि देवा मुञ्चन्तो असृजन् निरेनसः ।
427. (२,१०.८ ) एवाहं त्वां क्षेत्रियान् निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्।
428. (२,१०.८ ) अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥८॥
429. (२,११.१ ) दूष्या दूषिरसि हेत्या हेतिरसि मेन्या मेनिरसि ।
430. (२,११.१ ) आप्नुहि श्रेयांसमति समं क्राम ॥१॥
431. (२,११.२ ) स्रक्त्योऽसि प्रतिसरोऽसि प्रत्यभिचरणोऽसि ।
432. (२,११.२ ) आप्नुहि श्रेयांसमति समं क्राम ॥२॥
433. (२,११.३ ) प्रति तमभि चर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
434. (२,११.३ ) आप्नुहि श्रेयांसमति समं क्राम ॥३॥
435. (२,११.४ ) सूरिरसि वर्चोधा असि तनूपानोऽसि ।
436. (२,११.४ ) आप्नुहि श्रेयांसमति समं क्राम ॥४॥
437. (२,११.५ ) शुक्रोऽसि भ्राजोऽसि स्वरसि ज्योतिरसि ।
438. (२,११.५ ) आप्नुहि श्रेयांसमति समं क्राम ॥५॥
439. (२,१२.१ ) द्यावापृथिवी उर्वन्तरिक्षं क्षेत्रस्य पत्न्युरुगायोऽद्भुतः ।
440. (२,१२.१ ) उतान्तरिक्षमुरु वातगोपं त इह तप्यन्तां मयि तप्यमाने ॥१॥
441. (२,१२.२ ) इदं देवाः शृणुत ये यज्ञिया स्थ भरद्वाजो मह्यमुक्थानि शंसति ।
442. (२,१२.२ ) पाशे स बद्धो दुरिते नि युज्यतां यो अस्माकं मन इदं हिनस्ति ॥२॥
443. (२,१२.३ ) इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि ।
444. (२,१२.३ ) वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥३॥
445. (२,१२.४ ) अशीतिभिस्तिसृभिः सामगेभिरादित्येभिर्वसुभिरङ्गिरोभिः ।
446. (२,१२.४ ) इष्टापूर्तमवतु नः पितॄणामामुं ददे हरसा दैव्येन ॥४॥
447. (२,१२.५ ) द्यावापृथिवी अनु मा दीधीथां विश्वे देवासो अनु मा रभध्वम् ।
448. (२,१२.५ ) अङ्गिरसः पितरः सोम्यासः पापमा ऋछत्वपकामस्य कर्ता ॥५॥
449. (२,१२.६ ) अतीव यो मरुतो मन्यते नो ब्रह्म वा यो निन्दिषत्क्रियमाणम् ।
450. (२,१२.६ ) तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषं द्यौरभिसंतपाति ॥६॥
451. (२,१२.७ ) सप्त प्राणान् अष्टौ मन्यस्तांस्ते वृश्चामि ब्रह्मणा ।
452. (२,१२.७ ) अया यमस्य सादनमग्निदूतो अरंकृतः ॥७॥
453. (२,१२.८ ) आ दधामि ते पदं समिद्धे जातवेदसि ।
454. (२,१२.८ ) अग्निः शरीरं वेवेष्ट्वसुं वागपि गछतु ॥८॥
455. (२,१३.१ ) आयुर्दा अग्ने जरसं वृणानो घृतप्रतीको घृतपृष्ठो अग्ने ।
456. (२,१३.१ ) घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रान् अभि रक्षतादिमम् ॥१॥
457. (२,१३.२ ) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।
458. (२,१३.२ ) बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥२॥
459. (२,१३.३ ) परीदं वासो अधिथाः स्वस्तयेऽभूर्गृष्टीनामभिशस्तिपा उ ।
460. (२,१३.३ ) शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥३॥
461. (२,१३.४ ) एह्यश्मानमा तिष्ठाश्मा भवतु ते तनूः ।
462. (२,१३.४ ) कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥४॥
463. (२,१३.५ ) यस्य ते वासः प्रथमवास्यं हरामस्तं त्वा विश्वेऽवन्तु देवाः ।
464. (२,१३.५ ) तं त्वा भ्रातरः सुवृधा वर्धमानमनु जायन्तां बहवः सुजातम् ॥५॥
465. (२,१४.१ ) निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।
466. (२,१४.१ ) सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः ॥१॥
467. (२,१४.२ ) निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्।
468. (२,१४.२ ) निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे ॥२॥
469. (२,१४.३ ) असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।
470. (२,१४.३ ) तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥३॥
471. (२,१४.४ ) भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।
472. (२,१४.४ ) गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥४॥
473. (२,१४.५ ) यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।
474. (२,१४.५ ) यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः ॥५॥
475. (२,१४.६ ) परि धामान्यासामाशुर्गाष्ठामिवासरम् ।
476. (२,१४.६ ) अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः ॥६॥
477. (२,१५.१ ) यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।
478. (२,१५.१ ) एवा मे प्राण मा बिभेः ॥१॥
479. (२,१५.२ ) यथाहश्च रात्री च न बिभीतो न रिष्यतः ।
480. (२,१५.२ ) एवा मे प्राण मा बिभेः ॥२॥
481. (२,१५.३ ) यथा सूर्यश्च चन्द्रश्च न बिभीतो न रिष्यतः ।
482. (२,१५.३ ) एवा मे प्राण मा बिभेः ॥३॥
483. (२,१५.४ ) यथा ब्रह्म च क्षत्रं च न बिभीतो न रिष्यतः ।
484. (२,१५.४ ) एवा मे प्राण मा बिभेः ॥४॥
485. (२,१५.५ ) यथा सत्यं चानृतं च न बिभीतो न रिष्यतः ।
486. (२,१५.५ ) एवा मे प्राण मा बिभेः ॥५॥
487. (२,१५.६ ) यथा भूतं च भव्यं च न बिभीतो न रिष्यतः ।
488. (२,१५.६ ) एवा मे प्राण मा बिभेः ॥६॥
489. (२,१६.१ ) प्राणापानौ मृत्योर्मा पातं स्वाहा ॥१॥
490. (२,१६.२ ) द्यावापृथिवी उपश्रुत्या मा पातं स्वाहा ॥२॥
491. (२,१६.३ ) सूर्य चक्षुषा मा पाहि स्वाहा ॥३॥
492. (२,१६.४ ) अग्ने वैश्वानर विश्वैर्मा देवैः पाहि स्वाहा ॥४॥
493. (२,१६.५ ) विश्वम्भर विश्वेन मा भरसा पाहि स्वाहा ॥५॥
494. (२,१७.१ ) ओजोऽस्योजो मे दाः स्वाहा ।१॥
495. (२,१७.२ ) सहोऽसि सहो मे दाः स्वाहा ॥२॥
496. (२,१७.३ ) बलमसि बलं दाः स्वाहा ॥३॥
497. (२,१७.४ ) आयुरस्यायुर्मे दाः स्वाह ॥४॥
498. (२,१७.५ ) श्रोत्रमसि श्रोत्रं मे दाः स्वाह ॥५॥
499. (२,१७.६ ) चक्षुरसि चक्षुर्मे दाः स्वाह ॥६॥
500. (२,१७.७ ) परिपाणमसि परिपाणं मे दाः स्वाह ॥७॥
501. (२,१८.१ ) भ्रातृव्यक्षयणमसि भ्रातृव्यचातनं मे दाः स्वाह ॥१॥
502. (२,१८.२ ) सपत्नक्षयणमसि सपत्नचातनं मे दाः स्वाह ॥२॥
503. (२,१८.३ ) अरायक्षयणमस्यरायचातनं मे दाः स्वाह ॥३॥
504. (२,१८.४ ) पिशाचक्षयणमसि पिशाचचातनं मे दाः स्वाह ॥४॥
505. (२,१८.५ ) सदान्वाक्षयणमसि सदान्वाचातनं मे दाः स्वाह ॥५॥
506. (२,१९.१ ) अग्ने यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
507. (२,१९.२ ) अग्ने यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
508. (२,१९.३ ) अग्ने यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
509. (२,१९.४ ) अग्ने यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
510. (२,१९.५ ) अग्ने यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
511. (२,२०.१ ) वायो यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
512. (२,२०.२ ) वायो यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
513. (२,२०.३ ) वायो यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
514. (२,२०.४ ) वायो यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
515. (२,२०.५ ) वायो यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
516. (२,२१.१ ) सूर्य यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
517. (२,२१.२ ) सूर्य यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
518. (२,२१.३ ) सूर्य यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
519. (२,२१.४ ) सूर्य यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
520. (२,२१.५ ) सूर्य यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
521. (२,२२.१ ) चन्द्र यत्ते तपस्तेन तं प्रति तप योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
522. (२,२२.२ ) चन्द्र यत्ते हरस्तेन तं प्रति हर योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
523. (२,२२.३ ) चन्द्र यत्तेऽर्चिस्तेन तं प्रत्यर्च योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
524. (२,२२.४ ) चन्द्र यत्ते शोचिस्तेन तं प्रति शोच योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
525. (२,२२.५ ) चन्द्र यत्ते तेजस्तेन तमतेजसं कृणु योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
526. (२,२३.१ ) आपो यद्वस्तपस्तेन तं प्रति तपत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥१॥
527. (२,२३.२ ) आपो यद्वस्हरस्तेन तं प्रति हरत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥२॥
528. (२,२३.३ ) आपो यद्वस्ऽर्चिस्तेन तं प्रति अर्चत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥३॥
529. (२,२३.४ ) आपो यद्वस्शोचिस्तेन तं प्रति शोचत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥४॥
530. (२,२३.५ ) आपो यद्वस्तेजस्तेन तमतेजसं कृणुत योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
531. (२,२४.१ ) शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
532. (२,२४.१ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥१॥
533. (२,२४.२ ) शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
534. (२,२४.२ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥२॥
535. (२,२४.३ ) म्रोकानुम्रोक पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
536. (२,२४.३ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥३॥
537. (२,२४.४ ) सर्पानुसर्प पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
538. (२,२४.४ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥४॥
539. (२,२४.५ ) जूर्णि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
540. (२,२४.५ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥५॥
541. (२,२४.६ ) उपब्दे पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
542. (२,२४.६ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥६॥
543. (२,२४.७ ) अर्जुनि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
544. (२,२४.७ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥७॥
545. (२,२४.८ ) भरूजि पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः ।
546. (२,२४.८ ) यस्य स्थ तमत्त यो वो प्राहैत्तमत्त स्वा मांसान्यत्त ॥८॥
547. (२,२५.१ ) शं नो देवी पृश्निपर्ण्यशं निरृत्या अकः ।
548. (२,२५.१ ) उग्रा हि कण्वजम्भनी तामभक्षि सहस्वतीम् ॥१॥
549. (२,२५.२ ) सहमानेयं प्रथमा पृश्निपर्ण्यजायत ।
550. (२,२५.२ ) तयाहं दुर्णाम्नां शिरो वृश्चामि शकुनेरिव ॥२॥
551. (२,२५.३ ) अरायमसृक्पावानं यश्च स्फातिं जिहीर्षति ।
552. (२,२५.३ ) गर्भादं कण्वं नाशय पृश्निपर्णि सहस्व च ॥३॥
553. (२,२५.४ ) गिरिमेनामा वेशय कण्वान् जीवितयोपनान् ।
554. (२,२५.४ ) तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्न् इहि ॥४॥
555. (२,२५.५ ) पराच एनान् प्र णुद कण्वान् जीवितयोपनान् ।
556. (२,२५.५ ) तमांसि यत्र गछन्ति तत्क्रव्यादो अजीगमम् ॥५॥
557. (२,२६.१ ) एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष ।
558. (२,२६.१ ) त्वष्टा येषां रूपधेयानि वेदास्मिन् तान् गोष्ठे सविता नि यछतु ॥१॥
559. (२,२६.२ ) इमं गोष्ठं पशवः सं स्रवन्तु बृहस्पतिरा नयतु प्रजानन् ।
560. (२,२६.२ ) सिनीवाली नयत्वाग्रमेषामाजग्मुषो अनुमते नि यछ ॥२॥
561. (२,२६.३ ) सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः ।
562. (२,२६.३ ) सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥३॥
563. (२,२६.४ ) सं सिञ्चामि गवां क्षीरं समाज्येन बलं रसम् ।
564. (२,२६.४ ) संसिक्ता अस्माकं वीरा ध्रुवा गावो मयि गोपतौ ॥४॥
565. (२,२६.५ ) आ हरामि गवां क्षीरमाहार्षं धान्यं रसम् ।
566. (२,२६.५ ) आहृता अस्माकं वीरा आ पत्नीरिदमस्तकम् ॥५॥
567. (२,२७.१ ) नेच्छत्रुः प्राशं जयाति सहमानाभिभूरसि ।
568. (२,२७.१ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥१॥
569. (२,२७.२ ) सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।
570. (२,२७.२ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥२॥
571. (२,२७.३ ) इन्द्रो ह चक्रे त्वा बाहावसुरेभ्य स्तरीतवे ।
572. (२,२७.३ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥३॥
573. (२,२७.४ ) पाटामिन्द्रो व्याश्नादसुरेभ्य स्तरीतवे ।
574. (२,२७.४ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥४॥
575. (२,२७.५ ) तयाहं शत्रून्त्साक्ष इन्द्रः सालावृकामिव ।
576. (२,२७.५ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥५॥
577. (२,२७.६ ) रुद्र जलाषभेषज नीलशिखण्ड कर्मकृत्।
578. (२,२७.६ ) प्राशं प्रतिप्राशो जह्यरसान् कृण्वोषधे ॥६॥
579. (२,२७.७ ) तस्य प्राशं त्वं जहि यो न इन्द्राभिदासति ।
580. (२,२७.७ ) अधि नो ब्रूहि शक्तिभिः प्राशि मामुत्तरं कृधि ॥७॥
581. (२,२८.१ ) तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये ।
582. (२,२८.१ ) मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥१॥
583. (२,२८.२ ) मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ ।
584. (२,२८.२ ) तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥२॥
585. (२,२८.३ ) त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः ।
586. (२,२८.३ ) मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥३॥
587. (२,२८.४ ) द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने ।
588. (२,२८.४ ) यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥४॥
589. (२,२८.५ ) इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् ।
590. (२,२८.५ ) मातेवास्मा अदिते शर्म यछ विश्वे देवा जरदष्टिर्यथासत्॥५॥
591. (२,२९.१ ) पार्थिवस्य रसे देवा भगस्य तन्वो बले ।
592. (२,२९.१ ) आयुष्यमस्मा अग्निः सूर्यो वर्च आ धाद्बृहस्पतिः ॥१॥
593. (२,२९.२ ) आयुरस्मै धेहि जातवेदः प्रजां त्वष्टरधिनिधेहि अस्मै ।
594. (२,२९.२ ) रायस्पोषं सवितरा सुवास्मै शतं जीवाति शरदस्तवायम् ॥२॥
595. (२,२९.३ ) आशीर्ण ऊर्जमुत सौप्रजास्त्वं दक्षं धत्तं द्रविणं सचेतसौ ।
596. (२,२९.३ ) जयं क्षेत्राणि सहसायमिन्द्र कृण्वानो अन्यान् अधरान्त्सपत्नान् ॥३॥
597. (२,२९.४ ) इन्द्रेण दत्तो वरुणेन शिष्टो मरुद्भिरुग्रः प्रहितो नो आगन् ।
598. (२,२९.४ ) एष वां द्यावापृथिवी उपस्थे मा क्षुधन् मा तृषत्॥४॥
599. (२,२९.५ ) ऊर्जमस्मा ऊर्जस्वती धत्तं पयो अस्मै पयस्वती धत्तम् ।
600. (२,२९.५ ) ऊर्जमस्मै द्यावपृथिवी अधातां विश्वे देवा मरुत ऊर्जमापः ॥५॥
601. (२,२९.६ ) शिवाभिष्टे हृदयं तर्पयाम्यनमीवो मोदिषीष्ठाः सुवर्चाः ।
602. (२,२९.६ ) सवासिनौ पिबतां मन्थमेतमश्विनो रूपं परिधाय मायाम् ॥६॥
603. (२,२९.७ ) इन्द्र एतां ससृजे विद्धो अग्र ऊर्जां स्वधामजरां सा त एषा ।
604. (२,२९.७ ) तया त्वं जीव शरदः सुवर्चा मा त आ सुस्रोद्भिषजस्ते अक्रन् ॥७॥
605. (२,३०.१ ) यथेदं भूम्या अधि तृणं वातो मथायति ।
606. (२,३०.१ ) एवा मथ्नामि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
607. (२,३०.२ ) सं चेन् नयाथो अश्विना कामिना सं च वक्षथः ।
608. (२,३०.२ ) सं वां भगासो अग्मत सं चित्तानि समु व्रता ॥२॥
609. (२,३०.३ ) यत्सुपर्णा विवक्षवो अनमीवा विवक्षवः ।
610. (२,३०.३ ) तत्र मे गछताद्धवं शल्य इव कुल्मलं यथा ॥३॥
611. (२,३०.४ ) यदन्तरं तद्बाह्यं यद्बाह्यं तदन्तरम् ।
612. (२,३०.४ ) कन्यानां विश्वरूपाणां मनो गृभायौषधे ॥४॥
613. (२,३०.५ ) एयमगन् पतिकामा जनिकामोऽहमागमम् ।
614. (२,३०.५ ) अश्वः कनिक्रदद्यथा भगेनाहं सहागमम् ॥५॥
615. (२,३१.१ ) इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी ।
616. (२,३१.१ ) तया पिनष्मि सं क्रिमीन् दृषदा खल्वामिव ॥१॥
617. (२,३१.२ ) दृष्टमदृष्टमतृहमथो कुरूरुमतृहम् ।
618. (२,३१.२ ) अल्गण्डून्त्सर्वान् छलुनान् क्रिमीन् वचसा जम्भयामसि ॥२॥
619. (२,३१.३ ) अल्गण्डून् हन्मि महता वधेन दूना अदूना अरसा अभूवन् ।
620. (२,३१.३ ) शिष्टान् अशिष्टान् नि तिरामि वाचा यथा क्रिमीणां नकिरुछिषातै ॥३॥
621. (२,३१.४ ) अन्वान्त्र्यं शीर्षण्यमथो पार्ष्टेयं क्रिमीन् ।
622. (२,३१.४ ) अवस्कवं व्यध्वरं क्रिमीन् वचसा जम्भयामसि ॥४॥
623. (२,३१.५ ) ये क्रिमयः पर्वतेशु वनेष्वोषधीषु पशुष्वप्स्वन्तः ।
624. (२,३१.५ ) ये अस्माकं तन्वमाविविशुः सर्वं तद्धन्मि जनिम क्रिमीणाम् ॥५॥
625. (२,३२.१ ) उद्यन्न् आदित्यः क्रिमीन् हन्तु निम्रोचन् हन्तु रश्मिभिः ।
626. (२,३२.१ ) ये अन्तः क्रिमयो गवि ॥१॥
627. (२,३२.२ ) विश्वरूपं चतुरक्षं क्रिमिं सारङ्गमर्जुनम् ।
628. (२,३२.२ ) शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥२॥
629. (२,३२.३ ) अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।
630. (२,३२.३ ) अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥३॥
631. (२,३२.४ ) हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।
632. (२,३२.४ ) हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥४॥
633. (२,३२.५ ) हतासो अस्य वेशसो हतासः परिवेशसः ।
634. (२,३२.५ ) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥५॥
635. (२,३२.६ ) प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि ।
636. (२,३२.६ ) भिनाद्मि ते कुषुम्भं यस्ते विषधानः ॥६॥
637. (२,३३.१ ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
638. (२,३३.१ ) यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१॥
639. (२,३३.२ ) ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।
640. (२,३३.२ ) यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥२॥
641. (२,३३.३ ) हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।
642. (२,३३.३ ) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥३॥
643. (२,३३.४ ) आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।
644. (२,३३.४ ) यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥४॥
645. (२,३३.५ ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
646. (२,३३.५ ) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भंससो वि वृहामि ते ॥५॥
647. (२,३३.६ ) अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
648. (२,३३.६ ) यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥६॥
649. (२,३३.७ ) अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।
650. (२,३३.७ ) यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥७॥
651. (२,३४.१ ) य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् ।
652. (२,३४.१ ) निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥१॥
653. (२,३४.२ ) प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।
654. (२,३४.२ ) उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥२॥
655. (२,३४.३ ) ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च ।
656. (२,३४.३ ) अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥३॥
657. (२,३४.४ ) ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।
658. (२,३४.४ ) वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥४॥
659. (२,३४.५ ) प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् ।
660. (२,३४.५ ) दिवं गछ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥५॥
661. (२,३५.१ ) ये भक्षयन्तो न वसून्यानृधुर्यान् अग्नयो अन्वतप्यन्त धिष्ण्याः ।
662. (२,३५.१ ) या तेषामवया दुरिष्टिः स्विष्टिं नस्तां कृणवद्विश्वकर्मा ॥१॥
663. (२,३५.२ ) यज्ञपतिमृषयः एनसाहुर्निर्भक्तं प्रजा अनुतप्यमानम् ।
664. (२,३५.२ ) मथव्यान्त्स्तोकान् अप यान् रराध सं नष्टेभिः सृजतु विश्वकर्मा ॥२॥
665. (२,३५.३ ) अदान्यान्त्सोमपान् मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः ।
666. (२,३५.३ ) यदेनश्चकृवान् बद्ध एष तं विश्वकर्मन् प्र मुञ्चा स्वस्तये ॥३॥
667. (२,३५.४ ) घोरा ऋषयो नमो अस्त्वेभ्यश्चक्षुर्यदेषां मनसश्च सत्यम् ।
668. (२,३५.४ ) बृहस्पतये महिष द्युमन्न् नमो विश्वकर्मन् नमस्ते पाह्यस्मान् ॥४॥
669. (२,३५.५ ) यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
670. (२,३५.५ ) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
671. (२,३६.१ ) आ नो अग्ने सुमतिं संभलो गमेदिमां कुमारीं सह नो भगेन ।
672. (२,३६.१ ) जुष्टा वरेषु समनेषु वल्गुरोषं पत्या सौभगमस्तु अस्यै ॥१॥
673. (२,३६.२ ) सोमजुष्टं ब्रह्मजुष्टमर्यम्ना संभृतं भगम् ।
674. (२,३६.२ ) धातुर्देवस्य सत्येन कृणोमि पतिवेदनम् ॥२॥
675. (२,३६.३ ) इयमग्ने नारी पतिं विदेष्ट सोमो हि राजा सुभगां कृणोति ।
676. (२,३६.३ ) सुवाना पुत्रान् महिषी भवाति गत्वा पतिं सुभगा वि राजतु ॥३॥
677. (२,३६.४ ) यथाखरो मघवंश्चारुरेष प्रियो मृगाणां सुषदा बभूव ।
678. (२,३६.४ ) एवा भगस्य जुष्टेयमस्तु नारी संप्रिया पत्याविराधयन्ती ॥४॥
679. (२,३६.५ ) भगस्य नावमा रोह पूर्णामनुपदस्वतीम् ।
680. (२,३६.५ ) तयोपप्रतारय यो वरः प्रतिकाम्यः ॥५॥
681. (२,३६.६ ) आ क्रन्दय धनपते वरमामनसं कृणु ।
682. (२,३६.६ ) सर्वं प्रदक्षिणं कृणु यो वरः प्रतिकाम्यः ॥६॥
683. (२,३६.७ ) इदं हिरण्यं गुल्गुल्वयमौक्षो अथो भगः ।
684. (२,३६.७ ) एते पतिभ्यस्त्वामदुः प्रतिकामाय वेत्तवे ॥७
685. (२,३६.७ ) आ ते नयतु सविता नयतु पतिर्यः प्रतिकाम्यः ।
686. (३,१.१ ) अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
687. (३,१.१ ) स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
688. (३,१.२ ) यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।
689. (३,१.२ ) अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥
690. (३,१.३ ) अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।
691. (३,१.३ ) युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥
692. (३,१.४ ) प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।
693. (३,१.४ ) जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥
694. (३,१.५ ) इन्द्र सेनां मोहयामित्राणाम् ।
695. (३,१.५ ) अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥
696. (३,१.६ ) इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
697. (३,१.६ ) चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥
698. (३,२.१ ) अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
699. (३,२.१ ) स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
700. (३,२.२ ) अयमग्निरमूमुहद्यानि चित्तानि वो हृदि ।
701. (३,२.२ ) वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥२॥
702. (३,२.३ ) इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर ।
703. (३,२.३ ) अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥
704. (३,२.४ ) व्याकूतय एषामिताथो चित्तानि मुह्यत ।
705. (३,२.४ ) अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥
706. (३,२.५ ) अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।
707. (३,२.५ ) अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥
708. (३,२.६ ) असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना ।
709. (३,२.६ ) तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्॥६॥
710. (३,३.१ ) अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची ।
711. (३,३.१ ) युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥
712. (३,३.२ ) दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् ।
713. (३,३.२ ) यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥
714. (३,३.३ ) अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः ।
715. (३,३.३ ) इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ {४}
716. (३,३.४ ) श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् ।
717. (३,३.४ ) अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ {५}
718. (३,३.५ ) ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत ।
719. (३,३.५ ) इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥५॥ {६}
720. (३,३.६ ) यस्ते हवं विवदत्सजातो यश्च निष्ट्यः ।
721. (३,३.६ ) अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥६॥ {७}
722. (३,४.१ ) आ त्वा गन् राष्त्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज ।
723. (३,४.१ ) सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥
724. (३,४.२ ) त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।
725. (३,४.२ ) वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥
726. (३,४.३ ) अछ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै ।
727. (३,४.३ ) जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥
728. (३,४.४ ) अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।
729. (३,४.४ ) अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥
730. (३,४.५ ) आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।
731. (३,४.५ ) तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥५॥
732. (३,४.६ ) इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः ।
733. (३,४.६ ) स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥६॥
734. (३,४.७ ) पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् ।
735. (३,४.७ ) तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥
736. (३,५.१ ) आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् ।
737. (३,५.१ ) ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥
738. (३,५.२ ) मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् ।
739. (३,५.२ ) अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥
740. (३,५.३ ) यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।
741. (३,५.३ ) तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥
742. (३,५.४ ) सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।
743. (३,५.४ ) तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥
744. (३,५.५ ) आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये ।
745. (३,५.५ ) यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥
746. (३,५.६ ) ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।
747. (३,५.६ ) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥
748. (३,५.७ ) ये राजानो राजकृतः सूता ग्रामण्यश्च ये ।
749. (३,५.७ ) उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥
750. (३,५.८ ) पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया ।
751. (३,५.८ ) संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥
752. (३,६.१ ) पुमान् पुंसः परिजातोऽश्वत्थः खदिरादधि ।
753. (३,६.१ ) स हन्तु शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥१॥
754. (३,६.२ ) तान् अश्वत्थ निः शृणीहि शत्रून् वैबाधदोधतः ।
755. (३,६.२ ) इन्द्रेण वृत्रघ्ना मेदी मित्रेण वरुणेन च ॥२॥
756. (३,६.३ ) यथाश्वत्थ निरभनोऽन्तर्महत्यर्णवे ।
757. (३,६.३ ) एवा तान्त्सर्वान् निर्भङ्ग्धि यान् अहं द्वेष्मि ये च माम् ॥३॥
758. (३,६.४ ) यः सहमानश्चरसि सासहान इव ऋषभः ।
759. (३,६.४ ) तेनाश्वत्थ त्वया वयं सपत्नान्त्सहिषीमहि ॥४॥
760. (३,६.५ ) सिनात्वेनान् निरृतिर्मृत्योः पाशैरमोक्यैः ।
761. (३,६.५ ) अश्वत्थ शत्रून् मामकान् यान् अहं द्वेष्मि ये च माम् ॥५॥
762. (३,६.६ ) यथाश्वत्थ वानस्पत्यान् आरोहन् कृणुषेऽधरान् ।
763. (३,६.६ ) एवा मे शत्रोर्मूर्धानं विष्वग्भिन्द्धि सहस्व च ॥६॥
764. (३,६.७ ) तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।
765. (३,६.७ ) न वैबाधप्रणुत्तानां पुनरस्ति निवर्तनम् ॥७॥
766. (३,६.८ ) प्रैणान् नुदे मनसा प्र चित्तेनोत ब्रह्मणा ।
767. (३,६.८ ) प्रैणान् वृक्षस्य शाखयाश्वत्थस्य नुदामहे ॥८॥
768. (३,७.१ ) हरिणस्य रघुष्यदोऽधि शीर्षणि भेषजम् ।
769. (३,७.१ ) स क्षेत्रियं विषाणया विषूचीनमनीनशत्॥१॥
770. (३,७.२ ) अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्।
771. (३,७.२ ) विषाणे वि ष्य गुष्पितं यदस्य क्षेत्रियं हृदि ॥२॥
772. (३,७.३ ) अदो यदवरोचते चतुष्पक्षमिव छदिः ।
773. (३,७.३ ) तेना ते सर्वं क्षेत्रियमङ्गेभ्यो नाशयामसि ॥३॥
774. (३,७.४ ) अमू ये दिवि सुभगे विचृतौ नाम तारके ।
775. (३,७.४ ) वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥४॥
776. (३,७.५ ) आप इद्वा उ भेषजीरापो अमीवचातनीः ।
777. (३,७.५ ) आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात्॥५॥
778. (३,७.६ ) यदासुतेः क्रियमानायाः क्षेत्रियं त्वा व्यानशे ।
779. (३,७.६ ) वेदाहं तस्य भेषजं क्षेत्रियं नाशयामि त्वत्॥६॥
780. (३,७.७ ) अपवासे नक्षत्राणामपवास उषसामुत ।
781. (३,७.७ ) अपास्मत्सर्वं दुर्भूतमप क्षेत्रियमुछतु ॥७॥
782. (३,८.१ ) आ यातु मित्र ऋतुभिः कल्पमानः संवेशयन् पृथिवीमुस्रियाभिः ।
783. (३,८.१ ) अथास्मभ्यं वरुणो वायुरग्निर्बृहद्राष्ट्रं संवेश्यं दधातु ॥१॥
784. (३,८.२ ) धाता रातिः सवितेदं जुशन्तामिन्द्रस्त्वष्टा प्रति हर्यन्तु मे वचः ।
785. (३,८.२ ) हुवे देवीमदितिं शूरपुत्रां सजातानां मध्यमेष्ठा यथासानि ॥२॥
786. (३,८.३ ) हुवे सोमं सवितारं नमोभिर्विश्वान् आदित्यामहमुत्तरत्वे ।
787. (३,८.३ ) अयमग्निर्दीदायद्दीर्घमेव सजातैरिद्धोऽप्रतिब्रुवद्भिः ॥३॥
788. (३,८.४ ) इहेदसाथ न परो गमाथेर्यो गोपाः पुष्टपतिर्व आजत्।
789. (३,८.४ ) अस्मै कामायोप कामिनीर्विश्वे वो देवा उपसंयन्तु ॥४॥
790. (३,८.५ ) सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।
791. (३,८.५ ) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥५॥
792. (३,८.६ ) अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।
793. (३,८.६ ) मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥६॥
794. (३,९.१ ) कर्शफस्य विशफस्य द्यौः पिता पृथिवी माता ।
795. (३,९.१ ) यथाभिचक्र देवास्तथाप कृणुता पुनः ॥१॥
796. (३,९.२ ) अश्रेष्माणो अधारयन् तथा तन् मनुना कृतम् ।
797. (३,९.२ ) कृणोमि वध्रि विष्कन्धं मुष्काबर्हो गवामिव ॥२॥
798. (३,९.३ ) पिशङ्गे सूत्रे खृगलं तदा बध्नन्ति वेधसः ।
799. (३,९.३ ) श्रवस्युं शुष्मं काबवं वध्रिं कृण्वन्तु बन्धुरः ॥३॥
800. (३,९.४ ) येना श्रवस्यवश्चरथ देवा इवासुरमायया ।
801. (३,९.४ ) शुनां कपिरिव दूषणो बन्धुरा काबवस्य च ॥४॥
802. (३,९.५ ) दुष्ट्यै हि त्वा भत्स्यामि दूषयिष्यामि काबवम् ।
803. (३,९.५ ) उदाशवो रथा इव शपथेभिः सरिष्यथ ॥५॥
804. (३,९.६ ) एकशतं विष्कन्धानि विष्ठिता पृथिवीमनु ।
805. (३,९.६ ) तेषां त्वामग्रे उज्जहरुर्मणिं विष्कन्धदूषणम् ॥६॥
806. (३,१०.१ ) प्रथमा ह व्युवास सा धेनुरभवद्यमे ।
807. (३,१०.१ ) सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥१॥
808. (३,१०.२ ) यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् ।
809. (३,१०.२ ) संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥
810. (३,१०.३ ) संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे ।
811. (३,१०.३ ) सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥
812. (३,१०.४ ) इयमेव सा या प्रथमा व्यौछदास्वितरासु चरति प्रविष्टा ।
813. (३,१०.४ ) महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥४॥
814. (३,१०.५ ) वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।
815. (३,१०.५ ) एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥
816. (३,१०.६ ) इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय ।
817. (३,१०.६ ) ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥६॥
818. (३,१०.७ ) आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम ।
819. (३,१०.७ ) पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।
820. (३,१०.७ ) सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥७॥
821. (३,१०.८ ) आयमगन्त्संवत्सरः पतिरेकाष्टके तव ।
822. (३,१०.८ ) सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥८॥
823. (३,१०.९ ) ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् ।
824. (३,१०.९ ) समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥
825. (३,१०.१० ) ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।
826. (३,१०.१० ) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥
827. (३,१०.११ ) इडया जुह्वतो वयं देवान् घृतवता यजे ।
828. (३,१०.११ ) गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥
829. (३,१०.१२ ) एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।
830. (३,१०.१२ ) तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥१२॥
831. (३,१०.१३ ) इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः ।
832. (३,१०.१३ ) कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥
833. (३,११.१ ) मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।
834. (३,११.१ ) ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥
835. (३,११.२ ) यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव ।
836. (३,११.२ ) तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥२॥
837. (३,११.३ ) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।
838. (३,११.३ ) इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥३॥
839. (३,११.४ ) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।
840. (३,११.४ ) शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥४॥
841. (३,११.५ ) प्र विशतं प्राणापानावनड्वाहाविव व्रजम् ।
842. (३,११.५ ) व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥५॥
843. (३,११.६ ) इहैव स्तं प्राणापानौ माप गातमितो युवम् ।
844. (३,११.६ ) शरीरमस्याङ्गानि जरसे वहतं पुनः ॥६॥
845. (३,११.७ ) जरायै त्वा परि ददामि जरायै नि धुवामि त्वा ।
846. (३,११.७ ) जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥७॥
847. (३,११.८ ) अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा ।
848. (३,११.८ ) यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया ।
849. (३,११.८ ) तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः ॥८॥
850. (३,१२.१ ) इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा ।
851. (३,१२.१ ) तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥
852. (३,१२.२ ) इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती ।
853. (३,१२.२ ) ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥
854. (३,१२.३ ) धरुण्यसि शाले बृहछन्दाः पूतिधान्या ।
855. (३,१२.३ ) आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३॥
856. (३,१२.४ ) इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् ।
857. (३,१२.४ ) उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥
858. (३,१२.५ ) मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।
859. (३,१२.५ ) तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
860. (३,१२.६ ) ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।
861. (३,१२.६ ) मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥
862. (३,१२.७ ) एमां कुमारस्तरुण आ वत्सो जगता सह ।
863. (३,१२.७ ) एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥७॥
864. (३,१२.८ ) पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् ।
865. (३,१२.८ ) इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥८॥
866. (३,१२.९ ) इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।
867. (३,१२.९ ) गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥९॥
868. (३,१३.१ ) यददः संप्रयतीरहावनदता हते ।
869. (३,१३.१ ) तस्मादा नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥१॥
870. (३,१३.२ ) यत्प्रेषिता वरुणेनाच्छीभं समवल्गत ।
871. (३,१३.२ ) तदाप्नोदिन्द्रो वो यतीस्तस्मादापो अनु ष्ठन ॥२॥
872. (३,१३.३ ) अपकामं स्यन्दमाना अवीवरत वो हि कम् ।
873. (३,१३.३ ) इन्द्रो वः शक्तिभिर्देवीस्तस्माद्वार्नाम वो हितम् ॥३॥
874. (३,१३.४ ) एकः वो देवोऽप्यतिष्ठत्स्यन्दमाना यथावशम् ।
875. (३,१३.४ ) उदानिषुर्महीरिति तस्मादुदकमुच्यते ॥४॥
876. (३,१३.५ ) आपो भद्रा घृतमिदाप आसन्न् अग्नीषोमौ बिभ्रत्याप इत्ताः ।
877. (३,१३.५ ) तीव्रो रसो मधुपृचामरंगम आ मा प्राणेन सह वर्चसा गमेत्॥५॥
878. (३,१३.६ ) आदित्पश्याम्युत वा शृणोम्या मा घोषो गछति वाङ्मासाम् ।
879. (३,१३.६ ) मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यदा वः ॥६॥
880. (३,१३.७ ) इदं व आपो हृदयमयं वत्स ऋतावरीः ।
881. (३,१३.७ ) इहेत्थमेत शक्वरीर्यत्रेदं वेशयामि वः ॥७॥
882. (३,१४.१ ) सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या ।
883. (३,१४.१ ) अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥१॥
884. (३,१४.२ ) सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः ।
885. (३,१४.२ ) समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥२॥
886. (३,१४.३ ) संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः ।
887. (३,१४.३ ) बिभ्रतीः सोम्यं मध्वनमीवा उपेतन ॥३॥
888. (३,१४.४ ) इहैव गाव एतनेहो शकेव पुष्यत ।
889. (३,१४.४ ) इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥४॥
890. (३,१४.५ ) शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत ।
891. (३,१४.५ ) इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥५॥
892. (३,१४.६ ) मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः ।
893. (३,१४.६ ) रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥६॥
894. (३,१५.१ ) इन्द्रमहं वणिजं चोदयामि स न ऐतु पुरएता नो अस्तु ।
895. (३,१५.१ ) नुदन्न् अरातिं परिपन्थिनं मृगं स ईशानो धनदा अस्तु मह्यम् ॥१॥
896. (३,१५.२ ) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
897. (३,१५.२ ) ते मा जुषन्तां पयसा घृतेन यथा क्रीत्वा धनमाहराणि ॥२॥
898. (३,१५.३ ) इध्मेनाग्न इछमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
899. (३,१५.३ ) यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥३॥
900. (३,१५.४ ) इमामग्ने शरणिं मीमृषो नो यमध्वानमगाम दूरम् ।
901. (३,१५.४ ) शुनं नो अस्तु प्रपणो विक्रयश्च प्रतिपणः फलिनं मा कृणोतु ।
902. (३,१५.४ ) इदं हव्यं संविदानौ जुषेथां शुनं नो अस्तु चरितमुत्थितं च ॥४॥
903. (३,१५.५ ) येन धनेन प्रपणं चरामि धनेन देवा धनमिछमानः ।
904. (३,१५.५ ) तन् मे भूयो भवतु मा कनीयोऽग्ने सातघ्नो देवान् हविषा नि षेध ॥५॥
905. (३,१५.६ ) येन धनेन प्रपणं चरामि धनेन देवा धनमिछमानः ।
906. (३,१५.६ ) तस्मिन् म इन्द्रो रुचिमा दधातु प्रजापतिः सविता सोमो अग्निः ॥६॥
907. (३,१५.७ ) उप त्वा नमसा वयं होतर्वैश्वानर स्तुमः ।
908. (३,१५.७ ) स नः प्रजास्वात्मसु गोषु प्राणेषु जागृहि ॥७॥
909. (३,१५.८ ) विश्वाहा ते सदमिद्भरेमाश्वायेव तिष्ठते जातवेदः ।
910. (३,१५.८ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥८॥
911. (३,१६.१ ) प्रातरग्निं प्रातरिन्द्रं हवामहे प्रातर्मित्रावरुणा प्रातरश्विना ।
912. (३,१६.१ ) प्रातर्भगं पूषणं ब्रह्मणस्पतिं प्रातः सोममुत रुद्रं हवामहे ॥१॥
913. (३,१६.२ ) प्रातर्जितं भगमुग्रं हवामहे वयं पुत्रमदितेर्यो विधर्ता ।
914. (३,१६.२ ) आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥२॥
915. (३,१६.३ ) भग प्रणेतर्भग सत्यराधो भगेमां धियमुदवा ददन् नः ।
916. (३,१६.३ ) भग प्र णो जनय गोभिरश्वैर्भग प्र नृभिर्नृवन्तः स्याम ॥३॥
917. (३,१६.४ ) उतेदानीं भगवन्तः स्यामोत प्रपित्व उत मध्ये अह्नाम् ।
918. (३,१६.४ ) उतोदितौ मघवन्त्सूर्यस्य वयं देवानां सुमतौ स्याम ॥४॥
919. (३,१६.५ ) भग एव भगवामस्तु देवस्तेना वयं भगवन्तः स्याम ।
920. (३,१६.५ ) तं त्वा भग सर्व इज्जोहवीमि स नो भग पुरएता भवेह ॥५॥
921. (३,१६.६ ) समध्वरायोषसो नमन्त दधिक्रावेव शुचये पदाय ।
922. (३,१६.६ ) अर्वाचीनं वसुविदं भगं मे रथमिवाश्वा वाजिन आ वहन्तु ॥६॥
923. (३,१६.७ ) अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुछन्तु भद्राः ।
924. (३,१६.७ ) घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥७॥
925. (३,१७.१ ) सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्।
926. (३,१७.१ ) धीरा देवेषु सुम्नयौ ॥१॥
927. (३,१७.२ ) युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।
928. (३,१७.२ ) विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥
929. (३,१७.३ ) लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु ।
930. (३,१७.३ ) उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥३॥
931. (३,१७.४ ) इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु ।
932. (३,१७.४ ) सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥४॥
933. (३,१७.५ ) शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् ।
934. (३,१७.५ ) शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥५॥
935. (३,१७.६ ) शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।
936. (३,१७.६ ) शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥६॥
937. (३,१७.७ ) शुनासीरेह स्म मे जुषेथाम् ।
938. (३,१७.७ ) यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥७॥
939. (३,१७.८ ) सीते वन्दामहे त्वार्वाची सुभगे भव ।
940. (३,१७.८ ) यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥
941. (३,१७.९ ) घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः ।
942. (३,१७.९ ) सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥९॥
943. (३,१८.१ ) इमां खनाम्योषधिं वीरुधां बलवत्तमाम् ।
944. (३,१८.१ ) यया सपत्नीं बाधते यया संविन्दते पतिम् ॥१॥
945. (३,१८.२ ) उत्तानपर्णे सुभगे देवजूते सहस्वति ।
946. (३,१८.२ ) सपत्नीं मे परा णुद पतिं मे केवलं कृधि ॥२॥
947. (३,१८.३ ) नहि ते नाम जग्राह नो अस्मिन् रमसे पतौ ।
948. (३,१८.३ ) परामेव परावतं सपत्नीं गमयामसि ॥३॥
949. (३,१८.४ ) उत्तराहमुत्तर उत्तरेदुत्तराभ्यः ।
950. (३,१८.४ ) अधः सपत्नी या ममाधरा साधराभ्यः ॥४॥
951. (३,१८.५ ) अहमस्मि सहमानाथो त्वमसि सासहिः ।
952. (३,१८.५ ) उभे सहस्वती भूत्वा सपत्नीं मे सहावहै ॥५॥
953. (३,१८.६ ) अभि तेऽधां सहमानामुप तेऽधां सहीयसीम् ।
954. (३,१८.६ ) मामनु प्र ते मनो वत्सं गौरिव धावतु पथा वारिव धावतु ॥६॥
955. (३,१९.१ ) संशितं म इदं ब्रह्म संशितं वीर्यं बलम् ।
956. (३,१९.१ ) संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥१॥
957. (३,१९.२ ) समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् ।
958. (३,१९.२ ) वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥२॥
959. (३,१९.३ ) नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।
960. (३,१९.३ ) क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥३॥
961. (३,१९.४ ) तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत ।
962. (३,१९.४ ) इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥४॥
963. (३,१९.५ ) एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।
964. (३,१९.५ ) एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥५॥
965. (३,१९.६ ) उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः ।
966. (३,१९.६ ) पृथग्घोषा उलुलयः केतुमन्त उदीरताम् ।
967. (३,१९.६ ) देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥६॥
968. (३,१९.७ ) प्रेता जयता नर उग्रा वः सन्तु बाहवः ।
969. (३,१९.७ ) तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥७॥
970. (३,१९.८ ) अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
971. (३,१९.८ ) जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥८॥
972. (३,२०.१ ) अयं ते योनिरृत्वियो यतो जातो अरोचथाः ।
973. (३,२०.१ ) तं जानन्न् अग्न आ रोहाधा नो वर्धय रयिम् ॥१॥
974. (३,२०.२ ) अग्ने अछा वदेह नः प्रत्यङ्नः सुमना भव ।
975. (३,२०.२ ) प्र णो यछ विशां पते धनदा असि नस्त्वम् ॥२॥
976. (३,२०.३ ) प्र णो यछत्वर्यमा प्र भगः प्र बृहस्पतिः ।
977. (३,२०.३ ) प्र देवीः प्रोत सूनृता रयिं देवी दधातु मे ॥३॥
978. (३,२०.४ ) सोमं राजानमवसेऽग्निं गीर्भिर्हवामहे ।
979. (३,२०.४ ) आदित्यं विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥४॥
980. (३,२०.५ ) त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं वर्धय ।
981. (३,२०.५ ) त्वं नो देव दातवे रयिं दानाय चोदय ॥५॥
982. (३,२०.६ ) इन्द्रवायू उभाविह सुहवेह हवामहे ।
983. (३,२०.६ ) यथा नः सर्व इज्जनः संगत्यां सुमना असद्दानकामश्च नो भुवत्॥६॥
984. (३,२०.७ ) अर्यमणं बृहस्पतिमिन्द्रं दानाय चोदय ।
985. (३,२०.७ ) वातं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥७॥
986. (३,२०.८ ) वाजस्य नु प्रसवे सं बभूविमेमा च विश्वा भुवनानि अन्तः ।
987. (३,२०.८ ) उतादित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नि यछ ॥८॥
988. (३,२०.९ ) दुह्रां मे पञ्च प्रदिषो दुह्रामुर्वीर्यथाबलम् ।
989. (३,२०.९ ) प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥९॥
990. (३,२०.१० ) गोसनिं वाचमुदेयं वर्चसा माभ्युदिहि ।
991. (३,२०.१० ) आ रुन्धां सर्वतो वायुस्त्वष्टा पोषं दधातु मे ॥१०॥
992. (३,२१.१ ) ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु ।
993. (३,२१.१ ) य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥१॥
994. (३,२१.२ ) यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु ।
995. (३,२१.२ ) य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥२॥
996. (३,२१.३ ) य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः ।
997. (३,२१.३ ) यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥३॥
998. (३,२१.४ ) यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।
999. (३,२१.४ ) यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥४॥
1000. (३,२१.५ ) यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः ।
1001. (३,२१.५ ) वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥५॥
1002. (३,२१.६ ) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
1003. (३,२१.६ ) वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥६॥
1004. (३,२१.७ ) दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।
1005. (३,२१.७ ) ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥७॥
1006. (३,२१.८ ) हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् ।
1007. (३,२१.८ ) विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥
1008. (३,२१.९ ) शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः ।
1009. (३,२१.९ ) अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥
1010. (३,२१.१० ) ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः ।
1011. (३,२१.१० ) वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥१०॥
1012. (३,२२.१ ) हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव ।
1013. (३,२२.१ ) तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥१॥
1014. (३,२२.२ ) मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु ।
1015. (३,२२.२ ) देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥२॥
1016. (३,२२.३ ) येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः ।
1017. (३,२२.३ ) येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥३॥
1018. (३,२२.४ ) यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः ।
1019. (३,२२.४ ) यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः ।
1020. (३,२२.४ ) तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥४॥
1021. (३,२२.५ ) यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते ।
1022. (३,२२.५ ) तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥५॥
1023. (३,२२.६ ) हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि ।
1024. (३,२२.६ ) तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥६॥
1025. (३,२३.१ ) येन वेहद्बभूविथ नाशयामसि तत्त्वत्।
1026. (३,२३.१ ) इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥
1027. (३,२३.२ ) आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।
1028. (३,२३.२ ) आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥
1029. (३,२३.३ ) पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् ।
1030. (३,२३.३ ) भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥३॥
1031. (३,२३.४ ) यानि बद्राणि बीजान्यृषभा जनयन्ति च ।
1032. (३,२३.४ ) तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥४॥
1033. (३,२३.५ ) कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते ।
1034. (३,२३.५ ) विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥५॥
1035. (३,२३.६ ) यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ।
1036. (३,२३.६ ) तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥६॥
1037. (३,२४.१ ) पयस्वतीरोषधयः पयस्वन् मामकं वचः ।
1038. (३,२४.१ ) अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥१॥
1039. (३,२४.२ ) वेदाहं पयस्वन्तं चकार धान्यं बहु ।
1040. (३,२४.२ ) संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे ॥२॥
1041. (३,२४.३ ) इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः ।
1042. (३,२४.३ ) वृष्टे शापं नदीरिवेह स्फातिं समावहान् ॥३॥
1043. (३,२४.४ ) उदुत्सं शतधारं सहस्रधारमक्षितम् ।
1044. (३,२४.४ ) एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥४॥
1045. (३,२४.५ ) शतहस्त समाहर सहस्रहस्त सं किर ।
1046. (३,२४.५ ) कृतस्य कार्यस्य चेह स्फातिं समावह ॥५॥
1047. (३,२४.६ ) तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः ।
1048. (३,२४.६ ) तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥६॥
1049. (३,२४.७ ) उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते ।
1050. (३,२४.७ ) ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥७॥
1051. (३,२५.१ ) उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे ।
1052. (३,२५.१ ) इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥
1053. (३,२५.२ ) आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् ।
1054. (३,२५.२ ) तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥२॥
1055. (३,२५.३ ) या प्लीहानं शोषयति कामस्येषुः सुसंनता ।
1056. (३,२५.३ ) प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥
1057. (३,२५.४ ) शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा ।
1058. (३,२५.४ ) मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥४॥
1059. (३,२५.५ ) आजामि त्वाजन्या परि मातुरथो पितुः ।
1060. (३,२५.५ ) यथा मम क्रतावसो मम चित्तमुपायसि ॥५॥
1061. (३,२५.६ ) व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् ।
1062. (३,२५.६ ) अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥६॥
1063. (३,२६.१ ) येऽस्यां स्थ प्राच्यां दिशि हेतयो नाम देवास्तेषां वो अग्निरिषवः ।
1064. (३,२६.१ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥१॥
1065. (३,२६.२ ) येऽस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः ।
1066. (३,२६.२ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥२॥
1067. (३,२६.३ ) येऽस्यां स्थ प्रतीच्यां दिशि वैराजा नाम देवास्तेषां व आप इषवः ।
1068. (३,२६.३ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥३॥
1069. (३,२६.४ ) येऽस्यां स्थोदीच्यां दिशि प्रविध्यन्तो नाम देवास्तेषां वो वात इषवः ।
1070. (३,२६.४ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥४॥
1071. (३,२६.५ ) येऽस्यां स्थ ध्रुवायां दिशि निलिम्पा नाम देवास्तेषां व ओषधीरिषवः ।
1072. (३,२६.५ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥५॥
1073. (३,२६.६ ) येऽस्यां स्थोर्ध्वायां दिश्यवस्वन्तो नाम देवास्तेषां वो बृहस्पतिरिषवः ।
1074. (३,२६.६ ) ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥६॥
1075. (३,२७.१ ) प्राची दिगग्निरधिपतिरसितो रक्षितादित्या इषवः ।
1076. (३,२७.१ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
1077. (३,२७.१ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥१॥
1078. (३,२७.२ ) दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः ।
1079. (३,२७.२ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
1080. (३,२७.२ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥२॥
1081. (३,२७.३ ) प्रतीची दिग्वरुणोऽधिपतिः पृदाकू रक्षितान्नमिषवः ।
1082. (३,२७.३ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
1083. (३,२७.३ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥३॥
1084. (३,२७.४ ) उदीची दिक्सोमोऽधिपतिः स्वजो रक्षिताशनिरिषवः ।
1085. (३,२७.४ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
1086. (३,२७.४ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥४॥
1087. (३,२७.५ ) ध्रुवा दिग्विष्णुरधिपतिः कल्माषग्रीवो रक्षिता वीरुध इषवः ।
1088. (३,२७.५ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
1089. (३,२७.५ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥५॥
1090. (३,२७.६ ) ऊर्ध्वा दिग्बृहस्पतिरधिपतिः श्वित्रो रक्षिता वर्षमिषवः ।
1091. (३,२७.६ ) तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु ।
1092. (३,२७.६ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥६॥
1093. (३,२८.१ ) एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः ।
1094. (३,२८.१ ) यत्र विजायते यमिन्यपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥१॥
1095. (३,२८.२ ) एषा पशून्त्सं क्षिणाति क्रव्याद्भूत्वा व्यद्वरी ।
1096. (३,२८.२ ) उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात्॥२॥
1097. (३,२८.३ ) शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा ।
1098. (३,२८.३ ) शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥३॥
1099. (३,२८.४ ) इह पुष्टिरिह रस इह सहस्रसातमा भव ।
1100. (३,२८.४ ) पशून् यमिनि पोषय ॥४॥
1101. (३,२८.५ ) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
1102. (३,२८.५ ) तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥५॥
1103. (३,२८.६ ) यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः ।
1104. (३,२८.६ ) तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥६॥
1105. (३,२९.१ ) यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः ।
1106. (३,२९.१ ) अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥१॥
1107. (३,२९.२ ) सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् ।
1108. (३,२९.२ ) आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥२॥
1109. (३,२९.३ ) यो ददाति शितिपादमविं लोकेन संमितम् ।
1110. (३,२९.३ ) स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥३॥
1111. (३,२९.४ ) पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
1112. (३,२९.४ ) प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥४॥
1113. (३,२९.५ ) पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
1114. (३,२९.५ ) प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥५॥
1115. (३,२९.६ ) इरेव नोप दस्यति समुद्र इव पयो महत्।
1116. (३,२९.६ ) देवौ सवासिनाविव शितिपान् नोप दस्यति ॥६॥
1117. (३,२९.७ ) क इदं कस्मा अदात्कामः कामायादात्।
1118. (३,२९.७ ) कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश ।
1119. (३,२९.७ ) कामेन त्वा प्रति गृह्नामि कामैतत्ते ॥७॥
1120. (३,२९.८ ) भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत्।
1121. (३,२९.८ ) माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥८॥
1122. (३,३०.१ ) सहृदयं सांमनस्यमविद्वेषं कृणोमि वः ।
1123. (३,३०.१ ) अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥१॥
1124. (३,३०.२ ) अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः ।
1125. (३,३०.२ ) जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥
1126. (३,३०.३ ) मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा ।
1127. (३,३०.३ ) सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥३॥
1128. (३,३०.४ ) येन देवा न वियन्ति नो च विद्विषते मिथः ।
1129. (३,३०.४ ) तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥
1130. (३,३०.५ ) ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः ।
1131. (३,३०.५ ) अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि ॥५॥
1132. (३,३०.६ ) समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि ।
1133. (३,३०.६ ) सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥६॥
1134. (३,३०.७ ) सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान् ।
1135. (३,३०.७ ) देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥७॥
1136. (३,३१.१ ) वि देवा जरसावृतन् वि त्वमग्ने अरात्या ।
1137. (३,३१.१ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१॥
1138. (३,३१.२ ) व्यार्त्या पवमानो वि शक्रः पापकृत्यया ।
1139. (३,३१.२ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥२॥
1140. (३,३१.३ ) वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् ।
1141. (३,३१.३ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥३॥
1142. (३,३१.४ ) वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् ।
1143. (३,३१.४ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥४॥
1144. (३,३१.५ ) त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति ।
1145. (३,३१.५ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥५॥
1146. (३,३१.६ ) अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः ।
1147. (३,३१.६ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥६॥
1148. (३,३१.७ ) प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन् ।
1149. (३,३१.७ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥७॥
1150. (३,३१.८ ) आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः ।
1151. (३,३१.८ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥८॥
1152. (३,३१.९ ) प्राणेन प्राणतां प्राणेहैव भव मा मृथाः ।
1153. (३,३१.९ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥९॥
1154. (३,३१.१० ) उदायुषा समायुषोदोषधीनां रसेन ।
1155. (३,३१.१० ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१०॥
1156. (३,३१.११ ) आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम् ।
1157. (३,३१.११ ) व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥११॥
1158. (४,१.१ ) ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
1159. (४,१.१ ) स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
1160. (४,१.२ ) इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः ।
1161. (४,१.२ ) तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥२॥
1162. (४,१.३ ) प्र यो जज्ञे विद्वान् अस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति ।
1163. (४,१.३ ) ब्रह्म ब्रह्मण उज्जभार मध्यान् निचैरुच्चैः स्वधा अभि प्र तस्थौ ॥३॥
1164. (४,१.४ ) स हि विदः स पृथिव्या ऋतस्था मही क्षेमं रोदसी अस्कभायत्।
1165. (४,१.४ ) महान् मही अस्कभायद्वि जातो द्यां सद्म पार्थिवं च रजः ॥४॥
1166. (४,१.५ ) स भुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्।
1167. (४,१.५ ) अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥५॥
1168. (४,१.६ ) नूनं तदस्य काव्यो हिनोति महो देवस्य पूर्व्यस्य धाम ।
1169. (४,१.६ ) एष जज्ञे बहुभिः साकमित्था पूर्वे अर्धे विषिते ससन् नु ॥६॥
1170. (४,१.७ ) योऽथर्वाणं पितरं देवबन्धुं बृहस्पतिं नमसाव च गछात्।
1171. (४,१.७ ) त्वं विश्वेषां जनिता यथासः कविर्देवो न दभायत्स्वधावान् ॥७॥
1172. (४,२.१ ) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
1173. (४,२.१ ) योऽस्येशे द्विपदो यश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥१॥
1174. (४,२.२ ) यः प्राणतो निमिषतो महित्वैको राजा जगतो बभूव ।
1175. (४,२.२ ) यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥२॥
1176. (४,२.३ ) यं क्रन्दसी अवतश्चस्कभाने भियसाने रोदसी अह्वयेथाम् ।
1177. (४,२.३ ) यस्यासौ पन्था रजसो विमानः कस्मै देवाय हविषा विधेम ॥३॥
1178. (४,२.४ ) यस्य द्यौरुर्वी पृथिवी च मही यस्याद उर्वन्तरिक्षम् ।
1179. (४,२.४ ) यस्यासौ सूरो विततो महित्वा कस्मै देवाय हविषा विधेम ॥४॥
1180. (४,२.५ ) यस्य विश्वे हिमवन्तो महित्वा समुद्रे यस्य रसामिदाहुः ।
1181. (४,२.५ ) इमाश्च प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥५॥
1182. (४,२.६ ) आपो अग्रे विश्वमावन् गर्भं दधाना अमृता ऋतज्ञाः ।
1183. (४,२.६ ) यासु देवीष्वधि देव आसीत्कस्मै देवाय हविषा विधेम ॥६॥
1184. (४,२.७ ) हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्।
1185. (४,२.७ ) स दाधार पृथिवीमुत द्यां कस्मै देवाय हविषा विधेम ॥७॥
1186. (४,२.८ ) आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन् ।
1187. (४,२.८ ) तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥८॥
1188. (४,३.१ ) उदितस्त्रयो अक्रमन् व्याघ्रः पुरुषो वृकः ।
1189. (४,३.१ ) हिरुग्घि यन्ति सिन्धवो हिरुग्देवो वनस्पतिर्हिरुङ्नमन्तु शत्रवः ॥१॥
1190. (४,३.२ ) परेणैतु पथा वृकः परमेणोत तस्करः ।
1191. (४,३.२ ) परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥२॥
1192. (४,३.३ ) अक्ष्यौ च ते मुखं च ते व्याघ्र जम्भयामसि ।
1193. (४,३.३ ) आत्सर्वान् विंशतिं नखान् ॥३॥
1194. (४,३.४ ) व्याघ्रं दत्वतां वयं प्रथमं जम्भयामसि ।
1195. (४,३.४ ) आदु ष्टेनमथो अहिं यातुधानमथो वृकम् ॥४॥
1196. (४,३.५ ) यो अद्य स्तेन आयति स संपिष्टो अपायति ।
1197. (४,३.५ ) पथामपध्वंसेनैत्विन्द्रो वज्रेण हन्तु तम् ॥५॥
1198. (४,३.६ ) मूर्णा मृगस्य दन्ता अपिशीर्णा उ पृष्टयः ।
1199. (४,३.६ ) निम्रुक्ते गोधा भवतु नीचायच्छशयुर्मृगः ॥६॥
1200. (४,३.७ ) यत्संयमो न वि यमो वि यमो यन् न संयमः ।
1201. (४,३.७ ) इन्द्रजाः सोमजा आथर्वणमसि व्याघ्रजम्भनम् ॥७॥
1202. (४,४.१ ) यां त्वा गन्धर्वो अखनद्वरुणाय मृतभ्रजे ।
1203. (४,४.१ ) तां त्वा वयं खनामस्योषधिं शेपहर्षणीम् ॥१॥
1204. (४,४.२ ) उदुषा उदु सूर्य उदिदं मामकं वचः ।
1205. (४,४.२ ) उदेजतु प्रजापतिर्वृषा शुष्मेण वाजिना ॥२॥
1206. (४,४.३ ) यथा स्म ते विरोहतोऽभितप्तमिवानति ।
1207. (४,४.३ ) ततस्ते शुष्मवत्तरमियं कृणोत्वोषधिः ॥३॥
1208. (४,४.४ ) उच्छुष्मौषधीनां सारा ऋषभाणाम् ।
1209. (४,४.४ ) सं पुंसामिन्द्र वृष्ण्यमस्मिन् धेहि तनूवशिन् ॥४॥
1210. (४,४.५ ) अपां रसः प्रथमजोऽथो वनस्पतीनाम् ।
1211. (४,४.५ ) उत सोमस्य भ्रातास्युतार्शमसि वृष्ण्यम् ॥५॥
1212. (४,४.६ ) अद्याग्ने अद्य सवितरद्य देवि सरस्वति ।
1213. (४,४.६ ) अद्यास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥६॥
1214. (४,४.७ ) आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।
1215. (४,४.७ ) क्रमस्वर्श इव रोहितमनवग्लायता सदा ॥७॥
1216. (४,४.८ ) अश्वस्याश्वतरस्याजस्य पेत्वस्य च ।
1217. (४,४.८ ) अथ ऋषभस्य ये वाजास्तान् अस्मिन् धेहि तनूवशिन् ॥८॥
1218. (४,५.१ ) सहस्रशृङ्गो वृषभो यः समुद्रादुदाचरत्।
1219. (४,५.१ ) तेना सहस्येना वयं नि जनान्त्स्वापयामसि ॥१॥
1220. (४,५.२ ) न भूमिं वातो अति वाति नाति पश्यति कश्चन ।
1221. (४,५.२ ) स्त्रियश्च सर्वाः स्वापय शुनश्चेन्द्रसखा चरन् ॥२॥
1222. (४,५.३ ) प्रोष्ठेशयास्तल्पेशया नारीर्या वह्यशीवरीः ।
1223. (४,५.३ ) स्त्रियो याः पुण्यगन्धयस्ताः सर्वाः स्वापयामसि ॥३॥
1224. (४,५.४ ) एजदेजदजग्रभं चक्षुः प्राणमजग्रभम् ।
1225. (४,५.४ ) अङ्गान्यजग्रभं सर्वा रात्रीणामतिशर्वरे ॥४॥
1226. (४,५.५ ) य आस्ते यश्चरति यश्च तिष्ठन् विपश्यति ।
1227. (४,५.५ ) तेषां सं दध्मो अक्षीणि यथेदं हर्म्यं तथा ॥५॥
1228. (४,५.६ ) स्वप्तु माता स्वप्तु पिता स्वप्तु श्वा स्वप्तु विश्पतिः ।
1229. (४,५.६ ) स्वपन्त्वस्यै ज्ञातयः स्वप्त्वयमभितो जनः ॥६॥
1230. (४,५.७ ) स्वप्न स्वप्नाभिकरणेन सर्वं नि स्वापया जनम् ।
1231. (४,५.७ ) ओत्सूर्यमन्यान्त्स्वापयाव्युषं जागृतादहमिन्द्र इवारिष्टो अक्षितः ॥७॥
1232. (४,६.१ ) ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः ।
1233. (४,६.१ ) स सोमं प्रथमः पपौ स चकारारसं विषम् ॥१॥
1234. (४,६.२ ) यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे ।
1235. (४,६.२ ) वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥२॥
1236. (४,६.३ ) सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्।
1237. (४,६.३ ) नामीमदो नारूरुप उतास्मा अभवः पितुः ॥३॥
1238. (४,६.४ ) यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः ।
1239. (४,६.४ ) अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥४॥
1240. (४,६.५ ) शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः ।
1241. (४,६.५ ) अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥५॥
1242. (४,६.६ ) अरसस्त इषो शल्योऽथो ते अरसं विषम् ।
1243. (४,६.६ ) उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥६॥
1244. (४,६.७ ) ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् ।
1245. (४,६.७ ) सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥७॥
1246. (४,६.८ ) वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।
1247. (४,६.८ ) वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥८॥
1248. (४,७.१ ) वारिदं वारयातै वरणावत्यामधि ।
1249. (४,७.१ ) तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥१॥
1250. (४,७.२ ) अरसं प्राच्यं विषमरसं यदुदीच्यम् ।
1251. (४,७.२ ) अथेदमधराच्यं करम्भेण वि कल्पते ॥२॥
1252. (४,७.३ ) करम्भं कृत्वा तिर्यं पीबस्पाकमुदारथिम् ।
1253. (४,७.३ ) क्षुधा किल त्वा दुष्टनो जक्षिवान्त्स न रूरुपः ॥३॥
1254. (४,७.४ ) वि ते मदं मदावति शरमिव पातयामसि ।
1255. (४,७.४ ) प्र त्वा चरुमिव येषन्तं वचसा स्थापयामसि ॥४॥
1256. (४,७.५ ) परि ग्राममिवाचितं वचसा स्थापयामसि ।
1257. (४,७.५ ) तिष्ठा वृक्ष इव स्थाम्न्यभ्रिखाते न रूरुपः ॥५॥
1258. (४,७.६ ) पवस्तैस्त्वा पर्यक्रीणन् दूर्शेभिरजिनैरुत ।
1259. (४,७.६ ) प्रक्रीरसि त्वमोषधेऽभ्रिखाते न रूरुपः ॥६॥
1260. (४,७.७ ) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
1261. (४,७.७ ) वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥७॥
1262. (४,८.१ ) भूतो भूतेषु पय आ दधाति स भूतानामधिपतिर्बभूव ।
1263. (४,८.१ ) तस्य मृत्युश्चरति राजसूयं स राजा अनु मन्यतामिदम् ॥१॥
1264. (४,८.२ ) अभि प्रेहि माप वेन उग्रश्चेत्ता सपत्नहा ।
1265. (४,८.२ ) आ तिष्ठ मित्रवर्धन तुभ्यं देवा अधि ब्रुवन् ॥२॥
1266. (४,८.३ ) आतिष्ठन्तं परि विश्वे अभूषं छ्रियं वसानश्चरति स्वरोचिः ।
1267. (४,८.३ ) महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥३॥
1268. (४,८.४ ) व्याघ्रो अधि वैयाघ्रे वि क्रमस्व दिशो महीः ।
1269. (४,८.४ ) विशस्त्वा सर्वा वाञ्छन्त्वापो दिव्याः पयस्वतीः ॥४॥
1270. (४,८.५ ) या आपो दिव्याः पयसा मदन्त्यन्तरिक्ष उत वा पृथिव्याम् ।
1271. (४,८.५ ) तासां त्वा सर्वासामपामभि षिञ्चामि वर्चसा ॥५॥
1272. (४,८.६ ) अभि त्वा वर्चसासिचन्न् आपो दिव्याः पयस्वतीः ।
1273. (४,८.६ ) यथासो मित्रवर्धनस्तथा त्वा सविता करत्॥६॥
1274. (४,८.७ ) एना व्याघ्रं परिषस्वजानाः सिंहं हिन्वन्ति महते सौभगाय ।
1275. (४,८.७ ) समुद्रं न सुभुवस्तस्थिवांसं मर्मृज्यन्ते द्वीपिनमप्स्वन्तः ॥७॥
1276. (४,९.१ ) एहि जीवं त्रायमाणं पर्वतस्यास्यक्ष्यम् ।
1277. (४,९.१ ) विश्वेभिर्देवैर्दत्तं परिधिर्जीवनाय कम् ॥१॥
1278. (४,९.२ ) परिपाणं पुरुषाणां परिपाणं गवामसि ।
1279. (४,९.२ ) अश्वानामर्वतां परिपाणाय तस्थिषे ॥२॥
1280. (४,९.३ ) उतासि परिपाणं यातुजम्भनमाञ्जन ।
1281. (४,९.३ ) उतामृतस्य त्वं वेत्थाथो असि जीवभोजनमथो हरितभेषजम् ॥३॥
1282. (४,९.४ ) यस्याञ्जन प्रसर्पस्यङ्गमङ्गं परुष्परुः ।
1283. (४,९.४ ) ततो यक्ष्मं वि बाधस उग्रो मध्यमशीरिव ॥४॥
1284. (४,९.५ ) नैनं प्राप्नोति शपथो न कृत्या नाभिशोचनम् ।
1285. (४,९.५ ) नैनं विष्कन्धमश्नुते यस्त्वा बिभर्त्याञ्जन ॥५॥
1286. (४,९.६ ) असन्मन्त्राद्दुष्वप्न्याद्दुष्कृताच्छमलादुत ।
1287. (४,९.६ ) दुर्हार्दश्चक्षुषो घोरात्तस्मान् नः पाह्याञ्जन ॥६॥
1288. (४,९.७ ) इदं विद्वान् आञ्जन सत्यं वक्ष्यामि नानृतम् ।
1289. (४,९.७ ) सनेयमश्वं गामहमात्मानं तव पूरुष ॥७॥
1290. (४,९.८ ) त्रयो दासा आञ्जनस्य तक्मा बलास आदहिः ।
1291. (४,९.८ ) वर्षिष्ठः पर्वतानां त्रिककुन् नाम ते पिता ॥८॥
1292. (४,९.९ ) यदाञ्जनं त्रैककुदं जातं हिमवतस्परि ।
1293. (४,९.९ ) यातूंश्च सर्वाञ्जम्भयत्सर्वाश्च यातुधान्यः ॥९॥
1294. (४,९.१० ) यदि वासि त्रैककुदं यदि यामुनमुच्यसे ।
1295. (४,९.१० ) उभे ते भद्रे नाम्नी ताभ्यां नः पाह्याञ्जन ॥१०॥
1296. (४,१०.१ ) वाताज्जातो अन्तरिक्षाद्विद्युतो ज्योतिषस्परि ।
1297. (४,१०.१ ) स नो हिरण्यजाः शङ्खः कृशनः पात्वंहसः ॥१॥
1298. (४,१०.२ ) यो अग्रतो रोचनानां समुद्रादधि जज्ञिषे ।
1299. (४,१०.२ ) शङ्खेन हत्वा रक्षांस्यत्त्रिणो वि षहामहे ॥२॥
1300. (४,१०.३ ) शङ्खेनामीवाममतिं शङ्खेनोत सदान्वाः ।
1301. (४,१०.३ ) शङ्खो नो विश्वभेषजः कृशनः पात्वंहसः ॥३॥
1302. (४,१०.४ ) दिवि जातः समुद्रजः सिन्धुतस्पर्याभृतः ।
1303. (४,१०.४ ) स नो हिरण्यजाः शङ्ख आयुष्प्रतरणो मणिः ॥४॥
1304. (४,१०.५ ) समुद्राज्जातो मणिर्वृत्राज्जातो दिवाकरः ।
1305. (४,१०.५ ) सो अस्मान्त्सर्वतः पातु हेत्या देवासुरेभ्यः ॥५॥
1306. (४,१०.६ ) हिरण्यानामेकोऽसि सोमात्त्वमधि जज्ञिषे ।
1307. (४,१०.६ ) रथे त्वमसि दर्शत इषुधौ रोचनस्त्वं प्र ण आयूंषि तारिषत्॥६॥
1308. (४,१०.७ ) देवानामस्थि कृशनं बभूव तदात्मन्वच्चरत्यप्स्वन्तः ।
1309. (४,१०.७ ) तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय कार्शनस्त्वाभि रक्षतु ॥७॥
1310. (४,११.१ ) अनड्वान् दाधार पृथिवीमुत द्यामनड्वान् दाधारोर्वन्तरिक्षम् ।
1311. (४,११.१ ) अनड्वान् दाधार प्रदिशः षडुर्वीरनड्वान् विश्वं भुवनमा विवेश ॥१॥
1312. (४,११.२ ) अनड्वान् इन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः ।
1313. (४,११.२ ) भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥२॥
1314. (४,११.३ ) इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः ।
1315. (४,११.३ ) सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥३॥
1316. (४,११.४ ) अनड्वान् दुहे सुकृतस्य लोक ऐनं प्याययति पवमानः पुरस्तात्।
1317. (४,११.४ ) पर्जन्यो धारा मरुत ऊधो अस्य यज्ञः पयो दक्षिणा दोहो अस्य ॥४॥
1318. (४,११.५ ) यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता ।
1319. (४,११.५ ) यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात्॥५॥
1320. (४,११.६ ) येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम् ।
1321. (४,११.६ ) तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥६॥
1322. (४,११.७ ) इन्द्रो रूपेणाग्निर्वहेन प्रजापतिः परमेष्ठी विराट्।
1323. (४,११.७ ) विश्वानरे अक्रमत वैश्वानरे अक्रमतानदुह्यक्रमत ।
1324. (४,११.७ ) सोऽदृंहयत सोऽधारयत ॥७॥
1325. (४,११.८ ) मध्यमेतदनडुहो यत्रैष वह आहितः ।
1326. (४,११.८ ) एतावदस्य प्राचीनं यावान् प्रत्यङ्समाहितः ॥८॥
1327. (४,११.९ ) यो वेदानदुहो दोहान् सप्तानुपदस्वतः ।
1328. (४,११.९ ) प्रजां च लोकं चाप्नोति तथा सप्तऋषयो विदुः ॥९॥
1329. (४,११.१० ) पद्भिः सेदिमवक्रामन्न् इरां जङ्घाभिरुत्खिदन् ।
1330. (४,११.१० ) स्रमेणानड्वान् कीलालं कीनाशश्चाभि गछतः ॥१०॥
1331. (४,११.११ ) द्वादश वा एता रात्रीर्व्रत्या आहुः प्रजापतेः ।
1332. (४,११.११ ) तत्रोप ब्रह्म यो वेद तद्वा अनडुहो व्रतम् ॥११॥
1333. (४,११.१२ ) दुहे सायं दुहे प्रातर्दुहे मध्यंदिनं परि ।
1334. (४,११.१२ ) दोहा ये अस्य संयन्ति तान् विद्मानुपदस्वतः ॥१२॥
1335. (४,१२.१ ) रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी ।
1336. (४,१२.१ ) रोहयेदमरुन्धति ॥१॥
1337. (४,१२.२ ) यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि ।
1338. (४,१२.२ ) धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥२॥
1339. (४,१२.३ ) सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।
1340. (४,१२.३ ) सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥३॥
1341. (४,१२.४ ) मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु ।
1342. (४,१२.४ ) असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥४॥
1343. (४,१२.५ ) लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।
1344. (४,१२.५ ) असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥५॥
1345. (४,१२.६ ) स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः ।
1346. (४,१२.६ ) सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥६॥
1347. (४,१२.७ ) यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान ।
1348. (४,१२.७ ) ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥७॥
1349. (४,१३.१ ) उत देवा अवहितं देवा उन् नयथा पुनः ।
1350. (४,१३.१ ) उतागश्चक्रुषं देवा देवा जीवयथा पुनः ॥१॥
1351. (४,१३.२ ) द्वाविमौ वातौ वात आ सिन्धोरा परावतः ।
1352. (४,१३.२ ) दक्षं ते अन्य आवातु व्यन्यो वातु यद्रपः ॥२॥
1353. (४,१३.३ ) आ वात वाहि भेषजं वि वात वाहि यद्रपः ।
1354. (४,१३.३ ) त्वं हि विश्वभेषज देवानां दूत ईयसे ॥३॥
1355. (४,१३.४ ) त्रायन्तामिमं देवास्त्रायन्तां मरुतां गणाः ।
1356. (४,१३.४ ) त्रायन्तां विश्वा भूतानि यथायमरपा असत्॥४॥
1357. (४,१३.५ ) आ त्वागमं शंतातिभिरथो अरिष्टतातिभिः ।
1358. (४,१३.५ ) दक्षं त उग्रमाभारिषं परा यक्ष्मं सुवामि ते ॥५॥
1359. (४,१३.६ ) अयं मे हस्तो भगवान् अयं मे भगवत्तरः ।
1360. (४,१३.६ ) अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः ॥६॥
1361. (४,१३.७ ) हस्ताभ्यां दशशाखाभ्यां जिह्वा वाचः पुरोगवी ।
1362. (४,१३.७ ) अनामयित्नुभ्यां हस्ताभ्यां ताभ्यां त्वाभि मृशामसि ॥७॥
1363. (४,१४.१ ) अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे ।
1364. (४,१४.१ ) तेन देवा देवतामग्रा आयन् तेन रोहान् रुरुहुर्मेध्यासः ॥१॥
1365. (४,१४.२ ) क्रमध्वमग्निना नाकमुख्यान् हस्तेषु बिभ्रतः ।
1366. (४,१४.२ ) दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥२॥
1367. (४,१४.३ ) पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम् ।
1368. (४,१४.३ ) दिवो नाकस्य पृष्ठात्स्वर्ज्योतिरगामहम् ॥३॥
1369. (४,१४.४ ) स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी ।
1370. (४,१४.४ ) यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥४॥
1371. (४,१४.५ ) अग्ने प्रेहि प्रथमो देवतानां चक्षुर्देवानामुत मानुषानाम् ।
1372. (४,१४.५ ) इयक्षमाणा भृगुभिः सजोषाः स्वर्यन्तु यजमानाः स्वस्ति ॥५॥
1373. (४,१४.६ ) अजमनज्मि पयसा घृतेन दिव्यं सुपर्नं पयसं बृहन्तम् ।
1374. (४,१४.६ ) तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥६॥
1375. (४,१४.७ ) पञ्चौदनं पञ्चभिरङ्गुलिभिर्दर्व्योद्धर पञ्चधैतमोदनम् ।
1376. (४,१४.७ ) प्राच्यां दिशि शिरो अजस्य धेहि दक्षिणायां दिशि दक्षिणं धेहि पार्श्वम् ॥७॥
1377. (४,१४.८ ) प्रतीच्यां दिशि भसदमस्य धेह्युत्तरस्यां दिश्युत्तरं धेहि पार्श्वम् ।
1378. (४,१४.८ ) ऊर्ध्वायां दिश्यजस्यानूकं धेहि दिशि ध्रुवायां धेहि पाजस्यमन्तरिक्षे मध्यतो मध्यमस्य ॥८॥
1379. (४,१४.९ ) शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम् ।
1380. (४,१४.९ ) स उत्तिस्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥९॥
1381. (४,१५.१ ) समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु ।
1382. (४,१५.१ ) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥१॥
1383. (४,१५.२ ) समीक्षयन्तु तविषाः सुदानवोऽपां रसा ओषधीभिः सचन्ताम् ।
1384. (४,१५.२ ) वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तामोषधयो विश्वरूपाः ॥२॥
1385. (४,१५.३ ) समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम् ।
1386. (४,१५.३ ) वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥३॥
1387. (४,१५.४ ) गणास्त्वोप गायन्तु मारुताः पर्जन्य घोषिणः पृथक्।
1388. (४,१५.४ ) सर्गा वर्षस्य वर्षतो वर्षन्तु पृथिवीमनु ॥४॥
1389. (४,१५.५ ) उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ ।
1390. (४,१५.५ ) महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥५॥
1391. (४,१५.६ ) अभि क्रन्द स्तनयार्दयोदधिं भूमिं पर्जन्य पयसा समङ्धि ।
1392. (४,१५.६ ) त्वया सृष्टं बहुलमैतु वर्षमाशारैषी कृशगुरेत्वस्तम् ॥६॥
1393. (४,१५.७ ) सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।
1394. (४,१५.७ ) मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥७॥
1395. (४,१५.८ ) आशामाशां वि द्योततां वाता वान्तु दिशोदिशः ।
1396. (४,१५.८ ) मरुद्भिः प्रच्युता मेघाः सं यन्तु पृथिवीमनु ॥८॥
1397. (४,१५.९ ) आपो विद्युदभ्रं वर्षं सं वोऽवन्तु सुदानव उत्सा अजगरा उत ।
1398. (४,१५.९ ) मरुद्भिः प्रच्युता मेघाः प्रावन्तु पृथिवीमनु ॥९॥
1399. (४,१५.१० ) अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव ।
1400. (४,१५.१० ) स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥१०॥
1401. (४,१५.११ ) प्रजापतिः सलिलादा समुद्रादाप ईरयन्न् उदधिमर्दयाति ।
1402. (४,१५.११ ) प्र प्यायतां वृष्णो अश्वस्य रेतोऽर्वान् एतेन स्तनयित्नुनेहि ॥११॥
1403. (४,१५.१२ ) अपो निषिञ्चन्न् असुरः पिता नः श्वसन्तु गर्गरा अपां वरुणाव नीचीरपः सृज ।
1404. (४,१५.१२ ) वदन्तु पृश्निबाहवो मण्डूका इरिणानु ॥१२॥
1405. (४,१५.१३ ) संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः ।
1406. (४,१५.१३ ) वाचं पर्जन्यजिन्वितां प्र मण्दूका अवादिषुः ॥१३॥
1407. (४,१५.१४ ) उपप्रवद मण्डूकि वर्षमा वद तादुरि ।
1408. (४,१५.१४ ) मध्ये ह्रदस्य प्लवस्व विगृह्य चतुरः पदः ॥१४॥
1409. (४,१५.१५ ) खण्वखा३ खैमखा३ मध्ये तदुरि ।
1410. (४,१५.१५ ) वर्षं वनुध्वं पितरो मरुतां मन इछत ॥१५॥
1411. (४,१५.१६ ) महान्तं कोशमुदचाभि षिञ्च सविद्युतं भवतु वातु वातः ।
1412. (४,१५.१६ ) तन्वतां यज्ञं बहुधा विसृष्टा आनन्दिनीरोषधयो भवन्तु ॥१६॥
1413. (४,१६.१ ) बृहन्न् एषामधिष्ठाता अन्तिकादिव पश्यति ।
1414. (४,१६.१ ) य स्तायन् मन्यते चरन्त्सर्वं देवा इदं विदुः ॥१॥
1415. (४,१६.२ ) यस्तिष्ठति चरति यश्च वञ्चति यो निलायं चरति यः प्रतङ्कम् ।
1416. (४,१६.२ ) द्वौ संनिषद्य यन् मन्त्रयेते राजा तद्वेद वरुणस्तृतीयः ॥२॥
1417. (४,१६.३ ) उतेयं भूमिर्वरुणस्य राज्ञ उतासौ द्यौर्बृहती दूरेअन्ता ।
1418. (४,१६.३ ) उतो समुद्रौ वरुणस्य कुक्षी उतास्मिन्न् अल्प उदके निलीनः ॥३॥
1419. (४,१६.४ ) उत यो द्यामतिसर्पात्परस्तान् न स मुच्यातै वरुणस्य राज्ञः ।
1420. (४,१६.४ ) दिव स्पशः प्र चरन्तीदमस्य सहस्राक्षा अति पश्यन्ति भूमिम् ॥४॥
1421. (४,१६.५ ) सर्वं तद्राजा वरुणो वि चष्टे यदन्तरा रोदसी यत्परस्तात्।
1422. (४,१६.५ ) संख्याता अस्य निमिषो जनानामक्षान् इव श्वघ्नी नि मिनोति तानि ॥५॥
1423. (४,१६.६ ) ये ते पाशा वरुण सप्तसप्त त्रेधा तिष्ठन्ति विषिता रुषन्तः ।
1424. (४,१६.६ ) छिनन्तु सर्वे अनृतं वदन्तं यः सत्यवाद्यति तं सृजन्तु ॥६॥
1425. (४,१६.७ ) शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः ।
1426. (४,१६.७ ) आस्तां जाल्म उदरं श्रंशयित्वा कोश इवाबन्धः परिकृत्यमानः ॥७॥
1427. (४,१६.८ ) यः समाभ्यो वरुणो यो व्याभ्यो यः संदेश्यो वरुणो यो विदेश्यो ।
1428. (४,१६.८ ) यो दैवो वरुणो यश्च मानुषः ॥८॥
1429. (४,१६.९ ) तैस्त्वा सर्वैरभि ष्यामि पाशैरसावामुष्यायणामुष्याः पुत्र ।
1430. (४,१६.९ ) तान् उ ते सर्वान् अनुसंदिशामि ॥९॥
1431. (४,१७.१ ) ईशाणां त्वा भेषजानामुज्जेष आ रभामहे ।
1432. (४,१७.१ ) चक्रे सहस्रवीर्यं सर्वस्मा ओषधे त्वा ॥१॥
1433. (४,१७.२ ) सत्यजितं शपथयावनीं सहमानां पुनःसराम् ।
1434. (४,१७.२ ) सर्वाः समह्व्योषधीरितो नः पारयादिति ॥२॥
1435. (४,१७.३ ) या शशाप शपनेन याघं मूरमादधे ।
1436. (४,१७.३ ) या रसस्य हरणाय जातमारेभे तोकमत्तु सा ॥३॥
1437. (४,१७.४ ) यां ते चक्रुरामे पात्रे यां चक्रुर्नीललोहिते ।
1438. (४,१७.४ ) आमे मांसे कृत्यां यां चक्रुस्तया कृत्याकृतो जहि ॥४॥
1439. (४,१७.५ ) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।
1440. (४,१७.५ ) दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥५॥
1441. (४,१७.६ ) क्षुधामारं तृष्णामारमगोतामनपत्यताम् ।
1442. (४,१७.६ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥६॥
1443. (४,१७.७ ) तृष्णामारं क्षुधामारमथो अक्षपराजयम् ।
1444. (४,१७.७ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥७॥
1445. (४,१७.८ ) अपामार्ग ओषधीनां सर्वासामेक इद्वशी ।
1446. (४,१७.८ ) तेन ते मृज्म आस्थितमथ त्वमगदश्चर ॥८॥
1447. (४,१८.१ ) समं ज्योतिः सूर्येणाह्ना रात्री समावती ।
1448. (४,१८.१ ) कृणोमि सत्यमूतयेऽरसाः सन्तु कृत्वरीः ॥१॥
1449. (४,१८.२ ) यो देवाः कृत्यां कृत्वा हरादविदुषो गृहम् ।
1450. (४,१८.२ ) वत्सो धारुरिव मातरं तं प्रत्यगुप पद्यताम् ॥२॥
1451. (४,१८.३ ) अमा कृत्वा पाप्मानं यस्तेनान्यं जिघांसति ।
1452. (४,१८.३ ) अश्मानस्तस्यां दग्धायां बहुलाः फट्करिक्रति ॥३॥
1453. (४,१८.४ ) सहस्रधामन् विशिखान् विग्रीवां छायया त्वम् ।
1454. (४,१८.४ ) प्रति स्म चक्रुषे कृत्यां प्रियां प्रियावते हर ॥४॥
1455. (४,१८.५ ) अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
1456. (४,१८.५ ) यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥५॥
1457. (४,१८.६ ) यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
1458. (४,१८.६ ) चकार भद्रमस्मभ्यमात्मने तपनं तु सः ॥६॥
1459. (४,१८.७ ) अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः ।
1460. (४,१८.७ ) अपाह यातुधानीरप सर्वा अराय्यः ॥७॥
1461. (४,१८.८ ) अपमृज्य यातुधानान् अप सर्वा अराय्यः ।
1462. (४,१८.८ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥८॥
1463. (४,१९.१ ) उतो अस्यबन्धुकृदुतो असि नु जामिकृत्।
1464. (४,१९.१ ) उतो कृत्याकृतः प्रजां नदमिवा छिन्धि वार्षिकम् ॥१॥
1465. (४,१९.२ ) ब्राह्मणेन पर्युक्तासि कण्वेन नार्षदेन ।
1466. (४,१९.२ ) सेनेवैषि त्विषीमती न तत्र भयमस्ति यत्र प्राप्नोष्योषधे ॥२॥
1467. (४,१९.३ ) अग्रमेष्योषधीनां ज्योतिषेवाभिदीपयन् ।
1468. (४,१९.३ ) उत त्रातासि पाकस्याथो हन्तासि रक्षसः ॥३॥
1469. (४,१९.४ ) यददो देवा असुरांस्त्वयाग्रे निरकुर्वत ।
1470. (४,१९.४ ) ततस्त्वमध्योषधेऽपामार्गो अजायथाः ॥४॥
1471. (४,१९.५ ) विभिन्दती शतशाखा विभिन्दन् नाम ते पिता ।
1472. (४,१९.५ ) प्रत्यग्वि भिन्धि त्वं तं यो अस्मामभिदासति ॥५॥
1473. (४,१९.६ ) असद्भूम्याः समभवत्तद्यामेति महद्व्यचः ।
1474. (४,१९.६ ) तद्वै ततो विधूपायत्प्रत्यक्कर्तारमृछतु ॥६॥
1475. (४,१९.७ ) प्रत्यङ्हि संबभूविथ प्रतीचीनफलस्त्वम् ।
1476. (४,१९.७ ) सर्वान् मच्छपथामधि वरीयो यावया वधम् ॥७॥
1477. (४,१९.८ ) शतेन मा परि पाहि सहस्रेणाभि रक्षा मा ।
1478. (४,१९.८ ) इन्द्रस्ते वीरुधां पत उग्र ओज्मानमा दधत्॥८॥
1479. (४,२०.१ ) आ पश्यति प्रति पश्यति परा पश्यति पश्यति ।
1480. (४,२०.१ ) दिवमन्तरिक्षमाद्भूमिं सर्वं तद्देवि पश्यति ॥१॥
1481. (४,२०.२ ) तिस्रो दिवस्तिस्रः पृथिवीः षट्चेमाः प्रदिशाः पृथक्।
1482. (४,२०.२ ) त्वयाहं सर्वा भूतानि पश्यानि देव्योषधे ॥२॥
1483. (४,२०.३ ) दिव्यस्य सुपर्णस्य तस्य हासि कनीनिका ।
1484. (४,२०.३ ) सा भूमिमा रुरोहिथ वह्यं श्रान्ता वधूरिव ॥३॥
1485. (४,२०.४ ) तां मे सहस्राक्षो देवो दक्षिणे हस्त आ दधत्।
1486. (४,२०.४ ) तयाहं सर्वं पश्यामि यश्च शूद्र उतार्यः ॥४॥
1487. (४,२०.५ ) आविष्कृणुष्व रूपानि मात्मानमप गूहथाः ।
1488. (४,२०.५ ) अथो सहस्रचक्षो त्वं प्रति पश्याः किमीदिनः ॥५॥
1489. (४,२०.६ ) दर्शय मा यातुधानान् दर्शय यातुधान्यः ।
1490. (४,२०.६ ) पिशाचान्त्सर्वान् दर्शयेति त्वा रभ ओषधे ॥६॥
1491. (४,२०.७ ) कश्यपस्य चक्षुरसि शुन्याश्च चतुरक्ष्याः ।
1492. (४,२०.७ ) वीध्रे सूर्यमिव सर्पन्तं मा पिशाचं तिरस्करः ॥७॥
1493. (४,२०.८ ) उदग्रभं परिपाणाद्यातुधानं किमीदिनम् ।
1494. (४,२०.८ ) तेनाहं सर्वं पश्याम्युत शूद्रमुतार्यम् ॥८॥
1495. (४,२०.९ ) यो अन्तरिक्षेण पतति दिवं यश्च अतिसर्पति ।
1496. (४,२०.९ ) भूमिं यो मन्यते नाथं तं पिशाचं प्र दर्शय ॥९॥
1497. (४,२१.१ ) आ गावो अग्मन्न् उत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
1498. (४,२१.१ ) प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥१॥
1499. (४,२१.२ ) इन्द्रो यज्वने गृणते च शिक्षत उपेद्ददाति न स्वं मुषायति ।
1500. (४,२१.२ ) भूयोभूयो रयिमिदस्य वर्धयन्न् अभिन्ने खिल्ये नि दधाति देवयुम् ॥२॥
1501. (४,२१.३ ) न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।
1502. (४,२१.३ ) देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥३॥
1503. (४,२१.४ ) न ता अर्वा रेणुककाटोऽश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।
1504. (४,२१.४ ) उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥४॥
1505. (४,२१.५ ) गावो भगो गाव इन्द्रो म इछाद्गाव सोमस्य प्रथमस्य भक्षः ।
1506. (४,२१.५ ) इमा या गावः स जनास इन्द्र इछामि हृदा मनसा चिदिन्द्रम् ॥५॥
1507. (४,२१.६ ) यूयं गावो मेदयथ कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।
1508. (४,२१.६ ) भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥६॥
1509. (४,२१.७ ) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
1510. (४,२१.७ ) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥७॥
1511. (४,२२.१ ) इममिन्द्र वर्धय क्षत्रियं मे इमं विशामेकवृषं कृणु त्वम् ।
1512. (४,२२.१ ) निरमित्रान् अक्ष्णुह्यस्य सर्वांस्तान् रन्धयास्मा अहमुत्तरेषु ॥१॥
1513. (४,२२.२ ) एमं भज ग्रामे अश्वेषु गोषु निष्टं भज यो अमित्रो अस्य ।
1514. (४,२२.२ ) वर्ष्म क्षत्राणामयमस्तु राजेन्द्र शत्रुं रन्धय सर्वमस्मै ॥२॥
1515. (४,२२.३ ) अयमस्तु धनपतिर्धनानामयं विशां विश्पतिरस्तु राजा ।
1516. (४,२२.३ ) अस्मिन्न् इन्द्र महि वर्चांसि धेह्यवर्चसं कृणुहि शत्रुमस्य ॥३॥
1517. (४,२२.४ ) अस्मै द्यावापृथिवी भूरि वामं दुहाथां घर्मदुघे इव धेनू ।
1518. (४,२२.४ ) अयं राजा प्रिय इन्द्रस्य भूयात्प्रियो गवामोषधीनां पशूनाम् ॥४॥
1519. (४,२२.५ ) युनज्मि त उत्तरावन्तमिन्द्रं येन जयन्ति न पराजयन्ते ।
1520. (४,२२.५ ) यस्त्वा करदेकवृषं जनानामुत राज्ञामुत्तमं मानवानाम् ॥५॥
1521. (४,२२.६ ) उत्तरस्त्वमधरे ते सपत्ना ये के च राजन् प्रतिशत्रवस्ते ।
1522. (४,२२.६ ) एकवृष इन्द्रसखा जिगीवां छत्रूयतामा भरा भोजनानि ॥६॥
1523. (४,२२.७ ) सिंहप्रतीको विशो अद्धि सर्वा व्याघ्रप्रतीकोऽव बाधस्व शत्रून् ।
1524. (४,२२.७ ) एकवृष इन्द्रसखा जिगीवां छत्रूयतामा खिदा भोजनानि ॥७॥
1525. (४,२३.१ ) अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते ।
1526. (४,२३.१ ) विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥१॥
1527. (४,२३.२ ) यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् ।
1528. (४,२३.२ ) एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥२॥
1529. (४,२३.३ ) यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे ।
1530. (४,२३.३ ) रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥३॥
1531. (४,२३.४ ) सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।
1532. (४,२३.४ ) हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥४॥
1533. (४,२३.५ ) येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।
1534. (४,२३.५ ) येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥५॥
1535. (४,२३.६ ) येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।
1536. (४,२३.६ ) येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥६॥
1537. (४,२३.७ ) यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् ।
1538. (४,२३.७ ) स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
1539. (४,२४.१ ) इन्द्रस्य मन्महे शश्वदिदस्य मन्महे वृत्रघ्न स्तोमा उप मेम आगुः ।
1540. (४,२४.१ ) यो दाशुषः सुकृतो हवमेति स नो मुञ्चत्वंहसः ॥१॥
1541. (४,२४.२ ) य उग्रीणामुग्रबाहुर्ययुर्यो दानवानां बलमारुरोज ।
1542. (४,२४.२ ) येन जिताः सिन्धवो येन गावः स नो मुञ्चत्वंहसः ॥२॥
1543. (४,२४.३ ) यश्चर्षणिप्रो वृषभः स्वर्विद्यस्मै ग्रावाणः प्रवदन्ति नृम्णम् ।
1544. (४,२४.३ ) यस्याध्वरः सप्तहोता मदिष्ठः स नो मुञ्चत्वंहसः ॥३॥
1545. (४,२४.४ ) यस्य वशास ऋषभास उक्षणो यस्मै मीयन्ते स्वरवः स्वर्विदे ।
1546. (४,२४.४ ) यस्मै शुक्रः पवते ब्रह्मशुम्भितः स नो मुञ्चत्वंहसः ॥४॥
1547. (४,२४.५ ) यस्य जुष्टिं सोमिनः कामयन्ते यं हवन्त इषुमन्तं गविष्टौ ।
1548. (४,२४.५ ) यस्मिन्न् अर्कः शिश्रिये यस्मिन्न् ओजः स नो मुञ्चत्वंहसः ॥५॥
1549. (४,२४.६ ) यः प्रथमः कर्मकृत्याय जज्ञे यस्य वीर्यं प्रथमस्यानुबुद्धम् ।
1550. (४,२४.६ ) येनोद्यतो वज्रोऽभ्यायताहिं स नो मुञ्चत्वंहसः ॥६॥
1551. (४,२४.७ ) यः संग्रामान् नयति सं युधे वशी यः पुष्टानि संसृजति द्वयानि ।
1552. (४,२४.७ ) स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥७॥
1553. (४,२५.१ ) वायोः सवितुर्विदथानि मन्महे यावात्मन्वद्विशथो यौ च रक्षथः ।
1554. (४,२५.१ ) यौ विश्वस्य परिभू बभूवथुस्तौ नो मुञ्चतमंहसः ॥१॥
1555. (४,२५.२ ) ययोः संख्याता वरिमा पार्हिवानि याभ्यां रजो युपितमन्तरिक्षे ।
1556. (४,२५.२ ) ययोः प्रायं नान्वानशे कश्चन तौ नो मुञ्चतमंहसः ॥२॥
1557. (४,२५.३ ) तव व्रते नि विशन्ते जनासस्त्वय्युदिते प्रेरते चित्रभानो ।
1558. (४,२५.३ ) युवं वायो सविता च भुवनानि रक्षथस्तौ नो मुञ्चतमंहसः ॥३॥
1559. (४,२५.४ ) अपेतो वायो सविता च दुष्कृतमप रक्षांसि शिमिदां च सेधतम् ।
1560. (४,२५.४ ) सं ह्यूर्जया सृजथः सं बलेन तौ नो मुञ्चतमंहसः ॥४॥
1561. (४,२५.५ ) रयिं मे पोषं सवितोत वायुस्तनू दक्षमा सुवतां सुशेवम् ।
1562. (४,२५.५ ) अयक्ष्मतातिं मह इह धत्तं तौ नो मुञ्चतमंहसः ॥५॥
1563. (४,२५.६ ) प्र सुमतिं सवितर्वाय ऊतये महस्वन्तं मत्सरं मादयाथः ।
1564. (४,२५.६ ) अर्वाग्वामस्य प्रवतो नि यछतं तौ नो मुञ्चतमंहसः ॥६॥
1565. (४,२५.७ ) उप श्रेष्ठा न आशिषो देवयोर्धामन्न् अस्थिरन् ।
1566. (४,२५.७ ) स्तौमि देवं सवितारं च वायुं तौ नो मुञ्चन्त्वंहसः ॥७॥
1567. (४,२६.१ ) मन्वे वां द्यावापृथिवी सुभोजसौ सचेतसौ ये अप्रथेथाममिता योजनानि ।
1568. (४,२६.१ ) प्रतिष्ठे ह्यभवतं वसूनां ते नो मुञ्चतमंहसः ॥१॥
1569. (४,२६.२ ) प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची ।
1570. (४,२६.२ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥२॥
1571. (४,२६.३ ) असन्तापे सुतपसौ हुवेऽहमुर्वी गम्भीरे कविभिर्नमस्ये ।
1572. (४,२६.३ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥३॥
1573. (४,२६.४ ) ये अमृतं बिभृथो ये हवींषि ये स्रोत्या बिभृथो ये मनुष्यान् ।
1574. (४,२६.४ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥४॥
1575. (४,२६.५ ) ये उस्रिया बिभृथो ये वनस्पतीन् ययोर्वां विश्वा भुवनान्यन्तः ।
1576. (४,२६.५ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥५॥
1577. (४,२६.६ ) ये कीलालेन तर्पयथो ये घृतेन याभ्यामृते न किं चन शक्नुवन्ति ।
1578. (४,२६.६ ) द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥६॥
1579. (४,२६.७ ) यन् मेदमभिशोचति येनयेन वा कृतं पौरुषेयान् न दैवात्।
1580. (४,२६.७ ) स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतमंहसः ॥७॥
1581. (४,२७.१ ) मरुतां मन्वे अधि मे ब्रुवन्तु प्रेमं वाजं वाजसाते अवन्तु ।
1582. (४,२७.१ ) आशून् इव सुयमान् अह्व ऊतये ते नो मुञ्चन्त्वंहसः ॥१॥
1583. (४,२७.२ ) उत्समक्षितं व्यचन्ति ये सदा य आसिञ्चन्ति रसमोषधीषु ।
1584. (४,२७.२ ) पुरो दधे मरुतः पृश्निमातॄंस्ते नो मुञ्चन्त्वंहसः ॥२॥
1585. (४,२७.३ ) पयो धेनूनां रसमोषधीनां जवमर्वतां कवयो य इन्वथ ।
1586. (४,२७.३ ) शग्मा भवन्तु मरुतो नः स्योनास्ते नो मुञ्चन्त्वंहसः ॥३॥
1587. (४,२७.४ ) अपः समुद्राद्दिवमुद्वहन्ति दिवस्पृथिवीमभि ये सृजन्ति ।
1588. (४,२७.४ ) ये अद्भिरीशाना मरुतश्चरन्ति ते नो मुञ्चन्त्वंहसः ॥४॥
1589. (४,२७.५ ) ये कीलालेन तर्पयन्ति ये घृतेन ये वा वयो मेदसा संसृजन्ति ।
1590. (४,२७.५ ) ये अद्भिरीशाना मरुतो वर्षयन्ति ते नो मुञ्चन्त्वंहसः ॥५॥
1591. (४,२७.६ ) यदीदिदं मरुतो मारुतेन यदि देवा दैव्येनेदृगार ।
1592. (४,२७.६ ) यूयमीशिध्वे वसवस्तस्य निष्कृतेस्ते नो मुञ्चन्त्वंहसः ॥६॥
1593. (४,२७.७ ) तिग्ममनीकं विदितं सहस्वन् मारुतं शर्धः पृतनासूग्रम् ।
1594. (४,२७.७ ) स्तौमि मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्वंहसः ॥७॥
1595. (४,२८.१ ) भवाशर्वौ मन्वे वां तस्य वित्तं ययोर्वामिदं प्रदिशि यद्विरोचते ।
1596. (४,२८.१ ) यावस्येशाथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥१॥
1597. (४,२८.२ ) ययोरभ्यभ्व उत यद्दूरे चिद्यौ विदिताविषुभृतामसिष्ठौ ।
1598. (४,२८.२ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥२॥
1599. (४,२८.३ ) सहस्राक्षौ वृत्रहना हुवेहं दूरेगव्यूती स्तुवन्न् एम्युग्रौ ।
1600. (४,२८.३ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥३॥
1601. (४,२८.४ ) यावारेभाथे बहु साकमग्रे प्र चेदस्राष्ट्रमभिभां जनेषु ।
1602. (४,२८.४ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥४॥
1603. (४,२८.५ ) ययोर्वधान् नापपद्यते कश्चनान्तर्देवेषूत मानुषेषु ।
1604. (४,२८.५ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥५॥
1605. (४,२८.६ ) यः कृत्याकृन् मूलकृद्यातुधानो नि तस्मिन् धत्तं वज्रमुग्रौ ।
1606. (४,२८.६ ) यावस्येशथे द्विपदो यौ चतुष्पदस्तौ नो मुञ्चतमंहसः ॥६॥
1607. (४,२८.७ ) अधि नो ब्रूतं पृतनासूग्रौ सं वज्रेण सृजतं यः किमीदी ।
1608. (४,२८.७ ) स्तौमि भवाशर्वौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥
1609. (४,२९.१ ) मन्वे वां मित्रावरुणावृतावृधौ सचेतसौ द्रुह्वणो यौ नुदेथे ।
1610. (४,२९.१ ) प्र सत्यावानमवथो भरेषु तौ नो मुञ्चतमंहसः ॥१॥
1611. (४,२९.२ ) सचेतसौ द्रुह्वणो यौ नुदेथे प्र सत्यावानमवथो भरेषु ।
1612. (४,२९.२ ) यौ गछथो नृचक्षसौ बभ्रुणा सुतं तौ नो मुञ्चतमंहसः ॥२॥
1613. (४,२९.३ ) यावङ्गिरसमवथो यावगस्तिं मित्रावरुणा जमदग्निमत्त्रिम् ।
1614. (४,२९.३ ) यौ कश्यपमवथो यौ वसिष्ठं तौ नो मुञ्चतमंहसः ॥३॥
1615. (४,२९.४ ) यौ श्यावाश्वमवथो वाध्र्यश्वं मित्रावरुणा पुरुमीढमत्त्रिम् ।
1616. (४,२९.४ ) यौ विमदमवथो सप्तवध्रिं तौ नो मुञ्चतमंहसः ॥४॥
1617. (४,२९.५ ) यौ भरद्वाजमवथो यौ गविष्ठिरं विश्वामित्रं वरुण मित्र कुत्सम् ।
1618. (४,२९.५ ) यौ कक्षीवन्तमवथो प्रोत कण्वं तौ नो मुञ्चतमंहसः ॥५॥
1619. (४,२९.६ ) यौ मेधातिथिमवथो यौ त्रिशोकं मित्रावरुणावुशनां काव्यं यौ ।
1620. (४,२९.६ ) यौ गोतममवथो प्रोत मुग्दलं तौ नो मुञ्चतमंहसः ॥६॥
1621. (४,२९.७ ) ययो रथः सत्यवर्त्म र्जुरश्मिर्मिथुया चरन्तमभियाति दूषयन् ।
1622. (४,२९.७ ) स्तौमि मित्रावरुणौ नाथितो जोहवीमि तौ नो मुञ्चतमंहसः ॥७॥
1623. (४,३०.१ ) अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
1624. (४,३०.१ ) अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥
1625. (४,३०.२ ) अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
1626. (४,३०.२ ) तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥
1627. (४,३०.३ ) अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।
1628. (४,३०.३ ) यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥
1629. (४,३०.४ ) मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।
1630. (४,३०.४ ) अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥
1631. (४,३०.५ ) अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
1632. (४,३०.५ ) अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥
1633. (४,३०.६ ) अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
1634. (४,३०.६ ) अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥
1635. (४,३०.७ ) अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
1636. (४,३०.७ ) ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥
1637. (४,३०.८ ) अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।
1638. (४,३०.८ ) परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥
1639. (४,३१.१ ) त्वया मन्यो सरथमारुजन्तो हर्षमाणा हृषितासो मरुत्वन् ।
1640. (४,३१.१ ) तिग्मेषव आयुधा संशिशाना उप प्र यन्तु नरो अग्निरूपाः ॥१॥
1641. (४,३१.२ ) अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।
1642. (४,३१.२ ) हत्वाय शत्रून् वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥२॥
1643. (४,३१.३ ) सहस्व मन्यो अभिमातिमस्मै रुजन् मृणन् प्रमृणन् प्रेहि शत्रून् ।
1644. (४,३१.३ ) उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयासा एकज त्वम् ॥३॥
1645. (४,३१.४ ) एको बहूनामसि मन्य ईडिता विशंविशं युद्धाय सं शिशाधि ।
1646. (४,३१.४ ) अकृत्तरुक्त्वया युजा वयं द्युमन्तं घोषं विजयाय कृण्मसि ॥४॥
1647. (४,३१.५ ) विजेषकृदिन्द्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह ।
1648. (४,३१.५ ) प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥५॥
1649. (४,३१.६ ) आभूत्या सहजा वज्र सायक सहो बिभर्षि सहभूत उत्तरम् ।
1650. (४,३१.६ ) क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥६॥
1651. (४,३१.७ ) संसृष्टं धनमुभयं समाकृतमस्मभ्यं धत्तां वरुणश्च मन्युः ।
1652. (४,३१.७ ) भियो दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ॥७॥
1653. (४,३२.१ ) यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक्।
1654. (४,३२.१ ) साह्याम दासमार्यं त्वया युजा वयं सहस्कृतेन सहसा सहस्वता ॥१॥
1655. (४,३२.२ ) मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।
1656. (४,३२.२ ) मन्युं विश ईडते मानुषीर्याः पहि नो मन्यो तपसा सजोषाः ॥२॥
1657. (४,३२.३ ) अभीहि मन्यो तवसस्तवीयान् तपसा युजा वि जहि शत्रून् ।
1658. (४,३२.३ ) अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥३॥
1659. (४,३२.४ ) त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः ।
1660. (४,३२.४ ) विश्वचर्षणिः सहुरिः सहीयान् अस्मास्वोजः पृतनासु धेहि ॥४॥
1661. (४,३२.५ ) अभागः सन्न् अप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।
1662. (४,३२.५ ) तं त्वा मन्यो अक्रतुर्जिहीडाहं स्वा तनूर्बलदावा न एहि ॥५॥
1663. (४,३२.६ ) अयं ते अस्म्युप न एह्यर्वाङ्प्रतीचीनः सहुरे विश्वदावन् ।
1664. (४,३२.६ ) मन्यो वज्रिन्न् अभि न आ ववृत्स्व हनाव दस्यूंरुत बोध्यापेः ॥६॥
1665. (४,३२.७ ) अभि प्रेहि दक्षिणतो भवा नोऽधा वृत्राणि जङ्घनाव भूरि ।
1666. (४,३२.७ ) जुहोमि ते धरुणं मध्वो अग्रमुभावुपांशु प्रथमा पिबाव ॥७॥
1667. (४,३३.१ ) अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
1668. (४,३३.१ ) अप नः शोशुचदघम् ॥१॥
1669. (४,३३.२ ) सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
1670. (४,३३.२ ) अप नः शोशुचदघम् ॥२॥
1671. (४,३३.३ ) प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
1672. (४,३३.३ ) अप नः शोशुचदघम् ॥३॥
1673. (४,३३.४ ) प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
1674. (४,३३.४ ) अप नः शोशुचदघम् ॥४॥
1675. (४,३३.५ ) प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
1676. (४,३३.५ ) अप नः शोशुचदघम् ॥५॥
1677. (४,३३.६ ) त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
1678. (४,३३.६ ) अप नः शोशुचदघम् ॥६॥
1679. (४,३३.७ ) द्विषो नो विश्वतोमुखाति नावेव पारय ।
1680. (४,३३.७ ) अप नः शोशुचदघम् ॥७॥
1681. (४,३३.८ ) स नः सिन्धुमिव नावाति पर्ष स्वस्तये ।
1682. (४,३३.८ ) अप नः शोशुचदघम् ॥८॥
1683. (४,३४.१ ) ब्रह्मास्य शीर्षं बृहदस्य पृष्ठं वामदेव्यमुदरमोदनस्य ।
1684. (४,३४.१ ) छन्दांसि पक्षौ मुखमस्य सत्यं विष्टारी जातस्तपसोऽधि यज्ञः ॥१॥
1685. (४,३४.२ ) अनस्थाः पूताः पवनेन शुद्धाः शुचयः शुचिमपि यन्ति लोकम् ।
1686. (४,३४.२ ) नैषां शिश्नं प्र दहति जातवेदाः स्वर्गे लोके बहु स्त्रैणमेषाम् ॥२॥
1687. (४,३४.३ ) विष्टारिणमोदनं ये पचन्ति नैनान् अवर्तिः सचते कदा चन ।
1688. (४,३४.३ ) आस्ते यम उप याति देवान्त्सं गन्धर्वैर्मदते सोम्येभिः ॥३॥
1689. (४,३४.४ ) विष्टारिणमोदनं ये पचन्ति नैनान् यमः परि मुष्णाति रेतः ।
1690. (४,३४.४ ) रथी ह भूत्वा रथयान ईयते पक्षी ह भूत्वाति दिवः समेति ॥४॥
1691. (४,३४.५ ) एष यज्ञानां विततो वहिष्ठो विष्टारिणं पक्त्वा दिवमा विवेश ।
1692. (४,३४.५ ) आण्डीकं कुमुदं सं तनोति बिसं शालूकं शफको मुलाली ।
1693. (४,३४.५ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥५॥
1694. (४,३४.६ ) घृतह्रदा मधुकूलाः सुरोदकाः क्षीरेण पूर्णा उदकेन दध्ना ।
1695. (४,३४.६ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥६॥
1696. (४,३४.७ ) चतुरः कुम्भांश्चतुर्धा ददामि क्षीरेण पूर्नामुदकेन दध्ना ।
1697. (४,३४.७ ) एतास्त्वा धारा उप यन्तु सर्वाः स्वर्गे लोके मधुमत्पिन्वमाना उप त्वा तिष्ठन्तु पुष्करिणीः समन्ताः ॥७॥
1698. (४,३४.८ ) इममोदनं नि दधे ब्राह्मणेषु विष्टारिणं लोकजितं स्वर्गम् ।
1699. (४,३४.८ ) स मे मा क्षेष्ट स्वधया पिन्वमानो विश्वरूपा धेनुः कामदुघा मे अस्तु ॥८॥
1700. (४,३५.१ ) यमोदनं प्रथमजा ऋतस्य प्रजापतिस्तपसा ब्रह्मणेऽपचत्।
1701. (४,३५.१ ) यो लोकानां विधृतिर्नाभिरेषात्तेनौदनेनाति तराणि मृत्युम् ॥१॥
1702. (४,३५.२ ) येनातरन् भूतकृतोऽति मृत्युं यमन्वविन्दन् तपसा श्रमेण ।
1703. (४,३५.२ ) यं पपाच ब्रह्मणे ब्रह्म पूर्वं तेनौदनेनाति तराणि मृत्युम् ॥२॥
1704. (४,३५.३ ) यो दाधार पृथिवीं विश्वभोजसं यो अन्तरिक्षमापृणाद्रसेन ।
1705. (४,३५.३ ) यो अस्तभ्नाद्दिवमूर्ध्वो महिम्ना तेनौदनेनाति तराणि मृत्युम् ॥३॥
1706. (४,३५.४ ) यस्मान् मासा निर्मितास्त्रिंशदराः संवत्सरो यस्मान् निर्मितो द्वादशारः ।
1707. (४,३५.४ ) अहोरात्रा यं परियन्तो नापुस्तेनौदनेनाति तराणि मृत्युम् ॥४॥
1708. (४,३५.५ ) यः प्राणदः प्राणदवान् बभूव यस्मै लोका घृतवन्तः क्षरन्ति ।
1709. (४,३५.५ ) ज्योतिष्मतीः प्रदिशो यस्य सर्वास्तेनौदनेनाति तराणि मृत्युम् ॥५॥
1710. (४,३५.६ ) यस्मात्पक्वादमृतं संबभूव यो गायत्र्या अधिपतिर्बभूव ।
1711. (४,३५.६ ) यस्मिन् वेदा निहिता विश्वरूपास्तेनौदनेनाति तराणि मृत्युम् ॥६॥
1712. (४,३५.७ ) अव बाधे द्विषन्तं देवपीयुं सपत्ना ये मेऽप ते भवन्तु ।
1713. (४,३५.७ ) ब्रह्मौदनं विश्वजितं पचामि शृण्वन्तु मे श्रद्दधानस्य देवाः ॥७॥
1714. (४,३६.१ ) तान्त्सत्यौजाः प्र दहत्वग्निर्वैश्वानरो वृषा ।
1715. (४,३६.१ ) यो नो दुरस्याद्दिप्साच्चाथो यो नो अरातियात्॥१॥
1716. (४,३६.२ ) यो नो दिप्साददिप्सतो दिप्सतो यश्च दिप्सति ।
1717. (४,३६.२ ) वैश्वानरस्य दंष्ट्रयोरग्नेरपि दधामि तम् ॥२॥
1718. (४,३६.३ ) य आगरे मृगयन्ते प्रतिक्रोशेऽमावास्ये ।
1719. (४,३६.३ ) क्रव्यादो अन्यान् दिप्सतः सर्वांस्तान्त्सहसा सहे ॥३॥
1720. (४,३६.४ ) सहे पिशाचान्त्सहसैषां द्रविणं ददे ।
1721. (४,३६.४ ) सर्वान् दुरस्यतो हन्मि सं म आकूतिरृध्यताम् ॥४॥
1722. (४,३६.५ ) ये देवास्तेन हासन्ते सूर्येण मिमते जवम् ।
1723. (४,३६.५ ) नदीषु पर्वतेषु ये सं तैः पशुभिर्विदे ॥५॥
1724. (४,३६.६ ) तपनो अस्मि पिशाचानां व्याघ्रो गोमतामिव ।
1725. (४,३६.६ ) श्वानः सिंहमिव दृष्ट्वा ते न विन्दन्ते न्यञ्चनम् ॥६॥
1726. (४,३६.७ ) न पिशाचैः सं शक्नोमि न स्तेनैः न वनर्गुभिः ।
1727. (४,३६.७ ) पिशाचास्तस्मान् नश्यन्ति यमहं ग्राममाविशे ॥७॥
1728. (४,३६.८ ) यं ग्राममाविशत इदमुग्रं सहो मम ।
1729. (४,३६.८ ) पिशाचास्तस्मान् नश्यन्ति न पापमुप जानते ॥८॥
1730. (४,३६.९ ) ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव ।
1731. (४,३६.९ ) तान् अहं मन्ये दुर्हितान् जने अल्पशयून् इव ॥९॥
1732. (४,३६.१० ) अभि तं निरृतिर्धत्तामश्वमिव अश्वाभिधान्या ।
1733. (४,३६.१० ) मल्वो यो मह्यं क्रुध्यति स उ पाशान् न मुच्यते ॥१०॥
1734. (४,३७.१ ) त्वया पूर्वमथर्वाणो जघ्नू रक्षांस्योषधे ।
1735. (४,३७.१ ) त्वया जघान कश्यपस्त्वया कण्वो अगस्त्यः ॥१॥
1736. (४,३७.२ ) त्वया वयमप्सरसो गन्धर्वांस्चातयामहे ।
1737. (४,३७.२ ) अजशृङ्ग्यज रक्षः सर्वान् गन्धेन नाशय ॥२॥
1738. (४,३७.३
1739. ) नदीं यन्त्वप्सरसोऽपां तारमवश्वसम् ।
1740. (४,३७.३ ) गुल्गुलूः पीला नलद्यौक्षगन्धिः प्रमन्दनी ।
1741. (४,३७.३ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥३॥
1742. (४,३७.४ ) यत्राश्वत्था न्यग्रोधा महावृक्षाः शिखण्डिनः ।
1743. (४,३७.४ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥४॥
1744. (४,३७.५ ) यत्र वः प्रेङ्खा हरिता अर्जुना उत यत्राघाताः कर्कर्यः संवदन्ति ।
1745. (४,३७.५ ) तत्परेताप्सरसः प्रतिबुद्धा अभूतन ॥५॥
1746. (४,३७.६ ) एयमगन्न् ओषधीनां वीरुधां वीर्यावती ।
1747. (४,३७.६ ) अजशृङ्ग्यराटकी तीक्ष्णशृङ्गी व्यृषतु ॥६॥
1748. (४,३७.७ ) आनृत्यतः शिखण्डिनो गन्धर्वस्याप्सरापतेः ।
1749. (४,३७.७ ) भिनद्मि मुष्कावपि यामि शेपः ॥७॥
1750. (४,३७.८ ) भीमा इन्द्रस्य हेतयः शतमृष्टीरयस्मयीः ।
1751. (४,३७.८ ) ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥८॥
1752. (४,३७.९ ) भीमा इन्द्रस्य हेतयः शतमृष्टीर्हिरण्ययीः ।
1753. (४,३७.९ ) ताभिर्हविरदान् गन्धर्वान् अवकादान् व्यृषतु ॥९॥
1754. (४,३७.१० ) अवकादान् अभिशोचान् अप्सु ज्योतय मामकान् ।
1755. (४,३७.१० ) पिशाचान्त्सर्वान् ओषधे प्र मृणीहि सहस्व च ॥१०॥
1756. (४,३७.११ ) श्वेवैकः कपिरिवैकः कुमारः सर्वकेशकः ।
1757. (४,३७.११ ) प्रियो दृश इव भूत्वा गन्धर्वः सचते स्त्रियस्।
1758. (४,३७.११ ) तमितो नाशयामसि ब्रह्मणा वीर्यावता ॥११॥
1759. (४,३७.१२ ) जाया इद्वो अप्सरसो गन्धर्वाः पतयो युयम् ।
1760. (४,३७.१२ ) अप धावतामर्त्या मर्त्यान् मा सचध्वम् ॥१२॥
1761. (४,३८.१ ) उद्भिन्दतीं संजयन्तीमप्सरां साधुदेविनीम् ।
1762. (४,३८.१ ) ग्लहे कृतानि कृण्वानामप्सरां तामिह हुवे ॥१॥
1763. (४,३८.२ ) विचिन्वतीमाकिरन्तीमप्सरां साधुदेविनीम् ।
1764. (४,३८.२ ) ग्लहे कृतानि गृह्णानामप्सरां तामिह हुवे ॥२॥
1765. (४,३८.३ ) यायैः परिनृत्यत्याददाना कृतं ग्लहात्।
1766. (४,३८.३ ) सा नः कृतानि सीषती प्रहामाप्नोतु मायया ।
1767. (४,३८.३ ) सा नः पयस्वत्यैतु मा नो जैषुरिदं धनम् ॥३॥
1768. (४,३८.४ ) या अक्षेषु प्रमोदन्ते शुचं क्रोधं च बिभ्रती ।
1769. (४,३८.४ ) आनन्दिनीं प्रमोदिनीमप्सरां तामिह हुवे ॥४॥
1770. (४,३८.५ ) सूर्यस्य रश्मीन् अनु याः सञ्चरन्ति मरीचीर्वा या अनुसञ्चरन्ति ।
1771. (४,३८.५ ) यासामृषभो दूरतो वाजिनीवान्त्सद्यः सर्वान् लोकान् पर्येति रक्षन् ।
1772. (४,३८.५ ) स न ऐतु होममिमं जुसाणोऽन्तरिक्षेण सह वाजिनीवान् ॥५॥
1773. (४,३८.६ ) अन्तरिक्षेन सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।
1774. (४,३८.६ ) इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥६॥
1775. (४,३८.७ ) अन्तरिक्षेण सह वाजिनीवन् कर्कीं वत्सामिह रक्ष वाजिन् ।
1776. (४,३८.७ ) अयं घासो अयं व्रज इह वत्सां नि बध्नीमः ।
1777. (४,३८.७ ) यथानाम व ईश्महे स्वाहा ॥७॥
1778. (४,३९.१ ) पृथिव्यामग्नये समनमन्त्स आर्ध्नोत्।
1779. (४,३९.१ ) यथा पृथिव्यामग्नये समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥१॥
1780. (४,३९.२ ) पृथिवी धेनुस्तस्या अग्निर्वत्सः ।
1781. (४,३९.२ ) सा मेऽग्निना वत्सेनेषमूर्जं कामं दुहाम् ।
1782. (४,३९.२ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥२॥
1783. (४,३९.३ ) अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्।
1784. (४,३९.३ ) यथान्तरिक्षे वायवे समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥३॥
1785. (४,३९.४ ) अन्तरिक्षं धेनुस्तस्या वत्सः ।
1786. (४,३९.४ ) सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम् ।
1787. (४,३९.४ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥४॥
1788. (४,३९.५ ) दिव्यादित्याय समनमन्त्स आर्ध्नोत्।
1789. (४,३९.५ ) यथा दिव्यादित्याय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥५॥
1790. (४,३९.६ ) द्यौर्धेनुस्तस्या आदित्यो वत्सः ।
1791. (४,३९.६ ) सा म आदित्येन वत्सेनेषमूर्जं कामं दुहाम् ।
1792. (४,३९.६ ) आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥६॥
1793. (४,३९.७ ) दिक्षु चन्द्राय समनमन्त्स आर्ध्नोत्।
1794. (४,३९.७ ) यथा दिक्षु चन्द्राय समनमन्न् एवा मह्यं संनमः सं नमन्तु ॥७॥
1795. (४,३९.८ ) दिशो धेनवस्तासां चन्द्रो वत्सः ।
1796. (४,३९.८ ) ता मे चन्द्रेण वत्सेनेषमूर्जं कामं दुहामायुः प्रथमं प्रजां पोसं रयिं स्वाहा ॥८॥
1797. (४,३९.९ ) अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुत्रो अभिशस्तिपा उ ।
1798. (४,३९.९ ) नमस्कारेण नमसा ते जुहोमि मा देवानां मिथुया कर्म भागम् ॥९॥
1799. (४,३९.१० ) हृदा पूतं मनसा जातवेदो विश्वानि देव वयुनानि विद्वान् ।
1800. (४,३९.१० ) सप्तास्यानि तव जातवेदस्तेभ्यो जुहोमि स जुषस्व हव्यम् ॥१०॥
1801. (४,४०.१ ) ये पुरस्ताज्जुह्वति जातवेदः प्राच्या दिशोऽभिदासन्त्यस्मान् ।
1802. (४,४०.१ ) अग्निमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥१॥
1803. (४,४०.२ ) ये दक्षिणतो जुह्वति जातवेदो दक्षिणाया दिशोऽभिदासन्त्यस्मान् ।
1804. (४,४०.२ ) यममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेना प्रतिसरेण हन्मि ॥२॥
1805. (४,४०.३ ) ये पश्चाज्जुह्वति जातवेदः प्रतीच्या दिशोऽभिदासन्त्यस्मान् ।
1806. (४,४०.३ ) वरुणमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥३॥
1807. (४,४०.४ ) य उत्तरतो जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।
1808. (४,४०.४ ) सोममृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥४॥
1809. (४,४०.५ ) येऽधस्ताज्जुह्वति जातवेद उदीच्या दिशोऽभिदासन्त्यस्मान् ।
1810. (४,४०.५ ) भूमिमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥५॥
1811. (४,४०.६ ) येऽन्तरिक्षाज्जुह्वति जातवेदो व्यध्वाया दिशोऽभिदासन्त्यस्मान् ।
