अभिधर्मकोश-वसुबन्धु -Abhi dharma kosha-VASUBANDHU

अभिधर्मकोश-Abhidharmakosha

प्रथमं कोशस्थानम्

ओं नमो बुद्धाय

यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥

प्रज्ञामला सानुचराभिधर्मः तत्प्राप्तये यापि च यच्च शास्त्रम् ।
तस्यार्थतोऽस्मिन् समनुप्रवेशात्स चा श्रयोऽस्येत्यभिधर्मकोशम् ॥ १.२ ॥

धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः ।
क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा ॥ १.३ ॥

सास्रवानास्रवा धर्माः संस्कृता मार्गवर्जिताः ।
सास्रवाः आस्रवास्तेषु यस्मात्समनुशेरते ॥ १.४ ॥

अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् ।
आकाशं द्वौ निरोधौ च तत्राकाशमनावृतिः ॥ १.५ ॥

प्रतिसंख्यानिरोधो यो विसंयोगः पृथक्पृथक् ।
उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया ॥ १.६ ॥

ते पुनः संस्कृता धर्मा रूपादिस्कन्धपञ्चकम् ।
स एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः ॥ १.७ ॥

ये सास्रवा उपादानस्कन्धास्ते सरणा अपि ।
दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते ॥ १.८ ॥
रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च ।
तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः ॥ १.९ ॥
रूपं द्विधा विंशतिधा शब्दस्त्वष्टविधः रसः ।
षोढा चतुर्विधो गन्धः स्पृश्यमेकादशात्मकम् ॥ १.१० ॥
विक्षिप्ताचित्तकस्यापि योऽनुबन्धः शुभाशुभः ।
महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते ॥ १.११ ॥
भूतानि पृथिविधातुरप्तेजोवायुधातवः ।
धृत्यादिकर्मसंसिद्धा खरस्नेहोष्णतेरणाः ॥ १.१२ ॥
पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया ।
आपस्तेजश्च वायुस्तु धातुरेव तथापि च ॥ १.१३ ॥
इन्द्रियार्थास्त एवेष्टा दशायतनधातवः ।
वेदनानुभवः संज्ञा निमित्तोद्ग्रहणात्मिका ॥ १.१४ ॥
चतुर्भ्योऽन्ये तु संस्कारस्कन्धः एते पुनस्त्रयः ।
धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतै ॥ १.१५ ॥
विज्ञानं प्रतिविज्ञप्तिः मन आयतनं च तत् ।
धातवः सप्त च मताः षड्विज्ञानान्यथो महः ॥ १.१६ ॥
षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः ।
षष्ठाश्रयप्रसिद्धयर्थं धतवोऽष्टादश स्मृताः ॥ १.१७ ॥
सर्वसंग्रह एकेन स्कन्धेनायतनेन च ।
धातुना च स्वभावेन परभाववियोगतः ॥ १.१८ ॥
जातिगोचरविज्ञानसामान्यादेकधातुता ।
द्वित्वेऽपि चक्षुरादीनां शोभार्थ तु द्वयोद्भवः ॥ १.१९ ॥
राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः ।
मोहेन्द्रियरूचित्रैधात्तिस्त्रः स्कन्धादिदेशनाः ॥ १.२० ॥
विवादमूलसंसारहेतुत्वात्क्रमकारणात् ।
चैत्तेभ्यो वेदनासंज्ञे पृथक्स्कन्धौ निवेशितौ ॥ १.२१ ॥
स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात्क्रमः पुनः ।
यथौदारिकसंक्लेसभाजनाद्यर्थधातुतः ॥ १.२२ ॥
प्राक्पञ्च वार्त्तमानार्थ्यात्भौतिकार्थ्याच्चतुष्टयम् ।
दूराशुतरवृत्त्यान्यत्यथास्थानं क्रमोऽथवा ॥ १.२३ ॥
विशेषणार्थं प्राधान्यब्दहुधर्माग्रसंग्रहात् ।
एकमायतनं रूपमेकं धर्माख्यमुच्यते ॥ १.२४ ॥
धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः ।
तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः ॥ १.२५ ॥
शास्त्रप्रमाणा इत्येके स्कन्धादीनां कथैकशः ।
चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः ॥ १.२६ ॥
तथान्येऽपि यथायोगं स्कन्धायतनधातवः ।
प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम् ॥ १.२७ ॥
छिद्रमाकाशधात्वाख्यमालोकतमसी किल ।
विज्ञानधातुर्विज्ञानं सास्रवं जन्मनिश्रयाः ॥ १.२८ ॥
सनिदर्शन एकोऽत्र रूपं सप्रतिघा दश ।
रूपिणः अव्याकृता अष्टौ त एवारूपशब्दकाः ॥ १.२९ ॥
त्रिधान्ये कामधात्वाप्ताः सर्वे रूपे चतुर्दश ।
विना गन्धरसघ्राणजिव्हाविज्ञानधातुभिः ॥ १.३० ॥
आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः ।
सास्रवानास्रवा एते त्रयः शेषास्तु सास्रवाः ॥ १.३१ ॥
सवितर्कविचारा हि पञ्च विज्ञानधातवः ।
अन्त्यास्त्रयस्त्रिप्रकाराः शेषा उभयवर्जिताः ॥ १.३२ ॥
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।
तौ प्रज्ञामानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥ १.३३ ॥
सप्त सालम्बनाश्चित्तधातवः अर्धं च धर्मतः ।
नवानुपात्ता ते चाष्टौ शब्दश्च अन्ये नव द्विधा ॥ १.३४ ॥
स्प्रष्टव्यं द्विविधं शेषा रूपिणो नव भौतिकाः ।
धर्मधात्वेकदेशश्च संचिता दश रूपिणः ॥ १.३५ ॥
छिनत्ति छिद्यते चैव बाह्यं धातु चतुष्टयम् ।
दह्यते तुलयत्येवं विवादो दग्धृतुल्ययोः ॥ १.३६ ॥
विपाकजौपचयिकाः पञ्चाध्यात्मं विपाकजः ।
न शब्दः अप्रतिघा अष्टौ नैःष्यन्दिक विपाकजाः ॥ १.३७ ॥
त्रिधान्ये द्रव्यवानेकः क्षणिकाः पश्चिमास्त्रयः ।
चक्षुर्विज्ञानधात्वोः स्यात्पृथक्लाभः सहापि च ॥ १.३८ ॥
द्वादशाध्यात्मिकाः हित्वा रूपादीन् धर्मसंज्ञकः ।
सभागः तत्सभागाश्च शेषाः यो न स्वकर्मकृत् ॥ १.३९ ॥
दश भावनया हेयाः पञ्च च अन्त्यास्त्रयस्त्रिधा ।
न दृष्टिहेयमक्लिष्टं न रूपं नाप्यषष्ठजम् ॥ १.४० ॥
चक्षुश्च धर्मधातोश्च प्रदेशौ दृष्टिः अष्टधा ।
पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् ॥ १.४१ ॥
चक्षुः पश्यति रूपाणि सभागं न तदाश्रितम् ।
विज्ञानं दृश्यते रूपं न किलान्तरितं यतः ॥ १.४२ ॥
उभाभ्यामपि चक्षुर्भ्यां पश्यति व्यक्तदर्शनात् ।
चक्षुःश्रोत्रमनोऽप्राप्तविषयं त्रयमन्यथा ॥ १.४३ ॥
त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् ।
चरमस्याश्रयोऽतीतः पञ्चानां सहजश्च तैः ॥ १.४४ ॥
तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः ।
अतोऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते ॥ १.४५ ॥

न कायस्याधरं चक्षुः ऊर्ध्वं रूपं न चक्षुषः ।
विज्ञानं च अस्य रूपं तु कायस्योभे च सर्वतः ॥ १.४६ ॥
तथा श्रोत्रं त्रयाणां तु सर्वमेव स्वभूमिकम् ।
कायविज्ञानमधरस्वभूमि अनियतं मनः ॥ १.४७ ॥

पञ्च बाह्या दिविज्ञेयाः नित्या धर्मा असंस्कृताः ।
धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः ॥ १.४८ ॥

अभिधर्मकोशभाष्ये धातुनिर्देशो नाम प्रथमं कोशस्थानं समाप्तमिति ।

ये धर्मा हेतुप्रभवा हेतुस्तेषां तथागतो ह्यवदत् । तेषां च यो निरोध एवंवादी महाश्रमणः ॥


