ऋणादान -Rina-dana
ऋणादान न० ऋणमादीयते यत्र । स्मृत्युक्ते अष्टादशविवा-
दान्तर्गते व्यवहारभेदे “तेषामाद्यमृणादानमित्यादीनि
अष्टादश व्यवहारपदानि मनुना दर्शितानि । तल्लक्ष-
णादि नारदादिवाक्येन मिता० दर्शितं यथा
“अधुनाष्टादशानां व्यवहारपदानामाद्यमृणादानपदं
दर्शयति । “अशीतिभागो वृद्धिः स्यादित्यादिना मोच्य
आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने” इत्येवमन्तेन । तच्चार्णा-
दानं सप्तबिधम् । ईदृशमृणन्देयमीदृशमदेयमनेनाधि-
कारिणा देयमस्मिन् समये देयमनेन प्रकारेण देयमित्यध-
मर्णे पञ्चविधमुत्तमर्णे दानविघिरादानविधिश्चेति द्विवि-
धमिति । एतच्च नारदेन स्यष्टीकृतम् “ऋणन्देयमदेयञ्च
येन यत्र यथा च यत् । दानग्रहणधर्मश्च ऋणादान-
मिति स्मृतमिति” तत्र प्रथममुत्तमर्णस्य दानबिधिमाह
तत्पूर्वकत्वादितरेषाम् । “अशीतिभागो वृद्धिः स्यान्मा-
सिमासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकम-
न्यथा” या० “मासिमासि प्रतिमासं विश्वासार्थं यदाधीयते
आधिरिति यावत् बन्धकेन सह वर्त्तत इति सबन्धकः
प्रयोगस्तस्मिन् सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्याशीतित-
मोभागो वृद्धिर्द्धर्म्या भवति । अन्यथा बन्धकरहिते
प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुःपञ्चकं शतं
धर्म्यं भवति । ब्राह्मणेऽधमर्णे द्विकं शतम्, क्षत्रिये त्रिकं,
वैश्ये चतुष्कं, शूद्रे पञ्चकं, मासिमासीत्येव । द्वौ वा त्रयो
वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चाः द्वित्रिचतुःपञ्चा
अस्मिन् शते वृद्धिर्द्दीयते इति द्वित्रिःचतुपञ्चकं शतम् ।
“तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते इति (पा०) कन् ।
इयं वृद्धिर्मासिमासि गृह्यत इति कालिका । इयमेव
वृद्धिर्द्दिवसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका-
भवति तथा च नारदेन । “कायिका कालिका चैव कारिता
च तथाऽपरा । चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा”
इत्युक्त्वोत्तम् “कायाविरोधिनी शश्वतणपादादिः कायिका ।
प्रतिमासं स्रवन्ती या वृद्धिस्सा कालिका मता । वृद्धिःसा
कारिता नाम यर्णिकेन स्वयं कृता । वृद्धेरपि पुनर्वृद्धि-
श्चक्रवृद्धिरुदाहृतेति” । गृहीतृविशेषेण वृद्धेः प्रकारा-
न्तरमाह । “कान्तारगास्तु दशकं सामुद्रा विंशकं शतम्”
या० । कान्तारमरण्यन्तत्र गच्छन्तीति कान्तारगाः ये
वृद्ध्या धनं गृहीत्वाधिकलाभार्थमतिगहनं प्राणधनवि-
नाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च
समुद्रगास्ते विंशकं शतं मासिमासीत्येव । एतदुक्तम्भवति
कान्तारगेभ्यो दशकं शतं सामुद्रेभ्यश्च विंशकं शतम् उत्त-
मर्ण आदद्यात् मूलविनाशस्यापि शङ्कितत्वात् इति ।
इदानीं कारितां वृद्धिमाह । “दद्युर्वा स्वाकृतां वृद्धिं
सर्वे सर्वासु जातिषु” या० । “सर्व्वे ब्राह्मणादयोऽधमर्णा
अबन्धके सबन्धके वा स्वकृतां स्वाभ्युपगतां वृद्धिं सर्वासु
जातिषु दद्युः । क्वचिदकृतापि वृद्धिर्भवति यथाह
नारदः “न वृद्धिः प्रीतिदत्तानां स्यादनाकारिता
क्वचित् । अनाकारितमप्यूर्द्धं वत्सरार्द्धाद्विवर्द्धत” इति । यस्तु
याचितकं गृहीत्वा देशान्तरं गतस्तं प्रति कात्यायनेनो-
क्तम् । “यो याचितकमादाय तददत्त्वा दिशं व्रजेत् । ऊर्द्ध्वं
संवत्सरात्तस्य तद्धकं वृद्धिमाप्नुयादिति” यश्च याचितक-
मादाय याचितोऽप्यदत्त्वा देशान्तरं याति तम् प्रति
तेनैवोक्तम् । “कृतोद्धारमदत्त्वा यो याचितस्तु दिशं व्रजेत् ।
ऊर्द्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयादिति” यः पुनः
स्वदेशे स्थित एव याचितो याचितकं न ददाति तं याच
नकालादारभ्य वृद्धिं दाषयेद्राजा । यथा ह “स्वदे-
शेऽपि स्थितो यस्तु न दद्याद्याचितः क्वचित् । तन्ततोऽ-
कारितां वृद्धिमनिच्छन्तं च दापयेदिति” । अनाकारित
वृद्धेरपवादो नारदेनोक्तः “षण्यमूल्यम्भृतिर्न्यासोद-
ण्डोयश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्द्धन्ते नाविव-
क्षिताः” । अविवक्षिता अनाकारिता इति । अधुना
द्रव्यविशेषे वृद्धिविशेषमाह । “सन्ततिस्तु पशुस्त्रीणाम्” या०
“पशूनां स्त्रीणां सन्ततिरेव वृद्धिः पशूनां स्त्रीणा म्पोषणा-
समर्थस्य तत्पुष्टिसन्ततिकामस्य प्रयोगः सम्भवति ।
ग्रहणञ्च क्षीरपरिचर्यार्थिनः । अधुना प्रयुक्तस्य द्रव्यस्य
वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्यकस्य द्रव्यस्य
कियती परा वृद्धिरित्यपेक्षिते आह “रसस्याष्टगुणा परा ।
वस्त्रधान्यहिरण्यानाञ्चतुस्त्रिद्विगुणा परा” या० । “रसस्य
तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया
वृद्ध्या वर्द्धमानस्याष्टगुणा वृद्धिः परा नातः परं वर्द्धते ।
तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणाः त्रिगुणा-
द्विगुणा च वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्यमुक्तम्
“द्विगुणं हिरण्यं त्रिगुणं धान्यम् धान्येनैव रसा व्या-
ख्याताः पुष्पमूलफलानि च तुलाधृतं त्रितयमष्टगु-
णमिति” । मनुना तु धान्यस्य पुष्पमूलफलादीनाञ्च पञ्च-
गुणत्वमुक्तम् । “धान्ये शदे लवे वाह्ये नातिक्रामति पञ्च-
तामिति” शदः क्षेत्रफलं पुष्पमूलफलादि । लवोमेषोर्णा
चमरीकेशादि । वाह्योवलीवर्दतुरगादिः । धान्यशदलव-
वाह्यविषया वृद्धिः पञ्चगुणत्वन्नातिक्रामतीति । तत्राधमर्ण-
योग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या ।
एतच्च सकृत्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरु-
षान्तरसङ्क्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव वा पुरुषे
अनेकशः प्रयोगान्तरकरणे सुवर्णादिकं द्वेगुण्याद्यतिक्रम्य
पूर्ववद्वर्द्धते । सकृत्प्रयोगेऽपि प्रतिदिनम् प्रतिमासम्प्रति
वत्सरं वा वृद्ध्याहरणेऽधमर्णदेयस्य द्वैगुण्यसम्भवात्
पूर्वाहृतवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्द्धत एव यथाह
मनुः “कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता” ।
सकृदाहितेत्यपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुसी-
दन्तस्य वृद्धिः कुसीदवृद्धिर्द्वैगुण्यं नात्येति नातिक्रा-
मति यदि सकृदाहिता सकृत्प्रयुक्ता पुरुषान्तरसंक्रम-
णादिना प्रयोगान्तरकरणे द्वैगुण्यमत्येति । सकृदाहृते
ति पाठे शनैः प्रतिदिनम्प्रतिमासं प्रतिवत्सरं वाऽधम-
र्णादाहृता द्वैगुण्यमत्येतीति व्याख्येयम् । तथा
गौतमेनाप्युक्तम् “चिरस्थाने द्वैगुण्यम् प्रयोगस्येति”
प्रयोगस्येत्येकवचननिर्देशात् प्रयोगान्तरकरणे द्बैगुण्याति-
क्रमोऽभिप्रेतः । चिरस्थान इति निर्देशाच्छनैः शनैर्वृद्धे-
र्ग्रहणे द्वैगुण्यातिक्रमोदर्शितः । ऋणप्रयोगधर्मा उक्ताः
साम्प्रतम् प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते । “प्रपन्नं
साधयन्नर्थं न वाच्यो नृपतेर्भवेत् । साध्यमानोनृपङ्गच्छन्
दण्ड्योदाप्यञ्च तद्धनम्” या० । प्रपन्नमभ्युपगतमधमर्णेन धनं
साक्ष्यादिभिर्भावितं साधयन् प्रत्याहरन् धर्मादिभिरुपायैः
उत्तमर्णी नरपतेर्न वाच्योनिवारणीयो न भवति । धर्मा-
दयश्चोपाया मनुना दर्शिताः । “धर्मेण व्यवहारेण, छलेना-
चरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन चेति”
धर्मेण प्रीतियुक्तेन सामवचनेन, व्यवहारेण साक्षिलेखाद्यु-
पायेन, छलेन उत्सवादिव्याजेन भूषणादेर्ग्रहणेन, आचरि-
तेन अभोजनेन । पञ्चमेनोपायेन बलेन निगटबन्धबादिना
उपचयार्थं प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्य्यादिति ।
प्रपन्नं साधयन्नथं न वाच्य इति वदन्नप्रतिपन्नं साधयन्
राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टीकृतङ्कात्या-
यनेन “पीड़येद्योधनी कञ्चिदृणिकं न्यायवादिनम् । तस्मा-
दर्थात् स हीयेत तत्समं प्राप्नुयाद्दममिति” । यस्तु धर्मादि-
भिरुपाथैः प्रपन्नमर्थं साध्यमानो याच्यमानो नृपं गच्छेत् ।
राजानमभिगम्य साधयन्तमभियुङ्क्ते स दण्ड्यो भवति
शक्त्यनुसारेण । धनिने तद्धनन्दाप्यञ्च । राज्ञा दापने च
प्रकारादर्शिताः “राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदा-
पयेत् । देशाचारेण चान्यांस्तु दुष्टान् सम्पीड्य दापयेत् ।
रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेदिति” या० ।
साध्यमानो नृपङ्गच्छेदित्येतत् स्मृत्याचारव्यपेतेनेत्यस्य
प्रत्युदाहरणं बोद्धव्यम् । बहुषूत्तमर्णिकेषु युगपत्प्राप्ते-
म्बेकोऽधमर्णिकः केन क्रमेण दाप्योराज्ञेत्यपेक्षित आह!
