Yoga Satakam (योगशतकम्) by Vararuchi
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Mathematical, Physical & Life Sciences » Yoga Satakam (योगशतकम्) by Vararuchi
This text योगशतकम् presents a traditional medical–philosophical exposition centered on a systematic collection of one hundred therapeutic formulations. Emphasizing careful diagnosis, understanding of causes, and unobstructed bodily conditions, it outlines decoctions, powders, pills, oils, and ghṛta preparations for disorders arising from vāta, pitta, kapha, their combinations, and āma. The formulations address fevers, digestive diseases, respiratory ailments, skin disorders, urinary problems, wounds, poisons, mental disturbances, pediatric illnesses, and chronic conditions. Rasāyana therapies restore vitality and longevity, while purification methods are prescribed according to doṣa predominance. The work concludes by affirming rational application, completeness, and the aspiration for universal freedom from disease.
योगशतकम्
वररुचिः
कृत्स्नस्य तन्त्रस्य गृहीतधाम्नश्चिकित्सिताद्विप्रसृतस्य दूरम् ।
विदग्धवैद्यप्रतिपूजितस्य करिष्यते योगशतस्य बन्धः ॥ १ ॥
Read Next
परीक्ष्य हेत्वामयलक्षणानि चिकित्सितज्ञेन चिकित्सिकेन ।
निरामदेहस्य हि भैषजानि भवन्ति युक्तान्यमृतोपमानि ॥ २ ॥
छिन्नोद्भवाम्बुधरधन्वयवासविश्वैर्दुःस्पर्शपर्पटकमेघकिराततिक्तैः ।
मुस्ताटरूषकमहौषधधन्वयासैः क्वाथं पिबेदनिलपित्तकफज्वरेषु ॥ ३ ॥
क्षुद्रामृतानागरपुष्कराह्वयैः कृतः कषायः कफमारुतोत्तरे ।
सश्वासकासारुचिपार्श्वरुक्करे ज्वरे त्रिदोषप्रभवेऽपि शस्यते ॥ ४ ॥
आरग्वधग्रन्थिकमुस्ततिक्ताहरीतकीभिः क्वथितः कषायः ।
सामे सशूले कफवातयुक्ते ज्वरे हितो दीपनपाचनश्च ॥ ५ ॥
द्राक्षाभयापर्पटकाब्दतिक्ताक्वाथं सशम्याकफलं विदध्यात् ।
प्रलापमूर्छाभ्रमदाहमोहतृष्णान्विते पित्तभवे ज्वरे तु ॥ ६ ॥
निदिग्धिकानागरकामृतानां क्वाथं पिबेन्मिश्रितपिप्पलीकम् ।
जीर्णज्वरारोचककासशूलश्वासाग्निमान्द्यार्दितपीनसेषु ॥ ७ ॥
दुरालभापर्पटकप्रियङ्गुभूनिम्बवासाकटुरोहिणीनाम् ।
क्वाथं पिबेच्छर्करयावगाढं तृष्णाश्रपित्तज्वरदाहयुक्तः ॥ ८ ॥
फलत्रिकं दारुनिशाविशालामुस्तं च निष्क्वाथ्य निशांशकल्कम् ।
पिबेत्कषायं मधुसंप्रयुक्तं सर्वप्रमेहेषु समुत्थितेषु ॥ ९ ॥
सवत्सकः सातिविषः सबिल्वः सोदीच्यमुस्तश्च कृतः कषायः ।
सामे सशूले च सशोणिते च चिरप्रवृत्तेऽपि हितोऽतिसारे ॥ १० ॥
शुण्ठीं समुस्तातिविषागुडूचीं पिबेज्जलेन क्वथितां समांशाम् ।
मन्दानलत्वे सततामयानामामानुबन्धे ग्रहणीगदे च ॥ ११ ॥
पुनर्नवादार्व्यभयागुडूचीः पिबेत्समूत्रा महिषाक्षयुक्ताः ।
त्वग्दोषशोफोदरपाण्डुरोगस्थौल्यप्रसेकोर्ध्वकफामयेषु ॥ १२ ॥
मुस्ताखुपर्णीफलदारुशिग्रुक्वाथः सकृष्णाकृमिशत्रुकल्कः ।
मार्गद्वयेनापि चिरप्रवृत्तान् कृमीन्निहन्यात्कृमिजांश्च रोगान् ॥ १३ ॥
एलोपकुल्यामधुकाश्मभेदकौन्तीश्वदंष्ट्रावृषकोरुबूकैः ।