द्वितीयं कोशस्थानम्

चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं द्वयोः किल ।
चतुर्ण्णां पञ्चकाष्टानां संक्लेशव्यवदानयोः ॥ २.१ ॥
स्वार्थोपलब्ध्याधिपत्यात्सर्वस्य च षडिन्द्रियम् ।
स्त्रीत्वपुंस्त्वाधिपत्यात्तु कायात्स्त्रीपुरुषेन्द्रिये ॥ २.२ ॥
निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः ।
जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः ॥ २.३ ॥
आज्ञास्याम्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा ।
उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः ॥ २.४ ॥
चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च ।
संभारो व्यवदानं च यावता तावदिन्द्रियम् ॥ २.५ ॥
प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः ।
चतुर्दश तथान्यानि निवृत्तेरिन्द्रियाणि वा ॥ २.६ ॥
दुःखेन्द्रियमशाता या कायिकी वेदना सुखम् ।
शाता ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ॥ २.७ ॥
अन्यत्र सा सौमनस्यमशाता चैतसी पुनः ।
दौर्मनस्यमुपेक्षा तु मध्या उभयी अविकल्पनात् ॥ २.८ ॥
दृग्भावनाशैक्षपथे नव त्रीणि अमलं त्रयम् ।
रूपीणि जीवितं दुःखे सास्रवाणि द्विधा नव ॥ २.९ ॥
विपाको जीवितं द्वेधा द्वादश अन्त्याष्टकादृते ।
दौर्मनस्याच्च तत्त्वेकं सविपाकं दश द्विधा ॥ २.१० ॥
मनोऽन्यवित्तिश्रद्धादीनि अष्टकं कुशलं द्विधा ।
दौर्मनस्यं मनोऽन्या च वित्तिस्त्रेधा अन्यदेकधा ॥ २.११ ॥
कामाप्तममलं हित्वा रूपाप्तं स्त्रीपुमिन्द्रिये ।
दुःखे च हित्वा आरूप्याप्तं सुखे चापोह्य रूपि च ॥ २.१२ ॥
मनोवित्तित्रयं त्रेधा द्विहेया दुर्मनस्कता ।
नव भवनया पञ्च त्वहेयान्यपि न त्रयम् ॥ २.१३ ॥
कामेष्वादौ विपाको द्वे लभ्यते नोपपादुकैः ।
तेः षड्वा सप्त वा अष्टौ वा षड्रूपेषु एकमुत्तरे ॥ २.१४ ॥
निरोधयत्युपरमान्नारूप्ये जीवितं मनः ।
उपेक्षां चैव रूपेऽष्टौ कामे दश नवाष्टौ वा ॥ २.१५ ॥
क्रममृत्यौ तु चत्वारि शुभे सर्वत्र पञ्च च ।
नवाप्तिरन्त्यफलयोः सप्ताष्टनवभिर्द्वयोः ॥ २.१६ ॥
एकादशभिरर्हत्त्वमुक्तं त्वेकस्य संभवात् ।
उपेक्षजीवितमनोयुक्तोऽवश्यं त्रयान्वितः ॥ २.१७ ॥
चतुर्भिः सुखकायाभ्यां पञ्चभिश्चक्षुरादिमान् ।
सौमनस्यी च दुःखी तु सप्तभिः स्त्रीन्द्रियादिमान् ॥ २.१८ ॥
अष्टाभिः एकादशभिस्त्वाज्ञाज्ञाते न्द्रियान्वितः ।
आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः ॥ २.१९ ॥
सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः ।
युक्तः बालस्तथारूप्ये उपेक्षायुर्मनःशुभैः ॥ २.२० ॥
बहुभिर्युक्त एकान्नविंशत्यामलवर्जितैः ।
द्विलिङ्गः आर्यो रागी एकलिङ्गद्वयमलवर्जितैः ॥ २.२१ ॥
कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः ।
कायेन्द्रियी नवद्रव्यः दशद्रव्योऽपरेन्द्रियः ॥ २.२२ ॥
चित्तं चैत्ताः सहावश्यं सर्व संस्कृतलक्षणैः ।
प्राप्त्या वा पञ्चधा चैत्ता महाभूम्यादिभेदतः ॥ २.२३ ॥
वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः ।
मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि ॥ २.२४ ॥
श्रद्धाप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा ।
मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ २.२५ ॥
मोहः प्रमादः कौशीद्यमाश्रद्धयं स्त्यानमुद्धवः ।
क्लिष्टे सदैव अकुशले त्वाह्रीक्यमनपत्रपा ॥ २.२६ ॥
क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः ।
मायामदविहिंसाश्च परीत्तक्लेशभूमिकाः ॥ २.२७ ॥
सवितर्कविचारत्वात्कुशले कामचेतसि ।
द्वांविंशतिश्चैतसिकाः कौकृत्यमधिकं क्वचित् ॥ २.२८ ॥
आवेणिके त्वकुशले दृष्टियुक्ते च विंशतिः ।
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः ॥ २.२९ ॥
निवृतेऽष्टादश अन्यत्र द्वादशाव्याकृते मताः ।
मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत् ॥ २.३० ॥
कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः ।
ध्यानान्तरे वितर्कश्च विचारश्चाप्यतः परम् ॥ २.३१ ॥
अह्रीरगुरुता अवद्ये भयादर्शित्व मत्रपा ।
प्रेम श्रद्धा गुरुत्वं ह्रीः ते पुनः कामरूपयोः ॥ २.३३ ॥
वितर्कचारा वौदार्यसूक्ष्मते मान उन्नतिः ।
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः ॥ २.३३ ॥
चित्तं मनोऽथ विज्ञानमेकार्थं चित्तचैतसाः ।
साश्रया लम्बनाकाराः संप्रयुक्ताश्च पञ्चधा ॥ २.३४ ॥
विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता ।
आसंज्ञिकं समापत्ती जीवितं लक्षणानि च ॥ २.३५ ॥
नामकायादयश्चेति प्राप्तिर्लाभः समन्वयः ।
प्राप्त्यप्राप्ती स्वसंतान पतितानां निरोधयोः ॥ २.३६ ॥
त्रैयध्विकानां त्रिविधा शुभादीनां शुभादिका ।
स्वधातुका तदाप्तानामनाप्तानां चतुर्विधा ॥ २.३७ ॥
त्रिधा नशैक्षाशैक्षाणामहेयानां द्विधा मता ।
अव्याकृताप्तिः सहजा अभिज्ञानैर्माणिकादृते ॥ २.३८ ॥
निवृतस्य च रूपस्य कामे रूपस्य नाग्रजा ।
अक्लिष्टाव्याकृताप्राप्तिः सातीताजातयोस्त्रिधा ॥ २.३९ ॥
कामाद्याप्तामलानां च मार्गस्याप्राप्तिरिष्यते ।
पृथग्जनत्वं तत्प्राप्तिभूसंचाराद्विहीयते ॥ २.४० ॥
सभागता सत्त्वसाम्यमासंज्ञिकमसंज्ञिषु ।
निरोधश्चित्तचैत्तानां विपाकः ते बृहत्फलाः ॥ २.४१ ॥
तथासंज्ञिसमापत्तिः ध्यानेऽन्त्ये निःसृतीच्छया ।
शुभा उपपद्यवेद्यैव नार्यस्य एकाध्विकाप्यते ॥ २.४२ ॥
निरोधाख्या तथैवेयं विहारार्थं भवाग्रजा ।
शुभा द्विवेद्यानियता च आर्यस्य आप्या प्रयोगतः ॥ २.४३ ॥
बोधिलभ्या मुनेः न प्राक्चतुस्त्रिंशत्क्षणाप्तितः ।
कामरूपाश्रये भूते निरोधाख्यादितो नृषु ॥ २.४४ ॥
आयुर्जीवितमाधार ऊष्मविज्ञायोर्हि यः ।
लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता ॥ २.४५ ॥
जातिजात्यादयस्तेषां तेऽष्टधर्मैकवृत्तयः ।
जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना ॥ २.४६ ॥
नामकायादयः संज्ञावाक्याक्षरसमुक्तयः ।
कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः तथा ॥ २.४७ ॥
सभागता सा तु पुनर्विपाकोऽपि आप्तयो द्विधा ।
लक्षणानि च निःष्यन्दाः समापत्त्य समन्वयाः ॥ २.४८ ॥
कारणं सहभूश्चैव सभागः संप्रयुक्तकः ।
सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते ॥ २.४९ ॥
स्वतोऽन्ये कारणं हेतुः सहभूर्ये मिथःफलाः ।
भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् ॥ २.५० ॥
चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।
चित्तानुवर्त्तिनः कालफलादिशुभतादिभिः ॥ २.५१ ॥
सभागहेतुः सदृशाः स्वनिकायभुवः अग्रजाः ।
अन्योऽन्यं नवभूमिस्तु मार्गः समविशिष्टयोः ॥ २.५२ ॥
प्रयोगजास्तयोरेव श्रुतचिन्तामयादिकाः ।
संप्रयुक्तकहेतुस्तु चित्तचैत्ताः समाश्रयाः ॥ २.५३ ॥
सर्वत्रगाख्यः क्लिष्टानां स्वभूमौ पूर्वसर्वगाः ।
विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः ॥ २.५४ ॥
सर्वत्रगः सभागश्च द्वयध्वगौ त्र्यध्वगास्त्रयः ।
संस्कृतं सविसंयोग फलं नासंस्कृतस्य ते ॥ २.५५ ॥
विपाकफलमन्त्यस्य पूर्वस्याधिपतं फलम् ।
सभाग सर्वत्रगयोर्निष्यन्दः पौरुषं द्वयोः ॥ २.५६ ॥
विपाकोऽव्याकृतो धर्मः सत्त्वाख्यः व्याकृतोद्भवः ।
निःष्यन्दो हेतुसदृशः विसंयोगः क्षयो धिया ॥ २.५७ ॥
यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् ।
अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् ॥ २.५८ ॥
वर्त्तमानाः फलं पञ्च गृण्हन्ति द्वौ प्रयच्छतः ।
वर्त्तमानाभ्यतीतौ द्वौ एकोऽतीतः प्रयच्छति ॥ २.५९ ॥
क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् ।
विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः ॥ २.६० ॥
चित्तचैताः तथान्येऽपि संप्रयुक्तकवर्जिताः ।
चत्वारः प्रत्यया उक्ताः हेत्वाख्यः पञ्च हेतवः ॥ २.६१ ॥
चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः ।
आलम्बनं सर्वधर्माः कारणाख्योऽधिपः स्मृतः ॥ २.६२ ॥
निरुध्यमाने कारित्रं द्वौ हेतू कुरुतः त्रयः ।
जायमाने ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥ २.६३ ॥
चतुर्भिश्चत्तचैत्ता हि समापत्तिद्वयं त्रिभिः ।
द्वाभ्यामन्ये तु जायन्ते नेश्वरादेः क्रमादिभिः ॥ २.६४ ॥
द्विधा भूतानि तद्धेतुः भौतिकस्य तु पञ्चधा ।
त्रिधा भौतिकमन्योन्यं भूतानामेकधैव तत् ॥ २.६५ ॥
कुशलाकुशलं कामे निवृतानिवृतं मनः ।
रूपारूप्येष्वकुशलादन्यत्र अनास्रवं द्विधा ॥ २.६६ ॥
कामे नव शुभाच्चित्ताच्चित्तानि अष्टाभ्य एव तत् ।
दशभ्योऽकुशलं तस्माच्चत्वारि निवृतं तथा ॥ २.६७ ॥
पञ्चभ्योऽनिवृतं तस्मात्सप्त चित्तान्यनन्तरम् ।
रूपे दशैकं च शुभात्नवभ्यस्तदनन्तरम् ॥ २.६८ ॥
अष्टाभ्यो निवृतं तस्मात्षट्त्रिभ्योऽनिवृतं पुनः ।
तस्मात्षटेवामारूप्ये तस्य नीतिः शुभात्पुनः ॥ २.६९ ॥
नव चित्तानि तत्षण्णां निवृतात्सप्त तत्तथा ।
चतुर्भ्यः शैक्षमस्मात्तु पञ्च अशैक्षं तु पञ्चकात् ॥ २.७० ॥
तस्माच्चत्वारि चित्तानि द्वादशैतानि विंशतिः ।
प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा ॥ २.७१ ॥
विपाकजैर्यापथिकशैल्पस्थानिकनैर्मितम् ।
चतुर्धाव्याकृतं कामे रूपे शिल्पविवर्जितम् ॥ २.७२ ॥
क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः शुभे ।
त्रयाणां रूपजे शैक्षे चतुर्णां तस्य शेषिते ॥ २.७३ ॥