“गृहीतानुक्रमाद्दाप्योधनिनामधमर्णिकः । दत्त्वा तु
ब्राह्मणायैव नृपतेस्तदनन्तरम्” या० । समानजातीयेषु येनैव
क्रमेण धनं गृहीतन्तेनैव क्रमेणाधमर्णिको दाप्योराज्ञा,
भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण । यदा तु पुनरुत्त-
मर्णो दुर्बलः प्रतिपन्नमर्थन्धर्मादिभिरुपायैः साधयितु
मशक्नुवन् राज्ञा साधितार्थोभवति तदाऽधमर्णस्य दण्ड-
सुत्तमर्ण्णस्य च भृतिदानमाह “राज्ञाऽधमर्णिकोदाप्यः
साधिताद्दशकं शतम् । पञ्चकञ्च शतन्दाप्यः प्राप्तार्थोह्यु-
त्तमर्णिकः” या० । “अधमर्णिकोराज्ञा प्रतिपन्नार्थात्साधि-
ताद्दशकं शतं दाप्यः” पतिपन्नस्य साधितस्यार्थस्य
दशमगंशं राजाधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः ।
उत्तमर्णिकस्तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः
साधितस्यार्थस्य विंशतितमम्भागम् उत्तमर्ण्णाद्राजा-
भृत्यर्थं गृह्णीयादित्यर्थः । अप्रतिपन्नार्थसाधने तु दण्ड-
विभागो दर्शितः “निह्नवे भावितोदद्यात्” इत्यादिना ।
सधनमधमर्णिकम्प्रत्युक्तमधुना निर्द्धनमधमर्णिकम्प्रत्याह ।
“हीनजातिम्परिक्षीणमृणार्थं कर्म कारयेत् । ब्राह्मणस्तु
षरिक्षीणः शनैर्द्दाप्यो यथोदयम्” या० । ब्राह्मणादिजाति-
रुत्तमर्ण्णो हींनजातिं क्षत्रियादिम्परिक्षीणं निर्द्धनमृ-
णार्थमृणनिवृत्त्यर्थं कर्म्म स्वजात्यनुरूपं कारयेत्तत्कुदु-
म्बाविरोधेन । ब्राह्मणः पुनः परिक्षीणो निर्द्धनः
शनैर्यथोदयं यथासम्भवमृणन्दाप्यः । अत्र हीनजाति-
ग्रहणं समजातेरप्युपलक्षणमतश्च समजातिमपि परिक्षीणं
यथोचितं कर्म्म कारबेत् । ब्राह्मणग्रहणं च श्रेयोजाते
रुपलक्षणमतश्च क्षत्रियादिरपि क्षीणो वैश्यादेःशनैःशनै
र्द्दाप्योयथोदयम् एतदेव स्पष्टीकृतं मनुना “कर्म्मणापि
समङ्कुर्य्याद्धनिकेनाधमर्ण्णिकः । समाऽपकृष्टजातिश्च दद्य-
च्छ्रेयांस्तु तच्छनैरिति” । उत्तमर्ण्णेन समं निवृत्तोत्त-
मर्ण्णाधमर्ण्णव्यपदेशमात्मानमधमर्णः कर्म्मणा कुर्य्या-
दित्यर्थः । किञ्च “दीयमानं न गृह्णाति प्रयुक्तं यः
स्वकन्धनम् । मध्यस्थस्थापितं तत्स्याद्वर्द्धते न ततः परम्” या०
उपचयार्थं दत्तं धनमधमर्ण्णेन दीयमानमुत्तमर्णोवृद्धिलो-
भाद्यदि न गृह्णाति तदाऽधमर्ण्णेन मध्यस्थहस्ते स्थापित
स्यात्तदा ततःस्थापनादूर्द्धन्न वर्द्धते । अथ स्थापितमपि
याच्यमानो न ददाति ततः पूर्ब्बवद्वर्द्धत एव ।
इदानीन्देयमृणं यदा येन च देयन्तदाह । “अविभक्तै
कुटुम्बार्थे यदृणन्तु कृतम्भवेत् । दद्युस्तद्वक्थिनः प्रेते
प्रोषिते वा कुटुम्बिनि” या० अविभक्तैर्बहुभिः कुटु-
म्बार्थमेकैकेन वा यदृणं कृतन्तदृणं कुटुम्बी दद्यात्तस्मिन्
प्रेते प्रोषिते वा तदृक्थिनः सर्वे दद्युः । येन देय
मित्यत्र प्रत्युदाहरणमाह । “न योषित् पतिपुत्राभ्यान्न
पुत्रेण कृतम्पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्री-
कृतन्तथा” या० । पत्या कृतमृणं योषिद्भार्य्या नैव
दद्यात् । पुत्रेण कृतं योषित् माता न दद्यात् । तथा
पुत्रेण कृतम्पिता न दद्यात्तथा भार्य्याकृतम्पतिर्न दद्यात्कु-
टुम्बार्थादृत इति सर्व्वशेषमतश्च कुदुम्बार्थं येन केनापि
कृतं तत्कुटुम्बिना देयम् “कुटुम्बार्थेऽध्यधीनोऽपि व्यव-
हारं समाचरेत् । स्वदेशे वा विदेशे वा तन्न विद्वान् विचा-
लयेत्” इति मनु (अध्यधीनः दासः) । तदभावेतद्दायहरै-
र्देयमिति उक्तमेव । पुत्रपौत्रैरृणन्देयमिति वक्ष्यति तस्य
पुरस्तादपवादमाह “सुराकामद्यूतकृतन्दण्डशुल्कावशिष्टकम् ।
वृथादानन्तथैवेह पुत्रोदद्यान्न पैतृकम्” या० । सुरापाणेन
यत् कृतमृणं कामकृतं स्त्रीव्यसनेन कृतम् । द्यूते
पराजयनिर्वृत्तं दण्डशुल्कयोरवशिष्टं वृथादानं धूर्त्तवन्दि-
मल्लादिभ्यो यत् प्रतिज्ञातम् “धूर्त्ते वन्दिनि मल्ले च
कुवैद्ये कितवे शठे चाटचारणचौरेषु दत्तं भवति
नि फलमिति” स्मरणात् । एतदृणम् पित्रा कृतं पुत्रादिः
शौण्डिकादिभ्यो न दद्यात् । अत्र दण्डशुल्कावशिष्टक-
मित्यवशिष्टग्रहणात् सर्वं दातव्यमिति न मन्तव्यम् “दण्डं
वा दण्डशेषं वा शुल्कन्तच्छेषमेव वा । न दातव्यन्तु
पुत्रेण यच्च न व्यवहारिकम्” इत्यौशनः स्मरणात् । गौतमे-
नाप्युक्तम् “मद्यशुल्कद्यूतदण्डा न पुत्रामध्यावहेयुरिति” ।
न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयमृणमुक्तम् । न
पतिः स्त्रीकृतं तथेत्यस्यापवादमाह । “गोपशौण्डिकशैलू-
षरजकव्याधयोषिताम् । ऋणं दद्यात् पतिस्तासां यस्मा-
द्वृत्तिस्तदाश्रया” या० । गोपो गोपालः शौण्डिकः
सुराकारः शैलूषोनटः रजकोवस्त्राणां रञ्जकः । व्याधो-
मृगयुः एषां योषिद्भिर्यदृणं कृतन्तत्पतिभिर्देयं यस्मात्तेषां
वृत्तिर्जीवनं तदाश्रया योषिदधीना । यस्माद्वृत्ति-
स्तदाश्रयेति हेतुव्यवदेशादन्येऽपि ये योषिदधीनजीवि-
नस्तेऽपि योषित्कृतमृणं दद्युरिति गम्यते । पतिकृत-
म्भार्या न दद्यादित्यस्यापवादमाह “प्रतिपन्नं स्त्रिया
देयं पत्या वा सह यत् कृतम् । स्वयंकृतं वा यदृणं
नान्यत स्त्री दातुमर्हति” या० । “मुमूर्षुणा प्रवत्स्यता वा
पत्या नियुक्तया ऋणदाने यत्प्रतिपन्नन्तत्पतिकृतमृणन्देयं
यच्च पत्या सह भार्यया कृतन्तदपि भर्त्रभावे भार्यया
अपुत्रया देयम् । यच्च स्वयमेव कृतमृणं तदपि देयम् । ननु
