Manu Smriti – Laws of Manu

KEYWORDS:- HINDU LAW- MANAB DHARMA SASTRAM-VAIDIK KARMA-

LORD VISHNU

॥ मनुस्मृति अथवा मानवधर्मशास्त्रम् ॥-Manu smriti or Manab dharma Sastram]

अध्याय १  CHAPER 1

ं१।०१अ/ मनुमेकाग्रमासीनमभिगम्य महर्षयः ।
ं१।०१च्/ प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥

ं१।०२अ/ भगवन् सर्ववर्णानां यथावदनुपूर्वशः ।
ं१।०२च्/ अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥

ं१।०३अ/ त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः ।
ं१।०३च्/ अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित् प्रभो ॥ Bछ्.Sछ्॥

ं१।०४अ/ स तैः पृष्टस्तथा सम्यगमितोजा महात्मभिः ।
ं१।०४च्/ प्रत्युवाचार्च्य तान् सर्वान् महर्षींश्रूयतामिति ॥ Bछ्.Sछ्॥

ं१।०५अ/ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
ं१।०५च्/ अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ Bछ्.Sछ्॥

ं१।०६अ/ ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।
ं१।०६च्/ महाभूतादि वृत्तोजाः प्रादुरासीत् तमोनुदः ॥ Bछ्.Sछ्॥

ं१।०७अ/ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।
ं१।०७च्/ सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्बभौ ॥
ं१।०८अ/ सोऽभिध्याय शरीरात् स्वात् सिसृक्षुर्विविधाः प्रजाः ।
ं१।०८च्/ अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥

ं१।०९अ/ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।
ं१।०९च्/ तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ Bछ्.Sछ्॥

ं१।१०अ/ आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
ं१।१०च्/ ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ Bछ्.Sछ्॥

ं१।११अ/ यत् तत् कारणमव्यक्तं नित्यं सदसदात्मकम् ।
ं१।११च्/ तद्विसृष्टः स पुरुषो लोके ब्रह्मैति कीर्त्यते ॥ Bछ्.Sछ्॥

ं१।१२अ/ तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ।
ं१।१२च्/ स्वयमेवात्मनो ध्यानात् तदण्डमकरोद् द्विधा ॥ Bछ्.Sछ्॥

ं१।१३अ/ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ।
ं१।१३च्/ मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् ॥ Bछ्.Sछ्॥

ं१।१४अ/ उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् ।
ं१।१४च्/ मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥ Bछ्.Sछ्॥ %[ं। अहङ्कारम्]
ं१।१५अ/ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ।
ं१।१५च्/ विषयाणां ग्रहीतॄणि शनैः पञ्चैन्द्रियाणि च ॥ Bछ्.Sछ्॥

ं१।१६अ/ तेषां त्ववयवान् सूक्ष्मान् षण्णामप्यमितौजसाम् ।
ं१।१६च्/ संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे ॥ Bछ्.Sछ्॥ %[ं। सन्निवेश्य]
ं१।१७अ/ यन् मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् ।
ं१।१७च्/ तस्माच्छरीरमित्याहुस्तस्य मूर्तिं मनीषिणः ॥ Bछ्.Sछ्॥

ं१।१८अ/ तदाविशन्ति भूतानि महान्ति सह कर्मभिः ।
ं१।१८च्/ मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् ॥ Bछ्.Sछ्॥

ं१।१९अ/ तेषामिदं तु सप्तानां पुरुषाणां महौजसाम् ।
ं१।१९च्/ सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद् व्ययम् ॥ Bछ्.Sछ्॥

ं१।२०अ/ आद्याद्यस्य गुणं त्वेषामवाप्नोति परः परः ।
ं१।२०च्/ यो यो यावतिथश्चैषां स स तावद् गुणः स्मृतः ॥ Bछ्.Sछ्॥

ं१।२१अ/ सर्वेषां तु स नामानि कर्माणि च पृथक् पृथक् ।
ं१।२१च्/ वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे ॥ Bछ्.Sछ्॥

ं१।२२अ/ कर्मात्मनां च देवानां सोऽसृजत् प्राणिनां प्रभुः ।
ं१।२२च्/ साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् ॥ Bछ्.Sछ्॥

ं१।२३अ/ अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् ।
ं१।२३च्/ दुदोह यज्ञसिद्ध्यर्थं ऋच्।यजुस्।सामलक्षणम् ॥ Bछ्.Sछ्॥

ं१।२४अ/ कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा ।
ं१।२४च्/ सरितः सागरान् शैलान् समानि विषमानि च ॥ Bछ्.Sछ्॥

ं१।२५अ/ तपो वाचं रतिं चैव कामं च क्रोधमेव च ।
ं१।२५च्/ सृष्टिं ससर्ज चैवैमां स्रष्टुमिच्छन्निमाः प्रजाः ॥ Bछ्.Sछ्॥

ं१।२६अ/ कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । %[क्:विवेकाय ]
ं१।२६च्/ द्वन्द्वैरयोजयच्चैमाः सुखदुःखादिभिः प्रजाः ॥ Bछ्.Sछ्॥

ं१।२७अ/ अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः ।
ं१।२७च्/ ताभिः सार्धमिदं सर्वं संभवत्यनुपूर्वशः ॥ Bछ्.Sछ्॥

ं१।२८अ/ यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं प्रभुः ।
ं१।२८च्/ स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः ॥ Bछ्.Sछ्॥

ं१।२९अ/ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ।
ं१।२९च्/ यद् यस्य सोऽदधात् सर्गे तत् तस्य स्वयमाविशत् ॥ Bछ्.Sछ्॥% ****
ं१।३०अ/ यथर्तुलिङ्गान्यर्तवः स्वयमेवर्तुपर्यये ।
ं१।३०च्/ स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः ॥ Bछ्.Sछ्॥

ं१।३१अ/ लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः ।
ं१।३१च्/ ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् ॥ Bछ्.Sछ्॥

ं१।३२अ/ द्विधा कृत्वाऽत्मनो देहमर्धेन पुरुषोऽभवत् ।
ं१।३२च्/ अर्धेन नारी तस्यां स विराजमसृजत् प्रभुः ॥ Bछ्.Sछ्॥

ं१।३३अ/ तपस्तप्त्वाऽसृजद् यं तु स स्वयं पुरुषो विराट् ।
ं१।३३च्/ तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः ॥ Bछ्.Sछ्॥

ं१।३४अ/ अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् ।
ं१।३४च्/ पतीन् प्रजानामसृजं महर्षीनादितो दश ॥Bछ्.Sछ्॥

ं१।३५अ/ मरीचिमत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् ।
ं१।३५च्/ प्रचेतसं वसिष्ठं च भृगुं नारदमेव च ॥ Bछ्.Sछ्॥

ं१।३६अ/ एते मनूंस्तु सप्तान् यानसृजन् भूरितेजसः ।
ं१।३६च्/ देवान् देवनिकायांश्च महर्षींश्चामितोजसः ॥ Bछ्.Sछ्॥

ं१।३७अ/ यक्षरक्षः पिशाचांश्च गन्धर्वाप्सरसोऽसुरान् ।
ं१।३७च्/ नागान् सर्पान् सुपर्णांश्च पितॄणांश्च पृथग्गणम् ॥ Bछ्.Sछ्॥ %[ं। पितॄणां]
ं१।३८अ/ विद्युतोऽशनिमेघांश्च रोहितैन्द्रधनूंषि च ।
ं१।३८च्/ उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च ॥ Bछ्.Sछ्॥

ं१।३९अ/ किन्नरान् वानरान् मत्स्यान् विविधांश्च विहङ्गमान् ।
ं१।३९च्/ पशून् मृगान् मनुष्यांश्च व्यालांश्चोभयतोदतः ॥ Bछ्.Sछ्॥

ं१।४०अ/ कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् ।
ं१।४०च्/ सर्वं च दंशमशकं स्थावरं च पृथग्विधम् ॥ Bछ्.Sछ्॥

ं१।४१अ/ एवमेतैरिदं सर्वं मन्नियोगान् महात्मभिः ।
ं१।४१च्/ यथाकर्म तपोयोगात् सृष्टं स्थावरजङ्गमम् ॥ Bछ्.Sछ्॥

ं१।४२अ/ येषां तु यादृशं कर्म भूतानामिह कीर्तितम् ।
ं१।४२च्/ तत् तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि ॥ Bछ्.Sछ्॥

ं१।४३अ/ पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः ।
ं१।४३च्/ रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः ॥ Bछ्.Sछ्॥ %[ंंअनुषाश्च ]
ं१।४४अ/ अण्डजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः ।
ं१।४४च्/ यानि चैवं।प्रकाराणि स्थलजान्यौदकानि च ॥ Bछ्.Sछ्॥

ं१।४५अ/ स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् ।
ं१।४५च्/ ऊष्मणश्चोपजायन्ते यच्चान्यत् किं चिदीदृशम् ॥ Bछ्.Sछ्॥

ं१।४६अ/ उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः ।
ं१।४६च्/ ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः ॥ Bछ्.Sछ्॥

ं१।४७अ/ अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः ।
ं१।४७च्/ पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः ॥ Bछ्.Sछ्॥

ं१।४८अ/ गुच्छगुल्मं तु विविधं तथैव तृणजातयः ।
ं१।४८च्/ बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च ॥ Bछ्.Sछ्॥

ं१।४९अ/ तमसा बहुरूपेण वेष्टिताः कर्महेतुना ।
ं१।४९च्/ अन्तस्संज्ञा भवन्त्येते सुखदुःखसमन्विताः ॥ Bछ्.Sछ्॥

ं१।५०अ/ एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः ।
ं१।५०च्/ घोरेऽस्मिन् भूतसंसारे नित्यं सततयायिनि ॥ Bछ्.Sछ्॥

ं१।५१अ/ एवं सर्वं स सृष्ट्वैदं मां चाचिन्त्यपराक्रमः ।
ं१।५१च्/ आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् ॥ Bछ्.Sछ्॥

ं१।५२अ/ यदा स देवो जागर्ति तदेवं चेष्टते जगत् ।
ं१।५२च्/ यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति ॥ Bछ्.Sछ्॥

ं१।५३अ/ तस्मिन् स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः । %[ं।स्वपति ]
ं१।५३च्/ स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिमृच्छति ॥ Bछ्.Sछ्॥

ं१।५४अ/ युगपत् तु प्रलीयन्ते यदा तस्मिन् महात्मनि ।
ं१।५४च्/ तदाऽयं सर्वभूतात्मा सुखं स्वपिति निर्वृतः ॥ Bछ्.Sछ्॥

ं१।५५अ/ तमोऽयं तु समाश्रित्य चिरं तिष्ठति सैन्द्रियः ।
ं१।५५च्/ न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः ॥ Bछ्.Sछ्॥

ं१।५६अ/ यदाऽणुमात्रिको भूत्वा बीजं स्थाणु चरिष्णु च ।
ं१।५६च्/ समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति ॥ Bछ्.Sछ्॥

ं१।५७अ/ एवं स जाग्रत्स्वप्नाभ्यामिदं सर्वं चराचरम् ।
ं१।५७च्/ सञ्जीवयति चाजस्रं प्रमापयति चाव्ययः ॥ Bछ्.Sछ्॥

ं१।५८अ/ इदं शास्त्रं तु कृत्वाऽसौ मामेव स्वयमादितः ।
ं१।५८च्/ विधिवद् ग्राहयामास मरीच्यादींस्त्वहं मुनीन् ॥ Bछ्.Sछ्॥

ं१।५९अ/ एतद् वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेषतः ।
ं१।५९च्/ एतद् हि मत्तोऽधिजगे सर्वमेषोऽखिलं मुनिः ॥ Bछ्.Sछ्॥

ं१।६०अ/ ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः ।
ं१।६०च्/ तानब्रवीद् ऋषीन् सर्वान् प्रीतात्मा श्रूयतामिति ॥ Bछ्.Sछ्॥

ं१।६१अ/ स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे ।
ं१।६१च्/ सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः ॥ Bछ्.Sछ्॥

ं१।६२अ/ स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
ं१।६२च्/ चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ Bछ्.Sछ्॥

ं१।६३अ/ स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः ।
ं१।६३च्/ स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ Bछ्.Sछ्॥

ं१।६४अ/ निमेषा दश चाष्टौ च काष्ठा त्रिंशत् तु ताः कला ।
ं१।६४च्/ त्रिंशत् कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ Bछ्.Sछ्॥

ं१।६५अ/ अहोरात्रे विभजते सूर्यो मानुषदैविके ।
ं१।६५च्/ रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ Bछ्.Sछ्॥

ं१।६६अ/ पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ।
ं१।६६च्/ कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥ Bछ्.Sछ्॥

ं१।६७अ/ दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः ।
ं१।६७च्/ अहस्तत्रोदगयनं रात्रिः स्याद् दक्षिणायनम् ॥ Bछ्.Sछ्॥

ं१।६८अ/ ब्राह्मस्य तु क्षपाहस्य यत् प्रमाणं समासतः ।
ं१।६८च्/ एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ Bछ्.Sछ्॥

ं१।६९अ/ चत्वार्याहुः सहस्राणि वर्षाणां तत् कृतं युगम् ।
ं१।६९च्/ तस्य तावत्शती संध्या संध्यांशश्च तथाविधः ॥ Bछ्.Sछ्॥

ं१।७०अ/ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु ।
ं१।७०च्/ एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ Bछ्.Sछ्॥

ं१।७१अ/ यदेतत् परिसङ्ख्यातमादावेव चतुर्युगम् ।
ं१।७१च्/ एतद् द्वादशसाहस्रं देवानां युगमुच्यते ॥ Bछ्.Sछ्॥

ं१।७२अ/ दैविकानां युगानां तु सहस्रं परिसङ्ख्यया ।
ं१।७२च्/ ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ॥ Bछ्.Sछ्॥ %[ं।तावती रात्रिरेव च ]
ं१।७३अ/ तद् वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ।
ं१।७३च्/ रात्रिं च तावतीमेव तेऽहोरात्रविदो जनाः ॥ Bछ्.Sछ्॥

ं१।७४अ/ तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते ।
ं१।७४च्/ प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् ॥ Bछ्.Sछ्॥

ं१।७५अ/ मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया ।
ं१।७५च्/ आकाशं जायते तस्मात् तस्य शब्दं गुणं विदुः ॥ Bछ्.Sछ्॥

ं१।७६अ/ आकाशात् तु विकुर्वाणात् सर्वगन्धवहः शुचिः ।
ं१।७६च्/ बलवाञ्जायते वायुः स वै स्पर्शगुणो मतः ॥ Bछ्.Sछ्॥

ं१।७७अ/ वायोरपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् ।
ं१।७७च्/ ज्योतिरुत्पद्यते भास्वत् तद् रूपगुणमुच्यते ॥ Bछ्.Sछ्॥

ं१।७८अ/ ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः ।
ं१।७८च्/ अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः ॥ Bछ्.Sछ्॥

ं१।७९अ/ यद् प्राग् द्वादशसाहस्रमुदितं दैविकं युगम् ।
ं१।७९च्/ तदेकसप्ततिगुणं मन्वन्तरमिहोच्यते ॥ Bछ्.Sछ्॥

ं१।८०अ/ मन्वन्तराण्यसङ्ख्यानि सर्गः संहार एव च ।
ं१।८०च्/ क्रीडन्निवैतत् कुरुते परमेष्ठी पुनः पुनः ॥ Bछ्.Sछ्॥

ं१।८१अ/ चतुष्पात् सकलो धर्मः सत्यं चैव कृते युगे ।
ं१।८१च्/ नाधर्मेणागमः कश्चिन् मनुष्यान् प्रति वर्तते ॥ Bछ्.Sछ्॥ %[ं। उपवर्तते ]
ं१।८२अ/ इतरेष्वागमाद् धर्मः पादशस्त्ववरोपितः ।
ं१।८२च्/ चौरिकानृतमायाभिर्धर्मश्चापैति पादशः ॥ Bछ्.Sछ्॥

ं१।८३अ/ अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः ।
ं१।८३च्/ कृते त्रेतादिषु ह्येषामायुर्ह्रसति पादशः ॥ Bछ्.Sछ्॥ %[V। वयो ह्रसति ]
ं१।८४अ/ वेदोक्तमायुर्मर्त्यानामाशिषश्चैव कर्मणाम् ।
ं१।८४च्/ फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् ॥ Bछ्.Sछ्॥

ं१।८५अ/ अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे । %[ं।परे ]
ं१।८५च्/ अन्ये कलियुगे नॄणां युगह्रासानुरूपतः ॥ Bछ्.Sछ्॥

ं१।८६अ/ तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
ं१।८६च्/ द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥ Bछ्.Sछ्॥

ं१।८७अ/ सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः ।
ं१।८७च्/ मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् ॥ Bछ्.Sछ्॥

ं१।८८अ/ अध्यापनमध्ययनं यजनं याजनं तथा ।
ं१।८८च्/ दानं प्रतिग्रहं चैव ब्राह्मणानामकल्पयत् ॥ Bछ्.Sछ्॥

ं१।८९अ/ प्रजानां रक्षणं दानमिज्याऽध्ययनमेव च ।
ं१।८९च्/ विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः ॥ Bछ्.Sछ्॥ %[ं।समादिशत्]
ं१।९०अ/ पशूनां रक्षणं दानमिज्याऽध्ययनमेव च ।
ं१।९०च्/ वणिक्पथं कुसीदं च वैश्यस्य कृषिमेव च ॥ Bछ्.Sछ्॥

ं१।९१अ/ एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
ं१।९१च्/ एतेषामेव वर्णानां शुश्रूषामनसूयया ॥ Bछ्.Sछ्॥

ं१।९२अ/ ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः ।
ं१।९२च्/ तस्मान् मेध्यतमं त्वस्य मुखमुक्तं स्वयंभुवा ॥ Bछ्.Sछ्॥

ं१।९३अ/ उत्तमाङ्गोद्भवाज् ज्येष्ठ्याद् ब्रह्मणश्चैव धारणात् । %[ं।ज्यैष्ठ्याद्]
ं१।९३च्/ सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः ॥ Bछ्.Sछ्॥

ं१।९४अ/ तं हि स्वयंभूः स्वादास्यात् तपस्तप्त्वाऽदितोऽसृजत् ।
ं१।९४च्/ हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये ॥ Bछ्.Sछ्॥

ं१।९५अ/ यस्यास्येन सदाऽश्नन्ति हव्यानि त्रिदिवौकसः ।
ं१।९५च्/ कव्यानि चैव पितरः किं भूतमधिकं ततः ॥ Bछ्.Sछ्॥

ं१।९६अ/ भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः ।
ं१।९६च्/ बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः ॥ Bछ्.Sछ्॥

ं१।९७अ/ ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः ।
ं१।९७च्/ कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः ॥ Bछ्.Sछ्॥

ं१।९८अ/ उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती ।
ं१।९८च्/ स हि धर्मार्थमुत्पन्नो ब्रह्मभूयाय कल्पते ॥ Bछ्.Sछ्॥

ं१।९९अ/ ब्राह्मणो जायमानो हि पृथिव्यामधिजायते ।
ं१।९९च्/ ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये ॥ Bछ्.Sछ्॥

ं१।१००अ/ सर्वं स्वं ब्राह्मणस्येदं यत् किं चित्जगतीगतम् ।
ं१।१००च्/ श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति ॥ Bछ्.Sछ्॥

ं१।१०१अ/ स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।
ं१।१०१च्/ आनृशंस्याद् ब्राह्मणस्य भुञ्जते हीतरे जनाः ॥ Bछ्.Sछ्॥

ं१।१०२अ/ तस्य कर्मविवेकार्थं शेषाणामनुपूर्वशः ।
ं१।१०२च्/ स्वायंभुवो मनुर्धीमानिदं शास्त्रमकल्पयत् ॥ Bछ्.Sछ्॥

ं१।१०३अ/ विदुषा ब्राह्मणेनैदमध्येतव्यं प्रयत्नतः ।
ं१।१०३च्/ शिश्येभ्यश्च प्रवक्तव्यं सम्यग़् नान्येन केन चित् ॥ Bछ्.Sछ्॥

ं१।१०४अ/ इदं शास्त्रमधीयानो ब्राह्मणः शंसितव्रतः ।
ं१।१०४च्/ मनोवाक्देहजैर्नित्यं कर्मदोषैर्न लिप्यते ॥ Bछ्.Sछ्॥

ं१।१०५अ/ पुनाति पङ्क्तिं वंश्यांश्च ?? सप्तसप्त परावरान् ।
ं१।१०५च्/ पृथिवीमपि चैवेमां कृत्स्नामेकोऽपि सोऽर्हति ॥ Bछ्.Sछ्॥

ं१।१०६अ/ इदं स्वस्त्ययनं श्रेष्ठमिदं बुद्धिविवर्धनम् ।
ं१।१०६च्/ इदं यशस्यमायुष्यं इदं निःश्रेयसं परम् ॥ Bछ्.Sछ्॥ %[ं। इदं यशस्यं सततम्]
ं१।१०७अ/ अस्मिन् धर्मेऽखिलेनोक्तौ गुणदोषौ च कर्मणाम् ।
ं१।१०७च्/ चतुर्णामपि वर्णानामाचारश्चैव शाश्वतः ॥ Bछ्.Sछ्॥

ं१।१०८अ/ आचारः परमो धर्मः श्रुत्योक्तः स्मार्त एव च ।
ं१।१०८च्/ तस्मादस्मिन् सदा युक्तो नित्यं स्यादात्मवान् द्विजः ॥ Bछ्.Sछ्॥

ं१।१०९अ/ आचाराद् विच्युतो विप्रो न वेदफलमश्नुते ।
ं१।१०९च्/ आचारेण तु संयुक्तः सम्पूर्णफलभाग् भवेत् ॥ Bछ्.Sछ्॥ %[ं। सम्पूर्णफलभाक् स्मृतः]
ं१।११०अ/ एवमाचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् ।
ं१।११०च्/ सर्वस्य तपसो मूलमाचारं जगृहुः परम् ॥ Bछ्.Sछ्॥

ं१।१११अ/ जगतश्च समुत्पत्तिं संस्कारविधिमेव च ।
ं१।१११च्/ व्रतचर्यौपचारं च स्नानस्य च परं विधिम् ॥ Bछ्.Sछ्॥

ं१।११२अ/ दाराधिगमनं चैव विवाहानां च लक्षणम् ।
ं१।११२च्/ महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् ॥ Bछ्.Sछ्॥

ं१।११३अ/ वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च ।
ं१।११३च्/ भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिमेव च ॥ Bछ्.Sछ्॥

ं१।११४अ/ स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासमेव च ।
ं१।११४च्/ राज्ञश्च धर्ममखिलं कार्याणां च विनिर्णयम् ॥ Bछ्.Sछ्॥

ं१।११५अ/ साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि ।
ं१।११५च्/ विभागधर्मं द्यूतं च कण्टकानां च शोधनम् ॥ Bछ्.Sछ्॥

ं१।११६अ/ वैश्यशूद्रोपचारं च सङ्कीर्णानां च संभवम् ।
ं१।११६च्/ आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा ॥ Bछ्.Sछ्॥

ं१।११७अ/ संसारगमनं चैव त्रिविधं कर्मसंभवम् ।
ं१।११७च्/ निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् ॥ Bछ्.Sछ्॥

ं१।११८अ/ देशधर्मान्जातिधर्मान् कुलधर्मांश्च शाश्वतान् ।
ं१।११८च्/ पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान् मनुः ॥ Bछ्.Sछ्॥

ं१।११९अ/ यथैदमुक्तवांशास्त्रं पुरा पृष्टो मनुर्मया ।
ं१।११९च्/ तथैदं यूयमप्यद्य मत्सकाशान्निबोधत ॥ Bछ्.Sछ्॥

अध्याय २   CHAPTER 2 

 

ं२।०१अ/ विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
ं२।०१च्/ हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत ॥ Bछ्.Sछ्॥

ं२।०२अ/ कामात्मता न प्रशस्ता न चैवैहास्त्यकामता ।
ं२।०२च्/ काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः ॥ Bछ्.Sछ्॥

ं२।०३अ/ सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसंभवाः ।
ं२।०३च्/ व्रतानि यमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥ Bछ्.Sछ्॥

ं२।०४अ/ अकामस्य क्रिया का चिद् दृश्यते नैह कर्हि चित् ।
ं२।०४च्/ यद् यद् हि कुरुते किं चित् तत् तत् कामस्य चेष्टितम् ॥ Bछ्.Sछ्॥

ं२।०५अ/ तेषु सम्यग् वर्तमानो गच्छत्यमरलोकताम् ।
ं२।०५च्/ यथा सङ्कल्पितांश्चैह सर्वान् कामान् समश्नुते ॥ Bछ्.Sछ्॥

ं२।०६अ/ वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
ं२।०६च्/ आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ Bछ्.Sछ्॥

ं२।०७अ/ यः कश्चित् कस्य चिद् धर्मो मनुना परिकीर्तितः ।
ं२।०७च्/ स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः ॥ Bछ्.Sछ्॥

ं२।०८अ/ सर्वं तु समवेक्ष्यैदं निखिलं ज्ञानचक्षुषा ।
ं२।०८च्/ श्रुतिप्रामाण्यतो विद्वान् स्वधर्मे निविशेत वै ॥ Bछ्.Sछ्॥

ं२।०९अ/ श्रुतिस्मृत्योदितं धर्ममनुतिष्ठन् हि मानवः ।
ं२।०९च्/ इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ॥ Bछ्.Sछ्॥

ं२।१०अ/ श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ं२।१०च्/ ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्मो हि निर्बभौ ॥ Bछ्.Sछ्॥

ं२।११अ/ योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः ।
ं२।११च्/ स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः ॥ Bछ्.Sछ्॥

ं२।१२अ/ वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
ं२।१२च्/ एतच्चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम् ॥ Bछ्.Sछ्॥

ं२।१३अ/ अर्थकामेष्वसक्तानां धर्मज्ञानं विधीयते ।
ं२।१३च्/ धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ॥ Bछ्.Sछ्॥

ं२।१४अ/ श्रुतिद्वैधं तु यत्र स्यात् तत्र धर्मावुभौ स्मृतौ ।
ं२।१४च्/ उभावपि हि तौ धर्मौ सम्यगुक्तौ मनीषिभिः ॥ Bछ्.Sछ्॥

ं२।१५अ/ उदितेऽनुदिते चैव समयाध्युषिते तथा ।
ं२।१५च्/ सर्वथा वर्तते यज्ञ इतीयं वैदिकी श्रुतिः ॥ Bछ्.Sछ्॥

ं२।१६अ/ निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
ं२।१६च्/ तस्य शास्त्रेऽधिकारोऽस्मिन् ज्ञेयो नान्यस्य कस्य चित् ॥ Bछ्.Sछ्॥

ं२।१७अ/ सरस्वतीदृशद्वत्योर्देवनद्योर्यदन्तरम् ।
ं२।१७च्/ तं देवनिर्मितं देशं ब्रह्मावर्तं प्रचक्षते ॥ Bछ्.Sछ्॥

ं२।१८अ/ तस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
ं२।१८च्/ वर्णानां सान्तरालानां स सदाचार उच्यते ॥ Bछ्.Sछ्॥

ं२।१९अ/ कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः ।
ं२।१९च्/ एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरः ॥ Bछ्.Sछ्॥

ं२।२०अ/ एतद् देशप्रसूतस्य सकाशादग्रजन्मनः ।
ं२।२०च्/ स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः ॥ Bछ्.Sछ्॥

ं२।२१अ/ हिमवद्विन्ध्ययोर्मध्यं यत् प्राग् विनशनादपि ।
ं२।२१च्/ प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ Bछ्.Sछ्॥

ं२।२२अ/ आ समुद्रात् तु वै पूर्वादा समुद्राच्च पश्चिमात् ।
ं२।२२च्/ तयोरेवान्तरं गिर्योरार्यावर्तं विदुर्बुधाः ॥ Bछ्.Sछ्॥

ं२।२३अ/ कृष्णसारस्तु चरति मृगो यत्र स्वभावतः ।
ं२।२३च्/ स ज्ञेयो यज्ञियो देशो म्लेच्छदेशस्त्वतः परः ॥ Bछ्.Sछ्॥

ं२।२४अ/ एतान्द्विजातयो देशान् संश्रयेरन् प्रयत्नतः ।
ं२।२४च्/ शूद्रस्तु यस्मिन् कस्मिन् वा निवसेद् वृत्तिकर्शितः ॥Bछ्.Sछ्॥ %[ं।यस्मिंस्तस्मिन् वा ]
ं२।२५अ/ एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता ।
ं२।२५च्/ संभवश्चास्य सर्वस्य वर्णधर्मान्निबोधत ॥ Bछ्.Sछ्॥

ं२।२६अ/ वैदिकैः कर्मभिः पुण्यैर्निषेकादिर्द्विजन्मनाम् ।
ं२।२६च्/ कार्यः शरीरसंस्कारः पावनः प्रेत्य चैह च ॥ Bछ्.Sछ्॥

ं२।२७अ/ गार्भैर्होमैर्जातकर्मचौडमौञ्जीनिबन्धनैः ।
ं२।२७च्/ बैजिकं गार्भिकं चैनं द्विजानामपमृज्यते ॥ Bछ्.Sछ्॥

ं२।२८अ/ स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया सुतैः ।
ं२।२८च्/ महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुः ॥ Bछ्.Sछ्॥

ं२।२९अ/ प्राङ् नाभिवर्धनात् पुंसो जातकर्म विधीयते ।
ं२।२९च्/ मन्त्रवत् प्राशनं चास्य हिरण्यमधुसर्पिषाम् ॥ Bछ्.Sछ्॥

ं२।३०अ/ नामधेयं दशम्यां तु द्वादश्यां वाऽस्य कारयेत् ।
ं२।३०च्/ पुण्ये तिथौ मुहूर्ते वा नक्षत्रे वा गुणान्विते ॥ Bछ्.Sछ्॥

ं२।३१अ/ मङ्गल्यं ब्राह्मणस्य स्यात् क्षत्रियस्य बलान्वितम् ।
ं२।३१च्/ वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ॥ Bछ्.Sछ्॥

ं२।३२अ/ शर्मवद् ब्राह्मणस्य स्याद् राज्ञो रक्षासमन्वितम् । %[ं राज्ञा ?]
ं२।३२च्/ वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ॥ Bछ्.Sछ्॥

ं२।३३अ/ स्त्रीणां सुखौद्यमक्रूरं विस्पष्टार्थं मनोहरम् ।
ं२।३३च्/ मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ॥ Bछ्.Sछ्॥

ं२।३४अ/ चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् ।
ं२।३४च्/ षष्ठेऽन्नप्राशनं मासि यद् वैष्टं मङ्गलं कुले ॥ Bछ्.Sछ्॥

ं२।३५अ/ चूडाकर्म द्विजातीनां सर्वेषामेव धर्मतः ।
ं२।३५च्/ प्रथमेऽब्दे तृतीये वा कर्तव्यं श्रुतिचोदनात् ॥ Bछ्.Sछ्॥ %[ं।श्रुतिनोदनात्]
ं२।३६अ/ गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्यौपनायनम् ।
ं२।३६च्/ गर्भादेकादशे राज्ञो गर्भात् तु द्वादशे विशः ॥ Bछ्.Sछ्॥

ं२।३७अ/ ब्रह्मवर्चसकामस्य कार्यो विप्रस्य पञ्चमे ।
ं२।३७च्/ राज्ञो बलार्थिनः षष्ठे वैश्यस्यैहार्थिनोऽष्टमे ॥ Bछ्.Sछ्॥

ं२।३८अ/ आ षोदशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।
ं२।३८च्/ आ द्वाविंशात् क्षत्रबन्धोरा चतुर्विंशतेर्विशः ॥ Bछ्.Sछ्॥

ं२।३९अ/ अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः ।
ं२।३९च्/ सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताः ॥ Bछ्.Sछ्॥

ं२।४०अ/ नैतैरपूतैर्विधिवदापद्यपि हि कर्हि चित् ।
ं२।४०च्/ ब्राह्मान् यौनांश्च संबन्धान्नाचरेद् ब्राह्मणः सह ॥ Bछ्.Sछ्॥ %[ं।ब्राह्मणैः सह ]
ं२।४१अ/ कार्ष्णरौरवबास्तानि चर्माणि ब्रह्मचारिणः ।
ं२।४१च्/ वसीरन्नानुपूर्व्येण शाणक्षौमाविकानि च ॥ Bछ्.Sछ्॥

ं२।४२अ/ मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
ं२।४२च्/ क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ Bछ्.Sछ्॥

ं२।४३अ/ मुञ्जालाभे तु कर्तव्याः कुशाश्मन्तकबल्वजैः ।
ं२।४३च्/ त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वा ॥ Bछ्.Sछ्॥

ं२।४४अ/ कार्पासमुपवीतं स्याद् विप्रस्यौर्ध्ववृतं त्रिवृत् ।
ं२।४४च्/ शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् ॥ Bछ्.Sछ्॥

ं२।४५अ/ ब्राह्मणो बैल्वपालाशौ क्षत्रियो वाटखादिरौ ।
ं२।४५च्/ पैलवौदुम्बरौ वैश्यो दण्डानर्हन्ति धर्मतः ॥ Bछ्.Sछ्॥

ं२।४६अ/ केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः ।
ं२।४६च्/ ललाटसम्मितो राज्ञः स्यात् तु नासान्तिको विशः ॥ Bछ्.Sछ्॥

ं२।४७अ/ ऋजवस्ते तु सर्वे स्युरव्रणाः सौम्यदर्शनाः ।
ं२।४७च्/ अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ Bछ्.Sछ्॥

ं२।४८अ/ प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् ।
ं२।४८च्/ प्रदक्षिणं परीत्याग्निं चरेद् भैक्षं यथाविधि ॥

Bछ्.Sछ्॥

ं२।४९अ/ भवत्पूर्वं चरेद् भैक्षमुपनीतो द्विजोत्तमः ।
ं२।४९च्/ भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥Bछ्.Sछ्॥

ं२।५०अ/ मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।
ं२।५०च्/ भिक्षेत भिक्षां प्रथमं या चैनं नावमानयेत् ॥ Bछ्.Sछ्॥

ं२।५१अ/ समाहृत्य तु तद् भैक्षं यावदन्नममायया । %[ं।यावदर्थं ]
ं२।५१च्/ निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः ॥ Bछ्.Sछ्॥

ं२।५२अ/ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
ं२।५२च्/ श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते ह्युदङ्मुखः ॥ Bछ्.Sछ्॥

ं२।५३अ/ उपस्पृश्य द्विजो नित्यमन्नमद्यात् समाहितः ।
ं२।५३च्/ भुक्त्वा चौपस्पृशेत् सम्यगद्भिः खानि च संस्पृशेत् ॥ Bछ्.Sछ्॥

ं२।५४अ/ पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।
ं२।५४च्/ दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ Bछ्.Sछ्॥

ं२।५५अ/ पूजितं ह्यशनं नित्यं बलमूर्जं च यच्छति ।
ं२।५५च्/ अपूजितं तु तद् भुक्तमुभयं नाशयेदिदम् ॥ Bछ्.Sछ्॥

ं२।५६अ/ नौच्छिष्टं कस्य चिद् दद्यान्नाद्यादेतत् तथाऽन्तरा ।
ं२।५६च्/ न चैवात्यशनं कुर्यान्न चौच्छिष्टः क्व चिद् व्रजेत् ॥ Bछ्.Sछ्॥

ं२।५७अ/ अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
ं२।५७च्/ अपुण्यं लोकविद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ Bछ्.Sछ्॥

ं२।५८अ/ ब्राह्मेण विप्रस्तीर्थेन नित्यकालमुपस्पृशेत् ।
ं२।५८च्/ कायत्रैदशिकाभ्यां वा न पित्र्येण कदा चन ॥ Bछ्.Sछ्॥

ं२।५९अ/ अङ्गुष्ठमूलस्य तले ब्राह्मं तीर्थं प्रचक्षते ।
ं२।५९च्/ कायमङ्गुलिमूलेऽग्रे देवं पित्र्यं तयोरधः ॥ Bछ्.Sछ्॥

ं२।६०अ/ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।
ं२।६०च्/ खानि चैव स्पृशेदद्भिरात्मानं शिर एव च ॥ Bछ्.Sछ्॥

ं२।६१अ/ अनुष्णाभिरफेनाभिरद्भिस्तीर्थेन धर्मवित् ।
ं२।६१च्/ शौचेप्सुः सर्वदाऽचामेदेकान्ते प्रागुदङ्मुखः ॥ Bछ्.Sछ्॥

ं२।६२अ/ हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
ं२।६२च्/ वैश्योऽद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ॥ Bछ्.Sछ्॥

ं२।६३अ/ उद्धृते दक्षिणे पाणावुपवीत्यौच्यते द्विजः ।
ं२।६३च्/ सव्ये प्राचीनावीती निवीती कण्ठसज्जने ॥ Bछ्.Sछ्॥

ं२।६४अ/ मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
ं२।६४च्/ अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ Bछ्.Sछ्॥

ं२।६५अ/ केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते ।
ं२।६५च्/ राजन्यबन्धोर्द्वाविंशे वैश्यस्य द्व्यधिके मतः ॥ Bछ्.Sछ्॥

ं२।६६अ/ अमन्त्रिका तु कार्यैयं स्त्रीणामावृदशेषतः ।
ं२।६६च्/ संस्कारार्थं शरीरस्य यथाकालं यथाक्रमम् ॥ Bछ्.Sछ्॥

ं२।६७अ/ वैवाहिको विधिः स्त्रीणां संस्कारो वैदिकः स्मृतः ।
ं२।६७च्/ पतिसेवा गुरौ वासो गृहार्थोऽग्निपरिक्रिया ॥ Bछ्.Sछ्॥

ं२।६८अ/ एष प्रोक्तो द्विजातीनामौपनायनिको विधिः ।
ं२।६८च्/ उत्पत्तिव्यञ्जकः पुण्यः कर्मयोगं निबोधत ॥ Bछ्.Sछ्॥

ं२।६९अ/ उपनीयं गुरुः शिष्यं शिक्षयेत्शौचमादितः ।
ं२।६९च्/ आचारमग्निकार्यं च संध्यौपासनमेव च ॥ Bछ्.Sछ्॥

ं२।७०अ/ अध्येष्यमाणस्त्वाचान्तो यथाशास्त्रमुदङ्मुखः ।
ं२।७०च्/ ब्रह्माञ्जलिकृतोऽध्याप्यो लघुवासा जितैन्द्रियः ॥ Bछ्.Sछ्॥

ं२।७१अ/ ब्रह्मारम्भेऽवसाने च पादौ ग्राह्यौ गुरोः सदा ।
ं२।७१च्/ संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ Bछ्.Sछ्॥

ं२।७२अ/ व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः ।
ं२।७२च्/ सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन च दक्षिणः ॥ Bछ्.Sछ्॥

ं२।७३अ/ अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः ।
ं२।७३च्/ अधीष्व भो इति ब्रूयाद् विरामोऽस्त्विति चारमेत् ॥ Bछ्.Sछ्॥

ं२।७४अ/ ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा ।
ं२।७४च्/ स्रवत्यनोङ्कृतं ?? पूर्वं परस्ताच्च विशीर्यति ॥ Bछ्.Sछ्॥

ं२।७५अ/ प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः ।
ं२।७५च्/ प्राणायामैस्त्रिभिः पूतस्तत ओं।कारमर्हति ॥ Bछ्.Sछ्॥

ं२।७६अ/ अकारं चाप्युकारं च मकारं च प्रजापतिः ।
ं२।७६च्/ वेदत्रयान्निरदुहद् भूर्भुवः स्वरितीति च ॥ Bछ्.Sछ्॥

ं२।७७अ/ त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् ।
ं२।७७च्/ तदित्यर्चोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ Bछ्.Sछ्॥

ं२।७८अ/ एतदक्षरमेतां च जपन् व्याहृतिपूर्विकाम् ।
ं२।७८च्/ संध्ययोर्वेदविद् विप्रो वेदपुण्येन युज्यते ॥ Bछ्.Sछ्॥

ं२।७९अ/ सहस्रकृत्वस्त्वभ्यस्य बहिरेतत् त्रिकं द्विजः ।
ं२।७९च्/ महतोऽप्येनसो मासात् त्वचैवाहिर्विमुच्यते ॥ Bछ्.Sछ्॥

ं२।८०अ/ एतयाऋचा विसंयुक्तः काले च क्रियया स्वया ।
ं२।८०च्/ ब्रह्मक्षत्रियविद्योनिर्गर्हणां याति साधुषु ॥ Bछ्.Sछ्॥

ं२।८१अ/ ओंकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । %[ंओङ्कार]
ं२।८१च्/ त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणो मुखम् ॥ Bछ्.Sछ्॥

ं२।८२अ/ योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ।
ं२।८२च्/ स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् ॥ Bछ्.Sछ्॥

ं२।८३अ/ एकाक्षरं परं ब्रह्म प्राणायामः परं तपः ।
ं२।८३च्/ सावित्र्यास्तु परं नास्ति मौनात् सत्यं विशिष्यते ॥ Bछ्.Sछ्॥

ं२।८४अ/ क्षरन्ति सर्वा वैदिक्यो जुहोतियजतिक्रियाः ।
ं२।८४च्/ अक्षरं दुष्करं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ Bछ्.Sछ्॥ %[ं। अक्षरं त्वक्षरं ज्ञेयं]
ं२।८५अ/ विधियज्ञाज् जपयज्ञो विशिष्टो दशभिर्गुणैः ।
ं२।८५च्/ उपांशुः स्यात्शतगुणः साहस्रो मानसः स्मृतः ॥ Bछ्.Sछ्॥

ं२।८६अ/ ये पाकयज्ञाः चत्वारो विधियज्ञसमन्विताः ।
ं२।८६च्/ सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ॥ Bछ्.Sछ्॥

ं२।८७अ/ जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः ।
ं२।८७च्/ कुर्यादन्यन्न वा कुर्यान् मैत्रो ब्राह्मण उच्यते ॥ Bछ्.Sछ्॥

ं२।८८अ/ इन्द्रियाणां विचरतां विषयेष्वपहारिषु ।
ं२।८८च्/ संयमे यत्नमातिष्ठेद् विद्वान् यन्तैव वाजिनाम् ॥ Bछ्.Sछ्॥

ं२।८९अ/ एकादशेन्द्रियाण्याहुर्यानि पूर्वे मनीषिणः ।
ं२।८९च्/ तानि सम्यक् प्रवक्ष्यामि यथावदनुपूर्वशः ॥ Bछ्.Sछ्॥

ं२।९०अ/ श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
ं२।९०च्/ पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ।
ं२।९१अ/ बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्वशः ।
ं२।९१च्/ कर्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ Bछ्.Sछ्॥

ं२।९२अ/ एकादशं मनो ज्ञेयं स्वगुणेनौभयात्मकम् ।
ं२।९२च्/ यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥ Bछ्.Sछ्॥

ं२।९३अ/ इन्द्रियाणां प्रसङ्गेन दोषं ऋच्छत्यसंशयम् ।
ं२।९३च्/ संनियम्य तु तान्येव ततः सिद्धिं निगच्छति ॥ Bछ्.Sछ्॥

ं२।९४अ/ न जातु कामः कामानामुपभोगेन शाम्यति ।
ं२।९४च्/ हविषा कृष्णवर्त्मैव भूय एवाभिवर्धते ॥ Bछ्.Sछ्॥

ं२।९५अ/ यश्चैतान् प्राप्नुयात् सर्वान् यश्चैतान् केवलांस्त्यजेत् ॥ Bछ्.Sछ्॥

ं२।९५च्/ प्रापणात् सर्वकामानां परित्यागो विशिष्यते ।
ं२।९६अ/ न तथैतानि शक्यन्ते संनियन्तुमसेवया ॥ Bछ्.Sछ्॥

ं२।९६च्/ विषयेषु प्रजुष्टानि यथा ज्ञानेन नित्यशः ॥ Bछ्.Sछ्॥

ं२।९७अ/ वेदास्त्यागश्च यज्ञाश्च नियमाश्च तपांसि च ।
ं२।९७च्/ न विप्रदुष्टभावस्य सिद्धिं गच्छति कर्हि चित् ॥ Bछ्.Sछ्॥

ं२।९८अ/ श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
ं२।९८च्/ न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः ॥ Bछ्.Sछ्॥

ं२।९९अ/ इन्द्रियाणां तु सर्वेषां यद्येकं क्षरतीन्द्रियम् ।
ं२।९९च्/ तेनास्य क्षरति प्रज्ञा दृतेः पादादिवोदकम् ॥ Bछ्.Sछ्॥

ं२।१००अ/ वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा ।
ं२।१००च्/ सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥ Bछ्.Sछ्॥

ं२।१०१अ/ पूर्वां संध्यां जपंस्तिष्ठेत् सावित्रीमाऽर्कदर्शनात् ।
ं२।१०१च्/ पश्चिमां तु समासीनः सम्यग् ऋक्षविभावनात् ॥ Bछ्.Sछ्॥ %[ं। पश्चिमां तु सदासीत]
ं२।१०२अ/ पूर्वां संध्यां जपंस्तिष्ठन्नैशमेनो व्यपोहति ।
ं२।१०२च्/ पश्चिमां तु समासीनो मलं हन्ति दिवाकृतम् ॥ Bछ्.Sछ्॥

ं२।१०३अ/ न तिष्ठति तु यः पूर्वां नौपास्ते यश्च पश्चिमाम् ।
ं२।१०३च्/ स शूद्रवद् बहिष्कार्यः सर्वस्माद् द्विजकर्मणः ॥ Bछ्.Sछ्॥

ं२।१०४अ/ अपां समीपे नियतो नैत्यकं विधिमास्थितः ।
ं२।१०४च्/ सावित्रीमप्यधीयीत गत्वाऽरण्यं समाहितः ॥ Bछ्.Sछ्॥

ं२।१०५अ/ वेदौपकरणे चैव स्वाध्याये चैव नैत्यके ।
ं२।१०५च्/ नानुरोधोऽस्त्यनध्याये होममन्त्रेषु चैव हि ॥ Bछ्.Sछ्॥

ं२।१०६अ/ नैत्यके नास्त्यनध्यायो ब्रह्मसत्रं हि तत् स्मृतम् ॥ Bछ्.Sछ्॥

ं२।१०६च्/ ब्रह्माहुतिहुतं पुण्यमनध्यायवषट् कृतम् ??॥ Bछ्.Sछ्॥

ं२।१०७अ/ यः स्वाध्यायमधीतेऽब्दं विधिना नियतः शुचिः ।
ं२।१०७च्/ तस्य नित्यं क्षरत्येष पयो दधि घृतं मधु ॥ Bछ्.Sछ्॥

ं२।१०८अ/ अग्नीन्धनं भैक्षचर्यामधःशय्यां गुरोर्हितम् ।
ं२।१०८च्/ आ समावर्तनात् कुर्यात् कृतोपनयनो द्विजः ॥ Bछ्.Sछ्॥

ं२।१०९अ/ आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः ।
ं२।१०९च्/ आप्तः शक्तोऽर्थदः साधुः स्वोऽध्याप्या दश धर्मतः ?? ॥ Bछ्.Sछ्॥

ं२।११०अ/ नापृष्टः कस्य चिद् ब्रूयान्न चान्यायेन पृच्छतः ।
ं२।११०च्/ जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥ Bछ्.Sछ्॥

ं२।१११अ/ अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ।
ं२।१११च्/ तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति ॥ Bछ्.Sछ्॥

ं२।११२अ/ धर्मार्थौ यत्र न स्यातां शुश्रूषा वाऽपि तद्विधा ।
ं२।११२च्/ तत्र विद्या न वप्तव्या शुभं बीजमिवौषरे ॥ Bछ्.Sछ्॥

ं२।११३अ/ विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना ।
ं२।११३च्/ आपद्यपि हि घोरायां न त्वेनामिरिणे वपेत् ॥ Bछ्.Sछ्॥

ं२।११४अ/ विद्या ब्राह्मणमेत्याह शेवधिस्तेऽस्मि रक्ष माम् । %[ं।शेवधिष् टे]
ं२।११४च्/ असूयकाय मां मादास्तथा स्यां वीर्यवत्तमा ॥ Bछ्.Sछ्॥

ं२।११५अ/ यमेव तु शुचिं विद्यान्नियतब्रह्मचारिणम् । %[ं। विद्या नियतं ब्रह्मचारिणम्]
ं२।११५च्/ तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ।
ं२।११६अ/ ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् ।
ं२।११६च्/ स ब्रह्मस्तेयसंयुक्तो नरकं प्रतिपद्यते ।
ं२।११७अ/ लौकिकं वैदिकं वाऽपि तथाऽध्यात्मिकमेव वा ।
ं२।११७च्/ आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ Bछ्.Sछ्॥

ं२।११८अ/ सावित्रीमात्रसारोऽपि वरं विप्रः सुयन्त्रितः ।
ं२।११८च्/ नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ Bछ्.Sछ्॥

ं२।११९अ/ शय्याऽऽसनेऽध्याचरिते श्रेयसा न समाविशेत् ।
ं२।११९च्/ शय्याऽऽसनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् ॥ Bछ्.Sछ्॥

ं२।१२०अ/ ऊर्ध्वं प्राणा ह्युत्क्रमन्ति यूनः स्थविर आयति ।
ं२।१२०च्/ प्रत्युत्थानाभिवादाभ्यां पुनस्तान् प्रतिपद्यते ॥ Bछ्.Sछ्॥

ं२।१२१अ/ अभिवादनशीलस्य नित्यं वृद्धोपसेविनः ।
ं२।१२१च्/ चत्वारि तस्य वर्धन्ते आयुर्धर्मो यशो बलम् ॥ Bछ्.Sछ्॥ %[ं। चत्वारि सम्प्रवर्धन्ते]
ं२।१२२अ/ अभिवादात् परं विप्रो ज्यायांसमभिवादयन् ।
ं२।१२२च्/ असौ नामाहमस्मीति स्वं नाम परिकीर्तयेत् ॥ Bछ्.Sछ्॥

ं२।१२३अ/ नामधेयस्य ये के चिदभिवादं न जानते ।
ं२।१२३च्/ तान् प्राज्ञोऽहमिति ब्रूयात् स्त्रियः सर्वास्तथैव च ॥ Bछ्.Sछ्॥

ं२।१२४अ/ भोःशब्दं कीर्तयेदन्ते स्वस्य नाम्नोऽभिवादने ।
ं२।१२४च्/ नाम्नां स्वरूपभावो हि भोभाव ऋषिभिः स्मृतः ॥ Bछ्.Sछ्॥

ं२।१२५अ/ आयुष्मान् भव सौम्यैति वाच्यो विप्रोऽभिवादने ।
ं२।१२५च्/ अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ Bछ्.Sछ्॥

ं२।१२६अ/ यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् ।
ं२।१२६च्/ नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ Bछ्.Sछ्॥

ं२।१२७अ/ ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।
ं२।१२७च्/ वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥ Bछ्.Sछ्॥

ं२।१२८अ/ अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।
ं२।१२८च्/ भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ Bछ्.Sछ्॥

ं२।१२९अ/ परपत्नी तु या स्त्री स्यादसंबन्धा च योनितः ।
ं२।१२९च्/ तां ब्रूयाद् भवतीत्येवं सुभगे भगिनीति च ॥ Bछ्.Sछ्॥

ं२।१३०अ/ मातुलांश्च पितृव्यांश्च श्वशुरान् ऋत्विजो गुरून् ।
ं२।१३०च्/ असावहमिति ब्रूयात् प्रत्युत्थाय यवीयसः ॥ Bछ्.Sछ्॥

ं२।१३१अ/ मातृश्वसा मातुलानी श्वश्रूरथ पितृश्वसा ।
ं२।१३१च्/ सम्पूज्या गुरुपत्नीवत् समास्ता गुरुभार्यया ॥ Bछ्.Sछ्॥

ं२।१३२अ/ भ्रातुर्भार्यौपसङ्ग्राह्या सवर्णाऽहन्यहन्यपि ।
ं२।१३२च्/ विप्रोष्य तूपसङ्ग्राह्या ज्ञातिसंबन्धियोषितः ॥ Bछ्.Sछ्॥

ं२।१३३अ/ पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि ।
ं२।१३३च्/ मातृवद् वृत्तिमातिष्ठेन् माता ताभ्यो गरीयसी ॥ Bछ्.Sछ्॥

ं२।१३४अ/ दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् ।
ं२।१३४च्/ त्र्यब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ Bछ्.Sछ्॥

ं२।१३५अ/ ब्राह्मणं दशवर्षं तु शतवर्षं तु भूमिपम् ।
ं२।१३५च्/ पितापुत्रौ विजानीयाद् ब्राह्मणस्तु तयोः पिता ॥ Bछ्.Sछ्॥

ं२।१३६अ/ वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी ।
ं२।१३६च्/ एतानि मान्यस्थानानि गरीयो यद् यदुत्तरम् ॥ Bछ्.Sछ्॥ %[ंंआनस्थानानि ]
ं२।१३७अ/ पञ्चानां त्रिषु वर्णेषु भूयांसि गुणवन्ति च ।
ं२।१३७च्/ यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ Bछ्.Sछ्॥

ं२।१३८अ/ चक्रिणो दशमीस्थस्य रोगिणो भारिणः स्त्रियाः ।
ं२।१३८च्/ स्नातकस्य च राज्ञश्च पन्था देयो वरस्य च ॥ Bछ्.Sछ्॥

ं२।१३९अ/ तेषां तु समवेतानां मान्यौ स्नातकपार्थिवौ ।
ं२।१३९च्/ राजस्नातकयोश्चैव स्नातको नृपमानभाक् ॥ Bछ्.Sछ्॥

ं२।१४०अ/ उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः ।
ं२।१४०च्/ सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ Bछ्.Sछ्॥

ं२।१४१अ/ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
ं२।१४१च्/ योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ Bछ्.Sछ्॥

ं२।१४२अ/ निषेकादीनि कर्माणि यः करोति यथाविधि ।
ं२।१४२च्/ संभावयति चान्नेन स विप्रो गुरुरुच्यते ॥ Bछ्.Sछ्॥

ं२।१४३अ/ अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान् मखान् ।
ं२।१४३च्/ यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥ Bछ्.Sछ्॥

ं२।१४४अ/ य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ ।
ं२।१४४च्/ स माता स पिता ज्ञेयस्तं न द्रुह्येत् कदा चन ॥ Bछ्.Sछ्॥

ं२।१४५अ/ उपाध्यायान् दशाचार्य आचार्याणां शतं पिता ।
ं२।१४५च्/ सहस्रं तु पितॄन् माता गौरवेणातिरिच्यते ॥ Bछ्.Sछ्॥

ं२।१४६अ/ उत्पादकब्रह्मदात्रोर्गरीयान् ब्रह्मदः पिता ।
ं२।१४६च्/ ब्रह्मजन्म हि विप्रस्य प्रेत्य चैह च शाश्वतम् ॥ Bछ्.Sछ्॥

ं२।१४७अ/ कामान् माता पिता चैनं यदुत्पादयतो मिथः ।
ं२।१४७च्/ संभूतिं तस्य तां विद्याद् यद् योनावभिजायते ॥ Bछ्.Sछ्॥

ं२।१४८अ/ आचार्यस्त्वस्य यां जातिं विधिवद् वेदपारगः ।
ं२।१४८च्/ उत्पादयति सावित्र्या सा सत्या साऽजराऽमरा ॥ Bछ्.Sछ्॥

ं२।१४९अ/ अल्पं वा बहु वा यस्य श्रुतस्यौपकरोति यः ।
ं२।१४९च्/ तमपीह गुरुं विद्यात्श्रुतौपक्रियया तया ॥ Bछ्.Sछ्॥

ं२।१५०अ/ ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता ।
ं२।१५०च्/ बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ॥ Bछ्.Sछ्॥

ं२।१५१अ/ अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः ।
ं२।१५१च्/ पुत्रका इति हौवाच ज्ञानेन परिगृह्य तान् ॥ Bछ्.Sछ्॥

ं२।१५२अ/ ते तमर्थमपृच्छन्त देवानागतमन्यवः ।
ं२।१५२च्/ देवाश्चैतान् समेत्यौचुर्न्याय्यं वः शिशुरुक्तवान् ॥ Bछ्.Sछ्॥

ं२।१५३अ/ अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।
ं२।१५३च्/ अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ Bछ्.Sछ्॥

ं२।१५४अ/ न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ं२।१५४च्/ ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ Bछ्.Sछ्॥

ं२।१५५अ/ विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः ।
ं२।१५५च्/ वैश्यानां धान्यधनतः शूद्राणामेव जन्मतः ॥ Bछ्.Sछ्॥

ं२।१५६अ/ न तेन वृद्धो भवति येनास्य पलितं शिरः ।
ं२।१५६च्/ यो वै युवाऽप्यधीयानस्तं देवाः स्थविरं विदुः ॥ Bछ्.Sछ्॥

ं२।१५७अ/ यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
ं२।१५७च्/ यश्च विप्रोऽनधीयानस्त्रयस्ते नाम बिभ्रति ॥ Bछ्.Sछ्॥

ं२।१५८अ/ यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।
ं२।१५८च्/ यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः ॥ Bछ्.Sछ्॥

ं२।१५९अ/ अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् ।
ं२।१५९च्/ वाक् चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममिच्छता ॥ Bछ्.Sछ्॥

ं२।१६०अ/ यस्य वाङ्मनसी शुद्धे सम्यग् गुप्ते च सर्वदा ।
ं२।१६०च्/ स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ Bछ्.Sछ्॥

ं२।१६१अ/ नारुंतुदः स्यादार्तोऽपि न परद्रोहकर्मधीः ।
ं२।१६१च्/ ययाऽस्योद्विजते वाचा नालोक्यां तामुदीरयेत् ॥ Bछ्.Sछ्॥

ं२।१६२अ/ सम्मानाद् ब्राह्मणो नित्यमुद्विजेत विषादिव ।
ं२।१६२च्/ अमृतस्येव चाकाङ्क्षेदवमानस्य सर्वदा ॥ Bछ्.Sछ्॥

ं२।१६३अ/ सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते ॥ Bछ्.Sछ्॥

ं२।१६३च्/ सुखं चरति लोकेऽस्मिन्नवमन्ता विनश्यति ॥ Bछ्.Sछ्॥

ं२।१६४अ/ अनेन क्रमयोगेन संस्कृतात्मा द्विजः शनैः ।
ं२।१६४च्/ गुरौ वसन् सञ्चिनुयाद् ब्रह्माधिगमिकं तपः ॥ Bछ्.Sछ्॥

ं२।१६५अ/ तपोविशेषैर्विविधैर्व्रतैश्च विधिचोदितैः ।
ं२।१६५च्/ वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना ॥ Bछ्.Sछ्॥

ं२।१६६अ/ वेदमेव सदाऽभ्यस्येत् तपस्तप्यन् द्विजोत्तमः ।
ं२।१६६च्/ वेदाभ्यासो हि विप्रस्य तपः परमिहौच्यते ॥ Bछ्.Sछ्॥

ं२।१६७अ/ आ हैव स नखाग्रेभ्यः परमं तप्यते तपः ।
ं२।१६७च्/ यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ Bछ्.Sछ्॥

ं२।१६८अ/ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् ।
ं२।१६८च्/ स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ Bछ्.Sछ्॥

ं२।१६९अ/ मातुरग्रेऽधिजननं द्वितीयं मौञ्जिबन्धने ।
ं२।१६९च्/ तृतीयं यज्ञदीक्षायां द्विजस्य श्रुतिचोदनात् ॥ Bछ्.Sछ्॥

ं२।१७०अ/ तत्र यद् ब्रह्मजन्मास्य मौञ्जीबन्धनचिह्नितम् ।
ं२।१७०च्/ तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते ॥ Bछ्.Sछ्॥

ं२।१७१अ/ वेदप्रदानादाचार्यं पितरं परिचक्षते ।
ं२।१७१च्/ न ह्यस्मिन् युज्यते कर्म किञ्चिदा मौञ्जिबन्धनात् ॥ Bछ्.Sछ्॥

ं२।१७२अ/ नाभिव्याहारयेद् ब्रह्म स्वधानिनयनाद् ऋते ।
ं२।१७२च्/ शूद्रेण हि समस्तावद् यावद् वेदे न जायते ॥ Bछ्.Sछ्॥

ं२।१७३अ/ कृतौपनयनस्यास्य व्रतादेशनमिष्यते ।
ं२।१७३च्/ ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ Bछ्.Sछ्॥

ं२।१७४अ/ यद्यस्य विहितं चर्म यत् सूत्रं या च मेखला ।
ं२।१७४च्/ यो दण्डो यत्च वसनं तत् तदस्य व्रतेष्वपि ॥ Bछ्.Sछ्॥

ं२।१७५अ/ सेवेतैमांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।
ं२।१७५च्/ सन्नियम्यैन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ Bछ्.Sछ्॥

ं२।१७६अ/ नित्यं स्नात्वा शुचिः कुर्याद् देवर्षिपितृतर्पणम् ।
ं२।१७६च्/ देवताभ्यर्चनं चैव समिदाधानमेव च ॥ Bछ्.Sछ्॥

ं२।१७७अ/ वर्जयेन् मधु मांसं च गन्धं माल्यं रसान् स्त्रियः ।
ं२।१७७च्/ शुक्तानि यानि सर्वाणि प्राणिनां चैव हिंसनम् ॥ Bछ्.Sछ्॥

ं२।१७८अ/ अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् ।
ं२।१७८च्/ कामं क्रोधं च लोभं च नर्तनं गीतवादनम् ॥ Bछ्.Sछ्॥

ं२।१७९अ/ द्यूतं च जनवादं च परिवादं तथाऽनृतम् ।
ं२।१७९च्/ स्त्रीणां च प्रेक्षणालम्भमुपघातं परस्य च ॥ Bछ्.Sछ्॥%(ं।आलम्भाऽव्)
ं२।१८०अ/ एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्व चित् ।
ं२।१८०च्/ कामाद् हि स्कन्दयन् रेतो हिनस्ति व्रतमात्मनः ॥ Bछ्.Sछ्॥

ं२।१८१अ/ स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।
ं२।१८१च्/ स्नात्वाऽर्कमर्चयित्वा त्रिः पुनर्मामित्यृचं जपेत् ॥ Bछ्.Sछ्॥

ं२।१८२अ/ उदकुम्भं सुमनसो गोशकृत्मृत्तिकाकुशान् ।
ं२।१८२च्/ आहरेद् यावदर्थानि भैक्षं चाहरहश्चरेत् ॥ Bछ्.Sछ्॥

ं२।१८३अ/ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।
ं२।१८३च्/ ब्रह्मचार्याहरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ Bछ्.Sछ्॥

ं२।१८४अ/ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।
ं२।१८४च्/ अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ Bछ्.Sछ्॥

ं२।१८५अ/ सर्वं वापि चरेद् ग्रामं पूर्वौक्तानामसंभवे ।
ं२।१८५च्/ नियम्य प्रयतो वाचमभिशस्तांस्तु वर्जयेत् ॥ Bछ्.Sछ्॥

ं२।१८६अ/ दूरादाहृत्य समिधः सन्निदध्याद् विहायसि ।
ं२।१८६च्/ सायं।प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः ॥ Bछ्.Sछ्॥

ं२।१८७अ/ अकृत्वा भैक्षचरणमसमिध्य च पावकम् ।
ं२।१८७च्/ अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ Bछ्.Sछ्॥

ं२।१८८अ/ भैक्षेण वर्तयेन्नित्यं नैकान्नादी भवेद् व्रती ।
ं२।१८८च्/ भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ Bछ्.Sछ्॥

ं२।१८९अ/ व्रतवद् देवदैवत्ये पित्र्ये कर्मण्यथर्षिवत् ।
ं२।१८९च्/ काममभ्यर्थितोऽश्नीयाद् व्रतमस्य न लुप्यते ॥ Bछ्.Sछ्॥

ं२।१९०अ/ ब्राह्मणस्यैव कर्मैतदुपदिष्टं मनीषिभिः ।
ं२।१९०च्/ राजन्यवैश्ययोस्त्वेवं नैतत् कर्म विधीयते ॥ Bछ्.Sछ्॥

ं२।१९१अ/ चोदितो गुरुणा नित्यमप्रचोदित एव वा ।
ं२।१९१च्/ कुर्यादध्ययने यत्नमाचार्यस्य हितेषु च ॥ Bछ्.Sछ्॥ %[ंऽध्ययने योगम्]
ं२।१९२अ/ शरीरं चैव वाचं च बुद्धीन्द्रियमनांसि च ।
ं२।१९२च्/ नियम्य प्राञ्जलिस्तिष्ठेद् वीक्षमाणो गुरोर्मुखम् ॥ Bछ्.Sछ्॥

ं२।१९३अ/ नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसंवृतः ।
ं२।१९३च्/ आस्यतामिति चौक्तः सन्नासीताभिमुखं गुरोः ॥ Bछ्.Sछ्॥

ं२।१९४अ/ हीनान्नवस्त्रवेषः स्यात् सर्वदा गुरुसन्निधौ ।
ं२।१९४च्/ उत्तिष्ठेत् प्रथमं चास्य चरमं चैव संविशेत् ॥ Bछ्.Sछ्॥

ं२।१९५अ/ प्रतिश्रावणसंभाषे शयानो न समाचरेत् ।
ं२।१९५च्/ नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ Bछ्.Sछ्॥

ं२।१९६अ/ आसीनस्य स्थितः कुर्यादभिगच्छंस्तु तिष्ठतः ।
ं२।१९६च्/ प्रत्युद्गम्य त्वाव्रजतः पश्चाद् धावंस्तु धावतः ॥ Bछ्.Sछ्॥

ं२।१९७अ/ पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् ।
ं२।१९७च्/ प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ Bछ्.Sछ्॥

ं२।१९८अ/ नीचं शय्याऽऽसनं चास्य नित्यं स्याद् गुरुसन्निधौ ।
ं२।१९८च्/ गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ Bछ्.Sछ्॥

ं२।१९९अ/ नौदाहरेदस्य नाम परोक्षमपि केवलम् ।
ं२।१९९च्/ न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ Bछ्.Sछ्॥

ं२।२००अ/ गुरोर्यत्र परिवादो निन्दा वाऽपि प्रवर्तते ।
ं२।२००च्/ कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ Bछ्.Sछ्॥

ं२।२०१अ/ परीवादात् खरो भवति श्वा वै भवति निन्दकः ।
ं२।२०१च्/ परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ Bछ्.Sछ्॥

ं२।२०२अ/ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः ।
ं२।२०२च्/ यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ Bछ्.Sछ्॥

ं२।२०३अ/ प्रतिवातेऽनुवाते च नासीत गुरुणा सह । %[ं।प्रतिवातानुवाते]
ं२।२०३च्/ असंश्रवे चैव गुरोर्न किं चिदपि कीर्तयेत् ॥ Bछ्.Sछ्॥

ं२।२०४अ/ गोऽश्वौष्ट्रयानप्रासादप्रस्तरेषु कटेषु च ।
ं२।२०४च्/ आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ Bछ्.Sछ्॥

ं२।२०५अ/ गुरोर्गुरौ सन्निहिते गुरुवद् वृत्तिमाचरेत् ।
ं२।२०५च्/ न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ Bछ्.Sछ्॥

ं२।२०६अ/ विद्यागुरुष्वेवमेव नित्या वृत्तिः स्वयोनिषु ।
ं२।२०६च्/ प्रतिषेधत्सु चाधर्माद् हितं चोपदिशत्स्वपि ॥ Bछ्.Sछ्॥

ं२।२०७अ/ श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् ।
ं२।२०७च्/ गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥ Bछ्.Sछ्॥ %[ं।गुरुपुत्रे तथाचार्ये]
ं२।२०८अ/ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि ।
ं२।२०८च्/ अध्यापयन् गुरुसुतो गुरुवत्मानमर्हति ॥ Bछ्.Sछ्॥

ं२।२०९अ/ उत्सादनं च गात्राणां स्नापनौच्छिष्टभोजने ।
ं२।२०९च्/ न कुर्याद् गुरुपुत्रस्य पादयोश्चावनेजनम् ॥ Bछ्.Sछ्॥

ं२।२१०अ/ गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।
ं२।२१०च्/ असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ Bछ्.Sछ्॥

ं२।२११अ/ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च ।
ं२।२११च्/ गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ Bछ्.Sछ्॥

ं२।२१२अ/ गुरुपत्नी तु युवतिर्नाभिवाद्यैह पादयोः ।
ं२।२१२च्/ पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ Bछ्.Sछ्॥

ं२।२१३अ/ स्वभाव एष नारीणां नराणामिह दूषणम् ।
ं२।२१३च्/ अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ Bछ्.Sछ्॥

ं२।२१४अ/ अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
ं२।२१४च्/ प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ Bछ्.Sछ्॥

ं२।२१५अ/ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् ।
ं२।२१५च्/ बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ Bछ्.Sछ्॥

ं२।२१६अ/ कामं तु गुरुपत्नीनां युवतीनां युवा भुवि ।
ं२।२१६च्/ विधिवद् वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ Bछ्.Sछ्॥

ं२।२१७अ/ विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् ।
ं२।२१७च्/ गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ Bछ्.Sछ्॥

ं२।२१८अ/ यथा खनन् खनित्रेण नरो वार्यधिगच्छति ।
ं२।२१८च्/ तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ Bछ्.Sछ्॥

ं२।२१९अ/ मुण्डो वा जटिलो वा स्यादथ वा स्यात्शिखाजटः ।
ं२।२१९च्/ नैनं ग्रामेऽभिनिम्लोचेत् सूर्यो नाभ्युदियात् क्व चित् ॥ Bछ्.Sछ्॥

ं२।२२०अ/ तं चेदभ्युदियात् सूर्यः शयानं कामचारतः ।
ं२।२२०च्/ निम्लोचेद् वाऽप्यविज्ञानाज् जपन्नुपवसेद् दिनम् ॥ Bछ्.Sछ्॥

ं२।२२१अ/ सूर्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः । %[ंऽभिनिम्लुक्तः]
ं२।२२१च्/ प्रायश्चित्तमकुर्वाणो युक्तः स्यान् महतेनसा ॥ Bछ्.Sछ्॥

ं२।२२२अ/ आचम्य प्रयतो नित्यमुभे संध्ये समाहितः ।
ं२।२२२च्/ शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ Bछ्.Sछ्॥

ं२।२२३अ/ यदि स्त्री यद्यवरजः श्रेयः किं चित् समाचरेत् ।
ं२।२२३च्/ तत् सर्वमाचरेद् युक्तो यत्र चास्य रमेन् मनः ॥ Bछ्.Sछ्॥

ं२।२२४अ/ धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च ।
ं२।२२४च्/ अर्थ एवैह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ॥ Bछ्.Sछ्॥

ं२।२२५अ/ आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।
ं२।२२५च्/ नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ Bछ्.Sछ्॥

ं२।२२६अ/ आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।
ं२।२२६च्/ माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ॥ Bछ्.Sछ्॥

ं२।२२७अ/ यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।
ं२।२२७च्/ न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ Bछ्.Sछ्॥

ं२।२२८अ/ तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।
ं२।२२८च्/ तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ Bछ्.Sछ्॥

ं२।२२९अ/ तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।
ं२।२२९च्/ न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ Bछ्.Sछ्॥

ं२।२३०अ/ त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ।
ं२।२३०च्/ त एव हि त्रयो वेदास्त एवौक्तास्त्रयोऽग्नयः ॥ Bछ्.Sछ्॥

ं२।२३१अ/ पिता वै गार्हपत्योऽग्निर्माताऽग्निर्दक्षिणः स्मृतः ।
ं२।२३१च्/ गुरुराहवनीयस्तु साऽग्नित्रेता गरीयसी ॥ Bछ्.Sछ्॥

ं२।२३२अ/ त्रिष्वप्रमाद्यन्नेतेषु त्रीन् लोकान् विजयेद् गृही ।
ं२।२३२च्/ दीप्यमानः स्ववपुषा देववद् दिवि मोदते ॥ Bछ्.Sछ्॥

ं२।२३३अ/ इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।
ं२।२३३च्/ गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ॥ Bछ्.Sछ्॥

ं२।२३४अ/ सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।
ं२।२३४च्/ अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥ Bछ्.Sछ्॥

ं२।२३५अ/ यावत् त्रयस्ते जीवेयुस्तावत्नान्यं समाचरेत् ।
ं२।२३५च्/ तेष्वेव नित्यं शुश्रूषां कुर्यात् प्रियहिते रतः ॥ Bछ्.Sछ्॥

ं२।२३६अ/ तेषामनुपरोधेन पारत्र्यं यद् यदाचरेत् ।
ं२।२३६च्/ तत् तन्निवेदयेत् तेभ्यो मनोवचनकर्मभिः ॥ Bछ्.Sछ्॥

ं२।२३७अ/ त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ।
ं२।२३७च्/ एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ Bछ्.Sछ्॥

ं२।२३८अ/ श्रद्दधानः शुभां विद्यामाददीतावरादपि ।
ं२।२३८च्/ अन्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ Bछ्.Sछ्॥

ं२।२३९अ/ विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् ।
ं२।२३९च्/ अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ Bछ्.Sछ्॥

ं२।२४०अ/ स्त्रियो रत्नान्यथो विद्या धर्मः शौचं सुभाषितम् ।
ं२।२४०च्/ विविधानि च शिल्पानि समादेयानि सर्वतः ॥ Bछ्.Sछ्॥

ं२।२४१अ/ अब्राह्मणादध्यायनमापत्काले विधीयते ।
ं२।२४१च्/ अनुव्रज्या च शुश्रूषा यावदध्यायनं गुरोः ॥ Bछ्.Sछ्॥

ं२।२४२अ/ नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् ।
ं२।२४२च्/ ब्राह्मणे वाऽननूचाने काङ्क्षन् गतिमनुत्तमाम् ॥ Bछ्.Sछ्॥

ं२।२४३अ/ यदि त्वात्यन्तिकं वासं रोचयेत गुरोः कुले ।
ं२।२४३च्/ युक्तः परिचरेदेनमा शरीरविमोक्षणात् ॥ Bछ्.Sछ्॥

ं२।२४४अ/ आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् ।
ं२।२४४च्/ स गच्छत्यञ्जसा विप्रो ब्रह्मणः सद्म शाश्वतम् ॥ Bछ्.Sछ्॥

ं२।२४५अ/ न पूर्वं गुरवे किं चिदुपकुर्वीत धर्मवित् ।
ं२।२४५च्/ स्नास्यंस्तु गुरुणाऽज्ञप्तः शक्त्या गुर्व्र्थमाहरेत् ॥ Bछ्.Sछ्॥

ं२।२४६अ/ क्षेत्रं हिरण्यं गामश्वं छत्रौपानहमासनम् । %[ं।छत्रोपानहमन्ततः]
ं२।२४६च्/ धान्यं शाकं च वासांसि गुरवे प्रीतिमावहेत् ॥ Bछ्.Sछ्॥ %[ं।धान्यं वासांसि शाकं वा गुरवे प्रीतिमाहरन्)]
ं२।२४७अ/ आचार्ये तु खलु प्रेते गुरुपुत्रे गुणान्विते ।
ं२।२४७च्/ गुरुदारे सपिण्डे वा गुरुवद् वृत्तिमाचरेत् ॥ Bछ्.Sछ्॥

ं२।२४८अ/ एतेष्वविद्यमानेषु स्थानासनविहारवान् ।
ं२।२४८च्/ प्रयुञ्जानोऽग्निशुश्रूषां साधयेद् देहमात्मनः ॥ Bछ्.Sछ्॥

ं२।२४९अ/ एवं चरति यो विप्रो ब्रह्मचर्यमविप्लुतः ।
ं२।२४९च्/ स गच्छत्युत्तमस्थानं न चैह जायते पुनः ॥ Bछ्.Sछ्॥

अध्याय ३     CHAPTER  3     

ं३।०१अ/ षट् त्रिंशदाब्दिकं चर्यं गुरौ त्रैवेदिकं व्रतम् ।
ं३।०१च्/ तदर्धिकं पादिकं वा ग्रहणान्तिकमेव वा ॥ Bछ्.Sछ्॥

ं३।०२अ/ वेदानधीत्य वेदौ वा वेदं वाऽपि यथाक्रमम् ।
ं३।०२च्/ अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ Bछ्.Sछ्॥

ं३।०३अ/ तं प्रतीतं स्वधर्मेण ब्रह्मदायहरं पितुः ।
ं३।०३च्/ स्रग्विणं तल्प आसीनमर्हयेत् प्रथमं गवा ॥ Bछ्.Sछ्॥

ं३।०४अ/ गुरुणानुमतः स्नात्वा समावृत्तो यथाविधि ।
ं३।०४च्/ उद्वहेत द्विजो भार्यां सवर्णां लक्षणान्विताम् ॥ Bछ्.Sछ्॥

ं३।०५अ/ असपिण्डा च या मातुरसगोत्रा च या पितुः ।
ं३।०५च्/ सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने ॥ Bछ्.Sछ्॥ %[ंऽमैथिनी]
ं३।०६अ/ महान्त्यपि समृद्धानि गोऽजाविधनधान्यतः ।
ं३।०६च्/ स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ Bछ्.Sछ्॥

ं३।०७अ/ हीनक्रियं निश्पुरुषं निश्छन्दो रोमशार्शसम् ??।
ं३।०७च्/ क्षयामयाव्य्ऽपस्मारिश्वित्रिकुष्ठिकुलानि च ??॥ Bछ्.Sछ्॥

ं३।०८अ/ नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
ं३।०८च्/ नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् ॥ Bछ्.Sछ्॥ %[ं।वाचालां ]
ं३।०९अ/ नऋक्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
ं३।०९च्/ न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ Bछ्.Sछ्॥

