Kuttini Matam (कुट्टनीमतम्): Science of Love by Damodara Gupta (Part-1)
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » Kuttini Matam (कुट्टनीमतम्): Science of Love by Damodara Gupta (Part-1)
Next (Part-2)
कुट्टनीमतम्
By Damodara Gupta
The poem opens with a praise of Love, described as a victorious force born from desire and imagination, moving like a bee around the lotus-like faces of beautiful women and dwelling within their passionate sidelong glances. The poet then invites noble-minded people to listen to the teachings of a clever procuress, composed by Damodaragupta, urging them to overlook faults and focus instead on even the smallest virtues in others.
The focus then shifts to the magnificent city of Varanasi, portrayed as the ornament of the entire earth, overflowing with wealth, culture, and refined people. It is presented as a sacred and pleasurable place where even those deeply attached to worldly enjoyments can attain the abode of Shiva, the moon-crested lord. The women of the city, especially the courtesans, are depicted with glowing beauty, sacred ash upon their bodies, and serpent-like ornaments, making them appear almost divine, equal in splendour to Pashupati himself.
The city’s grandeur is further illustrated through vivid imagery. Towering temple spires rise so high that their fluttering banners seem to fill and decorate the sky like blossoming garlands. The earth itself appears blessed with the beauty of Lakshmi, reddened by the lac-dyed feet of women constantly moving through the streets. Everywhere resounds the jingling of women’s ornaments, so loud that teachers can scarcely hear the recitations of their students.
Finally, the poet compares the city to the mighty Vindhya mountains, filled with majestic elephants and radiant mansions glowing like lights in a dense night. It is also described as a place rich in ascetics, sacred learning, forests of sal trees, and celestial-like musicians, making the city both spiritually elevated and sensually enchanting at the same time.
Text of Kuttini Matam
स जयति संकल्पभवो रतिमुखशतपत्रचुम्बनभ्रमरः ।
यस्यानुरक्तललनानयनान्तविलोकितं वसतिः ॥ १ ॥
अवधीर्य दोषनिचयं गुणलेशे संनिवेश्य मतिमार्याः ।
कुट्टन्या मतमेतद्दामोदरगुप्तविरचितं शृणुत ॥ २ ॥
अस्ति खलु निखिलभूतलभूषणभूता विभूतिगुणयुक्ता ।
युक्ताभियुक्तजनता नगरी वाराणसी नाम ॥ ३ ॥
अनुभवतामपि यस्यामुपभोगान्कामतः शरीरवताम् ।
शशधरखण्डविभूषितदेहलयः किल न दुष्प्रापः ॥ ४ ॥
चन्द्रविभूषितदेहा भूतिरताः सद्भुजङ्गपरिवाराः ।
वारस्त्रियोऽपि यस्यां पशुपतितनुतुल्यतां याताः ॥ ५ ॥
अतितुङ्गसुरनिकेतनशिखरसमुत्क्षिप्तपवनचलिताभिः ।
मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥ ६ ॥
अविरतसंचरदबलाचरणतलालक्तकद्रवारुणितम् ।
स्थलकमलवतीं लक्ष्मीं बिभर्ति वसुधातलं यत्र ॥ ७ ॥
यत्र च रमणीभूषणरवबधिरितसकलदिङ्नभोभागे ।
शिष्याणां नाचार्यैरवद्यमवधार्यते पठताम् ॥ ८ ॥
विन्ध्यधराधरभूरिव या राजति मत्तवारणोपेता ।
बहुलनिशीथवतीव प्रोज्ज्वलधिष्ण्योपशोभिता या च ॥ ९ ॥
यतिगणगुणसमुपेता या नित्यं छन्दसामिव प्रचितिः ।
वनपङ्क्तिरिव ससाला तुरुष्कसेनेव बहलगन्धर्वा ॥ १० ॥
तारागणोऽकुलीनः प्रियदोषा यत्र कौशिकाः सततम् ।
गद्ये वृत्तच्यवनं परगृहरोधस्तथाक्षेषु ॥ ११ ॥
शूलभृतो व्यालास्था पदवेदिषु यत्र धातुवादित्वम् ।
सुरतेष्वबलाक्रमणं दानच्छेदो मदच्युतौ करिणाम् ॥ १२ ॥
तीव्रकरत्वं भानोरविवेको यत्र मित्रहृदयानाम् ।
योगिषु दण्डग्रहणं संधिच्छेदः प्रगृह्येषु ॥ १३ ॥
छन्दःप्रस्तारविधौ गुरवो यस्यामनार्जवस्थितयः ।
वीणायां परिवादो द्विजनिलयेष्वप्रसन्नत्वम् ॥ १४ ॥
अनुरूपवृत्तघटना सत्कविकृतरूपकेषु लोके च ।
रमणीवचने यस्यां माधुर्यं काव्यबन्धे च ॥ १५ ॥
यस्यामुपवनवीथ्यां तमालपत्त्राणि युवतिवदने च ।
नखरप्रहारकणितं तन्त्रीवाद्ये च सुरतकलहे च ॥ १६ ॥
नन्दनवनाभिरामा विबुधवती नाकवाहिनीजुष्टा ।
अमरावतीव यान्या विश्वसृजा निर्मिता जगति ॥ १७ ॥
तस्यां खगपतितनुरिव विलासिनां हृदयशोकसंजननी ।
आकृष्टेश्वरहृदया प्रालेयनगाधिराजतनयेव ॥ १८ ॥
संसक्तभोगिनेत्रा मन्दरधरणीभृतो यथा मूर्तिः ।
उपरिगता शूलानामन्धासुरगात्रलेखेव ॥ १९ ॥
समुवास वाररामा मानसवसतेः शरीरिणी शक्तिः ।
निःशेषवेशयोषिद्विभूषणं मालती नाम ॥ २० ॥
पेशलवचसां वसतिर्लीलानामालयः स्थितिः प्रेम्नः ।
भूमिः परिहासानामावसथो वक्रकथितानाम् ॥ २१ ॥
सा शुश्राव कदा चिद्धवलालयपृष्ठदेशमधिरूढा ।
केनापि गीयमानां प्रसङ्गपतितामिमामार्याम् ॥ २२ ॥
यौवनसौन्दर्यमदं दूरेणापास्य वारवनिताभिः ।
यत्नेन वेदितव्याः कामुकहृदयार्जनोपायाः ॥ २३ ॥
श्रुत्वाथ विपुलजघना मनसीदं मालती चकार चिरम् ।
अतिसाम्प्रतमुपदिष्टं सुहृदेवानेन साधुना पठता ॥ २४ ॥
तद्गत्वा पृच्छामो विकरालां कलितसकलसंसाराम् ।
यस्याः कामिजनौघो दिवानिशं द्वारदेशमध्यास्ते ॥ २५ ॥
इति मनसि सा निवेश्य द्रुततरमवतीर्य वेश्मनः शिखरात् ।
विकरालाभवनवरं परिजनपरिवारिता प्रययौ ॥ २६ ॥
अथ विरलोन्नतदशनां निम्नहनुं स्थूलचिपिटनासाग्राम् ।
उल्बणचूचुकलक्षितशुष्ककुचस्थानशिथिलकृत्तितनुम् ॥ २७ ॥
गम्भीरारक्तदृशं निर्भूषणलम्बकर्णपालीं च ।
कतिपयपाण्डुरचिकुरां प्रकटशिरासंततायतग्रीवाम् ॥ २८ ॥
सितधौतवसनयुगलां विविधौषधिमणिसनाथगलसूत्राम् ।
तन्वीमङ्गुलिमूले तपनीयमयीं च वालिकां दधतीम् ॥ २९ ॥
गणिकागणपरिकरितां कामिजनोपायनप्रसक्तदृशम् ।
आसन्द्यामासीनां विलोकयामास विकरालाम् ॥ ३० ॥
अवलोक्य सा विधाय क्षितिमण्डललीनमौलिना प्रणतिम् ।
परिपृष्टकुशलवार्ता समनुज्ञातासनं भेजे ॥ ३१ ॥
अथ विरचितहस्तपुटा सप्रश्रयमासनं समुत्सृज्य ।
इदमूचे विकरालामवसरमासाद्य मालती वचनम् ॥ ३२ ॥
विदधासि हरिमकौस्तुभमहरिं रविमगजनाथममरेन्द्रम् ।
अद्रविणं द्रविणपतिं नियतं मतिगोचरे पतितम् ॥ ३३ ॥
अयमेव बुद्धिविभवं हृतविभवस्ते पटच्चरावरणः ।
कामुकलोकः कथयति सत्त्रागारेषु भुञ्जानः ॥ ३४ ॥
उपसंहृतान्यकर्मा ढनवर्मा नर्मदाङ्घ्रियुगलस्य ।
सकलसमर्पितसम्पद्यदुपेतः पादपीठत्वम् ॥ ३५ ॥
यदुपनतो नयदत्तःसागरदत्तस्य मध्यमः पुत्रः ।
प्रीणयति मदनसेनां विधाय पितृमन्दिरं रिक्तम् ॥ ३६ ॥
यल्लीलार्पितचरणौ मञ्जर्या भट्टपुत्रनरसिंहः ।
परितोषं व्रजति परं मृदु मृद्नन्पाणियुगलेन ॥ ३७ ॥
यन्निःशेषितविभवो दीक्षितभवदेवपुत्रशुभदेवः ।
निर्भर्त्सितोऽपि नोज्झति केसरसेनागृहद्वारम् ॥ ३८ ॥
अन्या अपि कामिजनं साधारणयोषितो यदाक्रम्य ।
विदधति कर्पटशेषं विलसितमेतत्तवोपदेशानाम् ॥ ३९ ॥
हीनान्वयजन्मानो गुणहीना रोगिणो निराकृतयः ।
उपसेविता मयापि प्रकटीकृतरागसौष्ठवं पुरुषाः ॥ ४० ॥
मातः किं विदधामो हतधातुर्वामताभियोगेन ।
नासादयाम इष्टं निजतनुपण्यप्रसारकेणापि ॥ ४१ ॥
तत्कुरु मातरनुग्रहमभिधत्स्व ममापि देहिनो भोग्यान् ।
तेषां च वेशचेष्टितमनसिजशरजालपातनोपायान् ॥ ४२ ॥
इति गिरमुदीरयन्तीं सप्रेमामृश्य पाणिना पृष्ठे ।
रुचिरवचो विकराला रुचिराकृतिमालतीमूचे ॥ ४३ ॥
अयमेव दह्यमानस्मरनिर्गतधूमवर्तिकाकारः ।
चिकुरभरस्तव सुन्दरि कामिजनं किङ्करीकुरुते ॥ ४४ ॥
अयमेव ते कृशोदरि मन्दोल्लसितभ्रुविभ्रमाधारः ।
अधरीकरोति धीरान्मधुरस्मितसुभगवीक्षितविशेषः ॥ ४५ ॥
इयमेव वदनकान्ती रतिकान्ताकूतमतितरां कुरुते ।
