Nyaya Sutram of Goutama (न्यायसूत्रम् Sanskrit Text) 600 BCE
महर्षिगोतमप्रणीत न्यायसूत्रम्
Gautama’s Nyāya Sūtra
Read: वात्स्यायनीयन्यायभाष्य
प्रमाण–प्रमेय–संशय–प्रयोजन–दृष्टान्त–सिद्धान्त–अवयव–तर्क–निर्णय–वाद–जल्प–वितण्डा–हेत्वाभास–च्छल–जाति–निग्रहस्थानानां तत्त्वज्ञानात् निःश्रेयसाधिगमः
Nyāya (discipline of right reasoning) begins with प्रमाण (pramāṇa), the valid instruments of knowledge—perception, inference, comparison, and testimony—because without reliable knowing, neither truth nor justice is possible. These operate upon प्रमेय (prameya), the knowable realities: self, body, senses, objects, intellect, mind, activity, defects, rebirth, suffering, and liberation.
Where knowledge is unclear arises संशय (saṃśaya), doubt, which is not an error but the engine of inquiry. Inquiry is purposeless without प्रयोजन (prayojana), a determinate end; Nyāya is rigorously teleological—reasoning must serve a human good.
Understanding is clarified through दृष्टान्त (dṛṣṭānta), illustrative examples that connect abstract reasoning to shared experience, and stabilized by सिद्धान्त (siddhānta), settled conclusions accepted after scrutiny. Inference itself proceeds through अवयव (avayava), the structured members of reasoning, ensuring that conclusions are not intuitive leaps but disciplined progressions.
When reasoning faces resistance, तर्क (tarka) functions as indirect reasoning, eliminating contradictions and absurdities, culminating in निर्णय (nirṇaya), definite ascertainment of truth.
Nyāya then turns from solitary reasoning to dialogue and adjudication. वाद (vāda) is truth-oriented debate, governed by rules and intellectual honesty. Its degenerations are जल्प (jalpa), debate aimed at victory, and वितण्डा (vitaṇḍā), mere destructive criticism without advancing one’s own thesis.
To preserve rational integrity, Nyāya exposes हेत्वाभास (hetvābhāsa), fallacious reasons that mimic valid inference; च्छल (chala), verbal quibbling; जाति (jāti), specious general objections; and निग्रहस्थान (nigrahasthāna), points at which an arguer stands defeated due to error, evasion, or inconsistency.
The sūtra concludes with a decisive claim: true knowledge (तत्त्वज्ञान) of this entire rational–dialectical apparatus leads to निःश्रेयस—the highest good, freedom from suffering. Thus, logic, debate, and reasoning are not merely forensic or academic tools; they are instruments of liberation.
In Nyāya, right reasoning is soteriological: clarity of thought, fairness in argument, and discipline in judgment are not optional virtues—they are the path to freedom.
(अथ प्रथमः अध्यायः)
[अनुबन्धचतुष्टयप्रकरणम्]
१.१.१ प्रमाण प्रमेय संशय प्रयोजन दृष्टान्त सिद्धान्ता वयव तर्क निर्णय वाद जल्प वितण्डा हेत्वाभास च्छल जाति निग्रह स्थानानाम्तत्त्वज्ञानात्निःश्रेयसाधिगमः
{पदार्थोद्देशसूत्रम्}
१.१.२ दुःख जन्म प्रवृत्ति दोष मिथ्या ज्ञानानामुत्तरोत्तरापाये तदनन्तरा पायातपवर्गः
{पदार्थोद्देशसूत्रम्}
[प्रमाणप्रकरणम्]
१.१.३ प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि
{प्रमाणौद्देशसूत्रम्}
१.१.४ इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्
{प्रत्यक्षलक्षणम्}
१.१.५ अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववत्शेषवत्सामान्यतोदृष्टं च
{अनुमानलक्षणम्}
१.१.६ प्रसिद्धसाधर्म्यात्साध्यसाधनमुपमानम्
{उपमानलक्षणम्}
१.१.७ आप्तोपदेशः शब्दः
{शब्दलक्षणम्}
१.१.८ सः द्विविधः दृष्टादृष्टार्थत्वात्
{शब्दभेदः}
[प्रमेयप्रकरणम्]
१.१.९ आत्म शरीरेन्द्रियार्थ बुद्धि मनः प्रवृत्तिदोष प्रेत्यभाव फलदुःखापवर्गाः तु प्रमेयम्
{प्रमेयौद्देशसूत्रम्}
१.१.१० इच्छाद्वेष प्रयत्न सुखदुःख ज्ञानानि आत्मनः लिङ्गमिति
{आत्मलक्षणम्}
१.१.११ चेष्टेन्द्रियार्थाश्रयः शरीरम्
{शरीरलक्षणम्}
१.१.१२ घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः
{इन्द्रियलक्षणम्}
१.१.१३ पृथिवी आपः तेजः वायुः आकाशमिति भूतानि
{भूतलक्षणम्}
१.१.१४ गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः
{अर्थ(विषय)लक्षणम्}
१.१.१५ बुद्धिः उपलब्धिः ज्ञानमिति अनर्थान्तरम्
{बुद्धिलक्षणम्}
१.१.१६ युगपत्ज्ञानानुत्पत्तिः मनसः लिङ्गम्
{मनोलक्षणम्}
१.१.१७ प्रवृत्तिः वाग्बुद्धिशरीरारम्भः
{प्रवृत्तिलक्षणम्}
१.१.१८ प्रवर्त्तनालक्षणाः दोषाः
{दोषलक्षणम्}
१.१.१९ पुनरुत्पत्तिः प्रेत्यभावः
{प्रेत्यभावलक्षणम्}
१.१.२० प्रवृत्तिदोषजनितः अर्थः फलम्
{फललक्षणम्}
१.१.२१ बाधनालक्षणं दुःखम्
{दुःखलक्षणम्}
१.१.२२ तदत्यन्तविमोक्षः अपवर्गः
{अपवर्गलक्षणम्}
[न्यायपूर्वाङ्गलक्षणप्रकरणम्]
१.१.२३ समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः
{संशयलक्षणम्}
१.१.२४ यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्
{प्रयोजनलक्षणम्}
१.१.२५ लौकिकपरीक्षकाणां यस्मिनर्थे बुद्धिसाम्यं सः दृष्टान्तः
{दृष्टान्तलक्षणम्}
[न्यायाश्रयसिद्धान्तलक्षणप्रकरणम्]
१.१.२६ तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः
{अभ्युपगमसिद्धान्तलक्षणम्}
१.१.२७ सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात्
{तन्त्रभेदौद्देशसूत्रम्}
१.१.२८ सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः
{सर्वतन्त्रसिद्धान्तलक्षणम्}
१.१.२९ समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः
{प्रतितन्त्रसिद्धान्तलक्षणम्}
१.१.३० यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः
{अधिकरणसिद्धान्तलक्षणम्}
१.१.३१ अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः
{अभ्युपगमसिद्धान्तलक्षणम्}
[न्यायप्रकरणम्]
१.१.३२ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः
{अवयवौद्देशसूत्रम्}
१.१.३३ साध्यनिर्देशः प्रतिज्ञा
{प्रतिज्ञालक्षणम्}
१.१.३४ उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः
{हेतुलक्षणम्}
१.१.३५ तथा वैधर्म्यात्