1812. (४,४०.६ ) वायुमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥६॥
1813. (४,४०.७ ) य उपरिष्टाज्जुह्वति जातवेद ऊर्ध्वाया दिशोऽभिदासन्त्यस्मान् ।
1814. (४,४०.७ ) सूर्यमृत्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥७॥
1815. (४,४०.८ ) ये दिशामन्तर्देशेभ्यो जुह्वति जातवेदः सर्वाभ्यो दिग्भ्योऽभिदासन्ति अस्मान् ।
1816. (४,४०.८ ) ब्रह्म र्त्वा ते पराञ्चो व्यथन्तां प्रत्यगेनान् प्रतिसरेण हन्मि ॥८॥
1817. (५,१.१ ) ऋधङ्मन्त्रो योनिं य आबभूवामृतासुर्वर्धमानः सुजन्मा ।
1818. (५,१.१ ) अदब्धासुर्भ्राजमानोऽहेव त्रितो धर्ता दाधार त्रीणि ॥१॥
1819. (५,१.२ ) आ यो धर्माणि प्रथमः ससाद ततो वपूंषि कृणुषे पुरूणि ।
1820. (५,१.२ ) धास्युर्योनिं प्रथम आ विवेशा यो वाचमनुदितां चिकेत ॥२॥
1821. (५,१.३ ) यस्ते शोकाय तन्वं रिरेच क्षरद्धिरण्यं शुचयोऽनु स्वाः ।
1822. (५,१.३ ) अत्रा दधेते अमृतानि नामास्मे वस्त्राणि विश एरयन्ताम् ॥३॥
1823. (५,१.४ ) प्र यदेते प्रतरं पूर्व्यं गुः सदःसद आतिष्ठन्तो अजुर्यम् ।
1824. (५,१.४ ) कविः शुषस्य मातरा रिहाणे जाम्यै धुर्यं पतिमेरयेथाम् ॥४॥
1825. (५,१.५ ) तदू षु ते महत्पृथुज्मन् नमः कविः काव्येना कृणोमि ।
1826. (५,१.५ ) यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥५॥
1827. (५,१.६ ) सप्त मर्यादाः कवयस्ततक्षुस्तासामिदेकामभ्यंहुरो गात्।
1828. (५,१.६ ) आयोर्ह स्कम्भ उपमस्य नीडे पथां विसर्गे धरुणेषु तस्थौ ॥६॥
1829. (५,१.७ ) उतामृतासुर्व्रत एमि कृन्वन्न् असुरात्मा तन्वस्तत्सुमद्गुः ।
1830. (५,१.७ ) उत वा शक्रो रत्नं दधात्यूर्जया वा यत्सचते हविर्दाः ॥७॥
1831. (५,१.८ ) उत पुत्रः पितरं क्षत्रमीडे ज्येष्ठं मर्यादमह्वयन्त्स्वस्तये ।
1832. (५,१.८ ) दर्शन् नु ता वरुण यास्ते विष्ठा आवर्व्रततः कृणवो वपूंषि ॥८॥
1833. (५,१.९ ) अर्धमर्धेन पयसा पृणक्ष्यर्धेन शुष्म वर्धसे अमुर ।
1834. (५,१.९ ) अविं वृधाम शग्मियं सखायं वरुणं पुत्रमदित्या इषिरम् ।
1835. (५,१.९ ) कविशस्तान्यस्मै वपूंष्यवोचाम रोदसी सत्यवाचा ॥९॥
1836. (५,२.१ ) तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः ।
1837. (५,२.१ ) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥१॥
1838. (५,२.२ ) ववृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
1839. (५,२.२ ) अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥२॥
1840. (५,२.३ ) त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।
1841. (५,२.३ ) स्वदोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥३॥
1842. (५,२.४ ) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
1843. (५,२.४ ) ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥४॥
1844. (५,२.५ ) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
1845. (५,२.५ ) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥५॥
1846. (५,२.६ ) नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।
1847. (५,२.६ ) आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥६॥
1848. (५,२.७ ) स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।
1849. (५,२.७ ) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥७॥
1850. (५,२.८ ) इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः ।
1851. (५,२.८ ) महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥८॥
1852. (५,२.९ ) एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
1853. (५,२.९ ) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥९॥
1854. (५,३.१ ) ममाग्ने वर्चो विहवेष्वस्तु वयं त्वेन्धानास्तन्वं पुषेम ।
1855. (५,३.१ ) मह्यं नमन्तां प्रदिशश्चतस्रस्त्वयाध्यक्षेण पृतना जयेम ॥१॥
1856. (५,३.२ ) अग्ने मन्युं प्रतिनुदन् परेषां त्वं नो गोपाः परि पाहि विश्वतः ।
1857. (५,३.२ ) अपाञ्चो यन्तु निवता दुरस्यवोऽमैषां चित्तं प्रबुधां वि नेशत्॥२॥
1858. (५,३.३ ) मम देवा विहवे सन्तु सर्व इन्द्रवन्तो मरुतो विष्णुरग्निः ।
1859. (५,३.३ ) ममान्तरिक्षमुरुलोकमस्तु मह्यं वातः पवतां कामायास्मै ॥३॥
1860. (५,३.४ ) मह्यं यजन्तां मम यानीष्टाकूतिः सत्या मनसो मे अस्तु ।
1861. (५,३.४ ) एनो मा नि गां कतमच्चनाहं विश्वे देवा अभि रक्षन्तु मेह ॥४॥
1862. (५,३.५ ) मयि देवा द्रविणमा यजन्तां मयि आशीरस्तु मयि देवहूतिः ।
1863. (५,३.५ ) दैवाः होतारः सनिषन् न एतदरिष्टाः स्याम तन्वा सुवीराः ॥५॥
1864. (५,३.६ ) दैवीः षडुर्वीरुरु नः कृणोत विश्वे देवास इह मादयध्वम् ।
1865. (५,३.६ ) मा नो विददभिभा मो अशस्तिर्मा नो विदद्वृजिना द्वेष्या या ॥६॥
1866. (५,३.७ ) तिस्रो देवीर्महि नः शर्म यछत प्रजायै नस्तन्वे यच्च पुष्टम् ।
1867. (५,३.७ ) मा हास्महि प्रजया मा तनूभिर्मा रधाम द्विषते सोम राजन् ॥७॥
1868. (५,३.८ ) उरुव्यचा नो महिषः शर्म यछत्वस्मिन् हवे पुरुहूतः पुरुक्षु ।
1869. (५,३.८ ) स नः प्रजायै हर्यश्व मृडेन्द्र मा नो रीरिषो मा परा दाः ॥८॥
1870. (५,३.९ ) धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः ।
1871. (५,३.९ ) आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात्॥९॥
1872. (५,३.१० ) ये नः सपत्ना अप ते भवन्त्विन्द्राग्निभ्यामव बाधामह एनान् ।
1873. (५,३.१० ) आदित्या रुद्रा उपरिस्पृशो नो उग्रं चेत्तारमधिराजमक्रत ॥१०॥
1874. (५,३.११ ) अर्वाञ्चमिन्द्रममुतो हवामहे यो गोजिद्धनजिदश्वजिद्यः ।
1875. (५,३.११ ) इमं नो यज्ञं विहवे शृणोत्वस्माकमभूर्हर्यश्व मेदी ॥११॥
1876. (५,४.१ ) यो गिरिष्वजायथा वीरुधां बलवत्तमः ।
1877. (५,४.१ ) कुष्ठेहि तक्मनाशन तक्मानं नाशयन्न् इतः ॥१॥
1878. (५,४.२ ) सुपर्णसुवने गिरौ जातं हिमवतस्परि ।
1879. (५,४.२ ) धनैरभि श्रुत्वा यन्ति विदुर्हि तक्मनाशनम् ॥२॥
1880. (५,४.३ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
1881. (५,४.३ ) तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥३॥
1882. (५,४.४ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
1883. (५,४.४ ) तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥४॥
1884. (५,४.५ ) हिरण्ययाः पन्थान आसन्न् अरित्राणि हिरण्यया ।
1885. (५,४.५ ) नावो हिरण्ययीरासन् याभिः कुष्ठं निरावहन् ॥५॥
1886. (५,४.६ ) इमं मे कुष्ठ पूरुषं तमा वह तं निष्कुरु ।
1887. (५,४.६ ) तमु मे अगदं कृधि ॥६॥
1888. (५,४.७ ) देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः ।
1889. (५,४.७ ) स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥७॥
1890. (५,४.८ ) उदङ्जातो हिमवतः स प्राच्यां नीयसे जनम् ।
1891. (५,४.८ ) तत्र कुष्ठस्य नामान्युत्तमानि वि भेजिरे ॥८॥
1892. (५,४.९ ) उत्तमो नाम कुष्ठस्युत्तमो नाम ते पिता ।
1893. (५,४.९ ) यक्ष्मं च सर्वं नाशय तक्मानं चारसं कृधि ॥९॥
1894. (५,४.१० ) शीर्षामयमुपहत्यामक्ष्योस्तन्वो रपः ।
1895. (५,४.१० ) कुष्ठस्तत्सर्वं निष्करद्दैवं समह वृष्ण्यम् ॥१०॥
1896. (५,५.१ ) रात्री माता नभः पितार्यमा ते पितामहः ।
1897. (५,५.१ ) सिलाची नाम वा असि सा देवानामसि स्वसा ॥१॥
1898. (५,५.२ ) यस्त्वा पिबति जीवति त्रायसे पुरुषं त्वम् ।
1899. (५,५.२ ) भर्त्री हि शश्वतामसि जनानां च न्यञ्चनी ॥२॥
1900. (५,५.३ ) वृक्षंवृक्षमा रोहसि वृषण्यन्तीव कन्यला ।
1901. (५,५.३ ) जयन्ती प्रत्यातिष्ठन्ती स्परणी नाम वा असि ॥३॥
1902. (५,५.४ ) यद्दण्डेन यदिष्वा यद्वारुर्हरसा कृतम् ।
1903. (५,५.४ ) तस्य त्वमसि निष्कृतिः सेमं निष्कृधि पूरुषम् ॥४॥
1904. (५,५.५ ) भद्रात्प्लक्षान् निस्तिष्ठस्यश्वत्थात्खदिराद्धवात्।
1905. (५,५.५ ) भद्रान् न्यग्रोधात्पर्णात्सा न एह्यरुन्धति ॥५॥
1906. (५,५.६ ) हिरण्यवर्णे सुभगे सूर्यवर्णे वपुष्टमे ।
1907. (५,५.६ ) रुतं गछासि निष्कृते निष्कृतिर्नाम वा असि ॥६॥
1908. (५,५.७ ) हिरण्यवर्णे सुभगे शुष्मे लोमशवक्षने ।
1909. (५,५.७ ) अपामसि स्वसा लाक्षे वातो हात्मा बभूव ते ॥७॥
1910. (५,५.८ ) सिलाची नाम कानीनोऽजबभ्रु पिता तव ।
1911. (५,५.८ ) अश्वो यमस्य यः श्यावस्तस्य हास्नास्युक्षिता ॥८॥
1912. (५,५.९ ) अश्वस्यास्नः संपतिता सा वृक्षामभि सिष्यदे ।
1913. (५,५.९ ) सरा पतत्रिणी भूत्वा सा न एह्यरुन्धति ॥९॥
1914. (५,६.१ ) ब्रह्म जज्ञानं प्रथमं पुरस्ताद्वि सीमतः सुरुचो वेन आवः ।
1915. (५,६.१ ) स बुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च वि वः ॥१॥
1916. (५,६.२ ) अनाप्ता ये वः प्रथमा यानि कर्माणि चक्रिरे ।
1917. (५,६.२ ) वीरान् नो अत्र मा दभन् तद्व एतत्पुरो दधे ॥२॥
1918. (५,६.३ ) सहस्रधार एव ते समस्वरन् दिवो नाके मधुजिह्वा असश्चतः ।
1919. (५,६.३ ) तस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवे ॥३॥
1920. (५,६.४ ) पर्यू षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः ।
1921. (५,६.४ ) द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥४॥
1922. (५,६.५ ) न्वेतेनारात्सीरसौ स्वाहा ।
1923. (५,६.५ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥५॥
1924. (५,६.६ ) अवैतेनारात्सीरसौ स्वाहा ।
1925. (५,६.६ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥६॥
1926. (५,६.७ ) अपैतेनारात्सीरसौ स्वाहा ।
1927. (५,६.७ ) तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृडतं नः ॥७॥
1928. (५,६.८ ) मुमुक्तमस्मान् दुरितादवद्याज्जुषेथां यज्ञममृतमस्मासु धत्तम् ॥८॥
1929. (५,६.९ ) चक्षुषो हेते मनसो हेते ब्रह्मणो हेते तपसश्च हेते ।
1930. (५,६.९ ) मेन्या मेनिरस्यमेनयस्ते सन्तु येऽस्मामभ्यघायन्ति ॥९॥
1931. (५,६.१० ) योऽस्मांश्चक्षुषा मनसा चित्त्याकूत्या च यो अघायुरभिदासात्।
1932. (५,६.१० ) त्वं तान् अग्ने मेन्यामेनीन् कृणु स्वाहा ॥१०॥
1933. (५,६.११ ) इन्द्रस्य गृहोऽसि ।
1934. (५,६.११ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥११॥
1935. (५,६.१२ ) इन्द्रस्य शर्मासि ।
1936. (५,६.१२ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१२॥
1937. (५,६.१३ ) इन्द्रस्य वर्मासि ।
1938. (५,६.१३ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१३॥
1939. (५,६.१४ ) इन्द्रस्य वरूथमसि ।
1940. (५,६.१४ ) तं त्वा प्र पद्ये तं त्वा प्र विशामि सर्वगुः सर्वपूरुषः सर्वात्मा सर्वतनूः सह यन् मेऽस्ति तेन ॥१४॥
1941. (५,७.१ ) आ नो भर मा परि ष्ठा अराते मा नो रक्षीर्दक्षिणां नीयमानाम् ।
1942. (५,७.१ ) नमो वीर्त्साया असमृद्धये नमो अस्त्वरातये ॥१॥
1943. (५,७.२ ) यमराते पुरोधत्से पुरुषं परिरापिणम् ।
1944. (५,७.२ ) नमस्ते तस्मै कृण्मो मा वनिं व्यथयीर्मम ॥२॥
1945. (५,७.३ ) प्र णो वनिर्देवकृता दिवा नक्तं च कल्पताम् ।
1946. (५,७.३ ) अरातिमनुप्रेमो वयं नमो अस्त्वरातये ॥३॥
1947. (५,७.४ ) सरस्वतीमनुमतिं भगं यन्तो हवामहे ।
1948. (५,७.४ ) वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥४॥
1949. (५,७.५ ) यं याचाम्यहं वाचा सरस्वत्या मनोयुजा ।
1950. (५,७.५ ) श्रद्धा तमद्य विन्दतु दत्ता सोमेन बभ्रुणा ॥५॥
1951. (५,७.६ ) मा वनिं मा वाचं नो वीर्त्सीरुभाविन्द्राग्नी आ भरतां नो वसूनि ।
1952. (५,७.६ ) सर्वे नो अद्य दित्सन्तोऽरातिं प्रति हर्यत ॥६॥
1953. (५,७.७ ) परोऽपेह्यसमृद्धे वि ते हेतिं नयामसि ।
1954. (५,७.७ ) वेद त्वाहं निमीवन्तीं नितुदन्तीमराते ॥७॥
1955. (५,७.८ ) उत नग्ना बोभुवती स्वप्नया सचसे जनम् ।
1956. (५,७.८ ) अराते चित्तं वीर्त्सन्त्याकूतिं पुरुषस्य च ॥८॥
1957. (५,७.९ ) या महती महोन्माना विश्वा आशा व्यानशे ।
1958. (५,७.९ ) तस्यै हिरण्यकेश्यै निरृत्या अकरं नमः ॥९॥
1959. (५,७.१० ) हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही ।
1960. (५,७.१० ) तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥१०॥
1961. (५,८.१ ) वैकङ्कतेनेध्मेन देवेभ्य आज्यं वह ।
1962. (५,८.१ ) अग्ने तामिह मादय सर्व आ यन्तु मे हवम् ॥१॥
1963. (५,८.२ ) इन्द्रा याहि मे हवमिदं करिष्यामि तच्छृणु ।
1964. (५,८.२ ) इम ऐन्द्रा अतिसरा आकूतिं सं नमन्तु मे ।
1965. (५,८.२ ) तेभिः शकेम वीर्यं जातवेदस्तनूवशिन् ॥२॥
1966. (५,८.३ ) यदसावमुतो देवा अदेवः संश्चिकीर्षति ।
1967. (५,८.३ ) मा तस्याग्निर्हव्यं वाक्षीद्धवं देवा अस्य मोप गुर्ममैव हवमेतन ॥३॥
1968. (५,८.४ ) अति धावतातिसरा इन्द्रस्य वचसा हत ।
1969. (५,८.४ ) अविं वृक इव मथ्नीत स वो जीवन् मा मोचि प्राणमस्यापि नह्यत ॥४॥
1970. (५,८.५ ) यममी पुरोदधिरे ब्रह्माणमपभूतये ।
1971. (५,८.५ ) इन्द्र स ते अधस्पदं तं प्रत्यस्यामि मृत्यवे ॥५॥
1972. (५,८.६ ) यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।
1973. (५,८.६ ) तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥६॥
1974. (५,८.७ ) यान् असावतिसरांश्चकार कृणवच्च यान् ।
1975. (५,८.७ ) त्वं तान् इन्द्र वृत्रहन् प्रतीचः पुनरा कृधि यथामुं तृणहां जनम् ॥७॥
1976. (५,८.८ ) यथेन्द्र उद्वाचनं लब्ध्वा चक्रे अधस्पदम् ।
1977. (५,८.८ ) कृण्वेऽहमधरान् तथा अमूञ्छश्वतीभ्यः समाभ्यः ॥८॥
1978. (५,८.९ ) अत्रैनान् इन्द्र वृत्रहन्न् उग्रो मर्मणि विध्य ।
1979. (५,८.९ ) अत्रैवैनान् अभि तिष्ठेन्द्र मेद्यहं तव ।
1980. (५,८.९ ) अनु त्वेन्द्रा रभामहे स्याम सुमतौ तव ॥९॥
1981. (५,९.१ ) दिवे स्वाहा ॥१॥
1982. (५,९.२ ) पृथिव्यै स्वाहा ॥२॥
1983. (५,९.३ ) अन्तरिक्षाय स्वाहा ॥३॥
1984. (५,९.४ ) अन्तरिक्षाय स्वाहा ॥४॥
1985. (५,९.५ ) दिवे स्वाहा ॥५॥
1986. (५,९.६ ) पृथिव्यै स्वाहा ॥६॥
1987. (५,९.७ ) सूर्यो मे चक्षुर्वातः प्राणोऽन्तरिक्षमात्मा पृथिवी शरीरम् ।
1988. (५,९.७ ) अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥७॥
1989. (५,९.८ ) उदायुरुद्बलमुत्कृतमुत्कृत्यामुन् मनीषामुदिन्द्रियम् ।
1990. (५,९.८ ) आयुष्कृदायुष्पत्नी स्वधावन्तौ गोपा मे स्तं गोपायतं मा ।
1991. (५,९.८ ) आत्मसदौ मे स्तं मा मा हिंसिष्टम् ॥८॥
1992. (५,१०.१ ) अश्मवर्म मेऽसि यो मा प्राच्या दिशोऽघायुरभिदासात्।
1993. (५,१०.१ ) एतत्स ऋछात्॥१॥
1994. (५,१०.२ ) अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्।
1995. (५,१०.२ ) एतत्स ऋछात्॥२॥
1996. (५,१०.३ ) अश्मवर्म मेऽसि यो मा प्रतीच्या दिशोऽघायुरभिदासात्।
1997. (५,१०.३ ) एतत्स ऋछात्॥३॥
1998. (५,१०.४ ) अश्मवर्म मेऽसि यो मोदीच्या दिशोऽघायुरभिदासात्।
1999. (५,१०.४ ) एतत्स ऋछात्॥४॥
2000. (५,१०.५ ) अश्मवर्म मेऽसि यो मा ध्रुवाया दिशोऽघायुरभिदासात्।
2001. (५,१०.५ ) एतत्स ऋछात्॥५॥
2002. (५,१०.६ ) अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्।
2003. (५,१०.६ ) एतत्स ऋछात्॥६॥
2004. (५,१०.७ ) अश्मवर्म मेऽसि यो मा दिशामन्तर्देशेभ्योऽघायुरभिदासात्।
2005. (५,१०.७ ) एतत्स ऋछात्॥७॥
2006. (५,१०.८ ) बृहता मन उप ह्वये मातरिश्वना प्राणापानौ ।
2007. (५,१०.८ ) सूर्याच्चक्षुरन्तरिक्षाच्छ्रोत्रं पृथिव्याः शरीरम् ।
2008. (५,१०.८ ) सरस्वत्या वाचमुप ह्वयामहे मनोयुजा ॥८॥
2009. (५,११.१ ) कथं महे असुरायाब्रवीरिह कथं पित्रे हरये त्वेषनृम्णः ।
2010. (५,११.१ ) पृश्निं वरुण दक्षिणां ददावान् पुनर्मघ त्वं मनसाचिकित्सीः ॥१॥
2011. (५,११.२ ) न कामेन पुनर्मघो भवामि सं चक्षे कं पृश्निमेतामुपाजे ।
2012. (५,११.२ ) केन नु त्वमथर्वन् काव्येन केन जातेनासि जातवेदाः ॥२॥
2013. (५,११.३ ) सत्यमहं गभीरः काव्येन सत्यं जातेनास्मि जातवेदाः ।
2014. (५,११.३ ) न मे दासो नार्यो महित्वा व्रतं मीमाय यदहं धरिष्ये ॥३॥
2015. (५,११.४ ) न त्वदन्यः कवितरो न मेधया धीरतरो वरुण स्वधावन् ।
2016. (५,११.४ ) त्वं ता विश्वा भुवनानि वेत्थ स चिन् नु त्वज्जनो मायी बिभाय ॥४॥
2017. (५,११.५ ) त्वं ह्यङ्ग वरुण स्वधावन् विश्वा वेत्थ जनिम सुप्रणीते ।
2018. (५,११.५ ) किं रजस एना परो अन्यदस्त्येना किं परेणावरममुर ॥५॥
2019. (५,११.६ ) एकं रजस एना परो अन्यदस्त्येना पर एकेन दुर्णशं चिदर्वाक्।
2020. (५,११.६ ) तत्ते विद्वान् वरुण प्र ब्रवीम्यधोवचसः पणयो भवन्तु नीचैर्दासा उप सर्पन्तु भूमिम् ॥६॥
2021. (५,११.७ ) त्वं ह्यङ्ग वरुण ब्रवीषि पुनर्मघेष्ववद्यानि भूरि ।
2022. (५,११.७ ) मो षु पणींरभ्येतावतो भून् मा त्वा वोचन्न् अराधसं जनासः ॥७॥
2023. (५,११.८ ) मा मा वोचन्न् अराधसं जनासः पुनस्ते पृश्निं जरितर्ददामि ।
2024. (५,११.८ ) स्तोत्रं मे विश्वमा याहि शचीभिरन्तर्विश्वासु मानुषीषु दिक्षु ॥८॥
2025. (५,११.९ ) आ ते स्तोत्राण्युद्यतानि यन्त्वन्तर्विश्वासु मानुषीषु दिक्षु ।
2026. (५,११.९ ) देहि नु मे यन् मे अदत्तो असि युज्यो मे सप्तपदः सखासि ॥९॥
2027. (५,११.१० ) समा नौ बन्धुर्वरुण समा जा वेदाहं तद्यन् नावेषा समा जा ।
2028. (५,११.१० ) ददामि तद्यत्ते अदत्तो अस्मि युज्यस्ते सप्तपदः सखास्मि ॥१०॥
2029. (५,११.११ ) देवो देवाय गृणते वयोधा विप्रो विप्राय स्तुवते सुमेधाः ।
2030. (५,११.११ ) अजीजनो हि वरुण स्वधावन्न् अथर्वाणं पितरं देवबन्धुम् ।
2031. (५,११.११ ) तस्मा उ राधः कृणुहि सुप्रशस्तं सखा नो असि परमं च बन्धुः ॥११॥
2032. (५,१२.१ ) समिद्धो अद्य मनुषो दुरोणे देवो देवान् यजसि जातवेदः ।
2033. (५,१२.१ ) आ च वह मित्रमहश्चिकित्वान् त्वं दूतः कविरसि प्रचेताः ॥१॥
2034. (५,१२.२ ) तनूनपात्पथ ऋतस्य यानान् मध्वा समञ्जन्त्स्वदया सुजिह्व ।
2035. (५,१२.२ ) मन्मानि धीभिरुत यज्ञमृन्धन् देवत्रा च कृणुह्यध्वरं नः ॥२॥
2036. (५,१२.३ ) आजुह्वान ईड्यो बन्द्यश्चा याह्यग्ने वसुभिः सजोषाः ।
2037. (५,१२.३ ) त्वं देवानामसि यह्व होता स एनान् यक्षीषितो यजीयान् ॥३॥
2038. (५,१२.४ ) प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् ।
2039. (५,१२.४ ) व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥४॥
2040. (५,१२.५ ) व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः ।
2041. (५,१२.५ ) देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥५॥
2042. (५,१२.६ ) आ सुष्वयन्ती यजते उपाके उषासानक्ता सदतां नि योनौ ।
2043. (५,१२.६ ) दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥६॥
2044. (५,१२.७ ) दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।
2045. (५,१२.७ ) प्रचोदयन्ता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशन्ता ॥७॥
2046. (५,१२.८ ) आ नो यज्ञं भारती तूयमेत्विडा मनुष्वदिह चेतयन्ती ।
2047. (५,१२.८ ) तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वतीः स्वपसः सदन्ताम् ॥८॥
2048. (५,१२.९ ) य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।
2049. (५,१२.९ ) तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यक्षि विद्वान् ॥९॥
2050. (५,१२.१० ) उपावसृज त्मन्या समञ्जन् देवानां पाथ ऋतुथा हवींषि ।
2051. (५,१२.१० ) वनस्पतिः शमिता देवो अग्निः स्वदन्तु हव्यं मधुना घृतेन ॥१०॥
2052. (५,१२.११ ) सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।
2053. (५,१२.११ ) अस्य होतुः प्रशिष्यृतस्य वाचि स्वाहाकृतं हविरदन्तु देवाः ॥११॥
2054. (५,१३.१ ) ददिर्हि मह्यं वरुणो दिवः कविर्वचोभिरुग्रैर्नि रिणामि ते विषम् ।
2055. (५,१३.१ ) खातमखातमुत सक्तमग्रभमिरेव धन्वन् नि जजास ते विषम् ॥१॥
2056. (५,१३.२ ) यत्ते अपोदकं विषं तत्त एतास्वग्रभम् ।
2057. (५,१३.२ ) गृह्णामि ते मध्यममुत्तमं रसमुतावमं भियसा नेशदादु ते ॥२॥
2058. (५,१३.३ ) वृषा मे रवो नभसा न तन्यतुरुग्रेण ते वचसा बाध आदु ते ।
2059. (५,१३.३ ) अहं तमस्य नृभिरग्रभं रसं तमस इव ज्योतिरुदेतु सूर्यः ॥३॥
2060. (५,१३.४ ) चक्षुषा ते चक्षुर्हन्मि विषेण हन्मि ते विषम् ।
2061. (५,१३.४ ) अहे म्रियस्व मा जीवीः प्रत्यगभ्येतु त्वा विषम् ॥४॥
2062. (५,१३.५ ) कैरात पृश्न उपतृण्य बभ्र आ मे शृणुतासिता अलीकाः ।
2063. (५,१३.५ ) मा मे सख्युः स्तामानमपि ष्ठाताश्रावयन्तो नि विषे रमध्वम् ॥५॥
2064. (५,१३.६ ) असितस्य तैमातस्य बभ्रोरपोदकस्य च ।
2065. (५,१३.६ ) सात्रासाहस्याहं मन्योरव ज्यामिव धन्वनो वि मुञ्चामि रथामिव ॥६॥
2066. (५,१३.७ ) आलिगी च विलिगी च पिता च मता च ।
2067. (५,१३.७ ) विद्म वः सर्वतो बन्ध्वरसाः किं करिष्यथ ॥७॥
2068. (५,१३.८ ) उरुगूलाया दुहिता जाता दास्यसिक्न्या ।
2069. (५,१३.८ ) प्रतङ्कं दद्रुषीणां सर्वासामरसं विषम् ॥८॥
2070. (५,१३.९ ) कर्णा श्वावित्तदब्रवीद्गिरेरवचरन्तिका ।
2071. (५,१३.९ ) याः काश्चेमाः खनित्रिमास्तासामरसतमं विषम् ॥९॥
2072. (५,१३.१० ) ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम् ।
2073. (५,१३.१० ) ताबुवेनारसं विषम् ॥१०॥
2074. (५,१३.११ ) तस्तुवं न तस्तुवं न घेत्त्वमसि तस्तुवम् ।
2075. (५,१३.११ ) तस्तुवेनारसं विषम् ॥११॥
2076. (५,१४.१ ) सुपर्णस्त्वान्वविन्दत्सूकरस्त्वाखनन् नसा ।
2077. (५,१४.१ ) दिप्सौषधे त्वं दिप्सन्तमव कृत्याकृतं जहि ॥१॥
2078. (५,१४.२ ) अव जहि यातुधानान् अव कृत्याकृतं जहि ।
2079. (५,१४.२ ) अथो यो अस्मान् दिप्सति तमु त्वं जह्योषधे ॥२॥
2080. (५,१४.३ ) रिश्यस्येव परीशासं परिकृत्य परि त्वचः ।
2081. (५,१४.३ ) कृत्यां कृत्याकृते देवा निष्कमिव प्रति मुञ्चत ॥३॥
2082. (५,१४.४ ) पुनः कृत्यां कृत्याकृते हस्तगृह्य परा णय ।
2083. (५,१४.४ ) समक्षमस्मा आ धेहि यथा कृत्याकृतं हनत्॥४॥
2084. (५,१४.५ ) कृत्याः सन्तु कृत्याकृते शपथः शपथीयते ।
2085. (५,१४.५ ) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥५॥
2086. (५,१४.६ ) यदि स्त्री यदि वा पुमान् कृत्यां चकार पाप्मने ।
2087. (५,१४.६ ) तामु तस्मै नयामस्यश्वमिवाश्वाभिधान्या ॥६॥
2088. (५,१४.७ ) यदि वासि देवकृता यदि वा पुरुषैः कृता ।
2089. (५,१४.७ ) तां त्वा पुनर्णयामसीन्द्रेण सयुजा वयम् ॥७॥
2090. (५,१४.८ ) अग्ने पृतनाषाट्पृतनाः सहस्व ।
2091. (५,१४.८ ) पुनः कृत्यां कृत्याकृते प्रतिहरणेन हरामसि ॥८॥
2092. (५,१४.९ ) कृतव्यधनि विध्य तं यश्चकार तमिज्जहि ।
2093. (५,१४.९ ) न त्वामचक्रुषे वयं वधाय सं शिशीमहि ॥९॥
2094. (५,१४.१० ) पुत्र इव पितरं गछ स्वज इवाभिष्ठितो दश ।
2095. (५,१४.१० ) बन्धमिवावक्रामी गछ कृत्ये कृत्याकृतं पुनः ॥१०॥
2096. (५,१४.११ ) उदेणीव वारण्यभिस्कन्दं मृगीव ।
2097. (५,१४.११ ) कृत्या कर्तारमृछतु ॥११॥
2098. (५,१४.१२ ) इष्वा ऋजीयः पततु द्यावापृथिवी तं प्रति ।
2099. (५,१४.१२ ) सा तं मृगमिव गृह्णातु कृत्या कृत्याकृतं पुनः ॥१२॥
2100. (५,१४.१३ ) अग्निरिवैतु प्रतिकूलमनुकूलमिवोदकम् ।
2101. (५,१४.१३ ) सुखो रथ इव वर्ततां कृत्या कृत्याकृतं पुनः ॥१३॥
2102. (५,१५.१ ) एका च मे दश च मेऽपवक्तार ओषधे ।
2103. (५,१५.१ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥१॥
2104. (५,१५.२ ) द्वे च मे विंशतिश्च मेऽपवक्तार ओषधे ।
2105. (५,१५.२ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥२॥
2106. (५,१५.३ ) तिस्रश्च मे त्रिंशच्च मेऽपवक्तार ओषधे ।
2107. (५,१५.३ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥३॥
2108. (५,१५.४ ) चतस्रश्च मे चत्वारिंशच्च मेऽपवक्तार ओषधे ।
2109. (५,१५.४ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥४॥
2110. (५,१५.५ ) पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे ।
2111. (५,१५.५ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥५॥
2112. (५,१५.६ ) षट्च मे षष्टिश्च मेऽपवक्तार ओषधे ।
2113. (५,१५.६ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥६॥
2114. (५,१५.७ ) सप्त च मे सप्ततिश्च मेऽपवक्तार ओषधे ।
2115. (५,१५.७ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥७॥
2116. (५,१५.८ ) अष्ट च मेऽशीतिश्च मेऽपवक्तार ओषधे ।
2117. (५,१५.८ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥८॥
2118. (५,१५.९ ) नव च मे नवतिश्च मेऽपवक्तार ओषधे ।
2119. (५,१५.९ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥९॥
2120. (५,१५.१० ) दश च मे शतं च मेऽपवक्तार ओषधे ।
2121. (५,१५.१० ) ऋतजात ऋतावरि मधु मे मधुला करः ॥१०॥
2122. (५,१५.११ ) शतं च मे सहस्रं चापवक्तार ओषधे ।
2123. (५,१५.११ ) ऋतजात ऋतावरि मधु मे मधुला करः ॥११॥
2124. (५,१६.१ ) यद्येकवृषोऽसि सृजारसोऽसि ॥१॥
2125. (५,१६.२ ) यदि द्विवृषोऽसि सृजारसोऽसि ॥२॥
2126. (५,१६.३ ) यदि त्रिवृसोऽसि सृजारसोऽसि ॥३॥
2127. (५,१६.४ ) यदि चतुर्वृषोऽसि सृजारसोऽसि ॥४॥
2128. (५,१६.५ ) यदि पञ्चवृषोऽसि सृजारसोऽसि ॥५॥
2129. (५,१६.६ ) यदि षड्वृषोऽसि सृजारसोऽसि ॥६॥
2130. (५,१६.७ ) यदि सप्तवृषोऽसि सृजारसोऽसि ॥७॥
2131. (५,१६.८ ) यद्यष्टवृषोऽसि सृजारसोऽसि ॥८॥
2132. (५,१६.९ ) यदि नववृषोऽसि सृजारसोऽसि ॥९॥
2133. (५,१६.१० ) यदि दशवृषोऽसि सृजारसोऽसि ॥१०॥
2134. (५,१६.११ ) यद्येकादशोऽसि सोऽपोदकोऽसि ॥११॥
2135. (५,१७.१ ) तेऽवदन् प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।
2136. (५,१७.१ ) वीडुहरास्तप उग्रं मयोभूरापो देवीः प्रथमजा ऋतस्य ॥१॥
2137. (५,१७.२ ) सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायछदहृणीयमानः ।
2138. (५,१७.२ ) अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥२॥
2139. (५,१७.३ ) हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेति चेदवोचत्।
2140. (५,१७.३ ) न दूताय प्रहेया तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥३॥
2141. (५,१७.४ ) यामाहुस्तारकैषा विकेशीति दुछुनां ग्राममवपद्यमानाम् ।
2142. (५,१७.४ ) सा ब्रह्मजाया वि दुनोति राष्ट्रं यत्र प्रापादि शश उल्कुषीमान् ॥४॥
2143. (५,१७.५ ) ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
2144. (५,१७.५ ) तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥
2145. (५,१७.६ ) देवा वा एतस्यामवदन्त पूर्वे सप्तऋषयस्तपसा ये निषेदुः ।
2146. (५,१७.६ ) भीमा जाया ब्राह्मणस्यापनीता दुर्धां दधाति परमे व्योमन् ॥६॥
2147. (५,१७.७ ) ये गर्भा अवपद्यन्ते जगद्यच्चापलुप्यते ।
2148. (५,१७.७ ) वीरा ये तृह्यन्ते मिथो ब्रह्मजाया हिनस्ति तान् ॥७॥
2149. (५,१७.८ ) उत यत्पतयो दश स्त्रियाः पूर्वे अब्राह्मणाः ।
2150. (५,१७.८ ) ब्रह्मा चेद्धस्तमग्रहीत्स एव पतिरेकधा ॥८॥
2151. (५,१७.९ ) ब्राह्मण एव पतिर्न राजन्यो न वैश्यः ।
2152. (५,१७.९ ) तत्सूर्यः प्रब्रुवन्न् एति पञ्चभ्यो मानवेभ्यः ॥९॥
2153. (५,१७.१० ) पुनर्वै देवा अददुः पुनर्मनुष्या अददुः ।
2154. (५,१७.१० ) राजानः सत्यं गृह्णाना ब्रह्मजायां पुनर्ददुः ॥१०॥
2155. (५,१७.११ ) पुनर्दाय ब्रह्मजायां कृत्वा देवैर्निकिल्बिषम् ।
2156. (५,१७.११ ) ऊर्जं पृथिव्या भक्त्वोरुगायमुपासते ॥११॥
2157. (५,१७.१२ ) नास्य जाया शतवाही कल्याणी तल्पमा शये ।
2158. (५,१७.१२ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१२॥
2159. (५,१७.१३ ) न विकर्णः पृथुशिरास्तस्मिन् वेश्मनि जायते ।
2160. (५,१७.१३ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१३॥
2161. (५,१७.१४ ) नास्य क्षत्ता निष्कग्रीवः सूनानामेत्यग्रतः ।
2162. (५,१७.१४ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१४॥
2163. (५,१७.१५ ) नास्य श्वेतः कृष्णकर्णो धुरि युक्तो महीयते ।
2164. (५,१७.१५ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१५॥
2165. (५,१७.१६ ) नास्य क्षेत्रे पुष्करिणी नाण्डीकं जायते बिसम् ।
2166. (५,१७.१६ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१६॥
2167. (५,१७.१७ ) नास्मै पृश्निं वि दुहन्ति येऽस्या दोहमुपासते ।
2168. (५,१७.१७ ) यस्मिन् राष्ट्रे निरुध्यते ब्रह्मजायाचित्त्या ॥१७॥
2169. (५,१७.१८ ) नास्य धेनुः कल्याणी नानड्वान्त्सहते धुरम् ।
2170. (५,१७.१८ ) विजानिर्यत्र ब्रह्मणो रात्रिं वसति पापया ॥१८॥
2171. (५,१८.१ ) नैतां ते देवा अददुस्तुभ्यं नृपते अत्तवे ।
2172. (५,१८.१ ) मा ब्राह्मणस्य राजन्य गां जिघत्सो अनाद्याम् ॥१॥
2173. (५,१८.२ ) अक्षद्रुग्धो राजन्यः पाप आत्मपराजितः ।
2174. (५,१८.२ ) स ब्राह्मणस्य गामद्यादद्य जीवानि मा श्वः ॥२॥
2175. (५,१८.३ ) आविष्टिताघविषा पृदाकूरिव चर्मणा ।
2176. (५,१८.३ ) सा ब्राह्मणस्य राजन्य तृष्टैषा गौरनाद्या ॥३॥
2177. (५,१८.४ ) निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम् ।
2178. (५,१८.४ ) यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥४॥
2179. (५,१८.५ ) य एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो न चित्तात्।
2180. (५,१८.५ ) सं तस्येन्द्रो हृदयेऽग्निमिन्धे उभे एनं द्विष्टो नभसी चरन्तम् ॥५॥
2181. (५,१८.६ ) न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव ।
2182. (५,१८.६ ) सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः ॥६॥
2183. (५,१८.७ ) शतापाष्ठां नि गिरति तां न शक्नोति निःखिदम् ।
2184. (५,१८.७ ) अन्नं यो ब्रह्मणां मल्वः स्वाद्वद्मीति मन्यते ॥७॥
2185. (५,१८.८ ) जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः ।
2186. (५,१८.८ ) तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥८॥
2187. (५,१८.९ ) तीक्ष्णेषवो ब्राह्मणा हेतिमन्तो यामस्यन्ति शरव्यां न सा मृषा ।
2188. (५,१८.९ ) अनुहाय तपसा मन्युना चोत दुरादव भिन्दन्त्येनम् ॥९॥
2189. (५,१८.१० ) ये सहस्रमराजन्न् आसन् दशशता उत ।
2190. (५,१८.१० ) ते ब्राह्मणस्य गां जग्ध्वा वैतहव्याः पराभवन् ॥१०॥
2191. (५,१८.११ ) गौरेव तान् हन्यमाना वैतहव्यामवातिरत्।
2192. (५,१८.११ ) ये केसरप्राबन्धायाश्चरमाजामपेचिरन् ॥११॥
2193. (५,१८.१२ ) एकशतं ता जनता या भूमिर्व्यधूनुत ।
2194. (५,१८.१२ ) प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥१२॥
2195. (५,१८.१३ ) देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान् ।
2196. (५,१८.१३ ) यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥१३॥
2197. (५,१८.१४ ) अग्निर्वै नः पदवायः सोमो दायाद उच्यते ।
2198. (५,१८.१४ ) हन्ताभिशस्तेन्द्रस्तथा तद्वेधसो विदुः ॥१४॥
2199. (५,१८.१५ ) इषुरिव दिग्धा नृपते पृदाकूरिव गोपते ।
2200. (५,१८.१५ ) सा ब्राह्मणस्येषुर्घोरा तया विध्यति पीयतः ॥१५॥
2201. (५,१९.१ ) अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् ।
2202. (५,१९.१ ) भृगुं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् ॥१॥
2203. (५,१९.२ ) ये बृहत्सामानमाङ्गिरसमार्पयन् ब्राह्मणं जनाः ।
2204. (५,१९.२ ) पेत्वस्तेषामुभयादमविस्तोकान्यावयत्॥२॥
2205. (५,१९.३ ) ये ब्राह्मणं प्रत्यष्ठीवन् ये वास्मिञ्छुल्कमीषिरे ।
2206. (५,१९.३ ) अस्नस्ते मध्ये कुल्यायाः केशान् खादन्त आसते ॥३॥
2207. (५,१९.४ ) ब्रह्मगवी पच्यमाना यावत्साभि विजङ्गहे ।
2208. (५,१९.४ ) तेजो राष्ट्रस्य निर्हन्ति न वीरो जायते वृषा ॥४॥
2209. (५,१९.५ ) क्रूरमस्या आशसनं तृष्टं पिशितमस्यते ।
2210. (५,१९.५ ) क्षीरं यदस्याः पीयते तद्वै पितृषु किल्बिषम् ॥५॥
2211. (५,१९.६ ) उग्रो राजा मन्यमानो ब्राह्मणं यो जिघत्सति ।
2212. (५,१९.६ ) परा तत्सिच्यते राष्ट्रं ब्राह्मणो यत्र जीयते ॥६॥
2213. (५,१९.७ ) अष्टापदी चतुरक्षी चतुःश्रोत्रा चतुर्हनुः ।
2214. (५,१९.७ ) द्व्यास्या द्विजिह्वा भूत्वा सा राष्ट्रमव धूनुते ब्रह्मज्यस्य ॥७॥
2215. (५,१९.८ ) तद्वै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् ।
2216. (५,१९.८ ) ब्रह्माणं यत्र हिंसन्ति तद्राष्ट्रं हन्ति दुछुना ॥८॥
2217. (५,१९.९ ) तं वृक्षा अप सेधन्ति छायां नो मोप गा इति ।
2218. (५,१९.९ ) यो ब्राह्मणस्य सद्धनमभि नारद मन्यते ॥९॥
2219. (५,१९.१० ) विषमेतद्देवकृतं राजा वरुणोऽब्रवीत्।
2220. (५,१९.१० ) न ब्राह्मणस्य गां जग्ध्वा रास्त्रे जागार कश्चन ॥१०॥
2221. (५,१९.११ ) नवैव ता नवतयो या भूमिर्व्यधूनुत ।
2222. (५,१९.११ ) प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥११॥
2223. (५,१९.१२ ) यां मृतायानुबध्नन्ति कूद्यं पदयोपनीम् ।
2224. (५,१९.१२ ) तद्वै ब्रह्मज्य ते देवा उपस्तरणमब्रुवन् ॥१२॥
2225. (५,१९.१३ ) अश्रूणि कृपमानस्य यानि जीतस्य वावृतुः ।
2226. (५,१९.१३ ) तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१३॥
2227. (५,१९.१४ ) येन मृतं स्नपयन्ति श्मश्रूणि येनोन्दते ।
2228. (५,१९.१४ ) तं वै ब्रह्मज्य ते देवा अपां भागमधारयन् ॥१४॥
2229. (५,१९.१५ ) न वर्षं मैत्रावरुणं ब्रह्मज्यमभि वर्षति ।
2230. (५,१९.१५ ) नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥१५॥
2231. (५,२०.१ ) उच्चैर्घोषो दुन्दुभिः सत्वनायन् वानस्पत्यः संभृत उसृइयाभिः ।
2232. (५,२०.१ ) वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्न् अभि तंस्तनीहि ॥१॥
2233. (५,२०.२ ) सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्न् ऋषभो वासितामिव ।
2234. (५,२०.२ ) वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥२॥
2235. (५,२०.३ ) वृषेव यूथे सहसा विदानो गव्यन्न् अभि रुव संधनाजित्।
2236. (५,२०.३ ) शुचा विध्य हृदयं परेषां हित्वा ग्रामान् प्रच्युता यन्तु शत्रवः ॥३॥
2237. (५,२०.४ ) संजयन् पृतना ऊर्ध्वमायुर्गृह्या गृह्णानो बहुधा वि चक्ष्व ।
2238. (५,२०.४ ) दैवीं वाचं दुन्दुभ आ गुरस्व वेधाः शत्रूणामुप भरस्व वेदः ॥४॥
2239. (५,२०.५ ) दुन्दुभेर्वाचं प्रयतां वदन्तीमाशृण्वती नाथिता घोषबुद्धा ।
2240. (५,२०.५ ) नारी पुत्रं धावतु हस्तगृह्यामित्री भीता समरे वधानाम् ॥५॥
2241. (५,२०.६ ) पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः ।
2242. (५,२०.६ ) अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत्॥६॥
2243. (५,२०.७ ) अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम् ।
2244. (५,२०.७ ) अभि क्रन्द स्तनयोत्पिपानः श्लोककृन् मित्रतूर्याय स्वर्धी ॥७॥
2245. (५,२०.८ ) धीभिः कृतः प्र वदाति वाचमुद्धर्षय सत्वनामायुधानि ।
2246. (५,२०.८ ) इन्द्रमेदी सत्वनो नि ह्वयस्व मित्रैरमित्रामव जङ्घनीहि ॥८॥
2247. (५,२०.९ ) संक्रन्दनः प्रवदो धृष्णुषेणः प्रवेदकृद्बहुधा ग्रामघोषी ।
2248. (५,२०.९ ) श्रियो वन्वनो वयुनानि विद्वान् कीर्तिं बहुभ्यो वि हर द्विराजे ॥९॥
2249. (५,२०.१० ) श्रेयःकेतो वसुजित्सहीयान्त्संग्रामजित्संशितो ब्रह्मणासि ।
2250. (५,२०.१० ) अंशून् इव ग्रावाधिषवणे अद्रिर्गव्यन् दुन्दुभेऽधि नृत्य वेदः ॥१०॥
2251. (५,२०.११ ) शत्रूषाण्नीषादभिमातिषाहो गवेषणः सहमान उद्भित्।
2252. (५,२०.११ ) वाग्वीव मन्त्रं प्र भरस्व वाचं सांग्रामजित्यायेषमुद्वदेह ॥११॥
2253. (५,२०.१२ ) अच्युतच्युत्समदो गमिष्ठो मृधो जेता पुरएतायोध्यः ।
2254. (५,२०.१२ ) इन्द्रेण गुप्तो विदथा निचिक्यद्धृद्द्योतनो द्विषतां याहि शीभम् ॥१२॥
2255. (५,२१.१ ) विहृदयं वैमनस्यं वदामित्रेषु दुन्दुभे ।
2256. (५,२१.१ ) विद्वेषं कश्मशं भयममित्रेषु नि दध्मस्यव एनान् दुन्दुभे जहि ॥१॥
2257. (५,२१.२ ) उद्वेपमाना मनसा चक्षुषा हृदयेन च ।
2258. (५,२१.२ ) धावन्तु बिभ्यतोऽमित्राः प्रत्रासेनाज्ये हुते ॥२॥
2259. (५,२१.३ ) वानस्पत्यः संभृत उस्रियाभिर्विश्वगोत्र्यः ।
2260. (५,२१.३ ) प्रत्रासममित्रेभ्यो वदाज्येनाभिघारितः ॥३॥
2261. (५,२१.४ ) यथा मृगाः संविजन्त आरण्याः पुरुषादधि ।
2262. (५,२१.४ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥४॥
2263. (५,२१.५ ) यथा वृकादजावयो धावन्ति बहु बिभ्यतीः ।
2264. (५,२१.५ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥५॥
2265. (५,२१.६ ) यथा श्येनात्पतत्रिणः संविजन्ते अहर्दिवि सिंहस्य स्तनथोर्यथा ।
2266. (५,२१.६ ) एव त्वं दुन्दुभेऽमित्रान् अभि क्रन्द प्र त्रासयाथो चित्तानि मोहय ॥६॥
2267. (५,२१.७ ) परामित्रान् दुन्दुभिना हरिणस्याजिनेन च ।
2268. (५,२१.७ ) सर्वे देवा अतित्रसन् ये संग्रामस्येषते ॥७॥
2269. (५,२१.८ ) यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह ।
2270. (५,२१.८ ) तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥८॥
2271. (५,२१.९ ) ज्याघोषा दुन्दुभयोऽभि क्रोशन्तु या दिशः ।
2272. (५,२१.९ ) सेनाः पराजिता यतीरमित्राणामनीकशः ॥९॥
2273. (५,२१.१० ) आदित्य चक्षुरा दत्स्व मरीचयोऽनु धावत ।
2274. (५,२१.१० ) पत्सङ्गिनीरा सजन्तु विगते बाहुवीर्ये ॥१०॥
2275. (५,२१.११ ) यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृनीत शत्रून् ।
2276. (५,२१.११ ) सोमो राजा वरुणो राजा महादेव उत मृत्युरिन्द्रः ॥११॥
2277. (५,२१.१२ ) एता देवसेनाः सूर्यकेतवः सचेतसः ।
2278. (५,२१.१२ ) अमित्रान् नो जयन्तु स्वाहा ॥१२॥
2279. (५,२२.१ ) अग्निस्तक्मानमप बाधतामितः सोमो ग्रावा वरुणः पूतदक्षाः ।
2280. (५,२२.१ ) वेदिर्बर्हिः समिधः शोशुचाना अप द्वेषांस्यमुया भवन्तु ॥१॥
2281. (५,२२.२ ) अयं यो विश्वान् हरितान् कृणोष्युच्छोचयन्न् अग्निरिवाभिदुन्वन् ।
2282. (५,२२.२ ) अधा हि तक्मन्न् अरसो हि भूया अधा न्यङ्ङधरान् वा परेहि ॥२॥
2283. (५,२२.३ ) यः परुषः पारुषेयोऽवध्वंस इवारुणः ।
2284. (५,२२.३ ) तक्मानं विश्वधावीर्याधराञ्चं परा सुवा ॥३॥
2285. (५,२२.४ ) अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने ।
2286. (५,२२.४ ) शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥४॥
2287. (५,२२.५ ) ओको अस्य मूजवन्त ओको अस्य महावृषाः ।
2288. (५,२२.५ ) यावज्जातस्तक्मंस्तावान् असि बल्हिकेषु न्योचरः ॥५॥
2289. (५,२२.६ ) तक्मन् व्याल वि गद व्यङ्ग भूरि यावय ।
2290. (५,२२.६ ) दासीं निष्टक्वरीमिछ तां वज्रेण समर्पय ॥६॥
2291. (५,२२.७ ) तक्मन् मूजवतो गछ बल्हिकान् वा परस्तराम् ।
2292. (५,२२.७ ) शूद्रामिछ प्रफर्व्यं तां तक्मन् वीव धूनुहि ॥७॥
2293. (५,२२.८ ) महावृषान् मूजवतो बन्ध्वद्धि परेत्य ।
2294. (५,२२.८ ) प्रैतानि तक्मने ब्रूमो अन्यक्षेत्राणि वा इमा ॥८॥
2295. (५,२२.९ ) अन्यक्षेत्रे न रमसे वशी सन् मृडयासि नः ।
2296. (५,२२.९ ) अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥९॥
2297. (५,२२.१० ) यत्त्वं शीतोऽथो रूरः सह कासावेपयः ।
2298. (५,२२.१० ) भीमास्ते तक्मन् हेतयस्ताभिः स्म परि वृङ्ग्धि नः ॥१०॥
2299. (५,२२.११ ) मा स्मैतान्त्सखीन् कुरुथा बलासं कासमुद्युगम् ।
2300. (५,२२.११ ) मा स्मातोऽर्वाङैः पुनस्तत्त्वा तक्मन्न् उप ब्रुवे ॥११॥
2301. (५,२२.१२ ) तक्मन् भ्रात्रा बलासेन स्वस्रा कासिकया सह ।
2302. (५,२२.१२ ) पाप्मा भ्रातृव्येण सह गछामुमरणं जनम् ॥१२॥
2303. (५,२२.१३ ) तृतीयकं वितृतीयं सदन्दिमुत शारदम् ।
2304. (५,२२.१३ ) तक्मानं शीतं रूरं ग्रैष्मं नाशय वार्षिकम् ॥१३॥
2305. (५,२२.१४ ) गन्धारिभ्यो मूजवद्भ्योऽङ्गेभ्यो मगधेभ्यः ।
2306. (५,२२.१४ ) प्रैष्यन् जनमिव शेवधिं तक्मानं परि दद्मसि ॥१४॥
2307. (५,२३.१ ) ओते मे द्यावापृथिवी ओता देवी सरस्वती ।
2308. (५,२३.१ ) ओतौ म इन्द्रश्चाग्निश्च क्रिमिं जम्भयतामिति ॥१॥
2309. (५,२३.२ ) अस्येन्द्र कुमारस्य क्रिमीन् धनपते जहि ।
2310. (५,२३.२ ) हता विश्वा अरातय उग्रेण वचसा मम ॥२॥
2311. (५,२३.३ ) यो अक्ष्यौ परिसर्पति यो नासे परिसर्पति ।
2312. (५,२३.३ ) दतां यो मध्यं गछति तं क्रिमिं जम्भयामसि ॥३॥
2313. (५,२३.४ ) सरूपौ द्वौ विरूपौ द्वौ कृष्णौ द्वौ रोहितौ द्वौ ।
2314. (५,२३.४ ) बभ्रुश्च बभ्रुकर्णश्च गृध्रः कोकश्च ते हताः ॥४॥
2315. (५,२३.५ ) ये क्रिमयः शितिकक्षा ये कृष्णाः शितिबाहवः ।
2316. (५,२३.५ ) ये के च विश्वरूपास्तान् क्रिमीन् जम्भयामसि ॥५॥
2317. (५,२३.६ ) उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।
2318. (५,२३.६ ) दृष्टांश्च घ्नन्न् अदृष्टांश्च सर्वांश्च प्रमृणन् क्रिमीन् ॥६॥
2319. (५,२३.७ ) येवाषासः कष्कषास एजत्काः शिपवित्नुकाः ।
2320. (५,२३.७ ) दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥७॥
2321. (५,२३.८ ) हतो येवाषः क्रिमीणां हतो नदनिमोत ।
2322. (५,२३.८ ) सर्वान् नि मष्मषाकरं दृषदा खल्वामिव ॥८॥
2323. (५,२३.९ ) त्रिशीर्षाणं त्रिककुदं क्रिमिं सारङ्गमर्जुनम् ।
2324. (५,२३.९ ) शृणाम्यस्य पृष्टीरपि वृश्चामि यच्छिरः ॥९॥
2325. (५,२३.१० ) अत्रिवद्वः क्रिमयो हन्मि कण्ववज्जमदग्निवत्।
2326. (५,२३.१० ) अगस्त्यस्य ब्रह्मणा सं पिनष्म्यहं क्रिमीन् ॥१०॥
2327. (५,२३.११ ) हतो राजा क्रिमीणामुतैषां स्थपतिर्हतः ।
2328. (५,२३.११ ) हतो हतमाता क्रिमिर्हतभ्राता हतस्वसा ॥११॥
2329. (५,२३.१२ ) हतासो अस्य वेशसो हतासः परिवेशसः ।
2330. (५,२३.१२ ) अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥१२॥
2331. (५,२३.१३ ) सर्वेषां च क्रिमीणां सर्वासां च क्रिमीनाम् ।
2332. (५,२३.१३ ) भिनद्म्यश्मना शिरो दहाम्यग्निना मुखम् ॥१३॥
2333. (५,२४.१ ) सविता प्रसवानामधिपतिः स मावतु ।
2334. (५,२४.१ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2335. (५,२४.१ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१॥
2336. (५,२४.२ ) अग्निर्वनस्पतीनामधिपतिः स मावतु ।
2337. (५,२४.२ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2338. (५,२४.२ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥२॥
2339. (५,२४.३ ) द्यावापृथिवी दातॄणामधिपतिः स मावतु ।
2340. (५,२४.३ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2341. (५,२४.३ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥३॥
2342. (५,२४.४ ) वरुणोऽपामधिपतिः स मावतु ।
2343. (५,२४.४ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2344. (५,२४.४ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥४॥
2345. (५,२४.५ ) मित्रावरुणौ वृष्ट्याधिपती तौ मावताम् ।
2346. (५,२४.५ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2347. (५,२४.५ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥५॥
2348. (५,२४.६ ) मरुतः पर्वतानामधिपतयस्ते मावन्तु ।
2349. (५,२४.६ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2350. (५,२४.६ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥६॥
2351. (५,२४.७ ) सोमो वीरुधामधिपतिः स मावतु ।
2352. (५,२४.७ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2353. (५,२४.७ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥७॥
2354. (५,२४.८ ) वायुरन्तरिक्षस्याधिपतिः स मावतु ।
2355. (५,२४.८ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2356. (५,२४.८ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥८॥
2357. (५,२४.९ ) सूर्यश्चक्षुषामधिपतिः स मावतु ।
2358. (५,२४.९ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2359. (५,२४.९ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥९॥
2360. (५,२४.१० ) चन्द्रमा नक्षत्राणामधिपतिः स मावतु ।
2361. (५,२४.१० ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2362. (५,२४.१० ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१०॥
2363. (५,२४.११ ) इन्द्रो दिवोऽधिपतिः स मावतु ।
2364. (५,२४.११ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2365. (५,२४.११ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥११॥
2366. (५,२४.१२ ) मरुतां पिता पशूनामधिपतिः स मावतु ।
2367. (५,२४.१२ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2368. (५,२४.१२ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१२॥
2369. (५,२४.१३ ) मृत्युः प्रजानामधिपतिः स मावतु ।
2370. (५,२४.१३ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2371. (५,२४.१३ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१३॥
2372. (५,२४.१४ ) यमः पितॄणामधिपतिः स मावतु ।
2373. (५,२४.१४ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2374. (५,२४.१४ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१४॥
2375. (५,२४.१५ ) पितरः परे ते मावन्तु ।
2376. (५,२४.१५ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2377. (५,२४.१५ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१५॥
2378. (५,२४.१६ ) तता अवरे ते मावन्तु ।
2379. (५,२४.१६ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिस्ठायामस्याम् ।
2380. (५,२४.१६ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१६॥
2381. (५,२४.१७ ) ततस्ततामहास्ते मावन्तु ।
2382. (५,२४.१७ ) अस्मिन् ब्रह्मण्यस्मिन् कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्याम् ।
2383. (५,२४.१७ ) चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥१७॥
2384. (५,२५.१ ) पर्वताद्दिवो योनेरङ्गादङ्गात्समाभृतम् ।
2385. (५,२५.१ ) शेपो गर्भस्य रेतोधाः सरौ पर्णमिवा दधत्॥१॥
2386. (५,२५.२ ) यथेयं पृथिवी मही भूतानां गर्भमादधे ।
2387. (५,२५.२ ) एवा दधामि ते गर्भं तस्मै त्वामवसे हुवे ॥२॥
2388. (५,२५.३ ) गर्भं धेहि सिनीवालि गर्भं धेहि सरस्वति ।
2389. (५,२५.३ ) गर्भं ते अश्विनोभा धत्तां पुष्करस्रजा ॥३॥
2390. (५,२५.४ ) गर्भं ते मित्रावरुणौ गर्भं देवो बृहस्पतिः ।
2391. (५,२५.४ ) गर्भं त इन्द्रश्चाग्निश्च गर्भं धाता दधातु ते ॥४॥
2392. (५,२५.५ ) विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
2393. (५,२५.५ ) आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥५॥
2394. (५,२५.६ ) यद्वेद राजा वरुणो यद्वा देवी सरस्वती ।
2395. (५,२५.६ ) यदिन्द्रो वृत्रहा वेद तद्गर्भकरणं पिब ॥६॥
2396. (५,२५.७ ) गर्भो अस्योषधीनां गर्भो वनस्पतीनाम् ।
2397. (५,२५.७ ) गर्भो विश्वस्य भूतस्य सो अग्ने गर्भमेह धाः ॥७॥
2398. (५,२५.८ ) अधि स्कन्द वीरयस्व गर्भमा धेहि योन्याम् ।
2399. (५,२५.८ ) वृषासि वृष्ण्यावन् प्रजायै त्वा नयामसि ॥८॥
2400. (५,२५.९ ) वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम् ।
2401. (५,२५.९ ) अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥९॥
2402. (५,२५.१० ) धातः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
2403. (५,२५.१० ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१०॥
2404. (५,२५.११ ) त्वष्टः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
2405. (५,२५.११ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥११॥
2406. (५,२५.१२ ) सवितः श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
2407. (५,२५.१२ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१२॥
2408. (५,२५.१३ ) प्रजापते श्रेष्ठेन रूपेणास्या नार्या गवीन्योः ।
2409. (५,२५.१३ ) पुमांसं पुत्रमा धेहि दशमे मासि सूतवे ॥१३॥
2410. (५,२६.१ ) यजूंषि यज्ञे समिधः स्वाहाग्निः प्रविद्वान् इह वो युनक्तु ॥१॥
2411. (५,२६.२ ) युनक्तु देवः सविता प्रजानन्न् अस्मिन् यज्ञे महिषः स्वाहा ॥२॥
2412. (५,२६.३ ) इन्द्र उक्थामदान्यस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥३॥
2413. (५,२६.४ ) प्रैषा यज्ञे निविदः स्वाहा शिष्टाः पत्नीभिर्वहतेह युक्ताः ॥४॥
2414. (५,२६.५ ) छन्दांसि यज्ञे मरुतः स्वाहा मातेव पुत्रं पिपृतेह युक्ताः ॥५॥
2415. (५,२६.६ ) एयमगन् बर्हिषा प्रोक्षणीभिर्यज्ञं तन्वानादितिः स्वाहा ॥६॥
2416. (५,२६.७ ) विष्णुर्युनक्तु बहुधा तपांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥७॥
2417. (५,२६.८ ) त्वष्टा युनक्तु बहुधा नु रूपा अस्मिन् यज्ञे युनक्तु सुयुजः स्वाहा ॥८॥
2418. (५,२६.९ ) भगो युनक्त्वाशिषो न्वस्मा अस्मिन् यज्ञे प्रविद्वान् युनक्तु सुयुजः स्वाहा ॥९॥
2419. (५,२६.१० ) सोमो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥१०॥
2420. (५,२६.११ ) इन्द्रो युनक्तु बहुधा पयांस्यस्मिन् यज्ञे सुयुजः स्वाहा ॥११॥
2421. (५,२६.१२ ) अश्विना ब्रह्मणा यातमर्वाञ्चौ वषट्कारेण यज्ञं वर्धयन्तौ ।
2422. (५,२६.१२ ) बृहस्पते ब्रह्मणा याह्यर्वाङ्यज्ञो अयं स्वरिदं यजमानाय स्वाहा ॥१२॥
2423. (५,२७.१ ) ऊर्ध्वा अस्य समिधो भवन्त्यूर्ध्वा शुक्रा शोचीष्यग्नेः ।
2424. (५,२७.१ ) द्युमत्तमा सुप्रतीकः ससूनुस्तनूनपादसुरो भूरिपाणिः ॥१॥
2425. (५,२७.२ ) देवो देवेषु देवः पथो अनक्ति मध्वा घृतेन ॥२॥
2426. (५,२७.३ ) मध्वा यज्ञं नक्षति प्रैणानो नराशंसो अग्निः सुकृद्देवः सविता विश्ववारः ॥३॥
2427. (५,२७.४ ) अछायमेति शवसा घृता चिदीदानो वह्निर्नमसा ॥४॥
2428. (५,२७.५ ) अग्निः स्रुचो अध्वरेषु प्रयक्षु स यक्षदस्य महिमानमग्नेः ॥५॥
2429. (५,२७.६ ) तरी मन्द्रासु प्रयक्षु वसवश्चातिष्ठन् वसुधातरश्च ॥६॥
2430. (५,२७.७ ) द्वारो देवीरन्वस्य विश्वे व्रतं रक्षन्ति विश्वहा ॥७॥
2431. (५,२७.८ ) उरुव्यचसाग्नेर्धाम्ना पत्यमाने ।
2432. (५,२७.८ ) आ सुष्वयन्ती यजते उपाके उषासानक्तेमं यज्ञमवतामध्वरं नः ॥८॥
2433. (५,२७.९ ) दैवा होतार ऊर्ध्वमध्वरं नोऽग्नेर्जिह्वयाभि गृनत गृनता नः स्विष्टये ।
2434. (५,२७.९ ) तिस्रो देवीर्बर्हिरेदं सदन्तामिडा सरस्वती मही भारती गृणाना ॥९॥
2435. (५,२७.१० ) तन् नस्तुरीपमद्भुतं पुरुक्षु ।
2436. (५,२७.१० ) देव त्वष्टा रायस्पोषं वि ष्य नाभिमस्य ॥१०॥
2437. (५,२७.११ ) वनस्पतेऽव सृजा रराणः ।
2438. (५,२७.११ ) त्मना देवेभ्यो अग्निर्हव्यं शमिता स्वदयतु ॥११॥
2439. (५,२७.१२ ) अग्ने स्वाहा कृणुहि जातवेदः ।
2440. (५,२७.१२ ) इन्द्राय यज्ञं विश्वे देवा हविरिदं जुषन्ताम् ॥१२॥
2441. (५,२८.१ ) नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय ।
2442. (५,२८.१ ) हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि ॥१॥
2443. (५,२८.२ ) अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च ।
2444. (५,२८.२ ) आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥२॥
2445. (५,२८.३ ) त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन ।
2446. (५,२८.३ ) अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥३॥
2447. (५,२८.४ ) इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः ।
2448. (५,२८.४ ) इममिन्द्र सं सृज वीर्येणास्मिन् त्रिवृच्छ्रयतां पोषयिष्णु ॥४॥
2449. (५,२८.५ ) भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः ।
2450. (५,२८.५ ) वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥५॥
2451. (५,२८.६ ) त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्।
2452. (५,२८.६ ) अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥६॥
2453. (५,२८.७ ) त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।
2454. (५,२८.७ ) त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥७॥
2455. (५,२८.८ ) त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः ।
2456. (५,२८.८ ) प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥८॥
2457. (५,२८.९ ) दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् ।
2458. (५,२८.९ ) भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥९॥
2459. (५,२८.१० ) इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः ।
2460. (५,२८.१० ) तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥१०॥
2461. (५,२८.११ ) पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे ।
2462. (५,२८.११ ) तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥११॥
2463. (५,२८.१२ ) आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः ।
2464. (५,२८.१२ ) अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥१२॥
2465. (५,२८.१३ ) ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।
2466. (५,२८.१३ ) संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥
2467. (५,२८.१४ ) घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु ।
2468. (५,२८.१४ ) भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय ॥१४॥
2469. (५,२९.१ ) पुरस्ताद्युक्तो वह जातवेदोऽग्ने विद्धि क्रियमाणं यथेदम् ।
2470. (५,२९.१ ) त्वं भिषग्भेषजस्यासि कर्ता त्वया गामश्वं पुरुषं सनेम ॥१॥
2471. (५,२९.२ ) तथा तदग्ने कृणु जातवेदो विश्वेभिर्देवैः सह संविदानः ।
2472. (५,२९.२ ) यो नो दिदेव यतमो जघास यथा सो अस्य परिधिष्पताति ॥२॥
2473. (५,२९.३ ) यथा सो अस्य परिधिष्पताति तथा तदग्ने कृणु जातवेदः ।
2474. (५,२९.३ ) विश्वेभिर्देवैर्सह संविदानः ॥३॥
2475. (५,२९.४ ) अक्ष्यौ नि विध्य हृदयं नि विध्य जिह्वां नि तृन्द्धि प्र दतो मृणीहि ।
2476. (५,२९.४ ) पिशाचो अस्य यतमो जघासाग्ने यविष्ठ प्रति शृणीहि ॥४॥
2477. (५,२९.५ ) यदस्य हृतं विहृतं यत्पराभृतमात्मनो जग्धं यतमत्पिशाचैः ।
2478. (५,२९.५ ) तदग्ने विद्वान् पुनरा भर त्वं शरीरे मांसमसुमेरयामः ॥५॥
2479. (५,२९.६ ) आमे सुपक्वे शबले विपक्वे यो मा पिशाचो अशने ददम्भ ।
2480. (५,२९.६ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥६॥
2481. (५,२९.७ ) क्षिरे मा मन्थे यतमो ददम्भाकृष्टपच्ये अशने धान्ये यः ।
2482. (५,२९.७ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥७॥
2483. (५,२९.८ ) अपां मा पाने यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।
2484. (५,२९.८ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥८॥
2485. (५,२९.९ ) दिवा मा नक्तं यतमो ददम्भ क्रव्याद्यातूनां शयने शयानम् ।
2486. (५,२९.९ ) तदात्मना प्रजया पिशाचा वि यातयन्तामगदोऽयमस्तु ॥९॥
2487. (५,२९.१० ) क्रव्यादमग्ने रुधिरं पिशाचं मनोहनं जहि जातवेदः ।
2488. (५,२९.१० ) तमिन्द्रो वाजी वज्रेण हन्तु छिनत्तु सोमः शिरो अस्य धृष्णुः ॥१०॥
2489. (५,२९.११ ) सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
2490. (५,२९.११ ) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥११॥
2491. (५,२९.१२ ) समाहर जातवेदो यद्धृतं यत्पराभृतम् ।
2492. (५,२९.१२ ) गात्राण्यस्य वर्धन्तामंशुरिवा प्यायतामयम् ॥१२॥
2493. (५,२९.१३ ) सोमस्येव जातवेदो अंशुरा प्यायतामयम् ।
2494. (५,२९.१३ ) अग्ने विरप्शिनं मेध्यमयक्ष्मं कृणु जीवतु ॥१३॥
2495. (५,२९.१४ ) एतास्ते अग्ने समिधः पिशाचजम्भनीः ।
2496. (५,२९.१४ ) तास्त्वं जुषस्व प्रति चैना गृहाण जातवेदः ॥१४॥
2497. (५,२९.१५ ) तार्ष्टाघीरग्ने समिधः प्रति गृह्णाह्यर्चिषा ।
2498. (५,२९.१५ ) जहातु क्रव्याद्रूपं यो अस्य मांसं जिहीर्षति ॥१५॥
2499. (५,३०.१ ) आवतस्त आवतः परावतस्त आवतः ।
2500. (५,३०.१ ) इहैव भव मा नु गा मा पूर्वान् अनु गाः पितॄन् असुं बध्नामि ते दृढम् ॥१॥
2501. (५,३०.२ ) यत्त्वाभिचेरुः पुरुषः स्वो यदरणो जनः ।
2502. (५,३०.२ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥२॥
2503. (५,३०.३ ) यद्दुद्रोहिथ शेपिषे स्त्रियै पुंसे अचित्त्या ।
2504. (५,३०.३ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥३॥
2505. (५,३०.४ ) यतेनसो मातृकृताच्छेषे पितृकृताच्च यत्।
2506. (५,३०.४ ) उन्मोचनप्रमोचने उभे वाचा वदामि ते ॥४॥
2507. (५,३०.५ ) यत्ते माता यत्ते पिता जमिर्भ्राता च सर्जतः ।
2508. (५,३०.५ ) प्रत्यक्सेवस्व भेषजं जरदष्टिं कृणोमि त्वा ॥५॥
2509. (५,३०.६ ) इहैधि पुरुष सर्वेण मनसा सह ।
2510. (५,३०.६ ) दूतौ यमस्य मानु गा अधि जीवपुरा इहि ॥६॥
2511. (५,३०.७ ) अनुहूतः पुनरेहि विद्वान् उदयनं पथः ।
2512. (५,३०.७ ) आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥७॥
2513. (५,३०.८ ) मा बिभेर्न मरिष्यसि जरदष्टिं कृणोमि त्वा ।
2514. (५,३०.८ ) निरवोचमहं यक्ष्ममङ्गेभ्यो अङ्गज्वरं तव ॥८॥
2515. (५,३०.९ ) अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः ।
2516. (५,३०.९ ) यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥९॥
2517. (५,३०.१० ) ऋषी बोधप्रतीबोधावस्वप्नो यश्च जागृविः ।
2518. (५,३०.१० ) तौ ते प्राणस्य गोप्तारौ दिवा नक्तं च जागृताम् ॥१०॥
2519. (५,३०.११ ) अयमग्निरुपसद्य इह सूर्य उदेतु ते ।
2520. (५,३०.११ ) उदेहि मृत्योर्गम्भीरात्कृष्णाच्चित्तमसस्परि ॥११॥
2521. (५,३०.१२ ) नमो यमाय नमो अस्तु मृत्यवे नमः पितृभ्य उत ये नयन्ति ।
2522. (५,३०.१२ ) उत्पारणस्य यो वेद तमग्निं पुरो दधेऽस्मा अरिष्टतातये ॥१२॥
2523. (५,३०.१३ ) ऐतु प्राण ऐतु मन ऐतु चक्षुरथो बलम् ।
2524. (५,३०.१३ ) शरीरमस्य सं विदां तत्पद्भ्यां प्रति तिष्ठतु ॥१३॥
2525. (५,३०.१४ ) प्राणेनाग्ने चक्षुषा सं सृजेमं समीरय तन्वा सं बलेन ।
2526. (५,३०.१४ ) वेत्थामृतस्य मा नु गान् मा नु भूमिगृहो भुवत्॥१४॥
2527. (५,३०.१५ ) मा ते प्राण उप दसन् मो अपानोऽपि धायि ते ।
2528. (५,३०.१५ ) सूर्यस्त्वाधिपतिर्मृत्योरुदायछतु रश्मिभिः ॥१५॥
2529. (५,३०.१६ ) इयमन्तर्वदति जिह्वा बद्धा पनिष्पदा ।
2530. (५,३०.१६ ) त्वया यक्ष्मं निरवोचं शतं रोपीश्च तक्मनः ॥१६॥
2531. (५,३०.१७ ) अयं लोकः प्रियतमो देवानामपराजितः ।
2532. (५,३०.१७ ) यस्मै त्वमिह मृत्यवे दिष्टः पुरुष जज्ञिषे ।
2533. (५,३०.१७ ) स च त्वानु ह्वयामसि मा पुरा जरसो मृथाः ॥१७॥
2534. (५,३१.१ ) यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्ये ।
2535. (५,३१.१ ) आमे मांसे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥१॥
2536. (५,३१.२ ) यां ते चक्रुः कृकवाकावजे वा यां कुरीरिणि ।
2537. (५,३१.२ ) अव्यां ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥२॥
2538. (५,३१.३ ) यां ते चक्रुरेकशफे पशूनामुभयादति ।
2539. (५,३१.३ ) गर्दभे कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥३॥
2540. (५,३१.४ ) यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।
2541. (५,३१.४ ) क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥४॥
2542. (५,३१.५ ) यां ते चक्रुर्गार्हपत्ये पूर्वाग्नावुत दुश्चितः ।
2543. (५,३१.५ ) शालायां कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥५॥
2544. (५,३१.६ ) यां ते चक्रुः सभायां यां चक्रुरधिदेवने ।
2545. (५,३१.६ ) अक्षेषु कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥६॥
2546. (५,३१.७ ) यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।
2547. (५,३१.७ ) दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥७॥
2548. (५,३१.८ ) यां ते कृत्यां कूपेऽवदधुः श्मशाने वा निचख्नुः ।
2549. (५,३१.८ ) सद्मनि कृत्यां यां चक्रुः पुनः प्रति हरामि ताम् ॥८॥
2550. (५,३१.९ ) यां ते चक्रुः पुरुषास्थे अग्नौ संकसुके च याम् ।
2551. (५,३१.९ ) म्रोकं निर्दाहं क्रव्यादं पुनः प्रति हरामि ताम् ॥९॥
2552. (५,३१.१० ) अपथेना जभारैनां तां पथेतः प्र हिण्मसि ।
2553. (५,३१.१० ) अधीरो मर्याधीरेभ्यः सं जभाराचित्त्या ॥१०॥
2554. (५,३१.११ ) यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
2555. (५,३१.११ ) चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥११॥
2556. (५,३१.१२ ) कृत्याकृतं वलगिनं मूलिनं शपथेय्यम् ।
2557. (५,३१.१२ ) इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥१२॥
2558. (६,१.१ ) दोषो गाय बृहद्गाय द्युमद्धेहि ।
2559. (६,१.१ ) आथर्वण स्तुहि देवं सवितारम् ॥१॥
2560. (६,१.२ ) तमु ष्टुहि यो अन्तः सिन्धौ सूनुः ।
2561. (६,१.२ ) सत्यस्य युवानमद्रोघवाचं सुशेवम् ॥२॥
2562. (६,१.३ ) स घा नो देवः सविता साविषदमृतानि भूरि ।
2563. (६,१.३ ) उभे सुष्टुती सुगातवे ॥३॥
2564. (६,२.१ ) इन्द्राय सोममृत्विजः सुनोता च धावत ।
2565. (६,२.१ ) स्तोतुर्यो वचः शृणवद्धवं च मे ॥१॥
2566. (६,२.२ ) आ यं विशन्तीन्दवो वयो न वृक्षमन्धसः ।
2567. (६,२.२ ) विरप्शिन् वि मृधो जहि रक्षस्विनीः ॥२॥
2568. (६,२.३ ) सुनोता सोमपाव्ने सोममिन्द्राय वज्रिणे ।
2569. (६,२.३ ) युवा जेतेशानः स पुरुष्टुतः ॥३॥
2570. (६,३.१ ) पातं न इन्द्रापूषणादितिः पान्तु मरुतः ।
2571. (६,३.१ ) अपां नपात्सिन्धवः सप्त पातन पातु नो विष्णुरुत द्यौः ॥१॥
2572. (६,३.२ ) पातां नो द्यावापृथिवी अभिष्टये पातु ग्रावा पातु सोमो नो अंहसः ।
2573. (६,३.२ ) पातु नो देवी सुभगा सरस्वती पात्वग्निः शिवा ये अस्य पायवः ॥२॥
2574. (६,३.३ ) पातां नो देवाश्विना शुभस्पती उषासानक्तोत न उरुष्यताम् ।
2575. (६,३.३ ) अपां नपादभिह्रुती गयस्य चिद्देव त्वष्टर्वर्धय सर्वतातये ॥३॥
2576. (६,४.१ ) त्वष्टा मे दैव्यं वचः पर्जन्यो ब्रह्मणस्पतिः ।
2577. (६,४.१ ) पुत्रैर्भ्रातृभिरदितिर्नु पातु नो दुष्टरं त्रायमाणं सहः ॥१॥
2578. (६,४.२ ) अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः ।
2579. (६,४.२ ) अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥२॥
2580. (६,४.३ ) धिये समश्विना प्रावतं न उरुष्या ण उरुज्मन्न् अप्रयुछन् ।
2581. (६,४.३ ) द्यौष्पितर्यावय दुछुना या ॥३॥
2582. (६,५.१ ) उदेनमुत्तरं नयाग्ने घृतेनाहुत ।
2583. (६,५.१ ) समेनं वर्चसा सृज प्रजया च बहुं कृधि ॥१॥
2584. (६,५.२ ) इन्द्रेमं प्रतरं कृधि सजातानामसद्वशी ।
2585. (६,५.२ ) रायस्पोषेण सं सृज जीवातवे जरसे नय ॥२॥
2586. (६,५.३ ) यस्य कृण्मो हविर्गृहे तमग्ने वर्धया त्वम् ।
2587. (६,५.३ ) तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
2588. (६,६.१ ) योऽस्मान् ब्रह्मणस्पतेऽदेवो अभिमन्यते ।
2589. (६,६.१ ) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥१॥
2590. (६,६.२ ) यो नः सोम सुशंसिनो दुःशंस आदिदेशति ।
2591. (६,६.२ ) वज्रेणास्य मुखे जहि स संपिष्टो अपायति ॥२॥
2592. (६,६.३ ) यो नः सोमाभिदासति सनाभिर्यश्च निष्ट्यः ।
2593. (६,६.३ ) अप तस्य बलं तिर महीव द्यौर्वधत्मना ॥३॥
2594. (६,७.१ ) येन सोमादितिः पथा मित्रा वा यन्त्यद्रुहः ।
2595. (६,७.१ ) तेना नोऽवसा गहि ॥१॥
2596. (६,७.२ ) येन सोम साहन्त्यासुरान् रन्धयासि नः ।
2597. (६,७.२ ) तेना नो अधि वोचत ॥२॥
2598. (६,७.३ ) येन देवा असुराणामोजांस्यवृणीध्वम् ।
2599. (६,७.३ ) तेना नः शर्म यछत ॥३॥
2600. (६,८.१ ) यथा वृक्षं लिबुजा समन्तं परिषस्वजे ।
2601. (६,८.१ ) एवा परि ष्वजस्व मां यथा मां कामिन्यसो यथा मन् नापगा असः ॥१॥
2602. (६,८.२ ) यथा सुपर्णः प्रपतन् पक्षौ निहन्ति भूम्याम् ।
2603. (६,८.२ ) एवा नि हन्मि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥२॥
2604. (६,८.३ ) यथेमे द्यावापृथिवी सद्यः पर्येति सूर्यः ।
2605. (६,८.३ ) एवा पर्येमि ते मनो यथा मां कामिन्यसो यथा मन् नापगा असः ॥३॥
2606. (६,९.१ ) वाञ्छ मे तन्वं पादौ वाञ्छाक्ष्यौ वाञ्छ सक्थ्यौ ।
2607. (६,९.१ ) अक्ष्यौ वृषण्यन्त्याः केशा मां ते कामेन शुष्यन्तु ॥१॥
2608. (६,९.२ ) मम त्वा दोषणिश्रिषं कृणोमि हृदयश्रिषम् ।
2609. (६,९.२ ) यथा मम क्रतावसो मम चित्तमुपायसि ॥२॥
2610. (६,९.३ ) यासां नाभिरारेहणं हृदि संवननं कृतं गावो घृतस्य मातरोऽमूं सं वानयन्तु मे ॥३॥
2611. (६,१०.१ ) पृथिव्यै श्रोत्राय वनस्पतिभ्योऽग्नयेऽधिपतये स्वाहा ॥१॥
2612. (६,१०.२ ) प्राणायान्तरिक्षाय वयोभ्यो वायवेऽधिपतये स्वाहा ॥२॥
2613. (६,१०.३ ) दिवे चक्षुषे नक्षत्रेभ्यः सूर्यायाधिपतये स्वाहा ॥३॥
2614. (६,११.१ ) शमीमश्वत्थ आरूढस्तत्र पुंसुवनं कृतम् ।
2615. (६,११.१ ) तद्वै पुत्रस्य वेदनं तत्स्त्रीष्वा भरामसि ॥१॥
2616. (६,११.२ ) पुंसि वै रेतो भवति तत्स्त्रियामनु षिच्यते ।
2617. (६,११.२ ) तद्वै पुत्रस्य वेदनं तत्प्रजापतिरब्रवीत्॥२॥
2618. (६,११.३ ) प्रजापतिरनुमतिः सिनीवाल्यचीकॢपत्।
2619. (६,११.३ ) स्त्रैषूयमन्यत्र दधत्पुमांसमु दधतिह ॥३॥
2620. (६,१२.१ ) परि द्यामिव सूर्योऽहीनां जनिमागमम् ।
2621. (६,१२.१ ) रात्री जगदिवान्यद्धंसात्तेना ते वारये विषम् ॥१॥
2622. (६,१२.२ ) यद्ब्रह्मभिर्यदृषिभिर्यद्देवैर्विदितं पुरा ।
2623. (६,१२.२ ) यद्भूतं भव्यमासन्वत्तेना ते वारये विषम् ॥२॥
2624. (६,१२.३ ) मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु ।
2625. (६,१२.३ ) मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥३॥
2626. (६,१३.१ ) नमो देववधेभ्यो नमो राजवधेभ्यः ।
2627. (६,१३.१ ) अथो ये विश्यानां वधास्तेभ्यो मृत्यो नमोऽस्तु ते ॥१॥
2628. (६,१३.२ ) नमस्ते अधिवाकाय परावाकाय ते नमः ।
2629. (६,१३.२ ) सुमत्यै मृत्यो ते नमो दुर्मत्यै ते इदं नमः ॥२॥
2630. (६,१३.३ ) नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः ।
2631. (६,१३.३ ) नमस्ते मृत्यो मूलेभ्यो ब्राह्मणेभ्य इदं नमः ॥३॥
2632. (६,१४.१ ) अस्थिस्रंसं परुस्रंसमास्थितं हृदयामयम् ।
2633. (६,१४.१ ) बलासं सर्वं नाशयाङ्गेष्ठा यश्च पर्वसु ॥१॥
2634. (६,१४.२ ) निर्बलासं बलासिनः क्षिणोमि मुष्करं यथा ।
2635. (६,१४.२ ) छिनद्म्यस्य बन्धनं मूलमुर्वार्वा इव ॥२॥
2636. (६,१४.३ ) निर्बलासेतः प्र पताशुङ्गः शिशुको यथा ।
2637. (६,१४.३ ) अथो इत इव हायनोऽप द्राह्यवीरहा ॥३॥
2638. (६,१५.१ ) उत्तमो अस्योषधीनां तव वृक्षा उपस्तयः ।
2639. (६,१५.१ ) उपस्तिरस्तु सोऽस्माकं यो अस्मामभिदासति ॥१॥
2640. (६,१५.२ ) सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति ।
2641. (६,१५.२ ) तेषां सा वृक्षाणामिवाहं भूयासमुत्तमः ॥२॥
2642. (६,१५.३ ) यथा सोम ओषधीनामुत्तमो हविषां कृतः ।
2643. (६,१५.३ ) तलाशा वृक्षाणामिवाहं भूयासमुत्तमः ॥३॥
2644. (६,१६.१ ) आबयो अनाबयो रसस्त उग्र आबयो ।
2645. (६,१६.१ ) आ ते करम्भमद्मसि ॥१॥
2646. (६,१६.२ ) विहह्लो नाम ते पिता मदावती नाम ते माता ।
2647. (६,१६.२ ) स हिन त्वमसि यस्त्वमात्मानमावयः ॥२॥
2648. (६,१६.३ ) तौविलिकेऽवेलयावायमैलब ऐलयीत्।
2649. (६,१६.३ ) बभ्रुश्च बभ्रुकर्णश्चापेहि निराल ॥३॥
2650. (६,१६.४ ) अलसालासि पूर्व सिलाञ्जालास्युत्तरा ।
2651. (६,१६.४ ) नीलागलसाल ॥४॥
2652. (६,१७.१ ) यथेयं पृथिवी मही भूतानां गर्भमादधे ।
2653. (६,१७.१ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥१॥
2654. (६,१७.२ ) यथेयं पृथिवी मही दाधारेमान् वनस्पतीन् ।
2655. (६,१७.२ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥२॥
2656. (६,१७.३ ) यथेयं पृथिवी मही दाधार पर्वतान् गिरीन् ।
2657. (६,१७.३ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥३॥
2658. (६,१७.४ ) यथेयं पृथिवी मही दाधार विष्ठितं जगत्।
2659. (६,१७.४ ) एवा ते ध्रियतां गर्भो अनु सूतुं सवितवे ॥४॥
2660. (६,१८.१ ) ईर्ष्याया ध्राजिं प्रथमां प्रथमस्या उतापराम् ।
2661. (६,१८.१ ) अग्निं हृदय्यं शोकं तं ते निर्वापयामसि ॥१॥
2662. (६,१८.२ ) यथा भूमिर्मृतमना मृतान् मृतमनस्तरा ।
2663. (६,१८.२ ) यथोत मम्रुषो मन एवेर्ष्योर्मृतं मनः ॥२॥
2664. (६,१८.३ ) अदो यत्ते हृदि श्रितं मनस्कं पतयिष्णुकम् ।
2665. (६,१८.३ ) ततस्त ईर्ष्यां मुञ्चामि निरूष्माणं दृतेरिव ॥३॥
2666. (६,१९.१ ) पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
2667. (६,१९.१ ) पुनन्तु विश्वा भूतानि पवमानः पुनातु मा ॥१॥
2668. (६,१९.२ ) पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।
2669. (६,१९.२ ) अथो अरिष्टतातये ॥२॥
2670. (६,१९.३ ) उभाभ्यां देव सवितः पवित्रेण सवेन च ।
2671. (६,१९.३ ) अस्मान् पुनीहि चक्षसे ॥३॥
2672. (६,२०.१ ) अग्नेरिवास्य दहत एति शुष्मिण उतेव मत्तो विलपन्न् अपायति ।
2673. (६,२०.१ ) अन्यमस्मदिछतु कं चिदव्रतस्तपुर्वधाय नमो अस्तु तक्मने ॥१॥
2674. (६,२०.२ ) नमो रुद्राय नमो अस्तु तक्मने नमो राज्ञे वरुणाय त्विषीमते ।
2675. (६,२०.२ ) नमो दिवे नमः पृथिव्यै नम ओषधीभ्यः ॥२॥
2676. (६,२०.३ ) अयं यो अभिशोचयिष्णुर्विश्वा रूपाणि हरिता कृणोषि ।
2677. (६,२०.३ ) तस्मै तेऽरुणाय बभ्रवे नमः कृणोमि वन्याय तक्मने ॥३॥
2678. (६,२१.१ ) इमा यास्तिस्रः पृथिवीस्तासां ह भूमिरुत्तमा ।
2679. (६,२१.१ ) तासामधि त्वचो अहं भेषजं समु जग्रभम् ॥१॥
2680. (६,२१.२ ) श्रेष्ठमसि भेषजानां वसिष्ठं वीरुधानाम् ।
2681. (६,२१.२ ) सोमो भग इव यामेषु देवेषु वरुणो यथा ॥२॥
2682. (६,२१.३ ) रेवतीरनाधृषः सिषासवः सिषासथ ।
2683. (६,२१.३ ) उत स्थ केशदृम्हणीरथो ह केशवर्धनीः ॥३॥
2684. (६,२२.१ ) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
2685. (६,२२.१ ) त आववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥१॥
2686. (६,२२.२ ) पयस्वतीः कृणुथाप ओषधीः शिवा यदेजथा मरुतो रुक्मवक्षसः ।
2687. (६,२२.२ ) ऊर्जं च तत्र सुमतिं च पिन्वत यत्रा नरो मरुतः सिञ्चथा मधु ॥२॥
2688. (६,२२.३ ) उदप्रुतो मरुतस्तामियर्त वृष्टिर्या विश्वा निवतस्पृणाति ।
2689. (६,२२.३ ) एजाति ग्लहा कन्येव तुन्नैरुं तुन्दाना पत्येव जाया ॥३॥
2690. (६,२३.१ ) सस्रुषीस्तदपसो दिवा नक्तं च सस्रुषीः ।
2691. (६,२३.१ ) वरेण्यक्रतुरहमपो देवीरुप ह्वये ॥१॥
2692. (६,२३.२ ) ओता आपः कर्मण्या मुञ्चन्त्वितः प्रणीतये ।
2693. (६,२३.२ ) सद्यः कृण्वन्त्वेतवे ॥२॥
2694. (६,२३.३ ) देवस्य सवितुः सवे कर्म कृण्वन्तु मानुषाः ।
2695. (६,२३.३ ) शं नो भवन्त्वप ओषधीः शिवाः ॥३॥
2696. (६,२४.१ ) हिमवतः प्र स्रवन्ति सिन्धौ समह सङ्गमः ।
2697. (६,२४.१ ) आपो ह मह्यं तद्देवीर्ददन् हृद्द्योतभेषजम् ॥१॥
2698. (६,२४.२ ) यन् मे अक्ष्योरादिद्योत पार्ष्ण्योः प्रपदोश्च यत्।
2699. (६,२४.२ ) आपस्तत्सर्वं निष्करन् भिषजां सुभिषक्तमाः ॥२॥
2700. (६,२४.३ ) सिन्धुपत्नीः सिन्धुराज्ञीः सर्वा या नद्य स्थन ।
2701. (६,२४.३ ) दत्त नस्तस्य भेषजं तेना वो भुनजामहै ॥३॥
2702. (६,२५.१ ) पञ्च च याः पञ्चाशच्च संयन्ति मन्या अभि ।
2703. (६,२५.१ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥१॥
2704. (६,२५.२ ) सप्त च याः सप्ततिश्च संयन्ति ग्रैव्या अभि ।
2705. (६,२५.२ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥२॥
2706. (६,२५.३ ) नव च या नवतिश्च संयन्ति स्कन्ध्या अभि ।
2707. (६,२५.३ ) इतस्ताः सर्वा नश्यन्तु वाका अपचितामिव ॥३॥
2708. (६,२६.१ ) अव मा पाप्मन्त्सृज वशी सन् मृदयासि नः ।
2709. (६,२६.१ ) आ मा भद्रस्य लोके पाप्मन् धेह्यविह्रुतम् ॥१॥
2710. (६,२६.२ ) यो नः पाप्मन् न जहासि तमु त्वा जहिमो वयम् ।
2711. (६,२६.२ ) पथामनु व्यावर्तनेऽन्यं पाप्मानु पद्यताम् ॥२॥
2712. (६,२६.३ ) अन्यत्रास्मन् न्युच्यतु सहस्राक्षो अमर्त्यः ।
2713. (६,२६.३ ) यं द्वेषाम तमृछतु यमु द्विष्मस्तमिज्जहि ॥३॥
2714. (६,२७.१ ) देवाः कपोत इषितो यदिछन् दूतो निरृत्या इदमाजगाम ।
2715. (६,२७.१ ) तस्मा अर्चाम कृणवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥१॥
2716. (६,२७.२ ) शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहं नः ।
2717. (६,२७.२ ) अग्निर्हि विप्रो जुषतां हविर्नः परि हेतिः पक्षिणी नो वृणक्तु ॥२॥
2718. (६,२७.३ ) हेतिः पक्षिणी न दभात्यस्मान् आष्ट्री पदं कृणुते अग्निधाने ।
2719. (६,२७.३ ) शिवो गोभ्य उत पुरुषेभ्यो नो अस्तु मा नो देवा इह हिंसीत्कपोत ॥३॥
2720. (६,२८.१ ) ऋचा कपोतं नुदत प्रणोदमिषं मदन्तः परि गां नयामः ।
2721. (६,२८.१ ) संलोभयन्तो दुरिता पदानि हित्वा न ऊर्जं प्र पदात्पथिष्ठः ॥१॥
2722. (६,२८.२ ) परीमेऽग्निमर्षत परीमे गामनेषत ।
2723. (६,२८.२ ) देवेष्वक्रत श्रवः क इमामा दधर्षति ॥२॥
2724. (६,२८.३ ) यः प्रथमः प्रवतमाससाद बहुभ्यः पन्थामनुपस्पशानः ।
2725. (६,२८.३ ) योऽस्येशे द्विपदो यश्चतुष्पदस्तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
2726. (६,२९.१ ) अमून् हेतिः पतत्रिणी न्येतु यदुलूको वदति मोघमेतत्।
2727. (६,२९.१ ) यद्वा कपोत पदमग्नौ कृणोति ॥१॥
2728. (६,२९.२ ) यौ ते दूतौ निरृत इदमेतोऽप्रहितौ प्रहितौ वा गृहं नः ।
2729. (६,२९.२ ) कपोतोलूकाभ्यामपदं तदस्तु ॥२॥
2730. (६,२९.३ ) अवैरहत्यायेदमा पपत्यात्सुवीरताया इदमा ससद्यात्।
2731. (६,२९.३ ) पराङेव परा वद पराचीमनु संवतम् ।
2732. (६,२९.३ ) यथा यमस्य त्वा गृहेऽरसं प्रतिचाकशान् आभूकं प्रतिचाकशान् ॥३॥
2733. (६,३०.१ ) देवा इमं मधुना संयुतं यवं सरस्वत्यामधि मणावचर्कृषुः ।
2734. (६,३०.१ ) इन्द्र आसीत्सीरपतिः शतक्रतुः कीनाशा आसन् मरुतः सुदानवः ॥१॥
2735. (६,३०.२ ) यस्ते मदोऽवकेशो विकेशो येनाभिहस्यं पुरुषं कृणोषि ।
2736. (६,३०.२ ) आरात्त्वदन्या वनानि वृक्षि त्वं शमि शतवल्शा वि रोह ॥२॥
2737. (६,३०.३ ) बृहत्पलाशे सुभगे वर्षवृद्ध ऋतावरि ।
2738. (६,३०.३ ) मातेव पुत्रेभ्यो मृड केशेभ्यः शमि ॥३॥
2739. (६,३१.१ ) आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
2740. (६,३१.१ ) पितरं च प्रयन्त्स्वः ॥१॥
2741. (६,३१.२ ) अन्तश्चरति रोचना अस्य प्राणादपानतः ।
2742. (६,३१.२ ) व्यख्यन् महिषः स्वः ॥२॥
2743. (६,३१.३ ) त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।
2744. (६,३१.३ ) प्रति वस्तोरहर्द्युभिः ॥३॥
2745. (६,३२.१ ) अन्तर्दावे जुहुत स्वेतद्यातुधानक्षयणं घृतेन ।
2746. (६,३२.१ ) आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥१॥
2747. (६,३२.२ ) रुद्रो वो ग्रीवा अशरैत्पिशाचाः पृष्टीर्वोऽपि शृणातु यातुधानाः ।
2748. (६,३२.२ ) वीरुद्वो विश्वतोवीर्या यमेन समजीगमत्॥२॥
2749. (६,३२.३ ) अभयं मित्रावरुणाविहास्तु नोऽर्चिषात्त्रिणो नुदतं प्रतीचः ।
2750. (६,३२.३ ) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥३॥
2751. (६,३३.१ ) यस्येदमा रजो युजस्तुजे जना नवं स्वः ।
2752. (६,३३.१ ) इन्द्रस्य रन्त्यं बृहत्॥१॥
2753. (६,३३.२ ) नाधृष आ दधृषते धृषाणो धृषितः शवः ।
2754. (६,३३.२ ) पुरा यथा व्यथिः श्रव इन्द्रस्य नाधृषे शवः ॥२॥
2755. (६,३३.३ ) स नो ददातु तां रयिमुरुं पिशङ्गसंदृशम् ।
2756. (६,३३.३ ) इन्द्रः पतिस्तुविष्टमो जनेष्वा ॥३॥
2757. (६,३४.१ ) प्राग्नये वाचमीरय वृषभाय क्षितीनाम् ।
2758. (६,३४.१ ) स नः पर्षदति द्विषः ॥१॥
2759. (६,३४.२ ) यो रक्षांसि निजूर्वत्यग्निस्तिग्मेन शोचिषा ।
2760. (६,३४.२ ) स नः पर्षदति द्विषः ॥२॥
2761. (६,३४.३ ) यः परस्याः परावतस्तिरो धन्वातिरोचते ।
2762. (६,३४.३ ) स नः पर्षदति द्विषः ॥३॥
2763. (६,३४.४ ) यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
2764. (६,३४.४ ) स नः पर्षदति द्विषः ॥४॥
2765. (६,३४.५ ) यो अस्य पारे रजसः शुक्रो अग्निरजायत ।
2766. (६,३४.५ ) स नः पर्षदति द्विषः ॥५॥
2767. (६,३५.१ ) वैश्वानरो न ऊतय आ प्र यातु परावतः ।
2768. (६,३५.१ ) अग्निर्नः सुष्टुतीरुप ॥१॥
2769. (६,३५.२ ) वैश्वानरो न आगमदिमं यज्ञं सजूरुप ।
2770. (६,३५.२ ) अग्निरुक्थेष्वंहसु ॥२॥
2771. (६,३५.३ ) वैश्वानरोऽङ्गिरसां स्तोममुक्थं च चाकॢपत्।
2772. (६,३५.३ ) ऐषु द्युम्नं स्वर्यमत्॥३॥
2773. (६,३६.१ ) ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिम् ।
2774. (६,३६.१ ) अजस्रं घर्ममीमहे ॥१॥
2775. (६,३६.२ ) स विश्वा प्रति चाकॢप ऋतूंरुत्सृजते वशी ।
2776. (६,३६.२ ) यज्ञस्य वय उत्तिरन् ॥२॥
2777. (६,३६.३ ) अग्निः परेषु धामसु कामो भूतस्य भव्यस्य ।
2778. (६,३६.३ ) सम्रादेको वि राजति ॥३॥
2779. (६,३७.१ ) उप प्रागात्सहस्राक्षो युक्त्वा शपथो रथम् ।
2780. (६,३७.१ ) शप्तारमन्विछन् मम वृक इवाविमतो गृहम् ॥१॥
2781. (६,३७.२ ) परि णो वृङ्ग्धि शपथ ह्रदमग्निरिवा दहन् ।
2782. (६,३७.२ ) शप्तारमत्र नो जहि दिवो वृक्षमिवाशनिः ॥२॥
2783. (६,३७.३ ) यो नः शपादशपतः शपतो यश्च नः शपात्।
2784. (६,३७.३ ) शुने पेष्ट्रमिवावक्षामं तं प्रत्यस्यामि मृत्यवे ॥३॥
2785. (६,३८.१ ) सिंहे व्याघ्र उत या पृदाकौ त्विषिरग्नौ ब्राह्मणे सूर्ये या ।
2786. (६,३८.१ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥१॥
2787. (६,३८.२ ) या हस्तिनि द्वीपिनि या हिरण्ये त्विषिरप्सु गोषु या पुरुषेषु ।
2788. (६,३८.२ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥२॥
2789. (६,३८.३ ) रथे अक्षेष्वृषभस्य वाजे वाते पर्जन्ये वरुणस्य शुष्मे ।
2790. (६,३८.३ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा संविदाना ॥३॥
2791. (६,३८.४ ) राजन्ये दुन्दुभावायतायामश्वस्य वाजे पुरुषस्य मायौ ।
2792. (६,३८.४ ) इन्द्रं या देवी सुभगा जजान सा न ऐतु वर्चसा सम्विदाना ॥४॥
2793. (६,३९.१ ) यशो हविर्वर्धतामिन्द्रजूतं सहस्रवीर्यं सुभृतं सहस्कृतम् ।
2794. (६,३९.१ ) प्रसर्स्राणमनु दीर्घाय चक्षसे हविष्मन्तं मा वर्धय ज्येष्ठतातये ॥१॥
2795. (६,३९.२ ) अछा न इन्द्रं यशसं यशोभिर्यशस्विनं नमसाना विधेम ।
2796. (६,३९.२ ) स नो रास्व राष्ट्रमिन्द्रजूतं तस्य ते रातौ यशसः स्याम ॥२॥
2797. (६,३९.३ ) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।
2798. (६,३९.३ ) यशा विश्वस्य भूतस्य अहमस्मि यशस्तमः ॥३॥
2799. (६,४०.१ ) अभयं द्यावापृथिवी इहास्तु नोऽभयं सोमः सविता नः कृणोतु ।
2800. (६,४०.१ ) अभयं नोऽस्तूर्वन्तरिक्षं सप्तऋषीणां च हविषाभयं नो अस्तु ॥१॥
2801. (६,४०.२ ) अस्मै ग्रामाय प्रदिशश्चतस्र ऊर्जं सुभूतं स्वस्ति सविता नः कृणोतु ।
2802. (६,४०.२ ) अशत्र्विन्द्रो अभयं नः कृणोत्वन्यत्र राज्ञामभि यातु मन्युः ॥२॥
2803. (६,४०.३ ) अनमित्रं नो अधरादनमित्रं न उत्तरात्।
2804. (६,४०.३ ) इन्द्रानमित्रं नः पश्चादनमित्रं पुरस्कृधि ॥३॥
2805. (६,४१.१ ) मनसे चेतसे धिय आकूतय उत चित्तये ।
2806. (६,४१.१ ) मत्यै श्रुताय चक्षसे विधेम हविषा वयम् ॥१॥
2807. (६,४१.२ ) अपानाय व्यानाय प्राणाय भूरिधायसे ।
2808. (६,४१.२ ) सरस्वत्या उरुव्यचे विधेम हविषा वयम् ॥२॥
2809. (६,४१.३ ) मा नो हासिषुरृषयो दैव्या ये तनूपा ये नस्तन्वस्तनूजाः ।
2810. (६,४१.३ ) अमर्त्या मर्त्यामभि नः सचध्वमायुर्धत्त प्रतरं जीवसे नः ॥३॥
2811. (६,४२.१ ) अव ज्यामिव धन्वनो मन्युं तनोमि ते हृदः ।
2812. (६,४२.१ ) यथा संमनसौ भूत्वा सखायाविव सचावहै ॥१॥
2813. (६,४२.२ ) सखायाविव सचावहा अव मन्युं तनोमि ते ।
2814. (६,४२.२ ) अधस्ते अश्मनो मन्युमुपास्यामसि यो गुरुः ॥२॥
2815. (६,४२.३ ) अभि तिष्ठामि ते मन्युं पार्ष्ण्या प्रपदेन च ।
2816. (६,४२.३ ) यथावशो न वादिषो मम चित्तमुपायसि ॥३॥
2817. (६,४३.१ ) अयं दर्भो विमन्युकः स्वाय चारणाय च ।
2818. (६,४३.१ ) मन्योर्विमन्युकस्यायं मन्युशमन उच्यते ॥१॥
2819. (६,४३.२ ) अयं यो भूरिमूलः समुद्रमवतिष्ठति ।
2820. (६,४३.२ ) दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥२॥
2821. (६,४३.३ ) वि ते हनव्यां शरणिं वि ते मुख्यां नयामसि ।
2822. (६,४३.३ ) यथावशो न वादिषो मम चित्तमुपायसि ॥३॥
2823. (६,४४.१ ) अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।
2824. (६,४४.१ ) अस्थुर्वृक्षा ऊर्ध्वस्वप्नास्तिष्ठाद्रोगो अयं तव ॥१॥
2825. (६,४४.२ ) शतं या भेषजानि ते सहस्रं संगतानि च ।
2826. (६,४४.२ ) श्रेष्ठमास्रावभेषजं वसिष्ठं रोगनाशनम् ॥२॥
2827. (६,४४.३ ) रुद्रस्य मूत्रमस्यमृतस्य नाभिः ।
2828. (६,४४.३ ) विषाणका नाम वा असि पितॄणां मूलादुत्थिता वातीकृतनाशनी ॥३॥
2829. (६,४५.१ ) परोऽपेहि मनस्पाप किमशस्तानि शंससि ।
2830. (६,४५.१ ) परेहि न त्वा कामये वृक्षां वनानि सं चर गृहेषु गोषु मे मनः ॥१॥
2831. (६,४५.२ ) अवशसा निःशसा यत्पराशसोपारिम जाग्रतो यत्स्वपन्तः ।
2832. (६,४५.२ ) अग्निर्विश्वान्यप दुष्कृतान्यजुष्टान्यारे अस्मद्दधातु ॥२॥
2833. (६,४५.३ ) यदिन्द्र ब्रह्मणस्पतेऽपि मृषा चरामसि ।
2834. (६,४५.३ ) प्रचेता न आङ्गिरसो दुरितात्पात्वंहसः ॥३॥
2835. (६,४६.१ ) यो न जीवोऽसि न मृतो देवानाममृतगर्भोऽसि स्वप्न ।
2836. (६,४६.१ ) वरुणानी ते माता यमः पिताररुर्नामासि ॥१॥
2837. (६,४६.२ ) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।
2838. (६,४६.२ ) अन्तकोऽसि मृत्युरसि तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥२॥
2839. (६,४६.३ ) यथा कलां यथा शफं यथर्णं संनयन्ति ।
2840. (६,४६.३ ) एवा दुष्वप्न्यं सर्वं द्विषते सं नयामसि ॥३॥
2841. (६,४७.१ ) अग्निः प्रातःसवने पात्वस्मान् वैश्वानरो विश्वकृद्विश्वशंभूः ।
2842. (६,४७.१ ) स नः पावको द्रविणे दधात्वायुष्मन्तः सहभक्षाः स्याम ॥१॥
2843. (६,४७.२ ) विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः ।
2844. (६,४७.२ ) आयुष्मन्तः प्रियमेषां वदन्तो वयं देवानां सुमतौ स्याम ॥२॥
2845. (६,४७.३ ) इदं तृतीयं सवनं कवीनामृतेन ये चमसमैरयन्त ।
2846. (६,४७.३ ) ते सौधन्वनाः स्वरानशानाः स्विष्टिं नो अभि वस्यो नयन्तु ॥३॥
2847. (६,४८.१ ) श्येनोऽसि गायत्रछन्दा अनु त्वा रभे ।
2848. (६,४८.१ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥१॥
2849. (६,४८.२ ) ऋभुरसि जगछन्दा अनु त्वा रभे ।
2850. (६,४८.२ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥२॥
2851. (६,४८.३ ) वृषासि त्रिष्टुप्छन्दा अनु त्वा रभे ।
2852. (६,४८.३ ) स्वस्ति मा सं वहास्य यज्ञस्योदृचि स्वाहा ॥३॥
2853. (६,४९.१ ) नहि ते अग्ने तन्वः क्रूरमानंश मर्त्यः ।
2854. (६,४९.१ ) कपिर्बभस्ति तेजनं स्वं जरायु गौरिव ॥१॥
2855. (६,४९.२ ) मेष इव वै सं च वि चोर्वच्यसे यदुत्तरद्रावुपरश्च खादतः ।
2856. (६,४९.२ ) शीर्ष्णा शिरोऽप्ससाप्सो अर्दयन्न् अंशून् बभस्ति हरितेभिरासभिः ॥२॥
2857. (६,४९.३ ) सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।
2858. (६,४९.३ ) नि यन् नियन्ति उपरस्य निष्कृतिं पुरू रेतो दधिरे सूर्यश्रितः ॥३॥
2859. (६,५०.१ ) हतं तर्दं समङ्कमाखुमश्विना छिन्तं शिरो अपि पृष्टीः शृणीतम् ।
2860. (६,५०.१ ) यवान् नेददान् अपि नह्यतं मुखमथाभयं कृणुतं धान्याय ॥१॥
2861. (६,५०.२ ) तर्द है पतङ्ग है जभ्य हा उपक्वस ।
2862. (६,५०.२ ) ब्रह्मेवासंस्थितं हविरनदन्त इमान् यवान् अहिंसन्तो अपोदित ॥२॥
2863. (६,५०.३ ) तर्दापते वघापते तृष्टजम्भा आ शृणोत मे ।
2864. (६,५०.३ ) य आरण्या व्यद्वरा ये के च स्थ व्यद्वरास्तान्त्सर्वान् जम्भयामसि ॥३॥
2865. (६,५१.१ ) वायोः पूतः पवित्रेण प्रत्यङ्सोमो अति द्रुतः ।
2866. (६,५१.१ ) इन्द्रस्य युजः सखा ॥१॥
2867. (६,५१.२ ) आपो अस्मान् मातरः सूदयन्तु घृतेन नो घृतप्वः पुनन्तु ।
2868. (६,५१.२ ) विश्वं हि रिप्रं प्रवहन्ति देवीरुदिदाभ्यः शुचिरा पूत एमि ॥२॥
2869. (६,५१.३ ) यत्किं चेदं वरुण दैव्ये जनेऽभिद्रोहं मनुष्याश्चरन्ति ।
2870. (६,५१.३ ) अचित्त्या चेत्तव धर्म युयोपिम मा नस्तस्मादेनसो देव रीरिषः ॥३॥
2871. (६,५२.१ ) उत्सूर्यो दिव एति पुरो रक्षांसि निजूर्वन् ।
2872. (६,५२.१ ) आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥१॥
2873. (६,५२.२ ) नि गावो गोष्ठे असदन् नि मृगासो अविक्षत ।
2874. (६,५२.२ ) न्यूर्मयो नदीनं न्यदृष्टा अलिप्सत ॥२॥
2875. (६,५२.३ ) आयुर्ददं विपश्चितं श्रुतां कण्वस्य वीरुधम् ।
2876. (६,५२.३ ) आभारिषं विश्वभेषजीमस्यादृष्टान् नि शमयत्॥३॥
2877. (६,५३.१ ) द्यौश्च म इदं पृथिवी च प्रचेतसौ शुक्रो बृहन् दक्षिणया पिपर्तु ।
2878. (६,५३.१ ) अनु स्वधा चिकितां सोमो अग्निर्वायुर्नः पातु सविता भगश्च ॥१॥
2879. (६,५३.२ ) पुनः प्राणः पुनरात्मा न ऐतु पुनश्चक्षुः पुनरसुर्न ऐतु ।
2880. (६,५३.२ ) वैश्वानरो नो अदब्धस्तनूपा अन्तस्तिष्ठाति दुरितानि विश्वा ॥२॥
2881. (६,५३.३ ) सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन ।
2882. (६,५३.३ ) त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥३॥
2883. (६,५४.१ ) इदं तद्युज उत्तरमिन्द्रं शुम्भाम्यष्टये ।
2884. (६,५४.१ ) अस्य क्षत्रं श्रियं महीं वृष्टिरिव वर्धया तृणम् ॥१॥
2885. (६,५४.२ ) अस्मै क्षत्रमग्नीषोमावस्मै धारयतं रयिम् ।
2886. (६,५४.२ ) इमं राष्ट्रस्याभीवर्गे कृणुतं युज उत्तरम् ॥२॥
2887. (६,५४.३ ) सबन्धुश्चासबन्धुश्च यो अस्मामभिदासति ।
2888. (६,५४.३ ) सर्वं तं रन्धयासि मे यजमानाय सुन्वते ॥३॥
2889. (६,५५.१ ) ये पन्थानो बहवो देवयाना अन्तरा द्यावापृथिवी संचरन्ति ।
2890. (६,५५.१ ) तेषामज्यानिं यतमो वहाति तस्मै मा देवाः परि दत्तेह सर्वे ॥१॥
2891. (६,५५.२ ) ग्रीष्मो हेमन्तः शिशिरो वसन्तः शरद्वर्षाः स्विते नो दधात ।
2892. (६,५५.२ ) आ नो गोषु भजता प्रजायां निवात इद्वः शरणे स्याम ॥२॥
2893. (६,५५.३ ) इदावत्सराय परिवत्सराय संवत्सराय कृणुता बृहन् नमः ।
2894. (६,५५.३ ) तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौ मनसे स्याम ॥३॥
2895. (६,५६.१ ) मा नो देवा अहिर्वधीत्सतोकान्त्सहपुरुषान् ।
2896. (६,५६.१ ) सम्यतं न वि ष्परद्व्यात्तं न सं यमन् नमो देवजनेभ्यः ।
2897. (६,५६.२ ) नमोऽस्त्वसिताय नमस्तिरश्चिराजये ।
2898. (६,५६.२ ) स्वजाय बभ्रवे नमो नमो देवजनेभ्यः ॥२॥
2899. (६,५६.३ ) सं ते हन्मि दता दतः समु ते हन्वा हनू ।
2900. (६,५६.३ ) सं ते जिह्वया जिह्वां सं वास्नाह आस्यम् ॥३॥
2901. (६,५७.१ ) इदमिद्वा उ भेषजमिदं रुद्रस्य भेषजम् ।
2902. (६,५७.१ ) येनेषुमेकतेजनां शतशल्यामपब्रवत्॥१॥
2903. (६,५७.२ ) जालाषेणाभि षिञ्चत जालाषेणोप सिञ्चत ।
2904. (६,५७.२ ) जालाषमुग्रं भेषजं तेन नो मृड जीवसे ॥२॥
2905. (६,५७.३ ) शं च नो मयश्च नो मा च नः किं चनाममत्।
2906. (६,५७.३ ) क्षमा रपो विश्वं नो अस्तु भेषजं सर्वं नो अस्तु भेषजम् ॥३॥
2907. (६,५८.१ ) यशसं मेन्द्रो मघवान् कृणोतु यशसं द्यावापृथिवी उभे इमे ।
2908. (६,५८.१ ) यशसं मा देवः सविता कृणोतु प्रियो दातुर्दक्षिणाया इह स्याम् ॥१॥
2909. (६,५८.२ ) यथेन्द्रो द्यावापृथिव्योर्यशस्वान् यथाप ओषधीषु यशस्वतीः ।
2910. (६,५८.२ ) एवा विश्वेषु देवेषु वयं सर्वेषु यशसः स्याम ॥२॥
2911. (६,५८.३ ) यशा इन्द्रो यशा अग्निर्यशाः सोमो अजायत ।
2912. (६,५८.३ ) यशा विश्वस्य भूतस्याहमस्मि यशस्तमः ॥३॥
2913. (६,५९.१ ) अनडुद्भ्यस्त्वं प्रथमं धेनुभ्यस्त्वमरुन्धति ।
2914. (६,५९.१ ) अधेनवे वयसे शर्म यछ चतुष्पदे ॥१॥
2915. (६,५९.२ ) शर्म यछत्वोषधिः सह देवीररुन्धती ।
2916. (६,५९.२ ) करत्पयस्वन्तं गोष्ठमयक्ष्मामुत पूरुषान् ॥२॥
2917. (६,५९.३ ) विश्वरूपां सुभगामछावदामि जीवलाम् ।
2918. (६,५९.३ ) सा नो रुद्रस्यास्तां हेतिं दूरं नयतु गोभ्यः ॥३॥
2919. (६,६०.१ ) अयमा यात्यर्यमा पुरस्ताद्विषितस्तुपः ।
2920. (६,६०.१ ) अस्या इछन्न् अग्रुवै पतिमुत जायामजानये ॥१॥
2921. (६,६०.२ ) अश्रमदियमर्यमन्न् अन्यासां समनं यती ।
2922. (६,६०.२ ) अङ्गो न्वर्यमन्न् अस्या अन्याः समनमायति ॥२॥
2923. (६,६०.३ ) धाता दाधार पृथिवीं धाता द्यामुत सूर्यम् ।
2924. (६,६०.३ ) धातास्या अग्रुवै पतिं दधातु प्रतिकाम्यम् ॥३॥
2925. (६,६१.१ ) मह्यमापो मधुमदेरयन्तां मह्यं सूरो अभरज्ज्योतिषे कम् ।
2926. (६,६१.१ ) मह्यं देवा उत विश्वे तपोजा मह्यं देवः सविता व्यचो धात्॥१॥
2927. (६,६१.२ ) अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम् ।
2928. (६,६१.२ ) अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥२॥
2929. (६,६१.३ ) अहं जजान पृथिवीमुत द्यामहमृतूंरजनयं सप्त सिन्धून् ।
2930. (६,६१.३ ) अहं सत्वमनृतं यद्वदामि यो अग्नीषोमावजुषे सखाया ॥३॥
2931. (६,६२.१ ) वैश्वानरो रश्मिभिर्नः पुनातु वातः प्राणेनेषिरो नभोभिः ।
2932. (६,६२.१ ) द्यावापृथिवी पयसा पयस्वती ऋतावरी यज्ञिये न पुनीताम् ॥१॥
2933. (६,६२.२ ) वैश्वानरीं सूनृतामा रभध्वं यस्या आशास्तन्वो वीतपृष्ठाः ।
2934. (६,६२.२ ) तया गृणन्तः सधमादेषु वयं स्याम पतयो रयीनाम् ॥२॥
2935. (६,६२.३ ) वैश्वानरीं वर्चस आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
2936. (६,६२.३ ) इहेडया सधमादं मदन्तो ज्योक्पश्येम सूर्यमुच्चरन्तम् ॥३॥
2937. (६,६३.१ ) यत्ते देवी निरृतिराबबन्ध दाम ग्रीवास्वविमोक्यं यत्।
2938. (६,६३.१ ) तत्ते वि ष्याम्यायुषे वर्चसे बलायादोमदमन्नमद्धि प्रसूतः ॥१॥
2939. (६,६३.२ ) नमोऽस्तु ते निरृते तिग्मतेजोऽयस्मयान् वि चृता बन्धपाशान् ।
2940. (६,६३.२ ) यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥२॥
2941. (६,६३.३ ) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।
2942. (६,६३.३ ) यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥३॥
2943. (६,६३.४ ) संसमिद्युवसे वृषन्न् अग्ने विश्वान्यर्य आ ।
2944. (६,६३.४ ) इडस्पदे समिध्यसे स नो वसून्या भर ॥४॥
2945. (६,६४.१ ) सं जानीध्वं सं पृच्यध्वं सं वो मनांसि जानताम् ।
2946. (६,६४.१ ) देवा भागं यथा पूर्वे सम्जानाना उपासते ॥१॥
2947. (६,६४.२ ) समानो मन्त्रः समितिः समानी समानं व्रतं सह चित्तमेषाम् ।
2948. (६,६४.२ ) समानेन वो हविषा जुहोमि समानं चेतो अभिसंविशध्वम् ॥२॥
2949. (६,६४.३ ) समानी व आकूतिः समाना हृदयानि वः ।
2950. (६,६४.३ ) समानमस्तु वो मनः यथा वः सुसहासति ॥३॥
2951. (६,६५.१ ) अव मन्युरवायताव बाहू मनोयुजा ।
2952. (६,६५.१ ) पराशर त्वं तेषां पराञ्चं शुष्ममर्दयाधा नो रयिमा कृधि ॥१॥
2953. (६,६५.२ ) निर्हस्तेभ्यो नैर्हस्तं यं देवाः शरुमस्यथ ।
2954. (६,६५.२ ) वृश्चामि शत्रूणां बाहून् अनेन हविषाऽहम् ॥२॥
2955. (६,६५.३ ) इन्द्रश्चकार प्रथमं नैर्हस्तमसुरेभ्यः ।
2956. (६,६५.३ ) जयन्तु सत्वानो मम स्थिरेणेन्द्रेण मेदिना ॥३॥
2957. (६,६६.१ ) निर्हस्तः शत्रुरभिदासन्न् अस्तु ये सेनाभिर्युधमायन्त्यस्मान् ।
2958. (६,६६.१ ) समर्पयेन्द्र महता वधेन द्रात्वेषामघहारो विविद्धः ॥१॥
2959. (६,६६.२ ) आतन्वाना आयछन्तोऽस्यन्तो ये च धावथ ।
2960. (६,६६.२ ) निर्हस्ताः शत्रवः स्थनेन्द्रो वोऽद्य पराशरीत्॥२॥
2961. (६,६६.३ ) निर्हस्ताः सन्तु शत्रवोऽङ्गैषां म्लापयामसि ।
2962. (६,६६.३ ) अथैषामिन्द्र वेदांसि शतशो वि भजामहै ॥३॥
2963. (६,६७.१ ) परि वर्त्मानि सर्वत इन्द्रः पूषा च सस्रतुः ।
2964. (६,६७.१ ) मुह्यन्त्वद्यामूः सेना अमित्राणां परस्तराम् ॥१॥
2965. (६,६७.२ ) मूढा अमित्राश्चरताशीर्षाण इवाहयः ।
2966. (६,६७.२ ) तेषां वो अग्निमूढानामिन्द्रो हन्तु वरंवरम् ॥२॥
2967. (६,६७.३ ) ऐषु नह्य वृषाजिनं हरिणस्य भियं कृधि ।
2968. (६,६७.३ ) पराङमित्र एषत्वर्वाची गौरुपेषतु ॥३॥
2969. (६,६८.१ ) आयमगन्त्सविता क्षुरेणोष्णेन वाय उदकेनेहि ।
2970. (६,६८.१ ) आदित्या रुद्रा वसव उन्दन्तु सचेतसः सोमस्य राज्ञो वपत प्रचेतसः ॥१॥
2971. (६,६८.२ ) अदितिः श्मश्रु वपत्वाप उन्दन्तु वर्चसा ।
2972. (६,६८.२ ) चिकित्सतु प्रजापतिर्दीर्घायुत्वाय चक्षसे ॥२॥
2973. (६,६८.३ ) येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान् ।
2974. (६,६८.३ ) तेन ब्रह्माणो वपतेदमस्य गोमान् अश्ववान् अयमस्तु प्रजावान् ॥३॥
2975. (६,६९.१ ) गिरावरगराटेषु हिरन्ये गोषु यद्यशः ।
2976. (६,६९.१ ) सुरायां सिच्यमानायां कीलाले मधु तन् मयि ॥१॥
2977. (६,६९.२ ) अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
2978. (६,६९.२ ) यथा भर्गस्वतीं वाचमावदानि जनामनु ॥२॥
2979. (६,६९.३ ) मयि वर्चो अथो यशोऽथो यज्ञस्य यत्पयः ।
2980. (६,६९.३ ) तन् मयि प्रजापतिर्दिवि द्यामिव दृंहतु ॥३॥
2981. (६,७०.१ ) यथा मांसं यथा सुरा यथाक्षा अधिदेवने ।
2982. (६,७०.१ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
2983. (६,७०.१ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥१॥
2984. (६,७०.२ ) यथा हस्ती हस्तिन्याः पदेन पदमुद्युजे ।
2985. (६,७०.२ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
2986. (६,७०.२ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥२॥
2987. (६,७०.३ ) यथा प्रधिर्यथोपधिर्यथा नभ्यं प्रधावधि ।
2988. (६,७०.३ ) यथा पुंसो वृषण्यत स्त्रियां निहन्यते मनः ।
2989. (६,७०.३ ) एवा ते अघ्न्ये मनोऽधि वत्से नि हन्यताम् ॥३॥
2990. (६,७१.१ ) यदन्नमद्मि बहुधा विरूपं हिरण्यमश्वमुत गामजामविम् ।
2991. (६,७१.१ ) यदेव किं च प्रतिजग्रहाहमग्निष्टद्धोता सुहुतं कृनोतु ॥१॥
2992. (६,७१.२ ) यन् मा हुतमहुतमाजगाम दत्तं पितृभिरनुमतं मनुष्यैः ।
2993. (६,७१.२ ) यस्मान् मे मन उदिव रारजीत्यग्निष्टद्धोता सुहुतं कृणोतु ॥२॥
2994. (६,७१.३ ) यदन्नमद्म्यनृतेन देवा दास्यन्न् अदास्यन्न् उत संगृणामि ।
2995. (६,७१.३ ) वैश्वानरस्य महतो महिम्ना शिवं मह्यं मधुमदस्त्वन्नम् ॥३॥
2996. (६,७२.१ ) यथासितः प्रथयते वशामनु वपूंषि कृण्वन्न् असुरस्य मायया ।
2997. (६,७२.१ ) एवा ते शेपः सहसायमर्कोऽङ्गेनाङ्गं संसमकं कृणोतु ॥१॥
2998. (६,७२.२ ) यथा पसस्तायादरं वातेन स्थूलभं कृतम् ।
2999. (६,७२.२ ) यावत्परस्वतः पसस्तावत्ते वर्धतां पसः ॥२॥
3000. (६,७२.३ ) यावदङ्गीनं पारस्वतं हास्तिनं गार्दभं च यत्।
3001. (६,७२.३ ) यावदश्वस्य वाजिनस्तावत्ते वर्धतां पसः ॥३॥
3002. (६,७३.१ ) एह यातु वरुणः सोमो अग्निर्बृहस्पतिर्वसुभिरेह यातु ।
3003. (६,७३.१ ) अस्य श्रियमुपसंयात सर्व उग्रस्य चेत्तुः संमनसः सजाताः ॥१॥
3004. (६,७३.२ ) यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा ।
3005. (६,७३.२ ) तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥२॥
3006. (६,७३.३ ) इहैव स्त माप याताध्यस्मत्पूषा परस्तादपथं वः कृणोतु ।
3007. (६,७३.३ ) वास्तोष्पतिरनु वो जोहवीतु मयि सजाता रमतिः वो अस्तु ॥३॥
3008. (६,७४.१ ) सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता ।
3009. (६,७४.१ ) सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत्॥१॥
3010. (६,७४.२ ) सम्ज्ञपनं वो मनसोऽथो सम्ज्ञपनं हृदः ।
3011. (६,७४.२ ) अथो भगस्य यच्छ्रान्तं तेन संज्ञपयामि वः ॥२॥
3012. (६,७४.३ ) यथादित्या वसुभिः सम्बभूवुर्मरुद्भिरुग्रा अहृणीयमानाः ।
3013. (६,७४.३ ) एवा त्रिणामन्न् अहृणीयमान इमान् जनान्त्संमनसस्कृधीह ॥३॥
3014. (६,७५.१ ) निरमुं नुद ओकसः सपत्नो यः पृतन्यति ।
3015. (६,७५.१ ) नैर्बाध्येन हविषेन्द्र एनं पराशरीत्॥१॥
3016. (६,७५.२ ) परमां तं परावतमिन्द्रो नुदतु वृत्रहा ।
3017. (६,७५.२ ) यतो न पुनरायति शश्वतीभ्यः समाभ्यः ॥२॥
3018. (६,७५.३ ) एतु तिस्रः परावत एतु पञ्च जनामति ।
3019. (६,७५.३ ) एतु तिस्रोऽति रोचना यतो न पुनरायति ।
3020. (६,७५.३ ) शश्वतीभ्यः समाभ्यो यावत्सूर्यो असद्दिवि ॥३॥
3021. (६,७६.१ ) य एनं परिषीदन्ति समादधति चक्षसे ।
3022. (६,७६.१ ) संप्रेद्धो अग्निर्जिह्वाभिरुदेतु हृदयादधि ॥१॥
3023. (६,७६.२ ) अग्नेः साम्तपनस्याहमायुषे पदमा रभे ।
3024. (६,७६.२ ) अद्धातिर्यस्य पश्यति धूममुद्यन्तमास्यतः ॥२॥
3025. (६,७६.३ ) यो अस्य समिधं वेद क्षत्रियेण समाहिताम् ।
3026. (६,७६.३ ) नाभिह्वारे पदं नि दधाति स मृत्यवे ॥३॥
3027. (६,७६.४ ) नैनं घ्नन्ति पर्यायिणो न सन्नामव गछति ।
3028. (६,७६.४ ) अग्नेर्यः क्षत्रियो विद्वान् नाम गृह्नाति आयुषे ॥४॥
3029. (६,७७.१ ) अस्थाद्द्यौरस्थात्पृथिव्यस्थाद्विश्वमिदं जगत्।
3030. (६,७७.१ ) आस्थाने पर्वता अस्थु स्थाम्न्यश्वामतिष्ठिपम् ॥१॥
3031. (६,७७.२ ) य उदानत्परायणं य उदानण्न्यायनम् ।
3032. (६,७७.२ ) आवर्तनं निवर्तनं यो गोपा अपि तं हुवे ॥२॥
3033. (६,७७.३ ) जातवेदो नि वर्तय शतं ते सन्त्वावृतः ।
3034. (६,७७.३ ) सहस्रं त उपावृतस्ताभिर्नः पुनरा कृधि ॥३॥
3035. (६,७८.१ ) तेन भूतेन हविषायमा प्यायतां पुनः ।
3036. (६,७८.१ ) जायां यामस्मा आवाक्षुस्तां रसेनाभि वर्धताम् ॥१॥
3037. (६,७८.२ ) अभि वर्धतां पयसाभि राष्ट्रेण वर्धताम् ।
3038. (६,७८.२ ) रय्या सहस्रवर्चसेमौ स्तामनुपक्षितौ ॥२॥
3039. (६,७८.३ ) त्वष्टा जायामजनयत्त्वष्टास्यै त्वां पतिम् ।
3040. (६,७८.३ ) त्वष्टा सहस्रमायुंषि दीर्घमायुः कृणोतु वाम् ॥३॥
3041. (६,७९.१ ) अयं नो नभसस्पतिः संस्फानो अभि रक्षतु ।
3042. (६,७९.१ ) असमातिं गृहेषु नः ॥१॥
3043. (६,७९.२ ) त्वं नो नभसस्पते ऊर्जं गृहेसु धारय ।
3044. (६,७९.२ ) आ पुष्टमेत्वा वसु ॥२॥
3045. (६,७९.३ ) देव संस्फान सहस्रापोषस्येशिषे ।
3046. (६,७९.३ ) तस्य नो रास्व तस्य नो धेहि तस्य ते भक्तिवाम्सः स्याम ॥३॥
3047. (६,८०.१ ) अन्तरिक्षेण पतति विश्वा भूतावचाकशत्।
3048. (६,८०.१ ) शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥१॥
3049. (६,८०.२ ) ये त्रयः कालकाञ्जा दिवि देवा इव श्रिताः ।
3050. (६,८०.२ ) तान्त्सर्वान् अह्व ऊतयेऽस्मा अरिष्टतातये ॥२॥
3051. (६,८०.३ ) अप्सु ते जन्म दिवि ते सधस्थं समुद्रे अन्तर्महिमा ते पृथिव्याम् ।
3052. (६,८०.३ ) शुनो दिव्यस्य यन् महस्तेना ते हविषा विधेम ॥३॥
3053. (६,८१.१ ) यन्तासि यछसे हस्तावप रक्षांसि सेधसि ।
3054. (६,८१.१ ) प्रजां धनं च गृह्णानः परिहस्तो अभूदयम् ॥१॥
3055. (६,८१.२ ) परिहस्त वि धारय योनिं गर्भाय धातवे ।
3056. (६,८१.२ ) मर्यादे पुत्रमा धेहि तं त्वमा गमयागमे ॥२॥
3057. (६,८१.३ ) यं परिहस्तमबिभरदितिः पुत्रकाम्या ।
3058. (६,८१.३ ) त्वष्टा तमस्या आ बध्नाद्यथा पुत्रं जनाद्॥३॥
3059. (६,८२.१ ) आगछत आगतस्य नाम गृह्णाम्यायतः ।
3060. (६,८२.१ ) इन्द्रस्य वृत्रघ्नो वन्वे वासवस्य शतक्रतोः ॥१॥
3061. (६,८२.२ ) येन सूर्यां सावित्रीमश्विनोहतुः पथा ।
3062. (६,८२.२ ) तेन मामब्रवीद्भगो जयामा वहतादिति ॥२॥
3063. (६,८२.३ ) यस्तेऽङ्कुशो वसुदानो बृहन्न् इन्द्र हिरण्ययः ।
3064. (६,८२.३ ) तेना जनियते जायां मह्यं धेहि शचीपते ॥३॥
3065. (६,८३.१ ) अपचितः प्र पतत सुपर्णो वसतेरिव ।
3066. (६,८३.१ ) सूर्यः कृणोतु भेषजं चन्द्रमा वोऽपोछतु ॥१॥
3067. (६,८३.२ ) एन्येका श्येन्येका कृष्णैका रोहिणी द्वे ।
3068. (६,८३.२ ) सर्वासामग्रभं नामावीरघ्नीरपेतन ॥२॥
3069. (६,८३.३ ) असूतिका रामायण्यपचित्प्र पतिष्यति ।
3070. (६,८३.३ ) ग्लौरितः प्र पतिष्यति स गलुन्तो नशिष्यति ॥३॥
3071. (६,८३.४ ) वीहि स्वामाहुतिं जुषानो मनसा स्वाहा मनसा यदिदं जुहोमि ॥४॥
3072. (६,८४.१ ) यस्यास्त आसनि घोरे जुहोम्येषां बद्धानामवसर्जनाय कम् ।
3073. (६,८४.१ ) भूमिरिति त्वाभिप्रमन्वते जना निरृतिरिति त्वाहं परि वेद सर्वतः ॥१॥
3074. (६,८४.२ ) भूते हविष्मती भवैष ते भागो यो अस्मासु ।
3075. (६,८४.२ ) मुञ्चेमान् अमून् एनसः स्वाहा ॥२॥
3076. (६,८४.३ ) एवो ष्वस्मन् निरृतेऽनेहा त्वमयस्मयान् वि चृता बन्धपाशान् ।
3077. (६,८४.३ ) यमो मह्यं पुनरित्त्वां ददाति तस्मै यमाय नमो अस्तु मृत्यवे ॥३॥
3078. (६,८४.४ ) अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम् ।
3079. (६,८४.४ ) यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥४॥
3080. (६,८५.१ ) वरणो वारयाता अयं देवो वनस्पतिः ।
3081. (६,८५.१ ) यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥१॥
3082. (६,८५.२ ) इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च ।
3083. (६,८५.२ ) देवानां सर्वेषां वाचा यक्ष्मं ते वारयामहे ॥२॥
3084. (६,८५.३ ) यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः ।
3085. (६,८५.३ ) एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥३॥
3086. (६,८६.१ ) वृषेन्द्रस्य वृषा दिवो वृसा पृथिव्या अयम् ।
3087. (६,८६.१ ) वृषा विश्वस्य भूतस्य त्वमेकवृषो भव ॥१॥
3088. (६,८६.२ ) समुद्र ईशे स्रवतामग्निः पृथिव्या वशी ।
3089. (६,८६.२ ) चन्द्रमा नक्षत्राणामीशे त्वमेकवृषो भव ॥२॥
3090. (६,८६.३ ) सम्राडस्यसुराणां ककुन् मनुष्यानाम् ।
3091. (६,८६.३ ) देवानामर्धभागसि त्वमेकवृषो भव ॥३॥
3092. (६,८७.१ ) आ त्वाहार्षमन्तरभूर्ध्रुवस्तिष्ठाविचाचलत्।
3093. (६,८७.१ ) विशस्त्वा सर्वा वाञ्छन्तु मा त्वद्राष्ट्रमधि भ्रशत्॥१॥
3094. (६,८७.२ ) इहैवैधि माप च्योष्ठाः पर्वत इवाविचाचलत्।
3095. (६,८७.२ ) इन्द्र इवेह ध्रुवस्तिष्ठेह राष्ट्रमु धारय ॥२॥
3096. (६,८७.३ ) इन्द्र एतमदीधरत्ध्रुवं ध्रुवेण हविषा ।
3097. (६,८७.३ ) तस्मै सोमो अधि ब्रवदयं च ब्रह्मणस्पतिः ॥३॥
3098. (६,८८.१ ) ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्।
3099. (६,८८.१ ) ध्रुवासः पर्वता इमे ध्रुवो राजा विशामयम् ॥१॥
3100. (६,८८.२ ) ध्रुवं ते राजा वरुणो ध्रुवं देवो बृहस्पतिः ।
3101. (६,८८.२ ) ध्रुवं त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम् ॥२॥
3102. (६,८८.३ ) ध्रुवोऽच्युतः प्र मृणीहि शत्रून् छत्रूयतोऽधरान् पादयस्व ।
3103. (६,८८.३ ) सर्वा दिशः संमनसः सध्रीचीर्ध्रुवाय ते समितिः कल्पतामिह ॥३॥
3104. (६,८९.१ ) इदं यत्प्रेण्यः शिरो दत्तं सोमेन वृष्ण्यम् ।
3105. (६,८९.१ ) ततः परि प्रजातेन हार्दिं ते शोचयामसि ॥१॥
3106. (६,८९.२ ) शोचयामसि ते हार्दिं शोचयामसि ते मनः ।
3107. (६,८९.२ ) वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥२॥
3108. (६,८९.३ ) मह्यं त्वा मित्रावरुणौ मह्यं देवी सरस्वती ।
3109. (६,८९.३ ) मह्यं त्वा मध्यं भूम्या उभावन्तौ समस्यताम् ॥३॥
3110. (६,९०.१ ) यां ते रुद्र इषुमास्यदङ्गेभ्यो हृदयाय च ।
3111. (६,९०.१ ) इदं तामद्य त्वद्वयं विषूचीं वि वृहामसि ॥१॥
3112. (६,९०.२ ) यास्ते शतं धमनयोऽङ्गान्यनु विष्ठिताः ।
3113. (६,९०.२ ) तासां ते सर्वासां वयं निर्विषाणि ह्वयामसि ॥२॥
3114. (६,९०.३ ) नमस्ते रुद्रास्यते नमः प्रतिहितायै ।
3115. (६,९०.३ ) नमो विसृज्यमानायै नमो निपतितायै ॥३॥
3116. (६,९१.१ ) इमं यवमष्टायोगैः षद्योगेभिरचर्कृषुः ।
3117. (६,९१.१ ) तेना ते तन्वो रपोऽपाचीनमप व्यये ॥१॥
3118. (६,९१.२ ) न्यग्वातो वाति न्यक्तपति सूर्यः ।
3119. (६,९१.२ ) नीचीनमघ्न्या दुहे न्यग्भवतु ते रपः ॥२॥
3120. (६,९१.३ ) आप इद्वा उ भेषजीरापो अमीवचातनीः ।
3121. (६,९१.३ ) आपो विश्वस्य भेषजीस्तास्ते कृण्वन्तु भेषजम् ॥३॥
3122. (६,९२.१ ) वातरंहा भव वाजिन् युजमान इन्द्रस्य याहि प्रसवे मनोजवाः ।
3123. (६,९२.१ ) युञ्जन्तु त्वा मरुतो विश्ववेदस आ ते त्वस्ता पत्सु जवं दधातु ॥१॥
3124. (६,९२.२ ) जवस्ते अर्वन् निहितो गुहा यः श्येने वाते उत योऽचरत्परीत्तः ।
3125. (६,९२.२ ) तेन त्वं वाजिन् बलवान् बलेनाजिं जय समने परयिष्णुः ॥२॥
3126. (६,९२.३ ) तनूष्टे वाजिन् तन्वं नयन्ती वाममस्मभ्यं धावतु शर्म तुभ्यम् ।
3127. (६,९२.३ ) अह्रुतो महो धरुणाय देवो दिवीव ज्योतिः स्वमा मिमीयात्॥३॥
3128. (६,९३.१ ) यमो मृत्युरघमारो निरृथो बभ्रुः शर्वोऽस्ता नीलशिखण्डः ।
3129. (६,९३.१ ) देवजनाः सेनयोत्तस्थिवांसस्ते अस्माकं परि वृञ्जन्तु वीरान् ॥१॥
3130. (६,९३.२ ) मनसा होमैर्हरसा घृतेन शर्वायास्त्र उत राज्ञे भवाय ।
3131. (६,९३.२ ) नमस्येभ्यो नम एभ्यः कृणोम्यन्यत्रास्मदघविषा नयन्तु ॥२॥
3132. (६,९३.३ ) त्रायध्वं नो अघविषाभ्यो वधाद्विश्वे देवा मरुतो विश्ववेदसः ।
3133. (६,९३.३ ) अग्नीषोमा वरुणः पूतदक्षा वातापर्जन्ययोः सुमतौ स्याम ॥३॥
3134. (६,९४.१ ) सं वो मनांसि सं व्रता समाकूतीर्नमामसि ।
3135. (६,९४.१ ) अमी ये विव्रता स्थन तान् वः सं नमयामसि ॥१॥
3136. (६,९४.२ ) अहं गृभ्णामि मनसा मनांसि मम चित्तमनु चित्तेभिरेत ।
3137. (६,९४.२ ) मम वशेषु हृदयानि वः कृणोमि मम यातमनुवर्त्मान एत ॥२॥
3138. (६,९४.३ ) ओते मे द्यावापृथिवी ओता देवी सरस्वती ।
3139. (६,९४.३ ) ओतौ म इन्द्रश्चाग्निश्च र्ध्यास्मेदं सरस्वति ॥३॥
3140. (६,९५.१ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
3141. (६,९५.१ ) तत्रामृतस्य चक्षणं देवाः कुष्ठमवन्वत ॥१॥
3142. (६,९५.२ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
3143. (६,९५.२ ) तत्रामृतस्य पुष्पं देवाः कुष्ठमवन्वत ॥२॥
3144. (६,९५.३ ) गर्भो अस्योषधीनां गर्भो हिमवतामुत ।
3145. (६,९५.३ ) गर्भो विश्वस्य भूतस्येमं मे अगदं कृधि ॥३॥
3146. (६,९६.१ ) या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।
3147. (६,९६.१ ) बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः ॥१॥
3148. (६,९६.२ ) मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
3149. (६,९६.२ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
3150. (६,९६.३ ) यच्चक्षुषा मनसा यच्च वाचोपारिम जाग्रतो यत्स्वपन्तः ।
3151. (६,९६.३ ) सोमस्तानि स्वधया नः पुनातु ॥३॥
3152. (६,९७.१ ) अभिभूर्यज्ञो अभिभूरग्निरभिभूः सोमो अभिभूरिन्द्रः ।
3153. (६,९७.१ ) अभ्यहं विश्वाः पृतना यथासान्येवा विधेमाग्निहोत्रा इदं हविः ॥१॥
3154. (६,९७.२ ) स्वधास्तु मित्रावरुणा विपश्चिता प्रजावत्क्षत्रं मधुनेह पिन्वतम् ।
3155. (६,९७.२ ) बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥२॥
3156. (६,९७.३ ) इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।
3157. (६,९७.३ ) ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥३॥
3158. (६,९८.१ ) इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयातै ।
3159. (६,९८.१ ) चर्कृत्य ईड्यो वन्द्यश्चोपसद्यो नमस्य्श्भवेह ॥१॥
3160. (६,९८.२ ) त्वमिन्द्राधिराजः श्रवस्युस्त्वं भूरभिभूतिर्जनानाम् ।
3161. (६,९८.२ ) त्वं दैवीर्विश इमा वि राजायुष्मत्क्षत्रमजरं ते अस्तु ॥२॥
3162. (६,९८.३ ) प्राच्या दिशस्त्वमिन्द्रासि राजोतोदीच्या दिशो वृत्रहन् छत्रुहोऽसि ।
3163. (६,९८.३ ) यत्र यन्ति स्रोत्यास्तज्जितं ते दक्षिणतो वृषभ एषि हव्यः ॥३॥
3164. (६,९९.१ ) अभि त्वेन्द्र वरिमतः पुरा त्वांहूरणाद्धुवे ।
3165. (६,९९.१ ) ह्वयाम्युग्रं चेत्तारं पुरुणामानमेकजम् ॥१॥
3166. (६,९९.२ ) यो अद्य सेन्यो वधो जिघांसन् न उदीरते ।
3167. (६,९९.२ ) इन्द्रस्य तत्र बाहू समन्तं परि दद्मः ॥२॥
3168. (६,९९.३ ) परि दद्म इन्द्रस्य बाहू समन्तं त्रातुस्त्रायतां नः ।
3169. (६,९९.३ ) देव सवितः सोम राजन्त्सुमनसं मा कृणु स्वस्तये ॥३॥
3170. (६,१००.१ ) देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्।
3171. (६,१००.१ ) तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥१॥
3172. (६,१००.२ ) यद्वो देवा उपजीका आसिञ्चन् धन्वन्युदकम् ।
3173. (६,१००.२ ) तेन देवप्रसूतेनेदं दूषयता विषम् ॥२॥
3174. (६,१००.३ ) असुराणां दुहितासि सा देवानामसि स्वसा ।
3175. (६,१००.३ ) दिवस्पृथिव्याः संभूता सा चकर्थारसं विषम् ॥३॥
3176. (६,१०१.१ ) आ वृषायस्व श्वसिहि वर्धस्व प्रथयस्व च ।
3177. (६,१०१.१ ) यथाङ्गं वर्धतां शेपस्तेन योषितमिज्जहि ॥१॥
3178. (६,१०१.२ ) येन कृषं वाजयन्ति येन हिन्वन्त्यातुरम् ।
3179. (६,१०१.२ ) तेनास्य ब्रह्मणस्पते धनुरिवा तानया पसः ॥२॥
3180. (६,१०१.३ ) आहं तनोमि ते पसो अधि ज्यामिव धन्वनि ।
3181. (६,१०१.३ ) क्रमस्व ऋष इव रोहितमनवग्लायता सदा ॥३॥
3182. (६,१०२.१ ) यथायं वाहो अश्विना समैति सं च वर्तते ।
3183. (६,१०२.१ ) एवा मामभि ते मनः समैतु सं च वर्तताम् ॥१॥
3184. (६,१०२.२ ) आहं खिदामि ते मनो राजाश्वः पृष्ट्यामिव ।
3185. (६,१०२.२ ) रेष्मछिन्नं यथा तृणं मयि ते वेष्टतां मनः ॥२॥
3186. (६,१०२.३ ) आञ्जनस्य मदुघस्य कुष्ठस्य नलदस्य च ।
3187. (६,१०२.३ ) तुरो भगस्य हस्ताभ्यामनुरोधनमुद्भरे ॥३॥
3188. (६,१०३.१ ) संदानं वो बृहस्पतिः संदानं सविता करत्।
3189. (६,१०३.१ ) संदानं मित्रो अर्यमा संदानं भगो अश्विना ॥१॥
3190. (६,१०३.२ ) सं परमान्त्समवमान् अथो सं द्यामि मध्यमान् ।
3191. (६,१०३.२ ) इन्द्रस्तान् पर्यहार्दाम्ना तान् अग्ने सं द्या त्वम् ॥२॥
3192. (६,१०३.३ ) अमी ये युधमायन्ति केतून् कृत्वानीकशः ।
3193. (६,१०३.३ ) इन्द्रस्तान् पर्यहार्दाम्न तान् अग्ने सं द्या त्वम् ॥३॥
3194. (६,१०४.१ ) आदानेन संदानेनामित्रान् आ द्यामसि ।
3195. (६,१०४.१ ) अपाना ये चैषां प्राणा असुनासून्त्समछिदन् ॥१॥
3196. (६,१०४.२ ) इदमादानमकरं तपसेन्द्रेण संशितम् ।
3197. (६,१०४.२ ) अमित्रा येऽत्र नः सन्ति तान् अग्न आ द्या त्वम् ॥२॥
3198. (६,१०४.३ ) ऐनान् द्यतामिन्द्राग्नी सोमो राजा च मेदिनौ ।
3199. (६,१०४.३ ) इन्द्रो मरुत्वान् आदानममित्रेभ्यः कृणोतु नः ॥३॥
3200. (६,१०५.१ ) यथा मनो मनस्केतैः परापतत्याशुमत्।
3201. (६,१०५.१ ) एवा त्वं कासे प्र पत मनसोऽनु प्रवाय्यम् ॥१॥
3202. (६,१०५.२ ) यथा बाणः सुसंशितः परापतत्याशुमत्।
3203. (६,१०५.२ ) एवा त्वं कासे प्र पत पृथिव्या अनु संवतम् ॥२॥
3204. (६,१०५.३ ) यथा सूर्यस्य रश्मयः परापतन्त्याशुमत्।
3205. (६,१०५.३ ) एवा त्वं कासे प्र पत समुद्रस्यानु विक्षरम् ॥३॥
3206. (६,१०६.१ ) आयने ते परायने दूर्वा रोहन्तु पुष्पिणीः ।
3207. (६,१०६.१ ) उत्सो वा तत्र जायतां ह्रदो वा पुण्डरीकवान् ॥१॥
3208. (६,१०६.२ ) अपामिदं न्ययनं समुद्रस्य निवेशनम् ।
3209. (६,१०६.२ ) मध्ये ह्रदस्य नो गृहाः पराचीना मुखा कृधि ॥२॥
3210. (६,१०६.३ ) हिमस्य त्वा जरायुणा शाले परि व्ययामसि ।
3211. (६,१०६.३ ) शीतह्रदा हि नो भुवोऽग्निष्कृणोतु भेषजम् ॥३॥
3212. (६,१०७.१ ) विश्वजित्त्रायमाणायै मा परि देहि ।
3213. (६,१०७.१ ) त्रायमाणे द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥१॥
3214. (६,१०७.२ ) त्रायमाणे विश्वजिते मा परि देहि ।
3215. (६,१०७.२ ) विश्वजिद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥२॥
3216. (६,१०७.३ ) विश्वजित्कल्याण्यै मा परि देहि ।
3217. (६,१०७.३ ) कल्याणि द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥३॥
3218. (६,१०७.४ ) कल्याणि सर्वविदे मा परि देहि ।
3219. (६,१०७.४ ) सर्वविद्द्विपाच्च सर्वं नो रक्ष चतुष्पाड्यच्च नः स्वम् ॥४॥
3220. (६,१०८.१ ) त्वं नो मेधे प्रथमा गोभिरश्वेभिरा गहि ।
3221. (६,१०८.१ ) त्वं सूर्यस्य रश्मिभिस्त्वं नो असि यज्ञिया ॥१॥
3222. (६,१०८.२ ) मेधामहं प्रथमां ब्रह्मण्वतीं ब्रह्मजूतामृषिष्टुताम् ।
3223. (६,१०८.२ ) प्रपीतां ब्रह्मचारिभिर्देवानामवसे हुवे ॥२॥
3224. (६,१०८.३ ) यां मेधामृभवो विदुर्यां मेधामसुरा विदुः ।
3225. (६,१०८.३ ) ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥३॥
3226. (६,१०८.४ ) यामृषयो भूतकृतो मेधां मेधाविनो विदुः ।
3227. (६,१०८.४ ) तया मामद्य मेधयाग्ने मेधाविनं कृणु ॥४॥
3228. (६,१०८.५ ) मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि ।
3229. (६,१०८.५ ) मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥५॥
3230. (६,१०९.१ ) पिप्पली क्षिप्तभेषज्युतातिविद्धभेषजी ।
3231. (६,१०९.१ ) तां देवाः समकल्पयन्न् इयं जीवितवा अलम् ॥१॥
3232. (६,१०९.२ ) पिप्पल्यः समवदन्तायतीर्जननादधि ।
3233. (६,१०९.२ ) यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥२॥
3234. (६,१०९.३ ) असुरास्त्वा न्यखनन् देवास्त्वोदवपन् पुनः ।
3235. (६,१०९.३ ) वातीकृतस्य भेषजीमथो क्षिप्तस्य भेषजीम् ॥३॥
3236. (६,११०.१ ) प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
3237. (६,११०.१ ) स्वां चाग्ने तन्वं पिप्रायस्वास्मभ्यं च सौभगमा यजस्व ॥१॥
3238. (६,११०.२ ) ज्येष्ठघ्न्यां जातो विचृतोर्यमस्य मूलबर्हणात्परि पाह्येनम् ।
3239. (६,११०.२ ) अत्येनं नेषद्दुरितानि विश्वा दीर्घायुत्वाय शतशारदाय ॥२॥
3240. (६,११०.३ ) व्याघ्रेऽह्न्यजनिष्ट वीरो नक्षत्रजा जायमानः सुवीरः ।
3241. (६,११०.३ ) स मा वधीत्पितरं वर्धमानो मा मातरं प्र मिनीज्जनित्रीम् ॥३॥
3242. (६,१११.१ ) इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति ।
3243. (६,१११.१ ) अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥१॥
3244. (६,१११.२ ) अग्निष्टे नि शमयतु यदि ते मन उद्युतम् ।
3245. (६,१११.२ ) कृणोमि विद्वान् भेषजं यथानुन्मदितोऽससि ॥२॥
3246. (६,१११.३ ) देवैनसादुन्मदितमुन्मत्तं रक्षसस्परि ।
3247. (६,१११.३ ) कृणोमि विद्वान् भेषजं यदानुन्मदितोऽसति ॥३॥
3248. (६,१११.४ ) पुनस्त्वा दुरप्सरसः पुनरिन्द्रः पुनर्भगः ।
3249. (६,१११.४ ) पुनस्त्वा दुर्विश्वे देवा यथानुन्मदितोऽससि ॥४॥
3250. (६,११२.१ ) मा ज्येष्ठं वधीदयमग्न एषां मूलबर्हणात्परि पाह्येनम् ।
3251. (६,११२.१ ) स ग्राह्याः पाशान् वि चृत प्रजानन् तुभ्यं देवा अनु जानन्तु विश्वे ॥१॥
3252. (६,११२.२ ) उन् मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन् ।
3253. (६,११२.२ ) स ग्राह्याः पाशान् वि चृत प्रजानन् पितापुत्रौ मातरं मुञ्च सर्वान् ॥२॥
3254. (६,११२.३ ) येभिः पाशैः परिवित्तो विबद्धोऽङ्गेअङ्ग आर्पित उत्सितश्च ।
3255. (६,११२.३ ) वि ते मुच्यन्तं विमुचो हि सन्ति भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥३॥
3256. (६,११३.१ ) त्रिते देवा अमृजतैतदेनस्त्रित एनन् मनुष्येषु ममृजे ।
3257. (६,११३.१ ) ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥१॥
3258. (६,११३.२ ) मरीचीर्धूमान् प्र विशानु पाप्मन्न् उदारान् गछोत वा नीहारान् ।
3259. (६,११३.२ ) नदीनं फेनामनु तान् वि नश्य भ्रूणघ्नि पूषन् दुरितानि मृक्ष्व ॥२॥
3260. (६,११३.३ ) द्वादशधा निहितं त्रितस्यापमृष्टं मनुष्यैनसानि ।
3261. (६,११३.३ ) ततो यदि त्वा ग्राहिरानशे तां ते देवा ब्रह्मणा नाशयन्तु ॥३॥
3262. (६,११४.१ ) यद्देवा देवहेडनं देवासश्चकृम वयम् ।
3263. (६,११४.१ ) आदित्यास्तस्मान् नो युयमृतस्य ऋतेन मुञ्चत ॥१॥
3264. (६,११४.२ ) ऋतस्य ऋतेनादित्या यजत्रा मुञ्चतेह नः ।
3265. (६,११४.२ ) यज्ञं यद्यज्ञवाहसः शिक्षन्तो नोपशेकिम ॥२॥
3266. (६,११४.३ ) मेदस्वता यजमानाः स्रुचाज्यानि जुह्वतः ।
3267. (६,११४.३ ) अकामा विश्वे वो देवाः शिक्षन्तो नोप शेकिम ॥३॥
3268. (६,११५.१ ) यद्विद्वांसो यदविद्वांस एनांसि चकृमा वयम् ।
3269. (६,११५.१ ) यूयं नस्तस्मान् मुञ्चत विश्वे देवाः सजोषसः ॥१॥
3270. (६,११५.२ ) यदि जाग्रद्यदि स्वपन्न् एन एनस्योऽकरम् ।
3271. (६,११५.२ ) भूतं मा तस्माद्भव्यं च द्रुपदादिव मुञ्चताम् ॥२॥
3272. (६,११५.३ ) द्रुपदादिव मुमुचानः स्विन्नः स्नात्वा मलादिव ।
3273. (६,११५.३ ) पूतं पवित्रेणेवाज्यं विश्वे शुम्भन्तु मैनसः ॥३॥