अभिधर्मकोशे इन्द्रियनिर्द्देशो नाम द्वितीयं कोशस्थानं समाप्तमिति ।


तृतीयं कोशस्थानम्

ओं नमो बुद्धाय ।

नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः ।
कामधातुः स नरकद्वीपभेदेन विंशतिः ॥ ३.१ ॥
ऊर्ध्वं सप्तदशस्थानो रूपधातुः पृथक्पृथक् ।
ध्यानं त्रिभूमिकं तत्र चतुर्थं त्वष्टभूमिकम् ॥ ३.२ ॥
आरूप्यधातुरस्थानः उपपत्त्या चतुर्विधः ।
निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः ॥ ३.३ ॥
नरकादिस्वनामोक्ता गतयः पञ्च तेषु ताः ।
अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः ॥ ३.४ ॥
नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः ।
विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः ॥ ३.५ ॥
विज्ञानस्थितयः सप्त शेषं तत्परिभेदवत् ।
भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः ॥ ३.६ ॥
अनिच्छावसनान्नान्ये चतस्रः स्थितयः पुनः ।
चत्वारः सास्रवाः स्कन्धाः स्वभूमावेव केवलम् ॥ ३.७ ॥
विज्ञानं न स्थितिः प्रोक्तं चतुष्कोटि तु संग्रहे ।
चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः ॥ ३.८ ॥
चतुर्धा नर तिर्यञ्चः नारका उपपादुकाः ।
अन्तराभवदेवाश्च प्रेता अपि जरायुजाः ॥ ३.९ ॥
मृत्युपपत्तिभवयोरन्तरा भवतीह यः ।
गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः ॥ ३.१० ॥
व्रीहिसन्तानसाधर्म्यादविच्छिन्नभवोद्भवः ।
प्रतिबिम्बमसिद्धत्वादसाम्याच्चानिदर्शनम् ॥ ३.११ ॥
सहैकत्र द्वयाभावातसन्तानाद्द्वयोदयात् ।
कण्ठोक्तेश्चास्ति गन्धर्वात्पञ्चोक्तेः गतिसूत्रतः ॥ ३.१२ ॥
एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः ।
स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः ॥ ३.१३ ॥
सजातिशुद्धदिव्याक्षिदृश्यः कर्मर्द्धिवेगवान् ।
सकलाक्षः अप्रतिघवाननिवर्त्यः स गन्धभुक् ॥ ३.१४ ॥
विपर्यस्तमतिर्याति गतिदेशं रिरंसया ।
गन्धस्थानाभिकामोऽन्यः ऊर्ध्वपादस्तु नारकः ॥ ३.१५ ॥
संप्रजानन् विशत्येकः तिष्ठत्यप्यपरः अपरः ।
निष्क्रामत्यपि सर्वाणि मूढोऽन्यः नित्यमण्डजः ॥ ३.१६ ॥
गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् ।
कर्मज्ञानोभयेषां वा विशदत्वाद्यथाक्रमम् ॥ ३.१७ ॥
नात्मास्ति स्कन्धमात्रं तु क्लेशकर्माभिसंस्कृतम् ।
अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् ॥ ३.१८ ॥
यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः ।
परलोकं पुनर्याति इत्यनादिभवचक्रकम् ॥ ३.१९ ॥
स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः ।
पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ परिपूरिणः ॥ ३.२० ॥
पूर्वक्लेशा दशाविद्या संस्काराः पूर्वकर्मणः ।
संधिस्कन्धास्तु विज्ञानं नामरूपमतः परम् ॥ ३.२१ ॥
प्राक्षडायतनोत्पादात्तत्पूर्वं त्रिकसंगमात् ।
स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः ॥ ३.२२ ॥
वित्तिः प्राक्मैथुनात्तृष्णा भोगमैथुनरागिणः ।
उपादानं तु भोगानां प्राप्तये परिधावतः ॥ ३.२३ ॥
स भविष्यत्भवफलं कुरुते कर्म तत्भवः ।
प्रतिसंधिः पुनर्जातिः जरामरणमा विदः ॥ ३.२४ ॥
आवस्थिकः किलेष्टोऽयं प्राधान्या त्त्वङ्गकीर्तनम् ।
पूर्वापरान्तमध्येषु संमोहविनिवृत्तये ॥ ३.२५ ॥
क्लेशास्त्रीणि द्वयं कर्म सप्त वस्तु फलं तथा ।
फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः ॥ ३.२६ ॥
क्लेशात्क्लेशः क्रिया चैव ततो वस्तु ततः पुनः ।
वस्तु क्लेशाश्च जायन्ते भवाङ्गानामयं नयः ॥ ३.२७ ॥
हेतुरत्र समुत्पादः समुत्पन्नः फलं मतम् ।
विद्याविपक्षो धर्मोऽन्योऽविद्यामित्रानृतादिवत् ॥ ३.२८ ॥
संयोजनादिवचनात्कुप्रज्ञा चेन्न दर्शनात् ।
दृष्टेस्तत्संप्रयुक्तत्वात्प्रज्ञोपक्लेशदेशनात् ॥ ३.२९ ॥
नाम त्वरूपिणः स्कन्धाः स्पर्शाः षट्संनिपातजाः ।
पञ्चप्रतिघसंस्पर्शः षष्ठोऽधिवचनाव्हय ॥ ३.३० ॥
विद्याविद्येतरस्पर्शाः अमलक्लिष्टशेषिताः ।
व्यापादानुनयस्पर्शौ सुखवेद्यादयस्त्रयः ॥ ३.३१ ॥
तज्जाः षड्वेदनाः पञ्च कायिकी चैतसी परा ।
पुनश्चाष्टादशविधा सा मनोपविचारतः ॥ ३.३२ ॥
कामे स्वालम्बनाः सर्वे रूपी द्वादशगोचरः ।
त्रयाणामुत्तरः ध्यानद्वये द्वादश कामगाः ॥ ३.३३ ॥
स्वोऽष्टालम्बनमारूप्यो द्वयोः ध्यानद्वये तु षट् ।
कामाः षण्णां चतुर्णा स्वः एकस्यालम्बनं परः ॥ ३.३४ ॥
चत्वारोऽरूपिसामन्ते रूपगाः एक ऊर्ध्वगः ।
एको मौले स्वविषयः सर्वेऽष्टादश सास्रवाः ॥ ३.३५ ॥
उक्तं च वक्ष्यते चान्यतत्र तु क्लेशा इष्यते ।
बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा ॥ ३.३६ ॥
तुषितण्डुलवत्कर्म तथैवौषधि पुष्पवत् ।
सिद्धान्नपानवद्वस्तु तस्मिन् भवचतुष्टये ॥ ३.३७ ॥
उपपत्तिभवः क्लिष्टः सर्वक्लेशैः स्वभूमिकैः ।
त्रिधान्ये त्रय आरूप्ये आहारस्थितिकं जगत् ॥ ३.३८ ॥
कवडीकार आहारः कामे त्र्यायतनात्मकः ।
न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात् ॥ ३.३९ ॥
स्पर्शंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु ।
मनोमयः संभवैषी गन्धर्वश्चान्तराभवः ॥ ३.४० ॥
निर्वृत्तिश्च इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् ।
द्वयमन्यभवाक्षेपनिवृत्त्यर्थ यथाक्रमम् ॥ ३.४१ ॥
छेदसंधान वैराग्यहानिच्युत्युपपत्तयः ।
मनोविज्ञान एवेष्टाः उपेक्षायां च्युतोद्भवौ ॥ ३.४२ ॥
नैकाग्राचित्तयोरेतौ निर्वात्यव्याकृतद्वये ।
क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः ॥ ३.४३ ॥
अधोनृसुरगाजानां मर्मच्छेदस्त्वबादिभिः ।
सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः ॥ ३.४४ ॥
तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः ।
लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् ॥ ३.४५ ॥
अपामेकादशोद्वेधं सहस्राणि च विंशतिः ।
अष्टलक्षौच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् ॥ ३.४६ ॥
तिर्यक्त्रीणि सहस्राणि सार्धं शतचतुष्टयम् ।
लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् ॥ ३.४७ ॥
समन्ततस्तु त्रिगुणं तत्र मेरूर्युगन्धरः ।
ईशाधारः खदिरकः सुदर्शनगिरिस्तथा ॥ ३.४८ ॥
अश्वकर्णो विनितको निमिन्धरगिरिः ततः ।
द्वीपाः बहिश्चक्रवाडः सप्त हैमाः स आयसः ॥ ३.४९ ॥
चतूरत्नमयो मेरुः जलेऽशीतिसहस्रके ।
मग्नाः ऊर्ध्व जलात्मेरुर्भूयोऽशीतिसहस्रकः ॥ ३.५० ॥
अर्धार्धहानिरष्टासु समोच्छ्रायघनाश्च ते ।
शीताः सप्तान्तराण्येषामाद्याशीतिसहस्रिका ॥ ३.५१ ॥
आभ्यन्तरः समुद्रोऽसौ त्रिगुणः स तु पार्श्वतः ।
अर्धार्धेनापराः शीताः शेषं बाह्यो महोदधेः ॥ ३.५२ ॥
लक्षत्रयं सहस्राणि विंशतिर्द्वे च तत्र तु ।
जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः ॥ ३.५३ ॥
सार्धत्रियोजनं त्वेकं प्राग्विदेहोऽर्धचन्द्रवत् ।
पार्श्वत्रयं तथास्य एकं सार्धं त्रिशतयोजनम् ॥ ३.५४ ॥
गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः ।
सार्धे द्वे मध्यमस्य अष्टौ चतुरस्रः कुरुः समः ॥ ३.५५ ॥
देहा विदेहाः कुरवः कौरवाश्चामरावराः ।
अष्टौ तदन्तरद्वीपा गाठा उत्तरमन्त्रिणः ॥ ३.५६ ॥
इहोत्तरेण कीटाद्रि नवकाद्धिमवान् ततः ।
पञ्चाशद्विस्तृतायामं सरोऽर्वाग्गन्धमादनात् ॥ ३.५७ ॥
अधः सहस्रैर्विशत्या तन्मात्रोऽवीचिरस्य हि ।
तदूर्ध्वं सप्त नरकाः सर्वेऽष्टौ षोडशोत्सदाः ॥ ३.५८ ॥
कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी ।
तेषां चतुर्दिशं शीता अन्येऽष्टावर्वुदादयः ॥ ३.५९ ॥
अर्धेन मेरोश्चन्द्रार्कौ पञ्चाशत्सैकयोजनौ ।
अर्धरात्रोऽस्तंगमनं मध्यान्ह उदयः सकृत ॥ ३.६० ॥
प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा ।
हेमन्तानां चतुर्थे तु हीयते अहर्विपर्ययात् ॥ ३.६१ ॥
लवशो रात्र्यहर्वृद्धी दक्षिणोत्तरगे रवौ ।
स्वच्छाययार्कसामीप्याद्विकलेन्दुसमीक्षणम् ॥ ३.६२ ॥
परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः ।
षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ३.६३ ॥
करोटपाणयस्तासु मालाधारास्सदामदाः ।
महाराजिकदेवाश्च पर्वतेष्वपि सप्तसु ॥ ३.६४ ॥
मेरुमूर्ध्नि त्रयस्त्रिंशाः स चाशीतिसहस्रदिक् ।
विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः ॥ ३.६५ ॥
मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् ।
पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु ॥ ३.६६ ॥
सार्धद्विशतपार्श्वोऽत्र वैजयन्तः बहिः पुनः ।
तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम् ॥ ३.६७ ॥
विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् ।
पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे ॥ ३.६८ ॥
तत ऊर्ध्व विमानेषु देवाः कामभुजस्तु षट् ।
द्वंद्वालिंङ्गनपाण्याप्तिवसितेक्षितमैथुनाः ॥ ३.६९ ॥
पञ्चवर्षोपमो यावत्दशवर्षोपमः शिशुः ।
संभवत्येषु संपूर्णाः सवस्त्राश्चैव रूपिणः ॥ ३.७० ॥
कामोपपत्तयस्तिस्त्रः कामदेवाः समानुषाः ।
सुखोपपत्तयस्तिस्त्रो नवत्रिध्यानभूमयः ॥ ३.७१ ॥
स्थानात्स्थानदधो यावत्तावदूर्ध्वं ततस्ततः ।
नोर्ध्व दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् ॥ ३.७२ ॥
चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् ।
ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः ॥ ३.७३ ॥
तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः ।
तत्सहस्रं त्रिसाहस्रः समसंवर्तसंभवः ॥ ३.७४ ॥
जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः ।
द्विगुणोत्तरवृद्धया तु पुर्वगोदोत्तराव्हयाः ॥ ३.७५ ॥
पादबृद्धया तनुर्याव त्सार्धक्रोशो दिवौकसाम् ।
कामिनां रूपिणां त्वादौ योजनार्धं ततः परम् ॥ ३.७६ ॥
अर्धार्धवृद्धि ऊर्ध्व तु परीत्ताभेभ्य आश्रयः ।
द्विगुणद्विगुणा हित्वानभ्रकेभ्य स्त्रियोजनम् ॥ ३.७७ ॥
सहस्रामायुः कुरुषु द्वयोरर्धार्धवर्जितम् ।
इहानियतमन्ते तु दशाब्दाः आदितोऽमितम् ॥ ३.७८ ॥
नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् ।
कामेऽधराणां तेनायुः पञ्चवर्षशतानि तु ॥ ३.७९ ॥
द्विगुणोत्तरमुर्ध्वानामुभयं रूपिणां पुनः ।
नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः ॥ ३.८० ॥
आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् ।
महाकल्पः परीत्ताभात्प्रभृत्यधर्मधस्ततः ॥ ३.८१ ॥
कामेदेवायुषा तुल्या अहोरात्रा यथाक्रमम् ।
संजीवादिषु षट्सु आयुस्तैस्तेषां कामदेववत् ॥ ३.८२ ॥
अर्धं प्रतापने अवीचावन्तःकल्पं परं पुनः ।
कल्पं तिरश्चां प्रेतानां मासान्हा शतपञ्चकम् ॥ ३.८३ ॥
वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः ।
अर्वुदा द्विंशतिगुणप्रतिवृद्धयायुषः परे ॥ ३.८४ ॥
कुरुबाह्योऽन्तरामृत्युः परमाण्वक्षरक्षणाः ।
रूपनामाध्वपर्यन्ताः परमाणुरणुस्तथा ॥ ३.८५ ॥
लोहाप्शशा विगोच्छिद्ररजोलिक्षास्तदुद्भवाः ।
यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ३.८६ ॥
चतुर्विशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् ।
धनुः पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम् ॥ ३.८७ ॥
तेऽष्टौ योजनमित्याहुः विंशं क्षणशतं पुनः ।
तत्क्षणः ते पुनः षष्टिर्लवः त्रिंशद्गुणोत्तराः ॥ ३.८८ ॥
त्रयो मुहूर्त्ताहोरात्रमासाः द्वादशमासकः ।
संवत्सरः सोनरात्रः कल्पो बहुविधः स्मृतः ॥ ३.८९ ॥
संवर्त्तकल्पो नरकसंभवात्भाजनक्षयः ।
विवर्तकल्पः प्राग्वायोर्यावन्नरक संभवः ॥ ३.९० ॥
अन्तः कल्पोऽमितात्यवद्दशवर्षायुषः ततः ।
उत्कर्षा अपकर्षाश्च कल्पा अष्टा दशापरे ॥ ३.९१ ॥
उत्कर्ष एकः तेऽशीतिसहस्राद्यावदायुषः ।
इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् ॥ ३.९२ ॥
विवर्ततेऽथ संवृत्त आस्ते संवर्तते समम् ।
ते ह्यशीतिर्महाकल्पः तदसंख्यत्रयोद्भवम् ॥ ३.९३ ॥
बुद्धत्वमपकर्षे हि शताद्यावत्तदुद्भवः ।
द्वयोः प्रत्येकबुद्धानां खड्गः कल्पशतान्वयः ॥ ३.९४ ॥
चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् ।
सुवर्णरूप्यताम्रायश्चक्रिणः तेऽधरक्रमात् ॥ ३.९५ ॥
एकद्वित्रिचतुर्द्वीपाः न च द्वौ सह बुद्धवत् ।
प्रत्युद्यानस्वयंयान कलहास्त्रजितः अवधाः ॥ ३.९६ ॥
देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः ।
प्रागासन् रूपिवत्सत्त्वाः रसरागात्ततः शनैः ॥ ३.९७ ॥
आलस्यात्संनिधिं कृत्वा साग्रहैः क्षेत्रपो भृतः ।
ततः कर्मपथाधिक्यादपह्रासे दशायुषः ॥ ३.९८ ॥
कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः ।
दिवसान् सप्त मासांश्च वर्षाणि च यथाक्रमम् ॥ ३.९९ ॥
संवर्तन्यः पुनस्तिस्त्रो भवन्त्यग्न्यम्बुवायुभिः ।
ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम् ॥ ३.१०० ॥
तदपक्षालसाधर्म्यात्न चतुर्थेऽस्त्यनिञ्जनात् ।
न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् ॥ ३.१०१ ॥
सप्ताग्निना अद्भिरेका एवं गतेऽद्भिः सप्तके पुनः ।
तेजसा सप्तकः पश्चाद्वायुसंवर्तनी ततः ॥ ३.१०२ ॥

