Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
05/04/2026
  • Vedic Sanskrit Culture

Pratyakṣam – Evidence of Direct Perception

advtanmoy 10/02/2019 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

From तर्कभाषा

प्रत्यक्षम्

मङ्गलाचरणम्

Read Next

  • चिकित्सायाः प्रगति: रोगनिवारणं च – मधुमेहस्य प्रकारः १ परिप्रेक्ष्ये
  • मधुमेहस्य लक्षणं चिकित्सा च
  • पृथ्व्याः निर्माणस्य नवीनतमः दृष्टिकोणः

गुरुं प्रणम्य लोकेशं शिशुनामल्पमेधसाम्।

धर्मकीर्तिमतं श्रुत्यै तर्कभाषा प्रकाश्यते॥

प्रमाणसामान्यलक्षणम् [ Proof]

इह खलु प्रेक्षापूर्वकारिणोऽर्थिजनाः सर्वपुरुषार्थसिद्धिनिमित्तं प्रमाणमनुसरन्तीति प्रमाणमादौ व्युत्पाद्द्यते।

Read Next

  • चिकित्सायाः प्रगति: रोगनिवारणं च – मधुमेहस्य प्रकारः १ परिप्रेक्ष्ये
  • मधुमेहस्य लक्षणं चिकित्सा च
  • पृथ्व्याः निर्माणस्य नवीनतमः दृष्टिकोणः

प्रमाणं सम्यग्ज्ञानमपूर्वगोचरम्। प्रमीयतेऽर्थोऽनेनेति प्रमाणम्। तदेव सम्यग्ज्ञानम्, सन्देहविपर्यासदोषरहितत्वात्। अविसंवादकं ज्ञानं लोके सम्यग् ज्ञानमभिधीयते। न च संशयविपर्यासज्ञानयोरविसंवादकत्वमस्ति।यथा स्थाणुर्वा पुरुषो वेति ज्ञानस्य, मरीचिकासु वा जलज्ञानस्य। अपूर्वो गोचरो अस्येत्यपूर्वगोचरम्। गोचरो विषयो घटादिः। तस्मादुत्पन्नं तदर्थप्रापणयोग्यं ज्ञानं प्रमाणम्॥

प्रमाणस्य कार्यम् [ Effect of proof]

ननु ज्ञानं कर्तृ पुरुषं प्रयोज्यमर्थ कर्मभूतं यदि कदाचिन्न प्रापयति तत्कथमप्रापकत्वात् प्रमाणं स्यात् ? उच्यते। न हि ज्ञानेन पुरुषो गले पादुकान्यायेन बलादर्थे प्रवर्तयितव्यः। अपि त्वेवंभूतमिदं वतुस्वरुपं नान्यथेत्यनेनाकारेण निश्चयो जनयितव्यः। स चेत्तेन कृतः, एतावतैवास्य प्रामाण्यमविरुद्धम्। पुरुषस्तु तत्र प्रयोजनवशात् प्रवर्ततामृते प्रयोजनं न प्रवर्तताम्, अर्थो वा योगिपिशाचादिभिरपह्रियताम्। ज्ञानस्य किमायातम् ?॥

Read Next

  • चिकित्सायाः प्रगति: रोगनिवारणं च – मधुमेहस्य प्रकारः १ परिप्रेक्ष्ये
  • मधुमेहस्य लक्षणं चिकित्सा च
  • पृथ्व्याः निर्माणस्य नवीनतमः दृष्टिकोणः

क्षणिकं सन्नपि प्रमाणस्य संगतिः

नन्वविसंवादकत्वेन ज्ञानस्य प्रामाण्यम्। अविसंवादकत्वं च दृष्टार्थप्रापणात्। न च यद् दृष्टं तत्प्राप्यते, क्षणिकत्वात्।किं च , रुपं दृष्ट, प्राप्यते च स्प्रष्टव्यम्। ततोऽन्यद् दृष्टमन्यत् प्राप्यत इत्यप्रतीतप्रापणात् कथं प्रामाण्यमस्य संगच्छताम्। न , यदि नाम वस्तुतोऽन्यदेव प्राप्यते तथापि दृष्टमेव मया प्राप्तमित्येकत्वाध्यवसायात् प्रतीतप्रापणमभिधीयते। यत्तु मरीचिकादिजलज्ञानं तदप्रापणयोग्यत्वादप्रमाणमेव॥

अर्थक्रियास्थितिः

नन्विदं प्रापणयोग्यमिदं नेत्यर्थक्रिया प्राप्तिमन्तरेण निश्चेतुमशक्यम्। ज्ञानोत्पत्तिमात्रेण तु न भ्रान्ताभ्रान्तयोर्भेदोऽवधार्यते। ततश्च कथं तत्सम्यग्ज्ञानमिति चेत् ? नैष दोषः। यद्द्यपि ज्ञानमात्रोदयाद् वैशिष्ट्यमनयोरवधारयितुं न शक्यते, तथापि ज्ञानविशेषोदयाद्द्यथैकस्य वैशिष्टयं तथोच्यते। तथा हि- यदि नाम मन्दबुद्धिरुत्पत्तिवशादविसंवादकत्वं ज्ञानस्य नावधारयितुं समर्थः , तथापि दाहपाकावगाहनस्नानपानोन्मज्जनाद्द्यर्थक्रियां दूरतोऽनुभवतो नरस्य दर्शनेनोच्चलद् धूमादिदर्शनेन चावधारयति। अमन्दबुद्धिस्तु पटुतरप्रत्यक्षेणैवावधारयति , न त्वर्थक्रियाप्राप्त्या।

यद्यविसंवादलक्षणं प्रामाण्यं तदा श्रोत्रज्ञानस्याधिगतार्थाप्रापकत्वात् कथं प्रामाण्यमिनि चेत् ? न। अर्थस्वरुपप्रतीतिर्हि प्रामाण्यम्। तच्च बाह्यार्थक्रियाप्राप्तिमन्तरेणापि सम्भवति। यदुक्तम्-

प्रमाणमविसंवादि ज्ञानमर्थक्रियास्थितिः।

अविसंवादनम् इति।

शब्दस्य श्रुतिमात्रेणैव चरितार्थत्वात् श्रुतिरेव तत्रार्थक्रियास्थितिः। यथा रविचन्द्राम्बुदचित्रादीनां दर्शनमेवार्थक्रियास्थितिः। तदुक्तम् –