3274. (६,११६.१ ) यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया ।
3275. (६,११६.१ ) वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥१॥
3276. (६,११६.२ ) वैवस्वतः कृणवद्भागधेयं मधुभागो मधुना सं सृजाति ।
3277. (६,११६.२ ) मातुर्यदेन इषितं न आगन् यद्वा पिताऽपराद्धो जिहीदे ॥२॥
3278. (६,११६.३ ) यदीदं मातुर्यदि पितुर्नः परि भ्रातुः पुत्राच्चेतस एन आगन् ।
3279. (६,११६.३ ) यावन्तो अस्मान् पितरः सचन्ते तेषां सर्वेषां शिवो अस्तु मन्युः ॥३॥
3280. (६,११७.१ ) अपमित्यमप्रतीत्तं यदस्मि यमस्य येन बलिना चरामि ।
3281. (६,११७.१ ) इदं तदग्ने अनृणो भवामि त्वं पाशान् विचृतं वेत्थ सर्वान् ॥१॥
3282. (६,११७.२ ) इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्।
3283. (६,११७.२ ) अपमित्य धान्यं यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥२॥
3284. (६,११७.३ ) अनृणा अस्मिन्न् अनृणाः परस्मिन् तृतीये लोके अनृणाः स्याम ।
3285. (६,११७.३ ) ये देवयानाः पितृयाणश्च लोकाः सर्वान् पथो अनृणा आ क्षियेम ॥३॥
3286. (६,११८.१ ) यद्धस्ताभ्यां चकृम किल्बिषाण्यक्षाणां गत्नुमुपलिप्समानाः ।
3287. (६,११८.१ ) उग्रंपश्ये उग्रजितौ तदद्याप्सरसावनु दत्तामृणं नः ॥१॥
3288. (६,११८.२ ) उग्रंपश्ये राष्ट्रभृत्किल्बिषाणि यदक्षवृत्तमनु दत्तं न एतत्।
3289. (६,११८.२ ) ऋणान् नो न ऋणमेर्त्समानो यमस्य लोके अधिरज्जुरायत्॥२॥
3290. (६,११८.३ ) यस्मा ऋणं यस्य जायामुपैमि यं याचमानो अभ्यैमि देवाः ।
3291. (६,११८.३ ) ते वाचं वादिषुर्मोत्तरां मद्देवपत्नी अप्सरसावधीतम् ॥३॥
3292. (६,११९.१ ) यददीव्यन्न् ऋणमहं कृणोम्यदास्यन्न् अग्ने उत संगृणामि ।
3293. (६,११९.१ ) वैश्वानरो नो अधिपा वसिष्ठ उदिन् नयाति सुकृतस्य लोकम् ॥१॥
3294. (६,११९.२ ) वैश्वानराय प्रति वेदयामि यदि ऋणं संगरो देवतासु ।
3295. (६,११९.२ ) स एतान् पाशान् विचृतं वेद सर्वान् अथ पक्वेन सह सं भवेम ॥२॥
3296. (६,११९.३ ) वैश्वानरः पविता मा पुनातु यत्संगरमभिधावाम्याशाम् ।
3297. (६,११९.३ ) अनाजानन् मनसा याचमानो यत्तत्रैनो अप तत्सुवामि ॥३॥
3298. (६,१२०.१ ) यदन्तरिक्षं पृथिवीमुत द्यां यन् मातरं पितरं वा जिहिंसिम ।
3299. (६,१२०.१ ) अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥१॥
3300. (६,१२०.२ ) भूमिर्मातादितिर्नो जनित्रं भ्रातान्तरिक्षमभिशस्त्या नः ।
3301. (६,१२०.२ ) द्यौर्नः पिता पित्र्याच्छं भवाति जामिमृत्वा माव पत्सि लोकात्॥२॥
3302. (६,१२०.३ ) यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।
3303. (६,१२०.३ ) अश्लोना अङ्गैरह्रुताः स्वर्गे तत्र पश्येम पितरौ च पुत्रान् ॥३॥
3304. (६,१२१.१ ) विषाणा पाशान् वि ष्याध्यस्मद्य उत्तमा अधमा वारुणा ये ।
3305. (६,१२१.१ ) दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥१॥
3306. (६,१२१.२ ) यद्दारुणि बध्यसे यच्च रज्ज्वां यद्भूम्यां बध्यसे यच्च वाचा ।
3307. (६,१२१.२ ) अयं तस्माद्गार्हपत्यो नो अग्निरुदिन् नयाति सुकृतस्य लोकम् ॥२॥
3308. (६,१२१.३ ) उदगातां भगवती विचृतौ नाम तारके ।
3309. (६,१२१.३ ) प्रेहामृतस्य यछतां प्रैतु बद्धकमोचनम् ॥३॥
3310. (६,१२१.४ ) वि जिहीष्व लोकं कृणु बन्धान् मुञ्चासि बद्धकम् ।
3311. (६,१२१.४ ) योन्या इव प्रच्युतो गर्भः पथः सर्वामनु क्षिय ॥४॥
3312. (६,१२२.१ ) एतं भागं परि ददामि विद्वान् विश्वकर्मन् प्रथमजा ऋतस्य ।
3313. (६,१२२.१ ) अस्माभिर्दत्तं जरसः परस्तादछिन्नं तन्तुमनु सं तरेम ॥१॥
3314. (६,१२२.२ ) ततं तन्तुमन्वेके तरन्ति येषां दत्तं पित्र्यमायनेन ।
3315. (६,१२२.२ ) अबन्ध्वेके ददतः प्रयछन्तो दातुं चेच्छिक्षान्त्स स्वर्ग एव ॥२॥
3316. (६,१२२.३ ) अन्वारभेथामनुसंरभेथामेतं लोकं श्रद्दधानाः सचन्ते ।
3317. (६,१२२.३ ) यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दम्पती सं श्रयेथाम् ॥३॥
3318. (६,१२२.४ ) यज्ञं यन्तं मनसा बृहन्तमन्वारोहामि तपसा सयोनिः ।
3319. (६,१२२.४ ) उपहूता अग्ने जरसः परस्तात्तृतीये नाके सधमादं मदेम ॥४॥
3320. (६,१२२.५ ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
3321. (६,१२२.५ ) यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददातु तन् मे ॥५॥
3322. (६,१२३.१ ) एतं सधस्थाः परि वो ददामि यं शेवधिमावहाज्जातवेदः ।
3323. (६,१२३.१ ) अन्वागन्ता यजमानः स्वस्ति तं स्म जानीत परमे व्योमन् ॥१॥
3324. (६,१२३.२ ) जानीत स्मैनं परमे व्योमन् देवाः सधस्था विद लोकमत्र ।
3325. (६,१२३.२ ) अन्वागन्ता यजमानः स्वस्तीष्टापूर्तं स्म कृणुताविरस्मै ॥२॥
3326. (६,१२३.३ ) देवाः पितरः पितरो देवाः ।
3327. (६,१२३.३ ) यो अस्मि सो अस्मि ॥३॥
3328. (६,१२३.४ ) स पचामि स ददामि ।
3329. (६,१२३.४ ) स यजे स दत्तान् मा यूषम् ॥४॥
3330. (६,१२३.५ ) नाके राजन् प्रति तिष्ठ तत्रैतत्प्रति तिष्ठतु ।
3331. (६,१२३.५ ) विद्धि पूर्तस्य नो राजन्त्स देव सुमना भव ॥५॥
3332. (६,१२४.१ ) दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन ।
3333. (६,१२४.१ ) समिन्द्रियेन पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥१॥
3334. (६,१२४.२ ) यदि वृक्षादभ्यपप्तत्फलं तद्यद्यन्तरिक्षात्स उ वायुरेव ।
3335. (६,१२४.२ ) यत्रास्पृक्षत्तन्वो यच्च वासस आपो नुदन्तु निरृतिं पराचैः ॥२॥
3336. (६,१२४.३ ) अभ्यञ्जनं सुरभि सा समृद्धिर्हिरण्यं वर्चस्तदु पूत्रिममेव ।
3337. (६,१२४.३ ) सर्वा पवित्रा वितताध्यस्मत्तन् मा तारीन् निरृतिर्मो अरातिः ॥३॥
3338. (६,१२५.१ ) वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
3339. (६,१२५.१ ) गोभिः संनद्धो असि वीडयस्वास्थाता ते जयतु जेत्वानि ॥१॥
3340. (६,१२५.२ ) दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।
3341. (६,१२५.२ ) अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥२॥
3342. (६,१२५.३ ) इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
3343. (६,१२५.३ ) स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥३॥
3344. (६,१२६.१ ) उप श्वासय पृथिवीमुत द्यं पुरुत्रा ते वन्वतां विष्ठितं जगत्।
3345. (६,१२६.१ ) स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥१॥
3346. (६,१२६.२ ) आ क्रन्दय बलमोजो न आ धा अभि ष्टन दुरिता बाधमानः ।
3347. (६,१२६.२ ) अप सेध दुन्दुभे दुछुनामित इन्द्रस्य मुष्टिरसि वीडयस्व ॥२॥
3348. (६,१२६.३ ) प्रामूं जयाभीमे जयन्तु केतुमद्दुन्दुभिर्वावदीतु ।
3349. (६,१२६.३ ) समश्वपर्णाः पतन्तु नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥३॥
3350. (६,१२७.१ ) विद्रधस्य बलासस्य लोहितस्य वनस्पते ।
3351. (६,१२७.१ ) विसल्पकस्यौषधे मोच्छिषः पिशितं चन ॥१॥
3352. (६,१२७.२ ) यौ ते बलास तिष्ठतः कक्षे मुष्कावपश्रितौ ।
3353. (६,१२७.२ ) वेदाहं तस्य भेषजं चीपुद्रुरभिचक्षणम् ॥२॥
3354. (६,१२७.३ ) यो अङ्ग्यो यः कर्ण्यो यो अक्ष्योर्विसल्पकः ।
3355. (६,१२७.३ ) वि वृहामो विसल्पकं विद्रधं हृदयामयम् ।
3356. (६,१२७.३ ) परा तमज्ञातं यक्ष्ममधराञ्चं सुवामसि ॥३॥
3357. (६,१२८.१ ) शकधूमं नक्षत्राणि यद्राजानमकुर्वत ।
3358. (६,१२८.१ ) भद्राहमस्मै प्रायछन् इदं राष्ट्रमसादिति ॥१॥
3359. (६,१२८.२ ) भद्राहं नो मध्यंदिने भद्राहं सायमस्तु नः ।
3360. (६,१२८.२ ) भद्राहं नो अह्नां प्राता रात्री भद्राहमस्तु नः ॥२॥
3361. (६,१२८.३ ) अहोरात्राभ्यां नक्षत्रेभ्यः सुर्याचन्द्रमसाभ्याम् ।
3362. (६,१२८.३ ) भद्राहमस्मभ्यं राजन् छकधूम त्वं कृधि ॥३॥
3363. (६,१२८.४ ) यो नो भद्राहमकरः सायं नक्तमथो दिवा ।
3364. (६,१२८.४ ) तस्मै ते नक्षत्रराज शकधूम सदा नमः ॥४॥
3365. (६,१२९.१ ) भगेन मा शांशपेन साकमिन्द्रेण मेदिना ।
3366. (६,१२९.१ ) कृणोमि भगिनं माप द्रान्त्वरातयः ॥१॥
3367. (६,१२९.२ ) येन वृक्षामभ्यभवो भगेन वर्चसा सह ।
3368. (६,१२९.२ ) तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥२॥
3369. (६,१२९.३ ) यो अन्धो यः पुनःसरो भगो वृक्षेष्वाहितः ।
3370. (६,१२९.३ ) तेन मा भगिनं कृण्वप द्रान्त्वरातयः ॥३॥
3371. (६,१३०.१ ) रथजितां राथजितेयीनामप्सरसामयं स्मरः ।
3372. (६,१३०.१ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
3373. (६,१३०.२ ) असौ मे स्मरतादिति प्रियो मे स्मरतादिति ।
3374. (६,१३०.२ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
3375. (६,१३०.३ ) यथा मम स्मरादसौ नामुष्याहं कदा चन ।
3376. (६,१३०.३ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥३॥
3377. (६,१३०.४ ) उन् मादयत मरुत उदन्तरिक्ष मादय ।
3378. (६,१३०.४ ) अग्न उन् मादया त्वमसौ मामनु शोचतु ॥४॥
3379. (६,१३१.१ ) नि शीर्षतो नि पत्तत आध्यो नि तिरामि ते ।
3380. (६,१३१.१ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥१॥
3381. (६,१३१.२ ) अनुमतेऽन्विदं मन्यस्वाकुते समिदं नमः ।
3382. (६,१३१.२ ) देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥२॥
3383. (६,१३१.३ ) यद्धावसि त्रियोजनं पञ्चयोजनमाश्विनम् ।
3384. (६,१३१.३ ) ततस्त्वं पुनरायसि पुत्राणां नो असः पिता ॥३॥
3385. (६,१३२.१ ) यं देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।
3386. (६,१३२.१ ) तं ते तपामि वरुणस्य धर्मणा ॥१॥
3387. (६,१३२.२ ) यं विश्वे देवाः स्मरमसिञ्चन्न् अप्स्वन्तः शोशुचानं सहाध्या ।
3388. (६,१३२.२ ) तं ते तपामि वरुणस्य धर्मणा ॥२॥
3389. (६,१३२.३ ) यमिन्द्राणी स्मरमसिञ्चदप्स्वन्तः शोशुचानं सहाध्या ।
3390. (६,१३२.३ ) तं ते तपामि वरुणस्य धर्मणा ॥३॥
3391. (६,१३२.४ ) यमिन्द्राग्नी स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।
3392. (६,१३२.४ ) तं ते तपामि वरुणस्य धर्मणा ॥४॥
3393. (६,१३२.५ ) यं मित्रावरुणौ स्मरमसिञ्चतामप्स्वन्तः शोशुचानं सहाध्या ।
3394. (६,१३२.५ ) तं ते तपामि वरुणस्य धर्मणा ॥५॥
3395. (६,१३३.१ ) य इमां देवो मेखलामाबबन्ध यः संननाह य उ नो युयोज ।
3396. (६,१३३.१ ) यस्य देवस्य प्रशिषा चरामः स पारमिछात्स उ नो वि मुञ्चात्॥१॥
3397. (६,१३३.२ ) आहुतास्यभिहुत ऋषीणामस्यायुधम् ।
3398. (६,१३३.२ ) पूर्वा व्रतस्य प्राश्नती वीरघ्नी भव मेखले ॥२॥
3399. (६,१३३.३ ) मृत्योरहं ब्रह्मचारी यदस्मि निर्याचन् भूतात्पुरुषं यमाय ।
3400. (६,१३३.३ ) तमहं ब्रह्मणा तपसा श्रमेणानयैनं मेखलया सिनामि ॥३॥
3401. (६,१३३.४ ) श्रद्धाया दुहिता तपसोऽधि जाता स्वसा ऋषीणां भूतकृतां बभूव ।
3402. (६,१३३.४ ) सा नो मेखले मतिमा धेहि मेधामथो नो धेहि तप इन्द्रियं च ॥४॥
3403. (६,१३३.५ ) यां त्वा पूर्वे भूतकृत ऋषयः परिबेधिरे ।
3404. (६,१३३.५ ) सा त्वं परि ष्वजस्व मां दीर्घायुत्वाय मेखले ॥५॥
3405. (६,१३४.१ ) अयं वज्रस्तर्पयतामृतस्यावास्य राष्ट्रमप हन्तु जीवितम् ।
3406. (६,१३४.१ ) शृणातु ग्रीवाः प्र शृणातूष्णिहा वृत्रस्येव शचीपतिः ॥१॥
3407. (६,१३४.२ ) अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्।
3408. (६,१३४.२ ) वज्रेणावहतः शयाम् ॥२॥
3409. (६,१३४.३ ) यो जिनाति तमन्विछ यो जिनाति तमिज्जहि ।
3410. (६,१३४.३ ) जिनतो वज्र त्वं सीमन्तमन्वञ्चमनु पातय ॥३॥
3411. (६,१३५.१ ) यदश्नामि बलं कुर्व इत्थं वज्रमा ददे ।
3412. (६,१३५.१ ) स्कन्धान् अमुष्य शातयन् वृत्रस्येव शचीपतिः ॥१॥
3413. (६,१३५.२ ) यत्पिबामि सं पिबामि समुद्र इव संपिबः ।
3414. (६,१३५.२ ) प्राणान् अमुष्य संपाय सं पिबामो अमुं वयम् ॥२॥
3415. (६,१३५.३ ) यद्गिरामि सं गिरामि समुद्र इव संगिरः ।
3416. (६,१३५.३ ) प्राणान् अमुष्य संगीर्य सं गिरामो अमुं वयम् ॥३॥
3417. (६,१३६.१ ) देवी देव्यामधि जाता पृथिव्यामस्योषधे ।
3418. (६,१३६.१ ) तां त्वा नितत्नि केशेभ्यो दृंहणाय खनामसि ॥१॥
3419. (६,१३६.२ ) दृंह प्रत्नान् जनयाजातान् जातान् उ वर्षीयसस्कृधि ॥२॥
3420. (६,१३६.३ ) यस्ते केशोऽवपद्यते समूलो यश्च वृश्चते ।
3421. (६,१३६.३ ) इदं तं विश्वभेषज्याभि षिञ्चामि वीरुधा ॥३॥
3422. (६,१३७.१ ) यां जमदग्निरखनद्दुहित्रे केशवर्धनीम् ।
3423. (६,१३७.१ ) तां वीतहव्य आभरदसितस्य गृहेभ्यः ॥१॥
3424. (६,१३७.२ ) अभीशुना मेया आसन् व्यामेनानुमेयाः ।
3425. (६,१३७.२ ) केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥२॥
3426. (६,१३७.३ ) दृंह मूलमाग्रं यछ वि मध्यं यामयौषधे ।
3427. (६,१३७.३ ) केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥३॥
3428. (६,१३८.१ ) त्वं वीरुधां श्रेष्ठतमाभिश्रुतास्योषधे ।
3429. (६,१३८.१ ) इमं मे अद्य पुरुषं क्लीबमोपशिनं कृधि ॥१॥
3430. (६,१३८.२ ) क्लीबं कृध्योपशिनमथो कुरीरिणं कृधि ।
3431. (६,१३८.२ ) अथास्येन्द्रो ग्रावभ्यामुभे भिनत्त्वाण्ड्यौ ॥२॥
3432. (६,१३८.३ ) क्लीब क्लीबं त्वाकरं वध्रे वध्रिं त्वाकरमरसारसं त्वाकरम् ।
3433. (६,१३८.३ ) कुरीरमस्य शीर्षणि कुम्बं चाधिनिदध्मसि ॥३॥
3434. (६,१३८.४ ) ये ते नाद्यौ देवकृते ययोस्तिष्ठति वृष्ण्यम् ।
3435. (६,१३८.४ ) ते ते भिनद्मि शम्ययामुष्या अधि मुष्कयोः ॥४॥
3436. (६,१३८.५ ) यथा नडं कशिपुने स्त्रियो भिन्दन्त्यश्मना ।
3437. (६,१३८.५ ) एवा भिनद्मि ते शेपोऽमुष्या अधि मुष्कयोः ॥५॥
3438. (६,१३९.१ ) न्यस्तिका रुरोहिथ सुभगंकरणी मम ।
3439. (६,१३९.१ ) शतं तव प्रतानास्त्रयस्त्रिंशन् नितानाः ॥
3440. (६,१३९.१ ) तया सहस्रपर्ण्या हृदयं शोषयामि ते ॥१॥
3441. (६,१३९.२ ) शुष्यतु मयि ते हृदयमथो शुष्यत्वास्यम् ।
3442. (६,१३९.२ ) अथो नि शुष्य मां कामेनाथो शुष्कास्या चर ॥२॥
3443. (६,१३९.३ ) संवननी समुष्पला बभ्रु कल्याणि सं नुद ।
3444. (६,१३९.३ ) अमूं च मां च सं नुद समानं हृदयं कृधि ॥३॥
3445. (६,१३९.४ ) यथोदकमपपुषोऽपशुष्यत्यास्यम् ।
3446. (६,१३९.४ ) एवा नि शुष्य मां कामेनाथो शुष्कास्या चर ॥४॥
3447. (६,१३९.५ ) यथा नकुलो विछिद्य संदधात्यहिं पुनः ।
3448. (६,१३९.५ ) एवा कामस्य विछिन्नं सं धेहि वीर्यावति ॥५॥
3449. (६,१४०.१ ) यौ व्याघ्राववरूधौ जिघत्सतः पितरं मातरं च ।
3450. (६,१४०.१ ) तौ दन्तं ब्रह्मणस्पते शिवौ कृणु जातवेदः ॥१॥
3451. (६,१४०.२ ) व्रीहिमत्तं यवमत्तमथो माषमथो तिलम् ।
3452. (६,१४०.२ ) एष वां भागो निहितो रत्नधेयाय दन्तौ मा हिंसिष्टं पितरं मातरं च ॥२॥
3453. (६,१४०.३ ) उपहूतौ सयुजौ स्योनौ दन्तौ सुमङ्गलौ ।
3454. (६,१४०.३ ) अन्यत्र वां घोरं तन्वः परैतु दन्तौ मा हिंसिष्टं पितरं मातरं च ॥३॥
3455. (६,१४१.१ ) वायुरेनाः समाकरत्त्वष्टा पोषाय ध्रियताम् ।
3456. (६,१४१.१ ) इन्द्र आभ्यो अधि ब्रवद्रुद्रो भूम्ने चिकित्सतु ॥१॥
3457. (६,१४१.२ ) लोहितेन स्वधितिना मिथुनं कर्णयोः कृधि ।
3458. (६,१४१.२ ) अकर्तामश्विना लक्ष्म तदस्तु प्रजया बहु ॥२॥
3459. (६,१४१.३ ) यथा चक्रुर्देवासुरा यथा मनुष्या उत ।
3460. (६,१४१.३ ) एवा सहस्रपोषाय कृणुतं लक्ष्माश्विना ॥३॥
3461. (६,१४२.१ ) उच्छ्रयस्व बहुर्भव स्वेन महसा यव ।
3462. (६,१४२.१ ) मृणीहि विश्वा पात्राणि मा त्वा दिव्याशनिर्वधीत्॥१॥
3463. (६,१४२.२ ) आशृण्वन्तं यवं देवं यत्र त्वाछावदामसि ।
3464. (६,१४२.२ ) तदुच्छ्रयस्व द्यौरिव समुद्र इवैध्यक्षितः ॥२॥
3465. (६,१४२.३ ) अक्षितास्त उपसदोऽक्षिताः सन्तु राशयः ।
3466. (६,१४२.३ ) पृणन्तो अक्षिताः सन्त्वत्तारः सन्त्वक्षिताः ॥३॥
3467. (७,१.१ ) धीती वा ये अनयन् वाचो अग्रं मनसा वा येऽवदन्न् ऋतानि ।
3468. (७,१.१ ) तृतीयेन ब्रह्मणा वावृधानास्तुरीयेणामन्वत नाम धेनोः ॥१॥
3469. (७,१.२ ) स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः ।
3470. (७,१.२ ) स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभरत्॥२॥
3471. (७,२.१ ) अथर्वाणं पितरं देवबन्धुं मातुर्गर्भं पितुरसुं युवानम् ।
3472. (७,२.१ ) य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥१॥
3473. (७,३.१ ) अया विष्ठा जनयन् कर्वराणि स हि घृणिरुरुर्वराय गातुः ।
3474. (७,३.१ ) स प्रत्युदैद्धरुणं मध्वो अग्रं स्वया तन्वा तन्वमैरयत ॥१॥
3475. (७,४.१ ) एकया च दशभिश्च सुहुते द्वाभ्यामिष्टये विंशत्या च ।
3476. (७,४.१ ) तिसृभिश्च वहसे त्रिंशता च वियुग्भिर्वाय इह ता वि मुञ्च ॥१॥
3477. (७,५.१ ) यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
3478. (७,५.१ ) ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१॥
3479. (७,५.२ ) यज्ञो बभूव स आ बभूव स प्र जज्ञे स उ वावृधे पुनः ।
3480. (७,५.२ ) स देवानामधिपतिर्बभूव सो अस्मासु द्रविणमा दधातु ॥२॥
3481. (७,५.३ ) यद्देवा देवान् हविषाऽयजन्तामर्त्यान् मनसा मर्त्येन ।
3482. (७,५.३ ) मदेम तत्र परमे व्योमन् पश्येम तदुदितौ सूर्यस्य ॥३॥
3483. (७,५.४ ) यत्पुरुषेण हविषा यज्ञं देवा अतन्वत ।
3484. (७,५.४ ) अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥४॥
3485. (७,५.५ ) मुग्धा देवा उत शुनाऽयजन्तोत गोरङ्गैः पुरुधाऽयजन्त ।
3486. (७,५.५ ) य इमं यज्ञं मनसा चिकेत प्र णो वोचस्तमिहेह ब्रवः ॥५॥
3487. (७,६.१ ) अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
3488. (७,६.१ ) विश्वे देवा अदितिर्पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१॥
3489. (७,६.२ ) महीमू षु मातरं सुव्रतानामृतस्य पत्नीमवसे हवामहे ।
3490. (७,६.२ ) तुविक्षत्रामजरन्तीमुरूचीं सुशर्माणमदितिं सुप्रणीतिम् ॥२॥
3491. (७,६.३ ) सुत्रामाणं पृथिवीं द्यामनेहसं सुशर्माणमदितिं सुप्रणीतिम् ।
3492. (७,६.३ ) दैवीं नावं स्वरित्रामनागसो अस्रवन्तीमा रुहेमा स्वस्तये ॥१॥
3493. (७,६.४ ) वाजस्य नु प्रसवे मातरं महीमदितिं नाम वचसा करामहे ।
3494. (७,६.४ ) यस्या उपस्थ उर्वन्तरिक्षं सा नः शर्म त्रिवरूथं नि यछात्॥२॥
3495. (७,७.१ ) दितेः पुत्राणामदितेरकारिषमव देवानां बृहतामनर्मणाम् ।
3496. (७,७.१ ) तेषां हि धाम गभिषक्समुद्रियं नैनान् नमसा परो अस्ति कश्चन ॥१॥
3497. (७,८.१ ) भद्रादधि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्तु ।
3498. (७,८.१ ) अथेममस्या वर आ पृथिव्या आरेशत्रुं कृणुहि सर्ववीरम् ॥१॥
3499. (७,९.१ ) प्रपथे पथामजनिष्ट पूषा प्रपथे दिवः प्रपथे पृथिव्याः ।
3500. (७,९.१ ) उभे अभि प्रियतमे सधस्थे आ च परा च चरति प्रजानन् ॥१॥
3501. (७,९.२ ) पूषेमा आशा अनु वेद सर्वाः सो अस्मामभयतमेन नेषत्।
3502. (७,९.२ ) स्वस्तिदा आघृणिः सर्ववीरोऽप्रयुछन् पुर एतु प्रजानन् ॥२॥
3503. (७,९.३ ) पूषन् तव व्रते वयं न रिष्येम कदा चन ।
3504. (७,९.३ ) स्तोतारस्त इह स्मसि ॥३॥
3505. (७,९.४ ) परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।
3506. (७,९.४ ) पुनर्नो नष्टमाजतु सं नष्टेन गमेमहि ॥४॥
3507. (७,१०.१ ) यस्ते स्तनः शशयुर्यो मयोभूर्यः सुम्नयुः सुहवो यः सुदत्रः ।
3508. (७,१०.१ ) येन विश्वा पुष्यसि वार्य
3509. ाणि सरस्वति तमिह धातवे कः ॥१॥
3510. (७,११.१ ) यस्ते पृथु स्तनयित्नुर्य ऋष्वो दैवः केतुर्विश्वमाभूषतीदम् ।
3511. (७,११.१ ) मा नो वधीर्विद्युता देव सस्यं मोत वधी रश्मिभिः सूर्यस्य ॥१॥
3512. (७,१२.१ ) सभा च मा समितिश्चावतां प्रजापतेर्दुहितरौ संविदाने ।
3513. (७,१२.१ ) येना संगछा उप मा स शिक्षाच्चारु वदानि पितरः संगतेषु ॥१॥
3514. (७,१२.२ ) विद्म ते सभे नाम नरिष्टा नाम वा असि ।
3515. (७,१२.२ ) ये ते के च सभासदस्ते मे सन्तु सवाचसः ॥२॥
3516. (७,१२.३ ) एषामहं समासीनानां वर्चो विज्ञानमा ददे ।
3517. (७,१२.३ ) अस्याः सर्वस्याः संसदो मामिन्द्र भगिनं कृणु ॥३॥
3518. (७,१२.४ ) यद्वो मनः परागतं यद्बद्धमिह वेह वा ।
3519. (७,१२.४ ) तद्व आ वर्तयामसि मयि वो रमतां मनः ॥४॥
3520. (७,१३.१ ) यथा सूर्यो नक्षत्राणामुद्यंस्तेजांस्याददे ।
3521. (७,१३.१ ) एवा स्त्रीणां च पुंसां च द्विषतां वर्च आ ददे ॥१॥
3522. (७,१३.२ ) यावन्तो मा सपत्नानामायन्तं प्रतिपश्यथ ।
3523. (७,१३.२ ) उद्यन्त्सूर्य इव सुप्तानां द्विषतां वर्च आ ददे ॥२॥
3524. (७,१४.१ ) अभि त्यं देवं सवितारमोण्योः कविक्रतुम् ।
3525. (७,१४.१ ) अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ॥१॥
3526. (७,१४.२ ) उर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि ।
3527. (७,१४.२ ) हिरण्यपाणिरमिमीत सुक्रतुः कृपात्स्वः ॥२॥
3528. (७,१४.३ ) सावीर्हि देव प्रथमाय पित्रे वर्ष्माणमस्मै वरिमाणमस्मै ।
3529. (७,१४.३ ) अथास्मभ्यं सवितर्वार्याणि दिवोदिव आ सुवा भूरि पश्वः ॥३॥
3530. (७,१४.४ ) दमूना देवः सविता वरेण्यो दधद्रत्नं पितृभ्य आयूंषि ।
3531. (७,१४.४ ) पिबात्सोमं ममददेनमिष्टे परिज्मा चित्क्रमते अस्य धर्मणि ॥४॥
3532. (७,१५.१ ) तां सवितः सत्यसवां सुचित्रामाहं वृणे सुमतिं विश्ववाराम् ।
3533. (७,१५.१ ) यामस्य कण्वो अदुहत्प्रपीनां सहस्रधारां महिषो भगाय ॥१॥
3534. (७,१६.१ ) बृहस्पते सवितर्वर्धयैनं ज्योतयैनं महते सौभगाय ।
3535. (७,१६.१ ) संशितं चित्संतरं सं शिशाधि विश्व एनमनु मदन्तु देवाः ॥१॥
3536. (७,१७.१ ) धाता दधातु नो रयिमीशानो जगतस्पतिः ।
3537. (७,१७.१ ) स नः पूर्णेन यछतु ॥१॥
3538. (७,१७.२ ) धाता दधातु दाशुषे प्राचीं जीवातुमक्षिताम् ।
3539. (७,१७.२ ) वयं देवस्य धीमहि सुमतिं विश्वराधसः ॥२॥
3540. (७,१७.३ ) धाता विश्वा वार्या दधातु प्रजाकामाय दाशुषे दुरोणे ।
3541. (७,१७.३ ) तस्मै देवा अमृतं सं व्ययन्तु विश्वे देवा अदितिः सजोषाः ॥३॥
3542. (७,१७.४ ) धाता रातिः सवितेदं जुषन्तां प्रजापतिर्निधिपतिर्नो अग्निः ।
3543. (७,१७.४ ) त्वष्टा विष्णुः प्रजया संरराणो यजमानाय द्रविणं दधातु ॥४॥
3544. (७,१८.१ ) प्र नभस्व पृथिवि भिन्द्धीदं दिव्यं नभः ।
3545. (७,१८.१ ) उद्नो दिव्यस्य नो धातरीशानो वि ष्या दृतिम् ॥१॥
3546. (७,१८.२ ) न घ्रंस्तताप न हिमो जघान प्र नभतां पृथिवी जीरदानुः ।
3547. (७,१८.२ ) आपश्चिदस्मै घृतमित्क्षरन्ति यत्र सोमः सदमित्तत्र भद्रम् ॥२॥
3548. (७,१९.१ ) प्रजापतिर्जनयति प्रजा इमा धाता दधातु सुमनस्यमानः ।
3549. (७,१९.१ ) संजानानाः संमनसः सयोनयो मयि पुष्टं पुष्टपतिर्दधातु ॥१॥
3550. (७,२०.१ ) अन्वद्य नोऽनुमतिर्यज्ञं देवेषु मन्यताम् ।
3551. (७,२०.१ ) अग्निश्च हव्यवाहनो भवतां दाशुषे मम ॥१॥
3552. (७,२०.२ ) अन्विदनुमते त्वं मंससे शं च नस्कृधि ।
3553. (७,२०.२ ) जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥२॥
3554. (७,२०.३ ) अनु मन्यतामनुमन्यमानः प्रजावन्तं रयिमक्षीयमाणम् ।
3555. (७,२०.३ ) तस्य वयं हेडसि मापि भूम सुमृडीके अस्य सुमतौ स्याम ॥३॥
3556. (७,२०.४ ) यत्ते नाम सुहवं सुप्रणीतेऽनुमते अनुमतं सुदानु ।
3557. (७,२०.४ ) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥४॥
3558. (७,२०.५ ) एमं यज्ञमनुमतिर्जगाम सुक्षेत्रतायै सुवीरतायै सुजातम् ।
3559. (७,२०.५ ) भद्रा ह्यस्याः प्रमतिर्बभूव सेमं यज्ञमवतु देवगोपा ॥५॥
3560. (७,२०.६ ) अनुमतिः सर्वमिदं बभूव यत्तिष्ठति चरति यदु च विश्वमेजति ।
3561. (७,२०.६ ) तस्यास्ते देवि सुमतौ स्यामानुमते अनु हि मंससे नः ॥६॥
3562. (७,२१.१ ) समेत विश्वे वचसा पतिं दिव एको विभूरतिथिर्जनानाम् ।
3563. (७,२१.१ ) स पूर्व्यो नूतनमाविवासत्तं वर्तनिरनु वावृत एकमित्पुरु ॥१॥
3564. (७,२२.१ ) अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥१॥
3565. (७,२२.२ ) ब्रध्नः समीचीरुषसः समैरयन् ।
3566. (७,२२.२ ) अरेपसः सचेतसः स्वसरे मन्युमत्तमाश्चिते गोः ॥२॥
3567. (७,२३.१ ) दौष्वप्न्यं दौर्जीवित्यं रक्षो अभ्वमराय्यः ।
3568. (७,२३.१ ) दुर्णाम्नीः सर्वा दुर्वाचस्ता अस्मन् नाशयामसि ॥१॥
3569. (७,२४.१ ) यन् न इन्द्रो अखनद्यदग्निर्विश्वे देवा मरुतो यत्स्वर्काः ।
3570. (७,२४.१ ) तदस्मभ्यं सविता सत्यधर्मा प्रजापतिरनुमतिर्नि यछात्॥१॥
3571. (७,२५.१ ) ययोरोजसा स्कभिता रजांसि यौ वीर्यैर्वीरतमा शविष्ठा ।
3572. (७,२५.१ ) यौ पत्येते अप्रतीतौ सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥१॥
3573. (७,२५.२ ) यस्येदं प्रदिशि यद्विरोचते प्र चानति वि च चष्टे शचीभिः ।
3574. (७,२५.२ ) पुरा देवस्य धर्मणा सहोभिर्विष्णुमगन् वरुणं पूर्वहूतिः ॥२॥
3575. (७,२६.१ ) विष्णोर्नु कं प्रा वोचं वीर्याणि यः पार्थिवानि विममे रजांसि ।
3576. (७,२६.१ ) यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥१॥
3577. (७,२६.२ ) प्र तद्विष्णु स्तवते वीर्याणि मृगो न भीमः कुचरो गिरिष्ठाः ।
3578. (७,२६.२ ) परावत आ जगम्यात्परस्याः ॥२॥
3579. (७,२६.३ ) यस्योरुषु त्रिषु विक्रमनेष्वधिक्षियन्ति भुवनानि विश्वा ।
3580. (७,२६.३ ) उरु विष्णो वि क्रमस्वोरु क्षयाय नस्कृधि ।
3581. (७,२६.३ ) घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥३॥
3582. (७,२६.४ ) इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदा ।
3583. (७,२६.४ ) समूढमस्य पंसुरे ॥४॥
3584. (७,२६.५ ) त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
3585. (७,२६.५ ) इतो धर्माणि धारयन् ॥५॥
3586. (७,२६.६ ) विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
3587. (७,२६.६ ) इन्द्रस्य युज्यः सखा ॥६॥
3588. (७,२६.७ ) तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
3589. (७,२६.७ ) दिवीव चक्षुराततम् ॥७॥
3590. (७,२६.८ ) दिवो विष्ण उत पृथिव्या महो विष्ण उरोरन्तरिक्षात्।
3591. (७,२६.८ ) हस्तौ पृणस्व बहुभिर्वसव्यैराप्रयछ दक्षिणादोत सव्यात्॥८॥
3592. (७,२७.१ ) इडैवास्मामनु वस्तां व्रतेन यस्याः पदे पुनते देवयन्तः ।
3593. (७,२७.१ ) घृतपदी शक्वरी सोमपृष्ठोप यज्ञमस्थित वैश्वदेवी ॥१॥
3594. (७,२८.१ ) वेदः स्वस्तिर्द्रुघणः स्वस्तिः परशुर्वेदिः परशुर्नः स्वस्ति ।
3595. (७,२८.१ ) हविष्कृतो यज्ञिया यज्ञकामास्ते देवासो यज्ञमिमं जुषन्ताम् ॥१॥
3596. (७,२९.१ ) अग्नाविष्णू महि तद्वां महित्वं पाथो घृतस्य गुह्यस्य नाम ।
3597. (७,२९.१ ) दमेदमे सप्त रत्ना दधानौ प्रति वां जिह्वा घृतमा चरण्यात्॥१॥
3598. (७,२९.२ ) अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणौ ।
3599. (७,२९.२ ) दमेदमे सुष्टुत्या वावृधानौ प्रति वां जिह्वा घृतमुच्चरण्यात्॥२॥
3600. (७,३०.१ ) स्वाक्तं मे द्यावापृथिवी स्वाक्तं मित्रो अकरयम् ।
3601. (७,३०.१ ) स्वाक्तं मे ब्रह्मणस्पतिः स्वाक्तं सविता करत्॥१॥
3602. (७,३१.१ ) इन्द्रोतिभिर्बहुलाभिर्नो अद्य यावच्छ्रेष्ठाभिर्मघवन् छूर जिन्व ।
3603. (७,३१.१ ) यो नो द्वेष्ट्यधर सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥१॥
3604. (७,३२.१ ) उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
3605. (७,३२.१ ) अगन्म बिभ्रतो नमो दीर्घमायुः कृणोतु मे ॥१॥
3606. (७,३३.१ ) सं मा सिञ्चन्तु मरुतः सं पूषा सं बृहस्पतिः ।
3607. (७,३३.१ ) सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥१॥
3608. (७,३४.१ ) अग्ने जातान् प्र णुदा मे सपत्नान् प्रत्यजातान् जातवेदो नुदस्व ।
3609. (७,३४.१ ) अधस्पदं कृणुष्व ये पृतन्यवोऽनागसस्ते वयमदितये स्याम ॥१॥
3610. (७,३५.१ ) प्रान्यान्त्सपत्नान्त्सहसा सहस्व प्रत्यजातान् जातवेदो नुदस्व ।
3611. (७,३५.१ ) इदं राष्ट्रं पिपृहि सौभगाय विश्व एनमनु मदन्तु देवाः ॥१॥
3612. (७,३५.२ ) इमा यास्ते शतं हिराः सहस्रं धमनीरुत ।
3613. (७,३५.२ ) तासां ते सर्वासामहमश्मना बिलमप्यधाम् ॥२॥
3614. (७,३५.३ ) परं योनेरवरं ते कृणोमि मा त्वा प्रजाभि भून् मोत सूतुः ।
3615. (७,३५.३ ) अस्वं त्वाप्रजसं कृणोम्यश्मानं ते अपिधानं कृणोमि ॥३॥
3616. (७,३६.१ ) अक्ष्यौ नौ मधुसंकाशे अनीकं नौ समञ्जनम् ।
3617. (७,३६.१ ) अन्तः कृष्णुष्व मां हृदि मन इन् नौ सहासति ॥१॥
3618. (७,३७.१ ) अभि त्वा मनुजातेन दधामि मम वाससा ।
3619. (७,३७.१ ) याथाऽसो मम केवलो नान्यासां कीर्तयाश्चन ॥१॥
3620. (७,३८.१ ) इदं खनामि भेषजं मांपश्यमभिरोरुदम् ।
3621. (७,३८.१ ) परायतो निवर्तनमायतः प्रतिनन्दनम् ॥१॥
3622. (७,३८.२ ) येना निचक्र आसुरीन्द्रं देवेभ्यस्परि ।
3623. (७,३८.२ ) तेना नि कुर्वे त्वामहं यथा तेऽसानि सुप्रिया ॥२॥
3624. (७,३८.३ ) प्रतीची सोममसि प्रतीची उत सूर्यम् ।
3625. (७,३८.३ ) प्रतीची विश्वान् देवान् तां त्वाछावदामसि ॥३॥
3626. (७,३८.४ ) अहं वदामि नेत्त्वं सभायामह त्वं वद ।
3627. (७,३८.४ ) ममेदसस्त्वं केवलो नान्यासां कीर्तयाश्चन ॥४॥
3628. (७,३८.५ ) यदि वासि तिरोजनं यदि वा नद्यस्तिरःि ।
3629. (७,३८.५ ) इयं ह मह्यं त्वामोषधिर्बद्ध्वेव न्यानयत्॥५॥
3630. (७,३९.१ ) दिव्यं सुपर्णं पयसं बृहन्तमपां गर्भं वृषभमोषधीनाम् ।
3631. (७,३९.१ ) अभीपतो वृष्ट्या तर्पयन्तमा नो गोष्ठे रयिष्ठां स्थापयाति ॥१॥
3632. (७,४०.१ ) यस्य व्रतं पशवो यन्ति सर्वे यस्य व्रत उपतिष्ठन्त आपः ।
3633. (७,४०.१ ) यस्य व्रते पुष्टपतिर्निविष्टस्तं सरस्वन्तमवसे हवामहे ॥१॥
3634. (७,४०.२ ) आ प्रत्यञ्चं दाशुषे दाश्वंसं सरस्वन्तं पुष्टपतिं रयिष्ठाम् ।
3635. (७,४०.२ ) रायस्पोषं श्रवस्युं वसाना इह सदनं रयीणाम् ॥२॥
3636. (७,४१.१ ) अति धन्वान्यत्यपस्ततर्द श्येनो नृचक्षा अवसानदर्शः ।
3637. (७,४१.१ ) तरन् विश्वान्यवरा रजंसीन्द्रेण सख्या शिव आ जगम्यात्॥१॥
3638. (७,४१.२ ) श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः ।
3639. (७,४१.२ ) स नो नि यछाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत्॥२॥
3640. (७,४२.१ ) सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
3641. (७,४२.१ ) बाधेथां दूरं निरृतिं पराचैः कृतं चिदेनः प्र मुमुक्तमस्मत्॥१॥
3642. (७,४२.२ ) सोमारुद्रा युवमेतान्यस्मद्विश्वा तनूषु भेषजानि धत्तम् ।
3643. (७,४२.२ ) अव स्यतं मुञ्चतं यन् नो असत्तनूषु बद्धं कृतमेनो अस्मत्॥२॥
3644. (७,४३.१ ) शिवास्त एका अशिवास्त एकाः सर्वा बिभर्षि सुमनस्यमानः ।
3645. (७,४३.१ ) तिस्रो वाचो निहिता अन्तरस्मिन् तासामेका वि पपातानु घोषम् ॥१॥
3646. (७,४४.१ ) उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनयोः ।
3647. (७,४४.१ ) इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥१॥
3648. (७,४५.१ ) जनाद्विश्वजनीनात्सिन्धुतस्पर्याभृतम् ।
3649. (७,४५.१ ) दूरात्त्वा मन्य उद्भृतमीर्ष्याया नाम भेषजम् ॥१॥
3650. (७,४५.२ ) अग्नेरिवास्य दहतो दावस्य दहतः पृथक्।
3651. (७,४५.२ ) एतामेतस्येर्ष्यामुद्राग्निमिव शमय ॥१॥
3652. (७,४६.१ ) सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
3653. (७,४६.१ ) जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥१॥
3654. (७,४६.२ ) या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
3655. (७,४६.२ ) तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥२॥
3656. (७,४६.३ ) या विश्पत्नीन्द्रमसि प्रतीची सहस्रस्तुकाभियन्ती देवी ।
3657. (७,४६.३ ) विष्णोः पत्नि तुभ्यं राता हवींषि पतिं देवि राधसे चोदयस्व ॥३॥
3658. (७,४७.१ ) कुहूं देवीं सुकृतं विद्मनापसमस्मिन् यज्ञे सुहवा जोहवीमि ।
3659. (७,४७.१ ) सा नो रयिं विश्ववारं नि यछाद्ददातु वीरं शतदायमुक्थ्यम् ॥१॥
3660. (७,४७.२ ) कुहूर्देवानाममृतस्य पत्नी हव्या नो अस्य हविषो जुषेत ।
3661. (७,४७.२ ) शृनोतु यज्ञमुशती नो अद्य रायस्पोषं चिकितुषी दधातु ॥२॥
3662. (७,४८.१ ) राकामहं सुहवा सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
3663. (७,४८.१ ) सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥१॥
3664. (७,४८.२ ) यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
3665. (७,४८.२ ) ताभिर्नो अद्य सुमना उपागहि सहस्रापोषं सुभगे रराणा ॥२॥
3666. (७,४९.१ ) देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये ।
3667. (७,४९.१ ) याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यछन्तु ॥१॥
3668. (७,४९.२ ) उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्यग्नाय्यश्विनी राट्।
3669. (७,४९.२ ) आ रोदसी वरुनानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥२॥
3670. (७,५०.१ ) यथा वृक्षमशनिर्विश्वाहा हन्त्यप्रति ।
3671. (७,५०.१ ) एवाहमद्य कितवान् अक्षैर्बध्यासमप्रति ॥१॥
3672. (७,५०.२ ) तुराणामतुराणां विशामवर्जुषीणाम् ।
3673. (७,५०.२ ) समैतु विश्वतो भगो अन्तर्हस्तं कृतं मम ॥२॥
3674. (७,५०.३ ) ईडे अग्निं स्वावसुं नमोभिरिह प्रसक्तो वि चयत्कृतं नः ।
3675. (७,५०.३ ) रथैरिव प्र भरे वाजयद्भिः प्रदक्षिणं मरुतां स्तोममृध्याम् ॥३॥
3676. (७,५०.४ ) वयं जयेम त्वया युजा वृतमस्माकमंशमुदव भरेभरे ।
3677. (७,५०.४ ) अस्मभ्यमिन्द्र वरीयः सुगं कृधि प्र शत्रूणां मघवन् वृष्ण्या रुज ॥४॥
3678. (७,५०.५ ) अजैषं त्वा संलिखितमजैषमुत संरुधम् ।
3679. (७,५०.५ ) अविं वृको यथा मथदेवा मथ्नामि ते कृतम् ॥५॥
3680. (७,५०.६ ) उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।
3681. (७,५०.६ ) यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥६॥
3682. (७,५०.७ ) गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
3683. (७,५०.७ ) वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥७॥
3684. (७,५०.८ ) कृतं मे दक्षिणे हस्ते जयो मे सव्य आहितः ।
3685. (७,५०.८ ) गोजिद्भूयासमश्वजिद्धनंजयो हिरण्यजित्॥८॥
3686. (७,५०.९ ) अक्षाः फलवतीं द्युवं दत्त गां क्षीरिणीमिव ।
3687. (७,५०.९ ) सं मा कृतस्य धारया धनुः स्नाव्नेव नह्यत ॥९॥
3688. (७,५१.१ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।
3689. (७,५१.१ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥१॥
3690. (७,५२.१ ) संज्ञानं नः स्वेभिः संज्ञानमरणेभिः ।
3691. (७,५२.१ ) संज्ञानमश्विना युवमिहास्मासु नि यछतम् ॥१॥
3692. (७,५२.२ ) सं जानामहै मनसा सं चिकित्वा मा युष्महि मनसा दैव्येन ।
3693. (७,५२.२ ) मा घोषा उत्स्थुर्बहुले विनिर्हते मेषुः पप्तदिन्द्रस्याहन्यागते ॥२॥
3694. (७,५३.१ ) अमुत्रभूयादधि यद्यमस्य बृहस्पते अभिशस्तेरमुञ्चः ।
3695. (७,५३.१ ) प्रत्यौहतामश्विना मृत्युमस्मद्देवानामग्ने भिषजा शचीभिः ॥१॥
3696. (७,५३.२ ) सं क्रामतं मा जहीतं शरीरं प्राणापानौ ते सयुजाविह स्ताम् ।
3697. (७,५३.२ ) शतं जीव शरदो वर्धमानोऽग्निष्टे गोपा अधिपा वसिष्ठः ॥२॥
3698. (७,५३.३ ) आयुर्यत्ते अतिहितं पराचैरपानः प्राणः पुनरा ताविताम् ।
3699. (७,५३.३ ) अग्निष्टदाहार्निरृतेरुपस्थात्तदात्मनि पुनरा वेशयामि ते ॥३॥
3700. (७,५३.४ ) मेमं प्राणो हासीन् मो अपानोऽवहाय परा गात्।
3701. (७,५३.४ ) सप्तर्षिभ्य एनं परि ददामि ते एनं स्वस्ति जरसे वहन्तु ॥४॥
3702. (७,५३.५ ) प्र विषतं प्राणापानावनड्वाहाविव व्रजम् ।
3703. (७,५३.५ ) अयं जरिम्नः शेवधिररिष्ट इह वर्धताम् ॥५॥
3704. (७,५३.६ ) आ ते प्राणं सुवामसि परा यक्ष्मं सुवामि ते ।
3705. (७,५३.६ ) आयुर्नो विश्वतो दधदयमग्निर्वरेण्यः ॥६॥
3706. (७,५३.७ ) उद्वयं तमसस्परि रोहन्तो नाकमुत्तमम् ।
3707. (७,५३.७ ) देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥७॥
3708. (७,५४.१ ) ऋचं साम यजामहे याभ्यां कर्माणि कुर्वते ।
3709. (७,५४.१ ) एते सदसि राजतो यज्ञं देवेषु यछतः ॥१॥
3710. (७,५४.२ ) ऋचं साम यदप्राक्षं हविरोजो यजुर्बलम् ।
3711. (७,५४.२ ) एष मा तस्मान् मा हिंसीद्वेदः पृष्टः शचीपते ॥१॥
3712. (७,५५.१ ) ये ते पन्थानोऽव दिवो येभिर्विश्वमैरयः ।
3713. (७,५५.१ ) तेभिः सुम्नया धेहि नो वसो ॥२॥
3714. (७,५६.१ ) तिरश्चिराजेरसितात्पृदाकोः परि संभृतम् ।
3715. (७,५६.१ ) तत्कङ्कपर्वणो विषमियं वीरुदनीनशत्॥१॥
3716. (७,५६.२ ) इयं वीरुन् मधुजाता मधुश्चुन् मधुला मधूः ।
3717. (७,५६.२ ) सा विह्रुतस्य भेषज्यथो मशकजम्भनी ॥२॥
3718. (७,५६.३ ) यतो दष्टं यतो धीतं ततस्ते निर्ह्वयामसि ।
3719. (७,५६.३ ) अर्भस्य तृप्रदंशिनो मशकस्यारसं विषम् ॥३॥
3720. (७,५६.४ ) अयं यो वक्रो विपरुर्व्यङ्गो मुखानि वक्रा वृजिना कृणोषि ।
3721. (७,५६.४ ) तानि त्वं ब्रह्मणस्पते इषीकामिव सं नमः ॥४॥
3722. (७,५६.५ ) अरसस्य शर्कोटस्य नीचीनस्योपसर्पतः ।
3723. (७,५६.५ ) विषं ह्यस्यादिष्यथो एनमजीजभम् ॥५॥
3724. (७,५६.६ ) न ते बाह्वोर्बलमस्ति न शीर्षे नोत मध्यतः ।
3725. (७,५६.६ ) अथ किं पापयाऽमुया पुछे बिभर्ष्यर्भकम् ॥६॥
3726. (७,५६.७ ) अदन्ति त्वा पिपीलिका वि वृश्चन्ति मयूर्यः ।
3727. (७,५६.७ ) सर्वे भल ब्रवाथ शार्कोटमरसं विषम् ॥७॥
3728. (७,५६.८ ) य उभाभ्यां प्रहरसि पुछेन चास्येन च ।
3729. (७,५६.८ ) आस्ये न ते विषं किमु ते पुछधावसत्॥८॥
3730. (७,५७.१ ) यदाशसा वदतो मे विचुक्षुभे यद्याचमानस्य चरतो जनामनु ।
3731. (७,५७.१ ) यदात्मनि तन्वो मे विरिष्टं सरस्वती तदा पृणद्घृतेन ॥१॥
3732. (७,५७.२ ) सप्त क्षरन्ति सिशवे मरुत्वते पित्रे पुत्रासो अप्यवीवृतन्न् ऋतानि ।
3733. (७,५७.२ ) उभे इदस्योभे अस्य राजत उभे यतेते उभे अस्य पुष्यतः ॥२॥
3734. (७,५८.१ ) इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ ।
3735. (७,५८.१ ) युवो रथो अध्वरो देववीतये प्रति स्वसरमुप यातु पीतये ॥१॥
3736. (७,५८.२ ) इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
3737. (७,५८.२ ) इदं वामन्धः परिषिक्तमासद्यास्मिन् बर्हिषि मादयेथाम् ॥२॥
3738. (७,५९.१ ) यो नः शपादशपतः शपतो यश्च नः शपात्।
3739. (७,५९.१ ) वृक्ष इव विद्युता हत आ मूलादनु शुष्यतु ॥१॥
3740. (७,६०.१ ) ऊर्जं बिभ्रद्वसुवनिः सुमेधा अघोरेण चक्षुषा मित्रियेण ।
3741. (७,६०.१ ) गृहान् ऐमि सुमना वन्दमानो रमध्वं मा बिभीत मत्॥१॥
3742. (७,६०.२ ) इमे गृहा मयोभुव ऊर्जस्वन्तः पयस्वन्तः ।
3743. (७,६०.२ ) पूर्णा वामेन तिष्ठन्तस्ते नो जानन्त्वायतः ॥२॥
3744. (७,६०.३ ) येषामध्येति प्रवसन् येषु सौमनसो बहुः ।
3745. (७,६०.३ ) गृहान् उप ह्वयामहे ते नो जानन्त्वायतः ॥३॥
3746. (७,६०.४ ) उपहूता भूरिधनाः सखायः स्वादुसंमुदः ।
3747. (७,६०.४ ) अक्षुध्या अतृष्या स्त गृहा मास्मद्बिभीतन ॥४॥
3748. (७,६०.५ ) उपहूता इह गाव उपहूता अजावयः ।
3749. (७,६०.५ ) अथो अन्नस्य कीलाल उपहूतो गृहेषु ॥५॥
3750. (७,६०.६ ) सूनृतावन्तः सुभगा इरावन्तो हसामुदाः ।
3751. (७,६०.६ ) अतृष्या अक्षुध्या स्त गृहा मास्मद्बिभीतन ॥६॥
3752. (७,६०.७ ) इहैव स्त मानु गात विश्वा रूपाणि पुष्यत ।
3753. (७,६०.७ ) ऐष्यामि भद्रेणा सह भूयांसो भवता मया ॥७॥
3754. (७,६१.१ ) यदग्ने तपसा तप उपतप्यामहे तपः ।
3755. (७,६१.१ ) प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधसः ॥१॥
3756. (७,६१.२ ) अग्ने तपस्तप्यामह उप तप्यामहे तपः ।
3757. (७,६१.२ ) श्रुतानि शृण्वन्तः वयमायुष्मन्तः सुमेधसः ॥२॥
3758. (७,६२.१ ) अयमग्निः सत्पतिर्वृद्धवृष्णो रथीव पत्तीन् अजयत्पुरोहितः ।
3759. (७,६२.१ ) नाभा पृथिव्यां निहितो दविद्युतदधस्पदं कृणुतां ये पृतन्यवः ॥१॥
3760. (७,६३.१ ) पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्।
3761. (७,६३.१ ) स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः ॥१॥
3762. (७,६४.१ ) इदं यत्कृष्णः शकुनिरभिनिष्पतन्न् अपीपतत्।
3763. (७,६४.१ ) आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१॥
3764. (७,६४.२ ) इदं यत्कृष्णः शकुनिरवामृक्षन् निरृते ते मुखेन ।
3765. (७,६४.२ ) अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥२॥
3766. (७,६५.१ ) प्रतीचीनफलो हि त्वमपामार्ग रुरोहिथ ।
3767. (७,६५.१ ) सर्वान् मच्छपथामधि वरीयो यवया इतः ॥१॥
3768. (७,६५.२ ) यद्दुष्कृतं यच्छमलं यद्वा चेरिम पापया ।
3769. (७,६५.२ ) त्वया तद्विश्वतोमुखापामार्गाप मृज्महे ॥२॥
3770. (७,६५.३ ) श्यावदता कुनखिना बण्डेन यत्सहासिम ।
3771. (७,६५.३ ) अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥३॥
3772. (७,६६.१ ) यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु ।
3773. (७,६६.१ ) यदश्रवन् पशव उद्यमानं तद्ब्राह्मणं पुनरस्मान् उपैतु ॥१॥
3774. (७,६७.१ ) पुनर्मैत्विन्द्रियं पुनरात्मा द्रविणं ब्राह्मणं च ।
3775. (७,६७.१ ) पुनरग्नयो धिष्ण्या यथास्थाम कल्पयन्तामिहैव ॥१॥
3776. (७,६८.१ ) सरस्वति व्रतेषु ते दिव्येषु देवि धामसु ।
3777. (७,६८.१ ) जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥१॥
3778. (७,६८.२ ) इदं ते हव्यं घृतवत्सरस्वतीदं पितॄणां हविरास्यं यत्।
3779. (७,६८.२ ) इमानि त उदिता शम्तमानि तेभिर्वयं मधुमन्तः स्याम ॥२॥
3780. (७,६८.३ ) शिवा नः शंतमा भव सुमृडीका सरस्वति ।
3781. (७,६८.३ ) मा ते युयोम संदृशः ॥१॥
3782. (७,६९.१ ) शं नो वातो वातु शं नस्तपतु सूर्यः ।
3783. (७,६९.१ ) अहानि शं भवन्तु नः शं रात्री प्रति धीयताम् ।
3784. (७,६९.१ ) शमुषा नो व्युछतु ॥१॥
3785. (७,७०.१ ) यत्किं चासौ मनसा यच्च वाचा यज्ञैर्जुहोति हविषा यजुषा ।
3786. (७,७०.१ ) तन् मृत्युना निरृतिः संविदाना पुरा सत्यादाहुतिं हन्त्वस्य ॥१॥
3787. (७,७०.२ ) यातुधाना निरृतिरादु रक्षस्ते अस्य घ्नन्त्वनृतेन सत्यम् ।
3788. (७,७०.२ ) इन्द्रेषिता देवा आजमस्य मथ्नन्तु मा तत्सं पादि यदसौ जुहोति ॥२॥
3789. (७,७०.३ ) अजिराधिराजौ श्येनौ संपातिनाविव ।
3790. (७,७०.३ ) आज्यं पृतन्यतो हतां यो नः कश्चाभ्यघायति ॥३॥
3791. (७,७०.४ ) अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम् ।
3792. (७,७०.४ ) अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥४॥
3793. (७,७०.५ ) अपि नह्यामि ते बाहू अपि नह्याम्यास्यम् ।
3794. (७,७०.५ ) अग्नेर्घोरस्य मन्युना तेनऽवधिषं हविः ॥५॥
3795. (७,७१.१ ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
3796. (७,७१.१ ) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥१॥
3797. (७,७२.१ ) उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् ।
3798. (७,७२.१ ) यदि श्रातं जुहोतन यद्यश्रातं ममत्तन ॥१॥
3799. (७,७२.२ ) श्रातं हविरो ष्विन्द्र प्र याहि जगाम सूरो अध्वनो वि मध्यम् ।
3800. (७,७२.२ ) परि त्वासते निधिभिः सखायः कुलपा न व्राजपतिं चरन्तम् ॥२॥
3801. (७,७२.३ ) श्रातं मन्य ऊधनि श्रातमग्नौ सुशृतं मन्ये तदृतं नवीयः ।
3802. (७,७२.३ ) माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज्जुषाणः ॥१॥
3803. (७,७३.१ ) समिद्धो अग्निर्वृषणा रथी दिवस्तप्तो घर्मो दुह्यते वामिषे मधु ।
3804. (७,७३.१ ) वयं हि वां पुरुदमासो अश्विना हवामहे सधमादेषु कारवः ॥१॥
3805. (७,७३.२ ) समिद्धो अग्निरश्विना तप्तो वां घर्म आ गतम् ।
3806. (७,७३.२ ) दुह्यन्ते नूनं वृषणेह धेनवो दस्रा मदन्ति वेधसः ॥२॥
3807. (७,७३.३ ) इवाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः ।
3808. (७,७३.३ ) तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥३॥
3809. (७,७३.४ ) यदुस्रियास्वाहुतं घृतं पयोऽयं स वामश्विना भाग आ गतम् ।
3810. (७,७३.४ ) माध्वी धर्तारा विदथस्य सत्पती तप्तं घर्मं पिबतं दिवः ॥४॥
3811. (७,७३.५ ) तप्तो वां घर्मो नक्षतु स्वहोता प्र वामध्वर्युश्चरतु पयस्वान् ।
3812. (७,७३.५ ) मधोर्दुग्धस्याश्विना तनाया वीतं पातं पयस उस्रियायाः ॥५॥
3813. (७,७३.६ ) उप द्रव पयसा गोधुगोषमा घर्मे सिञ्च पय उस्रियायाः ।
3814. (७,७३.६ ) वि नाकमख्यत्सविता वरेण्योऽनुप्रयाणमुषसो वि राजति ॥६॥
3815. (७,७३.७ ) उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
3816. (७,७३.७ ) श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥७॥
3817. (७,७३.८ ) हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसा न्यागन् ।
3818. (७,७३.८ ) दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥८॥
3819. (७,७३.९ ) जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् ।
3820. (७,७३.९ ) विश्वा अग्ने अभियुजो विहत्य शत्रूयतामा भरा भोजनानि ॥९॥
3821. (७,७३.१० ) अग्ने शर्ध महते सौभगाय तव द्युम्नान्युत्तमानि सन्तु ।
3822. (७,७३.१० ) सं जास्पत्यं सुयममा कृणुष्व शत्रूयतामभि तिष्ठा महांसि ॥१०॥
3823. (७,७३.११ ) सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।
3824. (७,७३.११ ) अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥११॥
3825. (७,७४.१ ) अपचितां लोहिनीनां कृष्णा मातेति शुश्रुम ।
3826. (७,७४.१ ) मुनेर्देवस्य मूलेन सर्वा विध्यामि ता अहम् ॥१॥
3827. (७,७४.२ ) विध्याम्यासां प्रथमां विध्यामि उत मध्यमाम् ।
3828. (७,७४.२ ) इदं जघन्यामासामा छिनद्मि स्तुकामिव ॥२॥
3829. (७,७४.३ ) त्वाष्ट्रेणाहं वचसा वि त ईर्ष्याममीमदम् ।
3830. (७,७४.३ ) अथो यो मन्युष्टे पते तमु ते शमयामसि ॥३॥
3831. (७,७४.४ ) व्रतेन त्वं व्रतपते समक्तो विश्वाहा सुमना दीदिहीह ।
3832. (७,७४.४ ) तं त्वा वयं जातवेदः समिद्धं प्रजावन्त उप सदेम सर्वे ॥४॥
3833. (७,७५.१ ) प्रजावतीः सूयवसे रुशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
3834. (७,७५.१ ) मा व स्तेन ईशत माघशंसः परि वो रुद्रस्य हेतिर्वृणक्तु ॥१॥
3835. (७,७५.२ ) पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः ।
3836. (७,७५.२ ) उप मा देवीर्देवेभिरेत ।
3837. (७,७५.२ ) इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥२॥
3838. (७,७६.१ ) आ सुस्रसः सुस्रसो असतीभ्यो असत्तराः ।
3839. (७,७६.१ ) सेहोररसतरा हवणाद्विक्लेदीयसीः ॥१॥
3840. (७,७६.२ ) या ग्रैव्या अपचितोऽथो या उपपक्ष्याः ।
3841. (७,७६.२ ) विजाम्नि या अपचितः स्वयंस्रसः ॥२॥
3842. (७,७६.३ ) यः कीकसाः प्रशृणाति तलीद्यमवतिष्ठति ।
3843. (७,७६.३ ) निर्हास्तं सर्वं जायान्यं यः कश्च ककुदि श्रितः ॥३॥
3844. (७,७६.४ ) पक्षी जायान्यः पतति स आ विशति पूरुषम् ।
3845. (७,७६.४ ) तदक्षितस्य भेषजमुभयोः सुक्षतस्य च ॥४॥
3846. (७,७६.५ ) विद्म वै ते जायान्य जानं यतो जायान्य जायसे ।
3847. (७,७६.५ ) कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥१॥
3848. (७,७६.६ ) धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
3849. (७,७६.६ ) माध्यन्दिने सवन आ वृषस्व रयिष्ठानो रयिमस्मासु धेहि ॥२॥
3850. (७,७७.१ ) सांतपना इदं हविर्मरुतस्तज्जुजुष्टन ।
3851. (७,७७.१ ) अस्माकोती रिशादसः ॥१॥
3852. (७,७७.२ ) यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति ।
3853. (७,७७.२ ) द्रुहः पाशान् प्रति मुञ्चतां सस्तपिष्ठेन तपसा हन्तना तम् ॥२॥
3854. (७,७७.३ ) सम्वत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषासः ।
3855. (७,७७.३ ) ते अस्मत्पाशान् प्र मुञ्चन्त्वेनसस्सांतपना मत्सरा मादयिष्णवः ॥३॥
3856. (७,७८.१ ) वि ते मुञ्चामि रशनां वि योक्त्रं वि नियोजनम् ।
3857. (७,७८.१ ) इहैव त्वमजस्र एध्यग्ने ॥१॥
3858. (७,७८.२ ) अस्मै क्षत्राणि धारयन्तमग्ने युनज्मि त्वा ब्रह्मणा दैव्येन ।
3859. (७,७८.२ ) दीदिह्यस्मभ्यं द्रविणेह भद्रं प्रेमं वोचो हविर्दां देवतासु ॥२॥
3860. (७,७९.१ ) यत्ते देवा अकृण्वन् भागधेयममावास्ये संवसन्तो महित्वा ।
3861. (७,७९.१ ) तेना नो यज्ञं पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥१॥
3862. (७,७९.२ ) अहमेवास्म्यमावास्या मामा वसन्ति सुकृतो मयीमे ।
3863. (७,७९.२ ) मयि देवा उभये साद्याश्चेन्द्रज्येष्ठाः समगछन्त सर्वे ॥२॥
3864. (७,७९.३ ) आगन् रात्री सङ्गमनी वसूनामूर्जं पुष्टं वस्वावेशयन्ती ।
3865. (७,७९.३ ) अमावास्यायै हविष विधेमोर्जं दुहाना पयसा न आगन् ॥३॥
3866. (७,७९.४ ) अमावास्ये न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।
3867. (७,७९.४ ) यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयिणाम् ॥४॥
3868. (७,८०.१ ) पौर्णमासी जिगाय ।
3869. (७,८०.१ ) तस्यां देवैः संवसन्तो महित्वा नाकस्य पृष्ठे समिषा मदेम ॥१॥
3870. (७,८०.२ ) वृषभं वाजिनं वयं पौर्णमासं यजामहे ।
3871. (७,८०.२ ) स नो ददात्वक्षितां रयिमनुपदस्वतीम् ॥२॥
3872. (७,८०.३ ) प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परिभूर्जजान ।
3873. (७,८०.३ ) यत्कामास्ते जुहुमस्तन् नो अस्तु वयं स्याम पतयो रयीणाम् ॥३॥
3874. (७,८०.४ ) पौर्णमासी प्रथमा यज्ञियासीदह्नां रात्रीणामतिशर्वरेषु ।
3875. (७,८०.४ ) ये त्वां यज्ञैर्यज्ञिये अर्धयन्त्यमी ते नाके सुकृतः प्रविष्टाः ॥४॥
3876. (७,८१.१ ) पूर्वापरं चरतो मययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
3877. (७,८१.१ ) विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥१॥
3878. (७,८१.२ ) नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।
3879. (७,८१.२ ) भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे धीर्घमायुः ॥२॥
3880. (७,८१.३ ) सोमस्याम्शो युधां पतेऽनूनो नाम वा असि ।
3881. (७,८१.३ ) अनूनं दर्श मा कृधि प्रजया च धनेन च ॥३॥
3882. (७,८१.४ ) दर्शोऽसि दर्शतोऽसि समग्रोऽसि समन्तः ।
3883. (७,८१.४ ) समग्रः समन्तो भूयासं गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥४॥
3884. (७,८१.५ ) योऽस्मान् द्वेष्टि यं वयं द्विष्मस्तस्य त्वं प्राणेना प्यायस्व ।
3885. (७,८१.५ ) आ वयं प्यासिषीमहि गोभिरश्वैः प्रजया पशुभिर्गृहैर्धनेन ॥५॥
3886. (७,८१.६ ) यं देवा अंशुमाप्याययन्ति यमक्षितमक्षिता भक्षयन्ति ।
3887. (७,८१.६ ) तेनास्मान् इन्द्रो वरुणो बृहस्पतिरा प्याययन्तु भुवनस्य गोपाः ॥६॥
3888. (७,८२.१ ) अभ्यर्चत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
3889. (७,८२.१ ) इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ताम् ॥१॥
3890. (७,८२.२ ) मय्यग्रे अग्निं गृह्णामि सह क्षत्रेण वर्चसा बलेन ।
3891. (७,८२.२ ) मयि प्रजां मय्यायुर्दधामि स्वाहा मय्यग्निम् ॥२॥
3892. (७,८२.३ ) इहैवाग्ने अध्य्धारया रयिं मा त्वा नि क्रन् पूर्वचित्ता निकारिणः ।
3893. (७,८२.३ ) क्षत्रेणाग्ने सुयममस्तु तुभ्यमुपसत्ता वर्धतां ते अनिष्टृतः ॥३॥
3894. (७,८२.४ ) अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।
3895. (७,८२.४ ) अनु सूर्य उषसो अनु रश्मीन् अनु द्यावापृथिवी आ विवेश ॥४॥
3896. (७,८२.५ ) प्रत्यग्निरुषसामग्रमख्यत्प्रति अहानि प्रथमो जातवेदाः ।
3897. (७,८२.५ ) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥५॥
3898. (७,८२.६ ) घृतं ते अग्ने दिव्ये सधस्थे घृतेन त्वां मनुरद्या समिन्धे ।
3899. (७,८२.६ ) घृतं ते देवीर्नप्त्य आ वहन्तु घृतं तुभ्यं दुह्रतां गावो अग्ने ॥६॥
3900. (७,८३.१ ) अप्सु ते राजन् वरुण गृहो हिरण्ययो मितः ।
3901. (७,८३.१ ) ततो धृतव्रतो राजा सर्वा धामानि मुञ्चतु ॥१॥
3902. (७,८३.२ ) दाम्नोदाम्नो राजन्न् इतो वरुण मुञ्च नः ।
3903. (७,८३.२ ) यदापो अघ्न्या इति वरुणेति यदूचिम ततो वरुण मुञ्च नः ॥२॥
3904. (७,८३.३ ) उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
3905. (७,८३.३ ) अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥३॥
3906. (७,८३.४ ) प्रास्मत्पाशान् वरुण मुञ्च सर्वान् य उत्तमा अधमा वारुणा ये ।
3907. (७,८३.४ ) दुष्वप्न्यं दुरितं नि ष्वास्मदथ गछेम सुकृतस्य लोकम् ॥४॥
3908. (७,८४.१ ) अनाधृष्यो जातवेदा अमर्त्यो विराडग्ने क्षत्रभृद्दीदिहीह ।
3909. (७,८४.१ ) विश्वा अमीवाः प्रमुञ्चन् मानुषीभिः शिवाभिरद्य परि पाहि नो गयम् ॥१॥
3910. (७,८४.२ ) इन्द्र क्षत्रमभि वाममोजोऽजायथा वृषभ चर्षणीनाम् ।
3911. (७,८४.२ ) अपानुदो जनममित्रयन्तमुरुं देवेभ्यो अकृणोरु लोकम् ॥२॥
3912. (७,८४.३ ) मृगो न भीमः कुचरो गिरिष्ठाः परावत आ जगम्यात्परस्याः ।
3913. (७,८४.३ ) सृकं संशाय पविमिन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥३॥
3914. (७,८५.१ ) त्यमू षु वाजिनं देवजूतं सहोवानं तरुतारं रथानाम् ।
3915. (७,८५.१ ) अरिष्टनेमिं पृतनाजिमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥१॥
3916. (७,८६.१ ) त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
3917. (७,८६.१ ) हुवे नु शक्रं पुरुहूतमिन्द्रं स्वस्ति न इन्द्रो मघवान् कृणोतु ॥१॥
3918. (७,८७.१ ) यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।
3919. (७,८७.१ ) य इमाविश्वा भुवनानि चाकॢपे तस्मै रुद्राय नमो अस्त्वग्नये ॥१॥
3920. (७,८८.१ ) अपेह्यरिरस्यरिर्वा असि विषे विषमपृक्था विषमिद्वा अपृक्थाः ।
3921. (७,८८.१ ) अहिमेवाभ्यपेहि तं जहि ॥१॥
3922. (७,८९.१ ) अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।
3923. (७,८९.१ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१॥
3924. (७,८९.२ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
3925. (७,८९.२ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥२॥
3926. (७,८९.३ ) इदमापः प्र वहतावद्यं च मलं च यत्।
3927. (७,८९.३ ) यच्चाभिदुद्रोहानृतं यच्च शेपे अभीरुणम् ॥३॥
3928. (७,८९.४ ) एधोऽस्येधिषीय समिदसि समेधिषीय ।
3929. (७,८९.४ ) तेजोऽसि तेजो मयि धेहि ॥४॥
3930. (७,९०.१ ) अपि वृश्च पुराणवद्व्रततेरिव गुष्पितम् ।
3931. (७,९०.१ ) ओजो दासस्य दम्भय ॥१॥
3932. (७,९०.२ ) वयं तदस्य सम्भृतं वस्विन्द्रेन वि भजामहै ।
3933. (७,९०.२ ) म्लापयामि भ्रजः शिभ्रं वरुणस्य व्रतेन ते ॥२॥
3934. (७,९०.३ ) यथा शेपो अपायातै स्त्रीषु चासदनावयाः ।
3935. (७,९०.३ ) अवस्थस्य क्नदीवतः शाङ्कुरस्य नितोदिनः ।
3936. (७,९०.३ ) यदाततमव तत्तनु यदुत्ततं नि तत्तनु ॥३॥
3937. (७,९१.१ ) इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।
3938. (७,९१.१ ) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥१॥
3939. (७,९२.१ ) स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।
3940. (७,९२.१ ) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥१॥
3941. (७,९३.१ ) इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः ।
3942. (७,९३.१ ) घ्नन्तो वृत्राण्यप्रति ॥१॥
3943. (७,९४.१ ) ध्रुवं ध्रुवेण हविषाव सोमं नयामसि ।
3944. (७,९४.१ ) यथा न इन्द्रः केवलीर्विशः संमनसस्करत्॥१॥
3945. (७,९५.१ ) उदस्य श्यावौ विथुरौ गृध्रौ द्यामिव पेततुः ।
3946. (७,९५.१ ) उच्छोचनप्रशोचनवस्योच्छोचनौ हृदः ॥१॥
3947. (७,९५.२ ) अहमेनावुदतिष्ठिपं गावौ श्रान्तसदाविव ।
3948. (७,९५.२ ) कुर्कुराविव कूजन्तावुदवन्तौ वृकाविव ॥२॥
3949. (७,९५.३ ) आतोदिनौ नितोदिनावथो संतोदिनावुत ।
3950. (७,९५.३ ) अपि नह्याम्यस्य मेढ्रं य इतः स्त्री पुमान् जभार ॥३॥
3951. (७,९६.१ ) असदन् गावः सदनेऽपप्तद्वसतिं वयः ।
3952. (७,९६.१ ) आस्थाने पर्वता अस्थुः स्थाम्नि वृक्कावतिष्ठिपम् ॥१॥
3953. (७,९७.१ ) यदद्य त्वा प्रयति यज्ञे अस्मिन् होतश्चिकित्वन्न् अवृणीमहीह ।
3954. (७,९७.१ ) ध्रुवमयो ध्रुवमुता शविष्ठैप्रविद्वान् यज्ञमुप याहि सोमम् ॥१॥
3955. (७,९७.२ ) समिन्द्र नो मनसा नेष गोभिः सं सूरिभिर्हरिवन्त्सं स्वस्त्या ।
3956. (७,९७.२ ) सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमतौ यज्ञियानाम् ॥२॥
3957. (७,९७.३ ) यान् आवह उशतो देव देवांस्तान् प्रेरय स्वे अग्ने सधस्थे ।
3958. (७,९७.३ ) जक्षिवांसः पपिवांसो मधून्यस्मै धत्त वसवो वसूनि ॥३॥
3959. (७,९७.४ ) सुगा वो देवाः सदना अकर्म य आजग्म सवने मा जुषाणाः ।
3960. (७,९७.४ ) वहमाना भरमाणाः स्वा वसूनि वसुं घर्मं दिवमा रोहतानु ॥४॥
3961. (७,९७.५ ) यज्ञ यज्ञं गछ यज्ञपतिं गछ ।
3962. (७,९७.५ ) स्वां योनिं गछ स्वाहा ॥५॥
3963. (७,९७.६ ) एष ते यज्ञो यज्ञपते सहसूक्तवाकः ।
3964. (७,९७.६ ) सुवीर्यः स्वाहा ॥६॥
3965. (७,९७.७ ) वषड्धुतेभ्यो वषडहुतेभ्यः ।
3966. (७,९७.७ ) देवा गातुविदो गातुं वित्त्वा गातुमित ॥७॥
3967. (७,९७.८ ) मनसस्पत इमं नो दिवि देवेषु यज्ञम् ।
3968. (७,९७.८ ) स्वाहा दिवि स्वाहा पृथिव्यां स्वाहान्तरिक्षे स्वाहा वाते धां स्वाहा ॥८॥
3969. (७,९८.१ ) सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः ।
3970. (७,९८.१ ) सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥१॥
3971. (७,९९.१ ) परि स्तृणीहि परि धेहि वेदिं मा जामिं मोषीरमुया शयानाम् ।
3972. (७,९९.१ ) होतृषदनं हरितं हिरण्ययं निष्का एते यजमानस्य लोके ॥१॥
3973. (७,१००.१ ) पर्यावर्ते दुष्वप्न्यात्पापात्स्वप्न्यादभूत्याः ।
3974. (७,१००.१ ) ब्रह्माहमन्तरं कृण्वे परा स्वप्नमुखाः शुचः ॥१॥
3975. (७,१०१.१ ) यत्स्वप्ने अन्नमश्नामि न प्रातरधिगम्यते ।
3976. (७,१०१.१ ) सर्वं तदस्तु मे शिवं नहि तद्दृष्यते दिवा ॥१॥
3977. (७,१०२.१ ) नमस्कृत्य द्यावापृथिवीभ्यामन्तरिक्षाय मृत्यवे ।
3978. (७,१०२.१ ) मेक्षाम्यूर्ध्वस्तिष्ठन् मा मा हिंसिषुरीश्वराः ॥१॥
3979. (७,१०३.१ ) को अस्या नो द्रुहोऽवद्यवत्या उन् नेष्यति क्षत्रियो वस्य इछन् ।
3980. (७,१०३.१ ) को यज्ञकामः क उ पूर्तिकामः को देवेषु वनुते दीर्घमायुः ॥१॥
3981. (७,१०४.१ ) कः पृश्निं धेनुं वरुणेन दत्तामथर्वने सुदुघां नित्यवत्साम् ।
3982. (७,१०४.१ ) बृहस्पतिना सख्यं जुषणो यथावशं तन्वः कल्पयाति ॥१॥
3983. (७,१०५.१ ) अपक्रामन् पौरुषेयाद्वृणानो दैव्यं वचः ।
3984. (७,१०५.१ ) प्रणीतीरभ्यावर्तस्व विश्वेभिः सखिभिः सह ॥१॥
3985. (७,१०६.१ ) यदस्मृति चकृम किं चिदग्न उपारिम चरणे जातवेदः ।
3986. (७,१०६.१ ) ततः पाहि त्वं नः प्रचेतः शुभे सखिभ्यो अमृतत्वमस्तु नः ॥१॥
3987. (७,१०७.१ ) अव दिवस्तारयन्ति सप्त सूर्यस्य रश्मयः ।
3988. (७,१०७.१ ) आपः समुद्रिया धारास्तास्शल्यमसिस्रसन् ॥१॥
3989. (७,१०८.१ ) यो न स्तायद्दिप्सति यो न आविः स्वो विद्वान् अरणो वा नो अग्ने ।
3990. (७,१०८.१ ) प्रतीच्येत्वरणी दत्वती तान् मैषामग्ने वास्तु भून् मो अपत्यम् ॥१॥
3991. (७,१०८.२ ) यो नः सुप्तान् जाग्रतो वाभिदासात्तिष्ठतो वा चरतो जातवेदः ।
3992. (७,१०८.२ ) वैश्वानरेण सयुजा सजोषास्तान् प्रतीचो निर्दह जातवेदः ॥२॥
3993. (७,१०९.१ ) इदमुग्राय बभ्रवे नमो यो अक्षेषु तनूवशी ।
3994. (७,१०९.१ ) घृतेन कलिं शिक्षामि स नो मृडातीदृशे ॥१॥
3995. (७,१०९.२ ) घृतमप्सराभ्यो वह त्वमग्ने पांसून् अक्षेभ्यः सिकता अपश्च ।
3996. (७,१०९.२ ) यथाभगं हव्यदातिं जुषाणा मदन्ति देवा उभयानि हव्या ॥२॥
3997. (७,१०९.३ ) अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।
3998. (७,१०९.३ ) ता मे हस्तौ सं सृजन्तु घृतेन सपत्नं मे कितवं रन्धयन्तु ॥३॥
3999. (७,१०९.४ ) आदिनवं प्रतिदीव्ने घृतेनास्मामभि क्षर ।
4000. (७,१०९.४ ) वृक्षमिवाशन्या जहि यो अस्मान् प्रतिदीव्यति ॥४॥
4001. (७,१०९.५ ) यो नो द्युवे धनमिदं चकार यो अक्षाणां ग्लहनं शेषणं च ।
4002. (७,१०९.५ ) स नो देवो हविरिदं जुषाणो गन्धर्वेभिः सधमादं मदेम ॥५॥
4003. (७,१०९.६ ) संवसव इति वो नामधेयमुग्रंपश्या राष्ट्रभृतो ह्यक्षाः ।
4004. (७,१०९.६ ) तेभ्यो व इन्दवो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥६॥
4005. (७,१०९.७ ) देवान् यन् नाथितो हुवे ब्रह्मचर्यं यदूषिम ।
4006. (७,१०९.७ ) अक्षान् यद्बभ्रून् आलभे ते नो मृडन्त्वीदृशे ॥७॥
4007. (७,११०.१ ) अग्न इन्द्रश्च दाशुषे हतो वृत्राण्यप्रति ।
4008. (७,११०.१ ) उभा हि वृत्रहन्तमा ॥१॥
4009. (७,११०.२ ) याभ्यामजयन्त्स्वरग्र एव यावातस्थतुर्भुवनानि विश्वा ।
4010. (७,११०.२ ) प्र चर्षणीवृषणा वज्रबाहू अग्निमिन्द्रं वृत्रहणा हुवेऽहम् ॥२॥
4011. (७,११०.३ ) उप त्वा देवो अग्रमीच्चमसेन बृहस्पतिः ।
4012. (७,११०.३ ) इन्द्र गीर्भिर्न आ विश यजमानाय सुन्वते ॥३॥
4013. (७,१११.१ ) इन्द्रस्य कुक्षिरसि सोमधान आत्मा देवानामुत मानुषाणाम् ।
4014. (७,१११.१ ) इह प्रजा जनय यास्त आसु या अन्यत्रेह तास्ते रमन्ताम् ॥१॥
4015. (७,११२.१ ) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
4016. (७,११२.१ ) आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥१॥
4017. (७,११२.२ ) मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत ।
4018. (७,११२.२ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२॥
4019. (७,११३.१ ) तृष्टिके तृष्टवन्दन उदमूं छिन्धि तृष्टिके ।
4020. (७,११३.१ ) यथा कृतद्विष्टासोऽमुष्मै शेप्यावते ॥१॥
4021. (७,११३.२ ) तृष्टासि तृष्टिका विषा विषातक्यसि ।
4022. (७,११३.२ ) परिवृक्ता यथासस्यृषभस्य वशेव ॥२॥
4023. (७,११४.१ ) आ ते ददे वक्षणाभ्य आ तेऽहं हृदयाद्ददे ।
4024. (७,११४.१ ) आ ते मुखस्य सङ्काशात्सर्वं ते वर्च आ ददे ॥१॥
4025. (७,११४.२ ) प्रेतो यन्तु व्याध्यः प्रानुध्याः प्रो अशस्तयः ।
4026. (७,११४.२ ) अग्नी रक्षस्विनीर्हन्तु सोमो हन्तु दुरस्यतीः ॥२॥
4027. (७,११५.१ ) प्र पतेतः पापि लक्ष्मि नश्येतः प्रामुतः पत ।
4028. (७,११५.१ ) अयस्मयेनाङ्केन द्विषते त्वा सजामसि ॥१॥
4029. (७,११५.२ ) या मा लक्ष्मीः पतयालूरजुष्टाभिचस्कन्द वन्दनेव वृक्षम् ।
4030. (७,११५.२ ) अन्यत्रास्मत्सवितस्तामितो धा हिरण्यहस्तो वसु नो रराणः ॥२॥
4031. (७,११५.३ ) एकशतं लक्ष्म्यो मर्त्यस्य साकं तन्वा जनुषोऽधि जाताः ।
4032. (७,११५.३ ) तासां पापिष्ठा निरितः प्र हिण्मः शिवा अस्मभ्यं जातवेदो नियछ ॥३॥
4033. (७,११५.४ ) एता एना व्याकरं खिले गा विष्ठिता इव ।
4034. (७,११५.४ ) रमन्तां पुण्या लक्ष्मीर्याः पापीस्ता अनीनशम् ॥४॥
4035. (७,११६.१ ) नमो रूराय च्यवनाय नोदनाय धृष्णवे ।
4036. (७,११६.१ ) नमः शीताय पूर्वकामकृत्वने ॥१॥
4037. (७,११६.२ ) यो अन्येद्युरुभयद्युरभ्येतीमं मण्डूकम् ।
4038. (७,११६.२ ) अभ्येत्वव्रतः ॥२॥
4039. (७,११७.१ ) आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
4040. (७,११७.१ ) मा त्वा के चिद्वि यमन् विं न पाशिनोऽति धन्वेव तामिहि ॥१॥
4041. (७,११८.१ ) मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
4042. (७,११८.१ ) उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥१॥
4043. (८,१.१ ) अन्तकाय मृत्यवे नमः प्राना अपाना इह ते रमन्ताम् ।
4044. (८,१.१ ) इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥१॥
4045. (८,१.२ ) उदेनं भगो अग्रभीदुदेनं सोमो अंशुमान् ।
4046. (८,१.२ ) उदेनं मरुतो देवा उदिन्द्राग्नी स्वस्तये ॥२॥
4047. (८,१.३ ) इह तेऽसुरिह प्राण इहायुरिह ते मनः ।
4048. (८,१.३ ) उत्त्वा निरृत्याः पाशेभ्यो दैव्या वचा भरामसि ॥३॥
4049. (८,१.४ ) उत्क्रामातः पुरुष माव पत्था मृत्योः पड्वीषमवमुञ्चमानः ।
4050. (८,१.४ ) मा छित्था अस्माल्लोकादग्नेः सूर्यस्य संदृशः ॥४॥
4051. (८,१.५ ) तुभ्यं वातः पवतां मातरिश्वा तुभ्यं वर्षन्त्वमृतान्यापः ।
4052. (८,१.५ ) सूर्यस्ते तन्वे शं तपाति त्वां मृत्युर्दयतां मा प्र मेष्ठाः ॥५॥
4053. (८,१.६ ) उद्यानं ते पुरुष नावयानं जीवातुं ते दक्षतातिं कृनोमि ।
4054. (८,१.६ ) आ हि रोहेमममृतं सुखं रथमथ जिर्विर्विदथमा वदासि ॥६॥
4055. (८,१.७ ) मा ते मनस्तत्र गान् मा तिरो भून् मा जीवेभ्यः प्र मदो मानु गाः पितॄन् ।
4056. (८,१.७ ) विश्वे देवा अभि रक्षन्तु त्वेह ॥७॥
4057. (८,१.८ ) मा गतानामा दीधीथा ये नयन्ति परावतम् ।
4058. (८,१.८ ) आ रोह तमसो ज्योतिरेह्या ते हस्तौ रभामहे ॥८॥
4059. (८,१.९ ) श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ ।
4060. (८,१.९ ) अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥९॥
4061. (८,१.१० ) मैतं पन्थामनु गा भीम एष येन पूर्वं नेयथ तं ब्रवीमि ।
4062. (८,१.१० ) तम एतत्पुरुष मा प्र पत्था भयं परस्तादभयं ते अर्वाक्॥१०॥ {१}
4063. (८,१.११ ) रक्षन्तु त्वाग्नयो ये अप्स्वन्ता रक्षतु त्वा मनुष्या यमिन्धते ।
4064. (८,१.११ ) वैश्वानरो रक्षतु जातवेदा दिव्यस्त्वा मा प्र धाग्विद्युता सह ॥११॥
4065. (८,१.१२ ) मा त्वा क्रव्यादभि मंस्तारात्संकसुकाच्चर रक्षतु त्वा द्यौ रक्षतु ।
4066. (८,१.१२ ) पृथिवी सूर्यश्च त्वा रक्षतां चन्द्रमाश्च ।
4067. (८,१.१२ ) अन्तरिक्षं रक्षतु देवहेत्याः ॥१२॥
4068. (८,१.१३ ) बोधश्च त्वा प्रतिबोधश्च रक्षतामस्वप्नश्च त्वानवद्राणश्च रक्षताम् ।
4069. (८,१.१३ ) गोपायंश्च त्वा जागृविश्च रक्षताम् ॥१३॥
4070. (८,१.१४ ) ते त्वा रक्षन्तु ते त्वा गोपायन्तु तेभ्यो नमस्तेभ्यः स्वाहा ॥१४॥
4071. (८,१.१५ ) जीवेभ्यस्त्वा समुदे वायुरिन्द्रो धाता दधातु सविता त्रायमाणः ।
4072. (८,१.१५ ) मा त्वा प्राणो बलं हासीदसुं तेऽनु ह्वयामसि ॥१५॥
4073. (८,१.१६ ) मा त्वा जम्भः संहनुर्मा तमो विदन् मा जिह्वा बर्हिस्प्रमयुः कथा स्याः ।
4074. (८,१.१६ ) उत्त्वादित्या वसवो भरन्तूदिन्द्राग्नी स्वस्तये ॥१६॥
4075. (८,१.१७ ) उत्त्वा द्यौरुत्पृथिव्युत्प्रजापतिरग्रभीत्।
4076. (८,१.१७ ) उत्त्वा मृत्योरोषधयः सोमराज्ञीरपीपरन् ॥१७॥
4077. (८,१.१८ ) अयं देवा इहैवास्त्वयं मामुत्र गादितः ।
4078. (८,१.१८ ) इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥१८॥
4079. (८,१.१९ ) उत्त्वा मृत्योरपीपरं सं धमन्तु वयोधसः ।
4080. (८,१.१९ ) मा त्वा व्यस्तकेश्यो मा त्वाघरुदो रुदन् ॥१९॥
4081. (८,१.२० ) आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।
4082. (८,१.२० ) सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥२०॥
4083. (८,१.२१ ) व्यवात्ते ज्योतिरभूदप त्वत्तमो अक्रमीत्।
4084. (८,१.२१ ) अप त्वन् मृत्युं निरृतिमप यक्ष्मं नि दध्मसि ॥२१॥ {२}
4085. (८,२.१ ) आ रभस्वेमाममृतस्य श्नुष्टिमछिद्यमाना जरदष्टिरस्तु ते ।
4086. (८,२.१ ) असुं त आयुः पुनरा भरामि रजस्तमो मोप गा मा प्र मेष्ठाः ॥१॥
4087. (८,२.२ ) जीवतां ज्योतिरभ्येह्यर्वाङा त्वा हरामि शतशारदाय ।
4088. (८,२.२ ) अवमुञ्चन् मृत्युपाशान् अशस्तिं द्राघीय आयुः प्रतरं ते दधामि ॥२॥
4089. (८,२.३ ) वातात्ते प्रानमविदं सूर्याच्चक्षुरहं तव ।
4090. (८,२.३ ) यत्ते मनस्त्वयि तद्धारयामि सं वित्स्वाङ्गैर्वद जिह्वयालपन् ॥३॥
4091. (८,२.४ ) प्राणेन त्वा द्विपदां चतुष्पदामग्निमिव जातमभि सं धमामि ।
4092. (८,२.४ ) नमस्ते मृत्यो चक्षुषे नमः प्राणाय तेऽकरम् ॥४॥
4093. (८,२.५ ) अयं जीवतु मा मृतेमं समीरयामसि ।
4094. (८,२.५ ) कृणोम्यस्मै भेषजं मृत्यो मा पुरुषं वधीः ॥५॥
4095. (८,२.६ ) जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
4096. (८,२.६ ) त्रायमाणां सहमानां सहस्वतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
4097. (८,२.७ ) अधि ब्रूहि मा रभथाः सृजेमं तवैव सन्त्सर्वहायाः इहास्तु ।
4098. (८,२.७ ) भवाशर्वौ मृडतं शर्म यछतमपसिध्य दुरितं धत्तमायुः ॥७॥
4099. (८,२.८ ) अस्मै मृत्यो अधि ब्रूहीमं दयस्वोदितोऽयमेतु ।
4100. (८,२.८ ) अरिष्टः सर्वाङ्गः सुश्रुज्जरसा शतहायन आत्मना भुजमश्नुताम् ॥८॥
4101. (८,२.९ ) देवानां हेतिः परि त्वा वृणक्तु पारयामि त्वा रजस उत्त्वा मृत्योरपीपरम् ।
4102. (८,२.९ ) आरादग्निं क्रव्यादं निरूहं जीवातवे ते परिधिं दधामि ॥९॥
4103. (८,२.१० ) यत्ते नियानं रजसं मृत्यो अनवधर्ष्यम् ।
4104. (८,२.१० ) पथ इमं तस्माद्रक्षन्तो ब्रह्मास्मै वर्म कृण्मसि ॥१०॥ {३}
4105. (८,२.११ ) कृणोमि ते प्राणापानौ जरां मृत्युं दीर्घमायुः स्वस्ति ।
4106. (८,२.११ ) वैवस्वतेन प्रहितान् यमदूतांश्चरतोऽप सेधामि सर्वान् ॥११॥
4107. (८,२.१२ ) आरादरातिं निरृतिं परो ग्राहिं क्रव्यादः पिशाचान् ।
4108. (८,२.१२ ) रक्षो यत्सर्वं दुर्भूतं तत्तम इवाप हन्मसि ॥१२॥
4109. (८,२.१३ ) अग्नेष्ट प्रानममृतादायुष्मतो वन्वे जातवेदसः ।
4110. (८,२.१३ ) यथा न रिष्या अमृतः सजूरसस्तत्ते कृणोमि तदु ते समृध्यताम् ॥१३॥
4111. (८,२.१४ ) शिवे ते स्तां द्यावापृथिवी असंतापे अभिश्रियौ ।
4112. (८,२.१४ ) शं ते सूर्य आ तपतु शं वातो वातु ते हृदे ।
4113. (८,२.१४ ) शिवा अभि क्षरन्तु त्वापो दिव्याः पयस्वतीः ॥१४॥
4114. (८,२.१५ ) शिवास्ते सन्त्वोषधय उत्त्वाहार्षमधरस्या उत्तरां पृथिवीमभि ।
4115. (८,२.१५ ) तत्र त्वादित्यौ रक्षतां सूर्याचन्द्रमसावुभा ॥१५॥
4116. (८,२.१६ ) यत्ते वासः परिधानं यां नीविं कृणुषे त्वम् ।
4117. (८,२.१६ ) शिवं ते तन्वे तत्कृण्मः संस्पर्शेऽद्रूक्ष्णमस्तु ते ॥१६॥
4118. (८,२.१७ ) यत्क्षुरेण मर्चयता सुतेजसा वप्ता वपसि केशश्मश्रु ।
4119. (८,२.१७ ) शुभं मुखं मा न आयुः प्र मोषीः ॥१७॥
4120. (८,२.१८ ) शिवौ ते स्तां व्रीहियवावबलासावदोमधौ ।
4121. (८,२.१८ ) एतौ यक्ष्मं वि बाधेते एतौ मुञ्चतो अंहसः ॥१८॥
4122. (८,२.१९ ) यदश्नासि यत्पिबसि धान्यं कृष्याः पयः ।
4123. (८,२.१९ ) यदाद्यं यदनाद्यं सर्वं ते अन्नमविषं कृणोमि ॥१९॥
4124. (८,२.२० ) अह्ने च त्वा रात्रये चोभाभ्यां परि दद्मसि ।
4125. (८,२.२० ) अरायेभ्यो जिघत्सुभ्य इमं मे परि रक्षत ॥२०॥ {४}
4126. (८,२.२१ ) शतं तेऽयुतं हायनान् द्वे युगे त्रीणि चत्वारि कृण्मः ।
4127. (८,२.२१ ) इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥२१॥
4128. (८,२.२२ ) शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि ।
4129. (८,२.२२ ) वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥२२॥
4130. (८,२.२३ ) मृत्युरीशे द्विपदां मृत्युरीशे चतुष्पदाम् ।
4131. (८,२.२३ ) तस्मात्त्वां मृत्योर्गोपतेरुद्भरामि स मा बिभेः ॥२३॥
4132. (८,२.२४ ) सोऽरिष्ट न मरिष्यसि न मरिष्यसि मा बिभेः ।
4133. (८,२.२४ ) न वै तत्र म्रियन्ते नो यन्ति अधमं तमः ॥२४॥
4134. (८,२.२५ ) सर्वो वै तत्र जीवति गौरश्वः पुरुषः पशुः ।
4135. (८,२.२५ ) यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कम् ॥२५॥
4136. (८,२.२६ ) परि त्वा पातु समानेभ्योऽभिचारात्सबन्धुभ्यः ।
4137. (८,२.२६ ) अमम्रिर्भवामृतोऽतिजीवो मा ते हासिषुरसवः शरीरम् ॥२६॥
4138. (८,२.२७ ) ये मृत्यव एकशतं या नाष्ट्रा अतितार्याः ।
4139. (८,२.२७ ) मुञ्चन्तु तस्मात्त्वां देवा अग्नेर्वैश्वानरादधि ॥२७॥
4140. (८,२.२८ ) अग्नेः शरीरमसि पारयिष्णु रक्षोहासि सपत्नहा ।
4141. (८,२.२८ ) अथो अमीवचातनः पूतुद्रुर्नाम भेषजम् ॥२८॥ {५}
4142. (८,३.१ ) रक्षोहणं वाजिनमा जिघर्मि मित्रं प्रथिष्ठमुप यामि शर्म ।
4143. (८,३.१ ) शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा स रिषः पातु नक्तम् ॥१॥
4144. (८,३.२ ) अयोदंष्ट्रो अर्चिषा यातुधानान् उप स्पृश जातवेदः समिद्धः ।
4145. (८,३.२ ) आ जिह्वया मूरदेवान् रभस्व क्रव्यादो वृष्ट्वापि धत्स्वासन् ॥२॥
4146. (८,३.३ ) उभोभयाविन्न् उप धेहि दंष्ट्रौ हिंस्रः शिशानोऽवरं परं च ।
4147. (८,३.३ ) उतान्तरिक्षे परि याह्यग्ने जम्भैः सं धेह्यभि यातुधानान् ॥३॥
4148. (८,३.४ ) अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् ।
4149. (८,३.४ ) प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोत्वेनम् ॥४॥
4150. (८,३.५ ) यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् ।
4151. (८,३.५ ) उतान्तरिक्षे पतन्तं यातुधानं तमस्ता विध्य शर्वा शिशानः ॥५॥
4152. (८,३.६ ) यज्ञैरिषूः संनममानो अग्ने इवाचा शल्यामशनिभिर्दिहानः ।
4153. (८,३.६ ) ताभिर्विध्य हृदये यातुधानान् प्रतीचो बाहून् प्रति भङ्ग्ध्येषाम् ॥६॥
4154. (८,३.७ ) उतारब्धान्त्स्पृनुहि जातवेद उतारेभाणामृष्टिभिर्यातुधानान् ।
4155. (८,३.७ ) अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥७॥
4156. (८,३.८ ) इह प्र ब्रूहि यतमः सो अग्ने यातुधानो य इदं कृणोति ।
4157. (८,३.८ ) तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥८॥
4158. (८,३.९ ) तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः ।
4159. (८,३.९ ) हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन् यातुधाना नृचक्षः ॥९॥
4160. (८,३.१० ) नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा ।
4161. (८,३.१० ) तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥१०॥ {६}
4162. (८,३.११ ) त्रिर्यातुधानः प्रसितिं त एत्वृतं यो अग्ने अनृतेन हन्ति ।
4163. (८,३.११ ) तमर्चिषा स्फूर्जयन् जातवेदः समक्षमेनं गृणते नि युङ्ग्धि ॥११॥
4164. (८,३.१२ ) यदग्ने अद्य मिथुना शपातो यद्वाचस्तृष्टं जनयन्त रेभाः ।
4165. (८,३.१२ ) मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१२॥
4166. (८,३.१३ ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
4167. (८,३.१३ ) परार्चिषा मूरदेवान् छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१३॥
4168. (८,३.१४ ) पराद्य देवा वृजिनं शृणन्तु प्रत्यगेनं शपथा यन्तु सृष्टाः ।
4169. (८,३.१४ ) वाचास्तेनं शरव ऋछन्तु मर्मन् विश्वस्यैतु प्रसितिं यातुधानः ॥१४॥
4170. (८,३.१५ ) यः पौरुषेयेण क्रविषा समङ्क्ते यो अश्व्येन पशुना यातुधानः ।
4171. (८,३.१५ ) यो अघ्न्याया भरति क्षीरमग्ने तेषां शीर्षाणि हरसापि वृश्च ॥१५॥
4172. (८,३.१६ ) विषं गवां यातुधाना भरन्तामा वृश्चन्तामदितये दुरेवाः ।
4173. (८,३.१६ ) परैणान् देवः सविता ददातु परा भागमोषधीनां जयन्ताम् ॥१६॥
4174. (८,३.१७ ) संवत्सरीणं पय उस्रियायास्तस्य माशीद्यातुधानो नृचक्षः ।
4175. (८,३.१७ ) पीयूषमग्ने यतमस्तितृप्सात्तं प्रत्यञ्चमर्चिषा विध्य मर्मणि ॥१७॥
4176. (८,३.१८ ) सनादग्ने मृणसि यातुधानान् न त्वा रक्षांसि पृतनासु जिग्युः ।
4177. (८,३.१८ ) सहमूरान् अनु दह क्रव्यादो मा ते हेत्या मुक्षत दैव्यायाः ॥१८॥
4178. (८,३.१९ ) त्वं नो अग्ने अधरादुदक्तस्त्वं पश्चादुत रक्षा पुरस्तात्।
4179. (८,३.१९ ) प्रति त्ये ते अजरासस्तपिष्ठा अघशंसं शोशुचतो दहन्तु ॥१९॥
4180. (८,३.२० ) पश्चात्पुरस्तादधरादुतोत्तरात्कविः काव्येन परि पाह्यग्ने ।
4181. (८,३.२० ) सखा सखायमजरो जरिम्ने अग्ने मर्ताममर्त्यस्त्वं नः ॥२०॥ {७}
4182. (८,३.२१ ) तदग्ने चक्षुः प्रति धेहि रेभे शफारुजो येन पश्यसि यातुधानान् ।
4183. (८,३.२१ ) अथर्ववज्ज्योतिषा दैव्येन सत्यं धूर्वन्तमचितं न्योष ॥२१॥
4184. (८,३.२२ ) परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि ।
4185. (८,३.२२ ) धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥२२॥
4186. (८,३.२३ ) विषेण भङ्गुरावतः प्रति स्म रक्षसो जहि ।
4187. (८,३.२३ ) अग्ने तिग्मेन शोचिषा तपुरग्राभिरर्चिभिः ॥२३॥
4188. (८,३.२४ ) वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
4189. (८,३.२४ ) प्रादेवीर्मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षोभ्यो विनिक्षे ॥२४॥
4190. (८,३.२५ ) ये ते शृङ्गे अजरे जातवेदस्तिग्महेती ब्रह्मसंशिते ।
4191. (८,३.२५ ) ताभ्यां दुर्हार्दमभिदासन्तं किमीदिनम् ।
4192. (८,३.२५ ) प्रत्यञ्चमर्चिषा जातवेदो वि निक्ष्व ॥२५॥
4193. (८,३.२६ ) अग्नी रक्षांसि सेधति शुक्रशोचिरमर्त्यः ।
4194. (८,३.२६ ) शुचिः पावक ईड्यः ॥२६॥ {८}
4195. (८,४.१ ) इन्द्रासोमा तपतं रक्ष उब्जतं न्यर्पयतं वृषणा तमोवृधः ।
4196. (८,४.१ ) परा शृणीतमचितो न्योषतं हतं नुदेथां नि शिशीतमत्त्रिणः ॥१॥
4197. (८,४.२ ) इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमामिव ।
4198. (८,४.२ ) ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥२॥
4199. (८,४.३ ) इन्द्रासोमा दुष्कृतो वव्रे अन्तरनारम्भणे तमसि प्र विध्यतम् ।
4200. (८,४.३ ) यतो नैषां पुनरेकश्चनोदयत्तद्वामस्तु सहसे मन्युमच्छवः ॥३॥
4201. (८,४.४ ) इन्द्रासोमा वर्तयतं दिवो वधं सं पृथिव्या अघशंसाय तर्हणम् ।
4202. (८,४.४ ) उत्तक्षतं स्वर्यं१ पर्वतेभ्यो येन रक्षो वावृधानं निजूर्वथः ॥४॥
4203. (८,४.५ ) इन्द्रासोमा वर्तयतं दिवस्पर्यग्नितप्तेभिर्युवमश्महन्मभिः ।
4204. (८,४.५ ) तपुर्वधेभिरजरेभिरत्त्रिणो नि पर्शाने विध्यतं यन्तु निस्वरम् ॥५॥
4205. (८,४.६ ) इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना ।
4206. (८,४.६ ) यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥६॥
4207. (८,४.७ ) प्रति स्मरेथां तुजयद्भिरेवैर्हतं द्रुहो रक्षसो भङ्गुरावतः ।
4208. (८,४.७ ) इन्द्रासोमा दुष्कृते मा सुगं भूद्यो मा कदा चिदभिदासति द्रुहुः ॥७॥
4209. (८,४.८ ) यो मा पाकेन मनसा चरन्तमभिचष्टे अनृतेभिर्वचोभिः ।
4210. (८,४.८ ) आप इव काशिना सम्गृभीता असन्न् अस्त्वसतः इन्द्र वक्ता ॥८॥
4211. (८,४.९ ) ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः ।
4212. (८,४.९ ) अहये वा तान् प्रददातु सोम आ वा दधातु निरृतेरुपष्ठे ॥९॥
4213. (८,४.१० ) यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम् ।
4214. (८,४.१० ) रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥१०॥ {९}
4215. (८,४.११ ) परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः ।
4216. (८,४.११ ) प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥११॥
4217. (८,४.१२ ) सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते ।
4218. (८,४.१२ ) तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यसत्॥१२॥
4219. (८,४.१३ ) न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम् ।
4220. (८,४.१३ ) हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥१३॥
4221. (८,४.१४ ) यदि वाहमनृतदेवो अस्मि मोघं वा देवामप्यूहे अग्ने ।
4222. (८,४.१४ ) किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥१४॥
4223. (८,४.१५ ) अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पुरुषस्य ।
4224. (८,४.१५ ) अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥१५॥
4225. (८,४.१६ ) यो मायातुं यातुधानेत्याह यो वा रक्षाः शिचिरस्मीत्याह ।
4226. (८,४.१६ ) इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥१६॥
4227. (८,४.१७ ) प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं१ गूहमाना ।
4228. (८,४.१७ ) वव्रमनन्तमव सा पदीष्टिअ ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥१७॥
4229. (८,४.१८ ) वि तिष्ठध्वं मरुतो विक्ष्विछत गृभायत रक्षसः सं पिनष्टन् ।
4230. (८,४.१८ ) वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥१८॥
4231. (८,४.१९ ) प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि ।
4232. (८,४.१९ ) प्राक्तो अपाक्तो अधरादुदक्तोऽभि जहि रक्षसः पर्वतेन ॥१९॥
4233. (८,४.२० ) एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम् ।
4234. (८,४.२० ) शिशीते शक्रः पिशुनेभ्यो वधं नुनं सृजदशनिं यातुमद्भ्यः ॥२०॥ {१०}
4235. (८,४.२१ ) इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम् ।
4236. (८,४.२१ ) अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥२१॥
4237. (८,४.२२ ) उलूकयातुं शुशुलूकयातुं जहि श्वयातुमुत कोकयातुम् ।
4238. (८,४.२२ ) सुपर्णयातुमुत गृध्रयातुं दृषदेव प्र मृण रक्ष इन्द्र ॥२२॥
4239. (८,४.२३ ) मा नो रक्षो अभि नड्यातुमावदपोछन्तु मिथुना ये किमीदिनः ।
4240. (८,४.२३ ) पृथिवी नः पार्थिवात्पात्वंहसोऽन्तरिक्षं दिव्यात्पात्वस्मान् ॥२३॥
4241. (८,४.२४ ) इन्द्र जहि पुमांसं यातुधानमुत स्त्रियं मायया शाशदानाम् ।
4242. (८,४.२४ ) विग्रीवासो मूरदेवा ऋदन्तु मा ते दृशन्त्सूर्यमुच्चरन्तम् ॥२४॥
4243. (८,४.२५ ) प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम् ।
4244. (८,४.२५ ) रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥२५॥ {११}
4245. (८,५.१ ) अयं प्रतिसरो मणिर्वीरो वीराय बध्यते ।
4246. (८,५.१ ) वीर्यवान्त्सपत्नहा शूरवीरः परिपाणः सुमङ्गलः ॥१॥
4247. (८,५.२ ) अयं मणिः सपत्नहा सुवीरः सहस्वान् वाजी सहमान उग्रः ।
4248. (८,५.२ ) प्रत्यक्कृत्या दूषयन्न् एति वीरः ॥२॥
4249. (८,५.३ ) अनेनेन्द्रो मणिना वृत्रमहन्न् अनेनासुरान् पराभावयन् मनीषी ।
4250. (८,५.३ ) अनेनाजयद्द्यावापृथिवी उभे इमे अनेनाजयत्प्रदिशश्चतस्रः ॥३॥
4251. (८,५.४ ) अयं स्राक्त्यो मणिः प्रतीवर्तः प्रतिसरः ।
4252. (८,५.४ ) ओजस्वान् विमृधो वशी सो अस्मान् पातु सर्वतः ॥४॥
4253. (८,५.५ ) तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ।
4254. (८,५.५ ) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥५॥
4255. (८,५.६ ) अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम् ।
4256. (८,५.६ ) ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥६॥
4257. (८,५.७ ) ये स्राक्त्यं मणिं जना वर्माणि कृण्वते ।
4258. (८,५.७ ) सूर्य इव दिवमारुह्य वि कृत्या बाधते वशी ॥७॥
4259. (८,५.८ ) स्राक्त्येन मणिना ऋषिणेव मनीषिणा ।
4260. (८,५.८ ) अजैषं सर्वाः पृतना वि मृधो हन्मि रक्षसः ॥८॥
4261. (८,५.९ ) याः कृत्या आङ्गिरसीर्याः कृत्या आसुरीर्याः ।
4262. (८,५.९ ) कृत्याः स्वयंकृता या उ चान्येभिराभृताः ।
4263. (८,५.९ ) उभयीस्ताः परा यन्तु परावतो नवतिं नाव्या अति ॥९॥
4264. (८,५.१० ) अस्मै मणिं वर्म बध्नन्तु देवा इन्द्रो विष्णुः सविता रुद्रो अग्निः ।
4265. (८,५.१० ) प्रजापतिः परमेष्ठी विराड्वैश्वानर ऋषयश्च सर्वे ॥१०॥ {१२}
4266. (८,५.११ ) उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।
4267. (८,५.११ड्) यमैछामाविदाम तं प्रतिस्पाशनमन्तितम् ॥११॥
4268. (८,५.१२ ) स इद्व्याघ्रो भवत्यथो सिंहो अथो वृषा ।
4269. (८,५.१२ ) अथो सपत्नकर्शनो यो बिभर्तीमं मणिम् ॥१२॥
4270. (८,५.१३ ) नैनं घ्नन्त्यप्सरसो न गन्धर्वा न मर्त्याः ।
4271. (८,५.१३ ) सर्वा दिशो वि राजति यो बिभर्तीमं मणिम् ॥१३॥
4272. (८,५.१४ ) कश्यपस्त्वामसृजत कश्यपस्त्वा समैरयत्।
4273. (८,५.१४ ) अबिभस्त्वेन्द्रो मानुषे बिभ्रत्संश्रेषिणेऽजयत्।
4274. (८,५.१४ ) मणिं सहस्रवीर्यं वर्म देवा अकृण्वत ॥१४॥
4275. (८,५.१५ ) यस्त्वा कृत्याभिर्यस्त्वा दीक्षाभिर्यज्ञैर्यस्त्वा जिघांसति ।
4276. (८,५.१५ ) प्रत्यक्त्वमिन्द्र तं जहि वज्रेण शतपर्वणा ॥१५॥
4277. (८,५.१६ ) अयमिद्वै प्रतीवर्त ओजस्वान् संजयो मणिः ।
4278. (८,५.१६ ) प्रजां धनं च रक्षतु परिपाणः सुमङ्गलः ॥१६॥
4279. (८,५.१७ ) असपत्नं नो अधरादसपत्नं न उत्तरात्।
4280. (८,५.१७ ) इन्द्रासपत्नं नः पश्चाज्ज्योतिः शूर पुरस्कृधि ॥१७॥
4281. (८,५.१८ ) वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।
4282. (८,५.१८ ) वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥१८॥
4283. (८,५.१९ ) ऐन्द्राग्नं वर्म बहुलं यदुग्रं विश्वे देवा नातिविध्यन्ति सर्वे ।
4284. (८,५.१९ ) तन् मे तन्वं त्रायतां सर्वतो बृहदायुष्मां जरदष्टिर्यथासानि ॥१९॥
4285. (८,५.२० ) आ मारुक्षद्देवमणिर्मह्या अरिष्टतातये ।
4286. (८,५.२० ) इमं मेथिमभिसंविशध्वं तनूपानं त्रिवरूथमोजसे ॥२०॥
4287. (८,५.२१ ) अस्मिन्न् इन्द्रो नि दधातु नृम्णमिमं देवासो अभिसंविशध्वम् ।
4288. (८,५.२१ ) दीर्घायुत्वाय शतशारदायायुष्मान् जरदष्टिर्यथासत्॥२१॥
4289. (८,५.२२ ) स्वस्तिदा विशां पतिर्वृत्रहा विमृधो वशी ।
4290. (८,५.२२ ) इन्द्रो बध्नातु ते मणिं जिगीवामपराजितः ।
4291. (८,५.२२ ) सोमपा अभयङ्करो वृषा ।
4292. (८,६.१ ) यौ ते मातोन्ममार्ज जातायाः पतिवेदनौ ।
4293. (८,६.१ ) दुर्णामा तत्र मा गृधदलिंश उत वत्सपः ॥१॥
4294. (८,६.२ ) पलालानुपलालौ शर्कुं कोकं मलिम्लुचं पलीजकम् ।
4295. (८,६.२ ) आश्रेषं वव्रिवाससमृक्षग्रीवं प्रमीलिनम् ॥२॥
4296. (८,६.३ ) मा सं वृतो मोप सृप ऊरू माव सृपोऽन्तरा ।
4297. (८,६.३ ) कृणोम्यस्यै भेषजं बजं दुर्णामचातनम् ॥३॥
4298. (८,६.४ ) दुर्णामा च सुनामा चोभा सम्वृतमिछतः ।
4299. (८,६.४ ) अरायान् अप हन्मः सुनामा स्त्रैणमिछताम् ॥४॥
4300. (८,६.५ ) यः कृष्णः केश्यसुर स्तम्बज उत तुण्डिकः ।
4301. (८,६.५ ) अरायान् अस्या मुष्काभ्यां भंससोऽप हन्मसि ॥५॥
4302. (८,६.६ ) अनुजिघ्रं प्रमृशन्तं क्रव्यादमुत रेरिहम् ।
4303. (८,६.६ ) अरायां छ्वकिष्किणो बजः पिङ्गो अनीनशत्॥६॥
4304. (८,६.७ ) यस्त्वा स्वप्ने निपद्यते भ्राता भूत्वा पितेव च ।
4305. (८,६.७ ) बजस्तान्त्सहतामितः क्लीबरूपांस्तिरीटिनः ॥७॥
4306. (८,६.८ ) यस्त्वा स्वपन्तीं त्सरति यस्त्वा दिप्सति जाग्रतीम् ।
4307. (८,६.८ ) छायामिव प्र तान्त्सूर्यः परिक्रामन्न् अनीनशत्॥८॥
4308. (८,६.९ ) यः कृणोति मृतवत्सामवतोकामिमां स्त्रियम् ।
4309. (८,६.९ ) तमोषधे त्वं नाशयास्याः कमलमञ्जिवम् ॥९॥
4310. (८,६.१० ) ये शालाः परिनृत्यन्ति सायं गर्दभनादिनः ।
4311. (८,६.१० ) कुसूला ये च कुक्षिलाः ककुभाः करुमाः स्रिमाः ।
4312. (८,६.१० ) तान् ओषधे त्वं गन्धेन विषूचीनान् वि नाशय ॥१०॥ {१४}
4313. (८,६.११ ) ये कुकुन्धाः कुकिरभाः कृत्तीर्दूर्शानि बिभ्रति ।
4314. (८,६.११ ) क्लीबा इव प्रनृत्यन्तो वने ये कुर्वते घोषं तान् इतो नाशयामसि ॥११॥
4315. (८,६.१२ ) ये सूर्यं न तितिक्षन्त आतपन्तममुं दिवः ।
4316. (८,६.१२ ) अरायान् बस्तवासिनो दुर्गन्धींल्लोहितास्यान् मककान् नाशयामसि ॥१२॥
4317. (८,६.१३ ) य आत्मानमतिमात्रमंस आधाय बिभ्रति ।
4318. (८,६.१३ ) स्त्रीणां श्रोणिप्रतोदिन इन्द्र रक्षांसि नाशय ॥१३॥
4319. (८,६.१४ ) ये पूर्वे बध्वो यन्ति हस्ते शृङ्गानि बिभ्रतः ।
4320. (८,६.१४ ) आपाकेस्थाः प्रहासिन स्तम्बे ये कुर्वते ज्योतिस्तान् इतो नाशयामसि ॥१४॥
4321. (८,६.१५ ) येषां पश्चात्प्रपदानि पुरः पार्ष्णीः पुरो मुखा ।
4322. (८,६.१५ ) खलजाः शकधूमजा उरुण्डा ये च मट्मटाः कुम्भमुष्का अयाशवः ।
4323. (८,६.१५ ) तान् अस्या ब्रह्मणस्पते प्रतीबोधेन नाशय ॥१५॥
4324. (८,६.१६ ) पर्यस्ताक्षा अप्रचङ्कशा अस्त्रैणाः सन्तु पण्डगाः ।
4325. (८,६.१६ ) अव भेषज पादय य इमां संविवृत्सत्यपतिः स्वपतिं स्त्रियम् ॥१६॥
4326. (८,६.१७ ) उद्धर्षिणं मुनिकेशं जम्भयन्तं मरीमृशम् ।
4327. (८,६.१७ ) उपेषन्तमुदुम्बलं तुण्डेलमुत शालुडम् ।
4328. (८,६.१७ ) पदा प्र विध्य पार्ष्ण्या स्थालीं गौरिव स्पन्दना ॥१७॥
4329. (८,६.१८ ) यस्ते गर्भं प्रतिमृशाज्जातं वा मारयाति ते ।
4330. (८,६.१८ ) पिङ्गस्तमुग्रधन्वा कृणोतु हृदयाविधम् ॥१८॥
4331. (८,६.१९ ) ये अम्नो जतान् मारयन्ति सूतिका अनुशेरते ।
4332. (८,६.१९ ) स्त्रीभागान् पिङ्गो गन्धर्वान् वातो अभ्रमिवाजतु ॥१९॥
4333. (८,६.२० ) परिसृष्टं धरयतु यद्धितं माव पादि तत्।
4334. (८,६.२० ) गर्भं त उग्रौ रक्षतां भेषजौ नीविभार्यौ ॥२०॥ {१५}
4335. (८,६.२१ ) पवीनसात्तङ्गल्वाच्छायकादुत नग्नकात्।
4336. (८,६.२१ ) प्रजायै पत्ये त्वा पिङ्गः परि पातु किमीदिनः ॥२१॥
4337. (८,६.२२ ) द्व्यास्याच्चतुरक्षात्पञ्चपदादनङ्गुरेः ।
4338. (८,६.२२ ) वृन्तादभि प्रसर्पतः परि पाहि वरीवृतात्॥२२॥
4339. (८,६.२३ ) य आमं मांसमदन्ति पौरुषेयं च ये क्रविः ।
4340. (८,६.२३ ) गर्भान् खादन्ति केशवास्तान् इतो नाशयामसि ॥२३॥
4341. (८,६.२४ ) ये सूर्यात्परिसर्पन्ति स्नुषेव श्वशुरादधि ।
4342. (८,६.२४ ) बजश्च तेषां पिङ्गश्च हृदयेऽधि नि विध्यताम् ॥२४॥
4343. (८,६.२५ ) पिङ्ग रक्ष जायमानं मा पुमांसं स्त्रियं क्रन् ।
4344. (८,६.२५ ) आण्डादो गर्भान् मा दभन् बाधस्वेतः किमीदिनः ॥२५॥
4345. (८,६.२६ ) अप्रजास्त्वं मार्तवत्समाद्रोदमघमावयम् ।
4346. (८,६.२६ ) वृक्षादिव स्रजं कृत्वाप्रिये प्रति मुञ्च तत्॥२६॥ {१६}
4347. (८,७.१ ) या बभ्रवो याश्च शुक्रा रोहिणीरुत पृश्नयः ।
4348. (८,७.१ ) असिक्नीः कृष्णा ओषधीः सर्वा अछावदामसि ॥१॥
4349. (८,७.२ ) त्रायन्तामिमं पुरुसं यक्ष्माद्देवेषितादधि ।
4350. (८,७.२ ) यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ॥२॥
4351. (८,७.३ ) आपो अग्रं दिव्या ओषधयः ।
4352. (८,७.३ ) तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥३॥
4353. (८,७.४ ) प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि ।
4354. (८,७.४ ) अंशुमतीः कण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥४॥
4355. (८,७.५ ) यद्वः सहः सहमाना वीर्यं१ यच्च वो बलम् ।
4356. (८,७.५ ) तेनेममस्माद्यक्ष्मात्पुरुषं मुञ्चतौषधीरथो कृणोमि भेषजम् ॥५॥
4357. (८,७.६ ) जीवलां नघारिषां जीवन्तीमोषधीमहम् ।
4358. (८,७.६ ) अरुन्धतीमुन्नयन्तीं पुष्पां मधुमतीमिह हुवेऽस्मा अरिष्टतातये ॥६॥
4359. (८,७.७ ) इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम ।
4360. (८,७.७ ) यथेमं पारयामसि पुरुषं दुरितादधि ॥७॥
4361. (८,७.८ ) अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः ।
4362. (८,७.८ ) ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥८॥
4363. (८,७.९ ) अवकोल्बा उदकात्मान ओषधयः ।
4364. (८,७.९ ) व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥९॥
4365. (८,७.१० ) उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषनीः ।
4366. (८,७.१० ) अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥१०॥ {१७}
4367. (८,७.११ ) अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः ।
4368. (८,७.११ ) त्रायन्तामस्मिन् ग्रामे गामश्वं पुरुषं पशुम् ॥११॥
4369. (८,७.१२ ) मधुमन् मूलं मधुमदग्रमासां मधुमन् मध्यं वीरुधां बभूव ।
4370. (८,७.१२ ) मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥१२॥
4371. (८,७.१३ ) यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः ।
4372. (८,७.१३ ) ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥१३॥
4373. (८,७.१४ ) वैयाघ्रो मणिर्वीरुधां त्रायमानोऽभिशस्तिपाः ।
4374. (८,७.१४ ) अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत्॥१४॥
4375. (८,७.१५ ) सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः ।
4376. (८,७.१५ ) गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥१५॥
4377. (८,७.१६ ) मुमुचाना ओषधयोऽग्नेर्वैश्वानरादधि ।
4378. (८,७.१६ ) भूमिं संतन्वतीरित यासां राजा वनस्पतिः ॥१६॥
4379. (८,७.१७ ) या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च ।
4380. (८,७.१७ ) ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥१७॥
4381. (८,७.१८ ) याश्चाहं वेद वीरुधो याश्च पश्यामि चक्षुषा ।
4382. (८,७.१८ ) अज्ञाता जानीमश्च या यासु विद्म च संभृतम् ॥१८॥
4383. (८,७.१९ ) सर्वाः समग्रा ओषधीर्बोधन्तु वचसो मम ।
4384. (८,७.१९ ) यथेमं पारयामसि पुरुषं दुरितादधि ॥१९॥
4385. (८,७.२० ) अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः ।
4386. (८,७.२० ) व्रीहिर्यवश्च भेषजौ दिवसि पुत्रावमर्त्यौ ॥२०॥ {१८}
4387. (८,७.२१ ) उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः ।
4388. (८,७.२१ ) यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥२१॥
4389. (८,७.२२ ) तस्यामृतस्येमं बलं पुरुषं पययामसि ।
4390. (८,७.२२ ) अथो कृणोमि भेषजं यथासच्छतहायनः ॥२२॥
4391. (८,७.२३ ) वराहो वेद वीरुधं नकुलो वेद भेषजीम् ।
4392. (८,७.२३ ) सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥२३॥
4393. (८,७.२४ ) याः सुपर्णा आङ्गिरसीर्दिव्या या रघतो विदुः ।
4394. (८,७.२४ ) वयांसि हंसा या विदुर्यास्च सर्वे पतत्रिणः ।
4395. (८,७.२४ ) मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥२४॥
4396. (८,७.२५ ) यावतीनामोषधीनां गावः प्राश्नन्त्यघ्न्या यवतीनामजावयः ।
4397. (८,७.२५ ) तावतीस्तुभ्यमोषधीः शर्म यछन्त्वाभृताः ॥२५॥
4398. (८,७.२६ ) यावतीषु मनुष्या भेषजं भिषजो विदुः ।
4399. (८,७.२६ ) तावतीर्विश्वभेषजीरा भरामि त्वामभि ॥२६॥
4400. (८,७.२७ ) पुष्पवतीः प्रसूमतीः फलिनीरफला उत ।
4401. (८,७.२७ ) संमातर इव दुह्रामस्मा अरिष्टतातये ॥२७॥
4402. (८,७.२८ ) उत्त्वाहार्षं पञ्चशलादथो दशशलादुत ।
4403. (८,७.२८ ) अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात्॥२८॥ {१९}
4404. (८,८.१ ) इन्द्रो मन्थतु मन्थिता शक्रः शूरः पुरंदरः ।
4405. (८,८.१ ) यथा हनाम सेना अमित्राणां सहस्रशः ॥१॥
4406. (८,८.२ ) पूतिरज्जुरुपध्मानी पूतिं सेनां कृणोत्वमूम् ।
4407. (८,८.२ ) धूममग्निं परादृश्याऽमित्रा हृत्स्वा दधतां भयम् ॥२॥
4408. (८,८.३ ) अमून् अश्वत्थ निः शृणीहि खादामून् खदिराजिरम् ।
4409. (८,८.३ ) ताजद्भङ्ग इव भजन्तां हन्त्वेनान् वधको वधैः ॥३॥
4410. (८,८.४ ) परुषान् अमून् परुषाह्वः कृणोतु हन्त्वेनान् वधको वधैः ।
4411. (८,८.४ ) क्षिप्रं शर इव भजन्तां बृहज्जालेन संदिताः ॥४॥
4412. (८,८.५ ) अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः ।
4413. (८,८.५ ) तेनाभिधाय दस्यूनां शक्रः सेनामपावपत्॥५॥
4414. (८,८.६ ) बृहद्धि जालं बृहतः शक्रस्य वाजिनीवतः ।
4415. (८,८.६ ) तेन शत्रून् अभि सर्वान् न्युब्ज यथा न मुच्यातै कतमश्चनैषाम् ॥६॥
4416. (८,८.७ ) बृहत्ते जालं बृहत इन्द्र शूर सहस्रार्घस्य शतवीर्यस्य ।
4417. (८,८.७ ) तेन शतं सहस्रमयुतं न्यर्बुदं जघान शक्रो दस्यूनामभिधाय सेनया ॥७॥
4418. (८,८.८ ) अयं लोको जालमासीच्छक्रस्य महतो महान् ।
4419. (८,८.८ ) तेनाहमिन्द्रजालेनामूंस्तमसाभि दधामि सर्वान् ॥८॥
4420. (८,८.९ ) सेदिरुग्रा व्यृद्धिरार्तिश्चानपवाचना ।
4421. (८,८.९ ) श्रमस्तन्द्रीश्च मोहश्च तैरमून् अभि दधामि सर्वान् ॥९॥
4422. (८,८.१० ) मृत्यवेऽमून् प्र यछामि मृत्युपाशैरमी सिताः ।
4423. (८,८.१० ) मृत्योर्ये अघला दूतास्तेभ्य एनान् प्रति नयामि बद्ध्वा ॥१०॥ {२०}
4424. (८,८.११ ) नयतामून् मृत्युदूता यमदूता अपोम्भत ।
4425. (८,८.११ ) परःसहस्रा हन्यन्तां तृणेढ्वेनान् मत्यं भवस्य ॥११॥
4426. (८,८.१२ ) साध्या एकं जालदण्डमुद्यत्य यन्त्योजसा ।
4427. (८,८.१२ ) रुद्रा एकं वसव एकमादित्यैरेक उद्यतः ॥१२॥
4428. (८,८.१३ ) विश्वे देवाः उपरिष्टादुब्जन्तो यन्त्वोजसा ।
4429. (८,८.१३ ) मध्येन घ्नन्तो यन्तु सेनामङ्गिरसो महीम् ॥१३॥
4430. (८,८.१४ ) वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।
4431. (८,८.१४ ) द्विपाच्चतुष्पादिष्णामि यथा सेनाममूं हनन् ॥१४॥
4432. (८,८.१५ ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
4433. (८,८.१५ ) दृष्टान् अदृष्टान् इष्णामि यथा सेनाममूं हनन् ॥१५॥
4434. (८,८.१६ ) इम उप्ता मृत्युपाशा यान् आक्रम्य न मुच्यसे ।
4435. (८,८.१६ ) अमुष्या हन्तु सेनाया इदं कूटं सहस्रशः ॥१६॥
4436. (८,८.१७ ) घर्मः समिद्धो अग्निनायं होमः सहस्रहः ।
4437. (८,८.१७ ) भवश्च पृश्निबाहुश्च शर्व सेनाममूं हतम् ॥१७॥
4438. (८,८.१८ ) मृत्योराषमा पद्यन्तां क्षुधं सेदिं वधं भयम् ।
4439. (८,८.१८ ) इन्द्रश्चाक्षुजालाभ्यां शर्व सेनाममूं हतम् ॥१८॥
4440. (८,८.१९ ) पराजिताः प्र त्रसतामित्रा नुत्ता धावत ब्रह्मणा ।
4441. (८,८.१९ ) बृहस्पतिप्रनुत्तानां मामीषां मोचि कश्चन ॥१९॥
4442. (८,८.२० ) अव पद्यन्तामेषामायुधानि मा शकन् प्रतिधामिषुम् ।
4443. (८,८.२० ) अथैषां बहु बिभ्यतामिषवः घ्नन्तु मर्मणि ॥२०॥
4444. (८,८.२१ ) सं क्रोशतामेनान् द्यावापृथिवी समन्तरिक्षं सह देवताभिः ।
4445. (८,८.२१ ) मा ज्ञातारं मा प्रतिष्ठां विदन्त मिथो विघ्नाना उप यन्तु मृत्युम् ॥२१॥
4446. (८,८.२२ ) दिशश्चतस्रोऽश्वतर्यो देवरथस्य पुरोदाशाः शफा अन्तरिक्षमुद्धिः ।
4447. (८,८.२२ ) द्यावापृथिवी पक्षसी ऋतवोऽभीशवोऽन्तर्देशाः किम्करा वाक्परिरथ्यम् ॥२२॥
4448. (८,८.२३ ) संवत्सरो रथः परिवत्सरो रथोपस्थो विराडीषाग्नी रथमुखम् ।
4449. (८,८.२३ ) इन्द्रः सव्यष्ठाश्चन्द्रमाः सारथिः ॥२३॥
4450. (८,८.२४ ) इतो जयेतो वि जय सं जय जय स्वाहा ।
4451. (८,८.२४ ) इमे जयन्तु परामी जयन्तां स्वाहैभ्यो दुराहामीभ्यः ।
4452. (८,८.२४ ) नीललोहितेनामून् अभ्यवतनोमि ॥२४॥ {२१}
4453. (८,९.१ ) कुतस्तौ जातौ कतमः सो अर्धः कस्माल्लोकात्कतमस्याः पृथिव्याः ।
4454. (८,९.१ ) वत्सौ विराजः सलिलादुदैतां तौ त्वा पृछामि कतरेण दुग्धा ॥१॥
4455. (८,९.२ ) यो अक्रन्दयत्सलिलं महित्वा योनिं कृत्वा त्रिभुजं शयानः ।
4456. (८,९.२ ) वत्सः कामदुघो विराजः स गुहा चक्रे तन्वः पराचैः ॥२॥
4457. (८,९.३ ) यानि त्रीणि बृहन्ति येषां चतुर्थं वियुनक्ति वाचम् ।
4458. (८,९.३ ) ब्रह्मैनद्विद्यात्तपसा विपश्चिद्यस्मिन्न् एकं युज्यते यस्मिन्न् एकम् ॥३॥
4459. (८,९.४ ) बृहतः परि सामानि षष्ठात्पञ्चाधि निर्मिता ।
4460. (८,९.४ ) बृहद्बृहत्या निर्मितं कुतोऽधि बृहती मिता ॥४॥
4461. (८,९.५ ) बृहती परि मात्राया मातुर्मात्राधि निर्मिता ।
4462. (८,९.५ ) माया ह जज्ञे मायाया मायाया मातली परि ॥५॥
4463. (८,९.६ ) वैश्वानरस्य प्रतिमोपरि द्यौर्यावद्रोदसी विबबाधे अग्निः ।
4464. (८,९.६ ) ततः षष्ठादामुतो यन्ति स्तोमा उदितो यन्त्यभि षष्ठमह्नः ॥६॥
4465. (८,९.७ ) षट्त्वा पृछाम ऋषयः कश्यपेमे त्वं हि युक्तं युयुक्षे योग्यं च ।
4466. (८,९.७ ) विराजमाहुर्ब्रह्मणः पितरं तां नो वि धेहि यतिधा सखिभ्यः ॥७॥
4467. (८,९.८ ) यां प्रच्युतामनु यज्ञाः प्रच्यवन्त उपतिष्ठन्त उपतिष्ठमानाम् ।
4468. (८,९.८ ) यस्या व्रते प्रसवे यक्षमेजति सा विराटृषयः परमे व्योमन् ॥८॥
4469. (८,९.९ ) अप्राणैति प्राणेन प्राणतीनां विराट्स्वराजमभ्येति पश्चात्।
4470. (८,९.९ ) विश्वं मृशन्तीमभिरूपां विराजं पश्यन्ति त्वे न त्वे पश्यन्त्येनाम् ॥९॥
4471. (८,९.१० ) को विराजो मिथुनत्वं प्र वेद क ऋतून् क उ कल्पमस्याः ।
4472. (८,९.१० ) क्रमान् को अस्याः कतिधा विदुग्धान् को अस्या धाम कतिधा व्युष्टीः ॥१०॥ {२२}
4473. (८,९.११ ) इयमेव सा या प्रथमा व्यौछदास्वितरासु चरति प्रविष्टा ।
4474. (८,९.११ ) महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥११॥
4475. (८,९.१२ ) छन्दःपक्षे उषसा पेपिशाने समानं योनिमनु सं चरेमे ।
4476. (८,९.१२ ) सूर्यपत्नी सं चरतः प्रजानती केतुमती अजरे भूरिरेतसा ॥१२॥
4477. (८,९.१३ ) ऋतस्य पन्थामनु तिस्र आगुस्त्रयो घर्मा अनु रेत आगुः ।
4478. (८,९.१३ ) प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम् ॥१३॥
4479. (८,९.१४ ) अग्नीषोमावदधुर्या तुरीयासीद्यज्ञस्य पक्षावृषयः कल्पयन्तः ।
4480. (८,९.१४ ) गायत्रीं त्रिष्टुभं जगतीमनुष्टुभं बृहदर्कीं यजमानाय स्वराभरन्तीम् ॥१४॥
4481. (८,९.१५ ) पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्चनाम्नीमृतवोऽनु पञ्च ।
4482. (८,९.१५ ) पञ्च दिशः पञ्चदशेन कॢप्तास्ता एकमूर्ध्नीरभि लोकमेकम् ॥१५॥
4483. (८,९.१६ ) षट्जाता भूता प्रथमजा ऋतस्य षटु सामानि षटहं वहन्ति ।
4484. (८,९.१६ ) षट्योगं सीरमनु सामसाम षटाहुर्द्यावापृथिवीः षटुर्वीः ॥१६॥
4485. (८,९.१७ ) षडाहुः शीतान् षडु मास उष्णान् ऋतुं नो ब्रूत यतमोऽतिरिक्तः ।
4486. (८,९.१७ ) सप्त सुपर्णाः कवयो नि षेदुः सप्त छन्दांस्यनु सप्त दीक्षाः ॥१७॥
4487. (८,९.१८ ) सप्त होमाः समिधो ह सप्त मधूनि सप्त ऋतवो ह सप्त ।
4488. (८,९.१८ ) सप्ताज्यानि परि भूतमायन् ताः सप्तगृध्रा इति शुश्रुमा वयम् ॥१८॥
4489. (८,९.१९ ) सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्न् अध्यार्पितानि ।
4490. (८,९.१९ ) कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥१९॥
4491. (८,९.२० ) कथं गायत्री त्रिवृतं व्याप कथं त्रिष्टुप्पञ्चदशेन कल्पते ।
4492. (८,९.२० ) त्रयस्त्रिंशेन जगती कथमनुष्टुप्कथमेकविंशः ॥२०॥ {२३}
4493. (८,९.२१ ) अष्ट जाता भूता प्रथमजा ऋतस्याष्टेन्द्र ऋत्विजो दैव्या ये ।
4494. (८,९.२१ ) अष्टयोनिरदितिरष्टपुत्रास्तमीं रात्रिमभि हव्यमेति ॥२१॥
4495. (८,९.२२ ) इत्थं श्रेयो मन्यमानेदमागमं युष्माकं सख्ये अहमस्मि शेवा ।
4496. (८,९.२२ ) समानजन्मा क्रतुरस्ति वः शिवः स वः सर्वाः सं चरति प्रजानन् ॥२२॥
4497. (८,९.२३ ) अष्टेन्द्रस्य षड्यमस्य ऋषीणां सप्त सप्तधा ।
4498. (८,९.२३ ) अपो मनुष्यान् ओषधीस्तामु पञ्चानु सेचिरे ॥२३॥
4499. (८,९.२४ ) केवलीन्द्राय दुदुहे हि गृष्टिर्वशं पीयूषं प्रथमं दुहाना ।
4500. (८,९.२४ ) अथातर्पयच्चतुरश्चतुर्धा देवान् मनुष्यामसुरान् उत ऋषीन् ॥२४॥
4501. (८,९.२५ ) को नु गौः क एकऋषिः किमु धाम का आशिषः ।
4502. (८,९.२५ ) यक्षं पृथिव्यामेकवृदेकर्तुः कतमो नु सः ॥२५॥
4503. (८,९.२६ ) एको गौरेक एकऋषिरेकं धामैकधाशिषः ।
4504. (८,९.२६ ) यक्षं पृथिव्यामेकवृदेकर्तुर्नाति रिच्यते ॥२६॥ {२४}
4505. (८,१०.१ ) विराड्वा इदमग्र आसीत्तस्या जातायाः सर्वमबिभेदियमेवेदं भविष्यतीति ॥१॥
4506. (८,१०.२ ) सोदक्रामत्सा गार्हपत्ये न्यक्रामत्।
4507. (८,१०.२ ) गृहमेधी गृहपतिर्भवति य एवं वेद ॥२॥
4508. (८,१०.३ ) सोदक्रामत्साहवनीये न्यक्रामत्।
4509. (८,१०.३ ) यन्त्यस्य देवा देवहूतिं प्रियो देवानां भवति य एवं वेद ॥३॥
4510. (८,१०.४ ) सोदक्रामत्सा दक्षिणाग्नौ न्यक्रामत्।
4511. (८,१०.४ ) यज्ञर्तो दक्षिणीयो वासतेयो भवति य एवं वेद ॥४॥
4512. (८,१०.५ ) सोदक्रामत्सा सभायां न्यक्रामत्।
4513. (८,१०.५ ) यन्त्यस्य सभां सभ्यो भवति य एवं वेद ॥५॥
4514. (८,१०.६ ) सोदक्रामत्सा समितौ न्यक्रामत्।
4515. (८,१०.६ ) यन्त्यस्य समितिं सामित्यो भवति य एवं वेद ॥६॥
4516. (८,१०.७ ) सोदक्रामत्सामन्त्रणे न्यक्रामत्।
4517. (८,१०.७ ) यन्त्यस्यामन्त्रणमामन्त्रणीयो भवति य एवं वेद ॥७॥ {२५}
4518. (८,१०.८ ) सोदक्रामत्सान्तरिक्षे चतुर्धा विक्रान्तातिष्ठत्॥८॥
4519. (८,१०.९ ) तां देवमनुष्या अब्रुवन्न् इयमेव तद्वेद यदुभय उपजीवेमेमामुप ह्वयामहा इति ॥९॥
4520. (८,१०.१० ) तामुपाह्वयन्त ॥१०॥
4521. (८,१०.११ ) ऊर्ज एहि स्वध एहि सूनृत एहीरावत्येहीति ॥११॥
4522. (८,१०.१२ ) तस्या इन्द्रो वत्स आसीद्गायत्र्यभिधान्यभ्रमूधः ॥१२॥
4523. (८,१०.१३ ) बृहच्च रथंतरं च द्वौ स्तनावास्तां यज्ञायज्ञियं च वामदेव्यं च द्वौ ॥१३॥
4524. (८,१०.१४ ) ओषधीरेव रथंतरेण देवा अदुह्रन् व्यचो बृहता ॥१४॥
4525. (८,१०.१५ ) अपो वामदेव्येन यज्ञं यज्ञायज्ञियेन ॥१५॥
4526. (८,१०.१६ ) ओषधीरेवास्मै रथंतरं दुहे व्यचो बृहत्॥१६॥
4527. (८,१०.१७ ) अपो वामदेव्यं यज्ञं यज्ञायज्ञियं य वेद ॥१७॥ {२६}
4528. (८,१०.१८ ) सोदक्रामत्सा वनस्पतीन् आगछत्तां वनस्पतयोऽघ्नत सा संवत्सरे समभवत्।
4529. (८,१०.१८ ) तस्माद्वनस्पतीनां संवत्सरे वृक्णमपि रोहति वृश्चतेऽस्याप्रियो भ्रातृव्यो य एवं वेद ॥१८॥
4530. (८,१०.१९ ) सोदक्रामत्सा पितॄन् आगछत्तां पितरोऽघ्नत सा मासि समभवत्।
4531. (८,१०.१९ ) तस्मात्पितृभ्यो मास्युपमास्यं ददति प्र पितृयाणं पन्थां जानाति य एवं वेद ॥१९॥
4532. (८,१०.२० ) सोदक्रामत्सा देवान् आगछत्तां देवा अघ्नत सार्धमासे समभवत्।
4533. (८,१०.२० ) तस्माद्देवेभ्योऽर्धमासे वषट्कुर्वन्ति प्र देवयानं पन्थां जानाति य एवं वेद ॥२०॥
4534. (८,१०.२१ ) सोदक्रामत्सा मनुष्यान् आगछत्तां मनुष्या अघ्नत सा सद्यः समभवत्।
4535. (८,१०.२१ ) तस्मान् मनुष्येभ्य उभयद्युरुप हरन्त्युपास्य गृहे हरन्ति य एवं वेद ॥२१॥ {२७}
4536. (८,१०.२२ ) सोदक्रामत्सासुरान् आगछत्तामसुरा उपाह्वयन्त माय एहीति ।
4537. (८,१०.२२ ) तस्या विरोचनः प्राह्रादिर्वत्स आसीदयस्पात्रं पात्रम् ।
4538. (८,१०.२२ ) तां द्विमूर्धार्त्व्योऽधोक्तां मायामेवाधोक्॥
4539. (८,१०.२२ ) तां मायामसुरा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२२॥
4540. (८,१०.२३ ) सोदक्रामत्सा पितॄन् आगछत्तां पितर उपाह्वयन्त स्वध एहीति ।
4541. (८,१०.२३ ) तस्या यमो राजा वत्स आसीद्रजतपात्रं पात्रम् ।
4542. (८,१०.२३ ) तामन्तको मार्त्यवोऽधोक्तां स्वधामेवाधोक्।
4543. (८,१०.२३ ) तां स्वधां पितर उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२३॥
4544. (८,१०.२४ ) सोदक्रामत्सा मनुष्यान् आगछत्तां मनुष्या उपाह्वयन्तेरावत्येहीति ।
4545. (८,१०.२४ ) तस्या मनुर्वैवस्वतो वत्स आसीत्पृथिवी पात्रम् ।
4546. (८,१०.२४ ) तां पृथी वैन्योऽधोक्तां कृषिं च सस्यं चाधोक्।
4547. (८,१०.२४ ) ते स्वधां कृषिं च सस्यं च मनुष्या उप जीवन्ति कृष्टराधिरुपजीवनीयो भवति य एवं वेद ॥२४॥
4548. (८,१०.२५ ) सोदक्रामत्सा सप्तऋषीन् आगछत्तां सप्तऋषय उपाह्वयन्त ब्रह्मण्वत्येहीति ।
4549. (८,१०.२५ ) तस्याः सोमो राजा वत्स आसीच्छन्दः पात्रम् ।
4550. (८,१०.२५ ) तां बृहस्पतिराङ्गिरसोऽधोक्तां ब्रह्म च तपश्चाधोक्।
4551. (८,१०.२५ ) तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥२५॥ {२८}
4552. (८,१०.२६ ) सोदक्रामत्सा देवान् आगछत्तां देवा उपाह्वयन्तोर्ज एहीति ।
4553. (८,१०.२६ ) तस्या इन्द्रो वत्स आसीच्चमसः पात्रम् ।
4554. (८,१०.२६ ) तां देवः सविताधोक्तामूर्जामेवाधोक्।
4555. (८,१०.२६ ) तामूर्जां देवा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२६॥
4556. (८,१०.२७ ) सोदक्रामत्सा गन्धर्वाप्सरस आगछत्तां गन्धर्वाप्सरस उपाह्वयन्त पुण्यगन्ध एहीति ।
4557. (८,१०.२७ ) तस्याश्चित्ररथः सौर्यवर्चसो वत्स आसीत्पुष्करपर्णं पात्रम् ।
4558. (८,१०.२७ ) तां वसुरुचिः सौर्यवर्चसोऽधोक्तां पुण्यमेव गन्धमधोक्।
4559. (८,१०.२७ ) तं पुण्यं गन्धं गन्धर्वाप्सरस उप जीवन्ति पुण्यगन्धिरुपजीवनीयो भवति य एवं वेद ॥२७॥
4560. (८,१०.२८ ) सोदक्रामत्सेतरजनान् आगछत्तामितरजना उपाह्वयन्त तिरोध एहीति ।
4561. (८,१०.२८ ) तस्याः कुबेरो वैश्रवणो वत्स आसीदामपात्रं पात्रम् ।
4562. (८,१०.२८ ) तां रजतनाभिः कबेरकोऽधोक्तां तिरोधामेवाधोक्।
4563. (८,१०.२८ ) तां तिरोधामतिरजना पितर उप जीवन्ति तिरो धत्ते सर्वं पाप्मानमुपजीवनीयो भवति य एवं वेद ॥२८॥
4564. (८,१०.२९ ) सोदक्रामत्सा सर्पान् आगछत्तां सर्पा उपाह्वयन्त विषवत्येहीति ।
4565. (८,१०.२९ ) तस्यास्तक्षको वैशलेयो वत्स आसीदलाबुपात्रं पात्रम् ।
4566. (८,१०.२९ ) तां धृतराष्ट्र ऐरावतोऽधोक्तां विषमेवाधोक्।
4567. (८,१०.२९ ) तद्विषं सर्वा उप जीवन्त्युपजीवनीयो भवति य एवं वेद ॥२९॥ {२९}
4568. (८,१०.३० ) तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात्॥३०॥
4569. (८,१०.३१ ) न च प्रत्याहन्यान् मनसा त्वा प्रत्याहन्मीति प्रत्याहन्यात्॥३१॥
4570. (८,१०.३२ ) यत्प्रत्याहन्ति विषमेव तत्प्रत्याहन्ति ॥३२॥
4571. (८,१०.३३ ) विषमेवास्याप्रियं भ्रातृव्यमनुविषिच्यते य एवं वेद ॥३३॥ {३०}
4572. (९,१.१ ) दिवस्पृथिव्या अन्तरिक्षात्समुद्रादग्नेर्वातान् मधुकशा हि जज्ञे ।
4573. (९,१.१ ) तां चायित्वामृतं वसानां हृद्भिः प्रजाः प्रति नन्दन्ति सर्वाः ॥१॥
4574. (९,१.२ ) महत्पयो विश्वरूपमस्याः समुद्रस्य त्वोत रेत आहुः ।
4575. (९,१.२ ) यत ऐति मधुकशा रराणा तत्प्राणस्तदमृतं निविष्टम् ॥२॥
4576. (९,१.३ ) पश्यन्त्यस्याश्चरितं पृथिव्यां पृथङ्नरो बहुधा मीमांसमानाः ।
4577. (९,१.३ ) अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥३॥
4578. (९,१.४ ) मातादित्यानां दुहिता वसूनां प्राणः प्रजानाममृतस्य नाभिः ।
4579. (९,१.४ ) हिरण्यवर्णा मधुकशा घृताची महान् भर्गश्चरति मर्त्येषु ॥४॥
4580. (९,१.५ ) मधोः कशामजनयन्त देवास्तस्या गर्भो अभवद्विश्वरूपः ।
4581. (९,१.५ ) तं जातं तरुणं पिपर्ति माता स जातो विश्वा भुवना वि चष्टे ॥५॥
4582. (९,१.६ ) कस्तं प्र वेद क उ तं चिकेत यो अस्या हृदः कलशः सोमधानो अक्षितः ।
4583. (९,१.६ ) ब्रह्मा सुमेधाः सो अस्मिन् मदेत ॥६॥
4584. (९,१.७ ) स तौ प्र वेद स उ तौ चिकेत यावस्याः स्तनौ सहस्रधारावक्षितौ ।
4585. (९,१.७ ) ऊर्जं दुहाते अनपस्फुरन्तौ ॥७॥
4586. (९,१.८ ) हिङ्करिक्रती बृहती वयोधा उच्चैर्घोषाभ्येति या व्रतम् ।
4587. (९,१.८ ) त्रीन् घर्मान् अभि वावशाना मिमाति मायुं पयते पयोभिः ॥८॥
4588. (९,१.९ ) यामापीनामुपसीदन्त्यापः शाक्वरा वृषभा ये स्वराजः ।
4589. (९,१.९ ) ते वर्षन्ति ते वर्षयन्ति तद्विदे काममूर्जमापः ॥९॥
4590. (९,१.१० ) स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यामधि ।
4591. (९,१.१० ) अग्नेर्वातान् मधुकशा हि जज्ञे मरुतामुग्रा नप्तिः ॥१०॥ {१}
4592. (९,१.११ ) यथा सोमः प्रातःसवने अश्विनोर्भवति प्रियः ।
4593. (९,१.११ ) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥११॥
4594. (९,१.१२ ) यथा सोमो द्वितीये सवन इन्द्राग्न्योर्भवति प्रियः ।
4595. (९,१.१२ ) एवा म इन्द्राग्नी वर्च आत्मनि ध्रियताम् ॥१२॥
4596. (९,१.१३ ) यथा सोमस्तृतीये सवन ऋभूणां भवति प्रियः ।
4597. (९,१.१३ ) एवा म ऋभवो वर्च आत्मनि ध्रियताम् ॥१३॥
4598. (९,१.१४ ) मधु जनिषीय मधु वंसिषीय ।
4599. (९,१.१४ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१४॥
4600. (९,१.१५ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
4601. (९,१.१५ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१५॥
4602. (९,१.१६ ) यथा मधु मधुकृतः संभरन्ति मधावधि ।
4603. (९,१.१६ ) एवा मे अश्विना वर्च आत्मनि ध्रियताम् ॥१६॥
4604. (९,१.१७ ) यथा मक्षाः इदं मधु न्यञ्जन्ति मधावधि ।
4605. (९,१.१७ ) एवा मे अश्विना वर्चस्तेजो बलमोजश्च ध्रियताम् ॥१७॥
4606. (९,१.१८ ) यद्गिरिषु पर्वतेषु गोष्वश्वेषु यन् मधु ।
4607. (९,१.१८ ) सुरायां सिच्यमानायां यत्तत्र मधु तन् मयि ॥१८॥
4608. (९,१.१९ ) अश्विना सारघेण मा मधुनाङ्क्तं शुभस्पती ।
4609. (९,१.१९ ) यथा वर्चस्वतीं वाचमावदानि जनामनु ॥१९॥
4610. (९,१.२० ) स्तनयित्नुस्ते वाक्प्रजापते वृषा शुष्मं क्षिपसि भूम्यां दिवि ।
4611. (९,१.२० ) तां पशव उप जीवन्ति सर्वे तेनो सेषमूर्जं पिपर्ति ॥२०॥
4612. (९,१.२१ ) पृथिवी दण्डोऽन्तरिक्षं गर्भो द्यौः कशा विद्युत्प्रकशो हिरण्ययो बिन्दुः ॥२१॥
4613. (९,१.२२ ) यो वै कशायाः सप्त मधूनि वेद मधुमान् भवति ।
4614. (९,१.२२ ) ब्राह्मणश्च राजा च धेनुश्चानड्वांश्च व्रीहिश्च यवश्च मधु सप्तमम् ॥२२॥
4615. (९,१.२३ ) मधुमान् भवति मधुमदस्याहार्यं भवति ।
4616. (९,१.२३ ) मधुमतो लोकान् जयति य एवं वेद ॥२३॥
4617. (९,१.२४ ) यद्वीध्रे स्तनयति प्रजापतिरेव तत्प्रजाभ्यः प्रादुर्भवति ।
4618. (९,१.२४ ) तस्मात्प्राचीनोपवीतस्तिष्ठे प्रजापतेऽनु मा बुध्यस्वेति ।
4619. (९,१.२४ ) अन्वेनं प्रजा अनु प्रजापतिर्बुध्यते य एवं वेद ॥२४॥ {२}
4620. (९,२.१ ) सपत्नहनमृषभं घृतेन कामं शिक्षामि हविषाज्येन ।
4621. (९,२.१ ) नीचैः सपत्नान् मम पदय त्वमभिष्टुतो महता वीर्येण ॥१॥
4622. (९,२.२ ) यन् मे मनसो न प्रियं चक्षुषो यन् मे बभस्ति नाभिनन्दति ।
4623. (९,२.२ ) तद्दुष्वप्न्यं प्रति मुञ्चामि सपत्ने कामं स्तुत्वोदहं भिदेयम् ॥२॥
4624. (९,२.३ ) दुष्वप्न्यं काम दुरितं च कमाप्रजस्तामस्वगतामवर्तिम् ।
4625. (९,२.३ ) उग्र ईशानः प्रति मुञ्च तस्मिन् यो अस्मभ्यमंहूरणा चिकित्सात्॥३॥
4626. (९,२.४ ) नुदस्व काम प्र णुदस्व कामावर्तिं यन्तु मम ये सपत्नाः ।
4627. (९,२.४ ) तेषां नुत्तानामधमा तमांस्यग्ने वास्तूनि निर्दह त्वम् ॥४॥
4628. (९,२.५ ) सा ते काम दुहिता धेनुरुच्यते यामाहुर्वाचं कवयो विराजम् ।
4629. (९,२.५ ) तया सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥५॥
4630. (९,२.६ ) कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन ।
4631. (९,२.६ ) अग्नेर्होत्रेण प्र णुदे सपत्नां छम्बीव नावमुदकेषु धीरः ॥६॥
4632. (९,२.७ ) अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव ।
4633. (९,२.७ ) विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥७॥
4634. (९,२.८ ) इदमाज्यं घृतवज्जुषाणाः कामज्येष्ठा इह मादयध्वम् ।
4635. (९,२.८ ) कृण्वन्तो मह्यमसपत्नमेव ॥८॥
4636. (९,२.९ ) इन्द्राग्नी काम सरथं हि भूत्वा नीचैः सपत्नान् मम पादयाथः ।
4637. (९,२.९ ) तेषां पन्नानामधमा तमांस्यग्ने वास्तून्यनुनिर्दह त्वम् ॥९॥
4638. (९,२.१० ) जहि त्वं काम मम ये सपत्ना अन्धा तमांस्यव पादयैनान् ।
4639. (९,२.१० ) निरिन्द्रिया अरसाः सन्तु सर्वे मा ते जीविषुः कतमच्चनाहः ॥१०॥ {३}
4640. (९,२.११ ) अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन् मह्यमेधतुम् ।
4641. (९,२.११ ) मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥११॥
4642. (९,२.१२ ) तेऽधराञ्चः प्र प्लवन्तां छिन्ना नौरिव बन्धनात्।
4643. (९,२.१२ ) न सायकप्रणुत्तानां पुनरस्ति निवर्तनम् ॥१२॥
4644. (९,२.१३ ) अग्निर्यव इन्द्रो यवः सोमो यवः ।
4645. (९,२.१३ ) यवयावानो देवा यवयन्त्वेनम् ॥१३॥
4646. (९,२.१४ ) असर्ववीरश्चरतु प्रणुत्तो द्वेष्यो मित्रानां परिवर्ग्यः स्वानाम् ।
4647. (९,२.१४ ) उत पृथिव्यामव स्यन्ति विद्युत उग्रो वो देवः प्र मृणत्सपत्नान् ॥१४॥
4648. (९,२.१५ ) च्युता चेयं बृहत्यच्युता च विद्युद्बिभर्ति स्तनयित्नूंश्च सर्वान् ।
4649. (९,२.१५ ) उद्यन्न् आदित्यो द्रविणेन तेजसा नीचैः सपत्नान् नुदतां मे सहस्वान् ॥१५॥
4650. (९,२.१६ ) यत्ते काम शर्म त्रिवरूथमुद्भु ब्रह्म वर्म विततमनतिव्याध्यं कृतम् ।
4651. (९,२.१६ ) तेन सपत्नान् परि वृङ्ग्धि ये मम पर्येनान् प्राणः पशवो जीवनं वृणक्तु ॥१६॥
4652. (९,२.१७ ) येन देवा असुरान् प्राणुदन्त येनेन्द्रो दस्यून् अधमं तमो निनाय ।
4653. (९,२.१७ ) तेन त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१७॥
4654. (९,२.१८ ) यथा देवा असुरान् प्राणुदन्त यथेन्द्रो दस्यून् अधमं तमो बबाधे ।
4655. (९,२.१८ ) तथा त्वं काम मम ये सपत्नास्तान् अस्माल्लोकात्प्र णुदस्व दूरम् ॥१८॥
4656. (९,२.१९ ) कामो जज्ञे प्रथमो नैनं देवा आपुः पितरो न मर्त्याः ।
4657. (९,२.१९ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥१९॥
4658. (९,२.२० ) यावती द्यावापृथिवी वरिम्णा यावदापः सिष्यदुर्यावदग्निः ।
4659. (९,२.२० ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२०॥ {४}
4660. (९,२.२१ ) यावतीर्दिशः प्रदिशो विषूचीर्यावतीराशा अभिचक्षणा दिवः ।
4661. (९,२.२१ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२१॥
4662. (९,२.२२ ) यावतीर्भृङ्गा जत्वः कुरूरवो यावतीर्वघा वृक्षसर्प्यो बभूवुः ।
4663. (९,२.२२ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२२॥
4664. (९,२.२३ ) ज्यायान् निमिषतोऽसि तिष्ठतो ज्यायान्त्समुद्रादसि काम मन्यो ।
4665. (९,२.२३ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृनोमि ॥२३॥
4666. (९,२.२४ ) न वै वातश्चन काममाप्नोति नाग्निः सूर्यो नोत चन्द्रमाः ।
4667. (९,२.२४ ) ततस्त्वमसि ज्यायान् विश्वहा महांस्तस्मै ते काम नम इत्कृणोमि ॥२४॥