श्रुतिपथमप्युपयाता नियतं तव कामिनां मनसि ॥ ४६ ॥
इयमेव दशनपङ्क्ती रुचिराचिरकान्तिकान्तिसमकान्तिः ।
उत्पादयति नितान्तं तव मन्मथदाहवेदनां पुंसाम् ॥ ४७ ॥
इदमेव समुल्लपितं लीलावति विजितपरभृतध्वानम् ।
तव निःशेषभुजङ्गव्याकर्षणसिद्धमन्त्रवच्चित्रम् ॥ ४८ ॥
इदमेव मकरकेतननिकेतनं स्तनयुगं तवाभोगि ।
भोगवति भोगसाधनमपरोपायग्रहो व्यर्थः ॥ ४९ ॥
इदमेव बाहुयुगलं मृणालतनुसुन्दरं तवाभोगि ।
कस्य न जनयति मदनं कनकाङ्गदभूषणं सुतनु ॥ ५० ॥
अयमेव मध्यदेशः कन्दर्पादेशकरणचतुरस्ते ।
प्रकृशोऽपि शरीरभृतो दशमीं प्रापयति मन्मथावस्थाम् ॥ ५१ ॥
इयमेव रोमराजिः सङ्कल्पजचापयष्टिगुणशोभाम् ।
दधती विदधाति तव स्मरसायकशल्यविक्लवान्यूनः ॥ ५२ ॥
इदमेव पृथुलजघनं कलधौतशिलातलाभिरमणीयम् ।
तव तरुणवशीकरणं यतिसंयतिनाशकारि करभोरु ॥ ५३ ॥
इदमेव तवोरुयुगं रम्भागर्भोपमं मनोहारि ।
वद सुन्दरि नाभिमतं मदनज्वरतापशान्तये कस्य ॥ ५४ ॥
यौवनकल्पतरोस्ते कनकलताविभ्रमं सुवृत्तमिदम् ।
जङ्घायुगलं नेच्छति कामफलप्राप्तये क इव ॥ ५५ ॥
निर्जितदाडिमरागं विजितस्थलकमलिनीविलासमिदम् ।
तव चरणसरोजयुगं कस्य न मानसमलङ्कुरुते ॥ ५६ ॥
ह्रेपयति वारणेन्द्रं हंसं हसति प्रयातमिदमेव ।
तव लीलावति ललितं यूनां हृदयानि मथ्नाति ॥ ५७ ॥
तदपि यदि ते कुतूहलमवधानं संविधाय तनुमध्ये ।
आकर्णय कथयामि स्वबुद्धिविभवानुसारेण ॥ ५८ ॥
स्वीकुरु तावत्प्रथमं नृपसेवकभट्टसूनुमतियत्नात् ।
स्वाधीनामतिविपुलां यदि सम्पदमीहसे सुतनु ॥ ५९ ॥
प्रत्यासन्नग्रामे स्वयं प्रभुः पितरि नित्यकटकस्थे ।
भट्टसुतश्चिन्तामणिराकृष्टो भवति पुत्रि नियमेन ॥ ६० ॥
शृणु तस्य चारुहासिनि वेषग्रहणं च चेष्टितं चैव ।
निपतति च यथा तूर्णं प्रियसुरभिकुसुमशरासनप्रसरे ॥ ६१ ॥
स्थूलस्थापितचूलकपञ्चाङ्गुलमात्रकेशविन्यासः ।
लम्बश्रवणनिवेशितकरपत्रिकघटितदशनपङ्क्तिश्च ॥ ६२ ॥
करशाखाश्रितमुद्रिकचामीकरकण्ठसूत्रिकाभरणः ।
परिमृष्टगात्रकुङ्कुमकिञ्चित्पिञ्जरितवसनसंवीतः ॥ ६३ ॥
प्रविलम्बिकुसुमदामकगलमण्डनजातरूपकृतशोभः ।
अन्तर्निविष्टसिक्थिततौरुष्किकखुश्शिकादिचरणत्रः ॥ ६४ ॥
नानावर्णविवेष्टितबहलदशापाशबद्धततकेशम् ।
एकस्मिन्दलवीटकमपरस्मिन्सीसपत्रकं कर्णे ॥ ६५ ॥
उच्चण्डकनकगर्भितकुङ्कुमपिञ्जरितवस्तिपरिधानम् ।
स्थूलतरकाचवर्तकमालां च गले दधानेन ॥ ६६ ॥
वृश्चिकरञ्जितकररुहकरमूलनिबद्धशङ्खचक्रेण ।
प्रथमवयस्त्वं भजता ताम्बूलकरङ्कवाहिनानुगतः ॥ ६७ ॥
श्रेष्ठिवणिग्विटकितवप्रधानरङ्गस्य सुमहतो मध्ये ।
शूलापालस्थापितकतिपयवध्रोरुपीठिकासीनः ॥ ६८ ॥
उत्सङ्गार्पितखड्गैरयथातथभाषिभिर्महौद्धत्यम् ।
बिभ्राणैरनुजीविभिरधिष्ठितः पञ्चषैः पुरुषैः ॥ ६९ ॥
चतुरतरसेवकार्पितपृष्ठपरिक्षिप्तपूर्वदेहांशः ।
अन्तर्विधृतावेलप्रोच्छूनकपोलकलितकरपर्णः ॥ ७० ॥
अनपेक्षितप्रसङ्गः पुनः पुनः पठति सोन्नतभ्रूकः ।
गाथाश्लोकप्रायं भावितचेता यथातथाधीतम् ॥ ७१ ॥
विस्मयलोलितमौलिः पार्श्वगतान्ताडयन्रसावेगात् ।
हाकष्टसाधुवादैरन्तरयति परसुभाषितश्रवणम् ॥ ७२ ॥
इदमुक्तो रहसि रुषा तातेन नृपो नृपेण तातोऽपि ।
इति पितुराविष्कुरुते महीभृतः प्रणयविश्वासौ ॥ ७३ ॥
पत्रच्छेदमजानन्जानन्वा कौशलं कलाविषये ।
प्रकटयति जनसमाजे बिभ्राणः पत्रकर्तरीं सततम् ॥ ७४ ॥
ब्रह्मोक्तनाट्यशास्त्रे गीते मुरजादिवादने चैव ।
अभिभवति नारदादीन्प्रावीण्यं भट्टपुत्रस्य ॥ ७५ ॥
वसुनन्दचित्रदण्डकमुक्तायुधखड्गधेनुबन्धेषु ।
व्रजति पुरतोऽस्य नियतं भार्गवतां परशुरामोऽपि ॥ ७६ ॥
वात्स्यायनमयमबुधं बाह्यं दूरेण दत्तकाचार्यम् ।
गणयति मन्मथतन्त्रे पशुतुल्यं राजपुत्रं च ॥ ७७ ॥
यः प्रार्थितोऽपि यत्नात्कवचं राधासुतो ददाति स्म ।
अविचिन्तितवसुवर्षस्त्यागगुणं हसति तस्यायम् ॥ ७८ ॥
प्रपलायनैकहृदये यो विक्रममातनोति हरिणेऽपि ।
सिंहस्य तस्य शौर्यं त्रपाकरं भट्टपुत्रस्य ॥ ७९ ॥
आखेटकेऽपि कौतुकमस्त्येव जयश्च चञ्चले लक्ष्ये ।
भट्टभयेन न खेलति भट्टसुतः किं त्वतिप्रकटम् ॥ ८० ॥
इति निजसेवकनिगदितरामणिकावचनजनितपरितुष्ट्या ।
अन्तर्मुदितो ब्रूते मामेष खलीकरोतीति ॥ ८१ ॥
कतमत्कतमल्लग्नं प्रस्थानं का च नर्तकी भद्रा ।
षिङ्गटके का नृत्यति कोहलभरतोदितक्रियया ॥ ८२ ॥
कीदृक्त्वं लयमार्गे धवलुकरचिते च भाणके कीदृक् ।
प्रेक्षणकादावेवं पृच्छति नृत्तोपदेशकं यत्नात् ॥ ८३ ॥
सुमनोमालां कण्ठात्सादरचेता ददाति नर्तक्यै ।
अपनीय सताम्बूलकमनवसरे साधुवादं च ॥ ८४ ॥
भुजपतनगात्रसंस्थितिलालित्योद्वहनपार्श्ववलितानि ।
अनयैव निर्मितानि स्थानकशुद्धिश्च चातुरस्र्यं च ॥ ८५ ॥
प्रविभक्तैर्भावरसैरभिनयभङ्ग्या परिक्रमैश्चित्रैः ।
रम्भामप्यतिशेते किमुतेतरमर्त्यनर्तकीलोकम् ॥ ८६ ॥
इत्यपसारकविरतावविरतमुत्स्नायुकण्ठमत्युच्चैः ।
वर्णयति भावितात्मा लक्षितपदमात्रया पात्रम् ॥ ८७ ॥
प्रायेण भट्टतनयो भवतीदृशवेषचेष्टितो वत्से ।
तं मदनवागुरान्तः पातयसि यथा तथा ब्रूमः ॥ ८८ ॥
चतुरा प्रागल्भ्यवती परचित्तज्ञानकौशलोपेता ।
योज्या तस्मिन्दूती वक्रोक्तिविभूषिता प्रयत्नेन ॥ ८९ ॥
स उपेत्य तयावसरे ताम्बूलं सुमनसश्च दत्त्वेत्थम् ।
अभिधातव्यः सुन्दरि मकरध्वजदीपकैर्वचनैः ॥ ९० ॥
जन्मसहस्रोपचितैः पुण्यचयैरद्य फलितमस्माकम् ।
यत्त्वं नयनानन्दन नयनावसरं समेतोऽसि ॥ ९१ ॥
चाटुक्रममनुरागं प्रणयरुषौ विरहजनितशोकार्तिम् ।
प्रकटयति वाररमणी नटीव शिक्षाभियोगेन ॥ ९२ ॥
प्रवयसि यौवनशालिनि हीनकुले सत्कुलप्रसूते च ।
रोगवति दृढशरीरे समचित्ता योगिनश्च गणिकाश्च ॥ ९३ ॥
उपचरिताप्यतिमात्रं प्रकटवधूः क्षीणसम्पदः पुंसः ।
पातयति दृशं व्रजतः स्पृहया परिधानमात्रेऽपि ॥ ९४ ॥
इत्थं दृढतरवासितमनसां पुंसां त्वसाम्प्रतं पुरतः ।
वेशविलासवतीनामशरीरशरव्यथाकथनम् ॥ ९५ ॥
केवलमगणितलाघवदूरपरित्यक्तधीरताभरणा ।
मुखरयति मां दुराशादग्धसखी तेन कथयामि ॥ ९६ ॥
हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन ।
चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥ ९७ ॥
क्षणमुत्कण्टकिताङ्गी क्षणमुल्बणदाहवेदनावस्था ।
क्षणमुपजाताकम्पा स्वेदार्द्रवपुः क्षणं भवति ॥ ९८ ॥
मुहुरविभावितहास्या मुहुरुज्झितधीरभावमत्युच्चैः ।
रोदिति गायति च पुनः पुनश्च मौनावलम्बिनी भवति ॥ ९९ ॥
पतति मुहुः पर्यङ्के मुहुरङ्के परिजनस्य मुहुरवनौ ।
किसलयकल्पिततल्पे मुहुरम्भसि मुहुरनङ्गसंतप्ता ॥ १०० ॥
महिषीव पङ्कदिग्धा हंसीव मृणालवलयपरिवारा ।
सुभग मयूरीवासौ भुजङ्गविद्वेषिणी जाता ॥ १०१ ॥
कदली चन्दनपङ्कः पङ्केरुहनीरहारघनसारम् ।
शशधरशशधरकान्तं शान्त्यै नो मदनहुतभुजस्तस्याः ॥ १०२ ॥
अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ।
अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥ १०३ ॥
संकल्पैरुपनीतं त्वामन्तिकमुल्लसन्मनोवृत्तिः ।
दृढमालिङ्गति पश्चात्स्वभुजापीडेन याति वैलक्ष्यम् ॥ १०४ ॥
कुसुमामोदी पवनः पिककूजितभृङ्गसार्थरसितानि ।
इयमियती सामग्री घटिता विधिनैव तद्विनाशाय ॥ १०५ ॥
अबलां बलिना नीतां दशामिमां मकरकेतुना रक्ष ।
आपत्पतितोद्धृतये भवति हि शुभजन्मनां जन्म ॥ १०६ ॥
नो गृह्णन्ति यथार्था अर्थिजनैर्निगदिता गिरः प्रायः ।
मालत्या गुणलेशं शृणु धृष्टतया तथापि कथयामि ॥ १०७ ॥
आस्फालयतो नूनं धनुरतनोः कौसुमं रजः पतितम् ।
संहृत्य सा सुमध्या विश्वसृजा निर्मिता तेन ॥ १०८ ॥
उपहसति ङिरिसुताया लावण्यं येन सततलग्नेन ।
न द्रवतामुपनीतं भोगीन्द्रविभूषणस्य देहार्धम् ॥ १०९ ॥
शशधरबिम्बार्धगतां छायामिव सैंहिकेयवदनस्य ।
अलिपटलनीलकुटिलामलकावलिमलिकसंनिधौ वहति ॥ ११० ॥
सरसिजमस्थिरशोभं विभ्रमरहितं च मण्डलं शशिनः ।
केन समेतु समत्वं हृदयप्रिय मालतीवदनम् ॥ १११ ॥
अलिरुपरि तदीक्षणयोर्भ्रान्त्वासौगन्ध्यसूचितविशेषः ।
