Pancha Tantram of Vishnu Sharma पञ्चतन्त्रम् [Sanskrit]
Home » Law Library Updates » Pancha Tantram of Vishnu Sharma पञ्चतन्त्रम् [Sanskrit]
पञ्चतन्त्रम्
कथामुखम् १-७
प्रथमम् तन्त्रम् मित्रभेदः १-५०
प्रथमम् तन्त्रम् मित्रभेदः ५१-१००
प्रथमम् तन्त्रम् मित्रभेदः १०१-१५०
प्रथमम् तन्त्रम् मित्रभेदः १५१-२००
प्रथमम् तन्त्रम् मित्रभेदः २०१-२५०
प्रथमम् तन्त्रम् मित्रभेदः २५१-३००
प्रथमम् तन्त्रम् मित्रभेदः ३०१-३५०
प्रथमम् तन्त्रम् मित्रभेदः ३५१-४००
प्रथमम् तन्त्रम् मित्रभेदः ४०१-४५०
प्रथमम् तन्त्रम् मित्रभेदः ४५१-४६१
द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः १-५०
द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः ५१-१००
द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः १०१-१५०
द्वितीयम् तन्त्रम् मित्रसंप्राप्तिः १५१-१९६
तृतीयम् तन्त्रम् काकॊलूकीयम् १-५०
तृतीयम् तन्त्रम् काकॊलूकीयम् ५१-१००
तृतीयम् तन्त्रम् काकॊलूकीयम् १०१-१५०
तृतीयम् तन्त्रम् काकॊलूकीयम् १५१-२००
तृतीयम् तन्त्रम् काकॊलूकीयम् २०१-२५०
तृतीयम् तन्त्रम् काकॊलूकीयम् २५१-२६०
चतुर्थम् तन्त्रम् लब्धप्रणाशम् १-५०
चतुर्थम् तन्त्रम् लब्धप्रणाशम् ५१-८४
पञ्चमम् तन्त्रम् अपरीक्षितकारकम् १-५०
पञ्चमम् तन्त्रम् अपरीक्षितकारकम् ५१-९८
Read Next
पञ्चतन्त्रम्
कथामुखम्
ओं नमः श्रीशारदागणपतिगुरुभ्यः । महाकविभ्यो नमः ।
ब्रह्मा रुद्रः कुमारो हरिवरुणयमा वह्निरिन्द्रः कुबेरश्
चन्द्रादित्यौ सरस्वत्युदधियुगनगा वायुरुर्वीभुजङ्गाः ।
सिद्धा नद्योऽश्विनौ श्रीर्दितिरदितिसुता मातरश्चण्डिकाद्या
वेदास्तीर्थानि यक्षा गणवसुमुनयः पान्तु नित्यं ग्रहाश्च ॥
Read Next
मनवे वाचस्पतये शुक्राय पराशराय ससुताय ।
चाणक्याय च विदुषे नमोऽस्तु नयशास्त्रकर्तृभ्यः ॥०.१॥
सकलार्थशास्त्रसारं जगति समालोक्य विष्णुशर्मेदम् ।
तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् ॥०.२॥
तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र सकलार्थिसार्थकल्पद्रुमः प्रवरनृपमुकुटमणिमजरीचयचर्चितचरणयुगलः सकलकल्पपारङ्गतोऽमरशक्तिर्नाम राजा बभूव । तस्य त्रयः पुत्राः परमदुर्मेधसो वसुशक्तिरुग्रशक्तिरनेकशक्तिश्चेति नामानो बभूवुः ।
अथ राजा तान् शास्त्रविमुखानालोक्य सचिवानाहूय प्रोवाचभोः ज्ञातमेतद्भवद्भिर्यन्ममैते त्रयोऽपि पुत्राः शास्त्रविमुखा विवेकहीनाश्च । तदेतान् पश्यतो मे महदपि राज्यं न सौख्यमावहति । अथवा साध्विदमुच्यते
Read Next
अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।
यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ॥०.३॥
वरं गर्भस्रवो वरमृतुषु नैवाभिगमनं
वरं जातः प्रेतो वरमपि च कन्यैव जनिता ।
वरं बन्ध्या भार्या वरमपि च गर्भेषु वसतिर्
न चाविदग्धान् रूपद्रविणगुणयुक्तोऽपि तनयः ॥०.४॥
किं तया क्रियते धेन्वा या न सूते न दुग्धदा ।
कोऽर्थः पुत्रेण जातेन यो न विद्वान्न भक्तिमान् ॥०.५॥
तदेतेषां यथा बुद्धिप्रबोधनं भवति तथा कोऽप्युपायोऽनुष्ठीयताम् । अत्र च मद्दत्तां वृत्तिं भुञ्जानानां पण्डितानां पञ्चशती तिष्ठति । ततो यथा मम मनोरथाः सिद्धिं यान्ति तथानुष्ठीयतामिति ।
तत्रैकः प्रोवाचदेव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्मशास्त्राणि मन्वादीनि अर्थशास्त्राणि चाणक्यादीनि कामशास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थकामशास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति ।
अथ तन्मध्यतः सुमतिर्नाम सचिवः प्राहअशाश्वतोऽयं जीवितव्यविषयः । प्रभूतकालज्ञेयानि शब्दशास्त्राणि । तत्सङ्क्षेपमात्रं शास्त्रं किञ्चिदेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः
अनन्तपारं किल शब्दशास्त्रं
स्वल्पं तथायुर्बहवश्च विघ्नाः ।
सारं ततो ग्राह्यमपास्य फल्गु
हंसैर्यथा क्षीरमिवाम्बुध्यात् ॥०.६॥
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकलशास्त्रपारङ्गमश्छात्रसंसदि लब्धकीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक्प्रबुद्धान् करिष्यति इति ।
स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाचभो भगवन्मदनुग्रहार्थमेतानर्थशास्त्रं प्रति द्राग्यथानन्यसदृशान् विदधासि तथा कुरु । तदाहं त्वां शासनशतेन योजयिष्यामि ।
अथ विष्णुशर्मा तं राजानमाहदेव श्रूयतां मे तथ्यवचनम् । नाहं विद्याविक्रयं शासनशतेनापि करोमि । पुनरेतांस्तव पुत्रान्मासषट्केन यदि नीतिशास्त्रज्ञान्न करोमि ततः स्वनामत्यागं करोमि ।
अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा ससचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान् कुमारान् समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तदर्थं मित्रभेदमित्रप्राप्तिकाकोलूकीयलब्धप्रणाशअपरीक्षितकारकाणि चेति पञ्चतन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तान्यधीत्य मासषट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्येतत्पञ्चतन्त्रकं नाम नीतिशास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना
अधीते य इदं नित्यं नीतिशास्त्रं शृणोति च ।
न पराभवमाप्नोति शक्रादपि कदाचन ॥०.७॥
इति कथामुखम् ।
मित्रभेदः
वर्धमानवृत्तान्तः
अथातः प्रारभ्यते मित्रभेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमः श्लोकः
वर्धमानो महान् स्नेहः सिंहगोवृषयोर्वने ।
पिशुनेनातिलुब्धेन जम्बुकेन विनाशितः ॥१.१॥
तद्यथानुश्रूयते । अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तत्र धर्मोपार्जितभूरिविभवो वर्धमानको नाम वणिक्पुत्रो बभूव । तस्य कदाचिद्रात्रौ शय्यारूढस्य चिन्ता समुत्पन्ना । तत्प्रभूतेऽपि वित्तेऽर्थोपायाश्चिन्तनीयाः कर्तव्याश्चेति । यत उक्तं च
नहि तद्विद्यते किंचिद्यदर्थेन न सिद्ध्यति ।
यत्नेन मतिमांस्तस्मादर्थमेकं प्रसाधयेत् ॥१.२॥
यस्यार्यस्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमां लोके यस्यार्थाः स च पण्डितः ॥१.३॥
न सा विद्या न तद्दानं न तच्छिल्पं न सा कला ।
न तत्स्थैर्यं हि धनिनां याचकैर्यन्न गीयते ॥१.४॥
इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥१.५॥
अर्थेभ्योऽपि हि वृद्धेभ्यः संवृत्तेभ्य इतस्ततः ।
प्रवर्तन्ते क्रियाः सर्वाः पर्वतेभ्य इवापगाः ॥१.६॥
पूज्यते यदपूज्योऽपि यदगम्योऽपि गम्यते ।
वन्द्यते यदवन्द्योऽपि स प्रभावो धनस्य च ॥१.७॥
अशनादिन्द्रियाणीव स्युः कार्याण्यखिलान्यपि ।
एतस्मात्कारणाद्वित्तं सर्वसाधनमुच्यते ॥१.८॥
अर्थार्थी जीवलोकोऽयं श्मशानमपि सेवते ।
त्यक्त्वा जनयितारं स्वं निःस्वं यच्छति दूरतः ॥१.९॥
गतवयसामपि पुंसां येषामर्था भवन्ति ते तरुणाः ।
अर्थे तु ये हीना वृद्धास्ते यौवनेऽपि स्युः ॥१.१०॥
स चार्थः पुरुषाणां षड्भ्रुपायैर्भवति भिक्षाया नृपसेवया कृषिकर्मणा विद्योपार्जनेन व्यवहारेण वणिक्कर्मणा वा । सर्वेषामपि तेषां वाणिज्येनातिरस्कृतोऽर्थलाभः स्यात् । उक्तं च यतः
कृता भिक्षानेकैर्वितरति नृपो नोचितमहो
कृषिः क्लिष्टा विद्या गुरुविनयवृत्त्यातिविषमा ।
कुसीदाद्दारिद्र्यं परकरगतग्रन्थिशमनान्
न मन्ये वाणिज्यात्किमपि परमं वर्तनमिह ॥१.११॥
उपायानां च सर्वेषामुपायः पण्यसंग्रहः ।
धनार्थं शस्यते हे एकस्तदन्यः संशयात्मकः ॥१.१२॥
तच्च वाणिज्यं सप्तविधमर्थागमाय स्यात् । तद्यथा गान्धिकव्यवहारः, निक्षेपप्रवेशः, गोष्ठिककर्म, परिचितग्राहकागमः, मिथ्याक्रयकथनम्, कूटतुलामानम्, देशान्तराद्भाण्डानयनं चेति । उक्तं च
पण्यानां गान्धिकं पण्यं किमन्यैः काञ्चनादिभिः ।
यत्रैकेन च यत्क्रीतं तच्छतेन प्रदीयते ॥१.१३॥
निक्षेपे पतिते हर्म्ये श्रेष्ठी स्तौति स्वदेवताम् ।
निक्षेपी म्रियते तुभ्यं प्रदास्याम्युपयाचितम् ॥१.१४॥
गोष्ठिककर्मनियुक्तः श्रेष्ठी चिन्तयति चेतसा हृष्टः ।
वसुधा वसुसम्पूर्णा मयाद्य लब्धा किमन्येन ॥१.१५॥
परिचितमागच्छन्तं ग्राहकमुत्कण्ठ्या विलोकयासौ ।
हृष्यति तद्धनलब्धो यद्वत्पुत्रेण जातेन ॥१.१६॥
अन्यच्च
पूर्णापूर्णे माने परिचितजनवञ्चनं तथा नित्यम् ।
मिथ्याक्रयस्य कथनं प्रकृतिरियं स्यात्किरातानाम् ॥१.१७॥
द्विगुणं त्रिगुणं वित्तं भाण्डक्रयविचक्षणाः ।
प्राप्नुवन्त्युद्यमाल्लोका दूरदेशान्तरं गताः ॥१.१८॥
इत्येवं सम्प्रधार्य मथुरागामीनि भाण्डान्यादाय शुभायां तिथौ गुरुजनानुज्ञातः सुरथाधिरूढः प्रस्थितः । तस्य च मङ्गलवृषभ संजीवकनन्दकनामानौ गृहोत्पन्नौ धूर्वोढारौ स्थितौ । तयोरेकः संजीवकाभिधानो यमुनाकच्छमवतीर्णः सम्पङ्कपूरमासाद्य कलितचरणो युगभङ्गं विधाय विषसाद ।
अथ तं तदवस्थमालोक्य वर्धमानः परं विषादमागमत् । तदर्थं च स्नेहार्द्रहृदयस्त्रिरात्रं प्रयाणभङ्गमकरोत् । अथ तं विषण्णमालोक्य साऋथिकैरभिहितं भोः श्रेष्ठिन् ! किमेवं वृषभस्य कृते सिंहव्याघ्रसमाकुले बह्वपायेऽस्मिन् वने समस्तसार्थस्त्वया सन्देहे नियोजितः । उक्तं च
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान्नरः ।
एतदेवात्र पाण्डित्यं यत्स्वल्पाद्भूरिरक्षणम् ॥१.१९॥
अथासौ तदवधार्य संजीवकस्य रक्षापुरुषान्निरूप्याशेषसार्थं नीत्वा प्रस्थितः । अथ रक्षापुरुषा अपि बह्वपायं तद्वनं विदित्वा संजीवकं परित्यज्य पृष्ठतो गत्वाऽन्येद्युस्तं सार्थवाहं मिथ्याहुः स्वामिन्, मृतोऽसौ संजीवकः । अस्माभिस्तु सार्थवाहस्याभीष्ट इति मत्वा वह्निना संस्कृतः इति ।
तच्छ्रुत्वा सार्थवाहः कृतज्ञतया स्नेहार्द्रहृदयस्तस्यौर्ध्वदेहिकक्रिया वृषोत्सर्गादिकाः सर्वाश्चकार । संजीवकोऽप्यायुःशेषतया यमुनासलिलमिश्रैः शिशिरतरवातैराप्यायितशरीरः कथंचिदप्युत्थाय यमुनातटमुपपेदे । तत्र मरकतसदृशानि बालतृणाग्राणि भक्षयन् कतिपयैरहोभिर्हरवृषभ इव पीनः ककुद्मान् बलवांश्च संवृत्तः । प्रत्यहं वल्मीकशिखराग्राणि शृङ्गाभ्यां विदारयन् गर्जमान आस्ते । साधु चेदमुच्यते
अरक्षितं तिष्ठति देवरक्षितं
सुरक्षितं देवहतं विनश्यति ।
जीवत्यनाथोऽपि वने विसर्जितः
कृतप्रयत्नोऽपि गृहे विनश्यति ॥१.२०॥
अथ कदाचित्पिङ्गलको नाम सिंहः सर्वमृगपरिवृतः पिपासाकुल उदकपानार्थं यमुनातटमवतीर्णः संजीवकस्य गम्भीरतररावं दूरादेवाशृणोत् । तच्छ्रुत्वाऽतीव व्याकुलहृदयः ससाध्वसमाकारं प्रच्छाद्य बटतले चतुर्मण्डलावस्थानेनावस्थितः । चतुर्मण्डलावस्थानं त्विदं सिंहः सिंहानुयायिनः काकरवाः किवृत्ता इति ।
अथ तस्य करटकदमनकनामानौ द्वौ शृगालौ मन्त्रिपुत्रौ भ्रष्टाधिकारौ सदानुयायिनावास्ताम् । तौ च परस्परं मन्त्रयतः । तत्र दमनकोऽब्रवीत्भद्र करटक, अयं तावदस्मत्स्वामी पिङ्गलक उदकग्रहणार्थं यमुनाकच्छमवतीर्य स्थितः । स किं निमित्तं पिपासाकुलोऽपि निवृत्त्य व्यूहरचनां विधाय दौर्मनस्येनाभिभूतोऽत्र बटतले स्थितः ।
करटक आह भद्र किमावयोरनेन व्यापारेण उक्तं च यतः
अव्यापरेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥१.२१॥
कथा १
कीलोत्पाटिवानरकथा
कस्मिंश्चिन्नगराभ्याशे केनापि वणिक्पुत्रेण तरुखण्डमध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकराः स्थापनादयः । ते मध्याह्नबेलायामाहारार्थं नगरमध्ये गच्छन्ति । अथ कदाचित्तत्रानुषङ्गिकं वानरयूथमितश्चेतश्च परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्धस्फाटितोऽञ्जनवृक्षदारुमयः स्तम्भः खदिरकीलकेन मध्यनिहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरुशिखरप्रसादशृङ्गदारुपर्यन्तेषु यथेच्छया क्रीडितुमारब्धाः । एकश्च तेषां प्रत्यासन्नमृत्युश्चापल्यात्तस्मिन्नर्धस्फोटितस्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावदुत्पादयितुमारेभे तावत्
तस्य स्तम्भमध्यगतवृषणस्य स्वस्थानाच्चलितकीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् । अतोऽहं ब्रवीमि अव्यापारेषु इति । आवयोर्भक्षितशेष आहारोऽस्त्येव । तत्किमनेन व्यापारेण । दमनक आह तत्किं भवानाहारार्थी केवलमेव । तन्न युक्तम् । उक्तं च
सुहृदामुपकारणाद्द्विषतामप्यपकारणात् ।
नृपसंश्रय इष्यते बुधैर्जठरं को न बिभर्ति केवलम् ॥१.२२॥
किं च
यस्मिञ्जीवन्ति जीवन्ति बहवः सोऽत्र जीवतु ।
वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदरपूरणम् ॥१.२३॥
तथा च
यज्जीव्यते क्षणमपि प्रथितं मनुष्यैर्
विज्ञानशौर्यविभवार्यगुणैः समेतम् ।
तन्नाम जीवितमिह प्रवदन्ति तज्ज्ञाः
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥१.२४॥
यो नात्मना न च परेण च बन्धुवर्गे
दीने दयां न कुरुते न च मर्त्यवर्गे ।
किं तस्य जीवितफलं हि मनुष्यलोके
काकोऽपि जीवति चिराय बलिं च भुङ्क्ते ॥१.२५॥
सुपूरा स्यात्कुनदिका सुपूरो मूषिकाञ्जलिः ।
सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति ॥१.२६॥
किं च
किं तेन जातु जातेन माटुर्यौवनहारिणा ।
आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथा ॥१.२७॥
परिवर्तिनि संसारे मृतः को वा न जायते ।
जातस्तु गण्यते सोऽत्र यः स्फुरेच्च श्रियाधिकः ॥१.२८॥
किं च
जातस्य नदीतीरे तस्यापि तृणस्य जन्मसाफल्यम् ।
यत्सलिलमज्जनाकुलजनहस्तालम्बनं भवति ॥१.२९॥
तथा च
स्तिमितोन्नतसञ्चारा जनसन्तापहारिणः ।
जायन्ते विरला लोके जलदा इव सज्जनाः ॥१.३०॥
निरतिशयं गरिमाणं तेन
जनन्याः स्मरन्ति विद्वांसः ।
यत्कमपि वहति गर्भं
महतामपि यो गुरुर्भवति ॥१.३१॥
अप्रकटीकृतशक्तिः शक्तोऽपि जनस्तिरस्क्रियां लभते ।
निवसन्नन्तर्दारुणि लङ्घ्यो वह्निर्न तु ज्वलितः ॥१.३२॥
करटक आह आवां तावदप्रधानौ तत्किमावयोरनेन व्यापरेण ।
उक्तं च
अपृष्टोऽत्राप्रधानो यो ब्रूते राज्ञः पुरः कुधीः ।
न केवलमसंमानं लभते च विडम्बनम् ॥१.३३॥
तथा च
वचस्तत्र प्रयोक्तव्यं यत्रोक्तं लभते फलम् ।
स्थायी भवति चात्यन्तं रागः शुक्लपटे यथा ॥१.३४॥
दमक आह मा मैवं वद ।
अप्रधानः प्रधानः स्यात्सेवते यदि पार्थिवम् ।
प्रधानोऽप्यप्रधानः स्याद्यदि सेवाविवर्जितः ॥१.३५॥
यत उक्तं च
आसन्नमेव नृपतिर्भजते मनुष्यं
विद्याविहीनमकुलीनमसंस्कृतं वा ।
प्रायेण भूमिपतयः प्रमदा लताश्च
यत्पार्श्वतो भवति तत्परिवेष्टयन्ति ॥१.३६॥
तथा च
कोपप्रसादवस्तूनि ये विचिन्वन्ति सेवकाः ।
आरोहन्ति शनैः पश्चाद्धुन्वन्तमपि पार्थिवम् ॥१.३७॥
विद्यावतां महेच्छानां शिल्पविक्रमशालिनाम् ।
सेवावृत्तिविदां चैव नाश्रयः पार्थिवं विना ॥१.३८॥
ये जात्यादिमहोत्साहान्नरेन्द्रान्नोपयान्ति च ।
तेषामामरणं भिक्षा प्रायश्चित्तं विनिर्मितम् ॥१.३९॥
ये च प्राहुर्दुरात्मानो दुराराध्या महीभुजः ।
प्रमादालस्यजाड्यानि ख्यापितानि निजानि तैः ॥१.४०॥
सर्पान् व्याघ्रान् गजान् सिंहान् दृष्ट्वोपायैर्वशीकृतान् ।
राजेति कियती मात्रा धीमतामप्रमादिनाम् ॥१.४१॥
राजानमेव संश्रित्य विद्वान् याति परां गतिम् ।
विना मलयमन्यत्र चन्दनं न प्ररोहति ॥१.४२॥
धवलान्यातपत्राणि वाजिनश्च मनोरमाः ।
सदा मत्ताश्च मातङ्गाः प्रसन्ने सति भूपतौ ॥१.४३॥
करटक आह अथ भवान् किं कर्तुमनाः ?
सोऽब्रवीतद्यास्मत्स्वामी पिङ्गलको भीतो भीतपरिवारश्च वर्तते । तदैनं गत्वा भयकारणं विज्ञाय सन्धिविग्रहयानआसनसंश्रयद्वैधीभावानामेकतमेन संविधास्ये ।
करटक आह कथं वेत्ति भवान् यद्भयाविष्टोऽयं स्वामी ?
सोऽब्रवीत्ज्ञेयं किमत्र ? यत उक्तं च
उदीरितोऽर्थः पशुनापि गृहते
हयाश्च नागाश्च वहन्ति चोदिताः ।
अनुक्तमप्यूहति पण्डितो जनः
परेङ्गितज्ञानफ्जला हि बुद्धयः ॥१.४४॥
तथा च मनुः (८.२६)
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥१.४५॥
तदद्यैनं भयाकुलं प्राप्य स्वबुद्धिप्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्यपदवीं समासादयिष्यामि ।
करटक आह अनभिज्ञो भवान् सेवाधर्मस्य । तत्कथमेनं वशीकरिष्यसि ?
