Kuttini Matam (कुट्टनीमतम्) of Damodara Gupta (Part-2)
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Kuttini Matam (कुट्टनीमतम्) of Damodara Gupta (Part-2)
Damodaragupta on Love, Women, and Desire
Verses 501–600
Even the songs of cuckoos, parrots, house-pigeons, and other birds do not truly contain the fragrance of love, yet through their varied sweet sounds they still awaken passion in young hearts. In the same way, even an actor devoid of genuine emotion can delight an audience if he has mastered the techniques of performance. Likewise, those foolish people who condemn attachment to courtesans merely because it causes loss of wealth should be asked whether wives maintained at home are ever free from expense. Human actions are not driven by profit alone; authorities on the science of love have long taught that emotions such as passion, attachment, and desire also govern human conduct.
The poet then illustrates the irresistible force of love through many examples. What great worldly gain did the ascetic woman Sundarasena obtain, when, shattered by separation from her beloved, she gave up her life within a moment? When youthful beauty, trembling excitement, and visible signs of attraction are present, who can restrain the power of eros? Skilled lovers easily understand the inner feelings of women through slight gestures—arched eyebrows, sidelong glances, and subtle expressions. Many women abandon husband, home, reputation, family honour, and even social blame, driven entirely by overwhelming attachment to another man. Even virtuous wives devoted to serving their husbands often remain faithful merely because of social convention rather than absence of desire.
Thus, the text argues that women’s hearts are fundamentally ruled by love, whether they are wives or courtesans. By clever speech, affectionate persuasion, jealousy, flattery, and emotional manipulation, a lover may gradually win over the beloved’s mind. The poem vividly portrays lovers speaking tenderly after awakening from sleep, embracing at the end of night, sighing deeply, questioning one another playfully, and expressing pain at separation. Love is described as a force so powerful that even weak women gain strength from passion born of Kāma, the god of desire.
The poet repeatedly contrasts wealth with emotional fulfilment. Riches alone do not bring happiness; true gain lies in intimate union with the beloved. A lover treasures the moment when the beloved places betel in his mouth with her own lips, wipes away the drops of sweat caused by lovemaking, or embraces him with complete affection. Such experiences, he says, are beyond the value of the entire earth. Love destroys concern for wealth, family, and worldly ambition. Women deeply attached to a particular man may abandon jewellery, property, relatives, social honour, and even life itself for his sake.
Many stories are then narrated of courtesans and lovers who sacrificed everything because of passionate devotion. Some entered funeral fires after the death of their beloved; others renounced immense wealth or followed lovers even into destruction. These examples demonstrate the overwhelming, irrational, and often tragic force of attachment. The poet emphasizes that passionate women may disregard danger, storms, darkness, social criticism, or physical hardship merely for a chance to meet the desired man.
A large section praises the courtesan Mālatī, whose beauty, grace, artistic skill, and sensual charm surpass all others. Her gestures, smiles, embraces, musical talents, and movements are described as so enchanting that ordinary wives become burdensome in comparison. She is refined, witty, graceful in speech, skilled in the arts of love, and utterly captivating in intimacy. Her presence overwhelms the mind and creates an experience resembling divine bliss itself.
Finally, the poem turns to the figure of the abhisārikā—the woman who boldly goes out at night to meet her lover. Ignoring thunderclouds, darkness, rain, muddy roads, and danger, she hurries forward, trembling yet determined. Her ornaments are loosened, her hair wet, her body shaken by wind and rain, while fear and longing battle within her heart. Seeing such a woman braving a storm to reach her beloved, observers wonder whether this is the greatness of love, the endless lure of wealth, or simply the madness born of irresistible desire.
गन्धोऽपि कुतः प्रेम्णः परभृतहारीतगृहकपोतानाम् ।
उज्ज्वलयन्त्यसमेषुं विरुतविशेषैस्तथापि ते यूनाम् ॥ ५०१ ॥
आहितयुक्ताहार्यः सम्यक्सकलप्रयोगनिष्पत्त्या ।
भावविहीनोऽपि नटः सामाजिकचित्तरञ्जनं कुरुते ॥ ५०२ ॥
येऽपि धनक्षयदोषं पश्यन्ति जडा विलासिनीश्लेषे ।
प्रष्टव्यास्ते भवता किमकृतकशिपुव्यया दाराः ॥ ५०३ ॥
न च लाभ एक एव प्रवर्तने कारणं मनुष्येषु ।
रागादयोऽपि सन्ति वैशिकशास्त्रप्रणेतृभिः कथिताः ॥ ५०४ ॥
का वा विभूतिराप्ता सुन्दरसेनात्तया तपस्विन्या ।
तद्विरहकुलिशभिन्ना मुमोच या जीवितं क्षणार्धेन ॥ ५०५ ॥
उत्तमतरुणप्रकृतिः पुलकादिकसूचितान्यतनुसक्तिः ।
स्फुटसंनिहितविभावो निवार्यते केन शृङ्गारः ॥ ५०६ ॥
अन्तःकरणविकारं गुरुपरिजनसंकटेऽपि कुलटानाम् ।
बुध्यन्ति तदभियुक्ता भ्रूभङ्गापाङ्गमधुरदृष्टेन ॥ ५०७ ॥
अन्या विहाय पतिगृह मविचिन्तितकुलकलङ्कजनगर्हाः ।
रागोपरक्तहृदया यान्ति दिगन्तं मनुष्य आसज्य ॥ ५०८ ॥
अपमानः पतिविहितो गुरुपरिकरतीव्रता गृहेऽपि दौर्गत्यम् ।
शीलक्षतये यासां तासामपि रागतोऽन्यनरसक्तिः ॥ ५०९ ॥
या अप्यचलितवृत्ता भर्तुः परिचरणतत्पराः प्रमदाः ।
ता अपि रागविमुक्तास्तिष्ठन्त्यौचित्यमात्रेण ॥ ५१० ॥
तस्मादस्त्वभिगमनं विविधनिमित्तं निवार्यते केन ।
निजपरपण्यस्त्रीणां रागाधीनं तु हृदयनिर्वहणम् ॥ ५११ ॥
एवंविधदृष्टान्तैरुपपत्तियुतैस्तथेदृशैर्वाक्यैः ।
अन्यैरपि चाटुपदैरावर्जितमानसं गम्यम् ॥ ५१२ ॥
विहितस्वापविबोधं किञ्चित्प्रकटीकृतश्रमग्लान्या ।
उत्पादितजृम्भिकया परिरभ्य घनं निशापगमे ॥ ५१३ ॥
विघटितपुटमुद्रदृशा विलोक्य ककुभः सदीर्घनिःश्वासम् ।
वक्तव्यमिति भवत्या रजनि खले किं प्रयातासि ॥ ५१४ ॥
अबला विषहेत कथं दृढशक्तिमनुष्यरतिरसप्रसरम् ।
मदनजनितोऽनुरागो न विदध्याद्यदि बलाधानम् ॥ ५१५ ॥
धन्या चक्राह्ववधूः प्रियतमसंघटनसमयसम्प्राप्त्या ।
शशिना वियुज्यमाना कुमुद्वति क्षीणपुण्यासि ॥ ५१६ ॥
विकसितसुरभिमनोहरसंस्थानं सरसकुसुममप्राप्तम् ।
न करोति तथा पीडामास्वादितविच्युतं यथा भृङ्ग्याः ॥ ५१७ ॥
विज्ञापयाम्यतस्त्वां रचिताञ्जलिमौलिना विधाय नतिम् ।
परिचारकजनमध्ये गणनीयाहं प्रसादेन ॥ ५१८ ॥
अथ दीपितरागाङ्गैरपहस्तितलाभदिक्क्रमोपचितैः ।
मृदुभिश्चित्तानुगतैरुपचारैः पातितस्य विश्वासे ॥ ५१९ ॥
अवलोकितोऽसि लम्पट किमपि वदन्कर्णसंनिधौ निभृतम् ।
शङ्करसेनाधात्र्या अद्य मया जालमार्गेण ॥ ५२० ॥
मालत्या सह केलिं विदधासि सखी ममेति न विरोधः ।
यत्तु चिरं स्निग्धदृशा पश्यसि तां तत्र मे शङ्का ॥ ५२१ ॥
त्वामागता न वीक्षितुमनुबध्य न याचितः प्रयत्नेन ।
आहूय वद किमर्थं ताम्बूलं ग्राहिता कमलदेवी ॥ ५२२ ॥
कञ्चुकमपकर्षन्त्याः प्रकटीभवदंसकक्षकुचपार्श्वम् ।
साभिनिवेशं दृष्टं भवता किं कुन्दमालायाः ॥ ५२३ ॥
परिहासेन गृहीता यद्यंशुकपल्लवे त्वया हीरा ।
आच्छोट्यापक्रान्ता किं मामवलोक्य पृष्ठतः सहसा ॥ ५२४ ॥
विज्ञानेन ख्यातां कुसुमलतां त्वं तु वर्णयस्यनिशम् ।
नृत्यन्तीं मृगदेवीं विस्फारितलोचनः पश्यन् ॥ ५२५ ॥
कारणमत्र न वेद्म्यहमृजुपन्थानं प्रसिद्धमुत्सृज्य ।
वक्रेण यदेषि सदा माधवसेनागृहाग्रेण ॥ ५२६ ॥
इति सेर्ष्योपन्यासैरन्यैश्चामर्मवेधिलघुकोपैः ।
प्रणयप्रभवैर्विदिते च्छातोदरि रूढरागत्वे ॥ ५२७ ॥
श्रुतिविशयेऽन्तरिततनुर्जनितस्थितिरायताक्षि सह मात्रा ।
परुषगिरा त्वं कुर्या इत्थं मिथ्यावचःकलहम् ॥ ५२८ ॥
अक्लेशोपनतधनः प्रेमप्रह्वो निरर्गलत्यागः ।
भट्टानन्दस्य सुतो निधिभूतोऽभव्यया त्वया त्यक्तः ॥ ५२९ ॥
व्यसनोपहतविवेको दैवैकगतिः स्वदारविद्वेषी ।
मामविगणय्य मूढे निर्भर्त्सित एव केशवस्वामी ॥ ५३० ॥
अगणितराजापायोऽविच्छिन्नायः स्वभावतस्त्यागी ।
किमुपेक्षितोऽनुरक्तो वामधिया शौल्किकाध्यक्षः ॥ ५३१ ॥
पितुरेक एव पुत्रश्चतुर्थवयसो गदाभिभूतस्य ।
द्रविणवतः प्रभुरातो निराकृतोऽभूतिकामया सोऽपि ॥ ५३२ ॥
स्वकरेण परित्यक्ता त्वया विभूतिः करोमि किं पापा ।
सर्वभरेणोपनतं वसुदेवमनादरेण पश्यन्त्या ॥ ५३३ ॥
पुरुषान्तरसंघर्षप्रोत्साहितचित्तवृत्तिरनपेक्षम् ।
वसु विसृजति यो रभसात्तस्य न वार्ता त्वया पृष्टा ॥ ५३४ ॥
चित्रादिकलाकुशलः स्मरशास्त्रविचक्षणो वृषप्रकृतिः ।
उपकुर्वन्नपि सर्वो विद्वेषिगणे त्वया क्षिप्तः ॥ ५३५ ॥
चन्द्रवतीमाभरणं दत्तं मधुसूदनस्य पुत्रेण ।
पश्यन्ती बिभ्राणामयि रागिणि किं न जिह्रेषि ॥ ५३६ ॥
ग्रामोत्पत्तिरशेषा प्रविशन्ती सिंहराजविनियोगात् ।
मन्मथसेनावासं लघयति ते रूपसौभाग्यम् ॥ ५३७ ॥
आस्तामपरो लाभो हेडावुकनन्दिसेनतनयेन ।
शिवदेव्या उपचारः क्रियते यस्तेन पर्याप्तम् ॥ ५३८ ॥
पश्येदं धवलगृहं पाशुपताचार्यभावशुद्धेन ।
कारितमनङ्गदेव्या आभरणं पत्तनस्य सकलस्य ॥ ५३९ ॥
आपणिकार्थस्य कुतो राजा लभते चतुर्थमपि भागम् ।
हट्टपतिरामसेनप्रसादतो नर्मदा तमुपभुङ्क्ते ॥ ५४० ॥
पुंस्त्वख्यापनकामो न स्त्री न पुमान्किल प्रभुस्वामी ।
अनुबध्नन्नुपहसितस्त्वया जडे स्वार्थयोगमनपेक्ष्य ॥ ५४१ ॥
वाजीकरणैकमतिर्नरनाथानुग्रहेण विख्यातः ।
प्रत्याख्यातः स तथा रविदेवः किङ्करत्वमाकाङ्क्षन् ॥ ५४२ ॥
किं कन्दर्पकुटुम्बे जातोऽसावुत वशीकरणयोगम् ।
जानाति कमपि सिद्धं येनाकृष्टासि सर्वभावेन ॥ ५४३ ॥
बाल्ये तावदयोग्या पश्चादपि वृद्धभावपरिभूता ।
तारुण्ये रागहृता यदि गणिका भ्रमतु तद्भिक्षाम् ॥ ५४४ ॥
उपनय भाण्डकमेतद्यदर्जितं मामकेन देहेन ।
विदधामि तीर्थयात्रामास्स्व सुखं प्रेयसा सार्धम् ॥ ५४५ ॥
आर्यजननिन्दितानां पापैकरसप्रकाशनारीणाम् ।
एतावानेव गुणो यदभीष्टसमागमो निरावरणः ॥ ५४६ ॥
नो धनलाभो लाभो लाभः खलु वल्लभेन संसर्गः ।
अक्षिगतादर्थाप्तिर्न भवति मनसः प्रमोदाय ॥ ५४७ ॥
गाढानुरागभिन्नं तारुण्यरसामृतेन संसिक्तम् ।
न भजति सहृदयहृदयं विभवार्जनसम्भवा चिन्ता ॥ ५४८ ॥