निपतति कर्णाम्बुरुहे निर्गुणताप्यवसरे साध्वी ॥ ११२ ॥
बिभ्राणेऽरुणिमानं सहजं जितबन्धुजीवरुचिमधरे ।
यदलक्तकविन्यसनं तत्तस्या मण्डनक्रीडा ॥ ११३ ॥
चित्रमिदं यत्कृशता तस्या वलिपरिगृहीतमध्यस्य ।
अथवा नो विधिविहिता महताप्यपनीयते तनुता ॥ ११४ ॥
आस्तामपरस्तावत्तस्याः स्मरवसतिपृथुतरनितम्बः ।
श्लथयति कपिलमुनेरपि दृक्पथपतितः समाधानम् ॥ ११५ ॥
तस्या रम्भावपुषो रम्भोपममूरुयुगलमवलोक्य ।
मकरध्वजोऽपि सहसा निजसायकलक्ष्यतां याति ॥ ११६ ॥
जघनभरालसयाता नो याता सा विलोचनप्रसरम् ।
तिष्ठति तेन मनोहर शरजन्मा ब्रह्मचर्येण ॥ ११७ ॥
यदि कथमपि मधुमथनः पश्यति तामसमबाणसर्वस्वम् ।
तदसारभारभूतं ऌअक्ष्मीवपुरुरसि विनिहितं मनुते ॥ ११८ ॥
यदि पतति सा कथं चिद्वीक्षणविषयं हरस्य तदवश्यम् ।
त्रिभुवनमशिवं कुरुते वामेतरदेहभागमासाद्य ॥ ११९ ॥
सौन्दर्यं तत्तादृशमशेषयोषिद्विलक्षणं सृजतः ।
यन्निष्पन्नं धातुस्तन्मन्ये काकतालीयम् ॥ १२० ॥
सहजविलासनिवासं तस्या वपुरनभिवीक्षमाणस्य ।
मन्ये नाकाधिपतेः सहस्रमपि चक्षुषां विफलम् ॥ १२१ ॥
शिथिलयतु कुसुमचापं क्षिपतु शरान्बाणधौ मनोजन्मा ।
संसारसारभूता विचरति भुवि मालती यावत् ॥ १२२ ॥
वात्स्यायनमदनोदयदत्तकविटवृत्तराजपुत्राद्यैः ।
उच्छ्वसितं यत्किं चित्तत्तस्या हृदयदेशमध्यास्ते ॥ १२३ ॥
भरतविशाखिलदत्तिलवृक्षायुर्वेदचित्रसूत्रेषु ।
पत्रच्छेदविधाने भ्रमकर्मणि पुस्तसूदशास्त्रेषु ॥ १२४ ॥
आतोद्यवादनविधौ नृत्ते गीते च कौशलं तस्याः ।
अभिधातुं यदि शक्तो वदनसहस्रेण भोगिनामीशः ॥ १२५ ॥
परिगलदालोलांशुकमपयन्त्रणमुपरि मालती रभसात् ।
निपतति नापुण्यवतां रतिलालसमानसा रहसि ॥ १२६ ॥
रतिरसरभसास्फालनचलवलयनिनादमिश्रितं तस्याः ।
तत्कालोचितमणितं श्रुतिपथमुपयाति नाल्पपुण्यस्य ॥ १२७ ॥
इत्थमभिधीयमानः शुभमध्ये यदि भवेदुदासीनः ।
एवं ततोऽभिधेयः संदर्शितकोपया दूत्या ॥ १२८ ॥
किं सौभाग्यमदोऽयं यौवनलीलाभिरूपतादर्पः ।
सहजप्रेमोपनतां मालतिकां न बहु मन्यसे येन ॥ १२९ ॥
न गणयति या कुलीनान्द्रविणवतः शास्त्रवेदिनः प्रणतान् ।
सा भवदर्थे शुष्यति कुस्थाननिवेशितं धिगनुरागम् ॥ १३० ॥
कमलवती तीव्ररुचौ बहुभस्मनि शम्भुशिरसि शशिलेखा ।
सा च त्वयि पशुकल्पे यदभिरता तेन मे कृशता ॥ १३१ ॥
असरलमरसं कठिनं दुर्ग्रहमस्निग्धमाश्रिता खदिरम् ।
यदुपैति वाच्यपदवीं मालतिका तत्किमाश्चर्यम्? ॥ १३२ ॥
अथवा कः खलु दोषो यदतुल्यतयोपजनितवैलक्ष्यः ।
स्वाधीनामपि सरसां परिहरति मृणालिकां ध्वाङ्क्षः ॥ १३३ ॥
मात्र करिष्यसि खेदं निष्ठुरमुक्तोऽसि यन्मया सुभग ।
यूनां हि रक्ततरुणीसुहृदभिहितपरुषमाभरणम् ॥ १३४ ॥
चन्द्रमसेव ज्योत्स्ना कंसासुरवैरिणेव वनमाला ।
कुसुमशरासनलतिका कुसुमाकरवल्लभेनेव ॥ १३५ ॥
मदलीला हलिनेव स्तनयुगलेनेव हारलता ।
रम्यापि सा सुगात्री रम्यतरा भवतु संगता भवता ॥ १३६ ॥
किं बहुना यदि यूनामुपरि विधातुं समीहसे चरणम् ।
तत्कुरु रमणीरत्नं प्रेमोज्ज्वलमङ्कतस्तूर्णम् ॥ १३७ ॥
अथ तद्वचनश्रवणप्रविजृम्भितमदनभट्टदायादः ।
उपचरणीयः सुन्दरि निजवसतिमुपागतस्त्वयाप्येवम् ॥ १३८ ॥
दूरादभ्युत्थानं प्रणमनमात्मासनप्रदानं च ।
प्रविधेयमञ्चलेन प्रस्फोटनमङ्घ्रियुगलस्य ॥ १३९ ॥
ईषदयत्नप्रकटं कक्षोदरबाहुमूलकुचभागम् ।
संदर्श्य झटिति यास्यसि नायकदृग्गोचरात्तूर्णम् ॥ १४० ॥
अथ पर्यङ्कसनाथं दीपोज्ज्वलकुसुमधूपगन्धाढ्यम् ।
विततवितानकरम्यं प्रवेशितो वासकावासम् ॥ १४१ ॥
मात्रा ते गुरुजघने सादरमवतारणादिकं कृत्वा ।
अभिनन्दनीय एभिर्वचनविशेषैः प्रयत्नेन ॥ १४२ ॥
अद्याशिषः समृद्धाः परितुष्टा इष्टदेवता अद्य ।
कल्याणालङ्कारो यदलङ्कृतवानिदं वेश्म ॥ १४३ ॥
अनुरूपपात्रघटनं कुर्वाणस्याद्य कुसुमबाणस्य ।
सुचिराद्बत संजातः शरासनाकर्षणश्रमः सफलः ॥ १४४ ॥
विन्यस्य शिरसि चरणं सुभगा गणिकाजनस्य सकलस्य ।
सौभाग्यवैजयन्तीं सम्प्रति वत्सा समुत्क्षिपतु ॥ १४५ ॥
दुहितर एव श्लाघ्या धिग्लोकं पुत्रजन्मसंतुष्टम् ।
जामातर आप्यन्ते भवादृशा यदभिसम्बन्धात् ॥ १४६ ॥
दृढपरिचया गुणज्ञा भवद्विधा नार्थनार्हका यदपि ।
तदपि हृदयाभिनन्दन दुहितृस्नेहादहं वच्मि ॥ १४७ ॥
सहजप्रेमोपहृता न्यस्ता त्वयि मालती तथा कार्यम् ।
न यथा भवति वराकी त्वद्विप्रियजन्मनां शुचां वसतिः ॥ १४८ ॥
मृदुधौतधूपिताम्बरमग्राम्यं मण्डनं च बिभ्राणा ।
परिपीतधूपवर्तिः स्थास्यसि रमणान्तिके सुतनु ॥ १४९ ॥
सस्नेहं सव्रीडं ससाध्वसं सस्पृहं च पश्यन्ती ।
किं चिद्दृश्यशरीरा प्रविरलपरिहासपेशलालापा ॥ १५० ॥
मातरि निर्यातायां परिजनमुक्ते च वासकस्थाने ।
अभियुञ्जाने रमणे वामाचरणं क्षणं कार्यम् ॥ १५१ ॥
रतिसंगरनिहितमतावाकर्षति रभसतः पुरस्तस्मिन् ।
कुट्टमितमाचरन्ती जनयिष्यसि किं चिदङ्गसंकोचम् ॥ १५२ ॥
प्रारब्धे सुरतविधौ क्रमदर्शितचित्तयोनिसंवेगा ।
अपशङ्कमर्पयिष्यसि निर्व्याजं पुत्रि गात्राणि ॥ १५३ ॥
यद्यद्वाञ्छति हन्तुं यद्दंष्टुं यच्च विलिखितुं गात्रम् ।
तत्तदपसारणीयं सावेगं ढौकनीयं च ॥ १५४ ॥
दंशे सव्यथहुङ्कृतिमामर्दे विविधकण्ठरसितानि ।
नखविलिखने च सीत्कृतमाघातेषूल्बणं क्वणितम् ॥ १५५ ॥
ह्रस्वायासश्वासान्मुञ्चन्ती पुलकदन्तुरशरीरा ।
स्विद्यत्सर्वावयवा प्रकरिष्यसि रागवृद्धये पुंसाम् ॥ १५६ ॥
परभृतलावकहंसकपारावततुरगहृदयनिःस्वनितम् ।
अनुकार्यमुचितकाले कलकण्ठरुतैस्त्वया रसतः ॥ १५७ ॥
मा मा मामतिपीडय मुञ्च क्षणमदय नो समर्थास्मि ।
इति गद्गदास्फुटाक्षरमभिधातव्यस्त्वया कामी ॥ १५८ ॥
अनुबन्धमानुकूल्यं वामत्वं प्रौढतामसामर्थ्यम् ।
सुरतेषु दर्शयिष्यसि कामुकभावं स्फुटं बुद्ध्वा ॥ १५९ ॥
असमञ्जसमश्लीलं दूरोज्झितधैर्यमविनयप्रसरम् ।
व्यवहारमाचरिष्यसि वृद्धिमुपेते रतावेगे ॥ १६० ॥
अविवेचितनखरक्षतिरामीलितलोचना निरुत्साहा ।
नायककार्यसमाप्तौ स्थास्यसि शिथिलीकृतावयवा ॥ १६१ ॥
झगिति नितम्बावरणं निःसहतनुतां स्मितं सवैलक्ष्यम् ।
खेदालसां च दृष्टिं जनयिष्यसि मोहनच्छेदे ॥ १६२ ॥
वृत्ते रताभियोगे स्पृष्ट्वा सलिलं विकृष्टभूभागे ।
प्रक्षाल्य पाणिपादं स्थित्वा क्षणमासने समूह्य कचान् ॥ १६३ ॥
उपयुक्तवदनवासा शय्यामारुह्य दर्शितप्रणया ।
इति वक्ष्यसि तं रमणं दृढतरमालिङ्ग्य रभसतः कण्ठे ॥ १६४ ॥
भट्टसुत नूनमिष्टा तव जाया यदनुरक्तहृदयस्य ।
जनयति परितुष्टिमलं नापररामापरिष्वङ्गः ॥ १६५ ॥
सफलं तस्या जन्म स्पृहणीया सैव सकलललनानाम् ।
ङौरी तयैव महिता सुभगङ्करणं तपस्तयाचरितम् ॥ १६६ ॥
सैवैका गुणवसतिस्तस्या एवान्वयः सदा श्लाघ्यः ।
यस्याः शुभशतभाजः पाणिग्रहणं त्वया विहितम् ॥ १६७ ॥
तिष्ठतु सा पुण्यवती वंशद्वयभूषणं वरारोहा ।
या नापयाति भवतो ऌअक्ष्मीरिव नरकवैरिणो हृदयात् ॥ १६८ ॥
पातयसि कुवलयनिभे कौतुकमात्रेण लोचने यासु ।
ता अपि सत्यं सुन्दर हर्षोल्लसिता न मान्ति गात्रेषु ॥ १६९ ॥
तनुरपि नाथप्रणयः प्रायो मुखरीकरोति लघुमनसः ।
स्वार्थनिवेशितचित्ता करोमि तेऽभ्यर्थनां तेन ॥ १७० ॥
तीव्रस्मरतारुण्याच्चापलतः कौतुकेन घृणया वा ।
मद्भाग्यसम्पदा वा दूत्या वा कौशलात्स्वभावाद्वा ॥ १७१ ॥
योऽयं प्रेमलवांशः प्रदर्शितोऽस्मासु जीवनोपायः ।
बाधा नात्र विधेया गणिकाजनवृत्तमन्यथा बुद्ध्वा ॥ १७२ ॥
येन स्नेहः क्रोधः शाठ्यं दाक्षिण्यमार्जवं व्रीडा ।
एतानि सन्ति तास्वपि जीवद्धर्मोपनीतानि ॥ १७३ ॥
निर्व्याजसमुत्पन्नप्रबलप्रेमाभिभूतहृदयानाम् ।
दयितविरहाक्षमाणां गणिकानां तृणसमाः प्राणाः ॥ १७४ ॥
अत्राकर्णय साद्भुतमाख्यानं वर्णयामि यद्वृत्तम् ।
अद्यापि बिभर्ति वटो विशेषणं यदभिसम्बन्धात् ॥ १७५ ॥
अस्ति महीतलतिलकं सरस्वतीकुलगृहं महानगरम् ।
नाम्ना पाटलिपुत्रं परिभूतपुरन्दरस्थानम् ॥ १७६ ॥
त्रिभुवनपुरनिष्पादनकौशलमिव पृच्छतो विरिञ्चस्य ।
दर्शयितुं निजशिल्पं वर्णकमिव विश्वकर्मणा विहितम् ॥ १७७ ॥