ज्ञेयस्वरुपसंवित्तिरिष्टा तत्र क्रियास्थितिः इति।

प्रथमं तु प्रेक्षावानर्थक्रियार्थितया जलानलादावर्थक्रियासन्देहादेव प्रवर्तते।

यदि नाम तस्यैव नास्ति सन्देहो मे वर्तत इति तथापि साधकबाधकप्रमाणाभावाद्युक्तः सन्देहो भवन् केन वार्यते इति। तस्मात्

स्थितमेतत् – आसादितनिरन्तरार्थक्रियाव्यवहारात् पटुतरप्रत्यक्षोदयादेवार्थ प्रवर्तते, मन्दबुद्धिस्तु ताद्रूप्यानुमानादिति।

अत एव तु प्रत्यक्षस्य स्वतः प्रामाण्यम्। कस्यचित्तु परतः। योगिज्ञानस्य स्वसंवेदनस्य च स्वत एव प्रामाण्यम्। अनुमानस्य तु निश्चयात्मकत्वात् स्वत एव प्रमाण्यम्।

अपूर्वगोचरम्

तेनायमर्थः- प्रथमत एव यद्विज्ञानं विषये प्रवृत्तं तदेव प्रमाणम् , न तु तत्रैव पश्चाद्भावि ज्ञानान्तरमपि , गृहितग्राहित्वेन तस्याप्रामाण्यात्। यथा घटं निर्विकल्पकेन ज्ञानेन दृष्ट्वा पश्चात्तस्मिन्नेव विषये घटोऽयमिति सविकल्पकं ज्ञानं स्मरणरुपम् , यथा वा पर्वतादौ धूमं दृष्ट्वा वह्निरत्रेत्यनुमानज्ञानानन्तरं पुनरपि तत्रैव वह्निरत्रेत्यनुमानज्ञानम्।

इन्द्रियादेर अप्रमाणम्

सम्यग्ज्ञानं प्रमाणमित्युक्ते सामर्थ्याज्जडस्वभावस्येन्द्रियादेः परिच्छेदकत्वाभावात् प्रामाण्यं निरस्तम्।परिच्छेदकत्वं हि बोद्धृत्वम्।तच्च ज्ञानस्यैव निजरुपम्। तत्कथमज्ञानात्मन इन्द्रियादेः स्वरुपं भवितुमर्हतीति॥

प्रमाणस्य द्वैविध्यम् , प्रत्यक्षशब्दनिर्वचनं च

तद् द्विविधं प्रत्यक्षमनुमानं चेति। प्रतिगतमक्षं प्रत्यक्षम्। अक्षमिन्द्रियं चक्षुः श्रोत्रघ्राणजिह्वाकायाख्यम्। तस्मादुत्पन्नं ज्ञानं प्रत्यक्षमभिधीयते। ननु यद्यक्षाश्रितं ज्ञानं प्रत्यक्षं तदा मानसादि वक्ष्यमाणं ज्ञानत्रयमिन्द्रियादनुत्पत्तेः प्रत्यक्षं न स्यात्? अत्रोच्यते- प्रतिगतमक्षमिति यदुक्तं तत्प्रत्यक्षशब्दस्याव्युत्पत्तिमात्रनिमित्तं प्रतिपादितम्। प्रवृत्तिनिमित्तं तु प्रत्यक्षशव्दसायार्थसाक्षात्कारित्वमेव रुढिवशादवगन्तव्यं पङ्कजवत्। ततः स्वसंवेदनादिकमपि ज्ञानं स्वसंवेदनरुपमर्थ साक्षात्करोतीति प्रत्यक्षशव्दवाच्यं सिद्ध्यतीति॥

अनुमानशब्दनिर्वचनम् [ Meaning of inference]

मीयतेऽर्थोऽनेनेति मानम्। अनुः पश्चादर्थे। पश्चान्मानमनुमानम्। लिङ्गग्रहणलिङ्गलिङ्गिसम्बन्धस्मरणयोः पश्चात् यद्विज्ञानं पर्वतादौ धर्मिणि परोक्षवस्त्वालम्बकं तदेवानुमानशब्देनाभिधीयते। एतच्च रुढिवशादवगन्तव्यम्।

प्रमाणसंख्याविप्रतिपत्तिः

द्विविधवचनेन एकं त्रीणि चत्वारि पञ्च षढिति विप्रतिपत्तयो निरस्यन्ते। तथा हि – प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकः। प्रत्यक्षमनुमानं शाब्दं चेति सांख्यः।

प्रत्यक्षमनुमानमुपमानं शाब्दं चेति नैयायिकः। प्रत्यक्षमनुमानं शाव्दमुपमानमर्थपत्तिरिति प्राभाकरः। प्रत्यक्षमनुमानं शाब्दमुपमानमर्थपत्तिरभावश्चेति मीमांसकः।

द्विविधवचनेन द्वित्वे प्राप्ते प्रत्यक्षमनुमानं चेति पुनर्यदुक्तं तदन्यथाद्वित्वनिरासार्थम्। तथा हि वैयाक रणो ब्रूते प्रत्यक्षं शाब्दं चेति प्रमाणद्वयम्॥

चार्वाकाभिमतानुमानाप्रमाण्यनिरसनम्

तत्र अनुमानस्य प्रामाण्यमवश्यमभ्युपगन्तव्यं चार्वाकेणेति प्रतिपाद्यते। तथा हि – स खलु प्रत्यक्षलक्षणं परप्रतिपादनाय प्रणयति। परस्य च बुद्धिर्न प्रत्यक्षा। किं तर्हि कायवाग्व्यापारादिकार्यादनुमेया। ततोऽनेन कार्यलिङ्गजमनुमानं बलादभ्युपगतं स्यात्। परलोकनिषेधाय चानुपलम्भाख्यं साधनमाचष्टे। अतोऽसौ स्वयमेवानुमानेन प्रमाणेन व्यवहरति, नानुमानं प्रमाणमिति च ब्रुवन् कथं नाम नोन्मत्तश्चार्वाकः स्यात् ?