4668. (९,२.२५ ) यास्ते शिवास्तन्वः काम भद्रा याभिः सत्यं भवति यद्वृणिषे ।
4669. (९,२.२५ ) ताभिष्ट्वमस्मामभिसंविशस्वान्यत्र पापीरप वेशया धियः ॥२५॥ {५}
4670. (९,३.१ ) उपमितां प्रतिमितामथो परिमितामुत ।
4671. (९,३.१ ) शालाया विश्ववाराया नद्धानि वि चृतामसि ॥१॥
4672. (९,३.२ ) यत्ते नद्धं विश्ववारे पाशो ग्रन्थिश्च यः कृतः ।
4673. (९,३.२ ) बृहस्पतिरिवाहं बलं वाचा वि स्रंसयामि तत्॥२॥
4674. (९,३.३ ) आ ययाम सं बबर्ह ग्रन्थींश्चकार ते दृढान् ।
4675. (९,३.३ ) परूंषि विद्वां छस्तेवेन्द्रेण वि चृतामसि ॥३॥
4676. (९,३.४ ) वंशानां ते नहनानां प्राणाहस्य तृणस्य च ।
4677. (९,३.४ ) पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥४॥
4678. (९,३.५ ) संदंशानां पलदानां परिष्वञ्जल्यस्य च ।
4679. (९,३.५ ) इदं मानस्य पत्न्या नद्धानि वि चृतामसि ॥५॥
4680. (९,३.६ ) यानि तेऽन्तः शिक्यान्याबेधू रण्याय कम् ।
4681. (९,३.६ ) प्र ते तानि चृतामसि शिवा मानस्य पत्नि न उद्धिता तन्वे भव ॥६॥
4682. (९,३.७ ) हविर्धानमग्निशालं पत्नीनां सदनं सदः ।
4683. (९,३.७ ) सदो देवानामसि देवि शाले ॥७॥
4684. (९,३.८ ) अक्षुमोपशं विततं सहस्राक्षं विषूवति ।
4685. (९,३.८ ) अवनद्धमभिहितं ब्रह्मणा वि चृतामसि ॥८॥
4686. (९,३.९ ) यस्त्वा शाले प्रतिगृह्णाति येन चासि मिता त्वम् ।
4687. (९,३.९ ) उभौ मानस्य पत्नि तौ जीवतां जरदष्टी ॥९॥
4688. (९,३.१० ) अमुत्रैनमा गछताद्दृढा नद्धा परिष्कृता ।
4689. (९,३.१० ) यस्यास्ते विचृतामस्यङ्गमङ्गं परुष्परुः ॥१०॥ {६}
4690. (९,३.११ ) यस्त्वा शाले निमिमाय संजभार वनस्पतीन् ।
4691. (९,३.११ ) प्रजायै चक्रे त्वा शाले परमेष्ठी प्रजापतिः ॥११॥
4692. (९,३.१२ ) नमस्तस्मै नमो दात्रे शालापतये च कृण्मः ।
4693. (९,३.१२ ) नमोऽग्नये प्रचरते पुरुषाय च ते नमः ॥१२॥
4694. (९,३.१३ ) गोभ्यो अश्वेभ्यो नमो यच्छालायां विजायते ।
4695. (९,३.१३ ) विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१३॥
4696. (९,३.१४ ) अग्निमन्तश्छादयसि पुरुषान् पशुभिः सह ।
4697. (९,३.१४ ) विजावति प्रजावति वि ते पाशांश्चृतामसि ॥१४॥
4698. (९,३.१५ ) अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम् ।
4699. (९,३.१५ ) यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः ।
4700. (९,३.१५ ) तेन शालां प्रति गृह्णामि तस्मै ॥१५॥
4701. (९,३.१६ ) ऊर्जस्वती पयस्वती पृथिव्यां निमिता मिता ।
4702. (९,३.१६ ) विश्वान्नं बिभ्रती शाले मा हिंसीः प्रतिगृह्णतः ॥१६॥
4703. (९,३.१७ ) तृणैरावृता पलदान् वसाना रात्रीव शाला जगतो निवेशनी ।
4704. (९,३.१७ ) मिता पृथिव्यां तिष्ठसि हस्तिनीव पद्वती ॥१७॥
4705. (९,३.१८ ) इटस्य ते वि चृताम्यपिनद्धमपोर्णुवन् ।
4706. (९,३.१८ ) वरुणेन समुब्जितां मित्रः प्रातर्व्युब्जतु ॥१८॥
4707. (९,३.१९ ) ब्रह्मणा शालां निमितां कविभिर्निमितां मिताम् ।
4708. (९,३.१९ ) इन्द्राग्नी रक्षतां शालाममृतौ सोम्यं सदः ॥१९॥
4709. (९,३.२० ) कुलायेऽधि कुलायं कोशे कोशः समुब्जितः ।
4710. (९,३.२० ) तत्र मर्तो वि जायते यस्माद्विश्वं प्रजायते ॥२०॥ {७}
4711. (९,३.२१ ) या द्विपक्षा चतुष्पक्षा षट्पक्षा या निमीयते ।
4712. (९,३.२१ ) अष्टापक्षां दशपक्षां शालां मानस्य पत्नीमग्निर्गर्भ इवा शये ॥२१॥
4713. (९,३.२२ ) प्रतीचीं त्वा प्रतीचीनः शाले प्रैम्यहिंसतीम् ।
4714. (९,३.२२ ) अग्निर्ह्यन्तरापश्च ऋतस्य प्रथमा द्वाः ॥२२॥
4715. (९,३.२३ ) इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।
4716. (९,३.२३ ) गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥२३॥
4717. (९,३.२४ ) मा नः पाशं प्रति मुचो गुरुर्भारो लघुर्भव ।
4718. (९,३.२४ ) वधूमिव त्वा शाले यत्रकामं भरामसि ॥२४॥
4719. (९,३.२५ ) प्राच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२५॥
4720. (९,३.२६ ) दक्षिणाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२६॥
4721. (९,३.२७ ) प्रतीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२७॥
4722. (९,३.२८ ) उदीच्या दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२८॥
4723. (९,३.२९ ) ध्रुवाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥२९॥
4724. (९,३.३० ) ऊर्ध्वाया दिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३०॥
4725. (९,३.३१ ) दिशोदिशः शालाया नमो महिम्ने स्वाहा देवेभ्यः स्वाह्येभ्यः ॥३१॥ {८}
4726. (९,४.१ ) साहस्रस्त्वेष ऋषभः पयस्वान् विश्वा रूपाणि वक्षणासु बिभ्रत्।
4727. (९,४.१ ) भद्रं दात्रे यजमानाय शीक्षन् बार्हस्पत्य उस्रियस्तन्तुमातान् ॥१॥
4728. (९,४.२ ) अपां यो अग्ने प्रतिमा बभूव प्रभूः सर्वस्मै पृथिवीव देवी ।
4729. (९,४.२ ) पिता वत्सानां पतिरघ्न्यानां साहस्रे पोषे अपि नः कृणोतु ॥२॥
4730. (९,४.३ ) पुमान् अन्तर्वान्त्स्थविरः पयस्वान् वसोः कबन्धमृषभो बिभर्ति ।
4731. (९,४.३ ) तमिन्द्राय पथिभिर्देवयानैर्हुतमग्निर्वहतु जातवेदाः ॥३॥
4732. (९,४.४ ) पिता वत्सानां पतिरघ्न्यानामथो पिता महतां गर्गराणाम् ।
4733. (९,४.४ ) वत्सो जरायु प्रतिधुक्पीयूष आमिक्षा घृतं तद्वस्य रेतः ॥४॥
4734. (९,४.५ ) देवानां भाग उपनाह एषोऽपां रस ओषधीनां घृतस्य ।
4735. (९,४.५ ) सोमस्य भक्षमवृणीत शक्रो बृहन्न् अद्रिरभवद्यच्छरीरम् ॥५॥
4736. (९,४.६ ) सोमेन पूर्णं कलशं बिभर्षि त्वस्ता रुपाणां जनिता पशूनाम् ।
4737. (९,४.६ ) शिवास्ते सन्तु प्रजन्व इह या इमा न्यस्मभ्यं स्वधिते यछ या अमूः ॥६॥
4738. (९,४.७ ) आजं बिभर्ति घृतमस्य रेतः साहस्रः पोषस्तमु यज्ञमाहुः ।
4739. (९,४.७ ) इन्द्रस्य रूपमृषभो वसानः सो अस्मान् देवाः शिव ऐतु दत्तः ॥७॥
4740. (९,४.८ ) इन्द्रस्यौजो वरुणस्य बाहू अश्विनोरंसौ मरुतामियं ककुत्।
4741. (९,४.८ ) बृहस्पतिं संभृतमेतमाहुर्ये धीरासः कवयो ये मनीषिणः ॥८॥
4742. (९,४.९ ) दैवीर्विशः पयस्वान् आ तनोषि त्वामिन्द्रं त्वां सरस्वन्तमाहुः ।
4743. (९,४.९ ) सहस्रं स एकमुखा ददाति यो ब्राह्मण ऋषभमाजुहोति ॥९॥
4744. (९,४.१० ) बृहस्पतिः सविता ते वयो दधौ त्वष्टुर्वायोः पर्यात्मा त आभृतः ।
4745. (९,४.१० ) अन्तरिक्षे मनसा त्वा जुहोमि बर्हिष्टे द्यावापृथिवी उभे स्ताम् ॥१०॥ {९}
4746. (९,४.११ ) य इन्द्र इव देवेषु गोष्वेति विवावदत्।
4747. (९,४.११ ) तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥११॥
4748. (९,४.१२ ) पार्श्वे आस्तामनुमत्या भगस्यास्तामनूवृजौ ।
4749. (९,४.१२ ) अष्ठीवन्तावब्रवीन् मित्रो ममैतौ केवलाविति ॥१२॥
4750. (९,४.१३ ) भसदासीदादित्यानां श्रोणी आस्तां बृहस्पतेः ।
4751. (९,४.१३ ) पुछं वातस्य देवस्य तेन धूनोत्योषधीः ॥१३॥
4752. (९,४.१४ ) गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन् ।
4753. (९,४.१४ ) उत्थातुरब्रुवन् पद ऋषभं यदकल्पयन् ॥१४॥
4754. (९,४.१५ ) क्रोड आसीज्जामिशंसस्य सोमस्य क्लशो धृतः ।
4755. (९,४.१५ ) देवाः संगत्य यत्सर्व ऋषभं व्यकल्पयन् ॥१५॥
4756. (९,४.१६ ) ते कुष्ठिकाः सरमायै कुर्मेभ्यो अदधुः शफान् ।
4757. (९,४.१६ ) ऊबध्यमस्य कीतेभ्यः श्ववर्तेभ्यो अधारयन् ॥१६॥
4758. (९,४.१७ ) शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा ।
4759. (९,४.१७ ) शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥१७॥
4760. (९,४.१८ ) शतयाजं स यजते नैनं दुन्वन्त्यग्नयः ।
4761. (९,४.१८ ) जिन्वन्ति विश्वे तं देवा यो ब्राह्मण ऋषभमाजुहोति ॥१८॥
4762. (९,४.१९ ) ब्राह्मणेभ्य ऋषभं दत्त्वा वरीयः कृणुते मनः ।
4763. (९,४.१९ ) पुष्टिं सो अघ्न्यानां स्वे गोष्ठेऽव पश्यते ॥१९॥
4764. (९,४.२० ) गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम् ।
4765. (९,४.२० ) तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥२०॥
4766. (९,४.२१ ) अयं पिपान इन्द्र इद्रयिं दधातु चेतनीम् ।
4767. (९,४.२१ ) अयं धेनुं सुदुघां नित्यवत्सां वशं दुहां विपश्चितं परो दिवः ॥२१॥
4768. (९,४.२२ ) पिशङ्गरूपो नभसो वयोधा ऐन्द्रः शुष्मो विश्वरूपो न आगन् ।
4769. (९,४.२२ ) आयुरस्मभ्यं दधत्प्रजां च रायश्च पोषैरभि नः सचताम् ॥२२॥
4770. (९,४.२३ ) उपेहोपपर्चनास्मिन् गोष्ठ उप पृञ्च नः ।
4771. (९,४.२३ ) उप ऋषभस्य यद्रेत उपेन्द्र तव वीर्यम् ॥२३॥
4772. (९,४.२४ ) एतं वो युवानं प्रति दध्मो अत्र तेन क्रीडन्तीश्चरत वशामनु ।
4773. (९,४.२४ ) मा नो हासिष्ट जनुषा सुभागा रायश्च पोषैरभि नः सचध्वम् ॥२४॥ {१०}
4774. (९,५.१ ) आ नयैतमा रभस्व सुकृतां लोकमपि गछतु प्रजानन् ।
4775. (९,५.१ ) तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥१॥
4776. (९,५.२ ) इन्द्राय भागं परि त्वा नयाम्यस्मिन् यज्ञे यजमानाय सूरिम् ।
4777. (९,५.२ ) ये नो द्विषन्त्यनु तान् रभस्वानागसो यजमानस्य वीराः ॥२॥
4778. (९,५.३ ) प्र पदोऽव नेनिग्धि दुश्चरितं यच्चचार शुद्धैः शफैरा क्रमतां प्रजानन् ।
4779. (९,५.३ ) तीर्त्वा तमांसि बहुधा विपश्यन्न् अजो नाकमा क्रमतां तृतीयम् ॥३॥
4780. (९,५.४ ) अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः ।
4781. (९,५.४ ) माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥४॥
4782. (९,५.५ ) ऋचा कुम्भीमध्यग्नौ श्रयाम्या सिञ्चोदकमव धेह्येनम् ।
4783. (९,५.५ ) पर्याधत्ताग्निना शमितारः शृतो गछतु सुकृतां यत्र लोकः ॥५॥
4784. (९,५.६ ) उत्क्रामातः परि चेदतप्तस्तप्ताच्चरोरधि नाकं तृतीयम् ।
4785. (९,५.६ ) अग्नेरग्निरधि सं बभूविथ ज्योतिष्मन्तमभि लोकं जयैतम् ॥६॥
4786. (९,५.७ ) अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः ।
4787. (९,५.७ ) अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥७॥
4788. (९,५.८ ) पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि ।
4789. (९,५.८ ) ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥८॥
4790. (९,५.९ ) अजा रोह सुकृतां यत्र लोकः शरभो न चत्तोऽति दुर्गान्येषः ।
4791. (९,५.९ ) पञ्चौदनो ब्रह्मणे दीयमानः स दातारं तृप्त्या तर्पयाति ॥९॥
4792. (९,५.१० ) अजस्त्रिनाके त्रिदिवे त्रिपृष्ठे नाकस्य पृष्ठे ददिवांसं दधाति ।
4793. (९,५.१० ) पञ्चौदनो ब्रह्मणे दीयमानो विश्वरूपा धेनुः कामदुघास्येका ॥१०॥ {११}
4794. (९,५.११ ) एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति ।
4795. (९,५.११ ) अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥११॥
4796. (९,५.१२ ) ईजानानां सुकृतां लोकमीप्सन् पञ्चौदनं ब्रह्मणेऽजं ददाति ।
4797. (९,५.१२ ) स व्याप्तिमभि लोकं जयैतं शिवोऽस्मभ्यं प्रतिगृहीतो अस्तु ॥१२॥
4798. (९,५.१३ ) अजो ह्यग्नेरजनिष्ट शोकाद्विप्रो विप्रस्य सहसो विपश्चित्।
4799. (९,५.१३ ) इष्टं पूर्तमभिपूर्तं वषट्कृतं तद्देवा ऋतुशः कल्पयन्तु ॥१३॥
4800. (९,५.१४ ) अमोतं वासो दद्याद्धिरण्यमपि दक्षिणाम् ।
4801. (९,५.१४ ) तथा लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ॥१४॥
4802. (९,५.१५ ) एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः ।
4803. (९,५.१५ ) स्तभान् पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥१५॥
4804. (९,५.१६ ) अजोऽस्यज स्वर्गोऽसि त्वया लोकमङ्गिरसः प्राजानन् ।
4805. (९,५.१६ ) तं लोकं पुण्यं प्र ज्ञेषम् ॥१६॥
4806. (९,५.१७ ) येना सहस्रं वहसि येनाग्ने सर्ववेदसम् ।
4807. (९,५.१७ ) तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥१७॥
4808. (९,५.१८ ) अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निरृतिं बाधमानः ।
4809. (९,५.१८ ) तेन लोकान्त्सूर्यवतो जयेम ॥१८॥
4810. (९,५.१९ ) यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य ।
4811. (९,५.१९ ) सर्वं तदग्ने सुकृतस्य लोके जानीतान् नः संगमने पथीनाम् ॥१९॥
4812. (९,५.२० ) अजो वा इदमग्ने व्यक्रमत तस्योर इयमभवद्द्यौः पृष्टिहम् ।
4813. (९,५.२० ) अन्तरिक्षं मध्यं दिशः पार्श्वे समुद्रौ कुक्षी ॥२०॥ {१२}
4814. (९,५.२१ ) सत्यं च र्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः ।
4815. (९,५.२१ ) एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥२१॥
4816. (९,५.२२ ) अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे ।
4817. (९,५.२२ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२२॥
4818. (९,५.२३ ) नास्यास्थीनि भिन्द्यान् न मज्ज्ञो निर्धयेत्।
4819. (९,५.२३ ) सर्वमेनं समादायेदमिदं प्र वेशयेत्॥२३॥
4820. (९,५.२४ ) इदमिदमेवास्य रूपं भवति तेनैनं सं गमयति ।
4821. (९,५.२४ ) इषं मह ऊर्जमस्मै दुहे योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२४॥
4822. (९,५.२५ ) पञ्च रुक्मा पञ्च नवानि वस्त्रा पञ्चास्मै धेनवः कामदुघा भवन्ति ।
4823. (९,५.२५ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२५॥
4824. (९,५.२६ ) पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति ।
4825. (९,५.२६ ) स्वर्गं लोकमश्नुते योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२६॥
4826. (९,५.२७ ) या पूर्वं पतिं वित्त्वाऽथान्यं विन्दतेऽपरम् ।
4827. (९,५.२७ ) पञ्चौदनं च तावजं ददातो न वि योषतः ॥२७॥
4828. (९,५.२८ ) समानलोको भवति पुनर्भुवापरः पतिः ।
4829. (९,५.२८ ) योऽजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥२८॥
4830. (९,५.२९ ) अनुपूर्ववत्सां धेनुमनड्वाहमुपबर्हणम् ।
4831. (९,५.२९ ) वासो हिरण्यं दत्त्वा ते यन्ति दिवमुत्तमाम् ॥२९॥
4832. (९,५.३० ) आत्मानं पितरं पुत्रं पौत्रं पितामहम् ।
4833. (९,५.३० ) जायां जनित्रीं मातरं ये प्रियास्तान् उप ह्वये ॥३०॥ {१३}
4834. (९,५.३१ ) यो वै नैदाघं नाम र्तुं वेद ।
4835. (९,५.३१ ) एष वै नैदाघो नाम र्तुर्यदजः पञ्चौदनः ।
4836. (९,५.३१ ) निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना ।
4837. (९,५.३२ ) यो वै कुर्वन्तं नाम र्तुं वेद ।
4838. (९,५.३२ ) कुर्वतींकुर्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
4839. (९,५.३२ ) एष वै कुर्वन् नाम र्तुर्यदजः पञ्चौदनः ।
4840. (९,५.३३ ) यो वै संयन्तं नाम र्तुं वेद ।
4841. (९,५.३३ ) संयतींसंयतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
4842. (९,५.३३ ) एष वै संयन् नाम र्तुर्यदजः पञ्चौदनः ।
4843. (९,५.३४ ) यो वै पिन्वन्तं नाम र्तुं वेद ।
4844. (९,५.३४ ) पिन्वतींपिन्वतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
4845. (९,५.३४ ) एष वै पिन्वन् नाम र्तुर्यदजः पञ्चौदनः ।
4846. (९,५.३५ ) यो वा उद्यन्तं नाम र्तुं वेद ।
4847. (९,५.३५ ) उद्यतींुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
4848. (९,५.३५ ) एष वा उद्यन्न् नाम र्तुर्यदजः पञ्चौदनः ।
4849. (९,५.३६ ) यो वा अभिभुवं नाम र्तुं वेद ।
4850. (९,५.३६ ) अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते ।
4851. (९,५.३६ ) एष वा अभिभूर्नाम र्तुर्यदजः पञ्चौदनः ।
4852. (९,५.३७ ) अजं च पचत पञ्च चौदनान् ।
4853. (९,५.३७ ) सर्वा दिशः संमनसः सध्रीचीः सान्तर्देशाः प्रति गृह्नन्तु त एतम् ॥३७॥
4854. (९,५.३८ ) तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥३८॥ {१४}
4855. (९,६.१ ) यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥१॥
4856. (९,६.२ ) सामानि यस्य लोमानि यजुर्हृदयमुच्यते परिस्तरणमिद्धविः ॥२॥
4857. (९,६.३ ) यद्वा अतिथिपतिरतिथीन् प्रतिपश्यति देवयजनं प्रेक्षते ॥३॥
4858. (९,६.४ ) यदभिवदति दीक्षामुपैति यदुदकं याचत्यपः प्र णयति ॥४॥
4859. (९,६.५ ) या एव यज्ञ आपः प्रणीयन्ते ता एव ताः ॥५॥
4860. (९,६.६ ) यत्तर्पणमाहरन्ति य एवाग्नीषोमीयः पशुर्बध्यते स एव सः ॥६॥
4861. (९,६.७ ) यदावसथान् कल्पयन्ति सदोहविर्धानान्येव तत्कल्पयन्ति ॥७॥
4862. (९,६.८ ) यदुपस्तृणन्ति बर्हिरेव तत्॥८॥
4863. (९,६.९ ) यदुपरिशयनमाहरन्ति स्वर्गमेव तेन लोकमव रुन्द्धे ॥९॥
4864. (९,६.१० ) यत्कशिपूपबर्हणमाहरन्ति परिधय एव ते ॥१०॥
4865. (९,६.११ ) यदाञ्जनाभ्यञ्जनमाहरन्त्याज्यमेव तत्॥११॥
4866. (९,६.१२ ) यत्पुरा परिवेषात्स्वादमाहरन्ति पुरोदाशावेव तौ ॥१२॥
4867. (९,६.१३ ) यदशनकृतं ह्वयन्ति हविष्कृतमेव तद्ध्वयन्ति ॥१३॥
4868. (९,६.१४ ) ये व्रीहयो यवा निरुप्यन्तेऽंशव एव ते ॥१४॥
4869. (९,६.१५ ) यान्युलूखलमुसलानि ग्रावाण एव ते ॥१५॥
4870. (९,६.१६ ) शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥१६॥
4871. (९,६.१७ ) स्रुग्दर्विर्नेक्षणमायवनं द्रोणकलशाः कुम्भ्यो वायव्यानि पात्राणीयमेव कृष्णाजिनम् ॥१७॥ {१५}
4872. (९,६.१८ ) यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३ इति ॥१८॥
4873. (९,६.१९ ) यदाह भूय उद्धरेति प्राणमेव तेन वर्षीयांसं कुरुते ॥१९॥
4874. (९,६.२० ) उप हरति हवींष्या सादयति ॥२०॥
4875. (९,६.२१ ) तेषामासन्नानामतिथिरात्मन् जुहोति ॥२१॥
4876. (९,६.२२ ) स्रुचा हस्तेन प्राणे यूपे स्रुक्कारेण वषट्कारेण ॥२२॥
4877. (९,६.२३ ) एते वै प्रियाश्चाप्रियाश्च र्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥२३॥
4878. (९,६.२४ ) स य एवं विद्वान् न द्विषन्न् अश्नीयान् न द्विषतोऽन्नमश्नीयान् न मीमांसितस्य न मीमांसमानस्य ॥२४॥
4879. (९,६.२५ ) सर्वो वा एष जग्धपाप्मा यस्यान्नमश्नन्ति ॥२५॥
4880. (९,६.२६ ) सर्वो वा एसोऽजग्धपाप्मा यस्यान्नं नाश्नन्ति ॥२६॥
4881. (९,६.२७ ) सर्वदा वा एष युक्तग्रावार्द्रपवित्रो वितताध्वर आहृतयज्ञक्रतुर्य उपहरति ॥२७॥
4882. (९,६.२८ ) प्राजापत्यो वा एतस्य यज्ञो विततो य उपहरति ॥२८॥
4883. (९,६.२९ ) प्रजापतेर्वा एष विक्रमान् अनुविक्रमते य उपहरति ॥२९॥
4884. (९,६.३० ) योऽतिथीनां स आहवनीयो यो वेश्मनि स गार्हपत्यो यस्मिन् पचन्ति स दक्षिणाग्निः ॥३०॥ {१६}
4885. (९,६.३१ ) इष्टं च वा एष पूर्तं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३१॥
4886. (९,६.३२ ) पयश्च वा एष रसं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३२॥
4887. (९,६.३३ ) ऊर्जां च वा एष स्फातिं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३३॥
4888. (९,६.३४ ) प्रजां वा एष पशूंश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३४॥
4889. (९,६.३५ ) कीर्तिं वा एष यशश्च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३५॥
4890. (९,६.३६ ) श्रियं वा एष संविदं च गृहाणामश्नाति यः पूर्वोऽतिथेरश्नाति ॥३६॥
4891. (९,६.३७ ) एष वा अतिथिर्यच्छ्रोत्रियस्तस्मात्पूर्वो नाश्नीयात्॥३७॥
4892. (९,६.३८ ) अशितावत्यतिथावश्नीयाद्यज्ञस्य सात्मत्वाय यज्ञस्याविछेदाय तद्व्रतम् ॥३८॥
4893. (९,६.३९ ) एतद्वा उ स्वादीयो यदधिगवं क्षीरं वा मांसं वा तदेव नाश्नीयात्॥३९॥ {१७}
4894. (९,६.४० ) स य एवं विद्वान् क्षीरमुपसिच्योपहरति ।
4895. (९,६.४० ) यावदग्निष्टोमेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४०॥
4896. (९,६.४१ ) स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति ।
4897. (९,६.४१ ) यावदतिरात्रेणेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४१॥
4898. (९,६.४२ ) स य एवं विद्वान् मधूपसिच्योपहरति ।
4899. (९,६.४२ ) यावद्सत्त्रसद्येनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४२॥
4900. (९,६.४३ ) स य एवं विद्वान् मांसमुपसिच्योपहरति ।
4901. (९,६.४३ ) यावद्द्वादशाहेनेष्ट्वा सुसमृद्धेनावरुन्द्धे तावदेनेनाव रुन्द्धे ॥४३॥
4902. (९,६.४४ ) स य एवं विद्वान् उदकमुपसिच्योपहरति ।
4903. (९,६.४४ ) प्रजानां प्रजननाय गछति प्रतिष्ठां प्रियः प्रजानां भवति य एवं विद्वान् उपसिच्योपहरति ॥४४॥ {१८}
4904. (९,६.४५ ) तस्मा उषा हिङ्कृणोति सविता प्र स्तौति ।
4905. (९,६.४५ ) बृहस्पतिरूर्जयोद्गायति त्वष्टा पुष्ट्या प्रति हरति विश्वे देवा निधनम् ॥२॥
4906. (९,६.४५ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४५॥
4907. (९,६.४६ ) तस्मा उद्यन्त्सूर्यो हिङ्कृणोति संगवः प्र स्तौति ।
4908. (९,६.४६ ) मध्यन्दिन उद्गायत्यपराह्णः प्रति हरत्यस्तंयन् निधनम् ।
4909. (९,६.४६ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४६॥
4910. (९,६.४७ ) तस्मा अभ्रो भवन् हिङ्कृणोति स्तनयन् प्र स्तौति ।
4911. (९,६.४७ ) विद्योतमानः प्रति हरति वर्षन्न् उद्गायत्युद्गृह्णन् निधनम् ।
4912. (९,६.४७ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४७॥
4913. (९,६.४८ ) अतिथीन् प्रति पश्यति हिङ्कृणोत्यभि वदति प्र स्तौत्युदकं याचत्युद्गायति ।
4914. (९,६.४८ ) उप हरति प्रति हरत्युच्छिष्टं निधनम् ।
4915. (९,६.४८ ) निधनं भूत्याः प्रजायाः पशूनां भवति य एवं वेद ॥४८॥ {१९}
4916. (९,६.४८ ) यत्क्षत्तारं ह्वयत्या श्रावयत्येव तत्॥४९॥
4917. (९,६.५० ) यत्प्रतिशृणोति प्रत्याश्रावयत्येव तत्॥५०॥
4918. (९,६.५१ ) यत्परिवेष्टारः पात्रहस्ताः पूर्वे चापरे च प्रपद्यन्ते चमसाध्वर्यव एव ते ॥५१॥
4919. (९,६.५२ ) तेषां न कश्चनाहोता ॥५२॥
4920. (९,६.५३ ) यद्वा अतिथिपतिरतिथीन् परिविष्य गृहान् उपोदैत्यवभृथमेव तदुपावैति ॥५३॥
4921. (९,६.५४ ) यत्सभागयति दक्षिणाः सभागयति यदनुतिष्ठत उदवस्यत्येव तत्॥५४॥
4922. (९,६.५५ ) स उपहूतः पृथिव्यां भक्षयत्युपहूतस्तस्मिन् यत्पृथिव्यां विश्वरूपम् ॥५५॥
4923. (९,६.५६ ) स उपहूतोऽन्तरिक्षे भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५६॥
4924. (९,६.५७ ) स उपहूतो दिवि भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५७॥
4925. (९,६.५८ ) स उपहूतो देवेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५८॥
4926. (९,६.५९ ) स उपहूतो लोकेषु भक्षयत्युपहूतस्तस्मिन् यद्दिवि विश्वरूपम् ॥५९॥
4927. (९,६.६० ) स उपहूत उपहूतः ॥६०॥
4928. (९,६.६१ ) आप्नोतीमं लोकमाप्नोत्यमुम् ॥६१॥
4929. (९,६.६२ ) ज्योतिष्मतो लोकान् जयति य एवं वेद ॥६२॥ {२०}
4930. (९,७.१ ) प्रजापतिश्च परमेष्ठी च शृङ्गे इन्द्रः शिरो अग्निर्ललाटं यमः कृकाटम् ॥१॥
4931. (९,७.२ ) सोमो राजा मस्तिष्को द्यौरुत्तरहनुः पृथिव्यधरहनुः ॥२॥
4932. (९,७.३ ) विद्युज्जिह्वा मरुतो दन्ता रेवतिर्ग्रीवाः कृत्तिका स्कन्धा घर्मो वहः ॥३॥
4933. (९,७.४ ) विश्वं वायुः स्वर्गो लोकः कृष्णद्रं विधरणी निवेष्यः ॥४॥
4934. (९,७.५ ) श्येनः क्रोतोऽन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥५॥
4935. (९,७.६ ) देवानां पत्नीः पृष्टय उपसदः पर्शवः ॥६॥
4936. (९,७.७ ) मित्रश्च वरुणश्चांसौ त्वष्टा चार्यमा च दोषणी महादेवो बाहू ॥७॥
4937. (९,७.८ ) इन्द्राणी भसद्वायुः पुछं पवमानो बालाः ॥८॥
4938. (९,७.९ ) ब्रह्म च क्षत्रं च श्रोणी बलमूरू ॥९॥
4939. (९,७.१० ) धाता च सविता चाष्ठीवन्तौ जङ्घा गन्धर्वा अप्सरसः कुष्ठिका अदितिः शफाः ॥१०॥
4940. (९,७.११ ) चेतो हृदयं यकृन् मेधा व्रतं पुरीतत्॥११॥
4941. (९,७.१२ ) क्षुत्कुक्षिरिरा वनिष्ठुः पर्वताः प्लाशयः ॥१२॥
4942. (९,७.१३ ) क्रोधो वृक्कौ मन्युराण्डौ प्रजा शेपः ॥१३॥
4943. (९,७.१४ ) नदी सूत्री वर्षस्य पतय स्तना स्तनयित्नुरूधः ॥१४॥
4944. (९,७.१५ ) विश्वव्यचास्चर्मौषधयो लोमानि नक्षत्राणि रूपम् ॥१५॥
4945. (९,७.१६ ) देवजना गुदा मनुष्या आन्त्राण्यत्रा उदरम् ॥१६॥
4946. (९,७.१७ ) रक्षांसि लोहितमितरजना ऊबध्यम् ॥१७॥
4947. (९,७.१८ ) अभ्रं पीबो मज्जा निधनम् ॥१८॥
4948. (९,७.१९ ) अग्निरासीन उत्थितोऽश्विना ॥१९॥
4949. (९,७.२० ) इन्द्रः प्राङ्तिष्ठन् दक्षिणा तिष्ठन् यमः ॥२०॥
4950. (९,७.२१ ) प्रत्यङ्तिष्ठन् धातोदङ्तिष्ठन्त्सविता ॥२१॥
4951. (९,७.२२ ) तृणानि प्राप्तः सोमो राजा ॥२२॥
4952. (९,७.२३ ) मित्र ईक्षमाण आवृत्त आनन्दः ॥२३॥
4953. (९,७.२४ ) युज्यमानो वैश्वदेवो युक्तः प्रजापतिर्विमुक्तः सर्वम् ॥२४॥
4954. (९,७.२५ ) एतद्वै विश्वरूपं सर्वरूपं गोरूपम् ॥२५॥
4955. (९,७.२६ ) उपैनं विश्वरूपाः सर्वरूपाः पशवस्तिष्ठन्ति य एवं वेद ॥२६॥ {२१}
4956. (९,८.१ ) शीर्षक्तिं शीर्षामयं कर्णशूलं विलोहितम् ।
4957. (९,८.१ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥१॥
4958. (९,८.२ ) कर्णाभ्यां ते कङ्कूषेभ्यः कर्णशूलं विसल्पकम् ।
4959. (९,८.२ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥२॥
4960. (९,८.३ ) यस्य हेतोः प्रच्यवते यक्ष्मः कर्णतो आस्यतः ।
4961. (९,८.३ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥३॥
4962. (९,८.४ ) यः कृणोति प्रमोतमन्धं कृणोति पूरुषम् ।
4963. (९,८.४ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥४॥
4964. (९,८.५ ) अङ्गभेदमङ्गज्वरं विश्वाङ्ग्यं विसल्पकम् ।
4965. (९,८.५ ) सर्वं शीर्षन्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥५॥
4966. (९,८.६ ) यस्य भीमः प्रतीकाश उद्वेपयति पूरुषम् ।
4967. (९,८.६ ) तक्मानं विश्वशारदं बहिर्निर्मन्त्रयामहे ॥६॥
4968. (९,८.७ ) य ऊरू अनुसर्पत्यथो एति गवीनिके ।
4969. (९,८.७ ) यक्ष्मं ते अन्तरङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥७॥
4970. (९,८.८ ) यदि कामादपकामाद्धृदयाज्जायते परि ।
4971. (९,८.८ ) हृदो बलासमङ्गेभ्यो बहिर्निर्मन्त्रयामहे ॥८॥
4972. (९,८.९ ) हरिमाणं ते अङ्गेभ्योऽप्वामन्तरोदरात्।
4973. (९,८.९ ) यक्ष्मोधामन्तरात्मनो बहिर्निर्मन्त्रयामहे ॥९॥
4974. (९,८.१० ) आसो बलासो भवतु मूत्रं भवत्वामयत्।
4975. (९,८.१० ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१०॥ {२२}
4976. (९,८.११ ) बहिर्बिलं निर्द्रवतु काहाबाहं तवोदरात्।
4977. (९,८.११ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥११॥
4978. (९,८.१२ ) उदरात्ते क्लोम्नो नाभ्या हृदयादधि ।
4979. (९,८.१२ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१२॥
4980. (९,८.१३ ) याः सीमानं विरुजन्ति मूर्धानं प्रत्यर्षनीः ।
4981. (९,८.१३ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१३॥
4982. (९,८.१४ ) या हृदयमुपर्षन्त्यनुतन्वन्ति कीकसाः ।
4983. (९,८.१४ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१४॥
4984. (९,८.१५ ) याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पृष्टीः ।
4985. (९,८.१५ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१५॥
4986. (९,८.१६ ) यास्तिरश्चीः उपर्षन्त्यर्षणीर्वक्षणासु ते ।
4987. (९,८.१६ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१६॥
4988. (९,८.१७ ) या गुदा अनुसर्पन्त्यान्त्राणि मोहयन्ति च ।
4989. (९,८.१७ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१७॥
4990. (९,८.१८ ) या मज्ज्ञो निर्धयन्ति परूंषि विरुजन्ति च ।
4991. (९,८.१८ ) अहिंसन्तीरनामया निर्द्रवन्तु बहिर्बिलम् ॥१८॥
4992. (९,८.१९ ) ये अङ्गानि मदयन्ति यक्ष्मासो रोपणास्तव ।
4993. (९,८.१९ ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥१९॥
4994. (९,८.२० ) विसल्पस्य विद्रधस्य वातीकारस्य वालजेः ।
4995. (९,८.२० ) यक्ष्माणां सर्वेषां विषं निरवोचमहं त्वत्॥२०॥
4996. (९,८.२१ ) पादाभ्यां ते जानुभ्यां श्रोणिभ्यां परि भंससः ।
4997. (९,८.२१ ) अनूकादर्षणीरुष्णिहाभ्यः शीर्ष्णो रोगमनीनशम् ॥२१॥
4998. (९,८.२२ ) सं ते शीर्ष्णः कपालानि हृदयस्य च यो विधुः ।
4999. (९,८.२२ ) उद्यन्न् आदित्य रश्मिभिः शीर्ष्णो रोगमनीनशोऽङ्गभेदमशीशमः ॥२२॥ {२३}
5000. (९,९.१ ) अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
5001. (९,९.१ ) तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥१॥
5002. (९,९.२ ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
5003. (९,९.२ ) त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥२॥
5004. (९,९.३ ) इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
5005. (९,९.३ ) सप्त स्वसारो अभि सं नवन्त यत्र गवां निहिता सप्त नाम ॥३॥
5006. (९,९.४ ) को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।
5007. (९,९.४ ) भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत्॥४॥
5008. (९,९.५ ) इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।
5009. (९,९.५ ) शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदाऽपुः ॥५॥
5010. (९,९.६ ) पाकः पृछामि मनसाऽविजानन् देवानामेना निहिता पदानि ।
5011. (९,९.६ ) वत्से बष्कयेऽधि सप्त तन्तून् वि तत्निरे कवय ओतवा उ ॥६॥
5012. (९,९.७ ) अचिकित्वांस्चिकितुषश्चिदत्र कवीन् पृछामि विद्वनो न विद्वान् ।
5013. (९,९.७ ) वि यस्तस्तम्भ षटिमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥७॥
5014. (९,९.८ ) माता पितरमृत आ बभाजऽधीत्यग्रे मनसा सं हि जग्मे ।
5015. (९,९.८ ) सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥८॥
5016. (९,९.९ ) युक्ता मातासिद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः ।
5017. (९,९.९ ) अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योगनेषु ॥९॥
5018. (९,९.१० ) तिस्रो मतॄस्त्रीन् पितॄन् बिभ्रदेक उर्ध्वस्तस्थौ नेमव ग्लापयन्त ।
5019. (९,९.१० ) मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदो वाचमविश्वविन्नाम् ॥१०॥ {२४}
5020. (९,९.११ ) पञ्चारे चक्रे परिवर्तमाने यस्मिन्न् आतस्थुर्भुवनानि विश्वा ।
5021. (९,९.११ ) तस्य नाक्षस्तप्यते भूरिभारः सनादेव न छिद्यते सनाभिः ॥११॥
5022. (९,९.१२ ) पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
5023. (९,९.१२ ) अथेमे अन्य उपरे विचक्षणे सप्तचक्रे षडर आहुरर्पितम् ॥१२॥
5024. (९,९.१३ ) द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
5025. (९,९.१३ ) आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥१३॥
5026. (९,९.१४ ) सनेमि चक्रमजरं वि ववृत उत्तानायां दश युक्ता वहन्ति ।
5027. (९,९.१४ ) सूर्यस्य चक्षू रजसैत्यावृतं यस्मिन्न् आतस्थुर्भुवनानि विश्वा ॥१४॥
5028. (९,९.१५ ) स्त्रियः सतीस्तामु मे पुंसः आहुः पश्यदक्षण्वान्न् वि चेतदन्धः ।
5029. (९,९.१५ ) कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत्॥१५॥
5030. (९,९.१६ ) साकंजानां सप्तथमाहुरेकजं षडिद्यमा ऋषयो देवजा इति ।
5031. (९,९.१६ ) तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥१६॥
5032. (९,९.१७ ) अवः परेण पर एना अवरेण पदा वत्सं बिभ्रती गौरुदस्थात्।
5033. (९,९.१७ ) सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥१७॥
5034. (९,९.१८ ) अवः परेण पितरं यो अस्य वेदावः परेण पर एनावरेण ।
5035. (९,९.१८ ) कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥१८॥
5036. (९,९.१९ ) ये अर्वाञ्चस्तामु पराच आहुर्ये पराञ्चस्तामु अर्वाच आहुः ।
5037. (९,९.१९ ) इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥१९॥
5038. (९,९.२० ) द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।
5039. (९,९.२० ) तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्न् अन्यो अभि चाकशीति ॥२०॥
5040. (९,९.२१ ) यस्मिन् वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
5041. (९,९.२१ ) तस्य यदाहुः पिप्पलं स्वाद्वग्रे तन् नोन् नशद्यः पितरं न वेद ॥२१॥
5042. (९,९.२२ ) यत्रा सुपर्णा अमृतस्य भक्षमनिमेषं विदथाभिस्वरन्ति ।
5043. (९,९.२२ ) एना विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥२२॥ {२५}
5044. (९,१०.१ ) यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभं वा त्रैष्टुभान् निरतक्षत ।
5045. (९,१०.१ ) यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानुशुः ॥१॥
5046. (९,१०.२ ) गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
5047. (९,१०.२ ) वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥२॥
5048. (९,१०.३ ) जगता सिन्धुं दिव्यस्कभायद्रथंतरे सूर्यं पर्यपश्यत्।
5049. (९,१०.३ ) गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥३॥
5050. (९,१०.४ ) उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
5051. (९,१०.४ ) श्रेष्ठं सवं सविता साविषन् नोऽभीद्धो घर्मस्तदु षु प्र वोचत्॥४॥
5052. (९,१०.५ ) हिङ्कृण्वती वसुपत्नी वसूनां वत्समिछन्ती मनसाभ्यागात्।
5053. (९,१०.५ ) दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥५॥
5054. (९,१०.६ ) गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन् मातवा उ ।
5055. (९,१०.६ ) सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥६॥
5056. (९,१०.७ ) अयं स शिङ्क्ते येन गौरभिवृता मिमाति मयुं ध्वसनावधि श्रिता ।
5057. (९,१०.७ ) सा चित्तिभिर्नि हि चकार मर्त्यान् विद्युद्भवन्ती प्रति वव्रिमौहत ॥७॥
5058. (९,१०.८ ) अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।
5059. (९,१०.८ ) जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥८॥
5060. (९,१०.९ ) विधुं दद्राणं सलिलस्य पृष्ठे युवानं सन्तं पलितो जगार ।
5061. (९,१०.९ ) देवस्य पश्य काव्यं महित्वाद्य ममार स ह्यः समान ॥९॥
5062. (९,१०.१० ) य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन् नु तस्मात्।
5063. (९,१०.१० ) स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिरा विवेश ॥१०॥ {२६}
5064. (९,१०.११ ) अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
5065. (९,१०.११ ) स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥११॥
5066. (९,१०.१२ ) द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम् ।
5067. (९,१०.१२ ) उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात्॥१२॥
5068. (९,१०.१३ ) पृछामि त्वा परमन्तं पृथिव्याः पृछामि वृष्णो अश्वस्य रेतः ।
5069. (९,१०.१३ ) पृछामि विश्वस्य भुवनस्य नाभिं पृछामि वाचः परमं व्योम ॥१३॥
5070. (९,१०.१४ ) इयं वेदिः परो अन्तः पृथिव्या अयं सोमो वृष्णो अश्वस्य रेतः ।
5071. (९,१०.१४ ) अयं यज्ञो विश्वस्य भुवनस्य नाभिर्ब्रह्मायं वाचः परमं व्योम ॥१४॥
5072. (९,१०.१५ ) न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
5073. (९,१०.१५ ) यदा मागन् प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥१५॥
5074. (९,१०.१६ ) अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
5075. (९,१०.१६ ) ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥१६॥
5076. (९,१०.१७ ) सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
5077. (९,१०.१७ ) ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥१७॥
5078. (९,१०.१८ ) ऋचो अक्षरे परमे व्योमन् यस्मिन् देवा अधि विश्वे निषेदुः ।
5079. (९,१०.१८ ) यस्तन् न वेद किमृचा करिष्यति य इत्तद्विदुस्ते अमी समासते ॥१८॥
5080. (९,१०.१९ ) ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चकॢपुर्विश्वमेजत्।
5081. (९,१०.१९ ) त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥१९॥
5082. (९,१०.२० ) सूयवसाद्भगवती हि भूया अधा वयं भगवन्तः स्याम ।
5083. (९,१०.२० ) अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥२०॥ {२७}
5084. (९,१०.२१ ) गौरिन् मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी ।
5085. (९,१०.२१ ) अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥२१॥
5086. (९,१०.२२ ) कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
5087. (९,१०.२२ ) तमाववृत्रन्त्सदनादृतस्यादिद्घृतेन पृथिवीं व्यूदुः ॥२२॥
5088. (९,१०.२३ ) अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
5089. (९,१०.२३ ) गर्भो भारं भरत्या चिदस्या ऋतं पिपर्ति अनृतं नि पाति ॥२३॥
5090. (९,१०.२४ ) विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः ।
5091. (९,१०.२४ ) विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥२४॥
5092. (९,१०.२५ ) शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।
5093. (९,१०.२५ ) उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥२५॥
5094. (९,१०.२६ ) त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
5095. (९,१०.२६ ) विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥२६॥
5096. (९,१०.२७ ) चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
5097. (९,१०.२७ ) गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥२७॥
5098. (९,१०.२८ ) इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
5099. (९,१०.२८ ) एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥२८॥ {२८}
5100. (१०,१.१ ) यां कल्पयन्ति वहतौ वधूमिव विश्वरूपां हस्तकृतां चिकित्सवः ।
5101. (१०,१.१ ) सारादेत्वप नुदाम एनाम् ॥१॥
5102. (१०,१.२ ) शीर्षण्वती नस्वती कर्णिणी कृत्याकृता संभृता विश्वरूपा ।
5103. (१०,१.२ ) सारादेत्वप नुदाम एनाम् ॥२॥
5104. (१०,१.३ ) शूद्रकृता राजकृता स्त्रीकृता ब्रह्मभिः कृता ।
5105. (१०,१.३ ) जाया पत्या नुत्तेव कर्तारं बन्ध्वृछतु ॥३॥
5106. (१०,१.४ ) अनयाहमोषध्या सर्वाः कृत्या अदूदुषम् ।
5107. (१०,१.४ ) यां क्षेत्रे चक्रुर्यां गोषु यां वा ते पुरुषेषु ॥४॥
5108. (१०,१.५ ) अघमस्त्वघकृते शपथः शपथीयते ।
5109. (१०,१.५ ) प्रत्यक्प्रतिप्रहिण्मो यथा कृत्याकृतं हनत्॥५॥
5110. (१०,१.६ ) प्रतीचीन आङ्गिरसोऽध्यक्षो नः पुरोहितः ।
5111. (१०,१.६ ) प्रतीचीः कृत्या आकृत्यामून् कृत्याकृतो जहि ॥६॥
5112. (१०,१.७ ) यस्त्वोवाच परेहीति प्रतिकूलमुदाय्यम् ।
5113. (१०,१.७ ) तं कृत्येऽभिनिवर्तस्व मास्मान् इछो अनागसः ॥७॥
5114. (१०,१.८ ) यस्ते परूंषि संदधौ रथस्येव र्भुर्धिया ।
5115. (१०,१.८ ) तं गछ तत्र तेऽयनमज्ञातस्तेऽयं जनः ॥८॥
5116. (१०,१.९ ) ये त्वा कृत्वालेभिरे विद्वला अभिचारिणः ।
5117. (१०,१.९ ) शंभ्विदं कृत्यादूषणं प्रतिवर्त्म पुनःसरं तेन त्वा स्नपयामसि ॥९॥
5118. (१०,१.१० ) यद्दुर्भगां प्रस्नपितां मृतवत्सामुपेयिम ।
5119. (१०,१.१० ) अपैतु सर्वं मत्पापं द्रविणं मोप तिष्ठतु ॥१०॥ {१}
5120. (१०,१.११ ) यत्ते पितृभ्यो ददतो यज्ञे वा नाम जगृहुः ।
5121. (१०,१.११ ) संदेश्यात्सर्वस्मात्पापादिमा मुञ्चन्तु त्वौषधीः ॥११॥
5122. (१०,१.१२ ) देवैनसात्पित्र्यान् नामग्राहात्संदेश्यादभिनिष्कृतात्।
5123. (१०,१.१२ ) मुञ्चन्तु त्वा वीरुधो वीर्येण ब्रह्मणा ऋग्भिः पयसा ऋषीणाम् ॥१२॥
5124. (१०,१.१३ ) यथा वातश्च्यावयति भूम्या रेणुमन्तरिक्षाच्चाभ्रम् ।
5125. (१०,१.१३ ) एवा मत्सर्वं दुर्भूतं ब्रह्मनुत्तमपायति ॥१३॥
5126. (१०,१.१४ ) अप क्राम नानदती विनद्धा गर्दभीव ।
5127. (१०,१.१४ ) कर्तॄन् नक्षस्वेतो नुत्ता ब्रह्मणा वीर्यावता ॥१४॥
5128. (१०,१.१५ ) अयं पन्थाः कृत्येति त्वा नयामोऽभिप्रहितां प्रति त्वा प्र हिण्मः ।
5129. (१०,१.१५ ) तेनाभि याहि भञ्जत्यनस्वतीव वाहिनी विश्वरूपा कुरूतिनी ॥१५॥
5130. (१०,१.१६ ) पराक्ते ज्योतिरपथं ते अर्वागन्यत्रास्मदयना कृणुष्व ।
5131. (१०,१.१६ ) परेणेहि नवतिं नाव्या अति दुर्गाः स्रोत्या मा क्षणिष्ठाः परेहि ॥१६॥
5132. (१०,१.१७ ) वात इव वृक्षान् नि मृणीहि पादय मा गामश्वं पुरुषमुच्छिष एषाम् ।
5133. (१०,१.१७ ) कर्तॄन् निवृत्येतः कृत्येऽप्रजास्त्वाय बोधय ॥१७॥
5134. (१०,१.१८ ) यां ते बर्हिषि यां श्मशाने क्षेत्रे कृत्यां वलगं वा निचख्नुः ।
5135. (१०,१.१८ ) अग्नौ वा त्वा गार्हपत्येऽभिचेरुः पाकं सन्तं धीरतरा अनागसम् ॥१८॥
5136. (१०,१.१९ ) उपाहृतमनुबुद्धं निखातं वैरं त्सार्यन्वविदाम कर्त्रम् ।
5137. (१०,१.१९ ) तदेतु यत आभृतं तत्राश्व इव वि वर्ततां हन्तु कृत्याकृतः प्रजाम् ॥१९॥
5138. (१०,१.२० ) स्वायसा असयः सन्ति नो गृहे विद्मा ते कृत्ये यतिधा परूंषि ।
5139. (१०,१.२० ) उत्तिष्ठैव परेहीतोऽज्ञाते किमिहेछसि ॥२०॥ {२}
5140. (१०,१.२१ ) ग्रीवास्ते कृत्ये पादौ चापि कर्त्स्यामि निर्द्रव ।
5141. (१०,१.२१ ) इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती ॥२१॥
5142. (१०,१.२२ ) सोमो राजाधिपा मृडिता च भूतस्य नः पतयो मृडयन्तु ॥२२॥
5143. (१०,१.२३ ) भवाशर्वावस्यतां पापकृते कृत्याकृते ।
5144. (१०,१.२३ ) दुष्कृते विद्युतं देवहेतिम् ॥२३॥
5145. (१०,१.२४ ) यद्येयथ द्विपदी चतुष्पदी कृत्याकृता संभृता विश्वरूपा ।
5146. (१०,१.२४ ) सेतोऽष्टापदी भूत्वा पुनः परेहि दुछुने ॥२४॥
5147. (१०,१.२५ ) अभ्यक्ताक्ता स्वरंकृता सर्वं भरन्ती दुरितं परेहि ।
5148. (१०,१.२५ ) जानीहि कृत्ये कर्तारं दुहितेव पितरं स्वम् ॥२५॥
5149. (१०,१.२६ ) परेहि कृत्ये मा तिष्ठो विद्धस्येव पदं नय ।
5150. (१०,१.२६ ) मृगः स मृगयुस्त्वं न त्वा निकर्तुमर्हति ॥२६॥
5151. (१०,१.२७ ) उत हन्ति पूर्वासिनं प्रत्यादायापर इष्वा ।
5152. (१०,१.२७ ) उत पूर्वस्य निघ्नतो नि हन्त्यपरः प्रति ॥२७॥
5153. (१०,१.२८ ) एतद्धि शृणु मे वचोऽथेहि यत एयथ ।
5154. (१०,१.२८ ) यस्त्वा चकार तं प्रति ॥२८॥
5155. (१०,१.२९ ) अनागोहत्या वै भीमा कृत्ये मा नो गामश्वं पुरुषं वधीः ।
5156. (१०,१.२९ ) यत्रयत्रासि निहिता ततस्त्वोत्थापयामसि पर्णाल्लघीयसी भव ॥२९॥
5157. (१०,१.३० ) यदि स्थ तमसावृता जालेनभिहिता इव ।
5158. (१०,१.३० ) सर्वाः संलुप्येतः कृत्याः पुनः कर्त्रे प्र हिण्मसि ॥३०॥
5159. (१०,१.३१ ) कृत्याकृतो वलगिनोऽभिनिष्कारिणः प्रजाम् ।
5160. (१०,१.३१ ) मृणीहि कृत्ये मोच्छिषोऽमून् कृत्याकृतो जहि ॥३१॥
5161. (१०,१.३२ ) यथा सूर्यो मुच्यते तमसस्परि रात्रिं जहात्युषसश्च केतून् ।
5162. (१०,१.३२ ) एवाहं सर्वं दुर्भूतं कर्त्रं कृत्याकृता कृतं हस्तीव रजो दुरितं जहामि ॥३२॥ {३}
5163. (१०,२.१ ) केन पार्ष्णी आभृते पूरुषस्य केन मांसं संभृतं केन गुल्फौ ।
5164. (१०,२.१ ) केनाङ्गुलीः पेशनीः केन खानि केनोच्छ्लङ्खौ मध्यतः कः प्रतिष्ठाम् ॥१॥
5165. (१०,२.२ ) कस्मान् नु गुल्फावधरावकृण्वन्न् अष्ठीवन्तावुत्तरौ पुरुषस्य ।
5166. (१०,२.२ ) जङ्घे निरृत्य न्यदधुः क्व स्विज्जानुनोः संधी क उ तच्चिकेत ॥२॥
5167. (१०,२.३ ) चतुष्टयं युजते संहितान्तं जानुभ्यामूर्ध्वं शिथिरं कबन्धम् ।
5168. (१०,२.३ ) श्रोणी यदूरू क उ तज्जजान याभ्यां कुसिन्धं सुदृढं बभूव ॥३॥
5169. (१०,२.४ ) कति देवाः कतमे त आसन् य उरो ग्रीवाश्चिक्युः पुरुषस्य ।
5170. (१०,२.४ ) कति स्तनौ व्यदधुः कः कफोदौ कति स्कन्धान् कति पृष्टीरचिन्वन् ॥४॥
5171. (१०,२.५ ) को अस्य बाहू समभरद्वीर्यां करवादिति ।
5172. (१०,२.५ ) अंसौ को अस्य तद्देवः कुसिन्धे अध्या दधौ ॥५॥
5173. (१०,२.६ ) कः सप्त खानि वि ततर्द
5174. शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम् ।
5175. (१०,२.६ ) येषां पुरुत्रा विजयस्य मह्ननि चतुष्पादो द्विपदो यन्ति यामम् ॥६॥
5176. (१०,२.७ ) हन्वोर्हि जिह्वामदधात्पुरूचीमधा महीमधि शिश्राय वाचम् ।
5177. (१०,२.७ ) स आ वरीवर्ति भुवनेष्वन्तरपो वसानः क उ तच्चिकेत ॥७॥
5178. (१०,२.८ ) मस्तिष्कमस्य यतमो ललातं ककाटिकां प्रथमो यः कपालम् ।
5179. (१०,२.८ ) चित्वा चित्यं हन्वोः पूरुषस्य दिवं रुरोह कतमः स देवः ॥८॥
5180. (१०,२.९ ) प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्यः ।
5181. (१०,२.९ ) आनन्दान् उग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥९॥
5182. (१०,२.१० ) आर्तिरवर्तिर्निरृतिः कुतो नु पुरुषेऽमतिः ।
5183. (१०,२.१० ) राद्धिः समृद्धिरव्यृद्धिर्मतिरुदितयः कुतः ॥१०॥ {४}
5184. (१०,२.११ ) को अस्मिन्न् आपो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः ।
5185. (१०,२.११ ) तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥११॥
5186. (१०,२.१२ ) को अस्मिन् रूपमदधात्को मह्मानं च नाम च ।
5187. (१०,२.१२ ) गातुं को अस्मिन् कः केतुं कश्चरित्रानि पुरुषे ॥१२॥
5188. (१०,२.१३ ) को अस्मिन् प्राणमवयत्को अपानं व्यानमु ।
5189. (१०,२.१३ ) समानमस्मिन् को देवोऽधि शिश्राय पुरुषे ॥१३॥
5190. (१०,२.१४ ) को अस्मिन् यज्ञमदधादेको देवोऽधि पुरुषे ।
5191. (१०,२.१४ ) को अस्मिन्त्सत्यं कोऽनृतं कुतो मृत्युः कुतोऽमृतम् ॥१४॥
5192. (१०,२.१५ ) को अस्मै वासः पर्यदधात्को अस्यायुरकल्पयत्।
5193. (१०,२.१५ ) बलं को अस्मै प्रायछत्को अस्याकल्पयज्जवम् ॥१५॥
5194. (१०,२.१६ ) केनापो अन्वतनुत केनाहरकरोद्रुचे ।
5195. (१०,२.१६ ) उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥१६॥
5196. (१०,२.१७ ) को अस्मिन् रेतो न्यदधात्तन्तुरा तायतामिति ।
5197. (१०,२.१७ ) मेधां को अस्मिन्न् अध्यौहत्को बाणं को नृतो दधौ ॥१७॥
5198. (१०,२.१८ ) केनेमां भूमिमौर्णोत्केन पर्यभवद्दिवम् ।
5199. (१०,२.१८ ) केनाभि मह्ना पर्वतान् केन कर्माणि पुरुषः ॥१८॥
5200. (१०,२.१९ ) केन पर्जन्यमन्वेति केन सोमं विचक्षणम् ।
5201. (१०,२.१९ ) केन यज्ञं च श्रद्धां च केनास्मिन् निहितं मनः ॥१९॥
5202. (१०,२.२० ) केन श्रोत्रियमाप्नोति केनेमं परमेष्ठिनम् ।
5203. (१०,२.२० ) केनेममग्निं पूरुषः केन संवत्सरं ममे ॥२०॥ {५}
5204. (१०,२.२१ ) ब्रह्म श्रोत्रियमाप्नोति ब्रह्मेमं परमेष्ठिनम् ।
5205. (१०,२.२१ ) ब्रह्मेममग्निं पूरुषो ब्रह्म संवत्सरं ममे ॥२१॥
5206. (१०,२.२२ ) केन देवामनु क्षियति केन दैवजनीर्विशः ।
5207. (१०,२.२२ ) केनेदमन्यन् नक्षत्रं केन सत्क्षत्रमुच्यते ॥२२॥
5208. (१०,२.२३ ) ब्रह्म देवामनु क्षियति ब्रह्म दैवजनीर्विशः ।
5209. (१०,२.२३ ) ब्रह्मेदमन्यन् नक्षत्रं ब्रह्म सत्क्षत्रमुच्यते ॥२३॥
5210. (१०,२.२४ ) केनेयं भूमिर्विहिता केन द्यौरुत्तरा हिता ।
5211. (१०,२.२४ ) केनेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२४॥
5212. (१०,२.२५ ) ब्रह्मणा भूमिर्विहिता ब्रह्म द्यौरुत्तरा हिता ।
5213. (१०,२.२५ ) ब्रह्मेदमूर्ध्वं तिर्यक्चान्तरिक्षं व्यचो हितम् ॥२५॥
5214. (१०,२.२६ ) मूर्धानमस्य संसीव्याथर्वा हृदयं च यत्।
5215. (१०,२.२६ ) मस्तिष्कादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः ॥२६॥
5216. (१०,२.२७ ) तद्वा अथर्वणः शिरो देवकोशः समुब्जितः ।
5217. (१०,२.२७ ) तत्प्राणो अभि रक्षति शिरो अन्नमथो मनः ॥२७॥
5218. (१०,२.२८ ) ऊर्ध्वो नु सृष्टा३ तिर्यङ्नु सृष्टा३ सर्वा दिशः पुरुष आ बभूवा३ ।
5219. (१०,२.२८ ) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥२८॥
5220. (१०,२.२९ ) यो वै तां ब्रह्मणो वेदामृतेनावृतां पुरम् ।
5221. (१०,२.२९ ) तस्मै ब्रह्म च ब्राह्माश्च चक्षुः प्राणं प्रजां ददुः ॥२९॥
5222. (१०,२.३० ) न वै तं चक्षुर्जहाति न प्राणो जरसः पुरा ।
5223. (१०,२.३० ) पुरं यो ब्रह्मणो वेद यस्याः पुरुष उच्यते ॥३०॥
5224. (१०,२.३१ ) अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।
5225. (१०,२.३१ ) तस्यां हिरण्ययः कोशः स्वर्गो ज्योतिषावृतः ॥३१॥
5226. (१०,२.३२ ) तस्मिन् हिरण्यये कोशे त्र्यरे त्रिप्रतिष्ठिते ।
5227. (१०,२.३२ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥३२॥
5228. (१०,२.३३ ) प्रभ्राजमानां हरिणीं यशसा संपरीवृताम् ।
5229. (१०,२.३३ ) पुरं हिरण्ययीं ब्रह्मा विवेशापराजिताम् ॥३३॥ {६}
5230. (१०,३.१ ) अयं मे वरणो मणिः सपत्नक्षयणो वृषा ।
5231. (१०,३.१ ) तेना रभस्व त्वं शत्रून् प्र मृणीहि दुरस्यतः ॥१॥
5232. (१०,३.२ ) प्रैणान् छृणीहि प्र मृणा रभस्व मणिस्ते अस्तु पुरएता पुरस्तात्।
5233. (१०,३.२ ) अवारयन्त वरणेन देवा अभ्याचारमसुराणां श्वःश्वः ॥२॥
5234. (१०,३.३ ) अयं मणिर्वरणो विश्वभेषजः सहस्राक्षो हरितो हिरण्ययः ।
5235. (१०,३.३ ) स ते शत्रून् अधरान् पादयाति पूर्वस्तान् दभ्नुहि ये त्वा द्विषन्ति ॥३॥
5236. (१०,३.४ ) अयं ते कृत्यां विततां पौरुषेयादयं भयात्।
5237. (१०,३.४ ) अयं त्वा सर्वस्मात्पापाद्वरणो वारयिष्यते ॥४॥
5238. (१०,३.५ ) वरणो वारयाता अयं देवो वनस्पतिः ।
5239. (१०,३.५ ) यक्ष्मो यो अस्मिन्न् आविष्टस्तमु देवा अवीवरन् ॥५॥
5240. (१०,३.६ ) स्वप्नं सुप्त्वा यदि पश्यासि पापं मृगः सृतिं यति धावादजुष्टाम् ।
5241. (१०,३.६ ) परिक्षवाच्छकुनेः पापवादादयं मणिर्वरणो वारयिष्यते ॥६॥
5242. (१०,३.७ ) अरात्यास्त्वा निरृत्या अभिचारादथो भयात्।
5243. (१०,३.७ ) मृत्योरोजीयसो वधाद्वरणो वारयिष्यते ॥७॥
5244. (१०,३.८ ) यन् मे माता यन् मे पिता भ्रातरो यच्च मे स्वा यदेनश्चकृमा वयम् ।
5245. (१०,३.८ ) ततो नो वारयिष्यतेऽयं देवो वनस्पतिः ॥८॥
5246. (१०,३.९ ) वरणेन प्रव्यथिता भ्रातृव्या मे सबन्धवः ।
5247. (१०,३.९ ) असूर्तं रजो अप्यगुस्ते यन्त्वधमं तमः ॥९॥
5248. (१०,३.१० ) अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः ।
5249. (१०,३.१० ) तं मायं वरणो मणिः परि पातु दिशोदिशः ॥१०॥ {७}
5250. (१०,३.११ ) अयं मे वरण उरसि राजा देवो वनस्पतिः ।
5251. (१०,३.११ ) स मे शत्रून् वि बाधतामिन्द्रो दस्यून् इवासुरान् ॥११॥
5252. (१०,३.१२ ) इमं बिभर्मि वरणमायुष्मान् छतशारदः ।
5253. (१०,३.१२ ) स मे राष्ट्रं च क्षत्रं च पशून् ओजश्च मे दधत्॥१२॥
5254. (१०,३.१३ ) यथा वातो वनस्पतीन् वृक्षान् भनक्त्योजसा ।
5255. (१०,३.१३ ) एवा सपत्नान् मे भङ्ग्धि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१३॥
5256. (१०,३.१४ ) यथा वातश्चाग्निश्च वृक्षान् प्सातो वनस्पतीन् ।
5257. (१०,३.१४ ) एवा सपत्नान् मे प्साहि पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१४॥
5258. (१०,३.१५ ) यथा वातेन प्रक्षीणा वृक्षाः शेरे न्यर्पिताः ।
5259. (१०,३.१५ ) एवा सपत्नांस्त्वं मम प्र क्षिणीहि न्यर्पय ।
5260. (१०,३.१५ ) पूर्वान् जातामुतापरान् वरणस्त्वाभि रक्षतु ॥१५॥
5261. (१०,३.१६ ) तांस्त्वं प्र छिन्द्धि वरण पुरा दिष्टात्पुरायुषः ।
5262. (१०,३.१६ ) य एनं पशुषु दिप्सन्ति ये चास्य राष्ट्रदिप्सवः ॥१६॥
5263. (१०,३.१७ ) यथा सूर्यो अतिभाति यथास्मिन् तेज आहितम् ।
5264. (१०,३.१७ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5265. (१०,३.१७ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१७॥
5266. (१०,३.१८ ) यथा यशश्चन्द्रमस्यादित्ये च नृचक्षसि ।
5267. (१०,३.१८ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5268. (१०,३.१८ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१८॥
5269. (१०,३.१९ ) यथा यशः पृथिव्यां यथास्मिन् जातवेदसि ।
5270. (१०,३.१९ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5271. (१०,३.१९ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥१९॥
5272. (१०,३.२० ) यथा यशः कन्यायां यथास्मिन्त्संभृते रथे ।
5273. (१०,३.२० ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5274. (१०,३.२० ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२०॥ {८}
5275. (१०,३.२१ ) यथा यशः सोमपीथे मधुपर्के यथा यशः ।
5276. (१०,३.२१ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5277. (१०,३.२१ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२१॥
5278. (१०,३.२२ ) यथा यशोऽग्निहोत्रे वषट्कारे यथा यशः ।
5279. (१०,३.२२ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5280. (१०,३.२२ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२२॥
5281. (१०,३.२३ ) यथा यशो यजमाने यथास्मिन् यज्ञ आहितम् ।
5282. (१०,३.२३ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5283. (१०,३.२३ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२३॥
5284. (१०,३.२४ ) यथा यशः प्रजापतौ यथास्मिन् परमेष्ठिनि ।
5285. (१०,३.२४ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5286. (१०,३.२४ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२४॥
5287. (१०,३.२५ ) यथा देवेष्वमृतं यथैषु सत्यमाहितम् ।
5288. (१०,३.२५ ) एवा मे वरणो मणिः कीर्तिं भूतिं नि यछतु ।
5289. (१०,३.२५ ) तेजसा मा समुक्षतु यशसा समनक्तु मा ॥२५॥ {९}
5290. (१०,४.१ ) इन्द्रस्य प्रथमो रथो देवानामपरो रथो वरुणस्य तृतीय इत्।
5291. (१०,४.१ ) अहीनामपमा रथ स्थानुमारदथार्षत्॥१॥
5292. (१०,४.२ ) दर्भः शोचिस्तरूणकमश्वस्य वारः परुषस्य वारः ।
5293. (१०,४.२ ) रथस्य बन्धुरम् ॥२॥
5294. (१०,४.३ ) अव श्वेत पदा जहि पूर्वेण चापरेण च ।
5295. (१०,४.३ ) उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥३॥
5296. (१०,४.४ ) अरंघुषो निमज्योन्मज पुनरब्रवीत्।
5297. (१०,४.४ ) उदप्लुतमिव दार्वहीनामरसं विषं वारुग्रम् ॥४॥
5298. (१०,४.५ ) पैद्वो हन्ति कसर्णीलं पैद्वः श्वित्रमुतासितम् ।
5299. (१०,४.५ ) पैद्वो रथर्व्याः शिरः सं बिभेद पृदाक्वाः ॥५॥
5300. (१०,४.६ ) पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि ।
5301. (१०,४.६ ) अहीन् व्यस्यतात्पथो येन स्मा वयमेमसि ॥६॥
5302. (१०,४.७ ) इदं पैद्वो अजायतेदमस्य परायणम् ।
5303. (१०,४.७ ) इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥७॥
5304. (१०,४.८ ) संयतं न वि ष्परद्व्यात्तं न सं यमत्।
5305. (१०,४.८ ) अस्मिन् क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥८॥
5306. (१०,४.९ ) अरसास इहाहयो ये अन्ति ये च दूरके ।
5307. (१०,४.९ ) घनेन हन्मि वृश्चिकमहिं दण्डेनागतम् ॥९॥
5308. (१०,४.१० ) अघाश्वस्येदं भेषजमुभयो स्वजस्य च ।
5309. (१०,४.१० ) इन्द्रो मेऽहिमघायन्तमहिं पैद्वो अरन्धयत्॥१०॥ {१०}
5310. (१०,४.११ ) पैद्वस्य मन्महे वयं स्थिरस्य स्थिरधाम्नः ।
5311. (१०,४.११ ) इमे पश्चा पृदाकवः प्रदीध्यत आसते ॥११॥
5312. (१०,४.१२ ) नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा ।
5313. (१०,४.१२ ) जघानेन्द्रो जघ्निमा वयम् ॥१२॥
5314. (१०,४.१३ ) हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ।
5315. (१०,४.१३ ) दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥१३॥
5316. (१०,४.१४ ) कैरातिका कुमारिका सका खनति भेषजम् ।
5317. (१०,४.१४ ) हिरण्ययीभिरभ्रिभिर्गिरीनामुप सानुषु ॥१४॥
5318. (१०,४.१५ ) आयमगन् युवा भिषक्पृश्निहापराजितः ।
5319. (१०,४.१५ ) स वै स्वजस्य जम्भन उभयोर्वृश्चिकस्य च ॥१५॥
5320. (१०,४.१६ ) इन्द्रो मेऽहिमरन्धयन् मित्रश्च वरुणश्च ।
5321. (१०,४.१६ ) वातापर्जन्योभा ॥१६॥
5322. (१०,४.१७ ) इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम् ।
5323. (१०,४.१७ ) स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥१७॥
5324. (१०,४.१८ ) इन्द्रो जघान प्रथमं जनितारमहे तव ।
5325. (१०,४.१८ ) तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥१८॥
5326. (१०,४.१९ ) सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम् ।
5327. (१०,४.१९ ) सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥१९॥
5328. (१०,४.२० ) अहीनां सर्वेषां विषं परा वहन्तु सिन्धवः ।
5329. (१०,४.२० ) हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः ॥२०॥ {११}
5330. (१०,४.२१ ) ओषधीनामहं वृण उर्वरीरिव साधुया ।
5331. (१०,४.२१ ) नयाम्यर्वतीरिवाहे निरैतु विषम् ॥२१॥
5332. (१०,४.२२ ) यदग्नौ सूर्ये विषं पृथिव्यामोषधीषु यत्।
5333. (१०,४.२२ ) कान्दाविषं कनक्नकं निरैत्वैतु ते विषम् ॥२२॥
5334. (१०,४.२३ ) ये अग्निजा ओषधिजा अहीनां ये अप्सुजा विद्युत आबभूवुः ।
5335. (१०,४.२३ ) येषां जातानि बहुधा महान्ति तेभ्यः सर्पेभ्यो नमसा विधेम ॥२३॥
5336. (१०,४.२४ ) तौदी नामासि कन्या घृताची नाम वा असि ।
5337. (१०,४.२४ ) अधस्पदेन ते पदमा ददे विषदूषणम् ॥२४॥
5338. (१०,४.२५ ) अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय ।
5339. (१०,४.२५ ) अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥२५॥
5340. (१०,४.२६ ) आरे अभूद्विषमरौद्विषे विषमप्रागपि ।
5341. (१०,४.२६ ) अग्निर्विषमहेर्निरधात्सोमो निरणयीत्।
5342. (१०,४.२६ ) दंष्टारमन्वगाद्विषमहिरमृत ॥२६॥ {१२}
5343. (१०,५.१ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
5344. (१०,५.१ ) जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥१॥
5345. (१०,५.२ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
5346. (१०,५.२ ) जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥२॥
5347. (१०,५.३ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
5348. (१०,५.३ ) जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥३॥
5349. (१०,५.४ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
5350. (१०,५.४ ) जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥४॥
5351. (१०,५.५ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
5352. (१०,५.५ ) जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥५॥
5353. (१०,५.६ ) इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।
5354. (१०,५.६ ) जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥६॥
5355. (१०,५.७ ) अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
5356. (१०,५.७ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥७॥
5357. (१०,५.८ ) इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
5358. (१०,५.८ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥८॥
5359. (१०,५.९ ) सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
5360. (१०,५.९ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥९॥
5361. (१०,५.१० ) वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
5362. (१०,५.१० ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०॥ {१३}
5363. (१०,५.११ ) मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
5364. (१०,५.११ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥११॥
5365. (१०,५.१२ ) यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
5366. (१०,५.१२ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१२॥
5367. (१०,५.१३ ) पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
5368. (१०,५.१३ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१३॥
5369. (१०,५.१४ ) देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।
5370. (१०,५.१४ ) प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१४॥
5371. (१०,५.१५ ) यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः ।
5372. (१०,५.१५ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
5373. (१०,५.१५ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5374. (१०,५.१५ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १५ ॥
5375. (१०,५.१६ ) यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः ।
5376. (१०,५.१६ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
5377. (१०,५.१६ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5378. (१०,५.१६ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १६ ॥
5379. (१०,५.१७ ) यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः ।
5380. (१०,५.१७ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
5381. (१०,५.१७ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5382. (१०,५.१७ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १७ ॥
5383. (१०,५.१८ ) यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥
5384. (१०,५.१८ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
5385. (१०,५.१८ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥
5386. (१०,५.१८ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १८ ॥
5387. (१०,५.१९ ) यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः ।
5388. (१०,५.१९ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
5389. (१०,५.१९ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5390. (१०,५.१९ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १९ ॥
5391. (१०,५.२० ) यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः ।
5392. (१०,५.२० ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
5393. (१०,५.२० ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5394. (१०,५.२० ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २० ॥
5395. (१०,५.२१ ) यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः ।
5396. (१०,५.२१ ) इदं तमति सृजामि तं माभ्यवनिक्षि ।
5397. (१०,५.२१ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5398. (१०,५.२१ ) तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ २१ ॥
5399. (१०,५.२२ ) यदर्वाचीनं त्रैहायणादनृतं किं चोदिम ।
5400. (१०,५.२२ ) आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥२२॥
5401. (१०,५.२३ ) समुद्रं वः प्र हिणोमि स्वां योनिमपीतन ।
5402. (१०,५.२३ ) अरिष्टाः सर्वहायसो मा च नः किं चनाममत्॥२३॥
5403. (१०,५.२४ ) अरिप्रा आपो अप रिप्रमस्मत्।
5404. (१०,५.२४ ) प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥२४॥
5405. (१०,५.२५ ) विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः ।
5406. (१०,५.२५ ) पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5407. (१०,५.२५ ) स मा जीवीत्तं प्रानो जहातु ॥२५॥
5408. (१०,५.२६ ) विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।
5409. (१०,५.२६ ) अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5410. (१०,५.२६ ) स मा जीवीत्तं प्रानो जहातु ॥२६॥
5411. (१०,५.२७ ) विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः ।
5412. (१०,५.२७ ) दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5413. (१०,५.२७ ) स मा जिवीत्तं प्रानो जहातु ॥२७॥
5414. (१०,५.२८ ) विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः ।
5415. (१०,५.२८ ) दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5416. (१०,५.२८ ) स मा जीवीत्तं प्रानो जहातु ॥२८॥
5417. (१०,५.२९ ) विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः ।
5418. (१०,५.२९ ) आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5419. (१०,५.२९ ) स मा जीवीत्तं प्रानो जहातु ॥२९॥
5420. (१०,५.३० ) विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः ।
5421. (१०,५.३० ) ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5422. (१०,५.३० ) स मा जीवीत्तं प्रानो जहातु ॥३०॥ {१५}
5423. (१०,५.३१ ) विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः ।
5424. (१०,५.३१ ) यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5425. (१०,५.३१ ) स मा जीवीत्तं प्रानो जहातु ॥३१॥
5426. (१०,५.३२ ) विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः ।
5427. (१०,५.३२ ) ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5428. (१०,५.३२ ) स मा जीवीत्तं प्रानो जहातु ॥३२॥
5429. (१०,५.३३ ) विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः ।
5430. (१०,५.३३ ) अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5431. (१०,५.३३ ) स मा जीवीत्तं प्रानो जहातु ॥३३॥
5432. (१०,५.३४ ) विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः ।
5433. (१०,५.३४ ) कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5434. (१०,५.३४ ) स मा जीवीत्तं प्रानो जहातु ॥३४॥
5435. (१०,५.३५ ) विस्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः ।
5436. (१०,५.३५ ) प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।
5437. (१०,५.३५ ) स मा जीवीत्तं प्रानो जहातु ॥३५॥
5438. (१०,५.३६ ) जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ।
5439. (१०,५.३६ ) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥३६॥
5440. (१०,५.३७ ) सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।
5441. (१०,५.३७ ) सा मे द्रविणं यछतु सा मे ब्राह्मणवर्चसम् ॥३७॥
5442. (१०,५.३८ ) दिशो ज्योतिष्मतीरभ्यावर्ते ।
5443. (१०,५.३८ ) ता मे द्रविणं यछन्तु ता मे ब्राह्मणवर्चसम् ॥३८॥
5444. (१०,५.३९ ) सप्तऋषीन् अभ्यावर्ते ।
5445. (१०,५.३९ ) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥३९॥
5446. (१०,५.४० ) ब्रह्माभ्यावर्ते ।
5447. (१०,५.४० ) तन् मे द्रविणं यछन्तु तन् मे ब्राह्मणवर्चसम् ॥४०॥ {१६}
5448. (१०,५.४१ ) ब्राह्मणामभ्यावर्ते ।
5449. (१०,५.४१ ) ते मे द्रविणं यछन्तु ते मे ब्राह्मणवर्चसम् ॥४१॥
5450. (१०,५.४२ ) यं वयं मृगयामहे तं वधै स्तृणवामहै ।
5451. (१०,५.४२ ) व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥४२॥
5452. (१०,५.४३ ) वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि ।
5453. (१०,५.४३ ) इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥४३॥
5454. (१०,५.४४ ) राज्ञो वरुणस्य बन्धोऽसि ।
5455. (१०,५.४४ ) सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥४४॥
5456. (१०,५.४५ ) यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु ।
5457. (१०,५.४५ ) तस्य नस्त्वं भुवस्पते संप्रयछ प्रजापते ॥४५॥
5458. (१०,५.४६ ) अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।
5459. (१०,५.४६ ) पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥४६॥
5460. (१०,५.४७ ) सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
5461. (१०,५.४७ ) विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥४७॥
5462. (१०,५.४८ ) यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः ।
5463. (१०,५.४८ ) मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥४८॥
5464. (१०,५.४९ ) परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।
5465. (१०,५.४९ ) परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥४९॥
5466. (१०,५.५० ) अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।
5467. (१०,५.५० ) सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥५०॥ {१७}
5468. (१०,६.१ ) अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः ।
5469. (१०,६.१ ) अपि वृश्चाम्योजसा ॥१॥
5470. (१०,६.२ ) वर्म मह्यमयं मणिः फालाज्जातः करिष्यति ।
5471. (१०,६.२ ) पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥२॥
5472. (१०,६.३ ) यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।
5473. (१०,६.३ ) आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥
5474. (१०,६.४ ) हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्।
5475. (१०,६.४ ) गृहे वसतु नोऽतिथिः ॥४॥
5476. (१०,६.५ ) तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे ।
5477. (१०,६.५ ) स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥५॥
5478. (१०,६.६ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे ।
5479. (१०,६.६ ) तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥६॥
5480. (१०,६.७ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे ।
5481. (१०,६.७ ) तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् ।
5482. (१०,६.७ ) सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥७॥
5483. (१०,६.८ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं कधिरमोजसे ।
5484. (१०,६.८ ) तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे ।
5485. (१०,६.८ ) सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥८॥
5486. (१०,६.९ ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
5487. (१०,६.९ ) तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः ।
5488. (१०,६.९ ) सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥९॥
5489. (१०,६.१० ) यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।
5490. (१०,६.१० ) तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः ।
5491. (१०,६.१० ) सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१०॥ {१८}
5492. (१०,६.११ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
5493. (१०,६.११ ) सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥११॥
5494. (१०,६.१२ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
5495. (१०,६.१२ ) तेनेमां मणिना कृषिमश्विनावभि रक्षतः ।
5496. (१०,६.१२ ) स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१२॥
5497. (१०,६.१३ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
5498. (१०,६.१३ ) तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः ।
5499. (१०,६.१३ ) सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१३॥
5500. (१०,६.१४ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
5501. (१०,६.१४ ) तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः ।
5502. (१०,६.१४ ) स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१४॥
5503. (१०,६.१५ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
5504. (१०,६.१५ ) तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् ।
5505. (१०,६.१५ ) सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१५॥
5506. (१०,६.१६ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
5507. (१०,६.१६ ) तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् ।
5508. (१०,६.१६ ) स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१६॥
5509. (१०,६.१७ ) यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।
5510. (१०,६.१७ ) तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् ।
5511. (१०,६.१७ ) स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१७॥
5512. (१०,६.१८ ) ऋतवस्तमबध्नतार्तवास्तमबध्नत ।
5513. (१०,६.१८ ) संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥१८॥
5514. (१०,६.१९ ) अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत ।
5515. (१०,६.१९ ) प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः ॥१९॥
5516. (१०,६.२० ) अथर्वाणो अबध्नताथर्वणा अबध्नत ।
5517. (१०,६.२० ) तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥२०॥ {१९}
5518. (१०,६.२१ ) तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्।
5519. (१०,६.२१ ) तेन त्वं द्विषतो जहि ॥२१॥
5520. (१०,६.२२ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
5521. (१०,६.२२ ) स मायं मणिरागमद्रसेन सह वर्चसा ॥२२॥
5522. (१०,६.२३ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
5523. (१०,६.२३ ) स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह ॥२३॥
5524. (१०,६.२४ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
5525. (१०,६.२४ ) स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह ॥२४॥
5526. (१०,६.२५ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
5527. (१०,६.२५ ) स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह ॥२५॥
5528. (१०,६.२६ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
5529. (१०,६.२६ ) स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥
5530. (१०,६.२७ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
5531. (१०,६.२७ ) स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥
5532. (१०,६.२८ ) यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।
5533. (१०,६.२८ ) स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह ॥२८॥
5534. (१०,६.२९ ) तमिमं देवता मणिं मह्यं ददतु पुष्टये ।
5535. (१०,६.२९ ) अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥२९॥
5536. (१०,६.३० ) ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् ।
5537. (१०,६.३० ) असपत्नः सपत्नहा सपत्नान् मेऽधरामकः ॥३०॥ {२०}
5538. (१०,६.३१ ) उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः ।
5539. (१०,६.३१ ) यस्य लोका इमे त्रयः पयो दुग्धमुपासते ।
5540. (१०,६.३१ ) स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥
5541. (१०,६.३२ ) यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा ।
5542. (१०,६.३२ ) स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥
5543. (१०,६.३३ ) यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।
5544. (१०,६.३३ ) एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु ॥३३॥
5545. (१०,६.३४ ) यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।
5546. (१०,६.३४ ) तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्॥३४॥
5547. (१०,६.३५ ) एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः ।
5548. (१०,६.३५ ) तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥३५॥ {२१}
5549. (१०,७.१ ) कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् ।
5550. (१०,७.१ ) क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥१॥
5551. (१०,७.२ ) कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व ।
5552. (१०,७.२ ) कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥
5553. (१०,७.३ ) कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् ।
5554. (१०,७.३ ) कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥३॥
5555. (१०,७.४ ) क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।
5556. (१०,७.४ ) यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥४॥
5557. (१०,७.५ ) क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।
5558. (१०,७.५ ) यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥५॥
5559. (१०,७.६ ) क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने ।
5560. (१०,७.६ ) यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥६॥
5561. (१०,७.७ ) यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्।
5562. (१०,७.७ ) स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥७॥
5563. (१०,७.८ ) यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् ।
5564. (१०,७.८ ) कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥८॥
5565. (१०,७.९ ) कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य ।
5566. (१०,७.९ ) एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥
5567. (१०,७.१० ) यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः ।
5568. (१०,७.१० ) असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ {२२}
5569. (१०,७.११ ) यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् ।
5570. (१०,७.११ ) ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥११॥
5571. (१०,७.१२ ) यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता ।
5572. (१०,७.१२ ) यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१२॥
5573. (१०,७.१३ ) यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः ।
5574. (१०,७.१३ ) स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१३॥
5575. (१०,७.१४ ) यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही ।
5576. (१०,७.१४ ) एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१४॥
5577. (१०,७.१५ ) यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते ।
5578. (१०,७.१५ ) समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१५॥
5579. (१०,७.१६ ) यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।
5580. (१०,७.१६ ) यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१६॥
5581. (१०,७.१७ ) ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् ।
5582. (१०,७.१७ ) यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।
5583. (१०,७.१७ ) ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥१७॥
5584. (१०,७.१८ ) यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् ।
5585. (१०,७.१८ ) अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१८॥
5586. (१०,७.१९ ) यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत ।
5587. (१०,७.१९ ) विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१९॥
5588. (१०,७.२० ) यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।
5589. (१०,७.२० ) सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२०॥ {२३}
5590. (१०,७.२१ ) असच्चाखां प्रतिष्ठन्तीं परममिव जना विदुः ।
5591. (१०,७.२१ ) उतो सन् मन्यन्तेऽवरे ये ते शाखामुपासते ॥२१॥
5592. (१०,७.२२ ) यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः ।
5593. (१०,७.२२ ) भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२२॥
5594. (१०,७.२३ ) यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा ।
5595. (१०,७.२३ ) निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥२३॥
5596. (१०,७.२४ ) यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।
5597. (१०,७.२४ ) यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्॥२४॥
5598. (१०,७.२५ ) बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे ।
5599. (१०,७.२५ ) एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥२५॥
5600. (१०,७.२६ ) यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्।
5601. (१०,७.२६ ) एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥२६॥
5602. (१०,७.२७ ) यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे ।
5603. (१०,७.२७ ) तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहम्विदो विदुः ॥२७॥
5604. (१०,७.२८ ) हिरण्यगर्भं परममनत्युद्यं जना विदुः ।
5605. (१०,७.२८ ) स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥२८॥
5606. (१०,७.२९ ) स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् ।
5607. (१०,७.२९ ) स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥२९॥
5608. (१०,७.३० ) इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् ।
5609. (१०,७.३० ) इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ {२४}
5610. (१०,७.३१ ) नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः ।
5611. (१०,७.३१ ) यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥३१॥
5612. (१०,७.३२ ) यस्य भूमिः प्रमान्तरिक्षमुतोदरम् ।
5613. (१०,७.३२ ) दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥
5614. (१०,७.३३ ) यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः ।
5615. (१०,७.३३ ) अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥
5616. (१०,७.३४ ) यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् ।
5617. (१०,७.३४ ) दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥
5618. (१०,७.३५ ) स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् ।
5619. (१०,७.३५ ) स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥३५॥
5620. (१०,७.३६ ) यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे ।
5621. (१०,७.३६ ) सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥
5622. (१०,७.३७ ) कथं वातो नेलयति कथं न रमते मनः ।
5623. (१०,७.३७ ) किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥३७॥
5624. (१०,७.३८ ) महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।
5625. (१०,७.३८ ) तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥
5626. (१०,७.३९ ) यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।
5627. (१०,७.३९ ) यस्मै देवाः सदा बलिं प्रयछन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥३९॥
5628. (१०,७.४० ) अप तस्य हतं तमो व्यावृत्तः स पाप्मना ।
5629. (१०,७.४० ) सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥
5630. (१०,७.४१ ) यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद ।
5631. (१०,७.४१ ) स वै गुह्यः प्रजापतिः ॥४१॥
5632. (१०,७.४२ ) तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् ।
5633. (१०,७.४२ ) प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥
5634. (१०,७.४३ ) तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्।
5635. (१०,७.४३ ) पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥४३॥
5636. (१०,७.४४ ) इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥४४॥ {२५}
5637. (१०,८.१ ) यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।
5638. (१०,८.१ ) स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥
5639. (१०,८.२ ) स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।
5640. (१०,८.२ ) स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥
5641. (१०,८.३ ) तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।
5642. (१०,८.३ ) बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥
5643. (१०,८.४ ) द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
5644. (१०,८.४ ) तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥
5645. (१०,८.५ ) इदं सवितर्वि जानीहि षड्यमा एक एकजः ।
5646. (१०,८.५ ) तस्मिन् हापित्वमिछन्ते य एषामेक एकजः ॥५॥
5647. (१०,८.६ ) आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।
5648. (१०,८.६ ) तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥
5649. (१०,८.७ ) एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
5650. (१०,८.७ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥
5651. (१०,८.८ ) पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।
5652. (१०,८.८ ) अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥
5653. (१०,८.९ ) तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
5654. (१०,८.९ ) तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥
5655. (१०,८.१० ) या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।
5656. (१०,८.१० ) यया यज्ञः प्राङ्तायते तां त्वा पृछामि कतमा सा ऋचाम् ॥१०॥ {२६}
5657. (१०,८.११ ) यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्।
5658. (१०,८.११ ) तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥
5659. (१०,८.१२ ) अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।
5660. (१०,८.१२ ) ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥
5661. (१०,८.१३ ) प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।
5662. (१०,८.१३ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥
5663. (१०,८.१४ ) ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।
5664. (१०,८.१४ ) पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥
5665. (१०,८.१५ ) दूरे पूर्णेन वसति दूर ऊनेन हीयते ।
5666. (१०,८.१५ ) महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥
5667. (१०,८.१६ ) यतः सूर्यः उदेत्यस्तं यत्र च गछति ।
5668. (१०,८.१६ ) तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥
5669. (१०,८.१७ ) ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।
5670. (१०,८.१७ ) आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥
5671. (१०,८.१८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
5672. (१०,८.१८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥
5673. (१०,८.१९ ) सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।
5674. (१०,८.१९ ) प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥
5675. (१०,८.२० ) यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।
5676. (१०,८.२० ) स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७}
5677. (१०,८.२१ ) अपादग्रे समभवत्सो अग्रे स्वराभरत्।
5678. (१०,८.२१ ) चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥
5679. (१०,८.२२ ) भोग्यो भवदथो अन्नमदद्बहु ।
5680. (१०,८.२२ ) यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥
5681. (१०,८.२३ ) सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।
5682. (१०,८.२३ ) अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥
5683. (१०,८.२४ ) शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।
5684. (१०,८.२४ ) तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥
5685. (१०,८.२५ ) बालादेकमणीयस्कमुतैकं नेव दृश्यते ।
5686. (१०,८.२५ ) ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥
5687. (१०,८.२६ ) इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।
5688. (१०,८.२६ ) यस्मै कृता शये स यश्चकार जजार सः ॥२६॥
5689. (१०,८.२७ ) त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥
5690. (१०,८.२७ ) त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥
5691. (१०,८.२८ ) उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।
5692. (१०,८.२८ ) एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥
5693. (१०,८.२९ ) पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।
5694. (१०,८.२९ ) उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥
5695. (१०,८.३० ) एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।
5696. (१०,८.३० ) मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८}
5697. (१०,८.३१ ) अविर्वै नाम देवतर्तेनास्ते परीवृता ।
5698. (१०,८.३१ ) तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥
5699. (१०,८.३२ ) अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।
5700. (१०,८.३२ ) देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥
5701. (१०,८.३३ ) अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।
5702. (१०,८.३३ ) वदन्तीर्यत्र गछन्ति तदाहुर्ब्राह्मणं महत्॥३३॥
5703. (१०,८.३४ ) यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।
5704. (१०,८.३४ ) अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥
5705. (१०,८.३५ ) येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
5706. (१०,८.३५ ) य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥
5707. (१०,८.३६ ) इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।
5708. (१०,८.३६ ) दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥
5709. (१०,८.३७ ) यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
5710. (१०,८.३७ ) सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥
5711. (१०,८.३८ ) वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
5712. (१०,८.३८ ) सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥
5713. (१०,८.३९ ) यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।
5714. (१०,८.३९ ) यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥
5715. (१०,८.४० ) अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥
5716. (१०,८.४० ) बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥
5717. (१०,८.४१ ) उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।
5718. (१०,८.४१ ) साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥
5719. (१०,८.४२ ) निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।
5720. (१०,८.४२ ) इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥
5721. (१०,८.४३ ) पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।
5722. (१०,८.४३ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥
5723. (१०,८.४४ ) अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।
5724. (१०,८.४४ ) तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}
5725. (१०,९.१ ) अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।
5726. (१०,९.१ ) इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥
5727. (१०,९.२ ) वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते ।
5728. (१०,९.२ ) एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥२॥
5729. (१०,९.३ ) बालास्ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये ।
5730. (१०,९.३ ) शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥
5731. (१०,९.४ ) यः शतौदनां पचति कामप्रेण स कल्पते ।
5732. (१०,९.४ ) प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥
5733. (१०,९.५ ) स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः ।
5734. (१०,९.५ ) अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥
5735. (१०,९.६ ) स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ।
5736. (१०,९.६ ) हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥
5737. (१०,९.७ ) ये ते देवि शमितारः पक्तारो ये च ते जनाः ।
5738. (१०,९.७ ) ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥
5739. (१०,९.८ ) वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।
5740. (१०,९.८ ) आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥
5741. (१०,९.९ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
5742. (१०,९.९ ) ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥
5743. (१०,९.१० ) अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः ।
5744. (१०,९.१० ) लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ {३०}
5745. (१०,९.११ ) घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।
5746. (१०,९.११ ) पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥११॥
5747. (१०,९.१२ ) ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि ।
5748. (१०,९.१२ ) तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥१२॥
5749. (१०,९.१३ ) यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू ।
5750. (१०,९.१३ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१३॥
5751. (१०,९.१४ ) यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी ।
5752. (१०,९.१४ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१४॥
5753. (१०,९.१५ ) यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका ।
5754. (१०,९.१५ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१५॥
5755. (१०,९.१६ ) यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः ।
5756. (१०,९.१६ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१६॥
5757. (१०,९.१७ ) यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते ।
5758. (१०,९.१७ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१७॥
5759. (१०,९.१८ ) यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् ।
5760. (१०,९.१८ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१८॥
5761. (१०,९.१९ ) यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्।
5762. (१०,९.१९ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१९॥
5763. (१०,९.२० ) यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः ।
5764. (१०,९.२० ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२०॥ {३१}
5765. (१०,९.२१ ) यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्।
5766. (१०,९.२१ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२१॥
5767. (१०,९.२२ ) यत्ते पुछं ये ते बाला यदूधो ये च ते स्तनाः ।
5768. (१०,९.२२ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२२॥
5769. (१०,९.२३ ) यास्ते जङ्घाः याः कुष्ठिका ऋछरा ये च ते शफाः ।
5770. (१०,९.२३ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२३॥
5771. (१०,९.२४ ) यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।
5772. (१०,९.२४ ) आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२४॥
5773. (१०,९.२५ ) क्रोडौ ते स्तां पुरोदाशावाज्येनाभिघारितौ ।
5774. (१०,९.२५ ) तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥
5775. (१०,९.२६ ) उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः ।
5776. (१०,९.२६ ) यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥२६॥
5777. (१०,९.२७ ) अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
5778. (१०,९.२७ ) यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ {३२}
5779. (१०,१०.१ ) नमस्ते जायमानायै जाताया उत ते नमः ।
5780. (१०,१०.१ ) बालेभ्यः शफेभ्यो रूपायाघ्न्ये ते नमः ॥१॥
5781. (१०,१०.२ ) यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः ।
5782. (१०,१०.२ ) शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात्॥२॥
5783. (१०,१०.३ ) वेदाहं सप्त प्रवतः सप्त वेद परावतः ।
5784. (१०,१०.३ ) शिरो यज्ञस्याहं वेद सोमं चास्यां विचक्षणम् ॥३॥
5785. (१०,१०.४ ) यया द्यौर्यया पृथिवी ययापो गुपिता इमाः ।
5786. (१०,१०.४ ) वशां सहस्रधारां ब्रह्मणाछावदामसि ॥४॥
5787. (१०,१०.५ ) शतं कंसाः शतं दोग्धारः शतं गोप्तारो अधि पृष्ठे अस्याः ।
5788. (१०,१०.५ ) ये देवास्तस्यां प्राणन्ति ते वशां विदुरेकधा ॥५॥
5789. (१०,१०.६ ) यज्ञपदीराक्षीरा स्वधाप्राणा महीलुका ।
5790. (१०,१०.६ ) वशा पर्जन्यपत्नी देवामप्येति ब्रह्मणा ॥६॥
5791. (१०,१०.७ ) अनु त्वाग्निः प्राविशदनु सोमो वशे त्वा ।
5792. (१०,१०.७ ) ऊधस्ते भद्रे पर्जन्यो विद्युतस्ते स्तना वशे ॥७॥
5793. (१०,१०.८ ) अपस्त्वं धुक्षे प्रथमा उर्वरा अपरा वशे ।
5794. (१०,१०.८ ) तृतीयं राष्ट्रं धुक्षेऽन्नं क्षीरं वशे त्वम् ॥८॥
5795. (१०,१०.९ ) यदादित्यैर्हूयमानोपातिष्ठ ऋतवरि ।
5796. (१०,१०.९ ) इन्द्रः सहस्रं पात्रान्त्सोमं त्वापाययद्वशे ॥९॥
5797. (१०,१०.१० ) यदनूचीन्द्रमैरात्त्वा ऋषभोऽह्वयत्।
5798. (१०,१०.१० ) तस्मात्ते वृत्रहा पयः क्षीरं क्रुद्धोऽहरद्वशे ॥१०॥ {३३}
5799. (१०,१०.११ ) यत्ते क्रुद्धो धनपतिरा क्षीरमहरद्वशे ।
5800. (१०,१०.११ ) इदं तदद्य नाकस्त्रिषु पात्रेषु रक्षति ॥११॥
5801. (१०,१०.१२ ) त्रिषु पात्रेषु तं सोममा देव्यहरद्वशा ।
5802. (१०,१०.१२ ) अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१२॥
5803. (१०,१०.१३ ) सं हि सोमेनागत समु सर्वेण पद्वता ।
5804. (१०,१०.१३ ) वशा समुद्रमध्यष्ठद्गन्धर्वैः कलिभिः सह ॥१३॥
5805. (१०,१०.१४ ) सं हि वातेनागत समु सर्वैः पतत्रिभिः ।
5806. (१०,१०.१४ ) वशा समुद्रे प्रानृत्यदृचः सामानि बिभ्रती ॥१४॥
5807. (१०,१०.१५ ) सं हि सूर्येणागत समु सर्वेण चक्षुषा ।
5808. (१०,१०.१५ ) वशा समुद्रमत्यख्यद्भद्रा ज्योतींषि बिभ्रती ॥१५॥
5809. (१०,१०.१६ ) अभीवृता हिरण्येन यदतिष्ठ ऋतावरि ।
5810. (१०,१०.१६ ) अश्वः समुद्रो भूत्वाध्यस्कन्दद्वशे त्वा ॥१६॥
5811. (१०,१०.१७ ) तद्भद्राः समगछन्त वशा देष्ट्र्यथो स्वधा ।
5812. (१०,१०.१७ ) अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥१७॥
5813. (१०,१०.१८ ) वशा माता राजन्यस्य वशा माता स्वधे तव ।
5814. (१०,१०.१८ ) वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥१८॥
5815. (१०,१०.१९ ) ऊर्ध्वो बिन्दुरुदचरद्ब्रह्मणः ककुदादधि ।
5816. (१०,१०.१९ ) ततस्त्वं जज्ञिषे वशे ततो होताजायत ॥१९॥
5817. (१०,१०.२० ) आस्नस्ते गाथा अभवन्न् उष्णिहाभ्यो बलं वशे ।
5818. (१०,१०.२० ) पाजस्याज्जज्ञे यज्ञ स्तनेभ्यो रश्मयस्तव ॥२०॥ {३४}
5819. (१०,१०.२१ ) ईर्माभ्यामयनं जातं सक्थिभ्यां च वशे तव ।
5820. (१०,१०.२१ ) आन्त्रेभ्यो जज्ञिरे अत्रा उदरादधि वीरुधः ॥२१॥
5821. (१०,१०.२२ ) यदुदरं वरुणस्यानुप्राविशथा वशे ।
5822. (१०,१०.२२ ) ततस्त्वा ब्रह्मोदह्वयत्स हि नेत्रमवेत्तव ॥२२॥
5823. (१०,१०.२३ ) सर्वे गर्भादवेपन्त जायमानादसूस्वः ।
5824. (१०,१०.२३ ) ससूव हि तामाहु वशेति ब्रह्मभिः कॢप्तः स ह्यस्या बन्धुः ॥२३॥
5825. (१०,१०.२४ ) युध एकः सं सृजति यो अस्या एक इद्वशी ।
5826. (१०,१०.२४ ) तरांसि यज्ञा अभवन् तरसां चक्षुरभवद्वशा ॥२४॥
5827. (१०,१०.२५ ) वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्।
5828. (१०,१०.२५ ) वशायामन्तरविशदोदनो ब्रह्मणा सह ॥२५॥
5829. (१०,१०.२६ ) वशामेवामृतमाहुर्वशां मृत्युमुपासते ।
5830. (१०,१०.२६ ) वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥२६॥
5831. (१०,१०.२७ ) य एवं विद्यात्स वशां प्रति गृह्णीयात्।
5832. (१०,१०.२७ ) तथा हि यज्ञः सर्वपाद्दुहे दात्रेऽनपस्फुरन् ॥२७॥
5833. (१०,१०.२८ ) तिस्रो जिह्वा वरुणस्यान्तर्दीद्यत्यासनि ।
5834. (१०,१०.२८ ) तासां या मध्ये राजति सा वशा दुष्प्रतिग्रहा ॥२८॥
5835. (१०,१०.२९ ) चतुर्धा रेतो अभवद्वशायाः ।
5836. (१०,१०.२९ ) आपस्तुरीयममृतं तुरीयं यज्ञस्तुरीयं पशवस्तुरीयम् ॥२९॥
5837. (१०,१०.३० ) वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः ।
5838. (१०,१०.३० ) वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥३०॥
5839. (१०,१०.३१ ) वशाया दुग्धं पीत्वा साध्या वसवश्च ये ।
5840. (१०,१०.३१ ) ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥३१॥
5841. (१०,१०.३२ ) सोममेनामेके दुह्रे घृतमेक उपासते ।
5842. (१०,१०.३२ ) य एवं विदुषे वशां ददुस्ते गतास्त्रिदिवं दिवः ॥३२॥
5843. (१०,१०.३३ ) ब्राह्मणेभ्यो वशां दत्त्वा सर्वांल्लोकान्त्समश्नुते ।
5844. (१०,१०.३३ ) ऋतं ह्यस्यामार्पितमपि ब्रह्माथो तपः ॥३३॥
5845. (१०,१०.३४ ) वशां देवा उप जीवन्ति वशां मनुष्या उत ।
5846. (१०,१०.३४ ) वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥३४॥ {३५}
5847. (११,१.१ ) अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।
5848. (११,१.१ ) सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥१॥
5849. (११,१.२ ) कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमछ ।
5850. (११,१.२ ) अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून् ॥२॥
5851. (११,१.३ ) अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।
5852. (११,१.३ ) सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यछ ॥३॥
5853. (११,१.४ ) समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः ।
5854. (११,१.४ ) तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥४॥
5855. (११,१.५ ) त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् ।
5856. (११,१.५ ) अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥५॥
5857. (११,१.६ ) अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।
5858. (११,१.६ ) इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥६॥
5859. (११,१.७ ) साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय ।
5860. (११,१.७ ) ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥७॥
5861. (११,१.८ ) इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।
5862. (११,१.८ ) अथ गछेम सुकृतस्य लोकम् ॥८॥
5863. (११,१.९ ) एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु ।
5864. (११,१.९ ) अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥९॥
5865. (११,१.१० ) गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः ।
5866. (११,१.१० ) त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥ {१}
5867. (११,१.११ ) इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा ।
5868. (११,१.११ ) परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यछ ॥११॥
5869. (११,१.१२ ) उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः ।
5870. (११,१.१२ ) श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥१२॥
5871. (११,१.१३ ) परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय ।
5872. (११,१.१३ ) तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्॥१३॥
5873. (११,१.१४ ) एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व ।
5874. (११,१.१४ ) सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥
5875. (११,१.१५ ) ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः ।
5876. (११,१.१५ ) अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥१५॥
5877. (११,१.१६ ) अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।
5878. (११,१.१६ ) आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥१६॥
5879. (११,१.१७ ) शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः ।
5880. (११,१.१७ ) अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥१७॥
5881. (११,१.१८ ) ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।
5882. (११,१.१८ ) अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥१८॥
5883. (११,१.१९ ) उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके ।
5884. (११,१.१९ ) पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि ॥१९॥
5885. (११,१.२० ) सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः ।
5886. (११,१.२० ) अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव ॥२०॥ {२}
5887. (११,१.२१ ) उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् ।
5888. (११,१.२१ ) श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥२१॥
5889. (११,१.२२ ) अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि ।
5890. (११,१.२२ ) मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥
5891. (११,१.२३ ) ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे ।
5892. (११,१.२३ ) अंसध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥२३॥
5893. (११,१.२४ ) अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।
5894. (११,१.२४ ) सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥२४॥
5895. (११,१.२५ ) शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद ।
5896. (११,१.२५ ) सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥२५॥
5897. (११,१.२६ ) सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् ।
5898. (११,१.२६ ) ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥२६॥
5899. (११,१.२७ ) शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।
5900. (११,१.२७ ) यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥२७॥
5901. (११,१.२८ ) इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा ।
5902. (११,१.२८ ) इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥२८॥
5903. (११,१.२९ ) अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् ।
5904. (११,१.२९ ) एतं शुश्रुम गृहराजस्य भागमथो विद्म निरृतेर्भागधेयम् ॥२९॥
5905. (११,१.३० ) श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् ।
5906. (११,१.३० ) येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम ॥३०॥ {३}
5907. (११,१.३१ ) बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् ।
5908. (११,१.३१ ) घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥३१॥
5909. (११,१.३२ ) बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् ।
5910. (११,१.३२ ) पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥३२॥
5911. (११,१.३३ ) आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र ।
5912. (११,१.३३ ) अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३३॥
5913. (११,१.३४ ) यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।
5914. (११,१.३४ ) प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥३४॥
5915. (११,१.३५ ) वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गछ ।
5916. (११,१.३५ ) सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥३५॥
5917. (११,१.३६ ) समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् ।
5918. (११,१.३६ ) एतैः सुकृतैरनु गछेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥३६॥
5919. (११,१.३७ ) येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।
5920. (११,१.३७ ) तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥३७॥ {४}
5921. (११,२.१ ) भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् ।
5922. (११,२.१ ) प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥१॥
5923. (११,२.२ ) शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः ।
5924. (११,२.२ ) मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥
5925. (११,२.३ ) क्रन्दाय ते प्राणाय याश्च ते भव रोपयः ।
5926. (११,२.३ ) नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥३॥
5927. (११,२.४ ) पुरस्तात्ते नमः कृण्म उत्तरादधरादुत ।
5928. (११,२.४ ) अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ॥४॥
5929. (११,२.५ ) मुखाय ते पशुपते यानि चक्षूंषि ते भव ।
5930. (११,२.५ ) त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥५॥
5931. (११,२.६ ) अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते ।
5932. (११,२.६ ) दद्भ्यो गन्धाय ते नमः ॥६॥
5933. (११,२.७ ) अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना ।
5934. (११,२.७ ) रुद्रेणार्धकघातिना तेन मा समरामहि ॥७॥
5935. (११,२.८ ) स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः ।
5936. (११,२.८ ) मा नोऽभि मांस्त नमो अस्त्वस्मै ॥८॥
5937. (११,२.९ ) चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते ।
5938. (११,२.९ ) तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥९॥
5939. (११,२.१० ) तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम् ।
5940. (११,२.१० ) तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥१०॥ {५}
5941. (११,२.११ ) उरुः कोशो वसुधानस्तवायं यस्मिन्न् इमा विश्वा भुवनान्यन्तः ।
5942. (११,२.११ ) स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ॥११॥
5943. (११,२.१२ ) धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन् ।
5944. (११,२.१२ ) रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥१२॥
5945. (११,२.१३ ) योऽभियातो निलयते त्वां रुद्र निचिकीर्षति ।
5946. (११,२.१३ ) पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥१३॥
5947. (११,२.१४ ) भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय ।
5948. (११,२.१४ ) ताभ्यां नमो यतमस्यां दिशीतः ॥१४॥
5949. (११,२.१५ ) नमस्ते अस्त्वायते नमो अस्तु परायते ।
5950. (११,२.१५ ) नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥१५॥
5951. (११,२.१६ ) नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा ।
5952. (११,२.१६ ) भवाय च शर्वाय चोभाभ्यामकरं नमः ॥१६॥
5953. (११,२.१७ ) सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम् ।
5954. (११,२.१७ ) मोपाराम जिह्वयेयमानम् ॥१७॥
5955. (११,२.१८ ) श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् ।
5956. (११,२.१८ ) पूर्वे प्रतीमो नमो अस्त्वस्मै ॥१८॥
5957. (११,२.१९ ) मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते ।
5958. (११,२.१९ ) अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥१९॥
5959. (११,२.२० ) मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः ।
5960. (११,२.२० ) मा त्वया समरामहि ॥२०॥ {६}
5961. (११,२.२१ ) मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु ।
5962. (११,२.२१ ) अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥२१॥
5963. (११,२.२२ ) यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति ।
5964. (११,२.२२ ) अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥२२॥
5965. (११,२.२३ ) योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन् देवपीयून् ।
5966. (११,२.२३ ) तस्मै नमो दशभिः शक्वरीभिः ॥२३॥
5967. (११,२.२४ ) तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि ।
5968. (११,२.२४ ) तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥२४॥
5969. (११,२.२५ ) शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि ।
5970. (११,२.२५ ) न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे ॥२५॥
5971. (११,२.२६ ) मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना ।
5972. (११,२.२६ ) अन्यत्रास्मद्विद्युतं पातयैताम् ॥२६॥
5973. (११,२.२७ ) भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् ।
5974. (११,२.२७ ) तस्यै नमो यतमस्यां दिशीतः ॥२७॥
5975. (११,२.२८ ) भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ ।
5976. (११,२.२८ ) यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥२८॥
5977. (११,२.२९ ) मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः ।
5978. (११,२.२९ ) मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥२९॥
5979. (११,२.३० ) रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः ।
5980. (११,२.३० ) इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥३०॥
5981. (११,२.३१ ) नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः ।
5982. (११,२.३१ ) नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः ।
5983. (११,२.३१ ) नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥३१॥ {७}
5984. (११,३.१ ) तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥
5985. (११,३.२ ) द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥
5986. (११,३.३ ) चक्षुर्मुसलं काम उलूखलम् ॥३॥
5987. (११,३.४ ) दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥
5988. (११,३.५ ) अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥
5989. (११,३.६ ) कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥
5990. (११,३.७ ) श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥
5991. (११,३.८ ) त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥
5992. (११,३.९ ) खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥
5993. (११,३.१० ) आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥
5994. (११,३.११ ) इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥
5995. (११,३.१२ ) सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥
5996. (११,३.१३ ) ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥
5997. (११,३.१४ ) ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥
5998. (११,३.१५ ) ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥
5999. (११,३.१६ ) बृहदायवनं रथन्तरं दर्विः ॥१६॥
6000. (११,३.१७ ) ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥
6001. (११,३.१८ ) चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥ [नोते COऋऋईङ्Eण्डा एद्. श्ড়्ড়्]
6002. (११,३.१९ ) ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥
6003. (११,३.२० ) यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥
6004. (११,३.२१ ) यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥
6005. (११,३.२२ ) तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥२२॥
6006. (११,३.२३ ) स य ओदनस्य महिमानं विद्यात्॥२३॥
6007. (११,३.२४ ) नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥
6008. (११,३.२५ ) यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥
6009. (११,३.२६ ) ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥
6010. (११,३.२७ ) त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥
6011. (११,३.२८ ) पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥
6012. (११,३.२९ ) प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥
6013. (११,३.३० ) नैवाहमोदनं न मामोदनः ॥३०॥
6014. (११,३.३१ ) ओदन एवौदनं प्राशीत्॥३१॥ {८}
6015. (११,३.३२[४.१]अ) ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
6016. (११,३.३२[४.१]ब्) ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ।
6017. (११,३.३२[४.१]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6018. (११,३.३२[४.१]द्) बृहस्पतिना शीर्ष्णा ।
6019. (११,३.३२[४.१]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
6020. (११,३.३२[४.१]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6021. (११,३.३२[४.१]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१]
