मुनिमतालंकार- Muni Matalankara
Home » Law Library Updates » Sarvarthapedia » Education, Universities and Courses » Culture, Value & Civilisation » Vedic Sanskrit Culture » मुनिमतालंकार- Muni Matalankara
मुनिमतालंकार
ननु यद् उक्तं सम्वृत्योत्पत्तिर् इति तत्र केयं संवृतिर् नाम।
(१) निःस्वभावेष्व् अपि भावतो भावेषु या विपरीताकाराध्यारोपिणी भ्रान्ता बुद्धिः सा संवृतिर् उच्यते। संव्रियते च्छाद्यत इवास्याम् अनया वा तत्त्वम् इति कृत्वा।
तथा चोक्तं सूत्रे-
Read Next
भावा जायन्ति संवृत्या परमार्थे निःस्वभावकाः।
निःस्वभावेषु या भ्रान्तिः सा तथ्यासंवृतिर् मता॥ इति।
तद्भवत्वाद् वा सर्व एतदुपदर्शिता व्यलीका भावाः सांवृता उच्यन्ते। सा चानादिविभ्रमवासनापरिपाकवशाद् असतो भावतो भावान् सत इवोपदर्शयन्त्य् उपजायते सर्वप्राणभृतां यतस् तस्माद् अभिप्रायवशात् सर्व एवालीकरूपा भावाः संवृतिसन्त उच्यन्ते। न पुनर् एषां भावतो भावरूपत्वम्, यथाप्रतिभासम् अतत्त्वात्।
नापि शशविषाणवद् अत्यन्ताभावरूपता, अविचाररमणीयाकारेण प्रतिभासनात्॥
Read Next
तथा हि मायापुरुषादौ यद् भ्रान्तज्ञानसमंगिभिर् नरैर् अवस्थापितं
(२) रूपम्, तद्वत् सर्वपदार्थेषु यद् अलीकाकारज्ञानसमारोपितं तत् संवृतिसत्यम् इति व्यवह्रियते। तत्रैव च मायापुरुषादौ यथानुपप्लुतविज्ञानैर् अवस्थापितं रूपं तद्वत् सर्वपदार्थानां यत् सम्यक्प्रमाणपरिनिश्चितं रूपं तत् परमार्थसत्यम्॥
Read Next
यथा च भ्रान्ताभ्रान्तज्ञानव्यवस्थापितरूपसंवृतिपरमार्थसत्यद्वयाश्रयात् तैमिरिकाद्युपलभ्येषु केशादिषु विज्ञानवादिनां च ग्राह्यग्राहकाकारद्वये संवृत्या सत्त्वं परमार्थेनासत्त्वम् इत्यादिव्यवस्था पेक्षाभेदान् न विरुध्यते, तद्वत् सर्वपदार्थेषु॥
अतो यथोक्तभ्रान्तिरूपा संवृतिर् अजन्मनोऽपि भावतो भावान्
जायमानान् इवोपदर्शयति यतस् तेन तदाश्रयवशात् संवृत्योत्पद्यन्ते
भावा इत्य् उच्यते। परमार्थतस् तु नोत्पद्यन्ते॥
अविपरीतार्थविषयत्वात् सर्वम् एव सम्यक्श्रुतचिन्ताभावना मयं ज्ञानं परमार्थम् उच्यते। परमोऽस्यार्थ इति कृत्वा॥
साक्षात्पारंपर्यकृतस् तु विशेषः। तद्वशाद् एते सर्वभावा अनुत्पन्ना
एव प्रतीयन्ते। सम्यग्ज्ञानसंसिद्धो नैषाम् उत्पाद इत्य् उक्तं भवति॥
अविचारो वा संवृतिः। तथा ह्य् अविपरीततत्त्वनिध्यानप्रवृत्तसम्यक्-प्रमाणबलभाविनी चिन्तामयी प्रज्ञा तथा भावनामय्य् अपि साक्षात्तत्त्वार्थानुविचारितया तन्निष्यन्दतया वा विचार उच्यते।
तथार्थपराङ्मुखं तु सर्वम् एव तद्विपर्ययाद् अलीकाकारोपग्राहि ज्ञानम् अविचारः। न तु निर्विकल्पकं ज्ञानं नापि विचाराभावमात्रम्।
(३) अतस् तत्प्रसिद्धरूपत्वात् सर्व एवालीकरूपो भावः सांवृतः॥