सोऽब्रवीत्कथमहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे क्रीडताभ्यागतसाधूनां नीतिशास्त्रं पठता यच्छ्रुतं सेवाधर्मस्य सारं तधृदि स्थापितम् । श्रूयतां तच्चेदम्
सुवर्णपुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः ।
शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥१.४६॥
सा सेवा या प्रभुहिता ग्राह्या वाक्यविशेषतः ।
आश्रयेत्पार्थिवं विद्वांस्तद्द्वारेणैव नान्यथा ॥१.४७॥
यो न वेत्ति गुणान् यस्य न तं सेवेत पण्डितः ।
न हि तस्मात्फलं किञ्चित्सुकृष्टादूषरादिव ॥१.४८॥
द्रव्यकृतिहीनोऽपि सेव्यः सेव्यगुणान्वितः ।
भवत्याजीवनं तस्मात्फलं कालान्तरादपि ॥१.४९॥
अपि स्थाणुवदासीनः शुष्यन् परिगतः क्षुधा ।
न त्वज्ञानात्मसम्पन्नाद्वृत्तिमीहते पण्डितः ॥१.५०॥
सेवकः स्वामिनं द्वेष्टि कृपणं परुषाक्षरम् ।
आत्मानं किं स न द्वेष्टि सेव्यासेव्यं न वेत्ति यः ॥१.५१॥
यस्याश्रित्य विश्रामं क्षुधार्ता यान्ति सेवकाः ।
सोऽर्कवन्नृपतिस्त्याज्यः सदा पुष्पफलोऽपि सन् ॥१.५२॥
राजमातरि देव्यां च कुमारे मुख्यमन्त्रिणि ।
पुरोहिते प्रतीहारे सदा वर्तेत राजवत् ॥१.५३॥
जीवेति प्रब्रुवन् प्रोक्तः कृत्याकृत्यविचक्षणः ।
करोति निर्विकल्पं यः स भवेद्राजवल्लभः ॥१.५४॥
प्रभुप्रसादजं वित्तं सुप्राप्तं यो निवेदयेत् ।
वस्त्राद्यं च दधात्यङ्गे स भवेद्राजवल्लभः ॥१.५५॥
अन्तःपुरचरैः सार्धं यो न मन्त्रं समाचरेत् ।
न कलत्रैर्नरेन्द्रस्य स भवेद्राजवल्लभः ॥१.५६॥
द्यूतं यो यमदूताभं हालां हालाहलोपमम् ।
पश्येद्दारान् वृथाकारान् स भवेद्राजवल्लभः ॥१.५७॥
युद्धकालेऽग्रणीर्यः स्यात्सदा पृष्ठानुगः पुरे ।
प्रभोर्द्वाराश्रितो हर्म्ये स भवेद्राजवल्लभः ॥१.५८॥
सम्मतोऽहं विभोर्नित्यमिति मत्वा व्यतिक्रमेत् ।
कृच्छ्रेष्वपि न मर्यादां स भवेद्राजवल्लभः ॥१.५९॥
द्वेषिद्वेषपरो नित्यमिष्टानामिष्टकर्मकृत् ।
यो नरो नरनाथस्य स भवेद्राजवल्लभः ॥१.६०॥
प्रोक्तः प्रत्युत्तरं नाह विरुद्धं प्रभुना न यः ।
न समीपे हसत्युच्चैः स भवेद्राजवल्लभः ॥१.६१॥
उप्रणं शरणं तद्वन्मन्यते भयवर्जितः ।
प्रवासं स्वपुरावासं स भवेद्राजवल्लभः ॥१.६२॥
न कुर्यान्नरनाथस्य योषिद्भिः सह संगतिम् ।
न निन्दां न विवादं च स भवेद्राजवल्लभः ॥१.६३॥
करटक आह अथ भवांस्तत्र गत्वा किं तावत्प्रथमं वक्ष्यति तत्तावदुच्यताम् ।
दमनक आह
उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते ।
सुवृष्टिगुणसम्पन्नाद्बीजाद्बीजमिवापरम् ॥१.६४॥
अपायसन्दर्शनजां विपत्तिम्
उपायसन्दर्शनजां च सिद्धिम् ।
मेधाविनो नीतिगुणप्रयुक्तां
पुरः स्फुरन्तीमिव वर्णयन्ति ॥१.६५॥
एकेषां वाचि शुकवदन्येषां हृदि मूकवत् ।
हृदि वाचि तथान्येषां वल्गु वल्गन्तिउ सूक्तयः ॥१.६६॥
न च अहमप्राप्तकालं वक्ष्ये । आकर्णितं मया नीतिसारं पितुः पूर्वमुत्सङ्गं हि निषेवता ।
अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् ।
लभते बह्ववज्ञानमपमानं च पुष्कलम् ॥१.६७॥
करटक आह
दुराराध्या हि राजानः पर्वता इव सर्वदा ।
व्यालाकीर्णाः सुविषमाः कठिना दुष्टसेविताः ॥१.६८॥
तथा च
भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूरचेष्टिताः ।
सुदुष्टा मन्त्रसाध्याश्च राजानः पन्नगा इव ॥१.६९॥
द्विजिह्वाः क्रूरकर्माणोऽनिष्ठाश्छिद्रानुसारिणः ।
दूरतोऽपि हि पश्यन्ति राजानो भुजगा इव ॥१.७०॥
स्वल्पमप्यपकुर्वन्ति येऽभीष्टा हि महीपतेः ।
ते वह्नाविव दह्यन्ते पतङ्गाः पापचेतसः ॥१.७१॥
दुरारोहं पदं राज्ञां सर्वलोकनमस्कृतम् ।
स्वल्पेनाप्यपकारेण ब्राह्मण्यमिव दुष्यति ॥१.७२॥
दुराराध्याः श्रियो राज्ञां दुरापा दुष्परिग्रहाः ।
तिष्ठन्त्याप इवाधारे चिरमात्मनि संस्थिताः ॥१.७३॥
दमनक आह सत्यमेतत्परम् । किन्तु
यस्य यस्य हि यो भावस्तेन तेन समाचरेत् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥१.७४॥
भर्तुश्चित्तानुवर्तित्वं सुवृत्तं चानुजीविनाम् ।
राक्षसाश्चापि गृह्यन्ते नित्यं छन्दानुवर्तिभिः ॥१.७५॥
सरुषि नृपे स्तुतिवचनं तदभिमते प्रेम तद्द्विषि द्वेषः ।
तद्दानस्य च शंसा अमन्त्रतन्त्रं वशीकरणम् ॥१.७६॥
करटक आह यद्येवमभिमतं तर्हि शिवास्ते पन्थानः सन्तु । यथाभिलषितमनुष्ठीयताम् । सोऽपि प्रणम्य पिङ्गलकाभिमुखं प्रतस्थे ।
अथागच्छन्तं दमनकमालोक्य पिङ्गलको द्वास्थमब्रवीतपसार्यतां वेत्रलता । अयमस्माकं चिरन्तनो मन्त्रिपुत्रो दमनकोऽव्याहतप्रवेशः । तत्प्रवेश्यतां द्वितीयमण्डलभागी । इति ।
स आह यथावादीद्भवानिति ।
अथोपसृत्य दमनको निर्दिष्ट आसने पिङ्गलकं प्रणम्य प्राप्तानुज्ञ उपविष्टः । स तु तस्य नककुलिशालङ्कृतं दक्षिणपाणिमुपरि दत्त्वा मानपुरःसरमुवाच अपि शिवं भवतः । कस्माच्चिराद्दृष्टोऽसि ?
दमनक आह न किंचिद्देवपादानामस्माभिः प्रयोजनम् । परं भवतां प्राप्तकालं वक्तव्यं यत उत्तममध्यमाधमैः सर्वैरपि राज्ञां प्रयोजनम् । उक्तं च
दन्तस्य निष्कोषणकेन नित्यं
कर्णस्य कण्डूयनकेन वापि ।
तृणेन कार्यं भवतीश्वराणां
किमाङ्ग वाग्घस्तवता नरेण ॥१.७७॥
तथा वयं देवपादानामन्वयागता भृत्या आपत्स्वपि पृष्ठगामिनो यद्यपि स्वमधिकारं न लभामहे तथापि देवपादानामेतद्युक्तं न भवति । उक्तं च
स्थानेष्वेव नियोक्तव्या भृत्या आभरणानि च ।
न हि चूडामणिः पादे प्रभवामीति बध्यते ॥१.७८॥
यतः
अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते ।
धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥१.७९॥
उक्तं च
असमैः समीयमानः समैश्च
परिहीयमाणसत्कारः ।
धुरि यो न युज्यमानस्त्रिभिर्
अर्थपतिं त्यजति भृत्यः ॥१.८०॥
यच्चाविवेकितया राज्ञा भृत्यानुत्तमपदयोग्यान् हीनाधमस्थाने नियोजयति, न ते तत्रैव स भूपतेर्दोषो न तेषाम् । उक्तं च
कनकभूषणसङ्ग्रहणोचितो
यदि मणिस्त्रपुणि प्रतिबध्यते ।
न स विरौति न चापि स शोभते
भवति योजयितुर्वचनीयता ॥१.८१॥
यच्च स्वाम्येवं वदति चिराद्दृश्यते । तदपि श्रूयताम्
सव्यदक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः ।
कस्तत्र क्षणमप्यार्यो विद्यमानगतिर्भवेत् ॥१.८२॥
काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते ।
न तेषां सन्निधौ भृत्यो नाममात्रोऽपि तिष्ठति ॥१.८३॥
परीक्षका यत्र न सन्ति देशे
नार्घन्ति रत्नानि समुद्रजानि ।
आभीरदेशे किल चन्द्रकान्तं
त्रिभिर्वराटैर्विपणन्ति गोपाः ॥१.८४॥
लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् ।
यत्र नास्ति कथं तत्र क्रियते रत्नविक्रयः ॥१.८५॥
निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते ।
तत्रोद्यमसमर्थानामुत्साहः परिहीयते ॥१.८६॥
न विना पार्थिवो भृत्यैर्न भृत्याः पार्थिवं विना ।
तेषां च व्यवहारोऽयं परस्परनिबन्धनः ॥१.८७॥
भृत्यैर्विना स्वयं राजा लोकानुग्रहकारिभिः ।
मयूखैरिव दीप्तांशुस्तेजस्व्यपि न शोभते ॥१.८८॥
अरैः सन्धार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः ।
स्वामिसेवकयोरेवं वृत्तिचक्रं प्रवर्तते ॥१.८९॥
शिरसा विधृता नित्यं स्नेहेन परिपालिताः ।
केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥१.९०॥
राजा तुष्टो हि भृत्यानामर्थमात्रं प्रयच्छति ।
ते तु संमानमात्रेण प्राणैरप्युपकुर्वते ॥१.९१॥
एवं ज्ञात्वा नरेन्द्रेण भृत्याः कार्या विचक्षणाः ।
कुलीनाः शौर्यसंयुक्ताः शक्ता भक्ताः क्रमागताः ॥१.९२॥
यः कृत्वा सुकृतं राज्ञो दुष्करं हितमुत्तमम् ।
लज्जया वक्ति नो किञ्चित्तेन राजा सहायवान् ॥१.९३॥
यस्मिन् कृत्यं समावेश्य निर्विशङ्केन चेतसा ।
आस्यते सेवकः स स्यात्कलत्रमिव चापरम् ॥१.९४॥
योऽनाहूतः समभ्येति द्वारि तिष्ठति सर्वदा ।
पृष्ठः सत्यं मितं ब्रूते स भृत्योऽर्हो महीभुजाम् ॥१.९५॥
अनादिष्टोऽपि भूपस्य दृष्ट्वा हानिकरं च यः ।
यतते तस्य नाशाय स भृत्योऽर्हो महीभुजाम् ॥१.९६॥
ताडितोऽपि दुरुक्तोऽपि दण्डितोऽपि महीभुजा ।
यो न चिन्तयते पापं स भृत्योऽर्हो महीभुजाम् ॥१.९७॥
न गर्वं कुरुते माने नापमाने च तप्यते ।
स्वाकारं रक्षयेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥१.९८॥
न क्षुधा पीड्यते यस्तु निद्रया न कदाचन ।
न च शीतातपाद्यैश्च स भृत्योऽर्हो महीभुजाम् ॥१.९९॥
श्रुत्वा सांग्रामिकीं वार्तां भविष्यां स्वामिनं प्रति ।
प्रसन्नास्यो भवेद्यस्तु स भृत्योऽर्हो महीभुजाम् ॥१.१००॥
सीमा वृद्धिं समायाति शुक्लपक्ष इवोडुराट् ।
नियोगसंस्थिते यस्मिन् स भृत्योऽर्हो महीभुजाम् ॥१.१०१॥
सीमा संकोचमायाति वह्नौ चर्म इवाहितम् ।
स्थिते यस्मिन् स तु त्याज्यो भृत्यो राज्यं समीहता ॥१.१०२॥
तथा शृगालोऽयमिति मन्यमानेन ममोपरि स्वामिना यद्यवज्ञा क्रियते तदप्ययुक्तम् । उक्तं च यतः
कौशेयं कृमिजं सुवर्णमुपलाद्दुर्वापि गोरोमतः
पङ्कात्तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् ।
काष्ठादग्निरहेः फणादपि मणिर्गोपित्ततो रोचना
प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥१.१०३॥
मूषिका गृहजातापि हन्तव्या स्वापकारिणी ।
भक्ष्यप्रदानैर्जारो हितकृत्प्राप्यते जनैः ॥१.१०४॥
एरण्डभिण्डार्कनलैः प्रभूतैरपि सञ्चितैः ।
दारुकृत्यं यथा नास्ति तथैवाज्ञैः प्रयोजनम् ॥१.१०५॥
किं भक्तेनासमर्थेन किं शक्तेर्नापकारिणा ।
भक्तं शक्तं च मां राजन्नावज्ञातुं त्वमर्हसि ॥१.१०६॥
पिङ्गलक आह भवत्वेवं तावत् । असमर्थः समर्थो वा चिरन्तनस्त्वमस्माकं मन्त्रिपुत्रः । तद्विश्रब्धं ब्रूहि यत्किञ्चिद्वक्तुकामः ।
दमनक आह देव जिज्ञाप्यं किञ्चिदस्ति ।
पिङ्गलक आह तन्निवेदयाभिप्रेतम् ।
सोऽब्रवीत्
अपि स्वल्पतरं कार्यं यद्भवेत्पृथिवीपतेः ।
तन्न वाच्यं सभामध्ये प्रोवाचेदं बृहस्पतिः ॥१.१०७॥
तदैकान्तिके मद्विज्ञाप्यमाकर्णयन्तु देवपादाः । यतः
षट्कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् ।
तस्मात्सर्वप्रयत्नेन षट्कर्णं वर्जयेत्सुधीः ॥१.१०८॥
अथ पिङ्गलकाभिप्रायज्ञा व्याघ्रद्वीपिवृकपुरःसरा सर्वेऽपि तद्वचः समाकर्ण्य संसदि तत्क्षणादेव दूरीभूताः । ततश्च दमनक आह उदकग्रहणार्थं प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम् ।
पिङ्गलक आह सविलक्षस्मितं न किञ्चिदपि ।
सोऽब्रवीत्देव यद्यनाख्येयं तत्तिष्ठतु । उक्तं च
दरिषु किञ्चित्स्वजनेषु किञ्चिद्
गोप्यं वयस्येषु सुतेषु किञ्चित् ।
युक्तं न वा युक्तमिदं विचिन्त्य
वदेद्विपश्चिन्महतोऽनुरोधात् ॥१.[*१००]
तच्छ्रुत्वा पिङ्गलकश्चिन्तयामास योग्योऽयं दृश्यते । तत्कथयाम्येतस्याग्रे आत्मनोऽभिप्रायम् । उक्तं च
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये ।
सुहृदि निरन्तरचित्ते निवेद्य दुःखं सुखी भवति ॥१.[*१०१]
भो दमनक शृणोषि शब्दं दूरान्महान्तम् ।
सोऽब्रवीत्स्वामिन् शृणोमि । तत्किम् ।
पिङ्गलक आह भद्र अहमस्माद्वनाद्गन्तुमिच्छामि ।
दमनक आह कस्मात् ।
पिङ्गलक आह यतोऽद्यस्मद्वने किमप्यपूर्वं सत्त्वं प्रविष्टं यस्यायं महाशब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यमिति ।
दमनक आह यच्छब्दमात्रादपि भयमुपगतः स्वामी तदप्ययुक्तम् । उक्तं च
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः ।
पैशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ॥१.१११॥
तन्न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरीवेणुवीनामृदङ्गतालपटहशङ्खकाहलादिभेदेन शब्दा अनेकविधा भवन्ति । तन्न केवलाच्छब्दमात्रादपि भेतव्यम् । उक्तं च
अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते ।
धैर्यं यस्य महीनाथो न स याति पराभवम् ॥१.११२॥
दर्शितभयेऽपि धातरि धैर्यध्वंसो भवेन्न धीराणाम् ।
शोषितसरसि निदाघे नितरामेवोद्धतः सिन्धुः ॥१.११३॥
तथा च
यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् ।
तं भुवनत्रयतिलकं जनयति जननी सुतं विरलम् ॥१.११४॥
तथा च
शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः ।
जन्निमो मानहीनस्य तृणस्य च समा गतिः ॥१.११५॥
अपि च
अन्यप्रतापमासाद्य यो दृढत्वं न गच्छति ।
जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥१.११६॥
तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्दमात्राद्भेतव्यम् । अपि च
पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा ।
अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥१.११७॥
पिङ्गलक आह कथमेतत् ।
सोऽब्रवीत्
कथा २
शृगालदुन्दुभिकथा
कश्चिद्गोमायुर्नाम शृगालः क्षुत्क्षामकण्ठः इतस्ततः परिभ्रमन् वने सैन्यद्वयसंग्रामभूमिमपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायुवशाद्वल्लीशाखाग्रैर्हन्यमानस्य शब्दमशृणोत् । अथ क्षुभितहृदयश्चिन्तयामास अहो विनष्टोऽस्मि । तद्यावन्नास्य प्रोच्चारितशब्दस्य दृष्टिगोचरे गच्छामि तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव ।
भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत् ।
कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥१.११८॥
तत्तावज्जानामि कस्यायं शब्दः । धैर्यमालम्ब्य विमर्शयन् यावन्मन्दं मन्दं गच्छति तावद्दुन्दुभिमपश्यत् । स च तं परिज्ञाय समीपं गत्वा स्वयमेव कौतुकादताडयत् । भूयश्च हर्षादचिन्तयतहो चिरादेतदस्माकं महोद्भोजनमापतितम् । तन्नूनं मांसमेदोऽसृग्भिः परिपूरितं भविष्यति । ततः परुषचर्मावगुण्ठितं तत्कथमपि विदार्यैकदेशे छिद्रं कृत्वा संहृष्टमना मध्ये प्रविष्टः । परं चर्मविदारणतो दंष्ट्राभङ्गः समजनि । अथ निराशीभूतस्तद्दारुशेषमवलोक्य श्लोकम्
एनमपठत्पूर्वमेव मया ज्ञातमिति । अतो न शब्दमात्राद्भेतव्यम् ।
पिङ्गलक आह भोः पश्यायं मम सर्वोऽपि परिग्रहो भयव्याकुलितमनाः पलायितुमिच्छति । तत्कथमहं धैर्यादवष्टम्भं करोमि ।
सोऽब्रवीत्स्वामिन्नैषामेष दोषः । यतः स्वामिसदृशा एवं भवन्ति भृत्याः । उक्तं च
अश्वः शस्त्रं शास्त्रं वीणा वाणी नरश्च नारी च ।
पुरुषविशेषं प्राप्ता भवन्त्ययोग्याश्च योग्याश्च ॥१.११९॥
तत्पौरुषावष्टं कृत्वा त्वं तावदत्रैव प्रतिपालय यावदहमेतच्छब्दस्वरूपं ज्ञात्वागच्छामि । ततः पश्चाद्यथोचितं कार्यमिति ।
पिङ्गलक आह किं तत्र भवान् गन्तुमुत्सहते ।
स आह किं स्वाम्यादेशात्सद्भृत्य कृत्याकृत्यमस्ति । उक्तं च
स्वाम्यादेशात्सुभृत्यस्य न भोः सञ्जायते क्वचित् ।
प्रविशेन्मुखमाहेयं दुस्तरं वा महार्णवम् ॥१.१२०॥
तथा च
स्वाम्यादिष्टस्तु यो भृत्यः समं विषममेव च ।
मन्यते न स सन्धार्यो भूभुजा भूतिमिच्छता ॥१.१२१॥
पिङ्गलक आह भद्रं, यद्येवं तद्गच्छ । शिवास्ते पन्थानः सन्तु इति ।
दमनकोऽपि तं प्रणम्य संजीवकशब्दानुषरी प्रतस्थे ।
अथ दमनके गते भयव्याकुलमनाः पिङ्गलकश्चिन्तयामास अहो न शोभनं कृतं मया । यत्तस्य विश्वासं गत्वात्माभिप्रायो निवेदितः । कदाचिद्दमनकोऽयमुभयवेतनो भूत्वा ममोपरि दुष्टबुद्धिः स्याद्भ्रष्टाधिकारत्वात् । उक्तं च
ये भवन्ति महीपस्य सम्मानितविमानिताः ।
यतन्ते तस्य नाशाय कुलीना अपि सर्वदा ॥१.१२२॥
तत्तावदस्य चिकीर्षितं वेत्तुमन्यत्स्थानान्तरं गत्वा प्रतिपालयामि । कदाचिद्दमनकस्तमादाय मां व्यापादयितुमिच्छति । उक्तं च
न बध्यन्ते ह्यविश्वस्ता बलिभिर्दुर्बला अपि ।
विश्वस्तास्त्वेव बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥१.१२३॥
बृहस्पतेरपि प्राज्ञो न विश्वासे व्रजेन्नरः ।
य इच्छेदात्मनो वृद्धिमायुष्यं च सुखानि च ॥१.१२४॥
शपथैः सन्धितस्यापि न विश्वासे व्रजेद्रिपोः ।
राज्यलाभोद्यतो वृत्रः शक्रेण शपथैर्हतः ॥१.१२५॥
न विश्वासं विना शत्रुर्देवानामपि सिद्ध्यति ।
विश्वासात्त्रिदशेन्द्रेण दितेर्गर्भो विदारितः ॥१.१२६॥
एवं सम्प्रधार्य स्थानान्तरं गत्वा दमनकमार्गमवलोकयन्नेकाकी तस्थौ । दमनकोऽपि सञ्जीवकसकाशं गत्वा वृषभोऽयमिति परिज्ञाय हृष्टमना व्यचिन्तयतहो शोभनमापतितम् । अनेनैतस्य सन्धिविग्रहद्वारेण मम पिङ्गलको वश्यो भविष्यतीति । उक्तं च
न कौलीन्यान्न सौहार्दान्नृपो वाक्ये प्रवर्तते ।
मन्त्रिणां वावदभ्येति व्यसनं शोकमेव च ॥१.१२७॥
सदैवापद्गतो राजा भोग्यो भवति मन्त्रिणाम् ।
अतएव हि वाञ्छन्ति मन्त्रिणः सापदं नृपम् ॥१.१२८॥
यथा नेच्छति नीरोगः कदाचित्सुचिकित्सकम् ।
तथापद्रहितो राजा सचिवं नाभिवाञ्छति ॥१.१२९॥
एवं विचिन्तयन् पिङ्गलकाभिमुखः प्रतस्थे । पिङ्गलकोऽपि तमायान्तं प्रेक्ष्य स्वाकारं रक्षन् यथापूर्वस्थितः दमनकोऽपि पिङ्गलकसकाशं गत्वा प्रणम्योपविष्टः । पिङ्गलक आह किं दृष्टं भवता तत्सत्त्वम् ?