ं३।१०अ/ अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
ं३।१०च्/ तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ॥ Bछ्.Sछ्॥

ं३।११अ/ यस्यास्तु न भवेद् भ्राता न विज्ञायेत वा पिता । %[ं।वै(वा पिता]
ं३।११च्/ नौपयच्छेत तां प्राज्ञः पुत्रिकाऽधर्मशङ्कया ॥ Bछ्.Sछ्॥

ं३।१२अ/ सवर्णाऽग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।
ं३।१२च्/ कामतस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः ॥ Bछ्.Sछ्॥

ं३।१३अ/ शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।
ं३।१३च्/ ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः ॥ Bछ्.Sछ्॥

ं३।१४अ/ न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।
ं३।१४च्/ कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्यौपदिश्यते ॥ Bछ्.Sछ्॥

ं३।१५अ/ हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
ं३।१५च्/ कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् ॥ Bछ्.Sछ्॥

ं३।१६अ/ शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ।
ं३।१६च्/ शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः ॥ Bछ्.Sछ्॥

ं३।१७अ/ शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
ं३।१७च्/ जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते ॥ Bछ्.Sछ्॥

ं३।१८अ/ दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
ं३।१८च्/ नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति ॥ Bछ्.Sछ्॥

ं३।१९अ/ वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
ं३।१९च्/ तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते ॥ Bछ्.Sछ्॥

ं३।२०अ/ चतुर्णामपि वर्णानं प्रेत्य चैह हिताहितान् ।
ं३।२०च्/ अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ॥ Bछ्.Sछ्॥

ं३।२१अ/ ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथाऽसुरः ।
ं३।२१च्/ गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥ Bछ्.Sछ्॥

ं३।२२अ/ यो यस्य धर्म्यो वर्णस्य गुणदोषौ च यस्य यौ ।
ं३।२२च्/ तद् वः सर्वं प्रवक्ष्यामि प्रसवे च गुणागुणान् ॥ Bछ्.Sछ्॥

ं३।२३अ/ षडानुपूर्व्या विप्रस्य क्षत्रस्य चतुरोऽवरान् ।
ं३।२३च्/ विश्।शूद्रयोस्तु तानेव विद्याद् धर्म्यानराक्षसान् ॥ Bछ्.Sछ्॥ %[ं।धर्म्यान्न राक्षसान्]
ं३।२४अ/ चतुरो ब्राह्मणस्याद्यान् प्रशस्तान् कवयो विदुः ।
ं३।२४च्/ राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः ॥ Bछ्.Sछ्॥

ं३।२५अ/ पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ स्मृताविह ।
ं३।२५च्/ पैशाचश्चासुरश्चैव न कर्तव्यौ कदा चन ॥ Bछ्.Sछ्॥

ं३।२६अ/ पृथक् पृथग् वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
ं३।२६च्/ गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ ॥ Bछ्.Sछ्॥

ं३।२७अ/ आच्छाद्य चार्चयित्वा च श्रुतशीलवते स्वयम् ।
ं३।२७च्/ आहूय दानं कन्याया ब्राह्मो धर्मः प्रकीर्तितः ॥ Bछ्.Sछ्॥

ं३।२८अ/ यज्ञे तु वितते सम्यग् ऋत्विजे कर्म कुर्वते ।
ं३।२८च्/ अलङ्कृत्य सुतादानं दैवं धर्मं प्रचक्षते ॥ Bछ्.Sछ्॥

ं३।२९अ/ एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
ं३।२९च्/ कन्याप्रदानं विधिवदार्षो धर्मः स उच्यते ॥ Bछ्.Sछ्॥

ं३।३०अ/ सहौभौ चरतां धर्ममिति वाचाऽनुभाष्य च ।
ं३।३०च्/ कन्याप्रदानमभ्यर्च्य प्राजापत्यो विधिः स्मृतः ॥ Bछ्.Sछ्॥

ं३।३१अ/ ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।
ं३।३१च्/ कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते ॥ Bछ्.Sछ्॥

ं३।३२अ/ इच्छयाऽन्योन्यसंयोगः कन्यायाश्च वरस्य च ।
ं३।३२च्/ गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसंभवः ॥ Bछ्.Sछ्॥

ं३।३३अ/ हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
ं३।३३च्/ प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते ॥ Bछ्.Sछ्॥

ं३।३४अ/ सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति ।
ं३।३४च्/ स पापिष्ठो विवाहानां पैशाचश्चाष्टमोऽधमः ॥ Bछ्.Sछ्॥ %[ं।पैशाचः प्रथितोऽधमः]
ं३।३५अ/ अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
ं३।३५च्/ इतरेषां तु वर्णानामितरेतरकाम्यया ॥ Bछ्.Sछ्॥

ं३।३६अ/ यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।
ं३।३६च्/ सर्वं शृणुत तं विप्राः सर्वं कीर्तयतो मम ॥ Bछ्.Sछ्॥ %[ं।सम्यक् कीर्तयतो]
ं३।३७अ/ दश पूर्वान् परान् वंश्यानात्मानं चैकविंशकम् ।
ं३।३७च्/ ब्राह्मीपुत्रः सुकृतकृत्मोचयत्येनसः पितॄन् ॥ Bछ्.Sछ्॥

ं३।३८अ/ दैवौढाजः सुतश्चैव सप्त सप्त परावरान् ।
ं३।३८च्/ आर्षौढाजः सुतस्त्रींस्त्रीन् षट् षट् कायौढजः सुतः ॥ Bछ्.Sछ्॥

ं३।३९अ/ ब्राह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः ।
ं३।३९च्/ ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः ॥ Bछ्.Sछ्॥ %[ं।ब्रह्मवर्चसिनः]
ं३।४०अ/ रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
ं३।४०च्/ पर्याप्तभोगा धर्मिष्ठा जीवन्ति च शतं समाः ॥ Bछ्.Sछ्॥

ं३।४१अ/ इतरेषु तु शिष्टेषु नृशंसाऽनृतवादिनः ।
ं३।४१च्/ जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः सुताः ॥ Bछ्.Sछ्॥

ं३।४२अ/ अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।
ं३।४२च्/ निन्दितैर्निन्दिता नॄणां तस्मान्निन्द्यान् विवर्जयेत् ॥ Bछ्.Sछ्॥

ं३।४३अ/ पाणिग्रहणसंस्कारः सवर्णासूपदिश्यते ।
ं३।४३च्/ असवर्णास्वयं ज्ञेयो विधिरुद्वाहकर्मणि ॥ Bछ्.Sछ्॥

ं३।४४अ/ शरः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
ं३।४४च्/ वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने ॥ Bछ्.Sछ्॥

ं३।४५अ/ ऋतुकालाभिगामी स्यात् स्वदारनिरतः सदा ।
ं३।४५च्/ पर्ववर्जं व्रजेच्चैनां तद्व्रतो रतिकाम्यया ॥ Bछ्.Sछ्॥

ं३।४६अ/ ऋतुः स्वाभाविकः स्त्रीणां रात्रयः षोडश स्मृताः ।
ं३।४६च्/ चतुर्भिरितरैः सार्धमहोभिः सद्विगर्हितैः ॥ Bछ्.Sछ्॥

ं३।४७अ/ तासामाद्याश्चतस्रस्तु निन्दितैकादशी च या ।
ं३।४७च्/ त्रयोदशी च शेषास्तु प्रशस्ता दशरात्रयः ॥ Bछ्.Sछ्॥

ं३।४८अ/ युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु ।
ं३।४८च्/ तस्माद् युग्मासु पुत्रार्थी संविशेदार्तवे स्त्रियम् ॥ Bछ्.Sछ्॥

ं३।४९अ/ पुमान् पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः ।
ं३।४९च्/ समेऽपुमान् पुं।स्त्रियौ वा क्षीणेऽल्पे च विपर्ययः ॥ Bछ्.Sछ्॥

ं३।५०अ/ निन्द्यास्वष्टासु चान्यासु स्त्रियो रात्रिषु वर्जयन् ।
ं३।५०च्/ ब्रह्मचार्येव भवति यत्र तत्राश्रमे वसन् ॥ Bछ्.Sछ्॥

ं३।५१अ/ न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्कमण्वपि ।
ं३।५१च्/ गृह्णंशुल्कं हि लोभेन स्यान्नरोऽपत्यविक्रयी ??॥ Bछ्.Sछ्॥

ं३।५२अ/ स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
ं३।५२च्/ नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ Bछ्.Sछ्॥

ं३।५३अ/ आर्षे गोमिथुनं शुल्कं के चिदाहुर्मृषैव तत् ।
ं३।५३च्/ अल्पोऽप्येवं महान् वाऽपि विक्रयस्तावदेव सः ॥ Bछ्.Sछ्॥ %[ं।तावानेव स विक्रयः]
ं३।५४अ/ यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
ं३।५४च्/ अर्हणं तत् कुमारीणामानृशंस्यं च केवलम् ॥ Bछ्.Sछ्॥ %[ंंअ केवलम्]
ं३।५५अ/ पितृभिर्भ्रातृभिश्चैताः पतिभिर्देवरैस्तथा ।
ं३।५५च्/ पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥

ं३।५६अ/ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः ।
ं३।५६च्/ यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः ॥

[ Fओल्लोविन्ग् तेन् वेर्सेसरे मिस्सिन्गिन् ं।]
ं३।५७अ/ शोचन्ति जामयो यत्र विनश्यत्याशु तत् कुलम् । %[नोतिन् ं]
ं३।५७च्/ न शोचन्ति तु यत्रैता वर्धते तद् हि सर्वदा ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।५८अ/ जामयो यानि गेहानि शपन्त्यप्रतिपूजिताः ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।५८च्/ तानि कृत्याहतानीव विनश्यन्ति समन्ततः ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।५९अ/ तस्मादेताः सदा पूज्या भूषणाच्छादनाशनैः । %[नोतिन् ं]
ं३।५९च्/ भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सवेषु च । %[नोतिन् ं] ।
ं३।६०अ/ संतुष्टो भार्यया भर्ता भर्त्रा भार्या तथैव च । %[नोतिन् ं]
ं३।६०च्/ यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।६१अ/ यदि हि स्त्री न रोचेत पुमांसं न प्रमोदयेत् । %[नोतिन् ं]
ं३।६१च्/ अप्रमोदात् पुनः पुंसः प्रजनं न प्रवर्तते ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।६२अ/ स्त्रियां तु रोचमानायां सर्वं तद् रोचते कुलम् । %[नोतिन् ं]
ं३।६२च्/ तस्यां त्वरोचमानायां सर्वमेव न रोचते ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।६३अ/ कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । %[नोतिन् ं]
ं३।६३च्/ कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।६४अ/ शिल्पेन व्यवहारेण शूद्रापत्यैश्च केवलैः । %[नोतिन् ं]
ं३।६४च्/ गोभिरश्वैश्च यानैश्च कृष्या राजोपसेवया ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।६५अ/ अयाज्ययाजनैश्चैव नास्तिक्येन च कर्मणाम् । %[नोतिन् ं]
ं३।६५च्/ कुलान्याशु विनश्यन्ति यानि हीनानि मन्त्रतः ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं३।६६अ/ मन्त्रतस्तु समृद्धानि कुलान्यल्पधनान्यपि । %[नोतिन् ं]
ं३।६६च्/ कुलसङ्ख्यां च गच्छन्ति कर्षन्ति च महद् यशः ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
[ःएरेऽफ़्तेर्ं’ः नुम्बेरिः ᳚१०᳚]
ं३।६७अ[५७ंअ]/ वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
ं३।६७च्[५७ंच्]/ पञ्चयज्ञविधानं च पक्तिं चान्वाहिकीं गृही ॥ Bछ्.Sछ्॥

ं३।६८अ[५८ंअ]/ पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः ।
ं३।६८च्[५८ंच्]/ कण्डनी चौदकुम्भश्च बध्यते यास्तु वाहयन् ॥ Bछ्.Sछ्॥ %[ं।वध्यते]
ं३।६९अ[५९ंअ]/ तासां क्रमेण सर्वासां निष्कृत्यर्थं महर्षिभिः ।
ं३।६९च्[५९ंच्]/ पञ्च कॢप्ता महायज्ञाः प्रत्यहं गृहमेधिनाम् ॥ Bछ्.Sछ्॥

ं३।७०अ[६०ंअ]/ अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
ं३।७०च्[६०ंच्]/ होमो दैवो बलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥ Bछ्.Sछ्॥

ं३।७१अ[६१ंअ]/ पञ्चैतान् यो महाऽयज्ञान्न हापयति शक्तितः ।
ं३।७१च्[६१ंच्]/ स गृहेऽपि वसन्नित्यं सूनादोषैर्न लिप्यते ॥ Bछ्.Sछ्॥

ं३।७२अ[६२ंअ]/ देवताऽतिथिभृत्यानां पितॄणामात्मनश्च यः ।
ं३।७२च्[६२ंच्]/ न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति ॥ Bछ्.Sछ्॥

ं३।७३अ[६३ंअ]/ अहुतं च हुतं चैव तथा प्रहुतमेव च ।
ं३।७३च्[६३ंच्]/ ब्राह्म्यं हुतं प्राशितं च पञ्चयज्ञान् प्रचक्षते ? ॥ Bछ्.Sछ्॥

ं३।७४अ[६४ंअ]/ जपोऽहुतो हुतो होमः प्रहुतो भौतिको बलिः ।
ं३।७४च्[६४ंच्]/ ब्राह्म्यं हुतं द्विजाग्र्यार्चा प्राशितं पितृतर्पणम् ? ॥ Bछ्.Sछ्॥

ं३।७५अ[६५ंअ]/ स्वाध्याये नित्ययुक्तः स्याद् दैवे चैवैह कर्मणि ।
ं३।७५च्[६५ंच्]/ दैवकर्मणि युक्तो हि बिभर्तीदं चराचरम् ॥ Bछ्.Sछ्॥

ं३।७६अ[६६ंअ]/ अग्नौ प्रास्ताऽहुतिः सम्यगादित्यमुपतिष्ठते ।
ं३।७६च्[६६ंच्]/ आदित्याज् जायते वृष्तिर्वृष्टेरन्नं ततः प्रजाः ॥ Bछ्.Sछ्॥

ं३।७७अ[६७ंअ]/ यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः । %[ं।सर्वे जीवन्ति जन्तवः]
ं३।७७च्[६७ंच्]/ तथा गृहस्थमाश्रित्य वर्तन्ते सर्व आश्रमाः ॥ Bछ्.Sछ्॥ %[ं।वर्तन्त इतराश्रमः]
ं३।७८अ[६८ंअ]/ यस्मात् त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् ।
ं३।७८च्[६८ंच्]/ गृहस्थेनैव धार्यन्ते तस्माज् ज्येष्ठाश्रमो गृही ॥ Bछ्.Sछ्॥ %[क्:गृहं ]
ं३।७९अ[६९ंअ]/ स संधार्यः प्रयत्नेन स्वर्गमक्षयमिच्छता ।
ं३।७९च्[६९ंच्]/ सुखं चेहेच्छताऽत्यन्तं योऽधार्यो दुर्बलेन्द्रियैः ॥ Bछ्.Sछ्॥

ं३।८०अ[७०ंअ]/ ऋषयः पितरो देवा भूतान्यतिथयस्तथा ।
ं३।८०च्[७०ंच्]/ आशासते कुटुम्बिभ्यस्तेभ्यः कार्यं विजानता ॥ Bछ्.Sछ्॥

ं३।८१अ[७१ंअ]/ स्वाध्यायेनार्चयेतऋषीन् होमैर्देवान् यथाविधि ।
ं३।८१च्[७१ंच्]/ पितॄंश्राद्धैश्च नॄनन्नैर्भूतानि बलिकर्मणा ॥ Bछ्.Sछ्॥

ं३।८२अ[७२ंअ]/ कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । %[ं।दद्यादहरहः ]
ं३।८२च्[७२ंच्]/ पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन् ॥ Bछ्.Sछ्॥

ं३।८३अ[७३ंअ]/ एकमप्याशयेद् विप्रं पित्र्यर्थे पाञ्चयज्ञिके । %[ं।पित्र्यर्थं]
ं३।८३च्[७३ंच्]/ न चैवात्राशयेत् किं चिद् वैश्वदेवं प्रति द्विजम् ॥ Bछ्.Sछ्॥

ं३।८४अ[७४ंअ]/ वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् ।
ं३।८४च्[७४ंच्]/ आभ्यः कुर्याद् देवताभ्यो ब्राह्मणो होममन्वहम् ॥ Bछ्.Sछ्॥

ं३।८५अ[७५ंअ]/ अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः ।
ं३।८५च्[७५ंच्]/ विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च ॥ Bछ्.Sछ्॥

ं३।८६अ[७६ंअ]/ कुह्वै चैवानुमत्यै च प्रजापतय एव च ।
ं३।८६च्[७६ंच्]/ सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः ॥ Bछ्.Sछ्॥

ं३।८७अ[७७ंअ]/ एवं सम्यग् हविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् ।
ं३।८७च्[७७ंच्]/ इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् ??॥ Bछ्.Sछ्॥

ं३।८८अ[७८ंअ]/ मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि ??।
ं३।८८च्[७८ंच्]/ वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् ॥ Bछ्.Sछ्॥

ं३।८९अ[७९ंअ]/ उच्छीर्षके श्रियै कुर्याद् भद्रकाल्यै च पादतः ।
ं३।८९च्[७९ंच्]/ ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् ॥ Bछ्.Sछ्॥

ं३।९०अ[८०ंअ]/ विश्वेभ्यश्चैव देवेभ्यो बलिमाकाश उत्क्षिपेत् ।
ं३।९०च्[८०ंच्]/ दिवाचरेभ्यो भूतेभ्यो नक्तञ्चारिभ्य एव च ॥ Bछ्.Sछ्॥

ं३।९१अ[८१ंअ]/ पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये । %[ं।सर्वान्नभूतये ]
ं३।९१च्[८१ंच्]/ पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् ॥ Bछ्.Sछ्॥

ं३।९२अ[८२ंअ]/ शूनां च पतितानां च श्वपचां पापरोगिणाम् ।
ं३।९२च्[८२ंच्]/ वयसानां कृमीणां च शनकैर्निर्वपेद् भुवि ॥ Bछ्.Sछ्॥ %[ं।वयसां च]
ं३।९३अ[८३ंअ]/ एवं यः सर्वभूतानि ब्राह्मणो नित्यमर्चति ।
ं३।९३च्[८३ंच्]/ स गच्छति परं स्थानं तेजोमूर्तिः पथार्जुना ॥ Bछ्.Sछ्॥

ं३।९४अ[८४ंअ]/ कृत्वैतद् बलिकर्मैवमतिथिं पूर्वमाशयेत् ।
ं३।९४च्[८४ंच्]/ भिक्षां च भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे ॥ Bछ्.Sछ्॥

ं३।९५अ[८५ंअ]/ यत् पुण्यफलमाप्नोति गां दत्त्वा विधिवद् गुरोः ।
ं३।९५च्[८५ंच्]/ तत् पुण्यफलमाप्नोति भिक्षां दत्त्वा द्विजो गृही ॥ Bछ्.Sछ्॥

ं३।९६अ[८६ंअ]/ भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् ।
ं३।९६च्[८६ंच्]/ वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ Bछ्.Sछ्॥

ं३।९७अ[८७ंअ]/ नश्यन्ति हव्यकव्यानि नराणामविजानताम् ।
ं३।९७च्[८७ंच्]/ भस्मीभूतेषु विप्रेषु मोहाद् दत्तानि दातृभिः ॥ Bछ्.Sछ्॥ %[ं।भस्मभूतेषु ]
ं३।९८अ[८८ंअ]/ विद्यातपस्समृद्धेषु हुतं विप्रमुखाग्निषु ।
ं३।९८च्[८८ंच्]/ निस्तारयति दुर्गाच्च महतश्चैव किल्बिषात् ॥ Bछ्.Sछ्॥

ं३।९९अ[८९ंअ]/ सम्प्राप्ताय त्वतिथये प्रदद्यादासनौदके ।
ं३।९९च्[८९ंच्]/ अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ॥ Bछ्.Sछ्॥ %[क्:संस्कृत्य)]
ं३।१००अ[९०ंअ]/ शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः ।
ं३।१००च्[९०ंच्]/ सर्वं सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ Bछ्.Sछ्॥

ं३।१०१अ[९१ंअ]/ तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
ं३।१०१च्[९१ंच्]/ एतान्यपि सतां गेहे नोच्छिद्यन्ते कदा चन ॥ Bछ्.Sछ्॥

ं३।१०२अ[९२ंअ]/ एकरात्रं तु निवसन्नतिथिर्ब्राह्मणः स्मृतः ।
ं३।१०२च्[९२ंच्]/ अनित्यं हि स्थितो यस्मात् तस्मादतिथिरुच्यते ॥ Bछ्.Sछ्॥

ं३।१०३अ[९३ंअ]/ नैकग्रामीणमतिथिं विप्रं साङ्गतिकं तथा ।
ं३।१०३च्[९३ंच्]/ उपस्थितं गृहे विद्याद् भार्या यत्राग्नयोऽपि वा ॥ Bछ्.Sछ्॥

ं३।१०४अ[९४ंअ]/ उपासते ये गृहस्थाः परपाकमबुद्धयः ।
ं३।१०४च्[९४ंच्]/ तेन ते प्रेत्य पशुतां व्रजन्त्यन्नादिदायिनः ॥ Bछ्.Sछ्॥

ं३।१०५अ[९५ंअ]/ अप्रणोद्योऽतिथिः सायं सूर्यौढो गृहमेधिना ।
ं३।१०५च्[९५ंच्]/ काले प्राप्तस्त्वकाले वा नास्यानश्नन् गृहे वसेत् ॥ Bछ्.Sछ्॥

ं३।१०६अ[९६ंअ]/ न वै स्वयं तदश्नीयादतिथिं यन्न भोजयेत् ।
ं३।१०६च्[९६ंच्]/ धन्यं यशस्यमायुष्यं स्वर्ग्यं वाऽतिथिपूजनम् ॥ Bछ्.Sछ्॥

ं३।१०७अ[९७ंअ]/ आसनावसथौ शय्यामनुव्रज्यामुपासनाम् ।
ं३।१०७च्[९७ंच्]/ उत्तमेषूत्तमं कुर्याद् हीने हीनं समे समम् ॥ Bछ्.Sछ्॥

ं३।१०८अ[९८ंअ]/ वैश्वदेवे तु निर्वृत्ते यद्यन्योऽतिथिराव्रजेत् ।
ं३।१०८च्[९८ंच्]/ तस्याप्यन्नं यथाशक्ति प्रदद्यान्न बलिं हरेत् ॥ Bछ्.Sछ्॥

ं३।१०९अ[९९ंअ]/ न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् ।
ं३।१०९च्[९९ंच्]/ भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः ॥ Bछ्.Sछ्॥

ं३।११०अ[१००ंअ]/ न ब्राह्मणस्य त्वतिथिर्गृहे राजन्य उच्यते ।
ं३।११०च्[१००ंच्]/ वैश्यशूद्रौ सखा चैव ज्ञातयो गुरुरेव च ॥ Bछ्.Sछ्॥

ं३।१११अ[१०१ंअ]/ यदि त्वतिथिधर्मेण क्षत्रियो गृहमाव्रजेत् ।
ं३।१११च्[१०१ंच्]/ भुक्तवत्सु च विप्रेषु कामं तमपि भोजयेत् ॥ Bछ्.Sछ्॥

ं३।११२अ[१०२ंअ]/ वैश्यशूद्रावपि प्राप्तौ कुटुम्बेऽतिथिधर्मिणौ ।
ं३।११२च्[१०२ंच्]/ भोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजयन् ॥ Bछ्.Sछ्॥

ं३।११३अ[१०३ंअ]/ इतरानपि सख्यादीन् सम्प्रीत्या गृहमागतान् ।
ं३।११३च्[१०३ंच्]/ प्रकृत्यान्नं यथाशक्ति भोजयेत् सह भार्यया ॥ Bछ्.Sछ्॥

ं३।११४अ[१०४ंअ]/ सुवासिनीः कुमारीश्च रोगिणो गर्भिणीः स्त्रियः ।
ं३।११४च्[१०४ंच्]/ अतिथिभ्योऽग्र एवैतान् भोजयेदविचारयन् ॥ Bछ्.Sछ्॥ %[ंऽतिथिभ्योऽन्वगेवैतान्]
ं३।११५अ[१०५ंअ]/ अदत्त्वा तु य एतेभ्यः पूर्वं भुङ्क्तेऽविचक्षणः ।
ं३।११५च्[१०५ंच्]/ स भुञ्जानो न जानाति श्वगृध्रैर्जग्धिमात्मनः ॥ Bछ्.Sछ्॥

ं३।११६अ[१०६ंअ]/ भुक्तवत्स्वथ विप्रेषु स्वेषु भृत्येषु चैव हि ।
ं३।११६च्[१०६ंच्]/ भुञ्जीयातां ततः पश्चादवशिष्टं तु दम्पती ॥ Bछ्.Sछ्॥

ं३।११७अ[१०७ंअ]/ देवान् ऋषीन् मनुष्यांश्च पितॄन् गृह्याश्च देवताः ।
ं३।११७च्[१०७ंच्]/ पूजयित्वा ततः पश्चाद् गृहस्थः शेषभुग् भवेत् ॥ Bछ्.Sछ्॥

ं३।११८अ[१०८ंअ]/ अघं स केवलं भुङ्क्ते यः पचत्यात्मकारणात् ।
ं३।११८च्[१०८ंच्]/ यज्ञशिष्टाशनं ह्येतत् सतामन्नं विधीयते ॥ Bछ्.Sछ्॥

ं३।११९अ[१०९ंअ]/ राजर्त्विग्स्नातकगुरून् प्रियश्वशुरमातुलान् ।
ं३।११९च्[१०९ंच्]/ अर्हयेन् मधुपर्केण परिसंवत्सरात् पुनः ॥ Bछ्.Sछ्॥

ं३।१२०अ[११०ंअ]/ राजा च श्रोत्रियश्चैव यज्ञकर्मण्युपस्थितौ । %[ंउपस्थिते ]
ं३।१२०च्[११०ंच्]/ मधुपर्केण सम्पूज्यौ न त्वयज्ञ इति स्थितिः ॥ Bछ्.Sछ्॥

ं३।१२१अ[१११ंअ]/ सायं त्वन्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् ।
ं३।१२१च्[१११ंच्]/ वैश्वदेवं हि नामैतत् सायं प्रातर्विधीयते ॥ Bछ्.Sछ्॥

ं३।१२२अ[११२ंअ]/ पितृयज्ञं तु निर्वर्त्य विप्रश्चन्द्रक्षयेऽग्निमान् । %[क्:चैन्दुक्षये ]
ं३।१२२च्[११२ंच्]/ पिण्डान्वाहार्यकं श्राद्धं कुर्यान् मासानुमासिकम् ॥ Bछ्.Sछ्॥

ं३।१२३अ[११३ंअ]/ पितॄणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः ।
ं३।१२३च्[११३ंच्]/ तच्चामिषेणा कर्तव्यं प्रशस्तेन प्रयत्नतः ??॥ Bछ्.Sछ्॥

ं३।१२४अ[११४ंअ]/ तत्र ये भोजनीयाः स्युर्ये च वर्ज्या द्विजोत्तमाः ।
ं३।१२४च्[११४ंच्]/ यावन्तश्चैव यैश्चान्नैस्तान् प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥

ं३।१२५अ[११५ंअ]/ द्वौ दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा । %[ं।पितृकृत्ये]
ं३।१२५च्[११५ंच्]/ भोजयेत् सुसमृद्धोऽपि न प्रसज्जेत विस्तरे ॥ Bछ्.Sछ्॥ %[ंंअ प्रवर्तेत]
ं३।१२६अ[११६ंअ]/ सत्क्रियां देशकालौ च शौचं ब्राह्मणसम्पदः ।
ं३।१२६च्[११६ंच्]/ पञ्चैतान् विस्तरो हन्ति तस्मान्नैहेत विस्तरम् ॥ Bछ्.Sछ्॥

ं३।१२७अ[११७ंअ]/ प्रथिता प्रेतकृत्यैषा पित्र्यं नाम विधुक्षये ।
ं३।१२७च्[११७ंच्]/ तस्मिन् युक्तस्यैति नित्यं प्रेतकृत्यैव लौकिकी ॥ Bछ्.Sछ्॥

ं३।१२८अ[११८ंअ]/ श्रोत्रियायैव देयानि हव्यकव्यानि दातृभिः ।
ं३।१२८च्[११८ंच्]/ अर्हत्तमाय विप्राय तस्मै दत्तं महाफलम् ॥ Bछ्.Sछ्॥

ं३।१२९अ[११९ंअ]/ एकैकमपि विद्वांसं दैवे पित्र्ये च भोजयेत् । %[ं।भोजयन्]
ं३।१२९च्[११९ंच्]/ पुष्कलं फलमाप्नोति नामन्त्रज्ञान् बहूनपि ॥ Bछ्.Sछ्॥

ं३।१३०अ[१२०ंअ]/ दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।
ं३।१३०च्[१२०ंच्]/ तीर्थं तद् हव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः ॥ Bछ्.Sछ्॥

ं३।१३१अ[१२१ंअ]/ सहस्रं हि सहस्राणामनृचां यत्र भुञ्जते ।
ं३।१३१च्[१२१ंच्]/ एकस्तान् मन्त्रवित् प्रीतः सर्वानर्हति धर्मतः ॥ Bछ्.Sछ्॥

ं३।१३२अ[१२२ंअ]/ ज्ञानोत्कृष्टाय देयानि कव्यानि च हवींषि च ।
ं३।१३२च्[१२२ंच्]/ न हि हस्तावसृग्दिग्धौ रुधिरेणैव शुध्यतः ॥ Bछ्.Sछ्॥

ं३।१३३अ[१२३ंअ]/ यावतो ग्रसते ग्रासान् हव्यकव्येष्वमन्त्रवित् ।
ं३।१३३च्[१२३ंच्]/ तावतो ग्रसते प्रेतो दीप्तशूलर्ष्ट्ययोगुडान् ॥ Bछ्.Sछ्॥

ं३।१३४अ[१२४ंअ]/ ज्ञाननिष्ठा द्विजाः के चित् तपोनिष्ठास्तथाऽपरे ।
ं३।१३४च्[१२४ंच्]/ तपःस्वाध्यायनिष्ठाश्च कर्मनिष्ठास्तथाऽपरे ॥ Bछ्.Sछ्॥

ं३।१३५अ[१२५ंअ]/ ज्ञाननिष्ठेषु कव्यानि प्रतिष्ठाप्यानि यत्नतः ।
ं३।१३५च्[१२५ंच्]/ हव्यानि तु यथान्यायं सर्वेष्वेव चतुर्ष्वपि ॥ Bछ्.Sछ्॥

ं३।१३६अ[१२६ंअ]/ अश्रोत्रियः पिता यस्य पुत्रः स्याद् वेदपारगः ।
ं३।१३६च्[१२६ंच्]/ अश्रोत्रियो वा पुत्रः स्यात् पिता स्याद् वेदपारगः ॥ Bछ्.Sछ्॥

ं३।१३७अ[१२७ंअ]/ ज्यायांसमनयोर्विद्याद् यस्य स्यात्श्रोत्रियः पिता ।
ं३।१३७च्[१२७ंच्]/ मन्त्रसम्पूजनार्थं तु सत्कारमितरोऽर्हति ॥ Bछ्.Sछ्॥

ं३।१३८अ[१२८ंअ]/ न श्राद्धे भोजयेन् मित्रं धनैः कार्योऽस्य सङ्ग्रहः ।
ं३।१३८च्[१२८ंच्]/ नारिं न मित्रं यं विद्यात् तं श्राद्धे भोजयेद् द्विजम् ॥ Bछ्.Sछ्॥

ं३।१३९अ[१२९ंअ]/ यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च ।
ं३।१३९च्[१२९ंच्]/ तस्य प्रेत्य फलं नास्ति श्राद्धेषु च हविःषु च ॥ Bछ्.Sछ्॥

ं३।१४०अ[१३०ंअ]/ यः सङ्गतानि कुरुते मोहात्श्राद्धेन मानवः ।
ं३।१४०च्[१३०ंच्]/ स स्वर्गाच्च्यवते लोकात्श्राद्धमित्रो द्विजाधमः ॥ Bछ्.Sछ्॥

ं३।१४१अ[१३१ंअ]/ संभोजानि साऽभिहिता पैशाची दक्षिणा द्विजैः ।
ं३।१४१च्[१३१ंच्]/ इहैवास्ते तु सा लोके गौरन्धेवैकवेश्मनि ॥ Bछ्.Sछ्॥

ं३।१४२अ[१३२ंअ]/ यथैरिणे बीजमुप्त्वा न वप्ता लभते फलम् ।
ं३।१४२च्[१३२ंच्]/ तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ Bछ्.Sछ्॥

ं३।१४३अ[१३३ंअ]/ दातॄन् प्रतिग्रहीतॄंश्च कुरुते फलभागिनः ।
ं३।१४३च्[१३३ंच्]/ विदुषे दक्षिणां दत्त्वा विधिवत् प्रेत्य चैह च ॥ Bछ्.Sछ्॥

ं३।१४४अ[१३४ंअ]/ कामं श्राद्धेऽर्चयेन् मित्रं नाभिरूपमपि त्वरिम् ।
ं३।१४४च्[१३४ंच्]/ द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ Bछ्.Sछ्॥

ं३।१४५अ[१३५ंअ]/ यत्नेन भोजयेत्श्राद्धे बह्वृचं वेदपारगम् ।
ं३।१४५च्[१३५ंच्]/ शाखान्तगमथाध्वर्युं छन्दोगं तु समाप्तिकम् ॥ Bछ्.Sछ्॥

ं३।१४६अ[१३६ंअ]/ एषामन्यतमो यस्य भुञ्जीत श्राद्धमर्चितः ।
ं३।१४६च्[१३६ंच्]/ पितॄणां तस्य तृप्तिः स्यात्शाश्वती साप्तपौरुषी ॥ Bछ्.Sछ्॥

ं३।१४७अ[१३७ंअ]/ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।
ं३।१४७च्[१३७ंच्]/ अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ Bछ्.Sछ्॥

ं३।१४८अ[१३८ंअ]/ मातामहं मातुलं च स्वस्रीयं श्वशुरं गुरुम् ।
ं३।१४८च्[१३८ंच्]/ दौहित्रं विट्पतिं बन्धुं ऋत्विग् याज्यौ च भोजयेत् ॥ Bछ्.Sछ्॥

ं३।१४९अ[१३९ंअ]/ न ब्राह्मणं परीक्षेत दैवे कर्मणि धर्मवित् ।
ं३।१४९च्[१३९ंच्]/ पित्र्ये कर्मणि तु प्राप्ते परीक्षेत प्रयत्नतः ॥ Bछ्.Sछ्॥

ं३।१५०अ[१४०ंअ]/ ये स्तेनपतितक्लीबा ये च नास्तिकवृत्तयः ।
ं३।१५०च्[१४०ंच्]/ तान् हव्यकव्ययोर्विप्राननर्हान् मनुरब्रवीत् ॥ Bछ्.Sछ्॥

ं३।१५१अ[१४१ंअ]/ जटिलं चानधीयानं दुर्बालं कितवं तथा ।
ं३।१५१च्[१४१ंच्]/ याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत् ॥ Bछ्.Sछ्॥

ं३।१५२अ[१४२ंअ]/ चिकित्सकान् देवलकान् मांसविक्रयिणस्तथा । %[ंॅहिकित्सकादेवलकामांसविक्रयिणस्तथा]
ं३।१५२च्[१४२ंच्]/ विपणेन च जीवन्तो वर्ज्याः स्युर्हव्यकव्ययोः ॥ Bछ्.Sछ्॥

ं३।१५३अ[१४३ंअ]/ प्रेष्यो ग्रामस्य राज्ञश्च कुनखी श्यावदन्तकः ।
ं३।१५३च्[१४३ंच्]/ प्रतिरोद्धा गुरोश्चैव त्यक्ताग्निर्वार्धुषिस्तथा ॥ Bछ्.Sछ्॥

ं३।१५४अ[१४४ंअ]/ यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः ।
ं३।१५४च्[१४४ंच्]/ ब्रह्मद्विष्परिवित्तिश्च गणाभ्यन्तर एव च ॥ Bछ्.Sछ्॥

ं३।१५५अ[१४५ंअ]/ कुशीलवोऽवकीर्णी च वृषलीपतिरेव च ।
ं३।१५५च्[१४५ंच्]/ पौनर्भवश्च काणश्च यस्य चौपपतिर्गृहे ॥ Bछ्.Sछ्॥

ं३।१५६अ[१४६ंअ]/ भृतकाध्यापको यश्च भृतकाध्यापितस्तथा ।
ं३।१५६च्[१४६ंच्]/ शूद्रशिष्यो गुरुश्चैव वाग्दुष्टः कुण्डगोलकौ ॥ Bछ्.Sछ्॥

ं३।१५७अ[१४७ंअ]/ अकारणे परित्यक्ता मातापित्रोर्गुरोस्तथा । %[क्:अकारणपरित्यक्ता ]
ं३।१५७च्[१४७ंच्]/ ब्राह्मैर्यौनैश्च संबन्धैः संयोगं पतितैर्गतः ॥ Bछ्.Sछ्॥

ं३।१५८अ[१४८ंअ]/ अगारदाही गरदः कुण्डाशी सोमविक्रयी ।
ं३।१५८च्[१४८ंच्]/ समुद्रयायी बन्दी च तैलिकः कूटकारकः ॥ Bछ्.Sछ्॥

ं३।१५९अ[१४९ंअ]/ पित्रा विवदमानश्च कितवो मद्यपस्तथा ।
ं३।१५९च्[१४९ंच्]/ पापरोग्यभिशस्तश्च दाम्भिको रसविक्रयी ॥ Bछ्.Sछ्॥

ं३।१६०अ[१५०ंअ]/ धनुःशराणां कर्ता च यश्चाग्रेदिधिषूपतिः ।
ं३।१६०च्[१५०ंच्]/ मित्रध्रुग् द्यूतवृत्तिश्च पुत्राचार्यस्तथैव च ॥ Bछ्.Sछ्॥

ं३।१६१अ[१५१ंअ]/ भ्रामरी गण्डमाली च श्वित्र्यथो पिशुनस्तथा ।
ं३।१६१च्[१५१ंच्]/ उन्मत्तोऽन्धश्च वर्ज्याः स्युर्वेदनिन्दक एव च ॥ Bछ्.Sछ्॥

ं३।१६२अ[१५२ंअ]/ हस्तिगोऽश्वौष्ट्रदमको नक्षत्रैर्यश्च जीवति ।
ं३।१६२च्[१५२ंच्]/ पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ Bछ्.Sछ्॥

ं३।१६३अ[१५३ंअ]/ स्रोतसां भेदको यश्च तेषां चावरणे रतः ।
ं३।१६३च्[१५३ंच्]/ गृहसंवेशको दूतो वृक्षारोपक एव च ॥ Bछ्.Sछ्॥

ं३।१६४अ[१५४ंअ]/ श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।
ं३।१६४च्[१५४ंच्]/ हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ Bछ्.Sछ्॥

ं३।१६५अ[१५५ंअ]/ आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।
ं३।१६५च्[१५५ंच्]/ कृषिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥ Bछ्.Sछ्॥

ं३।१६६अ[१५६ंअ]/ औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ।
ं३।१६६च्[१५६ंच्]/ प्रेतनिर्यापकश्चैव वर्जनीयाः प्रयत्नतः ॥ Bछ्.Sछ्॥

ं३।१६७अ[१५७ंअ]/ एतान् विगर्हिताचारानपाङ्क्तेयान् द्विजाधमान् ।
ं३।१६७च्[१५७ंच्]/ द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ Bछ्.Sछ्॥

ं३।१६८अ[१५८ंअ]/ ब्राह्मणो त्वनधीयानस्तृणाग्निरिव शाम्यति । %[ं।ब्राह्मणः ह्यनधीयानः ]
ं३।१६८च्[१५८ंच्]/ तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ Bछ्.Sछ्॥

ं३।१६९अ[१५९ंअ]/ अपाङ्क्तदाने यो दातुर्भवत्यूर्ध्वं फलौदयः । %[ंऽपङ्क्त्यदाने]
ं३।१६९च्[१५९ंच्]/ दैवे हविषि पित्र्ये वा तं प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥ %[ं।दैवे कर्मणि]
ं३।१७०अ[१६०ंअ]/ अव्रतैर्यद् द्विजैर्भुक्तं परिवेत्र्यादिभिस्तथा ।
ं३।१७०च्[१६०ंच्]/ अपाङ्क्तेयैर्यदन्यैश्च तद् वै रक्षांसि भुञ्जते ॥ Bछ्.Sछ्॥

ं३।१७१अ[१६१ंअ]/ दाराग्निहोत्रसंयोगं कुरुते योऽग्रजे स्थिते ।
ं३।१७१च्[१६१ंच्]/ परिवेत्ता स विज्ञेयः परिवित्तिस्तु पूर्वजः ॥ Bछ्.Sछ्॥

ं३।१७२अ[१६२ंअ]/ परिवित्तिः परिवेत्ता यया च परिविद्यते ।
ं३।१७२च्[१६२ंच्]/ सर्वे ते नरकं यान्ति दातृयाजकपञ्चमाः ॥ Bछ्.Sछ्॥

ं३।१७३अ[१६३ंअ]/ भ्रातुर्मृतस्य भार्यायां योऽनुरज्येत कामतः ।
ं३।१७३च्[१६३ंच्]/ धर्मेणापि नियुक्तायां स ज्ञेयो दिधिषूपतिः ॥ Bछ्.Sछ्॥

ं३।१७४अ[१६४ंअ]/ परदारेषु जायेते द्वौ सुतौ कुण्डगोलकौ ।
ं३।१७४च्[१६४ंच्]/ पत्यौ जीवति कुण्डः स्यान् मृते भर्तरि गोलकः ॥ Bछ्.Sछ्॥

ं३।१७५अ[१६५ंअ]/ तौ तु जातौ परक्षेत्रे प्राणिनौ प्रेत्य चैह च । %[ं।ते तु जाताः परक्षेत्रे प्राणिनः]
ं३।१७५च्[१६५ंच्]/ दत्तानि हव्यकव्यानि नाशयन्ति प्रदायिनाम् ॥ Bछ्.Sछ्॥

ं३।१७६अ[१६६ंअ]/ अपाङ्क्त्यो यावतः पङ्क्त्यान् भुञ्जानाननुपश्यति । %[ंऽपङ्क्त्यो यावतः]
ं३।१७६च्[१६६ंच्]/ तावतां न फलं तत्र दाता प्राप्नोति बालिशः ॥ Bछ्.Sछ्॥

ं३।१७७अ[१६७ंअ]/ वीक्ष्यान्धो नवतेः काणः षष्टेः श्वित्री शतस्य तु । %[ं।शतस्य च ]
ं३।१७७च्[१६७ंच्]/ पापरोगी सहस्रस्य दातुर्नाशयते फलम् ॥ Bछ्.Sछ्॥

ं३।१७८अ[१६८ंअ]/ यावतः संस्पृशेदङ्गैर्ब्राह्मणान् शूद्रयाजकः ।
ं३।१६८च्[१६८ंच्]/ तावतां न भवेद् दातुः फलं दानस्य पौर्तिकम् ॥ Bछ्.Sछ्॥

ं३।१७९अ[१६९ंअ]/ वेदविद्चापि विप्रोऽस्य लोभात् कृत्वा प्रतिग्रहम् ।
ं३।१७९च्[१६९ंच्]/ विनाशं व्रजति क्षिप्रमामपात्रमिवाम्भसि ॥ Bछ्.Sछ्॥

ं३।१८०अ[१७०ंअ]/ सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ।
ं३।१८०च्[१७०ंच्]/ नष्टं देवलके दत्तमप्रतिष्ठं तु वार्धुषौ ॥ Bछ्.Sछ्॥

ं३।१८१अ[१७१ंअ]/ यत् तु वाणिजके दत्तं नैह नामुत्र तद् भवेत् ।
ं३।१८१च्[१७१ंच्]/ भस्मनीव हुतं द्रव्यं तथा पौनर्भवे द्विजे ॥ Bछ्.Sछ्॥

ं३।१८२अ[१७२ंअ]/ इतरेषु त्वपाङ्क्त्येषु यथोद्दिष्टेष्वसाधुषु । %[
ं३।१८२च्[१७२ंच्]/ मेदोऽसृङ्मांसमज्जाऽस्थि वदन्त्यन्नं मनीषिणः ॥ Bछ्.Sछ्॥

ं३।१८३अ[१७३ंअ]/ अपाङ्क्त्योपहता पङ्क्तिः पाव्यते यैर्द्विजोत्तमैः । %[ं:अपङ्क्त्यौपहता पङ्क्तिः]
ं३।१८३च्[१७३ंच्]/ तान्निबोधत कार्त्स्न्येन द्विजाग्र्यान् पङ्क्तिपावनान् ॥ Bछ्.Sछ्॥

ं३।१८४अ[१७४ंअ]/ अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च ।
ं३।१८४च्[१७४ंच्]/ श्रोत्रियान्वयजाश्चैव विज्ञेयाः पङ्क्तिपावनाः ॥ Bछ्.Sछ्॥

ं३।१८५अ[१७५ंअ]/ त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ।
ं३।१८५च्[१७५ंच्]/ ब्रह्मदेयात्मसन्तानो ज्येष्ठसामग एव च ॥ Bछ्.Sछ्॥ %[ं।ब्रह्मदेयानुसन्तानो ]
ं३।१८६अ[१७६ंअ]/ वेदार्थवित् प्रवक्ता च ब्रह्मचारी सहस्रदः ।
ं३।१८६च्[१७६ंच्]/ शतायुश्चैव विज्ञेया ब्राह्मणाः पङ्क्तिपावनाः ॥ Bछ्.Sछ्॥

ं३।१८७अ[१७७ंअ]/ पूर्वेद्युरपरेद्युर्वा श्राद्धकर्मण्युपस्थिते ।
ं३।१८७च्[१७७ंच्]/ निमन्त्रयेत त्र्य्ऽवरान् सम्यग् विप्रान् यथौदितान् ॥ Bछ्.Sछ्॥ %[ंंइमन्त्रयीत ]
ं३।१८८अ[१७८ंअ]/ निमन्त्रितो द्विजः पित्र्ये नियतात्मा भवेत् सदा ।
ं३।१८८च्[१७८ंच्]/ न च छन्दांस्यधीयीत यस्य श्राद्धं च तद् भवेत् ॥ Bछ्.Sछ्॥

ं३।१८९अ[१७९ंअ]/ निमन्त्रितान् हि पितर उपतिष्ठन्ति तान् द्विजान् ।
ं३।१८९च्[१७९ंच्]/ वायुवत्चानुगच्छन्ति तथाऽसीनानुपासते ॥ Bछ्.Sछ्॥

ं३।१९०अ[१८०ंअ]/ केतितस्तु यथान्यायं हव्ये कव्ये द्विजोत्तमः ।
ं३।१९०च्[१८०ंच्]/ कथं चिदप्यतिक्रामन् पापः सूकरतां व्रजेत् ॥ Bछ्.Sछ्॥

ं३।१९१अ[१८१ंअ]/ आमन्त्रितस्तु यः श्राद्धे वृषल्या सह मोदते ।
ं३।१९१च्[१८१ंच्]/ दातुर्यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ॥ Bछ्.Sछ्॥

ं३।१९२अ[१८२ंअ]/ अक्रोधनाः शौचपराः सततं ब्रह्मचारिणः ।
ं३।१९२च्[१८२ंच्]/ न्यस्तशस्त्रा महाभागाः पितरः पूर्वदेवताः ॥ Bछ्.Sछ्॥

ं३।१९३अ[१८३ंअ]/ यस्मादुत्पत्तिरेतेषां सर्वेषामप्यशेषतः ।
ं३।१९३च्[१८३ंच्]/ ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत ॥ Bछ्.Sछ्॥

ं३।१९४अ[१८४ंअ]/ मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।
ं३।१९४च्[१८४ंच्]/ तेषां ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः ॥ Bछ्.Sछ्॥

ं३।१९५अ[१८५ंअ]/ विराज्सुताः सोमसदः साध्यानां पितरः स्मृताः ?।
ं३।१९५च्[१८५ंच्]/ अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः ॥ Bछ्.Sछ्॥

ं३।१९६अ[१८६ंअ]/ दैत्यदानवयक्षाणां गन्धर्वौरगरक्षसाम् ।
ं३।१९६च्[१८६ंच्]/ सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः ॥ Bछ्.Sछ्॥

ं३।१९७अ[१८७ंअ]/ सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।
ं३।१९७च्[१८७ंच्]/ वैश्यानामाज्यपा नाम शूद्राणां तु सुकालिनः ॥ Bछ्.Sछ्॥

ं३।१९८अ[१८८ंअ]/ सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः ।
ं३।१९८च्[१८८ंच्]/ पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः ॥ Bछ्.Sछ्॥

ं३।१९९अ[१८९ंअ]/ अग्निदग्धानग्निदग्धान् काव्यान् बर्हिषदस्तथा । %[ंऽनग्निदग्धानग्निदग्धान्]
ं३।१९९च्[१८९ंच्]/ अग्निष्वात्तांश्च सौम्यांश्च विप्राणामेव निर्दिशेत् ॥ Bछ्.Sछ्॥

ं३।२००अ[१९०ंअ]/ य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।
ं३।२००च्[१९०ंच्]/ तेषामपीह विज्ञेयं पुत्रपौत्रमनन्तकम् ॥ Bछ्.Sछ्॥

ं३।२०१अ[१९१ंअ]/ ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।
ं३।२०१च्[१९१ंच्]/ देवेभ्यस्तु जगत् सर्वं चरं स्थाण्वनुपूर्वशः ॥ Bछ्.Sछ्॥

ं३।२०२अ[१९२ंअ]/ राजतैर्भाजनैरेषामथो वा रजतान्वितैः ।
ं३।२०२च्[१९२ंच्]/ वार्यपि श्रद्धया दत्तमक्षयायौपकल्पते ॥ Bछ्.Sछ्॥

ं३।२०३अ[१९३ंअ]/ दैवकार्याद् द्विजातीनां पितृकार्यं विशिष्यते ।
ं३।२०३च्[१९३ंच्]/ दैवं हि पितृकार्यस्य पूर्वमाप्यायनं स्मृतम् ॥ Bछ्.Sछ्॥

ं३।२०४अ[१९४ंअ]/ तेषामारक्षभूतं तु पूर्वं दैवं नियोजयेत् ।
ं३।२०४च्[१९४ंच्]/ रक्षांसि विप्रलुम्पन्ति श्राद्धमारक्षवर्जितम् ॥ Bछ्.Sछ्॥

ं३।२०५अ[१९५ंअ]/ दैवाद्यन्तं तदीहेत पित्र्याद्यन्तं न तद् भवेत् ।
ं३।२०५च्[१९५ंच्]/ पित्र्याद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः ॥ Bछ्.Sछ्॥

ं३।२०६अ[१९६ंअ]/ शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।
ं३।२०६च्[१९६ंच्]/ दक्षिणाप्रवणं चैव प्रयत्नेनोपपादयेत् ॥ Bछ्.Sछ्॥

ं३।२०७अ[१९७ंअ]/ अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।
ं३।२०७च्[१९७ंच्]/ विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ Bछ्.Sछ्॥

ं३।२०८अ[१९८ंअ]/ आसनेषूपकॢप्तेषु बर्हिष्मत्सु पृथक्पृथक् ।
ं३।२०८च्[१९८ंच्]/ उपस्पृष्टौदकान् सम्यग् विप्रांस्तानुपवेशयेत् ॥ Bछ्.Sछ्॥

ं३।२०९अ[१९९ंअ]/ उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् ।
ं३।२०९च्[१९९ंच्]/ गन्धमाल्यैः सुरभिभिरर्चयेद् दैवपूर्वकम् ॥ Bछ्.Sछ्॥

ं३।२१०अ[२००ंअ]/ तेषामुदकमानीय सपवित्रांस्तिलानपि ।
ं३।२१०च्[२००ंच्]/ अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह ॥ Bछ्.Sछ्॥

ं३।२११अ[२०१ंअ]/ अग्नेः सोमयमाभ्यां च कृत्वाऽप्यायनमादितः ।
ं३।२११च्[२०१ंच्]/ हविर्दानेन विधिवत् पश्चात् संतर्पयेत् पितॄन् ॥ Bछ्.Sछ्॥

ं३।२१२अ[२०२ंअ]/ अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।
ं३।२१२च्[२०२ंच्]/ यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते ॥ Bछ्.Sछ्॥

ं३।२१३अ[२०३ंअ]/ अक्रोधनान् सुप्रसादान् वदन्त्येतान् पुरातनान् ।
ं३।२१३च्[२०३ंच्]/ लोकस्याप्यायने युक्तान् श्राद्धदेवान् द्विजोत्तमान् ॥ Bछ्.Sछ्॥ %[ं।श्राद्धे देवान् द्विजोत्तमान्]
ं३।२१४अ[२०४ंअ]/ अपसव्यमग्नौ कृत्वा सर्वमावृत्य विक्रमम् । %[ं।आवृत्परिक्रमं ]
ं३।२१४च्[२०४ंच्]/ अपसव्येन हस्तेन निर्वपेदुदकं भुवि ॥ Bछ्.Sछ्॥

ं३।२१५अ[२०५ंअ]/ त्रींस्तु तस्माद् हविःशेषात् पिण्डान् कृत्वा समाहितः ।
ं३।२१५च्[२०५ंच्]/ औदकेनैव विधिना निर्वपेद् दक्षिणामुखः ॥ Bछ्.Sछ्॥

ं३।२१६अ[२०६ंअ]/ न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् ।
ं३।२१६च्[२०६ंच्]/ तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् ॥ Bछ्.Sछ्॥

ं३।२१७अ[२०७ंअ]/ आचम्यौदक्परावृत्य त्रिरायम्य शनैरसून् ।
ं३।२१७च्[२०७ंच्]/ षड् ऋतूंश्च नमस्कुर्यात् पितॄनेव च मन्त्रवत् ॥ Bछ्.Sछ्॥

ं३।२१८अ[२०८ंअ]/ उदकं निनयेत्शेषं शनैः पिण्डान्तिके पुनः ।
ं३।२१८च्[२०८ंच्]/ अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ Bछ्.Sछ्॥

ं३।२१९अ[२०९ंअ]/ पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः । %[ं।पिण्डेभ्यः स्वल्पिकां]
ं३।२१९च्[२०९ंच्]/ तानेव विप्रानासीनान् विधिवत् पूर्वमाशयेत् ॥ Bछ्.Sछ्॥

ं३।२२०अ[२१०ंअ]/ ध्रियमाणे तु पितरि पूर्वेषामेव निर्वपेत् ।
ं३।२२०च्[२१०ंच्]/ विप्रवद् वाऽपि तं श्राद्धे स्वकं पितरमाशयेत् ॥ Bछ्.Sछ्॥ %[ं।श्राद्धं ]
ं३।२२१अ[२११ंअ]/ पिता यस्य निवृत्तः स्याज् जीवेच्चापि पितामहः । %[ं।पिता यस्य तु वृत्तः स्याज्]
ं३।२२१च्[२११ंच्]/ पितुः स नाम सङ्कीर्त्य कीर्तयेत् प्रपितामहम् ॥ Bछ्.Sछ्॥

ं३।२२२अ[२१२ंअ]/ पितामहो वा तत्श्राद्धं भुञ्जीतैत्यब्रवीन् मनुः ।
ं३।२२२च्[२१२ंच्]/ कामं वा समनुज्ञातः स्वयमेव समाचरेत् ॥ Bछ्.Sछ्॥

ं३।२२३अ[२१३ंअ]/ तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलौदकम् ।
ं३।२२३च्[२१३ंच्]/ तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥ Bछ्.Sछ्॥ %[ं।प्रयच्छेत् तु ]
ं३।२२४अ[२१४ंअ]/ पाणिभ्यां तूपसङ्गृह्य स्वयमन्नस्य वर्धितम् । %[ं।वर्द्धितम्]
ं३।२२४च्[२१४ंच्]/ विप्रान्तिके पितॄन् ध्यायन् शनकैरुपनिक्षिपेत् ॥ Bछ्.Sछ्॥

ं३।२२५अ[२१५ंअ]/ उभयोर्हस्तयोर्मुक्तं यदन्नमुपनीयते ।
ं३।२२५च्[२१५ंच्]/ तद् विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः ॥ Bछ्.Sछ्॥

ं३।२२६अ[२१६ंअ]/ गुणांश्च सूपशाकाद्यान् पयो दधि घृतं मधु ।
ं३।२२६च्[२१६ंच्]/ विन्यसेत् प्रयतः पूर्वं भूमावेव समाहितः ॥ Bछ्.Sछ्॥

ं३।२२७अ[२१७ंअ]/ भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।
ं३।२२७च्[२१७ंच्]/ हृद्यानि चैव मांसानि पानानि सुरभीणि च ॥ Bछ्.Sछ्॥

ं३।२२८अ[२१८ंअ]/ उपनीय तु तत् सर्वं शनकैः सुसमाहितः ।
ं३।२२८च्[२१८ंच्]/ परिवेषयेत प्रयतो गुणान् सर्वान् प्रचोदयन् ॥ Bछ्.Sछ्॥

ं३।२२९अ[२१९ंअ]/ नास्रमापातयेज् जातु न कुप्येन्नानृतं वदेत् ।
ं३।२२९च्[२१९ंच्]/ न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ Bछ्.Sछ्॥

ं३।२३०अ[२२०ंअ]/ अस्रं गमयति प्रेतान् कोपोऽरीननृतं शुनः ।
ं३।२३०च्[२२०ंच्]/ पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् ॥ Bछ्.Sछ्॥

ं३।२३१अ[२२१ंअ]/ यद् यद् रोचेत विप्रेभ्यस्तत् तद् दद्यादमत्सरः ।
ं३।२३१च्[२२१ंच्]/ ब्रह्मोद्याश्च कथाः कुर्यात् पितॄणामेतदीप्सितम् ॥ Bछ्.Sछ्॥

ं३।२३२अ[२२२ंअ]/ स्वाध्यायं श्रावयेत् पित्र्ये धर्मशास्त्राणि चैव हि ।
ं३।२३२च्[२२२ंच्]/ आख्यानानीतिहासांश्च पुराणानि खिलानि च ॥ Bछ्.Sछ्॥

ं३।२३३अ[२२३ंअ]/ हर्षयेद् ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः ।
ं३।२३३च्[२२३ंच्]/ अन्नाद्येनासकृच्चैतान् गुणैश्च परिचोदयेत् ॥ Bछ्.Sछ्॥

ं३।२३४अ[२२४ंअ]/ व्रतस्थमपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।
ं३।२३४च्[२२४ंच्]/ कुतपं चासनं दद्यात् तिलैश्च विकिरेन् महीम् ॥ Bछ्.Sछ्॥

ं३।२३५अ[२२५ंअ]/ त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।
ं३।२३५च्[२२५ंच्]/ त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्वराम् ॥ Bछ्.Sछ्॥

ं३।२३६अ[२२६ंअ]/ अत्युष्णं सर्वमन्नं स्याद् भुञ्जीरंस्ते च वाग्यताः ।
ं३।२३६च्[२२६ंच्]/ न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् ॥ Bछ्.Sछ्॥

ं३।२३७अ[२२७ंअ]/ यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः ।
ं३।२३७च्[२२७ंच्]/ पितरस्तावदश्नन्ति यावन्नओक्ता हविर्गुणाः ॥ Bछ्.Sछ्॥

ं३।२३८अ[२२८ंअ]/ यद् वेष्टितशिरा भुङ्क्ते यद् भुङ्क्ते दक्षिणामुखः ।
ं३।२३८च्[२२८ंच्]/ सौपानत्कश्च यद् भुङ्क्ते तद् वै रक्षांसि भुञ्जते ॥ Bछ्.Sछ्॥

ं३।२३९अ[२२९ंअ]/ चाण्डालश्च वराहश्च कुक्कुटः श्वा तथैव च ।
ं३।२३९च्[२२९ंच्]/ रजस्वला च षण्ढश्च नैक्षेरन्नश्नतो द्विजान् ॥ Bछ्.Sछ्॥

ं३।२४०अ[२३०ंअ]/ होमे प्रदाने भोज्ये च यदेभिरभिवीक्ष्यते ।
ं३।२४०च्[२३०ंच्]/ दैवे हविषि पित्र्ये वा तद् गच्छत्ययथातथम् ॥ Bछ्.Sछ्॥

ं३।२४१अ[२३१ंअ]/ घ्राणेन सूकरो हन्ति पक्षवातेन कुक्कुटः । %[ं।शूकरो ]
ं३।२४१च्[२३१ंच्]/ श्वा तु दृष्टिनिपातेन स्पर्शेणावरवर्णजः ॥ Bछ्.Sछ्॥

ं३।२४२अ[२३२ंअ]/ खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत् ।
ं३।२४२च्[२३२ंच्]/ हीनातिरिक्तगात्रो वा तमप्यपनयेत् पुनः ॥ Bछ्.Sछ्॥

ं३।२४३अ[२३३ंअ]/ ब्राह्मणं भिक्षुकं वाऽपि भोजनार्थमुपस्थितम् ।
ं३।२४३च्[२३३ंच्]/ ब्राह्मणैरभ्यनुज्ञातः शक्तितः प्रतिपूजयेत् ॥ Bछ्.Sछ्॥

ं३।२४४अ[२३४ंअ]/ सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा ।
ं३।२४४च्[२३४ंच्]/ समुत्सृजेद् भुक्तवतामग्रतो विकिरन् भुवि ॥ Bछ्.Sछ्॥

ं३।२४५अ[२३५ंअ]/ असंस्कृतप्रमीतानां त्यागिनां कुलयोषिताम् ।
ं३।२४५च्[२३५ंच्]/ उच्छिष्टं भागधेयं स्याद् दर्भेषु विकिरश्च यः ॥ Bछ्.Sछ्॥

ं३।२४६अ[२३६ंअ]/ उच्छेषणां भूमिगतमजिह्मस्याशठस्य च ।
ं३।२४६च्[२३६ंच्]/ दासवर्गस्य तत् पित्र्ये भागधेयं प्रचक्षते ॥ Bछ्.Sछ्॥

ं३।२४७अ[२३७ंअ]/ आसपिण्डक्रियाकर्म द्विजातेः संस्थितस्य तु ।
ं३।२४७च्[२३७ंच्]/ अदैवं भोजयेत्श्राद्धं पिण्डमेकं च निर्वपेत् ॥ Bछ्.Sछ्॥

ं३।२४८अ[२३८ंअ]/ सहपिण्डक्रियायां तु कृतायामस्य धर्मतः ।
ं३।२४८च्[२३८ंच्]/ अनयैवावृता कार्यं पिण्डनिर्वपनं सुतैः ॥ Bछ्.Sछ्॥

ं३।२४९अ[२३९ंअ]/ श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।
ं३।२४९च्[२३९ंच्]/ स मूढो नरकं याति कालसूत्रमवाक्षिराः ॥ Bछ्.Sछ्॥

ं३।२५०अ[२४०ंअ]/ श्राद्धभुग् वृषलीतल्पं तदहर्योऽधिगच्छति ।
ं३।२५०च्[२४०ंच्]/ तस्याः पुरीषे तं मासं पितरस्तस्य शेरते ॥ Bछ्.Sछ्॥

ं३।२५१अ[२४१ंअ]/ पृष्ट्वा स्वदितमित्येवं तृप्तानाचामयेत् ततः ।
ं३।२५१च्[२४१ंच्]/ आचान्तांश्चानुजानीयादभितो रम्यतामिति ॥ Bछ्.Sछ्॥

ं३।२५२अ[२४२ंअ]/ स्वधाऽस्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।
ं३।२५२च्[२४२ंच्]/ स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु ॥ Bछ्.Sछ्॥

ं३।२५३अ[२४३ंअ]/ ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।
ं३।२५३च्[२४३ंच्]/ यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः ॥ Bछ्.Sछ्॥

ं३।२५४अ[२४४ंअ]/ पित्र्ये स्वदितमित्येव वाच्यं गोष्ठे तु सुशृतम् ।
ं३।२५४च्[२४४ंच्]/ सम्पन्नमित्यभ्युदये दैवे रुचितमित्यपि ॥ Bछ्.Sछ्॥ %[ं।सम्पन्नम्]
ं३।२५५अ[२४५ंअ]/ अपराह्णस्तथा दर्भा वास्तुसम्पादनं तिलाः । %[ं।सम्पादनं]
ं३।२५५च्[२४५ंच्]/ सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु सम्पदः ॥ Bछ्.Sछ्॥

ं३।२५६अ[२४६ंअ]/ दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः ।
ं३।२५६च्[२४६ंच्]/ पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसम्पदः ॥ Bछ्.Sछ्॥

ं३।२५७अ[२४७ंअ]/ मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।
ं३।२५७च्[२४७ंच्]/ अक्सारलवणं चैव प्रकृत्या हविरुच्यते ॥ Bछ्.Sछ्॥

ं३।२५८अ[२४८ंअ]/ विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः । %[ं।विसर्ज्य ब्राह्मनांस्तांस्तु प्रयतो विधिपूर्वकम्]
ं३।२५८च्[२४८ंच्]/ दक्षिणां दिशमाकाङ्क्षन् याचेतैमान् वरान् पितॄन् ॥ Bछ्.Sछ्॥

ं३।२५९अ[२४९ंअ]/ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।
ं३।२५९च्[२४९ंच्]/ श्रद्धा च नो मा व्यगमद् बहुदेयं च नोऽस्त्विति ॥ Bछ्.Sछ्॥

ं३।२६०अ[२५०ंअ]/ एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।
ं३।२६०च्[२५०ंच्]/ गां विप्रमजमग्निं वा प्राशयेदप्सु वा क्षिपेत् ॥ Bछ्.Sछ्॥

ं३।२६१अ[२५१ंअ]/ पिण्डनिर्वपणं के चित् परस्तादेव कुर्वते ।
ं३।२६१च्[२५१ंच्]/ वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा ॥ Bछ्.Sछ्॥

ं३।२६२अ[२५२ंअ]/ पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।
ं३।२६२च्[२५२ंच्]/ मध्यमं तु ततः पिण्डमद्यात् सम्यक् सुतार्थिनी ॥ Bछ्.Sछ्॥

ं३।२६३अ[२५३ंअ]/ आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।
ं३।२६३च्[२५३ंच्]/ धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा ॥ Bछ्.Sछ्॥

ं३।२६४अ[२५४ंअ]/ प्रक्षाल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत् ।
ं३।२६४च्[२५४ंच्]/ ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् ॥ Bछ्.Sछ्॥ %[ं।दत्वा]
ं३।२६५अ[२५५ंअ]/ उच्छेषणं तु तत् तिष्ठेद् यावद् विप्रा विसर्जिताः । %[क्:यत् तिष्ठेद् ]
ं३।२६५च्[२५५ंच्]/ ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः ॥ Bछ्.Sछ्॥

ं३।२६६अ[२५६ंअ]/ हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।
ं३।२६६च्[२५६ंच्]/ पितृभ्यो विधिवद् दत्तं तत् प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥

ं३।२६७अ[२५७ंअ]/ तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलेन वा ।
ं३।२६७च्[२५७ंच्]/ दत्तेन मासं तृप्यन्ति विधिवत् पितरो नृणाम् ॥ Bछ्.Sछ्॥

ं३।२६८अ[२५८ंअ]/ द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेन तु ।
ं३।२६८च्[२५८ंच्]/ औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ Bछ्.Sछ्॥

ं३।२६९अ[२५९ंअ]/ षण्मासांश्छागमांसेन पार्षतेन च सप्त वै ।
ं३।२६९च्[२५९ंच्]/ अष्टावेनस्य मांसेन रौरवेण नवैव तु ॥ Bछ्.Sछ्॥ %[ंऽइणेयमांसेन ]
ं३।२७०अ[२६०ंअ]/ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।
ं३।२७०च्[२६०ंच्]/ शशकूर्मयोस्तु मांसेन मासानेकादशैव तु ॥ Bछ्.Sछ्॥

ं३।२७१अ[२६१ंअ]/ संवत्सरं तु गव्येन पयसा पायसेन च । %[ं।संवत्सरे ]
ं३।२७१च्[२६१ंच्]/ वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ Bछ्.Sछ्॥

ं३।२७२अ[२६२ंअ]/ कालशाकं महाशल्काः खङ्गलोहामिषं मधु ।
ं३।२७२च्[२६२ंच्]/ आनन्त्यायैव कल्प्यन्ते मुन्यन्नानि च सर्वशः ॥ Bछ्.Sछ्॥

ं३।२७३अ[२६३ंअ]/ यत् किं चिन् मधुना मिश्रं प्रदद्यात् तु त्रयोदशीम् ।
ं३।२७३च्[२६३ंच्]/ तदप्यक्षयमेव स्याद् वर्षासु च मघासु च ॥ Bछ्.Sछ्॥

ं३।२७४अ[२६४ंअ]/ अपि नः स कुले भूयाद् यो नो दद्यात् त्रयोदशीम् ।
ं३।२७४च्[२६४ंच्]/ पायसं मधुसर्पिर्भ्यां प्राक् छाये कुञ्जरस्य च ॥ Bछ्.Sछ्॥

ं३।२७५अ[२६५ंअ]/ यद् यद् ददाति विधिवत् सम्यक् श्रद्धासमन्वितः ।
ं३।२७५च्[२६५ंच्]/ तत् तत् पितॄणां भवति परत्रानन्तमक्षयम् ॥ Bछ्.Sछ्॥

ं३।२७६अ[२६६ंअ]/ कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् ।
ं३।२७६च्[२६६ंच्]/ श्राद्धे प्रशस्तास्तिथयो यथैता न तथैतराः ॥ Bछ्.Sछ्॥

ं३।२७७अ[२६७ंअ]/ युक्षु कुर्वन् दिनर्क्षेषु सर्वान् कामान् समश्नुते ।
ं३।२७७च्[२६७ंच्]/ अयुक्षु तु पितॄन् सर्वान् प्रजां प्राप्नोति पुष्कलाम् ॥ Bछ्.Sछ्॥

ं३।२७८अ[२६८ंअ]/ यथा चैवापरः पक्षः पूर्वपक्षाद् विशिष्यते ।
ं३।२७८च्[२६८ंच्]/ तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥ Bछ्.Sछ्॥

ं३।२७९अ[२६९ंअ]/ प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा ।
ं३।२७९च्[२६९ंच्]/ पित्र्यमानिधनात् कार्यं विधिवद् दर्भपाणिना ॥ Bछ्.Sछ्॥

ं३।२८०अ[२७०ंअ]/ रात्रौ श्राद्धं न कुर्वीत राक्षसी कीर्तिता हि सा ।
ं३।२८०च्[२७०ंच्]/ संध्ययोरुभयोश्चैव सूर्ये चैवाचिरौदिते ॥ Bछ्.Sछ्॥

ं३।२८१अ[२७१ंअ]/ अनेन विधिना श्राद्धं त्रिरब्दस्यैह निर्वपेत् ।
ं३।२८१च्[२७१ंच्]/ हेमन्तग्रीष्मवर्षासु पाञ्चयज्ञिकमन्वहम् ॥ Bछ्.Sछ्॥

ं३।२८२अ[२७२ंअ]/ न पैतृयज्ञियो होमो लौकिकेऽग्नौ विधीयते ।
ं३।२८२च्[२७२ंच्]/ न दर्शेन विना श्राद्धमाहिताग्नेर्द्विजन्मनः ॥ Bछ्.Sछ्॥

ं३।२८३अ[२७३ंअ]/ यदेव तर्पयत्यद्भिः पितॄन् स्नात्वा द्विजोत्तमः ।
ं३।२८३च्[२७३ंच्]/ तेनैव कृत्स्नमाप्नोति पितृयज्ञक्रियाफलम् ॥ Bछ्.Sछ्॥

ं३।२८४अ[२७४ंअ]/ वसून् वदन्ति तु पितॄन् रुद्रांश्चैव पितामहान् ।
ं३।२८४च्[२७४ंच्]/ प्रपितामहांस्तथाऽदित्यान् श्रुतिरेषा सनातनी ॥ Bछ्.Sछ्॥

ं३।२८५अ[२७५ंअ]/ विघसाशी भवेन्नित्यं नित्यं वाऽमृतभोजनः ।
ं३।२८५च्[२७५ंच्]/ विघसो भुक्तशेषं तु यज्ञशेषं तथाऽमृतम् ॥ Bछ्.Sछ्॥

ं३।२८६अ[२७६ंअ]/ एतद् वोऽभिहितं सर्वं विधानं पाञ्चयज्ञिकम् ।
ं३।२८६च्[२७६ंच्]/ द्विजातिमुख्यवृत्तीनां विधानं श्रूयतामिति ॥ Bछ्.Sछ्॥

 

अध्याय ४
ं४।०१अ/ चतुर्थमायुषो भागमुषित्वाऽद्यं गुरौ द्विजाः ।
ं४।०१च्/ द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ Bछ्.Sछ्॥

ं४।०२अ/ अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
ं४।०२च्/ या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥ Bछ्.Sछ्॥

ं४।०३अ/ यात्रामात्रप्रसिद्ध्यर्थं स्वैः कर्मभिरगर्हितैः ।
ं४।०३च्/ अक्लेशेन शरीरस्य कुर्वीत धनसञ्चयम् ॥ Bछ्.Sछ्॥

ं४।०४अ/ ऋतामृताभ्यां जीवेत् तु मृतेन प्रमृतेन वा ।
ं४।०४च्/ सत्यानृताभ्यामपि वा न श्ववृत्त्या कदा चन ॥ Bछ्.Sछ्॥

ं४।०५अ/ ऋतमुञ्छशिलं ज्ञेयममृतं स्यादयाचितम् ।
ं४।०५च्/ मृतं तु याचितं भैक्षं प्रमृतं कर्षणं स्मृतम् ॥ Bछ्.Sछ्॥

ं४।०६अ/ सत्यानृतं तु वाणिज्यं तेन चैवापि जीव्यते ।
ं४।०६च्/ सेवा श्ववृत्तिराख्याता तस्मात् तां परिवर्जयेत् ॥ Bछ्.Sछ्॥

ं४।०७अ/ कुसूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।
ं४।०७च्/ त्र्यहेहिको वाऽपि भवेदश्वस्तनिक एव वा ॥ Bछ्.Sछ्॥

ं४।०८अ/ चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् ।
ं४।०८च्/ ज्यायान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ Bछ्.Sछ्॥

ं४।०९अ/ षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते ।
ं४।०९च्/ द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्त्रेण जीवति ॥ Bछ्.Sछ्॥

ं४।१०अ/ वर्तयंश्च शिलौञ्छाभ्यामग्निहोत्रपरायणः ।
ं४।१०च्/ इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥ Bछ्.Sछ्॥

ं४।११अ/ न लोकवृत्तं वर्तेत वृत्तिहेतोः कथं चन ।
ं४।११च्/ अजिह्मामशथां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ Bछ्.Sछ्॥

ं४।१२अ/ संतोषं परमास्थाय सुखार्थी संयतो भवेत् ।
ं४।१२च्/ संतोषमूलं हि सुखं दुःखमूलं विपर्ययः ॥ Bछ्.Sछ्॥

ं४।१३अ/ अतोऽन्यतमया वृत्त्या जीवंस्तु स्नातको द्विजः ।
ं४।१३च्/ स्वर्गायुष्ययशस्यानि व्रताणीमानि धारयेत् ॥ Bछ्.Sछ्॥ %[ं।स्वर्ग्यायुष्य ]
ं४।१४अ/ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः ।
ं४।१४च्/ तद् हि कुर्वन् यथाशक्ति प्राप्नोति परमां गतिम् ॥ Bछ्.Sछ्॥

ं४।१५अ/ नैहेतार्थान् प्रसङ्गेन न विरुद्धेन कर्मणा ।
ं४।१५च्/ न विद्यमानेष्वर्थेषु नार्त्यामपि यतस्ततः ॥ Bछ्.Sछ्॥ %[ंंअ कल्पमानेष्वर्थेषु ]
ं४।१६अ/ इन्द्रियार्थेषु सर्वेषु न प्रसज्येत कामतः ।
ं४।१६च्/ अतिप्रसक्तिं चैतेषां मनसा संनिवर्तयेत् ॥ Bछ्.Sछ्॥

ं४।१७अ/ सर्वान् परित्यजेदर्थान् स्वाध्यायस्य विरोधिनः ।
ं४।१७च्/ यथा तथाऽध्यापयंस्तु सा ह्यस्य कृतकृत्यता ॥ Bछ्.Sछ्॥

ं४।१८अ/ वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य च ।
ं४।१८च्/ वेषवाग्बुद्धिसारूप्यमाचरन् विचरेदिह ॥ Bछ्.Sछ्॥

ं४।१९अ/ बुद्धिवृद्धिकराण्याशु धन्यानि च हितानि च ।
ं४।१९च्/ नित्यं शास्त्राण्यवेक्षेत निगमांश्चैव वैदिकान् ॥ Bछ्.Sछ्॥

ं४।२०अ/ यथा यथा हि पुरुषः शास्त्रं समधिगच्छति ।
ं४।२०च्/ तथा तथा विजानाति विज्ञानं चास्य रोचते ॥ Bछ्.Sछ्॥

ं४।२१अ/ ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
ं४।२१च्/ नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥ Bछ्.Sछ्॥

ं४।२२अ/ एतानेके महायज्ञान् यज्ञशास्त्रविदो जनाः ।
ं४।२२च्/ अनीहमानाः सततमिन्द्रियेष्वेव जुह्वति ॥ Bछ्.Sछ्॥