अभिधर्मकोशभाष्ये लोकनिर्देशो नाम तृतीयं कोशस्थानं समाप्तमिति ।


चतुर्थं कोशस्थानम्

ओं नमो बुद्धाय ।

कर्मजं लोकवैचित्र्यं चेतना तत्कृतं च तत् ।
चेतना मानसं कर्म तज्जं वाक्कायकर्मणी ॥ ४.१ ॥
ते तु विज्ञप्त्यविज्ञप्ती कायविज्ञप्तिरिष्यते ।
संस्थानं न गतिर्यस्मात्संस्कृतं क्षणिकं व्ययात् ॥ ४.२ ॥
न कस्यचिदहेतोः स्याथेतुः स्याच्च विनाशकः ।
द्विग्राह्यं स्यात्न चाणौ तत्वाग्विज्ञप्तिस्तु वाग्ध्वनिः ॥ ४.३ ॥
त्रिविधामलरूपोक्तिवृद्धयकुर्वत्पथादिभिः ।
क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा ॥ ४.४ ॥
स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् ।
अनास्रवं यत्र जातः अविज्ञप्तिरनुपात्तिका ॥ ४.५ ॥
नैःष्यन्दिकी च सत्त्वाख्या निष्यन्दोपात्तभूतजा ।
समाधिजौ पचयिकानुपात्ताभिन्नभूतजा ॥ ४.६ ॥
नाव्याकृतास्त्यविज्ञप्तिः त्रिधान्व्यतशुभं पुनः ।
कामे रूपेऽप्यविज्ञप्तिः विज्ञप्तिः सविचारयोः ॥ ४.७ ॥
कामेऽपि निवृता नास्ति समुत्थानमसद्यतः ।
परमार्थशुभो मोक्षः स्वतो मूलह्य्रपत्रपाः ॥ ४.८ ॥
संप्रयोगेण तद्युक्ताः समुत्था नात्क्रियादयः ।
विपर्ययेणाकुशलं परमाव्याकृते ध्रुवे ॥ ४.९ ॥
समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् ।
प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम् ॥ ४.१० ॥
प्रवर्तकं दृष्टिहेयं विज्ञानमुभयं पुनः ।
मानसं भावनाहेयं पञ्चकं त्वनुवर्तकम् ॥ ४.११ ॥
प्रवर्तके शुभादौ हि स्यात्त्रिधाप्यनुवर्तकम् ।
तुल्यं मुनेः शुभं यावत्नोभयं तु विपाकजम् ॥ ४.१२ ॥
अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा ।
संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा ॥ ४.१३ ॥
अष्टधा प्रातिमोक्षाख्यः द्रव्यतस्तु चतुर्विधः ।
लिङ्गतो नामसंचारात्पृथक्ते चाविरोधिनः ॥ ४.१४ ॥
पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
उपासकोपवासस्थश्रमणोद्देशभिक्षुता ॥ ४.१५ ॥
शीलं सुचरितं कर्म संवरश्चोच्यते पुनः ।
आद्ये विज्ञप्त्यविज्ञप्तो प्रातिमोक्षक्रियापथः ॥ ४.१६ ॥
प्रातिमोक्षान्विता अष्टौ ध्यानजेन तदन्वितः ।
अनास्रवेणार्यसत्त्वाः अन्त्यौ चित्तानुवर्तिनौ ॥ ४.१७ ॥
अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ ।
संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ ॥ ४.१८ ॥
प्रातिमोक्षस्थितो नित्यमत्यागा द्वर्तमानया ।
अविज्ञप्त्यान्वितः पूर्वात्क्षणादूर्ध्वमतीतया ॥ ४.१९ ॥
तथैवासंवरस्थोऽपि ध्यानसंवरवान् सदा ।
अतीताजातया आर्यस्तु प्रथमे नाभ्यतीतया ॥ ४.२० ॥
समाहीतार्यमार्गस्थौ तौ युक्तौ वर्तमानया ।
मध्यस्थस्यास्ति चेदादौ मध्यया ऊर्ध्वं द्विकालया ॥ ४.२१ ॥
असंवरस्थः शुभयाशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत्प्रसादक्लेशवेगवान् ॥ ४.२२ ॥
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।
अतीतया क्षणादूर्ध्वमात्यागात्नास्त्यजातया ॥ ४.२३ ॥
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।
असंवरो दुश्चरितं दौःशील्यं कर्म तत्पथः ॥ ४.२४ ॥
विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः ।
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ ४.२५ ॥
ध्यानजो ध्यानभूम्यैव लभ्यते अनास्रवस्तया ।
आर्यया प्रातिमोक्षाख्यः परविज्ञपनादिभिः ॥ ४.२६ ॥
यावज्जीवं समादानमहोरात्रं च संवृतेः ।
नासंवरोऽस्त्यहोरात्रं न किलैवं प्रगृह्यते ॥ ४.२७ ॥
काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिता ।
उपवासः समग्राङ्गो निर्भूषेणानिशाक्षयात् ॥ ४.२८ ॥
शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् ।
चत्वार्येकं तथा त्रीणि स्मृतिनाशो मदश्च तैः ॥ ४.२९ ॥
अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न ।
उपासकत्वोपगमात्संवृतुक्तिस्तु भिक्षुवत् ॥ ४.३० ॥
सर्वे चेत्संवृता एकदेशकार्यादयः कथम् ।
तत्पलनात्किल प्रोक्ताः मृद्वादित्वं यथा मनः ॥ ४.३१ ॥
बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः ।
निर्वाणं चेति शरणं यो याति शरणत्रयम् ॥ ४.३२ ॥
मिथ्याचारातिगर्ह्यत्वात्सौकर्यादाक्रियाप्तितः ।
यथाभ्युपगमं लाभः संवरस्य न संतते ॥ ४.३३ ॥
मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे ।
प्रतिक्षेपणसावद्यान्मद्यादेव अन्युगुप्तये ॥ ४.३४ ॥
सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते ।
मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रव संवरौ ॥ ४.३५ ॥
संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः ।
असंवरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ४.३६ ॥
असंवरस्य क्रियया लाभोऽभ्युपगमेन वा ।
शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् ॥ ४.३७ ॥
प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् ॥ ४.३८ ॥
पतनीयेन चेत्येके सद्धर्मान्तधितोऽपरे ।
धनर्णवत्तु काश्मीरैरापन्नस्येष्यते द्वयम् ॥ ४.३९ ॥
भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् ।
तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः ॥ ४.४० ॥
असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः ।
वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा ॥ ४.४१ ॥
कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः ।
प्रतिपक्षोदयात्क्लिष्टमरूपं तु विहीयते ॥ ४.४२ ॥
नृणामसंवरो हित्वा शण्ढ पण्डद्विधाकृतीन् ।
कुरूंश्च संवरोऽप्येवं देवानां च नृणां त्रयः ॥ ४.४३ ॥
कामरूपजदेवानां ध्यानजः अनास्रवः पुनः ।
ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम् ॥ ४.४४ ॥
क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् ।
पुण्यापुण्यमनिञ्जं च सुखेवेद्यादि च त्रयम् ॥ ४.४५ ॥
कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् ।
तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति ॥ ४.४६ ॥
सुखवेद्यं शुभं ध्यानादातृतीयाततः परम् ।
अदुःखासुखवेद्यं तु दुःखवेद्यमिहाशुभम् ॥ ४.४७ ॥
अधोऽपि मध्यमस्त्येके ध्यानान्तरविपाकतः ।
अपूर्वाचरमः पाकस्त्रयाणां चेष्यते यतः ॥ ४.४८ ॥
स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः ।
संमुखीभावतश्चेति पञ्चधा वेदनीयता ॥ ४.४९ ॥
नियतानियतं तच्च नियतं त्रिविधं पुनः ।
दृष्टधर्मादिवेद्यत्वात्पञ्चधा कर्म केचन ॥ ४.५० ॥
चतुष्कोटिकमित्यन्ये निकायाक्षेपणं त्रिभिः ।
सर्वत्र चतुराक्षेपः शुभस्य नरके त्रिधा ॥ ४.५१ ॥
यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् ।
नान्यवेद्यकृदप्यार्यः कामेऽग्रे वास्थिरोऽपि न ॥ ४.५२ ॥
द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः ।
दृष्टधर्मफलं तच्च निकायो ह्येक एव सः ॥ ४.५३ ॥
तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् ।
गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत् ॥ ४.५४ ॥
दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः ।
तद्भूम्यत्यन्तवैराग्यात्विपाके नियतं हि यत् ॥ ४.५५ ॥
ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः ।
तेषु कारापकारास्य फलं सद्योऽनुभूयते ॥ ४.५६ ॥
कुशलस्यावितर्कस्य कर्मणो वेदना मता ।
विपाकश्चैतसिक्येव कायिक्येवाशुभस्य तु ॥ ४.५७ ॥
चित्तक्षेपो मनश्चित्ते स च कर्मविपाकजः ।
भयोपघातवैषम्यशोकैश्च अकुरुकामिनाम् ॥ ४.५८ ॥
वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे ।
कृष्णशुक्लादिभेदेन पुनः कर्म चतुर्विधम् ॥ ४.५९ ॥
अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् ।
कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम् ॥ ४.६० ॥
धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके ।
या चेतना द्वादशधा कर्म कृष्णक्षयाय तत् ॥ ४.६१ ॥
नवमे चेतना या सा कृष्णशुक्लक्षयाय च ।
शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा ॥ ४.६२ ॥
अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः ।
दृग्धेयं कृष्णमन्ये अन्यत्कृष्णशुक्लं तु कामजम् ॥ ४.६३ ॥
अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् ।
मौनत्रयं त्रिधा शौचं सर्व सुचरितत्रयम् ॥ ४.६४ ॥
अशुभं कायकर्मादि मतं दुश्चरित त्रयम् ।
अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा ॥ ४.६५ ॥
विपर्ययात्सुचरितं तदौदारिकसंग्रहात् ।
दश कर्मपथा उक्ता यथायोगं शुभाशुभाः ॥ ४.६६ ॥
अशुभाः षडविज्ञप्तिः द्विधैकः तेऽपि कुर्वतः ।
द्विविधाः सप्त कुशलाः अविज्ञप्तिः समाधिजाः ॥ ४.६७ ॥
सामन्तकास्तु विज्ञप्तिः अविज्ञप्तिर्भवेन्न वा ।
विपर्ययेण पृष्ठानि प्रयोगस्तु त्रिमूलजः ॥ ४.६८ ॥
तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः ।
कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः ॥ ४.६९ ॥
वधव्यापादपारुष्यनिष्ठा द्वेषेण लोभतः ।
परस्त्रीगमनाभिध्यादत्तादानसमापनम् ॥ ४.७० ॥
मिथ्यादृष्टेस्तु मोहेन शेषाणां त्रिभिरिष्यते ।
सत्त्वभोगावधिष्ठानं नामरूपं च नाम च ॥ ४.७१ ॥
समं प्राक्च मृतस्यास्ति न मौलः अन्याश्रयोदयात् ।
सेनादिष्वेककार्यत्वात्सर्वे कर्त्तृवदन्विताः ॥ ४.७२ ॥
प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् ।
अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ॥ ४.७३ ॥
अगम्यगमनं काममिथ्याचारश्चतुर्विधः ।
अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः ॥ ४.७४ ॥
चक्षुः श्रोतमनश्चित्तैरनुभूतं त्रिभिश्च यत् ।
तद्दष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् ॥ ४.७५ ॥
पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने ।
पारूष्यमप्रियं सर्व क्लिष्टं भिन्न प्रलापिता ॥ ४.७६ ॥
अतोऽन्यत्क्लिष्टमित्यन्ये लपनागीतनाट्यवत् ।
कुशास्तवच्च अभिध्या तु परस्वविषमस्पृहा ॥ ४.७७ ॥
व्यापादः सत्त्वविद्वेषः नास्तिदृष्टिः शुभाशुभे ।
मिथ्यादृष्टिः त्रयो ह्यत्र पन्थानः सप्त कर्म च ॥ ४.७८ ॥
मूलच्छेदस्त्वसद्दृष्टया कामाप्तोत्पत्तिलाभिनाम् ।
फलहेत्वपवादिन्या सर्वथा क्रमशः नृषु ॥ ४.७९ ॥
छिनत्ति स्त्री पुमान् दृष्टिचरितः सोऽसमन्वयः ।
संधिः काङ्क्षास्तिदृष्टिभ्यां नेहानन्तर्यकारिणः ॥ ४.८० ॥
युगपद्यावदष्टाभिरशुभैः सह वर्तते ।
चेतना दशभिर्यावच्छुभैः नैकाष्टपञ्चभिः ॥ ४.८१ ॥
भिन्नप्रलापपारूष्यव्यापादा नरके द्विधा ।
समन्वागमतोऽभिध्यामिथ्यादृष्टी कुरौ त्रयः ॥ ४.८२ ॥
सप्तमः स्वयमप्यत्र कामेऽन्यत्र दशाशुभाः ।
शुभास्त्रयस्तु सर्वत्र संमुखीभावलाभतः ॥ ४.८३ ॥
आरूप्यासंज्ञिसत्त्वेषु लाभतः सप्त शेषिते ।
संमुखीभावतश्चापि हित्वा सनरकान् कुरून् ॥ ४.८४ ॥
सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः ।
दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम् ॥ ४.८५ ॥
लोभजं कायवाक्कर्म मिथ्याजीवः पृथक्कृतः ।
दुःशोधत्वात्परिष्कारलोभोत्थं चेत्न सूत्रतः ॥ ४.८६ ॥
प्रहाणमार्गे समले सफलं कर्म पञ्चभिः ।
चतुर्भिरमले अन्यच्च सास्रवं यच्छुभाशुभम् ॥ ४.८७ ॥
अनास्रवं पुनः शेषं त्रिभिरव्याकृतं च यत् ।
चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः ॥ ४.८८ ॥
अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् ।
अव्याकृतस्य द्वे त्रीणि त्रीणी चैते शुभादयः ॥ ४.८९ ॥
सर्वेऽतीतस्य चत्वारि मध्यमस्याप्यनागताः ।
मध्यमा द्वे अजातस्य फलानि त्रीण्यनागताः ॥ ४.९० ॥
स्वभूमिधर्माश्चत्वारि त्रीणि द्वे वान्यभूमिकाः ।
शैक्षस्य त्रीणि शैक्षाद्याः अशैक्षस्य तु कर्मणः ॥ ४.९१ ॥
धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् ।
ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च ॥ ४.९२ ॥
त्रीणि चत्वारि चैकं च दृग्घेयस्य तदादयः ।
ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः ॥ ४.९३ ॥
अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् ।
अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन ॥ ४.९४ ॥
एकं जन्माक्षिपत्येकमनेकं परिपूरकम् ।
नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च ॥ ४.९५ ॥
आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः ।
कौरवासंज्ञित्त्वाश्च मतमावरणत्रयम् ॥ ४.९६ ॥
त्रिषु द्विपेष्वानन्तर्य शण्ढा दीनां तु नेष्यते ।
अल्पोपकारालज्जित्वात्शेषे गतिषु पञ्चसु ॥ ४.९७ ॥
संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः ।
अक्लिष्टाव्याकृतो धर्मः संघस्तेन समन्वितः ॥ ४.९८ ॥
तदवद्य मृषावादस्तेन भेत्ता समन्वितः ।
अवीचौ पच्यते कल्पमधिकैरधिका रुजः ॥ ४.९९ ॥
भिक्षुर्दृक्चरितो वृत्ती भिनत्ति अन्यत्र बालिशान् ।
शास्तृमार्गान्तरक्षान्तौ भिन्नः न विवसत्यसौ ॥ ४.१०० ॥
चक्रभेदः स च मतः जम्बूद्वीपे नवादिभिः ।
कर्मभेदस्त्रिषु द्विपेषु अष्टभिरधिकैश्च सः ॥ ४.१०१ ॥
आदावन्तेऽर्बुदात्पूर्वं युगाच्चोपरते मुनौ ।
सीमायां चाप्यबद्धायां चक्रभेदो न जायते ॥ ४.१०२ ॥
उपकारिगुणक्षेत्रनिराकृतिविपादनात् ।
व्यञ्जनान्तरितोऽपि स्यात्माता यच्छोणितोद्भवः ॥ ४.१०३ ॥
बुद्धे न ताडनेच्छस्य प्रहारान्नोर्ध्वमर्हति ।
नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः ॥ ४.१०४ ॥
संघभेदे मृषावादो महावद्यतमो मतः ।
भवाग्रचेतना लोके महाफलतमा शुभे ॥ ४.१०५ ॥
दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् ।
बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका ॥ ४.१०६ ॥
आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् ।
क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् ॥ ४.१०७ ॥
बोधिसत्त्वः कुतो यावत्यतो लक्षण कर्मकृत् ।
सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् ॥ ४.१०८ ॥
जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः ।
चिन्तामयं कल्पशते शेष आक्षिपते हि तत् ॥ ४.१०९ ॥
एकैकं पुण्यशतजमसंख्येयत्रयान्त्यजाः ।
विपश्यी दीपकृदत्नशिखी शाक्यमुनिः पुरा ॥ ४.११० ॥
सर्वत्र सर्व ददतः कारूण्याद्दानपूरणम् ।
अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः ॥ ४.१११ ॥
तिष्यस्तोत्रेण वीर्यस्य धीसमाध्योरनन्तरम् ।
पुण्यं क्रियाथ तद्वस्तु त्रयं कर्मपथा यथा ॥ ४.११२ ॥
दीयते येन तद्दानं पूजानुग्रहकाम्यया ।
कायवाक्कर्म सोत्थानं महाभोग्यफलं च तत् ॥ ४.११३ ॥
स्वपरार्थोभयार्थाय नोभयार्थाय दीयते ।
तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः ॥ ४.११४ ॥
दाता विशिष्टः श्रद्धाद्यैः सत्कृत्यादि ददाति अतः ।
सत्कारोदाररुचिता कालानाच्छेद्यलाभिता ॥ ४.११५ ॥
वर्णादिसम्पदा वस्तु सुरूपत्वं यशस्वि वा ।
प्रियता सुकुमारर्तुसुखस्पर्शाङ्गता ततः ॥ ४.११६ ॥
गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते ।
अग्रं मुक्तस्य मुक्ताय बोधिसत्त्वस्य च अष्टमम् ॥ ४.११७ ॥
मातृपितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने ।
बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा ॥ ४.११८ ॥
पृष्ठं क्षेत्रमधिष्ठानं प्रयोगश्चेतनाशयः ।
एषां मृद्वधिमात्रत्वात्कर्ममृद्वधिमात्रता ॥ ४.११९ ॥
संचेतनसमाप्तिभ्यां निष्क्रौकृत्य विपक्षतः ।
परिवाराद्विपाकाच्च कर्मोपचित्तमुच्यते ॥ ४.१२० ॥
चैत्ये त्यागान्वयं पुण्यं मैत्र्यादिवदगृण्हति ।
कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात् ॥ ४.१२१ ॥
दौःशील्यमशुभं रूपं शीलं तद्विरतिः द्विधा ।
प्रतिक्षिप्ताच्च बुद्धेन विशुद्धं तु चतुर्गुणम् ॥ ४.१२२ ॥
दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् ।
समाहितं तु कुशलं भावना चित्तवासनात् ॥ ४.१२३ ॥
स्वर्गाय शीलं प्राधान्यात्विसंयोगाय भावना ।
चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ ४.१२४ ॥
धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना ।
पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ ४.१२५ ॥
योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा ।
लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ ४.१२६ ॥
सावद्या निवृता हीनाः क्लिष्टाः धर्माः शुभामलाः ।
प्रणीताः संस्कृतशुभा सेव्याः मोक्षस्त्वनुत्तरः ॥ ४.१२७ ॥