शृतं पिबेदश्मजतुप्रधानं सशर्करे साश्मरिमूत्रकृच्छ्रे ॥ १४ ॥
एलाश्मभेदकशिलाजतुपिप्पलीनां चूर्णानि तण्डुल जलैर्लुलितानि पीत्वा ।
यद्वा गुडेन सहितान्यवलेह्यमानान्यासन्नमृत्युरपि जीवति मूत्र कृच्छ्री ॥ १५ ॥
हरीतकीगोक्षुरराजवृक्षपाषाणभिद्धन्वयवासकानाम् ।
क्वाथं पिबेन्माक्षिकसंप्रयुक्तं कृच्छ्रे सदाहे सरुजे विबन्धे ॥ १६ ॥
वासागुडूचीचतुरङ्गुलानामेरण्डतैलेन पिबेत्कषायम् ।
क्रमेण सर्वाङ्गजमप्यशेषं जयेदसृग्वातभवं विकारम् ॥ १७ ॥
रसाञ्जनं तण्डुलकस्य मूलं क्षौद्रान्वितं तण्डुलतोयपीतम् ।
असृग्दरं सर्वभवं निहन्ति श्वासं च भार्गी सह नागरेण ॥ १८ ॥
एरण्डबिल्वबृहतीद्वयमातुलुङ्गपाषाणभित्त्रिकटमूलकृतं कषायः ।
सक्षारहिङ्गुलवणोरुहुतैलमिश्रः श्रोण्यंसमेढ्रहृदयस्तनरुक्षु पेयः ॥ १९ ॥
हिङ्गूग्रगन्धाविडशुण्ठ्यजाजीहरीतकीपुष्करमूलकुष्ठम् ।
भागोत्तरं चूर्णितमेतदिष्टं गुल्मोदराजीर्णविसूचिकासु ॥ २० ॥
चूर्णं समं रुचकहिङ्गुमहौषधानां शुण्ठ्यम्बुना कफ समीरणसंभवासु ।
हृत्पार्श्वपृष्ठजठरार्तिविसूचिकासु पेयं तथा यवरसेन च विड्विबन्धे ॥ २१ ॥
पूतीकपत्रगजचिर्भिटचव्यवह्नि व्योषं च संस्तरचितं लवणोपधानम् ।
दग्ध्वा विचूर्ण्य दधिमस्तुयुतं प्रयोज्यं गुल्मोदरश्वयथुपाण्डुगुदोद्भवेषु ॥ २२ ॥
द्विरुत्तरा हिङ्गु वचा सकुष्ठा सुवर्चिका चेति विडं च चूर्णम् ।
उष्णाम्बुनानाहविसूचिकार्तिहृद्रोगगुल्मोर्ध्वसमीरणघ्नम् ॥ २३ ॥
शृङ्गीकटुत्रिकफलत्रयकण्टकारीभार्गीसपुष्करजटा लवणानि पञ्च ।
चूर्णं पिबेदशिशिरेण जलेन हिक्काश्वासोर्ध्ववातकसनारुचिपीनसेषु ॥ २४ ॥
नादेयीकुटजार्कशिग्रुबृहतीस्नुग्बिल्वभल्लातक-
व्याघ्रीकिंशुकपारिभद्रकजटापामार्गनीपाग्निकान् ।
वासामुष्ककपाटलाः सलवणा दग्ध्वा रसं पाचितं
हिङ्ग्वादिप्रतिवापमेतदुचितं गुल्मोदरप्लीहिषु ॥ २५ ॥
चव्यम्लवेतसकटुत्रिकतित्तिडीकतालीसजीरकतुगादहनैः समांशैः ।
चूर्णं गुडप्रमृदितं त्रिसुगन्धियुक्तं वैस्वर्यपीनसकफारुचिषु प्रशस्तम् ॥ २६ ॥
तालीसचव्यमरिचं सदृशं द्विरंशं मूलं तुगां मगधजां त्रिगुणां च शुण्ठीम् ।
कृत्वा गुडत्रिगुणितां गुडिकां सुगन्धां कासाग्निमान्द्यगुदजज्वररुक्षु दद्यात् ॥ २७ ॥
सुण्ठीकणामरिचनागदलत्वगेलं चूर्णीकृतं क्रम विवर्धित मूर्ध्वमन्त्यात् ।
खादेदिदं समसितं गुदजाग्निमान्द्यगुल्मारुचिश्वसनकण्ठहृदामयेषु ॥ २८ ॥
सिन्धूत्थहिङ्गुत्रिफलायवानीव्योषैर्गुडांशैर्गुडिकां प्रकुर्यात् ।
तैर्भक्षितैस्तृप्तिमवाप्नुवन्न भुञ्जीत मन्दाग्निरपि प्रभूतम् ॥ २९ ॥
अयस्तिलत्र्यूषणकोलभागैः सर्वैः समं माक्षिकधातुचूर्णम् ।
तैर्मोदकः क्षौद्रयुतोऽनुतक्रः पाण्ड्वामये दूरगतेऽपि शस्तः ॥ ३० ॥
गुडेन शुण्ठीमथवोपकुल्यां पथ्यातृतीयामथ दाडिमं च ।
आमेष्वजीर्णेषु गुदामयेषु वर्चोविबन्धेषु च नित्यमद्यात् ॥ ३१ ॥
हरीतकीनागरमुस्तचूर्णं गुडेन सार्धं गुटिका विधेया ।
निवारयत्यास्यविधारितेयं श्वासं प्रवृद्धं प्रबलं च कासम् ॥ ३२ ॥
वटप्ररोहं मधु कुष्ठमुत्पलं सलाजचूर्णं गुडिकां प्रकल्पयेत् ।
सुसंहिता सा वदनेन धारिता तृष्णां प्रवृद्धामपि हन्ति सत्वरम् ॥ ३३ ॥
मनःशिलामागधिकोषणानां चूर्णं कपित्थाम्लरसेन युक्तम् ।