दमनक आह दृष्टं स्वामिप्रसादात् ।
पिङ्गलक आह अपि सत्यम् ।
दमनक आह किं स्वामिपादानामग्रेऽसत्यं विज्ञाप्यते । उक्तं च
अपि स्वल्पमसत्यं यः पुरो वदति भूभुजाम् ।
देवानां च विनश्यते स द्रुतं सुमहानपि ॥१.१३०॥
तथा च
सर्वदेवमयो राजा मनुना सम्प्रकीर्तितः ।
तस्मात्तं देववत्पश्येन्न व्यलीकेन कर्हिचित् ॥१.१३१॥
सर्वदेवमयस्यापि विशेषो नृपतेरयम् ।
शुभाशुभफलं सद्यो नृपाद्देवाद्भवान्तरे ॥१.१३२॥
पिङ्गलक आह सत्यं दृष्टं भविष्यति भवता । न दीनिपरि महान्तः कुप्यन्तीति न त्वं तेन निपातितः । यतः
तृणानि नोन्मूलयति प्रभञ्जनो
म्र्डूनि नीचैः प्रणतानि सर्वतः ।
स्वभाव एवोन्नतचेतसामयं
महान्महत्स्वेव करोति विक्रमम् ॥१.१३३॥
अपि च
गण्डस्थलेषु मदवारिषु बद्धराग
मत्तभ्रमद्भ्रमरपादतलाहतोऽपि ।
कोपं न गच्छति नितान्तबलोऽपि नागस्
तुल्ये बले तु बलवान् परिकोपमेति ॥१.१३४॥
दमनक आह अस्त्वेवं स महात्मा । वयं कृपणाः । तथापि स्वामी यदि कथयति ततो भृत्यत्वे नियोजयामि ।
पिङ्गलक आह सोच्छ्वासं किं भवान् शक्नोत्येवं कर्तुम् ।
दमनक आह किमसाध्यं बुद्धेरस्ति । उक्तं च
न तच्छस्त्रैर्न नागेन्द्रैर्न हयैर्न पदातिभिः ।
कार्यं संसिद्धिमभ्येति यथा बुद्ध्या प्रसाधितम् ॥१.१३५॥
पिङ्गलक आह यद्येवं तर्ह्यमात्यपदेऽध्यारोपितस्त्वम् । अद्यप्रभृति प्रसादनिग्रहादिकं त्वयेव कार्यमिति निश्चयः ।
अथ दमनकः सत्वरं गत्वा साक्षेपं तमिदमाह एह्येहीतो दुष्टवृषभ । स्वामी पिङ्गलकस्त्वामाकारयति । किं निःशङ्को भूत्वा मुहुर्मुहुर्नदसि वृथा इति ।
तच्छ्रुत्वा सञ्जीवकोऽब्रवीत्भद्र कोऽयं पिङ्गलकः ।
दमनक आह किं स्वामिनं पिङ्गलकमपि न जानासि ? तत्क्षणं प्रतिपालय । फलेनैव ज्ञास्यसि । नन्वयं सर्वमृगपरिवृतो बटतले स्वामी पिङ्गलकनामा सिंहस्तिष्ठति ।
तच्छ्रुत्वा गतायुषमिवात्मानं मन्यमानः सञ्जीवकः परं विषादमगमत् । आह च भद्र भवान् साधुसमाचारो वचनपटुश्च दृश्यते । तद्यदि मामवश्यं तत्र नयसि तदभयप्रदानेन स्वामिनः सकाशात्प्रसादः कारयितव्यः ।
दमनक आहभोः सत्यमभिहितं भवता । नीतिरेषा यतः
पर्यन्तो लभ्यते भूमेः समुद्रस्य गिरेरपि ।
न कथञ्चिन्महीपस्य चित्तान्तः केनचित्क्वचित् ॥१.१३६॥
तत्त्वमत्रैव तिष्ठ यावदहं तं समये दृष्ट्वा ततः पश्चात्त्वामनयामि इति । तथानुष्ठिते दमनकः पिङ्गलकसकाशं गत्वेदमाहस्वामिन्न तत्प्राकृतं सत्त्वम् । स हि भगवतो महेश्वरस्य वाहनभूतो वृषभ इति । मया पृष्ट इदमूचे । महेश्वरेण परितुष्टेन कालिन्दीपरिसरे शष्पाग्राणि भक्षयितुं समादिष्टः । किं बहुना मम प्रदत्तं भगवता क्रीडार्थं वनमिदम् ।
पिङ्गलक आह सभयम्सत्यं ज्ञातं मयाधुना । न देवताप्रसादं विना शष्पभोजिनो व्यालाकीर्ण एवंविधे वने निःशङ्का नन्दतो भ्रमन्ति । ततस्त्वया किमभिहितम् ।
दमनक आहस्वामिनेतदभिहितं मया यदेतद्वनं चण्डिकावाहनभूतस्य पिङ्गलकस्य विषयीभूतम् । तद्भवानभ्यागतः प्रियोऽतिथिः । तत्तस्य सकाशं गत्वा भ्रातृस्नेहेनैकत्र भक्षणपानविहरणक्रियाभिरेकस्थानाश्रयेण कालो नेयः इति । ततस्तेनापि सर्वमेतत्प्रतिपन्नम् । उक्तं च सहर्षं स्वामिनः सकाशादभयदक्षिणा दापयितव्या इति । तदत्र स्वामी प्रमाणम् ।
तच्छ्रुत्वा पिङ्गलक आहसाधु सुमते साधु । मन्त्रि श्रोत्रिय साधु । मम हृदयेन सह संमन्त्र्य भवएदमभिहितम् । तद्दत्ता मया तस्याभयदक्षिणा । परं सोऽपि मदर्थेऽभयदक्षिणां याचयित्वा द्रुततरमानीयतामिति । अथ साधु चेदमुच्यते
अन्तःसारैरकुटिलैरच्छिद्रैः सुपरीक्षितैः ।
मन्त्रिभिर्धार्यते राज्यं सुस्तम्भैरिव मन्दिरम् ॥१.१३७॥
तथा च
मन्त्रिणां भिन्नसन्धाने भिषजां सान्निपातिके ।
कर्मणि व्यज्यते प्रज्ञा स्वस्थे को वा न पण्डितः ॥१.१३८॥
दमनकोऽपि तं प्रणम्य संजीवकसकाश प्रस्थितः सहर्षमचिन्तयतहो प्रसादसंमुखी नः स्वामी वचनवशगश्च संवृत्तः । तन्नास्ति धन्यतरो मम । उक्तं च
अमृतं शिशिरे वह्निरमृतं प्रियदर्शनम् ।
अमृतं राजसंमानममृतं क्षीरभोजनम् ॥१.१३९॥
अथ संजीवकसकाशमासाद्य सप्रश्रयमुवाचभो मित्र प्रार्थितोऽसौ मया भवदर्थे स्वाम्यभयप्रदानम् । तद्विश्रब्धं गम्यतामिति । परं त्वया राजप्रसादमासाद्य मया सह समयधर्मेण वर्तितव्यम् । न गर्वमासाद्य स्वप्रभुतया विचरणीयम् । अहमपि तव सङ्केतेन सर्वा राज्यधुरममात्यपदवीमाश्रित्योद्धरिष्यामि । एवं कृते द्वयोरप्यावयो राजलक्ष्मीभाग्या भविष्यति । यतः
आखेटकस्य धर्मेण विभवाः स्युर्वशे नॄणाम् ।
नृप्रजाः प्रेरयत्येको हन्त्यन्योऽत्र मृगानिव ॥१.१४० ॥
तथा च
यो न पूजयते गर्वादुत्तमाधममध्यमान् ।
नृपासन्नान् स मान्योऽपि भ्रश्यते दन्तिलो यथा ॥१.१४१॥
संजीवक आहकथमेतत्? सोऽब्रवीत्
कथा ३
दन्तिलगोरम्भकथा
अस्त्यत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नानाभाण्डपतिः सकलपुरनायकः प्रतिवसति स्म । तेन पुरकार्यं नृपकार्यं च कुर्वता तुष्टिं नीतास्तत्पुरवासिनो लोका नृपतिश्च । किं बहुना, न कोऽपि तादृक्केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यमेतदुक्तम्
नरपतिहितकर्ता द्वेष्यतां याति लोके
जनपदहितकर्ता त्यज्यते पार्थिवेन्द्रैः ।
इति महति विरोधे वर्तमाने समाने
नृपतिजनपदानां दुर्लभः कार्यकर्ता ॥१.१४२॥
अथैवं गच्छति काले दनित्लस्य कदाचिद्विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुरनिवासिनो राजसंनिधिलोकाश्च सम्मानपुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्वगृहमानीयाभ्यर्चितः । अथ तस्य नृपतेर्गृहसम्मार्जनकर्ता गोरम्भो नाम राजसेवको गृहायातोऽपि तेनानुचितस्थान उपविष्टोऽवज्ञायार्धचन्द्रं दत्त्वा निःसारितः । सोऽपि ततः प्रभृति निश्वसन्नपमानान्न रात्रावप्यधिशेते । कथं मया तस्य भाण्डपते राजप्रसादहानिः कर्तव्या इति चिन्तयन्नास्ते । अथवा किमनेन वृथा शरीरशोषणेन । न किंचिन्मया तस्यापकर्तुं शक्यम्
इति । अथवा साध्विदमुच्यते
यो ह्यपकर्तुमशक्तः कुप्यति
किमसौ नरोऽत्र निर्लज्जः ।
उत्पतितोऽपि हि चणकः शक्तः
किं भ्राष्ट्रकं भङ्क्तुम् ॥१.१४३॥
अथ कदाचित्प्रत्यूषे योगनिद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्निदमाहअहो दन्तिलस्य महद्दृप्तत्वं यद्राजमहिषीमालिङ्गति ।
तच्छ्रुत्वा राजा ससम्भ्रममुत्थाय तमुवाचभो भो गोरम्भ । सत्यमेतत्यत्त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति ।
गोरम्भः प्राहदेव ! रात्रिजागरणेन द्यूतासक्तस्य मे बलान्निद्रा समायाता । तन्न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्वगतमेष तावदस्मद्गृहेऽप्रतिहतगतिस्तथा दन्तिलोऽपि । तत्कदाचिदनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदमभिहितम् । उक्तं च
यद्वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा ।
तत्स्वप्नेऽपि तदभ्यासाद्ब्रूते वाथ करोति वा ॥१.१४४॥
तथा च
शुभं वा यदि पापं यन्नॄणां हृदि संस्थितम् ।
सुगूढमपि तज्ज्ञेयं स्वप्नवाक्यात्तथा मदात् ॥१.१४५॥
अथवा स्त्रीणां विषये कोऽत्र सन्देहः ।
जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥१.१४६॥
अन्यच्च
एकेन स्मितपाटलाधररुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्कुमुदिनीफुल्लोल्लसल्लोचनाः ।
दूरोदारचरित्रचित्रविभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वामभ्रुवाम् ॥१.१४७॥
तथा च
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचना ॥१.१४८॥
रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः ।
तेन नारद नारीणां सतीत्वमुपजायते ॥१.१४९॥
यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी ।
स तस्या वशगो नित्यं भवेत्क्रीडाशकुन्तवत् ॥१.१५०॥
तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्यपि ।
करोति सः कृतैर्लोके लघुत्वं याति सर्वतः ॥१.१५१॥
स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति ।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥१.१५२॥
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च ।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥१.१५३॥
नासां कश्चिदगम्योऽस्ति नासां च वयसि स्थितिः ।
विरूपं रूपवन्तं वा पुमानित्येव भुज्यते ॥१.१५४॥
रक्तो हि जायते भोग्यो नारीणां शाटिका यथा ।
घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥१.१५५॥
अलक्तिको यथा रक्तो निष्पीड्य पुरुषस्तथा ।
अबलाभिर्बलाद्रक्तः पादमूले निपात्यते ॥१.१५६॥
एवं स राजा बहुविधं विलप्य तत्प्रभृति दन्तिलस्य प्रसादपराङ्मुखः संजातः । किं बहुना राजद्वारप्रवेशोऽपि तस्य निवारितः । दन्तिलोऽप्यकस्मादेव प्रसादपराङ्मुखमवनिपतिमवलोक्य चिन्तयामासअहो साधु चेदमुच्यते
कोऽर्थान् प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः
स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोऽर्थी गतो गौरवं
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ॥१.१५७॥
तथा च
काके शौचं द्यूतकारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः ।
क्लीबे धैर्यं मद्यपे तत्त्वचिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥१.१५८॥
अपरं मयास्य भूपतेरथवान्यस्यापि कस्यचिद्राजसम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत्किमेतत्पराङ्मुखो मां प्रति भूपतिः इति ।
एवं तं दन्तिलं कदाचिद्राजद्वारे विष्कम्भितं विलोक्य संमार्जनकर्ता गोरम्भो विहस्य द्वारपालानिदमूचेभो भो द्वारपालाः ! राजप्रसादाधिष्ठितोऽयं दन्तिलः स्वयं निग्रहानुग्रहकर्ता च । तदनेन निवारितेन यथाहं तथा यूयमप्यर्धचन्द्रभाजिनो भविष्यथ । तच्छ्रुत्वा दन्तिलश्चिन्तयामासनूनमिदमस्य गोरम्भस्य चेष्टितम् । अथवा साध्विदमुच्यते
अकुलीनोऽपि मूर्खोऽपि भूपालं योऽत्र सेवते ।
अपि संमानहीनोऽपि स सर्वत्र प्रपूज्यते ॥१.१५९॥
अपि कापुरुषो भीरुः स्याच्चेन्नृपतिसेवकः ।
तथापि न पराभूतिं जनादाप्नोति मानवः ॥१.१६०॥
एवं स बहुविधं विलप्य विलक्षमनाः सोद्वेगो गतप्रभावः स्वगृहं निशामुखे गोरम्भमाहूय वस्त्रयुगलेन संमान्येदमुवाचभद्र ! मया न तदा त्वं रागवशान्निःसारितः । यतस्त्वं ब्राह्मणानामग्रतोऽनुचितस्थाने समुपविष्टो दृष्ट इत्यपमानितः । तत्क्षम्यताम् ।
सोऽपि स्वर्गराज्योपमं तद्वस्त्रयुगलमासाद्य परं परितोषं गत्वा तमुवाचभोः श्रेष्ठिन् ! क्षान्तं मया ते तत् । तदस्य संमानस्य कृते पश्य मे बुद्धिप्रभावं राजप्रसादं च । एवमुक्त्वा सपरितोषं निष्क्रान्तः । साधु चेदमुच्यते
स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् ।
अहो ससदृशो चेष्टा तुलायष्टेः खलस्य च ॥१.१६१॥
ततश्चान्येद्युः स गोरम्भो राजकुले गत्वा योगनिद्रां गतस्य भूपतेः संमार्जनक्रियां कुर्वन्निदमाहअहो अविवेकोऽस्मद्भूपतेः । यत्पुरीषोत्सर्गमाचरंश्चर्भटीभक्षणं करोति ।
तच्छ्रुत्वा राजा सविस्मयं तमुवाचरे रे गोरम्भ ! किमप्रस्तुतं लपसि । गृहकर्मकरं मत्वा त्वां न व्यापादयामि । किं त्वया कदाचिदहमेवंविधं कर्म समाचरन् दृष्टः ?
सोऽब्रवीत्द्यूतासक्तस्य रात्रिजागरणेन संमार्जनं कुर्वाणस्य मम बलान्निद्रा समायाता । तयाधिष्ठितेन मया किंचिज्जल्पितम् । तन्न वेद्मि । तत्प्रसादं करोतु स्वामी निद्रापरवशस्य इति ।
एवं श्रुत्वा राजा चिन्तितवान्यन्मया जन्मान्तरे पुरीषोत्सर्गं कुर्वता कदापि चिर्भटिका न भक्षिता । तद्यथायं व्यतिकरोऽसम्भाव्यो ममानेन मूढेन व्याहृतः । तथा दन्तिलस्यापीति निश्चयः । तन्मया न युक्तं कृतं यत्स वराकः संमानेन वियोजितः । न तादृक्पुरुषाणामेवंविधं चेष्टितं सम्भाव्यते । तदभावेन राजकृत्यानि पौरकृत्यानि न सर्वाणि शिथिलतां व्रजन्ति ।
एवमनेकधा विमृश्य दन्तिलं समाहूय निजाङ्गवस्त्राभरणादिभिः संयोज्य स्वाधिकारे नियोजयामास । अतोऽहं ब्रवीमि यो न पूजयते गर्वातिति ।
संजीवक आहभद्र एवमेवैतत् । यद्भवताभिहितं तदेव मया कर्तव्यमिति । एवमभिहिते दमनकस्तमादाय पिङ्गलकसकाशमगमत् । आह चदेव एष मयानीतः स संजीवकः । अधुना देवः प्रमाणम् । संजीवकोऽपि तं सादरं प्रणम्याग्रतः सविनयं स्थितः । पिङ्गलकोऽपि तस्य पीनायतककुद्मतो नखकुलिशालंकृतं दक्षिणपाणिमुपरि दत्त्वा मानपुरःसरमुवाचअपि शिवं भवतः । कुतस्त्वमस्मिन् वने विजने समायातोऽसि ?
तेनाप्यात्मकवृत्तान्तः कथितः । यथा वर्धमानेन सह वियोगः संजातस्तथा सर्वं निवेदितम् । तच्छ्रुत्वा पिङ्गलकः सादरतरं तमुवाचवयस्य न भेतव्यम् । मद्भुजपञ्जरपरिरक्षितेन यथेच्छं त्वयाधुना वर्तितव्यम् । अन्यच्च नित्यं मत्समीपवर्तिना भाव्यम् । यतः कारणाद्बह्वपायं रौद्रसत्त्वनिषेवितं वनं गुरूणामपि सत्त्वानामसेव्यम् । कुतः शष्पभोजिनाम् ।
एवमुक्त्वा सकलमृगपरिवृतो यमुनाकच्छमवतीर्योदकग्रहणं कृत्वा स्वेच्छया तदेव वनं प्रविष्टः । ततश्च करकटदमनकनिक्षिप्तराज्यभारः संजीविकेन सह सुभाषितगोष्ठीमनुभवन्नास्ते । अथवा साध्विदमुच्यते
यदृच्छयाप्युपनतं सकृत्सज्जनसङ्गतम् ।
भवत्यजरमत्यन्तं नाभ्यासक्रममीक्षते ॥१.१६२॥
संजीवकेनाप्यनेकशास्त्रावगाहनादुत्पन्नबुद्धिप्रागल्भ्येन स्तोकैरेवाहोभिर्मूढमतिः पिङ्गलको धीमांस्तथा कृतो यथारण्यधर्माद्वियोज्य ग्राम्यधर्मेषु नियोजितः । किं बहुना प्रत्यहं पिङ्गलकसंजीवकावेव केवलं रहसि मन्त्रयतः । शेषः सर्वोऽपि मृगजनो दूरीभूतस्तिष्ठति । करटकदमनकावपि प्रवेशं न लभेते । अन्यच्च सिंहपराक्रमाभावात्सर्वोऽपि मृगजनस्तौ च शृगालौ क्षुधाव्याधिबाधिता एकां दिशमाश्रित्य स्थिताः ।
उक्तं च
फलहीनं नृपं भृत्याः कुलीनमपि चोन्नतम् ।
सन्त्यज्यान्यत्र गच्छन्ति शुष्कं वृक्षमिवाण्डजाः ॥१.१६३॥
तथा च
अपि संमानसंयुक्ताः कुलीना भक्तितत्पराः ।
वृत्तिभङ्गान्महीपालं त्यजन्त्येव हि सेवकाः ॥१.१६४॥
अन्यच्च
कालातिक्रमणं वृत्तेर्यो न कुर्वीत भूपतिः ।
कदाचित्तं न मुञ्चन्ति भर्त्सिता अपि सेवकाः ॥१.१६५॥
तथा च केवलं सेवका इत्थम्भूता यावत्समस्तमप्येतज्जगत्परस्परं भक्षणार्थं सामादिभिरुपायैस्तिष्ठति । तद्यथा
देशानामुपरि क्ष्माभृदातुराणां चिकित्सकाः ।
वणिजो ग्राहकाणां च मूर्खाणामपि पण्डिताः ॥१.१६६॥
प्रमादिनां तथा चौरा भिक्षुका गृहमेधिनाम् ।
गणिकाः कामिनां चैव सर्वलोकस्य शिल्पिनः ॥१.१६७॥
सामादिसज्जितैः पाशैः प्रतीक्षन्ते दिवानिशम् ।
उपजीवन्ति शक्त्या हि जलजा जलदानिव ॥१.१६८॥
अथवा साध्विदमुच्यते
सर्पाणां च खलानां च परद्रव्यापहारिणाम् ।
अभिप्राया न सिध्यन्ति तेनेदं वर्तते जगत् ॥१.१६९॥
अत्तुं वाञ्छति शाम्भवो गणपतेराखुं क्षुधार्तः फणी
तं च क्रौञ्चरिपोः शिखी गिरिसुतासिंहोऽपि नागाशनम् ।
इत्थं यत्र परिग्रहस्य घटना शम्भोरपि स्याद्गृहे
तत्राप्यस्य कथं न भावि जगतो यस्मात्स्वरूपं हि तत् ॥१.१७०॥
ततः स्वामिप्रसादरहितौ क्षुत्क्षामकण्ठौ परस्परं करटकदमनकौ मन्त्रयेते । तत्र दमनको ब्रूतेआर्य करटक । आवां तावदप्रधानतां गतौ । एष पिङ्गलकः संजीवकानुरक्तः स्वव्यापारपराङ्मुखः संजातः । सर्वोऽपि परिजनो गतः । तत्किं क्रियते ।
करटक आहयद्यपि त्वदीयवचनं न करोति तथापि स्वामी स्वदोषनाशाय वाच्यः । उक्तं च
अशृन्वन्नपि बोद्धव्यो मन्त्रिभिः पृथिवीपतिः ।
यथा स्वदोषनाशाय विदुरेणाम्बिकासुतः ॥१.१७१॥
तथा च
मदोन्मत्तस्य भूपस्य कुञ्जरस्य च गच्छतः ।
उन्मार्गं वाच्यतां यान्ति महामात्राः समीपगाः ॥१.१७२॥
तत्त्वयैष शष्पभोजी स्वामिनः सकाशमानीतः । तत्स्वहस्तेनाङ्गाराः कर्षिताः ।
दमनक आहसत्यमेतत् । ममायं दोषः । न स्वामिनः । उक्तं च
जम्बूको हुडुयुद्धेन वयं चाषाढभूतिना ।
दूतिका परकार्येण त्रयो दोषाः स्वयं कृताः ॥१.१७३॥
करटक आहकथमेतत्?