{हेतुलक्षणम्}
१.१.३६ साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम्
{उदाहरणलक्षणम्}
१.१.३७ तद्विपर्ययात्वा विपरीतम्
{उदाहरणलक्षणम्}
१.१.३८ उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः
{उपनयलक्षणम्}
१.१.३९ हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम्
{निगमनलक्षणम्}
[न्यायोत्तराङ्गप्रकरणम्]
१.१.४० अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थमुहः तर्कः
{तर्कलक्षणम्}
१.१.४१ विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः
{निर्णयलक्षणम्}
(इति न्यायसूत्रे प्रथमाध्यायस्य प्रथममाह्निकम्)
(अथ द्वितीयमाह्निकम्)
[कथालक्षणप्रकरणम्]
१.२.१ प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः
{वादलक्षणम्}
१.२.२ यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः
{जल्पलक्षणम्}
१.२.३ सः प्रतिपक्षस्थापनाहीनः वितण्डा
{वितण्डालक्षणम्}
[हेत्वाभासप्रकरणम्]
१.२.४ सव्यभिचार विरुद्धप्रकरण समसाध्य समकालातीताः हेत्वाभासाः
{हेत्वाभासौद्देशसूत्रम्}
१.२.५ अनैकान्तिकः सव्यभिचारः
{सव्यभिचारलक्षणम्}
१.२.६ सिद्धान्तमभ्युपेत्य तद्विरोधी विरुद्धः
{विरुद्धलक्षणम्}
१.२.७ यस्मात्प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः
{प्रकरणसमलक्षणम्}
१.२.८ साध्याविशिष्टः साध्यत्वात्साध्यसमः
{साध्यसमलक्षणम्}
१.२.९ कालात्ययापदिष्टः कालातीतः
{कालातीतलक्षणम्}
[छलप्रकरणम्]
१.२.१० वचनविघातः अर्थविकल्पोपपत्त्या छलम्
{छललक्षणम्}
१.२.११ तत्त्रिविधम् वाक्छलं सामान्यच्छलमुपचारच्छलं च इति
{छलभेदौद्देशसूत्रम्}
१.२.१२ अविशेषाभिहिते अर्थे वक्तुः अभिप्रायातर्थान्तरकल्पना वाक्छलम्
{वाक्छललक्षणम्}
१.२.१३ सम्भवतः अर्थस्य अतिसामान्ययोगातसम्भूतार्थकल्पना सामान्यच्छलम्
{सामान्यच्छललक्षणम्}
१.२.१४ धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम्
{उपचारच्छललक्षणम्}
१.२.१५ वाक्छलमेव उपचारच्छलं ततविशेषात्
{उपचारच्छलपूर्वपक्षलक्षणम्}
१.२.१६ न ततर्थान्तरभावात्
{उपचारच्छललक्षणम्}
१.२.१७ अविशेषे वा किञ्चित्साधर्म्यातेकच्छलप्रसङ्गः
{उपचारच्छललक्षणम्}
[लिङ्गदोषसामान्यप्रकरणम्]
१.२.१८ साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः
{जातिलक्षणम्}
१.२.१९ विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम्
{निग्रहस्थानलक्षणम्}
१.२.२० तद्विकल्पात्जातिनिग्रहस्थानबहुत्वम्
{निग्रहस्थानबहुत्वसूत्रम्}
(इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयमाह्निकम्)
(समाप्तः च अयं प्रथमः अध्यायः)
(अथ द्वितीयः अध्यायः)
(प्रथममाह्निकम्)
[संशयपरीक्षाप्रकरणम्]
२.१.१ समानानेकधर्माध्यवसायातन्यतरधर्माध्यवसायात्वा न संशयः
{संशय}
२.१.२ विप्रत्तिपत्त्यव्यवस्थाध्यवसायात्च
{संशय}
२.१.३ विप्रत्तिपत्तौ च संप्रत्तिपत्तेः
{संशय}
२.१.४ अव्यवस्था आत्मनि व्यवस्थितत्वात्च अव्यवस्थायाः
{संशय}
२.१.५ तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः
{संशय}
२.१.६ यथोक्ताध्यवसायातेव तद्विशेषापेक्षात्संशये न असंशयः न अत्यन्तसंशयः वा
{संशय}
२.१.७ यत्र संशयः तत्र एवमुत्तरोत्तरप्रसङ्गः
{संशय}
[प्रमाणसामान्यपरीक्षाप्रकरणम्]
२.१.८ प्रत्यक्षादीनामप्रामाण्यं त्रैकाल्यासिद्धेः
{पूर्वपक्षसूत्रम्}
२.१.९ पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात्प्रत्यक्षोत्पत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१० पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}
२.१.११ युगपत्सिद्धौ प्रत्यर्थनियतत्वात्क्रमवृत्तित्वाभावः बुद्धीनाम्
{पूर्वपक्षसूत्रम्}
२.१.१२ त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१३ सर्वप्रमाणप्रतिषेधात्च प्रतिषेधानुपपत्तिः
{पूर्वपक्षसूत्रम्}
२.१.१४ तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः
{पूर्वपक्षसूत्रम्}
२.१.१५ त्रैकाल्याप्रतिषेधः च शब्दातातोद्यसिद्धिवत्तत्सिद्धेः
{पूर्वपक्षसूत्रम्}
२.१.१६ प्रमेया च तुलाप्रामाण्यवत्
{पूर्वपक्षसूत्रम्}
२.१.१७ प्रमाणतः सिद्धेः प्रमाणानां प्रमाणान्तरसिद्धिप्रसङ्गः
{पूर्वपक्षसूत्रम्}
२.१.१८ तद्विनिवृत्तेः वा प्रमाणसिद्धिवत्प्रमेयसिद्धिः
{पूर्वपक्षसूत्रम्}
२.१.१९ न, प्रदीपप्रकाशसिद्धिवत्तत्सिद्धेः
{सिद्धान्तलक्षणम्}
२.१.२० क्वचित्निवृत्तिदर्शनातनिवृत्तिदर्शनात्च क्वचितनेकान्तः
{सिद्धान्तलक्षणम्}
[प्रत्यक्षपरीक्षाप्रकरणाम्]
२.१.२१ प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात्
{प्रत्यक्षलक्षण}
{प्रत्यक्षलक्षणपरीक्षा}
२.१.२२ न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः
(दो)
२.१.२३ दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः
(दो)
२.१.२४ ज्ञानलिङ्गत्वातात्मनः न अनवरोधः
{प्रत्यक्षलक्षणसिद्धान्तसूत्रम्}
२.१.२५ तदयौगपद्यलिङ्गत्वात्च न मनसः
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.२६ प्रत्यक्षनिमित्तत्वात्च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम्
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.२७ सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात्
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.२८ तैः च अपदेशः ज्ञानविशेषाणाम्
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.२९ व्याहतत्वातहेतुः
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
२.१.३० न अर्थविशेषप्राबल्यात्
{प्रत्यक्षलक्षणसिद्धान्तसूत्र}
[विषयपरीक्षाप्रकरणाम्]
२.१.३१ प्रत्यक्षमनुमानमेकदेशग्रहणातुपलब्धेः
{पूर्वपक्षसूत्र}
२.१.३२ न, प्रत्यक्षेण यावत्तावतपि उपलम्भात्
{सिद्धान्तसूत्र}
२.१.३३ न चैकदेशोपलब्धिरवयविसद्भावात्
{सिद्धान्तसूत्र}
[प्रसङ्गोपात्ता अवयविपरीक्षा]
२.१.३४ साध्यत्वातवयविनि सन्देहः
{पूर्वपक्षसूत्र}
२.१.३५ सर्वाग्रहणमवयव्यसिद्धेः
{सिद्धान्तसूत्र}
२.१.३६ धारणाकर्षणोपपत्तेः च
{सिद्धान्तसूत्र}
२.१.३७ सेनावनवत्ग्रहणमिति चेत्न अतीन्द्रियत्वातणूनाम्
{सिद्धान्तसूत्र}
[अनुमानपरीक्षाप्रकरणम्]
२.१.३८ रोधोपघातसादृश्येभ्यः व्यभिचारातनुमानमप्रमाणम्
{पूर्वपक्षसूत्र}
२.१.३९ न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात्
{सिद्धान्तसूत्र}
{वर्तमानकालपरीक्षा}
२.१.४० वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः
{पूर्वपक्षसूत्र}
२.१.४१ तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात्
