ऋग्वेद सायणभाष्यम्
1316-1388 CE
वेदप्राप्त्यर्थं तपोऽनुतिष्ठतः पुरुषान् स्वयंभूर्वेदपुरुषः प्राप्नोत् । तथा च श्रूयते– अजान्ह वै पृश्नींस्तपस्यमानान्ब्रह्म स्वयंभ्वभ्यानर्षत्तदृषयोऽभवन्’ (तै. आ. २. ९ ) इति । तथातीन्द्रियस्य वेदस्य परमेश्वरानुग्रहेण प्रथमतो दर्शनात् ऋषित्वमित्यभिप्रेत्य स्मर्यते –
युगान्तेऽन्तर्हितान् वेदान् सेतिहासान् महर्षयः । लेभिरे तपसा पूर्वमनुज्ञातः स्वयंभुवा ॥ इति ॥ ऋष्यादिज्ञानाभावे प्रत्यवायः स्मर्यते—अविदित्वा ऋषिं छन्दो दैवतं योगमेव च। योऽध्यापयेज्जपेद्वापि पापीयाञ्जायते तु सः ॥ ऋषिच्छन्दोदैवतानि ब्राह्मणार्थं स्वराद्यपि ।। अविदित्वा प्रयुञ्जानो मन्त्रकण्टक उच्यते ॥ इति ॥ वेदनविधिश्च स्मर्यते– स्वरो वर्णोऽक्षरं मात्रा विनियोगोऽर्थ एव च । मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥ [ सायण-1.1.1]
Alphabetical Index of the Rig Veda Mantras [PDF]
- Rig Veda First Mandala [ऋग्वेद ]
- Rig Veda Second Mandala ऋग्वेद
- Rig Veda Third Mandala [ऋग्वेद]
- Rig Veda Forth Mandala[ऋग्वेद]
- Rig Veda Fifth Mandala [ऋग्वेद]
- Rig Veda Sixth Mandala [ऋग्वेद]
- Rig Veda Seventh Mandala[ऋग्वेद]
- Rig Veda Eighth Mandala [ऋग्वेद]
- Rig Veda Ninth Mandala [ऋग्वेद]
- Rig Veda Tenth Mandala [ऋग्वेद]
ऋग्वेदसंहिता सायणभाष्यम्
[display-posts category=”Rig VedaRig Veda Mandala: ( 1, 2, 3, 4, 5, 6, 7, 8, 9, 10 ) अ आ इ ई उ ऊ ऋ ए ऐ ओ औ क ख ग घ च छ ज त द ध न प ब भ म य र ल व श ष स ह § Alphabetical Index of the Rig Veda Mantras > Rigveda: A Historical Analysis by Shrikant G. Talageri (2000) > Rigveda is at least ninety thousand years old, perhaps more: OSHO > वेदपारायणविधिः-The method of reciting the Vedas > List of the Vedic Rishis > ऋग्वेद भाष्यम् – Rig Veda Bhashyam by Sayanacharya > Core Hindutva Philosophy in the Rig Veda > Read more Commentary” posts_per_page=”-1″ =”true” order=”ASC” orderby=”title”]
To whom shall we offer oblations?
HIRANYA Garva Suktam
RIG-10TH MANDALA- SUKTA NO – 121
ऋषिः हिरण्यग्रभः प्रजापतिपत्यः,
देवता कः
हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।
यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यस्ये॒मे हि॒मव॑न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः ।
यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ ।
यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।
यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नय॑न्तीर॒ग्निम् ।
ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् ।
यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ ।
यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥
WHO IS TRIAMBAKAM ?
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् ।
WHO IS PURASHA ?
ॐ स॒हस्र॑शीर्षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षः स॒हस्र॑पात् । स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् । ………वेदा॒हमे॒तं पुरु॑षं म॒हान्तम् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।…….. तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेय॑ऽनाय । नमो॑ रु॒चाय॒ ब्राह्म॑ये ।
WHAT IS THE SOURCE OF DHARMADharma धारणाद्धर्ममित्याहु: धर्मो धारयते प्रजा: | यस्याद्धारणसंयुक्तं स धर्म इति निश्चय: || [Mahabharata, 69.58 (Karna Parva)] Jurisprudence is Dharmaniti (धर्मनीति). धर्मशास्र are the regulating texts. Dharmatattva (धर्मतत्त्व) is the philosophical side. Dharma is eternal therefore it is Sanatan Dharma. धर्मादेश (Dharmadesa) means Court order/decisions. धर्म विधि (dharma vidhi) - Legal Digests (such as Mitakshara). Anthem of Sanatan Dharma : ॐ संगच्छध्वं संवदध्वं, सं वो मनांसि जानताम् । समानो मन्त्र: समिति: समानी, समानं मन: सहचित्तमेषाम् । समानी व आकूति: समाना हृदयानि व: | समानमस्तु वो मनो यथा व: सुसहासति || (Rigveda,10/191/2-3). Adhyatma (अध्यात्म) is loosely the spiritual/divine side of Dharma. Check: Achar (आचरति/Physical discipline), Bichar (Mental discipline ), Sanskar ( Vedic Tradition).
वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ।
धर्म जिन्ञासमानानां प्रमाणं परमं श्रुतिः ॥ MANU
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् । अशक्ष्यं चाप्रमेयं च, वेदशास्त्रमिति स्थितिः ॥
चातुवर्ण्य त्रयो लोकाः, चत्वारश्चाश्रमा पृथक । भूतं भग्यं भविष्यच्च, सवं वेदतप्रसिद्यति ॥