अश्रेयोभिरनाश्रितमभिभूतं नाभिभूतिदोषेण ।
न स्वीकृतमुपसर्गैः कलिकालमलैरनालीढम् ॥ १७८ ॥
पातालतलं भोगिभिरम्भोधिर्वारिरत्ननिचयैश्च ।
सुरसदनं विबुधगणैर्द्रविणोपचयैः पुरं कुवेरस्य ॥ १७९ ॥
रमणीभिरसुरविवरं कटकं हेमाचलस्य गान्धर्वैः ।
ःरिनगरं क्रतुयूपैः शमविभवैर्मुनिजनस्थानम् ॥ १८० ॥
तिष्ठन्तु सकलशास्त्रव्यालोचनविमलबुद्धयो विप्राः ।
सदसद्गुणनिर्णीतौ ललना अपि निकषभूमयो यस्मिन् ॥ १८१ ॥
कलिकालोदितभीत्या क्रतुहुतवहधूमकम्बलावरणः ।
तिष्ठन्निभृतोऽपि कृतश्चरितैरनुमीयते यस्मिन् ॥ १८२ ॥
अपहरति पिधातुमिव स्वकलङ्कं शशधरः प्रसार्य करान् ।
रात्रौ यत्र वधूनां लावण्यं वदनकोषेभ्यः ॥ १८३ ॥
तिमिरपटलासिताम्बरमपहरदभिसारिकाजनौघस्य ।
निजतनुकान्तिवितानं वल्लभसम्भोगविहतये यस्मिन् ॥ १८४ ॥
यत्र नितम्बवतीनां विचलन्नयनान्तशितशरैर्व्रणितः ।
शिथिलयति पथिकलोकः स्वकलत्रसमागमोत्कण्ठाम् ॥ १८५ ॥
यत्र च कुलमहिलानामल्पत्वं वचसि पाणिपादे च ।
स्वच्छत्वमाशयेषु व्यालोलविशालनेत्रे च ॥ १८६ ॥
पीनपयोधरभारे घनता जीवेशसहजरागे च ।
कुलदेवतार्चनविधौ वलिशोभा मध्यभागे च ॥ १८७ ॥
गम्भीरता स्वभावे चेतोभवबाणतूणनाभौ च ।
विस्तीर्णता नितम्बे गुरुजनपूजानुरक्तचित्ते च ॥ १८८ ॥
हरिणायतेक्षणानां विच्छित्तिः कोषहरणमब्जेषु ।
कुटिलत्वमलकपङ्क्तौ बालानां कामचेष्टितं यत्र ॥ १८९ ॥
संयमनमिन्द्रियाणामिनोपघातग्रहस्तमिस्रस्य ।
स्तब्धत्वं सालतरौ हारलता तरलसंगता यस्मिन् ॥ १९० ॥
भुजगाः पररन्ध्रदृशः खण्ड्यन्ते प्रियतमाधरा यत्र ।
सूचीव्यथानुभूतिर्नृत्याभ्यासप्रवृत्तानाम् ॥ १९१ ॥
नतवपुरप्यतिसरला मन्थरगमनापि नर्मदा यस्मिन् ।
गुरुजनशास्त्ररतापि स्वभावमुग्धाङ्गनाजनता ॥ १९२ ॥
तस्मिन्मखशतपूतः पुरुहूत इव द्विजन्मनां प्रवरः ।
गुरुरिव विद्यावसतिर्वसति स्म पुरन्दरो नाम्ना ॥ १९३ ॥
धर्मात्मजस्य सत्यं त्रिपुररिपोर्विजितकुसुमचापत्वम् ।
ःरिनाभिपङ्कजभुवो विजितेन्द्रियतां जहास यः सततम् ॥ १९४ ॥
न्यक्कृतवृष इति शर्वे याचक इति कौस्तुभाभरणे ।
पीडितवसुधासुत इति कपिले न बभूव यस्य बहुमानः ॥ १९५ ॥
मार्गानुसृतौ लुब्धो यः प्राणिवपुर्विनाशविमुखोऽपि ।
परिहृतपरदारोऽपि स्वाकाङ्क्षितगुरुजनप्रमदः ॥ १९६ ॥
यस्यान्वये महीयसि सरसीव समस्तसत्त्वनिजवसतौ ।
सच्चरितजन्मभूमौ विनिवारितकलिमलप्रसरे ॥ १९७ ॥
पितृतर्पणप्रसङ्गे खड्गग्रहणं न शौर्यदर्पेण ।
त्रुटनं मेखलिकानां वटुकजने नो रताजिसंमर्दे ॥ १९८ ॥
श्रुतिभेदेषु विवादो नो रिक्थविभागमन्युना जनितः ।
तेजस्विता हविर्भुजि न शमैकरतेषु भूमिदेवेषु ॥ १९९ ॥
जरतामेव स्खलनं जपतामेवाधरस्फुरणम् ।
यजतामेव समिध्रुचि रेणाजिन एव कृष्णसम्पर्कः ॥ २०० ॥
तस्याभूत्सकलकलोद्भासितपक्षद्वयस्य सुत एकः ।
नाम्ना सुन्दरसेनः कच इव वचसामधीशस्य ॥ २०१ ॥
पशुपतिनयनहुताशनभस्मितमवधार्य यं वपुष्मन्तम् ।
अपरमिव कुसुमचापं रतिरतये निर्ममे ढाता ॥ २०२ ॥
तिष्ठन्तु तावदन्याः कुलललना यस्य रूपमवलोक्य ।
सापि महामुनिदयिता कृच्छ्रेण ररक्ष चारित्रम् ॥ २०३ ॥
कलधौतफलकशोभां बिभ्राणं यस्य पृथुतरं वक्षः ।
दृष्ट्वा चिराय ऌअक्ष्मीर्हरिहृदये दुःस्थितं मेने ॥ २०४ ॥
कथमीदृग्यदि न कृतः शशिशकलैरथ कृतः कथं व्यथकः ।
इत्थं यमीक्षमाणो निर्णयमगमन्न कामिनीसार्थः ॥ २०५ ॥
यो जग्राह हिमांशोः प्रसन्नमूर्तित्वमचलतः स्थैर्यम् ।
जलधरत उन्नतत्वं गाम्भीर्यं यादसां पत्युः ॥ २०६ ॥
यो विनयस्य निवासो वैदग्ध्यस्याश्रयः स्थितेः स्थानम् ।
प्रियवाचामायतनं निकेतनं साधुचरितस्य ॥ २०७ ॥
यो मदनः प्रमदानां तुहिनकरः साधुकुमुदषण्डस्य ।
निकषोपलो गुणानां मार्गतरुः पथिकलोकस्य ॥ २०८ ॥
सज्जनगोष्ठीनिरतः काव्यकथासारनिकषपाषाणः ।
प्रणयिजनकल्पवृक्षो लक्ष्मीलीलाविहारभूमिश्च ॥ २०९ ॥
जलधिरिव तुहिनभासः सहवृद्धिपरिक्षयः सुहृत्तस्य ।
सकलोपधाविशुद्धो बभूव ङुणपालितो नाम्ना ॥ २१० ॥
तेन समं स कदा चित्तिष्ठन्रहसि प्रसङ्गतः पतिताम् ।
केनापि गीयमानामशृणोदार्यामिमां सहसा ॥ २११ ॥
देशान्तरेषु वेषस्वभावभणितानि ये न बुध्यन्ते ।
समुपासते न च गुरून्विषाणविकलास्त उक्षाणः ॥ २१२ ॥
आकर्ण्याथ तमूचे वचनमिदं सुन्दरः सुहृन्मुख्यम् ।
शोभनमेतद्गीतं ङुणपालित साधुनानेन ॥ २१३ ॥
साधूनामाचरितं खलचेष्टां विविधलोकहेवाकान् ।
नर्म विदग्धैर्विहितं कुलटाजनवक्रकथितानि ॥ २१४ ॥
गुरुगूढशास्त्रचर्चां विटवृत्तं धूर्तवञ्चनोपायान् ।
वारिधिपरिखां पृथ्वीं जानाति परिभ्रमन्पुरुषः ॥ २१५ ॥
अत उत्सृज्य गृहस्थितिसुखलेशं विविधलाभपरिणामे ।
स्थापय गमनारम्भे वयस्य हृदयं मया सहितः ॥ २१६ ॥
इत्थं निगदितवन्तं सुहृदुत्तरलाभलालसात्मानम् ।
ऊचे सुन्दरसेनं लज्जित इव सहचरो वचनम् ॥ २१७ ॥
अभ्यर्थनानुबन्धो लज्जाकर एव मादृशां किं तु ।
आकर्णय कथयामः पथिकानां यानि दुःखानि ॥ २१८ ॥
कर्पटकावृतमूर्तिर्दूराध्वपरिश्रमावसितशक्तिः ।
पांसूत्करधूसरितो दिनावसाने प्रतिश्रयाकाङ्क्षी ॥ २१९ ॥
मातर्भगिनि दयां कुरु मा मैवं निष्ठुरा भव तवापि ।
कार्यवशेन गृहेभ्यो निर्यान्ति भ्रातरश्च पुत्राश्च ॥ २२० ॥
किं वयमुत्पाट्य गृहं प्रातर्गन्तार ईदृगेव सताम् ।
भवति निवासो यस्मिन्निज इव पथिकाः प्रयान्ति विश्रामम् ॥ २२१ ॥
अद्य रजनीं नयामो यथा कथं चित्त्वदाश्रये मातः ।
अस्तङ्गतो विवस्वान्वद सम्प्रति कुत्र गच्छामः ॥ २२२ ॥
इति बहुविधदीनवचाः प्रतिगेहं द्वारदेशमधितिष्ठन् ।
निर्भर्त्स्यते वराको गृहिणीभिरिदं वदन्तीभिः ॥ २२३ ॥
न स्थित इह गेहपतिः किं रटसि वृथा प्रयाहि देवकुलम् ।
कथितेऽपि नापगच्छति पश्य मनुष्यस्य निर्बन्धम् ॥ २२४ ॥
अथ यदि कथं चिदपरः पुनः पुनर्याचितो गृहस्वामी ।
निर्दिशति सावधीरणमत्र स्वपिहीति शीर्णगृहकोणे ॥ २२५ ॥
तत्र कलहायमाना तिष्ठति गृहिणी विभावरीप्रहरम् ।
अज्ञाताय किमर्थं वासो दत्तस्त्वयेति सह भर्त्रा ॥ २२६ ॥
ईदृगयं सरलात्मा किं कुरुषे भगिनि तावको भर्ता ।
स्थास्यसि गेहेऽवहिता भ्रमन्ति खलु वञ्चका एवम् ॥ २२७ ॥
इति भाजनादियाच्ञां बुद्धौ विनिधाय निकटवर्तिगृहात् ।
नारी समभ्युपेता ब्रूते तामाप्तभावेन ॥ २२८ ॥
गृहशतमधिकमटित्वा कलमकुलत्थाणुचणमसूरादि ।
एकीभूतं भुङ्क्ते क्षुधोपतप्तोऽध्वगो भैक्षम् ॥ २२९ ॥
परवशमशनं वसुधां शयनीयं सुरनिकेतनं सद्म ।
पथिकस्य विधिः कृतवानुपधानकमिष्टकाखण्डम् ॥ २३० ॥
इति निगदितवति तस्मिन्षुन्दरसेनस्य चोत्तरावसरे ।
इयमुपगीता गीतिः केनापि कथाप्रसङ्गेन ॥ २३१ ॥
निजवरभवनं सुरगृहमुर्वीतलमतिमनोहरं शयनम् ।
कदशनममृतमभीप्सितकार्यैकनिविष्टचेतसां पुंसाम् ॥ २३२ ॥
समुपश्रुत्य च सुहृदं पौरन्दरिरिदमुवाच परितुष्टः ।
मम हृदयगतं प्रकटितमेतेन सतैव भवतु गच्छावः ॥ २३३ ॥
अथ सहचरद्वितीयः क्लेशसमुद्रावतरणकृतचित्तः ।
निरगात्सुन्दरसेनः कुसुमपुरादविदितः पित्रा ॥ २३४ ॥
पश्यन्विदग्धगोष्ठीरभ्यस्यन्नायुधानि सकलानि ।
शास्त्रार्थानवगच्छन्विलोकयन्कौतुकानि विविधानि ॥ २३५ ॥
जानन्पत्रछेदनमालेख्यं सिक्थपुस्तकर्माणि ।
नृत्यं गीतोपचितं तन्त्रीमुरजादिवाद्यभेदांश्च ॥ २३६ ॥
बुध्यन्वञ्चकभङ्गीर्विटकुलटानर्मवक्रकथितानि ।
बभ्राम सुहृत्सहितः सुन्दरसेनो महीमखिलाम् ॥ २३७ ॥
अथ विदितसकलशास्त्रो विज्ञाताशेषजनसमाचरणः ।
निजगृहगमनाकाङ्क्षी स शिलोच्चयमर्बुदं प्राप ॥ २३८ ॥
तत्पृष्ठदेशदर्शनलोलमलं सुन्दरं परिज्ञाय ।
ङुणपालितो बभाषे विलोक्यतामद्रिराज इति ॥ २३९ ॥
एष सुतः सानुतटस्यन्दच्छीताच्छसलिलसम्पन्नः ।
लोकानुकम्पयेव प्रालेयमहीभृता मरौ न्यस्तः ॥ २४० ॥
शिशिरकरकान्तमौलिः कटकस्थितपवनभोजनः सगुहः ।
विद्याधरोपसेव्यो बिभर्ति लक्ष्मीमयं शम्भोः ॥ २४१ ॥
अत्र तरुशिखरसंगतसुमनस इति जातनिश्चयो मन्ये ।
अभिलषति समुच्चेतुं तारा निशि मुग्धकामिनीसार्थः ॥ २४२ ॥
आश्चर्यं यदुपान्ते तिष्ठन्त्येतस्य सप्त मुनयोऽपि ।