ं४।२३अ/ वाच्येके जुह्वति प्राणं प्राणे वाचं च सर्वदा ।
ं४।२३च्/ वाचि प्राणे च पश्यन्तो यज्ञनिर्वृत्तिमक्षयाम् ॥ Bछ्.Sछ्॥

ं४।२४अ/ ज्ञानेनैवापरे विप्रा यजन्त्येतैर्मखैः सदा । %[ं। यजन्ते तैर्मखैः सदा]
ं४।२४च्/ ज्ञानमूलां क्रियामेषां पश्यन्तो ज्ञानचक्षुषा ॥ Bछ्.Sछ्॥

ं४।२५अ/ अग्निहोत्रं च जुहुयादाद्यन्ते द्युनिशोः सदा ।
ं४।२५च्/ दर्शेन चार्धमासान्ते पौर्णमासेन चैव हि ॥ Bछ्.Sछ्॥

ं४।२६अ/ सस्यान्ते नवसस्येष्ट्या तथार्तुअन्ते द्विजोऽध्वरैः ।
ं४।२६च्/ पशुना त्वयनस्यादौ समान्ते सौमिकैर्मखैः ॥ Bछ्.Sछ्॥ %[ंऽयनान्ते तु समांते]
ं४।२७अ/ नानिष्ट्वा नवसस्येष्ट्या पशुना चाग्निमान् द्विजः ।
ं४।२७च्/ नवान्नमद्यात्मांसं वा दीर्घमायुर्जिजीविषुः ॥ Bछ्.Sछ्॥

ं४।२८अ/ नवेनानर्चिता ह्यस्य पशुहव्येन चाग्नयः ।
ं४।२८च्/ प्राणानेवात्तुमिच्छन्ति नवान्नामिषगर्धिनः ॥ Bछ्.Sछ्॥

ं४।२९अ/ आसनाशनशय्याभिरद्भिर्मूलफलेन वा ।
ं४।२९च्/ नास्य कश्चिद् वसेद् गेहे शक्तितोऽनर्चितोऽतिथिः ॥ Bछ्.Sछ्॥

ं४।३०अ/ पाषण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् ।
ं४।३०च्/ हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥ Bछ्.Sछ्॥

ं४।३१अ/ वेदविद्याव्रतस्नातांश्रोत्रियान् गृहमेधिनः ।
ं४।३१च्/ पूजयेद् हव्यकव्येन विपरीतांश्च वर्जयेत् ॥ Bछ्.Sछ्॥

ं४।३२अ/ शक्तितोऽपचमानेभ्यो दातव्यं गृहमेधिना ।
ं४।३२च्/ संविभागश्च भूतेभ्यः कर्तव्योऽनुपरोधतः ॥ Bछ्.Sछ्॥

ं४।३३अ/ राजतो धनमन्विच्छेत् संसीदन् स्नातकः क्षुधा ।
ं४।३३च्/ याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥ Bछ्.Sछ्॥

ं४।३४अ/ न सीदेत् स्नातको विप्रः क्षुधा शक्तः कथं चन ।
ं४।३४च्/ न जीर्णमलवद्वासा भवेच्च विभवे सति ॥ Bछ्.Sछ्॥

ं४।३५अ/ कॢप्तकेशनखश्मश्रुर्दान्तः शुक्लाम्बरः शुचिः ।
ं४।३५च्/ स्वाध्याये चैव युक्तः स्यान्नित्यमात्महितेषु च ॥ Bछ्.Sछ्॥

ं४।३६अ/ वैणवीं धारयेद् यष्टिं सोदकं च कमण्डलुम् ।
ं४।३६च्/ यज्ञोपवीतं वेदं च शुभं रौक्मे च कुण्डले ॥ Bछ्.Sछ्॥

ं४।३७अ/ नेक्षेतोद्यन्तमादित्यं नास्तं यान्तं कदा चन ।
ं४।३७च्/ नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥ Bछ्.Sछ्॥

ं४।३८अ/ न लङ्घयेद् वत्सतन्त्रीं न प्रधावेच्च वर्षति ।
ं४।३८च्/ न चोदके निरीक्षेत स्वरूपमिति धारणा ॥ Bछ्.Sछ्॥

ं४।३९अ/ मृदं गां दैवतं विप्रं घृतं मधु चतुष्पथम् ।
ं४।३९च्/ प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥ Bछ्.Sछ्॥

ं४।४०अ/ नोपगच्छेत् प्रमत्तोऽपि स्त्रियमार्तवदर्शने ।
ं४।४०च्/ समानशयने चैव न शयीत तया सह ॥ Bछ्.Sछ्॥

ं४।४१अ/ रजसाऽभिप्लुतां नारीं नरस्य ह्युपगच्छतः ।
ं४।४१च्/ प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रहीयते ॥ Bछ्.Sछ्॥

ं४।४२अ/ तां विवर्जयतस्तस्य रजसा समभिप्लुताम् ।
ं४।४२च्/ प्रज्ञा तेजो बलं चक्षुरायुश्चैव प्रवर्धते ॥ Bछ्.Sछ्॥

ं४।४३अ/ नाश्नीयाद् भार्यया सार्धं नैनामीक्षेत चाश्नतीम् ।
ं४।४३च्/ क्षुवतीं जृम्भमाणां वा न चासीनां यथासुखम् ॥ Bछ्.Sछ्॥

ं४।४४अ/ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् ।
ं४।४४च्/ न पश्येत् प्रसवन्तीं च तेजस्कामो द्विजोत्तमः ॥ Bछ्.Sछ्॥

ं४।४५अ/ नान्नमद्यादेकवासा न नग्नः स्नानमाचरेत् ।
ं४।४५च्/ न मूत्रं पथि कुर्वीत न भस्मनि न गोव्रजे ॥ Bछ्.Sछ्॥

ं४।४६अ/ न फालकृष्टे न जले न चित्यां न च पर्वते ।
ं४।४६च्/ न जीर्णदेवायतने न वल्मीके कदा चन ॥ Bछ्.Sछ्॥

ं४।४७अ/ न ससत्त्वेषु गर्तेषु न गच्छन्नपि न स्थितः ।
ं४।४७च्/ न नदीतीरमासाद्य न च पर्वतमस्तके ॥ Bछ्.Sछ्॥

ं४।४८अ/ वायुअग्निविप्रमादित्यमपः पश्यंस्तथैव गाः ।
ं४।४८च्/ न कदा चन कुर्वीत विण्मूत्रस्य विसर्जनम् ॥ Bछ्.Sछ्॥

ंख़्४।४९अ[५०ंअ]/ तिरस्कृत्योच्चरेत् काष्ठलोष्ठपत्रतृणादिना । %[ं।तृणादि च]
ंख़्४।४९च्[५०ंच्]/ नियम्य प्रयतो वाचं संवीताङ्गोऽवगुण्ठितः ॥ Bछ्.Sछ्॥

ंख़्४।५०अ[५१ंअ]/ मूत्रोच्चारसमुत्सर्गं दिवा कुर्यादुदङ्मुखः ।
ंख़्४।५०च्[५१ंच्]/ दक्षिणाऽभिमुखो रात्रौ संध्यायोश्च यथा दिवा ॥ Bछ्.Sछ्॥

ंख़्४।५१अ[५२ंअ]/ छायायामन्धकारे वा रात्रावहनि वा द्विजः ।
ंख़्४।५१च्[५२ंच्]/ यथासुखमुखः कुर्यात् प्राणबाधभयेषु च ॥ Bछ्.Sछ्॥

ंख़्४।५२अ[४९ंअ]/ प्रत्यग्निं प्रतिसूर्यं च प्रतिसोमोदकद्विजम् ।
ंख़्४।५२च्[४९ंच्]/ प्रतिगु प्रतिवातं च प्रज्ञा नश्यति मेहतः ॥ Bछ्.Sछ्॥ %[क्:प्रतिगां प्रतिवातं]
ं४।५३अ/ नाग्निं मुखेनोपधमेन्नग्नां नैक्षेत च स्त्रियम् ।
ं४।५३च्/ नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ Bछ्.Sछ्॥

ं४।५४अ/ अधस्तान्नोपदध्याच्च न चैनमभिलङ्घयेत् ।
ं४।५४च्/ न चैनं पादतः कुर्यान्न प्राणाबाधमाचरेत् ॥ Bछ्.Sछ्॥

ं४।५५अ/ नाश्नीयात् संधिवेलायां न गच्छेन्नापि संविशेत् । %[
ं४।५५च्/ न चैव प्रलिखेद् भूमिं नात्मनोऽपहरेत् स्रजम् ॥ Bछ्.Sछ्॥

ं४।५६अ/ नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।
ं४।५६च्/ अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा ।
ं४।५७अ/ नैकः सुप्यात्शून्यगेहे न श्रेयांसं प्रबोधयेत् । %[शून्यगृहे स्वप्यान्]
ं४।५७च्/ नोदक्ययाऽभिभाषेत यज्ञं गच्छेन्न चावृतः ॥ Bछ्.Sछ्॥

ं४।५८अ/ अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ ।
ं४।५८च्/ स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत् ॥ Bछ्.Sछ्॥

ं४।५९अ/ न वारयेद् गां धयन्तीं न चाचक्षीत कस्य चित् ।
ं४।५९च्/ न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद् दर्शयेद् बुधः ॥ Bछ्.Sछ्॥

ं४।६०अ/ नाधर्मिके वसेद् ग्रामे न व्याधिबहुले भृशम् ।
ं४।६०च्/ नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ॥ Bछ्.Sछ्॥

ं४।६१अ/ न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते ।
ं४।६१च्/ न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः ॥ Bछ्.Sछ्॥

ं४।६२अ/ न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यमाचरेत् ॥

ं४।६२च्/ नातिप्रगे नातिसायं न सायं प्रातराशितः ॥ Bछ्.Sछ्॥

ं४।६३अ/ न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् ।
ं४।६३च्/ नोत्सङ्गे भक्षयेद् भक्ष्यान्न जातु स्यात् कुतूहली ॥ Bछ्.Sछ्॥

ं४।६४अ/ न नृत्येदथ वा गायेन्न वादित्राणि वादयेत् । %[ंंअ नृत्येन्नैव गायेच्च न वादित्राणि वादयेत्)]
ं४।६४च्/ नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ॥ Bछ्.Sछ्॥ %[ंंअ च रक्तो विरोधयेत्]
ं४।६५अ/ न पादौ धावयेत् कांस्ये कदा चिदपि भाजने ।
ं४।६५च्/ न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ Bछ्.Sछ्॥

ं४।६६अ/ उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
ं४।६६च्/ उपवीतमलङ्कारं स्रजं करकमेव च ॥ Bछ्.Sछ्॥

ं४।६७अ/ नाविनीतैर्भजेद् धुर्यैर्न च क्षुध्व्याधिपीडितैः । %[ंंआविनीतैर्व्रजेद्)]
ं४।६७च्/ न भिन्नशृङ्गाक्षिखुरैर्न वालधिविरूपितैः ॥ Bछ्.Sछ्॥

ं४।६८अ/ विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः ।
ं४।६८च्/ वर्णरूपोपसम्पन्नैः प्रतोदेनातुदन् भृशम् ॥ Bछ्.Sछ्॥ %[ं।प्रतोदेनाक्षिपन्]
ं४।६९अ/ बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथाऽसनम् ।
ं४।६९च्/ न छिन्द्यान्नखरोमाणि दन्तैर्नोत्पाटयेन्नखान् ॥ Bछ्.Sछ्॥ %[ंंअ च्छिन्द्यान्]
ं४।७०अ/ न मृत्लोष्ठं च मृद्नीयान्न छिन्द्यात् करजैस्तृणम् । %[ंॅह्छिन्द्यात्]
ं४।७०च्/ न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ॥ Bछ्.Sछ्॥

ं४।७१अ/ लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः ।
ं४।७१च्/ स विनाशं व्रजत्याशु सूचकाऽशुचिरेव च ॥ Bछ्.Sछ्॥ %[ं।सूचकोऽशुचिरेव च]
ं४।७२अ/ न विगर्ह्य कथां कुर्याद् बहिर्माल्यं न धारयेत् । %[ं। न विगृह्य कथां कुर्याद्]
ं४।७२च्/ गवां च यानं पृष्ठेन सर्वथैव विगर्हितम् ॥ Bछ्.Sछ्॥

ं४।७३अ/ अद्वारेण च नातीयाद् ग्रामं वा वेश्म वाऽवृतम् ।
ं४।७३च्/ रात्रौ च वृक्षमूलानि दूरतः परिवर्जयेत् ॥ Bछ्.Sछ्॥

ं४।७४अ/ नाक्षैर्दीव्येत् कदा चित् तु स्वयं नोपानहौ हरेत् ।
ं४।७४च्/ शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ॥ Bछ्.Sछ्॥

ं४।७५अ/ सर्वं च तिलसंबद्धं नाद्यादस्तमिते रवौ ।
ं४।७५च्/ न च नग्नः शयीतैह न चोच्छिष्टः क्व चिद् व्रजेत् ॥ Bछ्.Sछ्॥

ं४।७६अ/ आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ।
ं४।७६च्/ आर्द्रपादस्तु भुञ्जानो दीर्घमायुरवाप्नुयात् ॥ Bछ्.Sछ्॥

ं४।७७अ/ अचक्षुर्विषयं दुर्गं न प्रपद्येत कर्हि चित् ।
ं४।७७च्/ न विण्मूत्रमुदीक्षेत न बाहुभ्यां नदीं तरेत् ॥ Bछ्.Sछ्॥

ं४।७८अ/ अधितिष्ठेन्न केशांस्तु न भस्मास्थिकपालिकाः ।
ं४।७८च्/ न कार्पासास्थि न तुषान् दीर्घमायुर्जिजीविषुः ॥ Bछ्.Sछ्॥

ं४।७९अ/ न संवसेच्च पतितैर्न चाण्डालैर्न पुल्कसैः ।
ं४।७९च्/ न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ Bछ्.Sछ्॥

ं४।८०अ/ न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
ं४।८०च्/ न चास्योपदिशेद् धर्मं न चास्य व्रतमादिशेत् ॥ Bछ्.Sछ्॥

ं४।८१अ/ यो ह्यस्य धर्ममाचष्टे यश्चैवादिशति व्रतम् ।
ं४।८१च्/ सोऽसंवृतं नाम तमः सह तेनैव मज्जति ॥ Bछ्.Sछ्॥

ं४।८२अ/ न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः ।
ं४।८२च्/ न स्पृशेच्चैतदुच्छिष्टो न च स्नायाद् विना ततः ॥ Bछ्.Sछ्॥

ं४।८३अ/ केशग्रहान् प्रहारांश्च शिरस्येतान् विवर्जयेत् ।
ं४।८३च्/ शिरःस्नातश्च तैलेन नाङ्गं किं चिदपि स्पृशेत् ॥ Bछ्.Sछ्॥

ं४।८४अ/ न राज्ञः प्रतिगृह्णीयादराजन्यप्रसूतितः ।
ं४।८४च्/ सूनाचक्रध्वजवतां वेशेनैव च जीवताम् ॥ Bछ्.Sछ्॥

ं४।८५अ/ दशसूनासमं चक्रं दशचक्रसमो ध्वजः ।
ं४।८५च्/ दशध्वजसमो वेशो दशवेशसमो नृपः ॥ Bछ्.Sछ्॥

ं४।८६अ/ दश सूणासहस्राणि यो वाहयति सौनिकः ।
ं४।८६च्/ तेन तुल्यः स्मृतो राजा घोरस्तस्य प्रतिग्रहः ॥ Bछ्.Sछ्॥

ं४।८७अ/ यो राज्ञः प्रतिगृह्णाति लुब्धस्यौच्छास्त्रवर्तिनः ।
ं४।८७च्/ स पर्यायेण यातीमान्नरकानेकविंशतिम् ॥ Bछ्.Sछ्॥

ं४।८८अ/ तामिस्रमन्धतामिस्रं महारौरवरौरवौ ।
ं४।८८च्/ नरकं कालसूत्रं च महानरकमेव च ॥ Bछ्.Sछ्॥

ं४।८९अ/ सञ्जीवनं महावीचिं तपनं सम्प्रतापनम् ।
ं४।८९च्/ संहातं च सकाकोलं कुड्मलं प्रतिमूर्तिकम् ॥ Bछ्.Sछ्॥ %[ं।पूतिमृत्तिकं ]
ं४।९०अ/ लोहशङ्कुं ऋजीषं च पन्थानं शाल्मलीं नदीम् ।
ं४।९०च्/ असिपत्रवनं चैव लोहदारकमेव च ॥ Bछ्.Sछ्॥

ं४।९१अ/ एतद् विदन्तो विद्वांसो ब्राह्मणा ब्रह्मवादिनः ।
ं४।९१च्/ न राज्ञः प्रतिगृह्णन्ति प्रेत्य श्रेयोऽभिकाङ्क्षिणः ॥ Bछ्.Sछ्॥

ं४।९२अ/ ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
ं४।९२च्/ कायक्लेशांश्च तन्मूलान् वेदतत्त्वार्थमेव च ॥ Bछ्.Sछ्॥

ं४।९३अ/ उत्थायावश्यकं कृत्वा कृतशौचः समाहितः ।
ं४।९३च्/ पूर्वां संध्यां जपंस्तिष्ठेत् स्वकाले चापरां चिरम् ॥ Bछ्.Sछ्॥ %[
ं४।९४अ/ ऋषयो दीर्घसंध्यत्वाद् दीर्घमायुरवाप्नुयुः ।
ं४।९४च्/ प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥ Bछ्.Sछ्॥

ं४।९५अ/ श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि ।
ं४।९५च्/ युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान् ॥ Bछ्.Sछ्॥

ं४।९६अ/ पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजः ।
ं४।९६च्/ माघशुक्लस्य वा प्राप्ते पूर्वाह्णे प्रथमेऽहनि ॥ Bछ्.Sछ्॥

ं४।९७अ/ यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः ।
ं४।९७च्/ विरमेत् पक्षिणीं रात्रिं तदेवैकमहर्निशम् ॥ Bछ्.Sछ्॥

ं४।९८अ/ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् ।
ं४।९८च्/ वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु सम्पठेत् ॥ Bछ्.Sछ्॥

ं४।९९अ/ नाविस्पष्टमधीयीत न शूद्रजनसन्निधौ ।
ं४।९९च्/ न निशान्ते परिश्रान्तो ब्रह्माधीत्य पुनः स्वपेत् ॥ Bछ्.Sछ्॥

ं४।१००अ/ यथोदितेन विधिना नित्यं छन्दस्कृतं पठेत् ।
ं४।१००च्/ ब्रह्म छन्दस्कृतं चैव द्विजो युक्तो ह्यनापदि ॥Bछ्.Sछ्॥

ं४।१०१अ/ इमान्नित्यमनध्यायानधीयानो विवर्जयेत् ।
ं४।१०१च्/ अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ॥ Bछ्.Sछ्॥

ं४।१०२अ/ कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने ।
ं४।१०२च्/ एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ॥ Bछ्.Sछ्॥

ं४।१०३अ/ विद्युत्स्तनितवर्षेषु महोल्कानां च सम्प्लवे ।
ं४।१०३च्/ आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ Bछ्.Sछ्॥

ं४।१०४अ/ एतांस्त्वभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु ।
ं४।१०४च्/ तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ Bछ्.Sछ्॥

ं४।१०५अ/ निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।
ं४।१०४च्/ एतानाकालिकान् विद्यादनध्यायान् ऋतावपि ॥ Bछ्.Sछ्॥

ं४।१०६अ/ प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने ।
ं४।१०६च्/ सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ॥ Bछ्.Sछ्॥

ं४।१०७अ/ नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च ।
ं४।१०७च्/ धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ॥ Bछ्.Sछ्॥ %[ं।सर्वशः ]
ं४।१०८अ/ अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ ।
ं४।१०८च्/ अनध्यायो रुद्यमाने समवाये जनस्य च ॥ Bछ्.Sछ्॥

ं४।१०९अ/ उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।
ं४।१०९च्/ उच्छिष्टः श्राद्धभुक् चैव मनसाऽपि न चिन्तयेत् ॥ Bछ्.Sछ्॥

ं४।११०अ/ प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । %[ंएकोद्दिष्टनिकेतनम्]
ं४।११०च्/ त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ॥ Bछ्.Sछ्॥

ं४।१११अ/ यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति ।
ं४।१११च्/ विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥ Bछ्.Sछ्॥

ं४।११२अ/ शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।
ं४।११२च्/ नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥ Bछ्.Sछ्॥

ं४।११३अ/ नीहारे बाणशब्दे च संध्ययोरेव चोभयोः ।
ं४।११३च्/ अमावास्याचतुर्दश्योः पौर्णमास्य्ऽष्टकासु च ॥ Bछ्.Sछ्॥

ं४।११४अ/ अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।
ं४।११४च्/ ब्रह्माष्टकपौर्णमास्यौ तस्मात् ताः परिवर्जयेत् ॥ Bछ्.Sछ्॥

ं४।११५अ/ पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।
ं४।११५च्/ श्वखरोष्ट्रे च रुवति पङ्क्तो च न पठेद् द्विजः ॥ Bछ्.Sछ्॥

ं४।११६अ/ नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा ।
ं४।११६च्/ वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ॥ Bछ्.Sछ्॥

ं४।११७अ/ प्राणि वा यदि वाऽप्राणि यत् किं चित्श्राद्धिकं भवेत् ।
ं४।११७च्/ तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ??॥ Bछ्.Sछ्॥

ं४।११८अ/ चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते । % ][ंॅहोरैरुपप्लुते, संभ्रमे]
ं४।११८च्/ आकालिकमनध्यायं विद्यात् सर्वाद्भुतेषु च ॥ Bछ्.Sछ्॥

ं४।११९अ/ उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।
ं४।११९च्/ अष्टकासु त्वहोरात्रं ऋत्वन्तासु च रात्रिषु ॥ Bछ्.Sछ्॥

ं४।१२०अ/ नाधीयीताश्वमारूढो न वृक्षं न च हस्तिनम् ।
ं४।१२०च्/ न नावं न खरं नोष्ट्रं नैरिणस्थो न यानगः ॥ Bछ्.Sछ्॥

ं४।१२१अ/ न विवादे न कलहे न सेनायां न सङ्गरे ।
ं४।१२१च्/ न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ॥ Bछ्.Sछ्॥

ं४।१२२अ/ अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् ।
ं४।१२२च्/ रुधिरे च स्रुते गात्रात्शस्त्रेण च परिक्षते ॥ Bछ्.Sछ्॥

ं४।१२३अ/ सामध्वनावृग्यजुषी नाधीयीत कदा चन ।
ं४।१२३च्/ वेदस्याधीत्य वाऽप्यन्तमारण्यकमधीत्य च ॥ Bछ्.Sछ्॥

ं४।१२४अ/ ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः ।
ं४।१२४च्/ सामवेदः स्मृतः पित्र्यस्तस्मात् तस्याशुचिर्ध्वनिः ॥ Bछ्.Sछ्॥

ं४।१२५अ/ एतद् विद्वन्तो ??विद्वांसस्त्रयीनिष्कर्षमन्वहम् ।
ं४।१२५च्/ क्रमतः पूर्वमभ्यस्य पश्चाद् वेदमधीयते ॥ Bछ्.Sछ्॥

ं४।१२६अ/ पशुमण्डूकमार्जारश्वसर्पनकुलाखुभिः ।
ं४।१२६च्/ अन्तरागमने विद्यादनध्यायमहर्निशम् ॥ Bछ्.Sछ्॥

ं४।१२७अ/ द्वावेव वर्जयेन्नित्यमनध्यायौ प्रयत्नतः ।
ं४।१२७च्/ स्वाध्यायभूमिं चाशुद्धमात्मानं चाशुचिं द्विजः ॥ Bछ्.Sछ्॥

ं४।१२८अ/ अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् ।
ं४।१२८च्/ ब्रह्मचारी भवेन्नित्यमप्यर्तौ स्नातको द्विजः ॥ Bछ्.Sछ्॥

ं४।१२९अ/ न स्नानमाचरेद् भुक्त्वा नातुरो न महानिशि ।
ं४।१२९च्/ न वासोभिः सहाजस्रं नाविज्ञाते जलाशये ॥ Bछ्.Sछ्॥

ं४।१३०अ/ देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा ।
ं४।१३०च्/ नाक्रामेत् कामतश्छायां बभ्रुणो दीक्षितस्य च ॥ Bछ्.Sछ्॥

ं४।१३१अ/ मध्यंदिनेऽर्धरात्रे च श्राद्धं भुक्त्वा च सामिषम् ।
ं४।१३१च्/ संध्ययोरुभयोश्चैव न सेवेत चतुष्पथम् ॥ Bछ्.Sछ्॥

ं४।१३२अ/ उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च ।
ं४।१३२च्/ श्लेश्मनिष्ठ्यूतवान्तानि नाधितिष्ठेत् तु कामतः ॥ Bछ्.Sछ्॥

ं४।१३३अ/ वैरिणं नोपसेवेत सहायं चैव वैरिणः ।
ं४।१३३च्/ अधार्मिकं तस्करं च परस्यैव च योषितम् ॥ Bछ्.Sछ्॥

ं४।१३४अ/ न हीदृशमनायुष्यं लोके किं चन विद्यते ।
ं४।१३४च्/ यादृशं पुरुषस्येह परदारोपसेवनम् ॥ Bछ्.Sछ्॥

ं४।१३५अ/ क्षत्रियं चैव सर्पं च ब्राह्मणं च बहुश्रुतम् ।
ं४।१३५च्/ नावमन्येत वै भूष्णुः कृशानपि कदा चन ॥ Bछ्.Sछ्॥

ं४।१३६अ/ एतत् त्रयं हि पुरुषं निर्दहेदवमानितम् ।
ं४।१३६च्/ तस्मादेतत् त्रयं नित्यं नावमन्येत बुद्धिमान् ॥ Bछ्.Sछ्॥

ं४।१३७अ/ नात्मानमवमन्येत पुर्वाभिरसमृद्धिभिः ।
ं४।१३७च्/ आ मृत्योः श्रियमन्विच्छेन्नैनां मन्येत दुर्लभाम् ॥ Bछ्.Sछ्॥

ं४।१३८अ/ सत्यं ब्रूयात् प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् ।
ं४।१३८च्/ प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ Bछ्.Sछ्॥

ं४।१३९अ/ भद्रं भद्रमिति ब्रूयाद् भद्रमित्येव वा वदेत् ।
ं४।१३९च्/ शुष्कवैरं विवादं च न कुर्यात् केन चित् सह ॥ Bछ्.Sछ्॥

ं४।१४०अ/ नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ।
ं४।१४०च्/ नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ Bछ्.Sछ्॥

ं४।१४१अ/ हीनाङ्गानतिरिक्ताङ्गान् विद्याहीनान् वयोऽधिकान् ।% Bछ्.Sछ्॥ %[ं।वयो’अतिगान्]
ं४।१४१च्/ रूपद्रविणहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ Bछ्.Sछ्॥ %[ं रूपद्रव्यहीनांश्च]
ं४।१४२अ/ न स्पृशेत् पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलाण् ।
ं४।१४२च्/ न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान् दिवा ॥ Bछ्.Sछ्॥ %[ं।स्वस्थो ज्योतिर्गणान् दिवि]
ं४।१४३अ/ स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।
ं४।१४३च्/ गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ Bछ्.Sछ्॥

ं४।१४४अ/ अनातुरः स्वानि खानि न स्पृशेदनिमित्ततः ।
ं४।१४४च्/ रोमाणि च रहस्यानि सर्वाण्येव विवर्जयेत् ॥ Bछ्.Sछ्॥

ं४।१४५अ/ मङ्गलाचारयुक्तः स्यात् प्रयतात्मा जितेन्द्रियः ।
ं४।१४५च्/ जपेच्च जुहुयाच्चैव नित्यमग्निमतन्द्रितः ॥ Bछ्.Sछ्॥

ं४।१४६अ/ मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम् ।
ं४।१४६च्/ जपतां जुह्वतां चैव विनिपातो न विद्यते ॥ Bछ्.Sछ्॥

ं४।१४७अ/ वेदमेवाभ्यसेन्नित्यं यथाकालमतन्द्रितः । %[ं।वेदमेव जपेन्]
ं४।१४७च्/ तं ह्यस्याहुः परं धर्ममुपधर्मोऽन्य उच्यते ॥ Bछ्.Sछ्॥

ं४।१४८अ/ वेदाभ्यासेन सततं शौचेन तपसैव च ।
ं४।१४८च्/ अद्रोहेण च भूतानां जातिं स्मरति पौर्विकीम् ॥ Bछ्.Sछ्॥

ं४।१४९अ/ पौर्विकीं संस्मरन् जातिं ब्रह्मैवाभ्यस्यते पुनः । %[ं।द्विजः]
ं४।१४९च्/ ब्रह्माभ्यासेन चाजस्रमनन्तं सुखमश्नुते ॥ Bछ्.Sछ्॥

ं४।१५०अ/ सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः । %[ं।सावित्रान् शान्तिहोमांश्]
ं४।१५०च्/ पितॄंश्चैवाष्टकास्वर्चेन्नित्यमन्वष्टकासु च ॥ Bछ्.Sछ्॥

ं४।१५१अ/ दूरादावसथान् मूत्रं दूरात् पादावसेचनम् ।
ं४।१५१च्/ उच्छिष्टान्ननिषेकं च दूरादेव समाचरेत् ॥ Bछ्.Sछ्॥

ं४।१५२अ/ मैत्रं प्रसाधनं स्नानं दन्तधावनमञ्जनम् ।
ं४।१५२च्/ पूर्वाह्ण एव कुर्वीत देवतानां च पूजनम् ॥ Bछ्.Sछ्॥

ं४।१५३अ/ दैवतान्यभिगच्छेत् तु धार्मिकांश्च द्विजोत्तमान् ।
ं४।१५३च्/ ईश्वरं चैव रक्षार्थं गुरूनेव च पर्वसु ।
ं४।१५४अ/ अभिवादयेद् वृद्धांश्च दद्याच्चैवासनं स्वकम् ।
ं४।१५४च्/ कृताञ्जलिरुपासीत गच्छतः पृष्ठतोऽन्वियात् ॥ Bछ्.Sछ्॥

ं४।१५५अ/ श्रुतिस्मृत्योदितं सम्यग़् निबद्धं स्वेषु कर्मसु ।
ं४।१५५च्/ धर्ममूलं निषेवेत सदाचारमतन्द्रितः ॥ Bछ्.Sछ्॥

ं४।१५६अ/ आचारात्लभते ह्यायुराचारादीप्सिताः प्रजाः ।
ं४।१५६च्/ आचाराद् धनमक्षय्यमाचारो हन्त्यलक्षणम् ॥ Bछ्.Sछ्॥

ं४।१५७अ/ दुराचारो हि पुरुषो लोके भवति निन्दितः ।
ं४।१५७च्/ दुःखभागी च सततं व्याधितोऽल्पायुरेव च ॥ Bछ्.Sछ्॥

ं४।१५८अ/ सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः ।
ं४।१५८च्/ श्रद्दधानोऽनसूयश्च शतं वर्षाणि जीवति ॥ Bछ्.Sछ्॥

ं४।१५९अ/ यद् यत् परवशं कर्म तत् तद् यत्नेन वर्जयेत् ॥ Bछ्.Sछ्॥

ं४।१५९च्/ यद् यदात्मवशं तु स्यात् तत् तत् सेवेत यत्नतः ।
ं४।१६०अ/ सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
ं४।१६०च्/ एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ Bछ्.Sछ्॥

ं४।१६१अ/ यत् कर्म कुर्वतोऽस्य स्यात् परितोषोऽन्तरात्मनः ।
ं४।१६१च्/ तत् प्रयत्नेन कुर्वीत विपरीतं तु वर्जयेत् ॥ Bछ्.Sछ्॥

ं४।१६२अ/ आचार्यं च प्रवक्तारं पितरं मातरं गुरुम् ।
ं४।१६२च्/ न हिंस्याद् ब्राह्मणान् गाश्च सर्वांश्चैव तपस्विनः ॥ Bछ्.Sछ्॥

ं४।१६३अ/ नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम् ।
ं४।१६३च्/ द्वेषं दम्भं च मानं च क्रोधं तैक्ष्ह्ण्यं च वर्जयेत् ॥ Bछ्.Sछ्॥ %[ं।द्वेषं स्तम्भं च]
ं४।१६४अ/ परस्य दण्डं नोद्यच्छेत् क्रुद्धो नैनं निपातयेत् ।
ं४।१६४च्/ अन्यत्र पुत्रात्शिष्याद् वा शिष्ट्यर्थं ताडयेत् तु तौ ॥ Bछ्.Sछ्॥

ं४।१६५अ/ ब्राह्मणायावगुर्यैव द्विजातिर्वधकाम्यया ??।
ं४।१६५च्/ शतं वर्षाणि तामिस्रे नरके परिवर्तते ॥ Bछ्.Sछ्॥

ं४।१६६अ/ ताडयित्वा तृणेनापि संरम्भात्मतिपूर्वकम् ।
ं४।१६६च्/ एकविंशतीमाजातीः पापयोनिषु जायते ॥ Bछ्.Sछ्॥

ं४।१६७अ/ अयुध्यमानस्योत्पाद्य ब्राह्मणस्यासृगङ्गतः ।
ं४।१६७च्/ दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥ Bछ्.Sछ्॥

ं४।१६८अ/ शोणितं यावतः पांसून् सङ्गृह्णाति महीतलात् ।
ं४।१६८च्/ तावतोऽब्दानमुत्रान्यैः शोणितोत्पादकोऽद्यते ॥ Bछ्.Sछ्॥

ं४।१६९अ/ न कदा चिद् द्विजे तस्माद् विद्वानवगुरेदपि ।
ं४।१६९च्/ न ताडयेत् तृणेनापि न गात्रात् स्रावयेदसृक् ॥ Bछ्.Sछ्॥

ं४।१७०अ/ अधार्मिको नरो यो हि यस्य चाप्यनृतं धनम् ।
ं४।१७०च्/ हिंसारतश्च यो नित्यं नैहासौ सुखमेधते ॥ Bछ्.Sछ्॥ %[ं। हिंसारतिश्]
ं४।१७१अ/ न सीदन्नपि धर्मेण मनोऽधर्मे निवेशयेत् ।
ं४।१७१च्/ अधार्मिकानां पापानामाशु पश्यन् विपर्ययम् ॥ Bछ्.Sछ्॥

ं४।१७२अ/ नाधर्मश्चरितो लोके सद्यः फलति गौरिव ।
ं४।१७२च्/ शनैरावर्त्यमानस्तु कर्तुर्मूलानि कृन्तति ॥ Bछ्.Sछ्॥

ं४।१७३अ/ यदि नात्मनि पुत्रेषु न चेत् पुत्रेषु नप्तृषु ।
ं४।१७३च्/ न त्वेव तु कृतोऽधर्मः कर्तुर्भवति निष्फलः ॥ Bछ्.Sछ्॥ %[ं।कृतो धर्मः?]
ं४।१७४अ/ अधर्मेणैधते तावत् ततो भद्राणि पश्यति ।
ं४।१७४च्/ ततः सपत्नान् जयति समूलस्तु विनश्यति ॥ Bछ्.Sछ्॥

ं४।१७५अ/ सत्यधर्मार्यवृत्तेषु शौचे चैवारमेत् सदा ।
ं४।१७५च्/ शिष्यांश्च शिष्याद् धर्मेण वाच्।बाहूदरसंयतः ॥ Bछ्.Sछ्॥

ं४।१७६अ/ परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
ं४।१७६च्/ धर्मं चाप्यसुखोदर्कं लोकसङ्क्रुष्टमेव च ॥ Bछ्.Sछ्॥

ं४।१७७अ/ न पाणिपादचपलो न नेत्रचपलोऽनृजुः ।
ं४।१७७च्/ न स्याद् वाक्चपलश्चैव न परद्रोहकर्मधीः ॥ Bछ्.Sछ्॥

ं४।१७८अ/ येनास्य पितरो याता येन याताः पितामहाः ।
ं४।१७८च्/ तेन यायात् सतां मार्गं तेन गच्छन्न रिष्यति ॥ Bछ्.Sछ्॥

ं४।१७९अ/ ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः ।
ं४।१७९च्/ बालवृद्धातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः ॥ Bछ्.Sछ्॥

ं४।१८०अ/ मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया ।
ं४।१८०च्/ दुहित्रा दासवर्गेण विवादं न समाचरेत् ॥ Bछ्.Sछ्॥

ं४।१८१अ/ एतैर्विवादान् संत्यज्य सर्वपापैः प्रमुच्यते ।
ं४।१८१च्/ एतैर्जितैश्च जयति सर्वान्लोकानिमान् गृही ॥ Bछ्.Sछ्॥

ं४।१८२अ/ आचार्यो ब्रह्मलोकैशः प्राजापत्ये पिता प्रभुः ।
ं४।१८२च्/ अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः ॥ Bछ्.Sछ्॥

ं४।१८३अ/ जामयोऽप्सरसां लोके वैश्वदेवस्य बान्धवाः ।
ं४।१८३च्/ संबन्धिनो ह्यपां लोके पृथिव्यां मातृमातुलौ ॥ Bछ्.Sछ्॥

ं४।१८४अ/ आकाशेशास्तु विज्ञेया बालवृद्धकृशातुराः ।
ं४।१८४च्/ भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः ॥ Bछ्.Sछ्॥

ं४।१८५अ/ छाया स्वो दासवर्गश्च दुहिता कृपणं परम् ।
ं४।१८५च्/ तस्मादेतैरधिक्षिप्तः सहेतासञ्ज्वरः सदा ॥ Bछ्.Sछ्॥

ं४।१८६अ/ प्रतिग्रहसमर्थोऽपि प्रसङ्गं तत्र वर्जयेत् ।
ं४।१८६च्/ प्रतिग्रहेण ह्यस्याशु ब्राह्मं तेजः प्रशाम्यति ॥ Bछ्.Sछ्॥

ं४।१८७अ/ न द्रव्याणामविज्ञाय विधिं धर्म्यं प्रतिग्रहे ।
ं४।१८७च्/ प्राज्ञः प्रतिग्रहं कुर्यादवसीदन्नपि क्षुधा ॥ Bछ्.Sछ्॥

ं४।१८८अ/ हिरण्यं भूमिमश्वं गामन्नं वासस्तिलान् घृतम् ।
ं४।१८८च्/ प्रतिगृह्णन्नविद्वांस्तु भस्मीभवति दारुवत् ॥ Bछ्.Sछ्॥

ं४।१८९अ/ हिरण्यमायुरन्नं च भूर्गोश्चाप्योषतस्तनुम् ।
ं४।१८९च्/ अश्वश्चक्षुस्त्वचं वासो घृतं तेजस्तिलाः प्रजाः ॥ Bछ्.Sछ्॥

ं४।१९०अ/ अतपास्त्वनधीयानः प्रतिग्रहरुचिर्द्विजः ।
ं४।१९०च्/ अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ॥ Bछ्.Sछ्॥

ं४।१९१अ/ तस्मादविद्वान् बिभियाद् यस्मात् तस्मात् प्रतिग्रहात् ।
ं४।१९१च्/ स्वल्पकेनाप्यविद्वान् हि पङ्के गौरिव सीदति ॥ Bछ्.Sछ्॥

ं४।१९२अ/ न वार्यपि प्रयच्छेत् तु बैडालव्रतिके द्विजे ।
ं४।१९२च्/ न बकव्रतिके पापे नावेदविदि धर्मवित् ॥ Bछ्.Sछ्॥

ं४।१९३अ/ त्रिष्वप्येतेषु दत्तं हि विधिनाऽप्यर्जितं धनम् ।
ं४।१९३च्/ दातुर्भवत्यनर्थाय परत्रादातुरेव च ॥ Bछ्.Sछ्॥

ं४।१९४अ/ यथा प्लवेनोपलेन निमज्जत्युदके तरन् ।
ं४।१९४च्/ तथा निमज्जतोऽधस्तादज्ञौ दातृप्रतीच्छकौ ॥ Bछ्.Sछ्॥

ं४।१९५अ/ धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः ॥ Bछ्.Sछ्॥

ं४।१९५च्/ बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसंधकः ॥ Bछ्.Sछ्॥

%[ईन् थे फ़ोल्लोविन्ग् नुम्बेरिन्गोफ़् ं, ञ्ह’सेद् हवे थे समे ओने वित्ः क्]
ं४।१९६अ[१९७ंअ]/ अधोदृष्टिर्नैष्कृतिकः स्वार्थसाधनतत्परः ।
ं४।१९६च्[१९७ंच्]/ शठो मिथ्याविनीतश्च बकव्रतचरो द्विजः ॥ Bछ्.Sछ्॥

ं४।१९७अ[१९८ंअ]/ ये बकव्रतिनो विप्रा ये च मार्जारलिङ्गिनः ।
ं४।१९७च्[१९८ंच्]/ ते पतन्त्यन्धतामिस्रे तेन पापेन कर्मणा ॥ Bछ्.Sछ्॥

ं४।१९८अ[१९९ंअ]/ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् ।
ं४।१९८च्[१९९ंच्]/ व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ Bछ्.Sछ्॥

ं४।१९९अ[२००ंअ]/ प्रेत्येह चेदृशा विप्रा गर्ह्यन्ते ब्रह्मवादिभिः ।
ं४।१९९च्[२००ंच्]/ छद्मना चरितं यच्च व्रतं रक्षांसि गच्छति ॥ Bछ्.Sछ्॥

ं४।२००अ[२०१ंअ]/ अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति ।
ं४।२००च्[२०१ंच्]/ स लिङ्गिनां हरत्येनस्तिर्यग्योनौ च जायते ॥ Bछ्.Sछ्॥

ं४।२०१अ[२०२ंअ]/ परकीयनिपानेषु न स्नायाद् हि कदा चन । %[क्:स्नायाच्च कदा चन ]
ं४।२०१च्[२०२ंच्]/ निपानकर्तुः स्नात्वा तु दुष्कृतांशेन लिप्यते ॥ Bछ्.Sछ्॥

ं४।२०२अ[२०३ंअ]/ यानशय्याऽऽसनान्यस्य कूपोद्यानगृहाणि च ।
ं४।२०२च्[२०३ंच्]/ अदत्तान्युपयुञ्जान एनसः स्यात् तुरीयभाक् ॥ Bछ्.Sछ्॥

ं४।२०३अ[२०४ंअ]/ नदीषु देवखातेषु तडागेषु सरःसु च ।
ं४।२०३च्[२०४ंच्]/ स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥ Bछ्.Sछ्॥

ं४।२०४अ[२०५ंअ]/ यमान् सेवेत सततं न नित्यं नियमान् बुधः ।
ं४।२०४च्[२०५ंच्]/ यमान् पतत्यकुर्वाणो नियमान् केवलान् भजन् ॥ Bछ्.Sछ्॥

ं४।२०५अ[२०६ंअ]/ नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।
ं४।२०५च्[२०६ंच्]/ स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ॥ Bछ्.Sछ्॥

ं४।२०६अ[२०७ंअ]/ अश्लीकमेतत् साधूनां यत्र जुह्वत्यमी हविः । %[ंऽश्लीलम्]
ं४।२०६च्[२०७ंच्]/ प्रतीपमेतद् देवानां तस्मात् तत् परिवर्जयेत् ॥ Bछ्.Sछ्॥

ं४।२०७अ[२०८ंअ]/ मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन ।
ं४।२०७च्[२०८ंच्]/ केशकीटावपन्नं च पदा स्पृष्टं च कामतः ॥ Bछ्.Sछ्॥

ं४।२०८अ[२०९ंअ]/ भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया ।
ं४।२०८च्[२०९ंच्]/ पतत्रिणावलीढं च शुना संस्पृष्टमेव च ॥ Bछ्.Sछ्॥

ं४।२०९अ[२१०ंअ]/ गवा चान्नमुपघ्रातं घुष्टान्नं च विशेषतः ।
ं४।२०९च्[२१०ंच्]/ गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ॥ Bछ्.Sछ्॥

ं४।२१०अ[२११ंअ]/ स्तेनगायनयोश्चान्नं तक्ष्ह्णो वार्धुषिकस्य च ।
ं४।२१०च्[२११ंच्]/ दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ॥ Bछ्.Sछ्॥

ं४।२११अ[२१२ंअ]/ अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।
ं४।२११च्[२१२ंच्]/ शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टमेव च ॥ Bछ्.Sछ्॥

ं४।२१२अ[२१३ंअ]/ चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ।
ं४।२१२च्[२१३ंच्]/ उग्रान्नं सूतिकान्नं च पर्याचान्तमनिर्दशम् ॥ Bछ्.Sछ्॥

ं४।२१३अ[२१४ंअ]/ अनर्चितं वृथामांसमवीरायाश्च योषितः ।
ं४।२१३च्[२१४ंच्]/ द्विषदन्नं नगर्यन्नं पतितान्नमवक्षुतम् ॥ Bछ्.Sछ्॥

ं४।२१४अ[२१५ंअ]/ पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा ॥ Bछ्.Sछ्॥ । %[ं।क्रतुविक्रयकस्य च]
ं४।२१४च्[२१५ंच्]/ शैलूषतुन्नवायान्नं कृतघ्नस्यान्नमेव च ॥ Bछ्.Sछ्॥

ं४।२१५अ[२१६ंअ]/ कर्मारस्य निषादस्य रङ्गावतारकस्य च ।
ं४।२१५च्[२१६ंच्]/ सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ॥ Bछ्.Sछ्॥

ं४।२१६अ[२१७ंअ]/ श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ।
ं४।२१६च्[२१७ंच्]/ रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ॥ Bछ्.Sछ्॥ %[ं रजकस्य]
ं४।२१७अ[२१८ंअ]/ मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ।
ं४।२१७च्[२१८ंच्]/ अनिर्दशं च प्रेतान्नमतुष्टिकरमेव च ॥ Bछ्.Sछ्॥

ं४।२१८अ[२१९ंअ]/ राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।
ं४।२१८च्[२१९ंच्]/ आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥ Bछ्.Sछ्॥

ं४।२१९अ[२२०ंअ]/ कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च ।
ं४।२१९च्[२२०ंच्]/ गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥ Bछ्.Sछ्॥

ं४।२२०अ[२२१ंअ]/ पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नमिन्द्रियम् ।
ं४।२२०च्[२२१ंच्]/ विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥ Bछ्.Sछ्॥

ं४।२२१अ[२२२ंअ]/ य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः ।
ं४।२२१च्[२२२ंच्]/ तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ॥ Bछ्.Sछ्॥

ं४।२२२अ[२२३ंअ]/ भुक्त्वाऽतोऽन्यतमस्यान्नममत्या क्षपणं त्र्यहम् ।
ं४।२२२च्[२२३ंच्]/ मत्या भुक्त्वाऽचरेत् कृच्छ्रं रेतोविण्मूत्रमेव च ॥ Bछ्.Sछ्॥

ं४।२२३अ[२२४ंअ]/ नाद्यात्शूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः ।
ं४।२२३च्[२२४ंच्]/ आददीताममेवास्मादवृत्तावेकरात्रिकम् ।
ं४।२२४अ[२२५ंअ]/ श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।
ं४।२२४च्[२२५ंच्]/ मीमांसित्वोभयं देवाः सममन्नमकल्पयन् ॥ Bछ्.Sछ्॥

ं४।२२५अ[२२६ंअ]/ तान् प्रजापतिराहैत्य मा कृध्वं विषमं समम् ।
ं४।२२५च्[२२६ंच्]/ श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत् ॥ Bछ्.Sछ्॥

ं४।२२६अ[२२७ंअ]/ श्रद्धयेष्टं च पूर्तं च नित्यं कुर्यादतन्द्रितः ।
ं४।२२६च्[२२७ंच्]/ श्रद्धाकृते ह्यक्षये ते भवतः स्वागतैर्धनैः ॥ Bछ्.Sछ्॥

ं४।२२७अ[२२८ंअ]/ दानधर्मं निषेवेत नित्यमैष्टिकपौर्तिकम् ।
ं४।२२७च्[२२८ंच्]/ परितुष्टेन भावेन पात्रमासाद्य शक्तितः ॥ Bछ्.Sछ्॥

ं४।२२८अ[२२९ंअ]/ यत् किं चिदपि दातव्यं याचितेनानसूयया । %[ंऽनसूयता?]
ं४।२२८च्[२२९ंच्]/ उत्पत्स्यते हि तत् पात्रं यत् तारयति सर्वतः ॥ Bछ्.Sछ्॥

ं४।२२९अ[२३०ंअ]/ वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः । %[ंऽक्षयम्]
ं४।२२९च्[२३०ंच्]/ तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ Bछ्.Sछ्॥

ं४।२३०अ[२३१ंअ]/ भूमिदो भूमिमाप्नोति दीर्घमायुर्हिरण्यदः ।
ं४।२३०च्[२३१ंच्]/ गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ Bछ्.Sछ्॥

ं४।२३१अ[२३२ंअ]/ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।
ं४।२३१च्[२३२ंच्]/ अनडुहः श्रियं पुष्टां गोदो ब्रध्नस्य विष्टपम् ॥ Bछ्.Sछ्॥

ं४।२३२अ[२३३ंअ]/ यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।
ं४।२३२च्[२३३ंच्]/ धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसार्ष्टिताम् ॥ Bछ्.Sछ्॥

ं४।२३३अ[२३४ंअ]/ सर्वेषामेव दानानां ब्रह्मदानं विशिष्यते ।
ं४।२३३च्[२३४ंच्]/ वार्यन्नगोमहीवासस्।तिलकाञ्चनसर्पिषाम् ॥ Bछ्.Sछ्॥

ं४।२३४अ[२३५ंअ]/ येन येन तु भावेन यद् यद् दानं प्रयच्छति ।
ं४।२३४च्[२३५ंच्]/ तत् तत् तेनैव भावेन प्राप्नोति प्रतिपूजितः ॥ Bछ्.Sछ्॥

ं४।२३५अ[२३६ंअ]/ योऽर्चितं प्रतिगृह्णाति ददात्यर्चितमेव वा ।
ं४।२३५च्[२३६ंच्]/ तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ Bछ्.Sछ्॥

ं४।२३६अ[२३७ंअ]/ न विस्मयेत तपसा वदेदिष्ट्वा च नानृतम् ।
ं४।२३६च्[२३७ंच्]/ नार्तोऽप्यपवदेद् विप्रान्न दत्त्वा परिकीर्तयेत् ॥ Bछ्.Sछ्॥ %[ं।दत्वा]
ं४।२३७अ[२३८ंअ]/ यज्ञोऽनृतेन क्षरति तपः क्षरति विस्मयात् ।
ं४।२३७च्[२३८ंच्]/ आयुर्विप्रापवादेन दानं च परिकीर्तनात् ॥ Bछ्.Sछ्॥

ं४।२३८अ[२३९ंअ]/ धर्मं शनैः सञ्चिनुयाद् वल्मीकमिव पुत्तिकाः । %[ं।सञ्चिनुयाद्]
ं४।२३८च्[२३९ंच्]/ परलोकसहायार्थं सर्वभूतान्यपीडयन् ॥ Bछ्.Sछ्॥

ं४।२३९अ[२४०ंअ]/ नामुत्र हि सहायार्थं पिता माता च तिष्ठतः ।
ं४।२३९च्[२४०ंच्]/ न पुत्रदारं न ज्ञातिर्धर्मस्तिष्ठति केवलः ॥ Bछ्.Sछ्॥

ं४।२४०अ[२४१ंअ]/ एकः प्रजायते जन्तुरेक एव प्रलीयते ।
ं४।२४०च्[२४१ंच्]/ एकोऽनुभुङ्क्ते सुकृतमेक एव च दुष्कृतम् ॥ Bछ्.Sछ्॥

ं४।२४१अ[२४२ंअ]/ मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं क्षितौ ।
ं४।२४१च्[२४२ंच्]/ विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥ Bछ्.Sछ्॥

ं४।२४२अ[२४३ंअ]/ तस्माद् धर्मं सहायार्थं नित्यं सञ्चिनुयात्शनैः ।
ं४।२४२च्[२४३ंच्]/ धर्मेण हि सहायेन तमस्तरति दुस्तरम् ॥ Bछ्.Sछ्॥

ं४।२४३अ[२४४ंअ]/ धर्मप्रधानं पुरुषं तपसा हतकिल्बिषम् ।
ं४।२४३च्[२४४ंच्]/ परलोकं नयत्याशु भास्वन्तं खशरीरिणम् ॥ Bछ्.Sछ्॥

ं४।२४४अ[२४५ंअ]/ उत्तमैरुत्तमैर्नित्यं संबन्धानाचरेत् सह । %[ं।संभन्धान्]
ं४।२४४च्[२४५ंच्]/ निनीषुः कुलमुत्कर्षमधमानधमांस्त्यजेत् ॥ Bछ्.Sछ्॥

ं४।२४५अ[२४६ंअ]/ उत्तमानुत्तमानेव गच्छन् हीनांस्तु वर्जयन् ।
ं४।२४५च्[२४६ंच्]/ ब्राह्मणः श्रेष्ठतामेति प्रत्यवायेन शूद्रताम् ॥ Bछ्.Sछ्॥

ं४।२४६अ[२४७ंअ]/ दृढकारी मृदुर्दान्तः क्रूराचारैरसंवसन् ।
ं४।२४६च्[२४७ंच्]/ अहिंस्रो दमदानाभ्यां जयेत् स्वर्गं तथाव्रतः ॥ Bछ्.Sछ्॥

ं४।२४७अ[२४८ंअ]/ एधौदकं मूलफलमन्नमभ्युद्यतं च यत् ।
ं४।२४७च्[२४८ंच्]/ सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ॥ Bछ्.Sछ्॥

ं४।२४८अ[२४९ंअ]/ आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् ।
ं४।२४८च्[२४९ंच्]/ मेने प्रजापतिर्ग्राह्यामपि दुष्कृतकर्मणः ॥ Bछ्.Sछ्॥

ं४।२४९अ[२५०ंअ]/ नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ॥ Bछ्.Sछ्॥

ं४।२४९च्[२५०ंच्]/ न च हव्यं वहत्यग्निर्यस्तामभ्यवमन्यते ॥ Bछ्.Sछ्॥

ं४।२५०अ[२५१ंअ]/ शय्यां गृहान् कुशान् गन्धानपः पुष्पं मणीन् दधि ।
ं४।२५०च्[२५१ंच्]/ धाना मत्स्यान् पयो मांसं शाकं चैव न निर्णुदेत् ॥ Bछ्.Sछ्॥

ं४।२५१अ[२५२ंअ]/ गुरून् भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन् देवतातिथीन् ।
ं४।२५१च्[२५२ंच्]/ सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः ॥ Bछ्.Sछ्॥

ं४।२५२अ[२५३ंअ]/ गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् ।
ं४।२५२च्[२५३ंच्]/ आत्मनो वृत्तिमन्विच्छन् गृह्णीयात् साधुतः सदा ॥ Bछ्.Sछ्॥

ं४।२५३अ[२५४ंअ]/ आर्धिकः कुलमित्रं च गोपालो दासनापितौ ।
ं४।२५३च्[२५४ंच्]/ एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ॥ Bछ्.Sछ्॥

ं४।२५४अ[२५५ंअ]/ यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् ।
ं४।२५४च्[२५५ंच्]/ यथा चौपचरेदेनं तथाऽत्मानं निवेदयेत् ॥ Bछ्.Sछ्॥

ं४।२५५अ[२५६ंअ]/ योऽन्यथा सन्तमात्मानमन्यथा सत्सु भाषते ।
ं४।२५५च्[२५६ंच्]/ स पापकृत्तमो लोके स्तेन आत्मापहारकः ॥ Bछ्.Sछ्॥

ं४।२५६अ[२५७ंअ]/ वाच्यर्था नियताः सर्वे वाङ्मूला वाग्विनिःसृताः ।
ं४।२५६च्[२५७ंच्]/ तांस्तु यः स्तेनयेद् वाचं स सर्वस्तेयकृन्नरः ॥ Bछ्.Sछ्॥ %[ं।तान् तु?]
ं४।२५७अ[२५८ंअ]/ महर्षिपितृदेवानां गत्वाऽनृण्यं यथाविधि ।
ं४।२५७च्[२५८ंच्]/ पुत्रे सर्वं समासज्य वसेन् माध्यस्थ्यमाश्रितः ॥ Bछ्.Sछ्॥ %[ं।आस्थितः]
ं४।२५८अ[२५९ंअ]/ एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः । %[ं। हितमात्मनि ]
ं४।२५८च्[२५९ंच्]/ एकाकी चिन्तयानो हि परं श्रेयोऽधिगच्छति ॥ Bछ्.Sछ्॥

ं४।२५९अ[२६०ंअ]/ एषौदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती ।
ं४।२५९च्[२६०ंच्]/ स्नातकव्रतकल्पश्च सत्त्ववृद्धिकरः शुभः ॥ Bछ्.Sछ्॥

ं४।२६०अ[२६१ंअ]/ अनेन विप्रो वृत्तेन वर्तयन् वेदशास्त्रवित् ।
ं४।२६०च्[२६१ंच्]/ व्यपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥ Bछ्.Sछ्॥

अध्याय ५  CHAPTER 5 

ं५।०१अ/ श्रुत्वैतान् ऋषयो धर्मान् स्नातकस्य यथौदितान् ।
ं५।०१च्/ इदमूचुर्महात्मानमनलप्रभवं भृगुम् ॥

ं५।०२अ/ एवं यथोक्तं विप्राणां स्वधर्ममनुतिष्ठताम् ।
ं५।०२च्/ कथं मृत्युः प्रभवति वेदशास्त्रविदां प्रभो ॥ Bछ्.Sछ्॥

ं५।०३अ/ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
ं५।०३च्/ श्रूयतां येन दोषेण मृत्युर्विप्रान् जिघांसति ॥ Bछ्.Sछ्॥

ं५।०४अ/ अनभ्यासेन वेदानामाचारस्य च वर्जनात् ।
ं५।०४च्/ आलस्यादन्नदोषाच्च मृत्युर्विप्राञ्जिघांसति ॥ Bछ्.Sछ्॥ %[ं।विप्रान्]
ं५।०५अ/ लशुनं गृञ्जनं चैव पलाण्डुं कवकानि च ।
ं५।०५च्/ अभक्ष्याणि द्विजातीनाममेध्यप्रभवानि च ॥ Bछ्.Sछ्॥

ं५।०६अ/ लोहितान् वृक्षनिर्यासान् वृश्चनप्रभवांस्तथा । %[ं।व्रश्चनप्रभवांः ]
ं५।०६च्/ शेलुं गव्यं च पेयूषं प्रयत्नेन विवर्जयेत् ॥ Bछ्.Sछ्॥ %[ं।पीयूषं ]
ं५।०७अ/ वृथा कृसरसंयावं पायसापूपमेव च ।
ं५।०७च्/ अनुपाकृतमांसानि देवान्नानि हवींषि च ॥ Bछ्.Sछ्॥

ं५।०८अ/ अनिर्दशाया गोः क्षीरमौष्ट्रमैकशफं तथा ।
ं५।०८च्/ आविकं संधिनीक्षीरं विवत्सायाश्च गोः पयः ॥ Bछ्.Sछ्॥ %[ं।सन्धिनीक्षीरं]
ं५।०९अ/ आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।
ं५।०९च्/ स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ॥ Bछ्.Sछ्॥

ं५।१०अ/ दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् । %[ं।दधिसंभवम्]
ं५।१०च्/ यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ॥ Bछ्.Sछ्॥

ं५।११अ/ क्रव्यादान् शकुनान् सर्वान्तथा ग्रामनिवासिनः । %[ं।क्रव्यादः शकुनीन्]
ं५।११च्/ अनिर्दिष्टांश्चेकशफान् टिट्टिभं च विवर्जयेत् ॥ Bछ्.Sछ्॥

ं५।१२अ/ कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।
ं५।१२च्/ सारसं रज्जुवालं च दात्यूहं शुकसारिके ॥ Bछ्.Sछ्॥ %[ं रज्जुदालं]
ं५।१३अ/ प्रतुदाञ्जालपादांश्च कोयष्टिनखविष्किरान् । %[ं।प्रतुदान्]
ं५।१३च्/ निमज्जतश्च मत्स्यादान् सौनं वल्लूरमेव च ॥ Bछ्.Sछ्॥

ं५।१४अ/ बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।
ं५।१४च्/ मत्स्यादान् विड्वराहांश्च मत्स्यानेव च सर्वशः ॥ Bछ्.Sछ्॥

ं५।१५अ/ यो यस्य मांसमश्नाति स तन्मांसाद उच्यते ।
ं५।१५च्/ मत्स्यादः सर्वमांसादस्तस्मान् मत्स्यान् विवर्जयेत् ॥ Bछ्.Sछ्॥

ं५।१६अ/ पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।
ं५।१६च्/ राजीवान् सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ॥ Bछ्.Sछ्॥ %[ं राजीवाः ]
ं५।१७अ/ न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् ।
ं५।१७च्/ भक्ष्येष्वपि समुद्दिष्टान् सर्वान् पञ्चनखांस्तथा ॥ Bछ्.Sछ्॥

ं५।१८अ/ श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा ।
ं५।१८च्/ भक्ष्यान् पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतः ॥ Bछ्.Sछ्॥

ं५।१९अ/ छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।
ं५।१९च्/ पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद् द्विजः ॥ Bछ्.Sछ्॥

ं५।२०अ/ अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।
ं५।२०च्/ यतिचान्द्रायाणं वाऽपि शेषेषूपवसेदहः ॥ Bछ्.Sछ्॥

ं५।२१अ/ संवत्सरस्यैकमपि चरेत् कृच्छ्रं द्विजोत्तमः ।
ं५।२१च्/ अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ Bछ्.Sछ्॥

ं५।२२अ/ यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः ।
ं५।२२च्/ भृत्यानां चैव वृत्त्यर्थमगस्त्यो ह्याचरत् पुरा ॥ Bछ्.Sछ्॥

ं५।२३अ/ बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।
ं५।२३च्/ पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ॥ Bछ्.Sछ्॥ %[[ं।पुराणेष्वृषियज्ञेषु]
ं५।२४अ/ यत् किं चित् स्नेहसंयुक्तं भक्ष्यं भोज्यमगर्हितम् ।
ं५।२४च्/ तत् पर्युषितमप्याद्यं हविःशेषं च यद् भवेत् ॥ Bछ्.Sछ्॥

ं५।२५अ/ चिरस्थितमपि त्वाद्यमस्नेहाक्तं द्विजातिभिः ।
ं५।२५च्/ यवगोधूमजं सर्वं पयसश्चैव विक्रिया ॥ Bछ्.Sछ्॥

ं५।२६अ/ एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यमशेषतः ।
ं५।२६च्/ मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ॥ Bछ्.Sछ्॥

ं५।२७अ/ प्रोक्षितं भक्षयेन् मांसं ब्राह्मणानां च काम्यया ।
ं५।२७च्/ यथाविधि नियुक्तस्तु प्राणानामेव चात्यये ॥ Bछ्.Sछ्॥

ं५।२८अ/ प्राणस्यान्नमिदं सर्वं प्रजापतिरकल्पयत् ।
ं५।२८च्/ स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ॥ Bछ्.Sछ्॥

ं५।२९अ/ चराणामन्नमचरा दंष्ट्रिणामप्यदंष्ट्रिणः ।
ं५।२९च्/ अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ॥ Bछ्.Sछ्॥

ं५।३०अ/ नात्ता दुष्यत्यदन्नाद्यान् प्राणिनोऽहन्य्ऽहन्यपि ।
ं५।३०च्/ धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ॥ Bछ्.Sछ्॥

ं५।३१अ/ यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः ।
ं५।३१च्/ अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ॥ Bछ्.Sछ्॥

ं५।३२अ/ क्रीत्वा स्वयं वाऽप्युत्पाद्य परोपकृतमेव वा ।
ं५।३२च्/ देवान् पितॄंश्चार्चयित्वा खादन् मांसं न दुष्यति ॥ Bछ्.Sछ्॥

ं५।३३अ/ नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः ।
ं५।३३च्/ जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः ॥ Bछ्.Sछ्॥

ं५।३४अ/ न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।
ं५।३४च्/ यादृशं भवति प्रेत्य वृथामांसानि खादतः ॥ Bछ्.Sछ्॥

ं५।३५अ/ नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः ।
ं५।३५च्/ स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ Bछ्.Sछ्॥

ं५।३६अ/ असंस्कृतान् पशून् मन्त्रैर्नाद्याद् विप्रः कदा चन ।
ं५।३६च्/ मन्त्रैस्तु संस्कृतानद्यात्शाश्वतं विधिमास्थितः ॥ Bछ्.Sछ्॥

ं५।३७अ/ कुर्याद् घृतपशुं सङ्गे कुर्यात् पिष्टपशुं तथा ।
ं५।३७च्/ न त्वेव तु वृथा हन्तुं पशुमिच्छेत् कदा चन ॥ Bछ्.Sछ्॥

ं५।३८अ/ यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् ।
ं५।३८च्/ वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ॥ Bछ्.Sछ्॥

ं५।३९अ/ यज्ञार्थं पशवः सृष्टाः स्वयमेव स्वयंभुवा ।
ं५।३९च्/ यज्ञोऽस्य भूत्यै सर्वस्य तस्माद् यज्ञे वधोऽवधः ॥ Bछ्.Sछ्॥

ं५।४०अ/ ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।
ं५।४०च्/ यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः ॥ Bछ्.Sछ्॥ %[ंउच्छ्रितीः]
ं५।४१अ/ मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।
ं५।४१च्/ अत्रैव पशवो हिंस्या नान्यत्रैत्यब्रवीन् मनुः ॥ Bछ्.Sछ्॥

ं५।४२अ/ एष्वर्थेषु पशून् हिंसन् वेदतत्त्वार्थविद् द्विजः ।
ं५।४२च्/ आत्मानं च पशुं चैव गमयत्युत्तमं गतिम् ॥ Bछ्.Sछ्॥

ं५।४३अ/ गृहे गुरावरण्ये वा निवसन्नात्मवान् द्विजः ।
ं५।४३च्/ नावेदविहितां हिंसामापद्यपि समाचरेत् ॥ Bछ्.Sछ्॥

ं५।४४अ/ या वेदविहिता हिंसा नियताऽस्मिंश्चराचरे ।
ं५।४४च्/ अहिंसामेव तां विद्याद् वेदाद् धर्मो हि निर्बभौ ॥ Bछ्.Sछ्॥

ं५।४५अ/ योऽहिंसकानि भूतानि हिनस्त्यात्मसुखैच्छया ।
ं५।४५च्/ स जीवांश्च मृतश्चैव न क्व चित् सुखमेधते ॥ Bछ्.Sछ्॥

ं५।४६अ/ यो बन्धनवधक्लेशान् प्राणिनां न चिकीर्षति ।
ं५।४६च्/ स सर्वस्य हितप्रेप्सुः सुखमत्यन्तमश्नुते ॥ Bछ्.Sछ्॥

ं५।४७अ/ यद् ध्यायति यत् कुरुते रतिं बध्नाति यत्र च ।
ं५।४७च्/ तदवाप्नोत्ययत्नेन यो हिनस्ति न किं चन ॥ Bछ्.Sछ्॥

ं५।४८अ/ नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित् ।
ं५।४८च्/ न च प्राणिवधः स्वर्ग्यस्तस्मान् मांसं विवर्जयेत् ॥ Bछ्.Sछ्॥

ं५।४९अ/ समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् ।
ं५।४९च्/ प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ Bछ्.Sछ्॥

ं५।५०अ/ न भक्षयति यो मांसं विधिं हित्वा पिशाचवत् ।
ं५।५०च्/ न लोके प्रियतां याति व्याधिभिश्च न पीड्यते ॥ Bछ्.Sछ्॥

ं५।५१अ/ अनुमन्ता विशसिता निहन्ता क्रयविक्रयी ।
ं५।५१च्/ संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥ Bछ्.Sछ्॥

ं५।५२अ/ स्वमांसं परमांसेन यो वर्धयितुमिच्छति ।
ं५।५२च्/ अनभ्यर्च्य पितॄन् देवांस्ततोऽन्यो नास्त्यपुण्यकृत् ॥ Bछ्.Sछ्॥

ं५।५३अ/ वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः ।
ं५।५३च्/ मांसानि च न खादेद् यस्तयोः पुण्यफलं समम् ॥ Bछ्.Sछ्॥

ं५।५४अ/ फलमूलाशनैर्मेध्यैर्मुन्यन्नानां च भोजनैः ।
ं५।५४च्/ न तत् फलमवाप्नोति यत्मांसपरिवर्जनात् ॥ Bछ्.Sछ्॥

ं५।५५अ/ मां स भक्षयिताऽमुत्र यस्य मांसमिहाद् म्यहम् ।
ं५।५५च्/ एतत्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ Bछ्.Sछ्॥

ं५।५६अ/ न मांसभक्षणे दोषो न मद्ये न च मैथुने ।
ं५।५६च्/ प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफला ॥ Bछ्.Sछ्॥

ं५।५७अ/ प्रेतशुद्धिं प्रवक्ष्यामि द्रव्यशुद्धिं तथैव च ।
ं५।५७च्/ चतुर्णामपि वर्णानां यथावदनुपूर्वशः ॥ Bछ्.Sछ्॥

ं५।५८अ/ दन्तजातेऽनुजाते च कृतचूडे च संस्थिते ।
ं५।५८च्/ अशुद्धा बान्धवाः सर्वे सूतके च तथौच्यते ॥ Bछ्.Sछ्॥

ं५।५९अ/ दशाहं शावमाशौचं सपिण्डेषु विधीयते ।
ं५।५९च्/ अर्वाक् सञ्चयनादस्थ्नां त्र्यहमेकाहमेव वा ॥ Bछ्.Sछ्॥

ं५।६०अ/ सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
ं५।६०च्/ समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ Bछ्.Sछ्॥

ं५।६१अ/ यथैदं शावमाशौचं सपिण्डेषु विधीयते । %[नोतिन् ं]
ं५।६१च्/ जननेऽप्येवमेव स्यात्निपुणं शुद्धिमिच्छताम् ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं५।६२अ[६१ंअ]/ सर्वेषां शावमाशौचं मातापित्रोस्तु सूतकम् । %[ं: जननेऽप्येवमेव स्यान् मातापित्रोस्तु सूतकं ।]
ं५।६२च्[६१ंच्]/ सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥ Bछ्.Sछ्॥

ं५।६३अ[६२ंअ]/ निरस्य तु पुमांशुक्रमुपस्पृस्यैव शुध्यति ।
ं५।६३च्[६२ंच्]/ बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम् ॥ Bछ्.Sछ्॥

ं५।६४अ[६३ंअ]/ अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः ।
ं५।६४च्[६३ंच्]/ शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ॥ Bछ्.Sछ्॥

ं५।६५अ[६४ंअ]/ गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।
ं५।६५च्[६४ंच्]/ प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ॥ Bछ्.Sछ्॥ %[ं।प्रेताहारैः ]
ं५।६६अ[६५ंअ]/ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।
ं५।६६च्[६५ंच्]/ रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ Bछ्.Sछ्॥

ं५।६७अ[६६ंअ]/ नृणामकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।
ं५।६७च्[६६ंच्]/ निर्वृत्तचूडकानां तु त्रिरात्रात्शुद्धिरिष्यते ॥ Bछ्.Sछ्॥ %[ं। निर्वृत्तमुण्डकानां ]
ं५।६८अ[६७ंअ]/ ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः ।
ं५।६८च्[६७ंच्]/ अलङ्कृत्य शुचौ भूमावस्थिसञ्चयनाद् ऋते ॥ Bछ्.Sछ्॥

ं५।६९अ[६८ंअ]/ नास्य कार्योऽग्निसंस्कारो न च कार्यौदकक्रिया ।
ं५।६९च्[६८ंच्]/ अरण्ये काष्ठवत् त्यक्त्वा क्षपेयुस्त्र्यहमेव तु ॥ Bछ्.Sछ्॥ %[ं। क्षपेत त्र्यहमेव च]
ं५।७०अ[६९ंअ]/ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया ।
ं५।७०च्[६९ंच्]/ जातदन्तस्य वा कुर्युर्नाम्नि वाऽपि कृते सति ॥ Bछ्.Sछ्॥

ं५।७१अ[७०ंअ]/ सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् ।
ं५।७१च्[७०ंच्]/ जन्मन्येकौदकानां तु त्रिरात्रात्शुद्धिरिष्यते ॥ Bछ्.Sछ्॥

ं५।७२अ[७१ंअ]/ स्त्रीणामसंस्कृतानां तु त्र्यहात्शुध्यन्ति बान्धवाः ।
ं५।७२च्[७१ंच्]/ यथौक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ॥ Bछ्.Sछ्॥

ं५।७३अ[७२ंअ]/ अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ।
ं५।७३च्[७२ंच्]/ मांसाशनं च नाश्नीयुः शयीरंश्च पृथक् क्षितौ ॥ Bछ्.Sछ्॥

ं५।७४अ[७३ंअ]/ संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः ।
ं५।७४च्[७३ंच्]/ असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः ॥ Bछ्.Sछ्॥

ं५।७५अ[७४ंअ]/ विगतं तु विदेशस्थं शृणुयाद् यो ह्यनिर्दशम् ।
ं५।७५च्[७४ंच्]/ यत्शेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ॥ Bछ्.Sछ्॥

ं५।७६अ[७५ंअ]/ अतिक्रान्ते दशाहे च त्रिरात्रमशुचिर्भवेत् ।
ं५।७६च्[७५ंच्]/ संवत्सरे व्यतीते तु स्पृष्ट्वैवापो विशुध्यति ॥ Bछ्.Sछ्॥

ं५।७७अ[७६ंअ]/ निर्दशं ज्ञातिमरणं श्रुत्वा पुत्रस्य जन्म च ।
ं५।७७च्[७६ंच्]/ सवासा जलमाप्लुत्य शुद्धो भवति मानवः ॥ Bछ्.Sछ्॥

ं५।७८अ[७७ंअ]/ बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।
ं५।७८च्[७७ंच्]/ सवासा जलमाप्लुत्य सद्य एव विशुध्यति ॥ Bछ्.Sछ्॥

ं५।७९अ[७८ंअ]/ अन्तर्दशाहे स्यातां चेत् पुनर्मरणजन्मनी । %[ं। चेत् स्यातां]
ं५।७९च्[७८ंच्]/ तावत् स्यादशुचिर्विप्रो यावत् तत् स्यादनिर्दशम् ॥ Bछ्.Sछ्॥

ं५।८०अ[७९ंअ]/ त्रिरात्रमाहुराशौचमाचार्ये संस्थिते सति ।
ं५।८०च्[७९ंच्]/ तस्य पुत्रे च पत्न्यां च दिवारात्रमिति स्थितिः ॥ Bछ्.Sछ्॥

ं५।८१अ[८०ंअ]/ श्रोत्रिये तूपसम्पन्ने त्रिरात्रमशुचिर्भवेत् ।
ं५।८१च्[८०ंच्]/ मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ॥ Bछ्.Sछ्॥

ं५।८२अ[८१ंअ]/ प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितः ।
ं५।८२च्[८१ंच्]/ अश्रोत्रिये त्वहः कृत्स्नमनूचाने तथा गुरौ ॥ Bछ्.Sछ्॥ %[ं।कृत्स्नां ]
ं५।८३अ[८२ंअ]/ शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः ।
ं५।८३च्[८२ंच्]/ वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥ Bछ्.Sछ्॥

ं५।८४अ[८३ंअ]/ न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः ।
ं५।८४च्[८३ंच्]/ न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ॥ Bछ्.Sछ्॥

ं५।८५अ[८४ंअ]/ दिवाकीर्तिमुदक्यां च पतितं सूतिकां तथा ।
ं५।८५च्[८४ंच्]/ शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ॥ Bछ्.Sछ्॥

ं५।८६अ[८५ंअ]/ आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।
ं५।८६च्[८५ंच्]/ सौरान् मन्त्रान् यथोत्साहं पावमानीश्च शक्तितः ॥ Bछ्.Sछ्॥

ं५।८७अ[८६ंअ]/ नारं स्पृष्ट्वाऽस्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।
ं५।८७च्[८६ंच्]/ आचम्यैव तु निःस्नेहं गामालभ्यार्कमीक्ष्य वा ॥ Bछ्.Sछ्॥

ं५।८८अ[८७ंअ]/ आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।
ं५।८८च्[८७ंच्]/ समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ॥ Bछ्.Sछ्॥

ं५।८९अ[८८ंअ]/ वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठताम् ॥ Bछ्.Sछ्॥

ं५।८९च्[८८ंच्]/ आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ॥ Bछ्.Sछ्॥

ं५।९०अ[८९ंअ]/ पाषण्डमाश्रितानां च चरन्तीनां च कामतः ।
ं५।९०च्[८९ंच्]/ गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ॥ Bछ्.Sछ्॥

ं५।९१अ[९०ंअ]/ आचार्यं स्वमुपाध्यायं पितरं मातरं गुरुम् ।
ं५।९१च्[९०ंच्]/ निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥ Bछ्.Sछ्॥

ं५।९२अ[९१ंअ]/ दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।
ं५।९२च्[९१ंच्]/ पश्चिमौत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ॥ Bछ्.Sछ्॥

ं५।९३अ[९२ंअ]/ न राज्ञामघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम् ।
ं५।९३च्[९२ंच्]/ ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा ॥ Bछ्.Sछ्॥

ं५।९४अ[९३ंअ]/ राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते ।
ं५।९४च्[९३ंच्]/ प्रजानां परिरक्षार्थमासनं चात्र कारणम् ॥ Bछ्.Sछ्॥