शब्दोपमानार्थापत्यभावानां प्रमाणान्तरत्वनिरसनम्

शाब्दं च ज्ञानं बाह्यार्थाविसंवादकत्वेन प्रमाणमेष्टव्यम्। अविसंवादकत्वं च सम्बन्धमन्तरेण न संगच्छते। न च शब्दानां बाह्यार्थेन सह कश्चित्सम्बन्धोऽस्ति। तथा हि – शब्दार्थयोः सम्बन्धो भवन् तादात्म्यं तदुत्पत्तिरर्वा भवेत्। तत्र न तावात्तादात्म्यं शब्दार्थयोः , अत्यन्तभेदेन प्रतिभासनात्। तादात्म्यं ह्येकत्वमभिधीयते भिन्नप्रतिभासयोरप्येकत्वे स्वीक्रियमाणे गवाश्वादीनामप्येकत्वप्रसङ्गः। नापि तदुत्पत्तिः। नापि तदुत्पत्तिः , अन्वयव्यतिरेकाभावात्। तस्मात् तदुत्पत्तिरित्येवं वक्तुं न शक्यते। तथा हि – शब्दव्यापारमन्तरेण स्वहेतोरेव मृत्पिण्डदण्डसलिलकुलालचक्रादेः सकाशादुत्पद्यमानो घटादिरर्थो दृश्यते। शब्दोऽपि बाह्यार्थ विनैव पुरुषेच्छामात्रेण ताल्वादिव्यापारादेवोत्पद्यते।

अथ तादात्म्यतदुत्पत्तिभ्यामन्य एव वाच्यावाचकत्वलक्षणः शब्दार्थयोः वास्तवः सम्बन्धधोऽस्ति। एवं तर्ह्यसंकेतविदोऽपि पुरुषस्य शब्दादुच्चरितान्नियता – र्थप्रतीतिः प्राप्ता, योग्यता मात्रेणैव प्रदीपात् घटादिप्रतीतिवत् न चैतदस्ति।

तथा हि -अभिनवो नालिकेरद्वीपादायातः पुमानग्निशब्दं श्रुत्वाऽप्यग्निशव्दान्न किञ्चिदर्थ प्रत्येतीति।

अथ तांस्तान् संकेतानपेक्ष्य तत्तदर्थप्रत्यायनयोग्य एवायं शब्दो जायत इत्युच्यते। तन्न। न ह्येवमस्य प्रामाण्यमवतिष्ठते। सर्वत्र संकेतस्य योग्यत्वात्।ततो न ज्ञायते किं विवक्षितार्थमाह, आहोस्विदन्यं वेति।

अस्तु वा अन्य एव कश्चित्सम्बन्धः। तथा च सोऽपि केन सम्बन्धेन तयोः सम्बध्द इति प्रष्टव्यः। अन्येन चतुर्थेन सम्बन्धेनेति चेत् , चतुर्थोऽपि तेषु केन सम्बन्धेन सम्बद्धः ? पञ्चमेन केनचिच्चेत् , सोऽपि केनेत्यनवस्थायां अन्त्यासिध्दौ पूर्वेषामप्यसिद्धिः।

अथासम्बद्ध एव शब्दार्थयोः सम्वन्ध इति चेत्। तन्न। यो न सम्बद्धः स कथं सम्बन्धो भवति घटस्येव पटः। अथ वक्तव्यं सम्बन्धस्य तादृश एव स्वभावः, येन सम्बन्धान्तरनिरपेक्ष एवं परं सम्बध्नाति? तदुयुक्तम्। प्रमाणसिध्दे हि स्वभावे नोत्तरमभिधीयते। यथाग्नेरेवायमीदृशः स्वभावो यदुत दाहकत्वं नाम नान्यस्याकाशादेः। सम्बन्धसिद्धौ तु प्रमाणं किञ्चिन्निरुपयन्तो न पश्यामः। न चैवं वक्तव्यं शब्दशक्तिस्वभावादेव शब्दानां नियतार्थाव्यभिचारित्वमिति। तथा हि – यदि घट इत्ययं शब्दः स्वभावादेव कम्बुग्रीवाकारं वारिसंधारणसमर्थ पदार्थमभिदधाति, तत्कथं संकेतान्तरमपेक्ष्य पुरुषेच्छया तुरगादिकमभिदध्यात्। न हि शालिबीजं स्वहेतोरङ्कुरजननस्वभावमुत्पन्नं संकेतान्तमपेक्ष्य गर्दभं जनयितुं समर्थ स्यात्। नाप्याप्तप्रणीतशब्दानां प्रामाण्यमभिधातुमुचितम्। आप्तत्वस्यैव निश्चेतुमशक्यत्वात्। तथा हि – आप्तत्वं क्षिणदोषत्वमुच्यते। क्षीणदोषता च परचित्तवृत्तिः काचिदभिधीयते। परचित्तवृत्तीनां दुर्लक्ष्यत्वात् , कायवाग्व्यापारादिकार्यलिङ्गस्यान्यथाऽपि वृत्तिदर्शनात्। सरागा अपि वीतरागा इव चेष्टन्त इति न्यायात्कथमाप्तत्वं निश्चीयतामिति। सम्वन्धदूषणेन च वैदिकशब्दानां प्रामाण्यं निरस्तमिति पृथङ्नोक्तम्। कथं तर्हि सर्वोऽयमसन्दिग्धो लौकिको व्यवहार इति चेत्। तथा तथा संकेतेन विवक्षावशादिति न काचित् क्षतिः। यथोक्तम् ‘ वक्तुरभिप्रायं सूचयेयुः शब्दा’ इति॥

