Yogi Pratyaksha Nirupanam
योगिप्रत्यक्षनिरूपणम्
भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति । योगः समाधिः, चित्तैकाग्रतालक्षणः । निश्शेषवस्तुतत्वविवेचिका प्रज्ञा । योगोऽस्यास्तीति योगी । योगिनो यत्ज्ञानं तत्प्रत्यक्षम् । कीदृशं तदिति चेत्? भूतार्थभावनाप्रकर्षपर्यन्तजम् ।
भूतार्थः प्रमाणोपपन्नार्थः । भावना पुनः पुनश्चेतसि समारोपः । भूतार्थभावनाप्रकर्षपर्यन्ताज्जातं यद्विज्ञानं तत्कल्पनापोढभ्रान्तम् । भूतार्थश्चतुरार्यसत्य दुःखसमुदयनिरोधमार्गसंज्ञकम्, पञ्चस्कन्धस्वभावं क्षणिकशून्यनिरात्मकदुःखादिरूपतया प्रतिपत्तव्यम् । यत्सत्तत्क्षणिकमित्याद्यनुमानेन प्रमाणोपपन्नमुपगन्तव्यमिति ॥
ननु भावना विकल्पः, विकल्पश्चावस्तुविषयः, तत्कथं वस्तुनः स्फुटीभावो भवतु ।कथं वा विकल्पो निर्विकल्पतां व्रजेत्? क्षणिकं च चितं कथमेकाग्रीभवति? विशेषश्च कस्य केन वा क्रियताम्? शरीरी च रागादिविरहान्मुक्तश्चेति सर्वमसंगतम् । अत्रोच्यते – अवस्तुविषयोऽपि विकल्पो वस्त्वध्यवस्यतीति भावनातो वस्तुन एवात्र स्फुटीभावः । न च विकल्प एव निर्विकल्पकः, किं तु विकल्पान्निर्विकल्पकस्योदयः । अनुभवसिद्धं चैतत्भावयतां निर्विकल्पकप्रतिभासनं, कामशोकादिवत् । न हि दृष्टे किञ्चिदनुपपन्नं नाम । क्षणिकमपि चित्तं सजातीयक्षणेषु ग्रहणप्रवीणत्वातेकाग्रमुच्यते । क्षणिकत्वनैव विशेषोत्पत्तिः, न तु नित्यत्वेन, नित्यस्यानाधेयातिशयत्वात्यदुक्तम् –
नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति ।
तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता ।
नित्यवादपि किं तस्य कस्तां क्षपयितुं क्षमः ॥ इति ॥
From : तर्कभाषा – अभिनन्द