अथ वा लोकप्रतीतिः संवृतिः। सर्वलोकप्रसिद्धस्य सर्वस्यैवार्थस्य
सांवृतत्वेनेष्टत्वात्। न च सर्वोऽर्थोऽपि सर्वस्यैवेन्द्रियस्य गोचरः कस्यचिद् एव कैश्चिद् ईक्षणात्॥
अतोऽत्यन्तपरोक्षस्य सर्वाकारप्रतिनियतकर्मफलादेर् व्यवस्था
सर्वज्ञज्ञानत एवान्यस्य पुनर् इतरज्ञानतोऽपि॥
यत् पुनः कैश्चिच् छास्त्रकारैः प्रतीतिम् उल्लंघ्य भावानां
नित्यादिरूपम् उपकल्पितं तत् मिथ्यासंवृतिसद् उच्यते। प्रतीतितोऽपि
तस्यासत्त्वात्। यत् पुनः प्रतीत्यनुसारतः प्रकल्पितम्, यथा- नास्तीह
सत्त्व आत्मा च धर्मास् त्व् एते सहेतुका इति, तत् तथ्यसंवृतिसद् उच्यते।
तेन सत्य् अप्य् एकत्र वस्तुनि शास्त्रकाराणाम् अनेकरूपव्यारोपे वस्तुनो न प-
रस्परविरुद्धानेकस्वभावताप्रसङ्गः॥
मायार्थो वा संवृत्यर्थः। असत्यार्थो मायार्थः। भ्रान्तज्ञानरूपे ऽपि च मायार्थे ज्ञानस्य न वस्तुताप्रसङ्गः। अलीकाकारोपग्रहेण तस्य भासनात्, सत्यालीकरूपयोश् च परस्परविरुद्धत्वात्। तेनालीकरूपताया अपि सत्यतापत्तेर् न भ्रान्तता ज्ञानस्य भावेत्। नापि चित्ररूपता विरोधात्॥
भ्रान्तत्वे वासत्यरूपताया अप्य् अलीकत्वान् न ज्ञानस्य सत्यता भवेत्।
सर्वात्मना तयोः परस्परम् अनानात्वाद् एकस्याङ्गाङ्गिभावासंभवात्।
(४) अतो ज्ञानस्याप्य् अलीकत्वाद् अन्तर्ज्ञेयनयाद् अस्य महान् विशेषः॥
शब्द मात्रं संवृतिर् इत्य् अनभिज्ञाः। न हि शब्दमात्रं संवृतिर् इति कस्यापि सौगतस्य मतम्। यद् अपिनाममात्रम् इदं सर्वं संज्ञामात्रे प्रतिष्ठितम्। अभिधानात् पृथग्भूतम् अभिधेयं न विद्यते॥
इति सूत्रेऽभिहितम्, तत्रापि ये वस्तुभूतम् एवाभिधानम् अभिधेयं च तत्पृथग्भूतम् अपि कल्पयन्ति तन्मतप्रतिषेधाय कल्पनाप्रतिष्ठितत्वम् एवाभिधानाभिधेययोर् उपदर्शितम्। संज्ञा ह्य् अत्र कल्पना। कल्पनारूपम् एवाभिधानं नामशब्देनाभिप्रेतम्। न तु श्रोत्रज्ञानप्रतिभास्य् अर्थस्यावाचकत्वात्। तन्मात्रत्वे च विश्वस्य रूपादिवैचित्र्यप्रतिभासो न भवेत्। नापि स्कन्धादिव्य वस्था॥
यथा च बहुषु मायानरेषु नरो नर इति सामान्याकाररूपः कल्पितः शब्दार्थो व्यवस्थाप्यते, तथा परमार्थास्वभावेष्व् अपि भावेषु परमार्थोऽप्य् अध्यारोपितरूपेण कथ्यमानः संवृतिर् एव भवेत्, तस्य सर्वप्रपञ्चातिक्रान्तत्वात्। तथा चोक्तं सूत्रे-यदि देवपुत्र परमार्थतः परमार्थसत्यं कायवाङ्मनसां विषयभावम् आगच्छेन् न परमार्थसत्यम्
इति संख्यां गच्छेत् संवृतिसत्यम् एव तद् भवेत्। अपि तु
(५) परमार्थतः परमार्थसत्यं सर्वव्यवहारातिक्रान्तम्। इति॥
क्षणिकत्वं वा भावानां संवृतिः। तेषां चलात्मनां सर्वभावानां या मायावत् प्रकृतिनिःस्वभावतालक्षणा शून्यता स परमार्थः, सर्वतथागतानाम् उत्पादानुत्पादयोर् अपि सर्वकालम् अधिष्ठितत्वान् नित्यः॥