
Contents
The Vaisesika sutram of Kanada
महिर्ष कणाद-3000 BCE
वैशेषिक दर्शनशास्त्र
वैशेषिक दर्शन के आदि प्रवर्तक ऋषि कणाद हैं। यह ‘कणभुक्’, ‘कणभक्ष’ इत्यादि नामों से भी ग्रंथों में प्रसिद्ध हैं। त्रिकाण्डशेष कोष में इन का नाम ‘काश्यप’ भी कहा है। कणाद कश्यप के पुत्र थे ऐसा किरणावली में लिखा है। एक नाम इन का ‘औलूक्य’ भी है। इस से इन को लोग उलूक ऋषि का पुत्र बतलाते हैं। ये उलूक मुनि विश्वामित्र के पुत्र थे यह महाभारत अनुशासन पर्व ४ अध्याय में लिखा है। वायु पुराण, पूर्वखण्ड, २३ अध्याय में कणाद के प्रसङ्ग में लिखा है कि वे सत्ताइसवीं चौयुगी में प्रभास क्षेत्र में शिव जी के अवतार सोमशर्मा नाम ब्राह्मण के शिष्य थे। इस से ऐसा मालूम होता है कि कश्यप गोत्र में, विश्वामित्र के पुत्र उलूक के पुत्र, सोमशर्मा के शिष्य कणाद रहे। इन के सूत्र ‘कणाद सूत्र’, ‘वैशेषिक दर्शन’ इत्यादि नाम से प्रसिद्ध हैं। जैसे एक एक सूत्र की टीका रूप से ‘भाष्य’ और सूत्रों के हैं वैसा भाष्य वैशेषिक सूत्रों का कोई अब तक उपलब्ध नहीं है। प्रशस्त पाद की टीका ‘भाष्य’ कर के प्रसिद्ध है। पर इस ग्रन्थ के देखने से मालूम होता है कि यह सूत्रों की टीका नहीं है। सूत्रों के क्रम तक को इस में नहीं स्वीकार किया है। सूत्रों के आधार पर यह एक स्वतंत्र ही ग्रन्थ है। इस को ‘भाष्य’ कहना ठीक नहीं। पर सूत्रों को छोड़ कर यही ग्रन्थ वैशेषिक विषय पर सब से प्राचीन अब तक मिला है इस से इस को लोगों ने ‘भाष्य’ मान लिया है। प्रशस्तपाद ने अपने ग्रन्थ का नाम भी ‘भाष्य’ नहीं रक्खा-इस का नाम ‘पदार्थधर्मसंग्रह’ प्रथम श्लोक में कहा है।
इस पर टीका जो ‘न्यायकन्दली’ नाम से प्रसिद्ध है उस में कहीं ‘भाष्य’ नाम से इस ग्रन्थ को नहीं कहा है। न्यायकन्दली की केवल एक पुस्तक पाई गई है जिस में मूलग्रन्थ को ‘भाष्य’ कहा है। फिर प्रशस्तपाद के ग्रन्थ की टीका-किरणावली(1200 CE)-में लिखा है कि प्रशस्तपाद ने इस पदार्थधर्मसंग्रह को लिखा । भाप्य बहुत बड़ा ग्रन्थ है। इस पर पद्मनाभ मिश्र टीकाकार लिखा है कि ‘यह भाष्य रावण का किया है। इस रावण की चर्चा वेदान्त भाष्य की रत्नप्रभा टीका में भी पाई जाती है। फिर भाष्य के लक्षण भी इस ग्रन्य में नहीं पाए जाते। भाष्य ही होने से अन्य प्राचीन नहीं होता । विना भाष्य हुए भी यह अन्य पुस्तक से प्राचीन हो सकता है। प्रशस्तपाद के अन्य पुस्तक पर किरणावली और न्यायकंदली दो टीकायें प्रसिद्ध हैं। सूत्रों पर इस से प्राचीन कोई टीका अभी नहीं मिनी है। सूत्रों पर एक वृत्ति भारद्वाज मुनि की की हुई है। सम्भव है यह ‘भारद्वाज’ न्यायवार्तिककार उद्योतकर ही हों। यह वृत्ति प्रायः प्रशस्तपाद के भाग्य से अधिक प्राचीन है।