लाभः स एव परमः पर्याप्तं तेन तेन तृप्तास्मि ।
विनिवेश्य यदुत्सङ्गे निक्षिपति मुखे मुखेन ताम्बूलम् ॥ ५४९ ॥
सुरतश्रमवारिकणान्परिमार्ष्टि निजांशुकेन गात्रेषु ।
यदुरसि निधाय विहसंस्तस्य न मूल्यं वसुन्धरा सकला ॥ ५५० ॥
शिथिलितनिजदाररतिर्मयि सक्तमना अनन्यकर्तव्यः ।
यदसौ जितनलरूपस्तिरस्कृतं तेन गाणिक्यम् ॥ ५५१ ॥
बहुकुसुमरसास्वादं कुर्वाणा मधुकरी विधिनियोगात् ।
ईदृक्प्रसवविशेषं लभते खलु येन भवति कृतकृत्या ॥ ५५२ ॥
अयि सरले तावदिमा उपदेशगिरो विशन्ति कर्णान्तः ।
यावन्नान्तर्भूतं तच्चेतसि मामकं चेतः ॥ ५५३ ॥
श्रीरस्तु दुर्गतिर्वा वेश्मनि वासो महत्यरण्ये वा ।
स्वर्लोके नरके वा किं बहुना तेन मे सार्धम् ॥ ५५४ ॥
इदमास्तेऽलङ्करणं दुर्जननि गृहाण किं ममैतेन ।
तेनैव भूषिताहं गुणनिधिना भट्टपुत्रेण ॥ ५५५ ॥
उचितस्थाननियुक्तान्यपनीय विभूषणानि सावेगम् ।
एवमभिधाय यास्यसि मातुः पुरतः समुत्सृज्य ॥ ५५६ ॥
इति रागान्धः श्रुत्वा चेतसि कुरुते कदा चिदेवमिदम् ।
स्नेहाधिष्ठितमनसामविधेयं नास्ति नारीणाम् ॥ ५५७ ॥
जननीं जन्मस्थानं बान्धवलोकं वसूनि जीवं च ।
पुरुषविशेषासक्ताः सीमन्तिन्यस्तृणाय मन्यन्ते ॥ ५५८ ॥
रणशिरसि हते वज्रे वज्रोपमयन्त्रनिर्गतग्राव्णा ।
प्राणान्मुमोच दयिता न मन्त्रविधिना हृता नाम ॥ ५५९ ॥
कालवशेनायासीत्पञ्चत्वं दाक्षिणात्यमणिकण्ठः ।
प्रेमोपगता वेश्या तेनैव समं जगाम भस्मत्वम् ॥ ५६० ॥
भास्करवर्मणि याते सुरवसतिं वारितापि भूपतिना ।
तद्दुःखमसहमाना प्रविवेश विलासिनी दहनम् ॥ ५६१ ॥
ज्वालाकरालहुतभुजि नग्नाचार्यः पपात नरसिंहः ।
तस्मिन्नेव शरीरं निजमजुहोच्छोकपीडिता दासी ॥ ५६२ ॥
प्रीतिभराक्रान्तमतिस्त्रिदशालयजीविकां क्रमोपनताम् ।
अङ्गीचकार मुक्त्वा ञीहल्ला भट्टविष्णुमा मृत्योः ॥ ५६३ ॥
देशान्तरादुपेते प्रसादमात्रेण वीक्षिते वनिते ।
पादयुगं तत्यजतुर्न वामदेवस्य समिति निहतस्य ॥ ५६४ ॥
भट्टकदम्बकतनये याते वसतिं परेतनाथस्य ।
चक्रे देहत्यागं रणदेवी वारयोषितां मुख्या ॥ ५६५ ॥
अस्यामेव नगर्यां द्रविणमदात्कालसञ्चितमशेषम् ।
प्रेम्णाकृष्टा गणिका भट्टात्मजनीलकण्ठाय ॥ ५६६ ॥
इयमपि मयि विहितास्था मातृवचःश्रवणकलुषिता क्व गता ।
त्यक्त्वाभरणं सर्वं प्रविजृम्भितमन्युसंवेगा ॥ ५६७ ॥
उत्सृष्टालङ्करणां परिशेषितमातृमुक्तपरिवाराम् ।
संतर्पयामि सम्प्रति सर्वस्वेनापि हरिणाक्षीम् ॥ ५६८ ॥
गेहेन किं प्रयोजनमन्यैरपि बन्धुदारपरिवारैः ।
संसारग्रहकारणमेका खलु मालती मम हि ॥ ५६९ ॥
अमृतकरावयवैरिव घटिता सा दृढतरं परिष्वक्ता ।
चेतो नयति समत्वं ब्रह्मण आनन्दरूपस्य ॥ ५७० ॥
आविर्भवदात्मभवक्षोभक्षतधीरता घनं रभसात् ।
विगलितकुचयुगलावृतिरालिङ्गति मालती धन्यम् ॥ ५७१ ॥
निर्दयतरोष्ठखण्डनसव्यथहुङ्कारमूर्छितं सुरते ।
अहहेति वचस्तस्या अपुण्यभाजो न शृण्वन्ति ॥ ५७२ ॥
स्मृतिजन्मजनितविकृतिव्रततिच्छन्नं करोति संसारम् ।
आविद्धसुरतसङ्गरविमर्दसंक्षोभिता दयिता ॥ ५७३ ॥
गाढतराश्लिष्टवपुर्भजते कान्ता प्रमोदसम्मोहम् ।
शिथिलीकृता तु किं चिद्विविधविकारं समुच्छ्वसिति ॥ ५७४ ॥
सन्त्यन्या अपि सत्यं पुरुषोचितकर्मपण्डिताः प्रमदाः ।
सृष्टा तु तया नियतं विपरीतरतिक्रियागोष्ठी ॥ ५७५ ॥
तन्त्रीवाद्यविशेषानुद्दामानन्यजन्मनस्तस्याः ।
कुहरितरेचितकम्पितसम्पादननैपुणं करोति जडान् ॥ ५७६ ॥
ललिताङ्गहारजृम्भितवलितस्मितवेपनानि मालत्याः ।
पश्यञ्जहाति कामः रतिमोहनचेष्टितेषु बहुमानम् ॥ ५७७ ॥
न ग्राम्यं परिहसितं नाविभ्रमतरलितोऽक्षिविक्षेपः ।
सुरतोद्योगनिरोधो दोहददानं न पुष्पबाणस्य ॥ ५७८ ॥
नार्थपरो लपनरसो न पराशयवेदनेऽविचक्षणता ।
नासौष्ठवं प्रसङ्गेनोल्वणगुणकीर्तनेषु भारत्याः ॥ ५७९ ॥
नापरपुरुषश्लाघा न त्यागः कालदेशवेशस्य ।
वैदग्ध्यजन्मभूमेर्गुरुजघनभरेण मन्दयातायाः ॥ ५८० ॥
चक्राह्वपरिष्वजनं हंससमाश्लेषनकुलपरिरम्भम् ।
पारावतावगूहनमाचरति सुमध्यमा यथावसरम् ॥ ५८१ ॥
तद्वक्रवचनहासव्यवहृतिहृतमानसस्य जायन्ते ।
अनुकूलसुन्दरा अपि भरणीयभराय केवलं दाराः ॥ ५८२ ॥
सूचयति पृथक्करणं भ्रातऋणां वक्ति विषमशीलत्वम् ।
विवृणोति गृहविसंस्थामभिनन्दति पितृकुलस्य गुणवत्ताम् ॥ ५८३ ॥
अन्यसुतपक्षपातं कथयति मातुस्तिरस्करोति पतिम् ।
पार्श्वनिमग्ना जाया मा यातु विमुच्य कार्मुकं मदनः ॥ ५८४ ॥
एवं कृतेऽपि सुन्दरि यदि तिष्ठति नायकः प्रकृत्यैव ।
इत्थं पथि परिमोषस्त्वत्सख्या नैपुणेन वक्तव्यः ॥ ५८५ ॥
गृहकार्यव्यग्रतया चित्तग्रहणाय वा कुलस्त्रीणाम् ।
नायाते भवति सखी प्रावृड्घनकलुषिते दिशां चक्रे ॥ ५८६ ॥
प्रग्रीवकशयनगता स्फारीभवदात्मसम्भवविकारा ।
त्वन्मार्गनिहितनेत्रा गीतामन्येन गीतिकामशृणोत् ॥ ५८७ ॥
यदि जीवितेन कृत्यं संभावय विरहिणि प्रियं तूर्णम् ।
घनरसितस्य हि पुरतः कदलीदलकोमलः कुलिशपातः ॥ ५८८ ॥
आकर्ण्य मामवादीद्धन्यास्ता युवतयः सखि कठोराः ।
या विषहन्ते दीर्घं प्रियतमविरहानलासङ्गम् ॥ ५८९ ॥
मम तु दिनान्तरितेऽपि प्रेयसि लब्ध्वा सहायसामग्रीम् ।
विदधाति मकरकेतन उत्कलिकाविधुरितं हृदयम् ॥ ५९० ॥
उत्कण्ठयति भृशं मां समीरणो बकुलकुसुमगन्धाढ्यः ।
प्रच्यावयन्ति धैर्यान्मधुरध्वनितैः कलापभृतः ॥ ५९१ ॥
सतडिन्मिलद्बलाकामसिताम्बुधरावलीं समुद्यन्तीम् ।
उत्सहते सा वीक्षितुमविरलमालिङ्गितो यया कान्तः ॥ ५९२ ॥
स्वेच्छागमनलघुत्वं बहुलापायं निशासु पन्थानम् ।
न विचारयन्ति महिला अभीष्टतमसङ्गतावुत्काः ॥ ५९३ ॥
क्रियतां भूषणशोभा त्वरयति मे मानसं मनोजन्मा ।
रञ्जयति मनो नितरां कलधौतनिवेशितं रत्नम् ॥ ५९४ ॥
घनजलदावृतककुभि प्रदोषसमये प्रदोषगमनाय ।
विदधानया कुबुद्धिं रागान्धे किमिदमारब्धम् ॥ ५९५ ॥
वचनप्रपञ्चसारं जायाश्रितमन्यदेशसम्बद्धम् ।
पुरुषमभिगन्तुकामा नवेयमभिसारिका दृष्टा ॥ ५९६ ॥
दरधौततिलकरचनां गलदम्भोबिन्दुलुलितकेशाग्राम् ।
तिम्यत्तनुलीनावृतिचण्डानिलसलिलपातकण्टकिताम् ॥ ५९७ ॥
अविभावितसमविषमप्रस्खलदङ्घ्रिं सहायकरलग्नाम् ।
पुरतोऽध्वनः प्रमाणं मुहुर्मुहुः साध्वसेन पृच्छन्तीम् ॥ ५९८ ॥
अन्यस्मिन्प्रेतपतौ व्यग्रे कृच्छ्रेण कथमपि प्राप्ताम् ।
तत्कालयोग्यपरिजननिवेदितामिति विकल्प्य सह सचिवैः ॥ ५९९ ॥
किं प्रेम्णोऽयं महिमा किमुतानन्त्यं धनप्रलोभस्य ।
किं वान्यतः प्रवृत्ता प्रवेशिता वातवर्षेण ॥ ६०० ॥
संनिहितकलत्राणामनुचितमिति बाह्यलोकसंवदनात् ।
These verses (601-700) continue the emotional and psychological exploration of love, courtesan culture, and the instability of human attachment. The scene opens with the image of an abhisārikā—a woman returning from a failed nocturnal journey to meet her lover. Abandoned and humiliated, her garments soaked with rain, her face bent down in shame, and her feet wounded by thorns and grass, she becomes an object of public laughter. The poet notes that fortunate observers will one day witness such a woman remembering the warnings once spoken to her by friends and elders.
The text then shifts toward the practical strategies employed by courtesans and their attendants in extracting wealth from lovers. Excuses are invented, accounts of expenses are recited, and emotional pressure is carefully applied. Pearl necklaces, sandalwood, saffron, incense, servants, and household expenditures are all presented as reasons for further gifts. If a lover becomes poor or exhausted, the courtesan is advised gradually to distance herself through subtle behavioural changes—cold speech, sarcasm, delayed meetings, emotional indifference, and avoidance of intimacy. These signs of fading affection include refusing embraces, turning away from kisses, impatience during lovemaking, pretending sleep, shortening conversations, and displaying irritation at the lover’s presence.
The poet explains that mutual love alone creates true delight, comparing reciprocal affection to the perfect union of gold and precious jewels. One-sided passion, however, leads only to humiliation and ruin, like the destructive obsession of Rāvaṇa for Sītā. Gestures that once enchanted the heart—smiles, glances, and playful speech—appear empty when affection fades. Physical intimacy without emotional surrender is described as mere animal behaviour, devoid of true rasa or emotional beauty.
The verses repeatedly warn foolish men against misunderstanding the artificial displays of affection created by professional courtesans. Skilled women trained in the arts of seduction manufacture gestures, tears, smiles, embraces, and jealousy merely as instruments for securing wealth. Men who mistake these calculated performances for genuine love are called deluded. Classical teachers of erotic science are cited as declaring that courtesans value only visible wealth; once riches disappear, affection quickly fades. Even wives may neglect impoverished husbands—how much more so courtesans whose livelihood depends entirely upon material gain.
At the same time, the poem does not deny the existence of genuine passion. It vividly describes the intoxicating memories lovers retain of secret meetings in gardens, beneath flowering trees, beside lotus ponds, and during playful water sports. The heroine recalls embraces beneath the mango and aśoka trees, nail marks left upon her breasts, laughter during bathing, kisses, playful quarrels, and intimate gestures charged with desire. Such memories transform ordinary landscapes into sacred spaces of erotic remembrance.
The coming of spring becomes another major theme. Blossoming flowers, cuckoo songs, buzzing bees, fragrant winds, and fresh leaves awaken dormant passion. The poet praises youth, declaring it to be the essence of life, while erotic enjoyment is called the nectar of existence itself. Without love and sensual union, both youth and beauty are considered wasted. The emotional atmosphere of spring intensifies longing, reconciliation, and romantic surrender.
Toward the close, the text returns once more to jealousy and rivalry among women. A manipulative confidante flatters one woman by comparing her beauty to celestial splendour while insulting her rival. The beloved man, though outwardly attached elsewhere, is said inwardly still to belong to the heroine. Through these layered speeches, the poem reveals the unstable world of desire, where affection, deception, wealth, vanity, and emotional dependence constantly intermingle.