ं५।९५अ[९४ंअ]/ डिम्भाहवहतानां च विद्युता पार्थिवेन च । %[ंड़िम्बाहवहतानां]
ं५।९५च्[९४ंच्]/ गोब्राह्मणस्य चेवार्थे यस्य चैच्छति पार्थिवः ॥ Bछ्.Sछ्॥

ं५।९६अ[९५ंअ]/ सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च ।
ं५।९६च्[९५ंच्]/ अष्टानां लोकपालानां वपुर्धारयते नृपः ॥ Bछ्.Sछ्॥

ं५।९७अ[९६ंअ]/ लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते ।
ं५।९७च्[९६ंच्]/ शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ॥ Bछ्.Sछ्॥

ं५।९८अ[९७ंअ]/ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च ।
ं५।९८च्[९७ंच्]/ सद्यः संतिष्ठते यज्ञस्तथाऽशौचमिति स्थितिः ॥ Bछ्.Sछ्॥

ं५।९९च्[९८ंअ]/ विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।
ं५।९९च्[९८ंच्]/ वैश्यः प्रतोदं रश्मीन् वा यष्टिं शूद्रः कृतक्रियः ॥ Bछ्.Sछ्॥

ं५।१००अ[९९ंअ]/ एतद् वोऽभिहितं शौचं सपिण्डेषु द्विजोत्तमाः ।
ं५।१००च्[९९ंच्]/ असपिण्डेषु सर्वेषु प्रेतशुद्धिं निबोधत ॥ Bछ्.Sछ्॥

ं५।१०१अ[१००ंअ]/ असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् ।
ं५।१०१च्[१००ंच्]/ विशुध्यति त्रिरात्रेण मातुराप्तांश्च बान्धवान् ॥ Bछ्.Sछ्॥

ं५।१०२अ[१०१ंअ]/ यद्यन्नमत्ति तेषां तु दशाहेनैव शुध्यति ।
ं५।१०२च्[१०१ंच्]/ अनदन्नन्नमह्नैव न चेत् तस्मिन् गृहे वसेत् ॥ Bछ्.Sछ्॥

ं५।१०३अ[१०२ंअ]/ अनुगम्येच्छया प्रेतं ज्ञातिमज्ञातिमेव च । %Bछ्.Sछ्॥ %[ं। अज्ञातिमेव वा]
ं५।१०३च्[१०२ंच्]/ स्नात्वा सचैलः स्पृष्ट्वाऽग्निं घृतं प्राश्य विशुध्यति ॥ Bछ्.Sछ्॥ %[ं।सचैलं, विशुद्ध्यति ]
ं५।१०४अ[१०३ंअ]/ न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ।
ं५।१०४च्[१०३ंच्]/ अस्वर्ग्या ह्याहुतिः सा स्यात्शूद्रसंस्पर्शदूषिता ॥ Bछ्.Sछ्॥

ं५।१०५अ[१०४ंअ]/ ज्ञानं तपोऽग्निराहारो मृत्मनो वार्युपाञ्जनम् ।
ं५।१०५च्[१०४ंच्]/ वायुः कर्मार्ककालौ च शुद्धेः कर्तॄणि देहिनाम् ॥ Bछ्.Sछ्॥

ं५।१०६अ[१०५ंअ]/ सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
ं५।१०६च्[१०५ंच्]/ योऽर्थे शुचिर्हि स शुचिर्न मृद्वारिशुचिः शुचिः ॥ Bछ्.Sछ्॥

ं५।१०७अ[१०६ंअ]/ क्षान्त्या शुध्यन्ति विद्वांसो दानेनाकार्यकारिणः । %[ं।शुद्ध्यन्ति]
ं५।१०७च्[१०६ंच्]/ प्रच्छन्नपापा जप्येन तपसा वेदवित्तमाः ॥ Bछ्.Sछ्॥

ं५।१०८अ[१०७ंअ]/ मृत्तोयैः शुध्यते शोध्यं नदी वेगेन शुध्यति ।
ं५।१०८च्[१०७ंच्]/ रजसा स्त्री मनोदुष्टा संन्यासेन द्विजोत्तमाः ॥ Bछ्.Sछ्॥

ं५।१०९अ[१०८ंअ]/ अद्भिर्गात्राणि शुध्यन्ति मनः सत्येन शुध्यति ।
ं५।१०९च्[१०८ंच्]/ विद्यातपोभ्यां भूतात्मा बुद्धिर्ज्ञानेन शुध्यति ॥ Bछ्.Sछ्॥ %[ं।शुद्ध्यति]
ं५।११०अ[१०९ंअ]/ एष शौचस्य वः प्रोक्तः शरीरस्य विनिर्णयः ।
ं५।११०च्[१०९ंच्]/ नानाविधानां द्रव्याणां शुद्धेः शृणुत निर्णयम् ॥ Bछ्.Sछ्॥

ं५।१११अ[११०ंअ]/ तैजसानां मणीनां च सर्वस्याश्ममयस्य च ।
ं५।१११च्[११०ंच्]/ भस्मनाऽद्भिर्मृदा चैव शुद्धिरुक्ता मनीषिभिः ॥ Bछ्.Sछ्॥

ं५।११२अ[१११ंअ]/ निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति । %[ं।विशुद्ध्यति]
ं५।११२च्[१११ंच्]/ अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ Bछ्.Sछ्॥

ं५।११३अ[११२ंअ]/ अपामग्नेश्च संयोगाद् हैमं रौप्यं च निर्बभौ ।
ं५।११३च्[११२ंच्]/ तस्मात् तयोः स्वयोन्यैव निर्णेको गुणवत्तरः ॥ Bछ्.Sछ्॥

ं५।११४अ[११३ंअ]/ ताम्रायस्कांस्यरैत्यानां त्रपुणः सीसकस्य च ।
ं५।११४च्[११३ंच्]/ शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ Bछ्.Sछ्॥

ं५।११५अ[११४ंअ]/ द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम् ।
ं५।११५च्[११४ंच्]/ प्रोक्षणं संहतानां च दारवाणां च तक्षणम् ॥ Bछ्.Sछ्॥

ं५।११६अ[११५ंअ]/ मार्जनं यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
ं५।११६च्[११५ंच्]/ चमसानां ग्रहाणां च शुद्धिः प्रक्षालनेन तु ॥ Bछ्.Sछ्॥

ं५।११७अ[११६ंअ]/ चरूणां स्रुक्स्रुवाणां च शुद्धिरुष्णेन वारिणा ।
ं५।११७च्[११६ंच्]/ स्फ्यशूर्पशकटानां च मुसलौलूखलस्य च ॥ Bछ्.Sछ्॥

ं५।११८अ[११७ंअ]/ अद्भिस्तु प्रोक्षणं शौचं बहूनां धान्यवाससाम् ।
ं५।११८च्[११७ंच्]/ प्रक्षालनेन त्वल्पानामद्भिः शौचं विधीयते ॥ Bछ्.Sछ्॥

ं५।११९अ[११८ंअ]/ चैलवत्चर्मणां शुद्धिर्वैदलानां तथैव च ।
ं५।११९च्[११८ंच्]/ शाकमूलफलानां च धान्यवत्शुद्धिरिष्यते ॥ Bछ्.Sछ्॥ %[ं। तु]
ं५।१२०अ[११९ंअ]/ कौशेयाविकयोरूषैः कुतपानामरिष्टकैः ।
ं५।१२०च्[११९ंच्]/ श्रीफलैरंशुपट्टानां क्षौमाणां गौरसर्षपैः ॥ Bछ्.Sछ्॥

ं५।१२१अ[१२०ंअ]/ क्षौमवत्शङ्खशृङ्गाणामस्थिदन्तमयस्य च ।
ं५।१२१च्[१२०ंच्]/ शुद्धिर्विजानता कार्या गोमूत्रेणौदकेन वा ॥ Bछ्.Sछ्॥

ं५।१२२अ[१२१ंअ]/ प्रोक्षणात् तृणकाष्ठं च पलालं चैव शुध्यति ।
ं५।१२२च्[१२१ंच्]/ मार्जनौपाञ्जनैर्वेश्म पुनःपाकेन मृण्मयम् ॥ Bछ्.Sछ्॥

%[ं५।१२३क/ मद्यैर्मूत्रैः पुरीषैर्वा ष्ठीवनैः पूयशोणितैः । %[नोतिन् ं]
%[ं५।१२३क्ब्/ संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृत्मयम् ॥ Bछ्.Sछ्॥ नोतिन् ं]
ं५।१२४अ[१२२ंअ]/ संमार्जनौपाञ्जनेन सेकेनौल्लेखनेन च ।
ं५।१२४च्[१२२ंच्]/ गवां च परिवासेन भूमिः शुध्यति पञ्चभिः ॥ Bछ्.Sछ्॥ %[ं।शुद्ध्यति]
ं५।१२५अ[१२३ंअ]/ पक्षिजग्धं गवा घ्रातमवधूतमवक्षुतम् ।
ं५।१२५च्[१२३ंच्]/ दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ Bछ्.Sछ्॥

ं५।१२६अ[१२४ंअ]/ यावन्नापेत्यमेध्याक्ताद् गन्धो लेपश्च तत्कृतः ।
ं५।१२६च्[१२४ंच्]/ तावन् मृद्वारि चादेयं सर्वासु द्रव्यशुद्धिषु ॥ Bछ्.Sछ्॥

ं५।१२७अ[१२५ंअ]/ त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् ।
ं५।१२७च्[१२५ंच्]/ अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥ Bछ्.Sछ्॥

ं५।१२८अ[१२६ंअ]/ आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ।
ं५।१२८च्[१२६ंच्]/ अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ॥ Bछ्.Sछ्॥

ं५।१२९अ[१२७ंअ]/ नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् । %[ं।पण्यं]
ं५।१२९च्[१२७ंच्]/ ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यमिति स्थितिः ॥ Bछ्.Sछ्॥

ं५।१३०अ[१२८ंअ]/ नित्यमास्यं शुचि स्त्रीणां शकुनिः फलपातने ।
ं५।१३०च्[१२८ंच्]/ प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ॥ Bछ्.Sछ्॥

ं५।१३१अ[१२९ंअ]/ श्वभिर्हतस्य यन् मांसं शुचि तन् मनुरब्रवीत् ।
ं५।१३१च्[१२९ंच्]/ क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ॥ Bछ्.Sछ्॥

ं५।१३२अ[१३०ंअ]/ ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः ।
ं५।१३२च्[१३०ंच्]/ यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ॥ Bछ्.Sछ्॥

ं५।१३३अ[१३१ंअ]/ मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः ।
ं५।१३३च्[१३१ंच्]/ रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ॥ Bछ्.Sछ्॥

ं५।१३४अ[१३२ंअ]/ विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयमर्थवत् ।
ं५।१३४च्[१३२ंच्]/ दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ॥ Bछ्.Sछ्॥

ं५।१३५अ[१३३ंअ]/ वसा शुक्रमसृग्मज्जा मूत्रविड्घ्राणकर्णविट् ।
ं५।१३५च्[१३३ंच्]/ श्लेश्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ Bछ्.Sछ्॥

ं५।१३६अ[१३४ंअ]/ एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।
ं५।१३६च्[१३४ंच्]/ उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ Bछ्.Sछ्॥

ं५।१३७अ[१३५ंअ]/ एतत्शौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
ं५।१३७च्[१३५ंच्]/ त्रिगुणं स्याद् वनस्थानां यतीनां तु चतुर्गुणम् ॥ Bछ्.Sछ्॥

ं५।१३८अ[१३६ंअ]/ कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् ।
ं५।१३८च्[१३६ंच्]/ वेदमध्येष्यमाणश्च अन्नमश्नंश्च सर्वदा ॥ Bछ्.Sछ्॥

ं५।१३९अ[१३७ंअ]/ त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात् ततो मुखम् ।
ं५।१३९च्[१३७ंच्]/ शरीरं शौचमिच्छन् हि स्त्री शूद्रस्तु सकृत् सकृत् ॥ Bछ्.Sछ्॥

ं५।१४०अ[१३८ंअ]/ शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।
ं५।१४०च्[१३८ंच्]/ वैश्यवत्शौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ॥ Bछ्.Sछ्॥

ं५।१४१अ[१३९ंअ]/ नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः ।
ं५।१४१च्[१३९ंच्]/ न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ॥ Bछ्.Sछ्॥

ं५।१४२अ[१४०ंअ]/ स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
ं५।१४२च्[१४०ंच्]/ भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ॥ Bछ्.Sछ्॥ %[ं। अप्रयतो]
ं५।१४३अ[१४१ंअ]/ उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन ।
ं५।१४३च्[१४१ंच्]/ अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् ॥ Bछ्.Sछ्॥

ं५।१४४अ[१४२ंअ]/ वान्तो विरिक्तः स्नात्वा तु घृतप्राशनमाचरेत् ।
ं५।१४४च्[१४२ंच्]/ आचामेदेव भुक्त्वाऽन्नं स्नानं मैथुनिनः स्मृतम् ॥ Bछ्.Sछ्॥

ं५।१४५अ[१४३ंअ]/ सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्यौक्त्वाऽनृतानि च ।
ं५।१४५च्[१४३ंच्]/ पीत्वाऽपोऽध्येष्यमाणश्च आचामेत् प्रयतोऽपि सन् ॥ Bछ्.Sछ्॥

ं५।१४६अ[१४४ंअ]/ एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च । %[ंएष]
ं५।१४६च्[१४४ंच्]/ उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ॥ Bछ्.Sछ्॥

ं५।१४७अ[१४५ंअ]/ बालया वा युवत्या वा वृद्धया वाऽपि योषिता ।
ं५।१४७च्[१४५ंच्]/ न स्वातन्त्र्येण कर्तव्यं किं चिद् कार्यं गृहेष्वपि ॥ Bछ्.Sछ्॥

ं५।१४८अ[१४६ंअ]/ बाल्ये पितुर्वशे तिष्ठेत् पाणिग्राहस्य यौवने ।
ं५।१४८च्[१४६ंच्]/ पुत्राणां भर्तरि प्रेते न भजेत् स्त्री स्वतन्त्रताम् ॥ Bछ्.Sछ्॥

ं५।१४९अ[१४७ंअ]/ पित्रा भर्त्रा सुतैर्वाऽपि नेच्छेद् विरहमात्मनः ।
ं५।१४९च्[१४७ंच्]/ एषां हि विरहेण स्त्री गर्ह्ये कुर्यादुभे कुले ॥ Bछ्.Sछ्॥

ं५।१५०अ[१४८ंअ]/ सदा प्रहृष्टया भाव्यं गृहकार्ये च दक्षया ।
ं५।१५०च्[१४८ंच्]/ सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ॥ Bछ्.Sछ्॥

ं५।१५१अ[१४९ंअ]/ यस्मै दद्यात् पिता त्वेनां भ्राता वाऽनुमते पितुः ।
ं५।१५१च्[१४९ंच्]/ तं शुश्रूषेत जीवन्तं संस्थितं च न लङ्घयेत् ॥ Bछ्.Sछ्॥

ं५।१५२अ[१५०ंअ]/ मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः ।
ं५।१५२च्[१५०ंच्]/ प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ॥ Bछ्.Sछ्॥

ं५।१५३अ[१५१ंअ]/ अनृतावृतुकाले च मन्त्रसंस्कारकृत् पतिः ।
ं५।१५३च्[१५१ंच्]/ सुखस्य नित्यं दातैह परलोके च योषितः ॥ Bछ्.Sछ्॥

ं५।१५४अ[१५२ंअ]/ विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ।
ं५।१५४च्[१५२ंच्]/ उपचार्यः स्त्रिया साध्व्या सततं देववत् पतिः ॥ Bछ्.Sछ्॥

ं५।१५५अ[१५३ंअ]/ नास्ति स्त्रीणां पृथग् यज्ञो न व्रतं नाप्युपोषणम् । %[ंउपोषितम्]
ं५।१५५च्[१५३ंच्]/ पतिं शुश्रूषते येन तेन स्वर्गे महीयते ॥ Bछ्.Sछ्॥

ं५।१५६अ[१५४ंअ]/ पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।
ं५।१५६च्[१५४ंच्]/ पतिलोकमभीप्सन्ती नाचरेत् किं चिदप्रियम् ॥ Bछ्.Sछ्॥

ं५।१५७अ[१५५ंअ]/ कामं तु क्षपयेद् देहं पुष्पमूलफलैः शुभैः ।
ं५।१५७च्[१५५ंच्]/ न तु नामापि गृह्णीयात् पत्यौ प्रेते परस्य तु ॥ Bछ्.Sछ्॥

ं५।१५८अ[१५६ंअ]/ आसीतामरणात् क्षान्ता नियता ब्रह्मचारिणी ।
ं५।१५८च्[१५६ंच्]/ यो धर्म एकपत्नीनां काङ्क्षन्ती तमनुत्तमम् ॥ Bछ्.Sछ्॥

ं५।१५९अ[१५७ंअ]/ अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।
ं५।१५९च्[१५७ंच्]/ दिवं गतानि विप्राणामकृत्वा कुलसंततिम् ॥ Bछ्.Sछ्॥

ं५।१६०अ[१५८ंअ]/ मृते भर्तरि साध्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।
ं५।१६०च्[१५८ंच्]/ स्वर्गं गच्छत्यपुत्राऽपि यथा ते ब्रह्मचारिणः ॥ Bछ्.Sछ्॥

ं५।१६१अ[१५९ंअ]/ अपत्यलोभाद् या तु स्त्री भर्तारमतिवर्तते ।
ं५।१६१च्[१५९ंच्]/ सेह निन्दामवाप्नोति परलोकाच्च हीयते ॥ Bछ्.Sछ्॥

ं५।१६२अ[१६०ंअ]/ नान्योत्पन्ना प्रजाऽस्तीह न चाप्यन्यपरिग्रहे । %[ंंअ चान्यस्य परिग्रहे]
ं५।१६२च्[१६०ंच्]/ न द्वितीयश्च साध्वीनां क्व चिद् भर्तोपदिश्यते ॥ Bछ्.Sछ्॥

ं५।१६३अ[१६१ंअ]/ पतिं हित्वाऽपकृष्टं स्वमुत्कृष्टं या निषेवते । %[ं। हित्वाऽवकृष्टं]
ं५।१६३च्[१६१ंच्]/ निन्द्यैव सा भवेल्लोके परपूर्वैति चौच्यते ॥ Bछ्.Sछ्॥

ं५।१६४अ[१६२ंअ]/ व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् । %[ं।व्यभिचारे तु]
ं५।१६४च्[१६२ंच्]/ शृगालयोनिं प्राप्नोति पापरोगैश्च पीड्यते ॥ Bछ्.Sछ्॥

ं५।१६५अ[१६३ंअ]/ पतिं या नाभिचरति मनोवाग्देहसंयुता । %[ं। देहसंयता]
ं५।१६५च्[१६३ंच्]/ सा भर्तृलोकमाप्नोति सद्भिः साध्वीति चोच्यते ॥ Bछ्.Sछ्॥

ं५।१६६अ[१६४ंअ]/ अनेन नारी वृत्तेन मनोवाग्देहसंयता ।
ं५।१६६च्[१६४ंच्]/ इहाग्र्यां कीर्तिमाप्नोति पतिलोकं परत्र च ॥ Bछ्.Sछ्॥

ं५।१६७अ[१६५ंअ]/ एवं वृत्तां सवर्णां स्त्रीं द्विजातिः पूर्वमारिणीम् ।
ं५।१६७च्[१६५ंच्]/ दाहयेदग्निहोत्रेण यज्ञपात्रैश्च धर्मवित् ॥ Bछ्.Sछ्॥

ं५।१६८अ[१६६ंअ]/ भार्यायै पूर्वमारिण्यै दत्त्वाऽग्नीनन्त्यकर्मणि ।
ं५।१६८च्[१६६ंच्]/ पुनर्दारक्रियां कुर्यात् पुनराधानमेव च ॥ Bछ्.Sछ्॥

ं५।१६९अ[१६७ंअ]/ अनेन विधिना नित्यं पञ्चयज्ञान्न हापयेत् ।
ं५।१६९च्[१६७ंच्]/ द्वितीयमायुषो भागं कृतदारो गृहे वसेत् ॥ Bछ्.Sछ्॥

 

अध्याय ६
ं६।०१अ/ एवं गृहाश्रमे स्थित्वा विधिवत् स्नातको द्विजः ।
ं६।०१च्/ वने वसेत् तु नियतो यथावद् विजितैन्द्रियः ॥ Bछ्.Sछ्॥

ं६।०२अ/ गृहस्थस्तु यथा पश्येद् वलीपलितमात्मनः ।
ं६।०२च्/ अपत्यस्यैव चापत्यं तदाऽरण्यं समाश्रयेत् ॥ Bछ्.Sछ्॥

ं६।०३अ/ संत्यज्य ग्राम्यमाहारं सर्वं चैव परिच्छदम् ।
ं६।०३च्/ पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत् सहैव वा ॥ Bछ्.Sछ्॥

ं६।०४अ/ अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् ।
ं६।०४च्/ ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः ॥ Bछ्.Sछ्॥ %[ंंइष्क्रम्य]
ं६।०५अ/ मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा ।
ं६।०५च्/ एतानेव महायज्ञान्निर्वपेद् विधिपूर्वकम् ॥ Bछ्.Sछ्॥

ं६।०६अ/ वसीत चर्म चीरं वा सायं स्नायात् प्रगे तथा ।
ं६।०६च्/ जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च ॥ Bछ्.Sछ्॥

ं६।०७अ/ यद्भक्ष्यं स्याद् ततो दद्याद् बलिं भिक्षां च शक्तितः । %[ं।यद्भक्षः ]
ं६।०७च्/ अब्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् ॥ Bछ्.Sछ्॥ %[ं:आश्रमागतं ]
ं६।०८अ/ स्वाध्याये नित्ययुक्तः स्याद् दान्तो मैत्रः समाहितः ।
ं६।०८च्/ दाता नित्यमनादाता सर्वभूतानुकम्पकः ॥ Bछ्.Sछ्॥

ं६।०९अ/ वैतानिकं च जुहुयादग्निहोत्रं यथाविधि ।
ं६।०९च्/ दर्शमस्कन्दयन् पर्व पौर्णमासं च योगतः ॥ Bछ्.Sछ्॥

ं६।१०अ/ ऋक्षेष्ट्य्।आग्रयणं चैव चातुर्मास्यानि चाहरेत् । %[ं।दर्शेष्ट्य्।आग्रयणं]
ं६।१०च्/ तुरायणं च क्रमशो दक्षस्यायनमेव च ॥ Bछ्.Sछ्॥ %[क्ं।दाक्षस्यायनं ]
ं६।११अ/ वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः ।
ं६।११च्/ पुरोडाशांश्चरूंश्चैव विधिवत्निर्वपेत् पृथक् ॥ Bछ्.Sछ्॥

ं६।१२अ/ देवताभ्यस्तु तद् हुत्वा वन्यं मेध्यतरं हविः ।
ं६।१२च्/ शेषमात्मनि युञ्जीत लवणं च स्वयं कृतम् ॥ Bछ्.Sछ्॥

ं६।१३अ/ स्थलजौदकशाकानि पुष्पमूलफलानि च ।
ं६।१३च्/ मेध्यवृक्षोद्भवान्यद्यात् स्नेहांश्च फलसंभवान् ॥Bछ्.Sछ्॥

ं६।१४अ/ वर्जयेन् मधु मांसं च भौमानि कवकानि च ।
ं६।१४च्/ भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च ॥ Bछ्.Sछ्॥

ं६।१५अ/ त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसञ्चितम् ।
ं६।१५च्/ जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ Bछ्.Sछ्॥

ं६।१६अ/ न फालकृष्टमश्नीयादुत्सृष्टमपि केन चित् ।
ं६।१६च्/ न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च ॥ Bछ्.Sछ्॥ %[ं।पुष्पानि च फलानि च ]
ं६।१७अ/ अग्निपक्वाशनो वा स्यात् कालपक्वभुजेव वा ।
ं६।१७च्/ अश्मकुट्टो भवेद् वाऽपि दन्तोलूखलिकोऽपि वा ॥ Bछ्.Sछ्॥

ं६।१८अ/ सद्यः प्रक्षालको वा स्यान् माससञ्चयिकोऽपि वा ।
ं६।१८च्/ षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ Bछ्.Sछ्॥

ं६।१९अ/ नक्तं चान्नं समश्नीयाद् दिवा वाऽहृत्य शक्तितः ।
ं६।१९च्/ चतुर्थकालिको वा स्यात् स्याद् वाऽप्यष्टमकालिकः ॥ Bछ्.Sछ्॥

ं६।२०अ/ चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् ।
ं६।२०च्/ पक्षान्तयोर्वाऽप्यश्नीयाद् यवागूं क्वथितां सकृत् ॥ Bछ्.Sछ्॥

ं६।२१अ/ पुष्पमूलफलैर्वाऽपि केवलैर्वर्तयेत् सदा ।
ं६।२१च्/ कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ Bछ्.Sछ्॥

ं६।२२अ/ भूमौ विपरिवर्तेत तिष्ठेद् वा प्रपदैर्दिनम् ।
ं६।२२च्/ स्थानासनाभ्यां विहरेत् सवनेषूपयन्नपः ॥ Bछ्.Sछ्॥

ं६।२३अ/ ग्रीष्मे पञ्चतपास्तु स्याद् वर्षास्वभ्रावकाशिकः ।
ं६।२३च्/ आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ Bछ्.Sछ्॥

ं६।२४अ/ उपस्पृशंस्त्रिषवणं पितॄन् देवांश्च तर्पयेत् ।
ं६।२४च्/ तपस्चरंश्चोग्रतरं शोषयेद् देहमात्मनः ॥ Bछ्.Sछ्॥

ं६।२५अ/ अग्नीनात्मनि वैतानान् समारोप्य यथाविधि ।
ं६।२५च्/ अनग्निरनिकेतः स्यान् मुनिर्मूलफलाशनः ॥ Bछ्.Sछ्॥

ं६।२६अ/ अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराऽऽशयः ।
ं६।२६च्/ शरणेष्वममश्चैव वृक्षमूलनिकेतनः ॥ Bछ्.Sछ्॥

ं६।२७अ/ तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् ।
ं६।२७च्/ गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ Bछ्.Sछ्॥

ं६।२८अ/ ग्रामादाहृत्य वाऽश्नीयादष्टौ ग्रासान् वने वसन् ।
ं६।२८च्/ प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ Bछ्.Sछ्॥

ं६।२९अ/ एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् ।
ं६।२९च्/ विविधाश्चौपनिषदीरात्मसंसिद्धये श्रुतीः ॥ Bछ्.Sछ्॥

ं६।३०अ/ ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः ।
ं६।३०च्/ विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये ॥ Bछ्.Sछ्॥

ं६।३१अ/ अपराजितां वाऽस्थाय व्रजेद् दिशमजिह्मगः ।
ं६।३१च्/ आ निपातात्शरीरस्य युक्तो वार्यनिलाशनः ॥ Bछ्.Sछ्॥

ं६।३२अ/ आसां महर्षिचर्याणां त्यक्त्वाऽन्यतमया तनुम् ।
ं६।३२च्/ वीतशोकभयो विप्रो ब्रह्मलोके महीयते ॥ Bछ्.Sछ्॥

ं६।३३अ/ वनेषु च विहृत्यैवं तृतीयं भागमायुषः ।
ं६।३३च्/ चतुर्थमायुषो भागं त्यक्वा सङ्गान् परिव्रजेत् ॥ Bछ्.Sछ्॥

ं६।३४अ/ आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः ।
ं६।३४च्/ भिक्षाबलिपरिश्रान्तः प्रव्रजन् प्रेत्य वर्धते ॥ Bछ्.Sछ्॥

ं६।३५अ/ ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ।
ं६।३५च्/ अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ Bछ्.Sछ्॥

ं६।३६अ/ अधीत्य विधिवद् वेदान् पुत्रांश्चोत्पाद्य धर्मतः ।
ं६।३६च्/ इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् ॥ Bछ्.Sछ्॥

ं६।३७अ/ अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । %[ं।तथा प्रजां ]
ं६।३७च्/ अनिष्ट्वा चैव यज्ञैश्च मोक्षमिच्छन् व्रजत्यधः ॥ Bछ्.Sछ्॥

ं६।३८अ/ प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् । %[ं।सार्ववेदसदक्षिणाम्]
ं६।३८च्/ आत्मन्यग्नीन् समारोप्य ब्राह्मणः प्रव्रजेद् गृहात् ॥ Bछ्.Sछ्॥

ं६।३९अ/ यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् ।
ं६।३९च्/ तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः ॥ Bछ्.Sछ्॥

ं६।४०अ/ यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् ।
ं६।४०च्/ तस्य देहाद् विमुक्तस्य भयं नास्ति कुतश्चन ॥ Bछ्.Sछ्॥

ं६।४१अ/ अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः ।
ं६।४१च्/ समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् ॥ Bछ्.Sछ्॥

ं६।४२अ/ एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान् ।
ं६।४२च्/ सिद्धिमेकस्य सम्पश्यन्न जहाति न हीयते ॥ Bछ्.Sछ्॥ %[ं।सिद्धम्]
ं६।४३अ/ अनग्निरनिकेतः स्याद् ग्राममन्नार्थमाश्रयेत् ।
ं६।४३च्/ उपेक्षकोऽसङ्कुसुको मुनिर्भावसमाहितः ॥Bछ्.Sछ्॥ %[ंऽसाङ्कुसुको ]
ं६।४४अ/ कपालं वृक्षमूलानि कुचेलमसहायता । %[ं।कुचैलं ]
ं६।४४च्/ समता चैव सर्वस्मिन्नेतत्मुक्तस्य लक्षणम् ॥ Bछ्.Sछ्॥

ं६।४५अ/ नाभिनन्देत मरणं नाभिनन्देत जीवितम् ।
ं६।४५च्/ कालमेव प्रतीक्षेत निर्वेशं भृतको यथा ॥ Bछ्.Sछ्॥

ं६।४६अ/ दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।
ं६।४६च्/ सत्यपूतां वदेद् वाचं मनःपूतं समाचरेत् ॥ Bछ्.Sछ्॥

ं६।४७अ/ अतिवादांस्तितिक्षेत नावमन्येत कं चन ।
ं६।४७च्/ न चैमं देहमाश्रित्य वैरं कुर्वीत केन चित् ॥ Bछ्.Sछ्॥

ं६।४८अ/ क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् ।
ं६।४८च्/ सप्तद्वारावकीर्णां च न वाचमनृतां वदेत् ॥ Bछ्.Sछ्॥

ं६।४९अ/ अध्यात्मरतिरासीनो निरपेक्षो निरामिषः ।
ं६।४९च्/ आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ Bछ्.Sछ्॥

ं६।५०अ/ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया ।
ं६।५०च्/ नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् ॥ Bछ्.Sछ्॥

ं६।५१अ/ न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः ।
ं६।५१च्/ आकीर्णं भिक्षुकैर्वाऽन्यैरगारमुपसंव्रजेत् ॥ Bछ्.Sछ्॥

ं६।५२अ/ कॢप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् ।
ं६।५२च्/ विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् ॥ Bछ्.Sछ्॥

ं६।५३अ/ अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च ।
ं६।५३च्/ तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ Bछ्.Sछ्॥

ं६।५४अ/ अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा ।
ं६।५४च्/ एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् ॥ Bछ्.Sछ्॥

ं६।५५अ/ एककालं चरेद् भैक्षं न प्रसज्जेत विस्तरे ।
ं६।५५च्/ भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ Bछ्.Sछ्॥

ं६।५६अ/ विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।
ं६।५६च्/ वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश्चरेत् ॥ Bछ्.Sछ्॥

ं६।५७अ/ अलाभे न विषदी स्यात्लाभे चैव न हर्षयेत् ।
ं६।५७च्/ प्राणयात्रिकमात्रः स्यात्मात्रासङ्गाद् विनिर्गतः ॥ Bछ्.Sछ्॥

ं६।५८अ/ अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः ।
ं६।५८च्/ अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते ॥ Bछ्.Sछ्॥

ं६।५९अ/ अल्पान्नाभ्यवहारेण रहःस्थानासनेन च ।
ं६।५९च्/ ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् ॥ Bछ्.Sछ्॥

ं६।६०अ/ इन्द्रियाणां निरोधेन रागद्वेषक्षयेण च ।
ं६।६०च्/ अहिंसया च भूतानाममृतत्वाय कल्पते ॥ Bछ्.Sछ्॥

ं६।६१अ/ अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः ।
ं६।६१च्/ निरये चैव पतनं यातनाश्च यमक्षये ॥ Bछ्.Sछ्॥

ं६।६२अ/ विप्रयोगं प्रियैश्चैव संयोगं च तथाऽप्रियैः ।
ं६।६२च्/ जरया चाभिभवनं व्याधिभिश्चोपपीडनम् ॥ Bछ्.Sछ्॥

ं६।६३अ/ देहादुत्क्रमणं चास्मात् पुनर्गर्भे च संभवम् ।
ं६।६३च्/ योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः ॥ Bछ्.Sछ्॥

ं६।६४अ/ अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् ।
ं६।६४च्/ धर्मार्थप्रभवं चैव सुखसंयोगमक्षयम् ॥ Bछ्.Sछ्॥

ं६।६५अ/ सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः ।
ं६।६५च्/ देहेषु च समुत्पत्तिमुत्तमेष्वधमेषु च ॥ Bछ्.Sछ्॥ %[ं।देहेषु चैवोपपत्तिम्]
ं६।६६अ/ दूषितोऽपि चरेद् धर्मं यत्र तत्राश्रमे रतः । %[ं।भूषितोऽपि ]
ं६।६६च्/ समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् ॥ Bछ्.Sछ्॥

ं६।६७अ/ फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् ।
ं६।६७च्/ न नामग्रहणादेव तस्य वारि प्रसीदति ॥ Bछ्.Sछ्॥

ं६।६८अ/ संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा ।
ं६।६८च्/ शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् ॥ Bछ्.Sछ्॥

ं६।६९अ/ अह्ना रात्र्या च याञ्जन्तून् हिनस्त्यज्ञानतो यतिः ।
ं६।६९च्/ तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत् ॥ Bछ्.Sछ्॥

ं६।७०अ/ प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत् कृताः ।
ं६।७०च्/ व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः ॥ Bछ्.Sछ्॥

ं६।७१अ/ दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः ।
ं६।७१च्/ तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् ॥ Bछ्.Sछ्॥

ं६।७२अ/ प्राणायामैर्दहेद् दोषान् धारणाभिश्च किल्बिषम् ।
ं६।७२च्/ प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ Bछ्.Sछ्॥

ं६।७३अ/ उच्चावचेषु भूतेषु दुर्ज्ञेयामकृतात्मभिः ।
ं६।७३च्/ ध्यानयोगेन सम्पश्येद् गतिमस्यान्तरात्मनः ॥ Bछ्.Sछ्॥

ं६।७४अ/ सम्यग्दर्शनसम्पन्नः कर्मभिर्न निबध्यते ।
ं६।७४च्/ दर्शनेन विहीनस्तु संसारं प्रतिपद्यते ॥ Bछ्.Sछ्॥

ं६।७५अ/ अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः ।
ं६।७५च्/ तपसश्चरणैश्चौग्रैः साधयन्तीह तत्पदम् ॥ Bछ्.Sछ्॥

ं६।७६अ/ अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् ।
ं६।७६च्/ चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ॥ Bछ्.Sछ्॥

ं६।७७अ/ जराशोकसमाविष्टं रोगायतनमातुरम् ।
ं६।७७च्/ रजस्वलमनित्यं च भूतावासमिमं त्यजेत् ॥ Bछ्.Sछ्॥

ं६।७८अ/ नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा ।
ं६।७८च्/ तथा त्यजन्निमं देहं कृच्छ्राद् ग्राहाद् विमुच्यते ॥ Bछ्.Sछ्॥

ं६।७९अ/ प्रियेषु स्वेषु सुकृतमप्रियेषु च दुष्कृतम् ।
ं६।७९च्/ विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् ॥ Bछ्.Sछ्॥

ं६।८०अ/ यदा भावेन भवति सर्वभावेषु निःस्पृहः ।
ं६।८०च्/ तदा सुखमवाप्नोति प्रेत्य चैह च शाश्वतम् ॥ Bछ्.Sछ्॥

ं६।८१अ/ अनेन विधिना सर्वांस्त्यक्त्वा सङ्गान् शनैः शनैः ।
ं६।८१च्/ सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ॥ Bछ्.Sछ्॥

ं६।८२अ/ ध्यानिकं सर्वमेवैतद् यदेतदभिशब्दितम् ।
ं६।८२च्/ न ह्यनध्यात्मवित् कश्चित् क्रियाफलमुपाश्नुते ॥ Bछ्.Sछ्॥

ं६।८३अ/ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च ।
ं६।८३च्/ आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ Bछ्.Sछ्॥

ं६।८४अ/ इदं शरणमज्ञानामिदमेव विजानताम् ।
ं६।८४च्/ इदमन्विच्छतां स्वर्गमिदमानन्त्यमिच्छताम् ॥ Bछ्.Sछ्॥

ं६।८५अ/ अनेन क्रमयोगेन परिव्रजति यो द्विजः ।
ं६।८५च्/ स विधूयैह पाप्मानं परं ब्रह्माधिगच्छति ॥ Bछ्.Sछ्॥

ं६।८६अ/ एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् ।
ं६।८६च्/ वेदसंन्यासिकानां तु कर्मयोगं निबोधत ॥ Bछ्.Sछ्॥

ं६।८७अ/ ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
ं६।८७च्/ एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः ॥ Bछ्.Sछ्॥

ं६।८८अ/ सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः ।
ं६।८८च्/ यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ Bछ्.Sछ्॥

ं६।८९अ/ सर्वेषामपि चैतेषां वेदस्मृतिविधानतः । %[ं।वेदश्रुतिविधानतः ]
ं६।८९च्/ गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान् बिभर्ति हि ॥ Bछ्.Sछ्॥

ं६।९०अ/ यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् ।
ं६।९०च्/ तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् ॥ Bछ्.Sछ्॥

ं६।९१अ/ चतुर्भिरपि चैवैतैर्नित्यमाश्रमिभिर्द्विजैः ।
ं६।९१च्/ दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः ॥ Bछ्.Sछ्॥

ं६।९२अ/ धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
ं६।९२च्/ धीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणम् ॥ Bछ्.Sछ्॥

ं६।९३अ/ दश लक्षणानि धर्मस्य ये विप्राः समधीयते ।
ं६।९३च्/ अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् ॥ Bछ्.Sछ्॥

ं६।९४अ/ दशलक्षणकं धर्ममनुतिष्ठन् समाहितः ।
ं६।९४च्/ वेदान्तं विधिवत्श्रुत्वा संन्यसेदनृणो द्विजः ॥ Bछ्.Sछ्॥

ं६।९५अ/ संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् ।
ं६।९५च्/ नियतो वेदमभ्यस्य पुत्रैश्वर्ये सुखं वसेत् ॥ Bछ्.Sछ्॥

ं६।९६अ/ एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः ।
ं६।९६च्/ संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् ॥ Bछ्.Sछ्॥

ं६।९७अ/ एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः ।
ं६।९७च्/ पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत ॥ Bछ्.Sछ्॥

अध्याय ७  CHAPTER  7 

ं७।०१अ/ राजधर्मान् प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ।
ं७।०१च्/ संभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥

ं७।०२अ/ ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ।
ं७।०२च्/ सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ Bछ्.Sछ्॥

ं७।०३अ/ अराजके हि लोकेऽस्मिन् सर्वतो विद्रुतो भयात् ।
ं७।०३च्/ रक्षार्थमस्य सर्वस्य राजानमसृजत् प्रभुः ॥ Bछ्.Sछ्॥

ं७।०४अ/ इन्द्रानिलयमार्काणामग्नेश्च वरुणस्य च ।
ं७।०४च्/ चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीः ॥ Bछ्.Sछ्॥

ं७।०५अ/ यस्मादेषां सुरेन्द्राणां मात्राभ्यो निर्मितो नृपः ।
ं७।०५च्/ तस्मादभिभवत्येष सर्वभूतानि तेजसा ॥ Bछ्.Sछ्॥

ं७।०६अ/ तपत्यादित्यवच्चैष चक्षूंषि च मनांसि च ।
ं७।०६च्/ न चैनं भुवि शक्नोति कश्चिदप्यभिवीक्षितुम् ॥ Bछ्.Sछ्॥

ं७।०७अ/ सोऽग्निर्भवति वायुश्च सोऽर्कः सोमः स धर्मराट् ।
ं७।०७च्/ स कुबेरः स वरुणः स महेन्द्रः प्रभावतः ॥ Bछ्.Sछ्॥ %[ं।स चैन्द्रः स्वप्रभावतः] ॥
ं७।०८अ/ बालोऽपि नावमान्तव्यो मनुष्य इति भूमिपः ।
ं७।०८च्/ महती देवता ह्येषा नररूपेण तिष्ठति ॥ Bछ्.Sछ्॥

ं७।०९अ/ एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् ।
ं७।०९च्/ कुलं दहति राजाऽग्निः सपशुद्रव्यसञ्चयम् ॥ Bछ्.Sछ्॥

ं७।१०अ/ कार्यं सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः ।
ं७।१०च्/ कुरुते धर्मसिद्ध्यर्थं विश्वरूपं पुनः पुनः ॥ Bछ्.Sछ्॥

ं७।११अ/ यस्य प्रसादे पद्मा श्रीर्विजयश्च पराक्रमे ।
ं७।११च्/ मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः ॥ Bछ्.Sछ्॥

ं७।१२अ/ तं यस्तु द्वेष्टि संमोहात् स विनश्यत्यसंशयम् ।
ं७।१२च्/ तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ Bछ्.Sछ्॥

ं७।१३अ/ तस्माद् धर्मं यमिष्टेषु स व्यवस्येन्नराधिपः ।
ं७।१३च्/ अनिष्टं चाप्यनिष्टेषु तं धर्मं न विचालयेत् ॥ Bछ्.Sछ्॥

ं७।१४अ/ तस्यार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् । %[ं।तदर्थं]
ं७।१४च्/ ब्रह्मतेजोमयं दण्डमसृजत् पूर्वमीश्वरः ॥ Bछ्.Sछ्॥

ं७।१५अ/ तस्य सर्वाणि भूतानि स्थावराणि चराणि च ।
ं७।१५च्/ भयाद् भोगाय कल्पन्ते स्वधर्मात्न चलन्ति च ॥ Bछ्.Sछ्॥

ं७।१६अ/ तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः ।
ं७।१६च्/ यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्तिषु ॥ Bछ्.Sछ्॥

ं७।१७अ/ स राजा पुरुषो दण्डः स नेता शासिता च सः ।
ं७।१७च्/ चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ Bछ्.Sछ्॥

ं७।१८अ/ दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ।
ं७।१८च्/ दण्डः सुप्तेषु जागर्ति दण्डं धर्मं विदुर्बुधाः ॥ Bछ्.Sछ्॥

ं७।१९अ/ समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः ।
ं७।१९च्/ असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ Bछ्.Sछ्॥

ं७।२०अ/ यदि न प्रणयेद् राजा दण्डं दण्ड्येष्वतन्द्रितः ।
ं७।२०च्/ शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ Bछ्.Sछ्॥

ं७।२१अ/ अद्यात् काकः पुरोडाशं श्वा च लिह्याद्द् हविस्तथा । %[ं।श्वाऽवलिह्याद्द्]
ं७।२१च्/ स्वाम्यं च न स्यात् कस्मिंश्चित् प्रवर्तेताधरोत्तरम् ॥ Bछ्.Sछ्॥

ं७।२२अ/ सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ।
ं७।२२च्/ दण्डस्य हि भयात् सर्वं जगद् भोगाय कल्पते ॥ Bछ्.Sछ्॥

ं७।२३अ/ देवदानवगन्धर्वा रक्षांसि पतगोरगाः ।
ं७।२३च्/ तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ Bछ्.Sछ्॥

ं७।२४अ/ दुष्येयुः सर्ववर्णाश्च भिद्येरन् सर्वसेतवः ।
ं७।२४च्/ सर्वलोकप्रकोपश्च भवेद् दण्डस्य विभ्रमात् ॥ Bछ्.Sछ्॥

ं७।२५अ/ यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ।
ं७।२५च्/ प्रजास्तत्र न मुह्यन्ति नेता चेत् साधु पश्यति ॥ Bछ्.Sछ्॥

ं७।२६अ/ तस्याहुः सम्प्रणेतारं राजानं सत्यवादिनम् ।
ं७।२६च्/ समीक्ष्यकारिणं प्राज्ञं धर्मकामार्थकोविदम् ॥ Bछ्.Sछ्॥

ं७।२७अ/ तं राजा प्रणयन् सम्यक् त्रिवर्गेणाभिवर्धते ।
ं७।२७च्/ कामात्मा विषमः क्षुद्रो दण्डेनैव निहन्यते ॥ Bछ्.Sछ्॥ %[ं।कामान्धो ]
ं७।२८अ/ दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः ।
ं७।२८च्/ धर्माद् विचलितं हन्ति नृपमेव सबान्धवम् ॥ Bछ्.Sछ्॥

ं७।२९अ/ ततो दुर्गं च राष्ट्रं च लोकं च सचराचरम् ।
ं७।२९च्/ अन्तरिक्षगतांश्चैव मुनीन् देवांश्च पीडयेत् ॥ Bछ्.Sछ्॥

ं७।३०अ/ सोऽसहायेन मूढेन लुब्धेनाकृतबुद्धिना ।
ं७।३०च्/ न शक्यो न्यायतो नेतुं सक्तेन विषयेषु च ॥ Bछ्.Sछ्॥

ं७।३१अ/ शुचिना सत्यसंधेन यथाशास्त्रानुसारिणा ।
ं७।३१च्/ प्रणेतुं शक्यते दण्डः सुसहायेन धीमता ॥ Bछ्.Sछ्॥

ं७।३२अ/ स्वराष्ट्रे न्यायवृत्तः स्याद् भृशदण्डश्च शत्रुषु ।
ं७।३२च्/ सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥ Bछ्.Sछ्॥

ं७।३३अ/ एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
ं७।३३च्/ विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ Bछ्.Sछ्॥

ं७।३४अ/ अतस्तु विपरीतस्य नृपतेरजितात्मनः ।
ं७।३४च्/ सङ्क्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ Bछ्.Sछ्॥

ं७।३५अ/ स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः ।
ं७।३५च्/ वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ Bछ्.Sछ्॥

ं७।३६अ/ तेन यद् यत् सभृत्येन कर्तव्यं रक्षता प्रजाः ।
ं७।३६च्/ तत् तद् वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः ॥ Bछ्.Sछ्॥

ं७।३७अ/ ब्राह्मणान् पर्युपासीत प्रातरुत्थाय पार्थिवः ।
ं७।३७च्/ त्रैविद्यवृद्धान् विदुषस्तिष्ठेत् तेषां च शासने ॥ Bछ्.Sछ्॥

ं७।३८अ/ वृद्धांश्च नित्यं सेवेत विप्रान् वेदविदः शुचीन् ।
ं७।३८च्/ वृद्धसेवी हि सततं रक्षोभिरपि पूज्यते ॥ Bछ्.Sछ्॥

ं७।३९अ/ तेभ्योऽधिगच्छेद् विनयं विनीतात्माऽपि नित्यशः ।
ं७।३९च्/ विनीतात्मा हि नृपतिर्न विनश्यति कर्हि चित् ॥ Bछ्.Sछ्॥

ं७।४०अ/ बहवोऽविनयात्नष्टा राजानः सपरिच्छदाः । %[ं।सपरिग्रहाः]
ं७।४०च्/ वनस्था अपि राज्यानि विनयात् प्रतिपेदिरे ॥ Bछ्.Sछ्॥

ं७।४१अ/ वेनो विनष्टोऽविनयात्नहुषश्चैव पार्थिवः ।
ं७।४१च्/ सुदाः पैजवनश्चैव सुमुखो निमिरेव च ॥ Bछ्.Sछ्॥

ं७।४२अ/ पृथुस्तु विनयाद् राज्यं प्राप्तवान् मनुरेव च ।
ं७।४२च्/ कुबेरश्च धनैश्वर्यं ब्राह्मण्यं चैव गाधिजः ॥ Bछ्.Sछ्॥

ं७।४३अ/ त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । %[ं।त्रयीं विद्यात् ]
ं७।४३च्/ आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ Bछ्.Sछ्॥

ं७।४४अ/ इन्द्रियाणां जये योगं समातिष्ठेद् दिवानिशम् ।
ं७।४४च्/ जितैन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ Bछ्.Sछ्॥

ं७।४५अ/ दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च ।
ं७।४५च्/ व्यसनानि दुर्ऽन्तानि प्रयत्नेन विवर्जयेत् ॥ Bछ्.Sछ्॥

ं७।४६अ/ कामजेषु प्रसक्तो हि व्यसनेषु महीपतिः ।
ं७।४६च्/ वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ Bछ्.Sछ्॥

ं७।४७अ/ मृगयाऽक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।
ं७।४७च्/ तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ Bछ्.Sछ्॥

ं७।४८अ/ पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् ।
ं७।४८च्/ वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ Bछ्.Sछ्॥

ं७।४९अ/ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः ।
ं७।४९च्/ तं यत्नेन जयेत्लोभं तज्जावेतावुभौ गणौ ॥ Bछ्.Sछ्॥

ं७।५०अ/ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ।
ं७।५०च्/ एतत् कष्टतमं विद्यात्चतुष्कं कामजे गणे ॥ Bछ्.Sछ्॥

ं७।५१अ/ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे ।
ं७।५१च्/ क्रोधजेऽपि गणे विद्यात् कष्टमेतत् त्रिकं सदा ॥ Bछ्.Sछ्॥

ं७।५२अ/ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः ।
ं७।५२च्/ पूर्वं पूर्वं गुरुतरं विद्याद् व्यसनमात्मवान् ॥ Bछ्.Sछ्॥

ं७।५३अ/ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते ।
ं७।५३च्/ व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ Bछ्.Sछ्॥

ं७।५४अ/ मौलान् शास्त्रविदः शूरान् लब्धलक्षान् कुलोद्भवान् । %[ं।कुलोद्गतान् ]
ं७।५४च्/ सचिवान् सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ Bछ्.Sछ्॥ %[ं।कुर्वीत सुपरीक्षितान्]
ं७।५५अ/ अपि यत् सुकरं कर्म तदप्येकेन दुष्करम् ।
ं७।५५च्/ विशेषतोऽसहायेन किं तु राज्यं महोदयम् ॥ Bछ्.Sछ्॥ %[ं।किं नु ]
ं७।५६अ/ तैः सार्धं चिन्तयेन्नित्यं सामान्यं संधिविग्रहम् ।
ं७।५६च्/ स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ Bछ्.Sछ्॥

ं७।५७अ/ तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् ।
ं७।५७च्/ समस्तानां च कार्येषु विदध्याद्द् हितमात्मनः ॥ Bछ्.Sछ्॥

ं७।५८अ/ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता ।
ं७।५८च्/ मन्त्रयेत् परमं मन्त्रं राजा षाड्गुण्यसंयुतम् ॥ Bछ्.Sछ्॥

ं७।५९अ/ नित्यं तस्मिन् समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । %[ंंइक्षिपेत्]
ं७।५९च्/ तेन सार्धं विनिश्चित्य ततः कर्म समारभेत् ॥ Bछ्.Sछ्॥

ं७।६०अ/ अन्यानपि प्रकुर्वीत शुचीन् प्राज्ञानवस्थितान् ।
ं७।६०च्/ सम्यगर्थसमाहर्तॄनमात्यान् सुपरीक्षितान् ॥ Bछ्.Sछ्॥

ं७।६१अ/ निर्वर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः ।
ं७।६१च्/ तावतोऽतन्द्रितान् दक्षान् प्रकुर्वीत विचक्षणान् ॥ Bछ्.Sछ्॥

ं७।६२अ/ तेषामर्थे नियुञ्जीत शूरान् दक्षान् कुलोद्गतान् ।
ं७।६२च्/ शुचीनाकरकर्मान्ते भीरूनन्तर्निवेशने ॥ Bछ्.Sछ्॥

ं७।६३अ/ दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।
ं७।६३च्/ इङ्गिताकारचेष्टज्ञं शुचिं दक्षं कुलोद्गतम् ॥ Bछ्.Sछ्॥

ं७।६४अ/ अनुरक्तः शुचिर्दक्षः स्मृतिमान् देशकालवित् ।
ं७।६४च्/ वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ Bछ्.Sछ्॥

ं७।६५अ/ अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ।
ं७।६५च्/ नृपतौ कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ Bछ्.Sछ्॥

ं७।६६अ/ दूत एव हि संधत्ते भिनत्त्येव च संहतान् ।
ं७।६६च्/ दूतस्तत् कुरुते कर्म भिद्यन्ते येन मानवः ॥ Bछ्.Sछ्॥

ं७।६७अ/ स विद्यादस्य कृत्येषु निर्गूढेङ्गितचेष्टितैः ।
ं७।६७च्/ आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ Bछ्.Sछ्॥

ं७।६८अ/ बुद्ध्वा च सर्वं तत्त्वेन परराजचिकीर्षितम् ।
ं७।६८च्/ तथा प्रयत्नमातिष्ठेद् यथाऽत्मानं न पीडयेत् ॥ Bछ्.Sछ्॥

ं७।६९अ/ जाङ्गलं सस्यसम्पन्नमार्यप्रायमनाविलम् ।
ं७।६९च्/ रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ Bछ्.Sछ्॥

ं७।७०अ/ धन्वदुर्गं महीदुर्गमब्दुर्गं वार्क्षमेव वा ।
ं७।७०च्/ नृदुर्गं गिरिदुर्गं वा समाश्रित्य वसेत् पुरम् ॥ Bछ्.Sछ्॥

ं७।७१अ/ सर्वेण तु प्रयत्नेन गिरिदुर्गं समाश्रयेत् ।
ं७।७१च्/ एषां हि बाहुगुण्येन गिरिदुर्गं विशिष्यते ॥ Bछ्.Sछ्॥

ं७।७२अ/ त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्चराः ।
ं७।७२च्/ त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ Bछ्.Sछ्॥

ं७।७३अ/ यथा दुर्गाश्रितानेतान्नोपहिंसन्ति शत्रवः ।
ं७।७३च्/ तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ Bछ्.Sछ्॥

ं७।७४अ/ एकः शतं योधयति प्राकारस्थो धनुर्धरः ।
ं७।७४च्/ शतं दशसहस्राणि तस्माद् दुर्गं विधीयते ॥ Bछ्.Sछ्॥

ं७।७५अ/ तत् स्यादायुधसम्पन्नं धनधान्येन वाहनैः ।
ं७।७५च्/ ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥ Bछ्.Sछ्॥

ं७।७६अ/ तस्य मध्ये सुपर्याप्तं कारयेद् गृहमात्मनः ।
ं७।७६च्/ गुप्तं सर्वऋतुकं शुभ्रं जलवृक्षसमन्वितम् ॥ Bछ्.Sछ्॥

ं७।७७अ/ तदध्यास्योद्वहेद् भार्यां सवर्णां लक्षणान्विताम् ।
ं७।७७च्/ कुले महति संभूतां हृद्यां रूपगुणान्विताम् ॥ Bछ्.Sछ्॥

ं७।७८अ/ पुरोहितं च कुर्वीत वृणुयादेव चर्त्विजः ।
ं७।७८च्/ तेऽस्य गृह्याणि कर्माणि कुर्युर्वैतानिकानि च ॥ Bछ्.Sछ्॥

ं७।७९अ/ यजेत राजा क्रतुभिर्विविधैराप्तदक्षिणैः ।
ं७।७९च्/ धर्मार्थं चैव विप्रेभ्यो दद्याद् भोगान् धनानि च ॥ Bछ्.Sछ्॥

ं७।८०अ/ सांवत्सरिकमाप्तैश्च राष्ट्रादाहारयेद् बलिम् ।
ं७।८०च्/ स्याच्चाम्नायपरो लोके वर्तेत पितृवत्नृषु ॥ Bछ्.Sछ्॥

ं७।८१अ/ अध्यक्षान् विविधान् कुर्यात् तत्र तत्र विपश्चितः ।
ं७।८१च्/ तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥ Bछ्.Sछ्॥

ं७।८२अ/ आवृत्तानां गुरुकुलाद् विप्राणां पूजको भवेत् ।
ं७।८२च्/ नृपाणामक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥ Bछ्.Sछ्॥

ं७।८३अ/ न तं स्तेना न चामित्रा हरन्ति न च नश्यति ।
ं७।८३च्/ तस्माद् राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ Bछ्.Sछ्॥

ं७।८४अ/ न स्कन्दते न व्यथते न विनश्यति कर्हि चित् । %[ं। न स्कन्दति न च्यवते]
ं७।८४च्/ वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ Bछ्.Sछ्॥

ं७।८५अ/ सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे ।
ं७।८५च्/ प्राधीते शतसाहस्रमनन्तं वेदपारगे ॥ Bछ्.Sछ्॥ %[ं।आचार्ये शतसाहस्रम्]] [ञ्: सहस्रगुणमाचार्ये]
ं७।८६अ/ पात्रस्य हि विशेषेण श्रद्दधानतयैव च ।
ं७।८६च्/ अल्पं वा बहु वा प्रेत्य दानस्य फलमश्नुते ॥ Bछ्.Sछ्॥

%[ं७।८७ंअ/ देशकालविधानेन द्रव्यं श्रद्धासमन्वितम् । %[नोतिन् क्]
%[ं७।८७ंच्/ पात्रे प्रदीयते यत् तु तद् धर्मस्य प्रसाधनम् ॥ Bछ्.Sछ्॥ %[नोतिन् क्]
%(आल्थोउग्ः ंएधातिथि चोम्मेन्त्स् ओन् थे अबोवे श्लोक, ज़्ह’स् एदितिओन् दोएः नोत् चोउन्तितिन् हिः नुम्बेरिन्गोफ़् थे तेक्ष्त् ठेरेफ़ोरे, ञ्ह एद्’ः नुम्बेरिन्गिस्थे समे वित्ः किन् थे फ़ोल्लोविन्ग्)
ं७।८७अ[८८ंअ]/ समोत्तमाधमै राजा त्वाहूतः पालयन् प्रजाः ।
ं७।८७च्[८८ंच्]/ न निवर्तेत सङ्ग्रामात् क्षात्रं धर्ममनुस्मरन् ॥ Bछ्.Sछ्॥

ं७।८८अ[८९ंअ]/ सङ्ग्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् ।
ं७।८८च्[८९ंच्]/ शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ Bछ्.Sछ्॥

ं७।८९अ[९०ंअ]/ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः ।
ं७।८९च्[९०ंच्]/ युध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ Bछ्.Sछ्॥

ं७।९०अ[९१ंअ]/ न कूटैरायुधैर्हन्याद् युध्यमानो रणे रिपून् ।
ं७।९०च्[९१ंच्]/ न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ Bछ्.Sछ्॥

ं७।९१अ[९२ंअ]/ न च हन्यात् स्थलारूढं न क्लीबं न कृताञ्जलिम् ।
ं७।९१च्[९२ंच्]/ न मुक्तकेशं नासीनं न तवास्मीति वादिनम् ॥ Bछ्.Sछ्॥

ं७।९२अ[९३ंअ]/ न सुप्तं न विसंनाहं न नग्नं न निरायुधम् ।
ं७।९२च्[९३ंच्]/ नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ Bछ्.Sछ्॥

ं७।९३अ[९४ंअ]/ नायुधव्यसनप्राप्तं नार्तं नातिपरिक्षतम् ।
ं७।९३च्[९४ंच्]/ न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ Bछ्.Sछ्॥

ं७।९४अ[९५ंअ]/ यस्तु भीतः परावृत्तः सङ्ग्रामे हन्यते परैः ।
ं७।९४च्[९५ंच्]/ भर्तुर्यद् दुष्कृतं किं चित् तत् सर्वं प्रतिपद्यते ॥ Bछ्.Sछ्॥

ं७।९५अ[९६ंअ]/ यत्चास्य सुकृतं किं चिदमुत्रार्थमुपार्जितम् ।
ं७।९५च्[९६ंच्]/ भर्ता तत् सर्वमादत्ते परावृत्तहतस्य तु ॥ Bछ्.Sछ्॥

ं७।९६अ[९७ंअ]/ रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून् स्त्रियः ।
ं७।९६च्[९७ंच्]/ सर्वद्रव्याणि कुप्यं च यो यज् जयति तस्य तत् ॥ Bछ्.Sछ्॥

ं७।९७अ[९८ंअ]/ राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः ।
ं७।९७च्[९८ंच्]/ राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ Bछ्.Sछ्॥

ं७।९८अ[९९ंअ]/ एषोऽनुपस्कृतः प्रोक्तो योधधर्मः सनातनः ।
ं७।९८च्[९९ंच्]/ अस्माद् धर्मान्न च्यवेत क्षत्रियो घ्नन् रणे रिपून् ॥ Bछ्.Sछ्॥

ं७।९९अ[१००ंअ]/ अलब्धं चैव लिप्सेत लब्धं रक्षेत् प्रयत्नतः ।
ं७।९९च्[१००ंच्]/ रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ॥ Bछ्.Sछ्॥

ं७।१००अ[१०१ंअ]/ एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् ।
ं७।१००च्[१०१ंच्]/ अस्य नित्यमनुष्ठानं सम्यक् कुर्यादतन्द्रितः ॥ Bछ्.Sछ्॥

ं७।१०१अ[१०२ंअ]/ अलब्धमिच्छेद् दण्डेन लब्धं रक्षेदवेक्षया ।
ं७।१०१च्[१०२ंच्]/ रक्षितं वर्धयेद् वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ॥ Bछ्.Sछ्॥

ं७।१०२अ[१०३ंअ]/ नित्यमुद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।
ं७।१०२च्[१०३ंच्]/ नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ॥ Bछ्.Sछ्॥

ं७।१०३अ[१०४ंअ]/ नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ।
ं७।१०३च्[१०४ंच्]/ तस्मात् सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ Bछ्.Sछ्॥

ं७।१०४अ[१०५ंअ]/ अमाययैव वर्तेत न कथं चन मायया ।
ं७।१०४च्[१०५ंच्]/ बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ॥ Bछ्.Sछ्॥

ं७।१०५अ[१०६ंअ]/ नास्य छिद्रं परो विद्याद् विद्यात्छिद्रं परस्य च ।
ं७।१०५च्[१०६ंच्]/ गूहेत् कूर्म इवाङ्गानि रक्षेद् विवरमात्मनः ॥ Bछ्.Sछ्॥

ं७।१०६अ[१०७ंअ]/ बकवत्चिन्तयेदर्थान् सिंहवत्च पराक्रमे ।
ं७।१०६च्[१०७ंच्]/ वृकवत्चावलुम्पेत शशवत्च विनिष्पतेत् ॥ Bछ्.Sछ्॥

ं७।१०७अ[१०८ंअ]/ एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः ।
ं७।१०७च्[१०८ंच्]/ तानानयेद् वशं सर्वान् सामादिभिरुपक्रमैः ॥ Bछ्.Sछ्॥

ं७।१०८अ[१०९ंअ]/ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।
ं७।१०८च्[१०९ंच्]/ दण्डेनैव प्रसह्यैतांशनकैर्वशमानयेत् ॥ Bछ्.Sछ्॥

ं७।१०९अ[११०ंअ]/ सामादीनामुपायानां चतुर्णामपि पण्डिताः ।
ं७।१०९च्[११०ंच्]/ सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ Bछ्.Sछ्॥

ं७।११०[१११ंअ]/ यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।
ं७।११०च्[१११ंच्]/ तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ॥ Bछ्.Sछ्॥

ं७।१११अ[११२ंअ]/ मोहाद् राजा स्वराष्ट्रं यः कर्षयत्यनवेक्षया ।
ं७।१११च्[११२ंच्]/ सोऽचिराद् भ्रश्यते राज्यात्जीवितात्च सबान्धवः ॥ Bछ्.Sछ्॥

ं७।११२अ[११३ंअ]/ शरीरकर्षणात् प्राणाः क्षीयन्ते प्राणिनां यथा ।
ं७।११२च्[११३ंच्]/ तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात् ॥ Bछ्.Sछ्॥

ं७।११३अ[११४ंअ]/ राष्ट्रस्य सङ्ग्रहे नित्यं विधानमिदमाचरेत् ।
ं७।११३च्[११४ंच्]/ सुसङ्गृहीतराष्ट्रे हि पार्थिवः सुखमेधते ॥ Bछ्.Sछ्॥

ं७।११४अ[११५ंअ]/ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् ।
ं७।११४च्[११५ंच्]/ तथा ग्रामशतानां च कुर्याद् राष्ट्रस्य सङ्ग्रहम् ॥ Bछ्.Sछ्॥

ं७।११५अ[११६ंअ]/ ग्रामस्याधिपतिं कुर्याद् दशग्रामपतिं तथा ।
ं७।११५च्[११६ंच्]/ विंशतीशं शतेशं च सहस्रपतिमेव च ॥ Bछ्.Sछ्॥

ं७।११६अ[११७ंअ]/ ग्रामदोषान् समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ।
ं७।११६च्[११७ंच्]/ शंसेद् ग्रामदशेशाय दशेशो विंशतीशिने ॥ Bछ्.Sछ्॥

ं७।११७अ[११८ंअ]/ विंशतीशस्तु तत् सर्वं शतेशाय निवेदयेत् ।
ं७।११७च्[११८ंच्]/ शंसेद् ग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ Bछ्.Sछ्॥

ं७।११८अ[११९ंअ]/ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ।
ं७।११८च्[११९ंच्]/ अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ Bछ्.Sछ्॥

ं७।११९अ[१२०ंअ]/ दशी कुलं तु भुञ्जीत विंशी पञ्च कुलानि च ।
ं७।११९च्[१२०ंच्]/ ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ Bछ्.Sछ्॥

ं७।१२०अ[१२१ंअ]/ तेषां ग्राम्याणि कार्यानि पृथक्कार्याणि चैव हि ।
ं७।१२०च्[१२१ंच्]/ राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतन्द्रितः ॥ Bछ्.Sछ्॥

ं७।१२१अ[१२२ंअ]/ नगरे नगरे चैकं कुर्यात् सर्वार्थचिन्तकम् ।
ं७।१२१च्[१२२ंच्]/ उच्चैःस्थानं घोररूपं नक्षत्राणामिव ग्रहम् ॥ Bछ्.Sछ्॥

ं७।१२२अ[१२३ंअ]/ स ताननुपरिक्रामेत् सर्वानेव सदा स्वयम् ।
ं७।१२२च्[१२३ंच्]/ तेषां वृत्तं परिणयेत् सम्यग् राष्ट्रेषु तत्चरैः ॥ Bछ्.Sछ्॥

ं७।१२३अ[१२४ंअ]/ राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ।
ं७।१२३च्[१२४ंच्]/ भृत्या भवन्ति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ Bछ्.Sछ्॥

ं७।१२४अ[१२५ंअ]/ ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः ।
ं७।१२४च्[१२५ंच्]/ तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनम् ॥ Bछ्.Sछ्॥

ं७।१२५अ[१२६ंअ]/ राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । %[ं राजकर्मसु]
ं७।१२५च्[१२६ंच्]/ प्रत्यहं कल्पयेद् वृत्तिं स्थानं कर्मानुरूपतः ॥ Bछ्.Sछ्॥ %[ं।स्थानकर्मानुरूपतः]
ं७।१२६अ[१२७ंअ]/ पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् ।
ं७।१२६च्[१२७ंच्]/ षाण्मासिकस्तथाऽच्छादो धान्यद्रोणस्तु मासिकः ॥ Bछ्.Sछ्॥

ं७।१२७अ[१२८ंअ]/ क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् ।
ं७।१२७च्[१२८ंच्]/ योगक्षेमं च सम्प्रेक्ष्य वणिजो दापयेत् करान् ॥ Bछ्.Sछ्॥

ं७।१२८अ[१२९ंअ]/ यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।
ं७।१२८च्[१२९ंच्]/ तथाऽवेक्ष्य नृपो राष्ट्रे कल्पयेत् सततं करान् ॥ Bछ्.Sछ्॥

ं७।१२९अ[१३०ंअ]/ यथाऽल्पाल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः ।
ं७।१२९च्[१३०ंच्]/ तथाऽल्पाल्पो ग्रहीतव्यो राष्ट्राद् राज्ञाब्दिकः करः ॥ Bछ्.Sछ्॥

ं७।१३०अ[१३१ंअ]/ पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।
ं७।१३०च्[१३१ंच्]/ धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ Bछ्.Sछ्॥

ं७।१३१अ[१३२ंअ]/ आददीताथ षड्भागं द्रुमान् समधुसर्पिषाम् ।
ं७।१३१च्[१३२ंच्]/ गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ Bछ्.Sछ्॥

ं७।१३२अ[१३३ंअ]/ पत्रशाकतृणानां च चर्मणां वैदलस्य च ।
ं७।१३२च्[१३३ंच्]/ मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ Bछ्.Sछ्॥

ं७।१३३अ[१३४ंअ]/ म्रियमाणोऽप्याददीत न राजा श्रोत्रियात् करम् ।
ं७।१३३च्[१३४ंच्]/ न च क्षुधाऽस्य संसीदेत्श्रोत्रियो विषये वसन् ॥ Bछ्.Sछ्॥

ं७।१३४अ[१३५ंअ]/ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।
ं७।१३४च्[१३५ंच्]/ तस्यापि तत् क्षुधा राष्ट्रमचिरेणैव सीदति ॥ Bछ्.Sछ्॥

ं७।१३५अ[१३६ंअ]/ श्रुतवृत्ते विदित्वाऽस्य वृत्तिं धर्म्यां प्रकल्पयेत् ।
ं७।१३५च्[१३६ंच्]/ संरक्षेत् सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥ Bछ्.Sछ्॥

ं७।१३६अ[१३७ंअ]/ संरक्ष्यमाणो राज्ञा यं कुरुते धर्ममन्वहम् । %[ं राज्ञाऽयं]
ं७।१३६च्[१३७ंच्]/ तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ Bछ्.Sछ्॥

ं७।१३७अ[१३८ंअ]/ यत् किं चिदपि वर्षस्य दापयेत् करसंज्ञितम् ।
ं७।१३७च्[१३८ंच्]/ व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ॥ Bछ्.Sछ्॥

ं७।१३८अ[१३९ंअ]/ कारुकान् शिल्पिनश्चैव शूद्रांश्चात्मोपजीविनः ।
ं७।१३८च्[१३९ंच्]/ एकैकं कारयेत् कर्म मासि मासि महीपतिः ॥ Bछ्.Sछ्॥

ं७।१३९अ[१४०ंअ]/ नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया ।
ं७।१३९च्[१४०ंच्]/ उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीडयेत् ॥ Bछ्.Sछ्॥

ं७।१४०अ[१४१ंअ]/ तीक्ष्णश्चैव मृदुश्च स्यात् कार्यं वीक्ष्य महीपतिः ।
ं७।१४०च्[१४१ंच्]/ तीक्ष्णश्चैव मृदुश्चैव राज भवति सम्मतः ॥ Bछ्.Sछ्॥

ं७।१४१अ[१४२ंअ]/ अमात्यमुख्यं धर्मज्ञं प्राज्ञं दान्तं कुलोद्गतम् ।
ं७।१४१च्[१४२ंच्]/ स्थापयेदासने तस्मिन् खिन्नः कार्यैक्षणे नृणाम् ॥ Bछ्.Sछ्॥

ं७।१४२अ[१४३ंअ]/ एवं सर्वं विधायैदमितिकर्तव्यमात्मनः ।
ं७।१४२च्[१४३ंच्]/ युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ Bछ्.Sछ्॥

ं७।१४३अ[१४४ंअ]/ विक्रोशन्त्यो यस्य राष्ट्राद् ह्रियन्ते दस्युभिः प्रजाः ।
ं७।१४३च्[१४४ंच्]/ सम्पश्यतः सभृत्यस्य मृतः स न तु जीवति ॥ Bछ्.Sछ्॥

ं७।१४४अ[१४५ंअ]/ क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् ।
ं७।१४४च्[१४५ंच्]/ निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ Bछ्.Sछ्॥

ं७।१४५अ[१४६ंअ]/ उत्थाय पश्चिमे यामे कृतशौचः समाहितः ।
ं७।१४५च्[१४६ंच्]/ हुताग्निर्ब्राह्मणांश्चार्च्य प्रविशेत् स शुभां सभाम् ॥ Bछ्.Sछ्॥

ं७।१४६अ[१४७ंअ]/ तत्र स्थितः प्रजाः सर्वाः प्रतिनन्द्य विसर्जयेत् ।
ं७।१४६च्[१४७ंच्]/ विसृज्य च प्रजाः सर्वा मन्त्रयेत् सह मन्त्रिभिः ॥ Bछ्.Sछ्॥

ं७।१४७अ[१४८ंअ]/ गिरिपृष्ठं समारुह्य प्रासादं वा रहोगतः ।
ं७।१४७च्[१४८ंच्]/ अरण्ये निःशलाके वा मन्त्रयेदविभावितः ॥ Bछ्.Sछ्॥

ं७।१४८अ[१४९ंअ]/ यस्य मन्त्रं न जानन्ति समागम्य पृथग्जनाः ।
ं७।१४८च्[१४९ंच्]/ स कृत्स्नां पृथिवीं भुङ्क्ते कोशहीनोऽपि पार्थिवः ॥ Bछ्.Sछ्॥

ं७।१४९अ[१५०ंअ]/ जडमूकान्धबधिरांस्तैर्यग्योनान् वयोऽतिगान् ।
ं७।१४९च्[१५०ंच्]/ स्त्रीम्लेच्छव्याधितव्यङ्गान् मन्त्रकालेऽपसारयेत् ॥ Bछ्.Sछ्॥

ं७।१५०अ[१५१ंअ]/ भिन्दन्त्यवमता मन्त्रं तैर्यग्योनास्तथैव च ।
ं७।१५०च्[१५१ंच्]/ स्त्रियश्चैव विशेषेण तस्मात् तत्रादृतो भवेत् ॥ Bछ्.Sछ्॥

ं७।१५१अ[१५२ंअ]/ मध्यंदिनेऽर्धरात्रे वा विश्रान्तो विगतक्लमः ।
ं७।१५१च्[१५२ंच्]/ चिन्तयेद् धर्मकामार्थान् सार्धं तैरेक एव वा ॥ Bछ्.Sछ्॥ %[ं।सार्थं ]
ं७।१५२अ[१५३ंअ]/ परस्परविरुद्धानां तेषां च समुपार्जनम् ।
ं७।१५२च्[१५३ंच्]/ कन्यानां सम्प्रदानं च कुमाराणां च रक्षणम् ॥ Bछ्.Sछ्॥

ं७।१५३अ[१५४ंअ]/ दूतसम्प्रेषणं चैव कार्यशेषं तथैव च ।
ं७।१५३च्[१५४ंच्]/ अन्तःपुरप्रचारं च प्रणिधीनां च चेष्टितम् ॥ Bछ्.Sछ्॥

ं७।१५४अ[१५५ंअ]/ कृत्स्नं चाष्टविधं कर्म पञ्चवर्गं च तत्त्वतः ।
ं७।१५४च्[१५५ंच्]/ अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ Bछ्.Sछ्॥

ं७।१५५अ[१५६ंअ]/ मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् ।
ं७।१५५च्[१५६ंच्]/ उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥ Bछ्.Sछ्॥

ं७।१५६अ[१५७ंअ]/ एताः प्रकृतयो मूलं मण्डलस्य समासतः ।
ं७।१५६च्[१५७ंच्]/ अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ Bछ्.Sछ्॥

ं७।१५७अ[१५८ंअ]/ अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः ।
ं७।१५७च्[१५८ंच्]/ प्रत्येकं कथिता ह्येताः सङ्क्षेपेण द्विसप्ततिः ॥ Bछ्.Sछ्॥

ं७।१५८अ[१५९ंअ]/ अनन्तरमरिं विद्यादरिसेविनमेव च ।
ं७।१५८च्[१५९ंच्]/ अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ Bछ्.Sछ्॥

ं७।१५९अ[१६०ंअ]/ तान् सर्वानभिसंदध्यात् सामादिभिरुपक्रमैः ।
ं७।१५९च्[१६०ंच्]/ व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ Bछ्.Sछ्॥

ं७।१६०अ[१६१ंअ]/ संधिं च विग्रहं चैव यानमासनमेव च ।
ं७।१६०च्[१६१ंच्]/ द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत् सदा ॥ Bछ्.Sछ्॥

ं७।१६१अ[१६२ंअ]/ आसनं चैव यानं च संधिं विग्रहमेव च ।
ं७।१६१च्[१६२ंच्]/ कार्यं वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ Bछ्.Sछ्॥

ं७।१६२अ[१६३ंअ]/ संधिं तु द्विविधं विद्याद् राजा विग्रहमेव च ।
ं७।१६२च्[१६३ंच्]/ उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ Bछ्.Sछ्॥

ं७।१६३अ[१६४ंअ]/ समानयानकर्मा च विपरीतस्तथैव च ।
ं७।१६३च्[१६४ंच्]/ तदा त्वायतिसंयुक्तः संधिर्ज्ञेयो द्विलक्षणः ॥ Bछ्.Sछ्॥

ं७।१६४अ[१६५ंअ]/ स्वयङ्कृतश्च कार्यार्थमकाले काल एव वा ।
ं७।१६४च्[१६५ंच्]/ मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ Bछ्.Sछ्॥

ं७।१६५अ[१६६ंअ]/ एकाकिनश्चात्ययिके कार्ये प्राप्ते यदृच्छया ।
ं७।१६५च्[१६६ंच्]/ संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ Bछ्.Sछ्॥

