Home » Law Library Updates » Dharma in Bhagabat Gita [Sanskrit]
धर्म
धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय १.१
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः
धर्मे नष्टे कुलं कृत्स्नमधर्मोभिभवत्युत १.४०
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः १.४१
Read Next
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः १.४३
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरके नियतं वासो भवतीत्यनुशुश्रुम १.४४
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसंमूढचेताः
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे – शिष्यस्तेहं शाधि मां त्वां प्रपन्नम् २.७
स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि
धर्म्याद्धि युद्धाच्छ्रेयोन्यत्क्षत्रियस्य न विद्यते २.३१
Read Next
अथ चेत्त्वमिमं धार्म्यं सङ्ग्रामं न करिष्यसि
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि २.३३
नेहाभिक्रमनाशोस्ति प्रत्यवायो न विद्यते
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् २.४०
श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ३.३५
Read Next
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ४.७
परित्राणाय साधूनां विनाशाय च दुष्कृताम्
धर्मसंस्थापनार्थाय संभवामि युगे युगे ४.८
बलं बलवतां चाहं कामरागविवर्जितम्
धर्माविरुद्धो भूतेषु कामो.अस्मि भरतर्षभ ७.११.
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुम् अव्ययम् ९.२
अश्रद्दधानाः पुरुषा धर्मस्यास्य परंतप
अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ९.३
ते तं भुक्त्वा स्वर्गलोकं विशालं-क्षीणे पुण्ये मर्त्यलोकं विशन्ति
एवं त्रयीधर्ममनुप्रपन्ना-गतागतं कामकामा लभन्ते ९.२१
क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छ्हति
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ९.३१
त्वमक्षरं परमं वेदितव्यं-त्वमस्य विश्वस्य परं निधानम्
त्वमव्ययः शाश्वतधर्मगोप्ता-सनातनस्त्वं पुरुषो मतो मे ११.१८
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते
श्रद्दधाना मत्परमा भक्तास्तेतीव मे प्रियाः१२.२०
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः
सर्गेपि नोपजायन्ते प्रलये न व्यथन्ति च १४.२
ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च १४.२७
यया धर्ममधर्मं च कार्यं चाकार्यमेव च
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी १८.३१
अधर्मं धर्ममिति या मन्यते तमसावृता
सर्वार्थान् विपरीताञ्श्च बुद्धिः सा पार्थ तामसी १८.३२
यया तु धर्मकामार्थान् धृत्या धारयतेर्जुन
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी १८.३४
श्रेयान् स्वधर्मो विगुणः परधर्मोत्स्वनुष्ठितात्
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् १८.४७
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज
अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः १८.६६
अध्येष्यते च य इमं धर्म्यं संवादमावयोः
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः १८.७०