सोऽब्रवीत्
कथा ४
देवशर्मपरिव्राजककथा
अस्ति कस्मिंश्चिद्विविक्तप्रदेशे मठायतनम् । तत्र देवशर्मा नाम परिव्राजकः पर्तिवसति स्म । तस्यानेकसाधुजनदत्तसूक्ष्मवस्त्रविक्रयवशात्कालेन महती वित्तमात्रा सञ्जाता । ततः स न कस्यचिद्विश्वसिति । नक्तं दिनं कक्षान्तरात्तां मात्रां न मुञ्चति । अथवा साधु चेदमुच्यते
अर्थानामर्जने दुःखमर्जितानां च रक्षणे ।
नाशे दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः ॥१.१७४॥
अथाषाढभूतिर्नाम परवित्तापहारी धूर्तस्तामर्थमात्रां तस्य कक्षान्तरगतां लक्षयित्वा व्यचिन्तयत्कथं मयास्येयमर्थमात्रा हर्तव्या इति ।
तदत्र मठे तावद्दृढशिलासञ्चयवशाद्भित्तिभेदो न भवति । उच्चैस्तरत्वाच्च द्वारे प्रवेशो न स्यात् । तदेनं मायावचनैर्विश्वास्याहं छात्रतां व्रजामि येन स विश्वस्तः कदाचिद्विश्वासमेति । उक्तं च
निस्पृहो नाधिकारी स्यान्नाकामी मण्डनप्रियः ।
नाविदग्धः प्रियं ब्रूयात्स्फुटवक्ता न वञ्चकः ॥१.१७५॥
एवं निश्चित्य तस्यान्तिकमुपगम्यओं नमः शिवायैति प्रोच्चार्य साष्टाङ्गं प्रणम्य च सप्रश्रयमुवाचभगवनसारः संसारोऽयम् । गिरिनदीवेगोपमं यौवनम् । तृणाग्निसमं जीवितम् । शरदभ्रच्छायासदृशा भोगाः स्वप्नसदृशो मित्रपुत्रकलत्रभृत्यवर्गसम्बन्धः । एवं मया सम्यक्परिज्ञातम् । तत्किं कुर्वतो मे संसारसमुद्रोत्तरणं भविष्यति ।
तच्छ्रुत्वा देवशर्मा सादरमाहवत्स ! धन्योऽसि यत्प्रथमे वयस्येवं विरक्तीभावः । उक्तं च
पूर्वं वयसि यः शान्तः स शान्त इति मे मतिः ।
धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥१.१७६॥
आदौ चित्ते ततः काये सतां संजायते जरा ।
असतां च पुनः काये नैव चित्ते कदाचन ॥१.१७७॥
यच्च मां संसारसागरोत्तरणोपायं पृच्छसि । तच्छ्रूयताम्
शूद्रो वा यदि वान्योऽपि चण्डालोऽपि जटाधरः ।
दीक्षितः शिवमन्त्रेण स भस्माङ्गी शिवो भवेत् ॥१.१७८॥
षडक्षरेण मन्त्रेण पुष्पमेकमपि स्वयम् ।
लिङ्गस्य मूर्ध्नि यो दद्यान्न स भूयोऽभिजायते ॥१.१७९॥
तच्छ्रुत्वाषाढभूतिस्तत्पादौ गृहीत्वा सप्रश्रयमिदमाहभगवन्, तर्हि दीक्षया मेऽनुग्रहं कुरु ।
देवशर्मा आहवत्स अनुग्रहं ते करिष्यामि । परन्तु रात्रौ त्वया मठमध्ये न प्रवेष्टव्यम् । यत्कारणं निःसङ्गता यतीनां प्रशस्यते तव च ममापि च । उक्तं च
दुर्मन्त्रान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालसाद्
विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
मैत्री चाप्रणयात्समृद्धिरनयात्स्नेहः प्रवासाश्रयात्
स्त्री गर्वादनवेक्षणादपि कृषिस्त्यागात्प्रमादाद्धनम् ॥१.१८०॥
तत्त्वया व्रतग्रहणानन्तरं मठद्वारे तृणकुटीरके शयितव्यमिति ।
स आहभगवन् ! भवदादेशः प्रमाणम् । परत्र हि तेन मे प्रयोजनम् ।
अथ कृतशयनसमयं देवशर्मनिग्रहं कृत्वा शास्त्रोक्तविधिना शिष्यतामनयत् । सोऽपि हस्तपादावमर्दनादिपरिचर्यया तं परितोषमनयत् । पुनस्तथापि मुनिः कक्षान्तरान्मात्रां न मुञ्चति । अथैवं गच्छति काले आषाढभूतिश्चिन्तयामासअहो, न कथञ्चिदेष मे विश्वासमागच्छति । तत्किं दिवापि शस्त्रेण मारयामि, किं वा विषं प्रयच्छामि ? किं वा पशुधर्मेण व्यापादयामि ? इति ।
एवं चिन्तयतस्तस्य देवशर्मणोऽपि शिष्यपुत्रः कश्चिद्ग्रामादामन्त्रणार्थं समायातः । प्राह चभगवन्, पवित्रारोपणकृते मम गृहमागम्यतामिति ।
तच्छ्रुत्वा देवशर्माषाढभूतिना सह प्रहृष्टमनाः प्रस्थितः । अथैवं तस्य गच्छतोऽग्रे काचिन्नदी समायाता । तां दृष्ट्वा मात्रां कक्षान्तरादवतार्य कन्थामध्ये सुगुप्तां निधाय स्नात्वा देवार्चनं विधाय तदनन्तरमाषाढभूतिमिदमाहभो आषाढभूते ! यावदहं पुरीषोत्सर्गं कृत्वा समागच्छामि, तावदेषा कन्था योगेश्वरस्य स्वावधानतया रक्षणीया । इत्युक्त्वा गतः ।
आषाढभूतिरपि तस्मिन्नदर्शनीभूते मात्रामादाय सत्वरं प्रस्थितः । देवशर्मापि छात्रगुणानुरञ्जितमनाः सुविश्वस्तो यावदुपविष्टस्तिष्ठति तावत्सुवर्णरोमदेहयूथमध्ये हुडुयुद्धमपश्यत् । अथ रोषवशाद्धुडुयुगलस्य दूरमपसरणं कृत्वा भूयोऽपि समुपेत्य लालटपट्टाभ्यां प्रहरतो भूरि रुधिरं पतति । तच्च जम्बूको जिह्वालौल्येन रङ्गभूमिं प्रावेश्यास्वादयति । देवशर्मापि तदालोक्य व्यचिन्तयतहो मन्दमतिरयं जम्बूकः । यदि कथमप्यनयोः सङ्घट्टे पतिष्यति तन्नूनं मृत्युमवाप्स्यतीति वितर्कयामि ।
क्षणान्तरे च तथैव रक्तास्वादनलौल्यान्मध्ये प्रविशंस्तयोः शिरःसम्पाते पतिओत्मृतश्च शृगालः । देवशर्मापि तं शोचमानो मात्रामुद्दिश्य शनैः शनैः प्रस्थितो यावदाषाढभूतिं न पश्यति ततश्चौत्सुक्येन शौचं विधाय यावत्कन्थामालोकयति तावन्मात्रां न पश्यति । ततश्चहा हा मुषितोऽस्मि इति जल्पन् पृथिवीतले मूर्च्छया निपपात । ततः क्षणाच्चेतनां लब्ध्वा भूयोऽपि समुत्थाय फूत्कर्तुमारब्धःभो आषाढभूते ! क्व मां वञ्चयित्वा गतोऽसि ? तद्देहि मे प्रतिवचनम् ।
एवं बहु विलप्य तस्य पदपद्धतिमन्वेषयन् शनैः शनैः प्रस्थितः । अथैव गच्छन् सायन्तनसमये कञ्चिद्ग्राममाससाद । अथ तस्माद्ग्रामात्कश्चित्कौलिकः सभार्ह्यो मद्यपानकृते समीपवर्तिनि नगरे प्रस्थितः । देवशर्मापि तमालोक्य प्रोवाचभो भद्र वयं सूर्योढा अतिथयस्तवान्तिकं प्राप्ताः । न कमप्यत्र ग्रामे जानीमः । तद्गृह्यतामतिथिधर्मः । उक्तं च
सम्प्राप्तो योऽतिथिः सायं सूर्योढे गृहमेधिनाम् ।
पूजया तस्य देवत्वं प्रयान्ति गृहमेधिनः ॥१.१८१॥
तथा च
तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
सतामेतानि हर्म्येषु नोच्छिद्यन्ते कदाचन ॥१.१८२॥
स्वागतेनाग्नयस्तृप्ता आसनेन शतक्रतुः ।
पादशौचेन पितरः अर्घाच्छम्भुस्तथातिथेः ॥१.१८३॥
कौलिकोऽपि तच्छ्रुत्वा भार्यामाहप्रिये, गच्छ त्वतिथिमादाय गृहं प्रति पादशौचभोजनशयनादिभिः सत्कृत्य त्वं तत्रैव तिष्ठ । अहं तव कृते प्रभूतमद्यमानेष्यामि । एवमुक्त्वा प्रस्थितः । सापि भार्या पुंश्चली तमादाय प्रहसितवदना देवदत्तं मनसि ध्यायन्ती गृहं प्रति प्रतस्थे । अथवा साधु चेदमुच्यते
दुर्दिवसे घनतिमिरे दुःसञ्चारासु नगरवीथीषु ।
पत्युर्विदेशगमने परमसुखं जघनचपलायाः ॥१.१८४॥
तथा च
पर्यङ्केष्वास्तरणं पतिमनुकूलं मनोहरं शयनम् ।
तृणमिव लघु मन्यन्ते कामिन्यश्चौर्यरतलुब्धाः ॥१.१८५॥
तथा च
केलिं प्रदहति लज्जा शृङ्गारोऽस्थीनि चाटवः कटवः ।
वन्धत्रयाः परितोषो न किंचिदिष्टं भवेत्पत्यौ ॥१.१८६॥
कुलपतनं जनगर्हां बन्धनमपि जीवितव्यसन्देहम् ।
अङ्गीकरोति कुलटा सततं परपुरुषसंसक्ता ॥१.१८७॥
अथ कौलिकभार्या गृहं गत्वा देवशर्मणे गतास्तरणं भग्नां च खट्वां समर्प्येदमाहभो भगवन् ! यावदहं स्वसखीं ग्रामादभ्यागतां सम्भाव्य द्रुतमागच्छामि तावत्त्वया मद्गृहेऽप्रमत्तेन भाव्यम् ।
एवमभिधाय शृङ्गारविधिं विधाय यावद्देवदत्तमुद्दिश्य व्रजति तावत्तद्भर्ता संमुखो मदविह्वलाङ्गो मुक्तकेशः पदे पदे प्रस्खलन् गृहीतमद्यभाण्डः समभ्येति । तं च दृष्ट्वा सा द्रुततरं व्याघुट्य स्वगृहं प्रविश्य नुक्तशृङ्गारवेशा यथापूर्वमभवत् । कौलिकोऽपि तां पलायमानां कृताद्भुतशृङ्गारां विलोक्य प्रागेव कर्णपरम्परया तस्याः श्रुतावपवादक्षुभितहृदयः स्वाकारं निगूहमानः सदैवास्ते । ततश्च तथाविधं चेष्टितमवलोक्य दृष्टप्रत्ययः क्रोधवशगो गृहं प्रविश्य तामुवाचआः पापे पुंश्चलि ! क्व प्रस्थितासि
?
सा प्रोवाचअहं त्वत्सकाशादागता न कुत्रचिदपि निर्गता । तत्कथं मद्यपानवशादप्रस्तुतं वदसि ? अथवा साध्विदमुच्यते
वैकल्यं धरणीपातमयथोचितजल्पनम् ।
संनिपातस्य चिह्नानि मद्यं सर्वाणि दर्शयेत् ॥१.१८८॥
करस्पन्दोऽम्बरत्यागस्तेजोहानिः सरागता ।
वारुणीसङ्गजावस्था भानुनाप्यनुभूयते ॥१.१८९॥
सोऽपि तच्छ्रुत्वा प्रतिकूलवचनं वेशविपर्ययं चावलोक्य तमाहपुंश्चलि ! चिरकालं श्रुतो मया तवापवादः । तदद्य स्वयं सञ्जातप्रत्ययस्तव यथोचितं निग्रहं करोमि । इत्यभिधाय लगुडप्रहारैस्तां जर्जरितदेहां विधाय स्थूणया सह दृढबन्धनेन बद्ध्वा सोऽपि मदविह्वलो विज्ञाय तां गत्वेदमाहसखि ! स देवदत्तस्तस्मिन् स्थाने त्वां प्रतीक्षते । तच्छीघ्रमागम्यतामिति ।
सा चाहपश्य ममावस्थाम् । तत्कथं गच्छामि ? तद्गत्वा ब्रूहि तं कामिनं यदस्यां रात्रौ न त्वया सह समागमः ।
नापिती प्राहसखि, मा मैवं वद । नायं कुलटाधर्मः । उक्तं च
विषमस्थस्वादुफलग्रहणव्यवसायनिश्चयो येषाम् ।
उष्ट्राणामिव तेषां मन्येऽहं शंसितं जन्म ॥१.१९०॥
तथा च
सन्दिग्धे परलोके जनापवादे च जगति बहुचित्रे ।
स्वाधीने पररमणे धन्यास्तारुण्यफलभाजः ॥१.१९१॥
अन्यच्च
यदि भवति देवयोगात्पुमान् विरूपोऽपि बन्धको रहसि ।
न तु कृच्छ्रादपि भद्रं निजकान्तं सा भजत्येव ॥१.१९२॥
साब्रवीत्यद्येवं तर्हि कथय कथं दृढबन्धनबद्धा सती तत्र गच्छामि । सन्निहितश्चायं पापात्मा मत्पतिः ।
नापित्याहसखि, मदविह्वलोऽयं सूर्यकरस्पृष्टः प्रबोधं यास्यति । तदहं त्वमुन्मोचयामि । मामात्मस्थाने बद्ध्वा द्रुततरं देवदत्तं सम्भाव्यागच्छ ।
साब्रवीतेवमस्तु इति ।
तदनु सा नापिती तां स्वसखीं बन्धनाद्विमोच्य तस्याः स्थाने यथापूर्वमात्मानं बद्ध्वा तां देवदत्तसकाशे सङ्केतस्थानं प्रेषितवती । तथानुष्ठिते कौलिकः कस्मिंश्चित्क्षणे समुत्थाय किंचिद्गतकोपो विमदस्तामाहहे परुषवादिनि ! यदद्यप्रभृति गृहान्निष्क्रमणं न करोषि, न च परुषं वदसि, ततस्त्वामुन्मोचयामि ।
नापित्यपि स्वरभेदभयाद्यावन्न किंचिदूचे, तावत्सोऽपि भूयो भूयस्तां तदेवाह । अथ सा यावत्प्रत्युत्तरं किमपि न ददौ, तावत्स प्रकुपितस्तीक्ष्णशस्त्रमादाय नासिकामच्छिनत् । आह चरे पुंश्चलि ! तिष्ठेदानीम् । त्वां भूयस्तोषयिष्यामि । इति जल्पन् पुनरपि निद्रावशमगात् ।
देवशर्मापि वित्तनाशात्क्षुत्क्षामकण्ठो नष्टनिद्रस्तत्सर्वं स्त्रीचरित्रमपश्यत् । सापि कौलिकभार्या यथेच्छया देवदत्तेन सह सुरतसुखमनुभूय कस्मिंश्चित्क्षणे स्वगृहमागतय तां नापितीमिदमाहअयि ! शिवं भवत्याः । नायं पापात्मा मम गताया उत्थितः ।
नापित्याहशिवं नासिकया विना शेषस्य शरीरस्य । तद्द्रुतं तां मोचय बन्धनाद्यावन्नायं मां पश्यति, येन स्वगृहं गच्छामि ।
तथानुष्ठिते भूयोऽपि कौलिक उत्थाय तामाहपुंश्चलि ! किमद्यापि न वदसि ? किं भूयोऽप्यतो दुष्टतरं निग्रहं कर्णच्छेदेन करोमि ?
अथ सा सकोपं साधिक्षेपमिदमाहधिङ्महामूढ ! को मां महासतीं धर्षयितुं व्यङ्गयितुं वा समर्थः ? तच्छृण्वन्तु सर्वेऽपि लोकपालाः ।
आदित्यचन्द्रहरिशंकरवासवाद्याः
शक्ता न जेतुमतिदुःखकराणि यानि ।
तानीन्द्रियाणि बलवन्ति सुदुर्जयानि
ये निर्जयन्ति भुवने बलिनस्त एके ॥१.१९३॥
तद्यदि मम सतीत्वमस्ति, मनसापि परपुरुषो नाभिलषितः, ततो देवा भूयोऽपि मे नासिकां तादृग्रूपाक्षतां कुर्वन्तु । अथवा यदि मम चित्ते परपुरुषस्य भ्रान्तिरपि भवति, मां भस्मसान्नयन्तु । एवमुक्त्वा भूयोऽपि तमाहभो दुरात्मन् ! पश्य मे सतीत्वप्रभावेण तादृश्येव नासिका संवृत्ता ।
अथासावुल्मुकमादाय यावत्पश्यति, तावत्तद्रूपां नासिकां च भूतले रक्तप्रवाहं च महान्तमपश्यत् । अथ स विस्मितमनास्तां बन्धनाद्विमुच्य शय्यायामारोप्य च चाटुशतैः पर्यतोषयत् । देवशर्मापि तं सर्ववृत्तान्तमालोक्य विस्मितमना इदमाह
शम्बरस्य च या माया या माया नमुचेरपि ।
बलेः कुम्भीनसश्चैव सर्वास्ता योषितो विदुः ॥१.१९४॥
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्त्यपि ।
अप्रियं प्रियवाक्यैश्च गृह्णन्ति कालयोगतः ॥१.१९५॥
उशना वेद यच्छास्त्रं यच्च वेद बृहस्पतिः ।
स्त्रीबुद्ध्या न विशिष्येते ताः स्म रक्ष्याः कथं नरैः ॥१.१९६॥
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् ।
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह ॥१.१९७॥
अन्यत्राप्युक्तम्
नातिप्रसङ्गः प्रमदासु कार्यो
नेच्छेद्बलं स्त्रीषु विवर्धमानम् ।
अतिप्रसक्तैः पुरुषैर्यतस्ताः
क्रीडन्ति काकैरिव लूनपक्षैः ॥१.१९८॥
सुमुखेन वदन्ति वगुना प्रहरन्त्येव शितेन चेतसा ।
मधु तिष्ठति वाचि योषितां हृदये हालाहलं महद्विषम् ॥१.१९९॥
अत एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ।
पुरुषैः सुखलेशवञ्चितैर्मधुलुब्धैः कमलं यथालिभिः ॥१.२००॥
अपि च
आवर्तः संशयानामविनयभवनं पत्तनं साहसानां दोषाणां संनिधानं कपटशतमयं क्षेत्रमप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नं नरकपुरमुखं सर्वमायाकरण्डं स्त्रीयन्त्रं केन सृष्टं विषममृतमयं प्राणिलोकस्य पाशः ॥१.२०१॥
कार्कश्यं स्तनयोर्दृशोस्तरलतालीकं मुखे श्लाघ्यते कौटिल्यं कचसंचये च वचने मान्द्यं त्रिके स्थूलता ।
भीरुत्वं हृदये सदैव कथितं मायाप्रयोगः प्रिये यासां दोषगणो गुणो मृगदृशां ताः स्युर्नराणां प्रियाः ॥१.२०२॥
एता हसन्ति च रुदन्ति च कार्यहेतोर्
विश्वासयन्ति च परं न च विश्वसन्ति ।
तस्मान्नरेण कुलशीलसमन्वितेन नार्यः श्मशानघटिका इव वर्जनीयाः ॥१.२०३॥
तस्मान्नरेण कुलशीलवता सदैव
नार्यः श्मशानवटिका इव वर्जनीयाः ।
व्यकीर्णकेसरकरालमुखा मृगेन्द्रा
नागाश्च भूरिमदराजविराजमानाः ॥१.२०४॥
कुर्वन्ति तावत्प्रथमं प्रियाणि
यावन्न जानन्ति नरं प्रसक्तम् ।
ज्ञात्वा च तं मन्मथपाशबद्धं
ग्रस्तामिषं मीनमिवोद्धरन्ति ॥१.२०५॥
समुद्रवीचीव चलस्वभावाः
सन्ध्याभ्ररेखेव मुहूर्तरागाः ।
स्त्रियः कृतार्थाः पुरुषं निरर्थं
निष्पीडोतालक्तकवत्त्यजन्ति ॥१.२०६॥
अनृतं साहसं माया मूर्खत्वमतिलुब्धता ।
अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥१.२०७॥
सम्मोहयन्तिमदयन्ति विडम्बयन्ति
निर्भर्स्तयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सरलं हृदयं नराणां
किं वा न वामनयना न समाचरन्ति ॥१.२०८॥
अन्तर्विषमया ह्येता बहिश्चैव मनोरमाः ।
गुञ्जाफलसमाकारा योषितः केन निर्मिताः ॥१.२०९॥
एवं चिन्तयतस्तस्य परिव्राजकस्य सा निशा महता कृच्छ्रेणातिचक्राम । सा च दूतिका छिन्ननासिका स्वगृहं गत्वा चिन्तयामासकिमिदानीं कर्तव्यम् ? कथमेतन्महच्छिद्रं स्थगयितव्यम् ?
अथ तस्या एवं विचिन्तयन्त्या भर्ता कार्यवशाद्राजकुले पर्युषितः प्रत्यूषे च स्वगृहमभ्युपेत्य द्वारदेशस्थो विविधपौरकृत्योत्सुकतया तामाहभद्रे शीघ्रमानीयतां क्षुरभाण्डं येन क्षौरकर्मकरणाय गच्छामि ।
सापि छिन्ननासिका गृहमध्यस्थितैव कार्यकरणापेक्षया क्षुरभाण्डात्क्षुरमेकं समाकृष्य तस्याभिमुखं प्रेषयामास । नापितोऽप्युत्सुकतया तमेकं क्षुरमवलोक्य कोपाविष्टः सन् तदभिमुखमेव तं क्षुरं प्राहिणोत् । एतस्मिन्नन्तरे सा दुष्टोर्ध्वबाहू विधाय फुतकर्तुमना गृहान्निश्चक्राम । अहो पश्यत पापेनानेन मम सदाचारवर्तिन्याः नासिकाच्छेदो विहितः । तत्परित्रायतां परित्रायताम् ।
अत्रान्तरे राजपुरुषाः समभ्येत्य तं नापितं लगुडप्रहारैर्जर्जरीकृत्य दृढबन्धनैर्बद्ध्वा तया छिन्ननासिकया सह धर्माधिकरणस्थानं नीत्वा सभ्यानूचुःशृण्वन्तु भवन्तः सभासदः । अनेन नापितेनापराधं विना स्त्रीरत्नमेतद्व्यङ्गितम् । तदस्य यद्युज्यते तत्क्रियताम् ।
इत्यभिहिते सभ्या ऊचुःरे नापित ! किमर्थं त्वया भार्या व्यङ्गिता । किमनया परपुरुषोऽभिलषितः । उन्त स्वित्प्राणद्रोहः कृतः, किं वा चौर्यकर्माचरितम् । तत्कथ्यतामस्या अपराधः ?