{सिद्धान्तसूत्र}
२.१.४२ न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः
{सिद्धान्तसूत्र}
२.१.४३ वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः
{सिद्धान्तसूत्र}
२.१.४४ कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम्
{सिद्धान्तसूत्र}
[उपमानपरीक्षाप्रकरणम्]
२.१.४५ अत्यन्तप्रायैकदेशसाधर्म्यातुपमानासिद्धिः
{सिद्धान्तसूत्र}
२.१.४६ प्रसिद्धसाधर्म्यातुपमानसिद्धेः यथोक्तदोषानुपपत्तिः
{पूर्वपक्षसूत्र}
२.१.४७ प्रत्यक्षेण अप्रत्यक्षसिद्धेः
{सिद्धान्तसूत्र}
२.१.४८ न अप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः
{सिद्धान्तसूत्र}
२.१.४९ तथा इति उपसंहारातुपमानसिद्धेः न अविशेषः
{सिद्धान्तसूत्र}
[शब्दसामान्यपरीक्षाप्रकरणम्]
२.१.५० शब्दः अनुमानमर्थस्य अनुपलब्धेः अनुमेयत्वात्
{पूर्वपक्षसूत्र}
२.१.५१ उपलब्धेः अद्विप्रवृत्तित्वात्
{पूर्वपक्षसूत्र}
२.१.५२ सम्बन्धात्च
{पूर्वपक्षसूत्र}
२.१.५३ आप्तोपदेशसामर्थ्यात्शब्दातर्थसम्प्रत्ययः
{सिद्धान्तसूत्र}
२.१.५४ पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः
{सिद्धान्तसूत्र}
२.१.५५ शब्दार्थव्यवस्थानातप्रतिषेधः
{सिद्धान्तसूत्र}
२.१.५६ न, सामयिकत्वात्शब्दार्थसम्प्रत्ययस्य
{सिद्धान्तसूत्र}
२.१.५७ जातिविशेषे च अनियमात्
{सिद्धान्तसूत्र}
[शब्दविशेषपरीक्षाप्रकरणम्]
२.१.५८ तदप्रामाण्यमनृतव्याघातपुनरुक्तदोषेभ्यः
{सिद्धान्तसूत्र}
२.१.५९ न, कर्मकर्तृसाधनवैगुण्यात्
{सिद्धान्तसूत्र}
२.१.६० अभ्युपेत्य कालभेदे दोषवचनात्
{सिद्धान्तसूत्र}
२.१.६१ अनुवादोपपत्तेः च
{सिद्धान्तसूत्र}
२.१.६२ वाक्यविभागस्य च अर्थग्रहणात्
{सिद्धान्तसूत्र}
२.१.६३ विध्यर्थवादानुवादवचनविनियोगात्
{सिद्धान्तसूत्र}
२.१.६४ विधिः विधायकः
{सिद्धान्तसूत्र}
२.१.६५ स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः
{सिद्धान्तसूत्र}
{अर्थवादभेदः}
२.१.६६ विधिविहितस्य अनुवचनमनुवादः
{अर्थवाद}
२.१.६७ न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः
{सिद्धान्तसूत्र}
२.१.६८ शीघ्रतरगमनोपदेशवतभ्यासात्न अविशेषः
{सिद्धान्तसूत्र}
२.१.६९ मन्त्रायुर्वेदप्रामाण्यवत्च तत्प्रामाण्यम्, आप्तप्रामाण्यात्
{सिद्धान्तसूत्र}
(इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथममाह्निकम्)
(द्वितीयमाह्निकम्)
[प्रमाणचतुष्ट्वपरीक्षाप्रकरणम्]
२.२.१ न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात्
{पूर्वपक्षसूत्र}
२.२.२ शब्दे ऐतिह्यानर्थान्तरभावातनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात्च अप्रतिषेधः
{सिद्धान्तसूत्र}
२.२.३ अर्थापत्तिः अप्रमाणमनैकान्तिकत्वात्
{अर्थापत्तिप्रामाण्यपरीक्षा}
२.२.४ अनर्थापत्तौ अर्थापत्त्यभिमानात्
{नानैकान्तिकत्वमर्थापत्तेः}
२.२.५ प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात्
()
२.२.६ तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम्
{सिद्धान्तसूत्र}
[अभावप्रामाण्यसिद्धिः अवान्तरप्रकरणम्]
२.२.७ न अभावप्रामाण्यं प्रमेयासिद्धेः
{पूर्वपक्षसूत्र}
२.२.८ लक्षितेष्वलक्षणलक्षितत्वातलक्षितानां तत्प्रमेयसिद्धेः
{उदाहरण सूत्र}
२.२.९ असति अर्थे न अभावः इति चेत्न, अन्यलक्षणोपपत्तेः
{सिद्धान्तसूत्र}
२.२.१० तत्सिद्धेः अलक्षितेषु अहेतुः
{पूर्वपक्षसूत्र}
२.२.११ न, लक्षणावस्थितापेक्षसिद्धेः
{सिद्धान्तसूत्र}
२.२.१२ प्राकुत्पत्तेः अभावोपपत्तेः च
{सिद्धान्तसूत्र}
[शब्दानित्यत्वपरीक्षाप्रकरणम्(१३३९)]
२.२.१३ आदिमत्वातैन्द्रियकत्वात्कृतकवतुपचारात्च
{शब्दानित्यत्वप्रतिपादनसूत्र}
२.२.१४ न, घटाभावसामान्यनित्यत्वात्नित्येषु अपि अनित्यवतुपचारात्च
{सिद्धान्तसूत्र}
२.२.१५ तत्त्वभाक्तयोः नानात्वविभागातव्यभिचारः
{शब्दानित्यत्वप्रतिपादनसूत्र}
{सिद्धान्तसूत्र}
२.२.१६ सन्तानानुमानविशेषणात्
{शब्दानित्यत्वप्रतिपादनसूत्र}
{सिद्धान्तसूत्र}
२.२.१७ कारणद्रव्यस्य प्रदेशशब्देनाभिधानात्
{शब्दानित्यत्वप्रतिपादनसूत्र}
{सिद्धान्तसूत्र}
२.२.१८ प्राकुच्चारणातनुपलब्धेः आवरणाद्यनुपलब्धेः च
{शब्दानित्यत्वप्रतिपादनसूत्र}
२.२.१९ तदनुपलब्धेः अनुपलम्भातावरणोपपत्तिः
{शब्दानित्यत्वप्रतिपादनसूत्र}
२.२.२० अनुपलम्भातनुपलब्धिसद्भावात्न आवरणानुपपत्तिः अनुपलम्भात्
{सिद्धान्तसूत्र}
२.२.२१ अनुपलम्भात्मकत्वातनुपलब्धेः अहेतुः
{सिद्धान्तसूत्र}
२.२.२२ अस्पर्शत्वात्
{सिद्धान्तसूत्र}
२.२.२३ न, कर्मानित्यत्वात्
{सिद्धान्तसूत्र}
२.२.२४ न, अणुनित्यत्वात्
{सिद्धान्तसूत्र}
२.२.२५ सम्प्रदानात्
{सिद्धान्तसूत्र}
२.२.२६ तदन्तरालानुपलब्धेः अहेतुः
{सिद्धान्तसूत्र}
२.२.२७ अध्यापनातप्रतिषेधः
{सिद्धान्तसूत्र}
२.२.२८ उभयोः पक्षयोः अन्यतरस्य अध्यापनातप्रतिषेधः
{सिद्धान्तसूत्र}
२.२.२९ अभ्यासात्
{सिद्धान्तसूत्र}
२.२.३० न अन्यत्वे अपि अभ्यासस्य उपचारात्
{सिद्धान्तसूत्र}
२.२.३१ अन्यतन्यस्मातनन्यत्वातनन्यतिति अन्यताभावः
{सिद्धान्तसूत्र}
२.२.३२ तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः
{सिद्धान्तसूत्र}
२.२.३३ विनाशकारणानुपलब्धेः
{सिद्धान्तसूत्र}
२.२.३४ अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः
{सिद्धान्तसूत्र}
२.२.३५ उपलभ्यमाने च अनुपलब्धेः असत्त्वातनपदेशः
{सिद्धान्तसूत्र}
२.२.३६ पाणिनिमित्तप्रश्लेषात्शब्दाभावे न अनुपलब्धिः
{सिद्धान्तसूत्र}
२.२.३७ विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
{सिद्धान्तसूत्र}
२.२.३८ अस्पर्शत्वातप्रतिषेधः
{सिद्धान्तसूत्र}
२.२.३९ विभक्त्यन्तरोपपत्तेः च समासे
{सिद्धान्तसूत्र}
[शब्दपरिणामपरीक्षाप्रकरणम्(४०५६)]
२.२.४० विकारादेशोपदेशात्संशयः
{पूर्वपक्षसूत्र}
२.२.४१ प्रकृतिविवृद्धौ विकारविवृद्धेः
{सिद्धान्तसूत्र}
२.२.४२ न्यूनसमाधिकोपलब्धेः विकाराणामहेतुः
{सिद्धान्तसूत्र}
२.२.४३ द्विविधस्य अपि हेतोः अभावातसाधनं दृष्टान्तः
{उदाहरणसूत्र}
२.२.४४ न, अतुल्यप्रकृतीनां विकारविकल्पात्
{सिद्धान्तसूत्र}
२.२.४५ द्रव्यविकारवैषम्यवत्वर्णविकारविकलः
{पूर्वपक्षसूत्र}
२.२.४६ न, विकारधर्मानुपपत्तेः
{सिद्धान्तसूत्र}
२.२.४७ विकारप्राप्तानामपुनरापत्तेः
{सिद्धान्तसूत्र}
२.२.४८ सुवर्णादीनां पुनरापत्तेः अहेतुः
{पूर्वपक्षसूत्र}
२.२.४९ न, तद्विकाराणां सुवर्णभावाव्यतिरेकात्
{सिद्धान्तसूत्र}
२.२.५० वर्णत्वाव्यतिरेकात्वर्णविकाराणामप्रतिषेधः
{सिद्धान्तसूत्र}