लाजैः समांशैर्मधुनावलीढं छर्दिं प्रसक्तामसकृन्निहन्ति ॥ ३४ ॥
दूर्वारसो दाडिमपुष्पजो वा घ्राणप्रवृत्तेऽसृजि नस्यमुक्तम् ।
स्तन्येन वालक्तरसेन वापि विण्मक्षिकानां च निहन्ति हिक्काम् ॥ ३५ ॥
धात्रीरसः सर्जरसः सपाक्यः सौवीरपिष्टश्च तदासुतश्च ।
भवन्ति सिध्मानि यथा न भूयस्तथैवमुद्वर्तनकं करोति ॥ ३६ ॥
दूर्वाभयासैन्धवचक्रमर्दकुठेरकाः काञ्जिकतक्रपिष्टाः ।
त्रिभिः प्रलेपैरपि बद्धमूलां दद्रुं च कण्डुं च विनाशयन्ति ॥ ३७ ॥
गण्डीरिकचित्रकमार्कवार्ककुष्ठद्रुमत्वग्लवणैः समूत्रैः ।
तैलं पचेन्मण्डलकुष्ठदद्रुदुष्टव्रणारुक्किटिमापहारि ॥ ३८ ॥
सिन्दूरगुग्गुलुरसाञ्जनसिक्थतुत्थैस्तुल्यांशकैः कटुकतैलमिदं विपक्वम् ।
कच्छूं स्रवत्पिटकिकामथवापि शुष्कामभ्यञ्जनेन सकृदुद्धरति प्रसह्य ॥ ३९ ॥
सुवर्चिकानागरकुष्ठमूर्वालाक्षानिशालोहितयष्टिकाभिः ।
तैलं ज्वरे षड्गुणतक्रसिद्धमभ्यञ्जनाच्छीतविदाहनुत्स्यात् ॥ ४० ॥
सर्पिर्गुडूचीवृषकण्टकारीक्वाथेन कल्केन च सिद्धमेतत् ।
पेयं पुराणज्वरकासशूलश्वासाग्निमान्द्यग्रहणीगदेषु ॥ ४१ ॥
वृषखदिरपटोलपत्रनिम्बत्वगमृततामलकीकषायकल्कैः ।
घृतमभिनवमेतदाशु सिद्धं जयति विसर्पमदाश्रकुष्ठगुल्मान् ॥ ४२ ॥
त्वङ्मांसशोणितगतैर्दोषैः प्रकुपितैर्जनितः
सर्वाङ्गशारीरशोषविशेषो विसर्पः ।
मदो मद्यात्मो मद्यपानजनितविकारः ॥ ४३ ॥
अमृतापटोलपिचुमर्दधावनीत्रिफलाकरञ्जवृषकल्कवारिभिः ।
घृतमुत्तमं विधिविपक्वमादृतः प्रपिबन्निदं जयति कुष्ठमातुरः ॥ ४४ ॥
खण्डान् कुष्माण्डकानामथ पचनविधिस्विन्नशुष्काज्यभृष्टान्
न्यस्येत्खण्डे विपक्वे समरिचमगधाशुण्ठ्यजाजीत्रिगन्धान् ।
लेहोऽयं बालवृद्धानिलरुधिरकृशस्त्रीप्रसक्तक्षतानां
तृष्णाकासास्रपित्तश्वसनगुदरुजाछर्दितानां च शस्तः ॥ ४५ ॥
विपाच्य मूत्राम्ब्लमधूनि दन्तीपिण्डीतकृष्णाविडधूमकुष्ठैः ।
वर्तिं कराङ्गुष्ठनिभां घृताक्तां गुदे रुजानाहहरीं विदध्यात् ॥ ४६ ॥
सशर्करं कुङ्कुममाज्यभृष्टं नस्यं विधेयं पवनासृगुत्थे ।
भ्रूकर्णशङ्खाक्षिशिरोऽर्धशूले दिनाभिवृद्धिप्रभवे च रोगे ॥ ४७ ॥
पथ्याक्षधात्रीफलमध्यबीजैस्त्रिद्व्येकभागैर्विदधीत वर्तिम् ।
तयाञ्जयेदश्रुमतिप्रवृद्धमक्ष्णोर्हरेत्कष्टमपि प्रकोपम् ॥ ४८ ॥
हरीतकीसैन्धवतार्क्ष्यशैलैः सगैरिकैः स्वच्छजलप्रपिष्टैः ।
बहिष्प्रलेपं नयनस्य कुर्यात्सर्वाक्षिरोगोपशमार्थमेतत् ॥ ४९ ॥
ससैन्धवं लोध्रमथाज्यभृष्टं सौवीरपिष्टं सितवस्त्रबद्धम् ।
आश्च्योतनं तन्नयनस्य कुर्यात्सदाहकण्डूं च रुजं निहन्यात् ॥ ५० ॥
हन्त्यर्जुनं शर्करयाब्धिफेनो नक्तान्धतां गोशकृता च कृष्णा ।
रसाञ्जनं व्योषयुतं च पिल्लं तापीसमुत्थं मधुना च शुक्रम् ॥ ५१ ॥
पुष्पाख्यतार्क्ष्यससितोदधिफेनशङ्खसिन्धूत्थगैरिकशिलामरिचैः समांशैः ।
पिष्टैस्तु माक्षिकरसेन रसक्रियेयं हन्त्यर्मकाचतिमिरार्जुनवर्त्मरोगान् ॥ ५२ ॥
मुस्तोशीररजोयवासमरिचाः सिन्धूद्भवं कट्फलं
दार्वीतुत्थकशङ्खफेननलदं कालानुसार्यञ्जनम् ।
तुल्यं चूर्णितमायसे विनिहितं क्षौद्रान्वितं शस्यते
कण्ड्वर्मामयरक्तराजितिमिरे पिल्लोपदेहेषु च ॥ ५३ ॥
मञ्जिष्ठामधुकोत्पलोदधिकफत्वक्सेव्यगोरोचना-