नापितोऽपि प्रहारपीडिततनुर्वक्तुं न शशाक । अथ तं तूष्णींभूतं दृष्ट्वा पुनरूचुःहो, सत्यमेतद्राजपुरुषाणां वचः । पापात्मायम् । अनेनेयं निर्दोषा वराकी दूषिता । उक्तं च
भिन्नस्वरमुखवर्णः शङ्कितदृष्टिः समुत्पतिततेजाः ।
भवति हि पापं कृत्वा स्वकर्मसन्त्रासितः पुरुषः ॥१.२१०॥
तथा च
आयाति स्खलितैः पादैर्मुखवैवर्ण्यसंयुतः ।
ललाटस्वेदभाग्भूरिगद्गदं भाषते वचः ॥१.२११॥
अधोदृष्टिर्वदेत्कृत्वा पापं प्राप्तः सभां नरः ।
तस्माद्यत्नात्परिज्ञेयाश्चिह्नैरेतैर्विचक्षणैः ॥१.२१२॥
अन्यच्च
प्रसन्नवदनो दृष्टः स्पष्टवाक्यः सरोषदृक् ।
सभायां वक्ति सामर्षं सावष्टम्भो नरः शुचिः ॥१.२१३॥
तदेष दुष्टचरित्रलक्षणो दृश्यते । स्त्रीधर्सणाद्वध्य इति । तच्छूलीयामारोप्यतामिति ।
अथ वध्यस्थाने नीयमानं तमवलोक्य देवशर्मा तान् धर्माधिकृतान् गत्वा प्रोवाचभो भोः, अन्यान्येनैष वराको वध्यते नापितः । साधुसमाचार एषः । तच्छ्रूयतां मे वाक्यम्जम्बूको हुडुयुद्धेन इति ।
अथ ते सभ्या ऊचुःभो भगवन् ! कथमेतत्?
ततो देवशर्मा तेषां त्रयाणामपि वृत्तान्तं विस्तरेणाकथयत् । तदाकर्ण्य सुविस्मितमनसस्ते नापितं विमोच्य मिथः प्रोचुःहो !
अवध्या ब्राह्मणा गावो स्त्रियो बालाश्च ज्ञातयः ।
येषां चान्नानि भुञ्जीत ये च स्युः शरणागताः ॥१.२१४॥
तदस्या नासिकाच्छेदः स्वकर्मणा हि संवृत्तः । ततो राजनिग्रहस्तु कर्णच्छेदः कार्यः । तथानुष्ठिते देवशर्मापि वित्तनाशसमुद्भूतशोकरहितः पुनरपि स्वकीयं मठायतनं जगाम । अतोऽहं ब्रवीमिजम्बूको हुडुयुद्धेन (१.१७४) इति ।
करटक आहएवंविधे व्यतिकरे किं कर्तव्यमावयोः ?
दमनकोऽब्रवीतेवंविधेऽपि समये मम बुद्धिस्फुरणं भविष्यति, येन सञ्जीवकं प्रभोर्विश्लेषयिष्यामि । उक्तं च, यतः
एकं हन्यान्न वा हन्यादिषुः क्षिप्तो धनुष्मता ।
प्राज्ञेन तु मतिः क्षिप्ता हन्याद्गर्भगतानपि ॥१.२१५॥
तदहं मायाप्रपञ्चेन गुप्तमाश्रित्य तं स्फोटयिष्यामि ।
करटक आहभद्र, यदि कथमपि तव मायाप्रवेशं पिङ्गलको ज्ञास्यति, सञ्जीवको वा तदा नूनं विघात एव ।
सोऽब्रवीत्तात, मैवं वद । गूढबुद्धिभिरापत्काले विधुरेऽपि दैवे बुद्धिः प्रयोक्तव्या । नोद्यमस्त्याज्यः । कदाचिद्घुणाक्षरन्यायेन बुद्धेः साम्राज्यं भवति । उक्तं च
त्याज्यं न धैर्यं विधुरेऽपि दैवे
धैर्यात्कदाचित्स्थित्माप्नुयात्सः ।
याते समुद्रेऽपि हि पोतभङ्गे
सांयात्रिको वाञ्छति कर्म एव ॥१.२१६॥
तथा च
उद्योगिनं सततमत्र समेति लक्ष्मीर्
दैवं हि दैवमिति कापुरुषा वदन्ति ।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥१.२१७॥
तदेवं ज्ञात्वा सुगूढबुद्धिप्रभावेण यथा तौ द्वावपि न ज्ञास्यतः, तथा मिथो वियोजयिष्यामि । उक्तं च
सुप्रयुक्तस्य दम्भस्य ब्रह्माप्यन्तं न गच्छति ।
कौलिको विष्णुरूपेण राजकन्यां निषेवते ॥१.२१८॥
करटक आहकथमेतत्?
सोऽब्रवीत्
कथा ५
कौलिकरथकारकथा
कस्मिंश्चिदधिष्ठाने कौलिकरथकारौ मित्रे प्रतिवसतः स्म । तत्र च बाल्यात्प्रभृति सहचारिणौ परस्परमतीव स्नेहपरौ सदैकस्थानविहारिणौ कालं नयतः । अथ कदाचित्तत्राधिष्ठाने कस्मिंश्चिद्देवायतने यात्रामहोत्सवः संवृत्तः । तत्र च नटनर्तकचारणसङ्कुले नानादेशागतजनावृते तौ सहचरौ भ्रमन्तौ काञ्चिद्राजकन्यां करेणुकारूढां सर्वलक्षणसनाथां कञ्चुकिवर्षधरपरिवारितां देवतादर्शनार्थं समायातां दृष्टवन्तौ । अथासौ कौलिकस्तां दृष्ट्वा विषार्दित इव दुष्टग्रहगृहीत इइव कामशरैर्हन्यमानः
सहसा भूतले निपपात । अथ तं तदवस्थमवलोक्य रथकारस्तद्दुःखदुःखित आप्तपुरुषैस्तं समुत्क्षिप्य स्वगृहमानाययत् । तत्र च विविधैः शीतोपचारैश्चिकित्सकोपदिष्टैर्मन्त्रवादिभिरुपचर्यमाणैश्चिरात्कथंचित्सचेतनो बभूव ।
ततो रथकारेण पृष्टःभो मित्र ! किमेवं त्वमकस्माद्विचेतनः सञ्जातः ? तत्कथ्यतामात्मस्वरूपम् ?
स आहवयस्य ! यद्येवं तच्छृणु मे रहस्यं येन सर्वामात्मवेदनां ते वदामि । यदि त्वं मां सुहृदं मन्यसे ततः काष्ठप्रदानेन प्रसादः क्रियताम् । क्षम्यतां यद्वा किञ्चित्प्रणय्>अतिरेकादयुक्तं तव मयानुष्ठितम् ।
सोऽपि तदाकर्ण्य बाष्पपिहितनयनः सगद्गदमुवाचवयस्य, यत्किञ्चिद्दुःखकारणं तद्वद येन प्रतीकारः क्रियते, यदि शक्यते कर्तुम् । उक्तं च
औषधार्थसुमन्त्राणां बुद्धेश्चैव महात्मनाम् ।
असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ॥१.२१९॥
तदेषां चतुर्णां यदि साध्यं भविष्यति तदाहं साधयिष्यामि ।
कौलिक आहवयस्य, एतेषामन्येषामपि सहस्राणामुपायानामसाध्यं तन्मे दुःखम् । तस्मान्मम मरणे मा कालक्षेपं कुरु ।
रथकार आहभो मित्र ! यद्यप्यसाध्यं तथापि निवेदय येनाहमपि तदसाध्यं मत्वा त्वया समं वह्नौ प्रविशामि । न क्षणमपि त्वद्वियोगं सहिष्ये । एष मे निश्चयः ।
कौलिक आहवयस्य, यासौ राजकन्या करेणुमारूढा तत्रोत्सवे दृष्टा, तस्या दर्शनानन्तरं मकरध्वजेन ममेयमवस्था विहिता । तन्न शक्नोमि तद्वेदनां सोढुम् । तथा चोक्तम्
मत्तेभकुम्भपरिणाहिनि कुङ्कुमार्द्रे
तस्याः पयोधरयुगे रतिखेदखिन्नः ।
वक्षो निधाय भुजपञ्जरमध्यवर्ती
स्वप्स्ये कदा क्षणमवाप्य तदीयसङ्गम् ॥१.२२०॥
तथा च
रागी बिम्बाधरोऽसौ स्तनकलशयुगं यौवनारूढगर्वं
नीचा नाभिः प्रकृत्या कुटिलकमलकं स्वल्पकं चापि मध्यम् ।
कुर्वत्वेतानि नाम प्रसभमिह मनश्चिन्तितान्याशु खेदं
यन्मां तस्याः कपोलौ दहत इति मुहुः स्वच्छकौ तन्न युक्तम् ॥१.२२१॥
रथकारोऽप्येवं सकामं तद्वचनमाकर्ण्य सस्मितमिदमाहवयस्य ! यद्येवं तर्हि दिष्ट्या सिद्धं नः प्रयोजनम् । तदद्यैव तया सह समागमः क्रियतामिति ।
कौलिक आहवयस्य, यत्र कन्यान्तःपुरे वायुं मुक्त्वा नान्यस्य प्रवेशोऽस्ति तत्र रक्षापुरुषाधिष्ठिते कथं मम तस्या सह समागमः ? तत्किं मामसत्यवचनेन विडम्बयसि ?
रथकार आहमित्र, पश्य मे बुद्धिबलम् ।
एवमभिधाय तत्क्षणात्कीलसञ्चारिणं वैनतेयं बाहुयुगलं वायुजवृक्षदारुणा शङ्खचक्रगदापद्मान्वितं सकिरीटकौस्तुभमघटयन् । ततस्तस्मिन् कौलिकं समारोप्य विष्णुचिह्नितं कृत्वा कीलसञ्चरणविज्ञानं च दर्शयित्वा प्रोवाचवयस्य, अनेन विष्णुरूपेण गत्वा कन्यान्तःपुरे निशीथे तां राजकन्यामेकाकिनीं सप्तभूमिकप्रासादप्रान्तगतां मुग्धस्वभावां त्वां वासुदेवं मन्यमानां स्वकीयमिथ्यावक्रोक्तिभी रञ्जयित्वा वात्स्यायनोक्तविधिना भज ।
कौलिकोऽपि तदाकर्ण्य तथारूपस्तत्र गत्वा तामाहराजपुत्रि, सुप्ता किं वा जागर्षि ? अहं तव कृते समुद्रात्सानुरागो लक्ष्मीं विहायैवागतः । तत्क्रियतां मया सह समागमः इति ।
सापि गरुडारूढं चतुर्भुजं सायुधं कौस्तुभोपेतमवलोक्य सविस्मया शयनादुत्थाय प्रोवाचभगवन् ! अहं मानुषी कीटिकाशुचिः । भगवांस्त्रैलोक्यपावनो वन्दनीयश्च । तत्कथमेतद्युज्यते ।
कौलिक आहसुभगे, सत्यमभिहितं भवत्या । परं किं तु राधा नाम मे भार्या गोपकुलप्रसूता प्रथम आसीत् । सा त्वमत्रावतीर्णा । तेनाहमत्रायातः ।
इत्युक्ता सा प्राहभगवन्, यद्येवं तन्मे तातं प्रार्थय । सोऽप्यविकल्पं मां तुभ्यं प्रयच्छति ।
कौलिक आहसुभगे, नाहं दर्शनपथं मानुषाणां गच्छामि । किं पुनरालापकरणम् । त्वं गान्धर्वेण विव्हानेआत्मानं प्रयच्छ । नो चेच्छापं दत्त्वा सान्वयं ते पितरं भस्मसात्करिष्यामि इति । एवमभिधाय गरुडादवतीर्य सव्ये पाणौ गृहीत्वा तां सभयां सलज्जां वेपमानां शय्यायामानयत् । ततश्च रात्रिशेषं यावद्वात्स्यायनोक्तविधिना निषेव्य प्रत्यूषे स्वगृहमलक्षितो जगाम ।
एवं तस्य तां नित्यं सेवमानस्य कालो याति । अथ कदाचित्कञ्चुकिनस्तस्या अधरोष्ठप्रवालखण्डनं दृष्ट्वा मिथः प्रोचुःहो ! पश्यतास्या राजकन्यायाः पुरुषोपभुक्ताया इव शरीरावयवा विभाव्यन्ते । तत्कथमयं सुरक्षितेऽप्यस्मिन् गृह एवंविधो व्यवहारः । तद्राज्ञे निवेदयामः ।
एवं निश्चित्य सर्वे समेत्य राजानं प्रोचुःदेव ! वयं न विद्मः । परं सुरक्षितेऽपि कन्यान्तःपुरे कश्चित्प्रविशति । तद्देवः प्रमाणमिति । तच्छ्रुत्वा राजातीव व्याकुलितचित्तो व्यचिन्तयत्
पुत्रीति जाता महतीह चिन्ता
कस्मै प्रदेयेति महान् वितर्कः ।
दत्त्वा सुखं प्राप्स्यति वा न वेति
कन्यापितृत्वं खलु नाम कष्टम् ॥१.२२२॥
नद्यश्च नार्यश्च सदृक्प्रभावास्
तुल्यानि कूलानि कुलानि तासाम् ।
तोयैश्च दोषैश्च निपातयन्ति
नद्यो हि कूलानि कुलानि नार्यः ॥१.२२३॥
जननीमनो हरति जातवती
परिवर्धते सह शुचा सुहृदाम् ।
परसात्कृतापि कुरुते मलिनं
दुरितक्रमा दुहितरो विपदः ॥१.२२४॥
एवं बहुविधं विचिन्त्य देवीं रहःस्थां प्रोवाचदेवि, ज्ञायतां किमेते कञ्चुकिनो वदन्ति ? तस्य कृतान्तः कुपितो येनैतदेवं क्रियते ।
देव्यपि तदाकर्ण्य व्याकुलीभूता सत्वरं कन्यान्तःपुरे गत्वा तां खण्डिताधरां नखविलिखितशरीरावयवां दुहितरमपश्यत् । आह चआः पापे ! कुलकलङ्ककारिणि ! किमेव शीलखण्डनं कृतम् । कोऽयं कृतान्तावलोकितस्त्वत्सकाशमभ्येति । तत्कथ्यतां ममाग्रे सत्यम् ।
इति कोपाटोपविसङ्कटं वदत्यां मातरि राजपुत्री भयलज्जानताननं प्रोवाचअम्ब, साक्षान्नारायणः प्रत्यहं गरुडारूढो निशि समायाति । चेदसत्यं मम वाक्यम्, तत्स्वचक्षुषा विलोकयतु निगुढतरा निशीथे भगवन्तं रमाकान्तम् ।
तच्छ्रुत्वा सापि प्रहसितवदना पुलकाङ्कितसर्वाङ्गी सत्वरं राजानमूचेदेव, दिष्ट्या वर्धसे । नित्यमेव निशीथे भगवान्नारायणः कन्यकापार्श्वेऽभ्येति । तेन गान्धर्वविवाहेन सा विवाहिता । तदद्य त्वया मया च रात्रौ वातायनगताभ्यां निशीथे द्रष्टव्यः । यतो न स मानुषैः सहालापं करोति ।
तच्छ्रुत्वा हर्षितस्य राज्ञस्तद्दिनं वर्षशतप्रायमिव कथञ्चिज्जगाम । ततस्तु रात्रौ निभृतो भूत्वा राज्ञीसहितो राजा वातायनस्स्थो गगनासक्तदृष्टिर्यावत्तिष्ठति, तावत्तस्मिन् समये गरुडारूढं तं शङ्कचक्रगदापद्महस्तं यथोक्तचिह्नाङ्कितं व्योम्नोऽवतरन्तं नारायणमपश्यत् । ततः सुधापूरप्लावितमिवात्मानं मन्यमानस्तामुवाचप्रिये ! नास्त्यन्यो धन्यतरो लोके मत्तस्त्वत्तश्च । तत्प्रसूतिं नारायणो भजते । तत्सिद्धाः सर्वेऽस्माकं मनोरथाः । अधुना जामातृप्रभावेण सकलामपि वसुमतीं वश्यां करिष्यामि ।
एवं निश्चित्य सर्वैः सीमाधिपैः सह मर्यादाव्यतिक्रममकरोत् । ते च तं मर्यादाव्यतिक्रमेण वर्तमानमालोक्य सर्वे समेत्य तेन सह विग्रहं चक्रुः ।
अत्रान्तरे स राजा देवीमुखेन तां दुहितरमुवाचपुत्रि, त्वयि दुहितरि वर्तमानायां नारायणे भगवति जामातरि स्थिते तत्किमेवं युज्यते यत्सर्वे पार्थिवा मया सह विग्रहं कुर्वन्ति । तत्सम्बोध्योऽद्य त्वया निजभर्ता, यथा मम शत्रून् व्यापादयति ।
ततस्तया स कौलिको रात्रौ सविनयमभिहितःभगवन्, त्वयि जामातरि स्थिते मम तातो यच्छत्रुभिः परिभूयते तन्न युक्तम् । तत्प्रसादं कृत्वा सर्वांस्तान् शत्रून् व्यापादय ।
कौलिक आहसुभगे ! कियन्मात्रास्त्वेते तव पितुः शत्रवः । तद्विश्वस्ता भव । क्षणेनापि सुदर्शनचक्रेण सर्वांस्तिलशः खण्डयिष्यामि ।
अथ गच्छता कालेन सर्वदेशं शत्रुभिरुद्वास्य स राजा प्राकारशेषः कृतः । तथापि वासुदेवरूपधरं कौलिकमजानन् राज नित्यमेव विशेषतः कर्पूरागुरुकस्तूरिकादिपरिमलविशेषान्नानाप्रकारवस्त्रपुष्पभक्ष्यपेयांश्च प्रेषयन् दुहितृमुखेन तमूचेभगवन्, प्रभाते नूनं स्थानभङ्गो भविष्यति । यतो यवसेन्धनक्षयः सञ्जातस्तथा सर्वोऽपि जनः प्रहारैर्जर्जरितदेहः संवृत्तो योद्धुमक्षमः प्रचुरो मृतश्च । तदेवं ज्ञात्वात्र काले यदुचितं भवति तद्विधेयमिति ।
तच्छ्रुत्वा कौलिकोऽप्यचिन्तयत्स्थानभङ्गे जाते ममानया सह वियोगो भविष्यति ‘ तस्माद्गरुडमारुह्य सायुधमात्मानमाकाशे दर्शयामि । कदाचिन्मां वासुदेवं मन्यमानास्ते साशङ्का राज्ञो योद्धृभिर्हन्यते । उक्तं च
निर्विषेणापि सर्पेण कर्तव्या महती फणा ।
विषं भवतु वा माभूत्फणाटोपो भयङ्करः ॥१.२२५॥
अथ यदि मम स्थानार्थमुद्यतस्य मृत्युर्भविष्यति तदपि सुन्दरतरम् । उक्तं च
गवामर्थे ब्राह्मणार्थे स्वाम्यर्थे स्वीकृतेऽथवा ।
स्थानार्थे यस्त्यजेत्प्राणांस्तस्य लोकाः सनातनाः ॥१.२२६॥
चन्द्रे मण्डलसंस्थे विगृह्यते राहुणा दिनाधीशः ।
शरणागतेन सार्धं विपदपि तेजस्विना श्लाघ्या ॥१.२२७॥
एवं निश्चित्य प्रत्यूषे दन्तधावनं कृत्वा तां प्रोवाचसुभगे ! समस्तैः शत्रुभिर्हतैरन्नं पानं चास्वादयिष्यामि । किं बहुना, त्वयापि सह सङ्गमं ततः करिष्यामि । परं वाच्यस्त्वयात्मपिता यत्प्रभाते प्रभूतेन सैन्येन सह नगरान्निष्क्रम्य योद्धव्यम् । अहं चाकाशस्थित एव सर्वांस्तान्निस्तेजसः करिष्यामि । पश्चात्सुखेन भवता हन्तव्याः यदि पुनरहं तान् स्वयमेव सूदयामि तत्तेषां पापात्मनां वैकुण्ठीया गतिः स्यात् । तस्मात्ते तथा कर्तव्या यथा पलायन्तो हन्यमानाः स्वर्गं न गच्छन्ति ।
सापि तदाकर्ण्य पितुः समीपं गत्वा सर्वं वृत्तान्तं न्यवेदयत् । राजापि तस्या वाक्यं श्रद्दधानः प्रत्यूषे समुत्थाय समुन्नद्धसैन्यो युद्धार्थं निश्चक्राम । कौलिकोऽपि मरणे कृतनिश्चयश्चापपाणिर्गगनगतिर्गरुडारूढो युद्धाय प्रस्थितः ।
अत्रान्तरे भगवता नारायणेनातीतानागतवर्तमानवेदिना, स्मृतमात्रो वैनतेयः सम्प्राप्तो विहस्य प्रोक्तःभो गरुत्मन् ! जानासि त्वं यन्मम रूपेण कौलिको दारुमयगरुडे समारूढो राजकन्यां कामयते ।
सोऽब्रवीत्देव, सर्वं ज्ञायते तच्चेष्टितम् । तत्किं कुर्मः साम्प्रतम् ?