अथवा कस्याकर्षं न करोति समुन्नतिर्महताम् ॥ २४३ ॥
अवगत्य निरवलम्बनमम्बरमार्गं पतङ्गतुरगाणाम् ।
अयमवनिधरो मन्ये विश्रान्त्यै वेधसा विहितः ॥ २४४ ॥
इममाश्रित्य हिमांशोरोषधयः संनिकर्षमुपयाताः ।
प्रत्यासत्तिः प्रभुणा प्रायोऽनुग्राहकवशेन ॥ २४५ ॥
सेक्तुमिवाशाकरिणो विसृजत्ययमवनिधरणपरिखिन्नान् ।
निर्झरसलिलकणौघान्भवति हि सौहार्दमेककार्याणाम् ॥ २४६ ॥
हारीताहृतशोभो मुदितशुको व्यासयोगरमणीयः ।
विश्रान्तभरद्वाजः समतामयमेति मुनिनिवासस्य ॥ २४७ ॥
अस्मिन्निःसङ्गा अपि परलोकप्राप्त्युपायकृतयत्नाः ।
गन्धवहभोजना अपि न हिंसकाः फलभुजोऽपि न प्लवगाः ॥ २४८ ॥
शुभकर्मैकरता अपि षट्कर्माणो यता अपि स्ववशाः ।
अनभिमतरौद्रचरिताः शिवप्रिया अपि वसन्ति शमनिरताः ॥ २४९ ॥
मूर्तिरिव शिशिररश्मेर्हरिणवती सप्तपत्रकृतशोभा ।
सरणिरिव चण्डभासः पलाशिनी यातुधानजायेव ॥ २५० ॥
सोत्कण्ठेव समदना वासकसज्जेव तिलकपरिभूषा ।
धवहरिपीलुसनाथा नरनाथद्वारभूमिरिव ॥ २५१ ॥
आर्जुनबाणव्रातैः कुरुनाथवरूथिनीव संछन्ना ।
रक्षसहस्रोपचिता लक्ष्मीरिव गगनदेशस्य ॥ २५२ ॥
ध्वजिनीव डानवानां रिष्टकसमधिष्ठिता त्रियामेव ।
उद्द्योतरोहिणीका रम्येयमुत्पत्यका भाति ॥ २५३ ॥
इति दर्शयति वयस्ये सुन्दरसेने च पश्यति प्रीत्या ।
स्वप्रस्तावोपगता गीतिरियं केन चिद्गीता ॥ २५४ ॥
अतिशयितनाकपृष्ठं पृष्ठं ये नार्बुदस्य पश्यन्ति ।
बहुविषयपरिभ्रमणं मन्ये क्लेशाय केवलं तेषाम् ॥ २५५ ॥
आकर्ण्य च स बभाषे महात्मनानेन युक्तमुपगीतम् ।
शिखरिशिरः पश्यामो वयस्य रम्यं समारुह्य ॥ २५६ ॥
अथ गिरिवरमारूढो विलोकयन्विविधविबुधभवनानि ।
वापीरुद्यानभुवः सरांसि सरितश्चचार विस्मेरः ॥ २५७ ॥
अचिराभामिव विघनां ज्योत्स्नामिव कुमुदबन्धुना विकलाम् ।
रतिमिव मन्मथरहितां श्रियमिव हरिवक्षसः पतिताम् ॥ २५८ ॥
हस्तोच्चयं विधातुः सारं सकलस्य जन्तुजातस्य ।
दृष्टान्तं रम्याणामस्त्रं संकल्पजन्मनो जैत्रम् ॥ २५९ ॥
विकसितकुसुमसमृद्धिं शृङ्गाररसापगैककलहंसीम् ।
लीलापल्लववल्लीं व्रतिनामवधानवर्मणां भल्लीम् ॥ २६० ॥
विचरन्नुपवनमण्डपपुष्पप्रकराभिरामभूपृष्ठे ।
रममाणां सह सख्या ललनामालोकयामास ॥ २६१ ॥
अवलोकयतस्तस्य स्मरमार्गणवेध्यतामुपेतस्य ।
इदमासीन्मनसि चिरं विस्मयभाराभिभूयमानस्य ॥ २६२ ॥
क्वेदं खलु विश्वसृजः कौशलमत्यद्भुतं समुपजातम् ।
येन विरुद्धानामपि घटितैकत्र स्थितिस्तथा हीयम् ॥ २६३ ॥
ललितवपुर्निर्दोषा स्फुरदुज्ज्वलतारकाभिरामा च ।
निर्वाच्यवदनकमला जितवीणाक्वणितवाणी च ॥ २६४ ॥
संविहितविग्रहस्थितिरतिशोभनघटितसन्धिबन्धा च ।
उन्नतपयोधराढ्या शरदिन्दुकरावदाता च ॥ २६५ ॥
अभिमतसुगतावस्थितिरभिनन्दितचरणरचना च ।
अतिविपुलजघनदेशा विध्वस्तशरीरविहितशोभा च ॥ २६६ ॥
आविर्भवदनुरागे तस्मिन्नथ वलितलोचना सहसा ।
सापि बभूव मृगाक्षी हस्तगता कुसुमचापस्य ॥ २६७ ॥
तरुमूलमाश्रिताया विस्मृतसकलान्यकर्मणः सपदि ।
तस्या गात्रलतायामङ्कुरितं सात्त्विकैर्भावैः ॥ २६८ ॥
सैवोपवनसमृद्धिस्तस्मिन्नेव क्षणे स्मरं स्मृत्वा ।
तां व्यथयितुमारेभे प्रभोर्हि कृत्यं करोति खलु सर्वः ॥ २६९ ॥
गात्रसरसेन्धनेभ्यः प्रस्वेदजलं विनिर्ययौ तस्याः ।
अन्तर्ज्वलितमनोभवहव्यभुजा दह्यमानेभ्यः ॥ २७० ॥
कुसुमशरजालपतिता मुहुर्मुहुर्विदधती विवृत्तानि ।
अनिमेषं पश्यन्ती मत्स्यवधूमनुचकार सा तन्वी ॥ २७१ ॥
स्तब्धतनुं सोत्कम्पां पुलकवतीं स्वेदिनीं सनिःश्वासाम् ।
विदधे तामसमशरः क्रीडति हि शठो विशिष्टमासाद्य ॥ २७२ ॥
उच्छ्वासैरुल्लसनं कुचयुगले सौष्ठवं विलासानाम् ।
अभिलषितेन प्रेम्णा स्निग्धत्वं चक्षुषोर्मनोहारि ॥ २७३ ॥
अनुरक्त्या वदनरुचिं वचसि च गमने च साध्वसस्खलनम् ।
तस्या मदनः कुर्वन्नुपनिन्ये चारुतामधिकाम् ॥ २७४ ॥
पार्श्वगतेऽपि प्रेयसि कामशरासारताड्यमानापि ।
न शशाक साभिधातुं चित्तगतं प्रणयभङ्गतो भीता ॥ २७५ ॥
अथ विदितचित्तवृत्तिः सक्तदृशं प्रियतमे समाकृष्य ।
मदनेन दह्यमानां विहसितविशदं जगाद तामाली ॥ २७६ ॥
अयि हारलते संहर हरहुङ्कृतिदग्धदेहसंक्षोभम् ।
सद्भावजानुरक्तिर्न हि पण्यं पण्यनारीणाम् ॥ २७७ ॥
अवधीरय धनविकलं कुरु गौरवमकृशसम्पदः पुंसः ।
अस्मादृशां हि मुग्धे धनसिद्ध्यै रूपनिर्माणम् ॥ २७८ ॥
अभिरामेऽभिनिवेशं विदधाना विभवलाभनिरपेक्षा ।
उपहस्यसे सुमध्ये विदग्धवाराङ्गनावारैः ॥ २७९ ॥
येषां श्लाघ्यं यौवनमभिमुखतामुपगतो विधिर्येषाम् ।
फलितं येषां सुकृतं जीवितसुखितार्थिता येषाम् ॥ २८० ॥
तेऽवश्यं स्वयमेव त्वामनुबध्नन्ति मदनशरभिन्नाः ।
न हि मधुलेहाः सुन्दरि मृग्यन्ते चूतमञ्जर्या ॥ २८१ ॥
इति गदितवतीमालीं कामशरासारभिन्नसर्वाङ्गी ।
अव्यक्तस्खलिताक्षरमूचे कृच्छ्रेण हारलता ॥ २८२ ॥
सखि कुरु तावद्यत्नं बहुमतमतिवेदनाप्रतीकारे ।
क्रोडीकृता विपत्त्या न भवन्त्युपदेशयोग्या हि ॥ २८३ ॥
अस्वायत्तः प्रेयान्मृदुपवनः सुरभिकुसुममुद्यानम् ।
इयती खलु सामग्री भवति क्षीणायुषामेव ॥ २८४ ॥
मत्वा मदनाशीविषविषवेगाकुलितविग्रहामालीम् ।
समुपेत्य शशिप्रभया पौरन्दरिरभिदधे कृतप्रणतिः ॥ २८५ ॥
यदि नाम रुणद्धि गिरं गणिकाभावोपजनितवैलक्ष्यम् ।
तदपि कथितव्यमेव स्निग्धापदि न हि निरूप्यते युक्तम् ॥ २८६ ॥
एतावति संसारे परिगणिता एव ते सुजन्मानः ।
आपत्सु परित्राणव्याकुलमनसां स्फुरन्ति ये बुद्धौ ॥ २८७ ॥
यस्मिन्नेव मुहूर्ते चक्षुर्विषयं गतोऽसि मम सख्याः ।
तत एवारभ्य गता विधेयतां दग्धमदनस्य ॥ २८८ ॥
रोमोद्गमसंनहनं भित्त्वान्तर्विग्रहं परापतिताः ।
तस्या मानससम्भवकोदण्डविनिःसृता इषवः ॥ २८९ ॥
किं विदधातु वराकी कुत्र समाश्वसितु यातु कं शरणम् ।
पीडयति भृशं यस्या नित्यशुचिर्दक्षिणो मृदुः पवनः ॥ २९० ॥
वचसि गते गद्गदतामुज्झितमौनव्रताश्चिराय पिकाः ।
हृष्टा व्यथयन्ति सखीं जातावसरा निरर्गलं विरुतैः ॥ २९१ ॥
स्खलिताकुलिते गमने तन्वङ्ग्या अगणितश्रमा हंसाः ।
सुचिराल्लब्धावसराः कुर्वन्ति गतागतानि परितुष्टाः ॥ २९२ ॥
उष्णोच्छ्वसितसमीरैर्विदह्यमानोऽपि मधुकरस्तस्याः ।
अलककुसुमं न मुञ्चति कृच्छ्रेष्वपि दुस्त्यजा विषयाः ॥ २९३ ॥
नो वारयसि तथा मां साम्प्रतमिति कथयतीव मधुलेहः ।
निःसहवपुषः कर्णे श्रुतिपूरकपुष्पसंगतो गुञ्जन् ॥ २९४ ॥
प्रशिथिलभुजलतिकातस्तस्याः पतितस्य हेमकटकस्य ।
यत्प्रापणं पृथिव्यास्तस्मिन्खलु मुक्तहस्तता हेतुः ॥ २९५ ॥
रशनागुणेन विगलितमेकपदे तन्नितम्बतश्चित्रम् ।
पतनाय नियतमथवा निषेवणं गुरुकलत्रस्य ॥ २९६ ॥
अङ्गीकृत्य मनोभवमुरसि तथा लालितोऽपि हतहारः ।
तापयति सखीं तत्क्षणमन्तर्भिन्नात्कुतः कुशलम् ॥ २९७ ॥
वाससितं स्वेदजलं कज्जलमलिनाश्रुवारिणा मिश्रम् ।
कुचतटपतितं तस्याः प्रयागसम्भेदसलिलमनुकुरुते ॥ २९८ ॥
पिकरुतमलयसमीरणसुमनःस्मरभृङ्गदहनपरिकरिता ।
पञ्चतपश्चरति भवत्परिरम्भणसौख्यलम्पटा बाला ॥ २९९ ॥
न परां पतति वराकी दशमीं यावन्मनोभवावस्थाम् ।
त्रायस्व सुभग तावच्छरणागतरक्षणं व्रतं महताम् ॥ ३०० ॥
अथ तद्वचसि कृतादरमुद्भूतमनोभवं समवधार्य ।
अवगीतिभीतचेता ऊचे ङुणपालितः सुहृदम् ॥ ३०१ ॥
यद्यपि मारप्रसरो दुर्वारः प्राणिनां नवे वयसि ।
चिन्त्यं तदपि विवेकिभिरवसानं वेशयोषितां प्रेम्णः ॥ ३०२ ॥
वारस्त्रीणां विभ्रमरागप्रेमाभिलाषमदनरुजः ।
सहवृद्धिक्षयभाजः प्रख्याताः सम्पदः सुहृदः ॥ ३०३ ॥
ताभिरवदातजन्मा कुर्वीत समागमं कथं यासाम् ।
क्षणदृष्टोऽपि प्रणयी रूढप्रणयोऽपि जन्मनोऽपूर्वः ॥ ३०४ ॥
प्रद्युम्नः प्रद्युम्नो विरूपकः खलु विरूपकः सततम् ।
सुस्निग्धः सुस्निग्धो रूक्षो रूक्षस्तु गणिकानाम् ॥ ३०५ ॥
यासां जघनावरणं परकौतुकवृद्धये न तु त्रपया ।
उज्ज्वलवेषा रचना कामिजनाकृष्टये न तु स्थितये ॥ ३०६ ॥
मांसरसाभ्यवहारः पुरुषाहतिपीडया न तु स्पृहया ।
आलेख्यादौ व्यसनं वैदग्ध्यख्यातये न तु विनोदः ॥ ३०७ ॥