अन्यस्मिन्नुदवसिते विसर्जितामिष्टमालतीकेन ॥ ६०१ ॥
लोकेन हास्यमानां बिभ्राणां वाससी जलक्लिन्ने ।
रूपमदमुत्सृजन्तीं वैलक्ष्यव्रीडितेन नतवदनाम् ॥ ६०२ ॥
पश्चात्तापगृहीतां कण्टकदर्भाग्रभिन्नपादतलाम् ।
अस्मद्वचः स्मरन्तीं द्रक्ष्यन्त्यभिसारिकां सुकर्माणः ॥ ६०३ ॥
इति परुषमभिदधानां मातरमवधीर्य युष्मदभ्यासम् ।
चौरहतका व्रजन्तीं विद्रावितरक्षिणः सखीं मुमुषुः ॥ ६०४ ॥
एषा प्रपञ्चरचना यदि भवति वृथा पुनः पुरस्तस्य ।
वणिगिदमुपेत्य वक्ष्यति सहायपरिचोदितो भवतीम् ॥ ६०५ ॥
पूर्वादत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् ।
परिचारिकयानीता अन्यानपि मृगयते व्ययस्य कृते ॥ ६०६ ॥
यत्तु घनसारकुङ्कुमचन्दनधूपादि मुक्तकं दत्तम् ।
तत्सम्पुटके लिखितं शृणु पिण्डनिकां करोमि ते पुरतः ॥ ६०७ ॥
एतावन्तं कालं नावष्टभ्यार्थिता त्वमसि ।
रिक्तं भाण्डस्थानं साम्प्रतमिति याचना क्रियते ॥ ६०८ ॥
एवंवादिनि तस्मिन्किं चिल्लज्जानता क्षणं स्थित्वा ।
प्रश्रितया वाचा वाच्यः सवैलक्ष्यम् ॥ ६०९ ॥
हारस्तवैव तिष्ठतु मध्यस्थस्थापितेन मूल्येन ।
शेषं ततो यदन्यत्तद्दिवसैः संपादयिष्यामि ॥ ६१० ॥
इयमपि कपटग्रथना षण्डसमा चेत्तदीदृगभिधेयम् ।
आशङ्कन्तेऽनिष्टं कातरहृदया हि योषितः प्रायः ॥ ६११ ॥
अपटुशरीरे स्वामिनि विज्ञप्ता भगवती मया गत्वा ।
भवतु निरामयदेहो जीवितनाथस्तव प्रसादेन ॥ ६१२ ॥
सम्पन्नवाञ्छिताहं बल्युपहारेण पूजयिष्यामि ।
सामग्रीविरहेण तु न वितीर्णा तत्र मे मनसि शूका ॥ ६१३ ॥
अस्मिन्व्यर्थीभूते रिक्तीकृतशीर्णवेश्मनो दाहम् ।
उत्पाद्य मन्दगामिनि सर्वविनाशः प्रकाशमुपनेयः ॥ ६१४ ॥
स्निग्धत्वमलं बुद्ध्वा सहभोजनशयनवसनलिङ्गेन ।
एभिरुपायद्रव्यैर्वान्तविरिक्तस्त्वया कार्यः ॥ ६१५ ॥
वार्धुषिककदर्थनया भोगध्वंसात्सहायवचनैर्वा ।
अवधारितेऽपि निपुणं वरगात्रि विलुप्तसारत्वे ॥ ६१६ ॥
परुषवचोनिर्धारणमायत्यामीहितोपघातीति ।
यत्नादमी विधेया गम्यस्य विमोक्षणोपायाः ॥ ६१७ ॥
पृथगासननिर्देशः प्रत्युत्थानादिकेषु शैथिल्यम् ।
सासूयसोपहासा आलापा मर्मवेधि परिहसितम् ॥ ६१८ ॥
तत्प्रतिपक्षश्लाघा तदधिकगुणरागकीर्तनावृत्तिः ।
वदति प्रियमाभीक्ष्ण्यं बहुप्रलापित्वदूषणाख्यानम् ॥ ६१९ ॥
वचनान्तरोपघातैस्तत्प्रस्तुतसंकथासमाक्षेपः ।
तद्व्यवहारजुगुप्सा सव्यपदेशस्तदन्तिकत्यागः ॥ ६२० ॥
व्याजेन कालहरणं स्वापावसरे विवर्तनं शयने ।
निद्राभिभवख्यापनमुद्वेगः सम्मुखीकरणे ॥ ६२१ ॥
गुह्यस्पर्शनिरोधः स्वभावसंस्था रताभियोगेषु ।
चुम्बति वदनविकूणनमालिङ्गति कठिनगात्रसंकोचः ॥ ६२२ ॥
असहिष्णुत्वं प्रहणनकररुहदशनक्षतिप्रसङ्गेषु ।
दीर्घरते निर्वेदः स्वपिहीति वचोऽभियोजके भूयः ॥ ६२३ ॥
तदशक्तावनुबन्धो वैदग्ध्यविकाशने तथा हासः ।
रात्र्यवसानस्पृहया पुनः पुनर्यामिकप्रश्नः ॥ ६२४ ॥
निःसरणं वासगृहादुषसि समुत्थाय तल्पतस्त्वरया ।
सरभसमुदीरयन्त्या निशा प्रभाता प्रभातेति ॥ ६२५ ॥
उभयेच्छया प्रवृत्तं निरुपाधि प्रेम भवति रमणीयम् ।
अन्योन्यसमासक्तौ संस्थानमिवाभिजातमणिहेम्नोः ॥ ६२६ ॥
यस्त्वेकाश्रयरागः परिभवदौर्बल्यदैन्यनाशानाम् ।
स निदानमसंदिग्धं सीतां प्रति दशमुखस्येव ॥ ६२७ ॥
यानि हरन्ति मनांसि स्मितवीक्षितजल्पितानि रक्तानाम् ।
तान्येव विरक्तानां प्रतिभान्ति विवर्तितानीव ॥ ६२८ ॥
विदधातु किमपि कथमपि निगृह्यमाणा मुहूर्तमासिष्ये ।
इति यत्र मनः स्त्रीणां तत्रापि रते रमन्ति पशुतुल्याः ॥ ६२९ ॥
यत्र न मदनविकाराः सद्भावसमर्पणं न गात्राणाम् ।
तस्मिन्नुज्झितभावे पशुकर्मणि पशव एव रज्यन्ते ॥ ६३० ॥
अवधीरणयोपहतः प्रतिदिवसं हीयमानसद्भावः ।
अभिमानवान्मनुष्यो योषितमूढामपि त्यजति ॥ ६३१ ॥
साक्षिनिकोचं सख्याः पाणितलं पाणिना समाहत्य ।
यं नरमुपहसति स्त्री ददातु तस्मै मही रन्ध्रम् ॥ ६३२ ॥
पुरुषान्तरगुणकीर्तनमन्योद्देशेन चात्मनो निन्दाम् ।
शृण्वन्नपि यः स्वस्थः स्वस्थोऽसौ कालपाशबद्धोऽपि ॥ ६३३ ॥
अवगत्याभिप्रायं स्वामिन्याः परिजनोऽपि यं पुरुषम् ।
व्यवहरति तिरस्कुर्वंस्तस्य न मूल्यं वराटिकाः पञ्च ॥ ६३४ ॥
तत्त्वातत्त्वसमुत्थव्यवहृतयोर्योऽन्तरं न जानाति ।
स्थानं भवति स पशुपतिरपसंशयमर्धचन्द्रलाभस्य ॥ ६३५ ॥
क्रमगलितगौरवांशो रिक्ततया लाघवं परापतितः ।
अप्राप्तपरिच्छेदतटः प्लवतेऽसौ युवतिसरसि कुमनुष्यः ॥ ६३६ ॥
यत्नेन कपटघटिताञ्शृङ्गारज्ञापनार्थमनुभावान् ।
रतिशिल्पजीविकाभिर्मूढास्तत्त्वेन गृह्णन्ति ॥ ६३७ ॥
या धनहार्या नार्यो निर्मर्यादाः स्वकार्यतात्पर्याः ।
ताभिरपि समीहन्ते बत मन्दाः संगतमजर्यम् ॥ ६३८ ॥
अपरोक्षधनो गम्यः श्रीमानपि नान्यथेति निर्दिष्टम् ।
कन्दर्पशास्त्रकारैः कुतः कथा लुप्तविभवेषु ॥ ६३९ ॥
व्यासमुनिनापि गीतं द्वावेव नराधमौ मनो दहतः ।
योऽनाढ्यः कामयते कुप्यति यश्चाप्रभुत्वयुक्तोऽपि ॥ ६४० ॥
क्षीणद्रव्ये देहिनि दारा अपि नादरेण वर्तन्ते ।
किमुतादानैकरसाः शरीरपणवृत्तयो दास्यः ॥ ६४१ ॥
अविदितहेयादेयास्तिर्यञ्चोऽपि त्यजन्ति पीतरसम् ।
कुसुमं किमु कार्यविदो वेश्या नरमात्तसर्वस्वम् ॥ ६४२ ॥
उत्पादयति सदानो रागं रागात्मको यथाभ्यधिकम् ।
निर्दानोऽपि सदा नो निःसंदेहं तथैव मनुजन्मा ॥ ६४३ ॥
यदतीतं तदतीतं भाविनि लाभेऽपि नातिबहुमानः ।
तत्कालहस्तनिपतितमनियतपुंसां मुदे वित्तम् ॥ ६४४ ॥
पीडितमधु मधुजालं तुच्छीभूतं च मन्मथाग्रस्तम् ।
मुञ्चन्ति मदनशेषं क्षुद्राश्च प्रकटरामाश्च ॥ ६४५ ॥
एकः क्रीणात्यद्य प्रातो भविता तथापरः क्रेता ।
अन्यवशे क्षणमेकं न विक्रयः शाश्वतोऽस्ति वेश्यानाम् ॥ ६४६ ॥
संदर्शितपरमार्थं भ्रूक्षेपकटाक्षदृष्टहसितादि ।
शृण्वन्तु ये सकर्णास्तत्कृतमन्यत्र संक्रान्तम् ॥ ६४७ ॥
यदि नाम निराकरणे न समर्था छिन्नकार्यबन्धेऽपि ।
का चिन्महानुभावा बोद्धव्यं तदपि चेतनावद्भिः ॥ ६४८ ॥
तेनार्थेनोपकृतं तयापि तस्य स्वदेहदानेन ।
तच्चातीतं सम्प्रति निरर्थकः शुष्कशृङ्गारः ॥ ६४९ ॥
अवधीरणा रसायनमपमानो भवति यस्य परितुष्ट्यै ।
योग्योऽसौ पुरुषखरः खरतरनिर्भर्त्सनोक्तिलकुटानाम् ॥ ६५० ॥
दीपज्वालाललने व्रजतः खलु निर्वृतिं तयोस्त्वियान्भेदः ।
प्रथमा स्नेहेन विना तथापरा स्नेहयोगेन ॥ ६५१ ॥
धर्मः कामादभिनवगुणवन्निःस्वस्य मदनरोगवतः ।
अर्थोऽर्थवतोऽभिगमात्कामः समरतनरोपभोगेन ॥ ६५२ ॥
यस्तु न धर्मप्राप्त्यै नार्थाय न कामसाधनोपायः ।
स पुमान्सच्चरितधनैः पर्यनुयुक्तः किमाचष्टे ॥ ६५३ ॥
कामोद्वेगगृहीतं धूर्तैरुपहस्यमानशृङ्गारम् ।
दारिद्र्यहतं यौवनमबुधानां केवलं विपदे ॥ ६५४ ॥
व्यपगतकोषे रागिणि याति लयं पानमात्रलाभहृता ।
क्षुद्रा मधुकरिकाब्जे न तु गणिका चिन्तितस्वार्था ॥ ६५५ ॥
यासां कार्यापेक्षा सकटाक्षनिरीक्षणेऽपि वेश्यानाम् ।
दर्शनमात्रक्षुभितैर्वञ्च्यन्ते ताः कथं पुरुषैः ॥ ६५६ ॥
क्लेशाय दुर्गतानां मानस्तुतिगात्रभङ्गविन्यासम् ।
गणिकाभिनयचतुष्टयमाकृष्ट्यै स्वापतेयपुष्टानाम् ॥ ६५७ ॥
किं धक्ष्यति भूयोऽपि ज्वलनस्तं तादृशं कुलाङ्गारम् ।
यो दह्यतेऽविरामं विरक्तदासीतिरस्कारैः ॥ ६५८ ॥
गृहमेतदीश्वराणां कान्तारं दुष्प्रवेशमन्येषाम् ।
पूत्कृतमिदमुद्भुजया न मालती कामसत्त्रदानपरा ॥ ६५९ ॥
इति चोदितगृहचेटीनिगदितकटुकाक्षरान्यकृतलक्ष्याः ।
आकर्णयतो वाचो दैवोपहतस्य तस्य मर्मभिदः ॥ ६६० ॥
एवमभिधीयमानो नो बुध्यति यदि पशुर्नराकारः ।
तदिदं सुन्दरि वाच्यः प्रश्रितवचसा त्वया कामी ॥ ६६१ ॥
प्रीयत एव तवोपरि हृदयं मे किं तु गुरुजनाधीना ।
मातृवचोतिक्रमणं न समर्था संविधातुमहम् ॥ ६६२ ॥
अर्हसि तावदतस्त्वं गन्तुमितः कतिपयान्यपि दिनानि ।
पुनरपि भवतैव समं भोक्तव्यं जीवलोकसुखम् ॥ ६६३ ॥
निर्वासिते तु तस्मिन्यः कामी पूर्वमुज्झितो भुक्त्वा ।
तस्य प्राप्तविभूतेर्युक्तिरियं भिन्नसंधाने ॥ ६६४ ॥
उपवनलीलाविहरणहावोज्ज्वलमञ्जुलस्य सह तेन ।
वर्णनमितिवृत्तस्य स्मरजविकाराश्च वीक्षिते तस्मिन् ॥ ६६५ ॥
इदमुपवनमतिधन्यं निर्भरमालिङ्गितं सुरभिलक्ष्म्या ।
मत्स्कन्धार्पितपाणिर्बभ्राम स यत्र जीविताधीशः ॥ ६६६ ॥
सख्य इतो भ्रमरकुलत्रासितया प्रियतमो मया सहसा ।
वक्रीभवत्पयोधरमुपगूढो धीरसीत्कारम् ॥ ६६७ ॥
रणदिन्दिन्दिरवृन्दे कूजत्कलकण्ठरावरमणीये ।
अत्रातिमुक्तकगृहे मरुदीरणविधुतकुसुमसंछन्ने ॥ ६६८ ॥
मयि जाताधिकरागो बलवति मदने सहायसामग्र्या ।
कान्तः पल्लवशयने नो तृप्तिमगाद्विविक्तकार्येषु ॥ ६६९ ॥
प्रेङ्खोलनवितरणयुक्त्या विध्यन्पार्श्वयोर्नखैर्धूर्तः ।
चक्रे मां मदनमयीं व्रततिप्रेङ्खामिमां समारूढाम् ॥ ६७० ॥
स्पृहणीयोऽयमशोकः स्पृष्टो यद्वल्लभेन हस्तेन ।
अस्मदवतंसकार्थं नूतनदलपल्लवान्विचारयता ॥ ६७१ ॥
अस्मिन्सहकारतले तस्योत्सङ्गे सलीलमासीना ।
अशृणवमहमिति वाचः पश्यन्ती विलसितानि तरुणानाम् ॥ ६७२ ॥
उत्थापय मानरसे दयितं चरणाग्रनिपतितं तूर्णम् ।
अत्याकृष्टं त्रुट्यति सुदृढमपि प्रेमबन्धनं मूढे ॥ ६७३ ॥
तिष्ठन्नपि यातसमः किं तेन निवारितेन सखि पशुना ।
यामीति निष्प्रकम्पं विनिःसृता यस्य माधवे वाणी ॥ ६७४ ॥
आयुःसारं यौवनमृतुसारः कुसुमसायकवयस्यः ।
सुन्दरि जीवितसारो रतिभोगसुखामृतास्वादः ॥ ६७५ ॥
रम्यं कुसुमस्तबकं कुरु मे प्रिय कैङ्किरातमवतंसम् ।
तिष्ठतु वा किमनेन प्रत्यग्रमशोककिसलयं चारु ॥ ६७६ ॥
आस्तामास्तामेतत्प्रापय मां सिन्दुवारमभिरामम् ।
नहि नहि राजति सुतरां चूतद्रुममञ्जरी कर्णे ॥ ६७७ ॥
