पंच अवयव तर्कः – pancha abayaba tarka
प्रतिज्ञा हेतू दाहरणोपनय निगमनानि अवयवाः ।। ३२ ।।
साध्यनिर्देशः प्रतिज्ञा ।। ३३ ।।
उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ।। ३४ ।।
Read Next
तथा वैधर्म्यात् ।। ३५ ।।
साध्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः उदाहरणम् ।। ३६ ।।
तद्विपर्ययात्वा विपरीतम् ।। ३७ ।।
उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः ।। ३८ ।।
Read Next
हेत्वपदेशात्प्रतिज्ञायाः पुनर्वचनं निगमनम् ।। ३९ ।।
अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थं उहः तर्कः ।। ४० ।।
विमृश्य पक्षप्रतिपक्षाभ्यां अर्थावधारणं निर्णयः ।। ४१ ।।
Read Next
Source : न्यायसूत्राणि[अध्यायः १- प्रथमभागः]
प्रमाण तर्क साधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्ष प्रति पक्ष परिग्रहः वादः