श्रीभगवानाहअद्य कौलिको मरणे कृतनिश्चयो विहितनियमो युद्धार्थे विनिर्गतः स नूनं प्रधानक्षत्रियैर्मिलित्वा वासुदेवो गरुडश्च निपातितः । ततः परं लोकोऽयमावयोः पूजां न करिष्यति । ततस्त्वं द्रुततरं तत्र दारुमयगरुडे सङ्क्रमणं कुरु । अहमपि कौलिकशरीरे प्रवेशं करिष्यामि । येन स शत्रून् व्यापादयति । ततश्च शत्रुवधादावयोर्माहात्म्यवृद्धिः स्यात् ।
अथ गरुडे तथेति प्रतिपन्ने श्रीभगवन्नारायणस्तच्छरीरे सङ्क्रमणमकरोत् । ततो भगवन्माहात्म्येन गगनस्थः स कौलिकः शङ्खचक्रगदाचापचिह्नितः क्षणादेव लीलयैव समस्तानपि प्रधानक्षत्रियान्निस्तेजसश्चकारर् । ततस्तेन राज्ञा स्वसैन्यपरिवृतेन सङ्ग्रामे जिता निहताश्च ते सर्वेऽपि शत्रवः । जातश्च लोकमध्ये प्रवादो, यथाअनेन विष्णुजामातृप्रभावेण सर्वे शत्रवो निहता इति ।
कौलिकोऽपि तान् हतान् दृष्ट्वा प्रमुदितमना गगनादवतीर्णः सन्, यावद्राजामात्यपौरलोकास्तं नगरवास्तव्यं कौलिकं पश्यन्ति ततः पृष्टः किमेतदिति । ततः सोऽपि मूलादारभ्य सर्वं प्राग्वृत्तान्तं न्यवेदयत् । ततश्च कौलिकसाहसानुरञ्जितमनसा शत्रुवधादवाप्ततेजसा राज्ञा सा राजकन्या सकलजनप्रत्यक्षं विवाहविधिना तस्मै समर्पिता देशश्च प्रदत्तः । कौलिकोऽपि तया सार्धं पञ्चप्रकारं जीवलोकसारं विषयसुखमनुभवन् कालं निनाय । अतस्तूच्यते सुप्रयुक्तस्य दम्भस्य (२१८) इति ।
![]()
तच्छ्रुत्वा करटक आहभद्र, अस्त्येवम् । परं तथापि महन्मे भयम् । यतो बुद्धिमान् सञ्जीवको रौद्रश्च सिंहः । यद्यपि ते बुद्धिप्रागल्भ्यं तथापि त्वं पिङ्गलकात्तं वियोजयितुमसमर्थ एव ।
दमनक आहभ्रातः ! असमर्थोऽपि समर्थ एव । उक्तं च
उपायेन हि यच्छक्यं न तच्छक्यं पराक्रमैः ।
काकी कनकसूत्रेण कृष्णसर्पमघातयत् ॥१.२२८॥
करटक आहकथमेतत्?
सोऽब्रवीत्
कथा ६
वायसदम्पतिकथा
अस्ति कस्मिंश्चित्प्रदेशे महान्न्यग्रोधपादपः । तत्र वायसदम्पती प्रतिवसतः स्म । अथ तयोः प्रसवकाले वृक्षविवरान्निष्क्रम्य कृष्णसर्पः सदैव तदपत्यानि भक्षयति । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वोचतुःभद्र ! किमेवंविधे सञ्जात आवयोः कर्तव्यं भवति । एवं तावद्दुष्टात्मा कृष्णसर्पो वृक्षविवरान्निर्गत्यावयोर्बालकान् भक्षयति । तत्कथ्यतां तद्रक्षार्थं कश्चिदुपायः ।
यस्य क्षेत्रं नदीतीरे भार्या च परसङ्गता ।
ससर्पे च गृहे वासः कथं स्यात्तस्य निर्वृतिः ॥१.२२९॥
अन्यच्च
सर्पयुक्ते गृहे वासो मृत्युरेव न संशयः ।
यद्ग्रामान्ते वसेत्सर्पस्तस्य स्यात्प्राणसंशयः ॥१.२३०॥
अस्माकमपि तत्रस्थितानां प्रतिदिनं प्राणसंशयः ।
स आहनात्र विषये स्वल्पोऽपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् ।
उपायेन जयो यादृग्रिपोस्तादृङ्न हेतिभिः ।
उपायज्ञोऽल्पकायोऽपि न शूरैः परिभूयते ॥१.२३१॥
तथा च
भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् ।
अतिलौल्याद्बकः कश्चिन्मृतः कर्कटकग्रहात् ॥१.२३२॥
तावूचतुःकथमेतत्?
सोऽब्रवीत्
कथा ७
बककुलीरककथा
अस्ति कस्मिंश्चिद्वनप्रदेशे नानाजलचरसनाथं महत्सरः । तत्र च कृताश्रयो बक एको वृद्धभावमुपागतो मत्स्यान् व्यापादयितुमसमर्थः । ततश्च क्षुत्क्षामकण्ठः सरस्तीरे उपविष्टो मुक्ताफलप्रकरसदृशैरश्रुप्रवाहैर्धरातलमभिषिञ्चन् रुरोद । एकः कुलीरको नानाजलचरसमेतः समेत्य तस्य दुःखेन दुःखितः सादरमिदमूचेमाम ! किमद्य त्वया नाहारवृत्तिरनुष्ठीयते ? केवलमश्रुपूर्णनेत्राभ्यां सनिःश्वासेन स्थीयते ।
स आहवत्स ! सत्यमुपलक्षितं भवता । मया हि मत्स्यादनं प्रति परमवैराग्यतया साम्प्रतं प्रायोपवेशनं कृतम् । तेनाहं समीपागतानपि मत्स्यान्न भक्षयामि ।
कुलीरकस्तच्छ्रुत्वा प्राहमाम, किं तद्वैराग्यकारणम् ?
स प्राहवत्स, अहमस्मिन् सरसि जातो वृद्धिं गतश्च । तन्मयैतच्छ्रुतं यद्द्वादशवर्षिक्यानावृष्टिः सम्पद्यते लग्ना ।
कुलीरक आहकस्मात्तच्छ्रुतम् ?
बक आहदैवज्ञमुखादेष शनैश्चरो हि रोहिणीशकटं भित्त्वा भौमं शक्रं च प्रयास्यति । उक्तं च वराहमिहिरेण
यदि भिन्ते सूर्यसुतो रोहिण्याः शकटमिह लोके ।
द्वादश वर्षाणि तदा नहि वर्षति वासवौ भूमौ ॥१.२३३॥
तथा च
प्राजापत्ये शकटे भिन्ने कृत्वैव पातकं वसुधा ।
भस्मास्थिशकलाकीर्णा कापालिकमिव व्रतं धत्ते ॥१.२३४॥
तथा च
रोहिणीशकटमर्कनन्दनश्चेद्
भिन्नत्ति रुधिरोऽथवा शशी ।
किं वदामि तदनिष्टसागरे
सर्वलोकमुपयाति सङ्क्षयः ॥१.२३५॥
रोहिणीशकटमध्यसंस्थिते
चन्द्रमस्य शरणीकृता जनाः ।
क्वापि यान्ति शिशुपाचिताशनाः
सूर्यतप्तभिदुराम्बुपायिनः ॥१.२३६॥
तदेतत्सरः स्वल्पतोयं वर्तते । शीघ्रं शोषं यास्यति । अस्मिन् शुष्के यैः सहाहं वृद्धिं गतः, सदैव क्रीडितश्च, ते सर्वे तोयाभावान्नाशं यास्यन्ति । तत्तेषां वियोगं द्रष्टुमहमसमर्थः । तेनैतत्प्रायोपवेशनं कृतम् । साम्प्रतं सर्वेषां स्वल्पजलाशयानां जलचरा गुरुजलाशयेषु स्वस्वजनैर्नीयन्ते । केचिच्च मकरगोधाशिशुमारजलहस्तिप्रभृतयः स्वयमेव गच्छन्ति । अत्र पुनः सरसि ये जलचरास्ते निश्चिन्ताः सन्ति, तेनाहं विशेषाद्रोदिमि यद्बीजशेसमात्रमप्यत्र नोद्धरिष्यति
।
ततः स तदाकर्ण्यान्येषामपि जलचराणां तत्तस्य वचनं निवेदयामास । अथ ते सर्वे भयत्रस्तमनसो मत्स्यकच्छपप्रभृतयस्तमभ्युपेत्य पप्रच्छुःमाम ! अस्ति कश्चिदुपायो येनास्माकं रक्षा भवति ?
बक आहअस्त्यस्य जलाशयस्य नातिदूरे प्रभूतजलसनाथं सरः पद्मिनीखण्डमण्डितं यच्चतुर्विंशत्यपि वर्षाणामवृष्ट्या न शोषमेष्यति । तद्यदि मम पृष्ठं कश्चिदारोहति, तदहं तं तत्र नयामि ।
अथ ते तत्र विश्वासमापन्नाः, तात मातुल भ्रातः इति ब्रुवाणाः अहं पूर्वमहं पूर्वमिति समन्तात्परितस्थुः । सोऽपि दुष्टाशयः क्रमेण तान् पृष्ठ आरोप्य जलाशयस्य नातिदूरे शिलां समासाद्य तस्यामाक्षिप्य स्वेच्छया भक्षयित्वा भूयोऽपि जलाशयं समासाद्य जलचर्णाणां मिथ्यावार्तासन्देशकैर्मनांसि रञ्जयन्नित्यमेवाहारवृत्तिमकरोत् ।
अन्यस्मिन् दिने च कुलीरकेणोक्तःमाम ! मया सह ते प्रथमः स्नेहसम्भाषः सञ्जातः । तत्किं मां परित्यज्यान्यान्नयसि ? तस्मादद्य मे प्राणत्राणं कुरु ।
तदाकर्ण्य सोऽपि दुष्टाशयश्चिन्तितवान्निर्विण्णोऽहं मत्स्यमांसादनेन तदद्यैनं कुलीरकं व्यञ्जनस्थाने करोमि । इति विचिन्त्य तं पृष्टे समारोप्य तां वध्यशिलामुद्दिश्य प्रस्थितः । कुलीरकोऽपि दूरादेवास्थिपर्वतं शिलाश्रयमवलोक्य मस्त्यास्थीनि परिज्ञाय तमपृच्छत्माम, कियद्दूरे स जलाशयः ? मदीयभारेणातिश्रान्तस्त्वम् । तत्कथय ।
सोऽपि मन्दधीर्जलचरोऽयमिति मत्वा स्थले न प्रभवतीति सस्मितमिदमाहकुलीरक, कुतोऽन्यो जलाशयः ? मम प्राणयात्रेयम् । तस्मात्स्मर्यतामात्मनोऽभीष्टदेवता । त्वामप्यन्यां शिलायां निक्षिप्य भक्षयिष्यामि । इत्युक्तवति तस्मिन् स्ववदनदंशद्वयेन मृणालनालधवलायां मृदुग्रीवायां गृहीतो मृतश्च ।
अथ स तां बकग्रीवां समादाय शनैः शनैस्तज्जलाशयमाससाद । ततः सर्वैरेव जलचरैः पृष्टःभोः कुलीरक ! किं निवृत्तस्त्वम् ? स मातुलोऽपि नायातः । तत्किं चिरयति ? वयं सर्वे सोत्क्सुकाः कृतक्षणास्तिष्ठामः ।
एवं तैरभिहिते कुलीरकोऽपि विहस्योवाचमूर्खाः ! सर्वे जलचरास्तेन मिथ्यावादिना वञ्चयित्वा नातिदूरे शिलातले प्रक्षिप्य भक्षिताः । तन्ममायुःशेषतया तस्य विश्वासघातकस्याभिप्रायं ज्ञात्वा ग्रीवेयमानीता । तदलं सम्भ्रमेण । अधुना सर्वजलचराणां क्षेमं भविष्यति ।
अतोऽहं ब्रवीमिभक्षयित्वा बहून्मत्स्यानिति ।
वायस आहभद्र ! तत्कथय कथं स दुष्टसर्पो वधमुपैष्यति ।
शृगाल आहगच्छतु भवान् कञ्चिन्नगरं राजाधिष्ठानम् । तत्र कस्यापि धनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत्कोटरे प्रक्षिप, येन सर्पस्तद्ग्रहणेन वध्यते ।
तत्क्षणात्काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चित्सरः प्राप्य यावत्पश्यति, तावत्तन्मध्ये कस्यचिद्राज्ञोऽन्तःपुरं जलासन्नं न्यस्तकनकसूत्रं मुक्तमुक्ताहारवस्त्राभरणं जलक्रीडां कुरुते । अथ सा वायसी कनकसूत्रमेकमादाय स्वगृहाभिमुखं प्रतस्थे । ततश्च कञ्चुकिनो वर्षवराश्च तन्नीयमानमुपलक्ष्य गृहीतलगुडाः सत्वरमनुययुः । काक्यपि सर्पकोटरे तत्कनकसूत्रं प्रक्षिप्य सुदूरमवस्थिता ।
अथ यावद्राजपुरुषास्तं वृक्षमारुह्य तत्कोटरमवलोकयन्ति, तावत्कृष्णसर्पः प्रसारितभोगस्तिष्ठति । ततस्तं लगुडप्रहारेण हत्वा कनकसूत्रमादाय यथाभिलषितं स्थानं गताः । वायसदम्पती अपि ततः परं सुखेन वसतः । अतोऽहं ब्रवीमिउपायेन हि यत्कुर्यातिति ।
तन्न किंचिदिह बुद्धिमतामसाध्यमस्ति । उक्तं च
यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ।
वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥१.२३७॥
करटक आहकथमेतत्?
स आह
कथा ८
भासुरकाख्यसिंहकथा
कस्मिंश्चिद्वने भासुरको नाम सिंहः प्रतिवसति स्म । अथासौ वीर्यातिरेकान्नित्यमेवानेकान्मृगशशकादीन् व्यापादयन्नोपरराम । अथान्येद्युस्तद्वनजाः सर्वे सारङ्गवराहमहिषशशकादयो मिलित्वा तमभ्युपेत्य प्रोचुःस्वामिन् ! किमनेन सकलमृगवधेन नित्यमेव, यतस्तवैकेनापि मृगेण तृप्तिर्भवति तत्क्रियतामस्माभिः सह समयधर्मः । अद्यप्रभृति तवात्रोपविष्टस्य जातिक्रमेण प्रतिदिनमेको मृगो भक्षणार्थं समेष्यति । एवं कृते तव तावत्प्राणयात्रा क्लेशं विनापि भविष्यति । अस्माकं च पुनः सर्वोच्छेदनं न स्यात् । तदेष राजधर्मोऽनुष्ठीयताम् । उक्तं
च
शनैः शनैश्च यो राज्यमुपभुङ्क्ते यथाबलम् ।
रसायनमिव प्राज्ञः स पुष्टिं परमां व्रजेत् ॥१.२३८॥
विधिना मन्त्रयुक्तेन रूक्षापि मथितापि च ।
प्रयच्छति फलं भूमिररणीव हुताशनम् ॥१.२३९॥
प्रजानां पालनं शस्यं स्वर्गकोशस्य वर्धनम् ।
पीडनं धर्मनाशाय पापायायशसे स्थितम् ॥१.२४०॥
गोपालेन प्रजाधेनोर्वित्तदुग्धं शनैः शनैः ।
पालनात्पोषणाद्ग्राह्यं न्याय्यां वृत्तिं समाचरेत् ॥१.२४१॥
अजामिव प्रजां मोहाद्यो हन्यात्पृथिवीपतिम् ।
तस्यैका जायते तृप्तिर्न द्वितीया कथञ्चन ॥१.२४२॥
फलार्थी नृपतिर्लोकान् पालयेद्यत्नमास्थितः ।
दानमानादितोयेन मालाकारोऽङ्कुरानिव ॥१.२४३॥
नृपदीपो धनस्नेहं प्रजाभ्यः संहरन्नपि ।
आन्तरस्थैर्गुणैः शुभ्रैर्लक्ष्यते नैव केनचित् ॥१.२४४॥
यथा गौर्दुह्यते काले पाल्यते च तथा प्रजाः ।
सिच्यते चीयते चैव लता पुष्पफलप्रदा ॥१.२४५॥
यथा बीजाङ्कुरः सूक्ष्मः प्रयत्नेनाभिरक्षितः ।
फलप्रदो भवेत्काले तद्वल्लोकः सुरक्षितः ॥१.२४६॥
हिरण्यधान्यरत्नानि यानानि विविधानि च ।
तथान्यदपि यत्किञ्चित्प्रजाभ्यः स्यान्महीपतेः ॥१.२४७॥
लोकानुग्रहकर्तारः प्रवर्धन्ते नरेश्वराः ।
लोकानां सङ्क्षयाच्चैव क्षयं यान्ति न संशयः ॥१.२४८॥
अथ तेषां तद्वचनमाकर्ण्य भासुरक आहअहो सत्यमभिहितं भवद्भिः । परं यदि ममोपविष्टस्यात्र नित्यमेव नैकः श्वापदः समागमिष्यति । तन्नूनं सर्वानपि भक्षयिष्यामि । अथ ते तथैव प्रतिज्ञाय निर्वृतिभाजस्तत्रैव वने निर्भयाः पर्यटन्ति । एकश्च प्रतिदिनं क्रमेण याति । वृद्धो वा, वैराग्ययुक्तो वा, शोकग्रस्तो वा, पुत्रकलत्रनाशभीतो वा, तेषां मध्यात्तस्य भोजनार्थं मध्याह्नसमय उपतिष्ठते ।
अथ कदाचिज्जातिक्रमाच्छशकस्यावसरः समायातः । स समस्तमृगैः प्रेरितोऽनिच्छन्नपि मन्दं मन्दं गत्वा तस्य वधोपायं चिन्तयन् वेलातिक्रमं कृत्वाव्याकुलितहृदयो यावद्गच्छति तावन्मार्गे गच्छता कूपः सन्दृष्टः । यावत्कूपोपरि पाति तावत्कूपमध्य आत्मनः प्रतिबिम्बं ददर्श । दृष्ट्वा च तेन हृदये चिन्तितम्यद्भाव्य उपायोऽस्ति । अहं भासुरकं प्रकोप्य स्वबुद्ध्यास्मिन् कूपे पातयिष्यामि ।
अथासौ दिनशेषे भासुरकसमीपं प्राप्तः । सिंहोऽपि वेलातिक्रमेण क्षुत्क्षामकण्ठः कोपाविष्टः सृक्कणी परिलेलिहद्व्यचिन्तयतहो ! प्रताराहाराय निःसत्त्वं वनं मया कर्तव्यम् । एवं चिन्तयतस्तस्य शशको मन्दं मन्दं गत्वा प्रणम्य तस्याग्रे स्थितः । अथ तं प्रज्वलितात्मा भासुरको भर्त्सयन्नाहरे शशकाधम एकस्तावत्त्वं लघुः प्राप्तोऽपरतो वेलातिक्रमेण । तदस्मादपराधात्त्वां निपात्य प्रातः सकलान्यपि मृगकुलान्युच्छेदयिष्यामि ।
अथ शशकः सविनयं प्रोवाचस्वामिन् ! नापराधो मम । न च सत्त्वानाम् । तच्छ्य्रूतां कारणम् ।
सिंह आहसत्वरं निवेदय यावन्मम दंष्ट्रान्तर्गतो न भवान् भविष्यति इति ।
शशक आहस्वामिन्, समस्तमृगैरद्य जातिक्रमेण मम लघुतरस्य प्रस्तावं विज्ञाय ततोऽहं पञ्चशशकैः समं प्रेषितः । ततश्चाहमागच्छेन्नन्तराले महता केनचिदपरेण सिंहेन विवरान्निर्गत्याभिहितःभीष्टदेवतां स्मरत ।
ततो मयाभिहितम्वयं स्वामिनोन् भासुरकसिंहस्य सकाशमाहारार्थं समयधर्मेण गच्छामः ।
ततस्तेनाभिहितम्यद्येवं तर्हि मदीयमेतद्वनम् । मया सह समयधर्मेण समस्तैरपि श्वापदैर्वर्तितव्यम् । चोररूपी स भासुरकः । अथ यदि सोऽत्र राजा । विश्वासस्थाने चतुरः शशकानत्र धृत्वा तमाहूय द्रुततरमागच्छ । येन यः कश्चिदावयोर्मध्यात्पराक्रमेण राजा भविष्यति स सर्वानेतान् भक्षयिष्यति इति ।
ततोऽहं तेनादिष्टः स्वामिसकाशमभ्यागतः । एतद्वेला व्यतिक्रमकारणम् । तदत्र स्वामी प्रमाणम् ।
तच्छ्रुत्वा भासुरक आहभद्र, यद्येवं तत्सत्वरं दर्शय मे तं चौरसिंहः येनाहं मृगकोपं तस्योपरि क्षिप्त्वा स्वस्थो भवामि । उक्तं च
भूमिर्मित्रं हिरण्यं च विग्रहस्य फलत्रयम् ।
नास्त्येकमपि यद्येषां न तं कुर्यात्कथञ्चन ॥१.२४९॥
यत्र न स्यात्फलं भूरि यत्र चस्यात्पराभवः ।
न तत्र मतिमान् युद्धं समुत्पाद्य समाचरेत् ॥१.२५०॥
शशाक आहस्वामिन् ! सत्यमिदम् । स्वभूमिहेतोः परिभवाच्च युध्यन्ते क्षत्रियाः । परं स दुर्गाश्रयः दुर्गान्निष्क्रम्य वयं तेन विष्कम्भिताः । ततो दुर्गस्थो दुःसध्यो भवति रिपुः । उक्तं च
न गजानां सहस्रेण न च लक्षेण वाजिनाम् । यत्कृत्यं सिध्यति राज्ञां दुर्गेणैकेन विग्रहे ॥१.२५१॥ शतमेकोऽपि संधत्ते प्राकारस्थो धनुर्धरः । तस्माद्दुर्गं प्रशंसन्ति नीतिशास्त्रविचक्षणाः ॥१.२५२॥ पुरा गुरोः समादेशाद्धिरण्यकशिपोर्भयात् । शक्रेण विहितं दुर्गं प्रभावाद्विश्वकर्मणः ॥१.२५३॥ तेनापि च वरो दत्तो यस्य दुर्गं स भूपतिः । विजयी स्यात्ततो भूमौ दुर्गाणि स्युः सहस्रशः ॥१.२५४॥ दंष्ट्राविरहितो नागो मदहीनो यथा गजः । सर्वेषां जायते वश्यो दुर्गहीनस्तथा नृपः ॥१.२५५॥
तच्छ्रुत्वा भासुरक आह । भद्र दुर्गस्थमपि दर्शय तं चौरसिंहं येन व्यापादयामि । उक्तं च
जातमात्रं न यः शत्रुं रोगं च प्रशमं नयेत् । महाबलोऽपि तेनैव वृद्धिं प्राप्य स हन्यते ॥१.२५६॥
तथा च
उत्तिष्ठमानस्तु परो नोपेक्ष्यः पथ्यमिच्छता । समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च ॥१.२५७॥
अपि च
उपेक्षितः क्षीणबलोऽपि शत्रुः प्रमाददोषात्पुरुषैर्मदान्धैः । साध्योऽपि भूत्वा प्रथमं ततोऽसाव्
असाध्यतां व्याधिरिव प्रयाति ॥१.२५८॥
तथा च
आत्मनः शक्तिमुद्वीक्ष्य मनोत्साहं च यो व्रजेत् । बहून् हन्ति स एकोऽपि क्षत्रियान् भार्गवो यथा ॥१.२५९॥
शशक आहअस्त्येतत् । तथापि बलवान् स मया दृष्टः । तन्न युज्यते स्वामिनस्तस्य तस्य सामर्थ्यमविदित्वा गन्तुम् । उक्तं च
अविदित्वात्मनः शक्तिं परस्य च समुत्सुकः । गच्छन्नभिमुखो वह्नौ नाशं याति पतङ्गवत् ॥१.२६०॥ यो बलात्प्रोन्नतं याति निहन्तुं सबलोऽप्यरिम् । विमदः स निवर्तेत शीर्णदन्तो गजो यथा ॥१.२६१॥
भासुरक आहभोः किं तवानेन व्यापारेण । दर्शय मे तं दुर्गस्थमपि ।
अथ शशक आहयद्येवं तर्ह्यागच्छतु स्वामी । एवमुक्त्वाग्रे व्यवस्थितः ।
ततश्च तेनागच्छता यः कूपो दृष्टोऽभूत्तमेव कूपमासाद्य भासुरकमाहस्वामिन् कस्ते प्रतापं सोढुं समर्थः ? त्वां दृष्ट्वा दूरतोऽपि चौरसिंहः प्रविष्टः स्वं दुर्गम् । तदागच्छ यथा दर्शयामीति । भासुरक आहदर्शय मे दुर्गम् । तदनु दर्शितस्तेन कूपः । ततः सोऽपि मूर्खः सिंहः कूपमध्य आत्मप्रतिबिम्बं जलमध्यगतं दृष्ट्वा सिंहनादं मुमोच । ततः प्रतिशब्देन कूपमध्याद्द्विगुणतरो नादः समुत्थितः ।
अथ तेन तं शत्रुं मत्वात्मानं तस्योपरि प्रक्षिप्य प्राणाः परित्यक्ताः । शशकोऽपि हृष्टमनाः सर्वमृगानानन्द्य तैः सह प्रशस्यमानो यथासुखं तत्र वने निवसति स्म । अतोऽहं ब्रवीमियस्य बुद्धिर्बलं तस्य इति ।
***********************************************************************
तद्यदि भवान् कथयति तत्तत्रैव गत्वा तयोः स्वबुद्धिप्रभावेण मैत्रीभेदं करोमि ।
करटक आहभद्र ! यद्येवं तर्हि गच्छ । शिवास्ते पन्थानः सन्तु । यथाभिप्रेतमनुष्ठीयताम् ।
अथ दमनकः सञ्जीवकवियुक्तं पिङ्गलकमवलोक्य तत्रान्तरे प्रणम्याग्रे समुपविष्टः । पिङ्गलकोऽपि तमाहभद्र, किं चिराद्दृष्टः ?