धिक्तारुण्यमकान्तं धिक्कान्तं यौवनेन रहितं च ।
धिक्तद्द्वयमपि मन्मथसामर्थ्यविकासितं विना सुरतम् ॥ ६७८ ॥
जनितोऽप्यपराधशतैर्वामे तस्मिंश्चिरप्ररूढोऽपि ।
अवगतमधुना सख्यो न वसन्तमतीत्य वर्तते मानः ॥ ६७९ ॥
वर्षशतस्य स सारः काललवः प्रथममेलकस्थानम् ।
सचकितमागच्छन्ती सोत्कलिका यत्र दृश्यते रमणी ॥ ६८० ॥
किं निर्मितोऽसि धात्रा नवोऽपरः किमु वसन्तगुण एषः ।
कुसुमशरपूर्णतूणः किमुताभवदन्य एव कन्दर्पः ॥ ६८१ ॥
नो पश्यसि यदि ककुभः प्रचुरोज्ज्वलसुरभिकुसुमरमणीयाः ।
परभृतकूजितमिश्रान्न शृणोषि यदि द्विरेफझङ्कारान् ॥ ६८२ ॥
गन्धं यदि नो लभसे वासितदिग्व्योम सुमनसां हृद्यम् ।
अनुभवसि यदि स्पर्शं नो शीतलदाक्षिणात्यपवनस्य ॥ ६८३ ॥
रसनेन्द्रियैकशेषः परसंचार्यो जनेन परिभूतः ।
नार्हसि ततोऽपि मुक्त्वा निजाश्रयं गन्तुमन्यतो नितराम् ॥ ६८४ ॥
अस्मिन्सरसि सलीलं करयन्त्रविनिर्यदम्बुधाराभिः ।
दयितेन ताडिताहं मयाप्यसावाहतो मृणालिकया ॥ ६८५ ॥
पुनरन्तर्जलमग्नो मामुपगम्याविभावितः सहसा ।
उच्चिक्षेप सहासं हासितसंनिहितपरिवारः ॥ ६८६ ॥
संसक्तार्द्रावरणं जघनं नः पश्यतस्तदा तस्य ।
प्रथमाकाङ्क्षाकूतं भेजे सम्भोगशृङ्गारः ॥ ६८७ ॥
कालप्रदेशवेशव्यापारस्थितिविशेषघटनाभिः ।
चिररूढोऽपि हि यूनां नवत्वमुपनीयते रागः ॥ ६८८ ॥
सादरमर्पयतोऽब्जं गोत्रस्खलनापराधिनस्तस्य ।
सख्यः स्मरामि सहसा विलक्षतां क्लिष्टहसितस्य ॥ ६८९ ॥
प्रत्यग्रनखव्रणिते स्तनान्तरे क्षिपति लोचने स्पृहया ।
प्रेयसि ह्रीताच्छादनमकरवमहमब्जिनीपत्रम् ॥ ६९० ॥
क्षिप्त्वातर्कितमम्भो गर्भितनलिनीपलाशपुटमारात् ।
आहतया यद्विकृतं स्वस्थधिया तन्न शक्यते कर्तुम् ॥ ६९१ ॥
सुश्लिष्टो हावविधिर्मदनालसगात्रजृम्भितं ललितम् ।
गूढस्थानप्रकटनमङ्गुलिविस्फोटनं स्मितं सुभगम् ॥ ६९२ ॥
नीविविमोचनबन्धौ मुहुर्मुहुः केशपाशविश्लेषः ।
स्वाधरदशनग्रहणं बालकपरिचुम्बनं रतोत्सुकता ॥ ६९३ ॥
साकाङ्क्षितं क्षिपन्त्यास्तरलायतलोचने मुहुः काम्ये ।
उद्दिश्य तद्वयस्यकमिति शोकग्रस्तवर्णगिरः ॥ ६९४ ॥
एकीभावं गतयोर्जलपयसोर्मित्रचेतसोश्च तथा ।
व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥ ६९५ ॥
अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शण्ठः ।
परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥ ६९६ ॥
येन तदा मामूचे परिजनमुत्सार्य विवृतनटमन्युः ।
दर्शितहितस्वरूपः परपीडाकरणपण्डितः प्रखलः ॥ ६९७ ॥
अविदितगुणान्तराणां को दोषः प्रान्तदेशवासानाम् ।
स्वाधीनकुङ्कुमा अपि यद्विदधति बहुमतिं नीले ॥ ६९८ ॥
क्व महीतलरम्भा त्वं न्यक्कृतचन्द्रप्रभा स्वदेहरुचा ।
Cइत्रलता क्व वराकी नीचैरुपसेविता वोटा ॥ ६९९ ॥
यस्यार्थे न विगणिताः प्रह्वात्मानो महाधनाः कुलजाः ।
सोऽद्य हृदयेन तस्यां त्वयि तिष्ठति बाह्यवृत्तेन ॥ ७०० ॥
तामेव समाचरणां सदसद्भावप्रवर्तितां निपुणैः ।
विन्दन्ति तत्र कुशलाः स्नेहविरूक्षप्रभेदेन ॥ ७०१ ॥
तव तु विरूढप्रेम्णस्तत्कर्मविवेचनं मनोवृत्तिः ।
नारुहतीति मयैवं निवेदितं पारिचित्येन ॥ ७०२ ॥
इति दुर्जनाहिनिःसृतवाग्विषदूषितसमस्तवपुषो मे ।
ईर्ष्यारुजः प्रवृद्धाश्चिररूढप्रणयखण्डनप्रभवाः ॥ ७०३ ॥
लघुहृदयतया यस्माद्दुर्भाषितवज्रपातविहतानाम् ।
वक्तृविशेषवितर्को न स्पृशति प्रायशो मनः स्त्रीणाम् ॥ ७०४ ॥
प्रियमपि वदन्दुरात्मा क्षिपति विपत्सागरे दुरुत्तरे ।
आसाद्य प्राणभृतो मृतये परिलेढि जिह्वया खड्गः ॥ ७०५ ॥
हितमधुराक्षरवाणीव्यवहारमनुप्रविश्य तल्लीनम् ।
सरला दुराशयानामुपघातं फलत एव विन्दन्ति ॥ ७०६ ॥
परसंतापविनोदो यत्राहनि न प्रयाति निष्पत्तिम् ।
अन्तर्मना असाधुर्न गणयति तदायुषो मध्ये ॥ ७०७ ॥
दिवसान्तानभिनन्दति बहु मनुते तेषु जन्मनो लाभम् ।
ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ॥ ७०८ ॥
विकसितवदनः प्रखलः प्रोत्फुल्लविलोचनो यथा भ्रमति ।
मन्ये तथा न जातः सदहितकरणश्रमो वन्ध्यः ॥ ७०९ ॥
शठमृगयुः कुसृतिशरैरज्ञातप्रतिविधानसाधुमृगान् ।
अभ्यस्तलक्षवेधो निघ्नन्न परिश्रमं व्रजति ॥ ७१० ॥
अनुकूलवरपुरन्ध्रिषु पुरुषाणां बद्धमूलरागाणाम् ।
नयति मनो दुःशीलः कुसुमास्त्रो हीनपात्रेषु ॥ ७११ ॥
सावरणं व्रजतोऽन्यां कौतुकदृष्ट्या प्रसङ्गतो दयितान् ।
बुद्ध्वापि विदग्धधियो वर्तन्ते नाट्यधर्मेण ॥ ७१२ ॥
सत्यं प्रेमणि वृद्धे व्यथयति हृदयं मनागपि स्खलितम् ।
अवधृतनिजमाहात्म्यास्तदपि न धीरा विमुह्यन्ति ॥ ७१३ ॥
स्वच्छन्दं पिबतु रसं भ्रान्त्वा भ्रान्त्वा वनानि कुसुमेषु ।
अनुभूतगुणविशेषः पुनरेष्यति मालतीं मधुपः ॥ ७१४ ॥
मालत्या गुणवत्तां सम्यग्नो वेत्ति मधुकरस्तावत् ।
अनुभवमेति न यावत्सुमनोन्तरसंगमास्वादे ॥ ७१५ ॥
कोमलमानकदर्थां भजमानो भजति दीप्ततामधिकाम् ।
संचाल्यमानदारुः पावक इव सुप्रभः स्नेहः ॥ ७१६ ॥
यः पुनरतिकोपानलसंतापवशेन दूरमाकृष्टः ।
काचमणिः स खलु यथा परिणामे खण्डखण्डमुपयाति ॥ ७१७ ॥
वेतनलोभाद्बहवः सेव्यन्ते सौष्ठवेन पञ्चजनाः ।
विश्राम्यति यत्र मनः स तु दुष्प्रापः सहस्रेषु ॥ ७१८ ॥
मन्वादिमुनिवरैरपि कालत्रयवेदिभिः सुदुर्ज्ञेयम् ।
तत्सुकृतं यस्य फलं रभसागतवल्लभाश्लेषः ॥ ७१९ ॥
यातेऽपि नयनमार्गं प्रेयसि यस्याः स्मृतिर्व्यलीकेषु ।
मन्ये तां प्रति नियतं कुण्ठितशरपञ्चकः मदनः ॥ ७२० ॥
जीव्यत एव कथं चिद्धिग्वृत्तिमिमां महद्भिरवगीताम् ।
विजहाति यन्न गणिका तद्वाञ्छितरमणलाभलोभेन ॥ ७२१ ॥
कण्टकिनः कटुकरसान्करीरखदिरादिविटपतरुगुल्मान् ।
उपभुञ्जाना करभी दैवादाप्नोति मधुरमधुजालम् ॥ ७२२ ॥
का श्रीरप्रणयिवशा का विलसितयो मनोभवविहीनाः ।
को धर्मो निरुपशमः किं सौख्यं वल्लभेन रहितानाम् ॥ ७२३ ॥
स्वाच्छन्द्यफलं बाल्यं तारुण्यं रुचितसुरतभोगफलम् ।
स्थविरत्वमुपशमफलं परहितसम्पादनं च जन्मफलम् ॥ ७२४ ॥
अभिदधतीमिदमालीमवकर्ण्य गृहीतयेव भूतेन ।
यौवनसुखेन सार्धं मयैव यूयं परिच्छिन्नाः ॥ ७२५ ॥
अधुनानुतापपावकमध्यगता पच्यमानसर्वाङ्गी ।
निष्फलजन्मप्राप्तिर्जीवाम्युच्छ्वासमात्रेण ॥ ७२६ ॥
स्थानेषु येषु युष्मत्संगतया क्रीडितं चिरं धृत्या ।
तानि खलु वीक्षमाणा भवामि कण्ठस्थितप्राणा ॥ ७२७ ॥
अन्यवशेन विसंज्ञा कृतभूषा यन्त्रसूत्रसंचारा ।
दारुमयीव प्रतिमा विदधामि विडम्बना बह्वीः ॥ ७२८ ॥
यदि नामोदरभरणप्राप्त्यै कुरुतेऽन्यपुष्पसंश्लेषम् ।
तदपि न पुष्टिर्भृङ्ग्या अपिबन्त्या आरविन्दमकरन्दम् ॥ ७२९ ॥
आस्तामपरो लोकः क्रीडापेक्षी परापदि प्रीतः ।
व्यसनार्णवे पतन्ती न वारिता परिजनेनास्मि ॥ ७३० ॥
किं वा बहुभिः कथितैः सम्प्रति नियमे तु नियमिता बुद्धिः ।
स्थास्यामि संनियुक्ता भवद्गृहे प्रेष्यकार्येषु ॥ ७३१ ॥
इति नेत्रादिविकारैर्वशमुपनीतं प्रलीनधैर्याङ्गम् ।
मारग्रहाभिभूतं परिमृष्टप्राङ्निराकृतिस्मरणम् ॥ ७३२ ॥
प्रादुर्भूतरिरंसं क्षणे क्षणे जत्रुदेशगतदृष्टिम् ।
पक्वाम्रमिव विमोक्ष्यसि पूर्ववदाचूष्य सुभ्रु निःशेषम् ॥ ७३३ ॥
स्वशरीरामिषदिग्धं वक्रस्मितदृष्टिपातवाग्बडिशम् ।
प्रक्षिप्याकृश्य जडं स्फुरणेन विवर्जितं सुपरिपुष्टम् ॥ ७३४ ॥
हस्तद्वयान्तरागतमुपचारपरिव्ययेन संस्कृत्य ।
भुक्त्वा यावन्मांसं त्यक्ष्यसि चर्मास्थिशेषितं मत्स्यम् ॥ ७३५ ॥
शृणु सुश्रोणि यथास्मिन्कलशेश्वरपादमूलमञ्जर्या ।
प्रवराचार्यदुहित्रा राजसुतश्चर्वितश्च मुक्तश्च ॥ ७३६ ॥
आसीच्छ्रीसिंहभटो नाम्ना नृपतिर्महीयसां प्रष्ठः ।
तस्यात्मजोऽधितस्थौ निवेशनं देवराष्ट्रसंबद्धम् ॥ ७३७ ॥
स कदा चिद्वृषभध्वजदिदृक्षया परिमिताप्तपरिवारः ।
अनुवर्तमान आगात्तारुण्योदीर्णवेशचरितानि ॥ ७३८ ॥
मूर्धत्रिभागसंस्थितबृहदम्बरचीरकेशसंयमनः ।
अल्पाच्छगात्ररागो घनकुङ्कुमलिप्तकर्णकेशाग्रः ॥ ७३९ ॥
सिद्धार्थबीजदन्तुरललाटतिलकोपयुक्तताम्बूलः ।
श्रवणनिवेशितकुण्डलटीटिभकप्रायकन्धराभरणः ॥ ७४० ॥
केयूरस्थानगतस्वर्णावृतमन्त्रगर्भजतुगुडकः ।
मणिबन्धनविन्यस्तप्रचलाङ्कुरजातरूपमणिमालः ॥ ७४१ ॥
धृतवेत्रदण्ड ऊर्णकपरिवेष्टितसासिधेनुकनितम्बः ।
मृदुतरपटिकावरणः शब्दोल्बणचुर्चुराङ्कचरणत्रः ॥ ७४२ ॥
ङम्भीरेश्वरदास्यां लग्नः किल तव वयस्यको वीरः ।
प्राप्स्यति सापि दुराशावर्षत्रितयेन यन्मया प्राप्तम् ॥ ७४३ ॥
दर्शयति दिशः फलिता अमृतगभस्तिं करेऽवतारयति ।
षुरदेवि Cअन्द्रवर्मा निर्वस्तुकवाक्प्रपञ्चेन ॥ ७४४ ॥
त्वामनुयान्तं सम्प्रति पश्यामि कुरङ्गि वसुषेणम् ।
सुनिरूपिता भविष्यसि विषमा गुडजिह्विका तस्य ॥ ७४५ ॥
चर्वयति जलं योऽसौ हरिणि हरो धूर्तताभिमानेन ।
लिखति शतं दशवृद्ध्या स निमग्नस्तरलिकावर्ते ॥ ७४६ ॥
गृह्णासि यत्पटान्ते मम पश्यत एव नन्द मदिराख्याम् ।
अत आवयोरवश्यं मा वक्ष्यसि नोक्तमन्तरं भवति ॥ ७४७ ॥
योऽयं गृहीतबृसिकः कुशकर्णो विधृतदण्डकाषायः ।
लोकस्पर्शाशङ्की कृतापसारो विलोकयन्पार्श्वौ ॥ ७४८ ॥
कुर्वाणो मौनव्रतमुत्पादितसकलवैष्णवश्रद्धः ।
हरिशासनं प्रपन्नस्त्रिपुरान्तकदर्शनापदेशेन ॥ ७४९ ॥
स्त्रैणं पश्यति युक्त्या साकाङ्क्षं वर्जितान्यजनदृष्टिः ।
कुमुदिनि मम हृदयगतं भवितव्यं व्याजलिङ्गिनानेन ॥ ७५० ॥
पश्यत्यदृश्यमानो निरीक्षितो वीक्षते परां ककुभम् ।
ब्रूते किं चित्सस्पृहमभियुक्तो भवति कीलितध्वानः ॥ ७५१ ॥
न जहाति समासन्नं नोत्सहते स्पर्शगोचरे स्थातुम् ।
एष मनुष्यो मन्ये निष्प्रतिभः साभिलाषश्च ॥ ७५२ ॥
तेऽतीताः खलु दिवसाः क्रियते नर्म त्वया समं येषु ।