प्रतिपन्नादित्रयं स्त्रिया देयमिति न वक्तव्यम् सन्देहा
भावात् उच्यते । “भार्या पुत्रश्च दासश्च त्रय एवाधनाः
स्मृताः । यत्ते समधिगच्छन्ति यस्यैते तस्य तद्धनमिति”
वचनान्निर्धनत्वेन प्रतिपन्नादिष्वदानशङ्कायामिदमुच्यते ।
प्रतिपन्नं स्त्रिया देयमित्यादि । न चानेन वचनेन स्त्र्या-
दीनां निर्धनत्वमभिधीयते पारतन्त्र्यमात्रप्रतिपादन-
परत्वात् । एतच्च विभागप्रकरणे स्पष्टीकरिष्यते । नान्यत्
स्त्रीदातुमर्हतीत्येतत्तर्हि न वक्तव्यम् विधानेनैवान्यत्र प्रति-
षेधसिद्धेः । उच्यते “प्रतिपन्नं स्त्रिया देय पत्या वा मह
यत् कृतम्” इत्यनयोरपवादार्थमुच्यते । अन्यच्च सुराकामादि-
वचनोपात्तं प्रतिपन्नमपि पत्या सहकृतमपि न देयमिति ।
पुनरपि यदृणं दातव्यं येन च दातव्यं यत्र च काले
दातव्यं तत्त्रितयमाह “पितरि प्रोषिते प्रेते व्यसनाभि-
परिप्लुते । पुत्रपौत्रैरृणन्देयं निह्नवे साक्षिभावितम्” या० ।
पिता यदि दातव्यमृणमदत्त्वा प्रेतो दूरदेशङ्गतोऽचिकित्स-
नीयव्याध्याद्यभिभूतो वा तदा ततकृतमृणमवश्यन्देयं पुत्रेण
पौत्रेण वा पितृधनाभावेऽपि पुत्रत्वेन पौत्रत्वेन च । तत्र
क्रमोऽप्ययमेव पित्रभावे पुत्रः पुत्राभावे पौत्र इति । पुत्रेण
पौत्रेण वा निह्नवे कृतेऽर्थिना साक्ष्यादिभिर्भावितमृणन्देयं
पुत्रपौत्रैरित्यन्वयः । अत्र पितरि प्रोषित इत्येतावदुक्तं
कालविशेषस्तु नारदेनोक्तो द्रष्टव्यः । “नार्वाक् संवत्स-
राद्विंशात् पितरि प्रीषिते सुतः । ऋणं दद्यात् पितृव्ये
वा ज्येष्ठे भ्रातर्य्यथापि वेति” प्रेतेऽप्यप्राप्तव्यवहारकालस्तु
न दद्यात् प्राप्तव्यवहारकालस्तु दद्यात् स च कालस्ते-
नैव दर्शितः । “गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सरा-
च्छिशुः । बाल आषोडशाद्वर्षात् पौगण्डश्चेति शब्द्यते ।
परतो व्यवहारज्ञः स्वतन्त्रः पितरावृत इति” । यद्यपि
पितृमरणादूर्द्धं बालोऽपि स्वतन्त्रोजातस्तथापि न ऋणभाग्
भवति । यथा ह “अप्राप्तव्यवहारश्चेत् स्वतन्त्रोऽपि हि
नर्णभाक् । स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृत-
मिति” । तथा आसेधाह्वाननिषेधश्च दृश्यते । “अप्राप्त-
व्यवहारश्च दूतोदानोन्मुखो व्रती । विषमस्थश्च नासेध्यो
न चैतानाह्वयेन्नृपः” इति तस्मात् । “अतः पुत्रेण जातेन
स्वार्थमुत्सृज्य यत्नतः । ऋणात् पिता मोचनीयोयथा
नोनरकं व्रजेदिति” । पुत्रेण व्यवहारज्ञतया जातेन
निष्पन्नेनेति व्याख्येयम् । श्राद्धे तु बालस्यापि अधिकारः
“न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनादिति” गौतम-
स्मरणात् । पुत्रपौत्रैरिति बहुवचननिर्देशाद्बहवः पुत्रा यदि
विभक्ताः, स्वांशानुरूपेणर्णं दद्युः । अविभक्ताश्चेत् सम्भूय
समुत्थानेन गुणप्रधानभावेन वर्त्तमानानां प्रधानभूतएव
दद्यादिति गम्यते यथाह नारदः “अत ऊर्द्धं पितुः
पुत्रा ऋणं दद्युर्यथांशतः । अविभक्ता विभक्ता वा यस्तां
चोद्वहते धुरमिति” । अत्र च यद्यपि पुत्रपौत्रैरृणं
देयमित्यविशेषेणोक्तम् । तथापि पुत्रेण यथा पिता सवृद्धिकन्द
दाति तथैव देयं पौत्रेण तु समं मूलमेव दातव्यं न वृद्धिंरिति
विशेषोऽवगन्तव्यः । “ऋणमात्मीयवत् पित्र्यं पुत्रैर्देयं
विभावितम् । पैतामहं समं देयमदेयं तत्सुतस्य तु”
इतिवृहस्पतिवचनात् । अत्र विभावितमित्यविशेषोपादानात्
साक्षिभावितमित्यत्र साक्षिग्रहणं प्रमाणोपलक्षणम् । समं
यावद्गृहीतं तावदेव देयं न वृद्धिः तत्सुतस्य प्रपौत्रस्या-
देयमगृहीतधनस्य । एतच्चोत्तरश्लोके स्पष्टयिष्यते ।
ऋणापकरणे ऋणी तत्पुत्रः पौत्र इति त्रयः कर्त्तारोद-
र्शिताः तेषाञ्च समवाये क्रमोऽपि दर्शितः ।
इदानीं कर्त्रन्तरसमवाये च क्रममाह । “ऋक्थग्राह
ऋणं दाप्योयोषिद्ग्राहस्तथैव च । पुत्रोऽनन्याश्रितद्रव्यः
पुत्रहीनस्य ऋक्थिनः” या० । अन्यदीयं द्रव्यमन्यस्य
क्रयादिव्यतिरेकेण यत् स्वीयं भवति तदृक्थं विभागद्वारेण
ऋक्थं गृह्णातीति ऋक्थग्राहः स ऋणं दाप्यः । एतदुक्तम्
भवति यो यदीयन्द्रव्यं रिक्थरूपेण गृह्णाति स तत्कृतम्
ऋणं दाप्यो न चौरादिरिति । योषितं भार्यां गृह्णातीति
योषिद्ग्राहः स तथैव ऋणं दाप्यः । यो यदीयां योषितं
गृह्णाति स तत्कृतमृणं दाप्यः योषितोऽविमाज्यद्रव्यत्वेन
ऋक्थव्यपदेशानर्हत्वाद्भेदेन निर्देशः । पुत्रश्चानन्याश्रितद्रव्य
ऋणं दाप्यः अन्यमाश्रितमन्याश्रितम् मातृपितृसम्बन्धि-
द्रव्यं यस्यासावन्याश्रितद्रव्यः न अन्याश्रितद्रव्योऽनन्याश्रित
द्रव्यः पुत्रहीनस्य ऋक्थिन ऋणं दाप्य इति सम्बन्धः ।
एतेषां समवाये क्रमश्च पाठक्रमएव ऋक्थग्राह ऋणं दाप्य-
स्तदभावे योषिद्ग्राहस्तदभावे (तथाभूतः) पुत्र इति ।
नन्वेतेषां समवाय एव नोपपद्यते । “न भ्रातरो न
पितरः, पुत्रा ऋक्थहराः पितुरिति” पुत्रे सत्यन्यस्य
ऋक्थग्रहणासम्भवात् । योषिद्ग्राहोऽपि नोपपद्यते
“न द्वितीयश्च साध्वीनां क्वचिद्भर्त्तोपदिश्यते” इति स्मर-
णात् । तदर्णं पुत्रो दाप्य इत्यप्ययुक्तं पुत्रपौर्त्रैरृणं
देयमित्युक्तत्वात् । अनन्याश्रितधन इति विशेषणमप्यनर्थ-
कम् पुत्रे सति द्रव्यस्यान्याश्रयणासम्भवात् सम्भवे च
ऋक्थग्राह इत्यनेनैव गतार्थत्वात् पुत्रहीनस्य ऋक्थिन