कणाद ने पहिले सूत्र में प्रतिज्ञा की है कि मैं “धर्म की व्याख्या करता हूं’ अर्थात् धर्म क्या वस्तु है सो समझाऊंगा । धर्म का विचार आवश्यक है क्योंकि विना धर्म के पदार्थों का ज्ञान नहीं हो सकता । दूसरे सूत्र में धर्म का लक्षण कहा है-जिस से पदार्थों का तत्त्वज्ञान होने पर मोक्ष होता है वही धर्म है। अर्थात् धर्म से पदाथों का ज्ञान होता है और तत्त्वज्ञान से मोक्ष होता है। यह धर्म कौन सी वस्तु है जिसस तत्त्वज्ञान होता है ? काम्य कर्मों से निवृत्ति और नित्य कर्मों का अनुष्ठान-इत्यादि जो वेद में कहे हैं वही धर्म है। .घह कौन सा तत्वज्ञान है जिस से मोक्ष होता है ? चौथे सूत्र में कहा है कि द्रव्य, गुण, कर्म, सामान्य, विशेप, समवाय, ये छत्री पदार्थ क्या है-इन का क्या लक्षण है-कौन से लक्षण किन किन पदार्थों में है-इन में से किन में क्या साधर्म्य है क्या वैधर्म्य है- इत्यादि के ज्ञान को ‘तत्त्वज्ञान’ कहते हैं। और इसी तत्वज्ञान से निःश्रेयस अर्थात् मोक्ष होता है। यहां पदार्थ छही कहे हैं। प्राचीन वैशेपिक ग्रन्थों में ये ही छ हैं। सप्त पदार्थों में पहिले सातवां पदार्थ अभाव’ माना है। [वैशेषिक दर्शन-डाक्टर गंगानाथ झा एम० ए०]
Ten Chapters and 370 Sutram
Present Text-650 BCE
अथातो धर्मं व्याख्यास्यामः । १,१.१ ।
यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । १,१.२ ।
तद्वचनादाम्नायस्य प्रामाण्यम् । १,१.३ ।
धर्मविशेष प्रसूतात्द्रव्यगुणकर्मसामान्य विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् । १,१.४ ।
पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । १,१.५ ।
रुपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः । १,१.६ ।
उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि । १,१.७ ।
सदनित्यं द्रव्यवत्कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः । १,१.८ ।
द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । १,१.९ ।
द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । १,१.१० ।
कर्म कर्मसाध्यं न विद्यते । १,१.११ ।
न द्रव्यं कारणं च भवति । १,१.१२ ।
उभयथा गुणाः । १,१.१३ ।
कार्यविरोधि कर्म । १,१.१४ ।
क्रियागुणवत्समवायिकारणमिति द्रव्यलक्षणम् । १,१.१५ ।
द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । १,१.१६ ।
एकद्रव्यमगुणं संयोगविभागेष्वनपेक्ष कारणमिति कर्मलक्षणम् । १,१.१७ ।
द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । १,१.१८ ।
तथा गुणः । १,१.१९ ।
संयोगविभागवेगानां कर्म समानम् । १,१.२० ।
न द्रव्याणां कर्म । १,१.२१ ।
व्यतिरेकात् । १,१.२२ ।
द्रव्याणां द्रव्यं कार्यं सामान्यम् । १,१.२३ ।
गुणवैधर्म्यान्न कर्मणां कर्म । १,१.२४ ।
द्वित्वप्रभृतयः संख्याः पृथक्त्व संयोग विभागाश्च । १,१.२५ ।
असमवायात्सामान्यकार्यं कर्म न विद्यते । १,१.२६ ।
संयोगानां द्रव्यम् । १,१.२७ ।
रूपाणां रूपम् । १,१.२८ ।
गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । १,१.२९ ।
संयोगविभागाश्च कर्मणाम् । १,१.३० ।
कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । १,१.३१ ।
कारणाभावात्कार्याभावः । १,२.१ ।
न तु कार्याभावात्कारणाभावः । १,२.२ ।
सामान्यविशेष इति बुद्ध्यपेक्षम् । १,२.३ ।
भावोऽनुवृत्तेरेव हेतुत्वात्सामान्यमेव । १,२.४ ।
द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । १,२.५ ।