अधुनाचार्यानी त्वं भाशुद्धाचार्यसम्बन्धात् ॥ ७५३ ॥
भ्रमसि यथेष्टं तावत्कुर्वाणो युवतिपल्लवग्रहणम् ।
ऌओलिकदास न यावन्नरदेवीपाशिकां विशसि ॥ ७५४ ॥
एवंप्रकारवाक्यप्रसक्तविटचेटिकासमाकीर्णम् ।
सेवाचतुरपुरःसरविजनीकृतवर्त्म देवकुलम् ॥ ७५५ ॥
सम्पादितहरपूजो निष्ठुरयाष्टीकनियमिते लोके ।
त्वरितनियोगिस्थापितमासनमध्यास्त समरभटः ॥ ७५६ ॥
अग्रोपविष्टनर्तकवांशिकगातृप्रकाशयुवतिगणः ।
श्रेष्ठिप्रमुखवणिग्जनढौकितताम्बूलकुसुमपटवासः ॥ ७५७ ॥
विविधविलेपनखरटितचक्रकधरखड्गधारिणाशून्यः ।
पृष्ठत आत्तकृपाणैः शिरोभिरक्षैश्च विश्वस्तैः ॥ ७५८ ॥
ताम्बूलकरङ्कभृता सन्दंशगृहीतवीटिकाग्रहणे ।
ईषत्स्पृष्टं कुर्वन्मन्दं खटकामुखेन वामेन ॥ ७५९ ॥
पार्श्वावस्थितनर्मप्रियसचिवन्यस्तपूर्वतनुभागः ।
पप्रच्छ कुशलवार्तां स वणिग्जननर्तकप्रभृतीन् ॥ ७६० ॥
अथ वैतालिक उच्चैरुपसंहृतलोककलकले धीरः ।
अभितुष्टाव तमित्थं प्रसन्नगम्बीरया वाचा ॥ ७६१ ॥
जय देव परबलान्तक गुरुचरणाराधनैककृतचित्त ।
परवनिताजघनासन दारिद्र्यतमःप्रचण्डकरजाल ॥ ७६२ ॥
रणधीरवंशभूषण गुरुवसुधादेवपूजनप्रह्व ।
शरणागताभयप्रद हितबान्धवबन्धुजीवमध्याह्न ॥ ७६३ ॥
ईदृक्प्रतापदहनो भावत्को व्याप्तगगनदिक्चक्रः ।
दृष्टो जलायमानो रिपुवनितातिलकशोभासु ॥ ७६४ ॥
एष विशेषः स्पष्टो वह्नेश्च त्वत्प्रतापवह्नेश्च ।
अङ्कुरति तेन दग्धं दग्धस्यानेन नोद्भवो भूयः ॥ ७६५ ॥
श्रीफलभुक्पत्रवृतो विग्रहरसिको विमुक्तसत्त्ररतिः ।
राज्यस्थितिं न मुञ्चति हृतलक्ष्मीकोऽपि तव विपक्षगणः ॥ ७६६ ॥
ददतो वाञ्छितमर्थं सदानुरक्तस्य तव गृहं त्यक्त्वा ।
स्त्रीचापलेन कीर्तिर्नग्नासक्ता गता ककुभः ॥ ७६७ ॥
भवतः भवतो धैर्यं तेन हि भिन्नोऽन्धकः प्रणतः ।
मुक्तास्त्वया तु बहवो रिपवोऽपि प्रेक्षकाः समरे ॥ ७६८ ॥
अटता जगतीमखिलामिदमाश्चर्यं मया दृष्टम् ।
धनदोऽपि नयननन्दन परिहरसि यदुग्रसम्पर्कम् ॥ ७६९ ॥
इदमपरमद्भुततमं युवतिसहस्रैर्विलुप्यमानस्य ।
वृद्धिर्भवति न हानिर्यत्तव सौभाग्यकोशस्य ॥ ७७० ॥
अपरं विस्मयजननं धवलत्वं नापयाति यद्भवतः ।
ललनालोचनकुवलयदलत्विषा शबलितस्यापि ॥ ७७१ ॥
हृदयेषु कामिनीनामेकोऽनेकेषु वससि येन त्वम् ।
जनक कुसुमास्त्रपाणेः पुरुषोत्तम तेन विश्वरूपोऽसि ॥ ७७२ ॥
किं वहसि वृथा गर्वं प्रियोऽहमिति योषितां नराधीश ।
काङ्क्षन्ति स्म मुरारिं षोडशगोपीसहस्राणि ॥ ७७३ ॥
ब्राह्मण्येन ययाचे मखसमये यः Bअलिं हृषीकेशः ।
न स भवति समो भवता दानैकनिषण्णहृदयेन ॥ ७७४ ॥
भूमिभृतामुपरिस्थित उन्नत्या सकलजीवलोकस्य ।
तृष्णासंतापहरो मेघ इव कदा न दक्षस्त्वम् ॥ ७७५ ॥
बहुमार्गो भङ्गयुतः कुसृतिपरो गोत्रभेदकरणपटुः ।
ङङ्गाजलप्रवाहः पुण्यदिशा केवलं तव समानः ॥ ७७६ ॥
दुर्व्यवहारोत्पत्तिर्मौर्ख्यप्रसवोऽविवेकितावसतिः ।
एकस्त्वं दोषज्ञः कृतीकृतो येन कलिकालः ॥ ७७७ ॥
सुगतोऽपि नाजिविमुखो वृषध्वजोऽपि न विषादितायुक्तः ।
उद्यतशस्त्रोऽपि रिपौ कथमसि सन्नासिको जातः ॥ ७७८ ॥
सन्मणिरनेकभोगो गुरुभारसहः स्थिरात्मतास्थानम् ।
नरदेव चित्रमेतद्यदशेषगुणैस्त्वमाश्लिष्टः ॥ ७७९ ॥
प्रकृतिलघोर्येन कृता जघन्यवर्णस्य गौरवापत्तिः ।
जघनचपला तथार्या स पिङ्गलस्ते कथं तुल्यः ॥ ७८० ॥
यस्य न जातिर्नात्मा नार्थज्ञानं न मानसे प्रशमः ।
भवसि भवसार न त्वं तेनाद्वयवादिनासदृशः ॥ ७८१ ॥
तत्रापि वृद्धियोगस्तस्मिन्नपि पुरुषगुणगणख्यातिः ।
परिभाषा तत्रापि व्याकरणान्नातिरिच्यसे तेन ॥ ७८२ ॥
निर्व्याजस्तवनोऽपि त्यक्ताक्षेपोऽपि निरुपमानोऽपि ।
सद्रूपकजातिगुणैर्नाथ त्वं गामलङ्कुरुषे ॥ ७८३ ॥
अन्यैव वर्णनैषा भवत्सु लोकोत्तरा स्थिता कापि ।
वामो यथैव शत्रुषु मित्रेषु तथैव वामोऽसि ॥ ७८४ ॥
पूजयसि येन गुरुजनमभिनन्दसि येन साधुचरितानि ।
प्रीणयसि येन विप्रान्नृपनन्दन तेन वृषलस्त्वम् ॥ ७८५ ॥
दैन्यमिदं यच्छ्लाघा क्रियते तव रक्षसापि न समस्य ।
न स हठमकरोद्योषिति भवांस्तु भुङ्क्ते प्रसह्य रिपुलक्ष्मीम् ॥ ७८६ ॥
रामणिकाचाटुपदस्तवनं यल्लाभहेतुरस्माकम् ।
तत्पतति ते स्वरूपे यामि नमः सन्तु सौख्यानि ॥ ७८७ ॥
श्रुत्वानन्तरमवदद्बन्दिनमभिनन्द्य साधुवादेन ।
आस्स्व किमाकुलता ते यास्यसि तुष्टो मया प्रहितः ॥ ७८८ ॥
पुनरपि पठ तद्युगलं गीतिकयोर्यत्त्वया पुरा पठितम् ।
कक्षान्तरितेन मम स्थितस्य कुलपुत्रिकावासे ॥ ७८९ ॥
त्वयि वदति साधुवादं वागियमुन्मुद्रिता बुधसमाजे ।
अभिधायेति पपाठ त्रिस्थानविशुद्धनादेन ॥ ७९० ॥
एका खण्डनकुपिता विरसान्या प्रणयभङ्गवैलक्ष्यात् ।
का चिन्निकटतरासनमप्राप्य बिभर्ति हृदयनिर्वेदम् ॥ ७९१ ॥
अन्या कलहान्तरिता नवपरिणयलज्जयापरा विहता ।
रमणीगणमध्यगतः स्मरातुरः किं करोतु बहुजानिः ॥ ७९२ ॥
अभ्युपगमावबोधकमस्तकचलनं विधाय विकृतभ्रूः ।
नृत्ताचार्यमवादीदेतस्मिन्किं सुसंगीतम् ॥ ७९३ ॥
स उवाच ततो वणिजो नेतारो यत्र यत्र पात्राणि ।
शाठ्यायतनं दास्यस्तत्र कुतः सौष्ठवं नाट्ये ॥ ७९४ ॥
का चिद्बलिनाक्रान्ता का चिन्न जहाति कामिनं रुचिरम् ।
अन्या पानकगोष्ठ्यां नयति दिनं प्रीतकैः सार्धम् ॥ ७९५ ॥
नोत्सृजति सततमेका पुरुषागमनाशया गृहद्वारम् ।
शूलापालः कथयति लब्धोत्कोचो रजस्वलामपराम् ॥ ७९६ ॥
रङ्गगतापि क्षुद्रा शृणोति यदि परिचितं गृहायातम् ।
उद्दिश्य वारिकार्यं व्रजति ततः प्रकृतमुत्सृज्य ॥ ७९७ ॥
आ तारुण्योद्भेदात्कान्ते दृष्टिर्ययाभ्यस्ता ।
सामाजिकमध्यस्था सा कथमन्यासु याति परभागम् ॥ ७९८ ॥
चेतोवशिता सत्त्वं सत्त्वे सति चारुता प्रयोगस्य ।
न भवति सा वेश्यानां मद्यामिषपुरुषनिहितहृदयानाम् ॥ ७९९ ॥
वयमपि देवनिकेतनमनङ्गहर्षे गते त्रिदशलोकम् ।
आश्रितवन्तोऽगत्या तीर्थस्थानोपरोधेन ॥ ८०० ॥
इह तु कदा चित्किं चिद्वृत्तिनिरोधाभिशङ्कया निरुत्साहाः ।
रत्नावल्यामेता विदधति करपादविक्षेपम् ॥ ८०१ ॥
वत्सेशभूमिकास्या इयमनुकुरुते नरेश्वरवयस्यम् ।
वासवदत्ताचरितप्रयोगमेषा विडम्बयति ॥ ८०२ ॥
उद्यमसाहित्यवशाच्छोभातिशयेन मदनुबन्धेन ।
अनया प्रसिद्धिराप्ता सिंहलराजात्मजानुकृतौ ॥ ८०३ ॥
विविधस्थानकरचनां परिक्रमं गात्रवलनलालित्यम् ।
काकुविभक्तार्थगिरो रसपुष्टिं वासनास्थैर्यम् ॥ ८०४ ॥
सात्त्विकभावोन्मीलनमभिनयमनुरूपवर्तनाभरणम् ।
मिश्रामिश्रे वाद्ये लयाच्युतिं वर्णयन्ति मञ्जर्याः ॥ ८०५ ॥
एषाभिधानकीर्तननाशितसशरीरकुसुमशरबोधा ।
सहसोद्भिन्नमनोभवभावदृशा सिन्दुवारविवरेण ॥ ८०६ ॥
पश्यन्ती वत्सेश्वरमनुकार्यानुकरणभेदपरिमोषम् ।
साधुध्वनिमुखराननसामाजिकजनमनःसु विदधाति ॥ ८०७ ॥
वत्सपतिमालिखन्ती कामावस्थां क्रमेण भजमाना ।
वेपथुपुलकस्वेदैरावहति विसंष्ठुलं हस्तम् ॥ ८०८ ॥
सदृशेऽप्यनुभावगणे करुणरसं विप्रलम्भतो भिन्नम् ।
दर्शयति निरभिकाङ्क्षितमुद्बन्धनगोचरापन्ना ॥ ८०९ ॥
तस्मिन्निर्दिशतीत्थं मञ्जरिकां साभिलाषमवलोक्य ।
पस्पर्श राजपुत्रः किमसाविति वेत्रदण्डेन ॥ ८१० ॥
बुद्ध्वाथ तस्य भावं प्रसारयन्युवतिसंकथाकेलिम् ।
न्यक्कुर्वन्वारवधूः सचिवः प्रशशंस बन्धकीगमनम् ॥ ८११ ॥
दाररतिः संततये व्याधिप्रशमाय चेटिकाश्लेषः ।
तत्खलु सुरतं सुरतं कृच्छ्रप्राप्यं यदन्यनारीषु ॥ ८१२ ॥
स्वव्यापारैकमतेः परचिन्ता नास्ति मे कदा चिदपि ।
पश्यन्त्यास्त्वामीदृशमद्य तु मे मानसं व्यथितम् ॥ ८१३ ॥
यदि वेद्मि तस्य वसतिं सामर्थ्यं यदि भवेत्ततोऽभ्यधिकम् ।
तद्गत्वा दग्धविधिं लगुडैः संचूर्णयिष्यामि ॥ ८१४ ॥
वपुरिदमनुपममीदृग्यदि विहितं तव कृशाङ्गि हतधात्रा ।
अनुरूपरमणविरहात्किमिति कृतं वन्ध्यजन्मफलम् ॥ ८१५ ॥
शैशवमस्तु जरा वा व्याधिर्वा क्षेत्रियः प्रणाशो वा ।
स्वाकारं तारुण्यं न तु कुपतिकदर्थनाग्रस्तम् ॥ ८१६ ॥
केलिः प्रदहति मज्जां शृङ्गारोऽस्थीनि चाटवः कटुकाः ।
न करोति मनस्तुष्टिं दानमभव्यस्य गृहभर्तुः ॥ ८१७ ॥
कुत आगतासि कस्मिन्वेलामियतीं स्थिता किमर्थमिति ।
पृच्छन्नस्वस्थमना जनयति गेही शिरःशूलम् ॥ ८१८ ॥
यदि भवति दैवयोगाच्चक्षुर्विषये समुज्ज्वलस्तरुणः ।
तत्रात्मानं क्षपयति जायां च रटन्गृहस्वामी ॥ ८१९ ॥
सविवादे परलोके जनापवादेऽपि जगति बहुचित्रे ।
दैवाधीने प्रलये न विदग्धा हारयन्ति तारुण्यम् ॥ ८२० ॥
दुर्भर्तृकरास्फालनमलिनीक्रियमाणशोभमनुदिवसम् ।
तुङ्गमपि पतितकल्पं स्तनशालिनि तव पयोधरद्वन्द्वम् ॥ ८२१ ॥
पर्यङ्कः स्वास्तरणः पतिरनुकूलो मनोहरं सदनम् ।
तुलयन्ति न लक्षांशं त्वरितक्षणचौर्यसुरतस्य ॥ ८२२ ॥
सहसा संकटवर्त्मन्यवितर्कितसम्मुखागतेन विशा ।
अभिलषितेनोद्घृष्टकमनल्पशुभकर्मणा लभ्यम् ॥ ८२३ ॥
प्रीतिः किल निरतिशया स्वर्गः परलोकचिन्तकैर्गदितः ।
तस्यास्तु जन्मलाभो हृदयेप्सितपुरुषसंभोगात् ॥ ८२४ ॥
अतटस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
ते शोकक्लेशरुजां केवलमुपयान्ति पात्रतां मन्दाः ॥ ८२५ ॥
किं प्रतिकूला ग्रहगतिरुत परिणतमन्यजन्मदुश्चरितम् ।
स्वानुष्ठानाभ्यसनं किं वा तस्यात्मयोनिहतकस्य ॥ ८२६ ॥
येन तपस्वी स युवा स्तौति समीरं त्वदङ्गसंस्पृष्टम् ।
त्वत्पादाक्रान्तभुवे स्पृहयति ककुभं त्वदाश्रितां नमति ॥ ८२७ ॥
ध्यायति युष्मद्रूपं त्वन्नामकवर्णमालिकां जपति ।
एकाग्रीकृतचेतास्त्वत्संगतसौख्यसिद्धिमभिकाङ्क्षन् ॥ ८२८ ॥
उत्सृष्टसकलकार्यस्तिर्यग्ग्रीवं विलोकयन्भवतीम् ।
कुरुते गृहाग्ररथ्यां यातायातैः शतावर्ताम् ॥ ८२९ ॥
दृष्टोऽसि तया सुचिरं गेहाभ्याशे परिभ्रमन्स्पृहया ।
संदेश एष दत्तः प्राभृतमेतत्तव प्रहितम् ॥ ८३० ॥