ं७।१६६अ[१६७ंअ]/ क्षीणस्य चैव क्रमशो दैवात् पूर्वकृतेन वा ।
ं७।१६६च्[१६७ंच्]/ मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ Bछ्.Sछ्॥

ं७।१६७अ[१६८ंअ]/ बलस्य स्वामिनश्चैव स्थितिः कार्यार्थसिद्धये ।
ं७।१६७च्[१६८ंच्]/ द्विविधं कीर्त्यते द्वैधं षाड्गुण्यगुणवेदिभिः ॥ Bछ्.Sछ्॥

ं७।१६८अ[१६९ंअ]/ अर्थसम्पादनार्थं च पीड्यमानस्य शत्रुभिः ।
ं७।१६८च्[१६९ंच्]/ साधुषु व्यपदेशश्च द्विविधः संश्रयः स्मृतः ॥ Bछ्.Sछ्॥

ं७।१६९अ[१७०ंअ]/ यदाऽवगच्छेदायत्यामाधिक्यं ध्रुवमात्मनः ।
ं७।१६९च्[१७०ंच्]/ तदात्वे चाल्पिकां पीडां तदा संधिं समाश्रयेत् ॥ Bछ्.Sछ्॥

ं७।१७०अ[१७१ंअ]/ यदा प्रहृष्टा मन्येत सर्वास्तु प्रकृतीर्भृशम् ।
ं७।१७०च्[१७१ंच्]/ अत्युच्छ्रितं तथात्मानं तदा कुर्वीत विग्रहम् ॥ Bछ्.Sछ्॥

ं७।१७१अ[१७२ंअ]/ यदा मन्येत भावेन हृष्टं पुष्टं बलं स्वकम् ।
ं७।१७१च्[१७२ंच्]/ परस्य विपरीतं च तदा यायाद् रिपुं प्रति ॥ Bछ्.Sछ्॥

ं७।१७२अ[१७३ंअ]/ यदा तु स्यात् परिक्षीणो वाहनेन बलेन च ।
ं७।१७२च्[१७३ंच्]/ तदासीत प्रयत्नेन शनकैः सान्त्वयन्नरीन् ॥ Bछ्.Sछ्॥

ं७।१७३अ[१७४ंअ]/ मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ।
ं७।१७३च्[१७४ंच्]/ तदा द्विधा बलं कृत्वा साधयेत् कार्यमात्मनः ॥ Bछ्.Sछ्॥

ं७।१७४अ[१७५ंअ]/ यदा परबलानां तु गमनीयतमो भवेत् ।
ं७।१७४च्[१७५ंच्]/ तदा तु संश्रयेत् क्षिप्रं धार्मिकं बलिनं नृपम् ॥ Bछ्.Sछ्॥

ं७।१७५अ[१७६ंअ]/ निग्रहं प्रकृतीनां च कुर्याद् योऽरिबलस्य च ।
ं७।१७५च्[१७६ंच्]/ उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ॥ Bछ्.Sछ्॥

ं७।१७६अ[१७७ंअ]/ यदि तत्रापि सम्पश्येद् दोषं संश्रयकारितम् ।
ं७।१७६च्[१७७ंच्]/ सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ Bछ्.Sछ्॥

ं७।१७७अ[१७८ंअ]/ सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।
ं७।१७७च्[१७८ंच्]/ यथाऽस्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ॥ Bछ्.Sछ्॥

ं७।१७८अ[१७९ंअ]/ आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।
ं७।१७८च्[१७९ंच्]/ अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ॥ Bछ्.Sछ्॥

ं७।१७९अ[१८०ंअ]/ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।
ं७।१७९च्[१८०ंच्]/ अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ Bछ्.Sछ्॥

ं७।१८०अ[१८१ंअ]/ यथैनं नाभिसंदध्युर्मित्रोदासीनशत्रवः ।
ं७।१८०च्[१८१ंच्]/ तथा सर्वं संविदध्यादेष सामासिको नयः ॥ Bछ्.Sछ्॥

ं७।१८१अ[१८२ंअ]/ तदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः ।
ं७।१८१च्[१८२ंच्]/ तदानेन विधानेन यायादरिपुरं शनैः ॥ Bछ्.Sछ्॥

ं७।१८२अ[१८३ंअ]/ मार्गशीर्षे शुभे मासि यायाद् यात्रां महीपतिः ।
ं७।१८२च्[१८३ंच्]/ फाल्गुनं वाथ चैत्रं वा मासौ प्रति यथाबलम् ॥ Bछ्.Sछ्॥

ं७।१८३अ[१८४ंअ]/ अन्येष्वपि तु कालेषु यदा पश्येद् ध्रुवं जयम् ।
ं७।१८३च्[१८४ंच्]/ तदा यायाद् विगृह्यैव व्यसने चोत्थिते रिपोः ॥ Bछ्.Sछ्॥

ं७।१८४अ[१८५ंअ]/ कृत्वा विधानं मूले तु यात्रिकं च यथाविधि ।
ं७।१८४च्[१८५ंच्]/ उपगृह्यास्पदं चैव चारान् सम्यग् विधाय च ॥ Bछ्.Sछ्॥

ं७।१८५अ[१८६ंअ]/ संशोध्य त्रिविधं मार्गं षड्विधं च बलं स्वकम् ।
ं७।१८५च्[१८६ंच्]/ सांपरायिककल्पेन यायादरिपुरं प्रति ॥ Bछ्.Sछ्॥

ं७।१८६अ[१८७ंअ]/ शत्रुसेविनि मित्रे च गूढे युक्ततरो भवेत् ।
ं७।१८६च्[१८७ंच्]/ गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ Bछ्.Sछ्॥

ं७।१८७अ[१८८ंअ]/ दण्डव्यूहेन तन् मार्गं यायात् तु शकटेन वा ।
ं७।१८७च्[१८८ंच्]/ वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ Bछ्.Sछ्॥

ं७।१८८अ[१८९ंअ]/ यतश्च भयमाशङ्केत् ततो विस्तारयेद् बलम् ।
ं७।१८८च्[१८९ंच्]/ पद्मेन चैव व्यूहेन निविशेत सदा स्वयम् ॥ Bछ्.Sछ्॥

ं७।१८९अ[१९०ंअ]/ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् ।
ं७।१८९च्[१९०ंच्]/ यतश्च भयमाशङ्केत् प्राचीं तां कल्पयेद् दिशम् ॥ Bछ्.Sछ्॥

ं७।१९०अ[१९१ंअ]/ गुल्मांश्च स्थापयेदाप्तान् कृतसंज्ञान् समन्ततः ।
ं७।१९०च्[१९१ंच्]/ स्थाने युद्धे च कुशलानभीरूनविकारिणः ॥ Bछ्.Sछ्॥

ं७।१९१अ[१९२ंअ]/ संहतान् योधयेदल्पान् कामं विस्तारयेद् बहून् ।
ं७।१९१च्[१९२ंच्]/ सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥ Bछ्.Sछ्॥

ं७।१९२अ[१९३ंअ]/ स्यन्दनाश्वैः समे युध्येदनूपेनोद्विपैस्तथा ।
ं७।१९२च्[१९३ंच्]/ वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ Bछ्.Sछ्॥

ं७।१९३अ[१९४ंअ]/ कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालांशूरसेनजान् । %[ं:कौरक्षेत्रांश्च ]
ं७।१९३च्[१९४ंच्]/ दीर्घांल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥ Bछ्.Sछ्॥

ं७।१९४अ[१९५ंअ]/ प्रहर्षयेद् बलं व्यूह्य तांश्च सम्यक् परीक्षयेत् । %[ं।भृशं परीक्षयेत्)]
ं७।१९४च्[१९५ंच्]/ चेष्टाश्चैव विजानीयादरीन् योधयतामपि ॥ Bछ्.Sछ्॥

ं७।१९५अ[१९६ंअ]/ उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
ं७।१९५च्[१९६ंच्]/ दूषयेच्चास्य सततं यवसान्नोदकैन्धनम् ॥ Bछ्.Sछ्॥

ं७।१९६अ[१९७ंअ]/ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।
ं७।१९६च्[१९७ंच्]/ समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत् तथा ॥ Bछ्.Sछ्॥

ं७।१९७अ[१९८ंअ]/ उपजप्यानुपजपेद् बुध्येतैव च तत्कृतम् ।
ं७।१९७च्[१९८ंच्]/ युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ॥ Bछ्.Sछ्॥

ं७।१९८अ[१९९ंअ]/ साम्ना दानेन भेदेन समस्तैरथ वा पृथक् ।
ं७।१९८च्[१९९ंच्]/ विजेतुं प्रयतेतारीन्न युद्धेन कदा चन ॥ Bछ्.Sछ्॥ %[ंअरिं]
ं७।१९९अ[२००ंअ]/ अनित्यो विजयो यस्माद् दृश्यते युध्यमानयोः ।
ं७।१९९च्[२००ंच्]/ पराजयश्च सङ्ग्रामे तस्माद् युद्धं विवर्जयेत् ॥ Bछ्.Sछ्॥

ं७।२००अ[२०१ंअ]/ त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे ।
ं७।२००च्[२०१ंच्]/ तथा युध्येत सम्पन्नो विजयेत रिपून् यथा ॥ Bछ्.Sछ्॥

ं७।२०१अ[२०२ंअ]/ जित्वा सम्पूजयेद् देवान् ब्राह्मणांश्चैव धार्मिकान् ।
ं७।२०१च्[२०२ंच्]/ प्रदद्यात् परिहारार्थं ख्यापयेदभयानि च ॥ Bछ्.Sछ्॥

ं७।२०२अ[२०३ंअ]/ सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् ।
ं७।२०२च्[२०३ंच्]/ स्थापयेत् तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ Bछ्.Sछ्॥

ं७।२०३अ[२०४ंअ]/ प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् ।
ं७।२०३च्[२०४ंच्]/ रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ Bछ्.Sछ्॥

ं७।२०४अ[२०५ंअ]/ आदानमप्रियकरं दानं च प्रियकारकम् ।
ं७।२०४च्[२०५ंच्]/ अभीप्सितानामर्थानां काले युक्तम् ??॥ Bछ्.Sछ्॥ %[ं।कालयुक्तं प्रशस्यते)]
ं७।२०५अ[२०६ंअ]/ सर्वं कर्मैदमायत्तं विधाने दैवमानुषे ।
ं७।२०५च्[२०६ंच्]/ तयोर्दैवमचिन्त्यं तु मानुषे विद्यते क्रिया ॥ Bछ्.Sछ्॥

%ठे फ़ोल्लोविन्ग् थ्री श्लोकसरे फ़ोउन्दोन्ल्यिन् ं। (ञ्ह’सेदितिओन् दोएः नोत् चोउन्त् थेमिनित्ः नुम्बेरिन्गोफ़् थे तेक्ष्त्, अल्थोउग्ः ंएधातिथि गिवेस्थेइर्चोम्मेन्तर्य्।)
%[ं७।२०७ंअ/ दैवेन विधिना युक्तं मानुष्यं यत् प्रवर्तते ।][नोतिन् क्] [ञ्हायुक्तं]
%[ं७।२०७ंच्/ परिक्लेशेन महता तदर्थस्य समाधकम् ॥ Bछ्.Sछ्॥][नोतिन् क्]
%[ं७।२०८ंअ/ संयुक्तस्यापि दैवेन पुरुषकारेण वर्जितम् ।][नोतिन् क्]
%[ं७।२०८ंच्/ विना पुरुषकारेण फलं क्षेत्रं प्रयच्छति ॥ Bछ्.Sछ्॥ ][नोतिन् क्]
%[ं७।२०९ंअ/ चन्द्रार्काद्या ग्रहा वायुरग्निरापस्तथैव च ।][नोतिन् क्]
%[ं७।२०९ंच्/ इह दैवेन साध्यन्ते पौरुषेण प्रयत्नतः ॥ Bछ्.Sछ्॥ ][नोतिन् क्]
ं७।२०६अ[२१०ंअ]/ सह वाऽपि व्रजेद् युक्तः संधिं कृत्वा प्रयत्नतः ।
ं७।२०६च्[२१०ंच्]/ मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम् ॥ Bछ्.Sछ्॥

ं७।२०७अ[२११ंअ]/ पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाक्रन्दं च मण्डले ।
ं७।२०७च्[२११ंच्]/ मित्रादथाप्यमित्राद् वा यात्राफलमवाप्नुयात् ॥ Bछ्.Sछ्॥

ं७।२०८अ[२१२ंअ]/ हिरण्यभूमिसम्प्राप्त्या पार्थिवो न तथैधते ।
ं७।२०८च्[२१२ंच्]/ यथा मित्रं ध्रुवं लब्ध्वा कृशमप्यायतिक्षमम् ॥ Bछ्.Sछ्॥

ं७।२०९अ[२१३ंअ]/ धर्मज्ञं च कृतज्ञं च तुष्टप्रकृतिमेव च ।
ं७।२०९च्[२१३ंच्]/ अनुरक्तं स्थिरारम्भं लघुमित्रं प्रशस्यते ॥ Bछ्.Sछ्॥

ं७।२१०अ[२१४ंअ]/ प्राज्ञं कुलीनं शूरं च दक्षं दातारमेव च ।
ं७।२१०च्[२१४ंच्]/ कृतज्ञं धृतिमन्तं च कष्टमाहुररिं बुधाः ॥ Bछ्.Sछ्॥

ं७।२११अ[२१५ंअ]/ आर्यता पुरुषज्ञानं शौर्यं करुणवेदिता ।
ं७।२११च्[२१५ंच्]/ स्थौललक्ष्यं च सततमुदासीनगुणौदयः ॥ Bछ्.Sछ्॥

ं७।२१२अ[२१६ंअ]/ क्षेम्यां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।
ं७।२१२च्[२१६ंच्]/ परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥ Bछ्.Sछ्॥

ं७।२१३अ[२१७ंअ]/ आपदर्थं धनं रक्षेद् दारान् रक्षेद् धनैरपि । %[ं।आपदर्थे ]
ं७।२१३च्[२१७ंच्]/ आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥ Bछ्.Sछ्॥

ं७।२१४अ[२१८ंअ]/ सह सर्वाः समुत्पन्नाः प्रसमीक्ष्यापदो भृशम् ।
ं७।२१४च्[२१८ंच्]/ संयुक्तांश्च वियुक्तांश्च सर्वोपायान् सृजेद् बुधः ॥ Bछ्.Sछ्॥

ं७।२१५अ[२१९ंअ]/ उपेतारमुपेयं च सर्वोपायांश्च कृत्स्नशः ।
ं७।२१५च्[२१९ंच्]/ एतत् त्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ Bछ्.Sछ्॥

ं७।२१६अ[२२०ंअ]/ एवं सर्वमिदं राजा सह सम्मन्त्र्य मन्त्रिभिः ।
ं७।२१६च्[२२०ंच्]/ व्यायम्याप्लुत्य मध्याह्ने भोक्तुमन्तःपुरं विशेत् ॥ Bछ्.Sछ्॥

ं७।२१७अ[२२१ंअ]/ तत्रात्मभूतैः कालज्ञैरहार्यैः परिचारकैः ।
ं७।२१७च्[२२१ंच्]/ सुपरीक्षितमन्नाद्यमद्यान् मन्त्रैर्विषापहैः ॥ Bछ्.Sछ्॥

ं७।२१८अ[२२२ंअ]/ विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । %[ं।विषघ्नैरुदकैश्चास्य सर्वद्रव्याणि शोधयेत् ]
ं७।२१८च्[२२२ंच्]/ विषघ्नानि च रत्नानि नियतो धारयेत् सदा ॥ Bछ्.Sछ्॥

ं७।२१९अ[२२३ंअ]/ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः ।
ं७।२१९च्[२२३ंच्]/ वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ Bछ्.Sछ्॥

ं७।२२०अ[२२४ंअ]/ एवं प्रयत्नं कुर्वीत यानशय्याऽऽसनाशने ।
ं७।२२०च्[२२४ंच्]/ स्नाने प्रसाधने चैव सर्वालङ्कारकेषु च ॥ Bछ्.Sछ्॥

ं७।२२१अ[२२५ंअ]/ भुक्तवान् विहरेच्चैव स्त्रीभिरन्तःपुरे सह ।
ं७।२२१च्[२२५ंच्]/ विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ Bछ्.Sछ्॥

ं७।२२२अ[२२६ंअ]/ अलङ्कृतश्च सम्पश्येदायुधीयं पुनर्जनम् ।
ं७।२२२च्[२२६ंच्]/ वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ Bछ्.Sछ्॥

ं७।२२३अ[२२७ंअ]/ संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् ।
ं७।२२३च्[२२७ंच्]/ रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ Bछ्.Sछ्॥

ं७।२२४अ[२२८ंअ]/ गत्वा कक्षान्तरं त्वन्यत् समनुज्ञाप्य तं जनम् ।
ं७।२२४च्[२२८ंच्]/ प्रविशेद् भोजनार्थं च स्त्रीवृतोऽन्तःपुरं पुनः ॥ Bछ्.Sछ्॥

ं७।२२५अ[२२९ंअ]/ तत्र भुक्त्वा पुनः किं चित् तूर्यघोषैः प्रहर्षितः ।
ं७।२५५च्[२२९ंच्]/ संविशेत् तं यथाकालमुत्तिष्ठेच्च गतक्लमः ॥ Bछ्.Sछ्॥

ं७।२२६अ[२३०ंअ]/ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः ।
ं७।२२६च्[२३०ंच्]/ अस्वस्थः सर्वमेतत् तु भृत्येषु विनियोजयेत् ॥ Bछ्.Sछ्॥

 

अध्याय ८
ं८।०१अ/ व्यवहारान् दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः ।
ं८।०१च्/ मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत् सभाम् ॥ Bछ्.Sछ्॥

ं८।०२अ/ तत्रासीनः स्थितो वाऽपि पाणिमुद्यम्य दक्षिणम् ।
ं८।०२च्/ विनीतवेषाभरणः पश्येत् कार्याणि कार्यिणाम् ॥ Bछ्.Sछ्॥

ं८।०३अ/ प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः ।
ं८।०३च्/ अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् ॥ Bछ्.Sछ्॥

ं८।०४अ/ तेषामाद्यं ऋणादानं निक्षेपोऽस्वामिविक्रयः ।
ं८।०४च्/ संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ Bछ्.Sछ्॥

ं८।०५अ/ वेतनस्यैव चादानं संविदश्च व्यतिक्रमः ।
ं८।०५च्/ क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ Bछ्.Sछ्॥

ं८।०६अ/ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके ।
ं८।०६च्/ स्तेयं च साहसं चैव स्त्रीसङ्ग्रहणमेव च ॥ Bछ्.Sछ्॥

ं८।०७अ/ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च ।
ं८।०७च्/ पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥ Bछ्.Sछ्॥

ं८।०८अ/ एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् ।
ं८।०८च्/ धर्मं शाश्वतमाश्रित्य कुर्यात् कार्यविनिर्णयम् ॥ Bछ्.Sछ्॥

ं८।०९अ/ यदा स्वयं न कुर्यात् तु नृपतिः कार्यदर्शनम् ।
ं८।०९च्/ तदा नियुञ्ज्याद् विद्वांसं ब्राह्मणं कार्यदर्शने ॥ Bछ्.Sछ्॥

ं८।१०अ/ सोऽस्य कार्याणि सम्पश्येत् सभ्यैरेव त्रिभिर्वृतः ।
ं८।१०च्/ सभामेव प्रविश्याग्र्यामासीनः स्थित एव वा ॥ Bछ्.Sछ्॥

ं८।११अ/ यस्मिन् देशे निषीदन्ति विप्रा वेदविदस्त्रयः ।
ं८।११च्/ राज्ञश्चाधिकृतो विद्वान् ब्रह्मणस्तां सभां विदुः ॥ Bछ्.Sछ्॥

ं८।१२अ/ धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते ।
ं८।१२च्/ शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः ॥ Bछ्.Sछ्॥

ं८।१३अ/ सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । %[ं।सभा वा न प्रवेष्टव्या ]
ं८।१३च्/ अब्रुवन् विब्रुवन् वाऽपि नरो भवति किल्बिषी ॥ Bछ्.Sछ्॥

ं८।१४अ/ यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।
ं८।१४च्/ हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ Bछ्.Sछ्॥

ं८।१५अ/ धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः ।
ं८।१५च्/ तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् ॥ Bछ्.Sछ्॥ %[ं।वधीत्]
ं८।१६अ/ वृषो हि भगवान् धर्मस्तस्य यः कुरुते ह्यलम् । %[ं।त्वलम्]
ं८।१६च्/ वृषलं तं विदुर्देवास्तस्माद् धर्मं न लोपयेत् ॥ Bछ्.Sछ्॥

ं८।१७अ/ एक एव सुहृद् धर्मो निधानेऽप्यनुयाति यः ।
ं८।१७च्/ शरीरेण समं नाशं सर्वमन्यद् हि गच्छति ॥ Bछ्.Sछ्॥

ं८।१८अ/ पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति ।
ं८।१८च्/ पादः सभासदः सर्वान् पादो राजानमृच्छति ॥ Bछ्.Sछ्॥

ं८।१९अ/ राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः ।
ं८।१९च्/ एनो गच्छति कर्तारं निन्दाऽर्हो यत्र निन्द्यते ॥ Bछ्.Sछ्॥

ं८।२०अ/ जातिमात्रोपजीवी वा कामं स्याद् ब्राह्मणब्रुवः ।
ं८।२०च्/ धर्मप्रवक्ता नृपतेर्न शूद्रः कथं चन ??॥ Bछ्.Sछ्॥

ं८।२१अ/ यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् ।
ं८।२१च्/ तस्य सीदति तद् राष्ट्रं पङ्के गौरिव पश्यतः ॥ Bछ्.Sछ्॥

ं८।२२अ/ यद् राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तमद्विजम् ।
ं८।२२च्/ विनश्यत्याशु तत् कृत्स्नं दुर्भिक्षव्याधिपीडितम् ॥ Bछ्.Sछ्॥

ं८।२३अ/ धर्मासनमधिष्ठाय संवीताङ्गः समाहितः ।
ं८।२३च्/ प्रणम्य लोकपालेभ्यः कार्यदर्शनमारभेत् ॥ Bछ्.Sछ्॥

ं८।२४अ/ अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ ।
ं८।२४च्/ वर्णक्रमेण सर्वाणि पश्येत् कार्याणि कार्यिणाम् ॥ Bछ्.Sछ्॥

ं८।२५अ/ बाह्यैर्विभावयेत्लिङ्गैर्भावमन्तर्गतं नृणाम् ।
ं८।२५च्/ स्वरवर्णैङ्गिताकारैश्चक्षुषा चेष्टितेन च ॥ Bछ्.Sछ्॥

ं८।२६अ/ आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
ं८।२६च्/ नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ Bछ्.Sछ्॥

ं८।२७अ/ बालदायादिकं रिक्थं तावद् राजाऽनुपालयेत् ।
ं८।२७च्/ यावत् स स्यात् समावृत्तो यावत्चातीतशैशवः ॥ Bछ्.Sछ्॥ %[ं।यावद् वाऽतीतशैशवः]
ं८।२८अ/ वशाऽपुत्रासु चैवं स्याद् रक्षणं निष्कुलासु च ।
ं८।२८च्/ पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च ॥ Bछ्.Sछ्॥

ं८।२९अ/ जीवन्तीनां तु तासां ये तद् हरेयुः स्वबान्धवाः ।
ं८।२९च्/ तांशिष्यात्चौरदण्डेन धार्मिकः पृथिवीपतिः ॥ Bछ्.Sछ्॥

ं८।३०अ/ प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् ।
ं८।३०च्/ अर्वाक् त्र्यब्दाद्द् हरेत् स्वामी परेण नृपतिर्हरेत् ॥ Bछ्.Sछ्॥

ं८।३१अ/ ममैदमिति यो ब्रूयात् सोऽनुयोज्यो यथाविधि ।
ं८।३१च्/ संवाद्य रूपसङ्ख्यादीन् स्वामी तद् द्रव्यमर्हति ॥ Bछ्.Sछ्॥

ं८।३२अ/ अवेदयानो नष्टस्य देशं कालं च तत्त्वतः ।
ं८।३२च्/ वर्णं रूपं प्रमाणं च तत्समं दण्डमर्हति ॥ Bछ्.Sछ्॥

ं८।३३अ/ आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः ।
ं८।३३च्/ दशमं द्वादशं वाऽपि सतां धर्ममनुस्मरन् ॥ Bछ्.Sछ्॥

ं८।३४अ/ प्रणष्टाधिगतं द्रव्यं तिष्ठेद् युक्तैरधिष्ठितम् ।
ं८।३४च्/ यांस्तत्र चौरान् गृह्णीयात् तान् राजैभेन घातयेत् ॥ Bछ्.Sछ्॥

ं८।३५अ/ ममायमिति यो ब्रूयान्निधिं सत्येन मानवः ।
ं८।३५च्/ तस्याददीत षड्भागं राजा द्वादशमेव वा ॥ Bछ्.Sछ्॥

ं८।३६अ/ अनृतं तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् ।
ं८।३६च्/ तस्यैव वा निधानस्य सङ्ख्ययाऽल्पीयसीं कलाम् ॥ Bछ्.Sछ्॥

ं८।३७अ/ विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् ।
ं८।३८च्/ अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः ॥ Bछ्.Sछ्॥

ं८।३८अ/ यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ ।
ं८।३८च्/ तस्माद् द्विजेभ्यो दत्त्वाऽर्धमर्धं कोशे प्रवेशयेत् ॥ Bछ्.Sछ्॥

ं८।३९अ/ निधीनां तु पुराणानां धातूनामेव च क्षितौ ।
ं८।३९च्/ अर्धभाग् रक्षणाद् राजा भूमेरधिपतिर्हि सः ॥ Bछ्.Sछ्॥

ं८।४०अ/ दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् ।
ं८।४०च्/ राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥ Bछ्.Sछ्॥

ं८।४१अ/ जातिजानपदान् धर्मान् श्रेणीधर्मांश्च धर्मवित् ।
ं८।४१च्/ समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् ॥ Bछ्.Sछ्॥

ं८।४२अ/ स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः ।
ं८।४२च्/ प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः ॥ Bछ्.Sछ्॥

ं८।४३अ/ नोत्पादयेत् स्वयं कार्यं राजा नाप्यस्य पूरुषः ??।
ं८।४३च्/ न च प्रापितमन्येन ग्रसेदर्थं कथं चन ॥ Bछ्.Sछ्॥ %[ं।ग्रसेतार्थं]
ं८।४४अ/ यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् ।
ं८।४४च्/ नयेत् तथाऽनुमानेन धर्मस्य नृपतिः पदम् ॥ Bछ्.Sछ्॥

ं८।४५अ/ सत्यमर्थं च सम्पश्येदात्मानमथ साक्षिणः । %[ं।साक्षिणम्]
ं८।४५च्/ देशं रूपं च कालं च व्यवहारविधौ स्थितः ॥ Bछ्.Sछ्॥

ं८।४६अ/ सद्भिराचरितं यत् स्याद् धार्मिकैश्च द्विजातिभिः ।
ं८।४६च्/ तद् देशकुलजातीनामविरुद्धं प्रकल्पयेत् ॥ Bछ्.Sछ्॥

ं८।४७अ/ अधमर्णार्थसिद्ध्यर्थमुत्तमर्णेन चोदितः ।
ं८।४७च्/ दापयेद् धनिकस्यार्थमधमर्णाद् विभावितम् ॥ Bछ्.Sछ्॥

ं८।४८अ/ यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः ।
ं८।४८च्/ तैर्तैरुपायैः सङ्गृह्य दापयेदधमर्णिकम् ॥ Bछ्.Sछ्॥

ं८।४९अ/ धर्मेण व्यवहारेण छलेनाचरितेन च ।
ं८।४९च्/ प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥ Bछ्.Sछ्॥

ं८।५०अ/ यः स्वयं साधयेदर्थमुत्तमर्णोऽधमर्णिकात् ।
ं८।५०च्/ न स राज्ञाऽभियोक्तव्यः स्वकं संसाधयन् धनम् ॥ Bछ्.Sछ्॥

ं८।५१अ/ अर्थेऽपव्ययमानं तु करणेन विभावितम् ।
ं८।५१च्/ दापयेद् धनिकस्यार्थं दण्डलेशं च शक्तितः ॥ Bछ्.Sछ्॥

ं८।५२अ/ अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि ।
ं८।५२च्/ अभियोक्ता दिशेद् देश्यं करणं वाऽन्यदुद्दिशेत् ॥ Bछ्.Sछ्॥

ं८।५३अ/ अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः ।
ं८।५३च्/ यश्चाधरोत्तरानर्थान् विगीतान्नावबुध्यते ॥ Bछ्.Sछ्॥

ं८।५४अ/ अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति । %[ंऽपदिश्यापदेशं]
ं८।५४च्/ सम्यक् प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति ॥ Bछ्.Sछ्॥

ं८।५५अ/ असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः ।
ं८।५५च्/ निरुच्यमानं प्रश्नं च नेच्छेद् यश्चापि निष्पतेत् ॥ Bछ्.Sछ्॥

ं८।५६अ/ ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् ।
ं८।५६च्/ न च पूर्वापरं विद्यात् तस्मादर्थात् स हीयते ॥ Bछ्.Sछ्॥

ं८।५७अ/ साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । %[ं।ज्ञातारः सन्ति मेत्य्*] *मेत्य् < म इत्य् ?
ं८।५७च्/ धर्मस्थः कारणैरेतैर्हीनं तमपि निर्दिशेत् ॥ Bछ्.Sछ्॥ %[ं।तमिति निर्दिशेत्)
ं८।५८अ/ अभियोक्ता न चेद् ब्रूयाद् बध्यो दण्ड्यश्च धर्मतः । %[ं।बन्ध्यो दण्ड्यश्च]
ं८।५८च्/ न चेत् त्रिपक्षात् प्रब्रूयाद् धर्मं प्रति पराजितः ॥ Bछ्.Sछ्॥

ं८।५९अ/ यो यावद् निह्नुवीतार्थं मिथ्या यावति वा वदेत् ??।
ं८।५९च्/ तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्द्विगुणं दमम् ??॥ Bछ्.Sछ्॥

ं८।६०अ/ पृष्टोऽपव्ययमानस्तु कृतावस्थो धनेषिणा ।
ं८।६०च्/ त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ ॥ Bछ्.Sछ्॥

ं८।६१अ/ यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः ।
ं८।६१च्/ तादृशान् सम्प्रवक्ष्यामि यथा वाच्यं ऋतं च तैः ॥ Bछ्.Sछ्॥

ं८।६२अ/ गृहिणः पुत्रिणो मौलाः क्षत्रविद् शूद्रयोनयः ।
ं८।६२च्/ अर्थ्युक्ताः साक्ष्यमर्हन्ति न ये के चिदनापदि ॥ Bछ्.Sछ्॥

ं८।६३अ/ आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ।
ं८।६३च्/ सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् ॥ Bछ्.Sछ्॥

ं८।६४अ/ नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः ।
ं८।६४च्/ न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः ॥ Bछ्.Sछ्॥

ं८।६५अ/ न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ।
ं८।६५च्/ न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः ॥ Bछ्.Sछ्॥

ं८।६६अ/ नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् ।
ं८।६६च्/ न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः ॥ Bछ्.Sछ्॥

ं८।६७अ/ नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ।
ं८।६७च्/ न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः ॥ Bछ्.Sछ्॥

ं८।६८अ/ स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ।
ं८।६८च्/ शूद्राश्च सन्तः शूद्राणां अन्त्यानामन्त्ययोनयः ॥ Bछ्.Sछ्॥

ं८।६९अ/ अनुभावी तु यः कश्चित् कुर्यात् साक्ष्यं विवादिनाम् ।
ं८।६९च्/ अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये ॥ Bछ्.Sछ्॥

ं८।७०अ/ स्त्रियाऽप्यसंभावे कार्यं बालेन स्थविरेण वा ।
ं८।७०च्/ शिष्येण बन्धुना वाऽपि दासेन भृतकेन वा ॥ Bछ्.Sछ्॥

ं८।७१अ/ बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा ।
ं८।७१च्/ जानीयादस्थिरां वाचमुत्सिक्तमनसां तथा ॥ Bछ्.Sछ्॥

ं८।७२अ/ साहसेषु च सर्वेषु स्तेयसङ्ग्रहणेषु च ।
ं८।७२च्/ वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ Bछ्.Sछ्॥

ं८।७३अ/ बहुत्वं परिगृह्णीयात् साक्षिद्वैधे नराधिपः ।
ं८।७३च्/ समेषु तु गुणोत्कृष्टान् गुणिद्वैधे द्विजोत्तमान् ॥ Bछ्.Sछ्॥

ं८।७४अ/ समक्षदर्शनात् साक्ष्यं श्रवणाच्चैव सिध्यति ।
ं८।७४च्/ तत्र सत्यं ब्रुवन् साक्षी धर्मार्थाभ्यां न हीयते ॥ Bछ्.Sछ्॥

ं८।७५अ/ साक्षी दृष्टश्रुतादन्यद् विब्रुवन्नार्यसंसदि ।
ं८।७५च्/ अवाङ्नरकमभ्येति प्रेत्य स्वर्गाच्च हीयते ॥ Bछ्.Sछ्॥

ं८।७६अ/ यत्रानिबद्धोऽपीक्षेत शृणुयाद् वाऽपि किं चन ।
ं८।७६च्/ पृष्टस्तत्रापि तद् ब्रूयाद् यथादृष्टं यथाश्रुतम् ॥ Bछ्.Sछ्॥

ं८।७७अ/ एकोऽलुब्धस्तु साक्षी स्याद् बह्व्यः शुच्योऽपि न स्त्रियः । %[ं। त्वसाक्षी]
ं८।७७च्/ स्त्रीबुद्धेरस्थिरत्वात् तु दोषैश्चान्येऽपि ये वृताः ॥ Bछ्.Sछ्॥

ं८।७८अ/ स्वभावेनैव यद् ब्रूयुस्तद् ग्राह्यं व्यावहारिकम् ।
ं८।७८च्/ अतो यदन्यद् विब्रूयुर्धर्मार्थं तदपार्थकम् ॥ Bछ्.Sछ्॥

ं८।७९अ/ सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ ।
ं८।७९च्/ प्राड् विवाकोऽनुयुञ्जीत विधिनाऽनेन सान्त्वयन् ??॥ Bछ्.Sछ्॥

ं८।८०अ/ यद् द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः ।
ं८।८०च्/ तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता ॥ Bछ्.Sछ्॥

ं८।८१अ/ सत्यं साक्ष्ये ब्रुवन् साक्षी लोकान् आप्नोत्यपुष्कलान् । %[ं।आप्नोत्यनिन्दितान्]
ं८।८१च्/ इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता ॥ Bछ्.Sछ्॥

ं८।८२अ/ साक्ष्येऽनृतं वदन् पाशैर्बध्यते वारुणैर्भृशम् ।
ं८।८२च्/ विवशः शतमाजातीस्तस्मात् साक्ष्यं वदेद् ऋतम् ॥ Bछ्.Sछ्॥

ं८।८३अ/ सत्येन पूयते साक्षी धर्मः सत्येन वर्धते ।
ं८।८३च्/ तस्मात् सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः ॥ Bछ्.Sछ्॥

ं८।८४अ/ आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथाऽत्मनः ।
ं८।८४च्/ माऽवमंस्थाः स्वमात्मानं नृणां साक्षिणमुत्तमम् ॥ Bछ्.Sछ्॥

ं८।८५अ/ मन्यन्ते वै पापकृतो न कश्चित् पश्यतीति नः ।
ं८।८५च्/ तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥ Bछ्.Sछ्॥

ं८।८६अ/ द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः ।
ं८।८६च्/ रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ॥ Bछ्.Sछ्॥

ं८।८७अ/ देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद् ऋतं द्विजान् ।
ं८।८७च्/ उदङ्मुखान् प्राङ्मुखान् वा पूर्वाह्णे वै शुचिः शुचीन् ॥ Bछ्.Sछ्॥

ं८।८८अ/ ब्रूहीति ब्राह्मणं पृच्छेत् सत्यं ब्रूहीति पार्थिवम् ।
ं८।८८च्/ गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ Bछ्.Sछ्॥

ं८।८९अ/ ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।
ं८।८९च्/ मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा ॥ Bछ्.Sछ्॥

ं८।९०अ/ जन्मप्रभृति यत् किं चित् पुण्यं भद्र त्वया कृतम् ।
ं८।९०च्/ तत् ते सर्वं शुनो गच्छेद् यदि ब्रूयास्त्वमन्यथा ॥ Bछ्.Sछ्॥

ं८।९१अ/ एकोऽहमस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे ।
ं८।९१च्/ नित्यं स्थितस्ते हृद्येष पुण्यपापैक्षिता मुनिः ॥ Bछ्.Sछ्॥

ं८।९२अ/ यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः ।
ं८।९२च्/ तेन चेदविवादस्ते मा गङ्गां मा कुरून् गमः ॥ Bछ्.Sछ्॥

ं८।९३अ/ नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः । %[ं।कपाली ]
ं८।९३च्/ अन्धः शत्रुकुलं गच्छेद् यः साक्ष्यमनृतं वदेत् ॥ Bछ्.Sछ्॥

ं८।९४अ/ अवाक्षिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् ।
ं८।९४च्/ यः प्रश्नं वितथं ब्रूयात् पृष्टः सन् धर्मनिश्चये ॥ Bछ्.Sछ्॥

ं८।९५अ/ अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ।
ं८।९५च्/ यो भाषतेऽर्थवैकल्यमप्रत्यक्षं सभां गतः ॥ Bछ्.Sछ्॥

ं८।९६अ/ यस्य विद्वान् हि वदतः क्षेत्रज्ञो नाभिशङ्कते । %[ंंआतिशङ्कते)
ं८।९६च्/ तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ॥ Bछ्.Sछ्॥

ं८।९७अ/ यावतो बान्धवान् यस्मिन् हन्ति साक्ष्येऽनृतं वदन् ।
ं८।९७च्/ तावतः सङ्ख्यया तस्मिन् शृणु सौम्यानुपूर्वशः ॥ Bछ्.Sछ्॥

ं८।९८अ/ पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।
ं८।९८च्/ शतमश्वानृते हन्ति सहस्रं पुरुषानृते ॥ Bछ्.Sछ्॥

ं८।९९अ/ हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।
ं८।९९च्/ सर्वं भूमिअनृते हन्ति मा स्म भूमिअनृतं वदीः ॥ Bछ्.Sछ्॥

ं८।१००अ/ अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने ।
ं८।१००च्/ अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ॥ Bछ्.Sछ्॥

ं८।१०१अ/ एतान् दोषानवेक्ष्य त्वं सर्वाननृतभाषणे ।
ं८।१०१च्/ यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥ Bछ्.Sछ्॥

ं८।१०२अ/ गोरक्षकान् वाणिजिकांस्तथा कारुकुशीलवान् । %[ं।वाणिजकांस्]
ं८।१०२च्/ प्रेष्यान् वार्धुषिकांश्चैव विप्रान् शूद्रवदाचरेत् ॥ Bछ्.Sछ्॥

ं८।१०३अ/ तद् वदन् धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः ।
ं८।१०३च्/ न स्वर्गाच्च्यवते लोकाद् दैवीं वाचं वदन्ति ताम् ॥ Bछ्.Sछ्॥

ं८।१०४अ/ शूद्रविड् क्षत्रविप्राणां यत्रऋतोक्तौ भवेद् वधः ।
ं८।१०४च्/ तत्र वक्तव्यमनृतं तद् हि सत्याद् विशिष्यते ॥ Bछ्.Sछ्॥

ं८।१०५अ/ वाग्दैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् ।
ं८।१०५च्/ अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ॥ Bछ्.Sछ्॥

ं८।१०६अ/ कूष्माण्डैर्वाऽपि जुहुयाद् घृतमग्नौ यथाविधि । %[टा१०।३५; Vष्२०।१४]
ं८।१०६च्/ उदित्य् ऋचा वा वारुण्या तृचेनाब्दैवतेन वा ॥ Bछ्.Sछ्॥ %[ऋष्१।२४।१५; १०।९।१३; Vष्१२।२;Vष्१२।५०]
ं८।१०७अ/ त्रिपक्षादब्रुवन् साक्ष्यं ऋणादिषु नरोऽगदः ।
ं८।१०७च्/ तदृणं प्राप्नुयात् सर्वं दशबन्धं च सर्वतः ॥ Bछ्.Sछ्॥

ं८।१०८अ/ यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः ।
ं८।१०८च्/ रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ॥ Bछ्.Sछ्॥

ं८।१०९अ/ असाक्षिकेषु त्वर्थेषु मिथो विवदमानयोः ।
ं८।१०९च्/ अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ॥ Bछ्.Sछ्॥

ं८।११०अ/ महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः ।
ं८।११०च्/ वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ॥ Bछ्.Sछ्॥

ं८।१११अ/ न वृथा शपथं कुर्यात् स्वल्पेऽप्यर्थे नरो बुधः ।
ं८।१११च्/ वृथा हि शपथं कुर्वन् प्रेत्य चैह च नश्यति ॥ Bछ्.Sछ्॥

ं८।११२अ/ कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।
ं८।११२च्/ ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ॥ Bछ्.Sछ्॥

ं८।११३अ/ सत्येन शापयेद् विप्रं क्षत्रियं वाहनायुधैः ।
ं८।११३च्/ गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥ Bछ्.Sछ्॥

ं८।११४अ/ अग्निं वाऽहारयेदेनमप्सु चैनं निमज्जयेत् ।
ं८।११४च्/ पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत् पृथक् ॥ Bछ्.Sछ्॥

ं८।११५अ/ यमिद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च ।
ं८।११५च्/ न चार्तिं ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ॥ Bछ्.Sछ्॥

ं८।११६अ/ वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा ।
ं८।११६च्/ नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ॥ Bछ्.Sछ्॥

ं८।११७अ/ यस्मिन् यस्मिन् विवादे तु कौटसाक्ष्यं कृतं भवेत् ।
ं८।११७च्/ तत् तत् कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥ Bछ्.Sछ्॥

ं८।११८अ/ लोभान्मोहाद् भयात्मैत्रात् कामात् क्रोधात् तथैव च ।
ं८।११८च्/ अज्ञानाद् बालभावात्च साक्ष्यं वितथमुच्यते ॥ Bछ्.Sछ्॥

ं८।११९अ/ एषामन्यतमे स्थाने यः साक्ष्यमनृतं वदेत् ।
ं८।११९च्/ तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः ॥ Bछ्.Sछ्॥

ं८।१२०अ/ लोभात् सहस्रं दण्ड्यस्तु मोहात् पूर्वं तु साहसम् ।
ं८।१२०च्/ भयाद् द्वौ मध्यमौ दण्डौ मैत्रात् पूर्वं चतुर्गुणम् ॥ Bछ्.Sछ्॥

ं८।१२१अ/ कामाद् दशगुणं पूर्वं क्रोधात् तु त्रिगुणं परम् ।
ं८।१२१च्/ अज्ञानाद् द्वे शते पूर्णे बालिश्यात्शतमेव तु ॥ Bछ्.Sछ्॥

ं८।१२२अ/ एतानाहुः कौटसाक्ष्ये प्रोक्तान् दण्डान् मनीषिभिः ।
ं८।१२२च्/ धर्मस्याव्यभिचारार्थमधर्मनियमाय च ॥ Bछ्.Sछ्॥

ं८।१२३अ/ कौटसाक्ष्यं तु कुर्वाणांस्त्रीन् वर्णान् धार्मिको नृपः ।
ं८।१२३च्/ प्रवासयेद् दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥ Bछ्.Sछ्॥

ं८।१२४अ/ दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् ।
ं८।१२४च्/ त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ Bछ्.Sछ्॥

ं८।१२५अ/ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् ।
ं८।१२५च्/ चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ Bछ्.Sछ्॥

ं८।१२६अ/ अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः ।
ं८।१२६च्/ सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् ॥ Bछ्.Sछ्॥

ं८।१२७अ/ अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् ।
ं८।१२७च्/ अस्वर्ग्यं च परत्रापि तस्मात् तत् परिवर्जयेत् ॥ Bछ्.Sछ्॥

ं८।१२८अ/ अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् ।
ं८।१२८च्/ अयशो महदाप्नोति नरकं चैव गच्छति ॥ Bछ्.Sछ्॥

ं८।१२९अ/ वाग्दण्डं प्रथमं कुर्याद् धिग्दण्डं तदनन्तरम् ।
ं८।१२९च्/ तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥ Bछ्.Sछ्॥

ं८।१३०अ/ वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् ।
ं८।१३०च्/ तदेषु सर्वमप्येतत् प्रयुञ्जीत चतुष्टयम् ॥ Bछ्.Sछ्॥

ं८।१३१अ/ लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि ।
ं८।१३१च्/ ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥

ं८।१३२अ/ जालान्तरगते भानौ यत् सूक्ष्मं दृश्यते रजः ।
ं८।१३२च्/ प्रथमं तत् प्रमाणानां त्रसरेणुं प्रचक्षते ॥ Bछ्.Sछ्॥

ं८।१३३अ/ त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः ।
ं८।१३३च्/ ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः ॥ Bछ्.Sछ्॥

ं८।१३४अ/ सर्षपाः षड् यवो मध्यस्त्रियवं त्वेककृष्णलम् ।
ं८।१३४च्/ पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश ॥ Bछ्.Sछ्॥

ं८।१३५अ/ पलं सुवर्णाश्चत्वारः पलानि धरणं दश ।
ं८।१३५च्/ द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः ॥ Bछ्.Sछ्॥ %[ं रूप्यमाषकः ]
ं८।१३६अ/ ते षोडश स्याद् धरणं पुराणश्चैव राजतः ।
ं८।१३६च्/ कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः ॥ Bछ्.Sछ्॥

ं८।१३७अ/ धरणानि दश ज्ञेयः शतमानस्तु राजतः ।
ं८।१३७च्/ चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ Bछ्.Sछ्॥

ं८।१३८अ/ पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः ।
ं८।१३८च्/ मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ Bछ्.Sछ्॥

ं८।१३९अ/ ऋणे देये प्रतिज्ञाते पञ्चकं शतमर्हति ।
ं८।१३९च्/ अपह्नवे तद् द्विगुणं तन् मनोरनुशासनम् ॥ Bछ्.Sछ्॥

ं८।१४०अ/ वसिष्ठविहितां वृद्धिं सृजेद् वित्तविवर्धिनीम् ।
ं८।१४०च्/ अशीतिभागं गृह्णीयान् मासाद् वार्धुषिकः शते ॥ Bछ्.Sछ्॥

ं८।१४१अ/ द्विकं शतं वा गृह्णीयात् सतां धर्ममनुस्मरन् ।
ं८।१४१च्/ द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी ॥ Bछ्.Sछ्॥

ं८।१४२अ/ द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् ।
ं८।१४२च्/ मासस्य वृद्धिं गृह्णीयाद् वर्णानामनुपूर्वशः ॥ Bछ्.Sछ्॥

ं८।१४३अ/ न त्वेवाधौ सोपकारे कौसीदीं वृद्धिमाप्नुयात् ।
ं८।१४३च्/ न चाधेः कालसंरोधात्निसर्गोऽस्ति न विक्रयः ॥ Bछ्.Sछ्॥

ं८।१४४अ/ न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिमुत्सृजेत् ।
ं८।१४४च्/ मूल्येन तोषयेच्चैनमाधिस्तेनोऽन्यथा भवेत् ॥ Bछ्.Sछ्॥

ं८।१४५अ/ आधिश्चोपनिधिश्चोभौ न कालात्ययमर्हतः ।
ं८।१४५च्/ अवहार्यौ भवेतां तौ दीर्घकालमवस्थितौ ॥ Bछ्.Sछ्॥

ं८।१४६अ/ सम्प्रीत्या भुज्यमानानि न नश्यन्ति कदा चन ।
ं८।१४६च्/ धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते ॥ Bछ्.Sछ्॥

ं८।१४७अ/ यत् किं चिद् दशवर्षाणि संनिधौ प्रेक्षते धनी ।
ं८।१४७च्/ भुज्यमानं परैस्तूष्णीं न स तत्लब्धुमर्हति ॥ Bछ्.Sछ्॥

ं८।१४८अ/ अजडश्चेदपोगण्डो विषये चास्य भुज्यते ।
ं८।१४८च्/ भग्नं तद् व्यवहारेण भोक्ता तद् द्रव्यमर्हति ॥ Bछ्.Sछ्॥ %[ं।तद् धनमर्हति)]
ं८।१४९अ/ आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । %[ंंइक्षेपौपनिधी]
ं८।१४९च्/ राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति ॥ Bछ्.Sछ्॥

ं८।१५०अ/ यः स्वामिनाऽननुज्ञातमाधिं भूङ्क्तेऽविचक्षणः ।
ं८।१५०च्/ तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः ॥ Bछ्.Sछ्॥

ं८।१५१अ/ कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । %[ं।सकृदाहिता)]
ं८।१५१च्/ धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् ॥ Bछ्.Sछ्॥

ं८।१५२अ/ कृतानुसारादधिका व्यतिरिक्ता न सिध्यति ।
ं८।१५२च्/ कुसीदपथमाहुस्तं पञ्चकं शतमर्हति ॥ Bछ्.Sछ्॥

ं८।१५३अ/ नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् । %[ं।विनिर्हरेत्)]
ं८।१५३च्/ चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या ॥ Bछ्.Sछ्॥

ं८।१५४अ/ ऋणं दातुमशक्तो यः कर्तुमिच्छेत् पुनः क्रियाम् ।
ं८।१५४च्/ स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् ॥ Bछ्.Sछ्॥

ं८।१५५अ/ अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् ।
ं८।१५५च्/ यावती संभवेद् वृद्धिस्तावतीं दातुमर्हति ॥ Bछ्.Sछ्॥

ं८।१५६अ/ चक्रवृद्धिं समारूढो देशकालव्यवस्थितः ।
ं८।१५६च्/ अतिक्रामन् देशकालौ न तत्फलमवाप्नुयात् ॥ Bछ्.Sछ्॥

ं८।१५७अ/ समुद्रयानकुशला देशकालार्थदर्शिनः ।
ं८।१५७च्/ स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति ॥ Bछ्.Sछ्॥

ं८।१५८अ/ यो यस्य प्रतिभूस्तिष्ठेद् दर्शनायैह मानवः ।
ं८।१५८च्/ अदर्शयन् स तं तस्य प्रयच्छेत् स्वधनाद् ऋणम् ॥ Bछ्.Sछ्॥ %[ं।तस्य यतेत)]
ं८।१५९अ/ प्रातिभाव्यं वृथादानमाक्षिकं सौरिकां च यत् ।
ं८।१५९च्/ दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥ Bछ्.Sछ्॥

ं८।१६०अ/ दर्शनप्रातिभाव्ये तु विधिः स्यात् पूर्वचोदितः ।
ं८।१६०च्/ दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ Bछ्.Sछ्॥

ं८।१६१अ/ अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् ।
ं८।१६१च्/ पश्चात् प्रतिभुवि प्रेते परीप्सेत् केन हेतुना ॥ Bछ्.Sछ्॥

ं८।१६२अ/ निरादिष्टधनश्चेत् तु प्रतिभूः स्यादलंधनः ।
ं८।१६२च्/ स्वधनादेव तद् दद्यान्निरादिष्ट इति स्थितिः ॥ Bछ्.Sछ्॥

ं८।१६३अ/ मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा ।
ं८।१६३च्/ असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥ Bछ्.Sछ्॥

ं८।१६४अ/ सत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता ।
ं८।१६४च्/ बहिश्चेद् भाष्यते धर्मात्नियताद् व्यवहारिकात् ॥ Bछ्.Sछ्॥

ं८।१६५अ/ योगाधमनविक्रीतं योगदानप्रतिग्रहम् ।
ं८।१६५च्/ यत्र वाऽप्युपधिं पश्येत् तत् सर्वं विनिवर्तयेत् ॥ Bछ्.Sछ्॥

ं८।१६६अ/ ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे कृतो व्ययः । %[ं।कुटुम्बे च ]
ं८।१६६च्/ दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः ॥ Bछ्.Sछ्॥

ं८।१६७अ/ कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् ।
ं८।१६७च्/ स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ Bछ्.Sछ्॥

ं८।१६८अ/ बलाद् दत्तं बलाद् भुक्तं बलाद् यच्चापि लेखितम् ।
ं८।१६८च्/ सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत् ॥ Bछ्.Sछ्॥

ं८।१६९अ/ त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।
ं८।१६९च्/ चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः ॥ Bछ्.Sछ्॥

ं८।१७०अ/ अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।
ं८।१७०च्/ न चादेयं समृद्धोऽपि सूक्ष्ममप्यर्थमुत्सृजेत् ॥ Bछ्.Sछ्॥

ं८।१७१अ/ अनादेयस्य चादानादादेयस्य च वर्जनात् ।
ं८।१७१च्/ दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्यैह च नश्यति ॥ Bछ्.Sछ्॥

ं८।१७२अ/ स्वादानाद् वर्णसंसर्गात् त्वबलानां च रक्षणात् ।
ं८।१७२च्/ बलं सञ्जायते राज्ञः स प्रेत्यैह च वर्धते ॥ Bछ्.Sछ्॥

ं८।१७३अ/ तस्माद् यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।
ं८।१७३च्/ वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ॥ Bछ्.Sछ्॥

ं८।१७४अ/ यस्त्वधर्मेण कार्याणि मोहात् कुर्यान्नराधिपः ।
ं८।१७४च्/ अचिरात् तं दुरात्मानं वशे कुर्वन्ति शत्रवः ॥ Bछ्.Sछ्॥

ं८।१७५अ/ कामक्रोधौ तु संयम्य योऽर्थान् धर्मेण पश्यति ।
ं८।१७५च्/ प्रजास्तमनुवर्तन्ते समुद्रमिव सिन्धवः ॥ Bछ्.Sछ्॥

ं८।१७६अ/ यः साधयन्तं छन्देन वेदयेद् धनिकं नृपे ।
ं८।१७६च्/ स राज्ञा तत्चतुर्भागं दाप्यस्तस्य च तद् धनम् ॥ Bछ्.Sछ्॥

ं८।१७७अ/ कर्मणाऽपि समं कुर्याद् धनिकायाधमर्णिकः ।
ं८।१७७च्/ समोऽवकृष्टजातिस्तु दद्यात्श्रेयांस्तु तत्शनैः ॥ Bछ्.Sछ्॥

ं८।१७८अ/ अनेन विधिना राजा मिथो विवदतां नृणाम् ।
ं८।१७८च्/ साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ॥ Bछ्.Sछ्॥

ं८।१७९अ/ कुलजे वृत्तसम्पन्ने धर्मज्ञे सत्यवादिनि ।
ं८।१७९च्/ महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद् बुधः ॥ Bछ्.Sछ्॥

ं८।१८०अ/ यो यथा निक्षिपेद्द् हस्ते यमर्थं यस्य मानवः ।
ं८।१८०च्/ स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ॥ Bछ्.Sछ्॥

ं८।१८१अ/ यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति ।
ं८।१८१च्/ स याच्यः प्राड्विवाकेन तत्निक्षेप्तुरसंनिधौ ॥ Bछ्.Sछ्॥

ं८।१८२अ/ साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः ।
ं८।१८२च्/ अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ॥ Bछ्.Sछ्॥

ं८।१८३अ/ स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।
ं८।१८३च्/ न तत्र विद्यते किं चिद् यत् परैरभियुज्यते ॥ Bछ्.Sछ्॥

ं८।१८४अ/ तेषां न दद्याद् यदि तु तद् हिरण्यं यथाविधि ।
ं८।१८४च्/ उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ॥ Bछ्.Sछ्॥ %[ं।स निगृह्यौभयं दाप्य इति धर्मस्य धारणा]
ं८।१८५अ/ निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।
ं८।१८५च्/ नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ॥ Bछ्.Sछ्॥

ं८।१८६अ/ स्वयमेव तु यौ दद्यान् मृतस्य प्रत्यनन्तरे ।
ं८।१८६च्/ न स राज्ञाऽभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ॥ Bछ्.Sछ्॥

ं८।१८७अ/ अच्छलेनैव चान्विच्छेत् तमर्थं प्रीतिपूर्वकम् ।
ं८।१८७च्/ विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ॥ Bछ्.Sछ्॥

ं८।१८८अ/ निक्षेपेष्वेषु सर्वेषु विधिः स्यात् परिसाधने ।
ं८।१८८च्/ समुद्रे नाप्नुयात् किं चिद् यदि तस्मान्न संहरेत् ॥ Bछ्.Sछ्॥

ं८।१८९अ/ चौरैर्हृतं जलेनोढमग्निना दग्धमेव वा ।
ं८।१८९च्/ न दद्याद् यदि तस्मात् स न संहरति किं चन ॥ Bछ्.Sछ्॥

ं८।१९०अ/ निक्षेपस्यापहर्तारमनिक्षेप्तारमेव च ।
ं८।१९०च्/ सर्वैरुपायैरन्विच्छेत्शपथैश्चैव वैदिकैः ॥ Bछ्.Sछ्॥

ं८।१९१अ/ यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते ।
ं८।१९१च्/ तावुभौ चौरवत्शास्यौ दाप्यौ वा तत्समं दमम् ॥ Bछ्.Sछ्॥

ं८।१९२अ/ निक्षेपस्यापहर्तारं तत्समं दापयेद् दमम् ।
ं८।१९२च्/ तथोपनिधिहर्तारमविशेषेण पार्थिवः ॥ Bछ्.Sछ्॥

ं८।१९३अ/ उपधाभिश्च यः कश्चित् परद्रव्यं हरेन्नरः ।
ं८।१९३च्/ ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ॥ Bछ्.Sछ्॥

ं८।१९४अ/ निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ ।
ं८।१९४च्/ तावानेव स विज्ञेयो विब्रुवन् दण्डमर्हति ॥ Bछ्.Sछ्॥

ं८।१९५अ/ मिथो दायः कृतो येन गृहीतो मिथ एव वा ।
ं८।१९५च्/ मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ॥ Bछ्.Sछ्॥

ं८।१९६अ/ निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।
ं८।१९६च्/ राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ??॥ Bछ्.Sछ्॥

ं८।१९७अ/ विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसंमतः ।
ं८।१९७च्/ न तं नयेत साक्ष्यं तु स्तेनमस्तेनमानिनम् ॥ Bछ्.Sछ्॥

ं८।१९८अ/ अवहार्यो भवेत्चैव सान्वयः षट्शतं दमम् ।
ं८।१९८च्/ निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् ॥ Bछ्.Sछ्॥

ं८।१९९अ/ अस्वामिना कृतो यस्तु दायो विक्रय एव वा ।
ं८।१९९च्/ अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ॥ Bछ्.Sछ्॥

ं८।२००अ/ संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् ।
ं८।२००च्/ आगमः कारणं तत्र न संभोग इति स्थितिः ॥ Bछ्.Sछ्॥

ं८।२०१अ/ विक्रयाद् यो धनं किं चिद् गृह्णीयात् कुलसंनिधौ ।
ं८।२०१च्/ क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ॥ Bछ्.Sछ्॥

ं८।२०२अ/ अथ मूलमनाहार्यं प्रकाशक्रयशोधितः ।
ं८।२०२च्/ अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ॥ Bछ्.Sछ्॥

ं८।२०३अ/ नान्यदन्येन संसृष्टरूपं विक्रयमर्हति ।
ं८।२०३च्/ न चासारं न च न्यूनं न दूरेण तिरोहितम् ॥ Bछ्.Sछ्॥ %[ं। न सावद्यं न च न्यूनं न दूरे न तिरोहितं ]
ं८।२०४अ/ अन्यां चेद् दर्शयित्वाऽन्या वोढुः कन्या प्रदीयते ।
ं८।२०४च्/ उभे त एकशुल्केन वहेदित्यब्रवीन् मनुः ॥ Bछ्.Sछ्॥

ं८।२०५अ/ नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना ।
ं८।२०५च्/ पूर्वं दोषानभिख्याप्य प्रदाता दण्डमर्हति ॥ Bछ्.Sछ्॥

ं८।२०६अ/ ऋत्विग् यदि वृतो यज्ञे स्वकर्म परिहापयेत् ।
ं८।२०६च्/ तस्य कर्मानुरूपेण देयोंशः सहकर्तृभिः ॥ Bछ्.Sछ्॥

ं८।२०७अ/ दक्षिणासु च दत्तासु स्वकर्म परिहापयन् ।
ं८।२०७च्/ कृत्स्नमेव लभेतांशमन्येनैव च कारयेत् ॥ Bछ्.Sछ्॥

ं८।२०८अ/ यस्मिन् कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः ।
ं८।२०८च्/ स एव ता आददीत भजेरन् सर्व एव वा ॥ Bछ्.Sछ्॥

ं८।२०९अ/ रथं हरेत् चाध्वर्युर्ब्रह्माऽधाने च वाजिनम् ।
ं८।२०९च्/ होता वाऽपि हरेदश्वमुद्गाता चाप्यनः क्रये ॥ Bछ्.Sछ्॥

ं८।२१०अ/ सर्वेषामर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे ।
ं८।२१०च्/ तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः ॥ Bछ्.Sछ्॥

ं८।२११अ/ संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः ।
ं८।२११च्/ अनेन विधियोगेन कर्तव्यांशप्रकल्पना ॥ Bछ्.Sछ्॥

ं८।२१२अ/ धर्मार्थं येन दत्तं स्यात् कस्मै चिद् याचते धनम् ।
ं८।२१२च्/ पश्चाच्च न तथा तत् स्यान्न देयं तस्य तद् भवेत् ॥ Bछ्.Sछ्॥

ं८।२१३अ/ यदि संसाधयेत् तत् तु दर्पात्लोभेन वा पुनः ।
ं८।२१३च्/ राज्ञा दाप्यः सुवर्णं स्यात् तस्य स्तेयस्य निष्कृतिः ॥ Bछ्.Sछ्॥

ं८।२१४अ/ दत्तस्यैषौदिता धर्म्या यथावदनपक्रिया ।
ं८।२१४च्/ अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् ॥ Bछ्.Sछ्॥

ं८।२१५अ/ भृतो नार्तो न कुर्याद् यो दर्पात् कर्म यथोदितम् । %[ंऽनार्तो ]
ं८।२१५च्/ स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् ॥ Bछ्.Sछ्॥

ं८।२१६अ/ आर्तस्तु कुर्यात् स्वस्थः सन् यथाभाषितमादितः ।
ं८।२१६च्/ स दीर्घस्यापि कालस्य तत्लभेतेव वेतनम् ॥ Bछ्.Sछ्॥

ं८।२१७अ/ यथोक्तमार्तः सुस्थो वा यस्तत् कर्म न कारयेत् ।
ं८।२१७च्/ न तस्य वेतनं देयमल्पोनस्यापि कर्मणः ॥ Bछ्.Sछ्॥

ं८।२१८अ/ एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः ।
ं८।२१८च्/ अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् ॥ Bछ्.Sछ्॥

ं८।२१९अ/ यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् ।
ं८।२१९च्/ विसंवदेन्नरो लोभात् तं राष्ट्राद् विप्रवासयेत् ॥ Bछ्.Sछ्॥

ं८।२२०अ/ निगृह्य दापयेच्चैनं समयव्यभिचारिणम् ।
ं८।२२०च्/ चतुःसुवर्णान् षण्निष्कांश्शतमानं च राजकम् ॥ Bछ्.Sछ्॥

ं८।२२१अ/ एतद् दण्डविधिं कुर्याद् धार्मिकः पृथिवीपतिः ।
ं८।२२१च्/ ग्रामजातिसमूहेषु समयव्यभिचारिणाम् ॥ Bछ्.Sछ्॥

ं८।२२२अ/ क्रीत्वा विक्रीय वा किं चिद् यस्यैहानुशयो भवेत् ।
ं८।२२२च्/ सोऽन्तर्दशाहात् तद् द्रव्यं दद्याच्चैवाददीत वा ॥ Bछ्.Sछ्॥

ं८।२२३अ/ परेण तु दशाहस्य न दद्यान्नापि दापयेत् ।
ं८।२२३च्/ आददानो ददत् चैव राज्ञा दण्ड्यौ शतानि षट् ॥ Bछ्.Sछ्॥

ं८।२२४अ/ यस्तु दोषवतीं कन्यामनाख्याय प्रयच्छति ।
ं८।२२४च्/ तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् ॥ Bछ्.Sछ्॥

ं८।२२५अ/ अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः ।
ं८।२२५च्/ स शतं प्राप्नुयाद् दण्डं तस्या दोषमदर्शयन् ॥ Bछ्.Sछ्॥

ं८।२२६अ/ पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः ।
ं८।२२६च्/ नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः ॥ Bछ्.Sछ्॥

ं८।२२७अ/ पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् ।
ं८।२२७च्/ तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे ॥ Bछ्.Sछ्॥

ं८।२२८अ/ यस्मिन् यस्मिन् कृते कार्ये यस्येहानुशयो भवेत् ।
ं८।२२८च्/ तमनेन विधानेन धर्म्ये पथि निवेशयेत् ॥ Bछ्.Sछ्॥

ं८।२२९अ/ पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।
ं८।२२९च्/ विवादं सम्प्रवक्ष्यामि यथावद् धर्मतत्त्वतः ॥ Bछ्.Sछ्॥

ं८।२३०अ/ दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।
ं८।२३०च्/ योगक्षेमेऽन्यथा चेत् तु पालो वक्तव्यतामियात् ॥ Bछ्.Sछ्॥

ं८।२३१अ/ गोपः क्षीरभृतो यस्तु स दुह्याद् दशतो वराम् ।
ं८।२३१च्/ गोस्वाम्यनुमते भृत्यः सा स्यात् पालेऽभृते भृतिः ॥ Bछ्.Sछ्॥

ं८।२३२अ/ नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।
ं८।२३२च्/ हीनं पुरुषकारेण प्रदद्यात् पाल एव तु ॥ Bछ्.Sछ्॥

ं८।२३३अ/ विघुष्य तु हृतं चौरैर्न पालो दातुमर्हति ।
ं८।२३३च्/ यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥ Bछ्.Sछ्॥

ं८।२३४अ/ कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् ।
ं८।२३४च्/ पशुषु स्वामिनां दद्यान् मृतेष्वङ्कानि दर्शयेत् ॥ Bछ्.Sछ्॥ %[ंऽङ्कांश्च दर्शयेत्)]
ं८।२३५अ/ अजाविके तु संरुद्धे वृकैः पाले त्वनायति ।
ं८।२३५च्/ यां प्रसह्य वृको हन्यात् पाले तत् किल्बिषं भवेत् ॥ Bछ्.Sछ्॥

ं८।२३६अ/ तासां चेदवरुद्धानां चरन्तीनां मिथो वने ।
ं८।२३६च्/ यामुत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी ॥ Bछ्.Sछ्॥

ं८।२३७अ/ धनुःशतं परीहारो ग्रामस्य स्यात् समन्ततः ।
ं८।२३७च्/ शम्यापातास्त्रयो वाऽपि त्रिगुणो नगरस्य तु ॥ Bछ्.Sछ्॥

ं८।२३८अ/ तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।
ं८।२३८च्/ न तत्र प्रणयेद् दण्डं नृपतिः पशुरक्षिणाम् ॥ Bछ्.Sछ्॥ ।
ं८।२३९अ/ वृतिं तत्र प्रकुर्वीत यामुष्त्रो न विलोकयेत् ।
ं८।२३९च्/ छिद्रं च वारयेत् सर्वं श्वसूकरमुखानुगम् ॥ Bछ्.Sछ्॥

ं८।२४०अ/ पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः ।
ं८।२४०च्/ सपालः शतदण्डार्हो विपालान् वारयेत् पशून् ॥ Bछ्.Sछ्॥

ं८।२४१अ/ क्षेत्रेष्वन्येषु तु पशुः सपादं पणमर्हति ।
ं८।२४१च्/ सर्वत्र तु सदो देयः क्षेत्रिकस्यैति धारणा ॥ Bछ्.Sछ्॥

ं८।२४२अ/ अनिर्दशाहां गां सूतां वृषान् देवपशूंस्तथा ।
ं८।२४२च्/ सपालान् वा विपालान् वा न दण्ड्यान् मनुरब्रवीत् ॥ Bछ्.Sछ्॥

ं८।२४३अ/ क्षेत्रियस्यात्यये दण्डो भागाद् दशगुणो भवेत् । %[ं।क्षेत्रिकस्यात्यये]
ं८।२४३च्/ ततोऽर्धदण्डो भृत्यानामज्ञानात् क्षेत्रिकस्य तु ॥ Bछ्.Sछ्॥

ं८।२४४अ/ एतद् विधानमातिष्ठेद् धार्मिकः पृथिवीपतिः ।
ं८।२४४च्/ स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ॥ Bछ्.Sछ्॥

ं८।२४५अ/ सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः ।
ं८।२४५च्/ ज्येष्ठे मासि नयेत् सीमां सुप्रकाशेषु सेतुषु ॥ Bछ्.Sछ्॥

ं८।२४६अ/ सीमावृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।
ं८।२४६च्/ शाल्मलीन् सालतालांश्च क्षीरिणश्चैव पादपान् ॥ Bछ्.Sछ्॥

ं८।२४७अ/ गुल्मान् वेणूंश्च विविधान् शमीवल्लीस्थलानि च ।
ं८।२४७च्/ शरान् कुब्जकगुल्मांश्च तथा सीमा न नश्यति ॥ Bछ्.Sछ्॥

ं८।२४८अ[ं२५०अ]/ तडागान्युदपानानि वाप्यः प्रस्रवणानि च ।
ं८।२४८च्[ं२५०च्]/ सीमासंधिषु कार्याणि देवतायतनानि च ॥ Bछ्.Sछ्॥

ं८।२४९अ/ उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।
ं८।२४९च्/ सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ॥ Bछ्.Sछ्॥

ं८।२५०अ[ं२४८अ]/ अश्मनोऽस्थीनि गोवालांस्तुषान् भस्म कपालिकाः ।
ं८।२५०च्[ं२४८च्]/ करीषमिष्टकाऽङ्गारां शर्करा वालुकास्तथा ??॥ Bछ्.Sछ्॥

ं८।२५१अ/ यानि चैवंप्रकाराणि कालाद् भूमिर्न भक्षयेत् ।
ं८।२५१च्/ तानि संधिषु सीमायामप्रकाशानि कारयेत् ॥ Bछ्.Sछ्॥ %[ं।सीमाया]
ं८।२५२अ/ एतैर्लिङ्गैर्नयेत् सीमां राजा विवदमानयोः ।
ं८।२५२च्/ पूर्वभुक्त्या च सततमुदकस्यागमेन च ॥ Bछ्.Sछ्॥

ं८।२५३अ/ यदि स्ंशय एव स्यात्लिङ्गानामपि दर्शने ।
ं८।२५३च्/ साक्षिप्रत्यय एव स्यात् सीमावादविनिर्णयः ॥ Bछ्.Sछ्॥ %[ं।सीमावादविनिश्चयः ]
ं८।२५४अ/ ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः । %[ं। ग्रामेयक]
ं८।२५४च्/ प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ॥ Bछ्.Sछ्॥ %[ं।सीमालिङ्गानि ]
ं८।२५५अ/ ते पृष्तास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।
ं८।२५५च्/ निबध्नीयात् तथा सीमां सर्वांस्तांश्चैव नामतः ॥ Bछ्.Sछ्॥

ं८।२५६अ/ शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।
ं८।२५६च्/ सुकृतैः शापिताः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ॥ Bछ्.Sछ्॥

ं८।२५७अ/ यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।
ं८।२५७च्/ विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ॥ Bछ्.Sछ्॥

ं८।२५८अ/ साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः । %[ं।ग्रामसीमान्तवासिनः]
ं८।२५८च्/ सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ॥ Bछ्.Sछ्॥

ं८।२५९अ/ सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् ।
ं८।२५९च्/ इमानप्यनुयुञ्जीत पुरुषान् वनगोचरान् ॥ Bछ्.Sछ्॥

ं८।२६०अ/ व्याधांशाकुनिकान् गोपान् कैवर्तान् मूलखानकान् ।
ं८।२६०च्/ व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ॥ Bछ्.Sछ्॥

ं८।२६१अ/ ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।
ं८।२६१च्/ तत् तथा स्थापयेद् राजा धर्मेण ग्रामयोर्द्वयोः ॥ Bछ्.Sछ्॥

ं८।२६२अ/ क्षेत्रकूपतडागानामारामस्य गृहस्य च ।
ं८।२६२च्/ सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ॥ Bछ्.Sछ्॥

ं८।२६३अ/ सामन्ताश्चेत्मृषा ब्रूयुः सेतौ विवादतां नृणाम् ।
ं८।२६३च्/ सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥ Bछ्.Sछ्॥

ं८।२६४अ/ गृहं तडागमारामं क्षेत्रं वा भीषया हरन् ।
ं८।२६४च्/ शतानि पञ्च दण्ड्यः स्यादज्ञानाद् द्विशतो दमः ॥ Bछ्.Sछ्॥

ं८।२६५अ/ सीमायामविषह्यायां स्वयं राजैव धर्मवित् ।
ं८।२६५च्/ प्रदिशेद् भूमिमेकेषामुपकारादिति स्थितिः ॥ Bछ्.Sछ्॥

ं८।२६६अ/ एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।
ं८।२६६च्/ अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ॥ Bछ्.Sछ्॥

ं८।२६७अ/ शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।
ं८।२६७च्/ वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधमर्हति ॥ Bछ्.Sछ्॥

ं८।२६८अ/ पञ्चाशद् ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।
ं८।२६८च्/ वैश्ये स्यादर्धपञ्चाशत्शूद्रे द्वादशको दमः ॥ Bछ्.Sछ्॥

ं८।२६९अ/ समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।
ं८।२६९च्/ वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ॥ Bछ्.Sछ्॥

ं८।२७०अ/ एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् ।
ं८।२७०च्/ जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ॥ Bछ्.Sछ्॥

ं८।२७१अ/ नामजातिग्रहं त्वेषामभिद्रोहेण कुर्वतः ।
ं८।२७१च्/ निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ॥ Bछ्.Sछ्॥

ं८।२७२अ/ धर्मोपदेशं दर्पेण विप्राणामस्य कुर्वतः ।
ं८।२७२च्/ तप्तमासेचयेत् तैलं वक्त्रे श्रोत्रे च पार्थिवः ॥ Bछ्.Sछ्॥ %[ं।श्रौत्रे ]
ं८।२७३अ/ श्रुतं देशं च जातिं च कर्म शरीरमेव च ??।
ं८।२७३च्/ वितथेन ब्रुवन् दर्पाद् दाप्यः स्याद् द्विशतं दमम् ॥ Bछ्.Sछ्॥

ं८।२७४अ/ काणं वाऽप्यथ वा खञ्जमन्यं वाऽपि तथाविधम् ।
ं८।२७४च्/ तथ्येनापि ब्रुवन् दाप्यो दण्डं कार्षापणावरम् ॥ Bछ्.Sछ्॥

ं८।२७५अ/ मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।
ं८।२७५च्/ आक्षारयंशतं दाप्यः पन्थानं चाददद् गुरोः ॥ Bछ्.Sछ्॥

ं८।२७६अ/ ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।
ं८।२७६च्/ ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ॥ Bछ्.Sछ्॥

ं८।२७७अ/ विट् शूद्रयोरेवमेव स्वजातिं प्रति तत्त्वतः ।
ं८।२७७च्/ छेदवर्जं प्रणयनं दण्डस्यैति विनिश्चयः ॥ Bछ्.Sछ्॥

ं८।२७८अ/ एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।
ं८।२७८च्/ अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ॥ Bछ्.Sछ्॥

ं८।२७९अ/ येन केन चिदङ्गेन हिंस्याच्चेत्श्रेष्ठमन्त्यजः ।
ं८।२७९च्/ छेत्तव्यं तद् तदेवास्य तन् मनोरनुशासनम् ॥ Bछ्.Sछ्॥

ं८।२८०अ/ पाणिमुद्यम्य दण्डं वा पाणिच्छेदनमर्हति ।
ं८।२८०च्/ पादेन प्रहरन् कोपात् पादच्छेदनमर्हति ॥ Bछ्.Sछ्॥

ं८।२८१अ/ सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।
ं८।२८१च्/ कट्यां कृताङ्को निर्वास्यः स्फिचं वाऽस्यावकर्तयेत् ॥ Bछ्.Sछ्॥

ं८।२८२अ/ अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः ।
ं८।२८२च्/ अवमूत्रयतो मेढ्रमवशर्धयतो गुदम् ॥ Bछ्.Sछ्॥

ं८।२८३अ/ केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।
ं८।२८३च्/ पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ॥ Bछ्.Sछ्॥

ं८।२८४अ/ त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।
ं८।२८४च्/ मांसभेत्ता तु षट् निष्कान् प्रवास्यस्त्वस्थिभेदकः ॥ Bछ्.Sछ्॥

ं८।२८५अ/ वनस्पतीनां सर्वेषामुपभोगो यथा यथा ।
ं८।२८५च्/ यथा तथा दमः कार्यो हिंसायामिति धारणा ॥ Bछ्.Sछ्॥

ं८।२८६अ/ मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।
ं८।२८६च्/ यथा यथा महद् दुःखं दण्डं कुर्यात् तथा तथा ॥ Bछ्.Sछ्॥

ं८।२८७अ/ अङ्गावपीडनायां च व्रणशोणितयोस्तथा । %[ं।प्राणशोनितयोः ]
ं८।२८७च्/ समुत्थानव्ययं दाप्यः सर्वदण्डमथापि वा ॥ Bछ्.Sछ्॥

ं८।२८८अ/ द्रव्याणि हिंस्याद् यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ।
ं८।२८८च्/ स तस्योत्पादयेत् तुष्टिं राज्ञे दद्याच्च तत्समम् ॥ Bछ्.Sछ्॥