नैयायिकसम्मतस्योपमानप्रमाणस्य निरसनम्

नैयायिकस्योपमानप्रपञ्चः। यः प्रतिपत्ता गां जानाति न गवयम् , स च अपदिष्टः स्वामिना अरण्यं गत्वा गवयमानयेति। स च गवयशब्दवाच्यमर्थमजानानो वनेचरमन्यं तज्ज्ञं पुरुषं पृष्टवान् , कीदृशो गवय इति। स चाह यादृशी गौस्तादृशो गवय इति।तस्यारण्यगतस्य प्रेष्यपुरुषस्य अतिदेश वाक्यार्थस्मरणसहकारि गवयसारूप्यज्ञानं कर्तृ अयमसौ गवयशब्दवाच्योऽर्थ इति प्रतिपत्तिं फ़लस्वरुपां जनयत्प्रमाणम्। एतच्चायुक्तम्। यत्प्रामाण्यं नाम विषयवत्तयां व्याप्तम्। न चास्य निपुणमपि निरुपयन्तो विषयं संपश्यामः। तथा हि – समाख्या नाम सम्बन्धः तस्य विषयो वर्ण्यते। स च परमार्थतो नास्ति। दृश्यत्वे तस्यानुपलम्भेन बाधा। अदृश्यत्वे तस्य सत्तासाधकं प्रमाणं नेक्ष्यते। किं च -स हि सम्बन्धः सम्बधिभ्यां भिन्नोऽभिन्नो वा।यदा भिन्नस्तदा तयोः सम्बन्धः केन सम्बन्धेनेति वाच्यम्।

सम्बन्धान्तरकल्पनायामनवस्था। अथाभिन्नस्तदा सम्बन्धिनावेव केवलौ। न समाख्या नाम सम्बन्धः कश्चित्। अथ सम्बद्धबुद्धिजनकत्वं सम्बन्धः। तन्न युक्तम्। यतः सम्बद्धावेताविति बुद्धिः स्वहेतुबलात् सम्बद्धवस्तुद्वयादपि सम्भाव्यमाना न सम्बन्धान्तरमाक्षिप्तुं प्रभवति॥

मीमांसकसम्मतस्योपमानप्रमाणस्य निरसनम्

एवं मीमांसकोपवर्णितस्यापि प्रामाण्यं निराकर्तव्यम्। तथा हि, सादृश्यविशिष्टः पिण्डः पिण्डविशिष्टं वा सादृश्यमुपमानस्य विषयस्तेन वर्ण्यते। न च सदृशवस्तुनोऽतिरिक्तं सादृश्यं व्यवस्थापयितुं शक्यते, प्रमाणेनाप्रतीतत्वात्। तथा हि – यदि सदृशादतिरिक्तं सादृश्यं दृश्यं स्यात् तदा दृश्यानुलम्भग्रस्तमेतत्। अथादृश्यं तदा तत्प्रतिबध्दलिङ्गाभावात् अनुमानादपि कथं तत्सिध्दिः। सादृश्यप्रत्ययस्तु स्वहेतोस्तथोत्पन्नेन सदृशवस्तुनाऽपि क्रियमाणो घटत इति न तत्प्रत्ययादपि तत्सिद्धिर्युक्ता। उपमानादेव सादृश्यसिद्धिरिति चेत् ? न। यतः प्रमाणान्तरसिद्धयोरेव सादृश्यपिण्डयोर्यो विशेषणविषेष्यभावस्तस्योपमानविषयत्वं तेन वादिना परिकल्ध्दप्यते। तत्कथं सादृश्यमात्रस्याप्युपमानात् सिद्धिरिति॥

अर्थापत्तिप्रमाणनिरसनम्

अर्थापत्तेरपि प्रामाण्यं पृथङ्नोपपद्यते। तथा हि प्रत्यक्षादिप्रतीतो योऽर्थः स येन विना नोपपद्यते तस्यार्थस्य कल्पनमर्थापत्तिरित्यर्थापत्तेर्लक्षणम्। अत्रेदं चिन्त्यते – योऽसौ प्रमाणदृष्टोऽर्थः , तस्य यदि परिकल्प्यमानेन परोक्षार्थेन सह कश्चित्तादाम्यलक्षणः तदुत्पत्तिलक्षणो व प्रतिबन्धोऽस्ति तदा स्वभावलिङ्गजा कार्यलिङ्गजा वाऽसौ प्रतिपत्तिरित्यर्थापत्तिरनुमानमेव। अथ नास्ति प्रतिबन्धः , तदानीमर्थापत्तिः प्रमाणमेव न भवति, असम्बन्धात् घटात्पटप्रतीतिवदिति॥

अभावप्रमाणनिरसनम्

अभावस्य स्वरुपमेव तावन्नोपलभामहे, कुत एव तस्य प्रामाण्यं भविष्यति। तथा हि – प्रत्यक्षादिप्रमाणानामनुत्पत्तिरभावाख्यं प्रमाणं मीमांसकैरभिधीयते। तत्र केयमनुत्पत्तिः ? किं प्रसज्यवृत्या प्रमाणानुत्पत्तिमात्रम् ? अथ पर्युदासवृत्या वस्त्वन्तरम्? वस्त्वन्तरमपि जडरुपं, ज्ञानरुपं वा? ज्ञानमपि किं ज्ञानमात्रम् एकज्ञानसंसर्गिवस्तुनो ज्ञानं वा ? तत्र न तावत् प्रसज्यरुपोऽभावो युज्यते। तस्य सर्वशक्तिशून्यत्वात् परिच्छेदकत्वं वा कथं भवेत् ? अत एव केनापि न तत्प्रतिद्यते। यदाह पण्डितचक्रचूडामणिः-

नाभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा।

तस्यापि कथं प्रतिपत्तिः इति।

नापि जडरुपम् , जडस्य परिच्छेदकत्वाभावात्। न हि जडरुपं शकटादिकं घटं परिच्छिनत्तीति क्वापि दृष्टं श्रुतं वेति। नापि ज्ञानमात्रम् , देशकालस्वभावविप्रकृष्टस्यापि सुमेरुशंखचक्रवर्तिपिशाचादेरपि ज्ञानमात्रादभावप्रमाणादभावप्रसङ्गात्। अथैकज्ञानसंसर्गिभूतलादिवस्तुज्ञानमभावोऽभिधीयते तदा प्रत्यक्षविशेषस्यैवाभावप्रमाणनामक रणान्नास्माकं काचिद् विप्रतिपत्तिरिति। स्थितमेतत्- प्रत्यक्षमनुमानं चेत द्विविधमेव प्रमाणमिति॥

प्रत्यक्षलक्षणम् 

तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तम्। पूर्वोपरमनुसन्धाय शब्दसङ्कीर्णाकारा प्रतीतिर्जल्पाकारा वा कल्पना। यथा विज्ञपुरुषस्य सोऽयं घट इति प्रतीतिः। बालमूकतिर्यगादीनामन्तर्जल्पाकारा परामर्शरुपा वा प्रतीतिः। तथा चोक्तम् –