२.२.५१ सामान्यवतो धर्मयोगो न सामान्यस्य
{सिद्धान्तसूत्र}
२.२.५२ नित्यत्वे अविकारातनित्यत्वे च अनवस्थानात्
{सिद्धान्तसूत्र}
२.२.५३ नित्यानामतीन्द्रियत्वात्तद्धर्मविकल्पात्च वर्णविकाराणामप्रतिषेधः
{पूर्वपक्षसूत्र}
२.२.५४ अनवस्थायित्वे च वर्णोपलब्धिवत्तद्विकारोपपत्तिः
{पूर्वपक्षसूत्र}
२.२.५५ विकारधर्मित्वे नित्यत्वाभावात्कालान्तरे विकारोपपत्तेः च अप्रतिषेधः
{सिद्धान्तसूत्र}
२.२.५६ प्रकृत्यनियमात्
{सिद्धान्तसूत्र}
२.२.५७ अनियमे नियमात्न अनियमः
{पूर्वपक्षसूत्र}
२.२.५८ नियमानियमविरोधातनियमे नियमात्च अप्रतिषेधः
{सिद्धान्तसूत्र}
२.२.५९ गुणान्तरापत्त्युपमर्दह्रासवृद्धिश्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः
{सिद्धान्तसूत्र}
[शब्दशक्तिपरीक्षाप्रकरणम्]
२.२.६० ते विभक्त्यन्ताः पदम्
{पदलक्षणसूत्रम्}
२.२.६१ व्यक्त्याकृतिजातिसन्निधौ उपचारात्संशयः
{पूर्वपक्षसूत्र}
[व्यक्तिवादअवान्तरप्रकरणम्]
२.२.६२ याशब्दसमूहत्यागपरिग्रहसङ्ख्यावृद्ध्यपचयवर्णसमासानुबन्धानां व्यक्तौ उपचारात्व्यक्तिः
{पूर्वपक्षसूत्र}
२.२.६३ न, ततनवस्थानात्
{सिद्धान्तसूत्र}
२.२.६४ सहचरणस्थानतादर्थ्यवृत्तमानधारणसामीप्ययोगसाधनाधिपत्येभ्यः ब्राह्मणमञ्चकटराजसक्तुचन्दनगङ्गाशाटकान्नपुरुषेष्वतद्भावे अपि तदुपचारः
{सिद्धान्तसूत्र}
[आकृतिवादअवान्तरप्रकरणम्]
२.२.६५ आकृतिः, तदपेक्षत्वात्सत्त्वव्यवस्थानसिद्धेः
{पूर्वपक्षसूत्र}
[जातिवादअवान्तरप्रकरणम्]
२.२.६६ व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात्प्रोक्षणादिनां मृद्गवके जातिः
{पूर्वपक्षसूत्र}
२.२.६७ न, आकृतिव्यक्त्यपेक्षत्वात्जात्यभिव्यक्तेः
{सिद्धान्तसूत्र}
[सिद्धान्तवादअवान्तरप्रकरणम्]
२.२.६८ व्यक्त्याकृतिजातयः तु पदार्थः
{सिद्धान्तसूत्र}
२.२.६९ व्यक्तिः गुणविशेषाश्रयः मूर्तिः
{सिद्धान्तसूत्र}
२.२.७० आकृतिः जातिलिङ्गाख्या
{सिद्धान्तसूत्र}
२.२.७१ समानप्रसवात्मिका जातिः
{सिद्धान्तसूत्र}
(इति न्यायसूत्रे द्वितीयाध्यायस्य द्वितीयमाह्निकम्)
समाप्तः च अयं द्वितीयाध्यायः

(अथ तृतीयः अध्यायः)
(प्रथममाह्निकम्)
[इन्द्रियव्यतिरिक्तात्मपरीक्षाप्रकरणं(१३)]
३.१.१ दर्शनस्पर्शनाभ्यामेकार्थग्रहणात्
{पूर्वपक्षसूत्र}
३.१.२ न, विषयव्यवस्थानात्
{पूर्वपक्षसूत्र}
३.१.३ तद्व्यवस्थानातेव आत्मसद्भावातप्रतिषेधः
{सिद्धान्तसूत्र}
[शरीरव्यतिरिक्तात्मपरीक्षाप्रकरणम्]
३.१.४ शरीरदाहे पातकाभावात्
{सिद्धान्तसूत्र}
३.१.५ तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात्
{पूर्वपक्षसूत्र}
३.१.६ न, कार्याश्रयकर्तृवधात्
{सिद्धान्तसूत्र}
[प्रासङ्गिकं चक्षुरद्वैतपरीक्षाप्रकरणम्(७१४)]
३.१.७ सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात्
{सिद्धान्तसूत्र}
३.१.८ न एकस्मिन्नासास्थिव्यवहिते द्वित्वाभिमानात्
{पूर्वपक्षसूत्र}
३.१.९ एकविनाशे द्वितीयाविनाशात्न एकत्वम्
{सिद्धान्तसूत्र}
३.१.१० अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः
{पूर्वपक्षसूत्र}
३.१.११ दृष्टान्तविरोधातप्रतिषेधः
{सिद्धान्तसूत्र}
३.१.१२ इन्द्रियान्तरविकारात्
{सिद्धान्तसूत्र}
३.१.१३ न, स्मृतेः स्मर्त्तव्यविषयत्वात्
{पूर्वपक्षसूत्र}
३.१.१४ तदात्मगुणसद्भावातप्रतिषेधः
{सिद्धान्तसूत्र}
[आत्ममनोभेदपरीक्षाप्रकरणम्(१५१७)]
३.१.१५ न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात्
{पूर्वपक्षसूत्र}
३.१.१६ ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम्
{सिद्धान्तसूत्र}
३.१.१७ नियमः च निरनुमानः
{सिद्धान्तसूत्र}
[आत्मनित्यत्वपरीक्षाप्रकरणम्(१८२६)]
३.१.१८ पूर्वाभ्यस्तस्मृत्यनुबन्धात्जातस्य हर्षभयशोकसम्प्रतिपत्तेः
{सिद्धान्तसूत्र}
३.१.१९ पद्मादिषु प्रबोधसम्मीलनविकारवत्तद्विकारः
{पूर्वपक्षसूत्र}
३.१.२० न, उष्णशीतवर्षाकालनिमित्तत्वात्पञ्चात्मकविकाराणाम्
{सिद्धान्तसूत्र}
३.१.२१ प्रेत्याहाराभ्यासकृतात्स्तन्याभिलाषात्
{सिद्धान्तसूत्र}
३.१.२२ अयसः अयस्कान्ताभिगमनवत्तदुपसर्पणम्
{पूर्वपक्षसूत्र}
३.१.२३ न, अन्यत्र प्रवृत्त्यभावात्
{सिद्धान्तसूत्र}
३.१.२४ वीतरागजन्मादर्शनात्
{सिद्धान्तसूत्र}
३.१.२५ सगुणद्रव्योत्पत्तिवत्तदुत्पत्तिः
{पूर्वपक्षसूत्र}
३.१.२६ न, सङ्कल्पनिमित्तत्वात्रागादीनाम्
{सिद्धान्तसूत्र}
[शरीरपरीक्षाप्रकरणम्(२७३१)]
३.१.२७ पार्थिवं गुणान्तरोपलब्धेः
{सिद्धान्तसूत्र}
३.१.२८ पार्थिवाप्यतैजसं तद्गुणोपलब्धेः
{सिद्धान्तसूत्र}
३.१.२९ निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम्
{पूर्वपक्षसूत्र}
३.१.३० गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्
{पूर्वपक्षसूत्र}
३.१.३१ श्रुतिप्रामाण्यात्च
{सिद्धान्तसूत्र}
[इन्द्रियपरीक्षाप्रकरणम्(३२५१)]
३.१.३२ कृष्णसारे सति उपलम्भात्व्यतिरिच्य च उपलम्भात्संशयः
{सिद्धान्तसूत्र}
३.१.३३ महदणुग्रहणात्
{साङ्ख्यमतखण्डनम्}
३.१.३४ रश्म्यर्थसन्निकर्षविशेषात्तद्ग्रहणम्
{सिद्धान्तसूत्र}
३.१.३५ तदनुपलब्धेः अहेतुः
{सिद्धान्तसूत्र}
३.१.३६ न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः
{सिद्धान्तसूत्र}
३.१.३७ द्रव्यगुणधर्मभेदात्च उपलब्धिनियमः
{सिद्धान्तसूत्र}
३.१.३८ अनेकद्रव्यसमवायात्रूपविशेषात्च रूपोपलब्धिः
{सिद्धान्तसूत्र}
३.१.३९ कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः
{सिद्धान्तसूत्र}
३.१.४० मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः
{सिद्धान्तसूत्र}
३.१.४१ न, रात्रौ अपि अनुपलब्धेः
{सिद्धान्तसूत्र}
३.१.४२ बाह्यप्रकाशानुग्रहात्विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः
{सिद्धान्तसूत्र}
३.१.४३ अभिव्यक्तौ च अभिभवात्
{सिद्धान्तसूत्र}
३.१.४४ नक्तञ्चरनयनरश्मिदर्शनात्च
{सिद्धान्तसूत्र}
३.१.४५ अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः
{पूर्वपक्षसूत्र}
३.१.४६ कुड्यान्तरितानुपलब्धेः अप्रतिषेधः
{सिद्धान्तसूत्र}
३.१.४७ अप्रतीघातात्सन्निकर्षोपपत्तिः
{सिद्धान्तसूत्र}
३.१.४८ आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात्
{सिद्धान्तसूत्र}
३.१.४९ न इतरेतरधर्मप्रसङ्गात्
{पूर्वपक्षसूत्र}
३.१.५० आदर्शोदकयोः प्रसादस्वाभाव्यात्रूपोपलब्धिः
{सिद्धान्तसूत्र}
३.१.५१ दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः
{सिद्धान्तसूत्र}
[इन्द्रियनानात्वपरीक्षाप्रकरणम्(५२६२)]
३.१.५२ स्थानान्यत्वे नानात्वातवयविनानास्थानत्वात्च संशयः