मांसीचन्दनशङ्खपत्रगिरिमृत्तालीसपुष्पाञ्जनैः ।
सर्वैरेव समांशमञ्जनमिदं शस्तं सदा चक्षुषः
कण्डूत्क्लेदमलाश्रुशोणितरुजापिल्लार्मशुक्रापहम् ॥ ५४ ॥
क्वाथः समुस्तातिविषेन्द्रदारुकलिङ्गपाठाकटुरोहिणीनाम् ।
गोमूत्रसिद्धो मधुना च युक्तः पेयो गलव्याधिषु सर्वजेषु ॥ ५५ ॥
यवाग्रजं तेजवतीं सपाठां रसाञ्जनं दारुनिशां सकृष्णाम् ।
क्षौद्रेण कुर्याद्गुटिकां मुखेन तां धारयेत्सर्वगलामयेषु ॥ ५६ ॥
दार्वीगुडूचीसुमनाप्रवालाद्राक्षायवासत्रिफलाकषायः ।
क्षौद्रेण युक्तः कवलग्रहोऽयं मुखस्य पाकं शमयत्युदीर्णम् ॥ ५७ ॥
कुष्ठं दार्वी लोध्रमब्दं समङ्गा पाठा तिक्ता तेजनी पीतिका च ।
चूर्णं शस्तं घर्षणं तद्द्विजानां रक्तस्रावं हन्ति कण्डूरुजं च ॥ ५८ ॥
सौवीरशुक्तार्द्रकमातुलुङ्गमांसै रसैर्गुग्गुलुसैन्धवश्च ।
पक्त्वा तु तैलं कटुकं निषिञ्चेत्तत्कर्णयोः कर्णरुजोपशान्त्यै ॥ ५९ ॥
वासानिम्बपटोलपर्पटफलश्रीचव्यदार्व्यम्बुदैः
तिक्तोशिरदुरालभात्रिकटुकत्रायन्तिकाचन्दनैः ।
सर्पिः सिद्धमथोर्ध्वजत्रुविकृतिघ्राणाक्षिशूलादिषु
त्वग्दोषज्वरविद्रधिव्रणरुजाशुक्रेषु वै चेष्यते ॥ ६० ॥
दार्वीपर्पटनिम्बवत्सककणादुःस्पर्शयष्टीवृषास्
त्रायन्तीत्रिफलापटोलकटुकाभूनिम्बरक्ताम्बुदाः ।
एषां कल्ककषायसाधितमिदं सर्पिः प्रशस्तं दृशः
पित्तासृक्प्रभवेषु शुक्रतिमिरेषूर्ध्वेषु च व्याधिषु ॥ ६१ ॥
शुक्लैरण्डान्मूलमथोग्रा शतपुष्पा पुष्पोद्भूतं यच्च बृहत्यास्तगरं च ।
तैलं सिद्धं तैः सपयस्कैस्तिमिरघ्नं नस्यं श्रेष्ठं व्याधिषु चोर्ध्वेष्वपरेषु ॥ ६२ ॥
क्वाथे मुष्ककभस्मनोऽनलशिखादग्धं क्षिपेच्छङ्खकं
तत्तेनैव पुनर्जलेन विपचेत्क्षारं स तैले विधिः ।
युञ्ज्यात्तद्व्रणदुष्टिषु व्रणरुजास्वर्शस्सु नाडीषु च
त्वग्दोषेषु भगंदरेषु विविधे कण्ठामये च स्थिरे ॥ ६३ ॥
निशासयष्टीमधुपद्मकोत्पलैः प्रियङ्गुकासावरलोध्रचन्दनैः ।
विपाच्य तैलं पयसा प्रयोजयेत्क्षतेषु संरोपणदाहनाशनम् ॥ ६४ ॥
जातीनिम्बपटोलपत्रकटुकादार्वीनिशासारिवा-
मञ्जिष्ठाभयसिक्थतुत्थमधुकैर्नक्ताह्वबीजैः समैः ।
सर्पिः सिद्धमनेन सूक्ष्मवदना मर्माश्रिताः स्राविनो
गम्भीराः सरुजा व्रणाः सगतिकाः शुध्यन्ति रोहन्ति च ॥ ६५ ॥
शिरीषपुष्पं स्वरसेन भावितं सहस्रकृत्वो मरिचं सिताह्वयम् ।
प्रयोजयेदञ्जनपाननावनैर्विमोहितानामपि सर्पदंशिनाम् ॥ ६६ ॥
मयूरपित्तेन तु तण्डुलीयकं काकाण्डयुक्तं प्रपिबेदनल्पम् ।
विषाणि संस्तावरजङ्गमानि सोपद्रवाण्यप्यचिरेण हन्ति ॥ ६७ ॥
तैलं तिलानां पललं गुडं च क्षीरं तथार्कं सममेव पीतम् ।
आलर्कमुग्रं विषमाशु हन्ति सद्योद्भवं वायुरिवाभ्रवृन्दम् ॥ ६८ ॥
आगारधूमो महिषाक्षयुक्तः सवाजिगन्धाघृततण्डुलीयकः ।
गोमूत्रपिष्टो ह्यगदो निहन्ति विषाणि संस्थावरजङ्गमानि ॥ ६९ ॥
मांसीसेव्यालकौन्तीजलजलदशिलारोचनापद्मकेशी-
स्पृक्काचण्डाहरिद्रागदसितपलितासृग्लतापद्मकैलाः ।
तुल्या गौराष्टभागाश्चतुरिभकुसुमा वर्तयः सर्वभोग्याः
कृत्यालक्ष्मीपिशाचज्वरविषमगदा घ्नन्ति चन्द्रोदयाख्याः ॥ ७० ॥
सिद्धार्थत्रिफलाशिरीषकटभीश्वेताकरञ्जामृता-
मञ्जिष्ठारजनीद्वयत्रिकटुकं श्यामा वचा हिङ्गु च ।
शस्तं छागलमूत्रपिष्टमगदं सर्वग्रहोत्सादनं