अभिलापसंसर्गयोग्यप्रतिभासप्रतीतिः कल्पना॥इति॥

ननु बालमूकादीनामन्तर्जल्पाकारं कल्पनाज्ञानमस्तीति कुतो निश्चेतव्यमिति चेत, विकल्पकार्यादिष्टापादानपरिहारात्। दृष्टं चेदं कार्य बालमूकादौ , ईप्तिसतार्थस्वीकरणमनीप्सितार्थत्यजनं नाम। बालमूकादिविज्ञानस्य कल्पनात्व सूचनेन भत्तोक्तालोचनाज्ञानं सविकल्पकमिति प्रतिपादितं भवति। किं पुनः कारणं कल्पनाविभ्रमात्मकं च ज्ञानं प्रत्यक्षं न स्यादिति चेत ? न। अर्थस्वरुपसाक्षाकारि हि ज्ञानं प्रत्यक्षमिति सर्वोषां प्रसिद्धम्। न च कल्पनाविभ्रमावर्थरुपं साक्षात्कर्तु समर्थौ। तथा हि – अर्थग्राहकं ज्ञानमर्थस्य कार्यम्। अर्थो हि ग्राह्यत्वात् ज्ञानस्य कारणम्। यथोक्तम् –

भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः।

हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्॥इति॥

कल्पनाज्ञानमर्थमन्तरेण वासनामात्रादेवोपजायमानं कथमर्थस्य कार्यं स्यात् , अर्थेन सह अन्वयव्यतिरेकाभावात्। न हि यदन्तरेणापि यद्भवति तत्तस्य कार्यम् , अतिप्रसङ्गात्। यदि पुनः कल्पनाज्ञानमर्थादुपजायेत , तेनापि तदा घटादिरर्थो दृश्येत। ततश्चान्धस्यापि रुपदर्शनप्रसङ्गः, न चास्ति। अत एवोक्तम् –

शाब्द्यां बुद्धावर्थस्य प्रत्यक्ष इव प्रतिभासाभावाद् नास्ति कल्पनाया अर्थसाक्षात्कारित्वम् इति॥

एतेन यदुक्तं परेणः

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते।

अनुविद्धमिव ज्ञानं सर्व शब्देन भासते॥इति॥

तन्निरस्तम्। तथाहि – घटे पुरोवर्तिनि उच्चार्यमाणे तत्समीपवर्ति भूतलादिज्ञानमुच्चारणरहितमनुभूयत एव। न च तथा तत्र शब्दानुगतोऽस्ति। न च विकल्पद्वयं सकृदिति न्यायात्॥

भ्रान्तज्ञानम्

भ्रान्तमपि ज्ञानं नार्थसाक्षात्कारि। भ्रान्तं ह्यर्थक्रियासमर्थ वस्तुनि विपर्यस्तमुच्यते। अर्थक्रियाक्षमं च वस्तुस्वरुपं देशकालाकारनियतं, तत्कथं विपरीतप्रतिभासिना भ्रान्तेन ज्ञानेन साक्षात्क्रियते। यदाह आचार्यः-

‘तिमिराशुभ्रमणनौयानसंक्षोभाद्यनाहितविभ्रमं ज्ञानं प्रत्यक्षम्’॥इति॥

एतेन कामलिनः शुक्ले शंखे पीतप्रतिभासि ज्ञानं , भ्रमादलातादौ चक्रादिनिर्भासि ज्ञानं , गच्छन्त्यां नावि स्थितस्य चलदवृक्षादिभ्रान्तिज्ञानं , गाढमर्मप्रहारहतस्य ज्वलत्स्तम्भादिप्रतिभासि ज्ञानं च , न प्रत्यक्षमित्युक्तं भवति।

ननु यदि नाम तज्ज्ञानं न प्रत्यक्षं कथं ततो वस्तुप्राप्तिरिति चेत्? न ततो वस्तुप्राप्तिः। किं तर्हि , ज्ञानान्तरादेवेति केचित्।

प्रत्यक्षस्य चातुर्विध्यम्

तच्चतुर्विधं- इन्द्रियज्ञानं मानसं स्वसंदनं योगिज्ञानं चेति।

इन्द्रियप्रत्यक्षम्

चक्षुरादीन्द्रियपञ्चकाश्रयेणोत्पद्यमानं बाह्यरुपादिपञ्चविषयालम्बनमिन्द्रियप्रत्यक्षम्। तत्र चक्षुर्विज्ञानं रुपविषयम्। श्रोत्रविज्ञानं च शब्दविषयम्। घ्राणविज्ञानं गन्धविषयम्। जिह्वाविज्ञानं रसविषयम्। कायविज्ञानं स्पर्शविषयम्।

इन्द्रियप्रत्यक्षस्य व्यपदेशः

इन्द्रियप्रत्यक्षमिति व्यपदेशस्यासाधारणकारणत्वं निमित्तम्। यथा भेरीशब्दो यवाङ्कर इति। इदं च प्रत्यक्षं यत्रैव स्वानुरुपं विकल्पं जनयति तत्रैव प्रमाणम् , सांव्यावहारिक प्रमाणाधिकारादिति॥

मानसप्रत्यक्षम्

स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानं मानसम्। स्वशब्देनेन्द्रियज्ञानमभिमतम् , स्वस्य विषयो बाह्यो घटादिः, स्वविषयस्यानन्तरः , स्वविषयानन्तरः इन्द्रियज्ञानविषयादन्यो घटादिर्द्वितीयक्षणः। तेन सहकारिणा सह मिलित्वा , इन्द्रियज्ञानेनोपादानेन समनन्तरप्रत्ययसंज्ञकेन यज्जनितं तन्मानसं प्रत्यक्षमुच्यते। ततो यदुक्तं परेणात्रः

‘ गृहीतग्राहित्वमन्धबधिराद्यभावो योगिज्ञानस्यापि मानसत्वप्रसङ्गः अव्यवहारित्वं च ‘ इति।