इत्येतदपि न वक्तव्यम् । पुत्रे सत्यपि ऋक्थग्राह ऋणं
दाप्य इति स्थितमसति पुत्रे ऋक्थग्राहः सुतरां दाप्यः
इति सिद्धमेवेति । अत्रोच्यते । पुत्रे सत्यप्यन्य ऋक्थ-
ग्राही सम्भवति क्लीवान्धबधिरादीनां पुत्रत्वेऽपि ऋक्थ-
हरत्वाभावात् । तथा च क्लीवादीननुक्रम्य “भर्त्तव्यास्तु
निरंशकः” इति वक्ष्यति तथा “सवर्णापुत्रोऽप्यन्यायवृत्तो
न लभेतेति केषामिति” गौतमवचनात् । अतश्च क्लीवादिषु
पुत्रेषु सत्स्वन्यायवृत्ते च सवर्णापुत्रे सति ऋक्थग्राही
पितृव्यतत्पुत्रादिः । योषिद्ग्राहो यद्यपि शास्त्रविरोधेन
न सम्भवति तथाप्यतिक्रान्तनिषेधः पूर्वपतिकृतर्णापक-
रणाधिकारी भवत्येव । योषिद्ग्राहोयश्चतसृणां स्वैरिणी-
नामन्तिमां गृह्णाति, यश्च पुनर्भ्वान्तिसृणां प्रथमाम्,
यथाह नारदः “परपूर्वास्त्रियस्त्वन्याः सप्त प्रोक्ता
यथाक्रमम् । पुनर्भूस्त्यिविधा तासां स्वैरिणी तु चतुर्विधा ।
कन्यैवाऽक्षतयोनिर्या पाणिग्रहणदूषिता । पुनर्भूः प्रथमा
प्रोक्ता पुनःसंस्कारकर्मणा । देशधर्मानपेक्ष्य स्त्री गुरु-
भिर्या प्रदीयते । उत्पन्नसाहसाऽन्यस्मै सा द्वितीया
प्रकीर्त्तिता” । उत्पन्नसाहसा उत्पन्नव्यभिचारा । “असत्सु
देवरेषु स्त्री बान्धवैर्या प्रदीयते । सवर्णाय सपिण्डाय
सा तृतीया प्रकीर्त्तिता । स्त्री प्रसूताऽप्रसूता वा पत्या-
वेव तु जीवति । कामात् समाश्रयेदन्यं प्रथमा स्वैरिणी
तु सा । कौमारं पतिमुत्सृज्य या त्वन्यं पुरुषाश्रिता ।
पुनःपत्युर्गृहं यायात् सा द्वितीया प्रकीर्त्तिता । मृते
भर्त्तरि तु प्राप्तान् देवरादीनपास्य या । उपगच्छेत् परं
कामात् सा तृतीया प्रकीर्त्तिता । प्राप्ता देशाद्धनक्रीता क्षु-
त्पिपासातुरा तु या । तवाहमित्युपगता सा चतुर्थी
प्रकीर्त्तिता । अन्तिमा स्वैरिणीनां या प्रथमा च पुनर्भुषाम् ।
ऋणन्तयोः प्रतिकृतं दद्याद्यस्ते उपाश्रितः” इति ।
तथान्योऽपि योषिद्ग्राहः ऋणापाकरणाधिकारी तेनैव
दर्शितः “या तु सप्रधनैव स्त्री सापत्या वात्यमायेत् ।
सोऽस्या दद्यादृणं भर्त्तुरुत्सृजेद्वा तथैव ताम्” । प्रकृष्टेन
धनेन सह वर्त्तत इति सप्रधना बहुधनेति यावत् । तथा
“अधनस्य ह्यपुत्रस्य मृतस्योपैति यः स्त्रियम् । ऋणं वोढुः
स भजते सैव चास्य धनं स्मृतमिति” । पुत्रस्य पुनर्वचनं
क्रमार्थम् । अनन्याश्रितद्रव्य इति बहुपुत्रेषु ऋक्था-
भावेऽप्यंशग्रहणयोग्यस्यैवर्णापाकरणाधिकारोनायोग्यस्या-
न्धादेरित्येवमर्थम् । “पुत्रहीनस्य ऋक्थिन” इत्येतदपि
पुत्रपौत्रहीनस्य प्रपौत्रादयो यदि ऋक्थं गृह्णन्ति तदर्णं
दाप्यानान्यथेत्येवमर्थम् । पुत्रपौत्रौ तु ऋक्थग्रहणा
भावेऽपि दाप्यावित्युक्तम् यथाह नारदः “क्रमाद-
भ्यागतं प्राप्तं पुत्रैर्यन्नर्णमुद्धृतम् । दद्युः पैतामहं पौत्रा-
स्तच्चतुर्थान्निवर्त्तते” इति सर्वं निरवद्यम् । यद्वा योषि-
द्ग्राहाभावे पुत्रोदाप्य इत्युक्तन्तस्याभावे योषिद्ग्राहो
दाप्य इत्युच्यते । पुत्रहीनस्य ऋक्थिशब्देन योषिदेवो-
च्यते “सैव चास्य धनं स्मृतमिति” स्मरणात् “यो यस्य
हरते दारान् स तस्य हरते धनमिति” च । ननु
योषिद्ग्राहाभावे पुत्र ऋणं दाप्यः पुत्राभावे योषिद्ग्रा-
ह इति, परस्परं विरुद्धम् उभयसद्भावे न कश्चिद्दाप्य
इति, नैष दोषः अन्तिमस्वैरिणीग्राहिणः प्रथमपुनर्भू-
ग्राहिणः सप्रधनस्त्रीहारिणश्चाभावे पुत्रोदाप्यः । पुत्रा-
भावे तु निर्द्धननिरपत्ययोषिद्ग्राहो दाप्य इति । एतदे-
बोक्तं नारदेन “धनस्त्रीहारिपुत्राणामृणभाग् यो धनं
हरेत् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्रीहारी
धनिपुत्रयोः” । धनस्त्रीहारिपुत्राणां समवाये यो धनं हरेत्
स ऋणभाक् । पुत्रोऽसतोः स्त्रीधनिनोः स्त्री च धनञ्च
स्त्रीधने ते विद्येते ययोः तौ स्त्रीधनिनौ तयोः स्त्रीध-
निनोः असतोः पुत्र एवर्णभाक् । धनिपुत्रयोरसताः
स्त्रीहार्य्येवर्णभाक् स्त्रीहार्य्यभावे पुत्र ऋणभाक् ।
पुत्रभावे स्त्रीहारीति विरोधप्रतिभासपरिहारः पूर्ववत् ।
पुत्रहीनस्य ऋकथिनः इत्यस्यान्या व्याख्या, एते धन
स्त्रीहारिपुत्रा ऋणं कस्य दाप्याः? इति विवक्षायामुत्तमर्णस्य दातुस्तदभावे तत्पुत्रादेः पुत्राद्यभावे कस्य दाप्या
इत्यपेक्षायामिदमुपतिष्ठते । पुत्रहीनस्य ऋक्थिन इति
पुत्राद्यन्वयहीनस्योत्तमर्णस्य य ऋक्थी ऋक्थग्रहण-
योग्यः सपिण्डादिस्तस्य ऋक्थिनो दाप्याः । तथा च
नारदेन “ब्राह्मणस्य तु यद्देयं सान्वयस्य न चास्ति सः ।
निर्वापयेत् सकुल्येषु तदभावेऽस्य बन्धुषु” इत्यभिधायाभिहि-
तम् “यदा तु न सकुल्याः स्युर्न्न च सम्बन्धिबान्धवाः ।
तदा दद्याद्द्विजेभ्यस्तु तेष्वसत्स्वप्सु विनिक्षिपेदिति” ।
अधुना पुरुषविशेषे ऋणग्र हणप्रतिषेधनप्रसङ्गादन्यदपि
पतिषे धति । “भ्रातॄणामथ दम्पत्योः पितुः पुत्रस्य चैव
हि । प्रातिभाव्यमृणं साक्ष्यमविभक्ते न तु स्मृतम्” या० ।
प्रतिभुवो भावः प्रातिभाव्यम् । भ्रातॄणां दम्पत्योः पितापु-
त्रयोश्च । अविभक्ते द्रव्येद्रव्यविभागात् प्राक् प्रातिभाब्य-
मृणं साक्ष्यञ्च न स्मृतं मन्वादिभिः । अपि तु प्रतिषिद्धं
साधारणघनत्वात् प्रातिभाव्यसाक्षित्वयोः पक्षे द्रव्यव्ययाव-
सानत्वात् ऋणस्य चावश्यप्रतिदेयत्वात् । एतच्च परस्पराऽन-