{सिद्धान्तसूत्र}
३.१.५३ त्वकव्यतिरेकात्
{पूर्वपक्षसूत्र}
३.१.५४ न युगपतर्थानुपलब्धेः
{सिद्धान्तसूत्र}
३.१.५५ विप्रतिषेधात्च न त्वकेका
{सिद्धान्तसूत्र}
३.१.५६ इन्द्रियार्थपञ्चत्वात्
{सिद्धान्तसूत्र}
३.१.५७ न, तदर्थबहुत्वात्
{पूर्वपक्षसूत्र}
३.१.५८ गन्धत्वाद्यव्यतिरेकात्गन्धादीनामप्रतिषेधः
{सिद्धान्तसूत्र}
३.१.५९ विषयत्वाव्यतिरेकातेकत्वम्
{सिद्धान्तसूत्र}
३.१.६० न, बुद्धिलक्षणाधिष्ठानगत्याकृतिजातिपञ्चत्वेभ्यः
{सिद्धान्तसूत्र}
३.१.६१ भूतगुणविशेषोपलब्धेः तादात्म्यम्
{सिद्धान्तसूत्र}
[अर्थपरीक्षाप्रकरणम्(६२७४)]
३.१.६२ गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्याः
{सिद्धान्तसूत्र}
३.१.६३ अप्तेजोवायूनां पूर्वं पूर्वमपोह्य आकाशस्य उत्तरः
{पूर्वपक्षसूत्र}
३.१.६४ न, सर्वगुणानुपलब्धेः
{सिद्धान्तसूत्र}
३.१.६५ एकैकश्येन उत्तरगुणासद्भावातुत्तरोत्तराणां तदनुपलब्धिः
{पूर्वपक्षसूत्र}
३.१.६६ विष्टं हि अपरं परेण
{पूर्वपक्षसूत्र}
३.१.६७ न, पार्थिवाप्ययोः प्रत्यक्षत्वात्
{सिद्धान्तसूत्र}
३.१.६८ पूर्वपूर्वगुणोत्कर्षात्तत्तत्प्रधानम्
{सिद्धान्तसूत्र}
३.१.६९ तद्ध्यवस्थानं तु भूयस्त्वात्
{सिद्धान्तसूत्र}
३.१.७० सगुणानामिन्द्रियभावात्
{सिद्धान्तसूत्र}
३.१.७१ तेन एव तस्य अग्रहणात्च
{सिद्धान्तसूत्र}
३.१.७२ न, शब्दगुणोपलब्धेः
{पूर्वपक्षसूत्र}
३.१.७३ तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात्
{सिद्धान्तसूत्र}
(इति न्यायसूत्रे तृतीयाध्यायस्य प्रथममाह्निकम्)
(द्वितीयमाह्निकम्)
[बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(१९)]
३.२.१ कर्माकाशसाधर्म्यात्संशयः
{सिद्धान्तसूत्र}
३.२.२ विषयप्रत्यभिज्ञानात्
{सिद्धान्तसूत्र}
३.२.३ साध्यसमत्वातहेतुः
{सिद्धान्तसूत्र}
३.२.४ न, युगपतग्रहणात्
{सिद्धान्तसूत्र}
३.२.५ अप्रत्यभिज्ञाने च विनाशप्रसङ्गः
{सिद्धान्तसूत्र}
३.२.६ क्रमवृत्तित्वातयुगपत्ग्रहणम्
{सिद्धान्तसूत्र}
३.२.७ अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात्
{सिद्धान्तसूत्र}
३.२.८ न, गत्यभावात्
{सिद्धान्तसूत्र}
३.२.९ स्फटिकान्यत्वाभिमानवत्तदन्यत्वाभिमानः
{सिद्धान्तसूत्र}
[क्षणभङ्गपरीक्षाप्रकरणम्(१०१७)]
३.२.१० स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात्व्यक्तीनामहेतुः
{सिद्धान्तसूत्र}
३.२.११ नियमहेत्वभावात्यथादर्शनमभ्यनुज्ञा
{सिद्धान्तसूत्र}
३.२.१२ न, उत्पत्तिविनाशकारणोपलब्धेः
{सिद्धान्तसूत्र}
३.२.१३ क्षीरविनाशे कारणानुपलब्धिवत्दध्युत्पत्तिवत्च तदुत्पत्तिः
{पूर्वपक्षसूत्र}
३.२.१४ लिङ्गतः ग्रहणात्न अनुपलब्धिः
{सिद्धान्तसूत्र}
३.२.१५ न पयसः परिणामगुणान्तरप्रादुर्भावात्
{सिद्धान्तसूत्र}
३.२.१६ व्यूहान्तरात्द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम्
{सिद्धान्तसूत्र}
३.२.१७ क्वचित्विनाशकारणानुपलब्धेः क्वचित्च उपलब्धेः अनेकान्तः
{सिद्धान्तसूत्र}
[बुद्धेरात्मगुणत्वपरीक्षाप्रकरणाम्(१८४१)]
३.२.१८ न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात्
{सिद्धान्तसूत्र}
३.२.१९ युगपत्ज्ञानानुपलब्धेः च न मनसः
{सिद्धान्तसूत्र}
३.२.२० ततात्मगुणत्वे अपि तुल्यम्
{पूर्वपक्षसूत्र}
३.२.२१ इन्द्रियैः मनसः सन्निकर्षाभावात्तदनुत्पत्तिः
{पूर्वपक्षसूत्र}
३.२.२२ न, उत्पत्तिकारणानपदेशात्
{सिद्धान्तसूत्र}
३.२.२३ विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः
{पूर्वपक्षसूत्र}
३.२.२४ अनित्यत्वग्रहात्बुद्धेः बुद्ध्यन्तरात्विनाशः शब्दवत्
{सिद्धान्तसूत्र}
३.२.२५ ज्ञानसमवेतात्मप्रदेशसन्निकर्षात्मनसः स्मृत्युत्पत्तेः न युगपतुत्पत्तिः
{पूर्वपक्षसूत्र}
३.२.२६ न, अन्तःशरीरवृत्तित्वात्मनसः
{सिद्धान्तसूत्र}
३.२.२७ साध्यत्वातहेतुः
{पूर्वपक्षसूत्र}
३.२.२८ स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः
{सिद्धान्तसूत्र}
३.२.२९ न, तदाशुगतित्वान्मनसः
{पूर्वपक्षसूत्र}
३.२.३० न, स्मरणकालानियमात्
{सिद्धान्तसूत्र}
३.२.३१ आत्मप्रेरणयदृच्छाज्ञताभिः च न संयोगविशेषः
{पूर्वपक्षसूत्र}
३.२.३२ व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम्
{सिद्धान्तसूत्र}
३.२.३३ प्रणिधानलिङ्गादिज्ञानानामयुगपद्भावातयुगपत्स्मरणम्
{सिद्धान्तसूत्र}
३.२.३४ ज्ञस्य इच्छाद्वेषनिमित्तत्वातारम्भनिवृत्त्योः
{सिद्धान्तसूत्र}
३.२.३५ तल्लिङ्गत्वातिच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः
{पूर्वपक्षसूत्र}
३.२.३६ परश्वादिषु आरम्भनिवृत्तिदर्शनात्
{सिद्धान्तसूत्र}
३.२.३७ नियमानियमौ तु तद्विशेषकौ
{सिद्धान्तसूत्र}
३.२.३८ यथोक्तहेतुत्वात्पारतन्त्र्यातकृताभ्यागमात्च न मनसः
{सिद्धान्तसूत्र}
३.२.३९ परिशेषात्यथोक्तहेतूपपत्तेः च
{सिद्धान्तसूत्र}
३.२.४० स्मरणं तु आत्मनः ज्ञस्वाभाव्यात्
{सिद्धान्तसूत्र}
३.२.४१ प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रित सम्बन्धानन्तर्यवियोगैककार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छा द्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः
{सिद्धान्तसूत्र}
[बुद्धेरुत्पन्नापवर्गित्वपरीक्षाप्रकरणम्(४२४५)]
३.२.४२ कर्मानवस्थायिग्रहणात्
{सिद्धान्तसूत्र}
३.२.४३ अव्यक्तग्रहणमनवस्थायित्वात्विद्युत्सम्पाते रूपाव्यक्तग्रहणवत्
{सिद्धान्तसूत्र}
३.२.४४ हेतूपादानात्प्रतिषेद्धव्याभ्यनुज्ञा
{सिद्धान्तसूत्र}
३.२.४५ न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत्तद्ग्रहणम्
{सिद्धान्तसूत्र}
[बुद्धेः शरीरगुणव्यतिरेकपरीक्षाप्रकरणम्(४६५५)]
३.२.४६ द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः
{सिद्धान्तसूत्र}
३.२.४७ यावच्छरीरभावित्वात्रूपादीनाम्
{सिद्धान्तसूत्र}
३.२.४८ न, पाकजगुणान्तरोत्पत्तेः
{सिद्धान्तसूत्र}
३.२.४९ प्रतिद्वन्द्विसिद्धेः पाकजानामप्रतिषेधः
{सिद्धान्तसूत्र}
३.२.५० शरीरव्यापित्वात्
{सिद्धान्तसूत्र}
३.२.५१ न, केशनखादिषु अनुपलब्धेः
{पूर्वपक्षसूत्र}
३.२.५२ त्वक्पर्यन्तत्वात्शरीरस्य केशनखादिषु अप्रसङ्गः
{सिद्धान्तसूत्र}
३.२.५३ शरीरगुणवैधर्म्यात्
{सिद्धान्तसूत्र}
३.२.५४ न, रूपादीनामितरेतरवैधर्म्यात्
{पूर्वपक्षसूत्र}
३.२.५५ ऐन्द्रियकत्वात्रूपादीनामप्रतिषेधः
{सिद्धान्तसूत्र}
[मनःपरीक्षाप्रकरणम्(५६५९)]
३.२.५६ ज्ञानायौगपद्यातेकं मनः
{सिद्धान्तसूत्र}
३.२.५७ न, युगपतनेकक्रियोपलब्धेः
{पूर्वपक्षसूत्र}
३.२.५८ अलातचक्रदर्शनवत्तदुपलब्धिः आशुसञ्चारात्
{सिद्धान्तसूत्र}