अन्यत्रान्त्येभ्यो विशेषेभ्यः । १,२.६ ।
सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । १,२.७ ।
द्रव्यगुणकर्मभ्योर्ऽथान्तरं सत्ता । १,२.८ ।
गुणकर्मसु च भावान्न कर्म न गुणः । १,२.९ ।
सामान्यविशेषाभावेन च । १,२.१० ।
अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । १,२.११ ।
सामान्यविशेषाभावेन च । १,२.१२ ।
तथा गुणेषु भावाद्गुणत्वमुक्तम् । १,२.१३ ।
सामान्यविशेषाभावेन च । १,२.१४ ।
कर्मसु भावात्कर्मत्वमुक्तम् । १,२.१५ ।
सामान्यविशेषाभावेन च । १,२.१६ ।
सदिति लिङ्गाविशेषात्विशेषलिङ्गाभावाच्चैको भावः । १,२.१७ ।
रूपरसगन्धस्पर्शवती पृथिवी । २,१.१ ।
रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः । २,१.२ ।
तेजो रूपस्पर्शवत् । २,१.३ ।
स्पर्शवान् वायुः । २,१.४ ।
त आकाशे न विद्यन्ते । २,१.५ ।
सर्पिर्जतुमधूच्छिष्टानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । २,१.६ ।
त्रपुसीस लोह रजत सुवर्णानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । २,१.७ ।
विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावानिति गोत्वे दृष्टं लिङ्गम् । २,१.८ ।
स्पर्शश्च वायोः । २,१.९ ।
न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । २,१.१० ।
अद्रव्यवत्त्वेन द्रव्यम् । २,१.११ ।
क्रियावत्त्वात्गुणवत्त्वाच्च । २,१.१२ ।
अद्रव्यत्वेन नित्यत्वमुक्तम् । २,१.१३ ।
वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् । २,१.१४ ।
वायुसन्निकर्षे प्रत्यक्षाभावात्दृष्टं लिङ्गं न विद्यते । २,१.१५ ।
सामान्यतो दृष्टाच्चाविशेषः । २,१.१६ ।
तस्मादागमिकम् । २,१.१७ ।
संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । २,१.१८ ।
प्रत्यक्षप्रवृत्तत्वात्संज्ञाकर्मणः । २,१.१९ ।
निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् । २,१.२० ।
तदलिङ्गमेकद्रव्यत्वात्कर्मणः । २,१.२१ ।
कारणान्तरानुकिप्ति वैधर्म्याच्च । २,१.२२ ।
संयोगादभावः कर्मणः । २,१.२३ ।
कारणगुणपूर्वकः कार्यगुणो दृष्टः । २,१.२४ ।
कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः । २,१.२५ ।
परत्र समवायात्प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । २,१.२६ ।
परिशेषाल्लिङ्गमाकाशस्य । २,१.२७ ।
द्रव्यत्वनित्यत्वे वायुना व्याख्याते । २,१.२८ ।
तत्त्वम्भावेन । २,१.२९ ।
शब्दालिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च । २,१.३० ।
तदनुविधानादेकपृथक्त्वञ्चेति । २,१.३१ ।
पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् । २,२.१ ।
व्यवस्थितः पृथिव्यां गन्धः । २,२.२ ।
एतेनोष्णता व्याख्याता । २,२.३ ।
तेजस उष्णता । २,२.४ ।
अप्सु शीतता । २,२.५ ।
अपरस्मिन्नपरं युगपत्चिरं क्षिप्रमिति काललिङ्गानि । २,२.६ ।
द्रव्यत्व नित्यत्वे वायुना व्याख्याते । २,२.७ ।
तत्त्वम्भावेन । २,२.८ ।
नित्योष्वभावादनित्येषु भावात्कारणे कालाख्येति । २,२.९ ।
इत इदमिति यतस्तद्दिश्यं लिङ्गम् । २,२.१० ।
द्रव्यत्व नित्यत्वे वायुना व्याख्याते । २,२.११ ।
तत्त्वम्भावेन । २,२.१२ ।