तन्निरस्तम्। तथा हि – द्वितीयक्षणग्रहणात् गृहीतग्राहित्वस्य निरासः। इन्द्रियज्ञानजनितं हि मानसम्। अन्धादीनां रुपादिविषयालम्बनकमिन्द्रियज्ञानमेव नास्ति , कुतस्तज्जनितं मानसं भविष्यति ? अतो नास्त्यन्धबधिराद्यभावदोषः।समनन्तरप्रत्ययविशेषणेन योगिज्ञानस्य मानसप्रत्यक्षप्रसङ्गो निरस्तः। समनन्तरप्रत्ययशब्दः स्वसन्तानवर्तिन्युपादानज्ञाने रुढ्या प्रसिध्दः। ततो भिन्नसन्तानवर्तियोगिज्ञानमपेक्ष्य पृथग्जनचित्तानां समनन्तरप्रत्ययव्यपदेशो नास्तीति। अव्यवहारित्वं पुनरस्य दूषणं नोपपद्यते, सूक्ष्मकालभावित्वेन पृथग्जनैर्दुर्लक्ष्यत्वात्। व्यवहाराङ्गेत्वेन चानभ्युपगमात्। आगमप्रसिद्धं हि मानसप्रत्यक्षम्। न त्वस्य निश्चायकं किञ्चिदस्ति। यथोक्तं भगवता-

‘ द्वाभ्यां भिक्षवो रुपं गृह्यते, चक्षुषा तदाकृष्टेनमनसा च ‘ इति॥

ननु च व्यवहारानुपयुक्तमुपदर्शयितुं किं प्रयोजनम् , ईदृग्लक्षणयुक्तं यदि मानसं प्रत्यक्षं स्यात् , न कश्चिद्दोषः स्यादित्यागमस्यापि विशुद्धिरनेन प्रतिपादितेति प्रयोजनम्॥

स्वसंवेदनप्रत्यक्षम्

चित्तचैत्तानां स्वसंवेदनत्वसमर्थनम्

सर्वचित्तचैत्तानामात्मसंवेदनं स्वसंवेदनम्। चित्तं वस्तुमात्रग्राहकं ज्ञानम्। चित्ते भावाः चैत्ताः , वस्तुनो विशेषरुपग्राहका सुखदुःखोपक्षालक्षणाः। तेषां सर्वचित्तचैत्तानामात्मा संविद्यते येन रुपेण तत्स्वरुपमात्मस्वरुपसाक्षत्कारित्वात् स्वसंवेदनं प्रत्यक्षं कल्पनापोढमभ्रान्तं चोच्यते।

अत्र केचिदाहुः -न च चित्तचैत्तानां स्वसंवेदनं घटते , स्वात्मनि क्रियाविरोधात्। न च सुशिक्षितोऽपि नटवटुः स्वस्कन्धमारोढुं शक्नोति। न हि तीक्ष्णाऽप्यसिधारा स्वमात्मानं छिनत्ति। न हि प्रज्ज्वलितोऽपि वह्निस्कन्ध आत्मानं दहति। तथा चित्तचैत्तमपि कथमात्मानं वेदयतु वेद्यवेदकभावो हि कर्मकर्तृभावः।

कर्मकर्तृत्वं च लोके भेदेनैव प्रसिद्धम् , वृक्षसूत्रधारयोरिव। अत्रोच्यते , न कर्मकर्तृभावेन वेद्यवेदकत्वं ज्ञाने वर्ण्यते। किं तर्हि ? व्यवस्थाप्यव्यवस्थापकभावेन।

यथा प्रदिप आत्मानं प्रकाशयति तथा ज्ञानमपि जडपदार्थविलक्षणं स्वहेतोरेव प्रकाशस्वभावमुपजायमानं स्वसंवेदनं व्यवस्थाप्यते। तथा चोक्तम् –

विज्ञानं जडरुपेभ्यो व्यावृत्तमुपजायते।

इयमेवात्मसंवित्तिरस्य याऽजडरुपता॥इति॥

अलङ्कारकारेणाप्युक्तम् –

कल्पितः कर्मकर्त्रादिः परमार्थो न विद्यते।

आत्मानमात्मनैवात्मा निहन्तीति निरुच्यते॥इति॥

न च चित्तचैत्तानां ज्ञानान्तरेण प्रकाश्यत्वं युज्यते। तथा हि – न तावत्समानकालभाविना ज्ञानान्तरेण चित्तचैत्तं प्रकाश्यत इति घटते, उपकार्योपकारकत्वाभावात् , सव्येतरगोविषाणयोरिव। नापि भिन्नकालभाविना , क्षणिकत्वात् , प्रकाशितव्यस्यैवाभावात्। अपि च यदि ज्ञानं स्वसंवेदनं न स्यात् , तदा ज्ञातोऽर्थो इति दुर्घटः स्यात् , ‘ नागृहीतविशेषणा बुध्दिर्विशेष्ये वर्त्तते ‘ इति न्यायात्। तथा हि -अर्थो विशेष्यः , ज्ञात इति विशेषणम् , ज्ञातो ज्ञानेन विशेषित इति। ज्ञानं चेत्स्वयं न बोधरुपेण प्रतीतं , तत्कथं ज्ञानेन विशेषितोऽर्थः प्रतीयताम्। न हि दण्डाग्रहणे दण्डिनो ग्रहणं युक्तिसङ्गतम्। यच्चोक्तं त्रिलोचनेन –

चक्षुषोऽग्रहणेऽपि चाक्षुषं रुपं प्रतीयते , तथा

ज्ञानानवबोधेऽपि ज्ञातोऽर्थ इति घटिष्यते॥इति॥

तदसाधु। प्रस्तुतेऽनुपयोगात्। न हि चक्षू रुपस्य विशेषणम्। किं तर्हि ? चक्षुर्विज्ञानासंवेदने कथं ज्ञायतामिति चोद्यमक्षतमेव॥