शुष्यति सालभमाना भवत्कृते वेश्मनिर्गमावसरम् ।
इति चतुरशठस्त्रीभिर्विलुप्यते त्वदपदेशेन ॥ ८३१ ॥
किं वा कथितैरधिकैरस्थानाविष्टचेतसस्तस्य ।
अनुतिष्ठ यथायुक्तं त्वत्तो नाशश्च जीवरक्षा च ॥ ८३२ ॥
कुलपतनं जनगर्हां नरकगतिं प्राणितव्यसंदेहम् ।
अङ्गीकरोति तत्क्षणमबला परपुरुषमभियान्ती ॥ ८३३ ॥
स तु लिखति दासपत्रं त्यजति कुटुम्बं ददाति सर्वस्वम् ।
यावन्न भवति पुरतः परयुवतिः प्रोज्झितावरणा ॥ ८३४ ॥
दृष्टं यद्द्रष्टव्यं व्यपयातं कौतुकं विदितमन्तः ।
इति याति मनसि कृत्वा विहितविधेयस्ततस्तूर्णम् ॥ ८३५ ॥
सापि च्छिन्ना च्छोटनगृहीतमुक्ता विलोकयन्त्याशाः ।
विशति गृहं संत्रस्ता सर्वत आशङ्किता सवैलक्ष्या ॥ ८३६ ॥
नवचारित्रभ्रंशात्सुरचितकुलटोत्तरेषु नो निपुणा ।
पृष्टा क्व गतासि त्वं न क्व चिदिति सम्भ्रमाद्ब्रूते ॥ ८३७ ॥
एते दोषा बहवः पुरुषा अपि चपलकौतुकाः प्रायः ।
त्वं च ग्रहेण लग्ना कार्यविमूढात्र तिष्ठामि ॥ ८३८ ॥
इति दोलागतहृदया स्थिरीकृताभ्यस्तकर्मणा दूत्या ।
दृष्टेति शङ्कमाना पदे पदे चलति पर्णेऽपि ॥ ८३९ ॥
सर्वत्र विक्षिपन्ती मुहुर्मुहुश्चकिततरलिते नेत्रे ।
प्राप्ता संकेतभुवं शतगुणितमनोरथाकृष्टा ॥ ८४० ॥
भयशृङ्गारव्रीडामिश्रीभूतानुभावसन्दोहम् ।
जनयन्ती लोलांशुकदृष्टादृष्टांसकुचनाभिः ॥ ८४१ ॥
नीवीश्लथनारम्भं निरुन्धती न न न यामि यामीति ।
निभृतास्फुटाभिधानैः पल्लवयन्ती स्मरस्य कर्तव्यम् ॥ ८४२ ॥
नयतीवान्तर्विलयं ग्रसमाना सर्वगात्राणि ।
यं श्लिष्यतेऽन्ययोषा तिक्तं तस्यामृतं पुरतः ॥ ८४३ ॥
न कृतं तव रहसि पुरो बाष्पावृतकण्ठकुण्ठया वाचा ।
गेहस्वामितिरस्कृतिनिष्पादितदुःखवेगनिर्वहणम् ॥ ८४४ ॥
उपधानीकृत्य भुजावन्योन्यं निर्विशङ्कमावाभ्याम् ।
संवलितोरु न सुप्तं शिथिलाङ्गं रतिविमर्दखिन्नाभ्याम् ॥ ८४५ ॥
आत्मगृहादानीतं प्रच्छाद्य स्वादु भोजनं विजने ।
स्वकरेण मया दत्तं निर्वृतहृदयेन नाशितं भवता ॥ ८४६ ॥
न कृता चरित्ररक्षा न च भुक्तं त्वच्छरीरमपयन्त्रम् ।
दृष्टादृष्टभ्रष्टा क्व यामि किं वा करोमि दुर्जाता ॥ ८४७ ॥
अवगुण्ठनविनयरतिं स्वैरालपनं सुमन्दसंचारम् ।
सम्प्रति मम पापायाः करपिहितमुखा हसन्ति भूमिज्ञाः ॥ ८४८ ॥
यासामासीत्सख्यं मया समं समवयःकुलस्त्रीणाम् ।
ता वारयन्ति मत्तः कुसङ्ग इति तन्नियन्तारः ॥ ८४९ ॥
धिग्वादान्परिजनतः सहमाना मन्युरोधनतवदना ।
तिष्ठामि निरभिमाना स्वविनिर्मितदोषदौर्बल्यात् ॥ ८५० ॥
सद्भिर्विधीयमानं प्रसङ्गपतितं पतिव्रतास्तवनम् ।
हृदयेन दूयमाना मूढा सीदामि शृण्वन्ती ॥ ८५१ ॥
आसन्न उपविशन्तीं मन्दाक्षान्मां निषेद्धुमसमर्थाः ।
अन्योन्यमीक्षमाणा ज्ञातिजनाः संकुचन्ति भुञ्जानाः ॥ ८५२ ॥
प्रकटीकृता त्वयैव क्षणमात्रममुञ्चता गृहोपान्तम् ।
अस्मासु दृशं मग्नां प्रेमस्निग्धामनुद्धरता ॥ ८५३ ॥
परगृहविनाशपिशुनाः सुभगंमन्याभिरूप्यकृतदर्पाः ।
कृकलासतुल्यरागा भवन्ति युष्मद्विधा एव ॥ ८५४ ॥
अनभीष्टव्यवहारप्रभवशुचा पीडिताक्षरा इत्थम् ।
सोपालम्भा विजने धन्याः शृण्वन्ति बन्धकीवाचः ॥ ८५५ ॥
परतरुणीसद्भावस्नेहार्पितनयनभागदृष्टस्य ।
वेश्यारचितविलासाः कथिताः पुरतः पुराणतृणतुल्याः ॥ ८५६ ॥
उपनमति रतिमहोत्सव आराधितदेवताविशेषाणाम् ।
वचनमपि प्रेमार्द्रं स्वैरिण्याः श्रवणमेति पुण्यवताम् ॥ ८५७ ॥
का गणना विषयरते पुंसि वराके पराङ्गना स्पृहया ।
व्याजेन वीक्षमाणा ध्यानधियां स्पृशति मज्जानम् ॥ ८५८ ॥
शिरसा रचिताञ्जलयो दधति निदेशं त्रिविष्टपे गणिकाः ।
परदाररसाकृष्टस्तथापि भेजे शचीपतिरहल्याम् ॥ ८५९ ॥
अप्सरसः किं न वशा वैदग्ध्यवतां च किं न धौरेयः ।
येन चकारासक्तिं गोविन्दो गोपदारेषु ॥ ८६० ॥
त्रैलोक्यगता वेश्याः स्वाधीना यातुधाननाथस्य ।
तदपि जहार कलत्रं दशरथतनयस्य रामस्य ॥ ८६१ ॥
अथ मञ्जर्या जननी निजपक्षसमर्थने कृतोत्साहा ।
आक्षेप्तुमाचचक्षे नृपसुतसचिवाश्रितं वाक्यम् ॥ ८६२ ॥
घटयुवतिषु प्रगल्भो नागरिकादर्शनेन हृतपुंस्त्वः ।
ग्रामोषितोऽविदग्धो निन्दति गणिकां भवद्विधोऽवश्यम् ॥ ८६३ ॥
नार्द्रयति मनः पुंसामवगाहितमीनकेतुशास्त्राणाम् ।
नखदशनक्षतिहीनं जीवत्पतिबन्धकीसुरतम् ॥ ८६४ ॥
स्थापय घटकं तावत्कुरु भूमितले तृणैः समास्तरणम् ।
सुरतोपक्रम ईदृक्प्रायो ग्रामीणतरुणमिथुनानाम् ॥ ८६५ ॥
बहलोशीरविलिप्तस्थितजूटककाणमल्लिकामाल्यः ।
पामरनार्या दृष्टः स्मरोऽहमिति मन्यते विटो ग्राम्यः ॥ ८६६ ॥
गृहकर्मकृतायासप्रस्विन्नां सलिलकार्यनिर्याताम् ।
उपपतिरुपैति हर्षं निशागमे पामरीं प्राप्य ॥ ८६७ ॥
कूपावतारितघटाया नार्याः काष्ठनिहितचरणायाः ।
वलितग्रीवं वीक्षितमुन्नमयति मानसं यूनः ॥ ८६८ ॥
लग्नोऽसि यत्र गात्रे कथमपि दैवेन देवयात्रायाम् ।
अद्यापि तन्न मुञ्चति पुलकोद्गमकण्टकं तस्याः ॥ ८६९ ॥
उच्चेतुं कर्पासं प्रविष्टया गहनवाटिकां शून्याम् ।
खङ्कारितेन संज्ञा कृता तया त्वं तु वेत्सि नो मूर्खः ॥ ८७० ॥
आलिङ्गितमुसलायास्त्वय्येव निविष्टचक्षुषस्तस्याः ।
आवृत्त्या भ्रमति पुरो जातः खलु शालिखण्डने विघ्नः ॥ ८७१ ॥
त्वां विल्वकं क्षिपन्तं पार्श्वस्थैः स्तूयमानसामर्थ्यम् ।
गृहकर्तव्यं त्यक्त्वा सापश्यद्द्वाररन्ध्रेण ॥ ८७२ ॥
त्वयि मार्गनिकटवर्तिन्यविवेचितखेदया तया सुभग ।
प्रत्यासन्नगृहेष्वपि कृतः प्रसह्य स्मरातुरो लोकः ॥ ८७३ ॥
इति चतुरदूतिकोदितवर्धितसौभाग्यगर्वपूर्णस्य ।
ऊर्मिसहस्रोल्ललितं भवति मनो ग्रामषिङ्गस्य ॥ ८७४ ॥
विनिवार्य तं प्रवर्तितवाक्यविकासं नतोत्तमाङ्गेन ।
श्रीसिंहभटस्य सुतं समुवाच वचोऽथ नर्तकाचार्यः ॥ ८७५ ॥
नायकभूमौ भरतः कुशीलवाः कोहलादयो मुनयः ।
अप्सरसः स्त्रीनाट्ये गान्धर्वः कमलजन्मनस्तनयः ॥ ८७६ ॥
सुषिरस्वरप्रयोगप्रतिपादनपण्डितः मतङ्गमुनिः ।
यदि रञ्जयन्ति हृदयं भवतो भूमिस्पृशां कुतः शक्तिः ॥ ८७७ ॥
अभ्यधिकं धृष्टत्वं प्रायेण हि शिल्पजीविनां भवति ।
आश्रितनर्तकवृत्तेर्विशेषतो विजितरङ्गस्य ॥ ८७८ ॥
विज्ञापयाम्यतस्त्वां निर्मितनाट्ये प्रजासृजा सदृशम् ।
अवलोकयाङ्कमेकं मा भवतु मम श्रमो वन्ध्यः ॥ ८७९ ॥
इति कथयन्नरभर्तुः पुत्रेण स चोदितो भ्रुवोन्नतया ।
रचिते सकलातोद्ये नियोजयामास सूत्रधृतम् ॥ ८८० ॥
वांशिकदत्तस्थानक उद्ग्राहितभिन्नपञ्चमे सम्यक् ।
प्रावेशिक्या ध्रुवया द्विपदीग्रहणान्तरेऽविशत्सूत्री ॥ ८८१ ॥
उत्साहभावयुक्तः सामाजिकहृदयरञ्जनं कुर्वन् ।
कविनैपुणवत्सेश्वरचरितस्वविधेयदाक्ष्यसामग्र्या ॥ ८८२ ॥
अष्टकलापरिमाणां ध्रुवां परिक्रम्य ताललययुक्ताम् ।
आहूय नटीं कृत्वा तया समं स्वगृहकार्यसंलापम् ॥ ८८३ ॥
सूचितपात्रागमनः किं चिद्दत्त्वा पदानि ललितानि ।
निश्चक्राम गृहिण्या सार्धं निःसरणगीतेन ॥ ८८४ ॥
आश्रित्य कथोद्घातं प्रविवेश ततः सविस्मयोऽमात्यः ।
दुर्घटसंघटनेन क्षितिनाथस्योदयेन मुदितश्च ॥ ८८५ ॥
प्रासादमारुहन्तं कुसुमायुधपर्वचर्चरीं द्रष्टुम् ।
निर्दिश्य वत्सनाथं समनन्तरकार्यसिद्धये निरगात् ॥ ८८६ ॥
अथ विशति स्म नरेन्द्रः प्रासादगतः समं वयस्येन ।
अवलोकयन्प्रमोदं प्रमुदितचेताः स्वसौख्यसम्पत्त्या ॥ ८८७ ॥
विस्मयभावाकृष्टः प्रोत्फुल्लविलोचने ततो विसृजन् ।
नृत्यति पौरजनौघे प्रोवाच वयस्य पश्य पश्येति ॥ ८८८ ॥
तुल्यशिशुतरुणवृद्धं समगुप्तागुप्तयुवतिपरिचेष्टम् ।
अगणितवाच्यावाच्यं क्रीडति जनता प्रवृद्धहर्षरसा ॥ ८८९ ॥
पिष्टातकपिञ्जरितं रचितोल्बणविविधकुसुमनिर्यूहम् ।
गात्रायाससमुत्थितबहुनिःश्वासप्रकीर्णपदगीतम् ॥ ८९० ॥
तूर्यरवव्यामिश्रितकरतालैरुद्भुजं प्रनृत्यन्तम् ।
मुहुरपि जातस्खलनं संदर्शितदार्ढ्यसौष्ठवं स्थविरम् ॥ ८९१ ॥
अस्तु वसन्तः सततं स्वाधीनाभीष्टजनसमाश्लेषः ।
इति गायन्ती रभसादालिङ्गति मदवशात्तरुणी ॥ ८९२ ॥
क्रीडन्त्याशयरहितं शृङ्गकसलिलेन ताडितस्तरुणः ।
सीमन्तिन्या गणयति दुष्टात्मा सुभगमात्मानम् ॥ ८९३ ॥
भग्ने लज्जासेतौ पर्वावसरेण कुलवधूवदनात् ।
अश्लीलोक्तिजलौघे निर्याते केन वार्यते प्रसरः ॥ ८९४ ॥
तुल्यव्यापारगिरां ललनानां देवनप्रसक्तानाम् ।
आर्यानार्यावगमं वदनावृतिजालिका कुरुते ॥ ८९५ ॥
अथ सहचरनिर्दिष्टे मदस्खलच्चरणविघटिताभिनयम् ।
वासवदत्ताप्रहिते नृत्यन्त्यौ विविशतुश्चेट्यौ ॥ ८९६ ॥
दर्शितसरोजवर्तनमात्राभिनये शरेऽभिनेतव्ये ।
विदधाने वीरदृशावायुधमात्रं समाश्रित्य ॥ ८९७ ॥
तद्वलितनयनवृत्तिः कौतुकहृतमानसो नराधिपतिः ।
निजगाद निर्भरमहो क्रीडितमनयोर्विलासिन्योः ॥ ८९८ ॥
करपीडनोपमर्दव्यतिकरसमये कदर्थ्यमानोऽपि ।
स्तनमण्डले स्थितोऽहं त्वं पुनराकृष्य कुत्र चित्क्षिप्तः ॥ ८९९ ॥
अधुनान्तरयसि मामिति कोपादिव वारवाणमभिरामम् ।
बहुचित्रपदन्यासैर्वल्गन्त्या हन्ति हार उच्छलितः ॥ ९०० ॥
चूतलता धम्मिल्लस्थानच्युतशेखरं दधौ श्लाघ्यम् ।
अधृत पतन्निर्यूहां न त्वेषा मदनिका वेणीम् ॥ ९०१ ॥
स्तनभारावनतस्य प्रतनोर्मध्यस्य नास्ति तेऽपेक्षा ।
इत्थमिव पादलग्नौ क्रीडन्त्या नूपुरौ रसतः ॥ ९०२ ॥
वहति स्म यं नितम्बं कथमपि कृच्छ्रेण मन्दसंचारा ।
कलयति तं तूललघुं जयति मनोजन्मनो महिमा ॥ ९०३ ॥
ऊदयनसमनुज्ञातो नर्नर्ति वसन्तकोऽपि मुदितात्मा ।
हास्यत्रपाभिरामं चर्चरितालेन तन्मध्ये ॥ ९०४ ॥
धीरोद्धतललितपदैः क्रीडित्वा ते चिराय नरनाथम् ।
प्रद्योतस्य सुतायाः संदेशकमूचतुः समुपगम्य ॥ ९०५ ॥
आदिशति देव देवीत्यर्धोक्ते ते सलज्जमन्योन्यम् ।
अवलोक्य मुखं न हि न हि विज्ञापयति प्रणम्य विनयेन ॥ ९०६ ॥