३.२.५९ यथोक्तहेतुत्वात्च अणु
{सिद्धान्तसूत्र}
[अदृष्टनिष्पाद्यत्वपरीक्षाप्रकरणम्(६०७२)]
३.२.६० पूर्वकृतफलानुबन्धात्तदुत्पत्तिः
{सिद्धान्तसूत्र}
३.२.६१ भूतेभ्यः मूर्त्युपादानवत्तदुपादानम्
{पूर्वपक्षसूत्र}
३.२.६२ न, साध्यसमत्वात्
{सिद्धान्तसूत्र}
३.२.६३ न, उत्पत्तिनिमित्तत्वात्मातापित्रोः
{सिद्धान्तसूत्र}
३.२.६४ तथा आहारस्य
{सिद्धान्तसूत्र}
३.२.६५ प्राप्तौ च अनियमात्
{सिद्धान्तसूत्र}
३.२.६६ शरीरोत्पत्तिनिमित्तवत्संयोगोत्पत्तिनिमित्तं कर्म
{सिद्धान्तसूत्र}
३.२.६७ एतेन अनियमः प्रत्युक्तः
{सिद्धान्तसूत्र}
३.२.६८ ततदृष्टकारितमिति चेत्पुनः तत्प्रसङ्गः अपवर्गे
{सिद्धान्तसूत्र}
३.२.६९ मनःकर्मनिमित्तत्वात्च संयोगाव्युच्छेदः
{सिद्धान्तसूत्र}
३.२.७० नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः
{सिद्धान्तसूत्र}
३.२.७१ अणुश्यामतानित्यत्ववतेतत्स्यात्
{पूर्वपक्षसूत्र}
३.२.७२ न, अकृताभ्यागमप्रसङ्गात्
{सिद्धान्तसूत्र}
(इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयमाह्निकम्)
(समाप्तः च अयं तृतीयः अध्यायः)
(अथ चतुर्थः अध्यायः)
(प्रथममाह्निकम्)
[प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(१२)]
४.१.१ प्रवृत्तिर्यथोक्ता
{सिद्धान्तसूत्र}
४.१.२ तथा दोषाः
{सिद्धान्तसूत्र}
[दोषत्रैराश्यपरीक्षाप्रकरणम्(३८)]
४.१.३ त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात्
{सिद्धान्तसूत्र}
४.१.४ न, एकप्रत्यनीकभावात्
{पूर्वपक्षसूत्र}
४.१.५ व्यभिचारादहेतुः
{सिद्धान्तसूत्र}
४.१.६ तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः
{सिद्धान्तसूत्र}
४.१.७ निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः
{पूर्वपक्षसूत्र}
४.१.८ न दोषलक्षणावरोधान्मोहस्य
{सिद्धान्तसूत्र}
४.१.९ निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः
{सिद्धान्तसूत्र}
[प्रेत्यभावपरीक्षाप्रकरणम्(१०१३)]
४.१.१० आत्मनित्यत्वे प्रेत्यभावसिद्धिः
{सिद्धान्तसूत्र}
४.१.११ व्यक्ताद्व्यक्तानाम्, प्रत्यक्षप्रामाण्यात्
{सिद्धान्तसूत्र}
४.१.१२ न, घटाद्घटनिष्पत्तेः
{पूर्वपक्षसूत्र}
४.१.१३ व्यक्ताद्घटनिष्पत्तेरप्रतिषेधः
{सिद्धान्तसूत्र}
[शून्यतोपादाननिराकरणप्रकरणम्(१४१८)]
४.१.१४ अभावाद्भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात्
{पूर्वपक्षसूत्र}
४.१.१५ व्याघातादप्रयोगः
{सिद्धान्तसूत्र}
४.१.१६ न, अतीतानागतयोः कारकशब्दप्रयोगात्
{पूर्वपक्षसूत्र}
४.१.१७ न, विनष्टेभ्योऽनिष्पत्तेः
{सिद्धान्तसूत्र}
४.१.१८ क्रमनिर्देशादप्रतिषेधः
{सिद्धान्तसूत्र}
[ईश्वरोपादानाताप्रकरणम्(१९२१)]
४.१.१९ ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात्
{सिद्धान्तसूत्र}
४.१.२० न, पुरुषकर्माभावे फ्लानिष्पत्तेः
{पूर्वपक्षसूत्र}
४.१.२१ तत्कारितत्वादहेतुः
{सिद्धान्तसूत्र}
[आकस्मिकत्वनिराकरणप्रकरणम्(२२२४)]
४.१.२२ अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात्
{पूर्वपक्षसूत्र}
४.१.२३ अनिमित्तनिमित्तत्वान्ननिमित्ततः
{सिद्धान्तसूत्र}
४.१.२४ निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः
{सिद्धान्तसूत्र}
[सर्वानित्यत्वनिराकरणप्रकरणम्(२५२८)]
४.१.२५ सर्वमनित्यम्, उत्पत्तिविनाशधर्मकत्वात्
{पूर्वपक्षसूत्र}
४.१.२६ न, अनित्यतानित्यत्वात्
{सिद्धान्तसूत्र}
४.१.२७ तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत्
{सिद्धान्तसूत्र}
४.१.२८ नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात्
{सिद्धान्तसूत्र}
[सर्वनित्यत्वनिराकरणम्(२९३३)]
४.१.२९ सर्वं नित्यम्, पञ्चभूतनित्यत्वात्
{पूर्वपक्षसूत्र}
४.१.३० न, उत्पत्तिविनाशकारणोपलब्धेः
{सिद्धान्तसूत्र}
४.१.३१ तल्लक्षणावरोधादप्रतिषेधः
{पूर्वपक्षसूत्र}
४.१.३२ न, उत्पत्तितत्कारणोपलब्धेः
{सिद्धान्तसूत्र}
४.१.३३ न, व्यवस्थानुपपत्तेः
{सिद्धान्तसूत्र}
[सर्वपृथक्त्वनिराकरणप्रकरणम्(३४३६)]
४.१.३४ सर्वं पृथग्, भावलक्षणपृथक्त्वात्
{पूर्वपक्षसूत्र}
४.१.३५ न, अनेकलक्षणैरेकभावनिष्पत्तेः
{सिद्धान्तसूत्र}
४.१.३६ लक्षणव्यवस्थानादेवाप्रतिषेधः
{सिद्धान्तसूत्र}
[सर्वशून्यतानिराकरणप्रकरणम्(३७४०)]
४.१.३७ सर्वमभावो भावेष्वितरेतराभावसिद्धेः
{पूर्वपक्षसूत्र}
४.१.३८ न, स्वभावसिद्धेर्भावानाम्
{सिद्धान्तसूत्र}
४.१.३९ न स्वभावसिद्धिः, आपेक्षिकत्वात्
{पूर्वपक्षसूत्र}
४.१.४० व्याहतत्वादयुक्तम्
{सिद्धान्तसूत्र}
[संख्यैकान्तवादप्रकरणम्(४१४३)]
४.१.४१ संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम्
{सिद्धान्तसूत्र}
४.१.४२ न, कारणवयवाभावात्
{पूर्वपक्षसूत्र}
४.१.४३ निरवयवत्वादहेतुः
{सिद्धान्तसूत्र}
[फलपरीक्षाप्रकरणम्(४४५४)]
४.१.४४ सद्यः कालान्तरे च फलनिष्पत्तेः संशयः
{सिद्धान्तसूत्र}
४.१.४५ न सद्यः, कालान्तरोपभोग्यत्वात्
{सिद्धान्तसूत्र}
४.१.४६ कालान्तरेणानिष्पत्तिहेतुर्विनाशात्
{पूर्वपक्षसूत्र}
४.१.४७ प्राङ्निष्पत्तेर्वृक्षफलवत्तत्स्यात्
{सिद्धान्तसूत्र}
४.१.४८ नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात्
{पूर्वपक्षसूत्र}
४.१.४९ उत्पादव्ययदर्शनात्
{सिद्धान्तसूत्र}
४.१.५० बुद्धिसिद्धं तु तदसत्
{सिद्धान्तसूत्र}
४.१.५१ आश्रयव्यतिरेकाद्वृक्षफलोत्पत्तिवदित्यहेतुः
{पूर्वपक्षसूत्र}
४.१.५२ प्रीतेरात्माश्रयत्वादप्रतिषेधः
{सिद्धान्तसूत्र}
४.१.५३ न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात्
{पूर्वपक्षसूत्र}
४.१.५४ तत्सम्बन्धात्फलनिष्पत्तेस्तेषु फलवदुपचारः
{सिद्धान्तसूत्र}
[दुःखपरीक्षाप्रकरणम्(५५५८)]
४.१.५५ विविधवाधनायोगाद्दुःखमेव जन्मोत्पत्तिः
{सिद्धान्तसूत्र}
४.१.५६ न, सुखस्याप्यन्तरालनिष्पत्तेः
{सिद्धान्तसूत्र}
४.१.५७ भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः
{सिद्धान्तसूत्र}
४.१.५८ दुःखविकल्पे सुखाभिमानाच्च
{सिद्धान्तसूत्र}
[अपवर्गपरीक्षाप्रकरणम्(५९६८)]
४.१.५९ ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः
{पूर्वपक्षसूत्र}
४.१.६० प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः
{सिद्धान्तसूत्र}
४.१.६१ समारोपणादात्मन्यप्रतिषेधः
{सिद्धान्तसूत्र}
४.१.६२ पात्रचयान्तानुपपत्तेश्च फलाभावः
{सिद्धान्तसूत्र}
४.१.६३ सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः
{सिद्धान्तसूत्र}
४.१.६४ न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य
{सिद्धान्तसूत्र}