अभिधर्मकोशे कर्मनिर्द्देशो नाम चतुर्थ कोशस्थानमिति ॥


पञ्चमं कोशस्थानम्

ओं नमो बुद्धाय

मूलं भवस्यानुशयाः षड्रागः प्रतिघस्तथा ।
मानोऽविद्या च दृष्टिश्च विचिकित्सा च ते पुनः ॥ ५.१ ॥
षड्रागभेदात्सप्तोक्ताः भवरागो द्विधातुजः ।
अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ ५.२ ॥
दृष्टयः पञ्च सत्कायमिथ्यान्तग्रहदृष्टयः ।
दृष्टिशीलव्रतपरामर्शाविति पुनर्दशः ॥ ५.३ ॥
दशैते सप्तासप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ५.४ ॥
चत्वारो भावनाहेयाः त एवाप्रतिघाः पुनः ।
रूपधातौ तथारूप्ये इत्यष्टानवतिर्मताः ॥ ५.५ ॥
भवाग्रजाः क्षान्तिवध्य दृग्घेया एव शेषजाः ।
दृग्भावनाभ्यामक्षान्तिवध्या भावनयैव तु ॥ ५.६ ॥
आत्मात्मीयध्रुवोच्छेदनास्तिहीना ग्रदॄष्टयः ।
अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः ॥ ५.७ ॥
ईश्वरादिषु नित्यात्मविपर्यासात्प्रवर्तते ।
कारणाभिनिवेशोऽतो दूःखदृग्घेय एव सः ॥ ५.८ ॥
दृष्टित्रयाद्विपर्यासचतुष्कं विपरीततः ।
नितीरणात्समारोपात्संज्ञाचित्ते तु तद्वशात् ॥ ५.९ ॥
सप्त मानाः नवविधास्त्रिभ्यः दृग्भावनाक्षयाः ।
वधादिपर्यवस्थानं हेयं भावनया तथा ॥ ५.१० ॥
विभवेच्छा न चार्यस्य संभवन्ति विधादयः ।
नास्मिता दृष्टिपुष्टत्वात्कौकृत्यं नापि चाशुभम् ॥ ५.११ ॥
सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा ।
विमतिः सह ताभिश्च याविद्यावेणिकी च या ॥ ५.१२ ॥
नवोर्ध्वालम्बना एषां दृष्टिद्वयविवर्जिताः ।
प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः ॥ ५.१३ ॥
मिथ्यादृग्विमती ताभ्यां युक्ताविद्याथ केवला ।
निरोधमार्गदृग्घेयाः षडनास्रवगोचराः ॥ ५.१४ ॥
स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः ।
तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः ॥ ५.१५ ॥
न रागस्तस्य वर्ज्यत्वात्न द्वेषोऽनपकारतः ।
न मानो न परामर्शौ शान्तशुद्ध्यग्रभावतः ॥ ५.१६ ॥
सर्वत्रगा अनुशयाः सकलामनुशेरते ।
स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः ॥ ५.१७ ॥
नानास्रवोर्ध्वविषयाः अस्वीकाराद्विपक्षतः ।
येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः ॥ ५.१८ ॥
ऊर्ध्वमव्याकृताः सर्वे कामे सत्कायदर्शनम् ।
अन्तग्राहः सहाभ्यां च मोहः शेषास्त्विहाशुभाः ॥ ५.१९ ॥
कामेऽकुशलमूलानि रागप्रतिघमूढयः ।
त्रीण्यकुशलमूलानि तृष्णाविद्या मतिश्च सा ॥ ५.२० ॥
द्विधोर्ध्ववृत्तेर्नातोऽन्यौ चत्वार्येवेति बाह्यकाः ।
तृष्णादृङ्मानमोहास्ते ध्यायित्रित्वादविद्यया ॥ ५.२१ ॥
एकांशतो व्याकरणं विभज्य परिपृच्छ्य च ।
स्थाप्यं च मरणोत्पत्ति विशिष्टात्मान्यतादिवत् ॥ ५.२२ ॥
रागप्रतिघमानैः स्यदतीतप्रत्युपस्थितैः ।
यत्रोत्पन्नाप्रहीणास्ते तस्मिन् वस्तुनि संयुतः ॥ ५.२३ ॥
सर्वत्रानागतैरेभिर्मानसैः स्वाध्विके परैः ।
अजैः सर्वत्र शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ ५.२४ ॥
सर्वकालास्तिता उक्तत्वात्द्वयात्सद्विषयात्फलात् ।
तदस्तिवादात्सर्वास्तिवादा इष्टाः चतुर्विधाः ॥ ५.२५ ॥
ते भावलक्षणावस्थान्यथान्यथिकसंज्ञिताः ।
तृतीयः शोभनः अध्वानः कारित्रेण व्यवस्थिताः ॥ ५.२६ ॥
किं विघ्नं तत्कथं नान्यतध्वायोगः तथा सतः ।
अजातनष्टता केन गम्भीरा खलु धर्मता ॥ ५.२७ ॥
प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः ।
प्राक्प्रहीणे प्रकरे च शेषैस्तद्विषयैर्मलैः ॥ ५.२८ ॥
दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः ।
स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः ॥ ५.२९ ॥
स्वकाधरत्रयोर्ध्वैकामलानां रूपधातुजाः ।
आरूप्यजास्त्रिधात्वात्पत्रयानास्रवगोचराः ॥ ५.३० ॥
निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः ।
अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः ॥ ५.३१ ॥
द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः ।
मोहाकाङ्क्षा ततो मिथ्यादृष्टिः सत्कायदृक्ततः ॥ ५.३२ ॥
ततोऽन्तग्रहणं तस्माच्छीलामर्शः ततो दृशः ।
रागः स्वदृष्टौ मानश्च द्वेषोऽन्यत्र इत्यनुक्रमः ॥ ५.३३ ॥
अप्रहीणादनुशयाद्विषयात्प्रत्युपस्थितात् ।
अयोनिशो मनस्कारात्क्लेशः संपूर्णकारणः ॥ ५.३४ ॥
कामे सपर्यवस्थानाः क्लेशाः कामस्रवो विना ।
मोहेन अनुशया एव रूपारूप्ये भवास्रवः ॥ ५.३५ ॥
अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः ।
अत एकीकृताः मूलमविद्येत्यास्रवः पृथक् ॥ ५.३६ ॥
तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् ।
नास्रवेष्वसहायानां न किलास्यानुकूलता ॥ ५.३७ ॥
यथोक्ता एव साविद्या द्विधा दृष्टिविवेचनात् ।
उपादानानि अविद्या तु ग्राहिका ने ति मिश्रिता ॥ ५.३८ ॥
अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते ।
अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः ॥ ५.३९ ॥
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ ।
उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः ॥ ५.४० ॥
संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः ।
द्रव्यामर्शन सामान्यद्दृष्टी संयोजनान्तरम् ॥ ५.४१ ॥
एकान्ताकुशलं यस्मात्स्वतन्त्रं चोभयं यतः ।
ईर्ष्यामात्सर्यमेषूक्तं पृथक्संयोजनद्वयम् ॥ ५.४२ ॥
पञ्चधावरभागीयं द्वाभ्यां कामानतिक्रमः ।
त्रिभिस्तु पुनरावृत्तिः मुखमूलग्रहात्त्रयम् ॥ ५.४३ ॥
अगन्तुकामतामार्गविभ्रमो मार्गसंशयः ।
इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ५.४४ ॥
पञ्चधैवोर्ध्वभागीयं द्वौ रागौ रूप्यरूपिजौ ।
औद्धत्यमानमोहाश्च विद्वशाद्बन्धनत्रयम् ॥ ५.४५ ॥
येऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ।
क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः ॥ ५.४६ ॥
आह्रीक्यमनपत्रप्यमीर्ष्यामात्सर्यमुद्धवः ।
कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ ५.४७ ॥
क्रोधम्रक्षौ च रागोत्था आह्रीक्यौद्धत्यमत्सराः ।
म्रक्षे विवादः अविद्यातः स्त्यानमिद्धानपत्रपाः ॥ ५.४८ ॥
कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये ।
अन्ये च षट्क्लेशमलाः माया शाठ्यं मदस्तथा ॥ ५.४९ ॥
प्रदाश उपनाहश्च विहिंसा चेति रागजौ ।
मायामदौ प्रतिघजे उपनाहविहिंसने ॥ ५.५० ॥
दृष्ट्यामर्शात्प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् ।
तत्राह्रीक्यानपत्राप्यस्त्यानामिद्धोद्धवा द्विधा ॥ ५.५१ ॥
तदन्ये भावनाहेयाः स्वतन्त्राश्च तथा मलाः ।
कामेऽशुभाः त्रयो द्विधा परेणाव्याकृतास्ततः ॥ ५.५२ ॥
माया शाठ्यं च कामाद्यध्यानयोः ब्रह्मवञ्चनात् ।
स्त्यानौद्धत्यमदा धातुत्रये अन्ये कामधातुजाः ॥ ५.५३ ॥
समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः ।
उपक्लेशाः स्वतन्त्राश्च षड्विज्ञानाश्रयाः परे ॥ ५.५४ ॥
सुखाभ्यां संप्रयुक्तो हि रागः द्वेषो विपर्ययात् ।
मोहः सर्वैः असद्दृष्टिर्मनोदुःखसुखेन तु ॥ ५.५५ ॥
दौर्मनस्येन काङ्क्षा अन्ये सौमनस्येन कामजाः ।
सर्वेऽप्युपेक्षया स्वैः स्वैर्यथाभूम्यूर्ध्वभूमिकाः ॥ ५.५६ ॥
दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् ।
उपनाहः प्रदाशश्च मात्सर्यं तु विपर्ययात् ॥ ५.५७ ॥
माया शाठ्यमथो म्रक्षो मिद्धं चोभयथा मदः ।
सुखाभ्यां सर्वगोपेक्षा चत्वार्यन्यानि पञ्चभिः ॥ ५.५८ ॥
कामे निवरणानि एकविपक्षाहारकृत्यतः ।
द्वयकेता पञ्चता स्कन्धविघातविचिकित्सनात् ॥ ५.५९ ॥
आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् ।
आलम्बनप्रहाणाच्च प्रतिपक्षोदयात्क्षयः ॥ ५.६० ॥
प्रहाणाधारभूतत्त्व दूषणाख्यश्चतुर्विधः ।
प्रतिपक्षः प्रहातव्यः क्लेश आलम्बनात्मतः ॥ ५.६१ ॥
वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः ।
भूतशीलप्रदेशाध्वद्वयानामिव दूरता ॥ ५.६२ ॥
सकृत्क्षयः विसंयोगलाभस्तेषां पुनः पूनः ।
प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु ॥ ५.६३ ॥
परिज्ञा नव कामाद्यप्रकारद्वयसंक्षयः ।
एका द्वयोः क्षये द्वे ते तथोर्ध्वं तिस्र एव ताः ॥ ५.६४ ॥
अन्या अवरभागीयरूपसर्वास्रवक्षयाः ।
तिस्रः परिज्ञाः षट्क्षान्तिफलं ज्ञानस्य शेषिताः ॥ ५.६५ ॥
अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा ।
अष्टौ सामन्तकस्यैका मौलारूप्यत्रयस्य च ॥ ५.६६ ॥
आर्यमार्गस्य सर्वाः द्वे लौकिकस्य अन्वयस्य च ।
धर्मज्ञानस्य तिस्रस्तु षट्तत्पक्षस्य पञ्च च ॥ ५.६७ ॥
अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः ।
हेतुद्वयसमुद्घातात्परिज्ञा धात्वतिक्रमात् ॥ ५.६८ ॥
नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः ।
भावनास्थः पुनः षडिभरेकया वा द्वयेन वा ॥ ५.६९ ॥
तासां संकलनं धातुवैराग्यफललाभतः ।
एकां द्वे पञ्च षट्कश्चिज्जहात्याप्नोति पञ्च न ॥ ५.७० ॥
समाप्तः परिज्ञाप्रसङ्गः ॥
अभिधर्मकोशेऽनुशयनिर्द्देशो नाम पञ्चमं कोशस्थानं समाप्तमिति ॥