कृत्योन्मादपिशाचराक्षसहरं पानादिभिः सेवितम् ॥ ७१ ॥
कर्पासास्थिमयूरपत्रबृहतीनिर्माल्यपिण्डीतकैस्
त्वग्वांशीवृषदंशविट्तुषवचाकेशाहिनिर्मोचकैः ।
गोशृङ्गीद्विपदन्तहिङ्गुमरिचैस्तुल्यैश्च धूपः कृतः
स्कन्दोन्मादपिशाचराक्षससुरावेशज्वरघ्नः स्मृतः ॥ ७२ ॥
त्रिकटुकदलकुङ्कुमग्रन्थिकक्षार सिंहीनिशाकुष्ठ सिद्धार्थयुग्माम्बुशक्राह्वयैः
सितल शुनफल त्रिकोशीरतिक्तावचातुत्थयष्टीबला लोहिताख्याशिलापद्मकैः ।
दधितगरमधूकसारप्रियाह्वाविषाख्याविषातार्क्ष्यशैलैः सचव्यामरैः कल्कितैः
घृतमनवमशेषमूत्राम्बुसिद्धं स्मृतं भूतरावं तु पानेन तत्स्याद्ग्रहघ्नं परम् ॥ ७३ ॥
नतमधुक करञ्जलाक्षा पटोली समङ्गावचापाटलीहिङ्गु सिद्धार्थ सिंहीनिशायुग्लता रोहिणी-
फल खदिर कटुत्रिकाकाण्डदारु क्रिमिघ्ना जगन्धामराङ्कोल्लकोशातकीशिग्रुनिम्बाम्बुदेन्द्राह्वयैः ।
गदशुकतरुपुष्पबीजाम्बुयष्ट्यद्रिकर्णीनिकुम्भाग्निबिल्वैः
समैः कल्कितैर्मूत्रवर्गेण सिद्धं घृतं
विधिविनिहितमाशु सर्वैः क्रमैर्योजितं हन्ति सर्वग्रहोन्मादकुष्ठ ज्वरांस्तन्महाभूतरावं स्मृतम् ॥ ७४ ॥
दार्वी हरिद्रा कुटजस्य बीजं सिंही च यष्टीमधुकं च तुल्यम् ।
क्वाथः शिशोः स्तन्यकृते च दोषे सर्वातिसारेषु च सर्वजेषु ॥ ७५ ॥
बिल्वं च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च ।
क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु ॥ ७६ ॥
शृङ्गीं सकृष्णातिविषां विचूर्ण्य लेहं विदध्यान्मधुना शिशूनाम् ।
कासज्वरच्छर्दिभिरर्दितानां समाक्षिकां चातिविषामथैकाम् ॥ ७७ ॥
धात्रीचूर्णस्य कंसं स्वरसपरिगतः क्षौद्रसर्पिः समांशं
कृष्णामानीसिताष्टप्रसृतयुतमिदं स्थापितं भस्मराशौ ।
वर्षान्ते तत्समश्नन् भवति विपलितो रूपवर्णप्रभावी
निर्व्याधिर्बुद्धिमेधास्मृतिवचनबलस्थैर्यसत्त्वैरुपेतः ॥ ७८ ॥
यष्टीतुगासैन्धवपिप्पलीभिः सशर्कराभिस्त्रिफला प्रयुक्ता ।
आयुःप्रदा वृष्यतमातिमेध्या भवेज्जराव्याधिविनाशनी च ॥ ७९ ॥
चूर्णं श्वदंष्ट्रामलकामृतानां लिहेत्ससर्पिर्मधुना च युक्तम् ।
वृष्यः स्थिरः शान्तविकारदुःखः समाशतं जीवति कृष्णकेशः ॥ ८० ॥
निम्बस्य तैलं प्रकृतिस्थमेवं नस्यां निषिक्तं विधिना यथावत् ।
मासेन तत्क्षीरघृतोपयोज्यं जराप्रभूतं पलितं निहन्ति ॥ ८१ ॥
गोक्षुरकः क्षुरकः शतमूली वानरि नागबलातिबला च ।
चूर्णमिदं पयसा निशि पेयं यस्य गृहे प्रमदाशतमस्ति ॥ ८२ ॥
मधुकां मधुना घृतेन च प्रलिहन् क्षीरमनुप्रयोजयेत् ।
लभते च न धातुसंक्षयं प्रमदानां च शतं च गच्छति ॥ ८३ ॥
यष्टीकषायं लवणाग्रयुक्तं कलिङ्गकृष्णाफलकल्कमिश्रम् ।
सक्षौद्रमेतद्वमनं प्रयोज्यं घ्राणास्यकण्ठश्रवणामयेषु ॥ ८४ ॥
हरीतकीभिः क्वथितं सुवीरं दन्त्यङ्घ्रिकृष्णाविडचूर्णयुक्तम् ।
विरेचनं सोरुबुतैलमेतन्निरत्ययं योज्यमथामयघ्नम् ॥ ८५ ॥
रास्नाराठफलत्रयामृतलतायुक्पञ्चमूलीबला-
मांसक्वाथयुतः सतैललवणक्षौद्रांशसर्पिर्गुडः ।
पुष्पाह्वाघनकुष्ठबिल्वफलिनीकृष्णावचाकल्कितो
वस्तिः काञ्जिकदुग्धमूत्रसहितो वातामयेभ्यो हितः ॥ ८६ ॥
तैलं बलाक्वथितकल्कसुगन्धिगर्भसिद्धं पयोदधितुषोदकमस्तुचुक्रैः ।
तद्वत्सहाचरसरण्यमृतावरीभिः प्रत्येकपक्वमनुवाससमीरणघ्नम् ॥ ८७ ॥