कार्यविशेषेण नानात्वम् । २,२.१३ ।
आदित्यसंयोगात्भूतपूर्वात्भविष्यतो भूताच्च प्राची । २,२.१४ ।
तथा दक्षिणा प्रतीची उदीची च । २,२.१५ ।
एतेन दिगन्तरालानि व्याख्यातानि । २,२.१६ ।
सामान्यप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । २,२.१७ ।
दृष्टञ्च दृष्टवत् । २,२.१८ ।
यथादृष्टमयथादृष्टत्वाच्च । २,२.१९ ।
विद्याविद्यातश्च संशयः । २,२.२० ।
श्रोत्रग्रहणो योर्ऽथः स शब्दः । २,२.२१ ।
तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् । २,२.२२ ।
एकद्रव्यत्वान्न द्रव्यम् । २,२.२३ ।
नापि कर्माचाक्षुषत्वात् । २,२.२४ ।
गुणस्य सतोऽपवर्गः कर्मभिः साधर्म्यम् । २,२.२५ ।
सतो लिङ्गाभावात् । २,२.२६ ।
नित्यवैधर्म्यात् । २,२.२७ ।
अनित्यश्चायं कारणतः । २,२.२८ ।
ज चासिद्धं विकारात् । २,२.२९ ।
अभिव्यक्तौ दोषात् । २,२.३० ।
संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः । २,२.३१ ।
लिङ्गाच्चानित्यः शब्दः । २,२.३२ ।
द्वयोस्तु प्रवृत्त्योरभावात् । २,२.३३ ।
प्रथमाशब्दात् । २,२.३४ ।
सम्प्रतिपत्तिभावाच्च । २,२.३५ ।
सन्दिग्धाः सति बहुत्वे । २,२.३६ ।
संख्याभावः सामान्यतः । २,२.३७ ।
प्रसिद्धा इन्द्रियार्थाः । ३,१.१ ।
इन्द्रियार्थाप्रसिद्धिरिन्द्रियार्थेभ्योर्ऽथान्तरस्य हेतुः । ३,१.२ ।
सोऽनपदेशः । ३,१.३ ।
कारणाज्ञानात् । ३,१.४ ।
कार्येषु ज्ञानात् । ३,१.५ ।
अज्ञानाच्च । ३,१.६ ।
अन्यदेव हेतुरित्यनपदेशः । ३,१.७ ।
अर्थान्तरं ह्यर्थान्तरस्यानपदेशः । ३,१.८ ।
संयोगि समवाय्येकार्थसमवायि विरोधि च । ३,१.९ ।
कार्यं कार्यान्तरस्य । ३,१.१० ।
विरोध्यभूतं भूतस्य । ३,१.११ ।
भूतमभूतस्य । ३,१.१२ ।
भूतो भूतस्य । ३,१.१३ ।
प्रसिद्धिपूर्वकत्वादपदेशस्य । ३,१.१४ ।
अप्रसिद्धोऽनपदेशोऽसन् सन्दिग्धश्चानपदेशः । ३,१.१५ ।
यस्माद्विषाणी तस्मादश्वः । ३,१.१६ ।
यस्माद्विषाणी तस्माद्गौरितिचानैकान्तिकस्योदाहरणम् । ३,१.१७ ।
आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् । ३,१.१८ ।
प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । ३,१.१९ ।
आत्मेन्द्रियार्थसन्निकर्षज्ञानस्य भावोऽभावश्च मनसो लिङ्गम् । ३,२.१ ।
तस्य द्रव्यत्व नित्यत्वे वायुना व्याख्याते । ३,२.२ ।
प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् । ३,२.३ ।
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तर विकाराः सुखदुःखेच्छाद्वेष प्रयत्नाश्चात्मनो लिङ्गानि । ३,२.४ ।
तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते । ३,२.५ ।
यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात्दृष्टं लिङ्गं न विद्यते । ३,२.६ ।
सामान्यतो दृष्टाच्चाविशेषः । ३,२.७ ।
तस्मादागमिकः । ३,२.८ ।
अहमिति शब्दस्य व्यतिरेकान्नागमिकम् । ३,२.९ ।
यदि दृष्टमन्वक्षमहं देवदत्तोऽहं यज्ञदत्त इति । ३,२.१० ।
दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात्प्रत्यक्षवत्प्रत्ययः । ३,२.११ ।
देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः । ३,२.१२ ।
सन्दिग्धास्तूपचाराः । ३,२.१३ ।