श्रीलामावाकस्य यदत्र पुण्यम् ।


षष्ठं कोशस्थानम्

ओं नमो बुद्धाय ॥

क्लेशप्रहाणामाख्यातं सत्यदर्शनभावनात् ।
द्विविधो भावनामार्गो दर्शनाख्यस्त्वनास्रवः ॥ ६.१ ॥
सत्यान्युक्तानि चत्वारि दुःखं समुदयस्तथा ।
निरोधमार्ग इति एषां यथाभिसमयं क्रमः ॥ ६.२ ॥
दुःखा स्त्रिदूःखतायोगाद्यथायोगमशेषतः ।
मनापा अमनापाश्च तदन्ये चैव सास्रवाः ॥ ६.३ ॥
यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् ।
घटार्थवत्संवृतिसत्परमार्थसदन्यथा ॥ ६.४ ॥
वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते ।
नामोभयार्थविषया श्रुतमय्यादिका धियः ॥ ६.५ ॥
व्यपकर्षद्वयवतः नासंतुष्टमहेच्छयोः ।
लब्धे भूयःस्पृहातुष्टिरलब्धेच्छा महेच्छता ॥ ६.६ ॥
विपर्यासात्तद्विपक्षौ त्रिधात्वाप्तामलौ च तौ ।
अलोभः आर्यवंशाश्च तेषां तुष्टयात्मकास्त्रयः ॥ ६.७ ॥
कर्मान्तेन त्रिभिर्वृत्तिः तृष्णोत्पादविपक्षतः ।
ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये ॥ ६.८ ॥
तत्रावतारोऽशुभया चानापानस्मृतेन च ।
अधिरागवितर्काणां शंकला सर्वारागिणाम् ॥ ६.९ ॥
आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः ।
पादास्थ्न आकपालार्धत्यागात्कृतजयः स्मृतः ॥ ६.१० ॥
अतिक्रान्तमनस्कारो भ्रूमध्ये चित्तधारणात् ।
अलोभो दशभूः कामदृश्यालम्बा नृजाशुभा ॥ ६.११ ॥
आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा ।
कामाश्रया न बाह्यानां षड्विधा गणनादिभिः ॥ ६.१२ ॥
आनापानौ यतः कायः सत्त्वाख्यौ अनुपात्तकौ ।
नैःष्यन्दिकौ नाधरेण लक्ष्येते मनसा च तौ ॥ ६.१३ ॥
निष्प्रन्नशमथः कुर्यात्स्मृत्युपस्थानभावनाम् ।
कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् ॥ ६.१४ ॥
प्रज्ञा श्रुतादिमयी अन्ये संसर्गालम्बनाः क्रमः ।
यथोत्पत्ति चतुष्कं तु विपर्यासविपक्षतः ॥ ६.१५ ॥
स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः ।
आनित्यदुःखतः शून्यानात्मतस्तान्विपश्यति ॥ ६.१६ ॥
तत ऊष्मगतोत्पत्तिः तच्चतुःसत्यगोचरम् ।
षोडशाकारमूष्मभ्यो मूर्धानः तेऽपि तादृशाः ॥ ६.१७ ॥
उभयाकरणं धर्मेण अन्यैरपि तु वर्धनम् ।
तेभ्यः क्षान्तिः द्विधा तद्वत्क्षान्त्या धर्मेण वर्धनम् ॥ ६.१८ ॥
कामाप्तदुःखविषया त्वधिमात्रा क्षणं च सा ।
तथाग्रधर्माः सर्वे तु पञ्चस्कन्धाः विनाप्तिभिः ॥ ६.१९ ॥
इति निर्वेधभागीयं चतुर्धा भावनामयम् ।
अनागम्या न्तरध्यानभूमिकं द्वे त्वधोऽपि वा ॥ ६.२० ॥
कामाश्रयाणि अग्रधर्मान् द्वयाश्रयान् लभतेऽङ्गना ।
भूमित्यागात्त्यजत्यार्यस्तानि अनार्यस्तु मृत्युना ॥ ६.२१ ॥
आद्ये द्वे परिहाण्या च मौलेस्तत्रैव सत्यदृक् ।
अपूर्वाप्तिर्विहीनेषु हानी द्वे असमन्वितिः ॥ ६.२२ ॥
मूर्धलाभी न मूलच्छित्क्षान्तिलाभ्यनपायगः ।
शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात्त्रीण्यपीतरः ॥ ६.२३ ॥
आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः ।
प्राक्तेभ्यो मोक्षभागीयं क्षिप्रं मोक्षस्त्रिभिर्भवैः ॥ ६.२४ ॥
श्रुतचिन्तामयं त्रीणि कर्माणि आक्षिप्यते नृषु ।
लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा ॥ ६.२५ ॥
कामदुःखे ततोऽत्रैव धर्मज्ञानं तथा पुनः ।
शेषे दुःखेऽन्वयक्षान्तिज्ञाने सत्यत्रये तथा ॥ ६.२६ ॥
इति षोडशचित्तोऽयं सत्याभिसमयः त्रिधा ।
दर्शनालम्बकार्याख्यः सोऽग्रधर्मैकभूमिकः ॥ ६.२७ ॥
क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् ।
अदृष्टदृष्टेर्दृङ्ग्मार्गस्तत्र पञ्चदश क्षणाः ॥ ६.२८ ॥
मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसारिणौ ।
अहीनभावनाहेयौ फलाद्युअप्रतिपन्नकौ ॥ ६.२९ ॥
यावत्पञ्चप्रकारघ्नौ द्वीतीयेऽर्वाङ्नवक्षयात् ।
कामाद्विरक्तावूर्ध्वं वा तृतीयप्रतिपन्नकौ ॥ ६.३० ॥
षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः ।
श्रद्धाधिमुक्तदृष्ट्याप्तौ मृदुतीक्ष्णेन्द्रियौ तदा ॥ ६.३१ ॥
फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यतः ।
नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः ॥ ६.३२ ॥
नवप्रकारा दोषा हि भूमौ भूमौ तथा गुणाः ।
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ६.३३ ॥
अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः ।
त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलंकुलः ॥ ६.३४ ॥
आपञ्चमप्रकारघ्नो द्वितीयप्रतिपन्नकः ।
क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः ॥ ६.३५ ॥
क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः ।
तृतीयप्रतिपन्नश्च सोऽनागामि नवक्षयात् ॥ ६.३६ ॥
सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः ।
ऊर्ध्वस्त्रोताश्च स ध्याने व्यवकीर्णोऽकनिष्ठगः ॥ ६.३७ ॥
स प्लुतोऽर्धप्लुतः सर्वच्युतश्च अन्यो भवाग्रगः ।
आरूप्यगश्चतुर्धान्यः इह निर्वापकोऽपरः ॥ ६.३८ ॥
पुनस्त्रींस्त्रिविधान् कृत्वा नव रूपोपगाः स्मृताः ।
तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः ॥ ६.३९ ॥
ऊर्ध्वस्त्रोतुरभेदेन सप्त सद्गतयो मताः ।
सदसद्वृत्त्यवृत्तिभ्यां गताप्रत्यागतेश्च ताः ॥ ६.४० ॥
न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः ।
स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक् ॥ ६.४१ ॥
आकीर्यते चतुर्थ प्राक्निष्पत्ति क्षणमिश्रणात् ।
उपपत्तिविहारार्थ क्लेशभीरुतयापि च ॥ ६.४२ ॥
तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः ।
निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः ॥ ६.४३ ॥
आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपन्नकः ।
नवमस्याप्यानन्तर्यपथे वज्रोपमश्च सः ॥ ६.४४ ॥
तत्क्षयाप्त्या क्षयज्ञानमाशैक्षोऽर्हन्नसौ तदा ।
लोकोत्तरेण वैराग्यं भवाग्रातन्यतो द्विधा ॥ ६.४५ ॥
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा ।
लोकोत्तरेण चेत्येके त्यक्ते क्लेशासमन्वयात् ॥ ६.४६ ॥
भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः ।
अनास्रवेण वैराग्यमनागाम्येन सर्वतः ॥ ६.४७ ॥
ध्यानात्सामन्तकाद्वान्त्यो मुक्ति मार्गस्त्रिभूजये ।
नोर्ध्वं सामन्तकातार्यैरष्टाभिः स्वोर्ध्वभूजयः ॥ ६.४८ ॥
विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् ।
शान्ताद्युदाराद्याकाराः उत्तराधरगोचराः ॥ ६.४९ ॥
यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः न चेत् ।
क्षयज्ञानमशैक्षो वा दृष्टिः सर्वस्य सार्हतः ॥ ६.५० ॥
श्रामण्यममलो मार्गः संस्कृतासंस्कृतं फलम् ।
एकान्नवतिस्तानि मुक्तिमार्गाः सह क्षयैः ॥ ६.५१ ॥
चतुष्फलव्यवस्था तु पञ्चकारणसंभवात् ।
पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले ॥ ६.५२ ॥
ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना ।
लौकिकाप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलम् ॥ ६.५३ ॥
ब्राह्मण्यं ब्रह्मचक्रं च तदेव ब्रह्मवर्तनात् ।
धर्मचक्रं तु दृङ्मार्गः आशुगत्वाद्यरादिभिः ॥ ६.५४ ॥
कामे त्रयाप्तिः अन्त्यस्य त्रिषु नोर्ध्व हि दृक्पथः ।
असंवेगादिह विधा तत्र निष्ठेति चागमात् ॥ ६.५५ ॥
षडर्हन्तो मताः तेषां पञ्च श्रद्धाधिमुक्तिजाः ।
विमुक्तिः सामयिक्येषामकोप्याकोप्यधर्मणः ॥ ६.५६ ॥
अतोऽसमयमुक्तोऽसौ दृष्टिप्राप्तान्वयश्च सः ।
तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः ॥ ६.५७ ॥
गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः न पूर्वकात् ।
शैक्षानार्याश्च षड्गोत्राः संचारो नास्ति दर्शने ॥ ६.५८ ॥
परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः ।
अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा ॥ ६.५९ ॥
म्रियते न फलभ्रष्टः तदकार्य करोति न ।
विमुक्त्यानन्तर्यपथा नवाकोप्ये अतिसेवनात् ॥ ६.६० ॥
दृष्टयाप्ततायामेकैकः अनास्रवाः नृषु वर्धनम् ।
अशैक्षो नव निश्रित्य भूमीः शैक्षस्तु षट्यतः ॥ ६.६१ ॥
सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् ।
द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः ॥ ६.६२ ॥
प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः ।
पुद्गलाः सप्त षट्त्वेते द्वौ द्वौ मार्गत्रये यतः ॥ ६.६३ ॥
निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः ।
समापत्तीन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते ॥ ६.६४ ॥
अशैक्षपरिपूर्णत्वं द्वाभ्यां मार्गः समासतः ।
विशेषमुक्त्यानन्तर्यप्रयोगाख्य श्चतुर्विधः ॥ ६.६५ ॥
ध्यानेषु मार्गः प्रतिपत्सुखा दुःखान्यभूमिषु ।
धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु ॥ ६.६६ ॥
अनुत्पादक्षयज्ञाने बोधिः तादनुलोम्यतः ।
सप्तत्रिंशत्तु तत्पक्ष्याः नामतो द्रव्यतो दश ॥ ६.६७ ॥
श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे ।
प्रश्रब्धिशीलसंकल्पाः प्रज्ञा हि स्मृत्युपस्थितिः ॥ ६.६८ ॥
वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः ।
प्रधानग्रहणं सर्वे गुणाः प्रायोगिकास्तु ते ॥ ६.६९ ॥
आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः ।
भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ ६.७० ॥
अनास्रवाणि बोध्यङ्गमार्गाङ्गानि द्विधेतरे ।
सकलाः प्रथमे ध्याने अनागम्ये प्रीतिवर्जिताः ॥ ६.७१ ॥
द्वितीयेऽन्यत्र संकल्पात्द्वयोस्तद्द्वयवर्जिताः ।
ध्यानान्तरे च शीलाङ्गैस्ताभ्यां च त्रिष्वरूपिषु ॥ ६.७२ ॥
कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः ।
त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः ॥ ६.७३ ॥
लाभो मार्गाभिसमये बुद्धतत्संघयोरपि ।
धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः ॥ ६.७४ ॥
मार्गश्च द्रव्यतस्तु द्वे श्रद्धा शीलं च निर्मलाः ।
नोक्ता विमुक्तिः शैक्षाङ्गं बद्धत्वात्सा पुनर्द्विधा ॥ ६.७५ ॥
असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता ।
साङ्गः सैव विमुक्ती द्वे ज्ञानं बोधिर्यथोदिता ॥ ६.७६ ॥
विमुच्यते जायमानसशैक्षं चित्तमावृतेः ।
निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् ॥ ६.७७ ॥
असंस्कृतैव धात्वाख्या विरागो रागसंक्षयः ।
प्रहाणधातुरन्येषां निरोधाख्यस्तु वस्तुनः ॥ ६.७८ ॥
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः विरज्यते ।
सर्वैर्जहाति यैः एवं चतुष्कोटिकसंभवः ॥ ६.७९ ॥

