वानप्रस्थ – Bana prastha
गृही वलीपलितदर्शने वनाश्रयो भवेत् । । ९४.१ । ।
अपत्यस्य चापत्यदर्शने वा । । ९४.२ । ।
पुत्रेषु भार्यां निक्षिप्य तयानुग्म्यमानो वा । । ९४.३ । ।
तत्राप्यग्नीनुपचरेत् । । ९४.४ । ।
अफालकृष्टेन पञ्च यज्ञान्न हापयेत् । । ९४.५ । ।
स्वाध्यायं च न जह्यात् । । ९४.६ । ।
ब्रह्मचर्यं पालयेत् । । ९४.७ । ।
चर्मचीरवासाः स्यात् । । ९४.८ । ।
जटाश्मश्रुलोमनखांश्च बिभृयात् । । ९४.९ । ।
त्रिषवणस्नायी स्यात् । । ९४.१० । ।
कपोतवृत्तिर्मासनिचयः संवत्सरनिचयो वा । । ९४.११ । ।
संवत्सरनिचयी पूर्वनिचितं आश्वयुज्यां जह्यात् । । ९४.१२ । ।
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् ।
पुटेनैव पलाशेन पाणिना शकलेन वा । । ९४.१३ । ।
वानप्रस्थस्तपसा शरीरं शोषयेत् । । ९५.१ । ।
ग्रीष्मे पञ्चतपाः स्यात् । । ९५.२ । ।
आकाशशायी प्रावृषि । । ९५.३ । ।
आर्द्रवासा हेमन्ते । । ९५.४ । ।
नक्ताशी स्यात् । । ९५.५ । ।
एकान्तरद्व्यन्तरत्र्यन्तराशी वा स्यात् । । ९५.६ । ।
पुष्पाशी । । ९५.७ । ।
फलाशी । । ९५.८ । ।
शाकाशी । । ९५.९ । ।
पर्णाशी वा । । ९५.१० । ।
यवान्नं पक्षान्तयोर्वा सकृदश्नीयात् । । ९५.११ । ।
चान्द्रायणैर्वा वर्तेत । । ९५.१२ । ।
अश्मकुट्टः । । ९५.१३ । ।
दन्तोलूखलिको वा । । ९५.१४ । ।
तपोमूलं इदं सर्वं देवमानुषिकं जगत् ।
तपोमध्यं तपोऽन्तं च तपसा च तथा धृतम् । । ९५.१५ । ।
यद्दुष्चरं यद्दुरापं यद्दूरं यच्च दुष्करम् ।
सर्वं तत्तपसा साध्यं तपो हि दुरतिक्रमम् । । ९५.१६ । ।
विष्णुस्मृतिः