रागोऽधरे न चेतसि सरलत्वं भुजलतासु न प्रकृतौ ।
कुचभारेषु समुन्नतिराचरणे नाभिनन्दितेऽसद्भिः ॥ ३०८ ॥
जघनस्थलेषु गौरवमाकृष्टधनेषु नो कुलीनेषु ।
अलसत्वं गमनविधौ नो मानववञ्चनाभियोगेषु ॥ ३०९ ॥
वर्णविशेषापेक्षा प्रसाधने नो रतिप्रसङ्गेषु ।
ओष्ठे मदनासङ्गो नो पुरुषविशेषसम्भोगे ॥ ३१० ॥
या बालेऽपि सरागा वृद्धेष्वपि विहितमन्मथावेशाः ।
क्लीबेष्वपि कान्तदृशः साकाङ्क्षा दीर्घरोगेऽपि ॥ ३११ ॥
स्वेदाम्बुकणोपचिता अनार्द्रतानिजनिवासमनसश्च ।
आविष्कृतवेपथवो वज्रोपलसारकठिनाश्च ॥ ३१२ ॥
जघनचपला अनार्याः परभृतयः कृतकनेत्ररागाश्च ।
सर्वाङ्गार्पणदक्षा असमर्पितहृदयदेशाश्च ॥ ३१३ ॥
नकुलसमुत्पन्ना अपि भुजङ्गदशनकृतवेदनाभिज्ञाः ।
कन्दर्पदीपिका अपि रहिताः स्नेहप्रसङ्गेन ॥ ३१४ ॥
उज्झितवृषयोगा अपि रतिसमये नरविशेषनिरपेक्षाः ।
कृष्णैकाभिरता अपि हिरण्यकशिपुप्रियाः सततम् ॥ ३१५ ॥
मेरुमहीधरभुव इव किम्पुरुषसहस्रसेवितनितम्बाः ।
नीतय इव भूमिभृतां सुपरिहृतानर्थसंयोगाः ॥ ३१६ ॥
बहुमित्रकरजदारणलब्धाभ्युदयाः सरोरुहिण्य इव ।
डाकिन्य इव च रक्तव्याकर्षणकौशलोपेताः ॥ ३१७ ॥
प्रतिपुरुषं संनिहिताः कृत्यपरा विविधविकरणोपचिताः ।
बहुलार्थग्राहिण्यः प्रकृतय इव दुर्ग्रहा गणिकाः ॥ ३१८ ॥
सादरमाश्लिष्य चिरं कुसुमस्तबकं च नरविशेषं च ।
रिक्तीकर्तुं निपुणं क्षुद्राः क्षुद्राश्च चुम्बन्ति ॥ ३१९ ॥
परमार्थकठोरा अपि विषयगतं लोहकं मनुष्यं च ।
चुम्बकपाषाणशिलाः रूपाजीवाश्च कर्षन्ति ॥ ३२० ॥
पुरुषाक्रान्ताः सततं कृत्रिमशृङ्गाररागरमणीयाः ।
आहन्यमानजघनाः करेणवो वारयोषाश्च ॥ ३२१ ॥
उचितगुणोत्क्षिप्ता अपि पुरतो विनिवेशिते सुवर्णलवे ।
झगिति पतन्ति मुखेन प्रकटप्रमदाः कलाधिकाश्च तुलाः ॥ ३२२ ॥
बहिरुपपादितशोभा अन्तस्तुच्छाः स्वभावतः कठिनाः ।
दास्यः समुद्गिका इव मणन्ति यन्त्रप्रयोगेण ॥ ३२३ ॥
बध्नन्ति येऽनुरागं दैवहतास्तासु वारवनितासु ।
ते निःसरन्ति नियतं पाणिद्वयमग्रतः कृत्वा ॥ ३२४ ॥
इत्युपदिशति वयस्ये सुन्दरसेने च मन्मथव्यथिते ।
आवादुपयातं गीतित्रयमभ्यधायि केनापि ॥ ३२५ ॥
तरुणीं रमणीयाकृतिमुपनीतां स्मृतिभुवा वशीकृत्य ।
परिहरति यो जडात्मा प्रथमोऽसौ नालिको विना भ्रान्तिम् ॥ ३२६ ॥
इदमेव हि जन्मफलं जीवितफलमेतदेव यत्पुंसाम् ।
लडहनितम्बवतीजनसम्भोगसुखेन याति तारुण्यम् ॥ ३२७ ॥
सुमनोमार्गणदहनज्वालावलिदह्यमानसर्वाङ्ग्यः ।
प्रबलप्रेमप्रवणाः प्रमदाः स्पृहयन्ति नाल्पपुण्येभ्यः ॥ ३२८ ॥
एवमुपश्रुत्य वचः समुवाच पुरन्दरात्मजः सुहृदम् ।
मम हृदयादिव कृष्ट्वा गीतमिदं साधुनानेन ॥ ३२९ ॥
तदतनुसायकविकलां हारलतां हरिणशावतरलाक्षीम् ।
आश्वासयितुं यामो गुणपालित किं विकल्पितैर्बहुभिः ॥ ३३० ॥
अथ यत्र कापि गणिका गणयन्ती परिचितं हृतद्रविणम् ।
प्रविशन्तमेव मन्दिरमीर्ष्याव्याजेन निरुरोध ॥ ३३१ ॥
का चिद्वञ्चकदत्तं लुण्डीकृतजीर्णवसनमवलोक्य ।
वेश्या विषीदति स्म क्षपाक्षये वृत्तकर्तव्या ॥ ३३२ ॥
दैवस्मृत्या पतितं दृष्टिपथं भग्नमूल्यविटमेका ।
ज्वलिता रुषा भुजिष्या जग्राह जवेन धावित्वा ॥ ३३३ ॥
अन्तःस्थितकामिगृहद्वारगतं लुप्तवित्तनरमन्या ।
समुवाच कुट्टनी व्रज कल्लोलाकल्पदेहेति ॥ ३३४ ॥
प्रकटितदशननखक्षतिरभिदधती राजपुत्ररतियुद्धम् ।
अपरा पुरः सखीनां वारवधूराततान सौभाग्यम् ॥ ३३५ ॥
अन्या कामिस्पर्धावर्धितभाटी समुच्छ्रिता खेडा ।
सौभाग्यगर्वदर्पं समुवाह विलासिनीमध्ये ॥ ३३६ ॥
एकगणिकानुबन्धक्रोधोद्यतशस्त्रकामिनोः कापि ।
सम्भ्रमतो धावित्वा निवारयामास कुट्टनी कलहम् ॥ ३३७ ॥
धनमाहृत्य बहुभ्यो भुज्यत एकेन केन चित्सार्धम् ।
इति धनवन्तं कामिनमावर्जयति स्म कापि वारवधूः ॥ ३३८ ॥
गायन्गाथामात्रं द्विपदकमथ सौष्ठवेन विट एकः ।
बभ्राम पुरो दास्या विदधद्विकृतीरनेकविधाः ॥ ३३९ ॥
कश्चित्पण्यस्त्रीणां विभवोपचितान्यपुरुषयोजनया ।
विदधाति स्माराधनमधनत्वमुपागतः कामी ॥ ३४० ॥
त्वयि सक्तेन मया गृहमुज्झितमधुना परेव जातासि ।
इति ढौकमलभमानः कश्चिद्गणिकामुपालेभे ॥ ३४१ ॥
उषितामपरेण समं वृद्धविटानां पुरः पराजित्य ।
त्याजयति स्म भुजङ्गः कश्चिद्गणिकां द्विगुणभाटीम् ॥ ३४२ ॥
दृष्टा त्वया विशेषक वलयकलापी शशिप्रभाभुजयोः ।
बाढं भण भण कीदृक्चारुतरा सा मया दत्ता ॥ ३४३ ॥
अद्य चतुर्थो दिवसश्चीनाम्बरयुगलकस्य दत्तस्य ।
तदपि परुषा विलासा वद मदनक किं करोम्यत्र ॥ ३४४ ॥
स्नेहपरा मयि केली कलहंसक किं तु राक्षसी तस्याः ।
माता नात्मीकर्तुं वर्षशतेनापि शक्यते पापा ॥ ३४५ ॥
सुमनःकुङ्कुमवासं सज्जीकुरु किमिति तिष्ठसि विचित्तः ।
अद्य तव दयितिकायाः किञ्जल्कक नर्तनावसरः ॥ ३४६ ॥
यदि नाम पञ्च दिवसान्त्वयि कुरुते प्रेम धनलवं दृष्ट्वा ।
तदपि टरङ्गवती सा कन्दर्पक किं वृथा गर्वः ॥ ३४७ ॥
जीवद्वेषिनॢआसक परिहर दूरेण मूढ हरिसेनाम् ।
बद्धावेशस्तस्यां व्यापृतपुत्रो महाविषमः ॥ ३४८ ॥
केसरया क्षणदत्तं कृत्वांशुकमुपरि कामिजालस्य ।
स्तब्धग्रीवं भ्रमतश्चन्द्रोदय पश्य माहात्म्यम् ॥ ३४९ ॥
कौमारकं विधातुं वाञ्छसि किल रमण मदनसेनायाः ।
इच्छामि किं तु तस्या मात्रातीव प्रसारितं वदनम् ॥ ३५० ॥
विभ्रम कियतस्तपसः फलमेतद्यदुपभुज्यते मदिरा ।
स्वकरेण पीतशेषा मदघूर्णितदेवदत्तया दत्ता ॥ ३५१ ॥
कुवलयमालानिलयो ऌईलोदय किमिति सम्प्रति त्यक्तः ।
किं विदधामस्तस्मिन्भ्रातर्दास्या विना मूल्यम् ॥ ३५२ ॥
मुषिताशेषविभूतेरिन्दीवरकस्य यामिनी याति ।
संवाहयतः सम्प्रति मञ्जीरक टिलकमञ्जरीचरणौ ॥ ३५३ ॥
अद्यापि बालभावं निखिलं न जहाति मदनिका तदपि ।
प्रौढिम्ना मकरन्दक सकला ललना अधः कुरुते ॥ ३५४ ॥
कुब्जे गत्वा वक्ष्यसि तं निर्दयचित्तनर्तनाचार्यम् ।
हारा सुकुमारतनुः किमिति श्रममद्य कारिता भवता ॥ ३५५ ॥
निःसर कोऽभिनिवेशः शुकशावकपाठने सुरतदेवि ।
तिष्ठति बहिरुपविष्टः प्रतीक्षमाणस्तव प्रेयान् ॥ ३५६ ॥
वीणावादनखिन्ना पतितास्ते वासभवनपर्यङ्के ।
उत्थापय तां त्वरितं स्मरलीलां भट्टपुत्र आयातः ॥ ३५७ ॥
किमिदं यथास्थितत्वं तव माधवि यन्मुहुर्वदन्त्या मे ।
परिधत्से नाभरणं श्रीविग्रहराजसूनुना दत्तम् ॥ ३५८ ॥
ईदृक्शून्यमनस्त्वं किं कुर्मो मातरिन्दुलेखायाः ।
पानक्रीडासक्त्या पतितापि न चेतिता कनकताडी ॥ ३५९ ॥
नकुलः पयो न पायित इति रोषवशादियं हि दुःशीला ।
नाश्नाति कामसेना पुनः पुनः प्रार्थ्यमानापि ॥ ३६० ॥
श्रीबलसुतपरिपालित ऊर्णायुः किमनया विजेतव्यः ।
मुकुला मुक्तसुखस्थितिरहर्निशं मेषपोषणे लग्ना ॥ ३६१ ॥
आताम्रतां समुपगतमुच्छूनं करतलं तव सुललिते ।
मा पुनरतिचिरमेवं प्रविधास्यसि कन्दुकक्रीडाम् ॥ ३६२ ॥
अभिराम डोम्ब भाटी प्रथममियं गृह्यते समुत्पन्ने ।
स्नेहे तु कुसुमदेव्यास्त्वं प्रभवसि जीवितस्यापि ॥ ३६३ ॥
ग्रहणकमर्पय तावद्यदि कौतुकमुपरि Cअन्द्रसेनायाः ।
निर्वर्तितकर्तव्यो दास्यसि किं चिद्यथाभिमतम् ॥ ३६४ ॥
न परमदाता मातः सूनुरसौ नगररोटभट्टस्य ।
निर्लज्जः शठवृत्तिः पुनः पुनर्वार्यमाणोऽपि ॥ ३६५ ॥
क्षपयति वसनानि सदा हठेन सकलानि सुरतसेनायाः ।
न ददात्येकामूर्णामुरणः परमत्ति कर्पाशम् ॥ ३६६ ॥
भगिनि न मुञ्चति वेश्म क्षणमपि मे कपटराजपुत्रोऽसौ ।
भग्नोऽन्यनरावसरो नग्नेनाधिष्ठितं यथा तीर्थम् ॥ ३६७ ॥
इत्थंप्राया वाचः शृण्वन्विटकुट्टनीसमुद्गीर्णाः ।
तं वेशसंनिवेशं पश्यन्प्रविवेश दयितिकावेश्म ॥ ३६८ ॥
आकृष्टमिवोत्कतया स्नपितमिव स्निग्धचक्षुषः प्रसरैः ।
तमुपागतमभ्यर्णं हारलता पूजयामास ॥ ३६९ ॥
संविहितसमुचितस्थितिरवनतशिरसा प्रणम्य तत्सख्या ।
इदमभिदधेऽतिनम्रं सुन्दरसेनः शुभेऽवसरे ॥ ३७० ॥
प्रियदर्शन किं बहुभिः स्मरपीडितदीनवचनसंदर्भैः ।
इयमास्ते हारलता जीवितमस्यास्त्वदायत्तम् ॥ ३७१ ॥
निर्यन्त्रकेलिविशदं सहजप्रेमानुबन्धरमणीयम् ।
कार्यान्तरान्तरायैः सुपरिहृतं यातु यौवनं भवतोः ॥ ३७२ ॥