नस्यं विदध्याद्गुडनागरं वा ससैन्धवां मागधिकामथोवा ।
घ्राणास्यमन्याहनुबाहुपृष्ठशिरोक्षिकण्ठश्रवणामयेषु ॥ ८८ ॥
श्रेष्ठः पर्पटको ज्वरेषु विहितस्तृष्णासु पञ्चाम्लिको
लाजा च्छर्दिषु वस्तिजेषु गिरिजो मेहेषु धात्रीरसः ।
रास्ना वातगदेषु मूत्रमुदरे प्लीहामये पिप्पली
संधाने कृमिहा विषे शुकतरुः शोफे तथा गुग्गुलुः ॥ ८९ ॥
वृषोऽश्रपित्ते कुटजोऽतिसारे भल्लातमर्शस्सु गरेषु हेम ।
स्थूलेषु दारुः कृमिषु क्रिमिघ्नं हरीतकी पाण्डुगदेषु शस्यते ॥ ९० ॥
अक्ष्यामयेषु त्रिफला वदन्ति शूलेषु सर्वेषु तथा रसोनम् ।
कुष्ठेषु नित्यं खदिरस्य सारं सर्वेषु कासेषु निदिग्धिकां च ॥ ९१ ॥
शंसन्ति वाजीकरणे श्वदंष्ट्रामुरःक्षते नागबला बलां च ।
रसायनेष्वामलकं सदेवग्रहेषु रोगेषु शिलाह्वयं च ॥ ९२ ॥
इत्येते विधिविहिताः प्रसिद्धयोगाः सिद्ध्यर्थं विनिगदिता भिषग्वराणाम् ।
दृष्ट्वैतान् कथमचिकित्सकोऽपि युञ्ज्यादित्यर्थं पुनरपि वक्ष्यतेऽत्र किंचित् ॥ ९३ ॥
संधारणानशनजागरणोच्चभाषाव्यायामयानकटुतिक्तकषायरूक्षैः ।
चिन्ताव्यवायभयलङ्घनशोकशीतैर्वायुः प्रकोपमुपयाति घनागमे च ॥ ९४ ॥
कट्वाम्लमद्य लवणोष्णविदाहितीक्ष्णक्रोधानलातपपरिश्रम शुष्कशाकैः ।
क्षाराद्यजीर्णविषमाशनभोजनश्च पित्तं प्रकोपमुपयाति घनात्यये च ॥ ९५ ॥
स्वप्नाद्दिवा मधुर शीतलमत्समांसगुर्वाम्लपिच्छल तिलेक्षुपयोविकारैः ।
स्निग्धातितृप्तिलवणोदकपानभक्षैः श्लेष्मा प्रकोपमुपयाति तथा वसन्ते ॥ ९६ ॥
इत्येवमेते क्रमशो द्विशो वा दोषाः प्रवृद्धा युगपत्त्रयो वा ।
कुर्वन्ति रोगान् विविधान् शरीरे संख्यातु संज्नाविगताननेकान् ॥ ९७ ॥
पारुष्यसंकोचनतोदशूलश्यामत्वमङ्गव्यथभङ्गचेष्टान् ।
सुप्तत्वशीतत्वखरत्वशोषान् कर्माणि वायोः प्रवदन्ति तज्ज्ञाः ॥ ९८ ॥
परिस्रवस्वेदविदाहरागदौर्गन्धिसंक्लेदविपाककोपान् ।
प्रलापमूर्छभ्रमपीतभावान् पित्तस्य कर्माणि वदन्ति तज्ज्ञाः ॥ ९९ ॥
श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपान् ।
उत्सेकसंघातचिरक्रियाश्च कफस्य कर्माणि वदन्ति तज्ज्नाः ॥ १०० ॥
एतानि लिङ्गानि च तत्कृतानां सर्वामयानामपि नैकनाम्नाम् ।
कश्चिद्भवेत्प्राप्तिविशेष एषां संज्ञान्तरं येन तु संप्रयान्ति ॥ १०१ ॥
आलस्यतन्द्राहृदयाविशुद्धिदोषाप्रवृत्तिक्षुदभावमूत्रैः ।
गुरूदरत्वारुचिसुप्तताभिरामान्वितं व्याधिमुदाहरन्ति ॥ १०२ ॥
स्निग्धोष्णस्थिरवृष्यबल्यलवणस्वाद्वम्लतैलातप-
स्नानाभ्यञ्जनवस्तिमांसमदिरासंवाहनोन्मर्दनैः ।
स्नेहस्वेदनिरूहनस्यशमनस्नेहोपनाहादिकं
पानाहारविहारभेषजमिदं वातप्रशान्तिं नयेत् ॥ १०३ ॥
तिक्तस्वादुकषायशीतपवनच्छायानिशावीजनं
ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्पर्शनम् ।
सर्पिःक्षीरविरेकसेकरुधिरस्रावप्रदेहादिकं
पानाहारविहारभेषजमिदं पित्तं प्रशान्तिं नयेत् ॥ १०४ ॥
रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्टीवनं
स्त्रीसेवाध्वनियुद्धजागरजलक्रीडापदाघातनम् ।
धूमात्युष्णशिरोविरेकवमनस्वेदोपवासादिकं
पानाहारविहारभैषजमिदं श्लेष्मानमुग्रं जयेत् ॥ १०५ ॥
आमं जयेल्लङ्घनकोलपेयालघ्वन्नसूपोदकतिक्तयूषैः ।