मकरध्वजस्य पूजां त्वत्पादसरोजसंनिधौ कर्तुम् ।
पृथिवीमण्डलमण्डन समीहते मे मनोवृत्तिः ॥ ९०७ ॥
प्रियरतिभोगो मदनो दयितवसन्तो जनस्य मनसि वसन् ।
भावेन भवान्पूज्यो लोकस्थित्या तु कुसुमशरपाणिः ॥ ९०८ ॥
इति दत्त्वा संदेशं प्रकृतिवयःकालसमुचितं भ्रान्त्वा ।
ते मदमदनाविष्टे बभूवतुर्जवनिकान्तरिते ॥ ९०९ ॥
अपनीततिरस्करिणी ततोऽभवन्नृपसुता समं चेट्या ।
अविदितरत्नावल्या पूजोचितवस्तुहस्तयानुगता ॥ ९१० ॥
अथ दृष्ट्वा सागरिकां प्रमादितां परिजनस्य निन्दित्वा ।
काञ्चनमालामवदन्नृपमहिषी जातसंक्षोभा ॥ ९११ ॥
प्रेषय कन्यामेनामवरोधं त्वं गृहाण कुसुमादि ।
यावन्न भवति विषये वीक्षणयोर्भूमिनाथस्य ॥ ९१२ ॥
उपगम्य ततश्चेटी तामवदत्त्वं किमर्थमायाता ।
मेधाविनीं विमुच्य व्रज तस्मिन्मा विलम्बस्व ॥ ९१३ ॥
विहिते देव्यादेशे मनसीदं सन्निधाय सा तस्थौ ।
विहगी सुसङ्गताया हस्ते निहिता मनोभवसपर्याम् ॥ ९१४ ॥
अवलोकयामि तावत्तिरोहिता सिन्दुवारविटपेन ।
तातान्तःपुरिकाभिर्यथार्च्यते किं तथेह नो वेति ॥ ९१५ ॥
पिण्डीकृतमिव रागं हृच्छयमिव लब्धविग्रहोत्कर्षम् ।
समुपेत्य वत्सराजं जगाद सा जयतु देव इति ॥ ९१६ ॥
परिभुक्तमपि नवत्वं शृङ्गारं मदनपर्वणा नीतम् ।
भजमानो भजमानां स्वागतवचसाभिनन्द्य तामूचे ॥ ९१७ ॥
शर्वविलोचनपावकदाहाभ्यधिकां मनोभवो मन्ये ।
प्राप्स्यति तव करसङ्गतिसुखविरहसमुत्थितां पीडाम् ॥ ९१८ ॥
अथ मन्मथमभ्यर्च्य क्षितिनाथं तदनु समधिकं तस्याम् ।
परमां मुदं वहन्त्यां विग्रहवन्मदनमनसि कन्यायाम् ॥ ९१९ ॥
शृङ्गाररससमुद्रं सोत्कलिकं निपतिते तथा नृपतौ ।
तारमधुरस्फुटार्थं नग्नाचार्यः पपाठ नेपथ्ये ॥ ९२० ॥
नयनानन्दमखण्डितमण्डलमभिरामममृतरश्मिमिव ।
सायन्तन आस्थाने क्षितिपतयस्तस्थुरुदयनं द्रष्टुम् ॥ ९२१ ॥
उच्चारितेऽथ नाम्नि त्रिदशमतौ तत्क्षणं व्यपेतायाम् ।
उत्पन्नविस्मयरतिर्निदधे नरभर्तुरात्मजा हृदये ॥ ९२२ ॥
अयमुदयनः स राजा तातः सत्कृत्य मां ददौ यस्मै ।
हन्त परप्रेषणमपि न निष्फलं साम्प्रतं जातम् ॥ ९२३ ॥
यावन्न वेत्ति कश्चित्तावदितस्त्वरितमेव निर्यामि ।
इति कथमपि नायकतः कृष्ट्वा दृशमुत्ससर्ज रङ्गभुवम् ॥ ९२४ ॥
कन्दर्पमहमहोत्सवहृतहृदयैर्नावधारितोऽस्माभिः ।
संध्यातिक्रमकालः पश्य त्वं प्रियवयस्यक तथा हि ॥ ९२५ ॥
उदयतटान्तरितमियं प्राची सूचयति दिङ्निशानाथम् ।
परिपाण्डुना मुखेन प्रियमिव हृदयस्थितं रमणी ॥ ९२६ ॥
देवि त्वन्मुखपद्मः पद्मान्विदधाति पश्य विच्छायान् ।
अलयोऽपि लज्जिता इव शनैः शनैस्तदुदरेषु लीयन्ते ॥ ९२७ ॥
एवमभिधाय चित्रैश्चरणन्यासैः परिक्रमं कृत्वा ।
नैष्क्रामिक्या ध्रुवया विनिर्ययौ नायकोऽपि सह सर्वैः ॥ ९२८ ॥
अङ्के जातसमाप्तौ गीतातोद्यध्वनौ च विश्रान्ते ।
प्रेक्षणकगुणग्रहणं नृपसूनुः प्रववृते कर्तुम् ॥ ९२९ ॥
नाट्यप्रयोगतत्त्वं मतयो न विशन्ति मादृशां प्रायः ।
वाहनयजनपदातिग्रामादिककार्यदत्तहृदयानाम् ॥ ९३० ॥
आस्ते लिखितो ग्रामो गृहाण तं सत्प्रदेशबहुभूमिम् ।
वासय तत्रावासं भवसि ततः ठक्कुरो दिवसैः ॥ ९३१ ॥
कृतजीवनसंस्थोऽपि त्वमपि किमर्थं करोषि विज्ञप्तिम् ।
अर्पय वा यदि नेच्छसि कुरु स्थितिं हस्तदानेन ॥ ९३२ ॥
न च पत्तयो न सप्तिर्न च पोष्यजनस्तथाप्यसंतुष्टः ।
लभमानोऽपि स दायं चिरन्तनत्वाभिमानेन ॥ ९३३ ॥
विज्ञप्तिकोन्मुखत्वं दूरत एवावधारितं भवतः ।
तूष्णीं क्रियतामस्माच्छ्रोष्यसि कार्यं प्रतीहारात् ॥ ९३४ ॥
यूयं कुटुम्बमध्ये क्व गम्यते गोत्रपुत्रसामान्यम् ।
आदाय संविभागं स्वगृह इव स्थीयतां यथासौख्यम् ॥ ९३५ ॥
अभ्यन्तरव्ययार्थं न विलब्धो यो मया महोद्रङ्गः ।
तत्रापि तेऽनुबन्धो नो जाने किं करोमीति ॥ ९३६ ॥
प्रथमतरमेव कल्पितमनल्पफलजीवनं प्रदेशस्थम् ।
अद्यापि ते न जातं नियोगिनां पश्य मन्थरताम् ॥ ९३७ ॥
एवंप्रायैरनुदिनलाभोदयमोहकारिभिर्वचनैः ।
फलशून्यैरनुजीवी प्रतारितः कः कियत्कालम् ॥ ९३८ ॥
एतद्विषये नैपुणमत्र तु भूमिज्ञतां समाश्रित्य ।
मुखरतया कथयामो जडमतिसामाजिकोचितं किं चित् ॥ ९३९ ॥
सप्ताश्रयः षडात्मा शारीरस्त्रिप्रमाणपरिमाणः ।
सत्त्वाधिक्याज्ज्येष्ठो व्यस्तसमस्तैस्त्रिभिर्विनिष्पाद्यः ॥ ९४० ॥
सुकुमाराविद्धक्रिय उपरञ्जकरञ्जितो विविधवृत्तिः ।
आदेयहेयमध्यैर्भावैः संपादितः प्रयोगोऽयम् ॥ ९४१ ॥
गम्भीरमधुरशब्दं परिरक्षितगीतविविधभङ्गयुतम् ।
दर्शयतो वैचित्र्यं न भ्रष्टो वादकस्य लयकालः ॥ ९४२ ॥
अपरित्यक्तस्थानकरसकाकुव्यञ्जितस्फुटार्थपदम् ।
अभिरामाविश्रान्तं पठितं निरवद्यमखिलभाषासु ॥ ९४३ ॥
नियमितदीपनगमनं द्रुतमध्यविलम्बितालसंयुक्तम् ।
रसवत्स्वरोपपन्नं कृतसाम्यं साधु गातृभिर्गीतम् ॥ ९४४ ॥
प्रकृतिविशेषावस्थाप्रतिपादकवेषरचनसामग्र्या ।
अनुकरणमभ्यतीतं सिद्धिद्वयसम्पदाधारम् ॥ ९४५ ॥
भरतसुतैरुपदिष्टं क्षितिपतिनघुषावरोधनारीणाम् ।
मन्ये ता अपि नाट्ये शोभासंदोहमीदृशं नापुः ॥ ९४६ ॥
सुश्लिष्टसन्धिबन्धं सत्पात्रसुवर्णयोजितं सुतराम् ।
निपुणपरीक्षकदृष्टं राजति रत्नावलीरत्नम् ॥ ९४७ ॥
एवंविधगुणकथनप्रसङ्गिनि विभावितात्मनृपतनये ।
पठति स्मार्यामन्यः स्मृतिविषयमुपागतां प्रसङ्गेन ॥ ९४८ ॥
संग्रामादनपसृतिः प्रेक्षाभिज्ञा सुभाषिताभिरतिः ।
आच्छोदनाभियोगः कुलविद्या राजपुत्राणाम् ॥ ९४९ ॥
एतद्वस्तुनि याते श्रुतिमार्गं नृपतिनन्दनो रसतः ।
आरब्धकथाच्छेदकमाखेटकवर्णनं चक्रे ॥ ९५० ॥
चललक्ष्यवेधकौशलमश्वप्रजवे स्थिरासनाभ्यसनम् ।
भूमिविभागज्ञानं भवन्ति मृगयाभियोगेन ॥ ९५१ ॥
वहति जवेन तुरङ्गे निबिडस्थितपादकटकपादाग्रः ।
तिर्यक्प्रणिहितकायो निम्नोन्नतमग्रतो भुवः पश्यन् ॥ ९५२ ॥
यावत्प्राणं धावत्याकुलिते विश्वकद्रुभिर्भीत्या ।
गोचरपतिते जीवे लघुक्रियः क्षिपति मार्गणं धन्यः ॥ ९५३ ॥
मूले स्थितस्य निभृतं मृगयुभिरुच्चाट्य ढौकितं निकटे ।
पातयतो मृगमुत्प्लुतमव्यपदेश्यं सुखं किमपि ॥ ९५४ ॥
गीतश्रवणोत्कर्णं निश्चलतृणकवलगर्भमुखहरिणम् ।
उपवेशितमस्पन्दं स्पृहणीया एव गृह्णन्ति ॥ ९५५ ॥
दावानलसंतापान्निर्यान्तं गहनवीरुधोऽभिमुखम् ।
यो निरुणद्धि स वन्द्यः सूकरमेकप्रहारेण ॥ ९५६ ॥
घनकक्षोदरसुप्तं समुपेत्य स्वैरमकृतपदशब्दम् ।
व्याधवर एव कुरुते निर्जीवं हेलया शशकम् ॥ ९५७ ॥
इति विदधति सैंहभटावाखेटकशक्तिलाघवश्लाघाम् ।
हृदयागतामगायत्प्रसङ्गतो गीतिकामपरः ॥ ९५८ ॥
आस्तां व्यापाररसः प्रवर्तिता संकथापि मृगयायां ।
अन्तरयति तन्मनसामाहारादिक्रियोचितं कालम् ॥ ९५९ ॥
अवधार्य गीतिकार्थं दानं प्रति धननियुक्तमभिधाय ।
उत्तस्थौ समरभटः मञ्जरिकां समवलोकयन्प्रेम्णा ॥ ९६० ॥
गत्वाथ स्वावसथं निर्वर्तितभोजनादिकर्तव्यः ।
मञ्जरिकाकृष्टमना अभिदध्यौ सचिवसंनिधावेवम् ॥ ९६१ ॥
भ्रूभङ्गस्मितवीक्षितमृदुवक्रवचोङ्गहारगमनेषु ।
कुसुमप्रहरण एको युगपद्विहिताश्रयः कथं तस्याः ॥ ९६२ ॥
षुन्दोपसुन्दनाशः फलमात्मभुवस्तिलोत्तमासृष्टेः ।
जनमृतये तां सृजता किं दृष्टं सुरहितं तेन ॥ ९६३ ॥
सुमनोभिः परिकरिता मृगशावकतरलचक्षुषस्तस्याः ।
कामोचितफलहेतुर्देहभृतां दीर्घिका वेणी ॥ ९६४ ॥
कमलमिव वदनकमलं पिबन्ति तस्यास्त्रिपिष्टपभ्रष्टाः ।
सदलिकमपेतदोषं सविभ्रमं मधुमदाताम्रम् ॥ ९६५ ॥
यः शैलेन्द्रनितम्बं सुरताप्त्यै सेवते तपोनिरतः ।
स्पृहयति सोऽपि नितम्बं सुरताप्त्यै समवलोक्य तन्वङ्ग्याः ॥ ९६६ ॥
त्रिकरो मध्यविभागो बाह्वोर्युगलं करद्वयोपेतम् ।
जनयति तदपि मृगाक्षी सहस्रकरतोऽधिकं तापम् ॥ ९६७ ॥
सा स्रग्धरा सुवदना प्रहर्षिणी सैव सैव तनुमध्या ।
न करोति कस्य विस्मयमिति रुचिरा मञ्जुभाषिणी सैव ॥ ९६८ ॥
अनुकुर्वत्या कन्यां तथा तथा नायकस्तया दृष्टः ।
येन जरत्स्वप्
यटनी धनुषः स्पृष्टा दशार्धबाणेन ॥ ९६९ ॥
रूपं यौवनचित्रितमनङ्गविकृतानि नाट्यदीप्तानि ।
शमिनामपि शमगर्वं मुष्णन्त्यविकल्पितं तस्याः ॥ ९७० ॥
दग्धेऽपि वपुषि भीतिं न विमुञ्चति नीललोहितसमुत्थाम् ।
तत्क्षेत्रे वसति यतः प्रमदारूपेण शम्बरध्वंसी ॥ ९७१ ॥
यदि वः परलोकमतिः शृणुत श्रेयस्तपोधना मत्तः ।
उत्सृज्य यात तूर्णं वारवधूदूषितं स्थानम् ॥ ९७२ ॥
चिरमपि विकल्प्य निश्चितिरियमेव स्थाप्यते न गतिरन्या ।
तन्निर्माणे जाता लावण्यमयाः कणा विधेरणवः ॥ ९७३ ॥
आसाद्य समुच्छ्रायं तस्याः स्तनयुगलमविहतप्रसरम् ।
क्षपयति यज्जनमेवं कः स्प्रक्ष्यति तद्विवेकवान्पतितम् ॥ ९७४ ॥
स कथं न स्पृहणीयो विषयरतैस्तन्नितम्बविन्यासः ।
शान्तात्मनापि विहितं विश्वसृजा गौरवं यस्य ॥ ९७५ ॥
स्मरणाद्यस्योत्पत्तिः सुमनस इषवोऽबलाश्रया शक्तिः ।
सोऽपि व्यङ्गः प्रहरति धातुरहो चित्रमाचरितम् ॥ ९७६ ॥
तिष्ठन्त्वन्ये दृष्ट्वा सारं जगतां तदङ्गनारत्नम् ।
नष्टपठनावधानो भवति ब्रह्मा सनिर्वेदः ॥ ९७७ ॥
यदि पश्यति तां शर्वस्तदपररामासमागमाद्विमुखः ।
निन्दति मूर्धनि सोमं स्मराग्निसंधुक्षणं शरीरं च ॥ ९७८ ॥
केशव इह संनिहितः सापि मनोहारिरूपसम्पन्ना ।
तद्वक्षश्च्यवनभुवं कथमुज्झति सैन्धवीशङ्काम् ॥ ९७९ ॥
उदयति न पण्डितानां कथमात्मनि कौतुकं गजेन्द्रगतिः ।
यन्नववयसां पुंसां विना क्रियायोगमुपसर्गः ॥ ९८० ॥
श्रुतिकुवलयमीक्षणतां कुवलयतां वा विलोचनं यायात् ।
हरिणदृशो यदि न स्यात्कनकोज्ज्वलकेसरं मध्ये ॥ ९८१ ॥
ललनास्तदतुल्यतया पुरुषा अपि तदुपभोगविरहेण ।
गच्छन्ति शोषमनिशं प्रकृतिद्वयवर्जिताः स्वस्थाः ॥ ९८२ ॥
दुर्वृत्तयोर्न वृत्तं श्लाघास्पदमेति तत्पयोधरयोः ।