नुमत्या अनुमत्या त्वविभक्तानामपि प्रातिभाव्यादि भवत्येव ।
विभागादूर्द्धन्तु परस्परानुमतिव्यतिरेकेणापि भवति ।
ननुदसात्योर्विभागात् प्राक् प्रातिभाव्यादिप्रतिषेधो न युज्यते
तयोर्विभागाभावेन विशेषणानर्थक्याद्विभागाभावश्च
आपस्तम्बेन दर्शितः “जायापत्योर्न्न विभागो विद्यत” इति ।
सत्यं श्रौतस्मार्त्ताग्निसाध्येषु कर्म्मसु तत्फलेषु च
विभागाभावो न पुनः सर्वकर्मसु द्रव्येषु च । तथा हि
“जायापत्योर्न विभागो विद्यते” इत्युक्त्वा किमिति न विद्यत
इत्यपेक्षायां हेतुमुक्तवान् “पाणिग्रहणाद्धि सहत्वङ्कर्म-
सु तथा पुण्यफलेषु चेति” हि यस्मात् पाणिग्रहणा-
दारभ्य कर्मसु सहत्वं श्रूयते “जायापती अग्निमादधी-
यातामिति” । तस्मादाधाने सहाधिकारादाधानसिद्धाग्नि-
साध्येषु कर्मसु सहाधिकारः । तथा “कर्म स्मार्त्तं विवा-
हाग्नावित्यादि” स्मरणात् विवाहसिद्धाग्निसाध्येष्वपि कर्मसु
सहाधिकार एव । अतश्चोभयविधाग्निनिरपेक्षेषु कर्मसु
पूर्त्तेषु जायापत्योः पृथगेवाधिकारः सम्पद्यते । तथा
पुण्यानां फलेषु स्वर्गादिषु जायापत्योः सहत्वं श्रूयते
“दिवि ज्योतिरजरमारभेतामित्यादि” । येषु पुण्यकर्मसु
सहाधिकारस्तेषां फलेषु सहत्वमिति बोद्धव्यम् । न पुनः
पूर्त्तानां भर्त्तुनुज्ञयानुष्ठितानां फलेष्वपि । ननु द्रव्यस्वामि-
त्वेऽपि सहत्वमुक्तम् “द्रव्यपरिग्रहेषु च न हि मर्त्तु-
र्विप्रवासे नैमित्तिकदाने स्तेयसुपदिशन्तीति” सत्यं द्रव्य-
स्वामित्वं पत्न्या दर्शितमनेन न पुनर्विभागाभावः यस्मा-
द्द्रव्यपरिग्रहेषु चेत्युक्त्वा तत्र कारणमुक्तम्भर्त्तुर्विप्रवा
से नैमित्तिकेऽवश्यकर्त्तव्यदानेऽतिथिभोजनभिक्षादानादौ
हि यस्मान्न स्तेयमुपदिशन्ति मन्वादयः तस्माद्भार्य्याया
अपि द्रव्यस्वामित्वमस्ति अन्यथा स्तेयं स्यादिति तस्मा-
द्भर्त्तुरिच्छया भार्य्याया अपि द्रव्यविभागोभवत्येव न
स्वेच्छया यथा वक्ष्यति “यदि कुर्य्यात् समानांशान्
पत्न्यः कार्य्याः समांशिकाः” इति । अधुना प्रातिभाव्यं
नि रूपयितुमाह । “दर्शने प्रत्यये दाने प्रातिभाव्यं विधी-
यते । आद्यौ तु वितथे दाप्यावितरस्य सुता अपि” या०
प्रातिभाव्यं तिश्वासार्थं पुरुषान्तरेण सह समयः, तच्च
विषयभेदात् त्रिधा भिद्यते । यथा दर्शने दर्शना-
पेक्षायामेनं दर्शयिष्यामीति, प्रत्यये विश्वासे मत्प्र-
त्ययेनास्य धनं प्रयच्छ नायं त्वां वञ्चयिष्यते यतो
ऽमुकस्य पुत्रोऽयमुर्वराप्रायभूरस्य ग्रामवरोऽस्तीति, दाने
यद्ययं न ददाति तदानीमहमेव धनं दास्यामीति, प्राति-
भाव्यं विधीयत इति प्रत्येकं सम्बन्धः । आद्यौ तु दर्शन-
प्रत्ययप्रतिभुवौ वितथे अन्यथाभावे अदर्शने विश्वासव्यभि-
चारे च दाप्यौ राज्ञा प्रस्तुतं (अवृद्धिकम्) धनमुत्तमर्णस्य ।
इतरस्य दानप्रतिभुवः सुता अपि दाप्याः । वितथे इत्येव
शाठ्येन निर्द्ध्वनत्वेन वा अधमर्णेऽप्रतिकुर्व्वति । इतरस्य
सुता अपीति वदता पूर्व्वयोः सुता न दाप्याः इत्युक्तम् ।
सुता इति वदता न पौत्रा दाप्या इति दर्शितम् । एतदेव
स्पष्टीकर्त्तुमाह । “दर्शनप्रतिभूर्य्यन्त्र मृतः प्रात्ययिकोऽपि
वा । न तत्पुत्रा ऋणं दद्युर्द्दद्युर्दानाय यः स्थितः” या०
यदा दर्शनप्रतिभूः प्रात्ययिको वा प्रतिभूर्दिवंगतः
तदातयोः पुत्राः प्रातिव्यायातं पैतृकम् ऋणं न दद्युः । यस्तु
दानाय स्थितः प्रतिभूर्दिवं गतस्तस्य पुत्रा दद्युर्न पौत्राः ।
ते च मूलमेव दद्युर्न्न वृद्धिम् । “ऋणं पैतामहं पौत्राः
प्रातिभाव्यागतं सुतः । समं दद्यात् तत्सुतौ तु न दाप्या-
विति निश्चयः” इति व्यासवचनात् । प्रातिभाव्यव्यतिरिक्तं
पैतामहमृणं पौत्रः समं यावद्गृहीतं तावदेव दद्यान्न
वृद्धिम् । तथा तत्सुतोऽपि प्रातिभाव्यागतं पित्र्यमृणं
सममेव दद्यात्तयोः पौत्रपुत्रयोः सुतौ प्रपौत्रपौत्रौ च
प्रातिभाव्यायातमप्रातिभाव्यायातं चर्णं यथाक्रममगृहीत-
वित्तौ न दाप्याविति । यदपि स्मरणम् “स्वादकोवित्त-
हीनः स्याल्लग्नकोवित्तवान् यदि । मूलं तस्य भवेत्देयं न
वृद्धिं दातुमर्हतीति” तदपि लग्नकः प्रतिभूः खादकोऽधमर्णः, लग्नको यदि वित्तवान् मृतस्तदास्य पुत्रेण मूलमेव
दातव्यं न वृद्धिरिति व्याख्येयम् । यत्र दर्शनप्रतिभूः प्र
त्ययप्रतिभूर्वा बन्धकपर्याप्तं गृहीत्वा प्रतिभूर्जातः
तत्पुत्रा अपि तस्मादेव बन्धकात् प्रातिभाव्यायातमृण दद्यु-
रेव । यथा ह कात्यायनः “गृहीत्वा बन्धकं यत्र दर्श-
नेऽस्य स्थितो भवेत् । विना पित्रा धनात्तस्मात् दाप्यः
स्यात् तदृणं सुतः” इति । दर्शनग्रहणं प्रत्ययोपलक्षणम् विना
पित्रा पितरि प्रेते दूरदेशङ्गते वेति । यस्मिन्ननेकप्रतिभू
सम्भवस्तत्र कथं दातव्यमित्याह । “बहवः स्युर्य्यदि स्वांशै-
र्दद्युः प्रतिभुवोधनम् । एकच्छायाश्रितेष्वेषु धनिकस्य
यथारुचि” या० । यद्येकस्मिन् प्रयोगे द्वौ बहवो वा
प्रतिभुवस्तदर्णं विभज्य स्वांशेन दद्युः । एकच्छायाश्रितेषु
प्रतिभूषु एकस्याधमर्णस्य छाया सादृश्यं तामाश्रिताः
एकच्छायाश्रिताः अधमर्णो यथा कृत्स्नद्रव्यदानाय-
स्थितस्तथा दानप्रतिभुवोऽषि प्रत्येकं कृत्स्नदानाय
स्थिताः एवं दर्शनप्रत्यये च तेष्वेकच्छायाश्रितेषु प्रतिभूषु
सत्सु धनिकस्योत्तमर्ण्णस्य यथारुचि यथाकामम् ।
अतश्च धनिको वित्ताद्यपेक्षया स्वाथं यं प्रार्थयते स