अहमिति प्रत्यगात्मनि भावात्परत्राभावादर्थान्तर प्रत्यक्षः । ३,२.१४ ।
देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षोऽहङ्कारः । ३,२.१५ ।
सन्दिग्धस्तूपचारः । ३,२.१६ ।
न तु शरीरविशेषाद्यज्ञदत्त विष्णुमित्रयोर्ज्ञानविषयः । ३,२.१७ ।
अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद्विशेष सिद्धेर्नागमिकः । ३,२.१८ ।
सुखदुःख ज्ञाननिष्पत्त्यविशेषादैकात्म्यम् । ३,२.१९ ।
व्यवस्थातो नाना । ३,२.२० ।
शास्त्रसामर्थ्याच्च । ३,२.२१ ।
सदकारणवन्नित्यम् । ४,१.१ ।
तस्य कार्यं लिङ्गम् । ४,१.२ ।
कारणभावात्कार्याभावः । ४,१.३ ।
अनित्य इति विशेषतः प्रतिषेधभावः । ४,१.४ ।
अविद्या । ४,१.५ ।
महत्यनेकद्रव्यवत्त्वात्रूपाच्चोपलब्धिः । ४,१.६ ।
सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः । ४,१.७ ।
अनेकद्रव्यसमवायात्रूपविशेषाच्च रूपोपलब्धिः । ४,१.८ ।
तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । ४,१.९ ।
तस्याभावादव्यभिचारः । ४,१.१० ।
संख्याः परिमाणानि पृथक्त्वं संयोग विभागौ परत्वापरत्वे कर्म च रूपद्रव्यसमवायात्चाक्षुषाणि । ४,१.११ ।
अरूपिष्वचाक्षुषाणि । ४,१.१२ ।
एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् । ४,१.१३ ।
तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् । ४,२.१ ।
प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात्पञ्चात्मकं न विद्यते । ४,२.२ ।
गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् । ४,२.३ ।
अणुसंयोगस्त्वप्रतिषिद्धः । ४,२.४ ।
तत्र शरीरं द्विविधं योनिजमयोनिजं च । ४,२.५ ।
अनियतदिग्देशपूर्वकत्वात् । ४,२.६ ।
धर्मविशेषाच्च । ४,२.७ ।
समाख्याभावाच्च । ४,२.८ ।
संज्ञाया आदित्वात् । ४,२.९ ।
सन्त्ययोनिजाः । ४,२.१० ।
वेदलिङ्गाच्च । ४,२.११ ।
आत्मसंयोग प्रयत्नाभ्यां हस्ते कर्म । ५,१.१ ।
तथा हस्तसंयोगाच्च मुसले कर्म । ५,१.२ ।
अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः । ५,१.३ ।
तथात्मसंयोगो हस्तकर्मणि । ५,१.४ ।
अभिघातान्मुसलसंयोगाद्धस्ते कर्म । ५,१.५ ।
आत्मकर्म हस्तसंयोगाच्च । ५,१.६ ।
संयोगाभावे गुरुत्वात्पतनम् । ५,१.७ ।
नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम् । ५,१.८ ।
प्रयत्नविशेषान्नोदन विशेषः । ५,१.९ ।
नोदनविशेषादुदसनविशेषः । ५,१.१० ।
हस्तकर्मणा दारककर्म व्याख्यातम् । ५,१.११ ।
तथा दग्धस्य विस्फोटने । ५,१.१२ ।
यत्नाभावे प्रसुप्तस्य चलनम् । ५,१.१३ ।
तृणे कर्म वायुसंयोगात् । ५,१.१४ ।
मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् । ५,१.१५ ।
इषावयुगपत्संयोगविशेषाः कर्मान्यत्वे हेतुः । ५,१.१६ ।
नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च । ५,१.१७ ।
संस्काराभावे गुरुत्वात्पतनम् । ५,१.१८ ।
नोदनाभिघातात्संयुक्तसंयोगाच्च पृथिव्यां कर्म । ५,२.१ ।
तद्विशेषेणादृष्टकारितम् । ५,२.२ ।
अपां संयोगाभावे गुरुत्वात्पतनम् । ५,२.३ ।
द्रवत्वात्स्यन्दनम् । ५,२.४ ।
नाड्या वायुसंयोगादारोहणम् । ५,२.५ ।
नोदनापीडनात्संयुक्तसंयोगाच्च । ५,२.६ ।