निर्दयमविरतवाञ्छं ध्वस्तत्रपमव्यवस्थिताचरणम् ।
उपचीयमानरागं सततं भूयाद्भवत्सुरतम् ॥ ३७३ ॥
इति दत्त्वाशिषमन्तर्निर्याते परिजने तदङ्गेषु ।
विस्रम्भविविक्तरसो ववृधे कुसुमायुधः सुतराम् ॥ ३७४ ॥
यदमन्दमन्मथोचितमनुरूपं यन्नवानुरागस्य ।
यद्यौवनेऽभिरामं यच्च फलं जीवितव्यस्य ॥ ३७५ ॥
अविनय एव विभूषणमश्लीलाचरणमेव बहुमानः ।
निःशङ्कतैव सौष्ठवमनवस्थितिरेव गौरवाधानम् ॥ ३७६ ॥
केशग्रहणमनुग्रह उपकारस्ताडनं मुदे दंशः ।
नखविलिखनमभ्युदयो दृढदेहनिपीडनं समुत्कर्षः ॥ ३७७ ॥
निगरणलोलं चुम्बनमवयवनिष्पेषणस्पृहो मर्दः ।
अन्तःप्रवेशनेच्छं निर्भरपरिरम्भणं यस्मिन् ॥ ३७८ ॥
यदनङ्गैरिव विहितं रागैरिव दीप्तिमत्त्वमुपनीतम् ।
प्रेमभिरिव निश्चलितं शृङ्गारैरिव विकाशमानीतम् ॥ ३७९ ॥
अप्रागल्भ्यं व्यसनं धैर्यमकार्यं विवेक उपघातः ।
ह्रेपणमगुणो यस्मिन्तत्सुरतं प्रस्तुतं ताभ्याम् ॥ ३८० ॥
प्रारम्भ एव तावत्प्रज्वलितो धगिति मनसिजो यस्मिन् ।
तस्य विशेषावस्था वक्तुमशक्याः प्रवृद्धस्य ॥ ३८१ ॥
सहजरसेन जडीकृतमिति यूनोः कामशास्त्रनिर्णीते ।
नानाकरणग्रामे मालिन्यमवाप पाण्डित्यम् ॥ ३८२ ॥
अविधेयमनाख्येयं प्रविचार्यं छादनीयमविषह्यम् ।
न बभूव तयोस्तस्मिन्नाविद्धारब्धसुरतसंमर्दे ॥ ३८३ ॥
अभ्यस्ता या तन्व्या सुरतविधौ विविधचाटुपरिपाटी ।
तामालूनविशीर्णां चकार सहजः स्मरावेशः ॥ ३८४ ॥
सद्भावरागदीपितमदनाचार्योपदिष्टचेष्टानाम् ।
कः परिगणनं कर्तुं रतिचक्राविष्टरमणयोः शक्तः ॥ ३८५ ॥
बाला मृदुगात्रलता दृढपुरुषाक्रान्तविग्रहा न परम् ।
न व्यथिता मुदमाप प्रभवति खलु चित्तजन्मनः शक्तिः ॥ ३८६ ॥
किं रमणीं रमणोऽविशदुत रमणी रमणमिति न जानीमः ।
स्वावयवावगमस्तु प्रणाशमगमत्तयोस्तदा निपुणम् ॥ ३८७ ॥
तस्या निमीलितदृशो निःस्पन्दतनोर्बभूव सुरतान्ते ।
लिङ्गमनङ्गच्छाया जीवितसत्तानुमानस्य ॥ ३८८ ॥
श्रमजलबिन्दूपचिता वृत्तस्मरणेन जातवैलक्ष्या ।
सा शुशुभे रतिविरतौ पर्याकुलकेशभूषणा नितराम् ॥ ३८९ ॥
निर्व्याजार्पितवपुषोर्निर्वृतिमयमेव गणयतोर्विश्वम् ।
क्षणदा विरराम तयोरक्षीणाकाङ्क्षयोरेव ॥ ३९० ॥
मोहनविमर्दखिन्ना विजृम्भमाणा स्खलद्गतिर्मन्दम् ।
निद्राकषायिताक्षी हारलता वासवेश्मनो निरगात् ॥ ३९१ ॥
परिचितपार्श्वगताहं तेन समं पानभोजनं कृत्वा ।
नीता निशा कथाभिर्मोहनकार्यं तु यत्किं चित् ॥ ३९२ ॥
अविदग्धः श्रमकठिनो दुर्लभयोषिद्युवा जडो विप्रः ।
अपमृत्युरपक्रान्तः कामिव्याजेन मे रात्रौ ॥ ३९३ ॥
नेच्छाविरतिः क्षणमपि न च शक्तिर्वस्तुशून्यरतियत्नैः ।
केवलमलमद्याहं कदर्थिता वृद्धपुरुषेण ॥ ३९४ ॥
मद्यवशादभियोक्तरि मृतकल्पे तल्पभागमग्नायाः ।
अनिरोधितनिद्रायाः सुखेन मे यामिनी याता ॥ ३९५ ॥
सुकुमारसम्प्रयोगः पेशलवचनः सवक्रपरिहासः ।
शकुनवशेनोपनतो मम सखि रमणो मनोहराकारः ॥ ३९६ ॥
पर्यङ्कान्तनिलीनः पराङ्मुखो मुक्तमन्दनिःश्वासः ।
मच्चोदनया सुतरां निष्पन्दः स्वेदसलिलसंसिक्तः ॥ ३९७ ॥
पर्यस्तमितानङ्गो व्यपगतनिद्रः क्षपाक्षयाकाङ्क्षी ।
ग्रामोषितः प्रहीणो निष्प्रतिपत्तिः स्थितोऽद्य सखि मनुजः ॥ ३९८ ॥
शृणु सखि कौतुकमेकं ग्रामीणककामिना यदद्य कृतम् ।
सुरतसुखमीलिताक्षी मृतेति भीतेन मुक्तास्मि ॥ ३९९ ॥
अविदितदेशप्रकृतेः शठात्मकाद्दुर्विदग्धतोऽस्माभिः ।
अनुभूतो राजसुतादपि भाण्डविडम्बनाक्लेशः ॥ ४०० ॥
प्रियसखि लोकसमक्षं नगरप्रभुणा हठेन नीतास्मि ।
एवं बन्धकदातुर्द्विगुणार्थप्रार्थने कुतोऽन्यायः ॥ ४०१ ॥
आकर्षन्ती जघनं व्रजसि यथा विक्षता नखैस्तिलशः ।
मन्ये तथोपभुक्ता त्वं केरलि दाक्षिणात्येन ॥ ४०२ ॥
अधरे बिन्दुः कण्ठे मणिमाला कुचयुगे शशप्लुतकम् ।
तव सूचयन्ति केतकि कुसुमायुधशास्त्रपण्डितं रमणम् ॥ ४०३ ॥
इति शृण्वन्नुषसि गिरो निर्वृत्तनिशाभियोगगणिकानाम् ।
सोऽपि यथाक्रियमाणं प्रविधातुं निर्जगाम कर्तव्यम् ॥ ४०४ ॥
सुरचितरागोपचितिस्वीकृतमनसस्तया समं तस्य ।
यौवनसुखमनुभवतो जगाम संवत्सरः सार्धः ॥ ४०५ ॥
विश्रम्भकथाः कुर्वन्विचरन्नुद्यानवेदिकापृष्ठे ।
सहचरकरसक्तकरः सुन्दरसेनः कदा चित्तु ॥ ४०६ ॥
स्थूलघनतन्तुसन्ततितानितनानाम्बरावरणम् ।
यष्टिप्रान्तनियन्त्रितदलवीटककुतपतुम्बकप्रायम् ॥ ४०७ ॥
त्रुटितचरणत्रसंगतविस्फुटिताभ्यक्तपादमलिनतनुम् ।
त्वरितगतिलेखवाहकमारादायान्तमद्राक्षीत् ॥ ४०८ ॥
प्रत्यासन्नीभूतं क्रमेण पौरन्दरिः परिज्ञाय ।
साकूतमना ऊचे वयस्य हनुमानयं प्राप्तः ॥ ४०९ ॥
अवनितललीनशिरसा कृतनतिना तेन विनिहितं भूमौ ।
उत्क्षिप्य झटिति लेखं सुन्दर इति वाचयामास ॥ ४१० ॥
स्वस्ति श्रीकुसुमपुरात्पुरन्दरः सुन्दरं समभिधत्ते ।
अन्तर्जृम्भितशोकग्रस्तोऽविस्पष्टवर्णपदम् ॥ ४११ ॥
कुलमकलङ्कं न गणितमवधीरितमग्रजन्मनामुचितम् ।
नापेक्षितमवगीतं शठसेवितवर्त्मनि त्वया पतता ॥ ४१२ ॥
वंशेऽकुटिलगतीनां द्विजिह्वतादोषरहितचरितानाम् ।
अपरविनाशरतानामुत्पन्नः कथमसि भुजङ्गः ॥ ४१३ ॥
क्व पुरोडाशपवित्रितवेदपदोद्गारगर्भवदनं ते ।
क्व च मदिरासववासितवारवधूमुखरसास्वादः ॥ ४१४ ॥
क्व कुशविपाटनजन्मा सहसोदितवेदनाचमत्कारः ।
क्व च दासीरतसङ्गरनिर्दयनखरक्षतिः प्रीत्यै ॥ ४१५ ॥
क्व त्रेतानलधूमक्षोभितनयनाम्बुधौतवदनत्वम् ।
क्व च गणिकानिर्भर्त्सनशोकभरायातबाष्पसलिलौघः ॥ ४१६ ॥
क्व वषट्कारध्वानः षट्कर्मविभूषणं श्रवणपूरः ।
क्व च साधारणवनितारतिमणिताकर्णनौत्सुक्यम् ॥ ४१७ ॥
क्वाचार्यप्रतनुलताताडनसंक्षोभसम्भवः कम्पः ।
क्व च कुपितवारललनानिष्ठुरपादप्रहारविषहित्वम् ॥ ४१८ ॥
क्व हरिणचर्मावरणं स्मृतिशास्त्रनिवेदितं व्रतं चरतः ।
क्व च पण्यस्त्रीगात्रस्पृष्टाम्बरधारणेषु बहुमानः ॥ ४१९ ॥
समिधामेव च्छेदनमभ्यस्तं शैशवात्समारभ्य ।
शठवनिताधरखण्डन उत्पन्नं कौशलं कुतो भवतः ॥ ४२० ॥
शुश्रूषणमेव गुरोः परिशीलितमचलचेतसा सततम् ।
कुटिलमतयो भुजिष्याः कथं त्वयाराधिता निपुणम् ॥ ४२१ ॥
आम्नायपाठ एव स्फुटतरपदसौष्ठवं तव ख्यातम् ।
प्रकुपितवेश्यानुनये क्व शिक्षितं वचनचातुर्यम् ॥ ४२२ ॥
अथवा किं क्रियतेऽस्मिन्नवदातकुलेऽपि लब्धजन्मानः ।
सदसंस्तुता भवन्ति प्रागुपचितकर्मदोषेण ॥ ४२३ ॥
त्वयि विनिवेश्य कुटुम्बं परलोकहितार्जनैकनिहितात्मा ।
स्थास्यामीति समीहितमनुदिवसं तद्विसंवदितम् ॥ ४२४ ॥
इत्यवधृतलेखार्थे सुन्दरसेने विधेयसम्मूढे ।
आर्यामगायदन्यः स्वावसरे गीतिपरिकरिताम् ॥ ४२५ ॥
विषयतिमिरावृताक्ष्णामवटे पततामदृष्टमार्गाणाम् ।
पुंसां गुरुजनवचनद्रव्यशलाकाञ्जनं शरणम् ॥ ४२६ ॥
उद्वेजयति तदात्वे सुखसम्पत्तिं करोति परिणामे ।
कटुकौषधप्रयोगो गुरुनिगदितकार्यनिष्ठुरं च वचः ॥ ४२७ ॥
लब्ध्वाथ वचोवसरं मित्रमवादीत्पुरन्दरापत्यम् ।
पुनरपि न हि खिद्यन्ते प्रियजनहितभाषणे सन्तः ॥ ४२८ ॥
अगणितसहचरवचसो दुर्व्यसनमहाब्धिमग्नवपुषस्ते ।
मन्युव्यथितस्य पितुर्यदि परमवलम्बनं वचनम् ॥ ४२९ ॥
निजवंशदीपभूतः कृतचरितालङ्कृतो महासत्त्वः ।
षुन्दर सम्प्रति तातः स्पृष्टो दुष्पुत्रदोषेण ॥ ४३० ॥
पुत्राभावः श्रेयान्दुःसुतता पुत्रिणः कुलीनस्य ।
अन्तस्तापयति भृशं सच्चरितकथाप्रसङ्गेषु ॥ ४३१ ॥
सांव्यवहारिक एव प्रायो लोके गुणोन्नता नियताः ।
येन तु सुतेन जननी वन्ध्यात्वं श्लाघते स पापीयान् ॥ ४३२ ॥
विफलं शास्त्रज्ञानं गुरुगृहसेवापि नोपकाराय ।
विषयवशीकृतमनसो न्याय्यं पन्थानमुत्सृजतः ॥ ४३३ ॥
जीवन्नेव मृतोऽसौ यस्य जनो वीक्ष्य वदनमन्योन्यम् ।
कृतमुखभङ्गो दूरात्करोति निर्देशमङ्गुल्या ॥ ४३४ ॥
नो परिहर्तुं विषयाः शक्याः सत्यं तथापि निपुणधियः ।
अभिधेयतां न गच्छन्त्यपवादविशेषिताभिधानस्य ॥ ४३५ ॥
गुरुपरिचर्या जाया कुलोद्गता स्निग्धबन्धुसम्पर्कः ।
ब्राह्मे कर्मणि सक्तिर्लोकद्वयसाधनं सुधियाम् ॥ ४३६ ॥
सुलभा तस्य विभूतिस्तस्य गुणा यान्ति जगति विस्तारम् ।