एव कृत्स्नं दद्यान्नांशतः । एकच्छायाश्रितेषु यदि कश्चि-
द्देशान्तरं गतस्तत्पुत्रश्च सन्निहितस्तदा धनिकेच्छया स
सर्वं दाप्यः मृते तु कस्मिंश्चित् स्वपित्र्यमंशमवृद्धिकं दाप्यः ।
यथाह कात्यायनः “एकच्छायाप्रविष्टानां दाप्योयस्तत्र
दृश्यते । प्रोषिते तत्सुतः सर्वं पित्र्यमंशं मृते सति”
प्रातिभाव्यर्णदानविधिमुक्त्वा प्रतिभूदत्तस्य प्रतिक्रियाविधि
माह । “प्रतिभूर्दापिती यत्तु प्रकाशं धनिनो धनम् ।
द्विगुणं प्रतिदातव्यमृणिकैस्तस्य तद्भवेत्” या० । यदृणं प्रति-
भूस्तत्पूत्रो वा धनिकेनोपपीड़ितः प्रकाशं सर्वजनसमक्षं
राज्ञा धनिनो दापितो न गनर्द्वैगुण्यलोभेन स्वयमुपेत्य
दत्तम् । यथाह नारदः यच्चर्णं प्रतिभूर्दद्याद्धनिके-
नोपपीड़ितः । ऋणिकन्तं प्रतिभुवे द्विगुणं प्रतिदापये-
दिति” । ऋणिकैरधमर्ण्णैस्तस्य प्रतिभुवस्तद्द्रव्यं द्विगुणं
प्रतिदातव्यं स्यात् । तच्च कालविशेषमनपेक्ष्य सद्य एव
द्विगुणं दातव्यम् वचनारम्भसामर्थ्यात् । एतच्च हिरण्य-
विषयम् । नन्विदं वचनं द्वैगुण्यमात्रं प्रतिपादयति
तच्च पूर्वोक्तकालकलाक्रमाबाधेनाप्युपपद्यते यथा जाते
ष्टिविधानं शुचित्वाबाधेन । अपि च सद्यः सवृद्धि-
कदानपक्षे पशुस्त्रीणां सद्यःसन्तत्य भावान्मूलदानमेव
प्राप्नोतीति तदसत् “वस्त्रधान्यहिरण्यानां चतुस्त्रिद्वि-
गुणा परा” इत्यनेनैव कालकलाक्रमेण द्वैगुण्यसिद्धेर्द्वैगुण्य-
मात्रविधान इदं वचनमनर्थकं स्यात् । पशुस्त्रीणान्तु
कालक्रमपक्षे सन्तत्यभावे स्वरूपदानमेव । यदा प्रतिभू-
रपि द्रव्यदानानन्तरं कियता कालेनाधमर्णेन संघटते तदा
संततिरपि सम्भवत्येव यद्वा पूर्ब्बसिद्धसन्तत्या सह पशुस्त्रि-
योदास्यतीति न किञ्चिदेतत् । अथ प्रातिभाव्यं प्रीतिकृत-
मतश्च प्रतिभुवा दत्तं प्रीतिदत्तमेव न च प्रीतिदत्तस्य
याचनात् प्राक्वृद्धिरस्ति यथाह “प्रीतिदत्तं तु यत्कि-
ञ्चिद्वर्द्धते न त्वयाचितम् । याच्यमानमदत्तञ्चेद्वर्द्धते पञ्चकं
शतमिति” । अतश्च प्रीतिदत्तस्यायाचितस्यापि दानदिव-
सादारभ्य यावत् द्विगुणं कालक्रमेण वृद्धिरित्यनेन वचने-
नोच्यत इति । तदप्यसत् अस्यार्थस्यास्माद्वचनादप्रतीतेः
द्विगुणं प्रतिदातव्य मित्येतावदिह प्रतोयते तस्मात्
कालक्रमनपेक्ष्यैव द्विगुणं प्रतिदातव्यं वचनारम्भसामर्थ्यादिति
सुष्ठूक्तम् । प्रतिभूदत्तस्य सर्वत्र द्वैगुण्ये प्राप्तेऽपवाद-
माह “सन्ततिः स्त्रीपशुष्वेव धान्यं त्रिगुणमेव च । वस्त्रं
चतुर्गुणं प्रोक्तं रसश्चाष्टगुणस्तथा” या० । हिरण्यद्वैगुण्य-
वत् कालानादरेणैव स्त्रीपश्वादयः प्रतिपादितवृद्ध्या दाप्याः
श्लोकस्तु व्याख्यातएव यस्य द्रव्यस्य यावती वृद्धिः
पराकाष्ठोक्ता तत्द्रव्यं प्रतिभूदत्तं खादकेन तया वृद्ध्या सह
कालविशेषमनपेक्ष्य सद्यो दातव्यमिति तात्पर्य्यार्थः । यदा
तु दर्शनप्रतिमूः सं प्रतिपन्ने कालेऽधमर्णं दर्शयितुमसमर्थ-
स्तदा तदन्वेषणाय तस्य पक्षत्रयं (अवधिभूतम्) दातव्यम् ।
तत्र यदि दर्शयति तदा मोक्तव्योऽन्यथा प्रस्तुतं धनं
दाप्यः “नष्टस्यान्वेषणार्थन्तु देयं पक्षत्रयं परम् । यद्यसौ
दर्शयेत् तत्र मोक्तव्यः प्रतिभूर्भवेत् । काले व्यतीते प्रति-
भूर्य्यदि तं नैव दर्शयेत् । निबन्धं दापयेत्तन्तु प्रेते चैष
विधिः स्मृतः” इति कात्यायनवचनात् । लग्नके विशेष-
निषेधश्च तेनैवोक्तः । “न स्वामी न च वै शत्रुः स्वामि-
नाधिकृतस्तथा । निरुद्धो दण्डितश्चैव संदिग्धश्चैव न
क्वचित् । नैव ऋक्थी न मित्रञ्च नचैवात्यन्तवासिनः ।
राजकार्य्यनियुक्तश्च ये च प्रव्रजिता नराः । न शक्तो
धनिने दातुं दण्डं राज्ञेच तत्समम् । जीवन्वापि पिता
यस्य तथैवेच्छाप्रवर्त्तकः । नाविज्ञातो ग्रहीतव्यः प्रतिभूः
स्वक्रियां प्रतीति” सन्दिग्धोऽभिशस्त्रः । अत्यन्तवासिनी-
नैष्ठिकब्रह्मचारिणः । इति प्रतिभूविधिः । धनप्रयोगे द्वौ
“विश्वासहेतू प्रतिभूराधिश्च यथाह नारदः । विश्रम्भहेतू
द्वावत्र प्रतिभूराधिरेव चेति” । प्रतिभूर्निरूपितः” मिता०
अत्र विशेषः वीरमि० व्यासः “सबन्धे भाग आशीतः
षष्टोभागः सलग्नके । निराधाने द्विकशतं मासलाभ
उदाहृतः” अत्र आधानपदं प्रतिभुवोऽभ्युपलक्षणम् ।
तत्रैव नारदः । “स्थानलाभनिमित्तं यद्दानग्रहणमिष्यते ।
तत्कुसीदमिति ज्ञेयम् तेन वृत्तिः कुसीदिनाम्” स्थानं
मूलधनस्यावस्थानं लाभो वृद्धिः तन्निमित्त ततप्रयोज-
नम् । कुसीदशब्दार्थ माह वृह० । “कुत्सितात् सीदतश्चैव
निर्विशङ्कैः प्रगृह्यते । चतुर्गुणं वाष्टगुणं कुसीदाख्यमृणा-
त्ततः” । कतमितात सीदतश्च अधमर्ण्णात् इत्यर्थः । वृद्धौ
विशेषमाह स एव । “वृद्धिश्चतुर्विधा प्रोक्ता पञ्चधान्यैः प्रकी-
र्त्तिता । षड्विधान्यैः समाख्याता तत्त्वतस्ता निबोधत ।
कायिका कालिका चैव चक्रवृद्धिरतीऽपरा । कारिता
सशिखा वृद्धिर्भोगलाभस्तथैव च । कायिका कर्म्मसंयुक्ता
मासग्राह्या तु कालिका । वृद्धेर्वृद्धिश्चक्रवृद्धिः कारिता ऋणिना
कृता । प्रत्यहं गृह्यते या तु शिखा वृद्धिस्तु सा स्मृता ।
गृहात्तोषः फलं क्षेत्रात् भोगलाभः प्रकीर्त्तितः” कर्म्म-
संयुक्ता कायिका यत्र बन्धकीकृतस्य गवाश्वादेर्दोहनवहना-
दिकं कर्म्म वृद्धित्वेन स्थापितं तत्र सा कायिका । यथाह