ं८।२८९अ/ चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु ।
ं८।२८९च्/ मूल्यात् पञ्चगुणो दण्डः पुष्पमूलफलेषु च ॥ Bछ्.Sछ्॥

ं८।२९०अ/ यानस्य चैव यातुश्च यानस्वामिन एव च ।
ं८।२९०च्/ दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ॥ Bछ्.Sछ्॥

ं८।२९१अ/ छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।
ं८।२९१च्/ अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ॥ Bछ्.Sछ्॥

ं८।२९२अ/ छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च ।
ं८।२९२च्/ आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ॥ Bछ्.Sछ्॥

ं८।२९३अ/ यत्रापवर्तते युग्यं वैगुण्यात् प्राजकस्य तु ।
ं८।२९३च्/ तत्र स्वामी भवेद् दण्ड्यो हिंसायां द्विशतं दमम् ॥ Bछ्.Sछ्॥

ं८।२९४अ/ प्राजकश्चेद् भवेदाप्तः प्राजको दण्डमर्हति ।
ं८।२९४च्/ युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ॥ Bछ्.Sछ्॥

ं८।२९५अ/ स चेत् तु पथि संरुद्धः पशुभिर्वा रथेन वा ।
ं८।२९५च्/ प्रमापयेत् प्राणभृतस्तत्र दण्डोऽविचारितः ॥ Bछ्.Sछ्॥

ं८।२९६अ/ मनुष्यमारणे क्षिप्रं चौरवत् किल्बिषं भवेत् ।
ं८।२९६च्/ प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ॥ Bछ्.Sछ्॥

ं८।२९७अ/ क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।
ं८।२९७च्/ पञ्चाशत् तु भवेद् दण्डः शुभेषु मृगपक्षिषु ॥ Bछ्.Sछ्॥

ं८।२९८अ/ गर्धभाजाविकानां तु दण्डः स्यात् पञ्चमाषिकः । %[ं।पाञ्चमाषिकः]
ं८।२९८च्/ माषिकस्तु भवेद् दण्डः श्वसूकरनिपातने ॥ Bछ्.Sछ्॥

ं८।२९९अ/ भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सौदरः ।
ं८।२९९च्/ प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ॥ Bछ्.Sछ्॥

ं८।३००अ/ पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन ।
ं८।३००च्/ अतोऽन्यथा तु प्रहरन् प्राप्तः स्याच्चौरकिल्बिषम् ॥ Bछ्.Sछ्॥

ं८।३०१अ/ एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः ।
ं८।३०१च्/ स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये ॥ Bछ्.Sछ्॥

ं८।३०२अ/ परमं यत्नमातिष्ठेत् स्तेनानां निग्रहे नृपः ।
ं८।३०२च्/ स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते ॥ Bछ्.Sछ्॥

ं८।३०३अ/ अभयस्य हि यो दाता स पूज्यः सततं नृपः ।
ं८।३०३च्/ सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् ॥ Bछ्.Sछ्॥

ं८।३०४अ/ सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः ।
ं८।३०४च्/ अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः ॥ Bछ्.Sछ्॥

ं८।३०५अ/ यदधीते यद् यजते यद् ददाति यदर्चति ।
ं८।३०५च्/ तस्य षड्भागभाग् राजा सम्यग् भवति रक्षणात् ॥ Bछ्.Sछ्॥

ं८।३०६अ/ रक्षन् धर्मेण भूतानि राजा वध्यांश्च घातयन् ।
ं८।३०६च्/ यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः ॥ Bछ्.Sछ्॥

ं८।३०७अ/ योऽरक्षन् बलिमादत्ते करं शुल्कं च पार्थिवः ।
ं८।३०७च्/ प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् ॥ Bछ्.Sछ्॥

ं८।३०८अ/ अरक्षितारं राजानं बलिषड्भागहारिणम् । %[क्: अरक्षितारमत्तारं]
ं८।३०८च्/ तमाहुः सर्वलोकस्य समग्रमलहारकम् ॥ Bछ्.Sछ्॥

ं८।३०९अ/ अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम् । %[ंऽनवेक्षितमर्यादं ]
ं८।३०९च्/ अरक्षितारमत्तारं नृपं विद्यादधोगतिम् ॥ Bछ्.Sछ्॥

ं८।३१०अ/ अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात् प्रयत्नतः ।
ं८।३१०च्/ निरोधनेन बन्धेन विविधेन वधेन च ॥ Bछ्.Sछ्॥

ं८।३११अ/ निग्रहेण हि पापानां साधूनां सङ्ग्रहेण च ।
ं८।३११च्/ द्विजातय इवैज्याभिः पूयन्ते सततं नृपाः ॥ Bछ्.Sछ्॥

ं८।३१२अ/ क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् ।
ं८।३१२च्/ बालवृद्धातुराणां च कुर्वता हितमात्मनः ॥ Bछ्.Sछ्॥

ं८।३१३अ/ यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते ।
ं८।३१३च्/ यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति ॥ Bछ्.Sछ्॥

ं८।३१४अ/ राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । %[ं। धीमता ]
ं८।३१४च्/ आचक्षाणेन तत् स्तेयमेवङ्कर्माऽस्मि शाधि माम् ॥ Bछ्.Sछ्॥

ं८।३१५अ/ स्कन्धेनादाय मुसलं लगुडं वाऽपि खादिरम् । %[ंंउशलं ]
ं८।३१५च्/ शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ Bछ्.Sछ्॥

ं८।३१६अ/ शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
ं८।३१६च्/ अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् ॥ Bछ्.Sछ्॥

ं८।३१७अ/ अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी ।
ं८।३१७च्/ गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ Bछ्.Sछ्॥

ं८।३१८अ/ राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । %[ं राजभिर्धृतदण्डास्तु]
ं८।३१८च्/ निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ Bछ्.Sछ्॥

ं८।३१९अ/ यस्तु रज्जुं घटं कूपाद्द् हरेद् भिन्द्याच्च यः प्रपाम् ।
ं८।३१९च्/ स दण्डं प्राप्नुयान् माषं तच्च तस्मिन् समाहरेत् ॥ Bछ्.Sछ्॥

ं८।३२०अ/ धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।
ं८।३२०च्/ शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद् धनम् ॥ Bछ्.Sछ्॥

ं८।३२१अ/ तथा धरिममेयानां शतादभ्यधिके वधः ।
ं८।३२१च्/ सुवर्णरजतादीनामुत्तमानां च वाससाम् ॥ Bछ्.Sछ्॥

ं८।३२२अ/ पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनमिष्यते ।
ं८।३२२च्/ शेषे त्वेकादशगुणं मूल्याद् दण्डं प्रकल्पयेत् ॥ Bछ्.Sछ्॥

ं८।३२३अ/ पुरुषाणां कुलीनानां नारीणां च विशेषतः ।
ं८।३२३च्/ मुख्यानां चैव रत्नानां हरणे वधमर्हति ॥ Bछ्.Sछ्॥

ं८।३२४अ/ महापशूनां हरणे शस्त्राणामौषधस्य च ।
ं८।३२४च्/ कालमासाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ॥ Bछ्.Sछ्॥

ं८।३२५अ/ गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने । %[ं।खरिकायाश्च]
ं८।३२५च्/ पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ॥ Bछ्.Sछ्॥

ं८।३२६अ/ सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।
ं८।३२६च्/ दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ॥ Bछ्.Sछ्॥

ं८।३२७अ/ वेणुवैदलभाण्डानां लवणानां तथैव च ।
ं८।३२७च्/ मृण्मयानां च हरणे मृदो भस्मन एव च ॥ Bछ्.Sछ्॥

ं८।३२८अ/ मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।
ं८।३२८च्/ मांसस्य मधुनश्चैव यच्चान्यत् पशुसंभवम् ॥ Bछ्.Sछ्॥

ं८।३२९अ/ अन्येषां चैवमादीनां मद्यानामोदनस्य च । %[ंॅहैवमादीनामद्यानाम्]
ं८।३२९च्/ पक्वान्नानां च सर्वेषां तन्मुल्याद् द्विगुणो दमः ॥ Bछ्.Sछ्॥

ं८।३३०अ/ पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।
ं८।३३०च्/ अन्येष्वपरिपूतेषु दण्डः स्यात् पञ्चकृष्णलः ॥ Bछ्.Sछ्॥

ं८।३३१अ/ परिपूतेषु धान्येषु शाकमूलफलेषु च ।
ं८।३३१च्/ निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ॥ Bछ्.Sछ्॥

ं८।३३२अ/ स्यात् साहसं त्वन्वयवत् प्रसभं कर्म यत् कृतम् ।
ं८।३३२च्/ निरन्वयं भवेत् स्तेयं हृत्वाऽपव्ययते च यत् ॥ Bछ्.Sछ्॥

ं८।३३३अ/ यस्त्वेतान्युपकॢप्तानि द्रव्याणि स्तेनयेन्नरः ।
ं८।३३३च्/ तमाद्यं दण्डयेद् राजा यश्चाग्निं चोरयेद् गृहात् ॥ Bछ्.Sछ्॥ %[ं।तं शतं]
ं८।३३४अ/ येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।
ं८।३३४च्/ तत् तदेव हरेत् तस्य प्रत्यादेशाय पार्थिवः ॥ Bछ्.Sछ्॥

ं८।३३५अ/ पिताऽचार्यः सुहृत्माता भार्या पुत्रः पुरोहितः ।
ं८।३३५च्/ नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ Bछ्.Sछ्॥

ं८।३३६अ/ कार्षापणं भवेद् दण्ड्यो यत्रान्यः प्राकृतो जनः ।
ं८।३३६च्/ तत्र राजा भवेद् दण्ड्यः सहस्रमिति धारणा ॥ Bछ्.Sछ्॥

ं८।३३७अ/ अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।
ं८।३३७च्/ षोडशैव तु वैश्यस्य द्वात्रिंशत् क्षत्रियस्य च ॥ Bछ्.Sछ्॥

ं८।३३८अ/ ब्राह्मणस्य चतुःषष्टिः पूर्णं वाऽपि शतं भवेत् ।
ं८।३३८च्/ द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्द् हि सः ॥ Bछ्.Sछ्॥

ं८।३३९अ/ वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।
ं८।३३९च्/ तृणं च गोभ्यो ग्रासार्थमस्तेयं मनुरब्रवीत् ॥ Bछ्.Sछ्॥

ं८।३४०अ/ योऽदत्तादायिनो हस्तात्लिप्सेत ब्राह्मणो धनम् ।
ं८।३४०च्/ याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥ Bछ्.Sछ्॥

ं८।३४१अ/ द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।
ं८।३४१च्/ आददानः परक्षेत्रात्न दण्डं दातुमर्हति ॥ Bछ्.Sछ्॥

ं८।३४२अ/ असंदितानां संदाता संदितानां च मोक्षकः ।
ं८।३४२च्/ दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् ॥ Bछ्.Sछ्॥

ं८।३४३अ/ अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।
ं८।३४३च्/ यशोऽस्मिन् प्राप्नुयात्लोके प्रेत्य चानुत्तमं सुखम् ॥ Bछ्.Sछ्॥

ं८।३४४अ/ ऐन्द्रं स्थानमभिप्रेप्सुर्यशश्चाक्षयमव्ययम् ।
ं८।३४४च्/ नोपेक्षेत क्षणमपि राजा साहसिकं नरम् ॥ Bछ्.Sछ्॥

ं८।३४५अ/ वाग्दुष्टात् तस्कराच्चैव दण्डेनैव च हिंसतः ।
ं८।३४५च्/ साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः ॥ Bछ्.Sछ्॥

ं८।३४६अ/ साहसे वर्तमानं तु यो मर्षयति पार्थिवः ।
ं८।३४६च्/ स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति ॥ Bछ्.Sछ्॥

ं८।३४७अ/ न मित्रकारणाद् राजा विपुलाद् वा धनागमात् ।
ं८।३४७च्/ समुत्सृजेत् साहसिकान् सर्वभूतभयावहान् ॥ Bछ्.Sछ्॥

ं८।३४८अ/ शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते ।
ं८।३४८च्/ द्विजातीनां च वर्णानां विप्लवे कालकारिते ॥ Bछ्.Sछ्॥

ं८।३४९अ/ आत्मनश्च परित्राणे दक्षिणानां च सङ्गरे ।
ं८।३४९च्/ स्त्रीविप्राभ्युपपत्तौ च घ्नन् धर्मेण न दुष्यति ॥ Bछ्.Sछ्॥

ं८।३५०अ/ गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् ।
ं८।३५०च्/ आततायिनमायान्तं हन्यादेवाविचारयन् ॥ Bछ्.Sछ्॥

ं८।३५१अ/ नाततायिवधे दोषो हन्तुर्भवति कश्चन ।
ं८।३५१च्/ प्रकाशं वाऽप्रकाशं वा मन्युस्तं मन्युमृच्छति ॥ Bछ्.Sछ्॥

ं८।३५२अ/ परदाराभिमर्शेषु प्रवृत्तान्नॄन् महीपतिः ।
ं८।३५२च्/ उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ॥ Bछ्.Sछ्॥ %[ंॅहिह्नयित्वा)]
ं८।३५३अ/ तत्समुत्थो हि लोकस्य जायते वर्णसङ्करः ।
ं८।३५३च्/ येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ॥ Bछ्.Sछ्॥

ं८।३५४अ/ परस्य पत्न्या पुरुषः संभाषां योजयन् रहः ।
ं८।३५४च्/ पूर्वमाक्षारितो दोषैः प्राप्नुयात् पूर्वसाहसम् ॥ Bछ्.Sछ्॥

ं८।३५५अ/ यस्त्वनाक्षारितः पूर्वमभिभाषते कारणात् ??।
ं८।३५५च्/ न दोषं प्राप्नुयात् किं चिन्न हि तस्य व्यतिक्रमः ॥ Bछ्.Sछ्॥

ं८।३५६अ/ परस्त्रियं योऽभिवदेत् तीर्थेऽरण्ये वनेऽपि वा ।
ं८।३५६च्/ नदीनां वाऽपि संभेदे स सङ्ग्रहणमाप्नुयात् ॥ Bछ्.Sछ्॥

ं८।३५७अ/ उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् । %[ंउपकारक्रिया]
ं८।३५७च्/ सह खट्वाऽसनं चैव सर्वं सङ्ग्रहणं स्मृतम् ॥ Bछ्.Sछ्॥

ं८।३५८अ/ स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत् तया ।
ं८।३५८च्/ परस्परस्यानुमते सर्वं सङ्ग्रहणं स्मृतम् ॥ Bछ्.Sछ्॥

ं८।३५९अ/ अब्राह्मणः सङ्ग्रहणे प्राणान्तं दण्डमर्हति ।
ं८।३५९च्/ चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥ Bछ्.Sछ्॥

ं८।३६०अ/ भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा ।
ं८।३६०च्/ संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः ॥ Bछ्.Sछ्॥

ं८।३६१अ/ न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।
ं८।३६१च्/ निषिद्धो भाषमाणस्तु सुवर्णं दण्डमर्हति ॥ Bछ्.Sछ्॥

ं८।३६२अ/ नैष चारणदारेषु विधिर्नात्मोपजीविषु ।
ं८।३६२च्/ सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ॥ Bछ्.Sछ्॥

ं८।३६३अ/ किं चिदेव तु दाप्यः स्यात् संभाषां ताभिराचरन् ।
ं८।३६३च्/ प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ॥ Bछ्.Sछ्॥ %[ं।प्रेष्यासु ]
ं८।३६४अ/ योऽकामां दूषयेत् कन्यां स सद्यो वधमर्हति ।
ं८।३६४च्/ सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ॥ Bछ्.Sछ्॥

ं८।३६५अ/ कन्यां भजन्तीमुत्कृष्टं न किं चिदपि दापयेत् ।
ं८।३६५च्/ जघन्यं सेवमानां तु संयतां वासयेद् गृहे ॥ Bछ्.Sछ्॥

ं८।३६६अ/ उत्तमां सेवमानस्तु जघन्यो वधमर्हति ।
ं८।३६६च्/ शुल्कं दद्यात् सेवमानः समामिच्छेत् पिता यदि ॥ Bछ्.Sछ्॥

ं८।३६७अ/ अभिषह्य तु यः कन्यां कुर्याद् दर्पेण मानवः ।
ं८।३६७च्/ तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ॥ Bछ्.Sछ्॥ %[ं।कर्त्या अङ्गुल्यो ]
ं८।३६८अ/ सकामां दूषयंस्तुल्यो नाङ्गुलिछेदमाप्नुयात् ।
ं८।३६८च्/ द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ॥ Bछ्.Sछ्॥

ं८।३६९अ/ कन्यैव कन्यां या कुर्यात् तस्याः स्याद् द्विशतो दमः ।
ं८।३६९च्/ शुल्कं च द्विगुणं दद्यात्शिफाश्चैवाप्नुयाद् दश ॥ Bछ्.Sछ्॥

ं८।३७०अ/ या तु कन्यां प्रकुर्यात् स्त्री सा सद्यो मौण्ड्यमर्हति ।
ं८।३७०च्/ अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ॥ Bछ्.Sछ्॥

ं८।३७१अ/ भर्तारं लङ्घयेद् या तु स्त्री ज्ञातिगुणदर्पिता ।
ं८।३७१च्/ तां श्वभिः खादयेद् राजा संस्थाने बहुसंस्थिते ॥ Bछ्.Sछ्॥

ं८।३७२अ/ पुमांसं दाहयेत् पापं शयने तप्त आयसे ।
ं८।३७२च्/ अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् ॥ Bछ्.Sछ्॥

ं८।३७३अ/ संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । %[ं।संवत्सरेऽभिशस्तस्य]
ं८।३७३च्/ व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ॥ Bछ्.Sछ्॥

ं८।३७४अ/ शूद्रो गुप्तमगुप्तं वा द्वैजातं वर्णमावसन् ।
ं८।३७४च्/ अगुप्तमङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ॥ Bछ्.Sछ्॥ %[ंऽङ्गसर्वस्वी]
ं८।३७५अ/ वैश्यः सर्वस्वदण्डः स्यात् संवत्सरनिरोधतः ।
ं८।३७५च्/ सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ॥ Bछ्.Sछ्॥

ं८।३७६अ/ ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।
ं८।३७६च्/ वैश्यं पञ्चशतं कुर्यात् क्षत्रियं तु सहस्रिणम् ॥ Bछ्.Sछ्॥

ं८।३७७अ/ उभावपि तु तावेव ब्राह्मण्या गुप्तया सह ।
ं८।३७७च्/ विप्लुतौ शूद्रवद् दण्ड्यौ दग्धव्यौ वा कटाग्निना ॥ Bछ्.Sछ्॥

ं८।३७८अ/ सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन् ।
ं८।३७८च्/ शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह सङ्गतः ॥ Bछ्.Sछ्॥

ं८।३७९अ/ मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते । %[ं।प्राणान्तको][ं’ः चों रेफ़ेर्स्तो थे रेऽदिन्गोफ़् ᳚प्राणान्तिक᳚।]
ं८।३७९च्/ इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ॥ Bछ्.Sछ्॥ %[ं।प्राणान्तको ]
ं८।३८०अ/ न जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् ।
ं८।३८०च्/ राष्ट्रादेनं बहिः कुर्यात् समग्रधनमक्षतम् ॥ Bछ्.Sछ्॥

ं८।३८१अ/ न ब्राह्मणवधाद् भूयानधर्मो विद्यते भुवि ।
ं८।३८१च्/ तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥ Bछ्.Sछ्॥

ं८।३८२अ/ वैश्यश्चेत् क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।
ं८।३८२च्/ यो ब्राह्मण्यामगुप्तायां तावुभौ दण्डमर्हतः ॥ Bछ्.Sछ्॥

ं८।३८३अ/ सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।
ं८।३८३च्/ शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद् दमः ॥ Bछ्.Sछ्॥ %[ं।शूद्राया]
ं८।३८४अ/ क्षत्रियायामगुप्तायां वैश्ये पञ्चशतं दमः ।
ं८।३८४च्/ मूत्रेण मौण्ड्यमिच्छेत् तु क्षत्रियो दण्डमेव वा ॥ Bछ्.Sछ्॥ %[ं।ऋच्छेत् तु]
ं८।३८५अ/ अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।
ं८।३८५च्/ शतानि पञ्च दण्ड्यः स्यात् सहस्रं त्वन्त्यजस्त्रियम् ॥ Bछ्.Sछ्॥

ं८।३८६अ/ यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् ।
ं८।३८६च्/ न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् ॥ Bछ्.Sछ्॥

ं८।३८७अ/ एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके ।
ं८।३८७च्/ सांराज्यकृत् सजात्येषु लोके चैव यशस्करः ??॥ Bछ्.Sछ्॥

ं८।३८८अ/ ऋत्विजं यस्त्यजेद् याज्यो याज्यं चर्त्विक् त्यजेद् यदि ।
ं८।३८८च्/ शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् ॥ Bछ्.Sछ्॥

ं८।३८९अ/ न माता न पिता न स्त्री न पुत्रस्त्यागमर्हति ।
ं८।३८९च्/ त्यजन्नपतितानेतान् राज्ञा दण्ड्यः शतानि षट् ॥ Bछ्.Sछ्॥

ं८।३९०अ/ आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः ।
ं८।३९०च्/ न विब्रूयान्नृपो धर्मं चिकीर्षन् हितमात्मनः ॥ Bछ्.Sछ्॥

ं८।३९१अ/ यथार्हमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः ।
ं८।३९१च्/ सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् ॥ Bछ्.Sछ्॥

ं८।३९२अ/ प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे ।
ं८।३९२च्/ अर्हावभोजयन् विप्रो दण्डमर्हति माषकम् ॥ Bछ्.Sछ्॥

ं८।३९३अ/ श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् ।
ं८।३९३च्/ तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् ॥ Bछ्.Sछ्॥ %[ं। हैरण्यं ]
ं८।३९४अ/ अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः ।
ं८।३९४च्/ श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित् करम् ॥ Bछ्.Sछ्॥

ं८।३९५अ/ श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिञ्चनम् ।
ं८।३९५च्/ महाकुलीनमार्यं च राजा सम्पूजयेत् सदा ॥ Bछ्.Sछ्॥

ं८।३९६अ/ शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः ।
ं८।३९६च्/ न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् ॥ Bछ्.Sछ्॥

ं८।३९७अ/ तन्तुवायो दशपलं दद्यादेकपलाधिकम् ।
ं८।३९७च्/ अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ Bछ्.Sछ्॥

ं८।३९८अ/ शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः ।
ं८।३९८च्/ कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् ॥ Bछ्.Sछ्॥

ं८।३९९अ/ राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च ।
ं८।३९९च्/ ताणि निर्हरतो लोभात् सर्वहारं हरेन्नृपः ॥ Bछ्.Sछ्॥

ं८।४००अ/ शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी ।
ं८।४००च्/ मिथ्यावादी च सङ्ख्याने दाप्योऽष्टगुणमत्ययम् ॥ Bछ्.Sछ्॥

ं८।४०१अ/ आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ ।
ं८।४०१च्/ विचार्य सर्वपण्यानां कारयेत् क्रयविक्रयौ ॥ Bछ्.Sछ्॥

ं८।४०२अ/ पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते ।
ं८।४०२च्/ कुर्वीत चैषां प्रत्यक्षमर्घसंस्थापनं नृपः ॥ Bछ्.Sछ्॥

ं८।४०३अ/ तुलामानं प्रतीमानं सर्वं च स्यात् सुलक्षितम् ।
ं८।४०३च्/ षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् ॥ Bछ्.Sछ्॥

ं८।४०४अ/ पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे ।
ं८।४०४च्/ पादं पशुश्च योषित्च पादार्धं रिक्तकः पुमान् ॥ Bछ्.Sछ्॥ %[ं।पादे]
ं८।४०५अ/ भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः ।
ं८।४०५च्/ रिक्तभाण्डानि यत् किं चित् पुमांसश्चपरिच्छदाः ॥ Bछ्.Sछ्॥

ं८।४०६अ/ दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् ।
ं८।४०६च्/ नदीतीरेषु तद् विद्यात् समुद्रे नास्ति लक्षणम् ॥ Bछ्.Sछ्॥

ं८।४०७अ/ गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः ।
ं८।४०७च्/ ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे ॥ Bछ्.Sछ्॥

ं८।४०८अ/ यन्नावि किं चिद् दाशानां विशीर्येतापराधतः ।
ं८।४०८च्/ तद् दाशैरेव दातव्यं समागम्य स्वतोऽंशतः ॥ Bछ्.Sछ्॥

ं८।४०९अ/ एष नौयायिनामुक्तो व्यवहारस्य निर्णयः ।
ं८।४०९च्/ दाशापराधतस्तोये दैविके नास्ति निग्रहः ॥ Bछ्.Sछ्॥

ं८।४१०अ/ वाणिज्यं कारयेद् वैश्यं कुसीदं कृषिमेव च ।
ं८।४१०च्/ पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् ॥ Bछ्.Sछ्॥

ं८।४११अ/ क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ ।
ं८।४११च्/ बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् ॥ Bछ्.Sछ्॥

ं८।४१२अ/ दास्यं तु कारयन्लोभाद् ब्राह्मणः संस्कृतान् द्विजान् ।
ं८।४१२च्/ अनिच्छतः प्राभवत्याद् राज्ञा दण्ड्यः शतानि षट् ॥ Bछ्.Sछ्॥

ं८।४१३अ/ शूद्रं तु कारयेद् दास्यं क्रीतमक्रीतमेव वा ।
ं८।४१३च्/ दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा ॥ Bछ्.Sछ्॥

ं८।४१४अ/ न स्वामिना निसृष्टोऽपि शूद्रो दास्याद् विमुच्यते ।
ं८।४१४च्/ निसर्गजं हि तत् तस्य कस्तस्मात् तदपोहति ॥ Bछ्.Sछ्॥

ं८।४१५अ/ ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ ।
ं८।४१५च्/ पैत्रिको दण्डदासश्च सप्तैते दासयोनयः ॥ Bछ्.Sछ्॥

ं८।४१६अ/ भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः ।
ं८।४१६च्/ यत् ते समधिगच्छन्ति यस्य ते तस्य तद् धनम् ॥ Bछ्.Sछ्॥

ं८।४१७अ/ विस्रब्धं ब्राह्मणः शूद्राद् द्रव्योपादानमाचरेत् ।
ं८।४१७च्/ न हि तस्यास्ति किं चित् स्वं भर्तृहार्यधनो हि सः ॥ Bछ्.Sछ्॥

ं८।४१८अ/ वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् ।
ं८।४१८च्/ तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतामिदं जगत् ॥ Bछ्.Sछ्॥

ं८।४१९अ/ अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च ।
ं८।४१९च्/ आयव्ययौ च नियतावाकरान् कोशमेव च ॥ Bछ्.Sछ्॥

ं८।४२०अ/ एवं सर्वानिमान् राजा व्यवहारान् समापयन् ।
ं८।४२०च्/ व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् ॥ Bछ्.Sछ्॥

 

अध्याय ९
ं९।०१अ/ पुरुषस्य स्त्रियाश्चैव धर्मे वर्त्मनि तिष्ठतोः । %[ं।धर्म्ये ]
ं९।०१च्/ संयोगे विप्रयोगे च धर्मान् वक्ष्यामि शाश्वतान् ॥ Bछ्.Sछ्॥

ं९।०२अ/ अस्वतन्त्राः स्त्रियः कार्याः पुरुषैः स्वैर्दिवानिशम् ।
ं९।०२च्/ विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनो वशे ॥ Bछ्.Sछ्॥

ं९।०३अ/ पिता रक्षति कौमारे भर्ता रक्षति यौवने ।
ं९।०३च्/ रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ॥ Bछ्.Sछ्॥

ं९।०४अ/ कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन् पतिः ।
ं९।०४च्/ मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ Bछ्.Sछ्॥

ं९।०५अ/ सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । %[ं।स्त्रिया]
ं९।०५च्/ द्वयोर्हि कुलयोः शोकमावहेयुररक्षिताः ॥ Bछ्.Sछ्॥

ं९।०६अ/ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् ।
ं९।०६च्/ यतन्ते रक्षितुं भार्यां भर्तारो दुर्बला अपि ॥ Bछ्.Sछ्॥

ं९।०७अ/ स्वां प्रसूतिं चरित्रं च कुलमात्मानमेव च ।
ं९।०७च्/ स्वं च धर्मं प्रयत्नेन जायां रक्षन् हि रक्षति ॥ Bछ्.Sछ्॥

ं९।०८अ/ पतिर्भार्यां सम्प्रविश्य गर्भो भूत्वैह जायते ।
ं९।०८च्/ जायायास्तद् हि जायात्वं यदस्यां जायते पुनः ॥ Bछ्.Sछ्॥

ं९।०९अ/ यादृशं भजते हि स्त्री सुतं सूते तथाविधम् ।
ं९।०९च्/ तस्मात् प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत् प्रयत्नतः ॥ Bछ्.Sछ्॥

ं९।१०अ/ न कश्चिद् योषितः शक्तः प्रसह्य परिरक्षितुम् ।
ं९।१०च्/ एतैरुपाययोगैस्तु शक्यास्ताः परिरक्षितुम् ॥ Bछ्.Sछ्॥

ं९।११अ/ अर्थस्य सङ्ग्रहे चैनां व्यये चैव नियोजयेत् ।
ं९।११च्/ शौचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ॥ Bछ्.Sछ्॥

ं९।१२अ/ अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
ं९।१२च्/ आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ Bछ्.Sछ्॥

ं९।१३अ/ पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् ।
ं९।१३च्/ स्वप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ Bछ्.Sछ्॥

ं९।१४अ/ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।
ं९।१४च्/ सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ॥ Bछ्.Sछ्॥

ं९।१५अ/ पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः । %[ंंऐःस्नेह्याच्]
ं९।१५च्/ रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥ Bछ्.Sछ्॥

ं९।१६अ/ एवं स्वभावं ज्ञात्वाऽसां प्रजापतिनिसर्गजम् ।
ं९।१६च्/ परमं यत्नमातिष्ठेत् पुरुषो रक्षणं प्रति ॥ Bछ्.Sछ्॥

ं९।१७अ/ शय्याऽऽसनमलङ्कारं कामं क्रोधमनार्जवम् । ं:अनार्यतां ]
ं९।१७च्/ द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ॥ Bछ्.Sछ्॥ %[ं।द्रोग्धृभावं]
ं९।१८अ/ नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः ।
ं९।१८च्/ निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्यो अनृतमिति स्थितिः ॥ Bछ्.Sछ्॥ %[ं।स्त्रियो]
ं९।१९अ/ तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि ।
ं९।१९च्/ स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ॥ Bछ्.Sछ्॥

ं९।२०अ/ यन् मे माता प्रलुलुभे विचरन्त्यपतिव्रता ।
ं९।२०च्/ तन् मे रेतः पिता वृङ्क्तामित्यस्यैतन्निदर्शनम् ॥ Bछ्.Sछ्॥

ं९।२१अ/ ध्यायत्यनिष्टं यत् किं चित् पाणिग्राहस्य चेतसा ।
ं९।२१च्/ तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ॥ Bछ्.Sछ्॥

ं९।२२अ/ यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।
ं९।२२च्/ तादृग्गुणा सा भवति समुद्रेणैव निम्नगा ॥ Bछ्.Sछ्॥

ं९।२३अ/ अक्षमाला वसिष्ठेन संयुक्ताऽधमयोनिजा ।
ं९।२३च्/ शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ॥ Bछ्.Sछ्॥

ं९।२४अ/ एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः । %[ंऽवकृष्टप्रसूतयः]
ं९।२४च्/ उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ॥ Bछ्.Sछ्॥

ं९।२५अ/ एषोदिता लोकयात्रा नित्यं स्त्रीपुंसयोः शुभा ।
ं९।२५च्/ प्रेत्यैह च सुखोदर्कान् प्रजाधर्मान्निबोधत ॥ Bछ्.Sछ्॥

ं९।२६अ/ प्रजनार्थं महाभागाः पूजार्हा गृहदीप्तयः ।
ं९।२६च्/ स्त्रियः श्रियश्च गेहेषु न विशेषोऽस्ति कश्चन ॥ Bछ्.Sछ्॥

ं९।२७अ/ उत्पादनमपत्यस्य जातस्य परिपालनम् ।
ं९।२७च्/ प्रत्यहं लोकयात्रायाः प्रत्यक्षं स्त्री निबन्धनम् ॥ Bछ्.Sछ्॥ %[ं।प्रत्यर्थं ]
ं९।२८अ/ अपत्यं धर्मकार्याणि शुश्रूषा रतिरुत्तमा ।
ं९।२८च्/ दाराऽधीनस्तथा स्वर्गः पितॄणामात्मनश्च ह ॥ Bछ्.Sछ्॥

ं९।२९अ/ पतिं या नाभिचरति मनोवाग्देहसंयता ।
ं९।२९च्/ सा भर्तृलोकानाप्नोति सद्भिः साध्वीइति चोच्यते ॥ Bछ्.Sछ्॥

ं९।३०अ/ व्यभिचारात् तु भर्तुः स्त्री लोके प्राप्नोति निन्द्यताम् ।
ं९।३०च्/ सृगालयोनिं चाप्नोति पापरोगैश्च पीड्यते ॥ Bछ्.Sछ्॥ %[ं।शृगालयोनिं]
ं९।३१अ/ पुत्रं प्रत्युदितं सद्भिः पूर्वजैश्च महर्षिभिः ।
ं९।३१च्/ विश्वजन्यमिमं पुण्यमुपन्यासं निबोधत ॥ Bछ्.Sछ्॥

ं९।३२अ/ भर्तरि पुत्रं विजानन्ति श्रुतिद्वैधं तु कर्तरि । %[ं। भर्तुः ]
ं९।३२च्/ आहुरुत्पादकं के चिदपरे क्षेत्रिणं विदुः ॥ Bछ्.Sछ्॥

ं९।३३अ/ क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।
ं९।३३च्/ क्षेत्रबीजसमायोगात् संभवः सर्वदेहिनाम् ॥ Bछ्.Sछ्॥

ं९।३४अ/ विशिष्टं कुत्र चिद् बीजं स्त्रीयोनिस्त्वेव कुत्र चित् ।
ं९।३४च्/ उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ॥ Bछ्.Sछ्॥

ं९।३५अ/ बीजस्य चैव योन्याश्च बीजमुत्कृष्टमुच्यते ।
ं९।३५च्/ सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ॥ Bछ्.Sछ्॥

ं९।३६अ/ यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।
ं९।३६च्/ तादृग् रोहति तत् तस्मिन् बीजं स्वैर्व्यञ्जितं गुणैः ॥ Bछ्.Sछ्॥

ं९।३७अ/ इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते ।
ं९।३७च्/ न च योनिगुणान् कांश्चिद् बीजं पुष्यति पुष्टिषु ॥ Bछ्.Sछ्॥

ं९।३८अ/ भूमावप्येककेदारे कालोप्तानि कृषीवलैः ।
ं९।३८च्/ नानारूपाणि जायन्ते बीजानीह स्वभावतः ॥ Bछ्.Sछ्॥

ं९।३९अ/ व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः ।
ं९।३९च्/ यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ॥ Bछ्.Sछ्॥

ं९।४०अ/ अन्यदुप्तं जातमन्यदित्येतन्नोपपद्यते ।
ं९।४०च्/ उप्यते यद् हि यद् बीजं तत् तदेव प्ररोहति ॥ Bछ्.Sछ्॥

ं९।४१अ/ तत् प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।
ं९।४१च्/ आयुष्कामेन वप्तव्यं न जातु परयोषिति ॥ Bछ्.Sछ्॥

ं९।४२अ/ अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः ।
ं९।४२च्/ यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ॥ Bछ्.Sछ्॥

ं९।४३अ/ नश्यतीषुर्यथा विद्धः खे विद्धमनुविध्यतः ।
ं९।४३च्/ तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ॥ Bछ्.Sछ्॥ %[ं।क्षिप्तं]
ं९।४४अ/ पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः ।
ं९।४४च्/ स्थाणुच्छेदस्य केदारमाहुः शाल्यवतो मृगम् ॥ Bछ्.Sछ्॥

ं९।४५अ/ एतावानेव पुरुषो यत्जायाऽत्मा प्रजैति ह ।
ं९।४५च्/ विप्राः प्राहुस्तथा चैतद् यो भर्ता सा स्मृताङ्गना ॥ Bछ्.Sछ्॥

ं९।४६अ/ न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते ।
ं९।४६च्/ एवं धर्मं विजानीमः प्राक् प्रजापतिनिर्मितम् ॥ Bछ्.Sछ्॥

ं९।४७अ/ सकृदंशो निपतति सकृत् कन्या प्रदीयते ।
ं९।४७च्/ सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ॥ Bछ्.Sछ्॥ %[ं।ददामीति]
ं९।४८अ/ यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च ।
ं९।४८च्/ नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ॥ Bछ्.Sछ्॥

ं९।४९अ/ येऽक्षेत्रिणो बीजवन्तः परक्षेत्रप्रवापिणः ।
ं९।४९च्/ ते वै सस्यस्य जातस्य न लभन्ते फलं क्व चित् ॥ Bछ्.Sछ्॥

ं९।५०अ/ यदन्यगोषु वृषभो वत्सानां जनयेत्शतम् ।
ं९।५०च्/ गोमिनामेव ते वत्सा मोघं स्कन्दितमार्षभम् ॥ Bछ्.Sछ्॥

ं९।५१अ/ तथैवाक्षेत्रिणो बीजं परक्षेत्रप्रवापिणः ।
ं९।५१च्/ कुर्वन्ति क्षेत्रिणामर्थं न बीजी लभते फलम् ॥ Bछ्.Sछ्॥

ं९।५२अ/ फलं त्वनभिसंधाय क्षेत्रिणां बीजिनां तथा ।
ं९।५२च्/ प्रत्यक्षं क्षेत्रिणामर्थो बीजाद् योनिर्गलीयसी ??॥ Bछ्.Sछ्॥ %[ं।बरीयसी ]
ं९।५३अ/ क्रियाभ्युपगमात् त्वेतद् बीजार्थं यत् प्रदीयते ।
ं९।५३च्/ तस्यैह भागिनौ दृष्टौ बीजी क्षेत्रिक एव च ॥ Bछ्.Sछ्॥

ं९।५४अ/ ओघवाताहृतं बीजं यस्य क्षेत्रे प्ररोहति ।
ं९।५४च्/ क्षेत्रिकस्यैव तद् बीजं न वप्ता लभते फलम् ॥ Bछ्.Sछ्॥ %[ंंअ बीजी लभते फलम्]
ं९।५५अ/ एष धर्मो गवाश्वस्य दास्युष्ट्राजाविकस्य च ।
ं९।५५च्/ विहङ्गमहिषीणां च विज्ञेयः प्रसवं प्रति ॥ Bछ्.Sछ्॥

ं९।५६अ/ एतद् वः सारफल्गुत्वं बीजयोन्योः प्रकीर्तितम् ।
ं९।५६च्/ अतः परं प्रवक्ष्यामि योषितां धर्ममापदि ॥ Bछ्.Sछ्॥

ं९।५७अ/ भ्रातुर्ज्येष्ठस्य भार्या या गुरुपत्न्यनुजस्य सा ।
ं९।५७च्/ यवीयसस्तु या भार्या स्नुषा ज्येष्ठस्य सा स्मृता ॥ Bछ्.Sछ्॥

ं९।५८अ/ ज्येष्ठो यवीयसो भार्यां यवीयान् वाऽग्रजस्त्रियम् ।
ं९।५८च्/ पतितौ भवतो गत्वा नियुक्तावप्यनापदि ॥ Bछ्.Sछ्॥

ं९।५९अ/ देवराद् वा सपिण्डाद् वा स्त्रिया सम्यक्नियुक्तया ।
ं९।५९च्/ प्रजेप्सिताऽऽधिगन्तव्या संतानस्य परिक्षये ॥ Bछ्.Sछ्॥

ं९।६०अ/ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि ।
ं९।६०च्/ एकमुत्पादयेत् पुत्रं न द्वितीयं कथं चन ॥ Bछ्.Sछ्॥

ं९।६१अ/ द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः ।
ं९।६१च्/ अनिर्वृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः ॥ Bछ्.Sछ्॥ %[ंऽनिर्वृत्तं]
ं९।६२अ/ विधवायां नियोगार्थे निर्वृत्ते तु यथाविधि । %[ंंइवृत्ते ]
ं९।६२च्/ गुरुवत्च स्नुषावत्च वर्तेयातां परस्परम् ॥ Bछ्.Sछ्॥

ं९।६३अ/ नियुक्तौ यौ विधिं हित्वा वर्तेयातां तु कामतः ।
ं९।६३च्/ तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ Bछ्.Sछ्॥

ं९।६४अ/ नान्यस्मिन् विधवा नारी नियोक्तव्या द्विजातिभिः ।
ं९।६४च्/ अन्यस्मिन् हि नियुञ्जाना धर्मं हन्युः सनातनम् ॥ Bछ्.Sछ्॥

ं९।६५अ/ नोद्वाहिकेषु मन्त्रेषु नियोगः कीर्त्यते क्व चित् ।
ं९।६५च्/ न विवाहविधावुक्तं विधवावेदनं पुनः ॥ Bछ्.Sछ्॥

ं९।६६अ/ अयं द्विजैर्हि विद्वद्भिः पशुधर्मो विगर्हितः ।
ं९।६६च्/ मनुष्याणामपि प्रोक्तो वेने राज्यं प्रशासति ॥ Bछ्.Sछ्॥

ं९।६७अ/ स महीमखिलां भुञ्जन् राजर्षिप्रवरः पुरा ।
ं९।६७च्/ वर्णानां सङ्करं चक्रे कामोपहतचेतनः ॥ Bछ्.Sछ्॥

ं९।६८अ/ ततः प्रभृति यो मोहात् प्रमीतपतिकां स्त्रियम् ।
ं९।६८च्/ नियोजयत्यपत्यार्थं तं विगर्हन्ति साधवः ॥ Bछ्.Sछ्॥

ं९।६९अ/ यस्या म्रियेत कन्याया वाचा सत्ये कृते पतिः ।
ं९।६९च्/ तामनेन विधानेन निजो विन्देत देवरः ॥ Bछ्.Sछ्॥

ं९।७०अ/ यथाविध्यधिगम्यैनां शुक्लवस्त्रां शुचिव्रताम् ।
ं९।७०च्/ मिथो भजेता प्रसवात् सकृत्सकृद् ऋतावृतौ ॥ Bछ्.Sछ्॥

ं९।७१अ/ न दत्त्वा कस्य चित् कन्यां पुनर्दद्याद् विचक्षणः ।
ं९।७१च्/ दत्त्वा पुनः प्रयच्छन् हि प्राप्नोति पुरुषानृतम् ॥ Bछ्.Sछ्॥

ं९।७२अ/ विधिवत् प्रतिगृह्यापि त्यजेत् कन्यां विगर्हिताम् ।
ं९।७२च्/ व्याधितां विप्रदुष्टां वा छद्मना चोपपादिताम् ॥ Bछ्.Sछ्॥

ं९।७३अ/ यस्तु दोषवतीं कन्यामनाख्यायौपपादयेत् ।
ं९।७३च्/ तस्य तद् वितथं कुर्यात् कन्यादातुर्दुरात्मनः ॥ Bछ्.Sछ्॥

ं९।७४अ/ विधाय वृत्तिं भार्यायाः प्रवसेत् कार्यवान्नरः ।
ं९।७४च्/ अवृत्तिकर्शिता हि स्त्री प्रदुष्येत् स्थितिमत्यपि ॥ Bछ्.Sछ्॥

ं९।७५अ/ विधाय प्रोषिते वृत्तिं जीवेन्नियममास्थिता ।
ं९।७५च्/ प्रोषिते त्वविधायैव जीवेत्शिल्पैरगर्हितैः ॥ Bछ्.Sछ्॥

ं९।७६अ/ प्रोषितो धर्मकार्यार्थं प्रतीक्ष्योऽष्टौ नरः समाः ।
ं९।७६च्/ विद्यार्थं षड् यशोऽर्थं वा कामार्थं त्रींस्तु वत्सरान् ॥ Bछ्.Sछ्॥

ं९।७७अ/ संवत्सरं प्रतीक्षेत द्विषन्तीं योषितं पतिः । %[ं।द्विषाणां]
ं९।७७च्/ ऊर्ध्वं संवत्सरात् त्वेनां दायं हृत्वा न संवसेत् ॥ Bछ्.Sछ्॥

ं९।७८अ/ अतिक्रामेत् प्रमत्तं या मत्तं रोगार्तमेव वा ।
ं९।७८च्/ सा त्रीन् मासान् परित्याज्या विभूषणपरिच्छदा ॥ Bछ्.Sछ्॥

ं९।७९अ/ उन्मत्तं पतितं क्लीबमबीजं पापरोगिणम् ।
ं९।७९च्/ न त्यागोऽस्ति द्विषन्त्याश्च न च दायापवर्तनम् ॥ Bछ्.Sछ्॥

ं९।८०अ/ मद्यपाऽसाधुवृत्ता च प्रतिकूला च या भवेत् । %[ंंअद्यपासत्यवृत्ता ]
ं९।८०च्/ व्याधिता वाऽधिवेत्तव्या हिंस्राऽर्थघ्नी च सर्वदा ॥ Bछ्.Sछ्॥

ं९।८१अ/ वन्ध्याष्टमेऽधिवेद्याब्दे दशमे तु मृतप्रजा ।
ं९।८१च्/ एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी ॥ Bछ्.Sछ्॥

ं९।८२अ/ या रोगिणी स्यात् तु हिता सम्पन्ना चैव शीलतः ।
ं९।८२च्/ साऽनुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हि चित् ॥ Bछ्.Sछ्॥

ं९।८३अ/ अधिविन्ना तु या नारी निर्गच्छेद् रुषिता गृहात् ।
ं९।८३च्/ सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ॥ Bछ्.Sछ्॥

ं९।८४अ/ प्रतिषिद्धाऽपि चेद् या तु मद्यमभ्युदयेष्वपि । %[ ं।प्रतिषेधे पिबेद् या तु]
ं९।८४च्/ प्रेक्षासमाजं गच्छेद् वा सा दण्ड्या कृष्णलानि षट् ॥ Bछ्.Sछ्॥

ं९।८५अ/ यदि स्वाश्चापराश्चैव विन्देरन् योषितो द्विजाः ।
ं९।८५च्/ तासां वर्णक्रमेण स्याज् ज्येष्ठ्यं पूजा च वेश्म च ॥ Bछ्.Sछ्॥

ं९।८६अ/ भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् ।
ं९।८६च्/ स्वा चैव कुर्यात् सर्वेषां नास्वजातिः कथं चन ॥ Bछ्.Sछ्॥ %[ं।स्वा स्वैव]
ं९।८७अ/ यस्तु तत् कारयेन् मोहात् सजात्या स्थितयाऽन्यया ।
ं९।८७च्/ यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥ Bछ्.Sछ्॥

ं९।८८अ/ उत्कृष्टायाभिरूपाय वराय सदृशाय च ।
ं९।८८च्/ अप्राप्तामपि तां तस्मै कन्यां दद्याद् यथाविधि ॥ Bछ्.Sछ्॥

ं९।८९अ/ काममामरणात् तिष्ठेद् गृहे कन्यार्तुमत्यपि ।
ं९।८९च्/ न चैवैनां प्रयच्छेत् तु गुणहीनाय कर्हि चित् ॥ Bछ्.Sछ्॥

ं९।९०अ/ त्रीणि वर्षाण्युदीक्षेत कुमार्यर्तुमती सती ।
ं९।९०च्/ ऊर्ध्वं तु कालादेतस्माद् विन्देत सदृशं पतिम् ॥ Bछ्.Sछ्॥

ं९।९१अ/ अदीयमाना भर्तारमधिगच्छेद् यदि स्वयम् ।
ं९।९१च्/ नैनः किं चिदवाप्नोति न च यं साऽधिगच्छति ॥ Bछ्.Sछ्॥

ं९।९२अ/ अलङ्कारं नाददीत पित्र्यं कन्या स्वयंवरा ।
ं९।९२च्/ मातृकं भ्रातृदत्तं वा स्तेना स्याद् यदि तं हरेत् ॥ Bछ्.Sछ्॥

ं९।९३अ/ पित्रे न दद्यात्शुल्कं तु कन्यां ऋतुमतीं हरन् ।
ं९।९३च्/ स च स्वाम्यादतिक्रामेद् ऋतूनां प्रतिरोधनात् ॥ Bछ्.Sछ्॥

ं९।९४अ/ त्रिंशद्वर्षो वहेत् कन्यां हृद्यां द्वादशवार्षिकीम् ।
ं९।९४च्/ त्र्यष्टवर्षोऽष्टवर्षां वा धर्मे सीदति सत्वरः ॥ Bछ्.Sछ्॥

ं९।९५अ/ देवदत्तां पतिर्भार्यां विन्दते नेच्छयाऽत्मनः ।
ं९।९५च्/ तां साध्वीं बिभृयान्नित्यं देवानां प्रियमाचरन् ॥ Bछ्.Sछ्॥

ं९।९६अ/ प्रजनार्थं स्त्रियः सृष्टाः संतानार्थं च मानवः ।
ं९।९६च्/ तस्मात् साधारणो धर्मः श्रुतौ पत्न्या सहोदितः ॥ Bछ्.Sछ्॥

ं९।९७अ/ कन्यायां दत्तशुल्कायां म्रियेत यदि शुल्कदः ।
ं९।९७च्/ देवराय प्रदातव्या यदि कन्याऽनुमन्यते ॥ Bछ्.Sछ्॥

ं९।९८अ/ आददीत न शूद्रोऽपि शुल्कं दुहितरं ददन् ।
ं९।९८च्/ शुल्कं हि गृह्णन् कुरुते छन्नं दुहितृविक्रयम् ॥ Bछ्.Sछ्॥

ं९।९९अ/ एतत् तु न परे चक्रुर्नापरे जातु साधवः ।
ं९।९९च्/ यदन्यस्य प्रतिज्ञाय पुनरन्यस्य दीयते ॥ Bछ्.Sछ्॥

ं९।१००अ/ नानुशुश्रुम जात्वेतत् पूर्वेष्वपि हि जन्मसु ।
ं९।१००च्/ शुल्कसंज्ञेन मूल्येन छन्नं दुहितृविक्रयम् ॥ Bछ्.Sछ्॥

ं९।१०१अ/ अन्योन्यस्याव्यभिचारो भवेदामरणान्तिकः ।
ं९।१०१च्/ एष धर्मः समासेन ज्ञेयः स्त्रीपुंसयोः परः ॥ Bछ्.Sछ्॥

ं९।१०२अ/ तथा नित्यं यतेयातां स्त्रीपुंसौ तु कृतक्रियौ ।
ं९।१०२च्/ यथा नाभिचरेतां तौ वियुक्तावितरेतरम् ॥ Bछ्.Sछ्॥ %[ंंआतिचरेतां ]
ं९।१०३अ/ एष स्त्रीपुंसयोरुक्तो धर्मो वो रतिसंहितः ।
ं९।१०३च्/ आपद्यपत्यप्राप्तिश्च दायधर्मं निबोधत ॥ Bछ्.Sछ्॥

ं९।१०४अ/ ऊर्ध्वं पितुश्च मातुश्च समेत्य भ्रातरः समम् ।
ं९।१०४च्/ भजेरन् पैतृकं रिक्थमनीशास्ते हि जीवतोः ॥ Bछ्.Sछ्॥

ं९।१०५अ/ ज्येष्ठ एव तु गृह्णीयात् पित्र्यं धनमशेषतः ।
ं९।१०५च्/ शेषास्तमुपजीवेयुर्यथैव पितरं तथा ॥ Bछ्.Sछ्॥

ं९।१०६अ/ ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
ं९।१०६च्/ पितॄणामनृणश्चैव स तस्मात् सर्वमर्हति ॥ Bछ्.Sछ्॥

ं९।१०७अ/ यस्मिनृणं संनयति येन चानन्त्यमश्नुते ।
ं९।१०७च्/ स एव धर्मजः पुत्रः कामजानितरान् विदुः ॥ Bछ्.Sछ्॥

ं९।१०८अ/ पितेव पालयेत् पूत्रान् ज्येष्ठो भ्रातॄन् यवीयसः ।
ं९।१०८च्/ पुत्रवत्चापि वर्तेरन् ज्येष्ठे भ्रातरि धर्मतः ॥ Bछ्.Sछ्॥

ं९।१०९अ/ ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः ।
ं९।१०९च्/ ज्येष्ठः पूज्यतमो लोके ज्येष्ठः सद्भिरगर्हितः ॥ Bछ्.Sछ्॥

ं९।११०अ/ यो ज्येष्ठो ज्येष्ठवृत्तिः स्यान् मातैव स पितैव सः ।
ं९।११०च्/ अज्येष्ठवृत्तिर्यस्तु स्यात् स सम्पूज्यस्तु बन्धुवत् ॥ Bछ्.Sछ्॥

ं९।१११अ/ एवं सह वसेयुर्वा पृथग् वा धर्मकाम्यया ।
ं९।१११च्/ पृथग् विवर्धते धर्मस्तस्माद् धर्म्या पृथक्क्रिया ॥ Bछ्.Sछ्॥

ं९।११२अ/ ज्येष्ठस्य विंश उद्धारः सर्वद्रव्याच्च यद् वरम् ।
ं९।११२च्/ ततोऽर्धं मध्यमस्य स्यात् तुरीयं तु यवीयसः ॥ Bछ्.Sछ्॥

ं९।११३अ/ ज्येष्ठश्चैव कनिष्ठश्च संहरेतां यथोदितम् ।
ं९।११३च्/ येऽन्ये ज्येष्ठकनिष्ठाभ्यां तेषां स्यान् मध्यमं धनम् ॥ Bछ्.Sछ्॥

ं९।११४अ/ सर्वेषां धनजातानामाददीताग्र्यमग्रजः ।
ं९।११४च्/ यच्च सातिशयं किं चिद् दशतश्चाप्नुयाद् वरम् ॥ Bछ्.Sछ्॥

ं९।११५अ/ उद्धारो न दशस्वस्ति सम्पन्नानां स्वकर्मसु ।
ं९।११५च्/ यत् किं चिदेव देयं तु ज्यायसे मानवर्धनम् ॥ Bछ्.Sछ्॥

ं९।११६अ/ एवं समुद्धृतोद्धारे समानंशान् प्रकल्पयेत् ।
ं९।११६च्/ उद्धारेऽनुद्धृते त्वेषामियं स्यादंशकल्पना ॥ Bछ्.Sछ्॥

ं९।११७अ/ एकाधिकं हरेज् ज्येष्ठः पुत्रोऽध्यर्धं ततोऽनुजः ।
ं९।११७च्/ अंशमंशं यवीयांस इति धर्मो व्यवस्थितः ॥ Bछ्.Sछ्॥

ं९।११८अ/ स्वेभ्योंशेभ्यस्तु कन्याभ्यः प्रदद्युर्भ्रातरः पृथक् । %[ं।स्वाभ्यः स्वाभ्यस्तु]
ं९।११८च्/ स्वात् स्वादंशाच्चतुर्भागं पतिताः स्युरदित्सवः ॥ Bछ्.Sछ्॥

ं९।११९अ/ अजाविकं सेकशफं न जातु विषमं भजेत् । %[ंऽजाविकं चैकशफं]
ं९।११९च्/ अजाविकं तु विषमं ज्येष्ठस्यैव विधीयते ॥ Bछ्.Sछ्॥

ं९।१२०अ/ यवीयान्ज्येष्ठभार्यायां पुत्रमुत्पादयेद् यदि ।
ं९।१२०च्/ समस्तत्र विभागः स्यादिति धर्मो व्यवस्थितः ॥ Bछ्.Sछ्॥

ं९।१२१अ/ उपसर्जनं प्रधानस्य धर्मतो नोपपद्यते ।
ं९।१२१च्/ पिता प्रधानं प्रजने तस्माद् धर्मेण तं भजेत् ॥ Bछ्.Sछ्॥

ं९।१२२अ/ पुत्रः कनिष्ठो ज्येष्ठायां कनिष्ठायां च पूर्वजः ।
ं९।१२२च्/ कथं तत्र विभागः स्यादिति चेत् संशयो भवेत् ॥ Bछ्.Sछ्॥

ं९।१२३अ/ एकं वृषभमुद्धारं संहरेत स पूर्वजः ।
ं९।१२३च्/ ततोऽपरे ज्येष्ठवृषास्तदूनानां स्वमातृतः ॥ Bछ्.Sछ्॥

ं९।१२४अ/ ज्येष्ठस्तु जातो ज्येष्ठायां हरेद् वृषभषोडशाः ।
ं९।१२४च्/ ततः स्वमातृतः शेषा भजेरन्निति धारणा ॥ Bछ्.Sछ्॥

ं९।१२५अ/ सदृशस्त्रीषु जातानां पुत्राणामविशेषतः ।
ं९।१२५च्/ न मातृतो ज्यैष्ठ्यमस्ति जन्मतो ज्यैष्ठ्यमुच्यते ॥ Bछ्.Sछ्॥

ं९।१२६अ/ जन्मज्येष्ठेन चाह्वानं सुब्रह्मण्यास्वपि स्मृतम् ।
ं९।१२६च्/ यमयोश्चैव गर्भेषु जन्मतो ज्येष्ठता स्मृता ॥ Bछ्.Sछ्॥

ं९।१२७अ/ अपुत्रोऽनेन विधिना सुतां कुर्वीत पुत्रिकाम् ।
ं९।१२७च्/ यदपत्यं भवेदस्यां तन् मम स्यात् स्वधाकरम् ॥ Bछ्.Sछ्॥

ं९।१२८अ/ अनेन तु विधानेन पुरा चक्रेऽथ पुत्रिकाः ।
ं९।१२८च्/ विवृद्ध्यर्थं स्ववंशस्य स्वयं दक्षः प्रजापतिः ॥ Bछ्.Sछ्॥

ं९।१२९अ/ ददौ स दश धर्माय कश्यपाय त्रयोदश ।
ं९।१२९च्/ सोमाय राज्ञे सत्कृत्य प्रीतात्मा सप्तविंशतिम् ॥ Bछ्.Sछ्॥

ं९।१३०अ/ यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।
ं९।१३०च्/ तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ Bछ्.Sछ्॥

ं९।१३१अ/ मातुस्तु यौतकं यत् स्यात् कुमारीभाग एव सः ।
ं९।१३१च्/ दौहित्र एव च हरेदपुत्रस्याखिलं धनम् ॥ Bछ्.Sछ्॥

ं९।१३२अ/ दौहित्रो ह्यखिलं रिक्थमपुत्रस्य पितुर्हरेत् ।
ं९।१३२च्/ स एव दद्याद् द्वौ पिण्डौ पित्रे मातामहाय च ॥ Bछ्.Sछ्॥

ं९।१३३अ/ पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्मतः ।
ं९।१३३च्/ तयोर्हि मातापितरौ संभूतौ तस्य देहतः ॥ Bछ्.Sछ्॥

ं९।१३४अ/ पुत्रिकायां कृतायां तु यदि पुत्रोऽनुजायते ।
ं९।१३४च्/ समस्तत्र विभागः स्यात्ज्येष्ठता नास्ति हि स्त्रियाः ॥ Bछ्.Sछ्॥

ं९।१३५अ/ अपुत्रायां मृतायां तु पुत्रिकायां कथं चन ।
ं९।१३५च्/ धनं तत् पुत्रिकाभर्ता हरेतैवाविचारयन् ॥ Bछ्.Sछ्॥

ं९।१३६अ/ अकृता वा कृता वाऽपि यं विन्देत् सदृशात् सुतम् ।
ं९।१३६च्/ पौत्री मातामहस्तेन दद्यात् पिण्डं हरेद् धनम् ॥ Bछ्.Sछ्॥

ं९।१३७अ/ पुत्रेण लोकान्जयति पौत्रेणानन्त्यमश्नुते ।
ं९।१३७च्/ अथ पुत्रस्य पौत्रेण ब्रध्नस्याप्नोति विष्टपम् ॥ Bछ्.Sछ्॥

ं९।१३८अ/ पुन्नाम्नो नरकाद् यस्मात् त्रायते पितरं सुतः ।
ं९।१३८च्/ तस्मात् पुत्र इति प्रोक्तः स्वयमेव स्वयंभुवा ॥ Bछ्.Sछ्॥

ं९।१३९अ/ पौत्रदौहित्रयोर्लोके विशेषो नोपपद्यते ।
ं९।१३९च्/ दौहित्रोऽपि ह्यमुत्रैनं संतारयति पौत्रवत् ॥ Bछ्.Sछ्॥

ं९।१४०अ/ मातुः प्रथमतः पिण्डं निर्वपेत् पुत्रिकासुतः ।
ं९।१४०च्/ द्वितीयं तु पितुस्तस्यास्तृतीयं तत्पितुः पितुः ॥ Bछ्.Sछ्॥

ं९।१४१अ/ उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्त्रिमः ।
ं९।१४१च्/ स हरेतैव तद्रिक्थं सम्प्राप्तोऽप्यन्यगोत्रतः ॥ Bछ्.Sछ्॥

ं९।१४२अ/ गोत्ररिक्थे जनयितुर्न हरेद् दत्त्रिमः क्व चित् ।
ं९।१४२च्/ गोत्ररिक्थानुगः पिण्डो व्यपैति ददतः स्वधा ॥ Bछ्.Sछ्॥

ं९।१४३अ/ अनियुक्तासुतश्चैव पुत्रिण्याऽप्तश्च देवरात् ।
ं९।१४३च्/ उभौ तौ नार्हतो भागं जारजातककामजौ ॥ Bछ्.Sछ्॥

ं९।१४४अ/ नियुक्तायामपि पुमान्नार्यां जातोऽविधानतः ।
ं९।१४४च्/ नैवार्हः पैतृकं रिक्थं पतितोत्पादितो हि सः ॥ Bछ्.Sछ्॥

ं९।१४५अ/ हरेत् तत्र नियुक्तायां जातः पुत्रो यथौरसः ।
ं९।१४५च्/ क्षेत्रिकस्य तु तद् बीजं धर्मतः प्रसवश्च सः ॥ Bछ्.Sछ्॥

ं९।१४६अ/ धनं यो बिभृयाद् भ्रातुर्मृतस्य स्त्रियमेव च ??।
ं९।१४६च्/ सोऽपत्यं भ्रातुरुत्पाद्य दद्यात् तस्यैव तद्धनम् ॥ Bछ्.Sछ्॥

ं९।१४७अ/ या नियुक्ताऽन्यतः पुत्रं देवराद् वाऽप्यवाप्नुयात् ।
ं९।१४७च्/ तं कामजमरिक्थीयं वृथोत्पन्नं प्रचक्षते ॥ Bछ्.Sछ्॥ %[ंंइथ्यौत्पन्नं ]
ं९।१४८अ/ एतद् विधानं विज्ञेयं विभागस्यैकयोनिषु ।
ं९।१४८च्/ बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ॥ Bछ्.Sछ्॥

ं९।१४९अ/ ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः ।
ं९।१४९च्/ तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ॥ Bछ्.Sछ्॥

ं९।१५०अ/ कीनाशो गोवृषो यानमलङ्कारश्च वेश्म च ।
ं९।१५०च्/ विप्रस्यौद्धारिकं देयमेकांशश्च प्रधानतः ॥ Bछ्.Sछ्॥

ं९।१५१अ/ त्र्यंशं दायाद् हरेद् विप्रो द्वावंशौ क्षत्रियासुतः ।
ं९।१५१च्/ वैश्याजः सार्धमेवांशमंशं शूद्रासुतो हरेत् ॥ Bछ्.Sछ्॥

ं९।१५२अ/ सर्वं वा रिक्थजातं तद् दशधा परिकल्प्य च ।
ं९।१५२च्/ धर्म्यं विभागं कुर्वीत विधिनाऽनेन धर्मवित् ॥ Bछ्.Sछ्॥

ं९।१५३अ/ चतुरानंशान् हरेद् विप्रस्त्रीनंशान् क्षत्रियासुतः ।
ं९।१५३च्/ वैश्यापुत्रो हरेद् द्व्यंशमंशं शूद्रासुतो हरेत् ॥ Bछ्.Sछ्॥

ं९।१५४अ/ यद्यपि स्यात् तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत् । %[ं।यद्यपि स्यात् तु सत्पुत्रो यद्यपुत्रोऽपि वा भवेत् ।]
ं९।१५४च्/ नाधिकं दशमाद् दद्यात्शूद्रापुत्राय धर्मतः ॥ Bछ्.Sछ्॥

ं९।१५५अ/ ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।
ं९।१५५च्/ यदेवास्य पिता दद्यात् तदेवास्य धनं भवेत् ॥ Bछ्.Sछ्॥

ं९।१५६अ/ समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् ।
ं९।१५६च्/ उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥ Bछ्.Sछ्॥

ं९।१५७अ/ शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते ।
ं९।१५७च्/ तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ॥ Bछ्.Sछ्॥

ं९।१५८अ/ पुत्रान् द्वादश यानाह नॄणां स्वायंभुवो मनुः ।
ं९।१५८च्/ तेषां षड् बन्धुदायादाः षडदायादबान्धवाः ॥ Bछ्.Sछ्॥

ं९।१५९अ/ औरसः क्षेत्रजश्चैव दत्तः कृत्रिम एव च ।
ं९।१५९च्/ गूढोत्पन्नोऽपविद्धश्च दायादा बान्धवाश्च षट् ॥ Bछ्.Sछ्॥

ं९।१६०अ/ कानीनश्च सहोढश्च क्रीतः पौनर्भवस्तथा ।
ं९।१६०च्/ स्वयंदत्तश्च शौद्रश्च षडदायादबान्धवाः ॥ Bछ्.Sछ्॥

ं९।१६१अ/ यादृशं फलमाप्नोति कुप्लवैः संतरञ्जलम् ।
ं९।१६१च्/ तादृशं फलमाप्नोति कुपुत्रैः संतरंस्तमः ॥ Bछ्.Sछ्॥

ं९।१६२अ/ यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ ।
ं९।१६२च्/ यस्य यत् पैतृकं रिक्थं स तद् गृह्णीत नैतरः ॥ Bछ्.Sछ्॥

ं९।१६३अ/ एक एवौरसः पुत्रः पित्र्यस्य वसुनः प्रभुः ।
ं९।१६३च्/ शेषाणामानृशंस्यार्थं प्रदद्यात् तु प्रजीवनम् ॥ Bछ्.Sछ्॥

ं९।१६४अ/ षष्ठं तु क्षेत्रजस्यांशं प्रदद्यात् पैतृकाद् धनात् ।
ं९।१६४च्/ औरसो विभजन् दायं पित्र्यं पञ्चममेव वा ॥ Bछ्.Sछ्॥

ं९।१६५अ/ औरसक्षेत्रजौ पुत्रौ पितृरिक्थस्य भागिनौ ।
ं९।१६५च्/ दशापरे तु क्रमशो गोत्ररिक्थांशभागिनः ॥ Bछ्.Sछ्॥

ं९।१६६अ/ स्वक्षेत्रे संस्कृतायां तु स्वयमुत्पादयेद् हि यम् ।
ं९।१६६च्/ तमौरसं विजानीयात् पुत्रं प्राथमकल्पिकम् ॥ Bछ्.Sछ्॥

ं९।१६७अ/ यस्तल्पजः प्रमीतस्य क्लीबस्य व्याधितस्य वा ।
ं९।१६७च्/ स्वधर्मेण नियुक्तायां स पुत्रः क्षेत्रजः स्मृतः ॥ Bछ्.Sछ्॥

ं९।१६८अ/ माता पिता वा दद्यातां यमद्भिः पुत्रमापदि ।
ं९।१६८च्/ सदृशं प्रीतिसंयुक्तं स ज्ञेयो दत्त्रिमः सुतः ॥ Bछ्.Sछ्॥

ं९।१६९अ/ सदृशं तु प्रकुर्याद् यं गुणदोषविचक्षणम् ।
ं९।१६९च्/ पुत्रं पुत्रगुणैर्युक्तं स विज्ञेयश्च कृत्रिमः ॥ Bछ्.Sछ्॥

ं९।१७०अ/ उत्पद्यते गृहे यस्तु न च ज्ञायेत कस्य सः ।
ं९।१७०च्/ स गृहे गूढ उत्पन्नस्तस्य स्याद् यस्य तल्पजः ॥ Bछ्.Sछ्॥

ं९।१७१अ/ मातापितृभ्यामुत्सृष्टं तयोरन्यतरेण वा ।
ं९।१७१च्/ यं पुत्रं परिगृह्णीयादपविद्धः स उच्यते ॥ Bछ्.Sछ्॥

ं९।१७२अ/ पितृवेश्मनि कन्या तु यं पुत्रं जनयेद् रहः ।
ं९।१७२च्/ तं कानीनं वदेन्नाम्ना वोढुः कन्यासमुद्भवम् ॥ Bछ्.Sछ्॥

ं९।१७३अ/ या गर्भिणी संस्क्रियते ज्ञाताऽज्ञाताऽपि वा सती ।
ं९।१७३च्/ वोढुः स गर्भो भवति सहोढ इति चोच्यते ॥ Bछ्.Sछ्॥

ं९।१७४अ/ क्रीणीयाद् यस्त्वपत्यार्थं मातापित्रोर्यमन्तिकात् ।
ं९।१७४च्/ स क्रीतकः सुतस्तस्य सदृशोऽसदृशोऽपि वा ॥ Bछ्.Sछ्॥

ं९।१७५अ/ या पत्या वा परित्यक्ता विधवा वा स्वयेच्छया ।
ं९।१७५च्/ उत्पादयेत् पुनर्भूत्वा स पौनर्भव उच्यते ॥ Bछ्.Sछ्॥

ं९।१७६अ/ सा चेदक्षतयोनिः स्याद् गतप्रत्यागताऽपि वा ।
ं९।१७६च्/ पौनर्भवेन भर्त्रा सा पुनः संस्कारमर्हति ॥ Bछ्.Sछ्॥

ं९।१७७अ/ मातापितृविहीनो यस्त्यक्तो वा स्यादकारणात् ।
ं९।१७७च्/ आत्मानमर्पयेद् यस्मै स्वयंदत्तस्तु स स्मृतः ॥ Bछ्.Sछ्॥

ं९।१७८अ/ यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत् सुतम् ।
ं९।१७८च्/ स पारयन्नेव शवस्तस्मात् पारशवः स्मृतः ॥ Bछ्.Sछ्॥

ं९।१७९अ/ दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
ं९।१७९च्/ सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥ Bछ्.Sछ्॥

ं९।१८०अ/ क्षेत्रजादीन् सुतानेतानेकादश यथोदितान् ।
ं९।१८०च्/ पुत्रप्रतिनिधीनाहुः क्रियालोपान् मनीषिणः ॥ Bछ्.Sछ्॥

ं९।१८१अ/ य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः ।
ं९।१८१च्/ यस्य ते बीजतो जातास्तस्य ते नैतरस्य तु ॥ Bछ्.Sछ्॥

ं९।१८२अ/ भ्रातॄणामेकजातानामेकश्चेत् पुत्रवान् भवेत् ।
ं९।१८२च्/ सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥ Bछ्.Sछ्॥

ं९।१८३अ/ सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत् ।
ं९।१८३च्/ सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥ Bछ्.Sछ्॥

ं९।१८४अ/ श्रेयसः श्रेयसोऽलाभे पापीयान् रिक्थमर्हति ।
ं९।१८४च्/ बहवश्चेत् तु सदृशाः सर्वे रिक्थस्य भागिनः ॥ Bछ्.Sछ्॥

ं९।१८५अ/ न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।
ं९।१८५च्/ पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ॥ Bछ्.Sछ्॥

ं९।१८६अ/ त्रयाणामुदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।
ं९।१८६च्/ चतुर्थः सम्प्रदातैषां पञ्चमो नोपपद्यते ॥ Bछ्.Sछ्॥

ं९।१८७अ/ अनन्तरः सपिण्डाद् यस्तस्य तस्य धनं भवेत् ।
ं९।१८७च्/ अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा ॥ Bछ्.Sछ्॥

ं९।१८८अ/ सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः ।
ं९।१८८च्/ त्रैविद्याः शुचयो दान्तास्तथा धर्मो न हीयते ॥ Bछ्.Sछ्॥

ं९।१८९अ/ अहार्यं ब्राह्मणद्रव्यं राज्ञा नित्यमिति स्थितिः ।
ं९।१८९च्/ इतरेषां तु वर्णानां सर्वाभावे हरेन्नृपः ॥ Bछ्.Sछ्॥

ं९।१९०अ/ संस्थितस्यानपत्यस्य सगोत्रात् पुत्रमाहरेत् ॥ Bछ्.Sछ्॥

ं९।१९०च्/ तत्र यद् रिक्थजातं स्यात् तत् तस्मिन् प्रतिपादयेत् ।
ं९।१९१अ/ द्वौ तु यौ विवदेयातां द्वाभ्यां जातौ स्त्रिया धने ।
ं९।१९१च्/ तयोर्यद् यस्य पित्र्यं स्यात् तत् स गृह्णीत नैतरः ॥ Bछ्.Sछ्॥

ं९।१९२अ/ जनन्यां संस्थितायां तु समं सर्वे सहोदराः ।
ं९।१९२च्/ भजेरन् मातृकं रिक्थं भगिन्यश्च सनाभयः ॥ Bछ्.Sछ्॥

ं९।१९३अ/ यास्तासां स्युर्दुहितरस्तासामपि यथार्हतः । %[ः।तस्यां]
ं९।१९३च्/ मातामह्या धनात् किं चित् प्रदेयं प्रीतिपूर्वकम् ॥ Bछ्.Sछ्॥

ं९।१९४अ/ अध्यग्न्यध्यावाहनिकं दत्तं च प्रीतिकर्मणि ।
ं९।१९४च्/ भ्रातृमातृपितृप्राप्तं षड् विधं स्त्रीधनं स्मृतम् ॥ Bछ्.Sछ्॥

ं९।१९५अ/ अन्वाधेयं च यद् दत्तं पत्या प्रीतेन चैव यत् ।
ं९।१९५च्/ पत्यौ जीवति वृत्तायाः प्रजायास्तद् धनं भवेत् ॥ Bछ्.Sछ्॥

ं९।१९६अ/ ब्राह्मदैवार्षगान्धर्वप्राजापत्येषु यद् वसु ।
ं९।१९६च्/ अप्रजायामतीतायां भर्तुरेव तदिष्यते ॥ Bछ्.Sछ्॥

ं९।१९७अ/ यत् त्वस्याः स्याद् धनं दत्तं विवाहेष्वासुरादिषु ।
ं९।१९७च्/ अप्रजायामतीतायां मातापित्रोस्तदिष्यते ॥ Bछ्.Sछ्॥

ं९।१९८अ/ स्त्रियां तु यद् भवेद् वित्तं पित्रा दत्तं कथं चन ।
ं९।१९८च्/ ब्राह्मणी तद् हरेत् कन्या तदपत्यस्य वा भवेत् ॥ Bछ्.Sछ्॥

ं९।१९९अ/ न निर्हारं स्त्रियः कुर्युः कुटुम्बाद् बहुमध्यगात् ।
ं९।१९९च्/ स्वकादपि च वित्ताद् हि स्वस्य भर्तुरनाज्ञया ॥ Bछ्.Sछ्॥

ं९।२००अ/ पत्यौ जीवति यः स्त्रीभिरलङ्कारो धृतो भवेत् ।
ं९।२००च्/ न तं भजेरन् दायादा भजमानाः पतन्ति ते ॥ Bछ्.Sछ्॥

ं९।२०१अ/ अनंशौ क्लीबपतितौ जात्यन्धबधिरौ तथा ।
ं९।२०१च्/ उन्मत्तजडमूकाश्च ये च के चिन्निरिन्द्रियाः ॥ Bछ्.Sछ्॥

ं९।२०२अ/ सर्वेषामपि तु न्याय्यं दातुं शक्त्या मनीषिणा ।
ं९।२०२च्/ ग्रासाच्छादनमत्यन्तं पतितो ह्यददद् भवेत् ॥ Bछ्.Sछ्॥

ं९।२०३अ/ यद्यर्थिता तु दारैः स्यात् क्लीबादीनां कथं चन ।
ं९।२०३च्/ तेषामुत्पन्नतन्तूनामपत्यं दायमर्हति ॥ Bछ्.Sछ्॥

ं९।२०४अ/ यत् किं चित् पितरि प्रेते धनं ज्येष्ठोऽधिगच्छति ।
ं९।२०४च्/ भागो यवीयसां तत्र यदि विद्यानुपालिनः ॥ Bछ्.Sछ्॥

ं९।२०५अ/ अविद्यानां तु सर्वेषामीहातश्चेद् धनं भवेत् ??।
ं९।२०५च्/ समस्तत्र विभागः स्यादपित्र्य इति धारणा ॥ Bछ्.Sछ्॥

ं९।२०६अ/ विद्याधनं तु यद्यस्य तत् तस्यैव धनं भवेत् ।
ं९।२०६च्/ मैत्र्यमोद्वाहिकं चैव माधुपर्किकमेव च ॥ Bछ्.Sछ्॥

ं९।२०७अ/ भ्रातॄणां यस्तु नैहेत धनं शक्तः स्वकर्मणा ।
ं९।२०७च्/ स निर्भाज्यः स्वकादंशात् किं चिद् दत्त्वोपजीवनम् ॥ Bछ्.Sछ्॥

ं९।२०८अ/ अनुपघ्नन् पितृद्रव्यं श्रमेण यदुपार्जितम् ।
ं९।२०८च्/ स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ Bछ्.Sछ्॥