वृक्षाभिसर्पणमित्यदृष्टकारितम् । ५,२.७ ।
अपां सङ्घातो विलयनं च तेजः संयोगात् । ५,२.८ ।
तत्र विस्फूर्जतुर्लिङ्गम् । ५,२.९ ।
वैदिकं च । ५,२.१० ।
अपां संयोगाद्विभागाच्च स्तनयित्नोः । ५,२.११ ।
पृथिवीकर्मणा तेजः कर्म वायुकर्म च व्याख्यातम् । ५,२.१२ ।
अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनमणूनां मनसश्चाद्यं कर्मादृष्टकारितम् । ५,२.१३ ।
हस्तकर्मणा मनसः कर्म व्याख्यातम् । ५,२.१४ ।
आत्मेन्द्रियमनोर्ऽथसन्निकर्षात्सुख दुःखे । ५,२.१५ ।
तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः संयोगः । ५,२.१६ ।
अपसर्पणमुपसर्पणमशित पीतसंयोगाः कार्यान्तर संयोगाश्चेत्यदृष्टकारितानि । ५,२.१७ ।
तदभावे संयोगाभावोऽप्रादुर्भावश्च मोक्षः । ५,२.१८ ।
द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः । ५,२.१९ ।
तेजसो द्रव्यान्तरेणावरणाच्च । ५,२.२० ।
दिक्कालावाकाशं च क्रियावद्वैधर्म्यान्निष्क्रियाणि । ५,२.२१ ।
एतेन कर्माणि गुणाश्च व्याख्याताः । ५,२.२२ ।
निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः । ५,२.२३ ।
कारणं त्वसमवायिनो गुणाः । ५,२.२४ ।
गुणैर्दिक्व्याख्याता । ५,२.२५ ।
कारणेन कालः । ५,२.२६ ।
बुद्धिपूर्वा वाक्यकृतिर्वेदे । ६,१.१ ।
ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् । ६,१.२ ।
बुद्धिपूर्वो ददातिः । ६,१.३ ।
तथा प्रतिग्रहः । ६,१.४ ।
आत्मान्तरगुणानामात्मान्तरेऽकारणत्वात् । ६,१.५ ।
तद्दुष्टभोजने न विद्यते । ६,१.६ ।
दुष्टं हिंसायाम् । ६,१.७ ।
तस्य समभिव्याहारतो दोषः । ६,१.८ ।
तददुष्टे न विद्यते । ६,१.९ ।
पुनर्विशिष्टे प्रवृत्तिः । ६,१.१० ।
समे हीने वा प्रवृत्तिः । ६,१.११ ।
एतेन हीनसमविशिष्ट धार्मिकेभ्यः परस्वादानं व्याख्यातम् । ६,१.१२ ।
तथा विरुद्धानां त्यागः । ६,१.१३ ।
हीने परे त्यागः । ६,१.१४ ।
समे आत्मत्यागः परत्यागो वा । ६,१.१५ ।
विशिष्टे आत्मत्याग इति । ६,१.१६ ।
दृष्टादृष्ट प्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय । ६,२.१ ।
अभिषेचनोपवास ब्रह्मचर्यगुरुकुलवासवानप्रस्थ यज्ञदान प्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय । ६,२.२ ।
चातुराश्रम्यमुपधा अनुपधाश्च । ६,२.३ ।
भावदोष उपधादोषोऽनुपधा । ६,२.४ ।
यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि । ६,२.५ ।
अशुचीति शुचिप्रतिषेधः । ६,२.६ ।
अर्थान्तरं च । ६,२.७ ।
अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद्विद्यते वार्ऽथान्तरत्वाद्यमस्य । ६,२.८ ।
असति चाभावात् । ६,२.९ ।
सुखाद्रागः । ६,२.१० ।
तन्मयत्वाच्च । ६,२.११ ।
अदृष्टाच्च । ६,२.१२ ।
जातिविशेषाच्च । ६,२.१३ ।
इच्छाद्वेषपूर्विका धर्माधर्म प्रवृत्तिः । ६,२.१४ ।
तत्संयोगो विभागः । ६,२.१५ ।
आत्मकर्मसु मोक्षो व्याख्यातः । ६,२.१६ ।
उक्ता गुणाः । ७,१.१ ।
पृथिव्यादि रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च । ७,१.२ ।
एतेन नित्येषु नित्यत्वमुक्तम् । ७,१.३ ।
अप्सु तेजसि वायौ च नित्या द्रव्यनित्यवात् । ७,१.४ ।
अनित्येष्वनित्या द्रव्यानित्यत्वात् । ७,१.५ ।