यौ दत्त्वामलमूर्तिं मध्ये हारं जनक्षयं कुरुतः ॥ ९८३ ॥
भूमण्डलेऽत्र सकले नातः परमपरमद्भुतं किं चित् ।
नो जाता यदपार्था कृशोदरी धार्तराष्ट्रयातापि ॥ ९८४ ॥
कृश एष मध्यदेशस्तन्व्या नाहार्यमण्डनं वोढुम् ।
शक्त इति कृतं विधिना रोमावलिभूषणं सहजम् ॥ ९८५ ॥
साकम्पोऽधर ईक्षणयुगलस्याधीरता भ्रुवोर्भङ्गः ।
तन्वङ्ग्या बलमीदृग्जयति जगत्तदपि निःशेषम् ॥ ९८६ ॥
वहतु नितम्बः स्थूलो रशनां हारं च कुचयुगं पीनम् ।
तद्बाहुमृणालिकयोः सापायं कटकयोजनमयुक्तम् ॥ ९८७ ॥
बहलोपायाभिज्ञा गुणविषये सततमाहितप्रीतिः ।
बलिनः स्थापयति वशे करभोरुर्विग्रहेण मृदुनैव ॥ ९८८ ॥
इति तत्स्तुतिमुखरमुखे राजसुते मकरकेतनाकुलिते ।
समुपागता प्रगल्भा मञ्जरिकाचोदिता दूती ॥ ९८९ ॥
सा सप्रणतिः पुरतः सुमनस्ताम्बूलपटलकं निदधे ।
व्यज्ञापयच्च तदनु स्वावसरे सहचरीकार्यम् ॥ ९९० ॥
मुररिपुनाभिसरोरुहमवतंसीकर्तुमीहते मूढा ।
नक्षत्रराजमण्डलमिच्छति वियतः समादातुम् ॥ ९९१ ॥
निश्चेतनाभिकाङ्क्षति पीयूषं त्रिदिवसद्मनामशनम् ।
अभिलषति शयनमुष्णे नवचन्दनपल्लवास्तरणे ॥ ९९२ ॥
विदधाति पारिजातकसुमनोनिर्यूहधारणश्रद्धाम् ।
दुर्व्यवसिता जिघृक्षति नारायणवक्षसो रत्नम् ॥ ९९३ ॥
अनियतपुरुषस्पृश्याः पापा वयमन्यथा क्व हीनकुलाः ।
क्व च यूयमिन्द्रकल्पा अनल्पमनसो गुणाभरणाः ॥ ९९४ ॥
दुष्प्रकृतेः प्रकृतिरियं तस्य तु दग्धात्मजन्मनः कापि ।
अगणितयुक्तायुक्तो लगयति चेतो यदस्थाने ॥ ९९५ ॥
या हसति सरोजवतीं रसान्विता सहजरागरक्तेति ।
ध्यानधिय आत्मवृत्तिं निन्दत्येकत्र पुरुष आसक्ताम् ॥ ९९६ ॥
स्निग्धेति नाभिनन्दति जन्मशतेनापि सर्पिषो धाराम् ।
पञ्चाक्षद्यूतगतिं नानर्थकरमणसंगतां स्तौति ॥ ९९७ ॥
न स्तौति चन्दनलतां भुजङ्गपरिवेष्टितां रसार्द्रेति ।
न शृणोति कीर्त्यमानां स्वप्नेष्वपि मदनमूर्छितां मत्सीम् ॥ ९९८ ॥
विद्वेष्टि करणमध्ये रसनां ताम्बूलरागयुक्तेति ।
शंसति मतिं मुमुक्षोरविशिष्टां शशवृषाश्वपुरुषेषु ॥ ९९९ ॥
नो बहु मनुते रम्भां नलकूबरमभिसृतेति कामार्ता ।
गर्हति च देवगणिकामनुरक्तामुर्वशीं पुरूरवसि ॥ १००० ॥
हरति मनो नो ह्रियते रञ्जयति न रज्यते कदा चिदपि ।
गृह्णाति चित्रचरितैरुपकृतिभिर्गृह्यते न बह्वीभिः ॥ १००१ ॥
प्रेममयीवाभाति प्रेम तु नाम्नैव केवलं वेत्ति ।
कण्टकिता भवति रते रतभोगसुखं शृणोति लोकात्तु ॥ १००२ ॥
कुरुते विविक्तचाटूञ्शिल्पविशेषेण न तु रसावेशात् ।
अनभिज्ञा मदनरुजामाकल्पकवेदनां समावहति ॥ १००३ ॥
बालैवार्जवरहिता स्फुरतीश्वरमेत्य चन्द्रलेखेव ।
हृतधनपतिमाहात्म्या प्रवृत्तिरिव रक्षसां पत्युः ॥ १००४ ॥
नरनाथ किं ब्रवीमि त्रिपुरान्तकनयनदाहदग्धोऽपि ।
दुःसाध्यसाधनग्रहमुत्सृजति न पापकुसुमास्त्रः ॥ १००५ ॥
त्वद्दर्शनावकाशं सम्प्राप्य यतो दुरात्मना तेन ।
चिरसम्भृतकोपेन प्रारब्धा सापि हन्तुमिषुधारैः ॥ १००६ ॥
अवहेलयैव भवता संस्पृष्टा येन वेत्रदण्डेन ।
जातः स एव तस्या आनन्यभवमार्गणः प्रथमः ॥ १००७ ॥
विज्ञानार्जितदर्पो निभृतं हसितः समानशिल्पाभिः ।
त्वयि सक्तदृशः सख्या विसंष्ठुले नाट्यनिर्माणे ॥ १००८ ॥
अवधीर्याचार्यरुषं भरतोदितदोषकरणसंभूताम् ।
विस्तारितः प्रयोगस्त्वदवस्थितिवाञ्छया तन्व्या ॥ १००९ ॥
भग्नेऽपि प्रेक्षणके तदनन्तरभूमिकाश्रयावस्थाः ।
गृह एव निरवसानं वितनोति न नाट्यधर्मेण ॥ १०१० ॥
ध्यायत एकं पुरुषं परमात्मविदः शशंस या न पुरा ।
ताननुकुरुते सैव ध्यायन्ती त्वां महापुरुषम् ॥ १०११ ॥
गतमेवमेवमासितमालोकितमेवमेवमालपितम् ।
इति विस्मृतान्यकार्या स्मरति कृशाङ्गी त्वदीयलीलानाम् ॥ १०१२ ॥
नलकूबरो वराको रतिरमणो रमण एव किं तेन ।
आनिरुद्धोऽपि न बुद्धो विदग्धविहितासु सुरतगोष्ठीषु ॥ १०१३ ॥
न ञयन्तोऽनन्तगुणो न कुमारः मारकर्मणोऽबाह्यः ।
केन समतां नयामस्तमिति सखी वहति मानसं क्लेशम् ॥ १०१४ ॥
आगतमागच्छन्तं पुरतः पार्श्वे प्रसन्नमथ कुपितम् ।
पश्यति भवन्तमेकं संकल्पनिवेशितं बाला ॥ १०१५ ॥
रुच्यः कान्तो हृद्यः सुभगः सुखदो मनोहरो रमणः ।
इष्टः स्वामी दयितः प्राणेशः केलिकरणनिपुण इति ॥ १०१६ ॥
मुक्तान्यसमारम्भा वरतनुरनुपप्लुतेन चित्तेन ।
जपति समीहितसिद्ध्यै त्वद्द्वादशनामकं महास्तोत्रम् ॥ १०१७ ॥
तामेव गच्छ यस्यामासज्य विलम्बितोऽसि गतलज्ज ।
वेलामियतीमलमलमेतैरधुना शठानुनयैः ॥ १०१८ ॥
वक्ष्यामि सापराधं क्रोधस्फुरदधरमञ्चितभ्रूकम् ।
इति विदधाति सुमध्या हृदयेन मनोरथावृत्तिम् ॥ १०१९ ॥
उत्सहते न द्रष्टुं प्रतिबिम्बितमाननं कुतः शशिनम् ।
का संकथा मृणाले क्षिपति भुजौ सर्वतो व्यथिता ॥ १०२० ॥
दूरे कदलीदण्डा ऊर्वोरपि न सहते समाश्लेषम् ।
करसम्पर्काद्विमुखी विश्राम्यति पल्लवेष्विति विरुद्धम् ॥ १०२१ ॥
अयि मञ्जरि सैव त्वं विदग्धजनमण्डिता पुरी सैव ।
कुसुमायुधः स एव व्यसनं कुत एतदायातम् ॥ १०२२ ॥
यस्याः कामः कृपणो रागाकृष्टिस्तृणोलपप्रख्या ।
सापि गता भूमिमिमां जीवन्त्या नेक्ष्यते किमिह ॥ १०२३ ॥
अभियोगशिक्षितानामशिक्षितानां च मदनचेष्टानाम् ।
सुतनु विशेषग्रहणे सामर्थ्यं तद्विदामेव ॥ १०२४ ॥
व्यथयन्नपि सच्छायः परिजनचिन्ताकरोऽपि रमणीयः ।
आधत्ते त्वयि लक्ष्मीमभिनवरागाश्रयो रागः ॥ १०२५ ॥
एकः स एव जातो भुवनेऽस्मिन्नसमसायकस्पर्धी ।
तेन शशिबिम्बफलके सुजन्मना लेखितं निजं नाम ॥ १०२६ ॥
पादस्तेन सलीलं विन्यस्तः सुभगमानिनां मूर्ध्नि ।
सौभाग्ययशःकुसुमं धनपतिसूनोः कदर्थितं तेन ॥ १०२७ ॥
नरवञ्चनपटुबुद्धिः संपादितकपटचाटुसंघटना ।
त्वमपि विलासिनि नीता गतिमियतीं येन सुभगेन ॥ १०२८ ॥
तद्वद तस्य स्थानं यतामहे कार्यसाधनायालम् ।
कुर्वत एव हि यत्नं भिषग्जनाः कृच्छ्रसाध्यरोगेऽपि ॥ १०२९ ॥
इति गदिते सख्या सा तदभिमुखं चक्षुषी समुन्मील्य ।
वितरति कृच्छ्रेण चिराद्विभावितं क्लिष्टहुङ्कारम् ॥ १०३० ॥
का पुरुषार्थसमीहा द्योतयतः शर्वरीं शशाङ्कस्य ।
तर्पयतां भुवमखिलां सलिलमुचां कोऽभिकाङ्क्षितो लाभः ॥ १०३१ ॥
मण्डयितुं वियदुदयति पुरुहूतधनुर्विनैव फलवाञ्छाम् ।
अनपेक्षितात्मकार्यः परहितकरणग्रहः सतां सहजः ॥ १०३२ ॥
प्रायेण यन्निदानं तदसेवनमुपशमाय रोगाणाम् ।
स्मरमान्द्यं तु यदुत्थं तदेव खलु भेषजं यतस्तस्य ॥ १०३३ ॥
तेन स्पृहयति सुतनुस्त्वत्पादयुगाब्जरेणुसंगतये ।
आशीर्विषयोपेते सम्भोगसुखोदये तु नाकाङ्क्षा ॥ १०३४ ॥
प्रमदमुपैति मयूरी परमं शब्देन वारिवाहस्य ।
अनिमिषविलोकितेन प्राप्नोति झषी कृतार्थतामेव ॥ १०३५ ॥
न वृथास्तुतिमुखरतया न च युष्मल्लोभनाभियोगेन ।
विदधामि तद्गुणाख्यां स्वरूपमात्रप्रसङ्गेन ॥ १०३६ ॥
सद्भावबद्धमूले स्मितदृष्टिभ्रूविकारपल्लविते ।
सेवन्ते हृद्यरसां रागतरौ मञ्जरीं धन्याः ॥ १०३७ ॥
तिष्ठतु तदङ्गसङ्गो विलोकिता येन झगिति वरगात्री ।
तस्यान्यो युवतिजनः प्रतिभाति मनुष्यरूपेण ॥ १०३८ ॥
सकृदपि यैरनुभूतस्तत्तनुपरिरम्भसुखरसास्वादः ।
विद्धि नराधिप तेषां दूरीभूतं प्रजाकार्यम् ॥ १०३९ ॥
आस्था का खलु तस्या विषयग्रहदुर्बलेषु पुरुषेषु ।
यस्या विलासजालकपतितः शकुनायते कपिलः ॥ १०४० ॥
दग्ध्वापि पुनर्दग्धो नूनमनङ्गः हरेण तां तन्वीम् ।
दृष्ट्वापि येन तिष्ठसि निराकुलः स्वस्थवृत्तेन ॥ १०४१ ॥
अथ विरतोक्तौ तस्यामुल्लासितमानसे च नृपसूनौ ।
कश्चिदगायद्गीतिं स्मृतिसंगतिमागतां प्रसङ्गेन ॥ १०४२ ॥
अन्योन्यगाढरागप्रबलीकृतचित्तजन्मनोर्यूनोः ।
कालात्ययो मनागपि समागमानन्दविघ्नकरः ॥ १०४३ ॥
श्रुत्वा सिंहभटसुतः प्रियाप्रियां प्रीतिमान्स्मितप्रथमम् ।
निजगाद चारुभाषिणि गीतिकया समयसम्मतं कथितम् ॥ १०४४ ॥
अभिनन्द्य सा तथेति प्रययौ प्रमदावती निजं भवनम् ।
अकरोच्च विदितकार्यां युक्तेऽवसरे मनोरमां गणिकाम् ॥ १०४५ ॥
अथ सा कृतसंकल्पा सत्वरमादाय रुचिरविच्छित्तिम् ।
आसाद्य नृपनिशान्तं विवेश संचारिकासहिता ॥ १०४६ ॥
विहितनमस्कृतिरासनमधितष्ठौ नायकेन निर्दिष्टम् ।
पृष्टे च देहकुशले विनयान्वितमभ्यधाद्दूती ॥ १०४७ ॥
श्रीमन्नद्य श्रेयःसम्पन्ना गुरुजनाशिषोऽशेषाः ।
अद्य मदनः प्रसन्नो भाग्यचयैरद्य परिणतं फलतः ॥ १०४८ ॥
अद्य जननी प्रसूता सौभाग्यगुणोदयोऽद्य निष्णातः ।
त्वयि वितरति सस्नेहं निरामयप्रश्नभारतीं तस्याः ॥ १०४९ ॥
उत्कलिकाकुलमनसामुद्रिक्तरिरंसयाभिभूतानाम् ।
औदासीन्यं भजतां समागता भवति नालिका यूनाम् ॥ १०५० ॥
धृतसुमनःशरधनुषा सहायवांस्तिष्ठ दयितया सार्धम् ।
यामो वयं न राजति विजनस्थितमिथुनसंनिधावपरः ॥ १०५१ ॥
एषा नृत्यश्रान्ता मदनेनायासितातिसुकुमारा ।
त्वमपि रतिसमरशूरः स्वर्गभुवः सन्तु कुशलाय ॥ १०५२ ॥
यावद्यावदशक्तिं प्रथयति ललना हि मोहनाक्रान्ता ।
तावत्तावत्पुंसामुत्साहः पल्लवान्समुत्सृजति ॥ १०५३ ॥
इति शून्यीकृतवेश्मनि हरति शनैः सहजमंशुकं तस्मिन् ।
दर्शितसाध्वसलज्जा जगाद सा किं करोषीति ॥ १०५४ ॥
अयि मुग्धे तत्क्रियते पुरुषार्थचतुष्टयस्य यत्सारम् ।
इति निगदितसस्मेरः स्मरविधुरित आततान रतिकलहम् ॥ १०५५ ॥
नानासुरतविशेषैराराध्य चकार भुक्तसर्वस्वम् ।
गणिकासौ राजसुतं त्वगस्थिशेषं मुमोच नातिचिरात् ॥ १०५६ ॥
तद्यन्मयोपदिष्टं कामिजनार्थाप्तिकारणं तेन ।
महतीं समृद्धिमेष्यसि कामुकलोकाहृतेन वित्तेन ॥ १०५७ ॥
इत्युपदेशश्रवणप्रबोधतुष्टा जगाम धाम स्वम् ।
मालत्यपगतमोहा विकरालापादवन्दनां कृत्वा ॥ १०५८ ॥
काव्यमिदं यः शृणुते सम्यक्काव्यार्थपालनेनासौ ।
नो वञ्च्यते कदा चिद्विटवेश्याधूर्तकुट्टनीभिरिति ॥ १०५९ ॥