ं९।२०९अ/ पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् ।
ं९।२०९च्/ न तत् पुत्रैर्भजेत् सार्धमकामः स्वयमर्जितम् ॥ Bछ्.Sछ्॥

ं९।२१०अ/ विभक्ताः सह जीवन्तो विभजेरन् पुनर्यदि ।
ं९।२१०च्/ समस्तत्र विभागः स्याज् ज्यैष्ठ्यं तत्र न विद्यते ॥ Bछ्.Sछ्॥

ं९।२११अ/ येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।
ं९।२११च्/ म्रियेतान्यतरो वाऽपि तस्य भागो न लुप्यते ॥ Bछ्.Sछ्॥

ं९।२१२अ/ सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ।
ं९।२१२च्/ भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥ Bछ्.Sछ्॥

ं९।२१३अ/ यो ज्येष्ठो विनिकुर्वीत लोभाद् भ्रातॄन् यवीयसः ।
ं९।२१३च्/ सोऽज्येष्ठः स्यादभागश्च नियन्तव्यश्च राजभिः ॥ Bछ्.Sछ्॥

ं९।२१४अ/ सर्व एव विकर्मस्था नार्हन्ति भ्रातरो धनम् ।
ं९।२१४च्/ न चादत्त्वा कनिष्ठेभ्यो ज्येष्ठः कुर्वीत योतकम् ॥ Bछ्.Sछ्॥

ं९।२१५अ/ भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह ।
ं९।२१५च्/ न पुत्रभागं विषमं पिता दद्यात् कथं चन ॥ Bछ्.Sछ्॥

ं९।२१६अ/ ऊर्ध्वं विभागात्जातस्तु पित्र्यमेव हरेद् धनम् ।
ं९।२१६च्/ संसृष्टास्तेन वा ये स्युर्विभजेत स तैः सह ॥ Bछ्.Sछ्॥

ं९।२१७अ/ अनपत्यस्य पुत्रस्य माता दायमवाप्नुयात् ।
ं९।२१७च्/ मातर्यपि च वृत्तायां पितुर्माता हरेद् धनम् ॥ Bछ्.Sछ्॥

ं९।२१८अ/ ऋणे धने च सर्वस्मिन् प्रविभक्ते यथाविधि ।
ं९।२१८च्/ पश्चाद् दृश्येत यत् किं चित् तत् सर्वं समतां नयेत् ॥ Bछ्.Sछ्॥

ं९।२१९अ/ वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः ??।
ं९।२१९च्/ योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ Bछ्.Sछ्॥

ं९।२२०अ/ अयमुक्तो विभागो वः पुत्राणां च क्रियाविधिः ।
ं९।२२०च्/ क्रमशः क्षेत्रजादीनां द्यूतधर्मं निबोधत ॥ Bछ्.Sछ्॥

ं९।२२१अ/ द्यूतं समाह्वयं चैव राजा राष्ट्रात्निवारयेत् ।
ं९।२२१च्/ राजान्तकरणावेतौ द्वौ दोषौ पृथिवीक्षिताम् ॥ Bछ्.Sछ्॥

ं९।२२२अ/ प्रकाशमेतत् तास्कर्यं यद् देवनसमाह्वयौ ।
ं९।२२२च्/ तयोर्नित्यं प्रतीघाते नृपतिर्यत्नवान् भवेत् ॥ Bछ्.Sछ्॥

ं९।२२३अ/ अप्राणिभिर्यत् क्रियते तत्लोके द्यूतमुच्यते ।
ं९।२२३च्/ प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ॥ Bछ्.Sछ्॥

ं९।२२४अ/ द्यूतं समाह्वयं चैव यः कुर्यात् कारयेत वा ।
ं९।२२४च्/ तान् सर्वान् घातयेद् राजा शूद्रांश्च द्विजलिङ्गिनः ॥ Bछ्.Sछ्॥

ं९।२२५अ/ कितवान् कुशीलवान् क्रूरान् पाषण्डस्थांश्च मानवान् ।
ं९।२२५च्/ विकर्मस्थान् शौण्डिकांश्च क्षिप्रं निर्वासयेत् पुरात् ॥ Bछ्.Sछ्॥

ं९।२२६अ/ एते राष्ट्रे वर्तमाना राज्ञः प्रच्छन्नतस्कराः ।
ं९।२२६च्/ विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ॥ Bछ्.Sछ्॥

ं९।२२७अ/ द्यूतमेतत् पुरा कल्पे दृष्टं वैरकरं महत् ।
ं९।२२७च्/ तस्माद् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् ॥ Bछ्.Sछ्॥

ं९।२२८अ/ प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः ।
ं९।२२८च्/ तस्य दण्डविकल्पः स्याद् यथेष्टं नृपतेस्तथा ॥ Bछ्.Sछ्॥

ं९।२२९अ/ क्षत्रविद् शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् ।
ं९।२२९च्/ आनृण्यं कर्मणा गच्छेद् विप्रो दद्यात्शनैः शनैः ॥ Bछ्.Sछ्॥

ं९।२३०अ/ स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् ।
ं९।२३०च्/ शिफाविदलरज्ज्वाद्यैर्विदध्यात्नृपतिर्दमम् ॥ Bछ्.Sछ्॥

ं९।२३१अ/ ये नियुक्तास्तु कार्येषु हन्युः कार्याणि कार्यिणाम् ।
ं९।२३१च्/ धनौष्मणा पच्यमानास्तान्निःस्वान् कारयेन्नृपः ॥ Bछ्.Sछ्॥

ं९।२३२अ/ कूटशासनकर्तॄंश्च प्रकृतीनां च दूषकान् ।
ं९।२३२च्/ स्त्रीबालब्राह्मणघ्नांश्च हन्याद् द्विष् सेविनस्तथा ??॥ Bछ्.Sछ्॥

ं९।२३३अ/ तीरितं चानुशिष्टं च यत्र क्व चन यद् भवेत् ।
ं९।२३३च्/ कृतं तद् धर्मतो विद्यान्न तद् भूयो निवर्तयेत् ॥ Bछ्.Sछ्॥

ं९।२३४अ/ अमात्यः प्राग्विवाको वा यत् कुर्युः कार्यमन्यथा ??।
ं९।२३४च्/ तत् स्वयं नृपतिः कुर्यात् तान् सहस्रं च दण्डयेत् ॥ Bछ्.Sछ्॥ %[ं।तं ]
ं९।२३५अ/ ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः । %[ं।तस्करो गुरुतल्पगः ]
ं९।२३५च्/ एते सर्वे पृथग् ज्ञेया महापातकिनो नराः ॥ Bछ्.Sछ्॥

ं९।२३६अ/ चतुर्णामपि चैतेषां प्रायश्चित्तमकुर्वताम् ।
ं९।२३६च्/ शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥ Bछ्.Sछ्॥

ं९।२३७अ/ गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।
ं९।२३७च्/ स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥ Bछ्.Sछ्॥ %[ं।तस्करे श्वपदं कार्यं ]
ं९।२३८अ/ असंभोज्या ह्यसंयाज्या असम्पाठ्याऽविवाहिनः ।
ं९।२३८च्/ चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ॥ Bछ्.Sछ्॥

ं९।२३९अ/ ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः ।
ं९।२३९च्/ निर्दया निर्नमस्कारास्तन् मनोरनुशासनम् ॥ Bछ्.Sछ्॥

ं९।२४०अ/ प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् । %[ं।पूर्वे वर्णा यथोदितम्]
ं९।२४०च्/ नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ॥ Bछ्.Sछ्॥

ं९।२४१अ/ आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः ।
ं९।२४१च्/ विवास्यो वा भवेद् राष्ट्रात् सद्रव्यः सपरिच्छदः ॥ Bछ्.Sछ्॥

ं९।२४२अ/ इतरे कृतवन्तस्तु पापान्येतान्यकामतः ।
ं९।२४२च्/ सर्वस्वहारमर्हन्ति कामतस्तु प्रवासनम् ॥ Bछ्.Sछ्॥

ं९।२४३अ/ नाददीत नृपः साधुर्महापातकिनो धनम् ।
ं९।२४३च्/ आददानस्तु तत्लोभात् तेन दोषेण लिप्यते ॥ Bछ्.Sछ्॥

ं९।२४४अ/ अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् ।
ं९।२४४च्/ श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ॥ Bछ्.Sछ्॥

ं९।२४५अ/ ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।
ं९।२४५च्/ ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ॥ Bछ्.Sछ्॥

ं९।२४६अ/ यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् ।
ं९।२४६च्/ तत्र कालेन जायन्ते मानवा दीर्घजीविनः ॥ Bछ्.Sछ्॥

ं९।२४७अ/ निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् ।
ं९।२४७च्/ बालाश्च न प्रमीयन्ते विकृतं च न जायते ॥ Bछ्.Sछ्॥

ं९।२४८अ/ ब्राह्मणान् बाधमानं तु कामादवरवर्णजम् ।
ं९।२४८च्/ हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ॥ Bछ्.Sछ्॥

ं९।२४९अ/ यावानवध्यस्य वधे तावान् वध्यस्य मोक्षणे ।
ं९।२४९च्/ अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ॥ Bछ्.Sछ्॥

ं९।२५०अ/ उदितोऽयं विस्तरशो मिथो विवदमानयोः ।
ं९।२५०च्/ अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ॥ Bछ्.Sछ्॥

ं९।२५१अ/ एवं धर्म्याणि कार्याणि सम्यक् कुर्वन् महीपतिः ।
ं९।२५१च्/ देशानलब्धान्लिप्सेत लब्धांश्च परिपालयेत् ॥ Bछ्.Sछ्॥

ं९।२५२अ/ सम्यग्निविष्टदेशस्तु कृतदुर्गश्च शास्त्रतः ।
ं९।२५२च्/ कण्टकोद्धरणे नित्यमातिष्ठेद् यत्नमुत्तमम् ॥ Bछ्.Sछ्॥

ं९।२५३अ/ रक्षनादार्यवृत्तानां कण्टकानां च शोधनात् ।
ं९।२५३च्/ नरेन्द्रास्त्रिदिवं यान्ति प्रजापालनतत्पराः ॥ Bछ्.Sछ्॥

ं९।२५४अ/ अशासंस्तस्करान् यस्तु बलिं गृह्णाति पार्थिवः ।
ं९।२५४च्/ तस्य प्रक्षुभ्यते राष्ट्रं स्वर्गाच्च परिहीयते ॥ Bछ्.Sछ्॥

ं९।२५५अ/ निर्भयं तु भवेद् यस्य राष्ट्रं बाहुबलाश्रितम् ।
ं९।२५५च्/ तस्य तद् वर्धते नित्यं सिच्यमान इव द्रुमः ॥ Bछ्.Sछ्॥

ं९।२५६अ/ द्विविधांस्तस्करान् विद्यात् परद्रव्यापहारकान् ।
ं९।२५६च्/ प्रकाशांश्चाप्रकाशांश्च चारचक्षुर्महीपतिः ॥ Bछ्.Sछ्॥

ं९।२५७अ/ प्रकाशवञ्चकास्तेषां नानापण्योपजीविनः ।
ं९।२५७च्/ प्रच्छन्नवञ्चकास्त्वेते ये स्तेनाटविकादयः ??॥ Bछ्.Sछ्॥

ं९।२५८अ/ उत्कोचकाश्चोपधिका वञ्चकाः कितवास्तथा ।
ं९।२५८च्/ मङ्गलादेशवृत्ताश्च भद्राश्चैक्षणिकैः सह ॥ Bछ्.Sछ्॥ %[ं।भद्रप्रेक्षणिकैः सह ]
ं९।२५९अ/ असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः ।
ं९।२५९च्/ शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ॥ Bछ्.Sछ्॥

ं९।२६०अ/ एवमादीन् विजानीयात् प्रकाशांल्लोककण्टकान् । %[ंएवमाद्यान् ]
ं९।२६०च्/ निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ॥ Bछ्.Sछ्॥

ं९।२६१अ/ तान् विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः ।
ं९।२६१च्/ चारैश्चानेकसंस्थानैः प्रोत्साद्य वशमानयेत् ॥ Bछ्.Sछ्॥

ं९।२६२अ/ तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः ।
ं९।२६२च्/ कुर्वीत शासनं राजा सम्यक् सारापराधतः ॥ Bछ्.Sछ्॥

ं९।२६३अ/ न हि दण्डाद् ऋते शक्यः कर्तुं पापविनिग्रहः ।
ं९।२६३च्/ स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ॥ Bछ्.Sछ्॥

ं९।२६४अ/ सभाप्रपाऽपूपशालावेशमद्यान्नविक्रयाः ।
ं९।२६४च्/ चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ॥ Bछ्.Sछ्॥

ं९।२६५अ/ जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च ।
ं९।२६५च्/ शून्यानि चाप्यगाराणि वनान्युपवनानि च ॥ Bछ्.Sछ्॥

ं९।२६६अ/ एवंविधान्नृपो देशान् गुल्मैः स्थावरजङ्गमैः ।
ं९।२६६च्/ तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ॥ Bछ्.Sछ्॥

ं९।२६७अ/ तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः ।
ं९।२६७च्/ विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ॥ Bछ्.Sछ्॥

ं९।२६८अ/ भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः ।
ं९।२६८च्/ शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ॥ Bछ्.Sछ्॥

ं९।२६९अ/ ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये ।
ं९।२६९च्/ तान् प्रसह्य नृपो हन्यात् समित्रज्ञातिबान्धवान् ॥ Bछ्.Sछ्॥

ं९।२७०अ/ न होढेन विना चौरं घातयेद् धार्मिको नृपः ।
ं९।२७०च्/ सहोढं सोपकरणं घातयेदविचारयन् ॥ Bछ्.Sछ्॥

ं९।२७१अ/ ग्रामेष्वपि च ये के चिच्चौराणां भक्तदायकाः ।
ं९।२७१च्/ भाण्डावकाशदाश्चैव सर्वांस्तानपि घातयेत् ॥ Bछ्.Sछ्॥

ं९।२७२अ/ राष्ट्रेषु रक्षाधिकृतान् सामन्तांश्चैव चोदितान् ।
ं९।२७२च्/ अभ्याघातेषु मध्यस्थाञ् शिष्याच्चौरानिव द्रुतम् ॥ Bछ्.Sछ्॥

ं९।२७३अ/ यश्चापि धर्मसमयात् प्रच्युतो धर्मजीवनः ।
ं९।२७३च्/ दण्डेनैव तमप्योषेत् स्वकाद् धर्माद् हि विच्युतम् ॥ Bछ्.Sछ्॥

ं९।२७४अ/ ग्रामघाते हिताभङ्गे पथि मोषाभिदर्शने ।
ं९।२७४च्/ शक्तितो नाभिधावन्तो निर्वास्याः सपरिच्छदाः ॥ Bछ्.Sछ्॥

ं९।२७५अ/ राज्ञः कोशापहर्तॄंश्च प्रतिकूलेषु च स्थितान् । %[ं।प्रातिकूल्येष्ववस्थितान् ]
ं९।२७५च्/ घातयेद् विविधैर्दण्डैररीणां चोपजापकान् ॥ Bछ्.Sछ्॥

ं९।२७६अ/ संधिं छित्त्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः । %[ं।संधिं भित्त्वा)]
ं९।२७६च्/ तेषां छित्त्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ॥ Bछ्.Sछ्॥

ं९।२७७अ/ अङ्गुलीर्ग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे ।
ं९।२७७च्/ द्वितीये हस्तचरणौ तृतीये वधमर्हति ॥ Bछ्.Sछ्॥

ं९।२७८अ/ अग्निदान् भक्तदांश्चैव तथा शस्त्रावकाशदान् ।
ं९।२७८च्/ संनिधातॄंश्च मोषस्य हन्याच्चौरमिवेश्वरः ॥ Bछ्.Sछ्॥

ं९।२७९अ/ तडागभेदकं हन्यादप्सु शुद्धवधेन वा ।
ं९।२७९च्/ यद् वाऽपि प्रतिसंस्कुर्याद् दाप्यस्तूत्तमसाहसम् ॥ Bछ्.Sछ्॥

ं९।२८०अ/ कोष्ठागारायुधागारदेवतागारभेदकान् ।
ं९।२८०च्/ हस्त्यश्वरथहर्तॄंश्च हन्यादेवाविचारयन् ॥ Bछ्.Sछ्॥

ं९।२८१अ/ यस्तु पूर्वनिविष्टस्य तडागस्योदकं हरेत् ।
ं९।२८१च्/ आगमं वाऽप्यपां भिन्द्यात् स दाप्यः पूर्वसाहसम् ॥ Bछ्.Sछ्॥

ं९।२८२अ/ समुत्सृजेद् राजमार्गे यस्त्वमेध्यमनापदि ।
ं९।२८२च्/ स द्वौ कार्षापणौ दद्यादमेध्यं चाशु शोधयेत् ॥ Bछ्.Sछ्॥

ं९।२८३अ/ आपद्गतोऽथ वा वृद्धा गर्भिणी बाल एव वा ।
ं९।२८३च्/ परिभाषणमर्हन्ति तच्च शोध्यमिति स्थितिः ॥ Bछ्.Sछ्॥

ं९।२८४अ/ चिकित्सकानां सर्वेषां मिथ्याप्रचरतां दमः ।
ं९।२८४च्/ अमानुषेषु प्रथमो मानुषेषु तु मध्यमः ॥ Bछ्.Sछ्॥

ं९।२८५अ/ सङ्क्रमध्वजयष्टीनां प्रतिमानां च भेदकः ।
ं९।२८५च्/ प्रतिकुर्याच्च तत् सर्वं पञ्च दद्यात्शतानि च ॥ Bछ्.Sछ्॥

ं९।२८६अ/ अदूषितानां द्रव्याणां दूषणे भेदने तथा ।
ं९।२८६च्/ मणीनामपवेधे च दण्डः प्रथमसाहसः ॥ Bछ्.Sछ्॥

ं९।२८७अ/ समैर्हि विषमं यस्तु चरेद् वै मूल्यतोऽपि वा ।
ं९।२८७च्/ समाप्नुयाद् दमं पूर्वं नरो मध्यममेव वा ॥ Bछ्.Sछ्॥

ं९।२८८अ/ बन्धनानि च सर्वाणि राजा मार्गे निवेशयेत् । %[ं राजमार्गे ]
ं९।२८८च्/ दुःखिता यत्र दृश्येरन् विकृताः पापकारिणः ॥ Bछ्.Sछ्॥

ं९।२८९अ/ प्राकारस्य च भेत्तारं परिखाणां च पूरकम् ।
ं९।२८९च्/ द्वाराणां चैव भङ्क्तारं क्षिप्रमेव प्रवासयेत् ॥ Bछ्.Sछ्॥

ं९।२९०अ/ अभिचारेषु सर्वेषु कर्तव्यो द्विशतो दमः ।
ं९।२९०च्/ मूलकर्मणि चानाप्तेः कृत्यासु विविधासु च ॥ Bछ्.Sछ्॥ %[ंॅहानाप्तैः]
ं९।२९१अ/ अबीजविक्रयी चैव बीजोत्कृष्टा तथैव च ।
ं९।२९१च्/ मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद् वधम् ॥ Bछ्.Sछ्॥

ं९।२९२अ/ सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः ।
ं९।२९२च्/ प्रवर्तमानमन्याये छेदयेत्लवशः क्षुरैः ॥ Bछ्.Sछ्॥ %[ं।छेदयेत् खण्डशः क्षुरैः ]
ं९।२९३अ/ सीताद्रव्यापहरणे शस्त्राणामौषधस्य च ।
ं९।२९३च्/ कालमासाद्य कार्यं च राजा दण्डं प्रकल्पयेत् ॥ Bछ्.Sछ्॥

ं९।२९४अ/ स्वाम्य्ऽमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत् तथा ।
ं९।२९४च्/ सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यमुच्यते ॥ Bछ्.Sछ्॥

ं९।२९५अ/ सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।
ं९।२९५च्/ पूर्वं पूर्वं गुरुतरं जानीयाद् व्यसनं महत् ॥ Bछ्.Sछ्॥

ं९।२९६अ/ सप्ताङ्गस्यैह राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।
ं९।२९६च्/ अन्योन्यगुणवैशेष्यात्न किं चिदतिरिच्यते ॥ Bछ्.Sछ्॥

ं९।२९७अ/ तेषु तेषु तु कृत्येषु तत् तदङ्गं विशिष्यते ।
ं९।२९७च्/ येन यत् साध्यते कार्यं तत् तस्मिंश्रेष्ठमुच्यते ॥ Bछ्.Sछ्॥

ं९।२९८अ/ चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ।
ं९।२९८च्/ स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ॥ Bछ्.Sछ्॥ %[ं।विद्यात् परात्मनोः]
ं९।२९९अ/ पीडनानि च सर्वाणि व्यसनानि तथैव च ।
ं९।२९९च्/ आरभेत ततः कार्यं सञ्चिन्त्य गुरुलाघवम् ॥ Bछ्.Sछ्॥

ं९।३००अ/ आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।
ं९।३००च्/ कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ॥ Bछ्.Sछ्॥

ं९।३०१अ/ कृतं त्रेतायुगं चैव द्वापरं कलिरेव च ।
ं९।३०१च्/ राज्ञो वृत्तानि सर्वाणि राजा हि युगमुच्यते ॥ Bछ्.Sछ्॥

ं९।३०२अ/ कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् ।
ं९।३०२च्/ कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ Bछ्.Sछ्॥

ं९।३०३अ/ इन्द्रस्यार्कस्य वायोश्च यमस्य वरुणस्य च ।
ं९।३०३च्/ चन्द्रस्याग्नेः पृथिव्याश्च तेजोवृत्तं नृपश्चरेत् ॥ Bछ्.Sछ्॥

ं९।३०४अ/ वार्षिकांश्चतुरो मासान् यथेन्द्रोऽभिप्रवर्षति ।
ं९।३०४च्/ तथाऽभिवर्षेत् स्वं राष्ट्रं कामैरिन्द्रव्रतं चरन् ॥ Bछ्.Sछ्॥

ं९।३०५अ/ अष्टौ मासान् यथाऽदित्यस्तोयं हरति रश्मिभिः ।
ं९।३०५च्/ तथा हरेत् करं राष्ट्रात्नित्यमर्कव्रतं हि तत् ॥ Bछ्.Sछ्॥

ं९।३०६अ/ प्रविश्य सर्वभूतानि यथा चरति मारुतः ।
ं९।३०६च्/ तथा चारैः प्रवेष्टव्यं व्रतमेतद् हि मारुतम् ॥ Bछ्.Sछ्॥

ं९।३०७अ/ यथा यमः प्रियद्वेष्यौ प्राप्ते काले नियच्छति ।
ं९।३०७च्/ तथा राज्ञा नियन्तव्याः प्रजास्तद् हि यमव्रतम् ॥ Bछ्.Sछ्॥

ं९।३०८अ/ वरुणेन यथा पाशैर्बद्ध एवाभिदृश्यते ।
ं९।३०८च्/ तथा पापान्निगृह्णीयाद् व्रतमेतद् हि वारुणम् ॥ Bछ्.Sछ्॥

ं९।३०९अ/ परिपूर्णं यथा चन्द्रं दृष्ट्वा हृष्यन्ति मानवाः ।
ं९।३०९च्/ तथा प्रकृतयो यस्मिन् स चान्द्रव्रतिको नृपः ॥ Bछ्.Sछ्॥

ं९।३१०अ/ प्रतापयुक्तस्तेजस्वी नित्यं स्यात् पापकर्मसु ।
ं९।३१०च्/ दुष्टसामन्तहिंस्रश्च तदाग्नेयं व्रतं स्मृतम् ॥ Bछ्.Sछ्॥

ं९।३११अ/ यथा सर्वाणि भूतानि धरा धारयते समम् ।
ं९।३११च्/ तथा सर्वाणि भूतानि बिभ्रतः पार्थिवं व्रतम् ॥ Bछ्.Sछ्॥

ं९।३१२अ/ एतैरुपायैरन्यैश्च युक्तो नित्यमतन्द्रितः ।
ं९।३१२च्/ स्तेनान् राजा निगृह्णीयात् स्वराष्ट्रे पर एव च ॥ Bछ्.Sछ्॥

ं९।३१३अ/ परामप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ।
ं९।३१३च्/ ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ॥ Bछ्.Sछ्॥

ं९।३१४अ/ यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः । %[ं।सर्वभक्षो ]
ं९।३१४च्/ क्षयी चाप्यायितः सोमः को न नश्येत् प्रकोप्य तान् ॥ Bछ्.Sछ्॥

ं९।३१५अ/ लोकानन्यान् सृजेयुर्ये लोकपालांश्च कोपिताः ।
ं९।३१५च्/ देवान् कुर्युरदेवांश्च कः क्षिण्वंस्तान् समृध्नुयात् ॥ Bछ्.Sछ्॥

ं९।३१६अ/ यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा ।
ं९।३१६च्/ ब्रह्म चैव धनं येषां को हिंस्यात् ताञ्जिजीविषुः ॥ Bछ्.Sछ्॥

ं९।३१७अ/ अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।
ं९।३१७च्/ प्रणीतश्चाप्रणीतश्च यथाऽग्निर्दैवतं महत् ॥ Bछ्.Sछ्॥

ं९।३१८अ/ श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ।
ं९।३१८च्/ हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ॥ Bछ्.Sछ्॥

ं९।३१९अ/ एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु ।
ं९।३१९च्/ सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ॥ Bछ्.Sछ्॥

ं९।३२०अ/ क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान् प्रति सर्वशः ।
ं९।३२०च्/ ब्रह्मैव संनियन्तृ स्यात् क्षत्रं हि ब्रह्मसंभवम् ॥ Bछ्.Sछ्॥

ं९।३२१अ/ अद्भ्योऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् ।
ं९।३२१च्/ तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ॥ Bछ्.Sछ्॥

ं९।३२२अ/ नाब्रह्म क्षत्रं ऋध्नोति नाक्षत्रं ब्रह्म वर्धते ।
ं९।३२२च्/ ब्रह्म क्षत्रं च सम्पृक्तमिह चामुत्र वर्धते ॥ Bछ्.Sछ्॥

ं९।३२३अ/ दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् ।
ं९।३२३च्/ पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ॥ Bछ्.Sछ्॥ %[ं।समासाद्य ]
ं९।३२४अ/ एवं चरन् सदा युक्तो राजधर्मेषु पार्थिवः ।
ं९।३२४च्/ हितेषु चैव लोकस्य सर्वान् भृत्यान्नियोजयेत् ॥ Bछ्.Sछ्॥ %[ं। हितेषु चैव लोकेभ्यः ]
ं९।३२५अ/ एषोऽखिलः कर्मविधिरुक्तो राज्ञः सनातनः ।
ं९।३२५च्/ इमं कर्मविधिं विद्यात् क्रमशो वैश्यशूद्रयोः ॥ Bछ्.Sछ्॥

ं९।३२६अ/ वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् ।
ं९।३२६च्/ वार्तायां नित्ययुक्तः स्यात् पशूनां चैव रक्षणे ॥ Bछ्.Sछ्॥

ं९।३२७अ/ प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् ।
ं९।३२७च्/ ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ॥ Bछ्.Sछ्॥

ं९।३२८अ/ न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।
ं९।३२८च्/ वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ॥ Bछ्.Sछ्॥

ं९।३२९अ/ मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च ।
ं९।३२९च्/ गन्धानां च रसानां च विद्यादर्घबलाबलम् ॥ Bछ्.Sछ्॥

ं९।३३०अ/ बीजानामुप्तिविद् च स्यात् क्षेत्रदोषगुणस्य च ।
ं९।३३०च्/ मानयोगं च जानीयात् तुलायोगांश्च सर्वशः ॥ Bछ्.Sछ्॥

ं९।३३१अ/ सारासारं च भाण्डानां देशानां च गुणागुणान् ।
ं९।३३१च्/ लाभालाभं च पण्यानां पशूनां परिवर्धनम् ॥ Bछ्.Sछ्॥

ं९।३३२अ/ भृत्यानां च भृतिं विद्याद् भाषाश्च विविधा नृणाम् ।
ं९।३३२च्/ द्रव्याणां स्थानयोगांश्च क्रयविक्रयमेव च ॥ Bछ्.Sछ्॥

ं९।३३३अ/ धर्मेण च द्रव्यवृद्धावातिष्ठेद् यत्नमुत्तमम् ।
ं९।३३३च्/ दद्याच्च सर्वभूतानामन्नमेव प्रयत्नतः ॥ Bछ्.Sछ्॥

ं९।३३४अ/ विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् ।
ं९।३३४च्/ शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ॥ Bछ्.Sछ्॥ %[क्: परम्]
ं९।३३५अ/ शुचिरुत्कृष्टशुश्रूषुर्मृदुवागनहङ्कृतः ।
ं९।३३५च्/ ब्राह्मणाद्याश्रयो नित्यमुत्कृष्टां जातिमश्नुते ॥ Bछ्.Sछ्॥ %[ं।ब्राह्मणापाश्रयो]
ं९।३३६अ/ एषोऽनापदि वर्णानामुक्तः कर्मविधिः शुभः ।
ं९।३३६च्/ आपद्यपि हि यस्तेषां क्रमशस्तन्निबोधत ॥ Bछ्.Sछ्॥

 

अध्याय १०
ं१०।०१अ/ अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः ।
ं१०।०१च्/ प्रब्रूयाद् ब्राह्मणस्त्वेषां नेतराविति निश्चयः ॥ Bछ्.Sछ्॥

ं१०।०२अ/ सर्वेषां ब्राह्मणो विद्याद् वृत्त्युपायान् यथाविधि ।
ं१०।०२च्/ प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् ॥ Bछ्.Sछ्॥

ं१०।०३अ/ वैशेष्यात् प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् ।
ं१०।०३च्/ संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः ॥ Bछ्.Sछ्॥

ं१०।०४अ/ ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
ं१०।०४च्/ चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः ॥ Bछ्.Sछ्॥

ं१०।०५अ/ सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु ।
ं१०।०५च्/ आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते ॥ Bछ्.Sछ्॥

ं१०।०६अ/ स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान् सुतान् ।
ं१०।०६च्/ सदृशानेव तानाहुर्मातृदोषविगर्हितान् ॥ Bछ्.Sछ्॥

ं१०।०७अ/ अनन्तरासु जातानां विधिरेष सनातनः ।
ं१०।०७च्/ द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् ॥ Bछ्.Sछ्॥

ं१०।०८अ/ ब्राह्मणाद् वैश्यकन्यायामम्बष्ठो नाम जायते ।
ं१०।०८च्/ निषादः शूद्रकन्यायां यः पारशव उच्यते ॥ Bछ्.Sछ्॥

ं१०।०९अ/ क्षत्रियात्शूद्रकन्यायां क्रूराचारविहारवान् ।
ं१०।०९च्/ क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते ॥ Bछ्.Sछ्॥

ं१०।१०अ/ विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः ।
ं१०।१०च्/ वैश्यस्य वर्णे चैकस्मिन् षडेतेऽपसदाः स्मृताः ॥ Bछ्.Sछ्॥

ं१०।११अ/ क्षत्रियाद् विप्रकन्यायां सूतो भवति जातितः ।
ं१०।११च्/ वैश्यान् मागधवैदेहौ राजविप्राङ्गनासुतौ ॥ Bछ्.Sछ्॥

ं१०।१२अ/ शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् ।
ं१०।१२च्/ वैश्यराजन्यविप्रासु जायन्ते वर्णसङ्कराः ॥ Bछ्.Sछ्॥

ं१०।१३अ/ एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ ।
ं१०।१३च्/ क्षत्तृवैदेहकौ तद्वत् प्रातिलोम्येऽपि जन्मनि ॥ Bछ्.Sछ्॥

ं१०।१४अ/ पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् ।
ं१०।१४च्/ ताननन्तरनाम्नस्तु मातृदोषात् प्रचक्षते ॥ Bछ्.Sछ्॥

ं१०।१५अ/ ब्राह्मणादुग्रकन्यायामावृतो नाम जायते ।
ं१०।१५च्/ आभीरोऽम्बष्ठकन्यायामायोगव्यां तु धिग्वणः ॥ Bछ्.Sछ्॥

ं१०।१६अ/ आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् ।
ं१०।१६च्/ प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः ॥ Bछ्.Sछ्॥

ं१०।१७अ/ वैश्यान् मागधवैदेहौ क्षत्रियात् सूत एव तु ।
ं१०।१७च्/ प्रतीपमेते जायन्ते परेऽप्यपसदास्त्रयः ॥ Bछ्.Sछ्॥

ं१०।१८अ/ जातो निषादात्शूद्रायां जात्या भवति पुक्कसः ।
ं१०।१८च्/ शूद्राज् जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः ॥ Bछ्.Sछ्॥

ं१०।१९अ/ क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते ।
ं१०।१९च्/ वैदेहकेन त्वम्बष्ठ्यामुत्पन्नो वेण उच्यते ॥ Bछ्.Sछ्॥

ं१०।२०अ/ द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् ।
ं१०।२०च्/ तान् सावित्रीपरिभ्रष्टान् व्रात्यानिति विनिर्दिशेत् ॥ Bछ्.Sछ्॥

ं१०।२१अ/ व्रात्यात् तु जायते विप्रात् पापात्मा भूर्जकण्टकः । %[ं।भृज्जकण्टकः ]
ं१०।२१च्/ आवन्त्यवाटधानौ च पुष्पधः शैख एव च ॥ Bछ्.Sछ्॥

ं१०।२२अ/ झल्लो मल्लश्च राजन्याद् व्रात्यात्निच्छिविरेव च । %[ं।व्रात्यात्लिच्छविरेव च]
ं१०।२२च्/ नटश्च करणश्चैव खसो द्रविड एव च ॥ Bछ्.Sछ्॥

ं१०।२३अ/ वैश्यात् तु जायते व्रात्यात् सुधन्वाऽचार्य एव च ।
ं१०।२३च्/ कारुषश्च विजन्मा च मैत्रः सात्वत एव च ॥ Bछ्.Sछ्॥

ं१०।२४अ/ व्यभिचारेण वर्णानामवेद्यावेदनेन च ।
ं१०।२४च्/ स्वकर्मणां च त्यागेन जायन्ते वर्णसङ्कराः ॥ Bछ्.Sछ्॥

ं१०।२५अ/ सङ्कीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।
ं१०।२५च्/ अन्योन्यव्यतिषक्ताश्च तान् प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥

ं१०।२६अ/ सूतो वैदेहकश्चैव चण्डालश्च नराधमः ।
ं१०।२६च्/ मागधः तथाऽयोगव एव च क्षत्रजातिश्च ??॥ Bछ्.Sछ्॥ %[ं।क्षत्तृजातिश्च]
ं१०।२७अ/ एते षट् सदृशान् वर्णाञ्जनयन्ति स्वयोनिषु ।
ं१०।२७च्/ मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु ॥ Bछ्.Sछ्॥ %[ंंआतृजात्याः ]
ं१०।२८अ/ यथा त्रयाणां वर्णानां द्वयोरात्माऽस्य जायते ।
ं१०।२८च्/ आनन्तर्यात् स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ॥ Bछ्.Sछ्॥ %[ं।क्रमः]
ं१०।२९अ/ ते चापि बाह्यान् सुबहूंस्ततोऽप्यधिकदूषितान् ।
ं१०।२९च्/ परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥ Bछ्.Sछ्॥

ं१०।३०अ/ यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।
ं१०।३०च्/ तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते ॥ Bछ्.Sछ्॥

ं१०।३१अ/ प्रतिकूलं वर्तमाना बाह्या बाह्यतरान् पुनः ।
ं१०।३१च्/ हीना हीनान् प्रसूयन्ते वर्णान् पञ्चदशैव तु ॥ Bछ्.Sछ्॥

ं१०।३२अ/ प्रसाधनोपचारज्ञमदासं दासजीवनम् । %[ं।दास्यजीविनं ]
ं१०।३२च्/ सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ॥ Bछ्.Sछ्॥ %[ं। सैरन्ध्रं ]
ं१०।३३अ/ मैत्रेयकं तु वैदेहो माधूकं सम्प्रसूयते ।
ं१०।३३च्/ नॄन् प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ॥ Bछ्.Sछ्॥

ं१०।३४अ/ निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।
ं१०।३४च्/ कैवर्तमिति यं प्राहुरार्यावर्तनिवासिनः ॥ Bछ्.Sछ्॥

ं१०।३५अ/ मृतवस्त्रभृत्स्वनारीषु गर्हितान्नाशनासु च । %[ंऽनार्याषु]
ं१०।३५च्/ भवन्त्यायोगवीष्वेते जातिहीनाः पृथक् त्रयः ॥ Bछ्.Sछ्॥

ं१०।३६अ/ कारावरो निषादात् तु चर्मकारः प्रसूयते । %[ंॅहर्मकारं ]
ं१०।३६च्/ वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ॥ Bछ्.Sछ्॥

ं१०।३७अ/ चण्डालात् पाण्डुसोपाकस्त्वक्सारव्यवहारवान् ।
ं१०।३७च्/ आहिण्डिको निषादेन वैदेह्यामेव जायते ॥ Bछ्.Sछ्॥

ं१०।३८अ/ चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।
ं१०।३८च्/ पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ॥ Bछ्.Sछ्॥ %[ं।पुल्कस्यां ]
ं१०।३९अ/ निषादस्त्री तु चण्डालात् पुत्रमन्त्यावसायिनम् ।
ं१०।३९च्/ श्मशानगोचरं सूते बाह्यानामपि गर्हितम् ॥ Bछ्.Sछ्॥

ं१०।४०अ/ सङ्करे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
ं१०।४०च्/ प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥ Bछ्.Sछ्॥

ं१०।४१अ/ स्वजातिजानन्तरजाः षट् सुता द्विजधर्मिणः ।
ं१०।४१च्/ शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ॥ Bछ्.Sछ्॥

ं१०।४२अ/ तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।
ं१०।४२च्/ उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ॥ Bछ्.Sछ्॥

ं१०।४३अ/ शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः ।
ं१०।४३च्/ वृषलत्वं गता लोके ब्राह्मणादर्शनेन च ॥ Bछ्.Sछ्॥ %[ं।ब्राह्मणातिक्रमेण च]
ं१०।४४अ/ पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः । %[ं।पुण्ड्रकाश्चोडद्रविडाः]
ं१०।४४च्/ पारदापह्लवाश्चीनाः किराता दरदाः खशाः ॥ Bछ्.Sछ्॥

ं१०।४५अ/ मुखबाहूरुपद्जानां या लोके जातयो बहिः ।
ं१०।४५च्/ म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः ॥ Bछ्.Sछ्॥

ं१०।४६अ/ ये द्विजानामपसदा ये चापध्वंसजाः स्मृताः ।
ं१०।४६च्/ ते निन्दितैर्वर्तयेयुर्द्विजानामेव कर्मभिः ॥ Bछ्.Sछ्॥

ं१०।४७अ/ सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सनम् ।
ं१०।४७च्/ वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ॥ Bछ्.Sछ्॥

ं१०।४८अ/ मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च ।
ं१०।४८च्/ मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥ Bछ्.Sछ्॥

ं१०।४९अ/ क्षत्त्र्युग्रपुक्कसानां तु बिलौकोवधबन्धनम् ।
ं१०।४९च्/ धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ॥ Bछ्.Sछ्॥

ं१०।५०अ/ चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।
ं१०।५०च्/ वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥ Bछ्.Sछ्॥

ं१०।५१अ/ चण्डालश्वपचानां तु बहिर्ग्रामात् प्रतिश्रयः ।
ं१०।५१च्/ अपपात्राश्च कर्तव्या धनमेषां श्वगर्दभम् ॥ Bछ्.Sछ्॥

ं१०।५२अ/ वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् ।
ं१०।५२च्/ कार्ष्णायसमलङ्कारः परिव्रज्या च नित्यशः ॥ Bछ्.Sछ्॥

ं१०।५३अ/ न तैः समयमन्विच्छेत् पुरुषो धर्ममाचरन् ।
ं१०।५३च्/ व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ॥ Bछ्.Sछ्॥

ं१०।५४अ/ अन्नमेषां पराधीनं देयं स्याद् भिन्नभाजने ।
ं१०।५४च्/ रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ Bछ्.Sछ्॥

ं१०।५५अ/ दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।
ं१०।५५च्/ अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः ॥ Bछ्.Sछ्॥

ं१०।५६अ/ वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।
ं१०।५६च्/ वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ Bछ्.Sछ्॥

ं१०।५७अ/ वर्णापेतमविज्ञातं नरं कलुषयोनिजम् ।
ं१०।५७च्/ आर्यरूपमिवानार्यं कर्मभिः स्वैर्विभावयेत् ॥ Bछ्.Sछ्॥

ं१०।५८अ/ अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता ।
ं१०।५८च्/ पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥ Bछ्.Sछ्॥

ं१०।५९अ/ पित्र्यं वा भजते शीलं मातुर्वोभयमेव वा ।
ं१०।५९च्/ न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति ॥ Bछ्.Sछ्॥

ं१०।६०अ/ कुले मुख्येऽपि जातस्य यस्य स्याद् योनिसङ्करः ।
ं१०।६०च्/ संश्रयत्येव तत्शीलं नरोऽल्पमपि वा बहु ॥ Bछ्.Sछ्॥

ं१०।६१अ/ यत्र त्वेते परिध्वंसाज् जायन्ते वर्णदूषकाः ।
ं१०।६१च्/ राष्ट्रिकैः सह तद् राष्ट्रं क्षिप्रमेव विनश्यति ॥ Bछ्.Sछ्॥ %[ं राष्ट्रियैः ]
ं१०।६२अ/ ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
ं१०।६२च्/ स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् ॥ Bछ्.Sछ्॥ %[ं।स्त्रीबालाभ्यवपत्तौ च ]
ं१०।६३अ/ अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
ं१०।६३च्/ एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन् मनुः ॥ Bछ्.Sछ्॥

ं१०।६४अ/ शूद्रायां ब्राह्मणाज् जातः श्रेयसा चेत् प्रजायते ।
ं१०।६४च्/ अश्रेयान् श्रेयसीं जातिं गच्छत्या सप्तमाद् युगात् ॥ Bछ्.Sछ्॥

ं१०।६५अ/ शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।
ं१०।६५च्/ क्षत्रियाज् जातमेवं तु विद्याद् वैश्यात् तथैव च ॥ Bछ्.Sछ्॥

ं१०।६६अ/ अनार्यायां समुत्पन्नो ब्राह्मणात् तु यदृच्छया ।
ं१०।६६च्/ ब्राह्मण्यामप्यनार्यात् तु श्रेयस्त्वं क्वेति चेद् भवेत् ॥ Bछ्.Sछ्॥ %[ं।कस्य चिद् भवेत् ]
ं१०।६७अ/ जातो नार्यामनार्यायामार्यादार्यो भवेद् गुणैः ।
ं१०।६७च्/ जातोऽप्यनार्यादार्यायामनार्य इति निश्चयः ॥ Bछ्.Sछ्॥

ं१०।६८अ/ तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः ।
ं१०।६८च्/ वैगुण्याज् जन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ Bछ्.Sछ्॥ %[ं।जन्मतः ]
ं१०।६९अ/ सुबीजं चैव सुक्षेत्रे जातं सम्पद्यते यथा ।
ं१०।६९च्/ तथाऽर्याज् जात आर्यायां सर्वं संस्कारमर्हति ॥ Bछ्.Sछ्॥

ं१०।७०अ/ बीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः ।
ं१०।७०च्/ बीजक्षेत्रे तथैवान्ये तत्रैयं तु व्यवस्थितिः ॥ Bछ्.Sछ्॥

ं१०।७१अ/ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति ।
ं१०।७१च्/ अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ Bछ्.Sछ्॥

ं१०।७२अ/ यस्माद् बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् ।
ं१०।७२च्/ पूजिताश्च प्रशस्ताश्च तस्माद् बीजं प्रशस्यते ॥ Bछ्.Sछ्॥ %[ं।विशिष्यते)]
ं१०।७३अ/ अनार्यमार्यकर्माणमार्यं चानार्यकर्मिणम् ।
ं१०।७३च्/ सम्प्रधार्याब्रवीद् धाता न समौ नासमाविति ॥ Bछ्.Sछ्॥

ं१०।७४अ/ ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः ।
ं१०।७४च्/ ते सम्यगुपजीवेयुः षट् कर्माणि यथाक्रमम् ॥ Bछ्.Sछ्॥

ं१०।७५अ/ अध्यापनमध्ययनं यजनं याजनं तथा ।
ं१०।७५च्/ दानं प्रतिग्रहश्चैव षट् कर्माण्यग्रजन्मनः ॥ Bछ्.Sछ्॥

ं१०।७६अ/ षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका ।
ं१०।७६च्/ याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥ Bछ्.Sछ्॥

ं१०।७७अ/ त्रयो धर्मा निवर्तन्ते ब्राह्मणात् क्षत्रियं प्रति ।
ं१०।७७च्/ अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः ॥ Bछ्.Sछ्॥

ं१०।७८अ/ वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः ।
ं१०।७८च्/ न तौ प्रति हि तान् धर्मान् मनुराह प्रजापतिः ॥ Bछ्.Sछ्॥ %[ं। प्रति हितान् धर्मान् ]
ं१०।७९अ/ शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः ।
ं१०।७९च्/ आजीवनार्थं धर्मस्तु दानमध्ययनं यजिः ॥ Bछ्.Sछ्॥

ं१०।८०अ/ वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् ।
ं१०।८०च्/ वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु ॥ Bछ्.Sछ्॥

ं१०।८१अ/ अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
ं१०।८१च्/ जीवेत् क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः ॥ Bछ्.Sछ्॥

ं१०।८२अ/ उभाभ्यामप्यजीवंस्तु कथं स्यादिति चेद् भवेत् ।
ं१०।८२च्/ कृषिगोरक्षमास्थाय जीवेद् वैश्यस्य जीविकाम् ॥ Bछ्.Sछ्॥

ं१०।८३अ/ वैश्यवृत्त्याऽपि जीवंस्तु ब्राह्मणः क्षत्रियोऽपि वा ।
ं१०।८३च्/ हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् ॥ Bछ्.Sछ्॥

ं१०।८४अ/ कृषिं साधुइति मन्यन्ते सा वृत्तिः सद्विगर्हिताः ।
ं१०।८४च्/ भूमिं भूमिशयांश्चैव हन्ति काष्ठमयोमुखम् ॥ Bछ्.Sछ्॥

ं१०।८५अ/ इदं तु वृत्तिवैकल्यात् त्यजतो धर्मनैपुणम् ।
ं१०।८५च्/ विट्पण्यमुद्धृतोद्धारं विक्रेयं वित्तवर्धनम् ॥ Bछ्.Sछ्॥

ं१०।८६अ/ सर्वान् रसानपोहेत कृतान्नं च तिलैः सह ।
ं१०।८६च्/ अश्मनो लवणं चैव पशवो ये च मानुषाः ॥ Bछ्.Sछ्॥

ं१०।८७अ/ सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च ।
ं१०।८७च्/ अपि चेत् स्युररक्तानि फलमूले तथौषधीः ॥ Bछ्.Sछ्॥

ं१०।८८अ/ अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः ।
ं१०।८८च्/ क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् ॥ Bछ्.Sछ्॥

ं१०।८९अ/ आरण्यांश्च पशून् सर्वान् दंष्ट्रिणश्च वयांसि च ।
ं१०।८९च्/ मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा ॥ Bछ्.Sछ्॥ %[ंंईलीं ]
ं१०।९०अ/ काममुत्पाद्य कृष्यां तु स्वयमेव कृषीवलः ।
ं१०।९०च्/ विक्रीणीत तिलांशूद्रान् धर्मार्थमचिरस्थितान् ॥ Bछ्.Sछ्॥ %[ं।तिलांशुद्धान्]
ं१०।९१अ/ भोजनाभ्यञ्जनाद् दानाद् यदन्यत् कुरुते तिलैः ।
ं१०।९१च्/ कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति ॥ Bछ्.Sछ्॥

ं१०।९२अ/ सद्यः पतति मांसेन लाक्षया लवणेन च ।
ं१०।९२च्/ त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् ॥ Bछ्.Sछ्॥

ं१०।९३अ/ इतरेषां तु पण्यानां विक्रयादिह कामतः ।
ं१०।९३च्/ ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति ॥ Bछ्.Sछ्॥

ं१०।९४अ/ रसा रसैर्निमातव्या न त्वेव लवणं रसैः ।
ं१०।९४च्/ कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः ॥ Bछ्.Sछ्॥

ं१०।९५अ/ जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः ।
ं१०।९५च्/ न त्वेव ज्यायंसीं वृत्तिमभिमन्येत कर्हि चित् ॥ Bछ्.Sछ्॥

ं१०।९६अ/ यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः ।
ं१०।९६च्/ तं राजा निर्धनं कृत्वा क्षिप्रमेव प्रवासयेत् ॥ Bछ्.Sछ्॥

ं१०।९७अ/ वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । %[ं।विगुणः परधर्मात् स्वधिष्ठितात् ]
ं१०।९७च्/ परधर्मेण जीवन् हि सद्यः पतति जातितः ॥ Bछ्.Sछ्॥

ं१०।९८अ/ वैश्योऽजीवन् स्वधर्मेण शूद्रवृत्त्याऽपि वर्तयेत् ।
ं१०।९८च्/ अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् ॥ Bछ्.Sछ्॥

ं१०।९९अ/ अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् ।
ं१०।९९च्/ पुत्रदारात्ययं प्राप्तो जीवेत् कारुककर्मभिः ॥ Bछ्.Sछ्॥

ं१०।१००अ/ यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः ।
ं१०।१००च्/ तानि कारुककर्माणि शिल्पानि विविधानि च ॥ Bछ्.Sछ्॥

ं१०।१०१अ/ वैश्यवृत्तिमनातिष्ठन् ब्राह्मणः स्वे पथि स्थितः ।
ं१०।१०१च्/ अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् ॥ Bछ्.Sछ्॥

ं१०।१०२अ/ सर्वतः प्रतिगृह्णीयाद् ब्राह्मणस्त्वनयं गतः ।
ं१०।१०२च्/ पवित्रं दुष्यतीत्येतद् धर्मतो नोपपद्यते ॥ Bछ्.Sछ्॥

ं१०।१०३अ/ नाध्यापनाद् याजनाद् वा गर्हिताद् वा प्रतिग्रहात् ।
ं१०।१०३च्/ दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते ॥ Bछ्.Sछ्॥

ं१०।१०४अ/ जीवितात्ययमापन्नो योऽन्नमत्ति ततस्ततः ।
ं१०।१०४च्/ आकाशमिव पङ्केन न स पापेन लिप्यते ॥ Bछ्.Sछ्॥

ं१०।१०५अ/ अजीगर्तः सुतं हन्तुमुपासर्पद् बुभुक्षितः ।
ं१०।१०५च्/ न चालिप्यत पापेन क्षुत्प्रतीकारमाचरन् ॥ Bछ्.Sछ्॥

ं१०।१०६अ/ श्वमांसमिच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः ।
ं१०।१०६च्/ प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥ Bछ्.Sछ्॥

ं१०।१०७अ/ भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ।
ं१०।१०७च्/ बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः ॥ Bछ्.Sछ्॥

ं१०।१०८अ/ क्षुधार्तश्चात्तुमभ्यागाद् विश्वामित्रः श्वजाघनीम् ।
ं१०।१०८च्/ चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥ Bछ्.Sछ्॥

ं१०।१०९अ/ प्रतिग्रहाद् याजनाद् वा तथैवाध्यापनादपि ।
ं१०।१०९च्/ प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः ॥ Bछ्.Sछ्॥

ं१०।११०अ/ याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् ।
ं१०।११०च्/ प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः ॥ Bछ्.Sछ्॥

ं१०।१११अ/ जपहोमैरपेत्येनो याजनाध्यापनैः कृतम् ।
ं१०।१११च्/ प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च ॥ Bछ्.Sछ्॥

ं१०।११२अ/ शिलौञ्छमप्याददीत विप्रोऽजीवन् यतस्ततः ।
ं१०।११२च्/ प्रतिग्रहात् शिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते ॥ Bछ्.Sछ्॥

ं१०।११३अ/ सीदद्भिः कुप्यमिच्छद्भिर्धने वा पृथिवीपतिः । %[ं।धनं वा ]
ं१०।११३च्/ याच्यः स्यात् स्नातकैर्विप्रैरदित्संस्त्यागमर्हति ॥ Bछ्.Sछ्॥

ं१०।११४अ/ अकृतं च कृतात् क्षेत्राद् गौरजाविकमेव च ।
ं१०।११४च्/ हिरण्यं धान्यमन्नं च पूर्वं पूर्वमदोषवत् ॥ Bछ्.Sछ्॥

ं१०।११५अ/ सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः ।
ं१०।११५च्/ प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ॥ Bछ्.Sछ्॥

ं१०।११६अ/ विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः ।
ं१०।११६च्/ धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः ॥ Bछ्.Sछ्॥

ं१०।११७अ/ ब्राह्मणः क्षत्रियो वाऽपि वृद्धिं नैव प्रयोजयेत् ।
ं१०।११७च्/ कामं तु खलु धर्मार्थं दद्यात् पापीयसेऽल्पिकाम् ॥ Bछ्.Sछ्॥

ं१०।११८अ/ चतुर्थमाददानोऽपि क्षत्रियो भागमापदि ।
ं१०।११८च्/ प्रजा रक्षन् परं शक्त्या किल्बिषात् प्रतिमुच्यते ॥ Bछ्.Sछ्॥

ं१०।११९अ/ स्वधर्मो विजयस्तस्य नाहवे स्यात् पराङ्मुखः ।
ं१०।११९च्/ शस्त्रेण वैश्यान् रक्षित्वा धर्म्यमाहारयेद् बलिम् ॥ Bछ्.Sछ्॥ %[ं।वैश्याद् रक्षित्वा ]
ं१०।१२०अ/ धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् ।
ं१०।१२०च्/ कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा ॥ Bछ्.Sछ्॥

ं१०।१२१अ/ शूद्रस्तु वृत्तिमाकाङ्क्षन् क्षत्रमाराधयेद् यदि । %[ं।आराधयेदिति ]
ं१०।१२१च्/ धनिनं वाऽप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥ Bछ्.Sछ्॥

ं१०।१२२अ/ स्वर्गार्थमुभयार्थं वा विप्रानाराधयेत् तु सः ।
ं१०।१२२च्/ जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ॥ Bछ्.Sछ्॥

ं१०।१२३अ/ विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।
ं१०।१२३च्/ यदतोऽन्यद् हि कुरुते तद् भवत्यस्य निष्फलम् ॥ Bछ्.Sछ्॥

ं१०।१२४अ/ प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद् यथार्हतः ।
ं१०।१२४च्/ शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ॥ Bछ्.Sछ्॥

ं१०।१२५अ/ उच्छिष्टमन्नं दातव्यं जीर्णानि वसनानि च ।
ं१०।१२५च्/ पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ॥ Bछ्.Sछ्॥

ं१०।१२६अ/ न शूद्रे पातकं किं चिन्न च संस्कारमर्हति ।
ं१०।१२६च्/ नास्याधिकारो धर्मेऽस्ति न धर्मात् प्रतिषेधनम् ॥ Bछ्.Sछ्॥

ं१०।१२७अ/ धर्मैप्सवस्तु धर्मज्ञाः सतां वृत्तमनुष्ठिताः । %[ं।सतां धर्मं ]
ं१०।१२७च्/ मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ॥ Bछ्.Sछ्॥ %[ंंअन्त्रवर्जं ]
ं१०।१२८अ/ यथा यथा हि सद्वृत्तमातिष्ठत्यनसूयकः ।
ं१०।१२८च्/ तथा तथैमं चामुं च लोकं प्राप्नोत्यनिन्दितः ॥ Bछ्.Sछ्॥

ं१०।१२९अ/ शक्तेनापि हि शूद्रेण न कार्यो धनसञ्चयः ।
ं१०।१२९च्/ शूद्रो हि धनमासाद्य ब्राह्मणानेव बाधते ॥ Bछ्.Sछ्॥

ं१०।१३०अ/ एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः ।
ं१०।१३०च्/ यान् सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् ॥ Bछ्.Sछ्॥

ं१०।१३१अ/ एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः ।
ं१०।१३१च्/ अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ॥ Bछ्.Sछ्॥

 

अध्याय ११  CHAPTER 11 

 

ं११।०१अ/ सान्तानिकं यक्ष्यमाणमध्वगं सार्ववेदसम् ।
ं११।०१च्/ गुर्वर्थं पितृमात्र्यर्थं स्वाध्यायार्थ्युपतापिनः ॥

ं११।०२अ/ न वै तान् स्नातकान् विद्याद् ब्राह्मणान् धर्मभिक्षुकान् ।
ं११।०२च्/ निःस्वेभ्यो देयमेतेभ्यो दानं विद्याविशेषतः ॥

ं११।०३अ/ एतेभ्यो हि द्विजाग्र्येभ्यो देयमन्नं सदक्षिणम् ।
ं११।०३च्/ इतरेभ्यो बहिर्वेदि कृतान्नं देयमुच्यते ॥ Bछ्.Sछ्॥

ं११।०४अ/ सर्वरत्नानि राजा तु यथार्हं प्रतिपादयेत् ।
ं११।०४च्/ ब्राह्मणान् वेदविदुषो यज्ञार्थं चैव दक्षिणाम् ॥ Bछ्.Sछ्॥

ं११।०५अ/ कृतदारोऽपरान् दारान् भिक्षित्वा योऽधिगच्छति ।
ं११।०५च्/ रतिमात्रं फलं तस्य द्रव्यदातुस्तु संततिः ॥ Bछ्.Sछ्॥

ं११।०६अ/ धनानि तु यथाशक्ति विप्रेषु प्रतिपादयेत् । %[नोतिन् ं]
ं११।०६च्/ वेदवित्सु विविक्तेषु प्रेत्य स्वर्गं समश्नुते ॥ Bछ्.Sछ्॥ %[नोतिन् ं]
ं११।०७अ[०६ंअ]/ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये ।
ं११।०७च्[०६ंच्]/ अधिकं वाऽपि विद्येत स सोमं पातुमर्हति ॥ Bछ्.Sछ्॥

ं११।०८अ[०७ंअ]/ अतः स्वल्पीयसि द्रव्ये यः सोमं पिबति द्विजः ।
ं११।०८च्[०७ंच्]/ स पीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥ Bछ्.Sछ्॥

ं११।०९अ[०८ंअ]/ शक्तः परजने दाता स्वजने दुःखजीविनि ।
ं११।०९च्[०८ंच्]/ मध्वापातो विषास्वादः स धर्मप्रतिरूपकः ॥ Bछ्.Sछ्॥

ं११।१०अ[०९ंअ]/ भृत्यानामुपरोधेन यत् करोत्यौर्ध्वदेहिकम् ।
ं११।१०च्[०९ंच्]/ तद् भवत्यसुखौदर्कं जीवतश्च मृतस्य च ॥ Bछ्.Sछ्॥

ं११।११अ[१०ंअ]/ यज्ञश्चेत् प्रतिरुद्धः स्यादेकेनाङ्गेन यज्वनः ।
ं११।११च्[१०ंच्]/ ब्राह्मणस्य विशेषेन धार्मिके सति राजनि ॥ Bछ्.Sछ्॥

ं११।१२अ[११ंअ]/ यो वैश्यः स्याद् बहुपशुर्हीनक्रतुरसोमपः ।
ं११।१२च्[११ंच्]/ कुटुम्बात् तस्य तद् द्रव्यमाहरेद् यज्ञसिद्धये ॥ Bछ्.Sछ्॥

ं११।१३अ[१२ंअ]/ आहरेत् त्रीणि वा द्वे वा कामं शूद्रस्य वेश्मनः ।
ं११।१३च्[१२ंच्]/ न हि शूद्रस्य यज्ञेषु कश्चिदस्ति परिग्रहः ॥ Bछ्.Sछ्॥

ं११।१४अ[१३ंअ]/ योऽनाहिताग्निः शतगुरयज्वा च सहस्रगुः । %[क्:अयज्ञश्]
ं११।१४च्[१३ंच्]/ तयोरपि कुटुम्बाभ्यामाहरेदविचारयन् ॥ Bछ्.Sछ्॥

ं११।१५अ[१४ंअ]/ आदाननित्याच्चादातुराहरेदप्रयच्छतः ।
ं११।१५च्[१४ंच्]/ तथा यशोऽस्य प्रथते धर्मश्चैव प्रवर्धते ॥ Bछ्.Sछ्॥

ं११।१६अ[१५ंअ]/ तथैव सप्तमे भक्ते भक्तानि षडनश्नता ।
ं११।१६च्[१५ंच्]/ अश्वस्तनविधानेन हर्तव्यं हीनकर्मणः ॥ Bछ्.Sछ्॥

ं११।१७अ[१६ंअ]/ खलात् क्षेत्रादगाराद् वा यतो वाऽप्युपलभ्यते ।
ं११।१७च्[१६ंच्]/ आख्यातव्यं तु तत् तस्मै पृच्छते यदि पृच्छति ॥ Bछ्.Sछ्॥

ं११।१८अ[१७ंअ]/ ब्राह्मणस्वं न हर्तव्यं क्षत्रियेण कदा चन ।
ं११।१८च्[१७ंच्]/ दस्युनिष्क्रिययोस्तु स्वमजीवन् हर्तुमर्हति ॥ Bछ्.Sछ्॥

ं११।१९अ[१८ंअ]/ योऽसाधुभ्योऽर्थमादाय साधुभ्यः सम्प्रयच्छति ।
ं११।१९च्[१८ंच्]/ स कृत्वा प्लवमात्मानं संतारयति तावुभौ ॥ Bछ्.Sछ्॥

ं११।२०अ[१९ंअ]/ यद् धनं यज्ञशीलानां देवस्वं तद् विदुर्बुधाः ।
ं११।२०च्[१९ंच्]/ अयज्वनां तु यद् वित्तमासुरस्वं तदुच्यते ॥ Bछ्.Sछ्॥

ं११।२१अ[२०ंअ]/ न तस्मिन् धारयेद् दण्डं धार्मिकः पृथिवीपतिः ।
ं११।२१च्[२०ंच्]/ क्षत्रियस्य हि बालिश्याद् ब्राह्मणः सीदति क्षुधा ॥ Bछ्.Sछ्॥

ं११।२२अ[२१ंअ]/ तस्य भृत्यजनं ज्ञात्वा स्वकुटुम्बान् महीपतिः ।
ं११।२२च्[२१ंच्]/ श्रुतशीले च विज्ञाय वृत्तिं धर्म्यां प्रकल्पयेत् ॥ Bछ्.Sछ्॥

ं११।२३अ[२२ंअ]/ कल्पयित्वाऽस्य वृत्तिं च रक्षेदेनं समन्ततः ।
ं११।२३च्[२२ंच्]/ राजा हि धर्मषड्भागं तस्मात् प्राप्नोति रक्षितात् ॥ Bछ्.Sछ्॥

ं११।२४अ[२३ंअ]/ न यज्ञार्थं धनं शूद्राद् विप्रो भिक्षेत कर्हि चित् ।
ं११।२४च्[२३ंच्]/ यजमानो हि भिक्षित्वा चण्डालः प्रेत्य जायते ॥ Bछ्.Sछ्॥

ं११।२५अ[२४ंअ]/ यज्ञार्थमर्थं भिक्षित्वा यो न सर्वं प्रयच्छति ।
ं११।२५च्[२४ंच्]/ स याति भासतां विप्रः काकतां वा शतं समाः ॥ Bछ्.Sछ्॥

ं११।२६अ[२५ंअ]/ देवस्वं ब्राह्मणस्वं वा लोभेनोपहिनस्ति यः ।
ं११।२६च्[२५ंच्]/ स पापात्मा परे लोके गृध्रौच्छिष्टेन जीवति ॥ Bछ्.Sछ्॥

ं११।२७अ[२६ंअ]/ इष्टिं वैश्वानरीं नित्यं निर्वपेदब्दपर्यये ।
ं११।२७च्[२६ंच्]/ कॢप्तानां पशुसोमानां निष्कृत्यर्थमसंभवे ॥ Bछ्.Sछ्॥

ं११।२८अ[२७ंअ]/ आपत्कल्पेन यो धर्मं कुरुतेऽनापदि द्विजः ।
ं११।२८च्[२७ंच्]/ स नाप्नोति फलं तस्य परत्रेति विचारितम् ॥ Bछ्.Sछ्॥

ं११।२९अ[२८ंअ]/ विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः ।
ं११।२९च्[२८ंच्]/ आपत्सु मरणाद् भीतैर्विधेः प्रतिनिधिः कृतः ॥ Bछ्.Sछ्॥

ं११।३०अ[२९ंअ]/ प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तते ।
ं११।३०च्[२९ंच्]/ न सांपरायिकं तस्य दुर्मतेर्विद्यते फलम् ॥ Bछ्.Sछ्॥

ं११।३१अ[३०ंअ]/ न ब्राह्मणो वेदयेत किंचिद् राजनि धर्मवित् ।
ं११।३१च्[३०ंच्]/ स्ववीर्येणैव तांशिष्यान् मानवानपकारिणः ॥ Bछ्.Sछ्॥

ं११।३२अ[३१ंअ]/ स्ववीर्याद् राजवीर्याच्च स्ववीर्यं बलवत्तरम् ।
ं११।३२च्[३१ंच्]/ तस्मात् स्वेनैव वीर्येण निगृह्णीयादरीन् द्विजः ॥ Bछ्.Sछ्॥

ं११।३३अ[३२ंअ]/ श्रुतीरथर्वाङ्गिरसीः कुर्यादित्यविचारयन् ।
ं११।३३च्[३२ंच्]/ वाक्षस्त्रं वै ब्राह्मणस्य तेन हन्यादरीन् द्विजः ॥ Bछ्.Sछ्॥

ं११।३४अ[३३ंअ]/ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः ।
ं११।३४च्[३३ंच्]/ धनेन वैश्यशूद्रौ तु जपहोमैर्द्विजोत्तमः ॥ Bछ्.Sछ्॥

ं११।३५अ[३४ंअ]/ विधाता शासिता वक्ता मैत्रो ब्राह्मण उच्यते ।
ं११।३५च्[३४ंच्]/ तस्मै नाकुशलं ब्रूयान्न शुष्कां गिरमीरयेत् ॥ Bछ्.Sछ्॥

ं११।३६अ[३५ंअ]/ न वै कन्या न युवतिर्नाल्पविद्यो न बालिशः ।
ं११।३६च्[३५ंच्]/ होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ॥ Bछ्.Sछ्॥

ं११।३७अ[३६ंअ]/ नरके हि पतन्त्येते जुह्वन्तः स च यस्य तत् । %[ं।जुह्वतः ]
ं११।३७च्[३६ंच्]/ तस्माद् वैतानकुशलो होता स्याद् वेदपारगः ॥ Bछ्.Sछ्॥

ं११।३८अ[३७ंअ]/ प्राजापत्यमदत्त्वाऽश्वमग्न्याधेयस्य दक्षिणाम् ।
ं११।३८च्[३७ंच्]/ अनाहिताग्निर्भवति ब्राह्मणो विभवे सति ॥ Bछ्.Sछ्॥

ं११।३९अ[३८ंअ]/ पुण्यान्यन्यानि कुर्वीत श्रद्दधानो जितेन्द्रियः ।
ं११।३९च्[३८ंच्]/ न त्वल्पदक्षिणैर्यज्ञैर्यजेतेह कथं चन ॥ Bछ्.Sछ्॥

ं११।४०अ[३९ंअ]/ इन्द्रियाणि यशः स्वर्गमायुः कीर्तिं प्रजाः पशून् ।
ं११।४०च्[३९ंच्]/ हन्त्यल्पदक्षिणो यज्ञस्तस्मान्नाल्पधनो यजेत् ॥ Bछ्.Sछ्॥

ं११।४१अ[४०ंअ]/ अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणः कामकारतः ।
ं११।४१च्[४०ंच्]/ चान्द्रायणं चरेन् मासं वीरहत्यासमं हि तत् ॥ Bछ्.Sछ्॥

ं११।४२अ[४१ंअ]/ ये शूद्रादधिगम्यार्थमग्निहोत्रमुपासते ।
ं११।४२च्[४१ंच्]/ ऋत्विजस्ते हि शूद्राणां ब्रह्मवादिषु गर्हिताः ॥ Bछ्.Sछ्॥

ं११।४३अ[४२ंअ]/ तेषां सततमज्ञानां वृषलाग्न्युपसेविनाम् ।
ं११।४३च्[४२ंच्]/ पदा मस्तकमाक्रम्य दाता दुर्गाणि संतरेत् ॥ Bछ्.Sछ्॥

ं११।४४अ[४३ंअ]/ अकुर्वन् विहितं कर्म निन्दितं च समाचरन् ।
ं११।४४च्[४३ंच्]/ प्रसक्तश्चैन्द्रियार्थेषु प्रायश्चित्तीयते नरः ॥ Bछ्.Sछ्॥ %[ं।प्रसज्जनिन्द्रियार्थेषु]
ं११।४५अ[४४ंअ]/ अकामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः ।
ं११।४५च्[४४ंच्]/ कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात् ॥ Bछ्.Sछ्॥

ं११।४६अ[४५ंअ]/ अकामतः कृतं पापं वेदाभ्यासेन शुध्यति ।
ं११।४६च्[४५ंच्]/ कामतस्तु कृतं मोहात् प्रायश्चित्तैः पृथग्विधैः ॥ Bछ्.Sछ्॥

ं११।४७अ[४६ंअ]/ प्रायश्चित्तीयतां प्राप्य दैवात् पूर्वकृतेन वा ।
ं११।४७च्[४६ंच्]/ न संसर्गं व्रजेत् सद्भिः प्रायश्चित्तेऽकृते द्विजः ॥ Bछ्.Sछ्॥

ं११।४८अ[४७ंअ]/ इह दुश्चरितैः के चित् के चित् पूर्वकृतैस्तथा ।
ं११।४८च्[४७ंच्]/ प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ Bछ्.Sछ्॥

ं११।४९अ[४८ंअ]/ सुवर्णचौरः कौनख्यं सुरापः श्यावदन्तताम् ।
ं११।४९च्[४८ंच्]/ ब्रह्महा क्षयरोगित्वं दौश्चर्म्यं गुरुतल्पगः ॥ Bछ्.Sछ्॥

ं११।५०अ[४९ंअ]/ पिशुनः पौतिनासिक्यं सूचकः पूतिवक्त्रताम् ।
ं११।५०च्[४९ंच्]/ धान्यचौरोऽङ्गहीनत्वमातिरैक्यं तु मिश्रकः ॥ Bछ्.Sछ्॥

ं११।५१अ[५०ंअ]/ अन्नहर्ताऽमयावित्वं मौक्यं वागपहारकः ।
ं११।५१च्[५०ंच्]/ वस्त्रापहारकः श्वैत्र्यं पङ्गुतामश्वहारकः ॥ Bछ्.Sछ्॥

ं११।५२अ[५१ंअ]/ एवं कर्मविशेषेण जायन्ते सद्विगर्हिताः ।
ं११।५२च्[५१ंच्]/ जडमूकान्धबधिरा विकृताकृतयस्तथा ॥ Bछ्.Sछ्॥

ं११।५३अ[५२ंअ]/ चरितव्यमतो नित्यं प्रायश्चित्तं विशुद्धये ।
ं११।५३च्[५२ंच्]/ निन्द्यैर्हि लक्षणैर्युक्ता जायन्तेऽनिष्कृतेनसः ॥ Bछ्.Sछ्॥

ं११।५४अ[५३ंअ]/ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
ं११।५४च्[५३ंच्]/ महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥ Bछ्.Sछ्॥

ं११।५५अ[५४ंअ]/ अनृतं च समुत्कर्षे राजगामि च पैशुनम् ।
ं११।५५च्[५४ंच्]/ गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया ॥ Bछ्.Sछ्॥

ं११।५६अ[५५ंअ]/ ब्रह्मोज्झता वेदनिन्दा कौटसाक्ष्यं सुहृद्वधः ।
ं११।५६च्[५५ंच्]/ गर्हितानाद्ययोर्जग्धिः सुरापानसमानि षट् ॥ Bछ्.Sछ्॥

ं११।५७अ[५६ंअ]/ निक्षेपस्यापहरणं नराश्वरजतस्य च ।
ं११।५७च्[५६ंच्]/ भूमिवज्रमणीनां च रुक्मस्तेयसमं स्मृतम् ॥ Bछ्.Sछ्॥

ं११।५८अ[५७ंअ]/ रेतःसेकः स्वयोनीषु कुमारीष्वन्त्यजासु च ।
ं११।५८च्[५७ंच्]/ सख्युः पुत्रस्य च स्त्रीषु गुरुतल्पसमं विदुः ॥ Bछ्.Sछ्॥

ं११।५९अ[५८ंअ]/ गोवधोऽयाज्यसंयाज्यं पारदार्यात्मविक्रयः ।
ं११।५९च्[५८ंच्]/ गुरुमातृपितृत्यागः स्वाध्यायाग्न्योः सुतस्य च ॥ Bछ्.Sछ्॥

ं११।६०अ[५९ंअ]/ परिवित्तिताऽनुजेऽनूढे परिवेदनमेव च ।
ं११।६०च्[५९ंच्]/ तयोर्दानं च कन्यायास्तयोरेव च याजनम् ॥ Bछ्.Sछ्॥

ं११।६१अ[६०ंअ]/ कन्याया दूषणं चैव वार्धुष्यं व्रतलोपनम् ।
ं११।६१च्[६०ंच्]/ तडागारामदाराणामपत्यस्य च विक्रयः ॥ Bछ्.Sछ्॥

ं११।६२अ[६१ंअ]/ व्रात्यता बान्धवत्यागो भृत्याध्यापनमेव च ।
ं११।६२च्[६१ंच्]/ भृत्या चाध्ययनादानमपण्यानां च विक्रयः ॥ Bछ्.Sछ्॥ %[ं।भृताच्चाध्ययनादानम्]
ं११।६३अ[६२ंअ]/ सर्वाकारेष्वधीकारो महायन्त्रप्रवर्तनम् ।
ं११।६३च्[६२ंच्]/ हिंसौषधीनां स्त्र्याजीवोऽभिचारो मूलकर्म च ॥ Bछ्.Sछ्॥

ं११।६४अ[६३ंअ]/ इन्धनार्थमशुष्काणां द्रुमाणामवपातनम् ।
ं११।६४च्[६३ंच्]/ आत्मार्थं च क्रियारम्भो निन्दितान्नादनं तथा ॥ Bछ्.Sछ्॥

ं११।६५अ[६४ंअ]/ अनाहिताग्निता स्तेयं ऋणानामनपक्रिया ।
ं११।६५च्[६४ंच्]/ असत्शास्त्राधिगमनं कौशीलव्यस्य च क्रिया ॥ Bछ्.Sछ्॥

ं११।६६अ[६५ंअ]/ धान्यकुप्यपशुस्तेयं मद्यपस्त्रीनिषेवणम् ।
ं११।६६च्[६५ंच्]/ स्त्रीशूद्रविट्क्षत्रवधो नास्तिक्यं चोपपातकम् ॥ Bछ्.Sछ्॥

ं११।६७अ[६६ंअ]/ ब्राह्मणस्य रुजः कृत्वा घ्रातिरघ्रेयमद्ययोः । %[ं रुजःकृत्यं]
ं११।६७च्[६६ंच्]/ जैह्म्यं च मैथुनं पुंसि जातिभ्रंशकरं स्मृतम् ॥ Bछ्.Sछ्॥

ं११।६८अ[६७ंअ]/ खराश्वोष्ट्रमृगैभानामजाविकवधस्तथा ।
ं११।६८च्[६७ंच्]/ सङ्करीकरणं ज्ञेयं मीनाहिमहिषस्य च ॥ Bछ्.Sछ्॥

ं११।६९अ[६८ंअ]/ निन्दितेभ्यो धनादानं वाणिज्यं शूद्रसेवनम् ।
ं११।६९च्[६८ंच्]/ अपात्रीकरणं ज्ञेयमसत्यस्य च भाषणम् ॥ Bछ्.Sछ्॥

ं११।७०अ[६९ंअ]/ कृमिकीटवयोहत्या मद्यानुगतभोजनम् ।
ं११।७०च्[६९ंच्]/ फलेधः।कुसुमस्तेयमधैर्यं च मलावहम् ॥ Bछ्.Sछ्॥

ं११।७१अ[७०ंअ]/ एतान्येनांसि सर्वाणि यथोक्तानि पृथक् पृथक् ।
ं११।७१च्[७०ंच्]/ यैर्यैर्व्रतैरपोह्यन्ते तानि सम्यग् निबोधत ॥ Bछ्.Sछ्॥

ं११।७२अ[७१ंअ]/ ब्रह्महा द्वादश समाः कुटीं कृत्वा वने वसेत् ।
ं११।७२च्[७१ंच्]/ भैक्षाश्यात्मविशुद्ध्यर्थं कृत्वा शवशिरो ध्वजम् ॥ Bछ्.Sछ्॥

ं११।७३अ[७२ंअ]/ लक्ष्यं शस्त्रभृतां वा स्याद् विदुषामिच्छयाऽत्मनः ।
ं११।७३च्[७२ंच्]/ प्रास्येदात्मानमग्नौ वा समिद्धे त्रिरवाक्षिराः ॥ Bछ्.Sछ्॥

ं११।७४अ[७३ंअ]/ यजेत वाऽश्वमेधेन स्वर्जिता गोसवेन वा ।
ं११।७४च्[७३ंच्]/ अभिजिद्विश्वजिद्भ्यां वा त्रिवृताऽग्निष्टुताऽपि वा ॥ Bछ्.Sछ्॥

ं११।७५अ[७४ंअ]/ जपन् वाऽन्यतमं वेदं योजनानां शतं व्रजेत् ।
ं११।७५च्[७४ंच्]/ ब्रह्महत्यापनोदाय मितभुज्ञियतेन्द्रियः ॥ Bछ्.Sछ्॥