यत्पुनर्ज्ञानस्य परोक्षत्वप्रतिपादनाय भट्टेनोक्तम् –

यथा च रुपादिप्रकाशन्यथानुपपत्या इन्द्रियसिध्दिः , तथा ज्ञानस्यापि सिध्दिरिति।

तथा हि तत्र भाष्यम् –

न हि कश्चिदज्ञातेऽर्थे बुध्दिमुपलभते। ज्ञाते त्वनुमानादवगच्छति इति॥

वार्तिकं च –

तस्य ज्ञानं तु ज्ञाततावशात्।इति।

ज्ञातता च विषयप्राकट्यमुच्यते। तदपि चायुक्तम्। प्राकट्यस्यापि ज्ञानात् पृथक्त्वे विषयरुपतायां व्यक्तौ जडरुपता , जडस्य प्रकाशायोगात्। विषयादर्थान्तरत्वे जडतायां तस्यापि स्वतः प्रकाशायोगात्। प्राकटयान्तरेण नु प्रकाशनेऽनवस्था स्यात्। ज्ञानस्वभावत्वे प्राकटयस्यापि परोक्षत्वप्रसङ्गः। ततोऽवश्यं ज्ञानस्य स्वसंवेदनत्वमभिधेयम्। अनुभवप्रसिध्दं च स्वसंवेदनत्व कथमपह्नुयेत ? तदुक्तम् –

अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्दयति। इति।

अलङ्कारकारोऽप्याह –

परोक्षं यदि तत् ज्ञानं ज्ञातमित्येव तत्कुतः।

परोक्षस्य स्वरुपं कस्तस्य लक्षयितुं क्षमः॥इति॥

ननु सर्वज्ञानानां स्वसंवेदनप्रत्यक्षत्वे घटोऽयमित्यादिविकल्पज्ञानस्य निर्विकल्पकत्वं, पीतशङ्खादिज्ञानस्याभ्रान्तत्वं च कथं न भवेत् ? उच्यते – विकल्पज्ञानमपि स्वात्मनि निर्विकल्पमेव। घटोऽयमित्यनेन बाह्यमेवार्थ विकल्पयति , न त्वात्मानम्। तदुक्तम् –

शब्दार्थग्राहि यद्यत्र ज्ञानं तत्तत्र कल्पना।

स्वरुपं च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम्॥इति॥

भ्रान्तमप्यात्मन्यभ्रान्तं स्वप्रकाशरुपेणैवावभासनात्। असद्विषयत्वाच्च भ्रान्तिरुच्यते। तदुक्तम् –

स्वरुपे सर्वमभ्रान्तं पररुपे विपर्ययः।इति॥

तस्मादन्यथा प्रकाशासिध्देः यद्यमी प्रकाशन्ते , तदा स्वहेतोरेव प्रकाशस्वभावादुत्पन्नाः सन्तः प्रकाशन्त इति स्वीकर्तव्यम्॥

योगिप्रत्यक्षनिरुपणम्

भूतार्थभावनाप्रकर्षपर्यन्तजं योगिज्ञानं चेति। योगः समाधिः , चित्तैकाग्रतालक्षणः। निश्शेषवस्तुतत्वविवेचिका प्रज्ञा। योगोऽस्यास्तीति योगी। योगिनो यत् ज्ञानं तत्प्रत्यक्षम्। कीदृशं तदिति चेत् ? भूतार्थभावनाप्रकर्षपर्यन्तजम्।भूतार्थः प्रमाणोपपन्नार्थः। भावना पुनः पुनश्चेतसि समारोपः। भूतार्थभावनाप्रकर्षपर्यन्ताज्जातं यद्विज्ञानं तत् कल्पनापोढभ्रान्तम्। भूतार्थश्चतुरार्यसत्य दुःखसमुदयनिरोधमार्गसंज्ञकम् , पञ्चस्कन्धस्वभावं क्षणिकशून्यनिरात्मकदुःखादिरुपतया प्रतिपत्तव्यम्। यत्सत् तत् क्षणिकमित्याद्यनुमानेन प्रमाणोपपन्नमुपगन्तव्यमिति॥

ननु भावना विकल्पः , विकल्पश्चावस्तुविषयः , तत्कथं वस्तुनः स्फुटीभावो भवतु। कथं वा विकल्पो निर्विकल्पतां व्रजेत् ? क्षणिकं च चितं कथमेकाग्रीभवति? विशेषश्च कस्य केन वा क्रियताम् ? शरीरी च रागादिविरहान्मुक्तश्चेति सर्वमसंगतम्। अत्रोच्यते – अवस्तुविषयोऽपि विकल्पो वस्त्वध्यवस्यतीति भावनातो वस्तुन एवात्र स्फुटीभावः। न च विकल्प एव निर्विकल्पकः, किं तु विकल्पान्निर्विकल्पकस्योदयः। अनुभवसिध्दं चैतत् भावयतां निर्विकल्पकप्रतिभासनं , कामशोकादिवत्। न हि दृष्टे किञ्चिदनुपपन्नं नाम। क्षणिकमपि चित्तं सजातीयक्षणेषु ग्रहणप्रवीणत्वात् एकाग्रमुच्यते। क्षणिकत्वनैव विशेषोत्पत्तिः , न तु नित्यत्वेन , नित्यस्यानाधेयातिशयत्वात् यदुक्तम् –

नित्यं तमाहुर्विद्वांसो यः स्वभावो न नश्यति।

तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता।

नित्यवादपि किं तस्य कस्तां क्षपयितुं क्षमः॥इति॥

यत्तु शरीरित्वे सुखदुःखयोर्भावादनुग्रहनिग्रहात् शरीरी रागादिविरहान्मुक्त श्चेति विघटनमुक्तं , तदयुक्तम्। न हि शरीरं रागादिहेतुः , किं तु अविद्या। अनित्ये नित्यमिति , अनात्मन्यात्मेति , दुःखे सुखमिति, अशुचौ शुचितेति , चतुर्विपयासस्वभावा मिथ्योपलब्धिः। अत एव विषयसुखतृष्णा स्यात्। आत्मानं नित्यं पश्यत एव सुखाभिकाङ्क्षणादिसुखहेतुरात्मीयः स्यात्। एषु चाऽऽसङ्गो रागः। एतत्प्रतिबन्धाश्च द्वेषादयः। तस्मादविद्यैव मूलं रागादेर्न तु शरीरम्। सत्यपि शरीरे यद्यविद्या न स्यात् , कुत एव रागादियोगाः ? तस्माज्जीवच्छरीरे सत्यपि अविद्याविरहात् सर्वसङ्गविरहलक्षणा मुक्तिर्वीतरागाणां भवतीति सर्वं सुस्थितम्।