कारणगुणपूर्वकाः पृथिव्यां पाकजाः । ७,१.६ ।
एकद्रव्यत्वात् । ७,१.७ ।
अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । ७,१.८ ।
कारण बहुत्वाच्च । ७,१.९ ।
अतो विपरितमणु । ७,१.१० ।
अणु महदिति तस्मिन् विशेषभावात्विशेषाभावाच्च । ७,१.११ ।
एककालत्वात् । ७,१.१२ ।
दृष्टान्ताच्च । ७,१.१३ ।
अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः । ७,१.१४ ।
कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः । ७,१.१५ ।
अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः । ७,१.१६ ।
एतेन दीर्घत्व ह्रस्वत्वे व्याख्याते । ७,१.१७ ।
अनित्येऽनित्यम् । ७,१.१८ ।
नित्ये नित्यम् । ७,१.१९ ।
नित्यं परिमण्डलम् । ७,१.२० ।
अविद्या च विद्यालिङ्गम् । ७,१.२१ ।
विभवान्महानाकाशः तथा चात्मा । ७,१.२२ ।
तदभावादणु मनः । ७,१.२३ ।
गुणैर्दिग्व्याख्याता । ७,१.२४ ।
कारणेन कालः । ७,१.२५ ।
रुपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् । ७,२.१ ।
तथा पृथक्त्वम् । ७,२.२ ।
एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७,२.३ ।
निः संख्यत्वात्कर्मगुणानां सर्वैकत्वं न विद्यते । ७,२.४ ।
भ्रान्तं तत् । ७,२.५ ।
एकत्वाभावाद्भक्तिस्तु न विद्यते । ७,२.६ ।
कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते । ७,२.७ ।
एतदनित्ययोर्व्याख्यातम् । ७,२.८ ।
अन्यतरकर्मज उभकर्मजः संयोगजश्च संयोगः । ७,२.९ ।
एतेन विभागो व्याख्यातः । ७,२.१० ।
संयोगविभागयोः संयोगविभागाभावः अणुत्वमहत्त्वाभ्यां व्याख्यातः । ७,२.११ ।
कर्मभिः कर्माणि गुणैर्गुणा अणुत्व महत्त्वाभ्यामिति । ७,२.१२ ।
युतसिद्ध्यभावात्कार्यकारणयोः संयोगविभागौ न विद्येते । ७,२.१३ ।
गुणत्वात् । ७,२.१४ ।
गुणोऽपि विभाव्यते । ७,२.१५ ।
निष्क्रियत्वात् । ७,२.१६ ।
असति नास्तीति च प्रयोगात् । ७,२.१७ ।
शब्दार्थावसम्बन्धौ । ७,२.१८ ।
संयोगिनो दण्डात्समवायिनो विशेषाच्च । ७,२.१९ ।
सामयिकः शब्दादर्थप्रत्ययः । ७,२.२० ।
एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च । ७,२.२१ ।
कारणपरत्वात्कारणापरत्वाच्च । ७,२.२२ ।
परत्वापरत्वयोः परत्वापरत्वाभावोऽणुत्वमहत्त्वाभ्यां व्याख्यातः । ७,२.२३ ।
कर्मभिः कर्माणि । ७,२.२४ ।
गुणैर्गुणाः । ७,२.२५ ।
इहेदमिति यतः कार्यकारणयोः स समवायः । ७,२.२६ ।
तत्त्वम्भावेन । ७,२.२७ ।
द्रव्येषु ज्ञानं व्याख्यातम् । ८,१.१ ।
तत्रात्मा मनश्चाप्रत्यक्षे । ८,१.२ ।
ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः । ८,१.३ ।
गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेः द्रव्यं कारणम् । ८,१.४ ।
सामान्यविशेषेषु सामान्यविशेषाभावात्तदेव ज्ञानम् । ८,१.५ ।
सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । ८,१.६ ।
द्रव्ये द्रव्यगुणकर्मापेक्षम् । ८,१.७ ।
गुणकर्मसु गुणकर्माभावात्गुणकर्मापेक्षं न विद्यते । ८,१.८ ।
समवायिनः श्वैत्याच्छ्वैत्य बुद्धेश्च श्वेते बुद्विस्ते एते कार्यकारणभूते । ८,१.९ ।
द्रव्येष्वनितरेतरकारणाः । ८,१.१० ।