ं११।७६अ[७५ंअ]/ सर्वस्वं वेदविदुषे ब्राह्मणायोपपादयेत् ।
ं११।७६च्[७५ंच्]/ धनं हि जीवनायालं गृहं वा सपरिच्छदम् ॥ Bछ्.Sछ्॥

ं११।७७अ[७६ंअ]/ हविष्यभुग् वाऽनुसरेत् प्रतिस्रोतः सरस्वतीम् ।
ं११।७७च्[७६ंच्]/ जपेद् वा नियताहारस्त्रिर्वै वेदस्य संहिताम् ॥ Bछ्.Sछ्॥

ं११।७८अ[७७ंअ]/ कृतवापनो निवसेद् ग्रामान्ते गोव्रजेऽपि वा ।
ं११।७८च्[७७ंच्]/ आश्रमे वृक्षमूले वा गोब्राह्मणहिते रतः ॥ Bछ्.Sछ्॥

ं११।७९अ[७८ंअ]/ ब्राह्मणार्थे गवार्थे वा सद्यः प्राणान् परित्यजेत् । %[ं।संयक् प्राणान्]
ं११।७९च्[७८ंच्]/ मुच्यते ब्रह्महत्याया गोप्ता गोर्ब्राह्मणस्य च ॥ Bछ्.Sछ्॥

ं११।८०अ[७९ंअ]/ त्रिवारं प्रतिरोद्धा वा सर्वस्वमवजित्य वा । %[ं।त्र्यवरं]
ं११।८०च्[७९ंच्]/ विप्रस्य तन्निमित्ते वा प्राणालाभे विमुच्यते ॥ Bछ्.Sछ्॥ %[ं।प्राणालाभेऽपि मुच्यते ]
ं११।८१अ[८०ंअ]/ एवं दृढव्रतो नित्यं ब्रह्मचारी समाहितः ।
ं११।८१च्[८०ंच्]/ समाप्ते द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ Bछ्.Sछ्॥

ं११।८२अ[८१ंअ]/ शिष्ट्वा वा भूमिदेवानां नरदेवसमागमे ।
ं११।८२च्[८१ंच्]/ स्वमेनोऽवभृथस्नातो हयमेधे विमुच्यते ॥ Bछ्.Sछ्॥

ं११।८३अ[८२ंअ]/ धर्मस्य ब्राह्मणो मूलमग्रं राजन्य उच्यते ।
ं११।८३च्[८२ंच्]/ तस्मात् समागमे तेषामेनो विख्याप्य शुध्यति ॥ Bछ्.Sछ्॥

ं११।८४अ[८३ंअ]/ ब्रह्मणः संभवेनैव देवानामपि दैवतम् ।
ं११।८४च्[८३ंच्]/ प्रमाणं चैव लोकस्य ब्रह्मात्रैव हि कारणम् ॥ Bछ्.Sछ्॥

ं११।८५अ[८४ंअ]/ तेषां वेदविदो ब्रूयुस्त्रयोऽप्येनः सुनिष्कृतिम् ।
ं११।८५च्[८४ंच्]/ सा तेषां पावनाय स्यात् पवित्रा विदुषां हि वाक् ॥ Bछ्.Sछ्॥ %[ं।पवित्रं ]
ं११।८६अ[८५ंअ]/ अतोऽन्यतममास्थाय विधिं विप्रः समाहितः ।
ं११।८६च्[८५ंच्]/ ब्रह्महत्याकृतं पापं व्यपोहत्यात्मवत्तया ॥ Bछ्.Sछ्॥

ं११।८७अ[८६ंअ]/ हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ।
ं११।८७च्[८६ंच्]/ राजन्यवैश्यौ चैजानावात्रेयीमेव च स्त्रियम् ॥ Bछ्.Sछ्॥

ं११।८८अ[८७ंअ]/ उक्त्वा चैवानृतं साक्ष्ये प्रतिरुध्य गुरुं तथा । %[ं।प्रतिरभ्य ]
ं११।८८च्[८७ंच्]/ अपहृत्य च निःक्षेपं कृत्वा च स्त्रीसुहृत्वधम् ॥ Bछ्.Sछ्॥ %[ंंइक्षेपं ]
ं११।८९अ[८८ंअ]/ इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् ।
ं११।८९च्[८८ंच्]/ कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥ Bछ्.Sछ्॥

ं११।९०अ[८९ंअ]/ सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् ।
ं११।९०च्[८९ंच्]/ तया स काये निर्दग्धे मुच्यते किल्बिषात् ततः ॥ Bछ्.Sछ्॥

ं११।९१अ[९०ंअ]/ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा ।
ं११।९१च्[९०ंच्]/ पयो घृतं वाऽ मरणाद् गोशकृद्रसमेव वा ॥ Bछ्.Sछ्॥

ं११।९२अ[९१ंअ]/ कणान् वा भक्षयेदब्दं पिण्याकं वा सकृत्निशि ।
ं११।९२च्[९१ंच्]/ सुरापानापनुत्त्यर्थं वालवासा जटी ध्वजी ॥ Bछ्.Sछ्॥

ं११।९३अ[९२ंअ]/ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते ।
ं११।९३च्[९२ंच्]/ तस्माद् ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ Bछ्.Sछ्॥

ं११।९४अ[९३ंअ]/ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा ।
ं११।९४च्[९३ंच्]/ यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ Bछ्.Sछ्॥

ं११।९५अ[९४ंअ]/ यक्षरक्षः।पिशाचान्नं मद्यं मांसं सुरासवम् ।
ं११।९५च्[९४ंच्]/ तद् ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ Bछ्.Sछ्॥

ं११।९६अ[९५ंअ]/ अमेध्ये वा पतेन् मत्तो वैदिकं वाऽप्युदाहरेत् ।
ं११।९६च्[९५ंच्]/ अकार्यमन्यत् कुर्याद् वा ब्राह्मणो मदमोहितः ॥ Bछ्.Sछ्॥

ं११।९७अ[९६ंअ]/ यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् ।
ं११।९७च्[९६ंच्]/ तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च स गच्छति ॥ Bछ्.Sछ्॥

ं११।९८अ[९७ंअ]/ एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ।
ं११।९८च्[९७ंच्]/ अत ऊर्ध्वं प्रवक्ष्यामि सुवर्णस्तेयनिष्कृतिम् ॥ Bछ्.Sछ्॥

ं११।९९अ[९८ंअ]/ सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु ।
ं११।९९च्[९८ंच्]/ स्वकर्म ख्यापयन् ब्रूयात्मां भवाननुशास्त्विति ॥ Bछ्.Sछ्॥

ं११।१००अ[९९ंअ]/ गृहीत्वा मुसलं राजा सकृद्द् हन्यात् तु तं स्वयम् ।
ं११।१००च्[९९ंच्]/ वधेन शुध्यति स्तेनो ब्राह्मणस्तपसैव तु ॥ Bछ्.Sछ्॥

ं११।१०१अ[१००ंअ]/ तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् ।
ं११।१०१च्[१००ंच्]/ चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महनो व्रतम् ॥ Bछ्.Sछ्॥

ं११।१०२अ[१०१ंअ]/ एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।
ं११।१०२च्[१०१ंच्]/ गुरुस्त्रीगमनीयं तु व्रतैरेभिरपानुदेत् ॥ Bछ्.Sछ्॥

ं११।१०३अ[१०२ंअ]/ गुरुतल्प्यभिभाष्यैनस्तप्ते स्वप्यादयोमये । %[ं।तल्पे स्वप्याद् ]
ं११।१०३च्[१०२ंच्]/ सूर्मीं ज्वलन्तीं स्वाश्लिष्येन् मृत्युना स विशुध्यति ॥ Bछ्.Sछ्॥ %[ं।वाऽश्लिष्येन् ]
ं११।१०४अ[१०३ंअ]/ स्वयं वा शिष्णवृषणावुत्कृत्याधाय चाञ्जलौ ।
ं११।१०४च्[१०३ंच्]/ नैर्ऋतीं दिशमातिष्ठेदा निपातादजिह्मगः ॥ Bछ्.Sछ्॥

ं११।१०५अ[१०४ंअ]/ खट्वाङ्गी चीरवासा वा श्मश्रुलो विजने वने ।
ं११।१०५च्[१०४ंच्]/ प्राजापत्यं चरेत् कृच्छ्रमब्दमेकं समाहितः ॥ Bछ्.Sछ्॥

ं११।१०६अ[१०५ंअ]/ चान्द्रायणं वा त्रीन् मासानभ्यस्येन्नियतैन्द्रियः ।
ं११।१०६च्[१०५ंच्]/ हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ Bछ्.Sछ्॥

ं११।१०७अ[१०६ंअ]/ एतैर्व्रतैरपोहेयुर्महापातकिनो मलम् ।
ं११।१०७च्[१०६ंच्]/ उपपातकिनस्त्वेवमेभिर्नानाविधैर्व्रतैः ॥ Bछ्.Sछ्॥

ं११।१०८अ[१०७ंअ]/ उपपातकसंयुक्तो गोघ्नो मासं यवान् पिबेत् ।
ं११।१०८च्[१०७ंच्]/ कृतवापो वसेद् गोष्ठे चर्मणा तेन संवृतः ॥ Bछ्.Sछ्॥

ं११।१०९अ[१०८ंअ]/ चतुर्थकालमश्नीयादक्षारलवणं मितम् ।
ं११।१०९च्[१०८ंच्]/ गोमूत्रेणाचरेत् स्नानं द्वौ मासौ नियतेन्द्रियः ॥ Bछ्.Sछ्॥

ं११।११०अ[१०९ंअ]/ दिवाऽनुगच्छेद् गास्तास्तु तिष्ठन्नूर्ध्वं रजः पिबेत् ।
ं११।११०च्[१०९ंच्]/ शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ Bछ्.Sछ्॥ %[ं।वीरासनो]
ं११।१११अ[११०ंअ]/ तिष्ठन्तीष्वनुतिष्ठेत् तु व्रजन्तीष्वप्यनुव्रजेत् ।
ं११।१११च्[११०ंच्]/ आसीनासु तथाऽसीनो नियतो वीतमत्सरः ॥ Bछ्.Sछ्॥

ं११।११२अ[१११ंअ]/ आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः ।
ं११।११२च्[१११ंच्]/ पतितां पङ्कलग्नां वा सर्वौपायैर् विमोचयेत् ॥ Bछ्.Sछ्॥ %[क्:सर्वप्राणैर्]
ं११।११३अ[११२ंअ]/ उष्णे वर्षति शीते वा मारुते वाति वा भृशम् ।
ं११।११३च्[११२ंच्]/ न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः ॥ Bछ्.Sछ्॥

ं११।११४अ[११३ंअ]/ आत्मनो यदि वाऽन्येषां गृहे क्षेत्रेऽथ वा खले ।
ं११।११४च्[११३ंच्]/ भक्षयन्तीं न कथयेत् पिबन्तं चैव वत्सकम् ॥ Bछ्.Sछ्॥

ं११।११५अ[११४ंअ]/ अनेन विधिना यस्तु गोघ्नो गामनुगच्छति ।
ं११।११५च्[११४ंच्]/ स गोहत्याकृतं पापं त्रिभिर्मासैर्व्यपोहति ॥ Bछ्.Sछ्॥

ं११।११६अ[११५ंअ]/ वृषभैकादशा गाश्च दद्यात् सुचरितव्रतः ।
ं११।११६च्[११५ंच्]/ अविद्यमाने सर्वस्वं वेदविद्भ्यो निवेदयेत् ॥ Bछ्.Sछ्॥

ं११।११७अ[११६ंअ]/ एतदेव व्रतं कुर्युरुपपातकिनो द्विजाः ।
ं११।११७च्[११६ंच्]/ अवकीर्णिवर्ज्यं शुद्ध्यर्थं चान्द्रायणमथापि वा ॥ Bछ्.Sछ्॥ %[ंऽवकीर्णिवर्जं ]
ं११।११८अ[११७ंअ]/ अवकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
ं११।११८च्[११७ंच्]/ पाकयज्ञविधानेन यजेत निर्ऋतिं निशि ॥ Bछ्.Sछ्॥

ं११।११९अ[११८ंअ]/ हुत्वाऽग्नौ विधिवद् होमानन्ततश्च समित्यृचा ।
ं११।११९च्[११८ंच्]/ वातेन्द्रगुरुवह्नीनां जुहुयात् सर्पिषाऽहुतीः ॥ Bछ्.Sछ्॥

ं११।१२०अ[११९ंअ]/ कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः ।
ं११।१२०च्[११९ंच्]/ अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ Bछ्.Sछ्॥

ं११।१२१अ[१२०ंअ]/ मारुतं पुरुहूतं च गुरुं पावकमेव च ।
ं११।१२१च्[१२०ंच्]/ चतुरो व्रतिनोऽभ्येति ब्राह्मं तेजोऽवकीर्णिनः ॥ Bछ्.Sछ्॥

ं११।१२२अ[१२१ंअ]/ एतस्मिन्नेनसि प्राप्ते वसित्वा गर्दभाजिनम् ।
ं११।१२२च्[१२१ंच्]/ सप्तागारांश्चरेद् भैक्षं स्वकर्म परिकीर्तयन् ॥ Bछ्.Sछ्॥

ं११।१२३अ[१२२ंअ]/ तेभ्यो लब्धेन भैक्षेण वर्तयन्नेककालिकम् ।
ं११।१२३च्[१२२ंच्]/ उपस्पृशंस्त्रिषवणं त्वब्देन स विशुध्यति ॥ Bछ्.Sछ्॥ %[ं।त्रिषवणं अब्देन ]
ं११।१२४अ[१२३ंअ]/ जातिभ्रंशकरं कर्म कृत्वाऽन्यतममिच्छया ।
ं११।१२४च्[१२३ंच्]/ चरेत् सांतपनं कृच्छ्रं प्राजापत्यमनिच्छया ॥ Bछ्.Sछ्॥

ं११।१२५अ[१२४ंअ]/ सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् । %[ंऽइन्दवः]
ं११।१२५च्[१२४ंच्]/ मलिनीकरणीयेषु तप्तः स्याद् यावकैस्त्र्यहम् ॥ Bछ्.Sछ्॥

ं११।१२६अ[१२५ंअ]/ तुरीयो ब्रह्महत्यायाः क्षत्रियस्य वधे स्मृतः ।
ं११।१२६च्[१२५ंच्]/ वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥ Bछ्.Sछ्॥

ं११।१२७अ[१२६ंअ]/ अकामतस्तु राजन्यं विनिपात्य द्विजोत्तमः ।
ं११।१२७च्[१२६ंच्]/ वृषभैकसहस्रा गा दद्यात् सुचरितव्रतः ॥ Bछ्.Sछ्॥

ं११।१२८अ[१२७ंअ]/ त्र्यब्दं चरेद् वा नियतो जटी ब्रह्महनो व्रतम् ।
ं११।१२८च्[१२७ंच्]/ वसन् दूरतरे ग्रामाद् वृक्षमूलनिकेतनः ॥ Bछ्.Sछ्॥

ं११।१२९अ[१२८ंअ]/ एतदेव चरेदब्दं प्रायश्चित्तं द्विजोत्तमः ।
ं११।१२९च्[१२८ंच्]/ प्रमाप्य वैश्यं वृत्तस्थं दद्याच्चैकशतं गवाम् ॥ Bछ्.Sछ्॥ %[ं।दद्याद् वैकशतं गवाम्]
ं११।१३०अ[१२९ंअ]/ एतदेव व्रतं कृत्स्नं षण्मासांशूद्रहा चरेत् )।
ं११।१३०च्[१२९ंच्]/ वृषभेकादशा वाऽपि दद्याद् विप्राय गाः सिताः ॥ Bछ्.Sछ्॥

ं११।१३१अ[१३०ंअ]/ मार्जारनकुलौ हत्वा चाषं मण्डूकमेव च ।
ं११।१३१च्[१३०ंच्]/ श्वगोधौलूककाकांश्च शूद्रहत्याव्रतं चरेत् ॥ Bछ्.Sछ्॥

ं११।१३२अ[१३१ंअ]/ पयः पिबेत् त्रिरात्रं वा योजनं वाऽध्वनो व्रजेत् ।
ं११।१३२च्[१३१ंच्]/ उपस्पृशेत् स्रवन्त्यां वा सूक्तं वाऽब्।दैवतं जपेत् ॥ Bछ्.Sछ्॥

ं११।१३३अ[१३२ंअ]/ अभ्रिं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।
ं११।१३३च्[१३२ंच्]/ पलालभारकं षण्ढे सैसकं चैकमाषकम् ॥ Bछ्.Sछ्॥

ं११।१३४अ[१३३ंअ]/ घृतकुम्भं वराहे तु तिलद्रोणं तु तित्तिरौ ।
ं११।१३४च्[१३३ंच्]/ शुके द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ Bछ्.Sछ्॥

ं११।१३५अ[१३४ंअ]/ हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।
ं११।१३५च्[१३४ंच्]/ वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ Bछ्.Sछ्॥

ं११।१३६अ[१३५ंअ]/ वासो दद्याद् हयं हत्वा पञ्च नीलान् वृषान् गजम् ।
ं११।१३६च्[१३५ंच्]/ अजमेषावनड्वाहं खरं हत्वैकहायनम् ॥ Bछ्.Sछ्॥

ं११।१३७अ[१३६ंअ]/ क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।
ं११।१३७च्[१३६ंच्]/ अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ Bछ्.Sछ्॥

ं११।१३८अ[१३७ंअ]/ जीनकार्मुकबस्तावीन् पृथग् दद्याद् विशुद्धये ।
ं११।१३८च्[१३७ंच्]/ चतुर्णामपि वर्णानां नारीर्हत्वाऽनवस्थिताः ॥ Bछ्.Sछ्॥

ं११।१३९अ[१३८ंअ]/ दानेन वधनिर्णेकं सर्पादीनामशक्नुवन् ।
ं११।१३९च्[१३८ंच्]/ एकैकशश्चरेत् कृच्छ्रं द्विजः पापापनुत्तये ॥ Bछ्.Sछ्॥

ं११।१४०अ[१३९ंअ]/ अस्थिमतां तु सत्त्वानां सहस्रस्य प्रमापणे ।
ं११।१४०च्[१३९ंच्]/ पूर्णे चानस्यनस्थ्नां तु शूद्रहत्याव्रतं चरेत् ॥ Bछ्.Sछ्॥

ं११।१४१अ[१४०ंअ]/ किं चिदेव तु विप्राय दद्यादस्थिमतां वधे ।
ं११।१४१च्[१४०ंच्]/ अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ Bछ्.Sछ्॥

ं११।१४२अ[१४१ंअ]/ फलदानां तु वृक्षाणां छेदने जप्यमृच्शतम् ।
ं११।१४२च्[१४१ंच्]/ गुल्मवल्लीलतानां च पुष्पितानां च वीरुधाम् ॥ Bछ्.Sछ्॥

ं११।१४३अ[१४२ंअ]/ अन्नाद्यजानां सत्त्वानां रसजानां च सर्वशः ।
ं११।१४३च्[१४२ंच्]/ फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ Bछ्.Sछ्॥

ं११।१४४अ[१४३ंअ]/ कृष्तजानामोषधीनां जातानां च स्वयं वने ।
ं११।१४४च्[१४३ंच्]/ वृथालम्भेऽनुगच्छेद् गां दिनमेकं पयोव्रतः ॥ Bछ्.Sछ्॥

ं११।१४५अ[१४४ंअ]/ एतैर्व्रतैरपोह्यं स्यादेनो हिंसासमुद्भवम् ।
ं११।१४५च्[१४४ंच्]/ ज्ञानाज्ञानकृतं कृत्स्नं शृणुतानाद्यभक्षणे ॥ Bछ्.Sछ्॥

ं११।१४६अ[१४५ंअ]/ अज्ञानाद् वारुणीं पीत्वा संस्कारेणैव शुध्यति ।
ं११।१४६च्[१४५ंच्]/ मतिपूर्वमनिर्देश्यं प्राणान्तिकमिति स्थितिः ॥ Bछ्.Sछ्॥

ं११।१४७अ[१४६ंअ]/ अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा ।
ं११।१४७च्[१४६ंच्]/ पञ्चरात्रं पिबेत् पीत्वा शङ्खपुष्पीशृतं पयः ॥ Bछ्.Sछ्॥

ं११।१४८अ[१४७ंअ]/ स्पृष्ट्वा दत्त्वा च मदिरां विधिवत् प्रतिगृह्य च ।
ं११।१४८च्[१४७ंच्]/ शूद्रोच्छिष्टाश्च पीत्वाऽपः कुशवारि पिबेत् त्र्यहम् ॥ Bछ्.Sछ्॥

ं११।१४९अ[१४८ंअ]/ ब्राह्मणस्तु सुरापस्य गन्धमाघ्राय सोमपः ।
ं११।१४९च्[१४८ंच्]/ प्राणानप्सु त्रिरायम्य घृतं प्राश्य विशुध्यति ॥ Bछ्.Sछ्॥

ं११।१५०अ[१४९ंअ]/ अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।
ं११।१५०च्[१४९ंच्]/ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ Bछ्.Sछ्॥

ं११।१५१अ[१५०ंअ]/ वपनं मेखला दण्डो भैक्षचर्या व्रतानि च । %[ं।भैक्ष्यचर्या ]
ं११।१५१च्[१५०ंच्]/ निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि ॥ Bछ्.Sछ्॥

ं११।१५२अ[१५१ंअ]/ अभोज्यानां तु भुक्त्वाऽन्नं स्त्रीशूद्रोच्छिष्टमेव च ।
ं११।१५२[१५१ंच्]/ जग्ध्वा मांसमभक्ष्यं च सप्तरात्रं यवान् पिबेत् ॥ Bछ्.Sछ्॥

ं११।१५३अ[१५२ंअ]/ शुक्तानि च कषायांश्च पीत्वा मेध्यान्यपि द्विजः ।
ं११।१५३च्[१५२ंच्]/ तावद् भवत्यप्रयतो यावत् तन्न व्रजत्यधः ॥ Bछ्.Sछ्॥

ं११।१५४अ[१५३ंअ]/ विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।
ं११।१५४च्[१५३ंच्]/ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ Bछ्.Sछ्॥

ं११।१५५अ[१५४ंअ]/ शुष्काणि भुक्त्वा मांसानि भौमानि कवकानि च ।
ं११।१५५च्[१५४ंच्]/ अज्ञातं चैव सूनास्थमेतदेव व्रतं चरेत् ॥ Bछ्.Sछ्॥

ं११।१५६अ[१५५ंअ]/ क्रव्यादसूकरोष्ट्राणां कुक्कुटानां च भक्षणे ।
ं११।१५६च्[१५५ंच्]/ नरकाकखराणां च तप्तकृच्छ्रं विशोधनम् ॥ Bछ्.Sछ्॥

ं११।१५७अ[१५६ंअ]/ मासिकान्नं तु योऽश्नीयादसमावर्तको द्विजः ।
ं११।१५७च्[१५६ंच्]/ स त्रीण्यहान्युपवसेदेकाहं चोदके वसेत् ॥ Bछ्.Sछ्॥

ं११।१५८अ[१५७ंअ]/ ब्रह्मचारी तु योऽश्नीयान् मधु मांसं कथं चन । %[ं।व्रतचारी तु ]
ं११।१५८च्[१५७ंच्]/ स कृत्वा प्राकृतं कृच्छ्रं व्रतशेषं समापयेत् ॥ Bछ्.Sछ्॥

ं११।१५९अ[१५८ंअ]/ बिडालकाकाखूच्छिष्टं जग्ध्वा श्वनकुलस्य च ।
ं११।१५९च्[१५८ंच्]/ केशकीटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥ Bछ्.Sछ्॥

ं११।१६०अ[१५९ंअ]/ अभोज्यमन्नं नात्तव्यमात्मनः शुद्धिमिच्छता ।
ं११।१६०च्[१५९ंच्]/ अज्ञानभुक्तं तूत्तार्यं शोध्यं वाऽप्याशु शोधनैः ॥ Bछ्.Sछ्॥

ं११।१६१अ[१६०ंअ]/ एषोऽनाद्यादनस्योक्तो व्रतानां विविधो विधिः ।
ं११।१६१च्[१६०ंच्]/ स्तेयदोषापहर्तॄणां व्रतानां श्रूयतां विधिः ॥ Bछ्.Sछ्॥

ं११।१६२अ[१६१ंअ]/ धान्यान्नधनचौर्याणि कृत्वा कामाद् द्विजोत्तमः ।
ं११।१६२च्[१६१ंच्]/ स्वजातीयगृहादेव कृच्छ्राब्देन विशुध्यति ॥ Bछ्.Sछ्॥

ं११।१६३अ[१६२ंअ]/ मनुष्याणां तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।
ं११।१६३च्[१६२ंच्]/ कूपवापीजलानां च शुद्धिश्चान्द्रायणं स्मृतम् ॥ Bछ्.Sछ्॥

ं११।१६४अ[१६३ंअ]/ द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मतः । %[ं।कृत्वाऽन्यवेश्मनि]
ं११।१६४च्[१६३ंच्]/ चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ Bछ्.Sछ्॥

ं११।१६५अ[१६४ंअ]/ भक्ष्यभोज्यापहरणे यानशय्याऽऽसनस्य च ।
ं११।१६५च्[१६४ंच्]/ पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ Bछ्.Sछ्॥

ं११।१६६अ[१६५ंअ]/ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।
ं११।१६६च्[१६५ंच्]/ चेलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ Bछ्.Sछ्॥ %[ंॅहैलचर्मामिक्षाणां ]
ं११।१६७अ[१६६ंअ]/ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।
ं११।१६७च्[१६६ंच्]/ अयः।कांस्यौपलानां च द्वादशाहं कणान्नता ॥ Bछ्.Sछ्॥

ं११।१६८अ[१६७ंअ]/ कार्पासकीटजोर्णानां द्विशफेकशफस्य च । %[ं।द्वेशफेकखुरस्य च]
ं११।१६८च्[१६७ंच्]/ पक्षिगन्धौषधीनां च रज्ज्वाश्चैव त्र्यहं पयः ॥ Bछ्.Sछ्॥

ं११।१६९अ[१६८ंअ]/ एतैर्व्रतैरपोहेत पापं स्तेयकृतं द्विजः ।
ं११।१६९च्[१६८ंच्]/ अगम्यागमनीयं तु व्रतैरेभिरपानुदेत् ॥ Bछ्.Sछ्॥

ं११।१७०अ[१६९ंअ]/ गुरुतल्पव्रतं कुर्याद् रेतः सिक्त्वा स्वयोनिषु ।
ं११।१७०च्[१६९ंच्]/ सख्युः पुत्रस्य च स्त्रीषु कुमारीष्वन्त्यजासु च ॥ Bछ्.Sछ्॥

ं११।१७१अ[१७०ंअ]/ पैतृस्वसेयीं भगिनीं स्वस्रीयां मातुरेव च ।
ं११।१७१च्[१७०ंच्]/ मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत् ॥ Bछ्.Sछ्॥ %[भ्रातुराप्तस्य गत्वा)]
ं११।१७२अ[१७१ंअ]/ एतास्तिस्रस्तु भार्यार्थे नोपयच्छेत् तु बुद्धिमान् ।
ं११।१७२च्[१७१ंच्]/ ज्ञातित्वेनानुपेयास्ताः पतति ह्युपयन्नधः ॥ Bछ्.Sछ्॥

ं११।१७३अ[१७२ंअ]/ अमानुषीषू पुरुष उदक्यायामयोनिषु ।
ं११।१७३च्[१७२ंच्]/ रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ Bछ्.Sछ्॥

ं११।१७४अ[१७३ंअ]/ मैथुनं तु समासेव्य पुंसि योषिति वा द्विजः ।
ं११।१७४च्[१७३ंच्]/ गोयानेऽप्सु दिवा चैव सवासाः स्नानमाचरेत् ॥ Bछ्.Sछ्॥

ं११।१७५अ[१७४ंअ]/ चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च ।
ं११।१७५च्[१७४ंच्]/ पतत्यज्ञानतो विप्रो ज्ञानात् साम्यं तु गच्छति ॥ Bछ्.Sछ्॥

ं११।१७६अ[१७५ंअ]/ विप्रदुष्टां स्त्रियं भर्ता निरुन्ध्यादेकवेश्मनि ।
ं११।१७६च्[१७५ंच्]/ यत् पुंसः परदारेषु तच्चैनां चारयेद् व्रतम् ॥ Bछ्.Sछ्॥

ं११।१७७अ[१७६ंअ]/ सा चेत् पुनः प्रदुष्येत् तु सदृशेनोपमन्त्रिता । %[क्:सदृशेनोपयन्त्रिता?]
ं११।१७७च्[१७६ंच्]/ कृच्छ्रं चान्द्रायणं चैव तदस्याः पावनं स्मृतम् ॥ Bछ्.Sछ्॥

ं११।१७८अ[१७७ंअ]/ यत् करोत्येकरात्रेण वृषलीसेवनाद् द्विजः ।
ं११।१७८च्[१७७ंच्]/ तद् भैक्षभुज्जपन्नित्यं त्रिभिर्वर्षैर्व्यपोहति ॥ Bछ्.Sछ्॥

ं११।१७९अ[१७८ंअ]/ एषा पापकृतामुक्ता चतुर्णामपि निष्कृतिः ।
ं११।१७९च्[१७८ंच्]/ पतितैः सम्प्रयुक्तानामिमाः शृणुत निष्कृतीः ॥ Bछ्.Sछ्॥

ं११।१८०अ[१७९ंअ]/ संवत्सरेण पतति पतितेन सहाचरन् ।
ं११।१८०च्[१७९ंच्]/ याजनाध्यापनाद् यौनान्न तु यानासनाशनात् ॥ Bछ्.Sछ्॥

ं११।१८१अ[१८०ंअ]/ यो येन पतितेनैषां संसर्गं याति मानवः ।
ं११।१८१च्[१८०ंच्]/ स तस्यैव व्रतं कुर्यात् तत्संसर्गविशुद्धये ॥ Bछ्.Sछ्॥

ं११।१८२अ[१८१ंअ]/ पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः ।
ं११।१८२च्[१८१ंच्]/ निन्दितेऽहनि सायाह्ने ज्ञातिर्त्विग्गुरुसंनिधौ ॥ Bछ्.Sछ्॥

ं११।१८३अ[१८२ंअ]/ दासी घटमपां पूर्णं पर्यस्येत् प्रेतवत् पदा ।
ं११।१८३च्[१८२ंच्]/ अहोरात्रमुपासीरन्नशौचं बान्धवैः सह ॥ Bछ्.Sछ्॥

ं११।१८४अ[१८३ंअ]/ निवर्तेरंश्च तस्मात् तु संभाषणसहासने ।
ं११।१८४च्[१८३ंच्]/ दायाद्यस्य प्रदानं च यात्रा चैव हि लौकिकी ॥ Bछ्.Sछ्॥

ं११।१८५अ[१८४ंअ]/ ज्येष्ठता च निवर्तेत ज्येष्ठावाप्यं च यद् धनम् । %[ं।यद् वसु ]
ं११।१८५च्[१८४ंच्]/ ज्येष्ठांशं प्राप्नुयाच्चास्य यवीयान् गुणतोऽधिकः ॥ Bछ्.Sछ्॥

ं११।१८६अ[१८५ंअ]/ प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम् ।
ं११।१८६च्[१८५ंच्]/ तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥ Bछ्.Sछ्॥

ं११।१८७अ[१८६ंअ]/ स त्वप्सु तं घटं प्रास्य प्रविश्य भवनं स्वकम् ।
ं११।१८७च्[१८६ंच्]/ सर्वाणि ज्ञातिकार्याणि यथापूर्वं समाचरेत् ॥ Bछ्.Sछ्॥

ं११।१८८अ[१८७ंअ]/ एतदेव विधिं कुर्याद् योषित्सु पतितास्वपि । %[ंएतमेव विधिं]
ं११।१८८च्[१८७ंच्]/ वस्त्रान्नपानं देयं तु वसेयुश्च गृहान्तिके ॥ Bछ्.Sछ्॥

ं११।१८९अ[१८८ंअ]/ एनस्विभिरनिर्णिक्तैर्नार्थं किं चित् सहाचरेत् ।
ं११।१८९च्[१८८ंच्]/ कृतनिर्णेजनांश्चैव न जुगुप्सेत कर्हि चित् ॥ Bछ्.Sछ्॥ %[ं।कृतनिर्णेजनांश्चैतान् ]
ं११।१९०अ[१८९ंअ]/ बालघ्नांश्च कृतघ्नांश्च विशुद्धानपि धर्मतः ।
ं११।१९०च्[१८९ंच्]/ शरणागतहन्तॄंश्च स्त्रीहन्तॄंश्च न संवसेत् ॥ Bछ्.Sछ्॥

ं११।१९१अ[१९०ंअ]/ येषां द्विजानां सावित्री नानूच्येत यथाविधि ।
ं११।१९१च्[१९०ंच्]/ तांश्चारयित्वा त्रीन् कृच्छ्रान् यथाविध्योपनाययेत् ॥ Bछ्.Sछ्॥

ं११।१९२अ[१९१ंअ]/ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्थास्तु ये द्विजाः ।
ं११।१९२च्[१९१ंच्]/ ब्रह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ Bछ्.Sछ्॥

ं११।१९३अ[१९२ंअ]/ यद् गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् ।
ं११।१९३च्[१९२ंच्]/ तस्योत्सर्गेण शुध्यन्ति जप्येन तपसैव च ॥ Bछ्.Sछ्॥

ं११।१९४अ[१९३ंअ]/ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः ।
ं११।१९४च्[१९३ंच्]/ मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ Bछ्.Sछ्॥

ं११।१९५अ[१९४ंअ]/ उपवासकृशं तं तु गोव्रजात् पुनरागतम् ।
ं११।१९५च्[१९४ंच्]/ प्रणतं प्रति पृच्छेयुः साम्यं सौम्यैच्छसीति किम् ॥ Bछ्.Sछ्॥

ं११।१९६अ[१९५ंअ]/ सत्यमुक्त्वा तु विप्रेषु विकिरेद् यवसं गवाम् ।
ं११।१९६च्[१९५ंच्]/ गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ Bछ्.Sछ्॥

ं११।१९७अ[१९६ंअ]/ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।
ं११।१९७च्[१९६ंच्]/ अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ Bछ्.Sछ्॥

ं११।१९८अ[१९७ंअ]/ शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।
ं११।१९८च्[१९७ंच्]/ संवत्सरं यवाहारस्तत् पापमपसेधति ॥ Bछ्.Sछ्॥

ं११।१९९अ[१९८ंअ]/ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।
ं११।१९९च्[१९८ंच्]/ नराश्वोष्ट्रवराहैश्च प्राणायामेन शुध्यति ॥ Bछ्.Sछ्॥

ं११।२००अ[१९९ंअ]/ षष्ठान्नकालता मासं संहिताजप एव वा ।
ं११।२००च्[१९९ंच्]/ होमाश्च सकला नित्यमपाङ्क्त्यानां विशोधनम् ॥ Bछ्.Sछ्॥ %[ं। होमाश्च शाकला ]
ं११।२०१अ[२००ंअ]/ उष्ट्रयानं समारुह्य खरयानं तु कामतः ।
ं११।२०१च्[२००ंच्]/ स्नात्वा तु विप्रो दिग्वासाः प्राणायामेन शुध्यति ॥ Bछ्.Sछ्॥

ं११।२०२अ[२०१ंअ]/ विनाऽद्भिरप्सु वाऽप्यार्तः शारीरं संनिषेव्य च ।
ं११।२०२च्[२०१ंच्]/ सचैलो बहिराप्लुत्य गामालभ्य विशुध्यति ॥ Bछ्.Sछ्॥

ं११।२०३अ[२०२ंअ]/ वेदोदितानां नित्यानां कर्मणां समतिक्रमे ।
ं११।२०३च्[२०२ंच्]/ स्नातकव्रतलोपे च प्रायश्चित्तमभोजनम् ॥ Bछ्.Sछ्॥

ं११।२०४अ[२०३ंअ]/ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः ।
ं११।२०४च्[२०३ंच्]/ स्नात्वाऽनश्नन्नहः शेषमभिवाद्य प्रसादयेत् ॥ Bछ्.Sछ्॥

ं११।२०५अ[२०४ंअ]/ ताडयित्वा तृणेनापि कण्ठे वाऽबध्य वाससा ।
ं११।२०५च्[२०४ंच्]/ विवादे वा विनिर्जित्य प्रणिपत्य प्रसादयेत् ॥ Bछ्.Sछ्॥

ं११।२०६अ[२०५ंअ]/ अवगूर्य त्वब्दशतं सहस्रमभिहत्य च ।
ं११।२०६च्[२०५ंच्]/ जिघांसया ब्राह्मणस्य नरकं प्रतिपद्यते ॥ Bछ्.Sछ्॥

ं११।२०७अ[२०६ंअ]/ शोणितं यावतः पांसून् सङ्गृह्णाति महीतले ।
ं११।२०७च्[२०६ंच्]/ तावन्त्यब्दसहस्राणि तत्कर्ता नरके वसेत् ॥ Bछ्.Sछ्॥ %[ंंअरके व्रजेत् ]
ं११।२०८अ[२०७ंअ]/ अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।
ं११।२०८च्[२०७ंच्]/ कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ Bछ्.Sछ्॥

ं११।२०९अ[२०८ंअ]/ अनुक्तनिष्कृतीनां तु पापानामपनुत्तये ।
ं११।२०९च्[२०८ंच्]/ शक्तिं चावेक्ष्य पापं च प्रायश्चित्तं प्रकल्पयेत् ॥ Bछ्.Sछ्॥

ं११।२१०अ[२०९ंअ]/ यैरभ्युपायैरेनांसि मानवो व्यपकर्षति ।
ं११।२१०च्[२०९ंच्]/ तान् वोऽभ्युपायान् वक्ष्यामि देवर्षिपितृसेवितान् ॥ Bछ्.Sछ्॥

ं११।२११अ[२१०ंअ]/ त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् ।
ं११।२११च्[२१०ंच्]/ त्र्यहं परं च नाश्नीयात् प्राजापत्यं चरन् द्विजः ॥ Bछ्.Sछ्॥

ं११।२१२अ[२११ंअ]/ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
ं११।२१२च्[२११ंच्]/ एकरात्रोपवासश्च कृच्छ्रं सांतपनं स्मृतम् ॥ Bछ्.Sछ्॥

ं११।२१३अ[२१२ंअ]/ एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।
ं११।२१३च्[२१२ंच्]/ त्र्यहं चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः ॥ Bछ्.Sछ्॥

ं११।२१४अ[२१३ंअ]/ तप्तकृच्छ्रं चरन् विप्रो जलक्षीरघृतानिलान् ।
ं११।२१४च्[२१३ंच्]/ प्रतित्र्यहं पिबेदुष्णान् सकृत्स्नायी समाहितः ॥ Bछ्.Sछ्॥

ं११।२१५अ[२१४ंअ]/ यतात्मनोऽप्रमत्तस्य द्वादशाहमभोजनम् ।
ं११।२१५च्[२१४ंच्]/ पराको नाम कृच्छ्रोऽयं सर्वपापापनोदनः ॥ Bछ्.Sछ्॥

ं११।२१६अ[२१५ंअ]/ एकैकं ह्रासयेत् पिण्डं कृष्णे शुक्ले च वर्धयेत् ।
ं११।२१६च्[२१५ंच्]/ उपस्पृशंस्त्रिषवणमेतत्चाण्ड्रायणं स्मृतम् ॥ Bछ्.Sछ्॥

ं११।२१७अ[२१६ंअ]/ एतमेव विधिं कृत्स्नमाचरेद् यवमध्यमे ।
ं११।२१७च्[२१६ंच्]/ शुक्लपक्षादिनियतश्चरंश्चान्द्रायणं व्रतम् ॥ Bछ्.Sछ्॥

ं११।२१८अ[२१७ंअ]/ अष्टावष्टौ समश्नीयात् पिण्डान् मध्यंदिने स्थिते ।
ं११।२१८च्[२१७ंच्]/ नियतात्मा हविष्याशी यतिचान्द्रायणं चरन् ॥ Bछ्.Sछ्॥

ं११।२१९अ[२१८ंअ]/ चतुरः प्रातरश्नीयात् पिण्डान् विप्रः समाहितः ।
ं११।२१९च्[२१८ंच्]/ चतुरोऽस्तमिते सूर्ये शिशुचान्द्रायणं स्मृतम् ॥ Bछ्.Sछ्॥

ं११।२२०अ[२१९ंअ]/ यथा कथं चित् पिण्डानां तिस्रोऽशीतीः समाहितः ।
ं११।२२०च्[२१९ंच्]/ मासेनाश्नन् हविष्यस्य चन्द्रस्यैति सलोकताम् ॥ Bछ्.Sछ्॥

ं११।२२१अ[२२०ंअ]/ एतद् रुद्रास्तथाऽदित्या वसवश्चाचरन् व्रतम् ।
ं११।२२१च्[२२०ंच्]/ सर्वाकुशलमोक्षाय मरुतश्च महर्षिभिः ॥ Bछ्.Sछ्॥

ं११।२२२अ[२२१ंअ]/ महाव्याहृतिभिर्होमः कर्तव्यः स्वयमन्वहम् ।
ं११।२२२च्[२२१ंच्]/ अहिंसा सत्यमक्रोधमार्जवं च समाचरेत् ॥ Bछ्.Sछ्॥

ं११।२२३अ[२२२ंअ]/ त्रिरह्नस्त्रिर्निशायां च सवासा जलमाविशेत् ।
ं११।२२३च्[२२२ंच्]/ स्त्रीशूद्रपतितांश्चैव नाभिभाषेत कर्हि चित् ॥ Bछ्.Sछ्॥

ं११।२२४अ[२२३ंअ]/ स्थानासनाभ्यां विहरेदशक्तोऽधः शयीत वा ।
ं११।२२४च्[२२३ंच्]/ ब्रह्मचारी व्रती च स्याद् गुरुदेवद्विजार्चकः ॥ Bछ्.Sछ्॥

ं११।२२५अ[२२४ंअ]/ सावित्रीं च जपेन्नित्यं पवित्राणि च शक्तितः ।
ं११।२२५च्[२२४ंच्]/ सर्वेष्वेव व्रतेष्वेवं प्रायश्चित्तार्थमादृतः ॥ Bछ्.Sछ्॥

ं११।२२६अ[२२५ंअ]/ एतैर्द्विजातयः शोध्या व्रतैराविष्कृतेनसः ।
ं११।२२६च्[२२५ंच्]/ अनाविष्कृतपापांस्तु मन्त्रैर्होमैश्च शोधयेत् ॥ Bछ्.Sछ्॥

ं११।२२७अ[२२६ंअ]/ ख्यापनेनानुतापेन तपसाऽध्ययनेन च ।
ं११।२२७च्[२२६ंच्]/ पापकृत्मुच्यते पापात् तथा दानेन चापदि ॥ Bछ्.Sछ्॥

ं११।२२८अ[२२७ंअ]/ यथा यथा नरोऽधर्मं स्वयं कृत्वाऽनुभाषते ।
ं११।२२८च्[२२७ंच्]/ तथा तथा त्वचैवाहिस्तेनाधर्मेण मुच्यते ॥ Bछ्.Sछ्॥

ं११।२२९अ[२२८ंअ]/ यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हति ।
ं११।२२९च्[२२८ंच्]/ तथा तथा शरीरं तत् तेनाधर्मेण मुच्यते ॥ Bछ्.Sछ्॥

ं११।२३०अ[२२९ंअ]/ कृत्वा पापं हि संतप्य तस्मात् पापात् प्रमुच्यते ।
ं११।२३०च्[२२९ंच्]/ नैवं कुर्यां पुनरिति निवृत्त्या पूयते तु सः ॥ Bछ्.Sछ्॥

ं११।२३१अ[२३०ंअ]/ एवं सञ्चिन्त्य मनसा प्रेत्य कर्मफलोदयम् ।
ं११।२३१च्[२३०ंच्]/ मनोवाङ्मूर्तिभिर्नित्यं शुभं कर्म समाचरेत् ॥ Bछ्.Sछ्॥

ं११।२३२अ[२३१ंअ]/ अज्ञानाद् यदि वा ज्ञानात् कृत्वा कर्म विगर्हितम् ।
ं११।२३२च्[२३१ंच्]/ तस्माद् विमुक्तिमन्विच्छन् द्वितीयं न समाचरेत् ॥ Bछ्.Sछ्॥

ं११।२३३अ[२३२ंअ]/ यस्मिन् कर्मण्यस्य कृते मनसः स्यादलाघवम् ।
ं११।२३३च्[२३२ंच्]/ तस्मिंस्तावत् तपः कुर्याद् यावत् तुष्टिकरं भवेत् ॥ Bछ्.Sछ्॥

ं११।२३४अ[२३३ंअ]/ तपोमूलमिदं सर्वं दैवमानुषकं सुखम् ।
ं११।२३४च्[२३३ंच्]/ तपोमध्यं बुधैः प्रोक्तं तपोऽन्तं वेददर्शिभिः ॥ Bछ्.Sछ्॥

ं११।२३५अ[२३४ंअ]/ ब्राह्मणस्य तपो ज्ञानं तपः क्षत्रस्य रक्षणम् ।
ं११।२३५च्[२३४ंच्]/ वैश्यस्य तु तपो वार्ता तपः शूद्रस्य सेवनम् ॥ Bछ्.Sछ्॥

ं११।२३६अ[२३५ंअ]/ ऋषयः संयतात्मानः फलमूलानिलाशनाः ।
ं११।२३६च्[२३५ंच्]/ तपसैव प्रपश्यन्ति त्रैलोक्यं सचराचरम् ॥ Bछ्.Sछ्॥

ं११।२३७अ[२३६ंअ]/ औषधान्यगदो विद्या दैवी च विविधा स्थितिः ।
ं११।२३७च्[२३६ंच्]/ तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥ Bछ्.Sछ्॥

ं११।२३८अ[२३७ंअ]/ यद् दुस्तरं यद् दुरापं यद् दुर्गं यच्च दुष्करम् ।
ं११।२३८च्[२३७ंच्]/ सर्वं तु तपसा साध्यं तपो हि दुरतिक्रमम् ॥ Bछ्.Sछ्॥ %[ं।सर्वं तत् तपसा ]
ं११।२३९अ[२३८ंअ]/ महापातकिनश्चैव शेषाश्चाकार्यकारिणः ।
ं११।२३९च्[२३८ंच्]/ तपसैव सुतप्तेन मुच्यन्ते किल्बिषात् ततः ॥ Bछ्.Sछ्॥

ं११।२४०अ[२३९ंअ]/ कीटाश्चाहिपतङ्गाश्च पशवश्च वयांसि च ।
ं११।२४०च्[२३९ंच्]/ स्थावराणि च भूतानि दिवं यान्ति तपोबलात् ॥ Bछ्.Sछ्॥

ं११।२४१अ[२४०ंअ]/ यत् किं चिदेनः कुर्वन्ति मनोवाङ्मूर्तिभिर्जनाः । %[ंंअनोवाच्।कर्मभिर्]
ं११।२४१च्[२४०ंच्]/ तत् सर्वं निर्दहन्त्याशु तपसैव तपोधनाः ॥ Bछ्.Sछ्॥

ं११।२४२अ[२४१ंअ]/ तपसैव विशुद्धस्य ब्राह्मणस्य दिवौकसः ।
ं११।२४२च्[२४१ंच्]/ इज्याश्च प्रतिगृह्णन्ति कामान् संवर्धयन्ति च ॥ Bछ्.Sछ्॥

ं११।२४३अ[२४२ंअ]/ प्रजापतिरिदं शास्त्रं तपसैवासृजत् प्रभुः ।
ं११।२४३च्[२४२ंच्]/ तथैव वेदान् ऋषयस्तपसा प्रतिपेदिरे ॥ Bछ्.Sछ्॥

ं११।२४४अ[२४३ंअ]/ इत्येतत् तपसो देवा महाभाग्यं प्रचक्षते । %[ं।यदेतत् तपसो]
ं११।२४४च्[२४३ंच्]/ सर्वस्यास्य प्रपश्यन्तस्तपसः पुण्यमुत्तमम् ॥ Bछ्.Sछ्॥ %[ं।पुण्यमुद्भवं ]
ं११।२४५अ[२४४ंअ]/ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा ।
ं११।२४५च्[२४४ंच्]/ नाशयन्त्याशु पापानि महापातकजान्यपि ॥ Bछ्.Sछ्॥

ं११।२४६अ[२४५ंअ]/ यथैधस्तेजसा वह्निः प्राप्तं निर्दहति क्षणात् ।
ं११।२४६च्[२४५ंच्]/ तथा ज्ञानाग्निना पापं सर्वं दहति वेदवित् ॥ Bछ्.Sछ्॥

ं११।२४७अ[२४६ंअ]/ इत्येतदेनसामुक्तं प्रायश्चित्तं यथाविधि ।
ं११।२४७च्[२४६ंच्]/ अत ऊर्ध्वं रहस्यानां प्रायश्चित्तं निबोधत ॥ Bछ्.Sछ्॥

ं११।२४८अ[२४७ंअ]/ सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश ।
ं११।२४८च्[२४७ंच्]/ अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ॥ Bछ्.Sछ्॥

ं११।२४९अ[२४८ंअ]/ कौत्सं जप्त्वाऽप इत्येतद् वसिष्ठं च प्रतीत्य् ऋचम् ।
ं११।२४९च्[२४८ंच्]/ माहित्रं शुद्धवत्यश्च सुरापोऽपि विशुध्यति ॥ Bछ्.Sछ्॥

ं११।२५०अ[२४९ंअ]/ सकृत्जप्त्वाऽस्यवामीयं शिवसङ्कल्पमेव च ।
ं११।२५०च्[२४९ंच्]/ अपहृत्य सुवर्णं तु क्षणाद् भवति निर्मलः ॥ Bछ्.Sछ्॥

ं११।२५१अ[२५०ंअ]/ हविष्पान्तीयमभ्यस्य न तमं ह इतीति च ।
ं११।२५१च्[२५०ंच्]/ जपित्वा पौरुषं सूक्तं मुच्यते गुरुतल्पगः ।
ं११।२५२अ[२५१ंअ]/ एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् ।
ं११।२५२च्[२५१ंच्]/ अवेत्यर्चं जपेदब्दं यत् किं चेदमितीति वा ??॥ Bछ्.Sछ्॥

ं११।२५३अ[२५२ंअ]/ प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् ।
ं११।२५३च्[२५२ंच्]/ जपंस्तरत्समन्दीयं पूयते मानवस्त्र्यहात् ॥ Bछ्.Sछ्॥

ं११।२५४अ[२५३ंअ]/ सोमारौद्रं तु बह्वेनाः मासमभ्यस्य शुध्यति । %[ं।समामभ्यस्य)]
ं११।२५४च्[२५३ंच्]/ स्रवन्त्यामाचरन् स्नानमर्यम्णामिति च तृचम् ॥ Bछ्.Sछ्॥

ं११।२५५अ[२५४ंअ]/ अब्दार्धमिन्द्रमित्येतदेनस्वी सप्तकं जपेत् ।
ं११।२५५च्[२५४ंच्]/ अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्षभुक् ॥ Bछ्.Sछ्॥

ं११।२५६अ[२५५ंअ]/ मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः ।
ं११।२५६च्[२५५ंच्]/ सुगुर्वप्यपहन्त्येनो जप्त्वा वा नम इत्यृचम् ॥ Bछ्.Sछ्॥

ं११।२५७अ[२५६ंअ]/ महापातकसंयुक्तोऽनुगच्छेद् गाः समाहितः ।
ं११।२५७च्[२५६ंच्]/ अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुध्यति ॥ Bछ्.Sछ्॥

ं११।२५८अ[२५७ंअ]/ अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् ।
ं११।२५८च्[२५७ंच्]/ मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥ Bछ्.Sछ्॥

ं११।२५९अ[२५८ंअ]/ त्र्यहं तूपवसेद् युक्तस्त्रिरह्नोऽभ्युपयन्नपः ।
ं११।२५९च्[२५८ंच्]/ मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम् ॥ Bछ्.Sछ्॥

ं११।२६०अ[२५९ंअ]/ यथाऽश्वमेधः क्रतुराड् सर्वपापापनोदनः ।
ं११।२६०च्[२५९ंच्]/ तथाऽघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ Bछ्.Sछ्॥

ं११।२६१अ[२६०ंअ]/ हत्वा लोकानपीमांस्त्रीनश्नन्नपि यतस्ततः ।
ं११।२६१च्[२६०ंच्]/ ऋग्वेदं धारयन् विप्रो नैनः प्राप्नोति किं चन ॥ Bछ्.Sछ्॥

ं११।२६२अ[२६१ंअ]/ ऋक्संहितां त्रिरभ्यस्य यजुषां वा समाहितः ।
ं११।२६२च्[२६१ंच्]/ साम्नां वा सरहस्यानां सर्वपापैः प्रमुच्यते ॥ Bछ्.Sछ्॥

ं११।२६३अ[२६२ंअ]/ यथा महाह्रदं प्राप्य क्षिप्तं लोष्टं विनश्यति ।
ं११।२६३च्[२६२ंच्]/ तथा दुश्चरितं सर्वं वेदे त्रिवृति मज्जति ॥ Bछ्.Sछ्॥

ं११।२६४अ[२६३ंअ]/ ऋचो यजूंषि चान्यानि सामानि विविधानि च ।
ं११।२६४च्[२६३ंच्]/ एष ज्ञेयस्त्रिवृद्वेदो यो वेदैनं स वेदवित् ॥ Bछ्.Sछ्॥

ं११।२६५अ[२६४ंअ]/ आद्यं यत् त्र्यक्षरं ब्रह्म त्रयी यस्मिन् प्रतिष्ठिता ।
ं११।२६५च्[२६४ंच्]/ स गुह्योऽन्यस्त्रिवृद्वेदो यस्तं वेद स वेदवित् ॥ Bछ्.Sछ्॥

अध्याय १२   CHAPTER  12

ं१२।०१अ/ चातुर्वर्ण्यस्य कृत्स्नोऽयमुक्तो धर्मस्त्वयाऽनघः ।
ं१२।०१च्/ कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् ॥ Bछ्.Sछ्॥

ं१२।०२अ/ स तानुवाच धर्मात्मा महर्षीन् मानवो भृगुः ।
ं१२।०२च्/ अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् ॥ Bछ्.Sछ्॥

ं१२।०३अ/ शुभाशुभफलं कर्म मनोवाग्देहसंभवम् ।
ं१२।०३च्/ कर्मजा गतयो नॄणामुत्तमाधममध्यमः ॥ Bछ्.Sछ्॥

ं१२।०४अ/ तस्यैह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः ।
ं१२।०४च्/ दशलक्षणयुक्तस्य मनो विद्यात् प्रवर्तकम् ॥ Bछ्.Sछ्॥

ं१२।०५अ/ परद्रव्येष्वभिध्यानं मनसाऽनिष्टचिन्तनम् ।
ं१२।०५च्/ वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् ॥ Bछ्.Sछ्॥

ं१२।०६अ/ पारुष्यमनृतं चैव पैशुन्यं चापि सर्वशः ।
ं१२।०६च्/ असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ Bछ्.Sछ्॥

ं१२।०७अ/ अदत्तानामुपादानं हिंसा चैवाविधानतः ।
ं१२।०७च्/ परदारोपसेवा च शारीरं त्रिविधं स्मृतम् ॥ Bछ्.Sछ्॥

ं१२।०८अ/ मानसं मनसेवायमुपभुङ्क्ते शुभाशुभम् ।
ं१२।०८च्/ वाचा वाचा कृतं कर्म कायेनेव च कायिकम् ॥ Bछ्.Sछ्॥

ं१२।०९अ/ शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ।
ं१२।०९च्/ वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ Bछ्.Sछ्॥

ं१२।१०अ/ वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च ।
ं१२।१०च्/ यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते ॥

ं१२।११अ/ त्रिदण्डमेतन्निक्षिप्य सर्वभूतेषु मानवः ।
ं१२।११च्/ कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥ [ं।कामक्रोधौ सुसंयम्य ततः सिद्धिं निगच्छति]
ं१२।१२अ/ योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते ।
ं१२।१२च्/ यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः ॥

ं१२।१३अ/ जीवसंज्ञोऽन्तरात्माऽन्यः सहजः सर्वदेहिनाम् ।
ं१२।१३च्/ येन वेदयते सर्वं सुखं दुःखं च जन्मसु ॥ Bछ्.Sछ्॥

ं१२।१४अ/ तावुभौ भूतसम्पृक्तौ महान् क्षेत्रज्ञ एव च ।
ं१२।१४च्/ उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ॥ Bछ्.Sछ्॥

ं१२।१५अ/ असङ्ख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः ।
ं१२।१५च्/ उच्चावचानि भूतानि सततं चेष्टयन्ति याः ॥ Bछ्.Sछ्॥

ं१२।१६अ/ पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् । %[ं।पञ्चभ्य एव भूतेभ्यः ]
ं१२।१६च्/ शरीरं यातनार्थीयमन्यदुत्पद्यते ध्रुवम् ॥ Bछ्.Sछ्॥

ं१२।१७अ/ तेनानुभूय ता यामीः शरीरेणैह यातनाः ।
ं१२।१७च्/ तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ॥ Bछ्.Sछ्॥

ं१२।१८अ/ सोऽनुभूयासुखोदर्कान् दोषान् विषयसङ्गजान् ।
ं१२।१८च्/ व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ॥ Bछ्.Sछ्॥

ं१२।१९अ/ तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह ।
ं१२।१९च्/ याभ्यां प्राप्नोति सम्पृक्तः प्रेत्येह च सुखासुखम् ॥ Bछ्.Sछ्॥

ं१२।२०अ/ यद्याचरति धर्मं स प्रायशोऽधर्ममल्पशः । %[ं।यथाचरति)]
ं१२।२०च्/ तैरेव चावृतो भूतैः स्वर्गे सुखमुपाश्नुते ॥ Bछ्.Sछ्॥

ं१२।२१अ/ यदि तु प्रायशोऽधर्मं सेवते धर्ममल्पशः ।
ं१२।२१च्/ तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ॥ Bछ्.Sछ्॥

ं१२।२२अ/ यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः ।
ं१२।२२च्/ तान्येव पञ्च भूतानि पुनरप्येति भागशः ॥ Bछ्.Sछ्॥

ं१२।२३अ/ एता दृष्ट्वाऽस्य जीवस्य गतीः स्वेनैव चेतसा ।
ं१२।२३च्/ धर्मतोऽधर्मतश्चैव धर्मे दध्यात् सदा मनः ॥ Bछ्.Sछ्॥

ं१२।२४अ/ सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् ।
ं१२।२४च्/ यैर्व्याप्यैमान् स्थितो भावान् महान् सर्वानशेषतः ॥ Bछ्.Sछ्॥

ं१२।२५अ/ यो यदेषां गुणो देहे साकल्येनातिरिच्यते ।
ं१२।२५च्/ स तदा तद्गुणप्रायं तं करोति शरीरिणम् ॥ Bछ्.Sछ्॥

ं१२।२६अ/ सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् ।
ं१२।२६च्/ एतद् व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः ॥ Bछ्.Sछ्॥

ं१२।२७अ/ तत्र यत् प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् ।
ं१२।२७च्/ प्रशान्तमिव शुद्धाभं सत्त्वं तदुपधारयेत् ॥ Bछ्.Sछ्॥

ं१२।२८अ/ यत् तु दुःखसमायुक्तमप्रीतिकरमात्मनः ।
ं१२।२८च्/ तद् रजो प्रतीपं विद्यात् सततं हारि देहिनाम् ॥ Bछ्.Sछ्॥ %[ं। हर्तृ ]
ं१२।२९अ/ यत् तु स्यान् मोहसंयुक्तमव्यक्तं विषयात्मकम् ।
ं१२।२९च्/ अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत् ॥ Bछ्.Sछ्॥

ं१२।३०अ/ त्रयाणामपि चैतेषां गुणानां यः फलोदयः ।
ं१२।३०च्/ अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः ॥ Bछ्.Sछ्॥

ं१२।३१अ/ वेदाभ्यासस्तपो ज्ञानं शौचमिन्द्रियनिग्रहः ।
ं१२।३१च्/ धर्मक्रियाऽत्मचिन्ता च सात्त्विकं गुणलक्षणम् ॥ Bछ्.Sछ्॥

ं१२।३२अ/ आरम्भरुचिताऽधैर्यमसत्कार्यपरिग्रहः ।
ं१२।३२च्/ विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् ॥ Bछ्.Sछ्॥

ं१२।३३अ/ लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता ।
ं१२।३३च्/ याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् ॥ Bछ्.Sछ्॥

ं१२।३४अ/ त्रयाणामपि चैतेषां गुणानां त्रिषु तिष्ठताम् ।
ं१२।३४च्/ इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् ॥ Bछ्.Sछ्॥

ं१२।३५अ/ यत् कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति ।
ं१२।३५च्/ तज् ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् ॥ Bछ्.Sछ्॥

ं१२।३६अ/ येनास्मिन् कर्मणा लोके ख्यातिमिच्छति पुष्कलाम् ।
ं१२।३६च्/ न च शोचत्यसम्पत्तौ तद् विज्ञेयं तु राजसम् ॥ Bछ्.Sछ्॥

ं१२।३७अ/ यत् सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् ।
ं१२।३७च्/ येन तुष्यति चात्माऽस्य तत् सत्त्वगुणलक्षणम् ॥ Bछ्.Sछ्॥

ं१२।३८अ/ तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते ।
ं१२।३८च्/ सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यमेषां यथोत्तरम् ॥ Bछ्.Sछ्॥

ं१२।३९अ/ येन यस्तु गुणेनैषां संसरान् प्रतिपद्यते । %[ं।येन यांस्तु ]
ं१२।३९च्/ तान् समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् ॥ Bछ्.Sछ्॥

ं१२।४०अ/ देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः ।
ं१२।४०च्/ तिर्यक्त्वं तामसा नित्यमित्येषा त्रिविधा गतिः ॥ Bछ्.Sछ्॥

ं१२।४१अ/ त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः ।
ं१२।४१च्/ अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः ॥ Bछ्.Sछ्॥

ं१२।४२अ/ स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः ।
ं१२।४२च्/ पशवश्च मृगाश्चैव जघन्या तामसी गतिः ॥ Bछ्.Sछ्॥

ं१२।४३अ/ हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः ।
ं१२।४३च्/ सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः ॥ Bछ्.Sछ्॥

ं१२।४४अ/ चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः ।
ं१२।४४च्/ रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः ॥ Bछ्.Sछ्॥

ं१२।४५अ/ झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः ।
ं१२।४५च्/ द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः ॥ Bछ्.Sछ्॥

ं१२।४६अ/ राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः ।
ं१२।४६च्/ वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः ॥ Bछ्.Sछ्॥

ं१२।४७अ/ गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये ।
ं१२।४७च्/ तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः ॥ Bछ्.Sछ्॥

ं१२।४८अ/ तापसा यतयो विप्रा ये च वैमानिका गणाः ।
ं१२।४८च्/ नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः ॥ Bछ्.Sछ्॥

ं१२।४९अ/ यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः ।
ं१२।४९च्/ पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः ॥ Bछ्.Sछ्॥

ं१२।५०अ/ ब्रह्मा विश्वसृजो धर्मो महानव्यक्तमेव च ।
ं१२।५०च्/ उत्तमां सात्त्विकीमेतां गतिमाहुर्मनीषिणः ॥ Bछ्.Sछ्॥

ं१२।५१अ/ एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः । %[ं।त्रिः।प्रकारस्य]
ं१२।५१च्/ त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः ॥ Bछ्.Sछ्॥

ं१२।५२अ/ इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च ।
ं१२।५२च्/ पापान् संयान्ति संसारानविद्वांसो नराधमाः ॥ Bछ्.Sछ्॥

ं१२।५३अ/ यां यां योनिं तु जीवोऽयं येन येनैह कर्मणा ।
ं१२।५३च्/ क्रमशो याति लोकेऽस्मिंस्तत् तत् सर्वं निबोधत ॥ Bछ्.Sछ्॥

ं१२।५४अ/ बहून् वर्षगणान् घोरान्नरकान् प्राप्य तत्क्षयात् ।
ं१२।५४च्/ संसारान् प्रतिपद्यन्ते महापातकिनस्त्विमान् ॥ Bछ्.Sछ्॥

ं१२।५५अ/ श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।
ं१२।५५च्/ चण्डालपुक्कसानां च ब्रह्महा योनिमृच्छति ॥ Bछ्.Sछ्॥

ं१२।५६अ/ कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।
ं१२।५६च्/ हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ॥ Bछ्.Sछ्॥

ं१२।५७अ/ लूताऽहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।
ं१२।५७च्/ हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ॥ Bछ्.Sछ्॥

ं१२।५८अ/ तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणामपि ।
ं१२।५८च्/ क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ॥ Bछ्.Sछ्॥

ं१२।५९अ/ हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः ।
ं१२।५९च्/ परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः ॥ Bछ्.Sछ्॥

ं१२।६०अ/ संयोगं पतितैर्गत्वा परस्यैव च योषितम् ।
ं१२।६०च्/ अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ॥ Bछ्.Sछ्॥

ं१२।६१अ/ मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।
ं१२।६१च्/ विविधाणि च रत्नानि जायते हेमकर्तृषु ॥ Bछ्.Sछ्॥

ं१२।६२अ/ धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ।
ं१२।६२च्/ मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ॥ Bछ्.Sछ्॥

ं१२।६३अ/ मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ।
ं१२।६३च्/ चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ॥ Bछ्.Sछ्॥

ं१२।६४अ/ कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः ।
ं१२।६४च्/ कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥ Bछ्.Sछ्॥

ं१२।६५अ/ छुच्छुन्दरिः शुभान् गन्धान् पत्रशाकं तु बर्हिणः । %[ं।छुच्छुन्दरीः ]
ं१२।६५च्/ श्वावित् कृतान्नं विविधमकृतान्नं तु शल्यकः ॥ Bछ्.Sछ्॥

ं१२।६६अ/ बको भवति हृत्वाऽग्निं गृहकारी ह्युपस्करम् ।
ं१२।६६च्/ रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥ Bछ्.Sछ्॥

ं१२।६७अ/ वृको मृगैभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः ।
ं१२।६७च्/ स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः ॥ Bछ्.Sछ्॥

ं१२।६८अ/ यद् वा तद् वा परद्रव्यमपहृत्य बलान्नरः ।
ं१२।६८च्/ अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ॥ Bछ्.Sछ्॥

ं१२।६९अ/ स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः ।
ं१२।६९च्/ एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥ Bछ्.Sछ्॥

ं१२।७०अ/ स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि ।
ं१२।७०च्/ पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु ॥ Bछ्.Sछ्॥ %[ं।यान्ति दस्युषु ]
ं१२।७१अ/ वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात् स्वकाच्च्युतः ।
ं१२।७१च्/ अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ॥ Bछ्.Sछ्॥ %[ं।कूटपूतनः ]
ं१२।७२अ/ मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । %[ंंऐत्राक्षिज्योतिकः ]
ं१२।७२च्/ चैलाशकश्च भवति शूद्रो धर्मात् स्वकाच्च्युतः ॥ Bछ्.Sछ्॥

ं१२।७३अ/ यथा यथा निषेवन्ते विषयान् विषयात्मकाः ।
ं१२।७३च्/ तथा तथा कुशलता तेषां तेषूपजायते ॥ Bछ्.Sछ्॥

ं१२।७४अ/ तेऽभ्यासात् कर्मणां तेषां पापानामल्पबुद्धयः ।
ं१२।७४च्/ सम्प्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु ॥ Bछ्.Sछ्॥

ं१२।७५अ/ तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् ।
ं१२।७५च्/ असिपत्रवनादीनि बन्धनछेदनानि च ॥ Bछ्.Sछ्॥

ं१२।७६अ/ विविधाश्चैव सम्पीडाः काकोलूकैश्च भक्षणम् ।
ं१२।७६च्/ करम्भवालुकातापान् कुम्भीपाकांश्च दारुणान् ॥ Bछ्.Sछ्॥

ं१२।७७अ/ संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः ।
ं१२।७७च्/ शीतातपाभिघातांश्च विविधानि भयानि च ॥ Bछ्.Sछ्॥

ं१२।७८अ/ असकृद् गर्भवासेषु वासं जन्म च दारुणम् ।
ं१२।७८च्/ बन्धनानि च काष्ठानि परप्रेष्यत्वमेव च ॥ Bछ्.Sछ्॥ %[ं।कष्टानि]
ं१२।७९अ/ बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः ।
ं१२।७९च्/ द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् ॥ Bछ्.Sछ्॥

ं१२।८०अ/ जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् ।
ं१२।८०च्/ क्लेशांश्च विविधांस्तांस्तान् मृत्युमेव च दुर्जयम् ॥ Bछ्.Sछ्॥

ं१२।८१अ/ यादृशेन तु भावेन यद् यत् कर्म निषेवते ।
ं१२।८१च्/ तादृशेन शरीरेण तत् तत् फलमुपाश्नुते ॥ Bछ्.Sछ्॥

ं१२।८२अ/ एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः ।
ं१२।८२च्/ नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत ॥ Bछ्.Sछ्॥

ं१२।८३अ/ वेदाभ्यासस्तपो ज्ञानमिन्द्रियाणां च संयमः ।
ं१२।८३च्/ अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥ Bछ्.Sछ्॥

ं१२।८४अ/ सर्वेषामपि चैतेषां शुभानामिह कर्मणाम् ।
ं१२।८४च्/ किं चित्श्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ॥ Bछ्.Sछ्॥

ं१२।८५अ/ सर्वेषामपि चैतेषामात्मज्ञानं परं स्मृतम् ।
ं१२।८५च्/ तद् ह्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ॥

ं१२।८६अ/ षण्णामेषां तु सर्वेषां कर्मणां प्रेत्य चैह च ।
ं१२।८६च्/ श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ॥

ं१२।८७अ/ वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः ।
ं१२।८७च्/ अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन् क्रियाविधौ ॥

ं१२।८८अ/ सुखाभ्युदयिकं चैव नैःश्रेयसिकमेव च ।
ं१२।८८च्/ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ Bछ्.Sछ्॥

ं१२।८९अ/ इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।
ं१२।८९च्/ निष्कामं ज्ञातपूर्वं तु निवृत्तमुपदिश्यते ॥ Bछ्.Sछ्॥

ं१२।९०अ/ प्रवृत्तं कर्म संसेव्यं देवानामेति साम्यताम् ।
ं१२।९०च्/ निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ॥ Bछ्.Sछ्॥

ं१२।९१अ/ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
ं१२।९१च्/ समं पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ॥

ं१२।९२अ/ यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः ।
ं१२।९२च्/ आत्मज्ञाने शमे च स्याद् वेदाभ्यासे च यत्नवान् ॥

ं१२।९३अ/ एतद् हि जन्मसाफल्यं ब्राह्मणस्य विशेषतः ।
ं१२।९३च्/ प्राप्यैतत् कृतकृत्यो हि द्विजो भवति नान्यथा ॥

ं१२।९४अ/ पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् ।
ं१२।९४च्/ अशक्यं चाप्रमेयं च वेदशास्त्रमिति स्थितिः ॥

१२।९५अ/ या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । [।श्रुतयो ]
ं१२।९५च्/ सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः ॥ 

ं१२।९६अ/ उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् । %[ंउत्पद्यन्ते विनश्यन्ति ]
ं१२।९६च्/ तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च ॥ Bछ्.Sछ्॥

ं१२।९७अ/ चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् ।
ं१२।९७च्/ भूतं भव्यं भविष्यं च सर्वं वेदात् प्रसिध्यति ॥ Bछ्.Sछ्॥ %[ं।भूतं भवद् भविष्यं च ]
ं१२।९८अ/ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
ं१२।९८च्/ वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः ॥ Bछ्.Sछ्॥

ं१२।९९अ/ बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् ।
ं१२।९९च्/ तस्मादेतत् परं मन्ये यत्जन्तोरस्य साधनम् ॥ Bछ्.Sछ्॥

ं१२।१००अ/ सेनापत्यं च राज्यं च दण्डनेतृत्वमेव च । %[ं।सैनापत्यं ]
ं१२।१००च्/ सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति ॥ Bछ्.Sछ्॥

ं१२।१०१अ/ यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् ।
ं१२।१०१च्/ तथा दहति वेदज्ञः कर्मजं दोषमात्मनः ॥ Bछ्.Sछ्॥

ं१२।१०२अ/ वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।
ं१२।१०२च्/ इहैव लोके तिष्ठन् स ब्रह्मभूयाय कल्पते ॥ Bछ्.Sछ्॥

ं१२।१०३अ/ अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
ं१२।१०३च्/ धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥ Bछ्.Sछ्॥

ं१२।१०४अ/ तपो विद्या च विप्रस्य निःश्रेयसकरं परम् ।
ं१२।१०४च्/ तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ॥ 

ं१२।१०५अ/ प्रत्यक्षं चानुमानं च शास्त्रं च विविधाऽऽगमम् ।
ं१२।१०५च्/ त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सता ॥ Bछ्.Sछ्॥

ं१२।१०६अ/ आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना ।
ं१२।१०६च्/ यस्तर्केणानुसंधत्ते स धर्मं वेद नैतरः ॥ Bछ्.Sछ्॥

ं१२।१०७अ/ नैःश्रेयसमिदं कर्म यथोदितमशेषतः ।
ं१२।१०७च्/ मानवस्यास्य शास्त्रस्य रहस्यमुपदिश्यते ॥ Bछ्.Sछ्॥ %[ंउपदेक्ष्यते ]
ं१२।१०८अ/ अनाम्नातेषु धर्मेषु कथं स्यादिति चेद् भवेत् ।
ं१२।१०८च्/ यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः ॥ Bछ्.Sछ्॥

ं१२।१०९अ/ धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः ।
ं१२।१०९च्/ ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः ॥ Bछ्.Sछ्॥

ं१२।११०अ/ दशावरा वा परिषद्यं धर्मं परिकल्पयेत् ।
ं१२।११०च्/ त्र्य्ऽवरा वाऽपि वृत्तस्था तं धर्मं न विचालयेत् ॥ Bछ्.Sछ्॥

ं१२।१११अ/ त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः ।
ं१२।१११च्/ त्रयश्चाश्रमिणः पूर्वे परिषत् स्याद् दशावरा ॥ Bछ्.Sछ्॥

ं१२।११२अ/ ऋग्वेदविद् यजुर्विद्च सामवेदविदेव च ।
ं१२।११२च्/ त्र्य्ऽवरा परिषद्ज्ञेया धर्मसंशयनिर्णये ॥ 

ं१२।११३अ/ एकोऽपि वेदविद् धर्मं यं व्यवस्येद् द्विजोत्तमः ।
ं१२।११३च्/ स विज्ञेयः परो धर्मो नाज्ञानामुदितोऽयुतैः ॥ Bछ्.Sछ्॥

ं१२।११४अ/ अव्रतानाममन्त्राणां जातिमात्रोपजीविनाम् ।
ं१२।११४च्/ सहस्रशः समेतानां परिषत्त्वं न विद्यते ॥ Bछ्.Sछ्॥

ं१२।११५अ/ यं वदन्ति तमोभूता मूर्खा धर्ममतद्विदः ।
ं१२।११५च्/ तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति ॥ Bछ्.Sछ्॥

ं१२।११६अ/ एतद् वोऽभिहितं सर्वं निःश्रेयसकरं परम् ।
ं१२।११६च्/ अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् ॥ Bछ्.Sछ्॥

ं१२।११७अ/ एवं स भगवान् देवो लोकानां हितकाम्यया ।
ं१२।११७च्/ धर्मस्य परमं गुह्यं ममेदं सर्वमुक्तवान् ॥ Bछ्.Sछ्॥

ं१२।११८अ/ सर्वमात्मनि सम्पश्येत् सत्चासत्च समाहितः ।
ं१२।११८च्/ सर्वं ह्यात्मनि सम्पश्यन्नाधर्मे कुरुते मनः ॥ Bछ्.Sछ्॥ %[ंंअतिं ]
ं१२।११९अ/ आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् ।
ं१२।११९च्/ आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् ॥ Bछ्.Sछ्॥

ं१२।१२०अ/ खं संनिवेशयेत् खेषु चेष्टनस्पर्शनेऽनिलम् ।
ं१२।१२०च्/ पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु ॥ Bछ्.Sछ्॥

ं१२।१२१अ/ मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् ।
ं१२।१२१च्/ वाच्यग्निं मित्रमुत्सर्गे प्रजने च प्रजापतिम् ॥

ं१२।१२२अ/ प्रशासितारं सर्वेषामणीयांसमणोरपि ।
ं१२।१२२च्/ रुक्माभं स्वप्नधीगम्यं विद्यात् तं पुरुषं परम् ॥ Bछ्.Sछ्॥

ं१२।१२३अ/ एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
ं१२।१२३च्/ इन्द्रमेके परे प्राणमपरे ब्रह्म शाश्वतम् ॥ Bछ्.Sछ्॥

ं१२।१२४अ/ एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः ।
ं१२।१२४च्/ जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् ॥ Bछ्.Sछ्॥

ं१२।१२५अ/ एवं यः सर्वभूतेषु पश्यत्यात्मानमात्मना ।
ं१२।१२५च्/ स सर्वसमतामेत्य ब्रह्माभ्येति परं पदम् ।
ं१२।१२६अ/ इत्येतन् मानवं शास्त्रं भृगुप्रोक्तं पठन् द्विजः ।
ं१२।१२६च्/ भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद् गतिम् ॥

[समाप्तं मानवं धर्मशास्त्रम्] THE END OF MANU SMRITI