बहु मनुते तं सुजनस्तस्मै स्पृहयन्ति बान्धवाः सततम् ॥ ४३७ ॥
नासादयति स एकः सत्सेवितमार्गतः परिस्खलनम् ।
मण्डयति सोऽन्ववायं स निवासः शर्मणामशेषाणाम् ॥ ४३८ ॥
स भवति विनयाधारो युक्तायुक्ते विवेकिता तस्य ।
वृद्धोपदेशवाचः श्रवणोदरतर्पणं सदा यस्य ॥ ४३९ ॥
प्राक्तनकर्मविपाकः क्षुद्रासु शरीरिणां यदासक्तिः ।
आयतनं तु सुखानां संसारभुवां कुलोद्गता रामा ॥ ४४० ॥
निर्विण्णे निर्विण्णा मुदिते मुदिता समाकुलाकुलिते ।
प्रतिबिम्बसमा कान्ता संक्रुद्धे केवलं भीता ॥ ४४१ ॥
यावद्वाञ्छितसुरतव्यायामसहाविरुद्धसंभाषा ।
चित्तानुवृत्तिकुशला पुण्यवतामेव जायते जाया ॥ ४४२ ॥
सद्भावप्रेमरसं वलयावलिशब्दशङ्किता निभृतम् ।
विदधानाङ्गसमर्पणमुन्मीलितकुसुमसायकाकूता ॥ ४४३ ॥
हा हा किमुद्धतत्वं श्रोष्यति कश्चिद्गतत्रप स्वैरम् ।
निकटे परिवारजनो विस्मृत एव स्मरातुरस्य तव ॥ ४४४ ॥
इति हुङ्कृतिसंवलितैरायासनिवेदितार्थपदवाक्यैः ।
द्विगुणीकरोति कुलजा नायककर्माणि मोहनप्रसरे ॥ ४४५ ॥
इत्थमुदीरितवाचं सुहृदमवोचत्पुरन्दरस्य सुतः ।
समुपस्थितजीवसमावियोगभयकम्पितो वचनम् ॥ ४४६ ॥
तातादेशेऽलङ्घ्ये हारलताविरहपावके तीव्रे ।
विधिवशवर्तिनि मरणे नो विद्मः कार्यपरिणामम् ॥ ४४७ ॥
अनपेक्षितधनलाभां स्नेहैकनिबद्धमानसां दयिताम् ।
दैवाकृष्टो मुञ्चति घटितो वा लोहवज्रकणिकाभिः ॥ ४४८ ॥
अथ कृतगमनविनिश्चितिरभिमतरामां चकार विदितार्थाम् ।
सापि तमनुवव्राज प्रस्तुतयात्रं शुचाकुलिता ॥ ४४९ ॥
आसाद्य वटस्य तलं बाष्पपयःकणचिताक्षिपक्ष्माग्राम् ।
विघ्नितचरणविहारो हारलतामभिदधाति स्म ॥ ४५० ॥
आ क्षीरवतो वृक्षादा सलिलाद्वा प्रिये प्रियं यान्तम् ।
अनुयायादिति वचनं तेन त्वमितो निवर्तस्व ॥ ४५१ ॥
किं कुर्मो दैवहताः प्रभवति यस्मिन्कृशोदरि प्रसभम् ।
प्रेमग्रन्थिच्छेत्ता गुरुशासनसायको निरावरणः ॥ ४५२ ॥
न द्रविणचयप्राप्तिर्नैकाश्रयपरिचयो न चाटुगुणः ।
न स्वामिसमादेशो नाकारविलोभनं न च ख्यातिः ॥ ४५३ ॥
हेतुस्तव प्रवृत्तेरस्मासु तथापि दैववशात् ।
ईदृक्कोऽप्यनुबन्धो यस्य विपाकोऽप्रतीकारः ॥ ४५४ ॥
परुषं यदभिहितासि प्रणयरुषा शङ्कितं च नर्मणि वा ।
सुदति न तत्स्मरणीयं दुर्भाषणकीर्तनोद्घाते ॥ ४५५ ॥
तव हृदये हृदयमिदं विन्यस्तं न्यासपालनं कष्टम् ।
यत्नात्तथा विधेयं स्थानभ्रंशो यथा न स्यात् ॥ ४५६ ॥
अथ विरतवचोदयितं बाष्पभरक्लिष्टवर्णपदयोगात् ।
इति कथमपि हारलता संमूर्छितवस्तुभारतीमूचे ॥ ४५७ ॥
अविशुद्धकुलोत्पन्ना देहार्पणजीविका शठाचरणा ।
क्वाहं रूपाजीवा क्व भवन्तः श्लाघनीयजन्मगुणाः ॥ ४५८ ॥
यत्तु विषयावलोकनकुतूहलाभ्यागतेन विश्रान्तम् ।
इयतो दिवसानस्मिन्तन्मे परजन्मकृतशुभस्य फलम् ॥ ४५९ ॥
गुरुसेवां बन्धुजनं स्वदेशवसतिं कलत्रमनुकूलम् ।
अनुषङ्गदृष्टपरिचित आस्थां प्रविधाय कः परित्यजति ॥ ४६० ॥
यौवनचापलमेतद्यन्मादृशि भवति कौतुकं भवताम् ।
यत्तु सुखमनवगीतं तस्य स्थानं निजा दाराः ॥ ४६१ ॥
ते मधुराः परिहासास्ता वक्रगिरः स वामतासमयः ।
नो हृदये कर्तव्या रहसि क्षेमार्थिना भवता ॥ ४६२ ॥
लाघवतो यन्मनसः प्रणयाद्वा यत्तवाचरितम् ।
प्रतिकूलं तत्र मया नाथाञ्जलिरेष विरचितो मूर्ध्नि ॥ ४६३ ॥
दुःसंचारा मार्गा दूरे वसतिर्विसंष्ठुलं हृदयम् ।
ङुणपालित तव सुहृदा भवितव्यमतोऽप्रमत्तेन ॥ ४६४ ॥
हृदयद्वय एकत्वं याते यूनोर्वियोगजं क्लेशम् ।
अनुभवतोरपरेण प्रसङ्गतः पठ्यते पथ्या ॥ ४६५ ॥
अन्योन्यसुदृढचेष्टितसद्भावस्नेहपाशबद्धानाम् ।
विच्छेदकरो मृत्युर्धीराणां वा परिच्छेदः ॥ ४६६ ॥
अथ तच्छ्रवणानन्तरमास्स्व सुखं दयितिके व्रजामीति ।
अभिधाय याति मन्दं सुन्दरसेने विवर्तितग्रीवम् ॥ ४६७ ॥
वटशाखालम्बिभुजां श्वसितोष्णसमीरशुष्यदधरमुखीम् ।
पर्यस्तां बिभ्राणां तन्मार्गविलोकनानिमेशदृशम् ॥ ४६८ ॥
दोलायमानवेणीं तिर्यग्गतकण्ठभूषणविशेषाम् ।
गलदश्रुवारिपूर्णां पतितांशुकभागनिःसहाङ्गलताम् ॥ ४६९ ॥
रुन्धानामिव हृदयं स्फुटदितरकरेण कुचयुगाश्रयिणा ।
परिशेषितां विलासैरुत्सृष्टां जीवलोककर्तव्यैः ॥ ४७० ॥
अङ्गीकृतां विपत्त्या वशीकृतां मर्मघट्टनैर्विषमैः ।
ःारलतामपरिस्फुटमन्तःपरिकृष्यमाणभारत्या ॥ ४७१ ॥
मा मा तावद्यात क्षणमेकं यावदेष निष्करुणः ।
वनगुल्मैर्न तिरोहित इत्यभिदधतीं जहुः प्राणाः ॥ ४७२ ॥
अथ पश्चात्समुपेतं पप्रच्छ पुरन्दरात्मजः पथिकम् ।
दृष्टा शोकव्यथिता निवर्तमानाङ्गना भवता ॥ ४७३ ॥
स उवाच वटतरोरध उर्व्यां पतिता विनिश्चलावयवा ।
तिष्ठति वनिता नान्या नयनावसरं गतास्माकम् ॥ ४७४ ॥
इति तद्वचनाश्महतो विह्वलमूर्तिः पपात भूपृष्ठे ।
उत्थापितश्च सुहृदा सोऽभिदधे तेन शोकदीनेन ॥ ४७५ ॥
भवतु कृतार्थस्तातस्त्वमपि सुमित्रास्स्व साम्प्रतं प्रीतः ।
समकालमेव मुक्ता पापेन मयासुभिश्च हारलता ॥ ४७६ ॥
हा हा हाव हतोऽसि ध्वस्ता लीला विलास किं कुरुषे ।
उच्च्छिन्ना विच्छित्तिर्भ्रम विभ्रम दश दिशो निराधारः ॥ ४७७ ॥
किलकिञ्चित गच्छ वनं मोट्टायितमशरणत्वमुपयातम् ।
कुट्टमित प्रव्रज्यां गृहाण बिब्बोक विश भुवो विवरम् ॥ ४७८ ॥
ललितमनाथीभूतं विहृतस्य न विद्यते गतिः क्वापि ।
शशधरबिम्बद्युतिमुषि यातायामन्तकान्तिकं तस्याम् ॥ ४७९ ॥
विनिवृत्त्य यामि दग्धुं मद्विरहे मुक्तवल्लभप्राणाम् ।
भवतु वराक्यास्तस्याः सप्तार्चिर्दानमात्रमुपकारः ॥ ४८० ॥
गत्वाथ तमुद्देशं यस्मिन्सा पञ्चभावमापन्ना ।
विललाप मुक्तनादं विलुठन्भुवि सहचरेण धृतमूर्तिः ॥ ४८१ ॥
एते वयं निवृत्ता मुञ्च रुषं देहि कोपने वाचम् ।
उत्तिष्ठ किमिति तिष्ठसि भूमितले रेणुरूषितशरीरा ॥ ४८२ ॥
विनिमील्य दृशौ कस्मादप्रतिपत्त्या स्थितासि शुभवदने ।
त्वदवारितगमनविधेरपराधितया न मे योगः ॥ ४८३ ॥
नाकाधिपतिपुरन्ध्रीरभिभवितुं त्वयि दिवं प्रयातायाम् ।
सत्स्वपि शरेषु पञ्चसु निरायुधः साम्प्रतं मदनः ॥ ४८४ ॥
वञ्चकवृत्ता वेश्या इत्यपवादो जनेषु यो रूढः ।
अपनीतोऽसौ निपुणं त्वया प्रिये जीवमोक्षेण ॥ ४८५ ॥
वन्द्यः सद्व्रत एकस्त्रिपुरान्तकनन्दनो महासेनः ।
हृदयं यस्य स्पृष्टं न मनागपि वामलोचनाप्रेम्णा ॥ ४८६ ॥
मन्येऽभीष्टवियोगं निमेषमपि दुःसहं समवधार्य ।
ःरिणा वक्षसि ऌअक्ष्मीर्विधृता ङौरी हरेण देहार्धे ॥ ४८७ ॥
अयि ऌओकपाल सा भुवि ललामभूता तया विना शून्यम् ।
विश्वमिति किं न चिन्तितमात्मस्थानं प्रियां नयता ॥ ४८८ ॥
भगवन्हुतवह मा मा लावण्यसमुद्रसारमुद्धृत्य ।
कथमपि विहितां धात्रा धक्ष्यस्येनां जगद्भूषाम् ॥ ४८९ ॥
इति विलपन्तं बहुविधमवधीर्य सुहृत्पुरन्दरस्य सुतम् ।
काष्ठैर्विरचय्य चितां तामकरोदग्निसाद्गणिकाम् ॥ ४९० ॥
तस्मिन्निद्धहुताशनविनिपतने कृतमतौ शुचाकुलिते ।
मनसि स्फुरितामार्यां पपाठ कश्चित्प्रसङ्गेन ॥ ४९१ ॥
अनुमरणे व्यवसायं स्त्रीधर्मे कः करोति सविवेकः ।
संसारमुक्त्युपायं दण्डग्रहणं व्रतं मुक्त्वा ॥ ४९२ ॥
श्रुत्वा सुन्दरसेनः सचिवमवोचद्व्यपेतवैक्लव्यः ।
प्रतिबोधितं मनो मे धीरेणानेन युक्तमुपदिशता ॥ ४९३ ॥
क्षणदृष्टनष्टवल्लभजन्मजराव्याधिमरणपरिभूते ।
आवर्तिनि संसारे कः कुर्यादाग्रहं सुमतिः ॥ ४९४ ॥
यातु भवान्कुसुमपुरं वयमप्यन्त्याश्रमे समाश्रयणम् ।
अङ्गीकुर्मोऽविद्याप्रहाणसंसिद्धये विहितम् ॥ ४९५ ॥
सोऽवददभिजातजनो बाल्यात्प्रभृति त्वया च न वियुक्तः ।
संन्यसनबुद्धिमधुना कथमुज्झति विषयनिःस्पृहं सुहृदम् ॥ ४९६ ॥
एवमिति सोऽभिधाय स्थिरयतिनियमैस्तपोधनैर्जुष्टम् ।
ङुणपालितेन सहितः सुन्दरसेनो जगाम वनम् ॥ ४९७ ॥
एवं भवन्तु वेश्याः स्वार्थैकदृशो व्यपेतसद्भावाः ।
अभिलषितविषयसिद्धेः का हानिस्तदपि युष्माकम् ॥ ४९८ ॥
रमणहृदयानुवर्तनचतुरचतुःषष्टिकर्मकुशलानाम् ।
न स्पृशति तत्त्वचर्चा पण्यवधूनां विदग्धचेतांसि ॥ ४९९ ॥
वलितप्लुतचित्रगतिस्थितिवेगैश्चोदनानुवृत्त्या च ।
रागस्पर्शेन विना विशति मनः सादिनां तुरगः ॥ ५०० ॥