6022. (११,३.३३[४.२]अ) ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
6023. (११,३.३३[४.२]ब्) बधिरो भविष्यसीत्येनमाह ।
6024. (११,३.३३[४.२]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6025. (११,३.३३[४.२]द्) द्यावापृथिवीभ्यां श्रोत्राभ्याम् ।
6026. (११,३.३३[४.२]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
6027. (११,३.३३[४.२]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6028. (११,३.३३[४.२]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२]
6029. (११,३.३४[४.३]अ) ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
6030. (११,३.३४[४.३]ब्) अन्धो भविष्यसीत्येनमाह ।
6031. (११,३.३४[४.३]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6032. (११,३.३४[४.३]द्) सूर्याचन्द्रमसाभ्यामक्षीभ्याम् ।
6033. (११,३.३४[४.३]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
6034. (११,३.३४[४.३]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6035. (११,३.३४[४.३]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३]
6036. (११,३.३५[४.४]अ) ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
6037. (११,३.३५[४.४]ब्) मुखतस्ते प्रजा मरिष्यतीत्येनमाह ।
6038. (११,३.३५[४.४]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6039. (११,३.३५[४.४]द्) ब्रह्मणा मुखेन ।
6040. (११,३.३५[४.४]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
6041. (११,३.३५[४.४]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6042. (११,३.३५[४.४]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४]
6043. (११,३.३६[४.५]अ) ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।
6044. (११,३.३६[४.५]ब्) जिह्वा ते मरिष्यतीत्येनमाह ।
6045. (११,३.३६[४.५]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6046. (११,३.३६[४.५]द्) अग्नेर्जिह्वया ।
6047. (११,३.३६[४.५]ए) तयैनं प्राशिषं तयैनमजीगमम् ।
6048. (११,३.३६[४.५]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6049. (११,३.३६[४.५]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५]
6050. (११,३.३७[४.६]अ) ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।
6051. (११,३.३७[४.६]ब्) दन्तास्ते शत्स्यन्तीत्येनमाह ।
6052. (११,३.३७[४.६]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6053. (११,३.३७[४.६]द्) ऋतुभिर्दन्तैः ।
6054. (११,३.३७[४.६]ए) तैरेनं प्राशिषं तैरेनमजीगमम् ।
6055. (११,३.३७[४.६]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6056. (११,३.३७[४.६]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६]
6057. (११,३.३८[४.७]अ) ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।
6058. (११,३.३८[४.७]ब्) प्राणापानास्त्वा हास्यन्तीत्येनमाह ।
6059. (११,३.३८[४.७]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6060. (११,३.३८[४.७]द्) सप्तऋषिभिः प्राणापानैः ।
6061. (११,३.३८[४.७]ए) तैरेनं प्राशिषं तैरेनमजीगमम् ।
6062. (११,३.३८[४.७]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6063. (११,३.३८[४.७]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७]
6064. (११,३.३९[४.८]अ) ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
6065. (११,३.३९[४.८]ब्) राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ।
6066. (११,३.३९[४.८]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6067. (११,३.३९[४.८]द्) अन्तरिक्षेण व्यचसा ।
6068. (११,३.३९[४.८]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
6069. (११,३.३९[४.८]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6070. (११,३.३९[४.८]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८]
6071. (११,३.४०[४.९]अ) ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
6072. (११,३.४०[४.९]ब्) विद्युत्त्वा हनिष्यतीत्येनमाह ।
6073. (११,३.४०[४.९]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6074. (११,३.४०[४.९]द्) दिवा पृष्ठेन ।
6075. (११,३.४०[४.९]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
6076. (११,३.४०[४.९]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6077. (११,३.४०[४.९]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९]
6078. (११,३.४१[४.१०]अ) ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
6079. (११,३.४१[४.१०]ब्) कृष्या न रात्स्यसीत्येनमाह ।
6080. (११,३.४१[४.१०]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6081. (११,३.४१[४.१०]द्) पृथिव्योरसा ।
6082. (११,३.४१[४.१०]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
6083. (११,३.४१[४.१०]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6084. (११,३.४१[४.१०]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०]
6085. (११,३.४२[४.११]अ) ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
6086. (११,३.४२[४.११]ब्) उदरदारस्त्वा हनिष्यतीत्येनमाह ।
6087. (११,३.४२[४.११]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6088. (११,३.४२[४.११]द्) सत्येनोदरेण ।
6089. (११,३.४२[४.११]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
6090. (११,३.४२[४.११]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6091. (११,३.४२[४.११]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११]
6092. (११,३.४३[४.१२]अ) ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।
6093. (११,३.४३[४.१२]ब्) अप्सु मरिष्यसीत्येनमाह ।
6094. (११,३.४३[४.१२]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6095. (११,३.४३[४.१२]द्) समुद्रेण वस्तिना ।
6096. (११,३.४३[४.१२]ए) तेनैनं प्राशिषं तेनैनमजीगमम् ।
6097. (११,३.४३[४.१२]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6098. (११,३.४३[४.१२]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२]
6099. (११,३.४४[४.१३]अ) ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
6100. (११,३.४४[४.१३]ब्) ऊरू ते मरिष्यत इत्येनमाह ।
6101. (११,३.४४[४.१३]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6102. (११,३.४४[४.१३]द्) मित्रावरुणयोरूरुभ्याम् ।
6103. (११,३.४४[४.१३]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
6104. (११,३.४४[४.१३]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6105. (११,३.४४[४.१३]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३]
6106. (११,३.४५[४.१४]अ) ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
6107. (११,३.४५[४.१४]ब्) स्रामो भविष्यसीत्येनमाह ।
6108. (११,३.४५[४.१४]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6109. (११,३.४५[४.१४]द्) त्वष्टुरष्ठीवद्भ्याम् ।
6110. (११,३.४५[४.१४]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
6111. (११,३.४५[४.१४]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6112. (११,३.४५[४.१४]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४]
6113. (११,३.४६[४.१५]अ) ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
6114. (११,३.४६[४.१५]ब्) बहुचारी भविष्यसीत्येनमाह ।
6115. (११,३.४६[४.१५]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6116. (११,३.४६[४.१५]द्) अश्विनोः पादाभ्याम् ।
6117. (११,३.४६[४.१५]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
6118. (११,३.४६[४.१५]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6119. (११,३.४६[४.१५]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५]
6120. (११,३.४७[४.१६]अ) ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
6121. (११,३.४७[४.१६]ब्) सर्पस्त्वा हनिष्यतीत्येनमाह ।
6122. (११,३.४७[४.१६]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6123. (११,३.४७[४.१६]द्) सवितुः प्रपदाभ्याम् ।
6124. (११,३.४७[४.१६]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
6125. (११,३.४७[४.१६]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6126. (११,३.४७[४.१६]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६]
6127. (११,३.४८[४.१७]अ) ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।
6128. (११,३.४८[४.१७]ब्) ब्राह्मणं हनिष्यसीत्येनमाह ।
6129. (११,३.४८[४.१७]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6130. (११,३.४८[४.१७]द्) ऋतस्य हस्ताभ्याम् ।
6131. (११,३.४८[४.१७]ए) ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।
6132. (११,३.४८[४.१७]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6133. (११,३.४८[४.१७]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७]
6134. (११,३.४९[४.१८]अ) ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।
6135. (११,३.४९[४.१८]ब्) अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ।
6136. (११,३.४९[४.१८]च्) तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।
6137. (११,३.४९[४.१८]द्) सत्ये प्रतिष्ठाय ।
6138. (११,३.४९[४.१८]ए) तयैनं प्राशिषं तयैनमजीगमम् ।
6139. (११,३.४९[४.१८]f) एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।
6140. (११,३.४९[४.१८]ग्) सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९}
6141. (११,३.५०[५.१]अ) एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१]
6142. (११,३.५१[५.२]अ) ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२]
6143. (११,३.५२[५.३]अ) एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३]
6144. (११,३.५३[५.४]अ) तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४]
6145. (११,३.५४[५.५]अ) स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५]
6146. (११,३.५५[५.६]अ) न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६]
6147. (११,३.५६[५.७]अ) न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०}
6148. (११,४[६].१ ) प्राणाय नमो यस्य सर्वमिदं वशे ।
6149. (११,४[६].१ ) यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥१॥
6150. (११,४[६].२ ) नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।
6151. (११,४[६].२ ) नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥२॥
6152. (११,४[६].३ ) यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः ।
6153. (११,४[६].३ ) प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते ॥३॥
6154. (११,४[६].४ ) यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः ।
6155. (११,४[६].४ ) सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥४॥
6156. (११,४[६].५ ) यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।
6157. (११,४[६].५ ) पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥५॥
6158. (११,४[६].६ ) अभिवृष्टा ओषधयः प्राणेन समवादिरन् ।
6159. (११,४[६].६ ) आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥६॥
6160. (११,४[६].७ ) नमस्ते अस्त्वायते नमो अस्तु परायते ।
6161. (११,४[६].७ ) नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥७॥
6162. (११,४[६].८ ) नमस्ते प्राण प्राणते नमो अस्त्वपानते ।
6163. (११,४[६].८ ) पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥८॥
6164. (११,४[६].९ ) या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी ।
6165. (११,४[६].९ ) अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥९॥
6166. (११,४[६].१० ) प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम् ।
6167. (११,४[६].१० ) प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥१०॥ {११}
6168. (११,४[६].११ ) प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते ।
6169. (११,४[६].११ ) प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत्॥११॥
6170. (११,४[६].१२ ) प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते ।
6171. (११,४[६].१२ ) प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥१२॥
6172. (११,४[६].१३ ) प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते ।
6173. (११,४[६].१३ ) यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते ॥१३॥
6174. (११,४[६].१४ ) अपानति प्राणति पुरुषो गर्भे अन्तरा ।
6175. (११,४[६].१४ ) यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥१४॥
6176. (११,४[६].१५ ) प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।
6177. (११,४[६].१५ ) प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥१५॥
6178. (११,४[६].१६ ) आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत ।
6179. (११,४[६].१६ ) ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥१६॥
6180. (११,४[६].१७ ) यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।
6181. (११,४[६].१७ ) ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥१७॥
6182. (११,४[६].१८ ) यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः ।
6183. (११,४[६].१८ ) सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥१८॥
6184. (११,४[६].१९ ) यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः ।
6185. (११,४[६].१९ ) एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः ॥१९॥
6186. (११,४[६].२० ) अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः ।
6187. (११,४[६].२० ) स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥२०॥ {१२}
6188. (११,४[६].२१ ) एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् ।
6189. (११,४[६].२१ ) यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात्।
6190. (११,४[६].२१ ) न रात्री नाहः स्यान् न व्युछेत्कदा चन ॥२१॥
6191. (११,४[६].२२ ) अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
6192. (११,४[६].२२ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥२२॥
6193. (११,४[६].२३ ) यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः ।
6194. (११,४[६].२३ ) अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥२३॥
6195. (११,४[६].२४ ) यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः ।
6196. (११,४[६].२४ ) अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥२४॥
6197. (११,४[६].२५ ) ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते ।
6198. (११,४[६].२५ ) न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥२५॥
6199. (११,४[६].२६ ) प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि ।
6200. (११,४[६].२६ ) अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥ {१३}
6201. (११,५[७].१ ) ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।
6202. (११,५[७].१ ) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥
6203. (११,५[७].२ ) ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।
6204. (११,५[७].२ ) गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥
6205. (११,५[७].३ ) आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।
6206. (११,५[७].३ ) तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥
6207. (११,५[७].४ ) इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।
6208. (११,५[७].४ ) ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥
6209. (११,५[७].५ ) पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्।
6210. (११,५[७].५ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥
6211. (११,५[७].६ ) ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
6212. (११,५[७].६ ) स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥
6213. (११,५[७].७ ) ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
6214. (११,५[७].७ ) गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥
6215. (११,५[७].८ ) आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।
6216. (११,५[७].८ ) ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥
6217. (११,५[७].९ ) इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
6218. (११,५[७].९ ) ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥
6219. (११,५[७].१० ) अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।
6220. (११,५[७].१० ) तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}
6221. (११,५[७].११ ) अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।
6222. (११,५[७].११ ) तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥
6223. (११,५[७].१२ ) अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।
6224. (११,५[७].१२ ) ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥
6225. (११,५[७].१३ ) अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।
6226. (११,५[७].१३ ) तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥
6227. (११,५[७].१४ ) आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।
6228. (११,५[७].१४ ) जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥
6229. (११,५[७].१५ ) अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः ।
6230. (११,५[७].१५ ) यद्यदैछत्प्रजापतौ तद्ब्रह्मचारी प्रायछत्स्वान् मित्रो अध्यात्मनः ॥१५॥
6231. (११,५[७].१६ ) आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।
6232. (११,५[७].१६ ) प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥
6233. (११,५[७].१७ ) ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।
6234. (११,५[७].१७ ) आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिछते ॥१७॥
6235. (११,५[७].१८ ) ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
6236. (११,५[७].१८ ) अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥
6237. (११,५[७].१९ ) ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।
6238. (११,५[७].१९ ) इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥
6239. (११,५[७].२० ) ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।
6240. (११,५[७].२० ) संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५}
6241. (११,५[७].२१ ) पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।
6242. (११,५[७].२१ ) अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥
6243. (११,५[७].२२ ) पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।
6244. (११,५[७].२२ ) तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥
6245. (११,५[७].२३ ) देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।
6246. (११,५[७].२३ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥
6247. (११,५[७].२४ ) ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
6248. (११,५[७].२४ ) प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
6249. (११,५[७].२५ ) चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥
6250. (११,५[७].२६ ) तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।
6251. (११,५[७].२६ ) स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}
6252. (११,६[८].१ ) अग्निं ब्रूमो वनस्पतीन् ओषधीरुत वीरुधः ।
6253. (११,६[८].१ ) इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥
6254. (११,६[८].२ ) ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।
6255. (११,६[८].२ ) अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥
6256. (११,६[८].३ ) ब्रूमो देवं सवितारं धातारमुत पूषणम् ।
6257. (११,६[८].३ ) त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥
6258. (११,६[८].४ ) गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।
6259. (११,६[८].४ ) अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥
6260. (११,६[८].५ ) अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा ।
6261. (११,६[८].५ ) विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥
6262. (११,६[८].६ ) वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः ।
6263. (११,६[८].६ ) आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥६॥
6264. (११,६[८].७ ) मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः ।
6265. (११,६[८].७ ) सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥
6266. (११,६[८].८ ) पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः ।
6267. (११,६[८].८ ) शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥८॥
6268. (११,६[८].९ ) भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः ।
6269. (११,६[८].९ ) इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥९॥
6270. (११,६[८].१० ) दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।
6271. (११,६[८].१० ) समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥१०॥ {१७}
6272. (११,६[८].११ ) सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् ।
6273. (११,६[८].११ ) पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।११॥
6274. (११,६[८].१२ ) ये देवा दिविषदो अन्तरिक्षसदश्च ये ।
6275. (११,६[८].१२ ) पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥१२॥
6276. (११,६[८].१३ ) आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।
6277. (११,६[८].१३ ) अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥१३॥
6278. (११,६[८].१४ ) यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।
6279. (११,६[८].१४ ) यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१४॥
6280. (११,६[८].१५ ) पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।
6281. (११,६[८].१५ ) दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥१५॥
6282. (११,६[८].१६ ) अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।
6283. (११,६[८].१६ ) मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१६॥
6284. (११,६[८].१७ ) ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् ।
6285. (११,६[८].१७ ) समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥१७॥
6286. (११,६[८].१८ ) एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत ।
6287. (११,६[८].१८ ) पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥१८॥
6288. (११,६[८].१९ ) विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।
6289. (११,६[८].१९ ) विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥१९॥
6290. (११,६[८].२० ) सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।
6291. (११,६[८].२० ) सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥२०॥
6292. (११,६[८].२१ ) भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी ।
6293. (११,६[८].२१ ) भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः ॥२१॥
6294. (११,६[८].२२ ) या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः ।
6295. (११,६[८].२२ ) संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥२२॥
6296. (११,६[८].२३ ) यन् मातली रथक्रीतममृतं वेद भेषजम् ।
6297. (११,६[८].२३ ) तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥२३॥ {१८}
6298. (११,७[९].१ ) उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।
6299. (११,७[९].१ ) उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥१॥
6300. (११,७[९].२ ) उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।
6301. (११,७[९].२ ) आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥
6302. (११,७[९].३ ) सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।
6303. (११,७[९].३ ) लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥
6304. (११,७[९].४ ) दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश ।
6305. (११,७[९].४ ) नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥४॥
6306. (११,७[९].५ ) ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् ।
6307. (११,७[९].५ ) हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ॥५॥
6308. (११,७[९].६ ) ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।
6309. (११,७[९].६ ) उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥
6310. (११,७[९].७ ) राजसूयं वाजपेयमग्निष्टोमष्तदध्वरः ।
6311. (११,७[९].७ ) अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥७॥
6312. (११,७[९].८ ) अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह ।
6313. (११,७[९].८ ) उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥८॥
6314. (११,७[९].९ ) अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।
6315. (११,७[९].९ ) दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥९॥
6316. (११,७[९].१० ) एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः ।
6317. (११,७[९].१० ) ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥१०॥ {१९}
6318. (११,७[९].११ ) चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह ।
6319. (११,७[९].११ ) षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥११॥
6320. (११,७[९].१२ ) प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः ।
6321. (११,७[९].१२ ) साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि ॥१२॥
6322. (११,७[९].१३ ) सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः ।
6323. (११,७[९].१३ ) उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥
6324. (११,७[९].१४ ) नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः ।
6325. (११,७[९].१४ ) आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि ॥१४॥
6326. (११,७[९].१५ ) उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः ।
6327. (११,७[९].१५ ) बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥१५॥
6328. (११,७[९].१६ ) पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः ।
6329. (११,७[९].१६ ) स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥१६॥
6330. (११,७[९].१७ ) ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च ।
6331. (११,७[९].१७ ) भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥१७॥
6332. (११,७[९].१८ ) समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः ।
6333. (११,७[९].१८ ) संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥१८॥
6334. (११,७[९].१९ ) चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः ।
6335. (११,७[९].१९ ) उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥१९॥
6336. (११,७[९].२० ) अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह ।
6337. (११,७[९].२० ) उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥२०॥ {२०}
6338. (११,७[९].२१ ) शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा ।
6339. (११,७[९].२१ ) अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥२१॥
6340. (११,७[९].२२ ) राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः ।
6341. (११,७[९].२२ ) अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥२२॥
6342. (११,७[९].२३ ) यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।
6343. (११,७[९].२३ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२३॥
6344. (११,७[९].२४ ) ऋचः सामानि छन्दांसि पुराणं यजुषा सह ।
6345. (११,७[९].२४ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२४॥
6346. (११,७[९].२५ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
6347. (११,७[९].२५ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२५॥
6348. (११,७[९].२६ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।
6349. (११,७[९].२६ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२६॥
6350. (११,७[९].२७ ) देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।
6351. (११,७[९].२७ ) उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२७॥ {२१}
6352. (११,८[१०].१ ) यन् मन्युर्जायामावहत्संकल्पस्य गृहादधि ।
6353. (११,८[१०].१ ) क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत्॥१॥
6354. (११,८[१०].२ ) तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
6355. (११,८[१०].२ ) त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत्॥२॥
6356. (११,८[१०].३ ) दश साकमजायन्त देवा देवेभ्यः पुरा ।
6357. (११,८[१०].३ ) यो वै तान् विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत्॥३॥
6358. (११,८[१०].४ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
6359. (११,८[१०].४ ) व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥४॥
6360. (११,८[१०].५ ) अजाता आसन्न् ऋतवोऽथो धाता बृहस्पतिः ।
6361. (११,८[१०].५ ) इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥५॥
6362. (११,८[१०].६ ) तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।
6363. (११,८[१०].६ ) तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥६॥
6364. (११,८[१०].७ ) येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः ।
6365. (११,८[१०].७ ) यो वै तां विद्यान् नामथा स मन्येत पुराणवित्॥७॥
6366. (११,८[१०].८ ) कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत ।
6367. (११,८[१०].८ ) कुतस्त्वष्टा समभवत्कुतो धाताजायत ॥८॥
6368. (११,८[१०].९ ) इन्द्रादिन्द्रः सोमात्सोमो अग्नेरग्निरजायत ।
6369. (११,८[१०].९ ) त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥९॥
6370. (११,८[१०].१० ) ये त आसन् दश जाता देवा देवेभ्यः पुरा ।
6371. (११,८[१०].१० ) पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥१०॥ {२२}
6372. (११,८[१०].११ ) यदा केशान् अस्थि स्नाव मांसं मज्जानमाभरत्।
6373. (११,८[१०].११ ) शरीरं कृत्वा पादवत्कं लोकमनु प्राविशत्॥११॥
6374. (११,८[१०].१२ ) कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत्।
6375. (११,८[१०].१२ ) अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत्॥१२॥
6376. (११,८[१०].१३ ) संसिचो नाम ते देवा ये संभारान्त्समभरन् ।
6377. (११,८[१०].१३ ) सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥१३॥
6378. (११,८[१०].१४ ) ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम् ।
6379. (११,८[१०].१४ ) पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥१४॥
6380. (११,८[१०].१५ ) शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः ।
6381. (११,८[१०].१५ ) त्वचा प्रावृत्य सर्वं तत्संधा समदधान् मही ॥१५॥
6382. (११,८[१०].१६ ) यत्तच्छरीरमशयत्संधया संहितं महत्।
6383. (११,८[१०].१६ ) येनेदमद्य रोचते को अस्मिन् वर्णमाभरत्॥१६॥
6384. (११,८[१०].१७ ) सर्वे देवा उपाशिक्षन् तदजानाद्वधूः सती ।
6385. (११,८[१०].१७ ) ईशा वशस्य या जाया सास्मिन् वर्णमाभरत्॥१७॥
6386. (११,८[१०].१८ ) यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः ।
6387. (११,८[१०].१८ ) गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥१८॥
6388. (११,८[१०].१९ ) स्वप्नो वै तन्द्रीर्निरृतिः पाप्मानो नाम देवताः ।
6389. (११,८[१०].१९ ) जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥१९॥
6390. (११,८[१०].२० ) स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्।
6391. (११,८[१०].२० ) बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥२०॥ {२३}
6392. (११,८[१०].२१ ) भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः ।
6393. (११,८[१०].२१ ) क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥२१॥
6394. (११,८[१०].२२ ) निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।
6395. (११,८[१०].२२ ) शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२२॥
6396. (११,८[१०].२३ ) विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।
6397. (११,८[१०].२३ ) शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥२३॥
6398. (११,८[१०].२४ ) आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।
6399. (११,८[१०].२४ ) हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥२४॥
6400. (११,८[१०].२५ ) आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।
6401. (११,८[१०].२५ ) शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥२५॥
6402. (११,८[१०].२६ ) प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।
6403. (११,८[१०].२६ ) व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥२६॥
6404. (११,८[१०].२७ ) आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः ।
6405. (११,८[१०].२७ ) चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥२७॥
6406. (११,८[१०].२८ ) आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ।
6407. (११,८[१०].२८ ) गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥२८॥
6408. (११,८[१०].२९ ) अस्थि कृत्वा समिधं तदष्टापो असादयन् ।
6409. (११,८[१०].२९ ) रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥२९॥
6410. (११,८[१०].३० ) या आपो याश्च देवता या विराड्ब्रह्मणा सह ।
6411. (११,८[१०].३० ) शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥३०॥
6412. (११,८[१०].३१ ) सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।
6413. (११,८[१०].३१ ) अथास्येतरमात्मानं देवाः प्रायछन्न् अग्नये ॥३१॥
6414. (११,८[१०].३२ ) तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।
6415. (११,८[१०].३२ ) सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते ॥३२॥
6416. (११,८[१०].३३ ) प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गछति ।
6417. (११,८[१०].३३ ) अद एकेन गछत्यद एकेन गछतीहैकेन नि षेवते ॥३३॥
6418. (११,८[१०].३४ ) अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम् ।
6419. (११,८[१०].३४ ) तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥३४॥ {२४}
6420. (११,९[११].१ ) ये बाहवो या इषवो धन्वनां वीर्याणि च ।
6421. (११,९[११].१ ) असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।
6422. (११,९[११].१ ) सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥
6423. (११,९[११].२ ) उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।
6424. (११,९[११].२ ) संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥२॥
6425. (११,९[११].३ ) उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् ।
6426. (११,९[११].३ ) अमित्राणां सेना अभि धत्तमर्बुदे ॥३॥
6427. (११,९[११].४ ) अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः ।
6428. (११,९[११].४ ) याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही ।
6429. (११,९[११].४ ) ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥४॥
6430. (११,९[११].५ ) उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
6431. (११,९[११].५ ) भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥
6432. (११,९[११].६ ) सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।
6433. (११,९[११].६ ) तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥६॥
6434. (११,९[११].७ ) प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।
6435. (११,९[११].७ ) विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥
6436. (११,९[११].८ ) संकर्षन्ती करूकरं मनसा पुत्रमिछन्ती ।
6437. (११,९[११].८ ) पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥८॥
6438. (११,९[११].९ ) अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः ।
6439. (११,९[११].९ ) ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥
6440. (११,९[११].१० ) अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।
6441. (११,९[११].१० ) पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५}
6442. (११,९[११].११ ) आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।
6443. (११,९[११].११ ) निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥
6444. (११,९[११].१२ ) उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज ।
6445. (११,९[११].१२ ) उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥१२॥
6446. (११,९[११].१३ ) मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि ।
6447. (११,९[११].१३ ) मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥१३॥
6448. (११,९[११].१४ ) प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः ।
6449. (११,९[११].१४ ) अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥
6450. (११,९[११].१५ ) श्वन्वतीरप्सरसो रूपका उतार्बुदे ।
6451. (११,९[११].१५ ) अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।
6452. (११,९[११].१५ ) सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१५॥
6453. (११,९[११].१६ ) खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् ।
6454. (११,९[११].१६ ) य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।
6455. (११,९[११].१६ ) सर्पा इतरजना रक्षांसि ॥१६॥
6456. (११,९[११].१७ ) चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् ।
6457. (११,९[११].१७ ) स्वभ्यसा ये चोद्भ्यसाः ॥१७॥
6458. (११,९[११].१८ ) उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः ।
6459. (११,९[११].१८ ) जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥१८॥
6460. (११,९[११].१९ ) प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे ।
6461. (११,९[११].१९ ) अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥१९॥
6462. (११,९[११].२० ) तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् ।
6463. (११,९[११].२० ) अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥२०॥ {२६}
6464. (११,९[११].२१ ) उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु ।
6465. (११,९[११].२१ ) शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥२१॥
6466. (११,९[११].२२ ) ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।
6467. (११,९[११].२२ ) तमसा ये च तूपरा अथो बस्ताभिवासिनः ।
6468. (११,९[११].२२ ) सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥
6469. (११,९[११].२३ ) अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् ।
6470. (११,९[११].२३ ) यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥२३॥
6471. (११,९[११].२४ ) वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।
6472. (११,९[११].२४ ) गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।
6473. (११,९[११].२४ ) सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२४॥
6474. (११,९[११].२५ ) ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।
6475. (११,९[११].२५ ) ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।
6476. (११,९[११].२५ ) ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥
6477. (११,९[११].२६ ) तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् ।
6478. (११,९[११].२६ ) मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७}
6479. (११,१०[१२].१ ) उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।
6480. (११,१०[१२].१ ) सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥१॥
6481. (११,१०[१२].२ ) ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह ।
6482. (११,१०[१२].२ ) ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।
6483. (११,१०[१२].२ ) त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥२॥
6484. (११,१०[१२].३ ) अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः ।
6485. (११,१०[१२].३ ) क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥३॥
6486. (११,१०[१२].४ ) अन्तर्धेहि जातवेद आदित्य कुणपं बहु ।
6487. (११,१०[१२].४ ) त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥४॥
6488. (११,१०[१२].५ ) उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।
6489. (११,१०[१२].५ ) अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥५॥
6490. (११,१०[१२].६ ) शितिपदी सं द्यतु शरव्येयं चतुष्पदी ।
6491. (११,१०[१२].६ ) कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥
6492. (११,१०[१२].७ ) धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।
6493. (११,१०[१२].७ ) त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥
6494. (११,१०[१२].८ ) अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति ।
6495. (११,१०[१२].८ ) श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥८॥
6496. (११,१०[१२].९ ) यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते ।
6497. (११,१०[१२].९ ) तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥
6498. (११,१०[१२].१० ) बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः ।
6499. (११,१०[१२].१० ) असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥१०॥ {२८}
6500. (११,१०[१२].११ ) येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः ।
6501. (११,१०[१२].११ ) त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥
6502. (११,१०[१२].१२ ) सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया ।
6503. (११,१०[१२].१२ ) बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥१२॥
6504. (११,१०[१२].१३ ) बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ।
6505. (११,१०[१२].१३ ) तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥१३॥
6506. (११,१०[१२].१४ ) सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।
6507. (११,१०[१२].१४ ) इमां जुषध्वमाहुतिमितो जयत मामुतः ॥१४॥
6508. (११,१०[१२].१५ ) सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया ।
6509. (११,१०[१२].१५ ) संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥
6510. (११,१०[१२].१६ ) वायुरमित्राणामिष्वग्राण्याञ्चतु ।
6511. (११,१०[१२].१६ ) इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।
6512. (११,१०[१२].१६ ) आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥१६॥
6513. (११,१०[१२].१७ ) यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।
6514. (११,१०[१२].१७ ) तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥१७॥
6515. (११,१०[१२].१८ ) क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् ।
6516. (११,१०[१२].१८ ) त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥
6517. (११,१०[१२].१९ ) त्रिषन्धे तमसा त्वममित्रान् परि वारय ।
6518. (११,१०[१२].१९ ) पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥१९॥
6519. (११,१०[१२].२० ) शितिपदी सं पतत्वमित्राणाममूः सिचः ।
6520. (११,१०[१२].२० ) मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९}
6521. (११,१०[१२].२१ ) मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् ।
6522. (११,१०[१२].२१ ) अनया जहि सेनया ॥२१॥
6523. (११,१०[१२].२२ ) यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि ।
6524. (११,१०[१२].२२ ) ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥२२॥
6525. (११,१०[१२].२३ ) ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः ।
6526. (११,१०[१२].२३ ) सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥२३॥
6527. (११,१०[१२].२४ ) ये रथिनो ये अरथा असादा ये च सादिनः ।
6528. (११,१०[१२].२४ ) सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥
6529. (११,१०[१२].२५ ) सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् ।
6530. (११,१०[१२].२५ ) विविद्धा ककजाकृता ॥२५॥
6531. (११,१०[१२].२६ ) मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् ।
6532. (११,१०[१२].२६ ) य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥२६॥
6533. (११,१०[१२].२७ ) यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।
6534. (११,१०[१२].२७ ) तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०}
6535. (१२,१.१ ) सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।
6536. (१२,१.१ ) सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥
6537. (१२,१.२ ) असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु ।
6538. (१२,१.२ ) नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
6539. (१२,१.३ ) यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।
6540. (१२,१.३ ) यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥
6541. (१२,१.४ ) यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः ।
6542. (१२,१.४ ) या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥
6543. (१२,१.५ ) यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।
6544. (१२,१.५ ) गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥
6545. (१२,१.६ ) विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।
6546. (१२,१.६ ) वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥
6547. (१२,१.७ ) यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।
6548. (१२,१.७ ) सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥
6549. (१२,१.८ ) यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः ।
6550. (१२,१.८ ) यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः ।
6551. (१२,१.८ ) सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥
6552. (१२,१.९ ) यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति ।
6553. (१२,१.९ ) सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥
6554. (१२,१.१० ) यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।
6555. (१२,१.१० ) इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः ।
6556. (१२,१.१० ) सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥ {१}
6557. (१२,१.११ ) गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु ।
6558. (१२,१.११ ) बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।
6559. (१२,१.११ ) अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥
6560. (१२,१.१२ ) यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः ।
6561. (१२,१.१२ ) तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥
6562. (१२,१.१३ ) यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः ।
6563. (१२,१.१३ ) यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्।
6564. (१२,१.१३ ) सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥
6565. (१२,१.१४ ) यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन ।
6566. (१२,१.१४ ) तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥
6567. (१२,१.१५ ) त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।
6568. (१२,१.१५ ) तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥
6569. (१२,१.१६ ) ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥१६॥
6570. (१२,१.१७ ) विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।
6571. (१२,१.१७ ) शिवां स्योनामनु चरेम विश्वहा ॥१७॥
6572. (१२,१.१८ ) महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे ।
6573. (१२,१.१८ ) महांस्त्वेन्द्रो रक्षत्यप्रमादम् ।
6574. (१२,१.१८ ) सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥
6575. (१२,१.१९ ) अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।
6576. (१२,१.१९ ) अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥१९॥
6577. (१२,१.२० ) अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम् ।
6578. (१२,१.२० ) अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥२०॥ {२}
6579. (१२,१.२१ ) अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥२१॥
6580. (१२,१.२२ ) भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।
6581. (१२,१.२२ ) भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।
6582. (१२,१.२२ ) सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥२२॥
6583. (१२,१.२३ ) यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।
6584. (१२,१.२३ ) यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२३॥
6585. (१२,१.२४ ) यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे ।
6586. (१२,१.२४ ) अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२४॥
6587. (१२,१.२५ ) यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।
6588. (१२,१.२५ ) यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।
6589. (१२,१.२५ ) कन्यायां वर्चो यद्भूमे तेनास्मामपि सं सृज मा नो द्विक्षत कश्चन ॥२५॥
6590. (१२,१.२६ ) शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता ।
6591. (१२,१.२६ ) तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥२६॥
6592. (१२,१.२७ ) यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।
6593. (१२,१.२७ ) पृथिवीं विश्वधायसं धृतामछावदामसि ॥२७॥
6594. (१२,१.२८ ) उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः ।
6595. (१२,१.२८ ) पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥२८॥
6596. (१२,१.२९ ) विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।
6597. (१२,१.२९ ) ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥२९॥
6598. (१२,१.३० ) शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः ।
6599. (१२,१.३० ) पवित्रेण पृथिवि मोत्पुनामि ॥३०॥ {३}
6600. (१२,१.३१ ) यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्।
6601. (१२,१.३१ ) स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥३१॥
6602. (१२,१.३२ ) मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत ।
6603. (१२,१.३२ ) स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥३२॥
6604. (१२,१.३३ ) यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।
6605. (१२,१.३३ ) तावन् मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३३॥
6606. (१२,१.३४ ) यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमुत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे ।
6607. (१२,१.३४ ) मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥३४॥
6608. (१२,१.३५ ) यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।
6609. (१२,१.३५ ) मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥३५॥
6610. (१२,१.३६ ) ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः ।
6611. (१२,१.३६ ) ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥३६॥
6612. (१२,१.३७ ) याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।
6613. (१२,१.३७ ) परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥३७॥
6614. (१२,१.३८ ) यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।
6615. (१२,१.३८ ) ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥३८॥
6616. (१२,१.३९ ) यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।
6617. (१२,१.३९ ) सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥३९॥
6618. (१२,१.४० ) सा नो भूमिरा दिशतु यद्धनं कामयामहे ।
6619. (१२,१.४० ) भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥४०॥ {४}
6620. (१२,१.४१ ) यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।
6621. (१२,१.४१ ) युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः ।
6622. (१२,१.४१ ) सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥४१॥
6623. (१२,१.४२ ) यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।
6624. (१२,१.४२ ) भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥४२॥
6625. (१२,१.४३ ) यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते ।
6626. (१२,१.४३ ) प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥४३॥
6627. (१२,१.४४ ) निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे ।
6628. (१२,१.४४ ) वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥४४॥
6629. (१२,१.४५ ) जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।
6630. (१२,१.४५ ) सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥४५॥
6631. (१२,१.४६ ) यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।
6632. (१२,१.४६ ) क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥४६॥
6633. (१२,१.४७ ) ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।
6634. (१२,१.४७ ) यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥
6635. (१२,१.४८ ) मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।
6636. (१२,१.४८ ) वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥
6637. (१२,१.४९ ) ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति ।
6638. (१२,१.४९ ) उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत्॥४९॥
6639. (१२,१.५० ) ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।
6640. (१२,१.५० ) पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥५०॥ {५}
6641. (१२,१.५१ ) यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।
6642. (१२,१.५१ ) यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् ।
6643. (१२,१.५१ ) वातस्य प्रवामुपवामनु वात्यर्चिः ॥५१॥
6644. (१२,१.५२ ) यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।
6645. (१२,१.५२ ) वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥५२॥
6646. (१२,१.५३ ) द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।
6647. (१२,१.५३ ) अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥५३॥
6648. (१२,१.५४ ) अहमस्मि सहमान उत्तरो नाम भूम्याम् ।
6649. (१२,१.५४ ) अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥५४॥
6650. (१२,१.५५ ) अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।
6651. (१२,१.५५ ) आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥५५॥
6652. (१२,१.५६ ) ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।
6653. (१२,१.५६ ) ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥५६॥
6654. (१२,१.५७ ) अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत ।
6655. (१२,१.५७ ) मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥५७॥
6656. (१२,१.५८ ) यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।
6657. (१२,१.५८ ) त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥५८॥
6658. (१२,१.५९ ) शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती ।
6659. (१२,१.५९ ) भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥
6660. (१२,१.६० ) यामन्वैछद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।
6661. (१२,१.६० ) भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥६०॥
6662. (१२,१.६१ ) त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना ।
6663. (१२,१.६१ ) यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥६१॥
6664. (१२,१.६२ ) उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः ।
6665. (१२,१.६२ ) दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥६२॥
6666. (१२,१.६३ ) भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।
6667. (१२,१.६३ ) संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥६३॥ {६}
6668. (१२,२.१ ) नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।
6669. (१२,२.१ ) यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥१॥
6670. (१२,२.२ ) अघशंसदुःशंसाभ्यां करेणानुकरेण च ।
6671. (१२,२.२ ) यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि ॥२॥
6672. (१२,२.३ ) निरितो मृत्युं निरृतिं निररातिमजामसि ।
6673. (१२,२.३ ) यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि ॥३॥
6674. (१२,२.४ ) यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः ।
6675. (१२,२.४ ) तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गछत्वप्सुषदोऽप्यग्नीन् ॥४॥
6676. (१२,२.५ ) यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते ।
6677. (१२,२.५ ) सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥५॥
6678. (१२,२.६ ) पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने ।
6679. (१२,२.६ ) पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥६॥
6680. (१२,२.७ ) यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्न् इतरं जातवेदसम् ।
6681. (१२,२.७ ) तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥७॥
6682. (१२,२.८ ) क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गछतु रिप्रवाहः ।
6683. (१२,२.८ ) इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥
6684. (१२,२.९ ) क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।
6685. (१२,२.९ ) नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोकेऽपि भागो अस्तु ॥९॥
6686. (१२,२.१० ) क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः ।
6687. (१२,२.१० ) मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥ {७}
6688. (१२,२.११ ) समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः ।
6689. (१२,२.११ ) जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥११॥
6690. (१२,२.१२ ) देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत्।
6691. (१२,२.१२ ) मुच्यमानो निरेणसोऽमोगस्मामशस्त्याः ॥१२॥
6692. (१२,२.१३ ) अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।
6693. (१२,२.१३ ) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥१३॥
6694. (१२,२.१४ ) संकसुको विकसुको निरृथो यश्च निस्वरः ।
6695. (१२,२.१४ ) ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् ॥१४॥
6696. (१२,२.१५ ) यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु ।
6697. (१२,२.१५ ) क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥१५॥
6698. (१२,२.१६ ) अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा ।
6699. (१२,२.१६ ) निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥१६॥
6700. (१२,२.१७ ) यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।
6701. (१२,२.१७ ) तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥१७॥
6702. (१२,२.१८ ) समिद्धो अग्न आहुत स नो माभ्यपक्रमीः ।
6703. (१२,२.१८ ) अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥१८॥
6704. (१२,२.१९ ) सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्।
6705. (१२,२.१९ ) अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥१९॥
6706. (१२,२.२० ) सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।
6707. (१२,२.२० ) अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥२०॥ {८}
6708. (१२,२.२१ ) परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्।
6709. (१२,२.२१ ) चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥२१॥
6710. (१२,२.२२ ) इमे जीवा वि मृतैराववृत्रन्न् अभूद्भद्रा देवहुतिर्नो अद्य ।
6711. (१२,२.२२ ) प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥२२॥
6712. (१२,२.२३ ) इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।
6713. (१२,२.२३ ) शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥२३॥
6714. (१२,२.२४ ) आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ ।
6715. (१२,२.२४ ) तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥२४॥
6716. (१२,२.२५ ) यथाहान्यनुपूर्वं भवन्ति यथ र्तव ऋतुभिर्यन्ति साकम् ।
6717. (१२,२.२५ ) यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥२५॥
6718. (१२,२.२६ ) अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः ।
6719. (१२,२.२६ ) अत्रा जहीत ये असन् दुरेवा अनमीवान् उत्तरेमाभि वाजान् ॥२६॥
6720. (१२,२.२७ ) उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम् ।
6721. (१२,२.२७ ) अत्रा जहीत ये असन्न् अशिवाः शिवान्त्स्योनान् उत्तरेमाभि वाजान् ॥२७॥
6722. (१२,२.२८ ) वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।
6723. (१२,२.२८ ) अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥२८॥
6724. (१२,२.२९ ) उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः ।
6725. (१२,२.२९ ) त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥२९॥
6726. (१२,२.३० ) मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः ।
6727. (१२,२.३० ) आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥३०॥ {९}
6728. (१२,२.३१ ) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
6729. (१२,२.३१ ) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥३१॥
6730. (१२,२.३२ ) व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि ।
6731. (१२,२.३२ ) स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥३२॥
6732. (१२,२.३३ ) यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु ।
6733. (१२,२.३३ ) मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥३३॥
6734. (१२,२.३४ ) अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा ।
6735. (१२,२.३४ ) प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥३४॥
6736. (१२,२.३५ ) द्विभागधनमादाय प्र क्षिणात्यवर्त्या ।
6737. (१२,२.३५ ) अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥३५॥
6738. (१२,२.३६ ) यत्कृषते यद्वनुते यच्च वस्नेन विन्दते ।
6739. (१२,२.३६ ) सर्वं मर्त्यस्य तन् नास्ति क्रव्याच्चेदनिराहितः ॥३६॥
6740. (१२,२.३७ ) अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे ।
6741. (१२,२.३७ ) छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥३७॥
6742. (१२,२.३८ ) मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य ।
6743. (१२,२.३८ ) क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥३८॥
6744. (१२,२.३९ ) ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः ।
6745. (१२,२.३९ ) ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत्॥३९॥
6746. (१२,२.४० ) यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् ।
6747. (१२,२.४० ) आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत्॥४०॥ {१०}
6748. (१२,२.४१ ) ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः ।
6749. (१२,२.४१ ) पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥४१॥
6750. (१२,२.४२ ) अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥४२॥
6751. (१२,२.४३ ) इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्।
6752. (१२,२.४३ ) व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥४३॥
6753. (१२,२.४४ ) अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः ॥४४॥
6754. (१२,२.४५ ) जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गछन्तु ये मृताः ।
6755. (१२,२.४५ ) सुगार्हपत्यो वितपन्न् अरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥४५॥
6756. (१२,२.४६ ) सर्वान् अग्ने सहमानः सपत्नान् ऐषामूर्जं रयिमस्मासु धेहि ॥४६॥
6757. (१२,२.४७ ) इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।
6758. (१२,२.४७ ) तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥४७॥
6759. (१२,२.४८ ) अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।
6760. (१२,२.४८ ) आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥४८॥
6761. (१२,२.४९ ) अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः ।
6762. (१२,२.४९ ) अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥४९॥
6763. (१२,२.५० ) ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा ।
6764. (१२,२.५० ) क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम् ॥५०॥ {११}
6765. (१२,२.५१ ) येऽश्रद्धा धनकाम्या क्रव्यादा समासते ।
6766. (१२,२.५१ ) ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥५१॥
6767. (१२,२.५२ ) प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः ।
6768. (१२,२.५२ ) क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥५२॥
6769. (१२,२.५३ ) अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः ।
6770. (१२,२.५३ ) माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥५३॥
6771. (१२,२.५४ ) इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् ।
6772. (१२,२.५४ ) तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥५४॥
6773. (१२,२.५५ ) प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश ।
6774. (१२,२.५५ ) परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥५५॥ {१२}
6775. (१२,३.१ ) पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते ।
6776. (१२,३.१ ) यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥१॥
6777. (१२,३.२ ) तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि ।
6778. (१२,३.२ ) अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः ॥२॥
6779. (१२,३.३ ) समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु ।
6780. (१२,३.३ ) पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव ॥३॥
6781. (१२,३.४ ) आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य ।
6782. (१२,३.४ ) तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री ॥४॥
6783. (१२,३.५ ) यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः ।
6784. (१२,३.५ ) स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥५॥
6785. (१२,३.६ ) उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः ।
6786. (१२,३.६ ) तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥६॥
6787. (१२,३.७ ) प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते ।
6788. (१२,३.७ ) यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥७॥
6789. (१२,३.८ ) दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्।
6790. (१२,३.८ ) तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात्॥८॥
6791. (१२,३.९ ) प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च ।
6792. (१२,३.९ ) तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान् मिथुना सं भवाथः ॥९॥
6793. (१२,३.१० ) उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन् नो अग्रम् ।
6794. (१२,३.१० ) पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥१०॥ {१३}
6795. (१२,३.११ ) ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु ।
6796. (१२,३.११ ) सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥११॥
6797. (१२,३.१२ ) पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ ।
6798. (१२,३.१२ ) यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥१२॥
6799. (१२,३.१३ ) यद्यद्कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद ।
6800. (१२,३.१३ ) यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥१३॥
6801. (१२,३.१४ ) अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः ।
6802. (१२,३.१४ ) आ रोह चर्म महि शर्म यछ मा दंपती पौत्रमघं नि गाताम् ॥१४॥
6803. (१२,३.१५ ) वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः ।
6804. (१२,३.१५ ) स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम ॥१५॥
6805. (१२,३.१६ ) सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्मामुत यश्चकर्श ।
6806. (१२,३.१६ ) त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥१६॥
6807. (१२,३.१७ ) स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम ।
6808. (१२,३.१७ ) गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निरृतिर्मो अरातिः ॥१७॥
6809. (१२,३.१८ ) ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु ।
6810. (१२,३.१८ ) वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥१८॥
6811. (१२,३.१९ ) विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ।
6812. (१२,३.१९ ) वर्षवृद्धमुप यछ शूर्पं तुषं पलावान् अप तद्विनक्तु ॥१९॥
6813. (१२,३.२० ) त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् ।
6814. (१२,३.२० ) अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥२०॥ {१४}
6815. (१२,३.२१ ) पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या ।
6816. (१२,३.२१ ) एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥२१॥
6817. (१२,३.२२ ) पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा ।
6818. (१२,३.२२ ) यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि ॥२२॥
6819. (१२,३.२३ ) जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या ।
6820. (१२,३.२३ ) उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥२३॥
6821. (१२,३.२४ ) अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान् ।
6822. (१२,३.२४ ) वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै ॥२४॥
6823. (१२,३.२५ ) पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान् ।
6824. (१२,३.२५ ) ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥२५॥
6825. (१२,३.२६ ) आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् ।
6826. (१२,३.२६ ) शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥२६॥
6827. (१२,३.२७ ) उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः ।
6828. (१२,३.२७ ) ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥२७॥
6829. (१२,३.२८ ) संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः ।
6830. (१२,३.२८ ) असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥२८॥
6831. (१२,३.२९ ) उद्यो
6832. धन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् ।
6833. (१२,३.२९ ) योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥२९॥
6834. (१२,३.३० ) उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम् ।
6835. (१२,३.३० ) अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः ॥३०॥ {१५}
6836. (१२,३.३१ ) प्र यछ पर्शुं त्वरया हरौसमहिंसन्त ओषधीर्दान्तु पर्वन् ।
6837. (१२,३.३१ ) वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥३१॥
6838. (१२,३.३२ ) नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु ।
6839. (१२,३.३२ ) तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥३२॥
6840. (१२,३.३३ ) वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोभैः संमितो देवताभिः ।
6841. (१२,३.३३ ) त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥३३॥
6842. (१२,३.३४ ) षष्ट्यां शरत्सु निधिपा अभीछात्स्वः पक्वेनाभ्यश्नवातै ।
6843. (१२,३.३४ ) उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥३४॥
6844. (१२,३.३५ ) धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु ।
6845. (१२,३.३५ ) तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात्॥३५॥
6846. (१२,३.३६ ) सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् ।
6847. (१२,३.३६ ) वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥३६॥
6848. (१२,३.३७ ) उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्।
6849. (१२,३.३७ ) वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥३७॥
6850. (१२,३.३८ ) उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः ।
6851. (१२,३.३८ ) तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥३८॥
6852. (१२,३.३९ ) यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः ।
6853. (१२,३.३९ ) सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥३९॥
6854. (१२,३.४० ) यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः ।
6855. (१२,३.४० ) सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥४०॥ {१६}
6856. (१२,३.४१ ) वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः ।
6857. (१२,३.४१ ) सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात्॥४१॥
6858. (१२,३.४२ ) निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये ।
6859. (१२,३.४२ ) अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत्॥४२॥
6860. (१२,३.४३ ) अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त ।
6861. (१२,३.४३ ) नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥४३॥
6862. (१२,३.४४ ) आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि ।
6863. (१२,३.४४ ) शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥४४॥
6864. (१२,३.४५ ) इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप ।
6865. (१२,३.४५ ) आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥४५॥
6866. (१२,३.४६ ) सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् ।
6867. (१२,३.४६ ) मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत्॥४६॥
6868. (१२,३.४७ ) अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया ।
6869. (१२,३.४७ ) कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत्॥४७॥
6870. (१२,३.४८ ) न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति ।
6871. (१२,३.४८ ) अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥४८॥
6872. (१२,३.४९ ) प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति ।
6873. (१२,३.४९ ) धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥४९॥
6874. (१२,३.५० ) समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून् ।
6875. (१२,३.५० ) यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥५०॥ {१७}
6876. (१२,३.५१ ) एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये ।
6877. (१२,३.५१ ) क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥५१॥
6878. (१२,३.५२ ) यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या ।
6879. (१२,३.५२ ) समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥५२॥
6880. (१२,३.५३ ) वर्षं वनुष्वापि गछ देवांस्त्वचो धूमं पर्युत्पातयासि ।
6881. (१२,३.५३ ) विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥५३॥
6882. (१२,३.५४ ) तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् ।
6883. (१२,३.५४ ) अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥५४॥
6884. (१२,३.५५ ) प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते ।
6885. (१२,३.५५ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
6886. (१२,३.५५ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५५॥
6887. (१२,३.५६ ) दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते ।
6888. (१२,३.५६ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
6889. (१२,३.५६ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५६॥
6890. (१२,३.५७ ) प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते ।
6891. (१२,३.५७ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
6892. (१२,३.५७ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५७॥
6893. (१२,३.५८ ) उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै ।
6894. (१२,३.५८ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
6895. (१२,३.५८ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५८॥
6896. (१२,३.५९ ) ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः ।
6897. (१२,३.५९ ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
6898. (१२,३.५९ ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५९॥
6899. (१२,३.६० ) ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते ।
6900. (१२,३.६० ) एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।
6901. (१२,३.६० ) दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥६०॥ {१८}
6902. (१२,४.१ ) ददामीत्येव ब्रूयादनु चैनामभुत्सत ।
6903. (१२,४.१ ) वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥
6904. (१२,४.२ ) प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।
6905. (१२,४.२ ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
6906. (१२,४.३ ) कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।
6907. (१२,४.३ ) बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
6908. (१२,४.४ ) विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।
6909. (१२,४.४ ) तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
6910. (१२,४.५ ) पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।
6911. (१२,४.५ ) अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥
6912. (१२,४.६ ) यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।
6913. (१२,४.६ ) लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥
6914. (१२,४.७ ) यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।
6915. (१२,४.७ ) ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
6916. (१२,४.८ ) यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।
6917. (१२,४.८ ) ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥
6918. (१२,४.९ ) यदस्याः पल्पूलनं शकृद्दासी समस्यति ।
6919. (१२,४.९ ) ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥
6920. (१२,४.१० ) जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।
6921. (१२,४.१० ) तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९}
6922. (१२,४.११ ) य एनां वनिमायन्ति तेषां देवकृता वशा ।
6923. (१२,४.११ ) ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥
6924. (१२,४.१२ ) य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।
6925. (१२,४.१२ ) आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥
6926. (१२,४.१३ ) यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।
6927. (१२,४.१३ ) हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥
6928. (१२,४.१४ ) यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।
6929. (१२,४.१४ ) तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥
6930. (१२,४.१५ ) स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।
6931. (१२,४.१५ ) यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥
6932. (१२,४.१६ ) चरेदेवा त्रैहायणादविज्ञातगदा सती ।
6933. (१२,४.१६ ) वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥
6934. (१२,४.१७ ) य एनामवशामाह देवानां निहितं निधिम् ।
6935. (१२,४.१७ ) उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥
6936. (१२,४.१८ ) यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।
6937. (१२,४.१८ ) उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥
6938. (१२,४.१९ ) दुरदभ्नैनमा शये याचितां च न दित्सति ।
6939. (१२,४.१९ ) नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥
6940. (१२,४.२० ) देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।
6941. (१२,४.२० ) तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०}
6942. (१२,४.२१ ) हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।
6943. (१२,४.२१ ) देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥
6944. (१२,४.२२ ) यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।
6945. (१२,४.२२ ) अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥
6946. (१२,४.२३ ) य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।
6947. (१२,४.२३ ) दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥
6948. (१२,४.२४ ) देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।
6949. (१२,४.२४ ) तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥
6950. (१२,४.२५ ) अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।
6951. (१२,४.२५ ) ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥
6952. (१२,४.२६ ) अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।
6953. (१२,४.२६ ) तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥
6954. (१२,४.२७ ) यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।
6955. (१२,४.२७ ) चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥
6956. (१२,४.२८ ) यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्।
6957. (१२,४.२८ ) आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥
6958. (१२,४.२९ ) वशा चरन्ती बहुधा देवानां निहितो निधिः ।
6959. (१२,४.२९ ) आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
6960. (१२,४.३० ) आविरात्मानं कृणुते यदा स्थाम जिघांसति ।
6961. (१२,४.३० ) अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}
6962. (१२,४.३१ ) मनसा सं कल्पयति तद्देवामपि गछति ।
6963. (१२,४.३१ ) ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥
6964. (१२,४.३२ ) स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।
6965. (१२,४.३२ ) दानेन राजन्यो वशाया मातुर्हेडं न गछति ॥३२॥
6966. (१२,४.३३ ) वशा माता राजन्यस्य तथा संभूतमग्रशः ।
6967. (१२,४.३३ ) तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥
6968. (१२,४.३४ ) यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।
6969. (१२,४.३४ ) एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥
6970. (१२,४.३५ ) पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।
6971. (१२,४.३५ ) सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
6972. (१२,४.३६ ) सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।
6973. (१२,४.३६ ) अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥
6974. (१२,४.३७ ) प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।
6975. (१२,४.३७ ) वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥
6976. (१२,४.३८ ) यो वेहतं मन्यमानोऽमा च पचते वशाम् ।
6977. (१२,४.३८ ) अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥
6978. (१२,४.३९ ) महदेषाव तपति चरन्ती गोषु गौरपि ।
6979. (१२,४.३९ ) अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥
6980. (१२,४.४० ) प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।
6981. (१२,४.४० ) अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२}
6982. (१२,४.४१ ) या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।
6983. (१२,४.४१ ) तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥
6984. (१२,४.४२ ) तां देवा अमीमांसन्त वशेया३ अवशेति ।
6985. (१२,४.४२ ) तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥
6986. (१२,४.४३ ) कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।
6987. (१२,४.४३ ) तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥
6988. (१२,४.४४ ) विलिप्त्या बृहस्पते या च सूतवशा वशा ।
6989. (१२,४.४४ ) तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥
6990. (१२,४.४५ ) नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।
6991. (१२,४.४५ ) कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥
6992. (१२,४.४६ ) विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।
6993. (१२,४.४६ ) तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥
6994. (१२,४.४७ ) त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।
6995. (१२,४.४७ ) ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥
6996. (१२,४.४८ ) एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।
6997. (१२,४.४८ ) वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥
6998. (१२,४.४९ ) देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।
6999. (१२,४.४९ ) एताभिरृग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥
7000. (१२,४.५० ) उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।
7001. (१२,४.५० ) तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥
7002. (१२,४.५१ ) ये वशाया अदानाय वदन्ति परिरापिणः ।
7003. (१२,४.५१ ) इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
7004. (१२,४.५२ ) ये गोपतिं पराणीयाथाहुर्मा ददा इति ।
7005. (१२,४.५२ ) रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥
7006. (१२,४.५३ ) यदि हुतं यद्यहुताममा च पचते वशाम् ।
7007. (१२,४.५३ ) देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निरृछति ॥५३॥ {२३}
7008. (१२,५.५३ ) श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ॥१॥
7009. (१२,५.२ ) सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥
7010. (१२,५.३ ) स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥
7011. (१२,५.४ ) ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥४॥
7012. (१२,५.५ ) तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥
7013. (१२,५.६ ) अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ॥६॥ {२४}
7014. (१२,५.७ ) ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥७॥
7015. (१२,५.८ ) ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥८॥
7016. (१२,५.९ ) आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥९॥
7017. (१२,५.१० ) पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥१०॥
7018. (१२,५.११ ) तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५}
7019. (१२,५.१२ ) सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता ॥१२॥
7020. (१२,५.१३ ) सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥१३॥
7021. (१२,५.१४ ) सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥
7022. (१२,५.१५ ) सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पद्वीष आ द्यति ॥१५॥
7023. (१२,५.१६ ) मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥१६॥
7024. (१२,५.१७ ) तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥१७॥
7025. (१२,५.१८ ) वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥
7026. (१२,५.१९ ) हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा ॥१९॥
7027. (१२,५.२० ) क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥
7028. (१२,५.२१ ) मृत्युर्हिङ्कृण्वत्युग्रो देवः पुछं पर्यस्यन्ती ॥२१॥
7029. (१२,५.२२ ) सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥
7030. (१२,५.२३ ) मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥२३॥
7031. (१२,५.२४ ) सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥
7032. (१२,५.२५ ) शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥२५॥
7033. (१२,५.२६ ) अघविषा निपतन्ती तमो निपतिता ॥२६॥
7034. (१२,५.२७ ) अनुगछन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६}
7035. (१२,५.२८ ) वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥
7036. (१२,५.२९ ) देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥२९॥
7037. (१२,५.३० ) पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥३०॥
7038. (१२,५.३१ ) विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥
7039. (१२,५.३२ ) अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥
7040. (१२,५.३३ ) मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥
7041. (१२,५.३४ ) असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥३४॥
7042. (१२,५.३५ ) अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥३५॥
7043. (१२,५.३६ ) शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥
7044. (१२,५.३७ ) अवर्तिरश्यमाना निरृतिरशिता ॥३७॥
7045. (१२,५.३८ ) अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥३८॥ {२७}
7046. (१२,५.३९ ) तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥३९॥
7047. (१२,५.४० ) अस्वगता परिह्णुता ॥४०॥
7048. (१२,५.४१ ) अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥
7049. (१२,५.४२ ) सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥
7050. (१२,५.४३ ) छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥
7051. (१२,५.४४ ) विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥
7052. (१२,५.४५ ) अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥४५॥
7053. (१२,५.४६ ) य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥४६॥ {२८}
7054. (१२,५.४७ ) क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥४७॥
7055. (१२,५.४८ ) क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥४८॥
7056. (१२,५.४९ ) क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥४९॥
7057. (१२,५.५० ) क्षिप्रं वै तस्य पृछन्ति यत्तदासी३ इदं नु ता३ इति ॥५०॥
7058. (१२,५.५१ ) छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय ॥५१॥
7059. (१२,५.५२ ) आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥५२॥
7060. (१२,५.५३ ) वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ॥५३॥
7061. (१२,५.५४ ) ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥
7062. (१२,५.५५ ) क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ॥५५॥
7063. (१२,५.५६ ) आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥
7064. (१२,५.५७ ) आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यछसि ॥५७॥
7065. (१२,५.५८ ) अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥५८॥
7066. (१२,५.५९ ) मेनिः शरव्या भवाघादघविषा भव ॥५९॥
7067. (१२,५.६० ) अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६०॥
7068. (१२,५.६१ ) त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥६१॥ {२९}
7069. (१२,५.६२ ) वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥
7070. (१२,५.६३ ) ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६३॥
7071. (१२,५.६४ ) यथायाद्यमसादनात्पापलोकान् परावतः ॥६४॥
7072. (१२,५.६५ ) एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६५॥
7073. (१२,५.६६ ) वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥
7074. (१२,५.६७ ) प्र स्कन्धान् प्र शिरो जहि ॥६७॥
7075. (१२,५.६८ ) लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥६८॥
7076. (१२,५.६९ ) मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥६९॥
7077. (१२,५.७० ) अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥७०॥
7078. (१२,५.७१ ) सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥
7079. (१२,५.७२ ) अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः ॥७२॥
7080. (१२,५.७३ ) सूर्य एनं दिवः प्र णुदतां न्योषतु ॥७३॥ {३०}
7081. (१३,१.१ ) उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्।
7082. (१३,१.१ ) यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥
7083. (१३,१.२ ) उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः ।
7084. (१३,१.२ ) सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥
7085. (१३,१.३ ) यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।
7086. (१३,१.३ ) आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥
7087. (१३,१.४ ) रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।
7088. (१३,१.४ ) ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥४॥
7089. (१३,१.५ ) आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्।
7090. (१३,१.५ ) तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥
7091. (१३,१.६ ) रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।
7092. (१३,१.६ ) तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥६॥
7093. (१३,१.७ ) रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः ।
7094. (१३,१.७ ) तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥७॥
7095. (१३,१.८ ) वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च ।
7096. (१३,१.८ ) दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥
7097. (१३,१.९ ) यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।
7098. (१३,१.९ ) तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥
7099. (१३,१.१० ) यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।
7100. (१३,१.१० ) तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ {१}
7101. (१३,१.११ ) ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः ।
7102. (१३,१.११ ) तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥
7103. (१३,१.१२ ) सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः ।
7104. (१३,१.१२ ) मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥
7105. (१३,१.१३ ) रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।
7106. (१३,१.१३ ) रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥
7107. (१३,१.१४ ) रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः ।
7108. (१३,१.१४ ) वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥
7109. (१३,१.१५ ) आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः ।
7110. (१३,१.१५ ) आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥
7111. (१३,१.१६ ) अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् ।
7112. (१३,१.१६ ) अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥१६॥
7113. (१३,१.१७ ) वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा ।
7114. (१३,१.१७ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥१७॥
7115. (१३,१.१८ ) वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।
7116. (१३,१.१८ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥
7117. (१३,१.१९ ) वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः ।
7118. (१३,१.१९ ) इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥१९॥
7119. (१३,१.२० ) परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।
7120. (१३,१.२० ) सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्॥२०॥ {२}
7121. (१३,१.२१ ) यं त्वा पृषती रथे प्रष्टिर्वहति रोहित ।
7122. (१३,१.२१ ) शुभा यासि रिणन्न् अपः ॥२१॥
7123. (१३,१.२२ ) अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः ।
7124. (१३,१.२२ ) तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥
7125. (१३,१.२३ ) इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति ।
7126. (१३,१.२३ ) तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥२३॥
7127. (१३,१.२४ ) सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् ।
7128. (१३,१.२४ ) घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥२४॥
7129. (१३,१.२५ ) यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव ।
7130. (१३,१.२५ ) यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥२५॥
7131. (१३,१.२६ ) रोहितो दिवमारुहन् महतः पर्यर्णवात्।
7132. (१३,१.२६ ) सर्वो रुरोह रोहितो रुहः ॥२६॥
7133. (१३,१.२७ ) वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।
7134. (१३,१.२७ ) इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥
7135. (१३,१.२८ ) समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः ।
7136. (१३,१.२८ ) अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥२८॥
7137. (१३,१.२९ ) हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति ।
7138. (१३,१.२९ ) क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥
7139. (१३,१.३० ) अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् ।
7140. (१३,१.३० ) अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥३०॥ {३}
7141. (१३,१.३१ ) अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते ।
7142. (१३,१.३१ ) इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥३१॥
7143. (१३,१.३२ ) उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि ।
7144. (१३,१.३२ ) अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥३२॥
7145. (१३,१.३३ ) वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् ।
7146. (१३,१.३३ ) घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥
7147. (१३,१.३४ ) दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।
7148. (१३,१.३४ ) प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥
7149. (१३,१.३५ ) ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् ।
7150. (१३,१.३५ ) तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥
7151. (१३,१.३६ ) उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ।
7152. (१३,१.३६ ) तिरः समुद्रमति रोचसेऽर्णवम् ॥३६॥
7153. (१३,१.३७ ) रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति ।
7154. (१३,१.३७ ) सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥
7155. (१३,१.३८ ) यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् ।
7156. (१३,१.३८ ) यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥३८॥
7157. (१३,१.३९ ) अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि ।
7158. (१३,१.३९ ) इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥
7159. (१३,१.४० ) देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे ।
7160. (१३,१.४० ) समानमग्निमिन्धते तं विदुः कवयः परे ॥४०॥ {४}
7161. (१३,१.४१ ) अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्।
7162. (१३,१.४१ ) सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥४१॥
7163. (१३,१.४२ ) एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।
7164. (१३,१.४२ ) सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥
7165. (१३,१.४३ ) आरोहन् द्याममृतः प्राव मे वचः ।
7166. (१३,१.४३ ) उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥४३॥
7167. (१३,१.४४ ) वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि ।
7168. (१३,१.४४ ) यत्ते सधस्थं परमे व्योमन् ॥४४॥
7169. (१३,१.४५ ) सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति ।
7170. (१३,१.४५ ) सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥४५॥
7171. (१३,१.४६ ) उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।
7172. (१३,१.४६ ) तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥
7173. (१३,१.४७ ) हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।
7174. (१३,१.४७ ) वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥
7175. (१३,१.४८ ) स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते ।
7176. (१३,१.४८ ) तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥४८॥
7177. (१३,१.४९ ) ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ।
7178. (१३,१.४९ ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥
7179. (१३,१.५० ) सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते ।
7180. (१३,१.५० ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५}
7181. (१३,१.५१ ) यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः ।
7182. (१३,१.५१ ) ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥
7183. (१३,१.५२ ) वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।
7184. (१३,१.५२ ) घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥५२॥
7185. (१३,१.५३ ) वर्षमाजं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत ।
7186. (१३,१.५३ ) तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्॥५३॥
7187. (१३,१.५४ ) गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्।
7188. (१३,१.५४ ) त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥५४॥
7189. (१३,१.५५ ) स यज्ञः प्रथमो भूतो भव्यो अजायत ।
7190. (१३,१.५५ ) तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥
7191. (१३,१.५६ ) यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति ।
7192. (१३,१.५६ ) तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५६॥
7193. (१३,१.५७ ) यो माभिछायमत्येषि मां चाग्निं चान्तरा ।
7194. (१३,१.५७ ) तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५७॥
7195. (१३,१.५८ ) यो अद्य देव सूर्य त्वां च मां चान्तरायति ।
7196. (१३,१.५८ ) दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥
7197. (१३,१.५९ ) मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।
7198. (१३,१.५९ ) मान्त स्थुर्नो अरातयः ॥५९॥
7199. (१३,१.६० ) यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।
7200. (१३,१.६० ) तमाहुतमशीमहि ॥६०॥ {६}
7201. (१३,२.१ ) उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।
7202. (१३,२.१ ) आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥१॥
7203. (१३,२.२ ) दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे ।
7204. (१३,२.२ ) स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥२॥
7205. (१३,२.३ ) यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।
7206. (१३,२.३ ) तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥३॥
7207. (१३,२.४ ) विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः ।
7208. (१३,२.४ ) स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥४॥
7209. (१३,२.५ ) मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् ।
7210. (१३,२.५ ) दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥५॥
7211. (१३,२.६ ) स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः ।
7212. (१३,२.६ ) यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥६॥
7213. (१३,२.७ ) सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।
7214. (१३,२.७ ) यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥७॥
7215. (१३,२.८ ) सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।
7216. (१३,२.८ ) अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्॥८॥
7217. (१३,२.९ ) उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्।
7218. (१३,२.९ ) दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥९॥
7219. (१३,२.१० ) उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि ।
7220. (१३,२.१० ) उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ {७}
7221. (१३,२.११ ) पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
7222. (१३,२.११ ) विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥११॥
7223. (१३,२.१२ ) दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे ।
7224. (१३,२.१२ ) स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१२॥
7225. (१३,२.१३ ) उभावन्तौ समर्षसि वत्सः संमातराविव ।
7226. (१३,२.१३ ) नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥१३॥
7227. (१३,२.१४ ) यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः ।
7228. (१३,२.१४ ) अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥१४॥
7229. (१३,२.१५ ) तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति ।
7230. (१३,२.१५ ) तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥
7231. (१३,२.१६ ) उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
7232. (१३,२.१६ ) दृशे विश्वाय सूर्यम् ॥१६॥
7233. (१३,२.१७ ) अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
7234. (१३,२.१७ ) सूराय विश्वचक्षसे ॥१७॥
7235. (१३,२.१८ ) अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।
7236. (१३,२.१८ ) भ्राजन्तो अग्नयो यथा ॥१८॥
7237. (१३,२.१९ ) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
7238. (१३,२.१९ ) विश्वमा भासि रोचन ॥१९॥
7239. (१३,२.२० ) प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।
7240. (१३,२.२० ) प्रत्यङ्विश्वं स्वर्दृशे ॥२०॥ {८}
7241. (१३,२.२१ ) येना पावक चक्षसा भुरण्यन्तं जनामनु ।
7242. (१३,२.२१ ) त्वं वरुण पश्यसि ॥२१॥
7243. (१३,२.२२ ) वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।
7244. (१३,२.२२ ) पश्यन् जन्मानि सूर्य ॥२२॥
7245. (१३,२.२३ ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
7246. (१३,२.२३ ) शोचिष्केशं विचक्षणम् ॥२३॥
7247. (१३,२.२४ ) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
7248. (१३,२.२४ ) ताभिर्याति स्वयुक्तिभिः ॥२४॥
7249. (१३,२.२५ ) रोहितो दिवमारुहत्तपसा तपस्वी ।
7250. (१३,२.२५ ) स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥२५॥
7251. (१३,२.२६ ) यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः ।
7252. (१३,२.२६ ) सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥२६॥
7253. (१३,२.२७ ) एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।
7254. (१३,२.२७ ) द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥२७॥
7255. (१३,२.२८ ) अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः ।
7256. (१३,२.२८ ) केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥
7257. (१३,२.२९ ) बण्महामसि सूर्य बडादित्य महामसि ।
7258. (१३,२.२९ ) महांस्ते महतो महिमा त्वमादित्य महामसि ॥२९॥
7259. (१३,२.३० ) रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः ।
7260. (१३,२.३० ) उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {९}
7261. (१३,२.३१ ) अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः ।
7262. (१३,२.३१ ) विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥३१॥
7263. (१३,२.३२ ) चित्राश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।
7264. (१३,२.३२ ) अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥
7265. (१३,२.३३ ) तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः ।
7266. (१३,२.३३ ) ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥३३॥
7267. (१३,२.३४ ) चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
7268. (१३,२.३४ ) दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥३४॥
7269. (१३,२.३५ ) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
7270. (१३,२.३५ ) आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥३५॥
7271. (१३,२.३६ ) उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।
7272. (१३,२.३६ ) पश्यम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥३६॥
7273. (१३,२.३७ ) दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः ।
7274. (१३,२.३७ ) स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥३७॥
7275. (१३,२.३८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
7276. (१३,२.३८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥
7277. (१३,२.३९ ) रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः ।
7278. (१३,२.३९ ) रोहितो यज्ञानां मुखं रोहितः स्वराभरत्॥३९॥
7279. (१३,२.४० ) रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् ।
7280. (१३,२.४० ) रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्॥४०॥ {१०}
7281. (१३,२.४१ ) सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः ।
7282. (१३,२.४१ ) दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥४१॥
7283. (१३,२.४२ ) आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः ।
7284. (१३,२.४२ ) चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥४२॥
7285. (१३,२.४३ ) अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः ।
7286. (१३,२.४३ ) सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥
7287. (१३,२.४४ ) पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव ।
7288. (१३,२.४४ ) विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४४॥
7289. (१३,२.४५ ) पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् ।
7290. (१३,२.४५ ) सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४५॥
7291. (१३,२.४६ ) अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषसम् ।
7292. (१३,२.४६ ) यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमछ ॥४६॥ {११}
7293. (१३,३.१ ) य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते ।
7294. (१३,३.१ ) यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति ।
7295. (१३,३.१ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7296. (१३,३.२ ) यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति ।
7297. (१३,३.२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7298. (१३,३.२ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥
7299. (१३,३.३ ) यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा ।
7300. (१३,३.३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7301. (१३,३.३ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥
7302. (१३,३.४ ) यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति ।
7303. (१३,३.४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7304. (१३,३.४ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥
7305. (१३,३.५ ) यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः ।
7306. (१३,३.५ ) यः परस्य प्राणं परमस्य तेज आददे ।
7307. (१३,३.५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7308. (१३,३.६ ) यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः ।
7309. (१३,३.६ ) यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत ।
7310. (१३,३.६ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7311. (१३,३.७ ) यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः ।
7312. (१३,३.७ ) भूतो भविष्यत्भुवनस्य यस्पतिः ।
7313. (१३,३.७ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7314. (१३,३.८ ) अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते ।
7315. (१३,३.८ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7316. (१३,३.८ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥
7317. (१३,३.९ ) कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
7318. (१३,३.९ ) त आववृत्रन्त्सदनादृतस्य ।
7319. (१३,३.९ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7320. (१३,३.१० ) यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु यस्मिन्त्सूर्या आर्पिताः सप्त साकम् ।
7321. (१३,३.१० ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7322. (१३,३.१० ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥ {१२}
7323. (१३,३.११ ) बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात्।
7324. (१३,३.११ ) ज्योतिर्वसाने सदमप्रमादम् ।
7325. (१३,३.११ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7326. (१३,३.१२ ) बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची ।
7327. (१३,३.१२ ) यद्रोहितमजनयन्त देवाः ।
7328. (१३,३.१२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7329. (१३,३.१३ ) स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् ।
7330. (१३,३.१३ ) स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् ।
7331. (१३,३.१३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7332. (१३,३.१४ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
7333. (१३,३.१४ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ।
7334. (१३,३.१४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7335. (१३,३.१५ ) अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः ।
7336. (१३,३.१५ ) य इदं विश्वं भुवनं जजान ।
7337. (१३,३.१५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7338. (१३,३.१६ ) शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् ।
7339. (१३,३.१६ ) यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति ।
7340. (१३,३.१६ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7341. (१३,३.१७ ) येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः ।
7342. (१३,३.१७ ) यदेकं ज्योतिर्बहुधा विभाति ।
7343. (१३,३.१७ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7344. (१३,३.१८ ) सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
7345. (१३,३.१८ ) त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ।
7346. (१३,३.१८ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7347. (१३,३.१९ ) अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् ।
7348. (१३,३.१९ ) ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा ।
7349. (१३,३.१९ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7350. (१३,३.२० ) संयञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे ।
7351. (१३,३.२० ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7352. (१३,३.२० ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥ {१३}
7353. (१३,३.२१ ) निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः ।
7354. (१३,३.२१ ) विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म ।
7355. (१३,३.२१ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7356. (१३,३.२२ ) वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे ।
7357. (१३,३.२२ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7358. (१३,३.२२ ) उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥
7359. (१३,३.२३ ) त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि ।
7360. (१३,३.२३ ) किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः ।
7361. (१३,३.२३ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7362. (१३,३.२४ ) य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।
7363. (१३,३.२४ ) योऽस्येशे द्विपदो यश्चतुष्पदः ।
7364. (१३,३.२४ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7365. (१३,३.२५ ) एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।
7366. (१३,३.२५ ) चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः ।
7367. (१३,३.२५ ) तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।
7368. (१३,३.२६ ) कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत ।
7369. (१३,३.२६ ) स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥२६॥ {१४}
7370. (१३,४.२६ ) स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥
7371. (१३,४.२ ) रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥
7372. (१३,४.३ ) स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥
7373. (१३,४.४ ) सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥
7374. (१३,४.५ ) सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥
7375. (१३,४.६ ) तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥
7376. (१३,४.७ ) पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥
7377. (१३,४.८ ) तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥
7378. (१३,४.९ ) रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥
7379. (१३,४.१० ) तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥
7380. (१३,४.११ ) स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥
7381. (१३,४.१२ ) तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥
7382. (१३,४.१३ ) एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}
7383. (१३,४.१४ ) कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥
7384. (१३,४.१५ ) य एतं देवमेकवृतं वेद ॥१५॥
7385. (१३,४.१६ ) न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥
7386. (१३,४.१७ ) न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥
7387. (१३,४.१८ ) नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥
7388. (१३,४.१९ ) स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥
7389. (१३,४.२० ) तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥
7390. (१३,४.२१ ) सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}
7391. (१३,४.२२ ) ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२॥
7392. (१३,४.२३ ) भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥
7393. (१३,४.२४ ) य एतं देवमेकवृतं वेद ॥२४॥
7394. (१३,४.२५ ) स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥
7395. (१३,४.२६ ) स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥
7396. (१३,४.२७ ) तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥
7397. (१३,४.२८ ) तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}
7398. (१३,४.२९ ) स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥
7399. (१३,४.३० ) स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥
7400. (१३,४.३१ ) स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥
7401. (१३,४.३२ ) स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥
7402. (१३,४.३३ ) स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥
7403. (१३,४.३४ ) स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥
7404. (१३,४.३५ ) स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥
7405. (१३,४.३६ ) स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥
7406. (१३,४.३७ ) स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥
7407. (१३,४.३८ ) स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥
7408. (१३,४.३९ ) स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥
7409. (१३,४.४० ) स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥
7410. (१३,४.४१ ) स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥
7411. (१३,४.४२ ) पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥
7412. (१३,४.४३ ) यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥
7413. (१३,४.४४ ) तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥
7414. (१३,४.४५ ) उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८}
7415. (१३,४.४६ ) भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥
7416. (१३,४.४७ ) भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥
7417. (१३,४.४८ ) नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥
7418. (१३,४.४९ ) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥
7419. (१३,४.५० ) अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥
7420. (१३,४.५१ ) अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}
7421. (१३,४.५२ ) उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥
7422. (१३,४.५३ ) प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥
7423. (१३,४.५४ ) भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥
7424. (१३,४.५५ ) नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥
7425. (१३,४.५६ ) अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}
7426. (१४,१.१ ) सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।
7427. (१४,१.१ ) ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥
7428. (१४,१.२ ) सोमेनादित्या बलिनः सोमेन पृथिवी मही ।
7429. (१४,१.२ ) अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥
7430. (१४,१.३ ) सोमं मन्यते पपिवान् यत्संपिंषन्त्योषधिम् ।
7431. (१४,१.३ ) सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥३॥
7432. (१४,१.४ ) यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः ।
7433. (१४,१.४ ) वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥४॥
7434. (१४,१.५ ) आछद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।
7435. (१४,१.५ ) ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥५॥
7436. (१४,१.६ ) चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।
7437. (१४,१.६ ) द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥६॥
7438. (१४,१.७ ) रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।
7439. (१४,१.७ ) सुर्याया भद्रमिद्वासो गाथयति परिष्कृता ॥७॥
7440. (१४,१.८ ) स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।
7441. (१४,१.८ ) सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥
7442. (१४,१.९ ) सोमो वधूयुरभवदश्विनास्तामुभा वरा ।
7443. (१४,१.९ ) सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात्॥९॥
7444. (१४,१.१० ) मनो अस्या अन आसीद्द्यौरासीदुत छदिः ।
7445. (१४,१.१० ) शुक्रावनड्वाहावास्तां यदयात्सूर्या पतिम् ॥१०॥ {१}
7446. (१४,१.११ ) ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् ।
7447. (१४,१.११ ) श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥११॥
7448. (१४,१.१२ ) शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।
7449. (१४,१.१२ ) अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥
7450. (१४,१.१३ ) सूर्याया वहतुः प्रागात्सविता यमवासृजत्।
7451. (१४,१.१३ ) मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥१३॥
7452. (१४,१.१४ ) यदश्विना पृछमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।
7453. (१४,१.१४ ) क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१४॥
7454. (१४,१.१५ ) यदयातं शुभस्पती वरेयं सूर्यामुप ।
7455. (१४,१.१५ ) विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा ॥१५॥
7456. (१४,१.१६ ) द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।
7457. (१४,१.१६ ) अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥
7458. (१४,१.१७ ) अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।
7459. (१४,१.१७ ) उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः ॥१७॥
7460. (१४,१.१८ ) प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।
7461. (१४,१.१८ ) यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥१८॥
7462. (१४,१.१९ ) प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।
7463. (१४,१.१९ ) ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥१९॥
7464. (१४,१.२० ) भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।
7465. (१४,१.२० ) गृहान् गछ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२०॥ {२}
7466. (१४,१.२१ ) इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।
7467. (१४,१.२१ ) एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥२१॥
7468. (१४,१.२२ ) इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।
7469. (१४,१.२२ ) क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥२२॥
7470. (१४,१.२३ ) पूर्वापरं चरतो मायैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।
7471. (१४,१.२३ ) विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥२३॥
7472. (१४,१.२४ ) नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।
7473. (१४,१.२४ ) भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥२४॥
7474. (१४,१.२५ ) परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।
7475. (१४,१.२५ ) कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥२५॥
7476. (१४,१.२६ ) नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।
7477. (१४,१.२६ ) एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२६॥
7478. (१४,१.२७ ) अश्लीला तनूर्भवति रुशती पापयामुया ।
7479. (१४,१.२७ ) पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥२७॥
7480. (१४,१.२८ ) आशसनं विशसनमथो अधिविकर्तनम् ।
7481. (१४,१.२८ ) सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥२८॥
7482. (१४,१.२९ ) तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे ।
7483. (१४,१.२९ ) सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति ॥२९॥
7484. (१४,१.३० ) स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।
7485. (१४,१.३० ) प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥३०॥ {३}
7486. (१४,१.३१ ) युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु ।
7487. (१४,१.३१ ) ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥३१॥
7488. (१४,१.३२ ) इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ ।
7489. (१४,१.३२ ) शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥३२॥
7490. (१४,१.३३ ) इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् ।
7491. (१४,१.३३ ) अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥३३॥
7492. (१४,१.३४ ) अनृक्षरा ऋजवः सन्तु पन्थनो येभिः सखायो यन्ति नो वरेयम् ।
7493. (१४,१.३४ ) सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥३४॥
7494. (१४,१.३५ ) यच्च वर्चो अक्षेषु सुरायां च यदाहितम् ।
7495. (१४,१.३५ ) यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥३५॥
7496. (१४,१.३६ ) येन महानघ्न्या जघनमश्विना येन वा सुरा ।
7497. (१४,१.३६ ) येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥३६॥
7498. (१४,१.३७ ) यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु ।
7499. (१४,१.३७ ) अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान् ॥३७॥
7500. (१४,१.३८ ) इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि ।
7501. (१४,१.३८ ) यो भद्रो रोचनस्तमुदचामि ॥३८॥
7502. (१४,१.३९ ) आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः ।
7503. (१४,१.३९ ) अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥३९॥
7504. (१४,१.४० ) शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।
7505. (१४,१.४० ) शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥४०॥ {४}
7506. (१४,१.४१ ) खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
7507. (१४,१.४१ ) अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम् ॥४१॥
7508. (१४,१.४२ ) आशासाना सौमनसं प्रजां सौभाग्यं रयिम् ।
7509. (१४,१.४२ ) पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥४२॥
7510. (१४,१.४३ ) यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।
7511. (१४,१.४३ ) एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥४३॥
7512. (१४,१.४४ ) सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु ।
7513. (१४,१.४४ ) ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः ॥४४॥
7514. (१४,१.४५ ) या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त ।
7515. (१४,१.४५ ) तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥४५॥
7516. (१४,१.४६ ) जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः ।
7517. (१४,१.४६ ) वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥४६॥
7518. (१४,१.४७ ) स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे ।
7519. (१४,१.४७ ) तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥४७॥
7520. (१४,१.४८ ) येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।
7521. (१४,१.४८ ) तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥४८॥
7522. (१४,१.४९ ) देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।
7523. (१४,१.४९ ) अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु ॥४९॥
7524. (१४,१.५० ) गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।
7525. (१४,१.५० ) भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥५०॥ {५}
7526. (१४,१.५१ ) भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत्।
7527. (१४,१.५१ ) पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥५१॥
7528. (१४,१.५२ ) ममेयमस्तु पोष्या मह्यं त्वादाद्बृहस्पतिः ।
7529. (१४,१.५२ ) मया पत्या प्रजावति सं जीव शरदः शतम् ॥५२॥
7530. (१४,१.५३ ) त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम् ।
7531. (१४,१.५३ ) तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥५३॥
7532. (१४,१.५४ ) इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा ।
7533. (१४,१.५४ ) बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥५४॥
7534. (१४,१.५५ ) बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशामकल्पयत्।
7535. (१४,१.५५ ) तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥५५॥
7536. (१४,१.५६ ) इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् ।
7537. (१४,१.५६ ) तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥५६॥
7538. (१४,१.५७ ) अहं वि ष्यामि मयि रूपमस्या वेददित्पश्यन् मनसः कुलायम् ।
7539. (१४,१.५७ ) न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥५७॥
7540. (१४,१.५८ ) प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।
7541. (१४,१.५८ ) उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥५८॥
7542. (१४,१.५९ ) उद्यछध्वमप रक्षो हनाथेमं नारीं सुकृते दधात ।
7543. (१४,१.५९ ) धाता विपश्चित्पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥५९॥
7544. (१४,१.६० ) भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पलानि ।
7545. (१४,१.६० ) त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥६०॥
7546. (१४,१.६१ ) सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।
7547. (१४,१.६१ ) आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥६१॥
7548. (१४,१.६२ ) अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते ।
7549. (१४,१.६२ ) इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह ॥६२॥
7550. (१४,१.६३ ) मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि ।
7551. (१४,१.६३ ) शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥६३॥
7552. (१४,१.६४ ) ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।
7553. (१४,१.६४ ) अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥६४॥ {६}
7554. (१४,२.१ ) तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह ।
7555. (१४,२.१ ) स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥
7556. (१४,२.२ ) पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।
7557. (१४,२.२ ) दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥
7558. (१४,२.३ ) सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः ।
7559. (१४,२.३ ) तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥
7560. (१४,२.४ ) सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।
7561. (१४,२.४ ) रयिं च पुत्रांस्चादादग्निर्मह्यमथो इमाम् ॥४॥
7562. (१४,२.५ ) आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत ।
7563. (१४,२.५ ) अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥
7564. (१४,२.६ ) सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।
7565. (१४,२.६ ) सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥
7566. (१४,२.७ ) या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।
7567. (१४,२.७ ) तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥
7568. (१४,२.८ ) एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् ।
7569. (१४,२.८ ) यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥
7570. (१४,२.९ ) इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।
7571. (१४,२.९ ) ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः ।
7572. (१४,२.९ ) स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥
7573. (१४,२.१० ) ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु ।
7574. (१४,२.१० ) पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७}
7575. (१४,२.११ ) मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।
7576. (१४,२.११ ) सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥
7577. (१४,२.१२ ) सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।
7578. (१४,२.१२ ) पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥
7579. (१४,२.१३ ) शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश ।
7580. (१४,२.१३ ) तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥
7581. (१४,२.१४ ) आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् ।
7582. (१४,२.१४ ) सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥
7583. (१४,२.१५ ) प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति ।
7584. (१४,२.१५ ) सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥
7585. (१४,२.१६ ) उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
7586. (१४,२.१६ ) मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥
7587. (१४,२.१७ ) अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।
7588. (१४,२.१७ ) वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥
7589. (१४,२.१८ ) अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।
7590. (१४,२.१८ ) प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥
7591. (१४,२.१९ ) उत्तिष्ठेतः किमिछन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्।
7592. (१४,२.१९ ) शून्यैषी निरृते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥
7593. (१४,२.२० ) यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् ।
7594. (१४,२.२० ) अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८}
7595. (१४,२.२१ ) शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे ।
7596. (१४,२.२१ ) सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥
7597. (१४,२.२२ ) यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।
7598. (१४,२.२२ ) तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥
7599. (१४,२.२३ ) उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।
7600. (१४,२.२३ ) तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥
7601. (१४,२.२४ ) आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा ।
7602. (१४,२.२४ ) इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥
7603. (१४,२.२५ ) वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः ।
7604. (१४,२.२५ ) सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥
7605. (१४,२.२६ ) सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।
7606. (१४,२.२६ ) स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥
7607. (१४,२.२७ ) स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।
7608. (१४,२.२७ ) स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥
7609. (१४,२.२८ ) सुमङ्गलीरियं वधूरिमां समेत पश्यत ।
7610. (१४,२.२८ ) सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥
7611. (१४,२.२९ ) या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।
7612. (१४,२.२९ ) वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥
7613. (१४,२.३० ) रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् ।
7614. (१४,२.३० ) आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९}
7615. (१४,२.३१ ) आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।
7616. (१४,२.३१ ) इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥
7617. (१४,२.३२ ) देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः ।
7618. (१४,२.३२ ) सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥
7619. (१४,२.३३ ) उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा ।
7620. (१४,२.३३ ) जामिमिछ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥
7621. (१४,२.३४ ) अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।
7622. (१४,२.३४ ) तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥
7623. (१४,२.३५ ) नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।
7624. (१४,२.३५ ) विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥
7625. (१४,२.३६ ) राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम ।
7626. (१४,२.३६ ) अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥
7627. (१४,२.३७ ) सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः ।
7628. (१४,२.३७ ) मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥
7629. (१४,२.३८ ) तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।
7630. (१४,२.३८ ) या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥
7631. (१४,२.३९ ) आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।
7632. (१४,२.३९ ) प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥
7633. (१४,२.४० ) आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।
7634. (१४,२.४० ) अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०}
7635. (१४,२.४१ ) देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् ।
7636. (१४,२.४१ ) यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥
7637. (१४,२.४२ ) यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् ।
7638. (१४,२.४२ ) युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥
7639. (१४,२.४३ ) स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ ।
7640. (१४,२.४३ ) सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥
7641. (१४,२.४४ ) नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।
7642. (१४,२.४४ ) आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥
7643. (१४,२.४५ ) शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।
7644. (१४,२.४५ ) आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥
7645. (१४,२.४६ ) सूर्यायै देवेभ्यो मित्राय वरुणाय च ।
7646. (१४,२.४६ ) ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥
7647. (१४,२.४७ ) य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
7648. (१४,२.४७ ) संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥
7649. (१४,२.४८ ) अपास्मत्तम उछतु नीलं पिशङ्गमुत लोहितं यत्।
7650. (१४,२.४८ ) निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥
7651. (१४,२.४९ ) यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः ।
7652. (१४,२.४९ ) व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥
7653. (१४,२.५० ) या मे प्रियतमा तनूः सा मे बिभाय वाससः ।
7654. (१४,२.५० ) तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११}
7655. (१४,२.५१ ) ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।
7656. (१४,२.५१ ) वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥
7657. (१४,२.५२ ) उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः ।
7658. (१४,२.५२ ) अव दीक्षामसृक्षत स्वाहा ॥५२॥
7659. (१४,२.५३ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
7660. (१४,२.५३ ) वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥
7661. (१४,२.५४ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
7662. (१४,२.५४ ) तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥
7663. (१४,२.५५ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
7664. (१४,२.५५ ) भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥
7665. (१४,२.५६ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
7666. (१४,२.५६ ) यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥
7667. (१४,२.५७ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
7668. (१४,२.५७ ) पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥
7669. (१४,२.५८ ) बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।
7670. (१४,२.५८ ) रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥
7671. (१४,२.५९ ) यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् ।
7672. (१४,२.५९ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥
7673. (१४,२.६० ) यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् ।
7674. (१४,२.६० ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२}
7675. (१४,२.६१ ) यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।
7676. (१४,२.६१ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥
7677. (१४,२.६२ ) यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् ।
7678. (१४,२.६२ ) अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥
7679. (१४,२.६३ ) इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।
7680. (१४,२.६३ ) दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥
7681. (१४,२.६४ ) इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।
7682. (१४,२.६४ ) प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥
7683. (१४,२.६५ ) यदासन्द्यामुपधाने यद्वोपवासने कृतम् ।
7684. (१४,२.६५ ) विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥
7685. (१४,२.६६ ) यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्।
7686. (१४,२.६६ ) तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥
7687. (१४,२.६७ ) संभले मलं सादयित्वा कम्बले दुरितं वयम् ।
7688. (१४,२.६७ ) अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥
7689. (१४,२.६८ ) कृत्रिमः कण्टकः शतदन् य एषः ।
7690. (१४,२.६८ ) अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥
7691. (१४,२.६९ ) अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि ।
7692. (१४,२.६९ ) तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।
7693. (१४,२.६९ ) अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥
7694. (१४,२.७० ) सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।
7695. (१४,२.७० ) सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३}
7696. (१४,२.७१ ) अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् ।
7697. (१४,२.७१ ) ताविह सं भवाव प्रजामा जनयावहै ॥७१॥
7698. (१४,२.७२ ) जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः ।
7699. (१४,२.७२ ) अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥
7700. (१४,२.७३ ) ये पितरो वधूदर्शा इमं वहतुमागमन् ।
7701. (१४,२.७३ ) ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यछन्तु ॥७३॥
7702. (१४,२.७४ ) येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।
7703. (१४,२.७४ ) तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥
7704. (१४,२.७५ ) प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय ।
7705. (१४,२.७५ ) गृहान् गछ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४}
7706. (१५,१.१ ) व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्॥१॥
7707. (१५,१.२ ) स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्॥२॥
7708. (१५,१.३ ) तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत ॥३॥
7709. (१५,१.४ ) सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्॥४॥
7710. (१५,१.५ ) स देवानामीशां पर्यैत्स ईशानोऽभवत्॥५॥
7711. (१५,१.६ ) स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः ॥६॥
7712. (१५,१.७ ) नीलमस्योदरं लोहितं पृष्ठम् ॥७॥
7713. (१५,१.८ ) नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥८॥
7714. (१५,२.१[२.१]अ) स उदतिष्ठत्स प्राचीं दिशमनु व्यचलत्। [१]
7715. (१५,२.१[२.२]ब्) तं बृहच्च रथन्तरं चादित्याश्च विश्वे च देवा अनुव्यचलन् । [२]
7716. (१५,२.१[२.३]च्) बृहते च वै स रथन्तराय चादित्येभ्यश्च विश्वेभ्यश्च देवेभ्य आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [३]
7717. (१५,२.१[२.४]द्) बृहतश्च वै स रथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति य एवं वेद । [४]
7718. (१५,२.१[२.५]ए) तस्य प्राच्यां दिशि श्रद्धा पुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [५]
7719. (१५,२.१[२.६७]f) भूतं च भविष्यच्च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [६७]
7720. (१५,२.१[२.८]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥१॥ [८]
7721. (१५,२.२[२.९]अ) स उदतिष्ठत्स दक्षिणां दिशमनु व्यचलत्। [९]
7722. (१५,२.२[२.१०]ब्) तं यज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१०]
7723. (१५,२.२[२.११]च्) यज्ञायज्ञियाय च वै स वामदेव्याय च यज्ञाय च यजमानाय च पशुभ्यश्चा वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [११]
7724. (१५,२.२[२.१२]द्) यज्ञायज्ञियस्य च वै स वामदेव्यस्य च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद । [१२]
7725. (१५,२.२[२.१३]ए) तस्य दक्षिणायां दिश्युषाः पुंश्चली मन्त्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१३]
7726. (१५,२.२[२.१४]f) अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ ।
7727. (१५,२.२[२.१४]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥२॥ [१४]
7728. (१५,२.३[२.१५]अ) स उदतिष्ठत्स प्रतीचीं दिशमनु व्यचलत्। [१५]
7729. (१५,२.३[२.१६]ब्) तं वैरूपं च वैराजं चापश्च वरुणश्च राजानुव्यचलन् । [१६]
7730. (१५,२.३[२.१७]च्) वैरूपाय च वै स वैराजाय चाद्भ्यश्च वरुणाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [१७]
7731. (१५,२.३[२.१८]द्) वैरूपस्य च वै स वैराजस्य चापां च वरुणस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [१८]
7732. (१५,२.३[२.१९]ए) तस्य प्रतीच्यां दिशीरा पुंश्चली हसो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [१९]
7733. (१५,२.३[२.२०]f) अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ ।
7734. (१५,२.३[२.२०]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥३॥ [२०]
7735. (१५,२.४[२.२१]अ) स उदतिष्ठत्स उदीचीं दिशमनु व्यचलत्। [२१]
7736. (१५,२.४[२.२२]ब्) तं श्यैतं च नौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् । [२२]
7737. (१५,२.४[२.२३]च्) श्यैताय च वै स नौधसाय च सप्तर्षिभ्यश्च सोमाय च राज्ञ आ वृश्चते य एवं विद्वांसं व्रात्यमुपवदति । [२३]
7738. (१५,२.४[२.२४]द्) श्यैतस्य च वै स नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति य एवं वेद । [२४]
7739. (१५,२.४[२.२५]ए) तस्योदीच्यां दिशि विद्युत्पुंश्चली स्तनयित्नुर्मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौ प्रवर्तौ कल्मलिर्मणिः । [२५]
7740. (१५,२.४[२.२६२७]f) श्रुतं च विश्रुतं च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । [२६२७]
7741. (१५,२.४[२.२८]ग्) ऐनं कीर्तिर्गछत्या यशो गछति य एवं वेद ॥४॥ [२८]
7742. (१५,३.१ ) स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥
7743. (१५,३.२ ) सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥
7744. (१५,३.३ ) तस्मै व्रात्यायासन्दीं समभरन् ॥३॥
7745. (१५,३.४ ) तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥
7746. (१५,३.५ ) बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥
7747. (१५,३.६ ) ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥
7748. (१५,३.७ ) वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥
7749. (१५,३.८ ) सामासाद उद्गीथोऽपश्रयः ॥८॥
7750. (१५,३.९ ) तामासन्दीं व्रात्य आरोहत्॥९॥
7751. (१५,३.१० ) तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥
7752. (१५,३.११ ) विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥
7753. (१५,४.१[४.१]अ) तस्मै प्राच्या दिशः । [१]
7754. (१५,४.१[४.२]ब्) वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ । [२]
7755. (१५,४.१[४.३]च्) वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ॥१॥ [३]
7756. (१५,४.२[४.४]अ) तस्मै दक्षिणाया दिशः । [४]
7757. (१५,४.२[४.५]ब्) ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ । [५]
7758. (१५,४.२[४.६]च्) ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥२॥ [६]
7759. (१५,४.३[४.७]अ) तस्मै प्रतीच्या दिशः । [७]
7760. (१५,४.३[४.८]ब्) वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ । [८]
7761. (१५,४.३[४.९]च्) वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥३॥ [९]
7762. (१५,४.४[४.१०]अ) तस्मा उदीच्या दिशः । [१०]
7763. (१५,४.४[४.११]ब्) शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ । [११]
7764. (१५,४.४[४.१२]च्) शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥४॥ [१२]
7765. (१५,४.५[४.१३]अ) तस्मै ध्रुवाया दिशः । [१३]
7766. (१५,४.५[४.१४]ब्) हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ । [१४]
7767. (१५,४.५[४.१५]च्) हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥५॥ [१५]
7768. (१५,४.६[४.१६]अ) तस्मा ऊर्ध्वाया दिशः । [१६]
7769. (१५,४.६[४.१७]ब्) शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ । [१७]
7770. (१५,४.६[४.१८]च्) शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥६॥ [१८]
7771. (१५,५.१[५.१]अ) तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् । [१]
7772. (१५,५.१[५.२३]ब्) भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१॥ [२३]
7773. (१५,५.२[५.४]अ) तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् । [४]
7774. (१५,५.२[५.५]ब्) शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥२॥ [५]
7775. (१५,५.३[५.६]अ) तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् । [६]
7776. (१५,५.३[५.७]ब्) पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥ [७]
7777. (१५,५.४[५.८]अ) तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् । [८]
7778. (१५,५.४[५.९]ब्) उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥४॥ [९]
7779. (१५,५.५[५.१०]अ) तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठातारमकुर्वन् । [१०]
7780. (१५,५.५[५.११]ब्) रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥ [११]
7781. (१५,५.६[५.१२]अ) तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् । [१२]
7782. (१५,५.६[५.१३]ब्) महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥६॥ [१३]
7783. (१५,५.७[५.१४]अ) तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् । [१४]
7784. (१५,५.७[५.१५१६]ब्) ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानो नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥ [१५१६]
7785. (१५,६.१[६.१]अ) स ध्रुवां दिशमनु व्यचलत्। [१]
7786. (१५,६.१[६.२]ब्) तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् । [२]
7787. (१५,६.१[६.३]च्) भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥१॥ [३]
7788. (१५,६.२[६.४]अ) स ऊर्ध्वां दिशमनु व्यचलत्। [४]
7789. (१५,६.२[६.५]ब्) तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् । [५]
7790. (१५,६.२[६.६]च्) ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥२॥ [६]
7791. (१५,६.३[६.७]अ) स उत्तमां दिशमनु व्यचलत्। [७]
7792. (१५,६.३[६.८]ब्) तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् । [८]
7793. (१५,६.३[६.९]च्) ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥३॥ [९]
7794. (१५,६.४[६.१०]अ) स बृहतीं दिशमनु व्यचलत्। [१०]
7795. (१५,६.४[६.११]ब्) तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् । [११]
7796. (१५,६.४[६.१२]च्) इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥४॥ [१२]
7797. (१५,६.५[६.१३]अ) स परमां दिशमनु व्यचलत्। [१३]
7798. (१५,६.५[६.१४]ब्) तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् । [१४]
7799. (१५,६.५[६.१५]च्) आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥५॥ [१५]
7800. (१५,६.६[६.१६]अ) सोऽनादिष्टां दिशमनु व्यचलत्। [१६]
7801. (१५,६.६[६.१७]ब्) तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् । [१७]
7802. (१५,६.६[६.१८]च्) ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥६॥ [१८]
7803. (१५,६.७[६.१९]अ) सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत । [१९]
7804. (१५,६.७[६.२०]ब्) तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् । [२०]
7805. (१५,६.७[६.२१]च्) दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥७॥ [२१]
7806. (१५,६.८[६.२२]अ) स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः । [२२]
7807. (१५,६.८[६.२३]ब्) विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥८॥ [२३]
7808. (१५,६.९[६.२४]अ) स सर्वान् अन्तर्देशान् अनु व्यचलत्। [२४]
7809. (१५,६.९[६.२५]ब्) तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् । [२५]
7810. (१५,६.९[६.२६]च्) प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥९॥ [२६]
7811. (१५,७.१ ) स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगछत्समुद्रोऽभवत्॥१॥
7812. (१५,७.२ ) तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥२॥
7813. (१५,७.३ ) ऐनमापो गछन्त्यैनं श्रद्धा गछत्यैनं वर्षं गछति य एवं वेद ॥३॥
7814. (१५,७.४ ) तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥४॥
7815. (१५,७.५ ) ऐनं श्रद्धा गछत्यैनं यज्ञो गछत्यैनं लोको गछत्यैनमन्नं गछत्यैनमन्नाद्यं गछति य एवं वेद ॥५॥
7816. (१५,८.१ ) सोऽरज्यत ततो राजन्योऽजायत ॥१॥
7817. (१५,८.२ ) स विशः सबन्धून् अन्नमन्नाद्यमभ्युदतिष्ठत्॥२॥
7818. (१५,८.३ ) विशां च वै स सबन्धूनां चान्नस्य चान्नाद्यस्य च प्रियं धाम भवति य एवं वेद ॥३॥
7819. (१५,९.१ ) स विशोऽनु व्यचलत्॥१॥
7820. (१५,९.२ ) तं सभा च समितिश्च सेना च सुरा चानुव्यचलन् ॥२॥
7821. (१५,९.३ ) सभायाश्च वै स समितेश्च सेनायाश्च सुरायाश्च प्रियं धाम भवति य एवं वेद ॥३॥
7822. (१५,१०.१ ) तद्यस्यैवं विद्वान् व्रात्यो राज्ञोऽतिथिर्गृहान् आगछेत्॥१॥
7823. (१५,१०.२ ) श्रेयांसमेनमात्मनो मानयेत्तथा क्षत्राय ना वृश्चते तथा राष्ट्राय ना वृश्चते ॥२॥
7824. (१५,१०.३ ) अतो वै ब्रह्म च क्षत्रं चोदतिष्ठतां ते अब्रूतां कं प्र विशावेति ॥३॥
7825. (१५,१०.४ ) बृहस्पतिमेव ब्रह्म प्रविशत्विन्द्रं क्षत्रं तथा वा इति ॥४॥
7826. (१५,१०.५ ) अतो वै बृहस्पतिमेव ब्रह्म प्राविशदिन्द्रं क्षत्रम् ॥५॥
7827. (१५,१०.६ ) इयं वा उ पृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥६॥
7828. (१५,१०.७ ) अयं वा उ अग्निर्ब्रह्मासावादित्यः क्षत्रम् ॥७॥
7829. (१५,१०.८ ) ऐनं ब्रह्म गछति ब्रह्मवर्चसी भवति ॥८॥
7830. (१५,१०.९ ) यः पृथिवीं बृहस्पतिमग्निं ब्रह्म वेद ॥९॥
7831. (१५,१०.१० ) ऐनमिन्द्रियं गछतीन्द्रियवान् भवति ॥१०॥
7832. (१५,१०.११ ) य आदित्यं क्षत्रं दिवमिन्द्रं वेद ॥११॥
7833. (१५,११.१ ) तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगछेत्॥१॥
7834. (१५,११.२ ) स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥२॥
7835. (१५,११.३ ) यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे ॥३॥
7836. (१५,११.४ ) यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे ॥४॥
7837. (१५,११.५ ) यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥५॥
7838. (१५,११.६ ) यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे ॥६॥
7839. (१५,११.७ ) ऐनं प्रियं गछति प्रियः प्रियस्य भवति य एवं वेद ॥७॥
7840. (१५,११.८ ) यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे ॥८॥
7841. (१५,११.९ ) ऐनं वशो गछति वशी वशिनां भवति य एवं वेद ॥९॥
7842. (१५,११.१० ) यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे ॥१०॥
7843. (१५,११.११ ) ऐनं निकामो गछति निकामे निकामस्य भवति य एवं वेद ॥११॥
7844. (१५,१२.१ ) तद्यस्यैवं विद्वान् व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहान् आगछेत्॥१॥
7845. (१५,१२.२ ) स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्याति सृज होष्यामीति ॥२॥
7846. (१५,१२.३ ) स चातिसृजेज्जुहुयान् न चातिसृजेन् न जुहुयात्॥३॥
7847. (१५,१२.४ ) स य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥४॥
7848. (१५,१२.५ ) प्र पितृयाणं पन्थां जानाति प्र देवयानम् ॥५॥
7849. (१५,१२.६ ) न देवेष्वा वृश्चते हुतमस्य भवति ॥६॥
7850. (१५,१२.७ ) पर्यस्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनातिसृष्टो जुहोति ॥७॥
7851. (१५,१२.८ ) अथ य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥८॥
7852. (१५,१२.९ ) न पितृयाणं पन्थां जानाति न देवयानम् ॥९॥
7853. (१५,१२.१० ) आ देवेषु वृश्चते अहुतमस्य भवति ॥१०॥
7854. (१५,१२.११ ) नास्यास्मिंल्लोक आयतनं शिष्यते य एवं विदुषा व्रात्येनानतिसृष्टो जुहोति ॥११॥
7855. (१५,१३.१[१३.१]अ) तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति । [१]
7856. (१५,१३.१[१३.२]ब्) ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥१॥ [२]
7857. (१५,१३.२[१३.३]अ) तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति । [३]
7858. (१५,१३.२[१३.४]ब्) येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे ॥२॥ [४]
7859. (१५,१३.३[१३.५]अ) तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति । [५]
7860. (१५,१३.३[१३.६]ब्) ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे ॥३॥ [६]
7861. (१५,१३.४[१३.७]अ) तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । [७]
7862. (१५,१३.४[१३.८]ब्) ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥४॥ [८]
7863. (१५,१३.५[१३.९]अ) तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति । [९]
7864. (१५,१३.५[१३.१०]ब्) य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे ॥५॥ [१०]
7865. (१५,१३.६[१३.११]अ) अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत्॥६॥ [११]
7866. (१५,१३.७[१३.१२]अ) कर्षेदेनं न चैनं कर्षेत्॥७॥ [१२]
7867. (१५,१३.८[१३.१३]अ) अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मीत्येनं परि वेविष्यात्॥८॥ [१३]
7868. (१५,१३.९[१३.१४]अ) तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद ॥९॥ [१४]
7869. (१५,१४.१[१४.१]अ) स यत्प्राचीं दिशमनु व्यचलन् मारुतं शर्धो भूत्वानुव्यचलन् मनोऽन्नादं कृत्वा । [१]
7870. (१५,१४.१[१४.२]ब्) मनसान्नादेनान्नमत्ति य एवं वेद ॥१॥ [२]
7871. (१५,१४.२[१४.३]अ) स यद्दक्षिणां दिशमनु व्यचलदिन्द्रो भूत्वानुव्यचलद्बलमन्नादं कृत्वा । [३]
7872. (१५,१४.२[१४.४]ब्) बलेनान्नादेनान्नमत्ति य एवं वेद ॥२॥ [४]
7873. (१५,१४.३[१४.५]अ) स यत्प्रतीचीं दिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा । [५]
7874. (१५,१४.३[१४.६]ब्) अद्भिरन्नादीभिरन्नमत्ति य एवं वेद ॥३॥ [६]
7875. (१५,१४.४[१४.७]अ) स यदुदीचीं दिशमनु व्यचलत्सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुत आहुतिमन्नादीं कृत्वा । [७]
7876. (१५,१४.४[१४.८]ब्) आहुत्यान्नाद्यान्नमत्ति य एवं वेद ॥४॥ [८]
7877. (१५,१४.५[१४.९]अ) स यद्ध्रुवां दिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा । [९]
7878. (१५,१४.५[१४.१०]ब्) विराजान्नाद्यान्नमत्ति य एवं वेद ॥५॥ [१०]
7879. (१५,१४.६[१४.११]अ) स यत्पशून् अनु व्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा । [११]
7880. (१५,१४.६[१४.१२]ब्) ओषधीभिरन्नादीभिरन्नमत्ति य एवं वेद ॥६॥ [१२]
7881. (१५,१४.७[१४.१३]अ) स यत्पितॄन् अनु व्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा । [१३]
7882. (१५,१४.७[१४.१४]ब्) स्वधाकारेणान्नादेनान्नमत्ति य एवं वेद ॥७॥ [१४]
7883. (१५,१४.८[१४.१५]अ) स यन् मनुष्यान् अनु व्यचलदग्निर्भूत्वानुव्यचलत्स्वाहाकारमन्नादं कृत्वा । [१५]
7884. (१५,१४.८[१४.१६]ब्) स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥८॥ [१६]
7885. (१५,१४.९[१४.१७]अ) स यदूर्ध्वां दिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा । [१७]
7886. (१५,१४.९[१४.१८]ब्) वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥९॥ [१८]
7887. (१५,१४.१०[१४.१९]अ) स यद्देवान् अनु व्यचलदीशानो भूत्वानुव्यचलन् मन्युमन्नादं कृत्वा । [१९]
7888. (१५,१४.१०[१४.२०]ब्) मन्युनान्नादेनान्नमत्ति य एवं वेद ॥१०॥ [२०]
7889. (१५,१४.११[१४.२१]अ) स यत्प्रजा अनु व्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा । [२१]
7890. (१५,१४.११[१४.२२]ब्) प्राणेनान्नादेनान्नमत्ति य एवं वेद ॥११॥ [२२]
7891. (१५,१४.१२[१४.२३]अ) स यत्सर्वान् अन्तर्देशान् अनु व्यचलत्परमेष्ठी भूत्वानुव्यचलद्ब्रह्मान्नादं कृत्वा । [२३]
7892. (१५,१४.१२[१४.२४]ब्) ब्रह्मणान्नादेनान्नमत्ति य एवं वेद ॥१२॥ [२४]
7893. (१५,१५.१ ) तस्य व्रात्यस्य ॥१॥
7894. (१५,१५.२ ) सप्त प्राणाः सप्तापानाः सप्त व्यानाः ॥२॥
7895. (१५,१५.३ ) योऽस्य प्रथमः प्राण ऊर्ध्वो नामायं सो अग्निः ॥३॥
7896. (१५,१५.४ ) योऽस्य द्वितीयः प्राणः प्रौढो नामासौ स आदित्यः ॥४॥
7897. (१५,१५.५ ) योऽस्य तृतीयः प्राणोऽभ्यूढो नामासौ स चन्द्रमाः ॥५॥
7898. (१५,१५.६ ) योऽस्य चतुर्थः प्राणो विभूर्नामायं स पवमानः ॥६॥
7899. (१५,१५.७ ) योऽस्य पञ्चमः प्राणो योनिर्नाम ता इमा आपः ॥७॥
7900. (१५,१५.८ ) योऽस्य षष्ठः प्राणः प्रियो नाम त इमे पशवः ॥८॥
7901. (१५,१५.९ ) योऽस्य सप्तमः प्राणोऽपरिमितो नाम ता इमाः प्रजाः ॥९॥
7902. (१५,१६.१ ) योऽस्य प्रथमोऽपानः सा पौर्णमासी ॥१॥
7903. (१५,१६.२ ) योऽस्य द्वितीयोऽपानः साष्टका ॥२॥
7904. (१५,१६.३ ) योऽस्य तृतीयोऽपानः सामावास्या ॥३॥
7905. (१५,१६.४ ) योऽस्य चतुर्थोऽपानः सा श्रद्धा ॥४॥
7906. (१५,१६.५ ) योऽस्य पञ्चमोऽपानः सा दीक्षा ॥५॥
7907. (१५,१६.६ ) योऽस्य षष्ठोऽपानः स यज्ञः ॥६॥
7908. (१५,१६.७ ) योऽस्य सप्तमोऽपानस्ता इमा दक्षिणाः ॥७॥
7909. (१५,१७.१ ) योऽस्य प्रथमो व्यानः सेयं भूमिः ॥१॥
7910. (१५,१७.२ ) योऽस्य द्वितीयो व्यानस्तदन्तरिक्षम् ॥२॥
7911. (१५,१७.३ ) योऽस्य तृतीयो व्यानः सा द्यौः ॥३॥
7912. (१५,१७.४ ) योऽस्य चतुर्थो व्यानस्तानि नक्षत्राणि ॥४॥
7913. (१५,१७.५ ) योऽस्य पञ्चमो व्यानस्त ऋतवः ॥५॥
7914. (१५,१७.६ ) योऽस्य षष्ठो व्यानस्त आर्तवाः ॥६॥
7915. (१५,१७.७ ) योऽस्य सप्तमो व्यानः स संवत्सरः ॥७॥
7916. (१५,१७.८ ) समानमर्थं परि यन्ति देवाः संवत्सरं वा एतदृतवोऽनुपरियन्ति व्रात्यं च ॥८॥
7917. (१५,१७.९ ) यदादित्यमभिसंविशन्त्यमावास्यां चैव तत्पौर्णमासीं च ॥९॥
7918. (१५,१७.१० ) एकं तदेषाममृतत्वमित्याहुतिरेव ॥१०॥
7919. (१५,१८.१ ) तस्य व्रात्यस्य ॥१॥
7920. (१५,१८.२ ) यदस्य दक्षिणमक्ष्यसौ स आदित्यो यदस्य सव्यमक्ष्यसौ स चन्द्रमाः ॥२॥
7921. (१५,१८.३ ) योऽस्य दक्षिणः कर्णोऽयं सो अग्निर्योऽस्य सव्यः कर्णोऽयं स पवमानः ॥३॥
7922. (१५,१८.४ ) अहोरात्रे नासिके दितिश्चादितिश्च शीर्षकपाले संवत्सरः शिरः ॥४॥
7923. (१५,१८.५ ) अह्ना प्रत्यङ्व्रात्यो रात्र्या प्राङ्नमो व्रात्याय ॥५॥
7924. (१६,१.१ ) अतिसृष्टो अपां वृषभोऽतिसृष्टा अग्नयो दिव्याः ॥१॥
7925. (१६,१.२ ) रुजन् परिरुजन् मृणन् प्रमृणन् ॥२॥
7926. (१६,१.३ ) म्रोको मनोहा खनो निर्दाह आत्मदूषिस्तनूदूषिः ॥३॥
7927. (१६,१.४ ) इदं तमति सृजामि तं माभ्यवनिक्षि ॥४॥
7928. (१६,१.५ ) तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥५॥
7929. (१६,१.६ ) अपामग्रमसि समुद्रं वोऽभ्यवसृजामि ॥६॥
7930. (१६,१.७ ) योऽप्स्वग्निरति तं सृजामि म्रोकं खनिं तनूदूषिम् ॥७॥
7931. (१६,१.८ ) यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत्॥८॥
7932. (१६,१.९ ) इन्द्रस्य व इन्द्रियेणाभि षिञ्चेत्॥९॥
7933. (१६,१.१० ) अरिप्रा आपो अप रिप्रमस्मत्॥१०॥
7934. (१६,१.११ ) प्रास्मदेनो वहन्तु प्र दुष्वप्न्यं वहन्तु ॥११॥
7935. (१६,१.१२ ) शिवेन मा चक्षुषा पश्यतापः शिवया तन्वोप स्पृशत त्वचं मे ॥१२॥
7936. (१६,१.१३ ) शिवान् अग्नीन् अप्सुषदो हवामहे मयि क्षत्रं वर्च आ धत्त देवीः ॥१३॥
7937. (१६,२.१ ) निर्दुरर्मण्य ऊर्जा मधुमती वाक्॥१॥
7938. (१६,२.२ ) मधुमती स्थ मधुमतीं वाचमुदेयम् ॥२॥
7939. (१६,२.३ ) उपहूतो मे गोपाः उपहूतो गोपीथः ॥३॥
7940. (१६,२.४ ) सुश्रुतौ कर्णौ भद्रश्रुतौ कर्णौ भद्रं श्लोकं श्रूयासम् ॥४॥
7941. (१६,२.५ ) सुश्रुतिश्च मोपश्रुतिश्च मा हासिष्टां सौपर्णं चक्षुरजस्रं ज्योतिः ॥५॥
7942. (१६,२.६ ) ऋषीणां प्रस्तरोऽसि नमोऽस्तु दैवाय प्रस्तराय ॥६॥
7943. (१६,३.१ ) मूर्धाहं रयीणां मूर्धा समानानां भूयासम् ॥१॥
7944. (१६,३.२ ) रुजश्च मा वेनश्च मा हासिष्टां मूर्धा च मा विधर्मा च मा हासिष्टाम् ॥२॥
7945. (१६,३.३ ) उर्वश्च मा चमसश्च मा हासिष्टां धर्ता च मा धरुणश्च मा हासिष्टाम् ॥३॥
7946. (१६,३.४ ) विमोकश्च मार्द्रपविश्च मा हासिष्टामार्द्रदानुश्च मा मातरिश्वा च मा हासिष्टाम् ॥४॥
7947. (१६,३.५ ) बृहस्पतिर्म आत्मा नृमणा नाम हृद्यः ॥५॥
7948. (१६,३.६ ) असंतापं मे हृदयमुर्वी गव्यूतिः समुद्रो अस्मि विधर्मणा ॥६॥
7949. (१६,४.१ ) नाभिरहं रयीणां नाभिः समानानां भूयासम् ॥१॥
7950. (१६,४.२ ) स्वासदसि सूषा अमृतो मर्त्येश्वा ॥२॥
7951. (१६,४.३ ) मा मां प्राणो हासीन् मो अपानोऽवहाय परा गात्॥३॥
7952. (१६,४.४ ) सूर्यो माह्नः पात्वग्निः पृथिव्या वायुरन्तरिक्षाद्यमो मनुष्येभ्यः सरस्वती पार्थिवेभ्यः ॥४॥
7953. (१६,४.५ ) प्राणापनौ मा मा हासिष्टं मा जने प्र मेषि ॥५॥
7954. (१६,४.६ ) स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥६॥
7955. (१६,४.७ ) शक्वरी स्थ पशवो मोप स्थेषुर्मित्रावरुणौ मे प्राणापानावग्निर्मे दक्षं दधातु ॥७॥
7956. (१६,५.१ ) विद्म ते स्वप्न जनित्रं ग्राह्याः पुत्रोऽसि यमस्य करणः ।
7957. (१६,५.१ ) अन्तकोऽसि मृत्युरसि ।
7958. (१६,५.१ ) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥१॥
7959. (१६,५.२ ) विद्म ते स्वप्न जनित्रं निरृत्याः पुत्रोऽसि यमस्य करणः । […] ॥ २ ॥
7960. (१६,५.३ ) विद्म ते स्वप्न जनित्रमभूत्याः पुत्रोऽसि यमस्य […] ॥ ३ ॥
7961. (१६,५.४ ) विद्म ते स्वप्न जनित्रं निर्भूत्याः पुत्रोऽसि […] ॥ ४ ॥
7962. (१६,५.५ ) विद्म ते स्वप्न जनित्रं पराभूत्याः पुत्रोऽसि […] ॥ ५ ॥
7963. (१६,५.६ ) विद्म ते स्वप्न जनित्रं देवजामीनां पुत्रोऽसि यमस्य करणः ।
7964. (१६,५.६ ) अन्तकोऽसि मृत्युरसि ।
7965. (१६,५.६ ) तं त्वा स्वप्न तथा सं विद्म स नः स्वप्न दुष्वप्न्यात्पाहि ॥६॥
7966. (१६,६.१ ) अजैष्माद्यासनामद्यामूमनागसो वयम् ॥१॥
7967. (१६,६.२ ) उषो यस्माद्दुष्वप्न्यादभैष्माप तदुछतु ॥२॥
7968. (१६,६.३ ) द्विषते तत्परा वह शपते तत्परा वह ॥३॥
7969. (१६,६.४ ) यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥४॥
7970. (१६,६.५ ) उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥५॥
7971. (१६,६.६ ) उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः ॥६॥
7972. (१६,६.७ ) तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥७॥
7973. (१६,६.८ ) कुम्भीकाः दूषीकाः पीयकान् ॥८॥
7974. (१६,६.९ ) जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥
7975. (१६,६.१० ) अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥
7976. (१६,६.११ ) तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥११॥
7977. (१६,७.१ ) तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥
7978. (१६,७.२ ) देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥२॥
7979. (१६,७.३ ) वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥३॥
7980. (१६,७.४ ) एवानेवाव सा गरत्॥४॥
7981. (१६,७.५ ) योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥
7982. (१६,७.६ ) निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥६॥
7983. (१६,७.७ ) सुयामंश्चाक्षुष ॥७॥
7984. (१६,७.८ ) इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥
7985. (१६,७.९ ) यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम् ॥९॥
7986. (१६,७.१० ) यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम् ॥१०॥
7987. (१६,७.११ ) यदहरहरभिगछामि तस्मादेनमव दये ॥११॥
7988. (१६,७.१२ ) तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥१२॥
7989. (१६,७.१३ ) स मा जीवीत्तं प्राणो जहातु ॥१३॥
7990. (१६,८.१ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजसस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥१॥
7991. (१६,८.२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
7992. (१६,८.२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
7993. (१६,८.२ ) स निरृत्याः पाशान् मा मोचि ॥२॥
7994. (१६,८.३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
7995. (१६,८.३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
7996. (१६,८.३ ) सोऽभूत्याः पाशान् मा मोचि ॥३॥
7997. (१६,८.४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
7998. (१६,८.४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
7999. (१६,८.४ ) स निर्भूत्याः पाशान् मा मोचि ॥४॥
8000. (१६,८.५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8001. (१६,८.५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8002. (१६,८.५ ) स पराभूत्याः पाशान् मा मोचि ॥५॥
8003. (१६,८.६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8004. (१६,८.६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8005. (१६,८.६ ) स देवजामीनां पाशान् मा मोचि ॥६॥
8006. (१६,८.७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8007. (१६,८.७ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8008. (१६,८.७ ) स बृहस्पतेः पाशान् मा मोचि ॥७॥
8009. (१६,८.८ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8010. (१६,८.८ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8011. (१६,८.८ ) स प्रजापतेः पाशान् मा मोचि ॥८॥
8012. (१६,८.९ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8013. (१६,८.९ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8014. (१६,८.९ ) स ऋषीणां पाशान् मा मोचि ॥९॥
8015. (१६,८.१० ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8016. (१६,८.१० ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8017. (१६,८.१० ) स आर्षेयाणां पाशान् मा मोचि ॥१०॥
8018. (१६,८.११ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8019. (१६,८.११ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8020. (१६,८.११ ) सोऽङ्गिरसां पाशान् मा मोचि ॥११॥
8021. (१६,८.१२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8022. (१६,८.१२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8023. (१६,८.१२ ) स आङ्गिरसानां पाशान् मा मोचि ॥१२॥
8024. (१६,८.१३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8025. (१६,८.१३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8026. (१६,८.१३ ) सोऽथर्वणां पाशान् मा मोचि ॥१३॥
8027. (१६,८.१४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8028. (१६,८.१४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8029. (१६,८.१४ ) स आथर्वणानां पाशान् मा मोचि ॥१४॥
8030. (१६,८.१५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8031. (१६,८.१५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8032. (१६,८.१५ ) स वनस्पतीणां पाशान् मा मोचि ॥१५॥
8033. (१६,८.१६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8034. (१६,८.१६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8035. (१६,८.१६ ) स वानस्पत्यानां पाशान् मा मोचि ॥१६॥
8036. (१६,८.१७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8037. (१६,८.१७ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8038. (१६,८.१७ ) स ऋतूनां पाशान् मा मोचि ॥१७॥
8039. (१६,८.१८ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8040. (१६,८.१८ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8041. (१६,८.१८ ) स आर्तवानां पाशान् मा मोचि ॥१८॥
8042. (१६,८.१९ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8043. (१६,८.१९ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8044. (१६,८.१९ ) स मासानां पाशान् मा मोचि ॥१९॥
8045. (१६,८.२० ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8046. (१६,८.२० ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8047. (१६,८.२० ) सोऽर्धमासानां पाशान् मा मोचि ॥२०॥
8048. (१६,८.२१ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8049. (१६,८.२१ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8050. (१६,८.२१ ) सोऽहोरात्रयोः पाशान् मा मोचि ॥२१॥
8051. (१६,८.२२ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8052. (१६,८.२२ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8053. (१६,८.२२ ) सोऽह्नोः संयतोः पाशान् मा मोचि ॥२२॥
8054. (१६,८.२३ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8055. (१६,८.२३ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8056. (१६,८.२३ ) स द्यावापृथिव्योः पाशान् मा मोचि ॥२३॥
8057. (१६,८.२४ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8058. (१६,८.२४ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8059. (१६,८.२४ ) स इन्द्राग्न्योः पाशान् मा मोचि ॥२४॥
8060. (१६,८.२५ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8061. (१६,८.२५ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8062. (१६,८.२५ ) स मित्रावरुणयोः पाशान् मा मोचि ॥२५॥
8063. (१६,८.२६ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।
8064. (१६,८.२६ ) तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।
8065. (१६,८.२६ ) स राज्ञो वरुणस्य पाशान् मा मोचि ॥२६॥
8066. (१६,८.२७ ) जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥२७॥
8067. (१६,९.१ ) जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ॥१॥
8068. (१६,९.२ ) तदग्निराह तदु सोम आह पूषा मा धात्सुकृतस्य लोके ॥२॥
8069. (१६,९.३ ) अगन्म स्वः स्वरगन्म सं सूर्यस्य ज्योतिषागन्म ॥३॥
8070. (१६,९.४ ) वस्योभूयाय वसुमान् यज्ञो वसु वंसिषीय वसुमान् भूयासं वसु मयि धेहि ॥४॥
8071. (१७,१.१ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
8072. (१७,१.१ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
8073. (१७,१.१ ) ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ॥१॥
8074. (१७,१.२ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
8075. (१७,१.२ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
8076. (१७,१.२ ) ईड्यं नाम ह्व इन्द्रं प्रियो देवानां भूयासम् ॥२॥
8077. (१७,१.३ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
8078. (१७,१.३ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
8079. (१७,१.३ ) ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम् ॥३॥
8080. (१७,१.४ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
8081. (१७,१.४ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
8082. (१७,१.४ ) ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥४॥
8083. (१७,१.५ ) विषासहिं सहमानं सासहानं सहीयांसम् ।
8084. (१७,१.५ ) सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।
8085. (१७,१.५ ) ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम् ॥५॥
8086. (१७,१.६ ) उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।
8087. (१७,१.६ ) द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद्विष्णो बहूधा वीर्यानि ।
8088. (१७,१.६ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥६॥
8089. (१७,१.७ ) उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।
8090. (१७,१.७ ) आंश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेद्विष्णो बहूधा वीर्यानि ।
8091. (१७,१.७ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥७॥
8092. (१७,१.८ ) मा त्वा दभन्त्सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र ।
8093. (१७,१.८ ) हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहूधा वीर्यानि ।
8094. (१७,१.८ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥८॥
8095. (१७,१.९ ) त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहूधा वीर्यानि ।
8096. (१७,१.९ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥९॥
8097. (१७,१.१० ) त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव ।
8098. (१७,१.१० ) आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद्विष्णो बहूधा वीर्यानि ।
8099. (१७,१.१० ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१०॥ {१}
8100. (१७,१.११ ) त्वमिन्द्रासि विश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र ।
8101. (१७,१.११ ) त्वमिन्द्रेमं सुहवं स्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहूधा वीर्याणि ।
8102. (१७,१.११ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥११॥
8103. (१७,१.१२ ) अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।
8104. (१७,१.१२ ) अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि सं छर्म यछ तवेद्विष्णो बहूधा वीर्याणि ।
8105. (१७,१.१२ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१२॥
8106. (१७,१.१३ ) या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि ।
8107. (१७,१.१३ ) ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यछ तवेद्विष्णो बहूधा वीर्याणि ।
8108. (१७,१.१३ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥
8109. (१७,१.१४ ) त्वामिन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुरृषयो नाधमानास्तवेद्विष्णो बहूधा वीर्याणि ।
8110. (१७,१.१४ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१४॥
8111. (१७,१.१५ ) त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद्विष्णो बहूधा वीर्याणि ।
8112. (१७,१.१५ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१५॥
8113. (१७,१.१६ ) त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि ।
8114. (१७,१.१६ ) त्वमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद्विष्णो बहूधा वीर्याणि ।
8115. (१७,१.१६ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१६॥
8116. (१७,१.१७ ) पञ्चभिः पराङ्तपस्येकयार्वाङशस्तिमेषि सुदिने बाधमानस्तवेद्विष्णो बहूधा वीर्याणि ।
8117. (१७,१.१७ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१७॥
8118. (१७,१.१८ ) त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः ।
8119. (१७,१.१८ ) तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद्विष्णो बहूधा वीर्याणि ।
8120. (१७,१.१८ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१८॥
8121. (१७,१.१९ ) असति सत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम् ।
8122. (१७,१.१९ ) भूतं ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद्विष्णो बहूधा वीर्याणि ।
8123. (१७,१.१९ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१९॥
8124. (१७,१.२० ) शुक्रोऽसि भ्राजोऽसि ।
8125. (१७,१.२० ) स यथा त्वं भ्राजता भ्राजोऽस्येवाहं भ्राजता भ्राज्यासम् ॥२०॥ {२}
8126. (१७,१.२१ ) रुचिरसि रोचोऽसि ।
8127. (१७,१.२१ ) स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय ॥२१॥
8128. (१७,१.२२ ) उद्यते नम उदायते नम उदिताय नमः ।
8129. (१७,१.२२ ) विराजे नमः स्वराजे नमः सम्राजे नमः ॥२२॥
8130. (१७,१.२३ ) अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः ।
8131. (१७,१.२३ ) विराजे नमः स्वराजे नमः सम्राजे नमः ॥२३॥
8132. (१७,१.२४ ) उदगादयमादित्यो विश्वेन तपसा सह ।
8133. (१७,१.२४ ) सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद्विष्णो बहूधा वीर्याणि ।
8134. (१७,१.२४ ) त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥२४॥
8135. (१७,१.२५ ) आदित्य नावमारुक्षः शतारित्रां स्वस्तये ।
8136. (१७,१.२५ ) अहर्मात्यपीपरो रात्रिं सत्राति पारय ॥२५॥
8137. (१७,१.२६ ) सूर्य नावमारुक्षः शतारित्रां स्वस्तये ।
8138. (१७,१.२६ ) रात्रिं मात्यपीपरोऽहः सत्राति पारय ॥२६॥
8139. (१७,१.२७ ) प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
8140. (१७,१.२७ ) जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥२७॥
8141. (१७,१.२८ ) परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।
8142. (१७,१.२८ ) मा मा प्रापन्न् इषवो दैव्या या मा मानुषीरवसृष्टाः वधाय ॥२८॥
8143. (१७,१.२९ ) ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम् ।
8144. (१७,१.२९ ) मा मा प्रापत्पाप्मा मोत मृत्युरन्तर्दधेऽहं सलिलेन वाचः ॥२९॥
8145. (१७,१.३० ) अग्निर्मा गोप्ता परि पातु विश्वतः उद्यन्त्सूर्यो नुदतां मृत्युपाशान् ।
8146. (१७,१.३० ) व्युछन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥३०॥ {३}
8147. (१८,१.१ ) ओ चित्सखायं सख्या ववृत्यां तिरः पुरु चिदर्णवं जगन्वान् ।
8148. (१८,१.१ ) पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥
8149. (१८,१.२ ) न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति ।
8150. (१८,१.२ ) महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥
8151. (१८,१.३ ) उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।
8152. (१८,१.३ ) नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥३॥
8153. (१८,१.४ ) न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।
8154. (१८,१.४ ) गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥
8155. (१८,१.५ ) गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।
8156. (१८,१.५ ) नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
8157. (१८,१.६ ) को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
8158. (१८,१.६ ) आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्॥६॥
8159. (१८,१.७ ) को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्।
8160. (१८,१.७ ) बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥७॥
8161. (१८,१.८ ) यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय ।
8162. (१८,१.८ ) जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥८॥
8163. (१८,१.९ ) न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।
8164. (१८,१.९ ) अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥
8165. (१८,१.१० ) रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्।
8166. (१८,१.१० ) दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥ {१}
8167. (१८,१.११ ) आ घा ता गछान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।
8168. (१८,१.११ ) उप बर्बृहि वृषभाय बाहुमन्यमिछस्व सुभगे पतिं मत्॥११॥
8169. (१८,१.१२ ) किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निरृतिर्निगछात्।
8170. (१८,१.१२ ) काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥
8171. (१८,१.१३ ) न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।
8172. (१८,१.१३ ) अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥१३॥
8173. (१८,१.१४ ) न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगछात्।
8174. (१८,१.१४ ) असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१४॥
8175. (१८,१.१५ ) बतो बतासि यम नैव ते मनो हृदयं चाविदामा ।
8176. (१८,१.१५ ) अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥
8177. (१८,१.१६ ) अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् ।
8178. (१८,१.१६ ) तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥
8179. (१८,१.१७ ) त्रीणि छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।
8180. (१८,१.१७ ) आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥१७॥
8181. (१८,१.१८ ) वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।
8182. (१८,१.१८ ) विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥१८॥
8183. (१८,१.१९ ) रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः ।
8184. (१८,१.१९ ) इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥
8185. (१८,१.२० ) सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।
8186. (१८,१.२० ) यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥२०॥ {२}
8187. (१८,१.२१ ) अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे ।
8188. (१८,१.२१ ) यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥२१॥
8189. (१८,१.२२ ) सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।
8190. (१८,१.२२ ) विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥२२॥
8191. (१८,१.२३ ) उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।
8192. (१८,१.२३ ) विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥२३॥
8193. (१८,१.२४ ) यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे ।
8194. (१८,१.२४ ) इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥२४॥
8195. (१८,१.२५ ) श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।
8196. (१८,१.२५ ) आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥२५॥
8197. (१८,१.२६ ) यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।
8198. (१८,१.२६ ) रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥२६॥
8199. (१८,१.२७ ) अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।
8200. (१८,१.२७ ) अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥
8201. (१८,१.२८ ) प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः ।
8202. (१८,१.२८ ) प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥
8203. (१८,१.२९ ) द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।
8204. (१८,१.२९ ) देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥२९॥
8205. (१८,१.३० ) देवो देवान् परिभूरृतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।
8206. (१८,१.३० ) धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३}
8207. (१८,१.३१ ) अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।
8208. (१८,१.३१ ) अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥
8209. (१८,१.३२ ) स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।
8210. (१८,१.३२ ) विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३२॥
8211. (१८,१.३३ ) किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।
8212. (१८,१.३३ ) मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥३३॥
8213. (१८,१.३४ ) दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।
8214. (१८,१.३४ ) यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुछन् ॥३४॥
8215. (१८,१.३५ ) यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।
8216. (१८,१.३५ ) सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥
8217. (१८,१.३६ ) यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।
8218. (१८,१.३६ ) मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत्॥३६॥
8219. (१८,१.३७ ) सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।
8220. (१८,१.३७ ) स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥
8221. (१८,१.३८ ) शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
8222. (१८,१.३८ ) मघैर्मघोनो अति शूर दाशसि ॥३८॥
8223. (१८,१.३९ ) स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।
8224. (१८,१.३९ ) मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥
8225. (१८,१.४० ) स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।
8226. (१८,१.४० ) मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥४०॥ {४}
8227. (१८,१.४१ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
8228. (१८,१.४१ ) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४१॥
8229. (१८,१.४२ ) सरस्वतीं पितरो हवन्ते दक्षिना यज्ञमभिनक्षमाणाः ।
8230. (१८,१.४२ ) आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४२॥
8231. (१८,१.४३ ) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।
8232. (१८,१.४३ ) सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४३॥
8233. (१८,१.४४ ) उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः ।
8234. (१८,१.४४ ) असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥४४॥
8235. (१८,१.४५ ) आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः ।
8236. (१८,१.४५ ) बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥४५॥
8237. (१८,१.४६ ) इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः ।
8238. (१८,१.४६ ) ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥
8239. (१८,१.४७ ) मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिरृक्वभिर्वावृधानः ।
8240. (१८,१.४७ ) यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥४७॥
8241. (१८,१.४८ ) स्वादुष्किलायं मधुमामुतायं तीव्रः किलायं रसवामुतायम् ।
8242. (१८,१.४८ ) उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥४८॥
8243. (१८,१.४९ ) परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् ।
8244. (१८,१.४९ ) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥
8245. (१८,१.५० ) यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।
8246. (१८,१.५० ) यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५}
8247. (१८,१.५१ ) बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।
8248. (१८,१.५१ ) त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥५१॥
8249. (१८,१.५२ ) आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे ।
8250. (१८,१.५२ ) मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥५२॥
8251. (१८,१.५३ ) त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति ।
8252. (१८,१.५३ ) यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥
8253. (१८,१.५४ ) प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः ।
8254. (१८,१.५४ ) उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥
8255. (१८,१.५५ ) अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।
8256. (१८,१.५५ ) अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५५॥
8257. (१८,१.५६ ) उशन्तस्त्वेधीमह्युशन्तः समिधीमहि ।
8258. (१८,१.५६ ) उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥
8259. (१८,१.५७ ) द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि ।
8260. (१८,१.५७ ) द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥
8261. (१८,१.५८ ) अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
8262. (१८,१.५८ ) तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८॥
8263. (१८,१.५९ ) अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।
8264. (१८,१.५९ ) विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥५९॥
8265. (१८,१.६० ) इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः ।
8266. (१८,१.६० ) आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥६०॥
8267. (१८,१.६१ ) इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् ।
8268. (१८,१.६१ ) प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥६१॥ {६}
8269. (१८,२.१ ) यमाय सोमः पवते यमाय क्रियते हविः ।
8270. (१८,२.१ ) यमं ह यज्ञो गछत्यग्निदूतो अरंकृतः ॥१॥
8271. (१८,२.२ ) यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।
8272. (१८,२.२ ) इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥
8273. (१८,२.३ ) यमाय घृतवत्पयो राज्ञे हविर्जुहोतन ।
8274. (१८,२.३ ) स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥
8275. (१८,२.४ ) मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।
8276. (१८,२.४ ) शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥
8277. (१८,२.५ ) यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः ।
8278. (१८,२.५ ) यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥
8279. (१८,२.६ ) त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्।
8280. (१८,२.६ ) त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥
8281. (१८,२.७ ) सूर्यं चक्षुषा गछ वातमात्मना दिवं च गछ पृथिवीं च धर्मभिः ।
8282. (१८,२.७ ) अपो वा गछ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥
8283. (१८,२.८ ) अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।
8284. (१८,२.८ ) यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥
8285. (१८,२.९ ) यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् ।
8286. (१८,२.९ ) अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥
8287. (१८,२.१० ) अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् ।
8288. (१८,२.१० ) आयुर्वसान उप यातु शेषः सं गछतां तन्वा सुवर्चाः ॥१०॥ {७}
8289. (१८,२.११ ) अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।
8290. (१८,२.११ ) अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥
8291. (१८,२.१२ ) यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।
8292. (१८,२.१२ ) ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥
8293. (१८,२.१३ ) उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु ।
8294. (१८,२.१३ ) तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥
8295. (१८,२.१४ ) सोम एकेभ्यः पवते घृतमेक उपासते ।
8296. (१८,२.१४ ) येभ्यो मधु प्रधावति तांश्चिदेवापि गछतात्॥१४॥
8297. (१८,२.१५ ) ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः ।
8298. (१८,२.१५ ) ऋषीन् तपस्वतो यम तपोजामपि गछतात्॥१५॥
8299. (१८,२.१६ ) तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।
8300. (१८,२.१६ ) तपो ये चक्रिरे महस्तांश्चिदेवापि गछतात्॥१६॥
8301. (१८,२.१७ ) ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः ।
8302. (१८,२.१७ ) ये वा सहस्रदक्षिणास्तां चिदेवापि गछतात्॥१७॥
8303. (१८,२.१८ ) सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।
8304. (१८,२.१८ ) ऋषीन् तपस्वतो यम तपोजामपि गछतात्॥१८॥
8305. (१८,२.१९ ) स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी ।
8306. (१८,२.१९ ) यछास्मै शर्म सप्रथाः ॥१९॥
8307. (१८,२.२० ) असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।
8308. (१८,२.२० ) स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८}
8309. (१८,२.२१ ) ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि ।
8310. (१८,२.२१ ) सं गछस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥
8311. (१८,२.२२ ) उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।
8312. (१८,२.२२ ) अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२॥
8313. (१८,२.२३ ) उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।
8314. (१८,२.२३ ) स्वान् गछतु ते मनो अधा पितॄंरुप द्रव ॥२३॥
8315. (१८,२.२४ ) मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।
8316. (१८,२.२४ ) मा ते हास्त तन्वः किं चनेह ॥२४॥
8317. (१८,२.२५ ) मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।
8318. (१८,२.२५ ) लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥
8319. (१८,२.२६ ) यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः ।
8320. (१८,२.२६ ) तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥
8321. (१८,२.२७ ) अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः ।
8322. (१८,२.२७ ) मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥
8323. (१८,२.२८ ) ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।
8324. (१८,२.२८ ) परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥
8325. (१८,२.२९ ) सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।
8326. (१८,२.२९ ) तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥
8327. (१८,२.३० ) यां ते धेनुं निपृणामि यमु क्षीर ओदनम् ।
8328. (१८,२.३० ) तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९}
8329. (१८,२.३१ ) अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।
8330. (१८,२.३१ ) यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥
8331. (१८,२.३२ ) यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन ।
8332. (१८,२.३२ ) यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥
8333. (१८,२.३३ ) अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।
8334. (१८,२.३३ ) उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥
8335. (१८,२.३४ ) ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।
8336. (१८,२.३४ ) सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥
8337. (१८,२.३५ ) ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।
8338. (१८,२.३५ ) त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥
8339. (१८,२.३६ ) शं तप माति तपो अग्ने मा तन्वं तपः ।
8340. (१८,२.३६ ) वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥
8341. (१८,२.३७ ) ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह ।
8342. (१८,२.३७ ) यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥
8343. (१८,२.३८ ) इमां मात्रां मिमीमहे यथापरं न मासातै ।
8344. (१८,२.३८ ) शते शरत्सु नो पुरा ॥३८॥
8345. (१८,२.३९ ) प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।
8346. (१८,२.३९ ) शते शरत्सु नो पुरा ॥३९॥
8347. (१८,२.४० ) अपेमां मात्रां मिमीमहे यथापरं न मासातै ।
8348. (१८,२.४० ) शते शरत्सु नो पुरा ॥४०॥ {१०}
8349. (१८,२.४१ ) वीमां मात्रां मिमीमहे यथापरं न मासातै ।
8350. (१८,२.४१ ) शते शरत्सु नो पुरा ॥४१॥
8351. (१८,२.४२ ) निरिमां मात्रां मिमीमहे यथापरं न मासातै ।
8352. (१८,२.४२ ) शते शरत्सु नो पुरा ॥४२॥
8353. (१८,२.४३ ) उदिमां मात्रां मिमीमहे यथापरं न मासातै ।
8354. (१८,२.४३ ) शते शरत्सु नो पुरा ॥४३॥
8355. (१८,२.४४ ) समिमां मात्रां मिमीमहे यथापरं न मासातै ।
8356. (१८,२.४४ ) शते शरत्सु नो पुरा ॥४४॥
8357. (१८,२.४५ ) अमासि मात्रां स्वरगामायुष्मान् भूयासम् ।
8358. (१८,२.४५ ) यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥
8359. (१८,२.४६ ) प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय ।
8360. (१८,२.४६ ) अपरिपरेण पथा यमराज्ञः पितॄन् गछ ॥४६॥
8361. (१८,२.४७ ) ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।
8362. (१८,२.४७ ) ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥
8363. (१८,२.४८ ) उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।
8364. (१८,२.४८ ) तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥
8365. (१८,२.४९ ) ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
8366. (१८,२.४९ ) य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥
8367. (१८,२.५० ) इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् ।
8368. (१८,२.५० ) माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११}
8369. (१८,२.५१ ) इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् ।
8370. (१८,२.५१ ) जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥
8371. (१८,२.५२ ) अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।
8372. (१८,२.५२ ) जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥
8373. (१८,२.५३ ) अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् ।
8374. (१८,२.५३ ) उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गछतम् ॥५३॥
8375. (१८,२.५४ ) पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः ।
8376. (१८,२.५४ ) स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥
8377. (१८
8378. ,२.५५ ) आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।
8379. (१८,२.५५ ) यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥
8380. (१८,२.५६ ) इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।
8381. (१८,२.५६ ) ताभ्यां यमस्य सादनं समितिश्चाव गछतात्॥५६॥
8382. (१८,२.५७ ) एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा ।
8383. (१८,२.५७ ) इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥
8384. (१८,२.५८ ) अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।
8385. (१८,२.५८ ) नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥
8386. (१८,२.५९ ) दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।
8387. (१८,२.५९ ) अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥
8388. (१८,२.६० ) धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।
8389. (१८,२.६० ) समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२}
8390. (१८,३.१ ) इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।
8391. (१८,३.१ ) धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥
8392. (१८,३.२ ) उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
8393. (१८,३.२ ) हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥
8394. (१८,३.३ ) अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् ।
8395. (१८,३.३ ) अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥३॥
8396. (१८,३.४ ) प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती ।
8397. (१८,३.४ ) अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥४॥
8398. (१८,३.५ ) उप द्यामुप वेतसमवत्तरो नदीनाम् ।
8399. (१८,३.५ ) अग्ने पित्तमपामसि ॥५॥
8400. (१८,३.६ ) यं त्वमग्ने समदहस्तमु निर्वापय पुनः ।
8401. (१८,३.६ ) क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥
8402. (१८,३.७ ) इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
8403. (१८,३.७ ) संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥७॥
8404. (१८,३.८ ) उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।
8405. (१८,३.८ ) तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥
8406. (१८,३.९ ) प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् ।
8407. (१८,३.९ ) मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गछ ॥९॥
8408. (१८,३.१० ) वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।
8409. (१८,३.१० ) चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३}
8410. (१८,३.११ ) वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।
8411. (१८,३.११ ) रयिं मे विश्वे नि यछन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥
8412. (१८,३.१२ ) मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।
8413. (१८,३.१२ ) वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१२॥
8414. (१८,३.१३ ) यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।
8415. (१८,३.१३ ) वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥
8416. (१८,३.१४ ) परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः ।
8417. (१८,३.१४ ) दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥
8418. (१८,३.१५ ) कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः ।
8419. (१८,३.१५ ) विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥
8420. (१८,३.१६ ) विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।
8421. (१८,३.१६ ) शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥१६॥
8422. (१८,३.१७ ) कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।
8423. (१८,३.१७ ) आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥
8424. (१८,३.१८ ) अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।
8425. (१८,३.१८ ) सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥१८॥
8426. (१८,३.१९ ) यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।
8427. (१८,३.१९ ) ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥
8428. (१८,३.२० ) ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः ।
8429. (१८,३.२० ) दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४}
8430. (१८,३.२१ ) अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः ।
8431. (१८,३.२१ ) शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥२१॥
8432. (१८,३.२२ ) सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः ।
8433. (१८,३.२२ ) शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥२२॥
8434. (१८,३.२३ ) आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः ।
8435. (१८,३.२३ ) मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥२३॥
8436. (१८,३.२४ ) अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः ।
8437. (१८,३.२४ ) विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥२४॥
8438. (१८,३.२५ ) इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
8439. (१८,३.२५ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥
8440. (१८,३.२६ ) धाता मा निरृत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
8441. (१८,३.२६ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥
8442. (१८,३.२७ ) अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
8443. (१८,३.२७ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥
8444. (१८,३.२८ ) सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
8445. (१८,३.२८ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥
8446. (१८,३.२९ ) धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।
8447. (१८,३.२९ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥
8448. (१८,३.३० ) प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
8449. (१८,३.३० ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५}
8450. (१८,३.३१ ) दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
8451. (१८,३.३१ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥
8452. (१८,३.३२ ) प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
8453. (१८,३.३२ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥
8454. (१८,३.३३ ) उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
8455. (१८,३.३३ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥
8456. (१८,३.३४ ) ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
8457. (१८,३.३४ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥
8458. (१८,३.३५ ) ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
8459. (१८,३.३५ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥
8460. (१८,३.३६ ) धर्तासि धरुनोऽसि वंसगोऽसि ॥३६॥
8461. (१८,३.३७ ) उदपूरसि मधुपूरसि वातपूरसि ॥३७॥
8462. (१८,३.३८ ) इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।
8463. (१८,३.३८ ) प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥३८॥
8464. (१८,३.३९ ) स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः ।
8465. (१८,३.३९ ) वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्॥३९॥
8466. (१८,३.४० ) त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन ।
8467. (१८,३.४० ) अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥४०॥ {१६}
8468. (१८,३.४१ ) देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत ।
8469. (१८,३.४१ ) बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥४१॥
8470. (१८,३.४२ ) त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा ।
8471. (१८,३.४२ ) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥
8472. (१८,३.४३ ) आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।
8473. (१८,३.४३ ) पुत्रेभ्यः पितरस्तस्य वस्वः प्र यछत त इहोर्जं दधात ॥४३॥
8474. (१८,३.४४ ) अग्निष्वात्ताः पितर एह गछत सदःसदः सदत सुप्रणीतयः ।
8475. (१८,३.४४ ) अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥
8476. (१८,३.४५ ) उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
8477. (१८,३.४५ ) त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥४५॥
8478. (१८,३.४६ ) ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः ।
8479. (१८,३.४६ ) तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥४६॥
8480. (१८,३.४७ ) ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।
8481. (१८,३.४७ ) आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिरृषिभिर्घर्मसद्भिः ॥४७॥
8482. (१८,३.४८ ) ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण ।
8483. (१८,३.४८ ) आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैरृषिभिर्घर्मसद्भिः ॥४८॥
8484. (१८,३.४९ ) उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
8485. (१८,३.४९ ) ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥
8486. (१८,३.५० ) उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।
8487. (१८,३.५० ) माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {१७}
8488. (१८,३.५१ ) उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
8489. (१८,३.५१ ) ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥५१॥
8490. (१८,३.५२ ) उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् ।
8491. (१८,३.५२ ) एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥
8492. (१८,३.५३ ) इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।
8493. (१८,३.५३ ) अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥
8494. (१८,३.५४ ) अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।
8495. (१८,३.५४ ) तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानिम् ॥५४॥
8496. (१८,३.५५ ) यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
8497. (१८,३.५५ ) अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥५५॥
8498. (१८,३.५६ ) पयस्वतीरोषधयः पयस्वन् मामकं पयः ।
8499. (१८,३.५६ ) अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥५६॥
8500. (१८,३.५७ ) इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
8501. (१८,३.५७ ) अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥५७॥
8502. (१८,३.५८ ) सं गछस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।
8503. (१८,३.५८ ) हित्वावद्यं पुनरस्तमेहि सं गछतां तन्वा सुवर्चाः ॥५८॥
8504. (१८,३.५९ ) ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
8505. (१८,३.५९ ) तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥
8506. (१८,३.६० ) शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् ।
8507. (१८,३.६० ) शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
8508. (१८,३.६० ) मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥६०॥ {१८}
8509. (१८,३.६१ ) विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः ।
8510. (१८,३.६१ ) इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥६१॥
8511. (१८,३.६२ ) विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु ।
8512. (१८,३.६२ ) इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥६२॥
8513. (१८,३.६३ ) यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् ।
8514. (१८,३.६३ ) तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥६३॥
8515. (१८,३.६४ ) आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।
8516. (१८,३.६४ ) सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्वोतिरुत्तमम् ॥६४॥
8517. (१८,३.६५ ) प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।
8518. (१८,३.६५ ) दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥६५॥
8519. (१८,३.६६ ) नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा ।
8520. (१८,३.६६ ) हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥
8521. (१८,३.६७ ) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
8522. (१८,३.६७ ) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥६७॥
8523. (१८,३.६८ ) अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।
8524. (१८,३.६८ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥
8525. (१८,३.६९ ) यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः ।
8526. (१८,३.६९ ) तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥६९॥
8527. (१८,३.७० ) पुनर्देहि वनस्पते य एष निहितस्त्वयि ।
8528. (१८,३.७० ) यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥
8529. (१८,३.७१ ) आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।
8530. (१८,३.७१ ) शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥७१॥
8531. (१८,३.७२ ) ये ते पूर्वे परागता अपरे पितरश्च ये ।
8532. (१८,३.७२ ) तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥
8533. (१८,३.७३ ) एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते ।
8534. (१८,३.७३ ) अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९}
8535. (१८,४.१ ) आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि ।
8536. (१८,४.१ ) अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥१॥
8537. (१८,४.२ ) देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि ।
8538. (१८,४.२ ) तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥२॥
8539. (१८,४.३ ) ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति ।
8540. (१८,४.३ ) तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥
8541. (१८,४.४ ) त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।
8542. (१८,४.४ ) स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥४॥
8543. (१८,४.५ ) जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।
8544. (१८,४.५ ) प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥
8545. (१८,४.६ ) ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।
8546. (१८,४.६ ) जुहु द्यां गछ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥
8547. (१८,४.७ ) तीर्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति ।
8548. (१८,४.७ ) अत्रादधुर्यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥७॥
8549. (१८,४.८ ) अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः ।
8550. (१८,४.८ ) महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥८॥
8551. (१८,४.९ ) पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः ।
8552. (१८,४.९ ) दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात्॥९॥
8553. (१८,४.१० ) यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् ।
8554. (१८,४.१० ) अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥१०॥ {२०}
8555. (१८,४.११ ) शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् ।
8556. (१८,४.११ ) एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥११॥
8557. (१८,४.१२ ) शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः ।
8558. (१८,४.१२ ) शृतं कृण्वन्त इह माव चिक्षिपन् ॥१२॥
8559. (१८,४.१३ ) यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् ।
8560. (१८,४.१३ ) तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥१३॥
8561. (१८,४.१४ ) ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन् ।
8562. (१८,४.१४ ) तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥
8563. (१८,४.१५ ) अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु ।
8564. (१८,४.१५ ) हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥१५॥
8565. (१८,४.१६ ) अपूपवान् क्षीरवांश्चरुरेह सीदतु ।
8566. (१८,४.१६ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१६॥
8567. (१८,४.१७ ) अपूपवान् दधिवांश्चरुरेह सीदतु ।
8568. (१८,४.१७ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१७॥
8569. (१८,४.१८ ) अपूपवान् द्रप्सवांश्चरुरेह सीदतु ।
8570. (१८,४.१८ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१८॥
8571. (१८,४.१९ ) अपूपवान् घृतवांश्चरुरेह सीदतु ।
8572. (१८,४.१९ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१९॥
8573. (१८,४.२० ) अपूपवान् मांसवांश्चरुरेह सीदतु ।
8574. (१८,४.२० ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ {२१}
8575. (१८,४.२१ ) अपूपवान् अन्नवांश्चरुरेह सीदतु ।
8576. (१८,४.२१ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२१॥
8577. (१८,४.२२ ) अपूपवान् मधुमांश्चरुरेह सीदतु ।
8578. (१८,४.२२ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२२॥
8579. (१८,४.२३ ) अपूपवान् रसवांश्चरुरेह सीदतु ।
8580. (१८,४.२३ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२३॥
8581. (१८,४.२४ ) अपूपवान् अपवांश्चरुरेह सीदतु ।
8582. (१८,४.२४ ) लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२४॥
8583. (१८,४.२५ ) अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।
8584. (१८,४.२५ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥२५॥
8585. (१८,४.२६ ) यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।
8586. (१८,४.२६ ) तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥२६॥
8587. (१८,४.२७ ) अक्षितिं भूयसीम् ॥२७॥
8588. (१८,४.२८ ) द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।
8589. (१८,४.२८ ) समानं योनिमनु सम्चरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥२८॥
8590. (१८,४.२९ ) शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् ।
8591. (१८,४.२९ ) ये पृनन्ति प्र च यछन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥२९॥
8592. (१८,४.३० ) कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये ।
8593. (१८,४.३० ) ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥३०॥ {२२}