४.१.६५ न, क्लेशसन्ततेः स्वाभाविकत्वात्
{पूर्वपक्षसूत्र}
४.१.६६ प्रागुत्पत्तेरभावानित्यत्ववत्स्वाभाविकेऽप्यनित्यत्वम्
{सिद्धान्तसूत्र}
४.१.६७ अणुश्यामतानित्यत्ववद्वा
{सिद्धान्तसूत्र}
४.१.६८ न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम्
{सिद्धान्तसूत्र}
(इति न्यायसूत्रे चतुर्थाध्यायस्य प्रथममाह्निकम्)
(द्वितीयमाह्निकम्)
[तत्त्वज्ञानोत्पत्तिप्रकरणम्(१३)]
४.२.१ दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः
{सिद्धान्तसूत्र}
४.२.२ दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः
{सिद्धान्तसूत्र}
४.२.३ तन्निमित्तं त्ववयव्यभिमानः
{सिद्धान्तसूत्र}
[प्रासङ्गिकमवयविप्रकरणम्(४१७)]
४.२.४ विद्याविद्याद्वैविध्यात्संशयः
{पूर्वपक्षसूत्र}
४.२.५ तदसंशयः, पूर्वहेतुप्रसिद्धत्वात्
{सिद्धान्तसूत्र}
४.२.६ वृत्त्यनुपपत्तेरपि तर्हि न संशयः
{पूर्वपक्षसूत्र}
४.२.७ कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः
{पूर्वपक्षसूत्र}
४.२.८ तेषु चावृत्तेरवयव्यभावः
{पूर्वपक्षसूत्र}
४.२.९ पृथक्चावयवेभ्योऽवृत्तेः
{सिद्धान्तसूत्र}
४.२.१० न चावयव्यवयवाः
{पूर्वपक्षसूत्र}
४.२.११ एकस्मिन् भेदाभावाद्भेदशब्दप्रयोगानुपपत्तेरप्रश्नः
{सिद्धान्तसूत्र}
४.२.१२ अवयवान्तरभावेऽप्यवृत्तेरहेतुः
{सिद्धान्तसूत्र}
४.२.१३ केशसमूहे तैमिरिकोपलब्धिवत्तदुपलब्धिः
{पूर्वपक्षसूत्र}
४.२.१४ स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः
{सिद्धान्तसूत्र}
४.२.१५ अवयवावयविप्रसङ्गश्चैवमाप्रलयात्
{सिद्धान्तसूत्र}
४.२.१६ न प्रलयोऽणुसद्भावात्
{सिद्धान्तसूत्र}
४.२.१७ परं वा त्रुटेः
{सिद्धान्तसूत्र}
[औपोद्घातिकं निरवयवप्रकरणम्(१८२५)]
४.२.१८ आकाशव्यतिभेदात्तदनुपपत्तिः
{सिद्धान्तसूत्र}
४.२.१९ आकाशासर्वगतत्वं वा
{पूर्वपक्षसूत्र}
४.२.२० अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः
{सिद्धान्तसूत्र}
४.२.२१ शब्दसंयोगविभावाच्च सर्वगतम्
{सिद्धान्तसूत्र}
४.२.२२ अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः
{सिद्धान्तसूत्र}
४.२.२३ मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः
{पूर्वपक्षसूत्र}
४.२.२४ संयोगोपपत्तेश्च
{पूर्वपक्षसूत्र}
४.२.२५ अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः
{सिद्धान्तसूत्र}
[बाह्यार्थभङ्गनिराकरणप्रकरणम्(२६३७)]
४.२.२६ बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत्तदनुपलब्धिः
{पूर्वपक्षसूत्र}
४.२.२७ व्याहतत्वादहेतुः
{सिद्धान्तसूत्र}
४.२.२८ तदाश्रयत्वादपृथग्ग्रहणम्
{सिद्धान्तसूत्र}
४.२.२९ प्रमाणतश्चार्थप्रतिपत्तेः
{सिद्धान्तसूत्र}
४.२.३० प्रमाणानुपपत्त्युपपत्तिभ्याम्
{सिद्धान्तसूत्र}
४.२.३१ स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः
{पूर्वपक्षसूत्र}
४.२.३२ मायागन्धर्वनगरमृगतृष्णिकावद्वा
{पूर्वपक्षसूत्र}
४.२.३३ हेत्वभावादसिद्धिः
{सिद्धान्तसूत्र}
४.२.३४ स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः
{सिद्धान्तसूत्र}
४.२.३५ मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत्प्रतिबोधे
{सिद्धान्तसूत्र}
४.२.३६ बुद्धेश्चैवं निमित्तसद्भावोपलम्भात्
{सिद्धान्तसूत्र}
४.२.३७ तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः
{सिद्धान्तसूत्र}
[तत्त्वज्ञानविवृद्धिप्रकरणम्(३८४९)]
४.२.३८ समाधिविशेषाभ्यासात्
{सिद्धान्तसूत्र}
४.२.३९ न, अर्थविशेषप्रावल्यात्
{पूर्वपक्षसूत्र}
४.२.४० क्षुदादिभिः प्रवर्तनाच्च
{पूर्वपक्षसूत्र}
४.२.४१ पूर्वकृतफलानुबन्धात्तदुत्पत्तिः
{सिद्धान्तसूत्र}
४.२.४२ अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः
{सिद्धान्तसूत्र}
४.२.४३ अपवर्गेऽप्येवं प्रसङ्गः
{पूर्वपक्षसूत्र}
४.२.४४ न, निष्पन्नावश्यम्भावित्वात्
{सिद्धान्तसूत्र}
४.२.४५ तदभावश्चापवर्गे
{सिद्धान्तसूत्र}
४.२.४६ तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः
{सिद्धान्तसूत्र}
४.२.४७ ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः
{सिद्धान्तसूत्र}
४.२.४८ तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयोऽर्थिभिरनसूयिभिरभ्युपेयात्
{सिद्धान्तसूत्र}
४.२.४९ प्रतिपक्षहीनमपि वा प्रयोजनार्थमर्थित्वे
[तत्त्वज्ञानपरिपालनप्रकरणम्(५०५१)]
४.२.५० तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत्
{सिद्धान्तसूत्र}
४.२.५१ ताभ्यां विगृह्यकथनम्
{सिद्धान्तसूत्र}
(इति न्यायसूत्रे चतुर्थाध्यायस्य द्वितीयमाह्निकम्)
(समाप्तश्च चतुर्थः अध्यायः)
(अथ पञ्चमः अध्यायः)
(प्रथममाह्निकम्)
[सत्प्रतिपक्षदेशनाभासप्रकर्णम्(१३)]
५.१.१ साधर्म्यवैधर्म्योत्कर्षापकर्षवर्ण्यावर्ण्यविकल्पसाध्यप्राप्त्यप्राप्तिप्रषङ्गप्रतिदृऋष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्था पत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्यकआर्यसमाः
{सिद्धान्तसूत्र}
५.१.२ साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ
{सिद्धान्तसूत्र}
५.१.३ गोत्वाद्गोसिद्धिवत्तत्सिद्धिः
{सिद्धान्तसूत्र}
उत्कर्षसमादिजातिषट्कप्रकरणम्(४६)ट
५.१.४ साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः
{सिद्धान्तसूत्र}
५.१.५ किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः
{सिद्धान्तसूत्र}
५.१.६ साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः
{सिद्धान्तसूत्र}
[प्राप्त्यप्राप्तिसमजातिद्वयप्रकरणम्(७८)]
५.१.७ प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ
{सिद्धान्तसूत्र}
५.१.८ घटादिनिष्पत्तिदर्शनात्पीडने चाभिचारादप्रतिषेधः
{सिद्धान्तसूत्र}
[प्रसङ्गप्रतिदृष्टान्तसमप्रकरणम्(९११)]
५.१.९ दृष्टान्तस्य कारणानपदेशात्प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ
{सिद्धान्तसूत्र}
५.१.१० प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः
{सिद्धान्तसूत्र}
५.१.११ प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः
{सिद्धान्तसूत्र}
[अनुत्पत्तिसमप्रकरणम्(१२१३)]
५.१.१२ प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः
{सिद्धान्तसूत्र}
५.१.१३ तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः
{सिद्धान्तसूत्र}
[संशयसमप्रकरणम्(१४१५)]
५.१.१४ सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात्संशयसमः
{सिद्धान्तसूत्र}