अभिधर्मकोशे मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति ॥


सप्तमं कोशस्थानम्

नमो बुद्धाय ॥

नामला क्षान्तयो ज्ञानं क्षयानुत्पादधीर्न दक् ।
तदन्योभयथार्या धीः अन्या ज्ञानं दृशश्च षट् ॥ ७.१ ॥
सास्रवानास्रवं ज्ञानमाद्यं संवृतिज्ञापकम् ।
अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च ॥ ७.२ ॥
सांवृतं सर्वविषयं कामदुःखादिगोचरम् ।
धर्माख्यमन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ७.३ ॥
ते एव सत्यभेदेन चत्वारि एते चतुर्विधे ।
अनुत्पादक्षयज्ञाने ते पुनः प्रथमोदिते ॥ ७.४ ॥
दुःखहेत्वन्वयज्ञाने चतुर्भ्यः परचित्तवित् ।
भूम्यक्षपुद्गलोत्क्रान्तं नष्टाजातं न वेत्ति तत् ॥ ७.५ ॥
त धर्मान्वयधीपक्ष्यमन्योऽन्यं दर्शनक्षणौ ।
श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धोऽप्रयोगतः ॥ ७.६ ॥
क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः ।
न परिज्ञेयमित्यादिरनुत्पादमतिर्मता ॥ ७.७ ॥
स्वभावप्रतिपक्षाभ्यामाकाराकारगोचरात् ।
प्रयोगकृतकृत्यत्वहेतूपचयतो दश ॥ ७.८ ॥
धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे ।
त्रिधातुप्रतिपक्षस्तत्कामधातोऽस्तु नान्वयम् ॥ ७.९ ॥
धर्मज्ञानान्वयज्ञानं षोडशाकारमन्यथा ।
तथा च सांवृतं स्वैः स्वैः सत्याकारैश्चतुष्टयम् ॥ ७.१० ॥
तथा परमनोज्ञानं निर्मलं समलं पुनः ।
ज्ञेयस्वलक्षणाकारमेकैकद्रव्यगोचरम् ॥ ७.११ ॥
शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते ।
नामलः षोडशभ्योऽन्य आकारः अन्येऽस्ति शास्त्रतः ॥ ७.१२ ॥
द्रव्यतः षोडशाकाराः प्रज्ञाकारः तया सह ।
आकारयन्ति सालम्बाः सर्वमाकार्यते तु सत् ॥ ७.१३ ॥
त्रिधाद्यं कुशलान्यन्यानि आद्यं सर्वासु भूमिषु ।
धर्माख्यं षट्सु नवसु त्वन्वयाख्यं तथैव षट् ॥ ७.१४ ॥
ध्यानेष्वन्यमनोज्ञानं कामरूपाश्रयं च तत् ।
कामाश्रयं तु धर्माख्यमन्यत्त्रैधातुकाश्रयम् ॥ ७.१५ ॥
स्मृत्युपस्थानमेकं धीर्निरोधे परचित्तधीः ।
त्रीणि चत्वारि शेषाणि धर्मधीगोचरो नव ॥ ७.१६ ॥
नव मार्गान्वयधियोः दुःखहेतुधियोर्द्वयम् ।
चतुर्णां दश नैकस्य योज्या धर्माः पुनर्दश ॥ ७.१७ ॥
त्रैधातुकामला धर्मा अकृताश्च द्विधा द्विधा ।
सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः ॥ ७.१८ ॥
एकज्ञानान्वितो रागी प्रथमेऽनास्रवक्षणे ।
द्वितीये त्रिभिः ऊर्ध्वस्तु चतुर्ष्वेकैकवृद्धिमान् ॥ ७.१९ ॥
यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने ।
अनागतानि तत्रैव सांवृतं चान्वयत्रये ॥ ७.२० ॥
अतोऽभिसमयान्त्याख्यं तदानुत्पत्तिधर्मकम् ।
स्वाधोभूमि निरोधेऽन्त्यं स्वसत्याकारं यात्निकम् ॥ ७.२१ ॥
षोडशे षट्सरागस्य वीतरागस्य सप्त तु ।
सरागभावना मार्गे तदूर्ध्वं सप्तभावना ॥ ७.२२ ॥
सप्तभूमिजयाभिज्ञाकोप्याप्त्याकीर्णभाविते
आनन्तर्यपथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च ॥ ७.२३ ॥
शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना ।
आनन्तर्यपथे षण्णां भवाग्रविजये तथा ॥ ७.२४ ॥
नवानां तु क्षयज्ञाने अकोप्यस्य दश भावना ।
तत्संचरेऽन्त्यमुक्तौ च प्रोक्तशेषेऽष्टभावना ॥ ७.२५ ॥
यद्वैराग्याय यल्लाभस्तत्र चाधश्च भाव्यते ।
सास्रवाश्च क्षयज्ञाने लब्धपूर्वं न भाव्यते ॥ ७.२६ ॥
प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने ।
प्रतिपक्षविनिर्धावभावने सास्रवस्य तु ॥ ७.२७ ॥
अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः ।
स्थानास्थाने दश ज्ञानानि अष्टौ कर्मफले नव ॥ ७.२८ ॥
ध्यानाद्यक्षाधिमोक्षेषु धातौ च प्रतिपत्सु तु ।
दश वा संवृतिज्ञानं द्वयोः षट्दश वा क्षये ॥ ७.२९ ॥
प्राङिनविसच्युतोत्पादबलध्यानेषु शेषितम् ।
सर्वभूमिषु केनास्य बलमव्याहतं यतः ॥ ७.३० ॥
नारायणबलं काये संधिष्वन्ये दशाधिकम् ।
हस्त्यादिसप्तकबलं स्प्रष्टव्यायतनं च तत् ॥ ७.३१ ॥
वैशारद्यं चतुर्धा तु यथाद्यदशमे बले ।
द्वितीयसप्तमे चैव स्मृतिप्रज्ञात्मकं त्रयम् ॥ ७.३२ ॥
महाकृपा संवृतिधीः संभाराकारगोचरैः ।
समत्वादाधिमात्र्याच्च नानाकरणमष्टधा ॥ ७.३३ ॥
संभारधर्मकायाभ्यां जगतश्चार्थचर्यया ।
समता सर्वबुद्धानां नायुर्जातिप्रमाणतः ॥ ७.३४ ॥
शिष्यसाधारणा अन्ये धर्माः केचित्पृथग्जनैः ।
अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः ॥ ७.३५ ॥
संवृतिज्ञानमरणा ध्यानेऽन्त्ये अकोप्यधर्मणः ।
नृजा अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः ॥ ७.३६ ॥
तथैव प्रणिधिज्ञानं सर्वालम्बं तु तत्तथा ।
धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः ॥ ७.३७ ॥
तिस्रो नामाथवाग्ज्ञानमविवर्त्यं यथाक्रमम् ।
चतुर्थीयुक्तमुक्ताभिलापमार्गवशित्वयोः ॥ ७.३८ ॥
वाङ्मार्गालम्बना चासौ नव ज्ञानानि सर्वभूः ।
दश षड्वार्थसंवित्सा सर्वत्र अन्ये तु सांवृतम् ॥ ७.३९ ॥
कामध्यानेषु धर्मे वित्वाचि प्रथमकामयोः ।
विकलाभिर्न तल्लाभी षडेते प्रान्तकोटिकाः ॥ ७.४० ॥
तत्षड्विधं सर्वभूम्यनुलोमितम् ।
वृद्धिकाष्ठागतं तच्च बुद्धान्यस्य प्रयोगजाः ॥ ७.४१ ॥
ऋद्धिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये ।
ज्ञात साक्षीक्रियाभिज्ञा षड्विधा मुक्तिमार्गधीः ॥ ७.४२ ॥
चतस्रः संवृतिज्ञानं चेतसि ज्ञानपञ्चकम् ।
क्षयाभिज्ञा बलं यद्वत्पञ्च ध्यानचतुष्टये ॥ ७.४३ ॥
स्वाधोभूविषयाः लभ्या उचितास्तु विरागतः ।
तृतीया त्रीप्युपस्थानानि आद्यं श्रोत्रद्धिर्चक्षुषि ॥ ७.४४ ॥
अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः ।
तिस्रो विद्याः अविद्यायाः पूर्वान्तादौ निवर्त्तनात् ॥ ७.४५ ॥
अशैक्ष्यन्त्या तदाख्ये द्वे तत्संतानमुद्भवात् ।
इष्टे शैक्षस्य नोक्ते तु विद्ये साविद्यसंततेः ॥ ७.४६ ॥
आद्या तृतीया षष्ठी च प्रातिहार्याणि शासनम् ।
अग्य्रमव्यभिचारित्वाद्धितेष्टफलयोजनात् ॥ ७.४७ ॥
ऋद्धिः समाधिः गमनं निर्माणं च गतिस्त्रिधा ।
शास्तुर्मनोजवा अन्येषां वाहिन्यप्याधिमोक्षिकी ॥ ७.४८ ॥
कामाप्तं निर्मितं बाह्यं चतुरायतनं द्विधा ।
रूपाप्तं द्वे तु निर्माणचित्तैस्तानि चतुर्दश ॥ ७.४९ ॥
यथाक्रमं ध्यानफलं द्वे यावत्पञ्च नोर्ध्वजम् ।
तल्लाभो ध्यानवत्शुद्धात्तत्स्वतश्च ततोऽपि ते ॥ ७.५० ॥
स्वभूमिकेन निर्माणं भाषणं त्वधरेण च ।
निर्मात्रैव सहाशास्तुः अधिष्ठायान्यवर्त्तनात् ॥ ७.५१ ॥
मृतस्याप्यस्त्यधिष्ठानं नास्थिरस्य अपरे तु न ।
आदावेकमनेकेन जितायां तु विपर्ययात् ॥ ७.५२ ॥
अव्याकृतं भावनाजं त्रिविधं तूपपत्तिजम् ।
ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ ७.५३ ॥
दिव्यश्रोत्राक्षिणी रूपप्रसादौ ध्यानभूमिकौ ।
सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे ॥ ७.५४ ॥
दुरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति ।
मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते ॥
द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्खड्गदैशिकाः ।
अन्यदप्युपपत्त्याप्तं तद्दृश्यो नान्तरीभवः ॥ ७.५५ ॥
चेतोज्ञानं तु तत्त्रेधा तर्कविद्याकृतं च यत् ।
जानते नारका आदौ नृणां नोत्पत्तिलभिकम् ॥ ७.५६ ॥

अभिधर्मकोशे ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् ॥


अष्टमं कोशस्थानम्

ओं नमो बुद्धाय ॥

द्विधा ध्यानानि चत्वारि प्रोक्तास्तदुपपत्तयः ।
समापत्तिः शुभैकाग्य्रं पञ्चस्कन्धास्तु सानुगम् ॥ ८.१ ॥
विचारप्रीतिसुखवत्पूर्वपूर्वाङ्गवर्जितम् ।
तथारूप्याः चतुस्कन्धाः अधोभूमिविवेकजाः ॥ ८.२ ॥
विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः ।
नारूप्ये रूपसद्भावः रूपोत्पत्तिस्तु चित्ततः ॥ ८.३ ॥
आकाशानन्त्यविज्ञाननत्याकिंचन्यसंज्ञकाः ।
तथाप्रयोगात्मान्द्यात्तु नसंज्ञानाप्यसंज्ञकः ॥ ८.४ ॥
इति मौलं समापत्तिद्रव्यमष्टविधं त्रिधा ।
सप्त आस्वादनवच्छुद्धानास्रवाणि अष्टमं द्विधा ॥ ८.५ ॥
आस्वादनासंप्रयुक्तं सतृष्णं लौकिकं शुभम् ।
शुद्धकं तत्तदास्वाद्यं लोकत्तरमनास्रवम् ॥ ८.६ ॥
पञ्चाद्ये तर्कचारौ च प्रीतिसौख्यसमाधयः ।
प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम् ॥ ८.७ ॥
तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः ।
चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः ॥ ८.८ ॥
द्रव्यतो दश चैकं च प्रस्रब्धि सुखमाद्ययोः ।
श्रद्धा प्रसादः प्रीतिस्तु सौमनस्यं द्विधागमात् ॥ ८.९ ॥
क्लिष्टेष्व सत्प्रीतिसुखं प्रसादः संप्रधीः स्मृतिः ।
उपेक्षास्मृतिशुद्धिश्च केचित्प्रस्रब्ध्युपेक्षणे ॥ ८.१० ॥
अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् ।
वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् ॥ ८.११ ॥
सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते ।
सुखोपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु ॥ ८.१२ ॥
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
द्वितीयादौ तदाद्याप्तमक्लिष्टाव्याकृतं च तत् ॥ ८.१३ ॥
अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः ।
अनास्रवं तु वैराग्यात्क्लिष्टं हान्युपपत्तितः ॥ ८.१४ ॥
तृतीयाद्यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् ।
उत्पद्यते तथा शुद्धात्क्लिटं चापि स्वभूमिकम् ॥ ८.१५ ॥
क्लिष्टात्स्वं शुद्दकं क्लिष्टमेवं चाधरशुद्धकम् ।
च्युतौ तु शुद्धकात्क्लिष्टं सर्वं क्लिष्टात्तु नोत्तरम् ॥ ८.१६ ॥
चतुर्धा शुद्धकं हानभागीयादि यथाक्रमम् ।
क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ ८.१७ ॥
द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् ।
गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टै कलङ्घिताः ॥ ८.१८ ॥
व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा ।
स्वाधोभूम्याश्रया एव ध्यानारूप्याः वृथाधरम् ॥ ८.१९ ॥
आर्याकिंचन्यसांमुख्यात्भवाग्रे त्वास्रवक्षयः ।
सतृष्णाः स्वभवालम्बाः ध्यानं सद्विषयं शुभम् ॥ ८.२० ॥
न मौलाः कुशलारूप्याः सास्रवाधरगोचराः ।
अनास्रवेण हीयन्ते क्लेशाः सामन्तकेन च ॥ ८.२१ ॥
अष्टौ सामन्तकान्येषां शुद्धादुःखासुखानि हि ।
आर्य चाद्यं त्रिधा केचिततर्क ध्यानमन्तरम् ॥ ८.२२ ॥
त्रिधा अदुःखासुखंतच्च महाब्रह्मफलं च तत् ।
सवितर्कविचारोऽधःसमाधिः परतोऽद्वयः ॥ ८.२३ ॥
आनिमित्तः समाकारैः शून्यतानात्मशून्यतः ।
प्रवर्तते अप्रणिहितः सत्याकारैरतः परैः ॥ ८.२४ ॥
शुद्धामलाः निर्मलास्तु ते विमोक्षमुखत्रयम् ।
शून्यताशुन्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ ८.२५ ॥
आलम्बेते अशैक्षं द्वौ शून्यतश्चाप्यनित्यतः ।
आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् ॥ ८.२६ ॥
सास्रवाः नृषु अकोप्यस्य सप्तसामन्तवर्जिताः ।
समाधिभावना ध्यानं सुभमाद्यं सुखाय हि ॥ ८.२७ ॥
दर्शनायाक्ष्यभिज्ञेष्टा धीभेदाय प्रयोगजाः ।
वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना ॥ ८.२८ ॥
अप्रमाणानि चत्वारि व्यापादादिविपक्षतः ।
मैत्र्यद्वेषः अपि करुणा मुदिता सुमनस्कता ॥ ८.२९ ॥
उपेक्षालोभः आकारः सुखिता दुःखिता वत ।
मोदन्तामिति सत्त्वाच्च कामसत्त्वास्तु गोचरः ॥ ८.३० ॥
ध्यानयोर्मुदिता अन्यानि षट्सु केचित्तु पञ्चसु ।
न तैः प्रहाणं नृष्वेव जन्यन्ते त्र्यन्वितो ध्रुवम् ॥ ८.३१ ॥
अष्टौ विमोक्षाः प्रथमावशुभा ध्यानयोर्द्वयोः ।
तृतीयोऽन्त्ये स चालोभः शुभारूप्याः समाहिताः ॥ ८.३२ ॥
निरोधस्तु समापत्तिः सूक्ष्मसूक्ष्मादनन्तरम् ।
स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः ॥ ८.३३ ॥
कामाप्तदृश्यविषयाः प्रथमाः ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ८.३४ ॥
अभिभ्वायतनान्यष्टौ द्वयमाद्यविमोक्षवत् ।
द्वे द्वितीयवतन्यानि पुनः शुभविमोक्षवत् ॥ ८.३५ ॥
दश कृत्स्नानि अलोभाष्टौ ध्यानेऽन्त्ये गोचरः पुनः ।
कामाः द्वे शुद्धाकारूप्ये स्वचतुःस्कन्धगोचरे ॥ ८.३६ ॥
निरोध उक्तः वैराग्यप्रयोगाप्तं तु शेषितम् ।
त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम् ॥ ८.३७ ॥
हेतुकर्मबालाद्धात्वोरारुप्योत्पादनं द्वयोः ।
ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च ॥ ८.३८ ॥
सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः ।
धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ८.३९ ॥
काश्मीरवैभाषिकनीतिसिद्धः प्रायो मयायं कथितोऽभिधर्मः ।
यद्दुर्गुहीतं तदिहास्मदागः सद्धर्मनीतौ मुनयः प्रमाणम् ॥ ८.४० ॥
निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा ।
अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम् ॥ ८.४१ ॥
गतेऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधूर्धरेषु च ।
जगत्यनाथे गणघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते ॥ ८.४२ ॥
इति कण्ठगतप्राणं विदित्वा शासनं मुनेः ।
बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः ॥ ८.४३ ॥

अभिधर्मकोशे समापत्तिनिर्देशो नामाष्टमकोशस्थानमिति ॥


Abhidharmakosha-shastra-4th century [Hinayana Buddhism- Sarvastivada doctrine] 

After writing of this book Basubandhu converted to Mahayana School.