भगवद्गीता २.२२
वासांसि जीर्णानि यथा विहाय – नवानि गृह्णाति नरोऽपराणि ।
तथा शरीराणि विहाय जीर्णानि – अन्यानि संयाति नवानि देही ॥२२॥
As a man[देही] leaving old garments, takes another new ones, likewise the Soul[inside the body], casting off old bodies, enter into a new one.
श्रीधरः नन्वात्मनोऽविनाशेऽपि तदीयशरीरनाशं पर्यालोच्य शोचामीइति चेत्? तत्राह वासांसीति । कर्मणि बन्धनानां नूतनानां देहानामवश्यम्भावित्वात्न तज्जीर्णदेहनाशे शोकावकाश इत्यर्थः ॥२२॥
मधुसूदनः नन्वेवमात्मनो विनाशित्वाभावेऽपि देहानां विनाशित्वाद्युद्धस्य च तन्नाशकत्वात्कथं भीष्मादिदेहानामनेकसुकृतसाधनानां मया युद्धेन विनाशः कार्य इत्याशङ्काया उत्तरं वासांसीति ।
जीर्णानि विहाय वस्त्राणि नवानि गृह्णाति विक्रियाशून्य एव नरो यथेत्येतावतैव विर्वाहेऽपराणीइत्विशेषणमुत्कर्षातिशयख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्यौचित्यायातम् । तथा जीर्णानि वयसा तपसा च कृशानि भीष्मादिशरीराणि विहायान्यानि देवादिशरीराणि सर्वोत्कृष्टानि चिरोपार्जितधर्मफलभोगाय संयाति सम्यग्गर्भवासादिक्लेशव्यतिरेकेण प्राप्नोति देही प्रकृष्टधर्मानुष्ठातृदेहवान् भीष्मादिरित्यर्थः । अन्यन्नवतरं कल्याणतरं रूपं कुरुते पित्र्यं वा गन्धर्वं वा दैवं वा प्राजापत्यं वा ब्राह्मं वा इत्यादि श्रुतेः ।
एतदुक्तं भवति भीष्मादयो हि यावज्जीवं धर्मानुष्ठानक्लेशेनैव जर्जरशरीरा वर्तमानशरीरपातमन्तरेण तत्फलभोगायासमर्था यदि धर्मयुद्धेन स्वर्गप्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्यदेहसम्पादनेन स्वर्गभोगयोग्याः क्रियन्ते त्वया तदत्यन्तमुपकृत्वा एव ते । दुर्योधनादीनामपि स्वर्गभोगयोग्यदेहसम्पादनान्महानुपकार एव । तथा चात्यन्तमुपकारके युद्धेऽपकारकत्वभ्रमं मा कार्षीरिति । अपराणि अन्यानि संयातीति पदत्रयवशाद्भगवदभिप्राय एवमभ्यूहितः । अनेन दृष्टान्तेनाविकृतप्रतिपादनमात्मनः क्रियत इति तु प्राचां व्याख्यानमतिस्पष्टम् ॥२२॥
विश्वनाथः ननु मदीययुद्धाद्भीष्मसंज्ञकं शरीरं तु जीवात्मा त्यक्ष्यत्येव इत्यतस्त्वं चाहं च तत्र हेतु भवाव एव इत्यत आह वासांसीति । नवीनं वस्त्रं परिधापयितुं जीर्णवस्त्रस्य त्यजने कश्चित्किं दोषो भवतीति भावः । तथा शरीराणीति भीष्मो जीर्णशरीरं परित्यज्य दिव्यं नव्यं अन्यच्छरीरं प्राप्स्यतीति कस्तव वा मम वा दोषो भवतीति भावः ॥२२॥
बलदेवः : ननु मा भूदात्मनां विनाशो भीष्मादिसंज्ञानां तच्छरीराणां तत्सुखसाधनानां युद्धेन विनाशे तत्सुखविच्छेदहेतुको दोषः स्यादेव । अन्यथा प्रायश्चित्तशास्त्राणि निर्विषयाणि स्युरिति चेत्तत्राह वासांसीति । स्थूलजीर्णवासस्त्यागेन नवीनवासोधारणमिव वृद्धनृदेहत्यागेन युवदेवदेहधारणं तेषामात्मनामतिसुखकरमेव । तदुभयं च युद्धेनैव क्षिप्रं भवेदित्युपकारकात्तस्मान्मा विरंसीरिति भावः । संयातीति सम्यग्गर्भवासादियातनां विनैव शीघ्रमेव प्राप्नोतीत्यर्थः । प्रायश्चित्तवाक्यानि तु यज्ञयुद्धवधादन्यस्मिन् वधे नेयानि ॥२२॥
You must be logged in to post a comment.