दमनक आहन कञ्चिद्देवपादानामस्माभिः प्रयोजनम् । तेनाहं नागच्छामि । तथापि राजप्रयोजनविनाशमवलोक्य सन्दह्यमानहृदयो व्याकुलतया स्वयमेवाभ्यागतो वक्तुम् । उक्तं च
प्रियं वा यदि वा द्वेष्यं शुभं वा यदि वाशुभम् ।
अपृष्टोऽपि हितं वक्ष्येद्यस्य नेच्छेत्पराभवम् ॥१.२६२॥
अथ तस्य साभिप्रायं वचनमाकर्ण्य पिङ्गलक आहकिं वक्तुमना भवान् ? तत्कथ्यतां यत्कथनीयमस्ति ।
स प्राहदेव सञ्जीवको युष्मत्पादानामुपरि द्रोहबुद्धिरिति । विश्वासगतस्य मम विजने इदमाहभो दमनक ! दृष्टा मयास्य पिङ्गलकस्य सारासारता । तदहमेनं हत्वा सकलमृगाधिपत्यं त्वत्साचिव्यपदवीसमन्वितं करिष्यामि । पिङ्गलकोऽपि तद्वज्रसारप्रहारसदृशं दारुणं वचः समाकर्ण्य मोहमुपगतो न किञ्चिदप्युक्तवान् । दमनकोऽपि तस्य तमाकारमालोक्य चिन्तितवानयं तावत्सञ्जीवकनिबद्धरागः । तन्नूनमनेन मन्त्रिणा राजा विनाशमवाप्स्यति इति । उक्तं च
एकं भूमिपतिः करोति सचिवं राज्ये प्रमाणं यदा तं मोहाच्छ्रयते मदः स च मदाद्दास्येन निर्विद्यते ।
निर्विण्णस्य पदं करोति हृदये तस्य स्वतन्त्रस्पृहा स्वातन्त्र्यस्पृहया ततः स नृपतेः प्राणानभिद्रुह्यति ॥१.२६३॥
तत्किमत्र युक्तमिति । पिङ्गलकोऽपि चेतनां समासाद्य कथमपि तमाहसञ्जीवकस्तावत्प्राणसमो भृत्यः । स कथं ममोपरि द्रोहबुद्धिं करोति ।
दमनक आहदेव, भृत्योऽभृत्य इत्यनेकान्तिकमेतत् । उक्तं च
न सोऽस्ति पुरुषो राज्ञां यो न कामयते श्रियम् ।
अशक्ता एव सर्वत्र नरेन्द्रं पर्युपासते ॥१.२६४॥
पिङ्गलक आहभद्र, तथापि मम तस्योपरि चित्तवृत्तिर्न विकृतिं याति । अथवा साध्विदमुच्यते
अनेकदोषदुष्टस्य कायः कस्य न वल्लभः ।
कुर्वन्नपि व्यलीकानि यः प्रियः प्रिय एव सः ॥१.२६५॥
दमनक आहअत एवायं दोषः । उक्तं च
यस्मिन्नेवाधिकं चक्षुरारोपयति पार्थिवः ।
अकुलीनः कुलीनो वा स श्रिया भाजनं नरः ॥१.२६६॥
अपरं केन गणविशेषेण स्वामी सञ्जीवकं निर्गुणकमपि निकटे धारयति । अथ देव, यद्येवं चिन्तयसि महाकायोऽयम् । अनेन रिपून् व्यापादयिष्यामि । तदस्मान्न सिध्यति, यतोऽयं शष्पभोजी । देवपादानां पुनः शत्रवो मांसाशिनः । तद्रिपुसाधनमस्य साहाय्येन न भवति । तस्मादेनं दूषयित्वा हन्यतामिति ।
पिङ्गलक आह
उक्तो भवति यः पूर्वं गुणवानिति संसदि ।
तस्य दोषो न वक्तव्यः प्रतिज्ञाभङ्गभीरुणा ॥१.२६७॥
अन्यच्च । मयास्य तव वचनेनाभयप्रदानं दत्तम् । तत्कथं स्वयमेव व्यापादयामि । सर्वथा सञ्जीवकोऽयं सुहृदस्माकम् । न तं प्रति कश्चिन्मन्युरिति । उक्तं च
इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥१.२६८॥
आदौ न वा प्रणयिनां प्रणयो विधेयो
दत्तोऽथवा प्रतिदिनं परिपोषणीयः ।
उत्क्षिप्य यत्क्षिपति तत्प्रकरोति लज्जां
भूमौ स्थितस्य पतनाद्भयमेव नास्ति ॥१.२६९॥
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥१.२७०॥
तद्द्रोहबुद्धेरपि मयास्य न विरुद्धमाचरणीयम् ।
दमनक आहस्वामिन् ! नैष राजधर्मो यद्द्रोहबुद्धिरपि क्षम्यते । उक्तं च
तुल्यार्थं तुल्यसामर्थ्यं मर्मज्ञं व्यवसायिनम् ।
अर्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥१.२७१॥
अपरं त्वयास्य सखित्वात्सर्वोऽपि राजधर्मः परित्यक्तः राजधर्माभावात्सर्वोऽपि परिजनो विरक्तिं गतः । यः सञ्जीवकः शष्पभोजी । भवान्मांसादः । तव प्रकृतयश्च यत्तवावध्यव्यसायबाह्यं कुतस्तासां मांसाशनम् । यद्रहितास्त्वां त्यक्त्वा यास्यन्ति । ततोऽपि त्वं विनष्ट एव । अस्य सङ्गत्या पुनस्ते न कदाचिदाखेटके मतिर्भविष्यति । उक्तं च
यादृशैः सेव्यते भृत्यैर्यादृशांश्चोपसेवते ।
कदाचिन्नात्र सन्देहस्तादृग्भवति पूरुषः ॥१.२७२॥
तथा च
सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्तकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वातौ सागरशुक्तिकुक्षिपतितं तज्जायते मौक्तिकं
प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥१.२७३॥
तथा च
असतां सङ्गदोषेण सती याति मतिर्भ्रमम् ।
एकरात्रिप्रवासेन काष्ठं मुञ्जे प्रलम्बितम् ॥१.२७४॥
अत एव सन्तो नीचसङ्गं वर्जयन्ति । उक्तं च
न ह्यविज्ञातशीलस्य प्रदातव्यः प्रतिश्रयः ।
मत्कुणस्य च दोषेण हता मन्दविसर्पिणी ॥१.२७५॥
पिङ्गलक आहकथमेतत्?
सोऽब्रवीत्
कथा ९
मन्दविसर्पिणीनामयूकाकथा
अस्ति कस्यचिन्महीपतेर्मनोरमं शयनस्थानम् । तत्र श्वेततरपटयुगलमध्यसंस्थिता मन्दविसर्पिणी यूका प्रतिवसति स्म । सा च तस्य महीपते रक्तमास्वादयन्ती सुखेन कालं नयमाना तिष्ठति । अन्येद्युश्च तत्र शयने क्वचिद्भ्राम्यन्नग्निमुखो नाम मत्कुणः समायातः । अथ तं दृष्ट्वा सा विषण्णवदना प्रोवाच । भोऽग्निमुख कुतस्त्वमत्रानुचितस्थाने समायातः । तद्यावन्न कश्चिद्वेत्ति तावच्छीघ्रं गम्यतामिति ।
स आहभगवति गृहागतस्यासाधोरपि नैतद्युज्यते वक्तुम् । उक्तं च
एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् ।
एवं ये समुपागतान् प्रणयिनः प्रत्यालपन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥१.२७६॥
अपरं मयानेकमानुषाणामनेकविधानि रुधिराण्यास्वादितान्याहारदोषात्कटुतिक्तकषायाम्लरसास्वादानि न च कदाचिन्मधुररक्तं समास्वादितम् । तद्यदि त्वं प्रसादं करोषि तदस्य नृपतेर्विविधव्यञ्जनान्नपानचोष्यलेह्यस्वाद्वाहारवशादस्य शरीरे यन्मिष्टं रक्तं संजातं तदास्वादनेन सौख्यं सम्पादयामि जिह्वाया इति । उक्तं च
रङ्कस्य नृपतेर्वापि जिह्वासौख्यं समं स्मृतम् । तन्मात्रं च स्मृतं सारं तदर्थं यतते जनः ॥१.२७७॥
यद्येव न भवेल्लोके कर्म जिह्वाप्रतुष्टिदम् । तन्न भृत्यो भवेत्कश्चित्कस्यचिद्वशगोऽथ वा ॥१.२७८॥ यदसत्यं वदेन्मर्त्यो यद्वासेव्यं च सेवते । यद्गच्छति विदेशं च तत्सर्वमुदरार्थतः ॥१.२७९॥
तन्मया गृहागतेन बुभुक्षया पीड्यमानेनापि त्वत्सकाशाद्भोजनमर्थनीयम् । तन्न त्वयैकाकिन्यास्य भूपते रक्तभोजनं कर्तुं युज्यते ।
तच्छ्रुत्वा मन्दविसर्पिण्याहभो मत्कुण ! अस्य नृपतेर्निद्रावशं गतस्य रक्तमास्वादयामि ।
पुनस्त्वमग्निमुखश्चपलश्चतद्यदि मया सह रक्तपानं करोषि तत्तिष्ठ । अभीष्टतररक्तमास्वादय ।
सोऽब्रवीत्भगवत्येवं करिष्यामि । यावत्त्वं नास्वादयसि प्रथमं नृपरक्तं तावन्मम देवगुरुकृतः शपथः स्याद्यदि तदास्वादयामि ।
एवं तयोः परस्परं वदतोः स राजा तच्छयनमासाद्य प्रसुप्तः । अथासौ मत्कुणो जिह्वालौल्योत्कृष्टौत्सुक्याज्जाग्रतमपि तं महीपतिमदशत् । अथ वा साध्विदमुच्यते ।
स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । सुतप्तमपि पानीयं पुनर्गच्छति शीतताम् ॥१.२८०॥ यदि स्याच्छीतलो वह्निः शीतांशुर्दहनात्मकः । न स्वभावोऽत्र मर्त्यानां शक्यते कर्तुमन्यथा ॥१.२८१॥
अथासौ महीपतिः सूच्यग्रविद्ध इव तच्छयनं त्यक्त्वा तत्क्षणादेवोत्थितः । अहो ज्ञायतामत्र प्रच्छादनपटे मत्कुणो यूका वा नूनं तिष्ठति येनाहं दष्ट इति । अथ ये कञ्चुकिनस्तत्र स्थितास्ते सत्वरं प्रच्छादनपटं गृहीत्वा सूक्ष्मदृष्ट्या वीक्षां चक्रुः । अत्रान्तरे स मत्कुणश्चापल्यात्खट्वान्तं प्रविष्टः सा मन्दविसर्पिण्यपि वस्त्रसन्ध्यन्तर्गता तैर्दृष्टा व्यापादिता च । अतोऽहं ब्रवीमिन ह्यविज्ञातशीलस्य इति ।
एवं ज्ञात्वा त्वयिष वध्यः । नो चेत्त्वां व्यापादयिष्यतीति । उक्तं च
त्यक्ताश्चाभ्यन्तरा येन बाह्याश्चाभ्यन्तरीकृताः ।
स एव मृत्युमाप्नोति यथा राजा ककुद्द्रुमः ॥१.२८२॥
पिङ्गलक आहकथमेतत्?
सोऽब्रवीत्
![]()
कथा १०
चण्डरवनामशृगालकथा
अस्ति कस्मिंश्चिद्वनोद्देशे चण्डरवो नाम शृगालः प्रतिवसति स्म । स कदाचित्क्षुधाविष्टो जिह्वालौल्यान्नगरमध्ये प्रविष्टः । अथ तं नगरवासिनः सारमेया अवलोक्य सर्वतः शब्दायमानाः परिधाव्य तीक्ष्णदंष्टृआग्रैर्भक्षितुमारब्धाः । सोऽपि तैर्भक्ष्यमाणः प्राणभयात्प्रत्यासन्नरजकगृहं प्रविष्टः । तत्र नीलीरसपरिपूर्णं महाभाण्डं सज्जीकृतमासीत् । तत्र सारमेयैराक्रान्तो भाण्डमध्ये पतितः । अथ यावन्निष्क्रान्तस्तावन्नीलीवर्णः सञ्जातः । तत्रापरे सारमेयास्तं शृगालमजानन्तो
यथाभीष्टदिशं जग्मुः । चण्डरवोऽपि दूरतरं प्रदेशमासाद्य काननाभिमुखं प्रतस्थे । न च नीलवर्णेन कदाचिन्निजरङ्गस्त्यज्यते । उक्तं च
वज्रलेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस्तु मीनानां नीलीमद्यपयोर्यथा ॥१.२८३॥
अथ तं हरगलगरलतमालसमप्रभमपूर्वं सत्त्वमवलोक्य सर्वे सिंहव्याघ्रद्वीपिवृकप्रभृतयोऽरण्यनिवासिनो भयव्याकुलितचित्ताः समन्तात्पलायनक्रियां कुर्वन्ति । कथयन्ति चन ज्ञायतेऽस्य कीदृग्विचेष्टितं पौरुषं च । तद्दूरतरं गच्छामः । उक्तं च
न यस्य चेष्टितं विद्यान्न कुलं न पराक्रमम् ।
न तस्य विश्वसेत्प्राज्ञो यदीच्छेच्छ्रियमात्मनः ॥१.२८४॥
चण्डरवोऽपि भयव्याकुलितान् विज्ञायेदमाहभो भोः श्वापदाः ! किं यूयं मां दृष्ट्वैव संत्रस्ता व्रजथ । तन्न भेतव्यम् । अहं ब्रह्मणाद्य स्वयमेव सृष्ट्वाभिहितःयच्छ्वापदानां कश्चिद्राजा नास्ति, तत्त्वं मयाद्य सर्वश्वापदप्रभुत्वेऽभिषिक्तः ककुद्द्रुमाभिधः । ततो गत्वा क्षितितले तान् सर्वान् परिपालयेति । ततोऽहमत्रागतः । तन्मम च्छत्रच्छायायां सर्वैरपि श्वापदैर्वर्तितव्यम् । अहं ककुद्द्रुमो नाम राजा त्रैलोक्येऽपि सञ्जातः ।
तच्छ्रुत्वा सिंहव्याघ्रपुरःसराः श्वापदाः स्वामिन् प्रभो समादिशेति वदन्तस्तं परिवव्रुः । अथ तेन सिंहस्यामात्यपदवी प्रदत्ता । व्याघ्रस्य शय्यापालकत्वम् । द्वीपिनस्ताम्बूलाधिकारः । वृकस्य द्वारपालकत्वम् । ये चात्मीयाः शृगालास्तैः सहालापमात्रमपि न करोति । शृगालाः सर्वेऽप्यधर्मचन्द्रं दत्त्वा निःसारिताः । एवं तस्य राज्यक्रिययां वर्तमानस्य ते सिंहादयो मृगान् व्यापाद्य तत्पुरतः प्रक्षिपन्ति । सोऽपि प्रभुधर्मेण सर्वेषां तान् प्रविभज्य प्रयच्छति ।
एवं गच्छति काले कदाचित्तेन समागतेन दूरदेशे शब्दायमानस्य शृगालवृन्दस्य कोलाहलोऽश्रावि । तं शब्दं श्रुत्वा पुलकिततनुरानन्दाश्रुपूर्णनयन उत्थाय तारस्वरेण विरोतुमारब्धवान् । अथ ते सिंहादयस्तं तारस्वरमाकर्ण्य शृगालोऽयमिति मत्वा लज्जायाधोमुखाः क्षणं स्थित्वा प्रोचुःभोः ! वाहिता वयमनेन क्षुद्रशृगालेन । तद्वध्यतामिति ।
सोऽपि तदाकर्ण्य पलायितुमिच्छंस्तत्र स्थान एव सिंहादिभिः खण्डशः कृतो मृतश्च ।
अतोऽहं ब्रवीमित्यक्ताश्चाभ्यन्तरा येन इति ।
तदाकर्ण्य पिङ्गलक आहभो दमनक ! कः प्रत्ययोऽत्र विषये यत्स ममोपरि दुष्टबुद्धिः ।
स आहयदद्य ममाग्रे तेन निश्चयः कृतो यत्प्रभाते पिङ्गलकं वधिष्यामि । तदत्रैव प्रत्ययः । प्रभातेऽवसरवेलायामारक्तमुखनयनः स्फुरिताधरो दिशोऽवलोकयन्ननुचितस्थानोपविष्टस्त्वां क्रूरदृष्ट्या विलोकयिष्यति । एवं ज्ञात्वा यदुचितं तत्कर्तव्यम् । इति कथयित्वा सञ्जीवकसकाशं गतस्तं प्रणम्योपविष्टः । सञ्जीवकोऽपि सोद्वेगाकारं मन्दगत्या समायान्तं तमुद्वीक्ष्य सादरतरमुवाचभो मित्र ! स्वागतम् । चिराद्दृष्टोऽसि । अपि शिवं भवतः । तत्कथय येनादेयमपि तुभ्यं गृहागताय प्रयच्छामि । उक्तं च
ते धन्यास्ते विवेकज्ञास्ते सभ्या इह भूतले ।
आगच्छन्ति गृहे येषां कार्यार्थं सुहृदो जनाः ॥१.२८५॥
दमनक आहभोः ! कथं शिवं सेवकजनस्य ।
सम्पत्तयः परायत्ताः सदा चित्तमनिर्वृतम् ।
स्वजीवितेऽप्यविश्वासस्तेषां ये राजसेवकाः ॥१.२८६॥
तथा च
सेवया धनमिच्छद्भिः सेवकैः पश्य यत्कृतम् ।
स्वातन्त्र्यं यच्छरीरस्य मूढैस्तदपि हारितम् ॥१.२८७॥
तावज्जन्मातिदुःखाय ततो दुर्गतता सदा ।
तत्रापि सेवया वृत्तिरहो दुःखपरम्परा ॥१.२८८॥
जीवन्तोऽपि मृताः पञ्च श्रूयन्ते किल भारते ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ॥१.२८९॥
नाश्नाति स्वच्छयोत्सुक्याद्विनिद्रो न प्रबुध्यते ।
न निःशङ्कं वचो ब्रूते सेवकोऽप्यत्र जीवति ॥१.२९०॥
सेवा श्ववृत्तिराख्याता यैस्तैर्मिथ्या प्रजल्पितम् ।
स्वच्छन्दं चरति स्वात्र सेवकः परशासनात् ॥१.२९१॥
भूशय्या ब्रह्मचर्यं च कृशत्वं लघुभोजनम् ।
सेवकस्य यतेर्यद्वद्विशेषः पापधर्मजः ॥१.२९२॥
शीतातपादिकष्टानि सहते यानि सेवकः ।
धनाय तानि चाल्पानि यदि धर्मान्न मुच्यते ॥१.२९३॥
मृदुनापि सुवृत्तेन सुश्लिष्टेनापि हारिणा ।
मोदकेनापि किं तेन निष्पत्तिर्यस्य सेवया ॥१.२९४॥
सञ्जीवक आहअथ भवान् किं वक्तुमनाः ?