व्यासः “दोह्यवाह्यकर्मयुता कायिका समुदाहृता” प्रत्यहं
गृह्यते या तु शिखा वृद्धिस्तु सा स्मृता । शिखेव वर्द्धते
नित्यं शिरश्छेदान्निवर्त्तते । मूले दत्ते तथैवैषा शिखा-
वृद्ध्विर्निवर्त्तते” । परमवृद्धौ विशेषस्तत्रैव वृह० “हिरण्ये
द्विगुणा वृद्ध्विस्त्रिगुणा वस्त्रकुप्यके । धान्ये चतुर्गुणा प्रोक्ता
शदवाह्यलवेषु च । उक्ता पञ्चगुणा शाके वीजेक्षौ षड़्-
गुणा स्मृता । लवणस्नेहमद्येषु वृद्धिरष्टगुणा मता ।
गुडे मधुनि चैवोक्ता प्रयुक्ते चिरकालिके” कुप्यं त्रपुसी-
सादि शदः क्षेत्रफलं धान्यस्य पृथग्ग्रहणात्तद्व्यतिरिक्तं
पुष्पफलादि । कात्या० “तैलानाञ्चैव सर्वेषां मद्यानामथ
सर्थिषाम् । वृद्धिरष्टगुणा ज्ञेया गुड़स्य लवणस्य च” ।
सर्वेषां सर्वप्रकाराणां सर्वत्रान्वयः । गुडादौ विभक्तिव्यत्ययेन
सर्वस्येत्यन्वयः । वसिष्ठः “वज्रशुक्तिप्रवालानां हेम्नश्च रजतस्य
च । द्विगुणा त्विष्यते दृद्धिः कृतकालानुसारिणी” कात्या०
“मणिमुक्ताप्रवालानां सुवर्ण्णरजतस्य च । तिष्ठतो द्वि-
गुणा वृद्धिः फलकैटाविकस्य च” फलं फलजं कार्पासादि
आविकसाहचर्य्यात् कैटं कीटोद्भवं पट्टसूत्रादि आविकं
कम्बलादि । वसिष्ठः “ताम्रायःकांस्यरीतीनां त्रपुणः
सीसकस्य च । त्रिगुणा तिष्ठतो वृद्धिः कालात् चिरकृतस्य तु”
विष्णुः “अनुक्तानां त्रिगुणा” । देशाचारभेदादुक्तायाः
सवप्रकारवृद्धेरन्यथात्वमाह नारदः “ऋणानां सार्वभौमो-
ऽवं विधिर्वृद्धिकरः स्मृतः । देशाचारस्थितिस्त्वन्या यत्रर्ण्ण-
मवतिष्ठते । द्विगुणं त्रिगुणञ्चैव तथात्यस्मिंश्चतुर्गुणम् ।
तथाष्टगुणमन्यस्मिन् तत्र देशेऽवतिष्ठते” । द्रव्यभेदेऽक्षयवृ-
द्धिमाह वृह० “तृणकाष्ठेष्टकासूत्रकिण्वचर्मास्थिवर्म्म-
णाम् । हेतिपुष्पफलानाञ्च वृद्धिस्तु न निवर्त्तते ।
किण्वं सुराद्रव्योपकरणं द्रव्यविशेषः । वसिष्ठः
“दन्तचर्मास्थिशृङ्गाणां मृण्मयानां तथैव च । अक्षयावृद्धि-
रेतेषां पुष्पमूलफलस्य च” पुष्पादौ पूर्वापरविरोधः अधमर्ण्ण-
शक्त्यपेक्षानपेक्षाभ्यां समाधानीयः । शिखावृद्ध्यादौ वृद्धेर-
रक्षयमाह वृह० “शिखावृद्धिं कालिकाञ्च फलभोगं
तथैव च । धनी तावत् समादद्यात् यावन्मूलं न शोधि-
तम्” “क्वचिदनङ्गीकृताऽपि वृद्धिर्भवतीत्याह” विष्णुः
“यो गृहीत्वा ऋणं पूर्वं श्वोदास्यामीति सामकम् । न द
द्याल्लोभतः पश्चात् तदहाद्वृद्धिमाप्नुयात्” सामकं
सममेवावृद्धिकं श्वोदास्यामीति प्रतिश्रुत्येर्थः श्व इति पदं
दानकालोपलक्षणम् । अङ्गीकाराभावे क्वचित् विषये वृद्ध्य-
भावमाह संव० “न वृद्धिः स्त्रीधने लाभे निःक्षिप्ते च
यथास्थिते । सन्दिग्धे प्रतिभावो च यदि न स्यात् स्वयं
कृता” स्त्रीधने “अधिविन्नस्त्रियै देयमाधिवेदनिकं समम्”
इत्युत्याद्युक्तेः स्त्रियै दातव्ये धने स्त्रीशुल्कधने च लाभे
कृष्याद्याये बाणिज्याद्युत्पन्ने आये च कालातिक्रमेऽपि न
बृद्धिः । कात्या० “धर्म्मकृत्यासवद्यूते पण्यमूल्ये च सर्वदा ।
स्त्रीशुल्केषु न वृद्धिः स्यात् प्रातिभाव्यागतेषु च” धर्म्म-
कृत्ये प्रतिश्रुत्यादत्ते, द्यूते कृतर्ण्णे पराजितर्णे च सुरा-
पाणार्थमृणे क्रीतद्रव्यस्य पण्यस्य मूल्ये प्रातिभाव्या-
गतेषु सन्दिग्धप्रातिभाव्यागतेषु प्रागुक्तसंवर्त्तवाक्यैवाक्यत्वात्
अत्र सर्वदेति विशेषणम् याचनेऽपि न वृद्धिरिति
सूचनार्थमं । व्यासः “न वर्द्धते चिरस्थं च मद्यशुल्कप्रतिश्रु-
तम्” । शुल्कं घट्टादिदेयं राजकरादि । पूर्ण्णावधौ ऋण
दानासामर्थ्ये विशेषमाह मनुः “ऋणं दातुमशक्तोयः
कर्त्तुमिच्छेत् पुनः क्रियाम् । स दत्त्वा निर्जितां वृद्धिं
करणं परिवर्त्तयेत् । अदर्शयित्वा तत्रैव हिरण्यं
परिवर्त्तयेत् । यावती, सम्भवेद्वृद्धिस्तावतीं दातुमर्हति । चक्र-
वृद्धिं समारूढो देशकालव्यवस्थितः । अतिक्रामन् देशका-
लौ न तत्फलमयाप्नुयात्” । निर्जितां लभ्यत्वेनात्माधी-
नत्वं नीताम् । करणमन्यदृणलेख्यं कुर्यात् । अदर्शयित्वा साक्षिभ्यो देयद्रव्यमदर्शयित्वैव अधमर्ण्णेन मया
एतावती वृद्धिरियन्मूलमित्येवमङ्गीकारणेन देयमृणं
परिवर्त्तयेत् सवृद्धिकत्वेनाधिकतया अन्यथाभावभापादयेत्
तदेव पत्रे साक्षिमल्लेख्यम् एतच्च यावर्ती वृद्धिं तदा
दातु शक्नोति तावतीं दत्त्वा लेख्यं कार्यं
तथाकृते सति द्विगुणातिक्रमेण वृद्धिर्भवतीत्यर्थः तथाकृते च
वृद्धेरपि वृद्धिः तस्य सवृद्धिकस्य मूलस्थानीयत्वात्
यथाह वृह० “पूर्ण्णावधौ शान्तलाभमृणमुद्ग्राहये-
द्वनी । कारयेद्वा ऋणी लेख्यं चक्रवृद्धिव्यवस्थया । द्विगुण-
स्योपरि यथा चक्रवृद्धिः प्रगृह्यते । भोगलाभस्तथा तत्र
सूलं स्यत् सोदयमृणम्” ऋणग्रहणोपायाश्च मिता०
उक्ताः उपायशब्दे च १३५५ पृ० विस्तरेण दर्शिताः ।
अवधिमध्ये सवृद्धिकसर्वर्णदानासम्भवे क्रमेण दाने
सलेख्यप्रयोगे लेख्यपृष्ठे लिखित्वैव दानप्रकारमाह याज्ञ० ।
“लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वादत्त्वर्ण्णिको घनम् । धनी
वोपगतं दद्यात् स्वहस्तपरिचिह्नितम्” उपगतशब्दे १२०१ पृ०
व्याख्यातम् । विष्णुः “असमग्रदाने लेख्यासन्निधाने
चोत्तमर्ण्णः स्वलिखितं दद्यात्” (रसिंद) प्रवेशपत्रादाने विशेष
माह नारदः । “गृहीत्वोपगतं दद्यादृणिकायोदयं