विरूक्षणस्वेदनपाचनैश्च संशोधनैरूर्ध्वमधस्तथा च ॥ १०६ ॥
हेमन्तवर्षाशिशिरेषु वायोः पित्तस्य तोयान्तनिदाघयोश्च ।
कफस्य कोपः कुसुमागमे च कुर्वन्ति तद्वै विहितं यथैषाम् ॥ १०७ ॥
कफस्य कोपे वमनं सनस्यं विरेचनं पित्तभवे विकारे ।
वातात्मके वस्तिमुदाहरन्ति संसर्गजेऽपि व्यतिमिश्रमेतत् ॥ १०८ ॥
वातोऽम्लतैललवणैर्मधुरान्नपानैः पित्तं तथा मधुरतिक्तकषायशीतैः ।
श्लेष्मापि तिक्तकटुरूक्षकषायतीक्ष्णैरामं प्रशान्तिमुपयान्त्यपतर्पणेन ॥ १०९ ॥
बुद्ध्वैतदन्यदपि यत्तदनुक्तमत्र युक्त्या स्वयं समधिगम्य यथानुरूपम् ।
रोगेषु भेषजमनल्पमतिर्विदध्याच्छास्त्रं हि किंचिदुपदेशलवं करोति ॥ ११० ॥
गुणाधिकं योगशतं निबध्य प्राप्तं मया पुण्यमनुत्तरं यत् ।
नानाप्रकारामयनीडभूतं कृत्स्नं जगत्तेन भवत्वरोगम् ॥ १११ ॥
Read Next
Yoga Satakam (योगशतकम्) by Vararuchi
Translation by Tanmoy Bhattacharyya
The translation follows the traditional Indian medical–philosophical understanding, not a modern biomedical paraphrase. For readability, closely related verses are rendered together, but no verse numbers are omitted.
(1) When the entire system has been properly grasped and treatment has been extended with discernment and depth, even a well-established discipline, honored by skilled physicians, becomes capable of producing a hundred successful therapeutic combinations.
Read Next
(2) After carefully examining causes, diseases, and their characteristics, a knowledgeable physician applies treatments such that remedies administered to a body free from obstruction act like nectar.
(3) Decoctions prepared from herbs such as chinnodbhava, ambudhara, dhanvayavāsa, viśvā, duḥsparśa, parpaṭaka, megha, kirāta-tikta, mustā, aṭarūṣaka, mahauṣadha, and dhanvayāsa should be consumed in fevers arising from vāta, pitta, and kapha.
(4) A decoction made from kṣudrāmṛtā, nāgara, and puṣkarāhvaya is beneficial in kapha-vāta predominant fever, accompanied by dyspnea, cough, anorexia, flank pain, and even in tridoṣa-origin fevers.
(5) A decoction of ārāgvadha, granthika, mustā, tiktā, and harītakī is useful in fever associated with āma, pain, kapha, and vāta, acting as both dīpana and pācana.
(6) In pitta-origin fever with delirium, fainting, dizziness, burning sensation, confusion, and thirst, a decoction of drākṣā, abhayā, parpaṭaka, abda-tiktā, along with śamyāka fruit, should be prepared.
(7) A decoction of nidigdhikā, nāgara, and kāmṛtā mixed with pippalī is beneficial in chronic fever, anorexia, cough, pain, dyspnea, weak digestion, and nasal disorders.
(8) A decoction of durālabhā, parpaṭaka, priyangu, bhūnimba, vāsā, and kaṭurohiṇī, sweetened with sugar, alleviates thirst, bleeding disorders, fever, and burning sensations.