सोऽब्रवीत्मित्र, सचिवानां मन्त्रभेदं न युज्यते । उक्तं च
यो मन्त्रं स्वामिनो भिद्यात्साचिव्ये सन्नियोजितः ।
स हत्वा नृपकार्यं तत्स्वयं च नरकं व्रजेत् ॥१.२९५॥
येन यस्य कृतो भेदः सचिवेन महीपतेः ।
तेनाशस्त्रवधस्तस्य कृत इत्याह नारदः ॥१.२९६॥
तथापि मया तव स्नेहपाशबद्धेन मन्त्रभेदः कृतः । यतस्त्वं मम वचनेनात्र राजकुले विश्वस्तः प्रविष्टश्च । उक्तं च
विश्रम्भाद्यस्य यो मृत्युमवाप्नोति कथञ्चन ।
तस्य हत्या तदुत्था सा प्राहेदं वचनं मनुः ॥१.२९७॥
तत्तवोपरि पिङ्गलकोऽयं दुष्टबुद्धिः कथितं चाद्यानेन मत्पुरतश्चतुष्कर्णतयायत्प्रभाते सञ्जीवकं हत्वा समस्तमृगपरिवारं चिरात्तृप्तिं नेष्यामि ।
ततः स मयोक्तःस्वामिन् ! न युक्तमिदं यन्मित्रद्रोहेण जीवनं क्रियते । उक्तं च
अपि ब्रह्मवधं कृत्वा प्रायश्चित्तेन शुध्यति ।
तदर्थेन विचीर्णेन न कथञ्चित्सुहृद्द्रुहः ॥१.२९८॥
ततस्तेनाहं समर्षेणोक्तःभो दुष्टबुद्धे, सञ्जीवकस्तावच्छष्पभोजी, वयं मांसाशिनः । तदस्माकं स्वाभाविकं वैरमिति कथं रिपुरुपेक्ष्यते ? तस्मात्सामादिभिरुपायैर्हन्यते । न च हते तस्मिन् दोषः स्यात् । उक्तं च
दत्त्वापि कन्यकां वैरी निहन्तव्यो विपश्चिता ।
अन्योपायैरशक्यो यो हते दोषो न विद्यते ॥१.२९९॥
कृत्याकृत्यं न मन्येत क्षत्रियो युधि सङ्गतः ।
प्रसुप्तो द्रोणपुत्रेण धृष्टद्युम्नः पुरा हतः ॥१.३००॥
तदहं तस्य निश्चयं ज्ञात्वा त्वत्सकाशमिहागतः । साम्प्रतं मे नास्ति विश्वासघातकदोषः । मया सुगुप्तमन्त्रस्तव निवेदितः । अथ यत्ते प्रतिभाति तत्कुरुष्व इति । अथ सञ्जीवकस्तस्य तद्वज्रपातदारुणं वचनं श्रुत्वा मोहमुपगतः । अथ चेतनां लब्ध्वा सवैराग्यमिदमाहभो साध्विदमुच्यते
दुर्जनगम्या नार्यः प्रायेणास्नेहवान् भवति राजा ।
कृपणानुसारि च धनं मेघो गिरिदुर्गवर्षी च ॥१.३०१॥
अहं हि संमतो राज्ञो य एवं मन्यते कुधीः ।
बलीवर्दः स विज्ञेयो विषाणपरिवर्जितः ॥१.३०२॥
वरं वनं वरं भैक्षं वरं भारोपजीवनम् ।
वरं व्याधिर्मनुष्याणां नाधिकारेण सम्पदः ॥१.३०३॥
तद्युक्तं मया कृतं तदनेन सह मैत्री विहिता । उक्तं च
ययोरेव समं वित्तं ययोरेव समं कुलम् ।
तयोर्मैत्री विवाहश्च न तु पुष्टविपुष्टयोः ॥१.३०४॥
तथा च
मृगा मृगैः सङ्गमनुव्रजन्ति
गावश्च गोभिस्तुरगास्तुरगैः ।
मूर्खाश्च मूर्खैः सुधियः
सुधीभिः समानशीलव्यसनेन सख्यम् ॥१.३०५॥
तद्यदि गत्वा तं प्रसादयामि, तथापि न प्रसादं यास्यति । उक्तं च
निमित्तमुद्दिश्य हि यः प्रकुप्यति
ध्रुवं स तस्यापगमे प्रशाम्यति ।
अकारणद्वेषपरो हि यो भवेत्
कथं नरस्तं परितोषयति ॥१.३०६॥
अहो साधु चेदमुच्यते
भक्तानामुपकारिणां परहितव्यापारयुक्तात्मनां
सेवासंव्यवहारतत्त्वविदुषां द्रोहच्युतानामपि ।
व्यापत्तिः स्खलितान्तरेषु नियता सिद्धिर्भवेद्वा न वा
तस्मादम्बुपतेरिवावनिपतेः सेवा सदा शङ्किनी ॥१.३०७॥
तथा च
भावस्निग्धैरुपकृतमपि द्वेष्यतां याति लोके
साक्षादन्यैरपकृतमपि प्रीतये चोपयाति ।
दुर्ग्राह्यत्वान्नृपतिमनसां नैकभावाश्रयाणां
सेवाधर्मः परमगहनो योगिनामप्यगम्यः ॥१.३०८॥
तत्परिज्ञातं मया मत्प्रसादमसहमानैः समीपवर्तिभिरेष पिङ्गलकः प्रकोपितः । तेनायं ममादोषस्याप्येवं वदति । उक्तं च
प्रभोः प्रसादमन्यस्य न सहन्तीह सेवकाः ।
सपत्न्य इव सङ्क्रुद्धाः सपत्न्याः सुकृतैरपि ॥१.३०९॥
भवति चैवं यद्गुणवत्सु समीपवर्तिषु गुणहीनानां न प्रसादो भवति । उक्तं च
गुणवत्तरपात्रेण छाद्यन्ते गुणिनां गुणाः ।
रात्रौ दीपशिखाकान्तिर्न भानावुदिते सति ॥१.३१०॥
दमनक आहभो मित्र ! यद्येवं तन्नास्ति ते भयम् । प्रकोपितोऽपि स दुर्जनैस्तव वचनरचनया प्रसादं यास्यति ।
स आहभोः ! न युक्तमुक्तं भवता । लघूनामपि दुर्जनानां मध्ये वस्तुं न शक्यते । उपायान्तरं विधाय ते नूनं घ्नन्ति । उक्तं च
बहवः पण्डिताः क्षुद्राः सर्वे मायोपजीविनः ।
कुर्युः कृत्यमकृत्यं वा उष्ट्रे काकादयो यथा ॥१.३११॥
दमक आहकथमेतत्?
सोऽब्रवीत्
कथा ११
मदोत्कटसिंहकथा
अस्ति कस्मिंश्चिद्वनोद्देशे मदोत्कटो नाम सिंहः प्रतिवस ति स्म । तस्य चानुचरा अन्ये द्वीपिवायसगोमायवः सन्ति । अथ कदाचित्तैरितस्ततो भ्रमद्भिः सार्थाद्भ्रष्टः क्रथनको नामोष्त्रो दृष्टः । अथ सिंह आहअहो अपूर्वमिदं सत्त्वम् । तज्ज्ञायतां किमेतदारण्यकं ग्राम्यं वेति ।
तच्छ्रुत्वा वायस आहभोः स्वामिन् ! ग्राम्योऽयमुष्ट्रनामा जीवविशेषस्तव भोज्यः । तद्व्यापाद्यताम् ।
सिंह आहनाहं गृहमागतं हन्मि । उक्तं च
गृहं शत्रुमपि प्राप्तं विश्वस्तमकुतोभयम् । यो हन्यात्तस्य पापं स्याच्छतब्राह्मणघातजम् ॥१.३१२॥
तदभयप्रदानं दत्त्वा मत्सकाशमानीयतां येनास्यागमकारणं पृच्छामि ।
अथासौ सर्वैरपि विश्वास्याभयप्रदानं दत्त्वा मदोत्कटसकाशमानीतः प्रणम्योपविष्टश्च । ततस्तस्य पृच्छतस्तेनात्मवृत्तान्तः सार्थभ्रंशसमुद्भवो निवेदितः । ततः सिंहेनोक्तम्भोः क्रथनक ! मा त्वं ग्रामं गत्वा भूयोऽपि भारोद्वहनकष्टभागी भूयाः । तदत्रैवारण्ये निर्विशङ्को मरकतसदृशानि शष्पाग्राणि भक्षयन्मया सह सदैव वस । सोऽपि तथेत्युक्त्वा तेषां मध्ये विचरन्न कुतोऽपि भयमिति सुखेनास्ते ।
तथान्येद्युर्मदोत्कटस्य महागजेनारण्यचारिणा सह युद्धमभवत् । ततस्तस्य दन्तमुसलप्रहारैर्व्यथा सञ्जाता । व्यथितः कथमपि प्राणैर्न वियुक्तः । अथ शरीरासामर्थ्यान्न कुत्रचित्पदमपि चलितुं शक्नोति । ते सर्वे काकादयोऽप्यप्रभुत्वेन क्षुधाविष्टाः परं दुःखं भेजुः ।
अथ तान् सिंहः प्राहभोः ! अन्विष्यतां कुत्रचित्किंचित्सत्त्वं येनाहमेतामपि दशां प्राप्तस्तद्धत्वा युष्मद्भोजनं सम्पादयामि ।
अथ ते चत्वारोऽपि भ्रमितुमारब्धा यावन्न किंचित्सत्त्वं पश्यन्ति तावद्वायसशृगालौ परस्परं मन्त्रयतः । शृगाल आहभो वायस ! किं प्रभूतभ्रान्तेन । अयमस्माकं प्रभोः क्रथनको विश्वस्तस्तिष्ठति । तदेनं हत्वा प्राणयात्रां कुर्मः ।
वायस आहयुक्तमुक्तं भवता । परं स्वामिना तस्याभयप्रदानं दत्तमास्ते न वध्योऽयमिति ।
शृगाल आहभो वायस ! अहं स्वामिनं विज्ञाप्य तथा करिष्ये यथा स्वामी वधं करिष्यति । तत्तिष्ठन्तु भवन्तोऽत्रैव, यावदहं गृहं गत्वा प्रभोराज्ञां गृहीत्वा चागच्छामि ।
एवमभिधाय सत्वरं सिंहमुद्दिश्य प्रस्थितः । अथ सिंहमासाद्येदमाहस्वामिन् ! समस्तं वनं भ्रान्त्वा वयमागताः । न किंचित्सत्त्वमासादितम् । तत्किं कुर्मो वयम् । सम्प्रति वयं बुभुक्षया पदमेकमपि प्रचलितुं न शक्नुमः । देवोऽपि पथ्याशी वर्तते । तद्यदि देवादेशो भवति तत्क्रथनकपिशितेनाद्य पथ्यक्रिया क्रियते ।
अथ सिंहस्तस्य तद्दारुणं वचनमाकर्ण्य सकोपमिदमाहधिक्पापाधम ! यद्येवं भूयोऽपि वदसि । ततस्त्वां तत्क्षणमेव वधिष्यामि । ततो मया तस्याभयं प्रदत्तम् । तत्कथं व्यापादयामि । उक्तं च
न गोप्रदानं न महीप्रदानं
न चान्नदानं हि तथा प्रधानम् । यथा वदन्तीह बुधाः प्रधानं
सर्वप्रदानेष्वभयप्रदानम् ॥१.३१३॥
तच्छ्रुत्वा शृगाल आहस्वामिन् यद्यभयप्रदानं दत्त्वा वधः क्रियते तदेष दोषो भवति । पुनर्यदि देवपादानां भक्त्या सात्मनो जीवितव्यं प्रयच्छति तन्न दोषः ।
ततो यदि स स्वयमेवात्मानं वधाय नियोजयति तद्वध्योऽन्यथास्माकं मध्यादेकतमो वध्य इति यतो देवपादाः पथ्याशिनः क्षुन्निरोधादन्त्यां दशां यास्यन्ति ।
तत्किमेतैः प्राणैरस्माकं ये स्वाम्यर्थे न यास्यन्ति । अपरं पश्चादप्यस्माभिर्वह्निप्रवेशः कार्यो यदि स्वामिपादानां किंचिदनिष्टं भविष्यति । उक्तं च
यस्मिन् कुले यः पुरुषः प्रधानः
स सर्वयत्नैः परिरक्षणीयः । तस्मिन् विनष्टे स्वकुलं विनष्टं
न नाभिभङ्गे ह्यरका वहन्ति ॥१.३१४॥
तदाकर्ण्य मदोत्कट आहयद्येवं तत्कुरुष्व यद्रोचते ।
तच्छ्रुत्वा स सत्वरं गत्वा तानाहभोः ! स्वामिनो महत्यवस्था वर्तते । तत्किं पर्यटितेन ? तेन विना कोऽत्रास्मान् रक्षयिष्यति ? तद्गत्वा तस्य क्षुद्रोगात्परलोकं प्रस्थितस्यात्मशरीरदानं कुर्मो येन स्वामिप्रसादस्य अनृणतां गच्छामः । उक्तं च
आपदं प्राप्नुयात्स्वामी यस्य भृत्यस्य पश्यतः ।
प्राणेषु विद्यमानेषु स भृत्यो नरकं व्रजेत् ॥१.३१५॥
तदनन्तरं ते सर्वे बाष्पपूरितदृशो मदोत्कटं प्रणम्योपविष्टाः । तान् दृष्ट्वा मदोत्कट आहभोः ! प्राप्तं दृष्टं वा किंचित्सत्त्वम् ।
अथ तेषां मध्यात्काकः प्रोवाचस्वामिन् ! वयं तावत्सर्वत्र पर्यटिताः परं न किंचित्सत्त्वमासादितं दृष्टं वा । तदद्य मां भक्षयित्वा प्राणान् धारयतु स्वामी, येन देवस्याश्वासनं भवति मम पुनः स्वर्गप्राप्तिरिति । उक्तं च
स्वाम्यर्थे यस्त्यजेत्प्राणान् भृत्यो भक्तिसमन्वितः । स परं पदमाप्नोति जरामरणवर्जितम् ॥१.३१६॥
तच्छ्रुत्वा शृगाल आहभोः ! स्वल्पकायो भवान् । तव भक्षणात्स्वामिनस्तावत्प्राणयात्रा न भवति । अपरो दोषश्च तावत्समुत्पद्यते । उक्तं च
काकमांसं तथोच्छिष्टं स्तोकं तदपि दुर्बलम् ।
भक्षितेनापि किं तेन येन तृप्तिर्न जायते ॥१.३१७॥
तद्दर्षिता स्वामिभक्तिर्भवता गतं च आनृण्यं भर्तृपिण्डस्य प्राप्तश्चोभयलोके साधुवादः । तदपसराग्रतः । अहं स्वामिनं विज्ञापयामि । तथानुष्ठिते शृगालः सादरं प्रणम्योपविष्टः प्राहस्वामिन् ! मां भक्षयित्वाद्य प्राणयात्रां विधाय ममोभयलोकप्राप्तिं कुरु । उक्तं च
स्वाम्यायत्ताः सदा प्राणा भृत्यानामर्जिता धनैः । यतस्ततो न दोषोऽस्ति तेषां ग्रहणसम्भवः ॥१.३१८॥
अथ तच्छ्रुत्वा द्वीप्याहभोः साधूक्तं भवता पुनर्भवानपि स्वल्पकायः स्वजातिश्च नखायुधत्वादभक्ष्य एव । उक्तं च
नाभक्ष्यं भक्षयेत्प्राज्ञः प्राणैः कण्ठगतैरपि । विशेषात्तदपि स्तोकं लोकद्वयविनाशकम् ॥१.३१९॥
तद्दर्शितं त्वयात्मनः कौलीन्यम् । अथ वा साधु चेदमुच्यते
एतदर्थं कुलीनानां नृपाः कुर्वन्ति सङ्ग्रहम् । आदिमध्यावसानेषु न ते गच्छन्ति विक्रियाम् ॥१.३२०॥
तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते द्वीपी प्रणम्य मदोत्कटमाहस्वामिन् ! क्रियतामद्य मम प्राणैः प्राणयात्रा । दीयतामक्षयो वासः स्वर्गे । मम विस्तार्यतां क्षितितले प्रभूतं यशः । तन्नात्र विस्मयः कार्यः । उक्तं च
मृतानां स्वामिनः कार्ये भृत्यानामनुवर्तिनाम् । भवेत्स्वर्गे अक्षयो वासः कीर्तिश्च धरणीतले ॥१.३२१॥
तच्छ्रुत्वा क्रथनकश्चिन्तयामासएतैस्तावत्सर्वैरपि शोभावाक्यान्युक्तानि न चैकोऽपि स्वामिना विनाशितः । तदहमपि प्राप्तकालं वक्ष्यामि चित्रकं येन मद्वचनमेते त्रयोऽपि समर्थयन्ति । इति निश्चित्य प्रोवाचभोः सत्यमुक्तं भवता परं भवानपि नखायुधः । तत्कथं भवन्तं स्वामी भक्षयति । उक्तं च
मनसापि स्वजात्यानां योऽनिष्टानि प्रचिन्तयेत् । भवन्ति तस्य तान्येव इह लोके परत्र च ॥१.३२२॥
तदपसराग्रतः, येनाहं स्वामिनं विज्ञापयामि । तथानुष्ठिते क्रथनकोऽग्रे स्थित्वा प्रणम्योवाचस्वामिन् ! एतेऽभक्ष्यास्तव तन्मम प्राणैः प्राणयात्रा विधीयतां येन ममोभयलोकप्राप्तिर्भवति । उक्तं च
न यज्वानोऽपि गच्छन्ति तां गतिं नैव योगिनः । यां यान्ति प्रोज्झितप्राणाः स्वाम्यर्थे सेवकोत्तमाः ॥१.३२३॥
एवमभिहिते ताभ्यां शृगालचित्रकाभ्यां विदारितोभयकुक्षिः क्रथनकः प्राणानत्याक्षीत् । ततश्च तैः क्षुद्रपण्डितैः सर्वैर्भक्षितः ।
अतोऽहं ब्रवीमिबहवः पण्डिताः क्षुद्राः इति ।
तद्भद्र, क्षुद्रपरिवारोऽयं ते राजा मया सम्यग्जातः । सतामसेव्यं च । उक्तं च
अशुद्धप्रकृतौ राज्ञि जनता नानुरज्यते ।
यथा गृध्रसमासन्नः कलहंसः समाचरेत् ॥१.३२४॥
तथा च
गृध्राकारोऽपि सेव्यः स्याद्धंसाकारैः सभासदैः ।
हंसाकारोऽपि सन्त्याज्यो गृध्राकारैः स तैर्नृपः ॥१.३२५॥
तन्नूनं ममोपरि केनचिद्दुर्जनेनायं प्रकोपितः, तेनैवं वदति । अथवा भवत्येतत् । उक्तं च
मृदुना सलिलेन खन्यमा
नान्यवद्धृष्यन्ति गिरेरपि स्थलानि ।
उपजापविदां च कर्णजापैः
किमु चेतांसि मृदूनि मानवानाम् ॥१.३२६॥
कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः ।
क्षपणकतामपि धत्ते पिबति सुरां नरकपालेन ॥१.३२७॥
अथवा साध्विदमुच्यते
पादाहतोऽपि दृढदण्डसमाहतोऽपि
यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः ।
कोऽप्येष एव पिशुनोग्रमनुष्यधर्मः
कर्णे परं स्पृशति हन्ति परं समूलम् ॥१.३२८॥
तथा च
अहो खलभुजङ्गस्य विपरीतो वधक्रमः ।
कर्णे लगति चान्यस्य प्राणैरन्यो वियुज्यते ॥१.३२९॥
तदेवं गतेऽपि किं कर्तव्यमित्यहं त्वां सुहृद्भावात्पृच्छामि ।
दमनक आहतद्देशान्तरगमनं युज्यते । नैवंविधस्य कुस्वामिनः सेवां विधातुम् । उक्तं च
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥१.३३०॥
सञ्जीवक आहअस्माकमुपरि स्वामिनि कुपिते गन्तुं न शक्यते, न चान्यत्र गतानामपि निर्वृतिर्भवति । उक्तं च
महतां योऽपराध्येन दूरस्थोऽस्मीति नाश्वसेत् ।
दीर्घौ बुद्धिमतो बाहू ताभ्यां हिंसति हिंसकम् ॥१.३३१॥
तद्युद्धं मुक्त्वा मे नान्यदसित्श्रेयस्करम् । उक्तं च
न तान् हि तीर्थैस्तपसा च लोकान्
स्वर्गैषिणो दानशतैः सुवृत्तैः ।
क्षणेन यान् यान्ति रणेषु धीराः
प्राणान् समुज्झन्ति हि ये सुशीलाः ॥१.३३२॥
मृतैः सम्प्राप्यते स्वर्गो जीवद्भिः कीर्तिरुत्तमा ।
तदुभावपि शूराणां गुणावेतौ सुदुर्लभौ ॥१.३३३॥
ललाटदेशे रुधिरं स्रवत्तु
शूरस्य यस्य प्रविशेच्च वक्त्रे ।
तत्सोमपानेन समं भवेच्च
सङ्ग्रामयज्ञे विधिवत्प्रदिष्टम् ॥१.३३४॥
तथा च
होमार्थैर्विधिवत्प्रदानविधिना सद्विप्रवृन्दार्चनैर्
यज्ञैर्भूरिसुदक्षिणैः सुविहितैः सम्प्राप्यते यत्फलम् ।
सत्तीर्थाश्रमवासहोमनियमैश्चान्द्रायणाद्यैः कृतैः
पुम्भिस्तत्फलमाहवे विनिहितैः सम्प्राप्यते तत्क्षणात् ॥१.३३५॥
तदाकर्ण्य दमनकश्चिन्तयामासयुद्धाय कृतनिश्चयोऽयं दृश्यते दुरात्मा । तद्यदि कदाचित्तीक्ष्णशृगालाभ्यां स्वामिनं प्रहरिष्यति तन्महाननर्थः सम्पत्स्यते । तदेनं भूयोऽपि स्वबुद्ध्या प्रबोध्य तथा करोमि, यथा देशान्तरगमनं करोति । आह चभो मित्र ! सम्यगभिहितं भवता । परं कः स्वामिभृत्ययोः सङ्ग्रामः । उक्तं च
बलवन्तं रिपुं दृष्ट्वा किलात्मानं प्रगोपयेत् ।
बलवद्भिश्च कर्तव्या शरच्चन्द्रप्रकाशता ॥१.३३६॥
अन्यच्च
शत्रोर्विक्रममज्ञात्वा वैरमारभते हि यः ।
स पराभवमाप्नोति समुद्रष्टिट्टिभाद्यथा ॥१.३३७॥
सञ्जीवक आहकथमेतत्?
सोऽब्रवीत्
कथा १२
टिट्टिभदम्पतीकथा
कस्मिंश्चित्समुद्रैकदेशे टिट्टिभदम्पती वसतः । ततो गच्छति काल ऋतुसमयमासाद्य टिट्टिभी गर्भमाधत्त । आसन्नप्रसवा सती सा टिट्टिभमूचेभोः कान्त ! मम प्रसवसमयो वर्तते । तद्विचिन्त्यतां किमपि निरुपद्रवं स्थानं येन तत्राहमण्डकमोक्षणं करोमि ।
टिट्टिभः प्राहभद्रे रम्योऽयं समुद्रप्रदेशः । तदत्रैव प्रसवः कार्यः ।
सा प्राहअत्र पूर्णिमादिने समुद्रवेला चरति । सा मत्तगजेन्द्रानपि समाकर्षति । तद्दूरमन्यत्र किंचित्स्थानमन्विष्यताम् ।
तच्छ्रुत्वा विहस्य टिट्टिभ आहभद्रे न युक्तमुक्तं भवत्या । का मात्रा समुद्रस्य या मम दूषयिष्यति प्रसूतिम् । किं न श्रुतं भवत्या
बद्ध्वाम्बरचरमार्गं व्यपगतधूमं सदा महद्भयदम् ।
मन्दमतिः कः प्रविशति हुताशनं स्वेच्छया मनुजः ॥१.३३८॥
मत्तेभकुम्भविदलनकृतश्रमं सुप्तमन्तकप्रतिमम् ।
यमलोकदर्शनेच्छुः सिंहः बोधयति को नाम ॥१.३३९॥
को गत्वा यमसदनं स्वयमन्तकमादिशत्यजातभयः ।
प्राणानपहर मत्तो यदि शक्तिः काचिदस्ति तव ॥१.३४०॥
प्रालेयलेशमिश्रे मरुति प्राभातिके च वाति जडे ।
गुणदोषज्ञः पुरुषो जलेन कः शीतमपनयति ॥१.३४१॥
तस्माद्विश्रब्धात्रैव गर्भं मुञ्च । उक्तं च
यः पराभवसन्त्रस्तः स्वस्थानं सन्त्यजेन्नरः ।
तेन चेत्पुत्रि