धनी । अददद्याच्यमानश्च शेषहानिमवाप्नुयात्” “उदयं
प्राप्तम् । सर्वर्ण्णदाने तु ऋणलेख्यच्छेदनमाह “दत्त्वर्ण्णं
पाटयेल्लेख्यं शुद्ध्यै वान्यत्तुकारयेत् । साक्षिमच्च
भवेद्यद्वा तद्दातव्यं ससाक्षिकम्” या० ।
तत्राशक्तौ विशेषमाह कात्या० “धनदानासहं वुद्ध्वा
स्वाधीनं कर्म्म कारयेत् । अशक्तौ बन्धनागारे प्रवंश्यो
ब्राह्मणादृते” । अशुभकर्मकारणं बन्धनागारप्रवेशनञ्च
राजावेदनपूर्वकमेव कार्य्यमन्यथा दण्डमाह कात्या० । “यदि
ह्यादावनादिष्टमशुभं कर्म कारयेत् । प्राप्नुयात् साहसं
पूर्बमृणान्मुच्येत चर्ण्णिकः” अनादिष्टम् राज्ञाऽनिवेदितम् ।
ऋणदातृपुत्रं विशेषयति कात्या० “ऋणं तु दापयेत्
पुत्रम् यदि स्यान्निरुपद्रवः । द्रविणार्हश्च धुर्यश्च नान्यथा
दापयेत् सुतम् । व्यसनाभिप्लुते पुत्रे बाले वा यत्
प्रदृश्य ते । द्रव्यहृद्दापयेत्तं तु तस्याभावे पुरन्ध्रीहृत्”
कुटम्बार्थे कृतर्ण्णे विशेषमाह वृह० “पितृव्यभ्नातृ-
पुत्रस्त्रीदासशिष्यानुजीविभिः । यत् गृहीतं कुटुम्बार्थे तद्
गृही दातुमर्हति” । नारदः “शिष्यान्तेवासिदासस्त्रीप्रैष्य
कृत्यकरैश्च यत् । कुटुम्बहेतोर्यत् क्षिप्तं दातव्यं तत् कुटु-
म्बिना” शिष्यः वेदशिष्यः अन्तेवासी शिल्पशिष्यः ।
“कुटुम्बार्थमृणं दर्शयति” कात्या० “कुटुम्बार्थ-
मशक्ते तु गृहीतं व्याधिते तथा । उपप्लवनिमित्तं
च विद्यादापत्कृतन्तु तत् । कन्यावैवाहिके चैव प्रेत-
कार्य्येषु यत् कृतम् । एतत् सर्वं प्रदातव्यं कुटुम्बेन कृतं
प्रभोः” । पुत्रकृते विशेषमाह नार० “पितुरेव नियो-
गाद्वा कुटुम्बभरणाय वा । कृतं वा यदृणं कृच्छ्रे दद्यात्
पुत्रस्य तत्पिता” । स्त्रियाः पतिकृ तर्ण्णदाने विशेषमाह
कात्या० “मर्त्तुकामेन या भर्त्त्रा उक्ता देयमृणं त्वया ।
प्रतिप्रन्ना च सा दाप्या धनं यद्याश्रितं स्त्रियाम्” । नार०
“दद्यादपुत्रा विधवा नियुक्ता या मुसूर्षुणा । या वा तद्रि-
क्थमादद्यात् यतोरिक्थमृणं ततः” । मातुर्निर्धनत्वे-
ऽपि तत्कृतर्ण्णं पुत्रेण देयमाह” नारदः “पुत्रिणी तु
समुत्सृज्य पुत्रंस्त्री यान्यमाश्रयेत् । तस्य ऋणं हरेत् सर्वं
निःस्वाया पुत्रएव तु” । सधनत्वे तामद्वोढैव दद्यात”
यथाह कात्या० “बालपुत्राधिकार्था स्यात् भर्त्त्रारं यान्यमा-
श्रिता । आश्रितस्तमृणं दद्यात् बालपुत्राविधिः स्मृतः” ।
अविभक्तर्ण्णे विशेषमाह विष्णुः अविभक्तैः कृतमृणं यस्तिष्ठति
स दद्यात्” । नारदः “पितृव्येणाविभक्तेन भ्रात्रा वा
यदृणं कृतम् । मात्रा वा यत् कुटुम्बार्थे दद्युस्तत् सर्व
ऋक्थिनः” अविभ्रक्तकाले कुटुम्बार्थे कृतमृण विभक्तैरपि
देयमह मनुः । “ग्रहीता यदि नष्टः स्यात् कुटुम्बार्थे
कृतोव्ययः । दातव्यं बान्धवैस्तत् स्यात् प्रविभक्तैरपि स्वतः” ।
कामकृतर्ण्णमाह कात्या० । “लिखितं मुक्तकं वापि देयं
यत्तु प्रतिश्रुतम् । परपूर्वस्त्रियै तत्तु विद्यात् कामकृतं
नृणाम्” मुक्तकं लेखरहितम् । अनेकधनिसमवाये
विशेषमाह कात्या० । “नानर्ण्णसमवाये तु यद्यत् पूर्बकृतं
भवेत् । तत्तदेवाग्रतो देयं राज्ञः स्याच्छ्रोत्रियात् परम् ।
एकाहे लिखितं यत्र तत्र कुर्यादृणं समम् । ग्रहणं
रक्षणं लाभमन्यथा तु यथाक्रमम्” । भिन्नदिवसे कृतं
श्रोत्रियपूर्वकं देयम् । एकदिनकृतननर्ण्ण समवाये
युगपद्देयम् धनाल्पत्वबहुत्वयोस्तु तदनुसारेण भागं परिकल्प्य
देयमित्यर्थः । अत्र विशेषमाह कात्या “यस्य द्रव्येण
यत्पण्यं साधितं यो विभायेत् । तद्द्रव्यमृणिकेनैव
दातव्यं तस्य नान्यथा” यदुत्तमर्ण्णात् द्रव्यं गृहीत्वा
वाणिज्यादिकं करोति तस्मात् लब्धधनं तस्मै एव
देयं तत्सत्त्वे नान्यस्मै इत्यर्थः । पैतामहपित्रर्ण्ण-
योरग्रे देयतामाह वृह० “पित्र्यं पूर्वमृणं देयं
पश्चादात्मीयमेव च । तयोः पैतामहं पूर्वं देयमेवमृणं
सदा । पित्रर्ण्णे विद्यमाने तु न च पुत्रो धनं हरेत् ।
देयं तद्धनिके द्रव्यं मृते पौत्रैस्तु दाप्यते” । एवं मातृक-
र्णेऽपि “मातुर्दुहितरः शेषमृणात्ताभ्य ऋतेऽन्वयः” या०
उक्तेः । पुत्रपौत्रादिभिर्देय ऋणे विशेषमाह विष्णुः
“धनग्राहिणि प्रेते प्रव्रजिते वा द्विदशाः समाः प्रोषिते
वा तत्पुत्रपौत्रैर्देयं नातः परमनीप्लुभिः” प्रेते अप्राप्त
व्यवहारस्य विंशतिवर्षोत्तरं, संन्यस्ते प्रोषिते च सर्वस्यैव तत्
कालोत्तरं देयम् । एतच्च अप्राप्तधनस्य गृहीतधनस्य तु तत्
क्षणाद्देयता ऋणावशेषधनग्रहणस्यैव प्रागुक्तशास्त्रसिद्धेः ।
ऋणापकरणाभावे दोषमाह व्यासः “तपस्वी वाग्नि-
होत्री वा ऋणवान् म्रियते यदि । तपर्श्चवाग्निहोत्रञ्च
सर्वं तद्धनिनो भवेत्” । अन्यकृतपुण्यस्यान्यत्र संक्रमाप्रस-
प्तोरस्य चिन्दार्थवादता तेन तत्तत्पुण्यनाशकतेति
पर्य्यवमितोऽर्थः ।
कात्या० “उद्धारादिकमादाय स्वामिने
न ददाति यः । कन्तस्य दासो भृत्यः स्त्री पशुर्वा जायते
गृहे” तथा नारदः “याच्यमानं न दद्याद्य ऋणं
वापि प्रतिग्रहम् । तद्द्रव्यं वर्द्धते तस्य यावत् कोटिशतं
भवेत् । ततः कोटिशते पूर्ण्णे वेष्टितस्तेन कर्म्मणा । अश्वः
स्वरो वृषो दासो भवेज्जन्मनि जन्मनि” तेनर्ण्णानपक्रियाया
उक्तपश्वादियोनिप्राप्तिहेतुदुरदृष्टजनकत्वम् । ऋणग्रहण-
मेव पापहेतुः तच्छोधनस्य तन्नाशकतेति गदाधर आह स्म ।
वाचस्पत्यम्