8594. (१८,४.३१ ) एतत्ते देवः सविता वासो ददाति भर्तवे ।
8595. (१८,४.३१ ) तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥३१॥
8596. (१८,४.३२ ) धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत्।
8597. (१८,४.३२ ) तां वै यमस्य राज्ये अक्षितामुप जीवति ॥३२॥
8598. (१८,४.३३ ) एतास्ते असौ धेनवः कामदुघा भवन्तु ।
8599. (१८,४.३३ ) एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३३॥
8600. (१८,४.३४ ) एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते ।
8601. (१८,४.३४ ) तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥३४॥
8602. (१८,४.३५ ) वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् ।
8603. (१८,४.३५ ) स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥
8604. (१८,४.३६ ) सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे ।
8605. (१८,४.३६ ) ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥३६॥
8606. (१८,४.३७ ) इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत ।
8607. (१८,४.३७ ) मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥३७॥
8608. (१८,४.३८ ) इहैवैधि धनसनिरिहचित्त इहक्रतुः ।
8609. (१८,४.३८ ) इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥३८॥
8610. (१८,४.३९ ) पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः ।
8611. (१८,४.३९ ) स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥३९॥
8612. (१८,४.४० ) आपो अग्निं प्र हिणुत पितॄंरुपेमं यज्ञं पितरो मे जुषन्ताम् ।
8613. (१८,४.४० ) आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥४०॥ {२३}
8614. (१८,४.४१ ) समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।
8615. (१८,४.४१ ) स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥४१॥
8616. (१८,४.४२ ) यं ते मन्थं यमोदननं यन् मांसं निपृणामि ते ।
8617. (१८,४.४२ ) ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥४२॥
8618. (१८,४.४३ ) यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।
8619. (१८,४.४३ ) तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥४३॥
8620. (१८,४.४४ ) इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः ।
8621. (१८,४.४४ ) पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥
8622. (१८,४.४५ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।
8623. (१८,४.४५ ) सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४५॥
8624. (१८,४.४६ ) सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।
8625. (१८,४.४६ ) आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४६॥
8626. (१८,४.४७ ) सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।
8627. (१८,४.४७ ) सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४७॥
8628. (१८,४.४८ ) पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः ।
8629. (१८,४.४८ ) परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥४८॥
8630. (१८,४.४९ ) आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः ।
8631. (१८,४.४९ ) अस्मादेतमघ्न्यौ तद्वशीयो दातुः पितृष्विहभोजनौ मम ॥४९॥
8632. (१८,४.५० ) एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः ।
8633. (१८,४.५० ) यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ {२४}
8634. (१८,४.५१ ) इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि ।
8635. (१८,४.५१ ) तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥
8636. (१८,४.५२ ) एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम् ।
8637. (१८,४.५२ ) यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥
8638. (१८,४.५३ ) पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् ।
8639. (१८,४.५३ ) आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय ॥५३॥
8640. (१८,४.५४ ) ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम ।
8641. (१८,४.५४ ) तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥५४॥
8642. (१८,४.५५ ) यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।
8643. (१८,४.५५ ) एवा वपामि हर्म्यं यथा मे भूरयोऽसत ॥५५॥
8644. (१८,४.५६ ) इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा ।
8645. (१८,४.५६ ) स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥५६॥
8646. (१८,४.५७ ) ये च जीवा ये च मृता ये जाता ये च यज्ञियाः ।
8647. (१८,४.५७ ) तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥५७॥
8648. (१८,४.५८ ) वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः ।
8649. (१८,४.५८ ) प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया ॥५८॥
8650. (१८,४.५९ ) त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः ।
8651. (१८,४.५९ ) सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥५९॥
8652. (१८,४.६० ) प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः ।
8653. (१८,४.६० ) मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥६०॥ {२५}
8654. (१८,४.६१ ) अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत ।
8655. (१८,४.६१ ) अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥६१॥
8656. (१८,४.६२ ) आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।
8657. (१८,४.६२ ) आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम् ॥६२॥
8658. (१८,४.६३ ) परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः ।
8659. (१८,४.६३ ) अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥
8660. (१८,४.६४ ) यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः ।
8661. (१८,४.६४ ) तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥
8662. (१८,४.६५ ) अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः ।
8663. (१८,४.६५ ) प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥६५॥
8664. (१८,४.६६ ) असौ हा इह ते मनः ककुत्सलमिव जामयः ।
8665. (१८,४.६६ ) अभ्येनं भूम ऊर्णुहि ॥६६॥
8666. (१८,४.६७ ) शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥६७॥
8667. (१८,४.६८ ) ये अस्माकं पितरस्तेषां बर्हिरसि ॥६८॥
8668. (१८,४.६९ ) उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय ।
8669. (१८,४.६९ ) अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥६९॥
8670. (१८,४.७० ) प्रास्मत्पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे ।
8671. (१८,४.७० ) अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥७०॥ {२६}
8672. (१८,४.७१ ) अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥
8673. (१८,४.७२ ) सोमाय पितृमते स्वधा नमः ॥७२॥
8674. (१८,४.७३ ) पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥
8675. (१८,४.७४ ) यमाय पितृमते स्वधा नमः ॥७४॥
8676. (१८,४.७५ ) एतत्ते प्रततामह स्वधा ये च त्वामनु ॥७५॥
8677. (१८,४.७६ ) एतत्ते ततामह स्वधा ये च त्वामनु ॥७६॥
8678. (१८,४.७७ ) एतत्ते तत स्वधा ॥७७॥
8679. (१८,४.७८ ) स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥
8680. (१८,४.७९ ) स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥७९॥
8681. (१८,४.८० ) स्वधा पितृभ्यो दिविषद्भ्यः ॥८०॥ {२७}
8682. (१८,४.८१ ) नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥८१॥
8683. (१८,४.८२ ) नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥८२॥
8684. (१८,४.८३ ) नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥८३॥
8685. (१८,४.८४ ) नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥८४॥
8686. (१८,४.८५ ) नमो वः पितरः स्वधा वः पितरः ॥८५॥
8687. (१८,४.८६ ) येऽत्र पितरः पितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥८६॥
8688. (१८,४.८७ ) य इह पितरो जीवा इह वयं स्मः ।
8689. (१८,४.८७ ) अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥८७॥
8690. (१८,४.८८ ) आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् ।
8691. (१८,४.८८ ) यद्घ सा ते पनीयसी समिद्दीदयति द्यवि ।
8692. (१८,४.८८ ) इषं स्तोतृभ्य आ भर ॥८८॥
8693. (१८,४.८९ ) चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
8694. (१८,४.८९ ) न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥८९॥ {२८}
8695. (१९,१.१ ) संसं स्रवन्तु नद्यः सं वाताः सं पतत्रिणः ।
8696. (१९,१.१ ) यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥१॥
8697. (१९,१.२ ) इमं होमा यज्ञमवतेमं संस्रावणा उत यज्ञमिमं वर्धयता गिरः संस्राव्येण हविषा जुहोमि ॥२॥
8698. (१९,१.३ ) रूपंरूपं वयोवयः संरभ्यैनं परि ष्वजे ।
8699. (१९,१.३ ) यज्ञमिमं चतस्रः प्रदिशो वर्धयन्तु संस्राव्येण हविषा जुहोमि ॥३॥
8700. (१९,२.१ ) शं त आपो हैमवतीः शमु ते सन्तूत्स्याः ।
8701. (१९,२.१ ) शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥
8702. (१९,२.२ ) शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः ।
8703. (१९,२.२ ) शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥
8704. (१९,२.३ ) अनभ्रयः खनमाना विप्रा गम्भीरे अपसः ।
8705. (१९,२.३ ) भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥
8706. (१९,२.४ ) अपामह दिव्यानामपां स्रोतस्यानाम् ।
8707. (१९,२.४ ) अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥
8708. (१९,२.५ ) ता अपः शिवा अपोऽयक्ष्मंकरणीरपः ।
8709. (१९,२.५ ) यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः ॥५॥
8710. (१९,३.१ ) दिवस्पृथिव्याः पर्यन्तरिक्षाद्वनस्पतिभ्यो अध्योषधीभ्यः ।
8711. (१९,३.१ ) यत्रयत्र विभृतो जातवेदास्तत स्तुतो जुषमाणो न एहि ॥१॥
8712. (१९,३.२ ) यस्ते अप्सु महिमा यो वनेषु य ओषधीषु पशुष्वप्स्वन्तः ।
8713. (१९,३.२ ) अग्ने सर्वास्तन्वः सं रभस्व ताभिर्न एहि द्रविणोदा अजस्रः ॥२॥
8714. (१९,३.३ ) यस्ते देवेषु महिमा स्वर्गो या ते तनुः पितृष्वाविवेश ।
8715. (१९,३.३ ) पुष्टिर्या ते मनुष्येषु पप्रथेऽग्ने तया रयिमस्मासु धेहि ॥३॥
8716. (१९,३.४ ) श्रुत्कर्णाय कवये वेद्याय वचोभिर्वाकैरुप यामि रातिम् ।
8717. (१९,३.४ ) यतो भयमभयं तन् नो अस्त्वव देवानां यज हेडो अग्ने ॥४॥
8718. (१९,४.१ ) यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः ।
8719. (१९,४.१ ) तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाह ॥१॥
8720. (१९,४.२ ) आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।
8721. (१९,४.२ ) यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥२॥
8722. (१९,४.३ ) आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।
8723. (१९,४.३ ) अथो भगस्य नो धेह्यथो नः सुहवो भव ॥३॥
8724. (१९,४.४ ) बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।
8725. (१९,४.४ ) यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥४॥
8726. (१९,५.१ ) इन्द्रो राजा जगतश्चर्षणीनामधि क्षमि विषुरूपं यदस्ति ।
8727. (१९,५.१ ) ततो ददाति दाशुषे वसूनि चोदद्राध उपस्तुतश्चिदर्वाक्॥१॥
8728. (१९,६.१ ) सहस्रबाहुः पुरुषः सहस्राक्षः सहस्रपात्।
8729. (१९,६.१ ) स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥
8730. (१९,६.२ ) त्रिभिः पद्भिर्द्यामरोहत्पादस्येहाभवत्पुनः ।
8731. (१९,६.२ ) तथा व्यक्रामद्विष्वङशनानशने अनु ॥२॥
8732. (१९,६.३ ) तावन्तो अस्य महिमानस्ततो ज्यायांश्च पूरुषः ।
8733. (१९,६.३ ) पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
8734. (१९,६.४ ) पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्यम् ।
8735. (१९,६.४ ) उतामृतत्वस्येश्वरो यदन्येनाभवत्सह ॥४॥
8736. (१९,६.५ ) यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
8737. (१९,६.५ ) मुखं किमस्य किं बाहू किमूरू पादा उच्यते ॥५॥
8738. (१९,६.६ ) ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्योऽभवत्।
8739. (१९,६.६ ) मध्यं तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥६॥
8740. (१९,६.७ ) चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
8741. (१९,६.७ ) मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥७॥
8742. (१९,६.८ ) नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत ।
8743. (१९,६.८ ) पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकामकल्पयन् ॥८॥
8744. (१९,६.९ ) विराडग्रे समभवद्विराजो अधि पूरुषः ।
8745. (१९,६.९ ) स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥९॥
8746. (१९,६.१० ) यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
8747. (१९,६.१० ) वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥१०॥
8748. (१९,६.११ ) तं यज्ञं प्रावृषा प्रौक्षन् पुरुषं जातमग्रशः ।
8749. (१९,६.११ ) तेन देवा अयजन्त साध्या वसवश्च ये ॥११॥
8750. (१९,६.१२ ) तस्मादश्वा अजायन्त ये च के चोभयादतः ।
8751. (१९,६.१२ ) गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१२॥
8752. (१९,६.१३ ) तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
8753. (१९,६.१३ ) छन्दो ह जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥१३॥
8754. (१९,६.१४ ) तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।
8755. (१९,६.१४ ) पशूंस्तांश्चक्रे वायव्यान् आरण्या ग्राम्याश्च ये ॥१४॥
8756. (१९,६.१५ ) सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः ।
8757. (१९,६.१५ ) देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥
8758. (१९,६.१६ ) मूर्ध्नो देवस्य बृहतो अंशवः सप्त सप्ततीः ।
8759. (१९,६.१६ ) राज्ञः सोमस्याजायन्त जातस्य पुरुषादधि ॥१६॥
8760. (१९,७.१ ) चित्राणि साकं दिवि रोचनानि सरीसृपाणि भुवने जवानि ।
8761. (१९,७.१ ) तुर्मिशं सुमतिमिछमानो अहानि गीर्भिः सपर्यामि नाकम् ॥१॥
8762. (१९,७.२ ) सुहवमग्ने कृत्तिका रोहिणी चास्तु भद्रं मृगशिरः शमार्द्रा ।
8763. (१९,७.२ ) पुनर्वसू सूनृता चारु पुष्यो भानुराश्लेषा अयनं मघा मे ॥२॥
8764. (१९,७.३ ) पुण्यं पूर्वा फल्गुन्यौ चात्र हस्तश्चित्रा शिवा स्वाति सुखो मे अस्तु ।
8765. (१९,७.३ ) राधे विशाखे सुहवानुराधा ज्येष्ठा सुनक्षत्रमरिष्ट मूलम् ॥३॥
8766. (१९,७.४ ) अन्नं पूर्वा रासतां मे अषाधा ऊर्जं देव्युत्तरा आ वहन्तु ।
8767. (१९,७.४ ) अभिजिन् मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥४॥
8768. (१९,७.५ ) आ मे महच्छतभिषग्वरीय आ मे द्वया प्रोष्ठपदा सुशर्म ।
8769. (१९,७.५ ) आ रेवती चाश्वयुजौ भगं म आ मे रयिं भरण्य आ वहन्तु ॥५॥
8770. (१९,८.१ ) यानि नक्षत्राणि दिव्यन्तरिक्षे अप्सु भूमौ यानि नगेषु दिक्षु ।
8771. (१९,८.१ ) प्रकल्पयंश्चन्द्रमा यान्येति सर्वाणि ममैतानि शिवानि सन्तु ॥१॥
8772. (१९,८.२ ) अष्टाविंशानि शिवानि शग्मानि सह योगं भजन्तु मे ।
8773. (१९,८.२ ) योगं प्र पद्ये क्षेमं च क्षेमं प्र पद्ये योगं च नमोऽहोरात्राभ्यामस्तु ॥२॥
8774. (१९,८.३ ) स्वस्तितं मे सुप्रातः सुसायं सुदिवं सुमृगं सुशकुनं मे अस्तु ।
8775. (१९,८.३ ) सुहवमग्ने स्वस्त्यमर्त्यं गत्वा पुनरायाभिनन्दन् ॥३॥
8776. (१९,८.४ ) अनुहवं परिहवं परिवादं परिक्षवम् ।
8777. (१९,८.४ ) सर्वैर्मे रिक्तकुम्भान् परा तान्त्सवितः सुव ॥४॥
8778. (१९,८.५ ) अपपापं परिक्षवं पुण्यं भक्षीमहि क्षवम् ।
8779. (१९,८.५ ) शिवा ते पाप नासिकां पुण्यगश्चाभि मेहताम् ॥५॥
8780. (१९,८.६ ) इमा या ब्रह्मणस्पते विषुचीर्वात ईरते ।
8781. (१९,८.६ ) सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥६॥
8782. (१९,८.७ ) स्वस्ति नो अस्त्वभयं नो अस्तु नमोऽहोरत्राभ्यामस्तु ॥७॥
8783. (१९,९.१ ) शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।
8784. (१९,९.१ ) शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥१॥
8785. (१९,९.२ ) शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।
8786. (१९,९.२ ) शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥२॥
8787. (१९,९.३ ) इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।
8788. (१९,९.३ ) ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥३॥
8789. (१९,९.४ ) इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।
8790. (१९,९.४ ) येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥४॥
8791. (१९,९.५ ) इमानि यानि पञ्चेन्द्रियानि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।
8792. (१९,९.५ ) यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥५॥
8793. (१९,९.६ ) शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।
8794. (१९,९.६ ) शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥६॥
8795. (१९,९.७ ) शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।
8796. (१९,९.७ ) उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥७॥
8797. (१९,९.८ ) शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत्।
8798. (१९,९.८ ) शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥८॥
8799. (१९,९.९ ) नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।
8800. (१९,९.९ ) शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥९॥
8801. (१९,९.१० ) शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।
8802. (१९,९.१० ) शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥१०॥
8803. (१९,९.११ ) शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।
8804. (१९,९.११ ) शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥११॥
8805. (१९,९.१२ ) ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।
8806. (१९,९.१२ ) तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यछतु ब्रह्मा मे शर्म यछतु ।
8807. (१९,९.१२ ) विश्वे मे देवाः शर्म यछन्तु सर्वे मे देवाः शर्म यछन्तु ॥१२॥
8808. (१९,९.१३ ) यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।
8809. (१९,९.१३ ) सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥१३॥
8810. (१९,९.१४ ) पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।
8811. (१९,९.१४ ) यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥१४॥
8812. (१९,१०.१ ) शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।
8813. (१९,१०.१ ) शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
8814. (१९,१०.२ ) शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।
8815. (१९,१०.२ ) शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
8816. (१९,१०.३ ) शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।
8817. (१९,१०.३ ) शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
8818. (१९,१०.४ ) शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।
8819. (१९,१०.४ ) शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
8820. (१९,१०.५ ) शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।
8821. (१९,१०.५ ) शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥
8822. (१९,१०.६ ) शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।
8823. (१९,१०.६ ) शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
8824. (१९,१०.७ ) शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।
8825. (१९,१०.७ ) शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥
8826. (१९,१०.८ ) शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।
8827. (१९,१०.८ ) शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
8828. (१९,१०.९ ) शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।
8829. (१९,१०.९ ) शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥
8830. (१९,१०.१० ) शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।
8831. (१९,१०.१० ) शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥
8832. (१९,११.१ ) शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।
8833. (१९,११.१ ) शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥
8834. (१९,११.२ ) शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।
8835. (१९,११.२ ) शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥
8836. (१९,११.३ ) शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।
8837. (१९,११.३ ) शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥
8838. (१९,११.४ ) आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।
8839. (१९,११.४ ) सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥
8840. (१९,११.५ ) ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।
8841. (१९,११.५ ) ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥
8842. (१९,११.६ ) तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।
8843. (१९,११.६ ) अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥
8844. (१९,१२.१ ) उषा अप स्वसुस्तमः सं वर्तयति वर्तनिं सुजातता ।
8845. (१९,१२.१ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥१॥
8846. (१९,१३.१ ) इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।
8847. (१९,१३.१ ) तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत्॥१॥
8848. (१९,१३.२ ) आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
8849. (१९,१३.२ ) संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥२॥
8850. (१९,१३.३ ) संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।
8851. (१९,१३.३ ) तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥
8852. (१९,१३.४ ) स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।
8853. (१९,१३.४ ) संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥४॥
8854. (१९,१३.५ ) बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।
8855. (१९,१३.५ ) अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥५॥
8856. (१९,१३.६ ) इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।
8857. (१९,१३.६ ) ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥६॥
8858. (१९,१३.७ ) अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः ।
8859. (१९,१३.७ ) दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥
8860. (१९,१३.८ ) बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः ।
8861. (१९,१३.८ ) प्रभञ्जं छत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥८॥
8862. (१९,१३.९ ) इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।
8863. (१९,१३.९ ) देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥
8864. (१९,१३.१० ) इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।
8865. (१९,१३.१० ) महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥
8866. (१९,१३.११ ) अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।
8867. (१९,१३.११ ) अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥११॥
8868. (१९,१४.१ ) इदमुच्छ्रेयोऽवसानमागां शिवे मे द्यावापृथिवी अभूताम् ।
8869. (१९,१४.१ ) असपत्नाः प्रदिशो मे भवन्तु न वै त्वा द्विष्मो अभयं नो अस्तु ॥१॥
8870. (१९,१५.१ ) यत इन्द्र भयामहे ततो नो अभयं कृधि ।
8871. (१९,१५.१ ) मघवं छग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥
8872. (१९,१५.२ ) इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा ।
8873. (१९,१५.२ ) मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥२॥
8874. (१९,१५.३ ) इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः ।
8875. (१९,१५.३ ) स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥३॥
8876. (१९,१५.४ ) उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति ।
8877. (१९,१५.४ ) उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥
8878. (१९,१५.५ ) अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।
8879. (१९,१५.५ ) अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥
8880. (१९,१५.६ ) अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः ।
8881. (१९,१५.६ ) अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥
8882. (१९,१६.१ ) असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
8883. (१९,१६.१ ) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१॥
8884. (१९,१६.२ ) दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः ।
8885. (१९,१६.२ ) इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यछताम् ।
8886. (१९,१६.२ ) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥२॥
8887. (१९,१७.१ ) अग्निर्मा पातु वसुभिः पुरस्तात्तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8888. (१९,१७.१ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१॥
8889. (१९,१७.२ ) वायुर्मान्तरिक्षेणैतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8890. (१९,१७.२ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥२॥
8891. (१९,१७.३ ) सोमो मा रुद्रैर्दक्षिणाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8892. (१९,१७.३ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥३॥
8893. (१९,१७.४ ) वरुणो मादित्यैरेतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8894. (१९,१७.४ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥४॥
8895. (१९,१७.५ ) सूर्यो मा द्यावापृथिवीभ्यां प्रतीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8896. (१९,१७.५ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥५॥
8897. (१९,१७.६ ) आपो मौषधीमतीरेतस्या दिशः पान्तु तासु क्रमे तासु श्रये तां पुरं प्रैमि ।
8898. (१९,१७.६ ) ता मा रक्षन्तु ता मा गोपायन्तु ताभ्य आत्मानं परि ददे स्वाहा ॥६॥
8899. (१९,१७.७ ) विश्वकर्मा मा सप्तऋषिभिरुदीच्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8900. (१९,१७.७ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥७॥
8901. (१९,१७.८ ) इन्द्रो मा मरुत्वान् एतस्या दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8902. (१९,१७.८ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥८॥
8903. (१९,१७.९ ) प्रजापतिर्मा प्रजननवान्त्सह प्रतिष्ठया ध्रुवाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8904. (१९,१७.९ ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥९॥
8905. (१९,१७.१० ) बृहस्पतिर्मा विश्वैर्देवैरूर्ध्वाया दिशः पातु तस्मिन् क्रमे तस्मिं छ्रये तां पुरं प्रैमि ।
8906. (१९,१७.१० ) स मा रक्षतु स मा गोपायतु तस्मा आत्मानं परि ददे स्वाहा ॥१०॥
8907. (१९,१८.१ ) अग्निं ते वसुवन्तमृछन्तु ।
8908. (१९,१८.१ ) ये माघायवः प्राच्या दिशोऽभिदासान् ॥१॥
8909. (१९,१८.२ ) वायुं तेऽन्तरिक्षवन्तमृछन्तु ।
8910. (१९,१८.२ ) ये माघायव एतस्या दिशोऽभिदासान् ॥२॥
8911. (१९,१८.३ ) सोमं ते रुद्रवन्तमृछन्तु ।
8912. (१९,१८.३ ) ये माघायवो दक्षिणाया दिशोऽभिदासान् ॥३॥
8913. (१९,१८.४ ) वरुणं त आदित्यवन्तमृछन्तु ।
8914. (१९,१८.४ ) ये माघायव एतस्या दिशोऽभिदासान् ॥४॥
8915. (१९,१८.५ ) सूर्यं ते द्यावापृथिवीवन्तमृछन्तु ।
8916. (१९,१८.५ ) ये माघायव प्रतीच्या दिशोऽभिदासान् ॥५॥
8917. (१९,१८.६ ) अपस्त ओषधीमतीरृछन्तु ।
8918. (१९,१८.६ ) ये माघायव एतस्या दिशोऽभिदासान् ॥६॥
8919. (१९,१८.७ ) विश्वकर्माणं ते सप्तऋषिवन्तमृछन्तु ।
8920. (१९,१८.७ ) ये माघायव उदीच्या दिशोऽभिदासान् ॥७॥
8921. (१९,१८.८ ) इन्द्रं ते मरुत्वन्तमृछन्तु ।
8922. (१९,१८.८ ) ये माघायव एतस्या दिशोऽभिदासान् ॥८॥
8923. (१९,१८.९ ) प्रजापतिं ते प्रजननवन्तमृछन्तु ।
8924. (१९,१८.९ ) ये माघायवो ध्रुवाया दिशोऽभिदासान् ॥९॥
8925. (१९,१८.१० ) बृहस्पतिं ते विश्वदेववन्तमृछन्तु ।
8926. (१९,१८.१० ) ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ॥१०॥
8927. (१९,१९.१ ) मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि वः ।
8928. (१९,१९.१ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१॥
8929. (१९,१९.२ ) वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः ।
8930. (१९,१९.२ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥२॥
8931. (१९,१९.३ ) सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः ।
8932. (१९,१९.३ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥३॥
8933. (१९,१९.४ ) चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः ।
8934. (१९,१९.४ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥४॥
8935. (१९,१९.५ ) सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
8936. (१९,१९.५ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥५॥
8937. (१९,१९.६ ) यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
8938. (१९,१९.६ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥६॥
8939. (१९,१९.७ ) समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः ।
8940. (१९,१९.७ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥७॥
8941. (१९,१९.८ ) ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः ।
8942. (१९,१९.८ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥८॥
8943. (१९,१९.९ ) इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः ।
8944. (१९,१९.९ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥९॥
8945. (१९,१९.१० ) देवा अमृतेनोदक्रामंस्तां पुरं प्र णयामि वः ।
8946. (१९,१९.१० ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥१०॥
8947. (१९,१९.११ ) प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः ।
8948. (१९,१९.११ ) तामा विशत तां प्र विशत सा वः शर्म च वर्म च यछतु ॥११॥
8949. (१९,२०.१ ) अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः ।
8950. (१९,२०.१ ) सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥
8951. (१९,२०.२ ) यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः ।
8952. (१९,२०.२ ) प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥
8953. (१९,२०.३ ) यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः ।
8954. (१९,२०.३ ) इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥
8955. (१९,२०.४ ) वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।
8956. (१९,२०.४ ) वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका ॥४॥
8957. (१९,२१.१ ) गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिस्त्रिष्टुब्जगत्यै ॥१॥
8958. (१९,२२.१ ) आङ्गिरसानामाद्यैः पञ्चानुवाकैः स्वाहा ॥१॥
8959. (१९,२२.२ ) षष्ठाय स्वाहा ॥२॥
8960. (१९,२२.३ ) सप्तमाष्टमाभ्यां स्वाहा ॥३॥
8961. (१९,२२.४ ) नीलनखेभ्यः स्वाहा ॥४॥
8962. (१९,२२.५ ) हरितेभ्यः स्वाहा ॥५॥
8963. (१९,२२.६ ) क्षुद्रेभ्यः स्वाहा ॥६॥
8964. (१९,२२.७ ) पर्यायिकेभ्यः स्वाहा ॥७॥
8965. (१९,२२.८ ) प्रथमेभ्यः शङ्खेभ्यः स्वाहा ॥८॥
8966. (१९,२२.९ ) द्वितीयेभ्यः शङ्खेभ्यः स्वाहा ॥९॥
8967. (१९,२२.१० ) तृतीयेभ्यः शङ्खेभ्यः स्वाहा ॥१०॥
8968. (१९,२२.११ ) उपोत्तमेभ्यः स्वाहा ॥११॥
8969. (१९,२२.१२ ) उत्तमेभ्यः स्वाहा ॥१२॥
8970. (१९,२२.१३ ) उत्तरेभ्यः स्वाहा ॥१३॥
8971. (१९,२२.१४ ) ऋषिभ्यः स्वाहा ॥१४॥
8972. (१९,२२.१५ ) शिखिभ्यः स्वाहा ॥१५॥
8973. (१९,२२.१६ ) गणेभ्यः स्वाहा ॥१६॥
8974. (१९,२२.१७ ) महागणेभ्यः स्वाहा ॥१७॥
8975. (१९,२२.१८ ) सर्वेभ्योऽङ्गिरोभ्यो विदगणेभ्यः स्वाहा ॥१८॥
8976. (१९,२२.१९ ) पृथक्सहस्राभ्यां स्वाहा ॥१९॥
8977. (१९,२२.२० ) ब्रह्मणे स्वाहा ॥२०॥
8978. (१९,२२.२१ ) ब्रह्मज्येष्ठा सम्भृता विर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।
8979. (१९,२२.२१ ) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥२१॥
8980. (१९,२३.१ ) आथर्वणानां चतुरृचेभ्यः स्वाहा ॥१॥
8981. (१९,२३.२ ) पञ्चर्चेभ्यः स्वाहा ॥२॥
8982. (१९,२३.३ ) षळृचेभ्यः स्वाहा ॥३॥
8983. (१९,२३.४ ) सप्तर्चेभ्यः स्वाहा ॥४॥
8984. (१९,२३.५ ) अष्टर्चेभ्यः स्वाहा ॥५॥
8985. (१९,२३.६ ) नवर्चेभ्यः स्वाहा ॥६॥
8986. (१९,२३.७ ) दशर्चेभ्यः स्वाहा ॥७॥
8987. (१९,२३.८ ) एकादशर्चेभ्यः स्वाहा ॥८॥
8988. (१९,२३.९ ) द्वादशर्चेभ्यः स्वाहा ॥९॥
8989. (१९,२३.१० ) त्रयोदशर्चेभ्यः स्वाहा ॥१०॥
8990. (१९,२३.११ ) चतुर्दशर्चेभ्यः स्वाहा ॥११॥
8991. (१९,२३.१२ ) पञ्चदशर्चेभ्यः स्वाहा ॥१२॥
8992. (१९,२३.१३ ) षोडशर्चेभ्यः स्वाहा ॥१३॥
8993. (१९,२३.१४ ) सप्तदशर्चेभ्यः स्वाहा ॥१४॥
8994. (१९,२३.१५ ) अष्टादशर्चेभ्यः स्वाहा ॥१५॥
8995. (१९,२३.१६ ) एकोनविंशतिः स्वाहा ॥१६॥
8996. (१९,२३.१७ ) विंशतिः स्वाहा ॥१७॥
8997. (१९,२३.१८ ) महत्काण्डाय स्वाहा ॥१८॥
8998. (१९,२३.१९ ) तृचेभ्यः स्वाहा ॥१९॥
8999. (१९,२३.२० ) एकर्चेभ्यः स्वाहा ॥२०॥
9000. (१९,२३.२१ ) क्षुद्रेभ्यः स्वाहा ॥२१॥
9001. (१९,२३.२२ ) एकानृचेभ्यः स्वाहा ॥२२॥
9002. (१९,२३.२३ ) रोहितेभ्यः स्वाहा ॥२३॥
9003. (१९,२३.२४ ) सूर्याभ्यां स्वाहा ॥२४॥
9004. (१९,२३.२५ ) व्रात्याभ्यां स्वाहा ॥२५॥
9005. (१९,२३.२६ ) प्राजापत्याभ्यां स्वाहा ॥२६॥
9006. (१९,२३.२७ ) विषासह्यै स्वाहा ॥२७॥
9007. (१९,२३.२८ ) मङ्गलिकेभ्यः स्वाहा ॥२८॥
9008. (१९,२३.२९ ) ब्रह्मणे स्वाहा ॥२९॥
9009. (१९,२३.३० ) ब्रह्मज्येष्ठा संभृता वीर्याणि ब्रह्माग्रे ज्येष्ठं दिवमा ततान ।
9010. (१९,२३.३० ) भूतानां ब्रह्मा प्रथमोत जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः ॥३०॥
9011. (१९,२४.१ ) येन देवं सवितारं परि देवा अधारयन् ।
9012. (१९,२४.१ ) तेनेमं ब्रह्मणस्पते परि राष्ट्राय धत्तन ॥१॥
9013. (१९,२४.२ ) परीममिन्द्रमायुषे महे क्षत्राय धत्तन ।
9014. (१९,२४.२ ) यथैनं जरसे नयाज्ज्योक्क्षत्रेऽधि जागरत्॥२॥
9015. (१९,२४.३ ) परीममिन्द्रमायुषे महे श्रोत्राय धत्तन ।
9016. (१९,२४.३ ) यथैनं जरसे नयाज्ज्योक्श्रोत्रेऽधि जागरत्॥३॥
9017. (१९,२४.४ ) परि धत्त धत्त नो वर्चसेमं जरामृत्युं कृणुत दीर्घमायुः ।
9018. (१९,२४.४ ) बृहस्पतिः प्रायछद्वास एतत्सोमाय राज्ञे परिधातवा उ ॥४॥
9019. (१९,२४.५ ) जरां सु गछ परि धत्स्व वासो भवा गृष्टीनामभिशस्तिपा उ ।
9020. (१९,२४.५ ) शतं च जीव शरदः पुरूची रायश्च पोषमुपसंव्ययस्व ॥५॥
9021. (१९,२४.६ ) परीदं वासो अधिथाः स्वस्तयेऽभूर्वापीनामभिशस्तिपा उ ।
9022. (१९,२४.६ ) शतं च जीव शरदः पुरूचीर्वसूनि चारुर्वि भजासि जीवन् ॥६॥
9023. (१९,२४.७ ) योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
9024. (१९,२४.७ ) सखाय इन्द्रमूतये ॥७॥
9025. (१९,२४.८ ) हिरण्यवर्णो अजरः सुवीरो जरामृत्युः प्रजया सं विशस्व ।
9026. (१९,२४.८ ) तदग्निराह तदु सोम आह बृहस्पतिः सविता तदिन्द्रः ॥८॥
9027. (१९,२५.१ ) अश्रान्तस्य त्वा मनसा युनज्मि प्रथमस्य च ।
9028. (१९,२५.१ ) उत्कूलमुद्वहो भवोदुह्य प्रति धावतात्॥१॥
9029. (१९,२६.१ ) अग्नेः प्रजातं परि यद्धिरण्यममृतं दध्रे अधि मर्त्येषु ।
9030. (१९,२६.१ ) य एनद्वेद स इदेनमर्हति जरामृत्युर्भवति यो बिभर्ति ॥१॥
9031. (१९,२६.२ ) यद्धिरण्यं सूर्येण सुवर्णं प्रजावन्तो मनवः पूर्व ईषिरे ।
9032. (१९,२६.२ ) तत्त्वा चन्द्रं वर्चसा सं सृजत्यायुष्मान् भवति यो बिभर्ति ॥२॥
9033. (१९,२६.३ ) आयुषे त्वा वर्चसे त्वौजसे च बलाय च ।
9034. (१९,२६.३ ) यथा हिरण्यतेजसा विभासासि जनामनु ॥३॥
9035. (१९,२६.४ ) यद्वेद राजा वरुणो वेद देवो बृहस्पतिः ।
9036. (१९,२६.४ ) इन्द्रो यद्वृत्रहा वेद तत्त आयुष्यं भुवत्तत्ते वर्चस्यं भुवत्॥४॥
9037. (१९,२७.१ ) गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।
9038. (१९,२७.१ ) वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥१॥
9039. (१९,२७.२ ) सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः ।
9040. (१९,२७.२ ) माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥
9041. (१९,२७.३ ) तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।
9042. (१९,२७.३ ) त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥
9043. (१९,२७.४ ) त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।
9044. (१९,२७.४ ) त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥
9045. (१९,२७.५ ) घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् ।
9046. (१९,२७.५ ) अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥
9047. (१९,२७.६ ) मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।
9048. (१९,२७.६ ) भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥
9049. (१९,२७.७ ) प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः ।
9050. (१९,२७.७ ) प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥
9051. (१९,२७.८ ) आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः ।
9052. (१९,२७.८ ) प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥८॥
9053. (१९,२७.९ ) देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः ।
9054. (१९,२७.९ ) आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥
9055. (१९,२७.१० ) त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः ।
9056. (१९,२७.१० ) अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥१०॥
9057. (१९,२७.११ ) ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥११॥
9058. (१९,२७.१२ ) ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१२॥
9059. (१९,२७.१३ ) ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१३॥
9060. (१९,२७.१४ ) असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
9061. (१९,२७.१४ ) सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥
9062. (१९,२७.१५ ) दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।
9063. (१९,२७.१५ ) इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यछताम् ।
9064. (१९,२७.१५ ) तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥
9065. (१९,२८.१ ) इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।
9066. (१९,२८.१ ) दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥१॥
9067. (१९,२८.२ ) द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः ।
9068. (१९,२८.२ ) दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥२॥
9069. (१९,२८.३ ) घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।
9070. (१९,२८.३ ) हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥३॥
9071. (१९,२८.४ ) भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।
9072. (१९,२८.४ ) उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥४॥
9073. (१९,२८.५ ) भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।
9074. (१९,२८.५ ) भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥५॥
9075. (१९,२८.६ ) छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।
9076. (१९,२८.६ ) छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥६॥
9077. (१९,२८.७ ) वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।
9078. (१९,२८.७ ) वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥७॥
9079. (१९,२८.८ ) कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।
9080. (१९,२८.८ ) कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥८॥
9081. (१९,२८.९ ) पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।
9082. (१९,२८.९ ) पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥९॥
9083. (१९,२८.१० ) विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।
9084. (१९,२८.१० ) विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥१०॥
9085. (१९,२९.१ ) निक्ष दर्भ सपत्नान् मे निक्ष मे पृतनायतः ।
9086. (१९,२९.१ ) निक्ष मे सर्वान् दुर्हार्दो निक्ष मे द्विषतो मणे ॥१॥
9087. (१९,२९.२ ) तृन्द्धि दर्भ सपत्नान् मे तृन्द्धि मे पृतनायतः ।
9088. (१९,२९.२ ) तृन्द्धि मे सर्वान् दुर्हार्दो तृन्द्धि मे द्विषतो मणे ॥२॥
9089. (१९,२९.३ ) रुन्द्धि दर्भ सपत्नान् मे रुन्द्धि मे पृतनायतः ।
9090. (१९,२९.३ ) रुन्द्धि मे सर्वान् दुर्हार्दो रुन्द्धि मे द्विषतो मणे ॥३॥
9091. (१९,२९.४ ) मृण दर्भ सपत्नान् मे मृण मे पृतनायतः ।
9092. (१९,२९.४ ) मृण मे सर्वान् दुर्हार्दो मृण मे द्विषतो मणे ॥४॥
9093. (१९,२९.५ ) मन्थ दर्भ सपत्नान् मे मन्थ मे पृतनायतः ।
9094. (१९,२९.५ ) मन्थ मे सर्वान् दुर्हार्दो मन्थ मे द्विषतो मणे ॥५॥
9095. (१९,२९.६ ) पिण्ड्ढि दर्भ सपत्नान् मे पिण्ड्ढि मे पृतनायतः ।
9096. (१९,२९.६ ) पिण्ड्ढि मे सर्वान् दुर्हार्दो पिण्ड्ढि मे द्विषतो मणे ॥६॥
9097. (१९,२९.७ ) ओष दर्भ सपत्नान् मे ओष मे पृतनायतः ।
9098. (१९,२९.७ ) ओष मे सर्वान् दुर्हार्दो ओष मे द्विषतो मणे ॥७॥
9099. (१९,२९.८ ) दह दर्भ सपत्नान् मे दह मे पृतनायतः ।
9100. (१९,२९.८ ) दह मे सर्वान् दुर्हार्दो दह मे द्विषतो मणे ॥८॥
9101. (१९,२९.९ ) जहि दर्भ सपत्नान् मे जहि मे पृतनायतः ।
9102. (१९,२९.९ ) जहि मे सर्वान् दुर्हार्दो जहि मे द्विषतो मणे ॥९॥
9103. (१९,३०.१ ) यत्ते दर्भ जरामृत्यु शतं वर्मसु वर्म ते ।
9104. (१९,३०.१ ) तेनेमं वर्मिणं कृत्वा सपत्नां जहि वीर्यैः ॥१॥
9105. (१९,३०.२ ) शतं ते दर्भ वर्माणि सहस्रं वीर्याणि ते ।
9106. (१९,३०.२ ) तमस्मै विश्वे त्वां देवा जरसे भर्तवा अदुः ॥२॥
9107. (१९,३०.३ ) त्वामाहुर्देववर्म त्वां दर्भ ब्रह्मणस्पतिम् ।
9108. (१९,३०.३ ) त्वामिन्द्रस्याहुर्वर्म त्वं राष्ट्राणि रक्षसि ॥३॥
9109. (१९,३०.४ ) सपत्नक्षयणं दर्भ द्विषतस्तपनं हृदः ।
9110. (१९,३०.४ ) मणिं क्षत्रस्य वर्धनं तनूपानं कृणोमि ते ॥४॥
9111. (१९,३०.५ ) यत्समुद्रो अभ्यक्रन्दत्पर्जन्यो विद्युता सह ।
9112. (१९,३०.५ ) ततो हिरन्ययो बिन्दुस्ततो दर्भो अजायत ॥५॥
9113. (१९,३१.१ ) औदुम्बरेण मणिना पुष्टिकामाय वेधसा ।
9114. (१९,३१.१ ) पशूणां सर्वेषां स्फातिं गोष्ठे मे सविता करत्॥१॥
9115. (१९,३१.२ ) यो नो अग्निर्गार्हपत्यः पशूनामधिपा असत्।
9116. (१९,३१.२ ) औदुम्बरो वृषा मणिः सं मा सृजतु पुष्ट्या ॥२॥
9117. (१९,३१.३ ) करीषिणीं फलवतीं स्वधामिरां च नो गृहे ।
9118. (१९,३१.३ ) औदुम्बरस्य तेजसा धाता पुष्टिं दधातु मे ॥३॥
9119. (१९,३१.४ ) यद्द्विपाच्च चतुष्पाच्च यान्यन्नानि ये रसाः ।
9120. (१९,३१.४ ) गृह्णेऽहं त्वेषां भूमानं बिभ्रदौदुम्बरं मणिम् ॥४॥
9121. (१९,३१.५ ) पुष्टिं पशूनां परि जग्रभाहं चतुष्पदां द्विपदां यच्च धान्यम् ।
9122. (१९,३१.५ ) पयः पशूनां रसमोषधीनां बृहस्पतिः सविता मे नि यछात्॥५॥
9123. (१९,३१.६ ) अहं पशूनामधिपा असानि मयि पुष्टं पुष्टपतिर्दधातु ।
9124. (१९,३१.६ ) मह्यमौदुम्बरो मणिर्द्रविणानि नि यछतु ॥६॥
9125. (१९,३१.७ ) उप मौदुम्बरो मणिः प्रजया च धनेन च ।
9126. (१९,३१.७ ) इन्द्रेण जिन्वितो मणिरा मागन्त्सह वर्चसा ॥७॥
9127. (१९,३१.८ ) देवो मणिः सपत्नहा धनसा धनसातये ।
9128. (१९,३१.८ ) पशोरन्नस्य भूमानं गवां स्फातिं नि यछतु ॥८॥
9129. (१९,३१.९ ) यथाग्रे त्वं वनस्पते पुष्ठ्या सह जज्ञिषे ।
9130. (१९,३१.९ ) एवा धनस्य मे स्फातिमा दधातु सरस्वती ॥९॥
9131. (१९,३१.१० ) आ मे धनं सरस्वती पयस्फातिं च धान्यम् ।
9132. (१९,३१.१० ) सिनीवाल्युपा वहादयं चौदुम्बरो मणिः ॥१०॥
9133. (१९,३१.११ ) त्वं मणीणामधिपा वृषासि त्वयि पुष्टं पुष्टपतिर्जजान ।
9134. (१९,३१.११ ) त्वयीमे वाजा द्रविणानि सर्वौदुम्बरः स त्वमस्मत्सहस्वारादारादरातिममतिं क्षुधं च ॥११॥
9135. (१९,३१.१२ ) ग्रामणीरसि ग्रामणीरुत्थाय अभिषिक्तोऽभि मा सिञ्च वर्चसा ।
9136. (१९,३१.१२ ) तेजोऽसि तेजो मयि धारयाधि रयिरसि रयिं मे धेहि ॥१२॥
9137. (१९,३१.१३ ) पुष्टिरसि पुष्ट्या मा समङ्ग्धि गृहमेधी गृहपतिं मा कृणु ।
9138. (१९,३१.१३ ) औदुम्बरः स त्वमस्मासु धेहि रयिं च नः सर्ववीरं नि यछ रायस्पोषाय प्रति मुञ्चे अहं त्वाम् ॥१३॥
9139. (१९,३१.१४ ) अयमौदुम्बरो मणिर्वीरो वीराय बध्यते ।
9140. (१९,३१.१४ ) स नः सनिं मधुमतीं कृणोतु रयिं च नः सर्ववीरं नि यछात्॥१४॥
9141. (१९,३२.१ ) शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।
9142. (१९,३२.१ ) दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥
9143. (१९,३२.२ ) नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।
9144. (१९,३२.२ ) यस्मा अछिन्नपर्णेन दर्भेन शर्म यछति ॥२॥
9145. (१९,३२.३ ) दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।
9146. (१९,३२.३ ) त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥
9147. (१९,३२.४ ) तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत ।
9148. (१९,३२.४ ) त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥
9149. (१९,३२.५ ) त्वमसि सहमानोऽहमस्मि सहस्वान् ।
9150. (१९,३२.५ ) उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥
9151. (१९,३२.६ ) सहस्व नो अभिमातिं सहस्व पृतनायतः ।
9152. (१९,३२.६ ) सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥
9153. (१९,३२.७ ) दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्।
9154. (१९,३२.७ ) तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥
9155. (१९,३२.८ ) प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।
9156. (१९,३२.८ ) यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥
9157. (१९,३२.९ ) यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च ।
9158. (१९,३२.९ ) यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥
9159. (१९,३२.१० ) सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव ।
9160. (१९,३२.१० ) स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥
9161. (१९,३३.१ ) सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् ।
9162. (१९,३३.१ ) स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥१॥
9163. (१९,३३.२ ) घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः ।
9164. (१९,३३.२ ) नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥
9165. (१९,३३.३ ) त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।
9166. (१९,३३.३ ) त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्॥३॥
9167. (१९,३३.४ ) तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।
9168. (१९,३३.४ ) ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥
9169. (१९,३३.५ ) दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।
9170. (१९,३३.५ ) अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥५॥
9171. (१९,३४.१ ) जाङ्गिडोऽसि जङ्गिडो रक्षितासि जङ्गिदः ।
9172. (१९,३४.१ ) द्विपाच्चतुष्पादस्माकं सर्वं रक्षतु जङ्गिदः ॥१॥
9173. (१९,३४.२ ) या गृत्स्यस्त्रिपञ्चाशीः शतं कृत्याकृतश्च ये ।
9174. (१९,३४.२ ) सर्वान् विनक्तु तेजसोऽरसां जङ्गिदस्करत्॥२॥
9175. (१९,३४.३ ) अरसं कृत्रिमं नादमरसाः सप्त विस्रसः ।
9176. (१९,३४.३ ) अपेतो जङ्गिडामतिमिषुमस्तेव शातय ॥३॥
9177. (१९,३४.४ ) कृत्यादूषण एवायमथो अरातिदूषणः ।
9178. (१९,३४.४ ) अथो सहस्वाञ्जङ्गिडः प्र न आयुम्षि तारिषत्॥४॥
9179. (१९,३४.५ ) स जङ्गिडस्य महिमा परि णः पातु विश्वतः ।
9180. (१९,३४.५ ) विष्कन्धं येन सासह संस्कन्धमोज ओजसा ॥५॥
9181. (१९,३४.६ ) त्रिष्ट्वा देवा अजनयन् निष्ठितं भूम्यामधि ।
9182. (१९,३४.६ ) तमु त्वाङ्गिरा इति ब्राह्मणाः पूर्व्या विदुः ॥६॥
9183. (१९,३४.७ ) न त्वा पूर्वा ओषधयो न त्वा तरन्ति या नवाः ।
9184. (१९,३४.७ ) विबाध उग्रो जङ्गिडः परिपाणः सुमङ्गलः ॥७॥
9185. (१९,३४.८ ) अथोपदान भगवो जाङ्गिडामितवीर्य ।
9186. (१९,३४.८ ) पुरा त उग्रा ग्रसत उपेन्द्रो वीर्यं ददौ ॥८॥
9187. (१९,३४.९ ) उग्र इत्ते वनस्पत इन्द्र ओज्मानमा दधौ ।
9188. (१९,३४.९ ) अमीवाः सर्वाश्चातयं जहि रक्षांस्योषधे ॥९॥
9189. (१९,३४.१० ) आशरीकं विशरीकं बलासं पृष्ट्यामयम् ।
9190. (१९,३४.१० ) तक्मानं विश्वशारदमरसां जङ्गिडस्करत्॥१०॥
9191. (१९,३५.१ ) इन्द्रस्य नाम गृह्णन्त ऋसयो जङ्गिदं ददुः ।
9192. (१९,३५.१ ) देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥१॥
9193. (१९,३५.२ ) स नो रक्षतु जङ्गिडो धनपालो धनेव ।
9194. (१९,३५.२ ) देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥२॥
9195. (१९,३५.३ ) दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् ।
9196. (१९,३५.३ ) तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥३॥
9197. (१९,३५.४ ) परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः ।
9198. (१९,३५.४ ) परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥४॥
9199. (१९,३५.५ ) य ऋष्णवो देवकृता य उतो ववृतेऽन्यः ।
9200. (१९,३५.५ ) सर्वां स्तान् विश्वभेषजोऽरसां जङ्गिडस्करत्॥५॥
9201. (१९,३६.१ ) शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।
9202. (१९,३६.१ ) आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥१॥
9203. (१९,३६.२ ) शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।
9204. (१९,३६.२ ) मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥२॥
9205. (१९,३६.३ ) ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।
9206. (१९,३६.३ ) सर्वां दुर्णामहा मणिः शतवारो अनीनशत्॥३॥
9207. (१९,३६.४ ) शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत्।
9208. (१९,३६.४ ) दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥४॥
9209. (१९,३६.५ ) हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।
9210. (१९,३६.५ ) दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत्॥५॥
9211. (१९,३६.६ ) शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।
9212. (१९,३६.६ ) शतं शश्वन्वतीनां शतवारेण वारये ॥६॥
9213. (१९,३७.१ ) इदं वर्चो अग्निना दत्तमागन् भर्गो यशः सह ओजो वयो बलम् ।
9214. (१९,३७.१ ) त्रयस्त्रिंशद्यानि च वीर्याणि तान्यग्निः प्र ददातु मे ॥१॥
9215. (१९,३७.२ ) वर्च आ धेहि मे तन्वां सह ओजो वयो बलम् ।
9216. (१९,३७.२ ) इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥२॥
9217. (१९,३७.३ ) ऊर्जे त्वा बलाय त्वौजसे सहसे त्वा ।
9218. (१९,३७.३ ) अभिभूयाय त्वा राष्ट्रभृत्याय पर्यूहामि शतशारदाय ॥३॥
9219. (१९,३७.४ ) ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।
9220. (१९,३७.४ ) धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥४॥
9221. (१९,३८.१ ) न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।
9222. (१९,३८.१ ) यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते ॥१॥
9223. (१९,३८.२ ) विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते ।
9224. (१९,३८.२ ) यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम् ॥२॥
9225. (१९,३८.३ ) उभयोरग्रभं नामास्मा अरिष्टतातये ॥३॥
9226. (१९,३९.१ ) ऐतु देवस्त्रायमाणः कुष्ठो हिमवतस्परि ।
9227. (१९,३९.१ ) तक्मानं सर्वं नाशय सर्वाश्च यातुधान्यः ॥१॥
9228. (१९,३९.२ ) त्रीणि ते कुष्ठ नामानि नद्यमारो नद्यारिषः ।
9229. (१९,३९.२ ) नद्यायं पुरुषो रिषत्।
9230. (१९,३९.२ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥२॥
9231. (१९,३९.३ ) जीवला नाम ते माता जीवन्तो नाम ते पिता ।
9232. (१९,३९.३ ) नद्यायं पुरुषो रिषत्।
9233. (१९,३९.३ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥३॥
9234. (१९,३९.४ ) उत्तमो अस्योषधीनामनड्वान् जगतामिव व्याघ्रः श्वपदामिव ।
9235. (१९,३९.४ ) नद्यायं पुरुषो रिषत्।
9236. (१९,३९.४ ) यस्मै परिब्रवीमि त्वा सायंप्रातरथो दिवा ॥४॥
9237. (१९,३९.५ ) त्रिः शाम्बुभ्यो अङ्गिरेभ्यस्त्रिरादित्येभ्यस्परि ।
9238. (१९,३९.५ ) त्रिर्जातो विश्वदेवेभ्यः ।
9239. (१९,३९.५ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
9240. (१९,३९.६ ) अश्वत्थो देवसदनस्तृतीयस्यामितो दिवि ।
9241. (१९,३९.६ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
9242. (१९,३९.६ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
9243. (१९,३९.७ ) हिरण्ययी नौरचरद्धिरण्यबन्धना दिवि ।
9244. (१९,३९.७ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
9245. (१९,३९.७ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
9246. (१९,३९.८ ) यत्र नावप्रभ्रंशनं यत्र हिमवतः शिरः ।
9247. (१९,३९.८ ) तत्रामृतस्य चक्षणं ततः कुष्ठो अजायत ।
9248. (१९,३९.८ ) स कुष्ठो विश्वभेषजः साकं सोमेन तिष्ठति ।
9249. (१९,३९.९ ) यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः ।
9250. (१९,३९.९ ) यं वा वसो यमात्स्यस्तेनासि विश्वभेषजः ॥९॥
9251. (१९,३९.१० ) शीर्षशोकं तृतीयकं सदंदिर्यश्च हायनः ।
9252. (१९,३९.१० ) तक्मानं विश्वधावीर्याधराञ्चं परा सुव ॥१०॥
9253. (१९,४०.१ ) यन् मे छिद्रं मनसो यच्च वाचः सरस्वती मन्युमन्तं जगाम ।
9254. (१९,४०.१ ) विश्वैस्तद्देवैः सह संविदानः सं दधातु बृहस्पतिः ॥१॥
9255. (१९,४०.२ ) मा न आपो मेधां मा ब्रह्म प्र मथिष्टन ।
9256. (१९,४०.२ ) सुष्यदा यूयं स्यन्दध्वमुपहूतोऽहं सुमेधा वर्चस्वी ॥२॥
9257. (१९,४०.३ ) मा नो मेधां मा नो दीक्षां मा नो हिंसिष्टं यत्तपः ।
9258. (१९,४०.३ ) शिवा नः शं सन्त्वायुषे शिवा भवन्तु मातरः ॥३॥
9259. (१९,४०.४ ) या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।
9260. (१९,४०.४ ) तामस्मे रासतामिषम् ॥४॥
9261. (१९,४१.१ ) भद्रमिछन्त ऋषयः स्वर्विदस्तपो दीक्षामुपनिषेदुरग्रे ।
9262. (१९,४१.१ ) ततो राष्ट्रं बलमोजश्च जातं तदस्मै देवा उपसंनमन्तु ॥१॥
9263. (१९,४२.१ ) ब्रह्म होता ब्रह्म यज्ञा ब्रह्मणा स्वरवो मिताः ।
9264. (१९,४२.१ ) अध्वर्युर्ब्रह्मणो जातो ब्रह्मणोऽन्तर्हितं हविः ॥१॥
9265. (१९,४२.२ ) ब्रह्म स्रुचो घृतवतीर्ब्रह्मणा वेदिरुद्धिता ।
9266. (१९,४२.२ ) ब्रह्म यज्ञस्य तत्त्वं च ऋत्विजो ये हविष्कृतः ।
9267. (१९,४२.२ ) शमिताय स्वाहा ॥२॥
9268. (१९,४२.३ ) अंहोमुचे प्र भरे मनीषामा सुत्राव्णे सुमतिमावृणानः ।
9269. (१९,४२.३ ) इममिन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥३॥
9270. (१९,४२.४ ) अंहोमुचं व्र्षभं यज्ञियानां विराजन्तं प्रथममध्वराणम् ।
9271. (१९,४२.४ ) अपां नपातमश्विना हुवे धिय इन्द्रियेण त इन्द्रियं दत्तमोजः ॥४॥
9272. (१९,४३.१ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
9273. (१९,४३.१ ) अग्निर्मा तत्र नयत्वग्निर्मेधा दधातु मे ।
9274. (१९,४३.१ ) अग्नये स्वाहा ॥१॥
9275. (१९,४३.२ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
9276. (१९,४३.२ ) वायुर्मा तत्र नयतु वायुः प्रणान् दधातु मे वायवे स्वाहा ॥२॥
9277. (१९,४३.३ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
9278. (१९,४३.३ ) सूर्यो मा तत्र नयतु चक्षुः सूर्यो दधातु मे ।
9279. (१९,४३.३ ) सूर्याय स्वाहा ॥३॥
9280. (१९,४३.४ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
9281. (१९,४३.४ ) चन्द्रो मा तत्र नयतु मनश्चन्द्रो दधातु मे ।
9282. (१९,४३.४ ) चन्द्राय स्वाहा ॥४॥
9283. (१९,४३.५ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
9284. (१९,४३.५ ) सोमो मा तत्र नयतु पयः सोमो दधातु मे ।
9285. (१९,४३.५ ) सोमाय स्वाहा ॥५॥
9286. (१९,४३.६ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
9287. (१९,४३.६ ) इन्द्रो मा तत्र नयतु बलमिन्द्रो दधातु मे ।
9288. (१९,४३.६ ) इन्द्राय स्वाहा ॥६॥
9289. (१९,४३.७ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
9290. (१९,४३.७ ) आपो मा तत्र नयत्वमृतं मोप तिष्ठतु ।
9291. (१९,४३.७ ) अद्भ्यः स्वाहा ॥७॥
9292. (१९,४३.८ ) यत्र ब्रह्मविदो यान्ति दीक्षया तपसा सह ।
9293. (१९,४३.८ ) ब्रह्मा मा तत्र नयतु ब्रह्मा ब्रह्म दधातु मे ।
9294. (१९,४३.८ ) ब्रह्मणे स्वाहा ॥८॥
9295. (१९,४४.१ ) आयुषोऽसि प्रतरणं विप्रं भेषजमुच्यसे ।
9296. (१९,४४.१ ) तदाञ्जन त्वं शंताते शमापो अभयं कृतम् ॥१॥
9297. (१९,४४.२ ) यो हरिमा जायान्योऽङ्गभेदो विषल्पकः ।
9298. (१९,४४.२ ) सर्वं ते यक्ष्ममङ्गेभ्यो बहिर्निर्हन्त्वाञ्जनम् ॥२॥
9299. (१९,४४.३ ) आञ्जनं पृथिव्यां जातं भद्रं पुरुषजीवनम् ।
9300. (१९,४४.३ ) कृणोत्वप्रमायुकं रथजूतिमनागसम् ॥३॥
9301. (१९,४४.४ ) प्राण प्राणं त्रायस्वासो असवे मृड ।
9302. (१९,४४.४ ) निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥४॥
9303. (१९,४४.५ ) सिन्धोर्गर्भोऽसि विद्युतां पुष्पम् ।
9304. (१९,४४.५ ) वातः प्राणः सूर्यश्चक्षुर्दिवस्पयः ॥५॥
9305. (१९,४४.६ ) देवाञ्जन त्रैककुद परि मा पाहि विश्वतः ।
9306. (१९,४४.६ ) न त्वा तरन्त्योषधयो बाह्याः पर्वतीया उत ॥६॥
9307. (१९,४४.७ ) वीदं मध्यमवासृपद्रक्षोहामीवचातनः ।
9308. (१९,४४.७ ) अमीवाः सर्वाश्चातयन् नाशयदभिभा इतः ॥७॥
9309. (१९,४४.८ ) बह्विदं राजन् वरुणानृतमाह पूरुषः ।
9310. (१९,४४.८ ) तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥८॥
9311. (१९,४४.९ ) यदापो अघ्न्या इति वरुणेति यदूचिम ।
9312. (१९,४४.९ ) तस्मात्सहस्रवीर्य मुञ्च नः पर्यंहसः ॥९॥
9313. (१९,४४.१० ) मित्रश्च त्वा वरुणश्चानुप्रेयतुराञ्जन ।
9314. (१९,४४.१० ) तौ त्वानुगत्य दूरं भोगाय पुनरोहतुः ॥१०॥
9315. (१९,४५.१ ) ऋणादृणमिव सं नय कृत्यां कृत्याकृतो गृहम् ।
9316. (१९,४५.१ ) चक्षुर्मन्त्रस्य दुर्हार्दः पृष्टीरपि शृणाञ्जन ॥१॥
9317. (१९,४५.२ ) यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ।
9318. (१९,४५.२ ) अनामगस्तं च दुर्हार्दः प्रियः प्रति मुञ्चताम् ॥२॥
9319. (१९,४५.३ ) अपामूर्ज ओजसो वावृधानमग्नेर्जातमधि जातवेदसः ।
9320. (१९,४५.३ ) चतुर्वीरं पर्वतीयं यदाञ्जनं दिशः प्रदिशः करदिच्छिवास्ते ॥३॥
9321. (१९,४५.४ ) चतुर्वीरं बध्यत आञ्जनं ते सर्वा दिशो अभयास्ते भवन्तु ।
9322. (१९,४५.४ ) ध्रुवस्तिष्ठासि सवितेव चार्य इमा विशो अभि हरन्तु ते बलिम् ॥४॥
9323. (१९,४५.५ ) आक्ष्वैकं मणिमेकं क्र्णुष्व स्नाह्येकेना पिबैकमेषाम् ।
9324. (१९,४५.५ ) चतुर्वीरं नैरृतेभ्यश्चतुर्भ्यो ग्राह्या बन्धेभ्यः परि पात्वस्मान् ॥५॥
9325. (१९,४५.६ ) अग्निर्माग्निनावतु प्राणायापानायायुषे वर्चस ओजसे ।
9326. (१९,४५.६ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥६॥
9327. (१९,४५.७ ) इन्द्रो मेन्द्रियेणावतु प्राणायापानायायुषे वर्चस ओजसे ।
9328. (१९,४५.७ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥७॥
9329. (१९,४५.८ ) सोमो मा सौम्येनावतु प्राणायापानायायुषे वर्चस ओजसे ।
9330. (१९,४५.८ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥८॥
9331. (१९,४५.९ ) भगो म भगेनावतु प्राणायापानायायुषे वर्चस ओजसे ।
9332. (१९,४५.९ ) तेजसे स्वस्तये सुभूतये स्वाहा ॥९॥
9333. (१९,४५.१० ) मरुतो मा गणैरवन्तु प्राणायापानायुषे वर्चस ओजसे तेजसे ।
9334. (१९,४५.१० ) स्वस्तये सुभूतये स्वाहा ॥१०॥
9335. (१९,४६.१ ) प्रजापतिष्ट्वा बध्नात्प्रथममस्तृतं वीर्याय कम् ।
9336. (१९,४६.१ ) तत्ते बध्नाम्यायुषे वर्चस ओजसे च बलाय चास्तृतस्त्वाभि रक्षतु ॥१॥
9337. (१९,४६.२ ) ऊर्ध्वस्तिष्ठतु रक्षन्न् अप्रमादमस्तृतेमं मा त्वा दभन् पणयो यातुधानाः ।
9338. (१९,४६.२ ) इन्द्र इव दस्यून् अव धूनुष्व पृतन्यतः सर्वां छत्रून् वि षहस्वास्तृतस्त्वाभि रक्षतु ॥२॥
9339. (१९,४६.३ ) शतं च न प्रहरन्तो निघ्नन्तो न तस्तिरे ।
9340. (१९,४६.३ ) तस्मिन्न् इन्द्रः पर्यदत्त चक्षुः प्राणमथो बलमस्तृतस्त्वाभि रक्षतु ॥३॥
9341. (१९,४६.४ ) इन्द्रस्य त्वा वर्मणा परि धापयामो यो देवानामधिराजो बभूव ।
9342. (१९,४६.४ ) पुनस्त्वा देवाः प्र णयन्तु सर्वेऽस्तृतस्त्वाभि रक्षतु ॥४॥
9343. (१९,४६.५ ) अस्मिन् मणावेकशतं वीर्याणि सहस्रं प्राणा अस्मिन्न् अस्तृते ।
9344. (१९,४६.५ ) व्याघ्रः शत्रून् अभि तिष्ठ सर्वान् यस्त्वा पृतन्यादधरः सो अस्त्वस्तृतस्त्वाभि रक्षतु ॥५॥
9345. (१९,४६.६ ) घृतादुल्लुप्तो मधुमान् पयस्वान्त्सहस्रप्राणः शतयोनिर्वयोधाः ।
9346. (१९,४६.६ ) शम्भूश्च मयोभूश्चोर्जस्वांश्च पयस्वांश्चास्तृतस्त्वाभि रक्षतु ॥६॥
9347. (१९,४६.७ ) यथा त्वमुत्तरोऽसो असपत्नः सपत्नहा ।
9348. (१९,४६.७ ) सजातानामसद्वशी तथा त्वा सविता करदस्तृतस्त्वाभि रक्षतु ॥७॥
9349. (१९,४७.१ ) आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः ।
9350. (१९,४७.१ ) दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥१॥
9351. (१९,४७.२ ) न यस्याः पारं ददृशे न योयुवद्विश्वमस्यां नि विशते यदेजति ।
9352. (१९,४७.२ ) अरिष्टासस्त उर्वि तमस्वति रात्रि पारमशीमहि भद्रे पारमशीमहि ॥२॥
9353. (१९,४७.३ ) ये ते रात्रि नृचक्षसो द्रष्टारो नवतिर्नव ।
9354. (१९,४७.३ ) अशीतिः सन्त्यष्टा उतो ते सप्त सप्ततिः ॥३॥
9355. (१९,४७.४ ) षष्टिश्च षट्च रेवति पञ्चाशत्पञ्च सुम्नयि ।
9356. (१९,४७.४ ) चत्वारश्चत्वारिंशच्च त्रयस्त्रिंशच्च वाजिनि ॥४॥
9357. (१९,४७.५ ) द्वौ च ते विंशतिश्च ते रात्र्येकादशावमाः ।
9358. (१९,४७.५ ) तेभिर्नो अद्य पायुभिर्नु पाहि दुहितर्दिवः ॥५॥
9359. (१९,४७.६ ) रक्षा माकिर्नो अघशंस ईशत मा नो दुःशंस ईशत ।
9360. (१९,४७.६ ) मा नो अद्य गवां स्तेनो मावीनां वृक ईशत ॥६॥
9361. (१९,४७.७ ) माश्वानां भद्रे तस्करो मा नृणां यातुधान्यः ।
9362. (१९,४७.७ ) परमेभिः पथिभि स्तेनो धावतु तस्करः ।
9363. (१९,४७.७ ) परेण दत्वती रज्जुः परेणाघायुरर्षतु ॥७॥
9364. (१९,४७.८ ) अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।
9365. (१९,४७.८ ) हनू वृकस्य जम्भया स्तेनं द्रुपदे जहि ॥८॥
9366. (१९,४७.९ ) त्वयि रात्रि वसामसि स्वपिष्यामसि जागृहि ।
9367. (१९,४७.९ ) गोभ्यो नः शर्म यछाश्वेभ्यः पुरुषेभ्यः ॥९॥
9368. (१९,४८.१ ) अथो यानि च यस्मा ह यानि चान्तः परीणहि ।
9369. (१९,४८.१ ) तानि ते परि दद्मसि ॥१॥
9370. (१९,४८.२ ) रात्रि मातरुषसे नः परि देहि ।
9371. (१९,४८.२ ) उषा नो अह्ने परि ददात्वहस्तुभ्यं विभावरि ॥२॥
9372. (१९,४८.३ ) यत्किं चेदं पतयति यत्किं चेदं सरीसृपम् ।
9373. (१९,४८.३ ) यत्किं च पर्वतायासत्वं तस्मात्त्वं रात्रि पाहि नः ॥३॥
9374. (१९,४८.४ ) सा पश्चात्पाहि सा पुरः सोत्तरादधरादुत ।
9375. (१९,४८.४ ) गोपाय नो विभावरि स्तोतारस्त इह स्मसि ॥४॥
9376. (१९,४८.५ ) ये रात्रिमनुतिष्ठन्ति ये च भूतेषु जाग्रति ।
9377. (१९,४८.५ ) पशून् ये सर्वान् रक्षन्ति ते न आत्मसु जाग्रति ते नः पशुषु जाग्रति ॥५॥
9378. (१९,४८.६ ) वेद वै रात्रि ते नाम घृताची नाम वा असि ।
9379. (१९,४८.६ ) तां त्वां भरद्वाजो वेद सा नो वित्तेऽधि जाग्रति ॥६॥
9380. (१९,४९.१ ) इषिरा योषा युवतिर्दमूना रात्री देवस्य सवितुर्भगस्य ।
9381. (१९,४९.१ ) अश्वक्षभा सुहवा संभृतश्रीरा पप्रौ द्यावापृथिवी महित्वा ॥१॥
9382. (१९,४९.२ ) अति विश्वान्यरुहद्गम्भिरो वर्षिष्ठमरुहन्त श्रविष्ठाः ।
9383. (१९,४९.२ ) उशती रात्र्यनु सा भद्राभि तिष्ठते मित्र इव स्वधाभिः ॥२॥
9384. (१९,४९.३ ) वर्ये वन्दे सुभगे सुजात आजगन् रात्रि सुमना इह स्याम् ।
9385. (१९,४९.३ ) अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ट्या ॥३॥
9386. (१९,४९.४ ) सिंहस्य रात्र्युशती पींषस्य व्याघ्रस्य द्वीपिनो वर्च आ ददे ।
9387. (१९,४९.४ ) अश्वस्य ब्रध्नं पुरुषस्य मायुं पुरु रूपाणि कृणुषे विभाती ॥४॥
9388. (१९,४९.५ ) शिवां रात्रिमनुसूर्यं च हिमस्य माता सुहवा नो अस्तु ।
9389. (१९,४९.५ ) अस्य स्तोमस्य सुभगे नि बोध येन त्वा वन्दे विश्वासु दिक्षु ॥५॥
9390. (१९,४९.६ ) स्तोमस्य नो विभावरि रात्रि राजेव जोषसे ।
9391. (१९,४९.६ ) असाम सर्ववीरा भवाम सर्ववेदसो व्युछन्तीरनूषसः ॥६॥
9392. (१९,४९.७ ) शम्या ह नाम दधिषे मम दिप्सन्ति ये धना ।
9393. (१९,४९.७ ) रात्रीहि तान् असुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥७॥
9394. (१९,४९.८ ) भद्रासि रात्रि चमसो न विष्टो विष्वङ्गोरूपं युवतिर्बिभर्षि ।
9395. (१९,४९.८ ) चक्षुष्मती मे उशती वपूम्षि प्रति त्वं दिव्या न क्षाममुक्थाः ॥८॥
9396. (१९,४९.९ ) यो अद्य स्तेन आयत्यघायुर्मर्त्यो रिपुः ।
9397. (१९,४९.९ ) रात्री तस्य प्रतीत्य प्र ग्रीवाः प्र शिरो हनत्॥९॥
9398. (१९,४९.१० ) प्र पादौ न यथायति प्र हस्तौ न यथाशिषत्।
9399. (१९,४९.१० ) यो मलिम्लुरुपायति स संपिष्टो अपायति ।
9400. (१९,४९.१० ) अपायति स्वपायति शुष्के स्थाणावपायति ॥१०॥
9401. (१९,५०.१ ) अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु ।
9402. (१९,५०.१ ) अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥१॥
9403. (१९,५०.२ ) ये ते रात्र्यनड्वाहस्तीक्ष्णशृङ्गाः स्वाशवः ।
9404. (१९,५०.२ ) तेभिर्नो अद्य पारयाति दुर्गाणि विश्वहा ॥२॥
9405. (१९,५०.३ ) रात्रिंरात्रिमरिष्यन्तस्तरेम तन्वा वयम् ।
9406. (१९,५०.३ ) गम्भीरमप्लवा इव न तरेयुररातयः ॥३॥
9407. (१९,५०.४ ) यथा शाम्याकः प्रपतन्न् अपवान् नानुविद्यते ।
9408. (१९,५०.४ ) एवा रात्रि प्र पातय यो अस्मामभ्यघायति ॥४॥
9409. (१९,५०.५ ) अप स्तेनं वासयो गोअजमुत तस्करम् ।
9410. (१९,५०.५ ) अथो यो अर्वतः शिरोऽभिधाय निनीषति ॥५॥
9411. (१९,५०.६ ) यदद्य रात्रि सुभगे विभजन्त्ययो वसु ।
9412. (१९,५०.६ ) यदेतदस्मान् भोजय यथेदन्यान् उपायसि ॥६॥
9413. (१९,५०.७ ) उषसे नः परि देहि सर्वान् रात्र्यनागसः ।
9414. (१९,५०.७ ) उषा नो अह्ने आ भजादहस्तुभ्यं विभावरि ॥७॥
9415. (१९,५१.१ ) अयुतोऽहमयुतो म आत्मायुतं मे चक्षुरयुतं मे श्रोत्रम् ।
9416. (१९,५१.१ ) अयुतो मे प्राणोऽयुतो मेऽपानोऽयुतो मे व्यानोऽयुतोऽहं सर्वः ॥१॥
9417. (१९,५१.२ ) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूत आ रभे ॥२॥
9418. (१९,५२.१ ) कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्।
9419. (१९,५२.१ ) स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि ॥१॥
9420. (१९,५२.२ ) त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।
9421. (१९,५२.२ ) त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि ॥२॥
9422. (१९,५२.३ ) दूराच्चकमानाय प्रतिपाणायाक्षये ।
9423. (१९,५२.३ ) आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः ॥३॥
9424. (१९,५२.४ ) कामेन मा काम आगन् हृदयाद्धृदयं परि ।
9425. (१९,५२.४ ) यदमीषामदो मनस्तदैतूप मामिह ॥४॥
9426. (१९,५२.५ ) यत्काम कामयमाना इदं कृण्मसि ते हविः ।
9427. (१९,५२.५ ) तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा ॥५॥
9428. (१९,५३.१ ) कालो अश्वो वहति सप्तरश्मिः सहस्राक्षो अजरो भूरिरेताः ।
9429. (१९,५३.१ ) तमा रोहन्ति कवयो विपश्चितस्तस्य चक्रा भुवनानि विश्वा ॥१॥
9430. (१९,५३.२ ) सप्त चक्रान् वहति काल एष सप्तास्य नाभीरमृतं न्वक्षः ।
9431. (१९,५३.२ ) स इमा विश्वा भुवनान्यञ्जत्कालः स ईयते प्रथमो नु देवः ॥२॥
9432. (१९,५३.३ ) पूर्णः कुम्भोऽधि काल आहितस्तं वै पश्यामो बहुधा नु सन्तम् ।
9433. (१९,५३.३ ) स इमा विश्वा भुवनानि प्रत्यङ्कालं तमाहुः परमे व्योमन् ॥३॥
9434. (१९,५३.४ ) स एव सं भुवनान्याभरत्स एव सं भुवनानि पर्यैत्।
9435. (१९,५३.४ ) पिता सन्न् अभवत्पुत्र एषां तस्माद्वै नान्यत्परमस्ति तेजः ॥४॥
9436. (१९,५३.५ ) कालोऽमूं दिवमजनयत्काल इमाः पृथिवीरुत ।
9437. (१९,५३.५ ) काले ह भूतं भव्यं चेषितं ह वि तिष्ठते ॥५॥
9438. (१९,५३.६ ) कालो भूतिमसृजत काले तपति सूर्यः ।
9439. (१९,५३.६ ) काले ह विश्वा भूतानि काले चक्षुर्वि पश्यति ॥६॥
9440. (१९,५३.७ ) काले मनः काले प्राणः काले नाम समाहितम् ।
9441. (१९,५३.७ ) कालेन सर्वा नन्दन्त्यागतेन प्रजा इमाः ॥७॥
9442. (१९,५३.८ ) काले तपः काले ज्येष्ठं काले ब्रह्म समाहितम् ।
9443. (१९,५३.८ ) कालो ह सर्वस्येश्वरो यः पितासीत्प्रजापतेः ॥८॥
9444. (१९,५३.९ ) तेनेषितं तेन जातं तदु तस्मिन् प्रतिष्ठितम् ।
9445. (१९,५३.९ ) कालो ह ब्रह्म भूत्वा बिभर्ति परमेष्ठिनम् ॥९॥
9446. (१९,५३.१० ) कालः प्रजा असृजत कालो अग्रे प्रजापतिम् ।
9447. (१९,५३.१० ) स्वयंभूः कश्यपः कालात्तपः कालादजायत ॥१०॥
9448. (१९,५४.१ ) कालादापः समभवन् कालाद्ब्रह्म तपो दिशः ।
9449. (१९,५४.१ ) कालेनोदेति सूर्यः काले नि विशते पुनः ॥१॥
9450. (१९,५४.२ ) कालेन वातः पवते कालेन पृथिवी मही ।
9451. (१९,५४.२ ) द्यौर्मही काल आहिता ॥२॥
9452. (१९,५४.३ ) कालो ह भूतं भव्यं च पुत्रो अजनयत्पुरा ।
9453. (१९,५४.३ ) कालादृचः समभवन् यजुः कालादजायत ॥३॥
9454. (१९,५४.४ ) कालो यज्ञं समैरयद्देवेभ्यो भागमक्षितम् ।
9455. (१९,५४.४ ) काले गन्धर्वाप्सरसः काले लोकाः प्रतिष्ठिताः ॥४॥
9456. (१९,५४.५ ) कालेऽयमङ्गिरा देवोऽथर्वा चाधि तिष्ठतः ।
9457. (१९,५४.५ ) इमं च लोकं परमं च लोकं पुण्यांश्च लोकान् विधृतीश्च पुण्याः ।
9458. (१९,५४.५ ) सर्वांल्लोकान् अभिजित्य ब्रह्मणा कालः स ईयते परमो नु देवः ॥५॥
9459. (१९,५५.१ ) रात्रिंरात्रिमप्रयातं भरन्तोऽश्वायेव तिष्ठते घासमस्मै ।
9460. (१९,५५.१ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥१॥
9461. (१९,५५.२ ) या ते वसोर्वात इषुः सा त एषा तया नो मृड ।
9462. (१९,५५.२ ) रायस्पोषेण समिषा मदन्तो मा ते अग्ने प्रतिवेशा रिषाम ॥२॥
9463. (१९,५५.३ ) सायंसायं गृहपतिर्नो अग्निः प्रातःप्रातः सौमनसस्य दाता ।
9464. (१९,५५.३ ) वसोर्वसोर्वसुदान एधि वयं त्वेन्धानास्तन्वं पुषेम ॥३॥
9465. (१९,५५.४ ) प्रातःप्रातर्गृहपतिर्नो अग्निः सायंसायं सौमनसस्य दाता ।
9466. (१९,५५.४ ) वसोर्वसोर्वसुदान एधीन्धानास्त्वा शतंहिमा ऋधेम ॥४॥
9467. (१९,५५.५ ) अपश्चा दग्धान्नस्य भूयासम् ।
9468. (१९,५५.५ ) अन्नादायान्नपतये रुद्राय नमो अग्नये ।
9469. (१९,५५.५ ) सभ्यः सभां मे पाहि ये च सभ्याः सभासदः ॥५॥
9470. (१९,५५.६ ) त्वामिन्द्रा पुरुहूत विश्वमायुर्व्यश्नवन् ।
9471. (१९,५५.६ ) अहरहर्बलिमित्ते हरन्तोऽश्वायेव तिष्ठते घासमग्ने ॥६॥
9472. (१९,५६.१ ) यमस्य लोकादध्या बभूविथ प्रमदा मर्त्यान् प्र युनक्षि धीरः ।
9473. (१९,५६.१ ) एकाकिना सरथं यासि विद्वान्त्स्वप्नं मिमानो असुरस्य योनौ ॥१॥
9474. (१९,५६.२ ) बन्धस्त्वाग्रे विश्वचया अपश्यत्पुरा रात्र्या जनितोरेके अह्नि ।
9475. (१९,५६.२ ) ततः स्वप्नेदमध्या बभूविथ भिषग्भ्यो रूपमपगूहमानः ॥२॥
9476. (१९,५६.३ ) बृहद्गावासुरेभ्योऽधि देवान् उपावर्तत महिमानमिछन् ।
9477. (१९,५६.३ ) तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥३॥
9478. (१९,५६.४ ) नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम् ।
9479. (१९,५६.४ ) त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥४॥
9480. (१९,५६.५ ) यस्य क्रूरमभजन्त दुष्कृतोऽस्वप्नेन सुकृतः पुण्यमायुः ।
9481. (१९,५६.५ ) स्वर्मदसि परमेण बन्धुना तप्यमानस्य मनसोऽधि जज्ञिषे ॥५॥
9482. (१९,५६.६ ) विद्म ते सर्वाः परिजाः पुरस्ताद्विद्म स्वप्न यो अधिपा इहा ते ।
9483. (१९,५६.६ ) यशश्विनो नो यशसेह पाह्याराद्द्विषेभिरप याहि दूरम् ॥६॥
9484. (१९,५७.१ ) यथा कलां यथा शफं यथा र्णं सन्नयन्ति ।
9485. (१९,५७.१ ) एवा दुष्वप्न्यं सर्वमप्रिये सं नयामसि ॥१॥
9486. (१९,५७.२ ) सं राजानो अगुः समृणाम्यगुः सं कुष्ठा अगुः सं कला अगुः ।
9487. (१९,५७.२ ) समस्मासु यद्दुष्वप्न्यं निर्द्विषते दुष्वप्न्यं सुवाम ॥२॥
9488. (१९,५७.३ ) देवानां पत्नीनां गर्भ यमस्य कर यो भद्रः स्वप्न ।
9489. (१९,५७.३ ) स मम यः पापस्तद्द्विषते प्र हिण्मः ।
9490. (१९,५७.३ ) मा तृष्टानामसि कृष्णशकुनेर्मुखम् ॥३॥
9491. (१९,५७.४ ) तं त्वा स्वप्न तथा सं विद्म स त्वं स्वप्नाश्व इव कायमश्व इव नीनाहम् ।
9492. (१९,५७.४ ) अनास्माकं देवपीयुं पियारुं वप यदस्मासु दुष्वप्न्यं यद्गोषु यच्च नो गृहे ॥४॥
9493. (१९,५७.५ ) अनास्माकस्तद्देवपीयुः पियारुर्निष्कमिव प्रति मुञ्चताम् ।
9494. (१९,५७.५ ) नवारत्नीन् अपमया अस्माकं ततः परि ।
9495. (१९,५७.५ ) दुष्वप्न्यं सर्वं द्विषते निर्दयामसि ॥५॥
9496. (१९,५८.१ ) घृतस्य जूतिः समना सदेवा संवत्सरं हविषा वर्धयन्ती ।
9497. (१९,५८.१ ) श्रोत्रं चक्षुः प्राणोऽछिन्नो नो अस्त्वछिन्ना वयमायुषो वर्चसः ॥१॥
9498. (१९,५८.२ ) उपास्मान् प्राणो ह्वयतामुप प्राणं हवामहे ।
9499. (१९,५८.२ ) वर्चो जग्राह पृथिव्यन्तरिक्षं वर्चः सोमो बृहस्पतिर्विधत्ता ॥२॥
9500. (१९,५८.३ ) वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम ।
9501. (१९,५८.३ ) यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥३॥
9502. (१९,५८.४ ) व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।
9503. (१९,५८.४ ) पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहत तम् ॥४॥
9504. (१९,५८.५ ) यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि ।
9505. (१९,५८.५ ) इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥५॥
9506. (१९,५८.६ ) ये देवानामृत्विजो ये च यज्ञिया येभ्यो हव्यं क्रियते भागधेयम् ।
9507. (१९,५८.६ ) इमं यज्ञं सह पत्नीभिरेत्य यावन्तो देवास्तविषा मादयन्ताम् ॥६॥
9508. (१९,५९.१ ) त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
9509. (१९,५९.१ ) त्वं यज्ञेष्वीड्यः ॥१॥
9510. (१९,५९.२ ) यद्वो वयं प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः ।
9511. (१९,५९.२ ) अग्निष्टद्विश्वादा पृणातु विद्वान्त्सोमस्य यो ब्राह्मणामाविवेश ॥२॥
9512. (१९,५९.३ ) आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् ।
9513. (१९,५९.३ ) अग्निर्विद्वान्त्स यजात्स इद्धोता सोऽध्वरान्त्स ऋतून् कल्पयाति ॥३॥
9514. (१९,६०.१ ) वाङ्म आसन् नसोः प्राणश्चक्षुरक्ष्णोः श्रोत्रं कर्णयोः ।
9515. (१९,६०.१ ) अपलिताः केशा अशोणा दन्ता बहु बाह्वोर्बलम् ॥१॥
9516. (१९,६०.२ ) ऊर्वोरोजो जङ्घयोर्जवः पादयोः ।
9517. (१९,६०.२ ) प्रतिष्ठा अरिष्टानि मे सर्वात्मानिभृष्टः ॥२॥
9518. (१९,६१.१ ) तनूस्तन्वा मे सहे दतः सर्वमायुरशीय ।
9519. (१९,६१.१ ) स्योनं मे सीद पुरुः पृणस्व पवमानः स्वर्गे ॥१॥
9520. (१९,६२.१ ) प्रियं मा कृणु देवेषु प्रियं राजसु मा कृणु ।
9521. (१९,६२.१ ) प्रियं सर्वस्य पश्यत उत शूद्र उतार्ये ॥१॥
9522. (१९,६३.१ ) उत्तिष्ठ ब्रह्मणस्पते देवान् यज्ञेन बोधय ।
9523. (१९,६३.१ ) आयुः प्राणं प्रजां पशून् कीर्तिं यजमानं च वर्धय ॥१॥
9524. (१९,६४.१ ) अग्ने समिधमाहार्षं बृहते जातवेदसे ।
9525. (१९,६४.१ ) स मे श्रद्धां च मेधां च जातवेदाः प्र यछतु ॥१॥
9526. (१९,६४.२ ) इध्मेन त्वा जातवेदः समिधा वर्धयामसि ।
9527. (१९,६४.२ ) तथा त्वमस्मान् वर्धय प्रजया च धनेन च ॥२॥
9528. (१९,६४.३ ) यदग्ने यानि कानि चिदा ते दारूणि दध्मसि ।
9529. (१९,६४.३ ) सर्वं तदस्तु मे शिवं तज्जुषस्व यविष्ठ्य ॥३॥
9530. (१९,६४.४ ) एतास्ते अग्ने समिधस्त्वमिद्धः समिद्भव ।
9531. (१९,६४.४ ) आयुरस्मासु धेह्यमृतत्वमाचार्याय ॥४॥
9532. (१९,६५.१ ) हरिः सुपर्णो दिवमारुहोऽर्चिषा ये त्वा दिप्सन्ति दिवमुत्पतन्तम् ।
9533. (१९,६५.१ ) अव तां जहि हरसा जातवेदोऽबिभ्यदुग्रोऽर्चिषा दिवमा रोह सूर्य ॥१॥
9534. (१९,६६.१ ) अयोजाला असुरा मायिनोऽयस्मयैः पाशैरङ्किनो ये चरन्ति ।
9535. (१९,६६.१ ) तांस्ते रन्धयामि हरसा जातवेदः सहस्रऋष्टिः सपत्नान् प्रमृणन् पाहि वज्रः ॥१॥
9536. (१९,६७.१ ) पश्येम शरदः शतम् ॥१॥
9537. (१९,६७.२ ) जीवेम शरदः शतम् ॥२॥
9538. (१९,६७.३ ) बुध्येम शरदः शतम् ॥३॥
9539. (१९,६७.४ ) रोहेम शरदः शतम् ॥४॥
9540. (१९,६७.५ ) पूषेम शरदः शतम् ॥५॥
9541. (१९,६७.६ ) भवेम शरदः शतम् ॥६॥
9542. (१९,६७.७ ) भूषेम शरदः शतम् ॥७॥
9543. (१९,६७.८ ) भूयसीः शरदः शतम् ॥८॥
9544. (१९,६८.१ ) अव्यसश्च व्यचसश्च बिलं वि ष्यामि मायया ।
9545. (१९,६८.१ ) ताभ्यामुद्धृत्य वेदमथ कर्माणि कृण्महे ॥१॥
9546. (१९,६९.१ ) जीवा स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥१॥
9547. (१९,६९.२ ) उपजीवा स्थोप जीव्यासं सर्वमायुर्जीव्यासम् ॥२॥
9548. (१९,६९.३ ) संजीवा स्थ सं जीव्यासं सर्वमायुर्जीव्यासम् ॥३॥
9549. (१९,६९.४ ) जीवला स्थ जीव्यासं सर्वमायुर्जीव्यासम् ॥४॥
9550. (१९,७०.१ ) इन्द्र जीव सूर्य जीव देवा जीवा जीव्यासमहम् ।
9551. (१९,७०.१ ) सर्वमायुर्जीव्यासम् ॥१॥
9552. (१९,७१.१ ) स्तुता मया वरदा वेदमाता प्र चोदयन्तां पावमानी द्विजानाम् ।
9553. (१९,७१.१ ) आयुः प्राणं प्रजां पशुं कीर्तिं द्रविणं ब्रह्मवर्चसम् ।
9554. (१९,७१.१ ) मह्यं दत्त्वा व्रजत ब्रह्मलोकम् ॥१॥
9555. (१९,७२.१ ) यस्मात्कोशादुदभराम वेदं तस्मिन्न् अन्तरव दध्म एनम् ।
9556. (१९,७२.१ ) कृतमिष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह ॥१॥
9557. (२०,१.१ ) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
9558. (२०,१.१ ) स पाहि मध्वो अन्धसः ॥१॥
9559. (२०,१.२ ) मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
9560. (२०,१.२ ) स सुगोपातमो जनः ॥२॥
9561. (२०,१.३ ) उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
9562. (२०,१.३ ) स्तोमैर्विधेमाग्नये ॥३॥
9563. (२०,२.१ ) मरुतः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबन्तु ॥१॥
9564. (२०,२.२ ) अग्निराग्नीध्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥२॥
9565. (२०,२.३ ) इन्द्रो ब्रह्मा ब्राह्मणात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥३॥
9566. (२०,२.४ ) देवो द्रविणोदाः पोत्रात्सुष्टुभः स्वर्कादृतुना सोमं पिबतु ॥४॥
9567. (२०,३.१ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
9568. (२०,३.१ ) एदं बर्हिः सदो मम ॥१॥
9569. (२०,३.२ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
9570. (२०,३.२ ) उप ब्रह्माणि नः शृणु ॥२॥
9571. (२०,३.३ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
9572. (२०,३.३ ) सुतावन्तो हवामहे ॥३॥
9573. (२०,४.१ ) आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।
9574. (२०,४.१ ) पिबा सु शिप्रिन्न् अन्धसः ॥१॥
9575. (२०,४.२ ) आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।
9576. (२०,४.२ ) गृभाय जिह्वया मधु ॥२॥
9577. (२०,४.३ ) स्वादुष्टे अस्तु संसुदे मधुमान् तन्वे तव ।
9578. (२०,४.३ ) सोमः शमस्तु ते हृदे ॥३॥
9579. (२०,५.१ ) अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
9580. (२०,५.१ ) प्र सोम इन्द्र सर्पतु ॥१॥
9581. (२०,५.२ ) तुविग्रीवो वपोदरः सुबाहुरन्धसो सदे ।
9582. (२०,५.२ ) इन्द्रो वृत्राणि जिघ्नते ॥२॥
9583. (२०,५.३ ) इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
9584. (२०,५.३ ) वृत्राणि वृत्रहं जहि ॥३॥
9585. (२०,५.४ ) दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयछसि ।
9586. (२०,५.४ ) यजमानाय सुन्वते ॥४॥
9587. (२०,५.५ ) अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
9588. (२०,५.५ ) एहीमस्य द्रवा पिब ॥५॥
9589. (२०,५.६ ) शाचिगो शाचिपूजनायं रणाय ते सुतः ।
9590. (२०,५.६ ) आखण्डल प्र हूयसे ॥६॥
9591. (२०,५.७ ) यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
9592. (२०,५.७ ) न्यस्मिन् दध्र आ मनः ॥७॥
9593. (२०,६.१ ) इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
9594. (२०,६.१ ) स पाहि मध्वो अन्धसः ॥१॥
9595. (२०,६.२ ) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
9596. (२०,६.२ ) पिबा वृषस्व तातृपिम् ॥२॥
9597. (२०,६.३ ) इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिर्।
9598. (२०,६.३ ) तिर स्तवान विश्पते ॥३॥
9599. (२०,६.४ ) इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
9600. (२०,६.४ ) क्षयं चन्द्रास इन्दवः ॥४॥
9601. (२०,६.५ ) दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।
9602. (२०,६.५ ) तव द्युक्षास इन्दवः ॥५॥
9603. (२०,६.६ ) गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
9604. (२०,६.६ ) इन्द्र त्वादातमिद्यशः ॥६॥
9605. (२०,६.७ ) अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
9606. (२०,६.७ ) पीत्वी सोमस्य वावृधे ॥७॥
9607. (२०,६.८ ) अर्वावतो न आ गहि परावतश्च वृत्रहन् ।
9608. (२०,६.८ ) इमा जुषस्व नो गिरः ॥८॥
9609. (२०,६.९ ) यदन्तरा परावतमर्वावतं च हूयसे ।
9610. (२०,६.९ ) इन्द्रेह तत आ गहि ॥९॥
9611. (२०,७.१ ) उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
9612. (२०,७.१ ) अस्तारमेषि सूर्य ॥१॥
9613. (२०,७.२ ) नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
9614. (२०,७.२ ) अहिं च वृत्रहावधीत्॥२॥
9615. (२०,७.३ ) स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत्।
9616. (२०,७.३ ) उरुधारेव दोहते ॥३॥
9617. (२०,७.४ ) इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
9618. (२०,७.४ ) पिबा वृषस्व तातृपिम् ॥४॥
9619. (२०,८.१ ) एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।
9620. (२०,८.१ ) आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥१॥
9621. (२०,८.२ ) अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
9622. (२०,८.२ ) उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥२॥
9623. (२०,८.३ ) आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिषिचे पिबध्यै ।
9624. (२०,८.३ ) समु प्रिया आववृत्रन् मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥३॥
9625. (२०,९.१ ) तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
9626. (२०,९.१ ) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
9627. (२०,९.२ ) द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
9628. (२०,९.२ ) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
9629. (२०,९.३ ) तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
9630. (२०,९.३ ) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥३॥
9631. (२०,९.४ ) येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
9632. (२०,९.४ ) सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥४॥
9633. (२०,१०.१ ) उदु ते मधुमत्तमा गिर स्तोमास ईरते ।
9634. (२०,१०.१ ) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
9635. (२०,१०.२ ) कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
9636. (२०,१०.२ ) इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
9637. (२०,११.१ ) इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
9638. (२०,११.१ ) ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥१॥
9639. (२०,११.२ ) मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
9640. (२०,११.२ ) इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥२॥
9641. (२०,११.३ ) इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
9642. (२०,११.३ ) अहन् व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥३॥
9643. (२०,११.४ ) इन्द्रः स्वर्षा जनयन्न् अहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
9644. (२०,११.४ ) प्रारोचयन् मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥४॥
9645. (२०,११.५ ) इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
9646. (२०,११.५ ) अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥५॥
9647. (२०,११.६ ) महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
9648. (२०,११.६ ) वृजनेन वृजिनान्त्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥६॥
9649. (२०,११.७ ) युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
9650. (२०,११.७ ) विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥७॥
9651. (२०,११.८ ) सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
9652. (२०,११.८ ) ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥८॥
9653. (२०,११.९ ) ससानात्यामुत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
9654. (२०,११.९ ) हिरण्ययमुत भोगं ससान हत्वी दस्यून् प्रार्यं वर्णमावत्॥९॥
9655. (२०,११.१० ) इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।
9656. (२०,११.१० ) बिभेद बलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥१०॥
9657. (२०,११.११ ) शुनं हुवेम मघवानमिन्द्रमस्मिन् भरे नृतमं वाजसातौ ।
9658. (२०,११.११ ) शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
9659. (२०,१२.१ ) उदु ब्रह्माण्यैरत श्रवस्येन्द्रं समर्ये महया वसिष्ठ ।
9660. (२०,१२.१ ) आ यो विश्वानि शवसा ततानोपश्रोता म ईवतो वचांसि ॥१॥
9661. (२०,१२.२ ) अयामि घोष इन्द्र देवजामिरिरज्यन्त यच्छुरुधो विवाचि ।
9662. (२०,१२.२ ) नहि स्वमायुश्चिकिते जनेषु तानीदंहांस्यति पर्ष्यस्मान् ॥२॥
9663. (२०,१२.३ ) युजे रथं गवेषणं हरिभ्यामुप ब्रह्माणि जुजुषाणमस्थुः ।
9664. (२०,१२.३ ) वि बाधिष्ट स्य रोदसी महित्वेन्द्रो वृत्राण्यप्रती जघन्वान् ॥३॥
9665. (२०,१२.४ ) आपश्चित्पिप्यु स्तर्यो न गावो नक्षन्न् ऋतं जरितारस्त इन्द्र ।
9666. (२०,१२.४ ) याहि वायुर्न नियुतो नो अछा त्वं हि धीभिर्दयसे वि वाजान् ॥४॥
9667. (२०,१२.५ ) ते त्वा मदा इन्द्र मादयन्तु शुष्मिणं तुविराधसं जरित्रे ।
9668. (२०,१२.५ ) एको देवत्रा दयसे हि मर्तान् अस्मिन् छूर सवने मादयस्व ॥५॥
9669. (२०,१२.६ ) एवेदिन्द्रं वृषणं वज्रबाहुं वसिष्ठासो अभ्यर्चन्त्यर्कैः ।
9670. (२०,१२.६ ) स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥६॥
9671. (२०,१२.७ ) ऋजीषी वज्री वृषभस्तुराषाट्छुष्मी राजा वृत्रहा सोमपावा ।
9672. (२०,१२.७ ) युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥७॥
9673. (२०,१३.१ ) इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू ।
9674. (२०,१३.१ ) आ वां विशन्त्विन्दवः स्वाभुवोऽस्मे रयिं सर्ववीरं नि यछतम् ॥१॥
9675. (२०,१३.२ ) आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।
9676. (२०,१३.२ ) सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥२॥
9677. (२०,१३.३ ) इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
9678. (२०,१३.३ ) भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥३॥
9679. (२०,१३.४ ) ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।
9680. (२०,१३.४ ) पत्नीवतस्त्रिंशतं त्रींश्च देवान् अनुष्वधमा वह मादयस्व ॥४॥
9681. (२०,१४.१ ) वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
9682. (२०,१४.१ ) वाजे चित्रं हवामहे ॥१॥
9683. (२०,१४.२ ) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।
9684. (२०,१४.२ ) त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
9685. (२०,१४.३ ) यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
9686. (२०,१४.३ ) सखाय इन्द्रमूतये ॥३॥
9687. (२०,१४.४ ) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
9688. (२०,१४.४ ) आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
9689. (२०,१५.१ ) प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे ।
9690. (२०,१५.१ ) अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥१॥
9691. (२०,१५.२ ) अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः ।
9692. (२०,१५.२ ) यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥२॥
9693. (२०,१५.३ ) अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे ।
9694. (२०,१५.३ ) यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥३॥
9695. (२०,१५.४ ) इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो ।
9696. (२०,१५.४ ) नहि त्वदन्यो गिर्वणो गिरः सधत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥४॥
9697. (२०,१५.५ ) भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन् काममा पृण ।
9698. (२०,१५.५ ) अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥५॥
9699. (२०,१५.६ ) त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन् पर्वशश्चकर्तिथ ।
9700. (२०,१५.६ ) अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥६॥
9701. (२०,१६.१ ) उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।
9702. (२०,१६.१ ) गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥१॥
9703. (२०,१६.२ ) सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।
9704. (२०,१६.२ ) जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥२॥
9705. (२०,१६.३ ) साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।
9706. (२०,१६.३ ) बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥३॥
9707. (२०,१६.४ ) आप्रुषायन् मधुना ऋतस्य योनिमवक्षिपन्न् अर्क उल्कामिव द्योः ।
9708. (२०,१६.४ ) बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥
9709. (२०,१६.५ ) अप ज्योतिषा तमो अन्तरिक्षदुद्नः शीपालमिव वात आजत्।
9710. (२०,१६.५ ) बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥५॥
9711. (२०,१६.६ ) यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।
9712. (२०,१६.६ ) दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥६॥
9713. (२०,१६.७ ) बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्।
9714. (२०,१६.७ ) आण्डेव भित्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत्॥७॥
9715. (२०,१६.८ ) अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् ।
9716. (२०,१६.८ ) निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥
9717. (२०,१६.९ ) सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।
9718. (२०,१६.९ ) बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥९॥
9719. (२०,१६.१० ) हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।
9720. (२०,१६.१० ) अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥
9721. (२०,१६.११ ) अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।
9722. (२०,१६.११ ) रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥
9723. (२०,१६.१२ ) इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।
9724. (२०,१६.१२ ) बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्॥१२॥
9725. (२०,१७.१ ) अछा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।
9726. (२०,१७.१ ) परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥१॥
9727. (२०,१७.२ ) न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय ।
9728. (२०,१७.२ ) राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥२॥
9729. (२०,१७.३ ) विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते ।
9730. (२०,१७.३ ) तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥३॥
9731. (२०,१७.४ ) वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः ।
9732. (२०,१७.४ ) प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥४॥
9733. (२०,१७.५ ) कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत्।
9734. (२०,१७.५ ) न तत्ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥५॥
9735. (२०,१७.६ ) विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा ।
9736. (२०,१७.६ ) यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥६॥
9737. (२०,१७.७ ) आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् ।
9738. (२०,१७.७ ) वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥७॥
9739. (२०,१७.८ ) वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः ।
9740. (२०,१७.८ ) स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥८॥
9741. (२०,१७.९ ) उज्जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्।
9742. (२०,१७.९ ) वि रोचतामरुषो भानुना शुचिः स्वर्न शुक्रं शुशुचीत सत्पतिः ॥९॥
9743. (२०,१७.१० ) गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
9744. (२०,१७.१० ) वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
9745. (२०,१७.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।
9746. (२०,१७.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥
9747. (२०,१७.१२ ) बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
9748. (२०,१७.१२ ) धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥१२॥
9749. (२०,१८.१ ) वयमु त्वा तदितर्था इन्द्र त्वायन्तः सखायः ।
9750. (२०,१८.१ ) कण्वा उक्थेभिर्जरन्ते ॥१॥
9751. (२०,१८.२ ) न घेमन्यदा पपन वज्रिन्न् अपसो नविष्टौ ।
9752. (२०,१८.२ ) तवेदु स्तोमं चिकेत ॥२॥
9753. (२०,१८.३ ) इछन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
9754. (२०,१८.३ ) यन्ति प्रमादमतन्द्राः ॥३॥
9755. (२०,१८.४ ) वयमिन्द्र त्वायवोऽभि प्र णोनुमो वृषन् ।
9756. (२०,१८.४ ) विद्धि त्वस्य नो वसो ॥४॥
9757. (२०,१८.५ ) मा नो निदे च वक्तवेऽर्यो रन्धीरराव्ने ।
9758. (२०,१८.५ ) त्वे अपि क्रतुर्मम ॥५॥
9759. (२०,१८.६ ) त्वं वर्मासि सप्रथः पुरोयोधश्च वृत्रहन् ।
9760. (२०,१८.६ ) त्वया प्रति ब्रुवे युजा ॥६॥
9761. (२०,१९.१ ) वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
9762. (२०,१९.१ ) इन्द्र त्वा वर्तयामसि ॥१॥
9763. (२०,१९.२ ) अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
9764. (२०,१९.२ ) इन्द्र कृण्वन्तु वाघतः ॥२॥
9765. (२०,१९.३ ) नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।
9766. (२०,१९.३ ) इन्द्राभिमातिषाह्ये ॥३॥
9767. (२०,१९.४ ) पुरुष्टुतस्य धामभिः शतेन महयामसि ।
9768. (२०,१९.४ ) इन्द्रस्य चर्षणीधृतः ॥४॥
9769. (२०,१९.५ ) इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।
9770. (२०,१९.५ ) भरेषु वाजसातये ॥५॥
9771. (२०,१९.६ ) वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।
9772. (२०,१९.६ ) इन्द्र वृत्राय हन्तवे ॥६॥
9773. (२०,१९.७ ) द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।
9774. (२०,१९.७ ) इन्द्र साक्ष्वाभिमातिषु ॥७॥
9775. (२०,२०.१ ) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
9776. (२०,२०.१ ) इन्द्र सोमं शतक्रतो ॥१॥
9777. (२०,२०.२ ) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
9778. (२०,२०.२ ) इन्द्र तानि त आ वृणे ॥२॥
9779. (२०,२०.३ ) अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
9780. (२०,२०.३ ) उत्ते शुष्मं तिरामसि ॥३॥
9781. (२०,२०.४ ) अर्वावतो न आ गह्यथो शक्र परावतः ।
9782. (२०,२०.४ ) उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥४॥
9783. (२०,२०.५ ) इन्द्रो अङ्गं महद्भयमभि षदप चुच्यवत्।
9784. (२०,२०.५ ) स हि स्थिरो विचर्षणिः ॥५॥
9785. (२०,२०.६ ) इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।
9786. (२०,२०.६ ) भद्रं भवाति नः पुरः ॥६॥
9787. (२०,२०.७ ) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।
9788. (२०,२०.७ ) जेता शत्रून् विचर्षणिः ॥७॥
9789. (२०,२१.१ ) न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
9790. (२०,२१.१ ) नू चिद्धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते ॥१॥
9791. (२०,२१.२ ) दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।
9792. (२०,२१.२ ) शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥२॥
9793. (२०,२१.३ ) शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।
9794. (२०,२१.३ ) अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥३॥
9795. (२०,२१.४ ) एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।
9796. (२०,२१.४ ) इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥४॥
9797. (२०,२१.५ ) समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
9798. (२०,२१.५ ) सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥
9799. (२०,२१.६ ) ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
9800. (२०,२१.६ ) यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥
9801. (२०,२१.७ ) युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।
9802. (२०,२१.७ ) नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥७॥
9803. (२०,२१.८ ) त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
9804. (२०,२१.८ ) त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥८॥
9805. (२०,२१.९ ) त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः ।
9806. (२०,२१.९ ) षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्॥९॥
9807. (२०,२१.१० ) त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।
9808. (२०,२१.१० ) त्व अस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥१०॥
9809. (२०,२१.११ ) य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।
9810. (२०,२१.११ ) त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥११॥
9811. (२०,२२.१ ) अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
9812. (२०,२२.१ ) तृम्पा व्यश्नुही मदम् ॥१॥
9813. (२०,२२.२ ) मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
9814. (२०,२२.२ ) माकीं ब्रह्मद्विषो वनः ॥२॥
9815. (२०,२२.३ ) इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
9816. (२०,२२.३ ) सरो गौरो यथा पिब ॥३॥
9817. (२०,२२.४ ) अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
9818. (२०,२२.४ ) सूनुं सत्यस्य सत्पतिम् ॥४॥
9819. (२०,२२.५ ) आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
9820. (२०,२२.५ ) यत्राभि संनवामहे ॥५॥
9821. (२०,२२.६ ) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
9822. (२०,२२.६ ) यत्सीमुपह्वरे विदत्॥६॥
9823. (२०,२३.१ ) आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।
9824. (२०,२३.१ ) हरिभ्यां याह्यद्रिवः ॥१॥
9825. (२०,२३.२ ) सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक्।
9826. (२०,२३.२ ) अयुज्रन् प्रातरद्रयः ॥२॥
9827. (२०,२३.३ ) इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
9828. (२०,२३.३ ) वीहि शूर पुरोलाशम् ॥३॥
9829. (२०,२३.४ ) रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
9830. (२०,२३.४ ) उक्थेष्विन्द्र गिर्वणः ॥४॥
9831. (२०,२३.५ ) मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।
9832. (२०,२३.५ ) इन्द्रं वत्सं न मातरः ॥५॥
9833. (२०,२३.६ ) स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
9834. (२०,२३.६ ) न स्तोतारं निदे करः ॥६॥
9835. (२०,२३.७ ) वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।
9836. (२०,२३.७ ) उत त्वमस्मयुर्वसो ॥७॥
9837. (२०,२३.८ ) मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।
9838. (२०,२३.८ ) इन्द्र स्वधावो मत्स्वेह ॥८॥
9839. (२०,२३.९ ) अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।
9840. (२०,२३.९ ) घृतस्नू बर्हिरासदे ॥९॥
9841. (२०,२४.१ ) उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
9842. (२०,२४.१ ) हरिभ्यां यस्ते अस्मयुः ॥१॥
9843. (२०,२४.२ ) तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।
9844. (२०,२४.२ ) कुविन् न्वस्य तृप्णवः ॥२॥
9845. (२०,२४.३ ) इन्द्रमित्था गिरो ममाछागुरिषिता इतः ।
9846. (२०,२४.३ ) आवृते सोमपीतये ॥३॥
9847. (२०,२४.४ ) इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
9848. (२०,२४.४ ) उक्थेभिः कुविदागमत्॥४॥
9849. (२०,२४.५ ) इन्द्र सोमाः सुता इमे तान् दधिष्व शतक्रतो ।
9850. (२०,२४.५ ) जथरे वाजिनीवसो ॥५॥
9851. (२०,२४.६ ) विद्मा हि त्वा धनंजयं वाजेषु दधृषं कवे ।
9852. (२०,२४.६ ) अधा ते सुम्नमीमहे ॥६॥
9853. (२०,२४.७ ) इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
9854. (२०,२४.७ ) आगत्या वृषभिः सुतम् ॥७॥
9855. (२०,२४.८ ) तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
9856. (२०,२४.८ ) एष रारन्तु ते हृदि ॥८॥
9857. (२०,२४.९ ) त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
9858. (२०,२४.९ ) कुशिकासो अवस्यवः ॥९॥
9859. (२०,२५.१ ) अश्वावति प्रथमो गोषु गछति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।
9860. (२०,२५.१ ) तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥१॥
9861. (२०,२५.२ ) आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।
9862. (२०,२५.२ ) प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥२॥
9863. (२०,२५.३ ) अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
9864. (२०,२५.३ ) असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥३॥
9865. (२०,२५.४ ) आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
9866. (२०,२५.४ ) सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥४॥
9867. (२०,२५.५ ) यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।
9868. (२०,२५.५ ) आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥५॥
9869. (२०,२५.६ ) बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।
9870. (२०,२५.६ ) ग्रावा यत्र वदति करुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥६॥
9871. (२०,२५.७ ) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
9872. (२०,२५.७ ) इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥७॥
9873. (२०,२६.१ ) योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
9874. (२०,२६.१ ) सखाय इन्द्रमूतये ॥१॥
9875. (२०,२६.२ ) आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
9876. (२०,२६.२ ) वाजेभिरुप नो हवम् ॥२॥
9877. (२०,२६.३ ) अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
9878. (२०,२६.३ ) यं ते पूर्वं पिता हुवे ॥३॥
9879. (२०,२६.४ ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
9880. (२०,२६.४ ) रोचन्ते रोचना दिवि ॥४॥
9881. (२०,२६.५ ) युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।
9882. (२०,२६.५ ) शोणा धृष्णू नृवाहसा ॥५॥
9883. (२०,२६.६ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
9884. (२०,२६.६ ) समुषद्भिरजायथाः ॥६॥
9885. (२०,२७.१ ) यदिन्द्राहं यथा त्वमीशीय वस्व एक इत्।
9886. (२०,२७.१ ) स्तोता मे गोषखा स्यात्॥१॥
9887. (२०,२७.२ ) शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
9888. (२०,२७.२ ) यदहं गोपतिः स्याम् ॥२॥
9889. (२०,२७.३ ) धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
9890. (२०,२७.३ ) गामश्वं पिप्युषी दुहे ॥३॥
9891. (२०,२७.४ ) न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
9892. (२०,२७.४ ) यद्दित्ससि स्तुतो मघम् ॥४॥
9893. (२०,२७.५ ) यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत्।
9894. (२०,२७.५ ) चक्राण ओपशं दिवि ॥५॥
9895. (२०,२७.६ ) वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
9896. (२०,२७.६ ) ऊतिमिन्द्रा वृणीमहे ॥६॥
9897. (२०,२८.१ ) व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।
9898. (२०,२८.१ ) इन्द्रो यदभिनद्वलम् ॥१॥
9899. (२०,२८.२ ) उद्गा आजदङ्गिरोभ्य आविष्क्र्ण्वन् गुहा सतीः ।
9900. (२०,२८.२ ) अर्वाञ्चं नुनुदे वलम् ॥२॥
9901. (२०,२८.३ ) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
9902. (२०,२८.३ ) स्थिराणि न पराणुदे ॥३॥
9903. (२०,२८.४ ) अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।
9904. (२०,२८.४ ) वि ते मदा अराजिषुः ॥४॥
9905. (२०,२९.१ ) त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
9906. (२०,२९.१ ) स्तोतॄणामुत भद्रकृत्॥१॥
9907. (२०,२९.२ ) इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
9908. (२०,२९.२ ) उप यज्ञं सुराधसम् ॥२॥
9909. (२०,२९.३ ) अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
9910. (२०,२९.३ ) विश्वा यदजय स्पृधः ॥३॥
9911. (२०,२९.४ ) मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
9912. (२०,२९.४ ) अव दस्यूंरधूनुथाः ॥४॥
9913. (२०,२९.५ ) असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
9914. (२०,२९.५ ) सोमपा उत्तरो भवन् ॥५॥
9915. (२०,३०.१ ) प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।
9916. (२०,३०.१ ) घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
9917. (२०,३०.२ ) हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः ।
9918. (२०,३०.२ ) आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूशं हरिवन्तमर्चत ॥२॥
9919. (२०,३०.३ ) सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।
9920. (२०,३०.३ ) द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
9921. (२०,३०.४ ) दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।
9922. (२०,३०.४ ) तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥
9923. (२०,३०.५ ) त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।
9924. (२०,३०.५ ) त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥
9925. (२०,३१.१ ) ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।
9926. (२०,३१.१ ) पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥१॥
9927. (२०,३१.२ ) अरं कामाय हरयो दधमिरे स्थिराय हिन्वन् हरयो हरी तुरा ।
9928. (२०,३१.२ ) अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥२॥
9929. (२०,३१.३ ) हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।
9930. (२०,३१.३ ) अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥३॥
9931. (२०,३१.४ ) श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।
9932. (२०,३१.४ ) प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥४॥
9933. (२०,३१.५ ) उत स्म सद्न हर्यतस्य पस्त्योरत्यो न वाजं हरिवामचिक्रदत्।
9934. (२०,३१.५ ) मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतस्चिदा ॥५॥
9935. (२०,३२.१ ) आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियम् ।
9936. (२०,३२.१ ) प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥१॥
9937. (२०,३२.२ ) आ त्वा हर्यन्तं प्रयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र ।
9938. (२०,३२.२ ) पिबा यथा प्रतिभृतस्य मध्वो हर्यन् यज्ञं सधमादे दशोणिम् ॥२॥
9939. (२०,३२.३ ) अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।
9940. (२०,३२.३ ) ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वृषं जथर आ वृषस्व ॥३॥
9941. (२०,३३.१ ) अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।
9942. (२०,३३.१ ) मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥१॥
9943. (२०,३३.२ ) प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यम् ।
9944. (२०,३३.२ ) इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥२॥
9945. (२०,३३.३ ) ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।
9946. (२०,३३.३ ) प्रजावदिन्द्र मंसो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥३॥
9947. (२०,३४.१ ) यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत्।
9948. (२०,३४.१ ) यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥
9949. (२०,३४.२ ) यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान् प्रकुपितामरम्णात्।
9950. (२०,३४.२ ) यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥२॥
9951. (२०,३४.३ ) यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।
9952. (२०,३४.३ ) यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥३॥
9953. (२०,३४.४ ) येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
9954. (२०,३४.४ ) श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥
9955. (२०,३४.५ ) यं स्मा पृछन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।
9956. (२०,३४.५ ) सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥
9957. (२०,३४.६ ) यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
9958. (२०,३४.६ ) युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥
9959. (२०,३४.७ ) यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
9960. (२०,३४.७ ) यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥
9961. (२०,३४.८ ) यं क्रन्दसी संयती विह्वयेते परेऽवरे उभया अमित्राः ।
9962. (२०,३४.८ ) समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥
9963. (२०,३४.९ ) यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
9964. (२०,३४.९ ) यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥९॥
9965. (२०,३४.१० ) यः शस्वतो मह्येनो दधानान् अमन्यमानां छर्वा जघान ।
9966. (२०,३४.१० ) यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥
9967. (२०,३४.११ ) यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्।
9968. (२०,३४.११ ) ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥
9969. (२०,३४.१२ ) यः शम्भरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य ।
9970. (२०,३४.१२ ) अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत्स जनास इन्द्रः ॥१२॥
9971. (२०,३४.१३ ) यः सप्तरश्मिर्वृषभस्तुविष्मान् अवासृजत्सर्तवे सप्त सिन्धून् ।
9972. (२०,३४.१३ ) यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१३॥
9973. (२०,३४.१४ ) द्यावा चिदस्मै पृथिवी ममेते शुष्माच्चिदस्य पर्वता भयन्ते ।
9974. (२०,३४.१४ ) यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥१४॥
9975. (२०,३४.१५ ) यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
9976. (२०,३४.१५ ) यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१५॥
9977. (२०,३४.१६ ) जातो व्यख्यत्पित्रोरुपस्थे भुवो न वेद जनितुः परस्य ।
9978. (२०,३४.१६ ) स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः ॥१६॥
9979. (२०,३४.१७ ) यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा ।
9980. (२०,३४.१७ ) यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥१७॥
9981. (२०,३४.१८ ) यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।
9982. (२०,३४.१८ ) वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१८॥
9983. (२०,३५.१ ) अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।
9984. (२०,३५.१ ) ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥१॥
9985. (२०,३५.२ ) अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति ।
9986. (२०,३५.२ ) इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥
9987. (२०,३५.३ ) अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।
9988. (२०,३५.३ ) मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥
9989. (२०,३५.४ ) अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
9990. (२०,३५.४ ) गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥
9991. (२०,३५.५ ) अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।
9992. (२०,३५.५ ) वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥
9993. (२०,३५.६ ) अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।