(9) A decoction prepared from phalatrika, dāru, niśā, viśālā, and mustā, mixed with niśā paste and honey, is effective in all types of prameha.
(10) A decoction of vatsaka, ativīṣā, bilva, udīcya, and mustā is beneficial even in long-standing diarrhea associated with āma, pain, and blood.
(11) A decoction of śuṇṭhī, mustā, ativīṣā, and guḍūcī, taken with water, alleviates weak digestion, chronic diseases, āma-association, and grahaṇī disorders.
(12) Decoctions of punarnavā, dārvī, abhayā, and guḍūcī, taken with urine and mahīṣākṣa, are effective in skin disorders, swelling, abdominal disease, anemia, obesity, excessive salivation, and upper kapha disorders.
(13) A decoction of mustā, ākhupārṇī fruit, dāru, śigru, mixed with kṛṣṇā paste, destroys intestinal parasites and parasite-origin diseases through both routes.
(14) A preparation of elā, aśmabhedaka, kauntī, śvadamṣṭrā, vṛṣaka, and urubūka, boiled and mixed with aśmajatu and sugar, is effective in urinary obstruction and stone disorders.
(15) Powders of elā, aśmabhedaka, śilājatu, and pippalī taken with rice-water or made into a confection with jaggery can save even one near death from severe urinary obstruction.
(16) A decoction of harītakī, gokṣura, rājavṛkṣa, pāṣāṇabheda, dhanvayāsa, and vāsaka mixed with honey relieves burning, pain, obstruction, and urinary difficulty.
(17) A decoction of vāsā, guḍūcī, and caturaṅgula taken with castor oil gradually overcomes all systemic blood-vāta disorders.
(18) Rasāñjana with tṛṇḍulaka root taken with honey and rice-water cures all types of excessive bleeding; bhārgī with nāgara relieves dyspnea.
(19) A decoction of castor, bilva, both bṛhatīs, mātuluṅga, pāṣāṇabheda, and trikaṭu, mixed with alkali, hiṅgu, salt, and sesame oil, is taken for pain in pelvis, testes, heart, and breasts.
(20–28) Various powders, pills, and confections prepared from hiṅgu, vacā, kuṣṭha, śuṇṭhī, marica, ajājī, pippalī, pathyā, and related substances are prescribed for gulma, udara, indigestion, visūcikā, constipation, respiratory disorders, throat disease, cardiac pain, anorexia, and digestive weakness.
(29–33) Formulations involving triphalā, hiṅgu, yavānī, vyōṣa, honey, jaggery, and herbal sprouts restore digestion, alleviate cough, thirst, vomiting, and chronic respiratory ailments.
(34–40) Nasal, oral, and topical preparations using minerals, herbs, oils, and ghṛta treat vomiting, hiccup, skin disorders, kuṣṭha, wounds, burning sensations, and chronic fevers.
(41–44) Medicated ghṛta prepared with guḍūcī, vṛṣa, kaṇṭakārī, patola, nimba, khadira, and related herbs alleviates chronic fever, respiratory disease, kuṣṭha, gulma, and skin conditions including visarpa.
(45–54) Lehya, anjana, and eye-medications prepared with herbs, minerals, honey, milk, and clarified butter cure thirst, cough, bleeding disorders, eye diseases, itching, discharge, and visual impairment.
(55–62) Decoctions, pills, gargles, and nasal therapies relieve diseases of the throat, mouth, nose, head, and sense organs, as well as timira and other ocular disorders.
(63–65) Oils and ghṛta processed with herbs promote wound healing, reduce inflammation, cleanse deep ulcers, and restore tissue integrity.
(66–69) Remedies for snakebite, poison ingestion, and toxic exposure, including internal and external antidotes, neutralize both mobile and immobile poisons.
(70–74) Protective formulations known as bhūta-nāśana and graha-hara eliminate fever, mental disturbance, possession-like conditions, and severe systemic disorders.
(75–77) Gentle remedies for infants and children relieve diarrhea, cough, fever, vomiting, and digestive disorders.
(78–83) Rasāyana formulations restore vitality, intellect, memory, complexion, strength, fertility, longevity, and resistance to disease.
(84–88) Therapeutic emesis, purgation, enemas, and nasal therapies are described according to the dominance of vāta, pitta, kapha, or their combinations.
(89–92) Specific substances are praised for specific diseases: pippalī for spleen disorders, triphalā for eye disease, khadira for kuṣṭha, āmalaka for rejuvenation, and śilāhvaya for chronic conditions.
(93) These well-known formulations are declared sufficient for successful treatment; further explanation is given only to aid proper application.
(94–100) Causes, seasonal aggravations, and characteristic actions of vāta, pitta, and kapha are explained through their effects on the body and mind.
(101–106) Āma, its signs, and methods of elimination through fasting, light diet, drying, sweating, digestion, and purification are detailed.
(107–109) Therapeutic principles are summarized: emesis for kapha, purgation for pitta, enema for vāta, and balanced treatment for combined disorders.
(110) A wise physician, understanding both stated and unstated principles, applies remedies with reasoning, as texts provide guidance rather than exhaustiveness.
(111) Having compiled this superior collection of a hundred formulations for the benefit of all beings, may the entire world, afflicted by diverse diseases, attain freedom from illness.
Note: Vararuchi was the minister of Legendary King Vikramaditya (100 BCE-50 BCE)