५.१.१५ साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशयेऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः
{सिद्धान्तसूत्र}
[प्रकरणसमप्रकरणम्(१६१७)]
५.१.१६ उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमः
{सिद्धान्तसूत्र}
५.१.१७ प्रतिपक्षात्प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः
{सिद्धान्तसूत्र}
[अहेतुसमप्रकरणम्(१८२०)]
५.१.१८ त्रैकाल्यासिद्धेर्हेतोरहेतुसमः
{सिद्धान्तसूत्र}
५.१.१९ न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः
{सिद्धान्तसूत्र}
५.१.२० प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः
{सिद्धान्तसूत्र}
[अर्थापत्तिसमप्रकरणम्(२१२२)]
५.१.२१ अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः
{सिद्धान्तसूत्र}
५.१.२२ अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच्चार्थापत्तेः
{सिद्धान्तसूत्र}
[अविशेषसमप्रकरणम्(२३२४)]
५.१.२३ एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्
अविशेषसमः
{सिद्धान्तसूत्र}
५.१.२४ क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः
{सिद्धान्तसूत्र}
[उअपपत्तिसमप्रकरणम्(२५२६)]
५.१.२५ उभयोकारणोपपत्तेरुपपत्तिसमः
{सिद्धान्तसूत्र}
५.१.२६ उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः
{सिद्धान्तसूत्र}
[उपलब्धिसमप्रकरणम्(२७२८)]
५.१.२७ निर्दिष्टकारणाभावेऽप्युपलम्भादुपलब्धिसमः
{सिद्धान्तसूत्र}
५.१.२८ कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः
{सिद्धान्तसूत्र}
[अनुपलब्धिसमप्रकरणम्(२९३१)]
५.१.२९ तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमः
{सिद्धान्तसूत्र}
५.१.३० अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः
{सिद्धान्तसूत्र}
५.१.३१ ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम्
{सिद्धान्तसूत्र}
[अनित्यसमप्रकरणम्(३२३४)
५.१.३२ साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः
{सिद्धान्तसूत्र}
५.१.३३ साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च
{सिद्धान्तसूत्र}
५.१.३४ दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः
{सिद्धान्तसूत्र}
[अनित्यसमप्रकरणम्(३५३६)]
५.१.३५ नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः
{सिद्धान्तसूत्र}
५.१.३६ प्रतिषेध्ये नित्यमनित्यभावादनित्येऽनित्यत्वोपपत्तेः प्रतिषेधाभावः
{सिद्धान्तसूत्र}
[कार्यसमप्रकरणम्(३७३८)]
५.१.३७ प्रयत्नकार्यानेकत्वात्कार्यसमः
{सिद्धान्तसूत्र}
५.१.३८ कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः
{सिद्धान्तसूत्र}
[षट्पक्षीप्रकरणम्(३९४०)]
५.१.३९ प्रतिषेधेऽपि समानदोषः
{सिद्धान्तसूत्र}
५.१.४० सर्वत्रैवम्
{सिद्धान्तसूत्र}
५.१.४१ प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद्दोषः
{सिद्धान्तसूत्र}
५.१.४२ प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा
{सिद्धान्तसूत्र}
५.१.४३ स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात्समानो दोष इति
{सिद्धान्तसूत्र}
(इति न्यायसूत्रे पञ्चमाध्यायस्य प्रथममाह्निकम्)
(द्वितीयमाह्निकम्)
५.२.१ प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिज्ञाविरोधः प्रतिज्ञासन्न्यासो हेत्वन्तरमर्थान्तरं निरर्थकमविज्ञातार्थमपार्थकमप्राप्त कालं न्यूनमधिकं पुनरुक्तमननुभाषणमज्ञानमप्रतिभा विक्षेपो मतानुज्ञा पर्यनुयोज्योपेक्षणं निरनुयोज्यानुयोगोऽपसिद्धान्तो हेत्वा भासाश्च निग्रहस्थानानि
{निग्रहस्थानौद्देशसूत्रम्}
[निग्रहस्थानपञ्चकप्रकरणम्(२६)]
५.२.२ प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः
{प्रतिज्ञाहानिः लक्षणसूत्रम्}
५.२.३ प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात्तदर्थनिर्देशः प्रतिज्ञान्तर.
{प्रतिज्ञान्तरलक्षणसूत्रम्}
५.२.४ प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः
{प्रतिज्ञाविरोधः लक्षणसूत्रम्}
५.२.५ पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः
{प्रतिज्ञासन्न्यासः लक्षणसूत्रम्}
५.२.६ अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम्
{हेत्वन्तरं लक्षणसूत्रम्}
[निग्रहस्थानचतुष्कप्रकरणम्(७१०)]
५.२.७ प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम्
{अर्थान्तरं लक्षणसूत्रम्}
५.२.८ वर्णक्रमनिर्देशवन्निरर्थकम्
{निरर्थकं लक्षणसूत्रम्}
५.२.९ परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम्
{अविज्ञातार्थं लक्षणसूत्रम्}
५.२.१० पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम्
{अपार्थकं लक्षणसूत्रम्}
[निग्रहस्थानत्रिकप्रकरणम्(१११३)]
५.२.११ अवयवविपर्यासवचनमप्राप्तकालम्
{अप्राप्तकालं लक्षणसूत्रम्}
५.२.१२ हीनमन्यतमेनाप्यवयवेन न्यूनम्
{न्यूनं लक्षणसूत्रम्}
५.२.१३ हेतूदाहरणाधिकमधिकम्
{अधिकं लक्षणसूत्रम्}
[पुनरुक्तिनिग्रहस्थानप्रकरणम्(१४१६)]
५.२.१४ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्र अनुवादात्
{पुनरुक्तं लक्षणसूत्रम्}
५.२.१५ अनुवादे तु अपुनरुक्तं शब्दाभ्यासातर्थविशेषोपपत्तेः
{पुनरुक्तं लक्षणापवादसूत्रम्}
५.२.१६ अर्थातापन्नस्य स्वशब्देन पुनर्वचनम्
{पुनरुक्तं लक्षणापवादसूत्रम्}
[उत्तरविरोधिनिग्रहस्थानचतुष्कप्रकरणम्(१७२०)]
५.२.१७ विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणमननुभाषणम्
{अननुभाषणं लक्षणसूत्रम्}
५.२.१८ अविज्ञातं च अज्ञानम्
{अज्ञानं लक्षणसूत्रम्}
५.२.१९ उत्तरस्य अप्रतिपत्तिः अप्रतिभा
{अप्रतिभा लक्षणसूत्रम्}
५.२.२० कार्यव्यासङ्गात्कथाविच्छेदः विक्षेपः
{विक्षेपः लक्षणसूत्रम्}
[मतानुज्ञादिनिग्रहस्थानत्रिकप्रकरणम्(२१२३)]
५.२.२१ स्वपक्षे दोषाभ्युपगमात्परपक्षे दोषप्रसङ्गः मतानुज्ञा
{मतानुज्ञा लक्षणसूत्रम्}
५.२.२२ निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम्
{पर्यनुयोज्योपेक्षणं लक्षणसूत्रम्}
५.२.२३ अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः
{निरनुयोज्यानुयोग लक्षणसूत्रम्}
[कथकान्योक्तिनिरूप्यनिग्रहस्थानद्वयप्रकरणम्(२४२५)]
५.२.२४ सिद्धान्तमभ्युपेत्य अनियमात्कथाप्रसङ्गः अपसिद्धान्तः
{अपसिद्धान्त लक्षणसूत्रम्}
५.२.२५ हेत्वाभासाः च यथोक्ताः
{हेत्वाभास निरूपणम्}
(इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयमाह्निकम्)
(समाप्तश्चायं पञ्चमाध्यायः)
न्यायदर्शनं समाप्तम्
Read also
अनुमानखण्डः – तत्त्वचिन्तामणिः (Tattva Chintamani) Anuman Khanda