9994. (२०,३५.६ ) वृत्रस्य चिद्विदद्येन मर्म तुजन्न् ईशानस्तुजता कियेधाः ॥६॥
9995. (२०,३५.७ ) अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना ।
9996. (२०,३५.७ ) मुषायद्विष्णुः पचतं सहीयान् विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥
9997. (२०,३५.८ ) अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।
9998. (२०,३५.८ ) परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥
9999. (२०,३५.९ ) अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्।
10000. (२०,३५.९ ) स्वरालिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥९॥
10001. (२०,३५.१० ) अस्येदेव शवसा शुशन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।
10002. (२०,३५.१० ) गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥१०॥
10003. (२०,३५.११ ) अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयछत्।
10004. (२०,३५.११ ) ईशानकृद्दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥११॥
10005. (२०,३५.१२ ) अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
10006. (२०,३५.१२ ) गोर्न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्यपां चरध्यै ॥१२॥
10007. (२०,३५.१३ ) अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
10008. (२०,३५.१३ ) युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥१३॥
10009. (२०,३५.१४ ) अस्येदु भिया गिरयश्च दृल्हा द्यावा च भूमा जनुषस्तुजेते ।
10010. (२०,३५.१४ ) उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥१४॥
10011. (२०,३५.१५ ) अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः ।
10012. (२०,३५.१५ ) प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥१५॥
10013. (२०,३५.१६ ) एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
10014. (२०,३५.१६ ) ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्॥१६॥
10015. (२०,३६.१ ) य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।
10016. (२०,३६.१ ) यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥
10017. (२०,३६.२ ) तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।
10018. (२०,३६.२ ) नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥२॥
10019. (२०,३६.३ ) तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।
10020. (२०,३६.३ ) यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै ॥३॥
10021. (२०,३६.४ ) तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।
10022. (२०,३६.४ ) कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः ॥४॥
10023. (२०,३६.५ ) तं पृछन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।
10024. (२०,३६.५ ) तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमछ ॥५॥
10025. (२०,३६.६ ) अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।
10026. (२०,३६.६ ) अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥६॥
10027. (२०,३६.७ ) तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।
10028. (२०,३६.७ ) स नो वक्षदनिमानः सुवह्नेन्द्रो विश्वान्यति दुर्गहाणि ॥७॥
10029. (२०,३६.८ ) आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।
10030. (२०,३६.८ ) तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च ॥८॥
10031. (२०,३६.९ ) भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्।
10032. (२०,३६.९ ) धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥
10033. (२०,३६.१० ) आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।
10034. (२०,३६.१० ) यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥१०॥
10035. (२०,३६.११ ) स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।
10036. (२०,३६.११ ) न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्॥११॥
10037. (२०,३७.१ ) यस्तिग्मशृङ्गो वृषभो न भीमः एकः कृष्टीश्च्यवयति प्र विश्वाः ।
10038. (२०,३७.१ ) यः शश्वतो अदाशुषो गयस्य प्रयन्तासि सुष्वितराय वेदः ॥१॥
10039. (२०,३७.२ ) त्वं ह त्यदिन्द्र कुत्समावः शुश्रूषमाणस्तन्वा समर्ये ।
10040. (२०,३७.२ ) दासं यच्शुष्णं कुयवं न्यस्मा अरन्धय आर्जुनेयाय शिक्षन् ॥२॥
10041. (२०,३७.३ ) त्वं धृष्णो धृषता वीतहव्यं प्रावो विश्वाभिरूतिभिः सुदासम् ।
10042. (२०,३७.३ ) प्र पौरुकुत्सिं त्रसदस्युमावः क्षेत्रसाता वृत्रहत्येषु पूरुम् ॥३॥
10043. (२०,३७.४ ) त्वं नृभिर्नृमणो देववीतौ भूरीणि वृत्रा हर्यश्व हंसि ।
10044. (२०,३७.४ ) त्वं नि दस्युं चुमुरिं धुनिं चास्वापयो दभीतये सुहन्तु ॥४॥
10045. (२०,३७.५ ) तव च्यौत्नानि वज्रहस्त तानि नव यत्पुरो नवतिं च सद्यः ।
10046. (२०,३७.५ ) निवेशने शततमाविवेषीरहं च वृत्रं नमुचिमुताहन् ॥५॥
10047. (२०,३७.६ ) सना ता त इन्द्र भोजनानि रातहव्याय दाशुषे सुदासे ।
10048. (२०,३७.६ ) वृष्णे ते हरी वृषणा युनज्मि व्यन्तु ब्रह्माणि पुरुशाक वाजम् ॥६॥
10049. (२०,३७.७ ) मा ते अस्यां सहसावन् परिष्टावघाय भूम हरिवः परादौ ।
10050. (२०,३७.७ ) त्रायस्व नोऽवृकेभिर्वरूथैस्तव प्रियासः सूरिषु स्याम ॥७॥
10051. (२०,३७.८ ) प्रियास इत्ते मघवन्न् अभिष्टौ नरो मदेम शरणे सखायः ।
10052. (२०,३७.८ ) नि तुर्वशं नि याद्वं शिशीह्यतिथिग्वाय शंस्यं करिष्यन् ॥८॥
10053. (२०,३७.९ ) सद्यश्चिन् नु ते मघवन्न् अभिष्टौ नरः शंसन्त्युक्थशास उक्था ।
10054. (२०,३७.९ ) ये ते हवेभिर्वि पणींरदाशन्न् अस्मान् वृणीष्व युज्याय तस्मै ॥९॥
10055. (२०,३७.१० ) एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि ।
10056. (२०,३७.१० ) तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥
10057. (२०,३७.११ ) नू इन्द्र शूर स्तवमान ऊती ब्रह्मजूतस्तन्वा वावृधस्व ।
10058. (२०,३७.११ ) उप नो वाजान् मिमीह्युप स्तीन् युयं पात स्वस्तिभिः सदा नः ॥११॥
10059. (२०,३८.१ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
10060. (२०,३८.१ ) एदं बर्हिः सदो मम ॥१॥
10061. (२०,३८.२ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
10062. (२०,३८.२ ) उप ब्रह्माणि नः शृणु ॥२॥
10063. (२०,३८.३ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
10064. (२०,३८.३ ) सुतावन्तो हवामहे ॥३॥
10065. (२०,३८.४ ) इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
10066. (२०,३८.४ ) इन्द्रं वाणीरनूषत ॥४॥
10067. (२०,३८.५ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
10068. (२०,३८.५ ) इन्द्रो वज्री हिरण्ययः ॥५॥
10069. (२०,३८.६ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
10070. (२०,३८.६ ) वि गोभिरद्रिमैरयत्॥६॥
10071. (२०,३९.१ ) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
10072. (२०,३९.१ ) अस्माकमस्तु केवलः ॥१॥
10073. (२०,३९.२ ) व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।
10074. (२०,३९.२ ) इन्द्रो यदभिनद्वलम् ॥२॥
10075. (२०,३९.३ ) उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः ।
10076. (२०,३९.३ ) अर्वाञ्चं नुनुदे वलम् ॥३॥
10077. (२०,३९.४ ) इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
10078. (२०,३९.४ ) स्थिराणि न पराणुदे ॥४॥
10079. (२०,३९.५ ) अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।
10080. (२०,३९.५ ) वि ते मदा अराजिषुः ॥५॥
10081. (२०,४०.१ ) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
10082. (२०,४०.१ ) मन्दू समानवर्चसा ॥१॥
10083. (२०,४०.२ ) अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
10084. (२०,४०.२ ) गणैरिन्द्रस्य काम्यैः ॥२॥
10085. (२०,४०.३ ) आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
10086. (२०,४०.३ ) दधाना नाम यज्ञिय
10087. म् ॥३॥
10088. (२०,४१.१ ) इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
10089. (२०,४१.१ ) जघान नवतीर्नव ॥१॥
10090. (२०,४१.२ ) इछन् अश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।
10091. (२०,४१.२ ) तद्विदच्छर्यणावति ॥२॥
10092. (२०,४१.३ ) अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
10093. (२०,४१.३ ) इत्था चन्द्रमसो गृहे ॥३॥
10094. (२०,४२.१ ) वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
10095. (२०,४२.१ ) इन्द्रात्परि तन्वं ममे ॥१॥
10096. (२०,४२.२ ) अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
10097. (२०,४२.२ ) इन्द्र यद्दस्युहाभवः ॥२॥
10098. (२०,४२.३ ) उत्तिष्ठन्न् ओजसा सह पीत्वी शिप्रे अवेपयः ।
10099. (२०,४२.३ ) सोममिन्द्र चमू सुतम् ॥३॥
10100. (२०,४३.१ ) भिन्धि विश्वा अप द्विषः बाधो जही मृधः ।
10101. (२०,४३.१ ) वसु स्पार्हं तदा भर ॥१॥
10102. (२०,४३.२ ) यद्वीलाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
10103. (२०,४३.२ ) वसु स्पार्हं तदा भर ॥२॥
10104. (२०,४३.३ ) यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
10105. (२०,४३.३ ) वसु स्पार्हं तदा भर ॥३॥
10106. (२०,४४.१ ) प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
10107. (२०,४४.१ ) नरं नृषाहं मंहिष्ठम् ॥१॥
10108. (२०,४४.२ ) यस्मिन्न् उक्थानि रण्यन्ति विश्वानि च श्रवस्य ।
10109. (२०,४४.२ ) अपामवो न समुद्रे ॥२॥
10110. (२०,४४.३ ) तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
10111. (२०,४४.३ ) महो वाजिनं सनिभ्यः ॥३॥
10112. (२०,४५.१ ) अयमु ते समतसि कपोत इव गर्भधिम् ।
10113. (२०,४५.१ ) वचस्तच्चिन् न ओहसे ॥१॥
10114. (२०,४५.२ ) स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
10115. (२०,४५.२ ) विभूतिरस्तु सूनृता ॥२॥
10116. (२०,४५.३ ) ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन् वाजे शतक्रतो ।
10117. (२०,४५.३ ) समन्येषु ब्रवावहै ॥३॥
10118. (२०,४६.१ ) प्रणेतारं वस्यो अछा कर्तारं ज्योतिः समत्सु ।
10119. (२०,४६.१ ) सासह्वांसं युधामित्रान् ॥१॥
10120. (२०,४६.२ ) स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
10121. (२०,४६.२ ) इन्द्रो विश्वा अति द्विषः ॥२॥
10122. (२०,४६.३ ) स त्वं न इन्द्र वाजोभिर्दशस्या च गातुया च ।
10123. (२०,४६.३ ) अछा च नः सुम्नं नेषि ॥३॥
10124. (२०,४७.१ ) तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
10125. (२०,४७.१ ) स वृषा वृषभो भुवत्॥१॥
10126. (२०,४७.२ ) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
10127. (२०,४७.२ ) द्युम्नी श्लोकी स सोम्यः ॥२॥
10128. (२०,४७.३ ) गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
10129. (२०,४७.३ ) ववक्ष ऋष्वो अस्तृतः ॥३॥
10130. (२०,४७.४ ) इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
10131. (२०,४७.४ ) इन्द्रं वाणीरनूषत ॥४॥
10132. (२०,४७.५ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
10133. (२०,४७.५ ) इन्द्रो वज्री हिरण्ययः ॥५॥
10134. (२०,४७.६ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
10135. (२०,४७.६ ) वि गोभिरद्रिमैरयत्॥६॥
10136. (२०,४७.७ ) आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
10137. (२०,४७.७ ) एदं बर्हिः सदो मम ॥७॥
10138. (२०,४७.८ ) आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
10139. (२०,४७.८ ) उप ब्रह्माणि नः शृणु ॥८॥
10140. (२०,४७.९ ) ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
10141. (२०,४७.९ ) सुतावन्तो हवामहे ॥९॥
10142. (२०,४७.१० ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
10143. (२०,४७.१० ) रोचन्ते रोचना दिवि ॥१०॥
10144. (२०,४७.११ ) युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
10145. (२०,४७.११ ) शोणा धृष्णू नृवाहसा ॥११॥
10146. (२०,४७.१२ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
10147. (२०,४७.१२ ) समुषद्भिरजायथाः ॥१२॥
10148. (२०,४७.१३ ) उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
10149. (२०,४७.१३ ) दृशे विश्वाय सूर्यम् ॥१३॥
10150. (२०,४७.१४ ) अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
10151. (२०,४७.१४ ) सूराय विश्वचक्षसे ॥१४॥
10152. (२०,४७.१५ ) अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।
10153. (२०,४७.१५ ) भ्राजन्तो अग्नयो यथा ॥१५॥
10154. (२०,४७.१६ ) तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
10155. (२०,४७.१६ ) विश्वमा भासि रोचन ॥१६॥
10156. (२०,४७.१७ ) प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।
10157. (२०,४७.१७ ) प्रत्यङ्विश्वं स्वर्दृशे ॥१७॥
10158. (२०,४७.१८ ) येना पावक चक्षसा भुरण्यन्तं जनामनु ।
10159. (२०,४७.१८ ) त्वं वरुण पश्यसि ॥१८॥
10160. (२०,४७.१९ ) वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।
10161. (२०,४७.१९ ) पश्यं जन्मानि सूर्य ॥१९॥
10162. (२०,४७.२० ) सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
10163. (२०,४७.२० ) शोचिष्केशं विचक्षणम् ॥२०॥
10164. (२०,४७.२१ ) अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
10165. (२०,४७.२१ ) ताभिर्याति स्वयुक्तिभिः ॥२१॥
10166. (२०,४८.१ ) अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः ।
10167. (२०,४८.१ ) अभि वत्सं न धेनवः ॥१॥
10168. (२०,४८.२ ) ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः ।
10169. (२०,४८.२ ) जातं जनिर्यथा हृदा ॥२॥
10170. (२०,४८.३ ) वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन् ।
10171. (२०,४८.३ ) मह्यमायुर्घृतं पयः ॥३॥
10172. (२०,४८.४ ) आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।
10173. (२०,४८.४ ) पितरं च प्रयन्त्स्वः ॥४॥
10174. (२०,४८.५ ) अन्तश्चरति रोचना अस्य प्राणादपानतः ।
10175. (२०,४८.५ ) व्यख्यन् महिषः स्वः ॥५॥
10176. (२०,४८.६ ) त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।
10177. (२०,४८.६ ) प्रति वस्तोरहर्द्युभिः ॥६॥
10178. (२०,४९.१ ) यच्छक्रा वाचमारुहन्न् अन्तरिक्षं सिषासथः ।
10179. (२०,४९.१ ) सं देवा अमदन् वृषा ॥१॥
10180. (२०,४९.२ ) शक्रो वाचमधृष्टायोरुवाचो अधृष्णुहि ।
10181. (२०,४९.२ ) मंहिष्ठ आ मदर्दिवि ॥२॥
10182. (२०,४९.३ ) शक्रो वाचमधृष्णुहि धामधर्मन् वि राजति ।
10183. (२०,४९.३ ) विमदन् बर्हिरासरन् ॥३॥
10184. (२०,४९.४ ) तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
10185. (२०,४९.४ ) अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥४॥
10186. (२०,४९.५ ) द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
10187. (२०,४९.५ ) क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥५॥
10188. (२०,४९.६ ) तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
10189. (२०,४९.६ ) येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥६॥
10190. (२०,४९.७ ) येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
10191. (२०,४९.७ ) सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥७॥
10192. (२०,५०.१ ) कन् नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
10193. (२०,५०.१ ) नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥१॥
10194. (२०,५०.२ ) कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
10195. (२०,५०.२ ) कदा हवं मघवन्न् इन्द्र सुन्वतः कदु स्तुवत आ गमः ॥२॥
10196. (२०,५१.१ ) अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
10197. (२०,५१.१ ) यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥१॥
10198. (२०,५१.२ ) शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
10199. (२०,५१.२ ) गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥२॥
10200. (२०,५१.३ ) प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।
10201. (२०,५१.३ ) यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥३॥
10202. (२०,५१.४ ) शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
10203. (२०,५१.४ ) गिरिर्न भुज्मा मघत्सु पिन्वते यदीं सुता अमन्दिषुः ॥४॥
10204. (२०,५२.१ ) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
10205. (२०,५२.१ ) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१॥
10206. (२०,५२.२ ) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
10207. (२०,५२.२ ) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥२॥
10208. (२०,५२.३ ) कण्वेभिर्धृष्णवा धृसद्वाजं दर्षि सहस्रिणम् ।
10209. (२०,५२.३ ) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥३॥
10210. (२०,५३.१ ) क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
10211. (२०,५३.१ ) अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥१॥
10212. (२०,५३.२ ) दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
10213. (२०,५३.२ ) नकिष्ट्वा नि यमदा सुते गमो महाश्चरस्योजसा ॥२॥
10214. (२०,५३.३ ) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
10215. (२०,५३.३ ) यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥३॥
10216. (२०,५४.१ ) विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
10217. (२०,५४.१ ) क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१॥
10218. (२०,५४.२ ) समीं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये ।
10219. (२०,५४.२ ) स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥२॥
10220. (२०,५४.३ ) नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
10221. (२०,५४.३ ) सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥३॥
10222. (२०,५५.१ ) तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
10223. (२०,५५.१ ) मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥१॥
10224. (२०,५५.२ ) या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः ।
10225. (२०,५५.२ ) स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥२॥
10226. (२०,५५.३ ) यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
10227. (२०,५५.३ ) यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ ॥३॥
10228. (२०,५६.१ ) इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
10229. (२०,५६.१ ) तमिन् महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत्॥१॥
10230. (२०,५६.२ ) असि हि वीर सेन्योऽसि भूरि पराददिः ।
10231. (२०,५६.२ ) असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥२॥
10232. (२०,५६.३ ) यदुदीरत आजयो धृष्णवे धीयते धना ।
10233. (२०,५६.३ ) युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मामिन्द्र वसौ दधः ॥३॥
10234. (२०,५६.४ ) मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।
10235. (२०,५६.४ ) सं गृभाय पुरु शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥४॥
10236. (२०,५६.५ ) मादयस्व सुते सचा शवसे शूर राधसे ।
10237. (२०,५६.५ ) विद्मा हि त्वा पुरूवसुमुप कामान्त्ससृज्महेऽथा नोऽविता भव ॥५॥
10238. (२०,५६.६ ) एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
10239. (२०,५६.६ ) अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥६॥
10240. (२०,५७.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
10241. (२०,५७.१ ) जुहूमसि द्यविद्यवि ॥१॥
10242. (२०,५७.२ ) उप नः सवना गहि सोमस्य सोमपाः पिब ।
10243. (२०,५७.२ ) गोदा इद्रेवतो मदः ॥२॥
10244. (२०,५७.३ ) अथा ते अन्तमानां विद्याम सुमतीनाम् ।
10245. (२०,५७.३ ) मा नो अति ख्य आ गहि ॥३॥
10246. (२०,५७.४ ) शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
10247. (२०,५७.४ ) इन्द्र सोमं शतक्रतो ॥४॥
10248. (२०,५७.५ ) इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
10249. (२०,५७.५ ) इन्द्र तानि त आ वृणे ॥५॥
10250. (२०,५७.६ ) अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
10251. (२०,५७.६ ) उत्ते शुष्मं तिरामसि ॥६॥
10252. (२०,५७.७ ) अर्वावतो न आ गह्यथो शक्र परावतः ।
10253. (२०,५७.७ ) उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥७॥
10254. (२०,५७.८ ) इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्।
10255. (२०,५७.८ ) स हि स्थिरो विचर्षनिः ॥८॥
10256. (२०,५७.९ ) इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।
10257. (२०,५७.९ ) भद्रं भवाति नः पुरः ॥९॥
10258. (२०,५७.१० ) इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।
10259. (२०,५७.१० ) जेता शत्रून् विचर्षणिः ॥१०॥
10260. (२०,५७.११ ) क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
10261. (२०,५७.११ ) अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥११॥
10262. (२०,५७.१२ ) दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
10263. (२०,५७.१२ ) नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥१२॥
10264. (२०,५७.१३ ) य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।
10265. (२०,५७.१३ ) यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥१३॥
10266. (२०,५७.१४ ) वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
10267. (२०,५७.१४ ) पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१४॥
10268. (२०,५७.१५ ) स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
10269. (२०,५७.१५ ) कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥१५॥
10270. (२०,५७.१६ ) कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
10271. (२०,५७.१६ ) पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥१६॥
10272. (२०,५८.१ ) श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
10273. (२०,५८.१ ) वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥१॥
10274. (२०,५८.२ ) अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
10275. (२०,५८.२ ) सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥२॥
10276. (२०,५८.३ ) बण्महामसि सूर्य बडादित्य महामसि ।
10277. (२०,५८.३ ) महस्ते सतो महिमा पनस्यतेऽद्धा देव महामसि ॥३॥
10278. (२०,५८.४ ) बट्सूर्य श्रवसा महामसि सत्रा देव महामसि ।
10279. (२०,५८.४ ) मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥४॥
10280. (२०,५९.१ ) उदु त्ये मधु मत्तमा गिर स्तोमास ईरते ।
10281. (२०,५९.१ ) सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥१॥
10282. (२०,५९.२ ) कण्वा इव भृगवः सूर्य इव विश्वमिद्धीतमानशुः ।
10283. (२०,५९.२ ) इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥२॥
10284. (२०,५९.३ ) उदिन् न्वस्य रिच्यतेऽंशो धनं न जिग्युसः ।
10285. (२०,५९.३ ) य इन्द्रो हरिवान् न दभन्ति तं रिपो दक्षं दधाति सोमिनि ॥३॥
10286. (२०,५९.४ ) मन्त्रमखर्वं सुधितं सुपेशसं दधात यज्ञियेष्वा ।
10287. (२०,५९.४ ) पूर्वीश्चन प्रसितयस्तरन्ति तं य इन्द्रे कर्मणा भुवत्॥४॥
10288. (२०,६०.१ ) एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
10289. (२०,६०.१ ) एवा ते राध्यं मनः ॥१॥
10290. (२०,६०.२ ) एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
10291. (२०,६०.२ ) अघा चिदिन्द्र मे सचा ॥२॥
10292. (२०,६०.३ ) मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।
10293. (२०,६०.३ ) मत्स्वा सुतस्य गोमतः ॥३॥
10294. (२०,६०.४ ) एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
10295. (२०,६०.४ ) पक्वा शाखा न दाशुषे ॥४॥
10296. (२०,६०.५ ) एवा हि ते विभूतय ऊतय इन्द्र मावते ।
10297. (२०,६०.५ ) सद्यश्चित्सन्ति दाशुषे ॥५॥
10298. (२०,६०.६ ) एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
10299. (२०,६०.६ ) इन्द्राय सोमपीतये ॥६॥
10300. (२०,६१.१ ) तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
10301. (२०,६१.१ ) उ लोककृत्नुमद्रिवो हरिश्रियम् ॥१॥
10302. (२०,६१.२ ) येन ज्योतीम्ष्यायवे मनवे च विवेदिथ ।
10303. (२०,६१.२ ) मन्दानो अस्य बर्हिषो वि राजसि ॥२॥
10304. (२०,६१.३ ) तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
10305. (२०,६१.३ ) वृषपत्नीरपो जया दिवेदिवे ॥३॥
10306. (२०,६१.४ ) तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
10307. (२०,६१.४ ) इन्द्रं गीर्भिस्तविषमा विवासत ॥४॥
10308. (२०,६१.५ ) यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
10309. (२०,६१.५ ) गिरींरज्रामपः स्वर्वृषत्वना ॥५॥
10310. (२०,६१.६ ) स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।
10311. (२०,६१.६ ) इन्द्र जैत्रा श्रवस्य च यन्तवे ॥६॥
10312. (२०,६२.१ ) वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
10313. (२०,६२.१ ) वाजे चित्रं हवामहे ॥१॥
10314. (२०,६२.२ ) उप त्वा कर्मन्न् ऊतये स नो युवोग्रश्चक्राम यो धृषत्।
10315. (२०,६२.२ ) त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥२॥
10316. (२०,६२.३ ) यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
10317. (२०,६२.३ ) सखाय इन्द्रमूतये ॥३॥
10318. (२०,६२.४ ) हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
10319. (२०,६२.४ ) आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥४॥
10320. (२०,६२.५ ) इन्द्राय साम गायत विप्राय बृहते बृहत्।
10321. (२०,६२.५ ) धर्मकृते विपश्चिते पनस्यवे ॥५॥
10322. (२०,६२.६ ) त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
10323. (२०,६२.६ ) विश्वकर्मा विश्वदेवो महामसि ॥६॥
10324. (२०,६२.७ ) विभ्राजं ज्योतिषा स्वरगछो रोचनं दिवः ।
10325. (२०,६२.७ ) देवास्त इन्द्र सख्याय येमिरे ॥७॥
10326. (२०,६२.८ ) तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
10327. (२०,६२.८ ) इन्द्रं गीर्भिस्तविषमा विवासत ॥८॥
10328. (२०,६२.९ ) यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
10329. (२०,६२.९ ) गिरींरज्रामपः स्वर्वृषत्वना ॥९॥
10330. (२०,६२.१० ) स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।
10331. (२०,६२.१० ) इन्द्र जैत्र श्रवस्य च यन्तवे ॥१०॥
10332. (२०,६३.१ ) इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।
10333. (२०,६३.१ ) यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥१॥
10334. (२०,६३.२ ) आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।
10335. (२०,६३.२ ) हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥२॥
10336. (२०,६३.३ ) प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।
10337. (२०,६३.३ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥३॥
10338. (२०,६३.४ ) य एक इद्विदयते वसु मर्ताय दाशुषे ।
10339. (२०,६३.४ ) ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥४॥
10340. (२०,६३.५ ) कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्।
10341. (२०,६३.५ ) कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥५॥
10342. (२०,६३.६ ) यश्चिद्धि त्वा बहुभ्य आ सुतावामाविवासति ।
10343. (२०,६३.६ ) उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥६॥
10344. (२०,६३.७ ) य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
10345. (२०,६३.७ ) येना हंसि न्यत्त्रिणं तमीमहे ॥७॥
10346. (२०,६३.८ ) येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
10347. (२०,६३.८ ) येना समुद्रमाविथा तमीमहे ॥८॥
10348. (२०,६३.९ ) येन सिन्धुं महीरपो रथामिव प्रचोदयः ।
10349. (२०,६३.९ ) पन्थामृतस्य यातवे तमीमहे ॥९॥
10350. (२०,६४.१ ) एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
10351. (२०,६४.१ ) गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥१॥
10352. (२०,६४.२ ) अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
10353. (२०,६४.२ ) इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥२॥
10354. (२०,६४.३ ) त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
10355. (२०,६४.३ ) हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥३॥
10356. (२०,६४.४ ) एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
10357. (२०,६४.४ ) एवा हि वीर स्तवते सदावृधः ॥४॥
10358. (२०,६४.५ ) इन्द्र स्थातर्हरीणां नकिष्ते पूर्व्यस्तुतिम् ।
10359. (२०,६४.५ ) उदानंश शवसा न भन्दना ॥५॥
10360. (२०,६४.६ ) तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
10361. (२०,६४.६ ) अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥६॥
10362. (२०,६५.१ ) एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
10363. (२०,६५.१ ) कुष्टीर्यो विश्वा अभ्यस्त्येक इत्॥१॥
10364. (२०,६५.२ ) अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
10365. (२०,६५.२ ) घृतात्स्वादीयो मधुनश्च वोचत ॥२॥
10366. (२०,६५.३ ) यस्यामितानि वीर्या न राधः पर्येतवे ।
10367. (२०,६५.३ ) ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥३॥
10368. (२०,६६.१ ) स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
10369. (२०,६६.१ ) अर्यो गयं मंहमानं वि दाशुषे ॥१॥
10370. (२०,६६.२ ) एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
10371. (२०,६६.२ ) सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२॥
10372. (२०,६६.३ ) वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
10373. (२०,६६.३ ) अहरहः शुन्ध्युः परिपदामिव ॥३॥
10374. (२०,६७.१ ) वनोति हि सुन्वन् क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
10375. (२०,६७.१ ) सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
10376. (२०,६७.१ ) सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥१॥
10377. (२०,६७.२ ) मो षु वो अस्मदभि तानि पौंस्या सना भूवन् द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
10378. (२०,६७.२ ) यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
10379. (२०,६७.२ ) अस्मासु तन् मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥२॥
10380. (२०,६७.३ ) अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
10381. (२०,६७.३ ) य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
10382. (२०,६७.३ ) घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥३॥
10383. (२०,६७.४ ) यज्ञैः संमिश्लाः पृषतीभिरृष्टिभिर्यामं छुभ्रासो अञ्जिषु प्रिया उत ।
10384. (२०,६७.४ ) आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥४॥
10385. (२०,६७.५ ) आ वक्षि देवामिह विप्र यक्षि चोशन् होतर्नि षदा योनिषु त्रिषु ।
10386. (२०,६७.५ ) प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृस्णुहि ॥५॥
10387. (२०,६७.६ ) एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।
10388. (२०,६७.६ ) तुभ्यं सुतो मघवन् तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥६॥
10389. (२०,६७.७ ) यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।
10390. (२०,६७.७ ) अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥७॥
10391. (२०,६८.१ ) सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
10392. (२०,६८.१ ) जुहूमसि द्यविद्यवि ॥१॥
10393. (२०,६८.२ ) उप नः सवना गहि सोमस्य सोमपाः पिब ।
10394. (२०,६८.२ ) गोदा इद्रेवतो मदः ॥२॥
10395. (२०,६८.३ ) अथा ते अन्तमानां विद्याम सुमतीनाम् ।
10396. (२०,६८.३ ) मा नो अति ख्य आ गहि ॥३॥
10397. (२०,६८.४ ) परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् ।
10398. (२०,६८.४ ) यस्ते सखिभ्य आ वरम् ॥४॥
10399. (२०,६८.५ ) उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
10400. (२०,६८.५ ) दधाना इन्द्र इद्दुवः ॥५॥
10401. (२०,६८.६ ) उत नः सुभगामरिर्वोचेयुर्दस्म कृष्टयः ।
10402. (२०,६८.६ ) स्यामेदिन्द्रस्य शर्मणि ॥६॥
10403. (२०,६८.७ ) एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
10404. (२०,६८.७ ) पतयन् मन्दयत्सखम् ॥७॥
10405. (२०,६८.८ ) अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
10406. (२०,६८.८ ) प्रावो वाजेषु वाजिनम् ॥८॥
10407. (२०,६८.९ ) तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
10408. (२०,६८.९ ) धनानामिन्द्र सातये ॥९॥
10409. (२०,६८.१० ) यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा ।
10410. (२०,६८.१० ) तस्मा इन्द्राय गायत ॥१०॥
10411. (२०,६८.११ ) आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
10412. (२०,६८.११ ) सखाय स्तोमवाहसः ॥११॥
10413. (२०,६८.१२ ) पुरूतमं पुरूणामीशानं वार्याणाम् ।
10414. (२०,६८.१२ ) इन्द्रं सोमे सचा सुते ॥१२॥
10415. (२०,६९.१ ) स घा नो योग आ भुवत्स राये स पुरंध्याम् ।
10416. (२०,६९.१ ) गमद्वाजेभिरा स नः ॥१॥
10417. (२०,६९.२ ) यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
10418. (२०,६९.२ ) तस्मा इन्द्राय गायत ॥२॥
10419. (२०,६९.३ ) सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
10420. (२०,६९.३ ) सोमासो दध्याशिरः ॥३॥
10421. (२०,६९.४ ) त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
10422. (२०,६९.४ ) इन्द्र ज्यैष्ठ्याय सुक्रतो ॥४॥
10423. (२०,६९.५ ) आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
10424. (२०,६९.५ ) शं ते सन्तु प्रचेतसे ॥५॥
10425. (२०,६९.६ ) त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो ।
10426. (२०,६९.६ ) त्वां वर्धन्तु नो गिरः ॥६॥
10427. (२०,६९.७ ) अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
10428. (२०,६९.७ ) यस्मिन् विश्वानि पौंस्या ॥७॥
10429. (२०,६९.८ ) मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः ।
10430. (२०,६९.८ ) ईशानो यवया वधम् ॥८॥
10431. (२०,६९.९ ) युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
10432. (२०,६९.९ ) रोचन्ते रोचना दिवि ॥९॥
10433. (२०,६९.१० ) युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
10434. (२०,६९.१० ) शोणा धृष्णू नृवाहसा ॥१०॥
10435. (२०,६९.११ ) केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।
10436. (२०,६९.११ ) समुषद्भिरजायथाः ॥११॥
10437. (२०,६९.१२ ) आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
10438. (२०,६९.१२ ) दधाना नाम यज्ञियम् ॥१२॥
10439. (२०,७०.१ ) वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
10440. (२०,७०.१ ) अविन्द उस्रिया अनु ॥१॥
10441. (२०,७०.२ ) देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।
10442. (२०,७०.२ ) महामनूषत श्रुतम् ॥२॥
10443. (२०,७०.३ ) इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
10444. (२०,७०.३ ) मन्दू समानवर्चसा ॥३॥
10445. (२०,७०.४ ) अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
10446. (२०,७०.४ ) गणैरिन्द्रस्य काम्यैः ॥४॥
10447. (२०,७०.५ ) अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि ।
10448. (२०,७०.५ ) समस्मिन्न् ऋञ्जते गिरः ॥५॥
10449. (२०,७०.६ ) इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
10450. (२०,७०.६ ) इन्द्रं महो वा रजसः ॥६॥
10451. (२०,७०.७ ) इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः ।
10452. (२०,७०.७ ) इन्द्रं वाणीरनूषत ॥७॥
10453. (२०,७०.८ ) इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।
10454. (२०,७०.८ ) इन्द्रो वज्री हिरण्ययः ॥८॥
10455. (२०,७०.९ ) इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
10456. (२०,७०.९ ) वि गोभिरिन्द्रमैरयत्॥९॥
10457. (२०,७०.१० ) इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
10458. (२०,७०.१० ) उग्र उग्राभिरूतिभिः ॥१०॥
10459. (२०,७०.११ ) इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
10460. (२०,७०.११ ) युजं वृत्रेषु वज्रिणम् ॥११॥
10461. (२०,७०.१२ ) स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।
10462. (२०,७०.१२ ) अस्मभ्यमप्रतिष्कुतः ॥१२॥
10463. (२०,७०.१३ ) तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
10464. (२०,७०.१३ ) न विन्धे अस्य सुष्टुतिम् ॥१३॥
10465. (२०,७०.१४ ) वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
10466. (२०,७०.१४ ) ईशानो अप्रतिष्कुतः ॥१४॥
10467. (२०,७०.१५ ) य एकश्चर्षणीनां वसूनामिरज्यति ।
10468. (२०,७०.१५ ) इन्द्रः पञ्च क्षितीनाम् ॥१५॥
10469. (२०,७०.१६ ) इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
10470. (२०,७०.१६ ) अस्माकमस्तु केवलः ॥१६॥
10471. (२०,७०.१७ ) एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
10472. (२०,७०.१७ ) वर्षिष्ठमूतये भर ॥१७॥
10473. (२०,७०.१८ ) नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
10474. (२०,७०.१८ ) त्वोतासो न्यर्वता ॥१८॥
10475. (२०,७०.१९ ) इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।
10476. (२०,७०.१९ ) जयेम सं युधि स्पृधः ॥१९॥
10477. (२०,७०.२० ) वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
10478. (२०,७०.२० ) सासह्याम पृतन्यतः ॥२०॥
10479. (२०,७१.१ ) महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
10480. (२०,७१.१ ) द्यौर्न प्रथिना शवः ॥१॥
10481. (२०,७१.२ ) समोहे वा य आशत नरस्तोकस्य सनितौ ।
10482. (२०,७१.२ ) विप्रासो वा धियायवः ॥२॥
10483. (२०,७१.३ ) यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
10484. (२०,७१.३ ) उर्वीरापो न काकुदः ॥३॥
10485. (२०,७१.४ ) एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
10486. (२०,७१.४ ) पक्वा शाखा न दाशुषे ॥४॥
10487. (२०,७१.५ ) एवा हि ते विभूतय ऊतय इन्द्र मावते ।
10488. (२०,७१.५ ) सद्यश्चित्सन्ति दाशुषे ॥५॥
10489. (२०,७१.६ ) एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
10490. (२०,७१.६ ) इन्द्राय सोमपीतये ॥६॥
10491. (२०,७१.७ ) इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
10492. (२०,७१.७ ) महामभिष्टिरोजसा ॥७॥
10493. (२०,७१.८ ) एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
10494. (२०,७१.८ ) चक्रिं विश्वानि चक्रये ॥८॥
10495. (२०,७१.९ ) मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
10496. (२०,७१.९ ) सचैषु सवनेष्वा ॥९॥
10497. (२०,७१.१० ) असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
10498. (२०,७१.१० ) अजोषा वृषभं पतिम् ॥१०॥
10499. (२०,७१.११ ) सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
10500. (२०,७१.११ ) असदित्ते विभु प्रभु ॥११॥
10501. (२०,७१.१२ ) अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ।
10502. (२०,७१.१२ ) तुविद्युम्न यशस्वतः ॥१२॥
10503. (२०,७१.१३ ) सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।
10504. (२०,७१.१३ ) विश्वायुर्धेह्यक्षितम् ॥१३॥
10505. (२०,७१.१४ ) अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
10506. (२०,७१.१४ ) इन्द्र ता रथिनीरिषः ॥१४॥
10507. (२०,७१.१५ ) वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
10508. (२०,७१.१५ ) होम गन्तारमूतये ॥१५॥
10509. (२०,७१.१६ ) सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
10510. (२०,७१.१६ ) इन्द्राय शूषमर्चति ॥१६॥
10511. (२०,७२.१ ) विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्।
10512. (२०,७२.१ ) तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
10513. (२०,७२.१ ) इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥१॥
10514. (२०,७२.२ ) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
10515. (२०,७२.२ ) यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
10516. (२०,७२.२ ) आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥२॥
10517. (२०,७२.३ ) उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
10518. (२०,७२.३ ) यदिन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि ।
10519. (२०,७२.३ ) आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥३॥
10520. (२०,७३.१ ) तुभ्येदिमा सवना शूर विश्वा तुभ्यं ब्रह्माणि वर्धना कृणोमि ।
10521. (२०,७३.१ ) त्वं नृभिर्हव्यो विश्वधासि ॥१॥
10522. (२०,७३.२ ) नू चिन् नु ते मन्यमानस्य दस्मोदश्नुवन्ति महिमानमुग्र ।
10523. (२०,७३.२ ) न वीर्यमिन्द्र ते न राधः ॥२॥
10524. (२०,७३.३ ) प्र वो महे महिवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वम् ।
10525. (२०,७३.३ ) विशः पूर्वीः प्र चरा चर्षणिप्राः ॥३॥
10526. (२०,७३.४ ) यदा वज्रं हिरण्यमिदथा रथं हरी यमस्य वहतो वि सूरिभिः ।
10527. (२०,७३.४ ) आ तिष्ठति मघवा सनश्रुत इन्द्रो वाजस्य दीर्घश्रवसस्पतिः ॥४॥
10528. (२०,७३.५ ) सो चिन् नु वृष्टिर्यूथ्या स्वा सचामिन्द्रः श्मश्रूणि हरिताभि प्रुष्णुते ।
10529. (२०,७३.५ ) अव वेति सुक्षयं सुते मधूदिद्धूणोति वातो यथा वनम् ॥५॥
10530. (२०,७३.६ ) यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान ।
10531. (२०,७३.६ ) तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥६॥
10532. (२०,७४.१ ) यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।
10533. (२०,७४.१ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥
10534. (२०,७४.२ ) शिप्रिन् वाजानां पते शचीवस्तव दंसना ।
10535. (२०,७४.२ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥
10536. (२०,७४.३ ) नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।
10537. (२०,७४.३ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥
10538. (२०,७४.४ ) ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
10539. (२०,७४.४ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥
10540. (२०,७४.५ ) समिन्द्र गर्दभं मृण नुवन्तं पपयामुया ।
10541. (२०,७४.५ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥
10542. (२०,७४.६ ) पताति कुण्डृणाच्या दूरं वातो वनादधि ।
10543. (२०,७४.६ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥
10544. (२०,७४.७ ) सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
10545. (२०,७४.७ ) आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥
10546. (२०,७५.१ ) वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
10547. (२०,७५.१ ) यद्गव्यन्त द्वा जना स्वर्यन्ता समूहसि ।
10548. (२०,७५.१ ) आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥१॥
10549. (२०,७५.२ ) विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
10550. (२०,७५.२ ) शासस्तमिन्द्र मर्त्यमयजुं शवसस्पते ।
10551. (२०,७५.२ ) महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥२॥
10552. (२०,७५.३ ) आदित्ते अस्य वीर्यस्य चर्किरन् मदेषु वृषन्न् उशिजो यदाविथ सखीयतो यदाविथ ।
10553. (२०,७५.३ ) चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
10554. (२०,७५.३ ) ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥३॥
10555. (२०,७६.१ ) वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः ।
10556. (२०,७६.१ ) यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥१॥
10557. (२०,७६.२ ) प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।
10558. (२०,७६.२ ) अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान् ॥२॥
10559. (२०,७६.३ ) कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।
10560. (२०,७६.३ ) कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥३॥
10561. (२०,७६.४ ) कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् ।
10562. (२०,७६.४ ) मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः ॥४॥
10563. (२०,७६.५ ) प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।
10564. (२०,७६.५ ) गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥
10565. (२०,७६.६ ) मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।
10566. (२०,७६.६ ) वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥
10567. (२०,७६.७ ) आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।
10568. (२०,७६.७ ) स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥
10569. (२०,७६.८ ) व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।
10570. (२०,७६.८ ) आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥
10571. (२०,७७.१ ) आ सत्यो यातु मघवामृजीषी द्रवन्त्वस्य हरय उप नः ।
10572. (२०,७७.१ ) तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥१॥
10573. (२०,७७.२ ) अव स्य शूराध्वनो नान्तेऽस्मिन् नो अद्य सवने मन्दध्यै ।
10574. (२०,७७.२ ) शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥२॥
10575. (२०,७७.३ ) कविर्न निण्यं विदथानि साधन् वृषा यत्सेकं विपिपानो अर्चात्।
10576. (२०,७७.३ ) दिव इत्था जीजनत्सप्त कारून् अह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥
10577. (२०,७७.४ ) स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।
10578. (२०,७७.४ ) अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥४॥
10579. (२०,७७.५ ) ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा ।
10580. (२०,७७.५ ) अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥
10581. (२०,७७.६ ) विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर्निकामैः ।
10582. (२०,७७.६ ) अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥
10583. (२०,७७.७ ) अपो वृत्रं वव्रिवांसं पराहन् प्रावत्ते वज्रं पृथिवी सचेताः ।
10584. (२०,७७.७ ) प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवं छवसा शूर धृष्णो ॥७॥
10585. (२०,७७.८ ) अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते ।
10586. (२०,७७.८ ) स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर्गृणानः ॥८॥
10587. (२०,७८.१ ) तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
10588. (२०,७८.१ ) शं यद्गवे न शाकिने ॥१॥
10589. (२०,७८.२ ) न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
10590. (२०,७८.२ ) यत्सीमुप श्रवद्गिरः ॥२॥
10591. (२०,७८.३ ) कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत्।
10592. (२०,७८.३ ) शचीभिरप नो वरत्॥३॥
10593. (२०,७९.१ ) इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
10594. (२०,७९.१ ) शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥१॥
10595. (२०,७९.२ ) मा नो अज्ञाता वृजना दुराध्यो माशिवासो अव क्रमुः ।
10596. (२०,७९.२ ) त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ॥२॥
10597. (२०,८०.१ ) इन्द्र ज्येष्ठं न आ भरमोजिष्ठं पपुरि श्रवः ।
10598. (२०,८०.१ ) येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥१॥
10599. (२०,८०.२ ) त्वामुग्रमवसे चर्षणीसहं राजन् देवेषु हूमहे ।
10600. (२०,८०.२ ) विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान् सुषहान् कृधि ॥२॥
10601. (२०,८१.१ ) यद्द्याव इन्द्र ते शतं शतं भूमिरुत स्युः ।
10602. (२०,८१.१ ) न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥१॥
10603. (२०,८१.२ ) आ पप्राथ महिना कृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
10604. (२०,८१.२ ) अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२॥
10605. (२०,८२.१ ) यदिन्द्र यावतस्त्वमेतावदहमीशीय ।
10606. (२०,८२.१ ) स्तोतारमिद्दिधिषेय रदावसो न पापत्वाय रासीय ॥१॥
10607. (२०,८२.२ ) शिक्षेयमिन् महयते दिवेदिवे राय आ कुहचिद्विदे ।
10608. (२०,८२.२ ) नहि त्वदन्यन् मघवन् न आप्यं वस्यो अस्ति पिता चन ॥२॥
10609. (२०,८३.१ ) इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत्।
10610. (२०,८३.१ ) छर्दिर्यछ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥१॥
10611. (२०,८३.२ ) ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।
10612. (२०,८३.२ ) अघ स्मा नो मघवन्न् इन्द्र गिर्वणस्तनूपा अन्तमो भव ॥२॥
10613. (२०,८४.१ ) इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
10614. (२०,८४.१ ) अण्वीभिस्तना पूतासः ॥१॥
10615. (२०,८४.२ ) इन्द्रा याहि धियेषितो विप्रजुतः सुतावतः ।
10616. (२०,८४.२ ) उप ब्रह्माणि वाघतः ॥२॥
10617. (२०,८४.३ ) इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
10618. (२०,८४.३ ) सुते दधिष्व नश्चनः ॥३॥
10619. (२०,८५.१ ) मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
10620. (२०,८५.१ ) इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥१॥
10621. (२०,८५.२ ) अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
10622. (२०,८५.२ ) विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम् ॥२॥
10623. (२०,८५.३ ) यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
10624. (२०,८५.३ ) अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥३॥
10625. (२०,८५.४ ) वि तर्तूर्यन्ते मघवन् विपश्चितोऽर्यो विपो जनानाम् ।
10626. (२०,८५.४ ) उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥४॥
10627. (२०,८६.१ ) ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
10628. (२०,८६.१ ) स्थिरं रथं सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वामुप याहि सोमम् ॥१॥
10629. (२०,८७.१ ) अध्वर्यवोऽरुणं दुग्धमंशुं जुहोतन वृषभाय क्षितीनाम् ।
10630. (२०,८७.१ ) गौराद्वेदीयामवपानमिन्द्रो विश्वाहेद्याति सुतसोममिछन् ॥१॥
10631. (२०,८७.२ ) यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि ।
10632. (२०,८७.२ ) उत हृदोत मनसा जुषाण उशन्न् इन्द्र प्रस्थितान् पाहि सोमान् ॥२॥
10633. (२०,८७.३ ) जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच ।
10634. (२०,८७.३ ) एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥३॥
10635. (२०,८७.४ ) यद्योधया महतो मन्यमानान् साक्षाम तान् बाहुभिः शाशदानान् ।
10636. (२०,८७.४ ) यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥४॥
10637. (२०,८७.५ ) प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार ।
10638. (२०,८७.५ ) यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥५॥
10639. (२०,८७.६ ) तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य ।
10640. (२०,८७.६ ) गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥६॥
10641. (२०,८७.७ ) बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।
10642. (२०,८७.७ ) धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥७॥
10643. (२०,८८.१ ) यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण ।
10644. (२०,८८.१ ) तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥
10645. (२०,८८.२ ) धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे ।
10646. (२०,८८.२ ) पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥
10647. (२०,८८.३ ) बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः ।
10648. (२०,८८.३ ) तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥३॥
10649. (२०,८८.४ ) बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।
10650. (२०,८८.४ ) सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥
10651. (२०,८८.५ ) स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेन ।
10652. (२०,८८.५ ) बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्॥५॥
10653. (२०,८८.६ ) एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।
10654. (२०,८८.६ ) बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥
10655. (२०,८९.१ ) अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै ।
10656. (२०,८९.१ ) वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥
10657. (२०,८९.२ ) दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।
10658. (२०,८९.२ ) कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥२॥
10659. (२०,८९.३ ) किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।
10660. (२०,८९.३ ) अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥३॥
10661. (२०,८९.४ ) त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।
10662. (२०,८९.४ ) अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥४॥
10663. (२०,८९.५ ) धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान् ।
10664. (२०,८९.५ ) तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥५॥
10665. (२०,८९.६ ) यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।
10666. (२०,८९.६ ) आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥६॥
10667. (२०,८९.७ ) आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।
10668. (२०,८९.७ ) अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥
10669. (२०,८९.८ ) प्र यमन्तर्वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् ।
10670. (२०,८९.८ ) नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥८॥
10671. (२०,८९.९ ) उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।
10672. (२०,८९.९ ) यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥९॥
10673. (२०,८९.१० ) गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
10674. (२०,८९.१० ) वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥१०॥
10675. (२०,८९.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।
10676. (२०,८९.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥११॥
10677. (२०,९०.१ ) यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।
10678. (२०,९०.१ ) द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥
10679. (२०,९०.२ ) जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार ।
10680. (२०,९०.२ ) घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२॥
10681. (२०,९०.३ ) बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः ।
10682. (२०,९०.३ ) अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥
10683. (२०,९१.१ ) इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्।
10684. (२०,९१.१ ) तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१॥
10685. (२०,९१.२ ) ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।
10686. (२०,९१.२ ) विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥
10687. (२०,९१.३ ) हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।
10688. (२०,९१.३ ) बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वामगायत्॥३॥
10689. (२०,९१.४ ) अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।
10690. (२०,९१.४ ) बृहस्पतिस्तमसि ज्योतिरिछन् उदुस्रा आकर्वि हि तिस्र आवः ॥४॥
10691. (२०,९१.५ ) विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्।
10692. (२०,९१.५ ) बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः ॥५॥
10693. (२०,९१.६ ) इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।
10694. (२०,९१.६ ) स्वेदाञ्जिभिराशिरमिछमानोऽरोदयत्पणिमा गा अमुष्णात्॥६॥
10695. (२०,९१.७ ) स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।
10696. (२०,९१.७ ) ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट्॥७॥
10697. (२०,९१.८ ) ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।
10698. (२०,९१.८ ) बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥
10699. (२०,९१.९ ) तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।
10700. (२०,९१.९ ) बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥
10701. (२०,९१.१० ) यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।
10702. (२०,९१.१० ) बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥
10703. (२०,९१.११ ) सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।
10704. (२०,९१.११ ) पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥११॥
10705. (२०,९१.१२ ) इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।
10706. (२०,९१.१२ ) अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥
10707. (२०,९२.१ ) अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
10708. (२०,९२.१ ) सूतुं सत्यस्य सत्पतिम् ॥१॥
10709. (२०,९२.२ ) आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
10710. (२०,९२.२ ) यत्राभि संनवामहे ॥२॥
10711. (२०,९२.३ ) इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
10712. (२०,९२.३ ) यत्सीमुपह्वरे विदत्॥३॥
10713. (२०,९२.४ ) उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
10714. (२०,९२.४ ) मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥४॥
10715. (२०,९२.५ ) अर्चत प्रार्चत प्रियमेधासो अर्चत ।
10716. (२०,९२.५ ) अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥५॥
10717. (२०,९२.६ ) अव स्वराति गर्गरो गोधा परि सनिष्वणत्।
10718. (२०,९२.६ ) पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥६॥
10719. (२०,९२.७ ) आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
10720. (२०,९२.७ ) अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥७॥
10721. (२०,९२.८ ) अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।
10722. (२०,९२.८ ) वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥८॥
10723. (२०,९२.९ ) सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
10724. (२०,९२.९ ) अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥९॥
10725. (२०,९२.१० ) यो व्यतींरफाणयत्सुयुक्तामुप दाशुषे ।
10726. (२०,९२.१० ) तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥१०॥
10727. (२०,९२.११ ) अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
10728. (२०,९२.११ ) भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥११॥
10729. (२०,९२.१२ ) अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम् ।
10730. (२०,९२.१२ ) स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१२॥
10731. (२०,९२.१३ ) आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् ।
10732. (२०,९२.१३ ) अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥१३॥
10733. (२०,९२.१४ ) तं घेमित्था नमस्विन उप स्वराजमासते ।
10734. (२०,९२.१४ ) अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने ॥१४॥
10735. (२०,९२.१५ ) अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
10736. (२०,९२.१५ ) पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१५॥
10737. (२०,९२.१६ ) यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
10738. (२०,९२.१६ ) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१६॥
10739. (२०,९२.१७ ) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।
10740. (२०,९२.१७ ) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥१७॥
10741. (२०,९२.१८ ) नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।
10742. (२०,९२.१८ ) इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥१८॥
10743. (२०,९२.१९ ) अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः ।
10744. (२०,९२.१९ ) सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥१९॥
10745. (२०,९२.२० ) यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
10746. (२०,९२.२० ) न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥२०॥
10747. (२०,९२.२१ ) आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।
10748. (२०,९२.२१ ) अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२१॥
10749. (२०,९३.१ ) उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
10750. (२०,९३.१ ) अव ब्रह्मद्विषो जहि ॥१॥
10751. (२०,९३.२ ) पदा पणींरराधसो नि बाधस्व महामसि ।
10752. (२०,९३.२ ) नहि त्वा कश्चन प्रति ॥२॥
10753. (२०,९३.३ ) त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
10754. (२०,९३.३ ) त्वं राजा जनानाम् ॥३॥
10755. (२०,९३.४ ) ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
10756. (२०,९३.४ ) भेजानासः सुवीर्यम् ॥४॥
10757. (२०,९३.५ ) त्वमिन्द्र बलादधि सहसो जात ओजसः ।
10758. (२०,९३.५ ) त्वं वृषन् वृषेदसि ॥५॥
10759. (२०,९३.६ ) त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।
10760. (२०,९३.६ ) उद्द्यामस्तभ्ना ओजसा ॥६॥
10761. (२०,९३.७ ) त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
10762. (२०,९३.७ ) वज्रं शिशान ओजसा ॥७॥
10763. (२०,९३.८ ) त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा ।
10764. (२०,९३.८ ) स विश्वा भुव आभवः ॥८॥
10765. (२०,९४.१ ) आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।
10766. (२०,९४.१ ) प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥
10767. (२०,९४.२ ) सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।
10768. (२०,९४.२ ) शीभं राजन् सुपथा याह्यर्वाङ्वर्धाम ते पपुसो वृष्ण्यानि ॥२॥
10769. (२०,९४.३ ) एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् ।
10770. (२०,९४.३ ) प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥३॥
10771. (२०,९४.४ ) एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे ।
10772. (२०,९४.४ ) ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥४॥
10773. (२०,९४.५ ) गमन्न् अस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।
10774. (२०,९४.५ ) त्वमीशिषे सास्मिन्न् आ सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥५॥
10775. (२०,९४.६ ) पृथक्प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।
10776. (२०,९४.६ ) न ये शेकुर्यज्ञियां नावमारुहमिर्मैव ते न्यविशन्त केपयः ॥६॥
10777. (२०,९४.७ ) एवैवापागपरे सन्तु दूध्योऽश्वा येषां दुर्युग आयुयुज्रे ।
10778. (२०,९४.७ ) इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥
10779. (२०,९४.८ ) गिरींरज्रान् रेजमानामधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्।
10780. (२०,९४.८ ) समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥
10781. (२०,९४.९ ) इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः ।
10782. (२०,९४.९ ) अस्मिन्त्सु ते सवने अस्त्वोक्त्यं सुत इष्टौ मघवन् बोध्याभगः ॥९॥
10783. (२०,९४.१० ) गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।
10784. (२०,९४.१० ) वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
10785. (२०,९४.११ ) बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।
10786. (२०,९४.११ ) इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥
10787. (२०,९५.१ ) त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्।
10788. (२०,९५.१ ) स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥१॥
10789. (२०,९५.२ ) प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।
10790. (२०,९५.२ ) अभीके चिदु लोककृत्संगे समत्सु वृत्रहास्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥२॥
10791. (२०,९५.३ ) त्वं सिन्धूंरवासृजोऽधराचो अहन्न् अहिम् ।
10792. (२०,९५.३ ) अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥३॥
10793. (२०,९५.४ ) वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।
10794. (२०,९५.४ ) अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु ।
10795. (२०,९५.४ ) नभन्तामन्यकेषां ज्यका अधि धन्वसु ॥४॥
10796. (२०,९६.१ ) तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।
10797. (२०,९६.१ ) इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यमिमे सुतासः ॥१॥
10798. (२०,९६.२ ) तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति ।
10799. (२०,९६.२ ) इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वामिह पाहि सोमम् ॥२॥
10800. (२०,९६.३ ) य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।
10801. (२०,९६.३ ) न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥३॥
10802. (२०,९६.४ ) अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम् ।
10803. (२०,९६.४ ) निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥४॥
10804. (२०,९६.५ ) अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।
10805. (२०,९६.५ ) आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥५॥
10806. (२०,९६.६ ) मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।
10807. (२०,९६.६ ) ग्राहिर्जग्राह यद्येतद्तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥६॥
10808. (२०,९६.७ ) यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।
10809. (२०,९६.७ ) तमा हरामि निरृतेरुपस्थादस्पार्शमेनं शतशारदाय ॥७॥
10810. (२०,९६.८ ) सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।
10811. (२०,९६.८ ) इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥८॥
10812. (२०,९६.९ ) शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।
10813. (२०,९६.९ ) शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥९॥
10814. (२०,९६.१० ) आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।
10815. (२०,९६.१० ) सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥१०॥
10816. (२०,९६.११ ) ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधतामितः ।
10817. (२०,९६.११ ) अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥११॥
10818. (२०,९६.१२ ) यस्ते गर्भममीवा दुर्णामा योनिमाशये ।
10819. (२०,९६.१२ ) अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्॥१२॥
10820. (२०,९६.१३ ) यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।
10821. (२०,९६.१३ ) जातं यस्ते जिघांसति तमितो नाशयामसि ॥१३॥
10822. (२०,९६.१४ ) यस्त ऊरू विहरत्यन्तरा दम्पती शये ।
10823. (२०,९६.१४ ) योनिं यो अन्तरारेल्हि तमितो नाशयामसि ॥१४॥
10824. (२०,९६.१५ ) यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।
10825. (२०,९६.१५ ) प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१५॥
10826. (२०,९६.१६ ) यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
10827. (२०,९६.१६ ) प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१६॥
10828. (२०,९६.१७ ) अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।
10829. (२०,९६.१७ ) यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१७॥
10830. (२०,९६.१८ ) ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।
10831. (२०,९६.१८ ) यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥१८॥
10832. (२०,९६.१९ ) हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।
10833. (२०,९६.१९ ) यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥१९॥
10834. (२०,९६.२० ) आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।
10835. (२०,९६.२० ) यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥२०॥
10836. (२०,९६.२१ ) ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।
10837. (२०,९६.२१ ) यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥२१॥
10838. (२०,९६.२२[]अ) मेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।
10839. (२०,९६.२२[]च्) यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥२२॥
10840. (२०,९६.[]२२ ) अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।
10841. (२०,९६.[]२२ ) यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥२२॥
10842. (२०,९६.२३ ) अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।
10843. (२०,९६.२३ ) यक्षं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥२३॥
10844. (२०,९६.२४ ) अपेहि मनसस्पतेऽप काम परश्चर ।
10845. (२०,९६.२४ ) परो निरृत्या आ चक्ष्व बहुधा जीवतो मनः ॥२४॥
10846. (२०,९७.१ ) वयमेनमिदा ह्योपीपेमेह वज्रिणम् ।
10847. (२०,९७.१ ) तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥१॥
10848. (२०,९७.२ ) वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
10849. (२०,९७.२ ) सेमं नः स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥२॥
10850. (२०,९७.३ ) कदु न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।
10851. (२०,९७.३ ) केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥३॥
10852. (२०,९८.१ ) त्वामिद्धि हवामहे साता वाजस्य कारवः ।
10853. (२०,९८.१ ) त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥१॥
10854. (२०,९८.२ ) स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
10855. (२०,९८.२ ) गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥२॥
10856. (२०,९९.१ ) अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
10857. (२०,९९.१ ) समीचीनास ऋभवः समस्वरन् रुद्रा गृणन्त पूर्व्यम् ॥१॥
10858. (२०,९९.२ ) अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
10859. (२०,९९.२ ) अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥२॥
10860. (२०,१००.१ ) अधा हीन्द्र गिर्वण उप त्वा कामान् महः ससृज्महे ।
10861. (२०,१००.१ ) उदेव यन्त उदभिः ॥१॥
10862. (२०,१००.२ ) वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
10863. (२०,१००.२ ) वावृध्वांसं चिदद्रिवो दिवेदिवे ॥२॥
10864. (२०,१००.३ ) युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
10865. (२०,१००.३ ) इन्द्रवाहा वचोयुजा ॥३॥
10866. (२०,१०१.१ ) अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
10867. (२०,१०१.१ ) अस्य यज्ञस्य सुक्रतुम् ॥१॥
10868. (२०,१०१.२ ) अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
10869. (२०,१०१.२ ) हव्यवाहं पुरुप्रियम् ॥२॥
10870. (२०,१०१.३ ) अग्ने देवामिहा वह जज्ञानो वृक्तबर्हिषे ।
10871. (२०,१०१.३ ) असि होता न ईड्यः ॥३॥
10872. (२०,१०२.१ ) ईलेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
10873. (२०,१०२.१ ) समग्निरिध्यते वृषा ॥१॥
10874. (२०,१०२.२ ) वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
10875. (२०,१०२.२ ) तं हविष्मन्तः ईलते ॥२॥
10876. (२०,१०२.३ ) वृषणं त्वा वयं वृषन् वृषणः समिधीमहि ।
10877. (२०,१०२.३ ) अग्ने दीद्यतं बृहत्॥३॥
10878. (२०,१०३.१ ) अग्निमीलिष्वावसे गाथाभिः शीरशोचिषम् ।
10879. (२०,१०३.१ ) अग्निं राये पुरुमील्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥१॥
10880. (२०,१०३.२ ) अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
10881. (२०,१०३.२ ) आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥२॥
10882. (२०,१०३.३ ) अछ हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
10883. (२०,१०३.३ ) ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥३॥
10884. (२०,१०४.१ ) इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
10885. (२०,१०४.१ ) पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥१॥
10886. (२०,१०४.२ ) अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
10887. (२०,१०४.२ ) सत्यः सो अस्य महिमा गृने शवो यज्ञेषु विप्रराज्ये ॥२॥
10888. (२०,१०४.३ ) आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
10889. (२०,१०४.३ ) उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥३॥
10890. (२०,१०४.४ ) त्वं दाता प्रथमो राघसामस्यसि सत्य ईशानकृत्।
10891. (२०,१०४.४ ) तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥४॥
10892. (२०,१०५.१ ) त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
10893. (२०,१०५.१ ) अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥१॥
10894. (२०,१०५.२ ) अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
10895. (२०,१०५.२ ) विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥२॥
10896. (२०,१०५.३ ) इत ऊती वो अजरं प्रहेतारमप्रहितम् ।
10897. (२०,१०५.३ ) आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥३॥
10898. (२०,१०५.४ ) यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
10899. (२०,१०५.४ ) विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥४॥
10900. (२०,१०५.५ ) इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।
10901. (२०,१०५.५ ) हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥५॥
10902. (२०,१०६.१ ) तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
10903. (२०,१०६.१ ) वज्रं शिशाति धिषणा वरेण्यम् ॥१॥
10904. (२०,१०६.२ ) तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
10905. (२०,१०६.२ ) त्वामापः पर्वतासश्च हिन्विरे ॥२॥
10906. (२०,१०६.३ ) त्वां विष्णुर्बृहन् क्षयो मित्रो गृणाति वरुणः ।
10907. (२०,१०६.३ ) त्वां शर्धो मदत्यनु मारुतम् ॥३॥
10908. (२०,१०७.१ ) समस्य मन्यवे विशो विश्वा नमन्त कुष्टयः ।
10909. (२०,१०७.१ ) समुद्रायेव सिन्धवः ॥१॥
10910. (२०,१०७.२ ) ओजस्तदस्य तित्विष उभे यत्समवर्तयत्।
10911. (२०,१०७.२ ) इन्द्रश्चर्मेव रोदसी ॥२॥
10912. (२०,१०७.३ ) वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
10913. (२०,१०७.३ ) शिरो बिभेद्वृष्णिना ॥३॥
10914. (२०,१०७.४ ) तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।
10915. (२०,१०७.४ ) सद्यो जज्ञानो नि रिणाति शत्रून् अनु यदेनं मदन्ति विश्व ऊमाः ॥४॥
10916. (२०,१०७.५ ) वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।
10917. (२०,१०७.५ ) अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥५॥
10918. (२०,१०७.६ ) त्वे क्रतुमपि पृञ्चन्ति भूरि द्विर्यदेते त्रिर्भवन्त्यूमाः ।
10919. (२०,१०७.६ ) स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥६॥
10920. (२०,१०७.७ ) यदि चिन् नु त्वा धना जयन्तं रणेरणे अनुमदन्ति विप्राः ।
10921. (२०,१०७.७ ) ओजीयः शुष्मिन्त्स्थिरमा तनुष्व मा त्वा दभन् दुरेवासः कशोकाः ॥७॥
10922. (२०,१०७.८ ) त्वया वयं शाशद्महे रणेषु प्रपश्यन्तो युधेन्यानि भूरि ।
10923. (२०,१०७.८ ) चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥८॥
10924. (२०,१०७.९ ) नि तद्दधिषेऽवरे परे च यस्मिन्न् आविथावसा दुरोणे ।
10925. (२०,१०७.९ ) आ स्थापयत मातरं जिगत्नुमत इन्वत कर्वराणि भूरि ॥९॥
10926. (२०,१०७.१० ) स्तुष्व वर्ष्मन् पुरुवर्त्मानं समृभ्वाणमिनतममाप्तमाप्त्यानाम् ।
10927. (२०,१०७.१० ) आ दर्शति शवसा भूर्योजाः प्र सक्षति प्रतिमानं पृथिव्याः ॥१०॥
10928. (२०,१०७.११ ) इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्नियः स्वर्षाः ।
10929. (२०,१०७.११ ) महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥११॥
10930. (२०,१०७.१२ ) एवा महान् बृहद्दिवो अथर्वावोचत्स्वां तन्वमिन्द्रमेव ।
10931. (२०,१०७.१२ ) स्वसारौ मातरिभ्वरी अरिप्रे हिन्वन्ति चैने शवसा वर्धयन्ति च ॥१२॥
10932. (२०,१०७.१३ ) चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।
10933. (२०,१०७.१३ ) दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥१३॥
10934. (२०,१०७.१४ ) चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
10935. (२०,१०७.१४ ) आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥१४॥
10936. (२०,१०७.१५ ) सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात्।
10937. (२०,१०७.१५ ) यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥१५॥
10938. (२०,१०८.१ ) त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे ।
10939. (२०,१०८.१ ) आ वीरं पृतनाषहम् ॥१॥
10940. (२०,१०८.२ ) त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
10941. (२०,१०८.२ ) अधा ते सुम्नमीमहे ॥२॥
10942. (२०,१०८.३ ) त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
10943. (२०,१०८.३ ) स नो रास्व सुवीर्यम् ॥३॥
10944. (२०,१०९.१ ) स्वादोरित्था विषुवतो मध्वः पिबन्ति गौर्यः ।
10945. (२०,१०९.१ ) या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥१॥
10946. (२०,१०९.२ ) ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
10947. (२०,१०९.२ ) प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥२॥
10948. (२०,१०९.३ ) ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
10949. (२०,१०९.३ ) व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥३॥
10950. (२०,११०.१ ) इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः ।
10951. (२०,११०.१ ) अर्कमर्चन्तु कारवः ॥१॥
10952. (२०,११०.२ ) यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
10953. (२०,११०.२ ) इन्द्रं सुते हवामहे ॥२॥
10954. (२०,११०.३ ) त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
10955. (२०,११०.३ ) तमिद्वर्धन्तु नो गिरः ॥३॥
10956. (२०,१११.१ ) यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
10957. (२०,१११.१ ) यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१॥
10958. (२०,१११.२ ) यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
10959. (२०,१११.२ ) अस्माकमित्सुते रणा समिन्दुभिः ॥२॥
10960. (२०,१११.३ ) यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
10961. (२०,१११.३ ) उक्थे वा यस्य रण्यसि समिन्दुभिः ॥३॥
10962. (२०,११२.१ ) यदद्य कच्च वृत्रहन्न् उदगा अभि सूर्य ।
10963. (२०,११२.१ ) सर्वं तदिन्द्र ते वशे ॥१॥
10964. (२०,११२.२ ) यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
10965. (२०,११२.२ ) उतो तत्सत्यमित्तव ॥२॥
10966. (२०,११२.३ ) ये सोमासः परावति ये अर्वावति सुन्विरे ।
10967. (२०,११२.३ ) सर्वांस्तामिन्द्र गछसि ॥३॥
10968. (२०,११३.१ ) उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
10969. (२०,११३.१ ) सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत्॥१॥
10970. (२०,११३.२ ) तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
10971. (२०,११३.२ ) उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥२॥
10972. (२०,११४.१ ) अभ्रातृव्योऽना त्वमनापिरिन्द्र जनुषा सनादसि ।
10973. (२०,११४.१ ) युधेदापित्वमिछसे ॥१॥
10974. (२०,११४.२ ) नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
10975. (२०,११४.२ ) यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥२॥
10976. (२०,११५.१ ) अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
10977. (२०,११५.१ ) अहं सूर्य इवाजनि ॥१॥
10978. (२०,११५.२ ) अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्।
10979. (२०,११५.२ ) येनेन्द्रः शुष्ममिद्दधे ॥२॥
10980. (२०,११५.३ ) ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
10981. (२०,११५.३ ) ममेद्वर्धस्व सुष्टुतः ॥३॥
10982. (२०,११६.१ ) मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
10983. (२०,११६.१ ) वनानि नि प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥१॥
10984. (२०,११६.२ ) अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
10985. (२०,११६.२ ) सुकृत्सु ते महता शूर राधसानु स्तोमं मुदीमहि ॥२॥
10986. (२०,११७.१ ) पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
10987. (२०,११७.१ ) सोतुर्बाहुभ्यां सुयतो नार्वा ॥१॥
10988. (२०,११७.२ ) यस्ते मदो युजस्चारुरस्ति येन वृत्राणि हर्यश्व हंसि ।
10989. (२०,११७.२ ) स त्वामिन्द्र प्रभूवसो ममत्तु ॥२॥
10990. (२०,११७.३ ) बोधा सु मे मघवन् वाचमेमां यां ते वसिष्ठो अर्चति प्रशस्तिम् ।
10991. (२०,११७.३ ) इमा ब्रह्म सधमादे जुषस्व ॥३॥
10992. (२०,११८.१ ) शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
10993. (२०,११८.१ ) भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥१॥
10994. (२०,११८.२ ) पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
10995. (२०,११८.२ ) नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥२॥
10996. (२०,११८.३ ) इन्द्रमिद्देवतातये इन्द्रं प्रयत्यध्वरे ।
10997. (२०,११८.३ ) इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥३॥
10998. (२०,११८.४ ) इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत्।
10999. (२०,११८.४ ) इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥४॥
11000. (२०,११९.१ ) अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
11001. (२०,११९.१ ) पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेघा असृक्षत ॥१॥
11002. (२०,११९.२ ) तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
11003. (२०,११९.२ ) अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥२॥
11004. (२०,१२०.१ ) यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
11005. (२०,१२०.१ ) सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥
11006. (२०,१२०.२ ) यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
11007. (२०,१२०.२ ) कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यछन्त्या गहि ॥२॥
11008. (२०,१२१.१ ) अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
11009. (२०,१२१.१ ) ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥१॥
11010. (२०,१२१.२ ) न त्वावामन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।
11011. (२०,१२१.२ ) अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥२॥
11012. (२०,१२२.१ ) रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
11013. (२०,१२२.१ ) क्षुमन्तो याभिर्मदेम ॥१॥
11014. (२०,१२२.२ ) आ घ त्वावान् त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
11015. (२०,१२२.२ ) ऋणोरक्षं न चक्रयोः ॥२॥
11016. (२०,१२२.३ ) आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
11017. (२०,१२२.३ ) ऋणोरक्षं न शचीभिः ॥३॥
11018. (२०,१२३.१ ) तत्सूर्यस्य देवत्वं तन् महित्वं मध्या कर्तोर्विततं सं जभार ।
11019. (२०,१२३.१ ) यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥१॥
11020. (२०,१२३.२ ) तन् मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
11021. (२०,१२३.२ ) अनन्तमन्यद्रुशदस्य प्राजः कृष्णमन्यद्धरितः सं भरन्ति ॥२॥
11022. (२०,१२४.१ ) कया नश्चित्र आ भुवदूती सदावृधः सखा ।
11023. (२०,१२४.१ ) कया शचिष्ठया वृता ॥१॥
11024. (२०,१२४.२ ) कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।
11025. (२०,१२४.२ ) दृल्हा चिदारुजे वसु ॥२॥
11026. (२०,१२४.३ ) अभी षु नः सखीनामविता जरितॄणाम् ।
11027. (२०,१२४.३ ) शतं भवास्यूतिभिः ॥३॥
11028. (२०,१२४.४ ) इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।
11029. (२०,१२४.४ ) यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥४॥
11030. (२०,१२४.५ ) आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।
11031. (२०,१२४.५ ) हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥५॥
11032. (२०,१२४.६ ) प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।
11033. (२०,१२४.६ ) अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥६॥
11034. (२०,१२५.१ ) अपेन्द्र प्राचो मघवन्न् अमित्रान् अपापाचो अभिभूते नुदस्व ।
11035. (२०,१२५.१ ) अपोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम ॥१॥
11036. (२०,१२५.२ ) कुविदङ्ग यवमन्तो यवं चिद्यथा दान्त्यनुपूर्वं वियूय ।
11037. (२०,१२५.२ ) इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥२॥
11038. (२०,१२५.३ ) नहि स्थूर्यृतुथा यातमस्ति नोत श्रवो विविदे संगमेषु ।
11039. (२०,१२५.३ ) गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ॥३॥
11040. (२०,१२५.४ ) युवं सुराममश्विना नमुचावासुरे सचा ।
11041. (२०,१२५.४ ) विपिपाना शुभस्पती इन्द्रं कर्मस्वावतम् ॥४॥
11042. (२०,१२५.५ ) पुत्रमिव पितरावश्विनोभेन्द्रावथुः काव्यैर्दंसनाभिः ।
11043. (२०,१२५.५ ) यत्सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्न् अभिष्णक्॥५॥
11044. (२०,१२५.६ ) इन्द्रः सुत्रामा स्ववामवोभिः सुमृडीको भवतु विश्ववेदाः ।
11045. (२०,१२५.६ ) बाधतां द्वेषो अभयं नः कृणोतु सुवीर्यस्य पतयः स्याम ॥६॥
11046. (२०,१२५.७ ) स सुत्रामा स्ववामिन्द्रो अस्मदाराच्चिद्द्वेषः सनुतर्युयोतु ।
11047. (२०,१२५.७ ) तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥७॥
11048. (२०,१२६.१ ) वि हि सोतोरसृक्षत नेन्द्रं देवममंसत ।
11049. (२०,१२६.१ ) यत्रामदद्वृषाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥१॥
11050. (२०,१२६.२ ) परा हीन्द्र धावसि वृषाकपेरति व्यथिः ।
11051. (२०,१२६.२ ) नो अह प्र विन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः ॥२॥
11052. (२०,१२६.३ ) किमयं त्वां वृषाकपिश्चकार हरितो मृगः ।
11053. (२०,१२६.३ ) यस्मा इरस्यसीदु न्वर्यो वा पुष्टिमद्वसु विश्वस्मादिन्द्र उत्तरः ॥३॥
11054. (२०,१२६.४ ) यमिमं त्वं वृषाकपिं प्रियमिन्द्राभिरक्षसि ।
11055. (२०,१२६.४ ) श्वा न्वस्य जम्भिषदपि कर्णे वराहयुर्विश्वस्मादिन्द्र उत्तरः ॥४॥
11056. (२०,१२६.५ ) प्रिया तष्टानि मे कपिर्व्यक्ता व्यदूदुषत्।
11057. (२०,१२६.५ ) शिरो न्वस्य राविषं न सुगं दुष्कृते भुवं विश्वस्मादिन्द्र उत्तरः ॥५॥
11058. (२०,१२६.६ ) न मत्स्त्री सुभसत्तरा न सुयाशुतरा भुवत्।
11059. (२०,१२६.६ ) न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्र उत्तरः ॥६॥
11060. (२०,१२६.७ ) उवे अम्ब सुलाभिके यथेवाङ्गं भविष्यति ।
11061. (२०,१२६.७ ) भसन् मे अम्ब सक्थि मे शिरो मे वीव हृष्यति विश्वस्मादिन्द्र उत्तरः ॥७॥
11062. (२०,१२६.८ ) किं सुबाहो स्वङ्गुरे पृथुष्टो पृथुजाघने ।
11063. (२०,१२६.८ ) किं शूरपत्नि नस्त्वमभ्यमीषि वृषाकपिं विश्वस्मादिन्द्र उत्तरः ॥८॥
11064. (२०,१२६.९ ) अवीरामिव मामयं शरारुरभि मन्यते ।
11065. (२०,१२६.९ ) उताहमस्मि वीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः ॥९॥
11066. (२०,१२६.१० ) संहोत्रं स्म पुरा नारी समनं वाव गछति ।
11067. (२०,१२६.१० ) वेधा ऋतस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः ॥१०॥
11068. (२०,१२६.११ ) इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।
11069. (२०,१२६.११ ) नह्यस्या अपरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः ॥११॥
11070. (२०,१२६.१२ ) नाहमिन्द्राणि रारण सख्युर्वृषाकपेरृते ।
11071. (२०,१२६.१२ ) यस्येदमप्यं हविः प्रियं देवेषु गछति विश्वस्मादिन्द्र उत्तरः ॥१२॥
11072. (२०,१२६.१३ ) वृसाकपायि रेवति सुपुत्र आदु सुस्नुषे ।
11073. (२०,१२६.१३ ) घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥१३॥
11074. (२०,१२६.१४ ) उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंसतिम् ।
11075. (२०,१२६.१४ ) उताहमद्मि पीव इदुभा कुक्षी पृणन्ति मे विश्वस्मादिन्द्र उत्तरः ॥१४॥
11076. (२०,१२६.१५ ) वृषभो न तिग्मशृङ्गोऽन्तर्यूथेषु रोरुवत्।
11077. (२०,१२६.१५ ) मन्थस्त इन्द्र शं हृदे यं ते सुनोति भावयुर्विश्वस्मादिन्द्र उत्तरः ॥१५॥
11078. (२०,१२६.१६ ) न सेशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्।
11079. (२०,१२६.१६ ) सेदीशे यस्य रोमशं निषेदुषो विजृम्भते विश्वस्मादिन्द्र उत्तरः ॥१६॥
11080. (२०,१२६.१७ ) न सेशे यस्य रोमशं निषेदुषो विजृम्भते ।
11081. (२०,१२६.१७ ) सेदीशे यस्य रम्बतेऽन्तरा सक्थ्या कपृत्विश्वस्मादिन्द्र उत्तरः ॥१७॥
11082. (२०,१२६.१८ ) अयमिन्द्र वृषाकपिः परस्वन्तं हतं विदत्।
11083. (२०,१२६.१८ ) असिं सूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः ॥१८॥
11084. (२०,१२६.१९ ) अयमेमि विचाकशद्विचिन्वन् दासमार्यम् ।
11085. (२०,१२६.१९ ) पिबामि पाकसुत्वनोऽभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः ॥१९॥
11086. (२०,१२६.२० ) धन्व च यत्कृन्तत्रं च कति स्वित्ता वि योजना ।
11087. (२०,१२६.२० ) नेदीयसो वृषाकपेऽस्तमेहि गृहामुप विश्वस्मादिन्द्र उत्तरः ॥२०॥
11088. (२०,१२६.२१ ) पुनरेहि वृषाकपे सुविता कल्पयावहै ।
11089. (२०,१२६.२१ ) य एष स्वप्ननंशनोऽस्तमेषि पथा पुनर्विश्वस्मादिन्द्र उत्तरः ॥२१॥
11090. (२०,१२६.२२ ) यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।
11091. (२०,१२६.२२ ) क्व स्य पुल्वघो मृगः कमगं जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥२२॥
11092. (२०,१२६.२३ ) पर्शुर्ह नाम मानवी साकं ससूव विंशतिम् ।
11093. (२०,१२६.२३ ) भद्रं भल त्यस्या अभूद्यस्या उदरमामयद्विश्वस्मादिन्द्र उत्तरः ॥२३॥
11094. (२०,१२७.१ ) इदं जना उप श्रुत नराशंस स्तविष्यते ।
11095. (२०,१२७.१ ) षष्टिं सहस्रा नवतिं च कौरम आ रुशमेषु दद्महे ॥१॥
11096. (२०,१२७.२ ) उष्ट्रा यस्य प्रवाहणो वधूमन्तो द्विर्दश ।
11097. (२०,१२७.२ ) वर्ष्मा रथस्य नि जिहीडते दिव ईषमाणा उपस्पृशः ॥२॥
11098. (२०,१२७.३ ) एष इषाय मामहे शतं निष्कान् दश स्रजः ।
11099. (२०,१२७.३ ) त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥३॥
11100. (२०,१२७.४ ) वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।
11101. (२०,१२७.४ ) नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥
11102. (२०,१२७.५ ) प्र रेभासो मनीषा वृषा गाव इवेरते ।
11103. (२०,१२७.५ ) अमोतपुत्रका एषाममोत गा इवासते ॥५॥
11104. (२०,१२७.६ ) प्र रेभ धीं भरस्व गोविदं वसुविदम् ।
11105. (२०,१२७.६ ) देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥६॥
11106. (२०,१२७.७ ) राज्ञो विश्वजनीनस्य यो देवोमर्त्यामति ।
11107. (२०,१२७.७ ) वैश्वानरस्य सुष्टुतिमा सुनोता परिक्षितः ॥७॥
11108. (२०,१२७.८ ) परिछिन्नः क्षेममकरोत्तम आसनमाचरन् ।
11109. (२०,१२७.८ ) कुलायन् कृण्वन् कौरव्यः पतिर्वदति जायया ॥८॥
11110. (२०,१२७.९ ) कतरत्त आ हराणि दधि मन्थां परि श्रुतम् ।
11111. (२०,१२७.९ ) जायाः पतिं वि पृछति राष्ट्रे राज्ञः परिक्षितः ॥९॥
11112. (२०,१२७.१० ) अभीवस्वः प्र जिहीते यवः पक्वः पथो बिलम् ।
11113. (२०,१२७.१० ) जनः स भद्रमेधति राष्ट्रे राज्ञः परिक्षितः ॥१०॥
11114. (२०,१२७.११ ) इन्द्रः कारुमबूबुधदुत्तिष्ठ वि चरा जनम् ।
11115. (२०,१२७.११ ) ममेदुग्रस्य चर्कृधि सर्व इत्ते पृणादरिः ॥११॥
11116. (२०,१२७.१२ ) इह गावः प्र जायध्वमिहाश्वा इह पूरुषाः ।
11117. (२०,१२७.१२ ) इहो सहस्रदक्षिणोपि पूषा नि षीदति ॥१२॥
11118. (२०,१२७.१३ ) नेमा इन्द्र गावो रिषन् मो आसां गोप रीरिषत्।
11119. (२०,१२७.१३ ) मासाममित्रयुर्जन इन्द्र मा स्तेन ईशत ॥१३॥
11120. (२०,१२७.१४ ) उप नो न रमसि सूक्तेन वचसा वयं भद्रेण वचसा वयम् ।
11121. (२०,१२७.१४ ) वनादधिध्वनो गिरो न रिष्येम कदा चन ॥१४॥
11122. (२०,१२८.१ ) यः सभेयो विदथ्यः सुत्वा यज्वाथ पूरुषः ।
11123. (२०,१२८.१ ) सूर्यं चामू रिशादसस्तद्देवाः प्रागकल्पयन् ॥१॥
11124. (२०,१२८.२ ) यो जाम्या अप्रथयस्तद्यत्सखायं दुधूर्षति ।
11125. (२०,१२८.२ ) ज्येष्ठो यदप्रचेतास्तदाहुरधरागिति ॥२॥
11126. (२०,१२८.३ ) यद्भद्रस्य पुरुषस्य पुत्रो भवति दाधृषिः ।
11127. (२०,१२८.३ ) तद्विप्रो अब्रवीदु तद्गन्धर्वः काम्यं वचः ॥३॥
11128. (२०,१२८.४ ) यश्च पणि रघुजिष्ठ्यो यश्च देवामदाशुरिः ।
11129. (२०,१२८.४ ) धीराणां शश्वतामहं तदपागिति शुश्रुम ॥४॥
11130. (२०,१२८.५ ) ये च देवा अयजन्ताथो ये च पराददिः ।
11131. (२०,१२८.५ ) सूर्यो दिवमिव गत्वाय मघवा नो वि रप्शते ॥५॥
11132. (२०,१२८.६ ) योऽनाक्ताक्षो अनभ्यक्तो अमणिवो अहिरण्यवः ।
11133. (२०,१२८.६ ) अब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥६॥
11134. (२०,१२८.७ ) य आक्ताक्षः सुभ्यक्तः सुमणिः सुहिरण्यवः ।
11135. (२०,१२८.७ ) सुब्रह्मा ब्रह्मणः पुत्रस्तोता कल्पेषु संमिता ॥७॥
11136. (२०,१२८.८ ) अप्रपाणा च वेशन्ता रेवामप्रतिदिश्ययः ।
11137. (२०,१२८.८ ) अयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥८॥
11138. (२०,१२८.९ ) सुप्रपाणा च वेशन्ता रेवान्त्सुप्रतिदिश्ययः ।
11139. (२०,१२८.९ ) सुयभ्या कन्या कल्याणी तोता कल्पेषु संमिता ॥९॥
11140. (२०,१२८.१० ) परिवृक्ता च महिषी स्वस्त्या च युधिं गमः ।
11141. (२०,१२८.१० ) अनाशुरश्चायामी तोता कल्पेषु संमिता ॥१०॥
11142. (२०,१२८.११ ) वावाता च महिषी स्वस्त्या च युधिं गमः ।
11143. (२०,१२८.११ ) श्वाशुरश्चायामी तोता कल्पेषु संमिता ॥११॥
11144. (२०,१२८.१२ ) यदिन्द्रादो दाशराज्ञे मानुषं वि गाहथाः ।
11145. (२०,१२८.१२ ) विरूपः सर्वस्मा आसीत्सह यक्षाय कल्पते ॥१२॥
11146. (२०,१२८.१३ ) त्वं वृषाक्षुं मघवन्न् अम्रं मर्याकरो रविः ।
11147. (२०,१२८.१३ ) त्वं रौहिणं व्यास्यो वि वृत्रस्याभिनच्छिरः ॥१३॥
11148. (२०,१२८.१४ ) यः पर्वतान् व्यदधाद्यो अपो व्यगाहथाः ।
11149. (२०,१२८.१४ ) इन्द्रो यो वृत्रहान्महं तस्मादिन्द्र नमोऽस्तु ते ॥१४॥
11150. (२०,१२८.१५ ) पृष्ठं धावन्तं हर्योरौच्चैः श्रवसमब्रुवन् ।
11151. (२०,१२८.१५ ) स्वस्त्यश्व जैत्रायेन्द्रमा वह सुस्रजम् ॥१५॥
11152. (२०,१२८.१६ ) ये त्वा श्वेता अजैश्रवसो हार्यो युञ्जन्ति दक्षिणम् ।
11153. (२०,१२८.१६ ) पूर्वा नमस्य देवानां बिभ्रदिन्द्र महीयते ॥१६॥
11154. (२०,१२९.१ ) एता अश्वा आ प्लवन्ते ॥१॥
11155. (२०,१२९.२ ) प्रतीपं प्राति सुत्वनम् ॥२॥
11156. (२०,१२९.३ ) तासामेका हरिक्निका ॥३॥
11157. (२०,१२९.४ ) हरिक्निके किमिछासि ॥४॥
11158. (२०,१२९.५ ) साधुं पुत्रं हिरण्ययम् ॥५॥
11159. (२०,१२९.६ ) क्वाहतं परास्यः ॥६॥
11160. (२०,१२९.७ ) यत्रामूस्तिस्रः शिंशपाः ॥७॥
11161. (२०,१२९.८ ) परि त्रयः ॥८॥
11162. (२०,१२९.९ ) पृदाकवः ॥९॥
11163. (२०,१२९.१० ) शृङ्गं धमन्त आसते ॥१०॥
11164. (२०,१२९.११ ) अयन्महा ते अर्वाहः ॥११॥
11165. (२०,१२९.१२ ) स इछकं सघाघते ॥१२॥
11166. (२०,१२९.१३ ) सघाघते गोमीद्या गोगतीरिति ॥१३॥
11167. (२०,१२९.१४ ) पुमां कुस्ते निमिछसि ॥१४॥
11168. (२०,१२९.१५ ) पल्प बद्ध वयो इति ॥१५॥
11169. (२०,१२९.१६ ) बद्ध वो अघा इति ॥१६॥
11170. (२०,१२९.१७ ) अजागार केविका ॥१७॥
11171. (२०,१२९.१८ ) अश्वस्य वारो गोशपद्यके ॥१८॥
11172. (२०,१२९.१९ ) श्येनीपती सा ॥१९॥
11173. (२०,१२९.२० ) अनामयोपजिह्विका ॥२०॥
11174. (२०,१३०.१ ) को अर्य बहुलिमा इषूनि ॥१॥
11175. (२०,१३०.२ ) को असिद्याः पयः ॥२॥
11176. (२०,१३०.३ ) को अर्जुन्याः पयः ॥३॥
11177. (२०,१३०.४ ) कः कार्ष्ण्याः पयः ॥४॥
11178. (२०,१३०.५ ) एतं पृछ कुहं पृछ ॥५॥
11179. (२०,१३०.६ ) कुहाकं पक्वकं पृछ ॥६॥
11180. (२०,१३०.७ ) यवानो यतिष्वभिः कुभिः ॥७॥
11181. (२०,१३०.८ ) अकुप्यन्तः कुपायकुः ॥८॥
11182. (२०,१३०.९ ) आमणको मणत्सकः ॥९॥
11183. (२०,१३०.१० ) देव त्वप्रतिसूर्य ॥१०॥
11184. (२०,१३०.११ ) एनश्चिपङ्क्तिका हविः ॥११॥
11185. (२०,१३०.१२ ) प्रदुद्रुदो मघाप्रति ॥१२॥
11186. (२०,१३०.१३ ) शृङ्ग उत्पन्न ॥१३॥
11187. (२०,१३०.१४ ) मा त्वाभि सखा नो विदन् ॥१४॥
11188. (२०,१३०.१५ ) वशायाः पुत्रमा यन्ति ॥१५॥
11189. (२०,१३०.१६ ) इरावेदुमयं दत ॥१६॥
11190. (२०,१३०.१७ ) अथो इयन्नियन्न् इति ॥१७॥
11191. (२०,१३०.१८ ) अथो इयन्निति ॥१८॥
11192. (२०,१३०.१९ ) अथो श्वा अस्थिरो भवन् ॥१९॥
11193. (२०,१३०.२० ) उयं यकांशलोकका ॥२०॥
11194. (२०,१३१.१ ) आमिनोनिति भद्यते ॥१॥
11195. (२०,१३१.२ ) तस्य अनु निभञ्जनम् ॥२॥
11196. (२०,१३१.३ ) वरुणो याति वस्वभिः ॥३॥
11197. (२०,१३१.४ ) शतं वा भारती शवः ॥४॥
11198. (२०,१३१.५ ) शतमाश्वा हिरण्ययाः ।
11199. (२०,१३१.५ ) शतं रथ्या हिरण्ययाः ।
11200. (२०,१३१.५ ) शतं कुथा हिरण्ययाः ।
11201. (२०,१३१.६ ) अहुल कुश वर्त्तक ॥६॥
11202. (२०,१३१.७ ) शफेन इव ओहते ॥७॥
11203. (२०,१३१.८ ) आय वनेनती जनी ॥८॥
11204. (२०,१३१.९ ) वनिष्ठा नाव गृह्यन्ति ॥९॥
11205. (२०,१३१.१० ) इदं मह्यं मदूरिति ॥१०॥
11206. (२०,१३१.११ ) ते वृक्षाः सह तिष्ठति ॥११॥
11207. (२०,१३१.१२ ) पाक बलिः ॥१२॥
11208. (२०,१३१.१३ ) शक बलिः ॥१३॥
11209. (२०,१३१.१४ ) अश्वत्थ खदिरो धवः ॥१४॥
11210. (२०,१३१.१५ ) अरदुपरम ॥१५॥
11211. (२०,१३१.१६ ) शयो हत इव ॥१६॥
11212. (२०,१३१.१७ ) व्याप पूरुषः ॥१७॥
11213. (२०,१३१.१८ ) अदूहमित्यां पूषकम् ॥१८॥
11214. (२०,१३१.१९ ) अत्यर्धर्च परस्वतः ॥१९॥
11215. (२०,१३१.२० ) दौव हस्तिनो दृती ॥२०॥
11216. (२०,१३२.१ ) आदलाबुकमेककम् ॥१॥
11217. (२०,१३२.२ ) अलाबुकं निखातकम् ॥२॥
11218. (२०,१३२.३ ) कर्करिको निखातकः ॥३॥
11219. (२०,१३२.४ ) तद्वात उन्मथायति ॥४॥
11220. (२०,१३२.५ ) कुलायं कृणवादिति ॥५॥
11221. (२०,१३२.६ ) उग्रं वनिषदाततम् ॥६॥
11222. (२०,१३२.७ ) न वनिषदनाततम् ॥७॥
11223. (२०,१३२.८ ) क एषां कर्करी लिखत्॥८॥
11224. (२०,१३२.९ ) क एषां दुन्दुभिं हनत्॥९॥
11225. (२०,१३२.१० ) यदीयं हनत्कथं हनत्॥१०॥
11226. (२०,१३२.११ ) देवी हनत्कुहनत्॥११॥
11227. (२०,१३२.१२ ) पर्यागारं पुनःपुनः ॥१२॥
11228. (२०,१३२.१३ ) त्रीण्युष्ट्रस्य नामानि ॥१३॥
11229. (२०,१३२.१४ ) हिरण्य इत्येके अब्रवीत्॥१४॥
11230. (२०,१३२.१५ ) द्वौ वा ये शिशवः ॥१५॥
11231. (२०,१३२.१६ ) नीलशिखण्डवाहनः ॥१६॥
11232. (२०,१३३.१ ) विततौ किरणौ द्वौ तावा पिनष्टि पूरुषः ।
11233. (२०,१३३.१ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥१॥
11234. (२०,१३३.२ ) मातुष्टे किरणौ द्वौ निवृत्तः पुरुषानृते ।
11235. (२०,१३३.२ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥२॥
11236. (२०,१३३.३ ) निगृह्य कर्णकौ द्वौ निरायछसि मध्यमे ।
11237. (२०,१३३.३ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥३॥
11238. (२०,१३३.४ ) उत्तानायै शयानायै तिष्ठन्ती वाव गूहसि ।
11239. (२०,१३३.४ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥४॥
11240. (२०,१३३.५ ) श्लक्ष्णायां श्लक्ष्णिकायां श्लक्ष्णमेवाव गूहसि ।
11241. (२०,१३३.५ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥५॥
11242. (२०,१३३.६ ) अवश्लक्ष्णमिव भ्रंशदन्तर्लोममति ह्रदे ।
11243. (२०,१३३.६ ) न वै कुमारि तत्तथा यथा कुमारि मन्यसे ॥६॥
11244. (२०,१३४.१ ) इहेत्थ प्रागपागुदगधरागरालागुदभर्त्सथ ॥१॥
11245. (२०,१३४.२ ) इहेत्थ प्रागपागुदगधराग्वत्साः पुरुषन्त आसते ॥२॥
11246. (२०,१३४.३ ) इहेत्थ प्रागपागुदगधराक्स्थालीपाको वि लीयते ॥३॥
11247. (२०,१३४.४ ) इहेत्थ प्रागपागुदगधराक्स वै पृथु लीयते ॥४॥
11248. (२०,१३४.५ ) इहेत्थ प्रागपागुदगधरागास्ते लाहणि लीशाथी ॥५॥
11249. (२०,१३४.६ ) इहेत्थ प्रागपागुदगधरागक्ष्लिली पुछिलीयते ॥६॥
11250. (२०,१३५.१ ) भुगित्यभिगतः शलित्यपक्रान्तः फलित्यभिष्ठितः ।
11251. (२०,१३५.१ ) दुन्दुभिमाहननाभ्यां जरितरोथामो दैव ॥१॥
11252. (२०,१३५.२ ) कोशबिले रजनि ग्रन्थेर्धानमुपानहि पादम् ।
11253. (२०,१३५.२ ) उत्तमां जनिमां जन्यानुत्तमां जनीन् वर्त्मन्यात्॥२॥
11254. (२०,१३५.३ ) अलाबूनि पृषातकान्यश्वत्थपलाशम् ।
11255. (२०,१३५.३ ) पिपीलिकावतश्वसो विद्युत्स्वापर्णशफो गोशफो जरितरोथामो दैव ॥३॥
11256. (२०,१३५.४ ) वीमे देवा अक्रंसताध्वर्यो क्षिप्रं प्रचर ।
11257. (२०,१३५.४ ) सुसत्यमिद्गवामस्यसि प्रखुदसि ॥४॥
11258. (२०,१३५.५ ) पत्नी यदृश्यते पत्नी यक्ष्यमाणा जरितरोथामो दैव ।
11259. (२०,१३५.५ ) होता विष्टीमेन जरितरोथामो दैव ॥५॥
11260. (२०,१३५.६ ) आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयन् ।
11261. (२०,१३५.६ ) तां ह जरितः प्रत्यायंस्तामु ह जरितः प्रत्यायन् ॥६॥
11262. (२०,१३५.७ ) तां ह जरितर्नः प्रत्यगृभ्णंस्तामु ह जरितर्नः प्रत्यगृभ्णः ।
11263. (२०,१३५.७ ) अहानेतरसं न वि चेतनानि यज्ञान् एतरसं न पुरोगवामः ॥७॥
11264. (२०,१३५.८ ) उत श्वेत आशुपत्वा उतो पद्याभिर्यविष्ठः ।
11265. (२०,१३५.८ ) उतेमाशु मानं पिपर्ति ॥८॥
11266. (२०,१३५.९ ) आदित्या रुद्रा वसवस्त्वेनु त इदं राधः प्रति गृभ्णीह्यङ्गिरः ।
11267. (२०,१३५.९ ) इदं राधो विभु प्रभु इदं राधो बृहत्पृथु ॥९॥
11268. (२०,१३५.१० ) देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् ।
11269. (२०,१३५.१० ) युष्मामस्तु दिवेदिवे प्रत्येव गृभायत्॥१०॥
11270. (२०,१३५.११ ) त्वमिन्द्र शर्मरिणा हव्यं पारावतेभ्यः ।
11271. (२०,१३५.११ ) विप्राय स्तुवते वसुवनिं दुरश्रवसे वह ॥११॥
11272. (२०,१३५.१२ ) त्वमिन्द्र कपोताय छिन्नपक्षाय वञ्चते ।
11273. (२०,१३५.१२ ) श्यामाकं पक्वं पीलु च वारस्मा अकृणोर्बहुः ॥१२॥
11274. (२०,१३५.१३ ) अरंगरो वावदीति त्रेधा बद्धो वरत्रया ।
11275. (२०,१३५.१३ ) इरामह प्रशंसत्यनिरामप सेधति ॥१३॥
11276. (२०,१३६.१ ) यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्।
11277. (२०,१३६.१ ) मुष्काविदस्या एजतो गोशफे शकुलाविव ॥१॥
11278. (२०,१३६.२ ) यदा स्थूलेन पससाणौ मुष्का उपावधीत्।
11279. (२०,१३६.२ ) विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥२॥
11280. (२०,१३६.३ ) यदल्पिकास्वल्पिका कर्कधूकेवषद्यते ।
11281. (२०,१३६.३ ) वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥३॥
11282. (२०,१३६.४ ) यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः ।
11283. (२०,१३६.४ ) सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥
11284. (२०,१३६.५ ) महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् ।
11285. (२०,१३६.५ ) शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥
11286. (२०,१३६.६ ) महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्।
11287. (२०,१३६.६ ) यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥
11288. (२०,१३६.७ ) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।
11289. (२०,१३६.७ ) यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥
11290. (२०,१३६.८ ) महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।
11291. (२०,१३६.८ ) यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥
11292. (२०,१३६.९ ) महानग्न्युप ब्रूते स्वसावेशितं पसः ।
11293. (२०,१३६.९ ) इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥
11294. (२०,१३६.१० ) महानग्नी कृकवाकं शम्यया परि धावति ।
11295. (२०,१३६.१० ) अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥
11296. (२०,१३६.११ ) महानग्नी महानग्नं धावन्तमनु धावति ।
11297. (२०,१३६.११ ) इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥११॥
11298. (२०,१३६.१२ ) सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् ।
11299. (२०,१३६.१२ ) कुसं पीवरो नवत्॥१२॥
11300. (२०,१३६.१३ ) वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे ।
11301. (२०,१३६.१३ ) महान् वै भद्रो यभ मामद्ध्यौदनम् ॥१३॥
11302. (२०,१३६.१४ ) विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् ।
11303. (२०,१३६.१४ ) कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥
11304. (२०,१३६.१५ ) महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः ।
11305. (२०,१३६.१५ ) महामभिक्त बाधते महतः साधु खोदनम् ॥१५॥
11306. (२०,१३६.१६ ) यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्।
11307. (२०,१३६.१६ ) तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्॥१६॥
11308. (२०,१३७.१ ) यद्ध प्राचीरजगन्तोरो मण्डूरधाणिकीः ।
11309. (२०,१३७.१ ) हता इन्द्रस्य शत्रवः सर्वे बुद्बुदयाशवः ॥१॥
11310. (२०,१३७.२ ) कपृन् नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।
11311. (२०,१३७.२ ) निष्टिग्र्यः पुत्रमा च्यावयोतय इन्द्रं सबाध इह सोमपीतये ॥२॥
11312. (२०,१३७.३ ) दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
11313. (२०,१३७.३ ) सुरभि नो मुखा करत्प्र ण आयूंषि तारिषत्॥३॥
11314. (२०,१३७.४ ) सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
11315. (२०,१३७.४ ) पवित्रवन्तो अक्षरन् देवान् गछन्तु वो मदाः ॥४॥
11316. (२०,१३७.५ ) इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
11317. (२०,१३७.५ ) वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥५॥
11318. (२०,१३७.६ ) सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
11319. (२०,१३७.६ ) सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥६॥
11320. (२०,१३७.७ ) अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
11321. (२०,१३७.७ ) आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥७॥
11322. (२०,१३७.८ ) द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
11323. (२०,१३७.८ ) नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥८॥
11324. (२०,१३७.९ ) अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
11325. (२०,१३७.९ ) विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥९॥
11326. (२०,१३७.१० ) त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
11327. (२०,१३७.१० ) गूल्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥१०॥
11328. (२०,१३७.११ ) त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन् धृषितो जघन्थ ।
11329. (२०,१३७.११ ) त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥११॥
11330. (२०,१३७.१२ ) तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
11331. (२०,१३७.१२ ) स वृषा वृषभो भुवत्॥१२॥
11332. (२०,१३७.१३ ) इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
11333. (२०,१३७.१३ ) द्युम्नी श्लोकी स सोम्यः ॥१३॥
11334. (२०,१३७.१४ ) गिरा वज्रो न संभृतः सबलो अनपच्युतः ।
11335. (२०,१३७.१४ ) ववक्ष ऋष्वो अस्तृतः ॥१४॥
11336. (२०,१३८.१ ) महामिन्द्रो य ओजसा पर्जन्यो वृष्टिमामिव ।
11337. (२०,१३८.१ ) स्तोमैर्वत्सस्य वावृधे ॥१॥
11338. (२०,१३८.२ ) प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
11339. (२०,१३८.२ ) विप्रा ऋतस्य वाहसा ॥२॥
11340. (२०,१३८.३ ) कण्वाः इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
11341. (२०,१३८.३ ) जामि ब्रुवत आयुधम् ॥३॥
11342. (२०,१३९.१ ) आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
11343. (२०,१३९.१ ) प्रास्मै यछतमवृकं पृथु छर्दिर्युयुतं या अरातयः ॥१॥
11344. (२०,१३९.२ ) यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषामनु ।
11345. (२०,१३९.२ ) नृम्नं तद्धत्तमश्विना ॥२॥
11346. (२०,१३९.३ ) ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
11347. (२०,१३९.३ ) एवेत्काण्वस्य बोधतम् ॥३॥
11348. (२०,१३९.४ ) अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
11349. (२०,१३९.४ ) अयं सोमो मधुमान् वाजिनीवसू येन वृत्रं चिकेतथः ॥४॥
11350. (२०,१३९.५ ) यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
11351. (२०,१३९.५ ) तेन माविष्टमश्विना ॥५॥
11352. (२०,१४०.१ ) यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।
11353. (२०,१४०.१ ) अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गछथः ॥१॥
11354. (२०,१४०.२ ) आ नूनमश्विनोरृषि स्तोमं चिकेत वामया ।
11355. (२०,१४०.२ ) आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥२॥
11356. (२०,१४०.३ ) आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
11357. (२०,१४०.३ ) आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥
11358. (२०,१४०.४ ) यदद्य वां नासत्योक्थैराचुच्युवीमहि ।
11359. (२०,१४०.४ ) यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम् ॥४॥
11360. (२०,१४०.५ ) यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।
11361. (२०,१४०.५ ) पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥५॥
11362. (२०,१४१.१ ) यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा ।
11363. (२०,१४१.१ ) वर्तिस्तोकाय तनयाय यातम् ॥१॥
11364. (२०,१४१.२ ) यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
11365. (२०,१४१.२ ) यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥२॥
11366. (२०,१४१.३ ) यदद्याश्विनावहं हुवेय वाजसातये ।
11367. (२०,१४१.३ ) यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः ॥३॥
11368. (२०,१४१.४ ) आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
11369. (२०,१४१.४ ) इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥४॥
11370. (२०,१४१.५ ) यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।
11371. (२०,१४१.५ ) तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यछतम् ॥५॥
11372. (२०,१४२.१ ) अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।
11373. (२०,१४२.१ ) व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥१॥
11374. (२०,१४२.२ ) प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
11375. (२०,१४२.२ ) प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत्॥२॥
11376. (२०,१४२.३ ) यदुषो यासि भानुना सं सूर्येण रोचसे ।
11377. (२०,१४२.३ ) आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥३॥
11378. (२०,१४२.४ ) यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।
11379. (२०,१४२.४ ) यद्वा वाणीरनुषत प्र देवयन्तो अश्विना ॥४॥
11380. (२०,१४२.५ ) प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
11381. (२०,१४२.५ ) प्र दक्षाय प्रचेतसा ॥५॥
11382. (२०,१४२.६ ) यन् नूनं धीभिरश्विना पितुर्योना निषीदथः ।
11383. (२०,१४२.६ ) यद्वा सुम्नेभिरुक्थ्या ॥६॥
11384. (२०,१४३.१ ) तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।
11385. (२०,१४३.१ ) यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥
11386. (२०,१४३.२ ) युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
11387. (२०,१४३.२ ) युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥
11388. (२०,१४३.३ ) को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
11389. (२०,१४३.३ ) ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्॥३॥
11390. (२०,१४३.४ ) हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।
11391. (२०,१४३.४ ) पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥
11392. (२०,१४३.५ ) आ नो यातं दिवो अछ पृथिव्या हिरण्ययेन सुवृता रथेन ।
11393. (२०,१४३.५ ) मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥
11394. (२०,१४३.६ ) नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।
11395. (२०,१४३.६ ) नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन् ॥६॥
11396. (२०,१४३.७ ) इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
11397. (२०,१४३.७ ) उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्॥७॥
11398. (२०,१४३.८ ) मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् ।
11399. (२०,१४३.८ ) क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥८॥
11400. (२०,१४३.९ ) पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
11401. (२०,१४३.९ ) सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै ॥९॥