कारणायौगपद्यात्कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् । ८,१.११ ।
अयमेष त्वया कृतं भोजयैनमिति बुद्ध्यपेक्षम् । ८,२.१ ।
दृष्टेषु भावाददृष्टेष्वभावात् । ८,२.२ ।
अर्थ इति द्रव्यगुणकर्मसु । ८,२.३ ।
द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् । ८,२.४ ।
भूयस्त्वात्गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः । ८,२.५ ।
तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात् । ८,२.६ ।
क्रियागुणव्यपदेशाभावात्प्रागसत् । ९,१.१ ।
सदसत् । ९,१.२ ।
असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् । ९,१.३ ।
सच्चासत् । ९,१.४ ।
यच्चान्यदसदतस्तदसत् । ९,१.५ ।
असदिति भूतप्रत्यक्षाभावात्भूतस्मृतेर्विरोधिप्रत्यक्षवत् । ९,१.६ ।
तथाभावे भावप्रत्यक्षाच्च । ९,१.७ ।
एतेनाघटोऽगौरधर्मश्च व्याख्याताः । ९,१.८ ।
अभूतं नास्तीत्यनर्थान्तरम् । ९,१.९ ।
नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः । ९,१.१० ।
आत्मन्यात्ममनसोः संयोगादात्मप्रत्यक्षम् । ९,१.११ ।
तथा द्रव्यान्तरेषु प्रत्यक्षम् । ९,१.१२ ।
असमाहितान्तः करणा उपसंहृतसमाधयस्तेषाञ्च । ९,१.१३ ।
तत्समवायात्कर्मगुणेषु । ९,१.१४ ।
आत्मसमवायादात्मगुणेषु । ९,१.१५ ।
अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् । ९,२.१ ।
अस्येदं कार्य कारणसम्बन्धश्चावयवाद्भवति । ९,२.२ ।
एतेन शाब्दं व्याख्यातम् । ९,२.३ ।
हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् । ९,२.४ ।
अस्येदमिति बुद्ध्यपेक्षितत्वात् । ९,२.५ ।
आत्मनः संयोगविशेषात्संस्काराच्च स्मृतिः । ९,२.६ ।
तथा स्वप्नः । ९,२.७ ।
स्वप्नान्तिकम् । ९,२.८ ।
धर्माच्च । ९,२.९ ।
इन्द्रियदोषात्संस्कारदोषाच्चाविद्या । ९,२.१० ।
तद्दुष्टज्ञानम् । ९,२.११ ।
अदुष्टं विद्या । ९,२.१२ ।
आर्षं सिद्धदर्शनं च धर्मेभ्यः । ९,२.१३ ।
इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोर्थान्तरभावः । १०,१.१ ।
संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः । १०,१.२ ।
तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् । १०,१.३ ।
अभूदित्यपि । १०,१.४ ।
सति च कार्यादर्शनात् । १०,१.५ ।
एकार्थसमवायि कारणान्तरेषु दृष्टत्वात् । १०,१.६ ।
एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः । १०,१.७ ।
कारणमिति द्रव्ये कार्यसमवायात् । १०,२.१ ।
संयोगाद्वा । १०,२.२ ।
कारणे समवायात्कर्माणि । १०,२.३ ।
तथा रूपे कारणैकार्थसमवायाच्च । १०,२.४ ।
कारणसमवायात्संयोगः पटस्य । १०,२.५ ।
कारणाकारणसमवायाच्च । १०,२.६ ।
संयुक्तसमवायादग्नेर्वैशेषिकम् । १०,२.७ ।
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगोऽभ्युदयाय । १०,२.८ ।
तद्वचनादाम्नायस्य प्रमाण्यमिति । १०,२.९ ।
Note: विशेष शब्द से वैशेषिक शब्द ‘अधिकृत्स ऋतेश्रन्थे’. (अष्टा ४।३।७), मणिभद्रसूरि: नैयायिकेभ्यो द्रव्यगुणादिसामग्र्या विशिष्टमिति वैशेषिकम् (षड्दर्शनसमुच्चय-वृत्ति),चन्द्रकान्त : यदिदं वैशेषिकं नाम शास्त्रमारब्धं तत्खलु तन्त्रान्तरात् विशेषस्यार्थ- स्याभिधानात् (चन्द्रकान्तभाष्यम्)