प्रत्यक्षस्य स्वलक्षणाविषयत्वसमर्थनम्

तस्य विषयः स्वलक्षणम्। तस्य चतुर्विधस्य प्रत्यक्षस्य स्वलक्षणं विषयो बोद्धव्यः। स्वलक्षणमित्यसाधारणं वस्तुस्वरुपं देशकालाकारनियतम्। एतेनैतदुक्तं भवति- घटादिरुदकाद्याहरणसमर्थो देशकालाकारनियतः पुरः प्रकाशमानोऽनित्यत्वाद्यनेकधर्मान्तरोदासीनः प्रवृत्तिविषयः सजातीयविजातीयव्यावृत्तः स्वलक्षणमित्यर्थः।

अयोगान्योगव्यवच्छेदयोः भेदः

ननु यदि स्वलक्षणमेव प्रत्यक्षस्य विषयो न सामान्यं तदानीं धूमदहनसामान्ययोर्व्याप्तिः कथं प्रत्यक्षेण गृह्यताम् ? नायं दोषः। यतोऽयोगव्यवच्छेदेन स्वलक्षणं तस्य विषय एव , न त्वन्ययोगव्यवच्छेदेन स्वलक्षणमेव तस्य विषय इति। किं तर्हि , सामान्यमप्यस्य विषयः।

प्रमाण फल व्यवस्था

द्विविधो हि प्रमाणस्य विषयः ग्राह्योऽध्यवसेयश्च। तत्र प्रत्यक्षस्य प्रतिभासमानं स्वलक्षणम् एको ग्राह्यः। अध्यवसेयस्तु प्रत्यक्षपृष्ठभाविनो विकल्पस्य प्रतिभासमानं सामान्यमेव। तच्च सामान्यं द्विविधम् , ऊर्ध्वतालक्षणं तिर्यग्लक्षणं चेति। तत्रैकस्यामेव घटादिव्यक्तौ सजातीयव्यावृत्तायामनेकक्षणसमुदायः सामान्यं ऊर्ध्वतालक्षणं साधनप्रत्यक्षस्य विषयः। विजातीयव्यावृत्तास्त्वनेकव्यक्तयः तिर्यक्सामान्यं व्याप्तिग्राहकप्रत्यक्षस्य विषयः। अनुमानस्य तु सामान्यं ग्राह्यं , अध्यवसेयस्तु स्वलक्षणमेव। प्रत्यक्षस्य स्वलक्षणविषयप्रतिपादने परोक्ताः षट् पदार्था न विषया इत्युक्तम् यथा – अवयविद्रव्यं , गुणः, कर्म, सामान्यं, विशेषः, समवायश्चेति। न चैषां प्रत्यक्षे ज्ञाने प्रतिभासोऽस्ति। न चाप्रतिभासमानो विषयो युज्यते, अतिप्रसङ्गात्। तथा हि – घटादौ परिदृश्यमाने पूर्वापरादिभागं विहाय नान्यत्किञ्चिदेकमवयविद्रव्यमुपलभामहे। यदाह न्यायपरमेश्वरः –

भागा एव हि भासन्ते सन्निविष्टास्तथा तथा।

तद्वान्नैव पुनः कश्चिद्विभागः सम्प्रतीयते॥इति॥

एवं गुणकर्मादीनां च दुषणं प्रत्येतब्यम्॥

प्रमाणफलावबोधः

ननु प्रमितिरुपां क्रियां फलभूतां निष्पादयज्ज्ञानं प्रमाणमिति प्रसिद्धम्। तत्र काऽसौ प्रमितिः , यां जनज्ज्ञानं प्रमाणमिति चेत् ? उच्यते -इह नीलादेरर्थात् ज्ञानं द्विरुपमुत्पद्यते नीलाकारं , नीलबोधस्वभावं च। तत्रानीलाकारव्यावृत्या नीलाकारं ज्ञानं प्रमाणम्। अनीलबोधव्यावृत्या नीलबोधरुपं प्रमितिः। सैव फलम्। यथोक्तम् –

अर्थसारुप्यमस्य प्रमाणम् ,

अर्थाधिगतिः प्रमाणफलम्। इति॥

एतच्च विकल्पप्रत्ययेन भिन्नं व्यवस्थाप्यते परमार्थतस्तु नास्त्येव भेदः। यथोक्तम् –

तदेव प्रत्यक्षं ज्ञानं प्रमाणफ़लम्। इति॥

प्रमाणतत्फलयोरभेदः

साकारं चेदं ज्ञानमेष्टव्यम्। यदि पुनः साकारं ज्ञानं नेष्यते , तदाऽनाकारत्वेन सर्वत्र विषये तुल्यत्वात् विभागेन विषयव्यवस्था न सिध्यति। यत्पुनः केचिदाहुः-पूर्वं ज्ञानं प्रमाणं उत्तरं ज्ञानं प्रमाणफलमिति , तन्न युक्तम्। तथा हि प्रथमक्षणभावि तावज्ज्ञानं प्रमाणफलभूतस्य द्वितीयज्ञानस्यानुत्पत्तेः ,फलभूतज्ञानोत्पत्तौ च पूर्वस्य क्षणिकत्वेन विनाशात् कथं घटादिविषयं ज्ञानं प्रमाणं भवति ? नापि समानकालभावि ज्ञानं फलमुचितम् , उपकार्योपकारकत्वाभावात् , सव्येतरगोविषाणयोरिव।

तस्मात् परमार्थतः प्रमाणफलयोर्नास्ति भेदः। काल्पनिकस्तु व्यावृत्तिकृतो भेदः विकल्पबुद्धौ व्यवस्थाप्यते॥

इति तर्कभाषायां प्रत्यक्षपरिच्छेदः प्रथमः समाप्तः॥

Tags: EVIDENCE

Post navigation

Previous: Vedas of Sanatan Dharma – Original Sanskrit Text
Next: Anumānam – Evidence of Inference
Communism
Sarvarthapedia

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

West Bengal Court-Fees Act, 1970: Fees, Schedules, and Procedures

WB Land Reforms Tribunal Act 1997: History, Features, Provisions, Structure, Powers and Functions

Civil Procedure Law of the Democratic People’s Republic of Korea (1976)

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
Biblical Basis for Slavery

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Sarvarthapedia, Law and Legal Materials

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

Indian Government

IPS Cadre Strength 2025: State-wise Authorised Strength

Sarvarthapedia

Uric Acid: From 18th Century Discovery to Modern Medical Science

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates