Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
02/04/2026
  • Buddhist & Jaina Texts

अभिधर्मकोषभाष्य – वसुबन्धु – Abhidharmakosha Bhasyam or Commentary on Abhidharmakosha

यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार । तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥ शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति । बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः । सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः । अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् ।
advtanmoy 26/03/2020 30 minutes read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Buddha Sakya Goutama Muni

Home » Law Library Updates » Books » Buddhist & Jaina Texts » अभिधर्मकोषभाष्य – वसुबन्धु – Abhidharmakosha Bhasyam or Commentary on Abhidharmakosha

अभिधर्मकोषभाष्य – वसुबन्धु

प्रथमं कोशस्थानम्

[००१।०३-००१।०७]
ओं नमो बुद्धाय
यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥

[००१।०८]
शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति ।

Read Next

  • Arya Sanghata Sutram (Mahayana School)
  • Reason for Buddha’s admiration for true Brahmins
  • Gurukriyakrama by Atisha Dipankara with Hindi Translation

[००१।०९-००१।१०]
बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः ।

[००१।१०]
सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः ।

[००१।१०-००१।११]
अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् ।

Read Next

  • Arya Sanghata Sutram (Mahayana School)
  • Reason for Buddha’s admiration for true Brahmins
  • Gurukriyakrama by Atisha Dipankara with Hindi Translation

[००१।११-००१।१२]
तच्च भगवतो बुद्धस्य प्रतिपक्षलाभेनात्यन्तं सर्वथा सर्वत्र ज्ञेये पुनरनुत्पत्तिधर्मत्वाद्धतम् ।

[००१।१२]
अतोऽसौ सर्वथासर्वहतान्धकारः ।

[००१।१३]
प्रत्यैकबुद्धश्रावका अपि कामं सर्वत्र हतान्धकाराः ।
क्लिष्टसंमोहात्यन्तविगमात् ।

Read Next

  • Arya Sanghata Sutram (Mahayana School)
  • Reason for Buddha’s admiration for true Brahmins
  • Gurukriyakrama by Atisha Dipankara with Hindi Translation

[००१।१४]
न तु सर्वथा ।

[००१।१४-००१।१५]
तथ ह्येषां बुद्धधर्मेष्वतिविप्रकृष्टदेशकालेषु अर्थेषु चानन्तप्रभेदेषु भवत्येवाक्लिष्टमज्ञानम् ।

[००१।१५-००१।१६]
इत्यात्महितप्रतिपत्तिसंपदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्तिसंपदा संस्तौति संसारपङ्काज्जगदुज्जहारेति ।

[००१।१७]
संसारो हि जगदासङ्गस्थानत्वात्दुरुत्तरत्वाच्च पङ्कभूतः ।

[००१।१७-००१।२०]
तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवानिति य एवमात्मपरहितप्रतिपत्तिसंपदा युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य ।

[००१।२०]
यथार्थमविपरीतं शास्तीति यथार्थशास्ता ।

[००१।२०-००१।२१]
अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति ।

[००१।२१-००१।२२]
यथाभूतशासनाच्छास्ता भवन्न्तसौ संसारपङ्काज्जगदुज्जहार न त्वृद्धिवरप्रदानप्रभावेणेति ।

[००१।२२-००२।०१]
तस्मै नमस्कृत्य किं करिष्यामी त्याह शास्त्रं प्रवक्ष्यामि ।

[००२।०१]
शिष्यशासनाच्छास्त्रम् ।

[००२।०१-००२।०२]
कतमच्छास्त्रमित्याह अभिधर्मकोशम्

[००२।०२]
कोऽयमभिधर्मो नाम ।

[००२।०३]
प्रज्ञाऽमला सानुचराऽभिधर्मः (१-२ )

[००२।०४]
तत्र प्रज्ञा धर्मप्रविचयः।
अमलेति अनास्रवा ।
सानुचरेति सपरिवारा ।

[००२।०४-००२।०५]
एवमनास्रवः पञ्चस्कन्धकोऽभिधर्म इत्युक्तं भवति ।

[००२।०५]
एष तावत्पारमार्थिकोऽभिधर्मः ।

[००२।०६]
सांकेतिकस्तु

[००२।०७]
तत्प्राप्तये यापि च यच्च शास्त्रम् । (१-२ )

[००२।०८-००२।०९]
यापि च श्रुतचिन्ताभावनामयी सास्रवा प्रज्ञा उपपत्तिप्रतिलम्भिका च सानुचरा ।

[००२।०९-००२।१०]
यच्च शास्त्रमस्याः प्राप्त्यर्थमनास्रवायाः प्रज्ञायाः तदपि तत्संभारभावादभिधर्म इत्युच्यते ।

[००२।१०]
निर्वचनं तु स्वलक्षणधारणाद्धर्मः ।

[००२।१०-००२।११]
तदयं परमार्थधर्मं वा निर्वाणं धर्मलक्षणं वा प्रत्यभिमुखो धर्म इत्यभिधर्मः ।

[००२।१२]
उक्तोऽभिधर्मः ।
इदं तु शास्त्रं कथमभिधर्मकोशम् ।

[००२।१३-००२।१४]
तस्यार्थतोऽस्मिन् समनुप्रवेशात्
स चाश्रयो स्येत्यभिधर्मकोशम् (१-२ -२ ) ॥ १.२ ॥

[००२।१५-००२।१६]
स हि शास्त्रसंज्ञकोऽभिधर्म एतस्मिन्नर्थतो यथाप्रधानमन्तर्भूत इत्येतच्छास्त्रं तस्य कोशस्थानीयं भवति ।

[००२।१६]
अथवा सोऽभिधर्म एतस्याश्रयभूतः शास्त्रस्य ।

[००२।१७]
ततो ह्येतन्निराकृष्टम् ।
अतः स एवास्याभिधर्मः कोश इत्येतच्छास्त्रमभिधर्वर्मकोशम् ।

[००२।१८-००२।१९]
किमर्थं पुनरभिधर्मोपदेशः केन चायं प्रथमत उपदिष्टो यट आचार्योऽभिधर्मकोशं वक्तुमाद्रियत इति ॥

[००२।१९]
आह् ।

[००२।२०-००२।२३]
धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः ।
क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा ॥ १.३ ॥

[००२।२४]
यतो न विना धर्मप्रविचयेनास्ति क्लेशोपशमाभ्युपायः ।

[००२।२४-००३।०१]
क्लेशाश्च लोकं भ्रमयन्ति संसारमहार्णेवेऽस्मिनन् ।

[००३।०१-००३।०२]
अतस्तद्धेतोस्तस्य धर्मप्रविचयस्यार्थे शास्त्रा किल बुद्धेनाभिधर्म उक्तः ।

[००३।०२]
नहि विनाऽभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुमिति ।

[००३।०३-००३।०४]
स तु प्रकीर्ण उक्तो भगवता भदन्तकात्यायनीपुत्र-प्रभृतिभिः पिण्डीकृत्य स्थपितोभदन्त धर्मत्रातो दानवर्गीयकरणवदित्याहुर्वैभाषिकाः ।

[००३।०५]
कतमे पुनस्ते धर्मा येषां प्रविचयार्थमभिधर्मोपदेश इत्याह

[००३।०६]
सास्रवाऽनास्रवा धर्माः (१-४ )

[००३।०७]
एष सर्वधर्माणां समासनिर्द्देशः ।

[००३।०७-००३।०८]
तत्र कतमे सास्रवा धर्मा इत्याह

[००३।०८-००३।०९]
संस्कृता मार्गवर्जिताः ।
सास्रवाः (१-४ -४ १)

[००३।१०]
मार्गसत्यं वर्जयित्वाऽन्ये संस्कृता धर्माः सास्रवाः ।
किं कारणम् ।

[००३।११]
आस्रवास्तेषु यस्मात्समनुशेरते (१-४ २-४ ) ॥ १.४ ॥

[००३।१२-००३।१३]
कामं निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्ते न तिनुशेरते तत्रेति न तयोः सास्रवत्वप्रसञ्गः ।

[००३।१३-००३।१४]
यथाऽत्र नानुशेरते तत्पश्चादनुशयनिर्देश एव ज्ञापयिष्यामः ।

[००३।१४]
उक्ताः सास्रवाः ।

[००३।१५]
अनस्रवाः कतमे ।

[००३।१६]
अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् । (१-५ -५ )

[००३।१७]
कतमत्त्रि विधम् ।

[००३।१८]
आकाशं द्वौ निरोधौ च (१-५ )

[००३।१९]
कतमौ द्वौ ।
प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्च ।

[००३।१९-००३।२०]
इत्येतदाकाशादि त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः ।

[००३।२०]
किं कारणम् ।
नहि तेष्वास्रवा अनुशेरत इति ।

[००३।२१]
यदेतत्त्रिविधमसंस्कृतमुद्दिष्टम्

[००३।२२]
तत्राकाशमनावृतिः (१-५ ) ॥ १.५ ॥

[००३।२३]
अनावरणस्वभावमाकाशं यत्र रूपस्य गतिः ॥

[००३।२४]
प्रतिसंख्यानिरोधो यो विसंयोगः (१-६ -६ १)

[००४।०१]
यः सास्रवैर्धर्मैर्विसंयोगः स प्रतिसंख्यानिरोधः ।

[००४।०१-००४।०२]
दुःखादीनामार्यसत्यानां प्रतिसंख्यानं प्रतिसंख्या प्रज्ञाविशेषस्तेन प्राप्यो निरोधः ।

[००४।०२]
प्रतिसंख्यानिरोधः ।

[००४।०२-००४।०३]
मध्यपदलोपात्गोरथवत् ।

[००४।०४]
किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्यानिरोधः ।
नेत्याह ।

[००४।०५]
किं तर्हि ।

[००४।०६]
पृथक्पृथक् । (१-६ २)

[००४।०७]
यावन्ति हि संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि ।

[००४।०७-००४।०८]
अन्यथा हि दुःखदर्शनहेयक्लेशनिरोधसाक्षात्क्करणात्सर्वक्लेशनिरोधसाक्षात्क्रिया प्रसज्येत ।

[००४।०८-००४।०९]
सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् ।

[००४।०९-००४।१०]
यत्तर्ह्युक्तम् “असभागोनिरोध” इत्यस्य कोऽर्थः ।

[००४।१०-००४।११]
नास्य कश्चित्सभागहेतुरस्ति नासौ कस्यचिदित्ययमस्य वाक्यस्यार्थो न तु नास्य कशिचत्सभागोऽस्तीति ।

[००४।११]
उक्तः प्रतिसंख्यानिरोधः ॥

[००४।१२]
उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया (१-६ -६ ) ॥ १.६ ॥

[००४।१३-००४।१४]
अनागतानां धर्माणामुत्पादस्यात्यन्तं विघ्नभूतो विसंयोगाद्योऽन्यो निरोधः सोऽप्रतिसंख्यानिरोधः ।

[००४।१४]
न ह्यसौ प्रतिसंख्यया लभ्यते ।
किं तर्हि ।
प्रत्ययवैकल्यात् ।

[००४।१४-००४।१६]
यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपाणि शब्दगन्धरसस्प्रष्टव्यानि चात्ययन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यं पुनरुत्पत्तुम् ।

[००४।१६-००४।१७]
न हि ते सत्या अतीतं विषयमालम्बयि तुल्मिति ।

[००४।१७]
अतः स तेषामप्रतिसंख्यानिरोधः प्रत्ययवैकल्यात्प्राप्यते ।

[००४।१८]
चतुष्कोटिकं चात्र भवति ।
सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव लभ्यते ।

[००४।१९]
तद्यथा अतितप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् ।

[००४।१९-००४।२०]
सन्ति येषामप्रतिसंख्यानिरोध एव ।

[००४।२०]
तद्यथाऽनुत्पत्तिधर्माणामनास्रवसंस्कृतानाम् ।
सन्ति ते येसामुभयम् ।

[००४।२१]
तद्यथा सास्रवाणामनुत्पस्त्तिधर्माणाम् ।
सन्ति येषां नोभयम् ।

[००४।२१-००४।२२]
तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामणास्रवाणामिति ।

[००४।२२]
उक्तं त्रिविधमसंस्कृतम् ॥

[००४।२३]
यत्तूक्तं “संस्कृता मार्गवर्जिताः ।

[००४।२३-००४।२४]
सास्रवा” इति कतमे ते संस्कृताः ।

[००४।२५]
ते पुनः संस्कृता धार्मा रूपादिस्कन्धपञ्चकम् । (१-७ -७ )

[००४।२६]
रूपस्कन्धो वेदनास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेत्येते संस्कृता धर्माः ।

[००४।२७]
समेत्य संभूय प्रत्ययैः कृताः इति संस्कृताः ।
नह्येकप्रत्ययजनितं किञ्चिदस्तीति ।

[००४।२७-००५।०१]
तज्जातीयत्वादनागतेष्वविरोधो दुग्धेन्धनवत् ।

[००५।०२]
त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः (१-७ -७ ) ॥ १.७ ॥

[००५।०३]
त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः अद्यन्तेऽनितयत्येति वा ।

[००५।०३-००५।०४]
कथा वावायं तस्या वस्तु नाम ।

[००५।०४]
सार्थकवस्तुग्रहणात्तु संस्कृन्तं कथावस्तूच्यते ।

[००५।०४-००५।०५]
अन्यथा हि उरकरणग्रन्थो विरुध्येत ।

[००५।०५]
“कथावस्तून्यष्टादशभिर्धतुभिः संगृहीतानि ।”

[००५।०५-००५।०६]
निःसरणं निःसारः सर्वस्य संस्कृतस्य निर्वाणम् ।

[००५।०६]
तदेषामस्तीति सनिःसाराः ।

[००५।०६-००५।०७]
सहेतुकत्वात्सवस्तुकाः ।

[००५।०७]
हेतुवचनः किल वस्तुशब्द इति वैभाषिचाः ।

[००५।०७-००५।०८]
इत्येते संस्कृतधर्मौअर्यायाः ।

[००५।०८]
त एव पुयः संस्कृता धरमाः ।

[००५।०९]
ये सास्रवा उपादानस्कन्धास्ते (१-८ -८ १)

[००५।१०]
अतः किं दिद्धम् ।

[००५।१०-००५।११]
य उपादानस्कन्धाः स्कन्धा अपि ते स्युः एव नोपादानस्कन्धाः ।

[००५।११]
अनास्रवाः संस्कारा इति
तत्र उपादानानि क्लेशाः ।

[००५।११-००५।१२]
तत्संभूतत्वादुपादानस्कन्धाः ॥

[००५।१२]
त्रुणतुपाग्निवत् ।
तद्धिधेयत्वाद्वा राजपुरूपवत् ।

[००५।१२-००५।१३]
उपादानानि वा तेभ्यः संभवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत् ।

[००५।१३-००५।१४]
त एव सास्रवा धर्मा उच्यन्ते ।

[००५।१५]
सरणा अपि । (१-८ २)

[००५।१६]
रण्सा हि क्लेशाः ।
आत्मपारव्यावाधनात् ।
स्तदनुशयितत्वात्सरणाः ।
सास्रववत् ।
पुनः

[००५।१७]
दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते (१-८ -८ ) ॥ १.८ ॥

[००५।१८]
आर्याणां प्रतिकूलत्वाद्दुःखम् ।
समुदेत्यस्माद्दुःखमिति समुदयः ।

[००५।१८-००५।१९]
लक्ष्यत इति लोकः ।

[००५।१९]
दृष्टिरस्मिंस्तिष्ठत्यनुशयनादिति दृष्टिस्थानम् ।
भवतीति भवः

[००५।२०]
इत्येते सास्रवाणसं धर्माणामान्वर्थपर्यायाः

[००५।२१]
पञ्च रूपादयः स्कन्धा इत्युक्तम् ।
तत्र

[००५।२२]
रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च । (१-९ -९ )

[००५।२३]
पञ्चेन्द्रियाणि चक्षुःश्त्रोत्रग्र्हाणजिह्वाकायेन्दरिया ण ।

[००५।२३-००५।२४]
पञ्चार्थास्तेषामेवचक्षुरादीनामिन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः ।

[००५।२५]
अविज्ञप्तिश्चेति ।
एतावान् रूपस्कन्धः

[००५।२६]
तत्र य एते पञ्च रूपादयोऽर्था उक्ताः ।

[००५।२७]
तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः (१-९ -९ ) ॥ १.९ ॥

[००६।०१-००६।०२]
रूपशब्दगन्धरसस्प्रष्टव्यविज्ञानानामाश्रयभूता ये पञ्च रूपात्मकाः प्रसादास्ते यथाक्रमं चक्षुःश्रोत्रघ्राणजिह्वाकाया वेदितव्याः ।

[००६।०२-००६।०३]
यथोक्तं भगवता “चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय” रूप प्रसाद इति विस्तरः ।

[००६।०३-००६।०४]
यान्येतानि चक्षुरादीन्युक्तनि तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः ।

[००६।०४-००६।०५]
चक्षुर्विज्ञानाद्याश्रया इत्यर्थः ।

[००६।०५]
एवं कृत्वा प्रकरणग्रण्थोऽप्यनुवृत्तो भवति ।
“चक्षुः कतमत् ।

[००६।०५-००६।०६]
चक्षुर्विज्ञानाश्रयो रूपप्रसाद” इति विस्तरः ।

[००६।०६]
निर्द्दिष्टानि पञ्चेन्द्रियाणि ।

[००६।०७]
अर्थाः पञ्चा निर्द्देश्याः ।
तत्र तावत्]

[००६।०८]
रूपं द्विधा

[००६।०९]
वर्णः संस्थानं च ।
तत्र वर्णश्चतुर्विधो नीलादिः ।
तद्भेदा अन्ये ।

[००६।०९-००६।१०]
सम्स्थानमष्टविधं दीर्घदि विसातान्तम् ।

[००६।१०]
तदेव रूपायतनं पुनरुच्यते ।

[००६।११]
विम्शतिधा

[००६।१२-००६।१३]
तद्यथा नीलं पीतं लोहितमवदातं दीर्घं ह्रस्वं वृत्तं परिमण्डलमुन्नतमवनतं सातं विसातमभ्रं धूमो रजो महिका च्छाया आतपः आलोकः अन्धकारमिति ।

[००६।१३-००६।१४]
केचिन्नभश्चैकवर्णमिति एकविंशतिं संपठन्ति ।

[००६।१४]
तत्र सातं समस्थानम् । विसातं विषम स्थानम्ल्महिका नीहारः । आतपः सूर्यप्रभा ।

[००६।१४-००६।१५]
आलोकः चन्द्रतारकाग्न्योषधिमणीनं प्रभा ।

[००६।१६]
छाया यत्र रूपाणां दर्शनम् ।
विपर्ययादन्धकारम् ।

[००६।१६-००६।१७]
शेषं सुगमत्वान्न विपञ्चितम् ।

[००६।१७]
अस्ति रूपायतनं वर्णतो विद्यते न संस्थानतः

[००६।१७-००६।१८]
नीलपीतलोहितवदातच्छायातपालोकान्धकाराख्यम् ।

[००६।१८]
अस्ति संस्थानतो न वर्णतः ।

[००६।१८-००६।१९]
घादीनां प्रदेषः कायविज्ञप्तिस्वभावः ।

[००६।१९]
अस्त्युभयथा ।
परिशिष्टं रूपायतनम् ।

[००६।१९-००६।२०]
आतपालोकावेव वर्णतो विद्येते इत्यपरे ।

[००६।२०]
“दृश्यते हि नीलादीनं दीर्घादिपरिच्छेद” इति ।

[००६।२१]
कथं पुनरेकं द्रव्यमुभयथा विद्यते ।
अस्त्युभयस्य तत्र प्रज्ञानात् ।

[००६।२१-००६।२२]
ज्ञानार्थो ह्येष विदिर्न सत्तार्थः ।

[००६।२२]
कायविज्ञप्तावपि तर्हि प्रसङ्गः ।
उक्तं रूपायतनम् ॥

[००६।२३]
शब्दस्त्वष्टविधः ।

[००६।२४]
उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति चतुर्विधः ।

[००६।२४-००६।२५]
पुनर्मनोज्ञामनोज्ञभेदादष्टविधो भवति ।

[००६।२५-००६।२६]
तत्रोपात्तमहाभूतहेतुको यथा हस्तवाक्छब्दः ।

[००६।२६]
अनुपात्तमहाभुतहेतुको यथा वायुवनस्पतिनदीशब्दः ।

[००६।२६-००६।२७]
सत्त्वाख्यो वाग्विज्ञप्तिषब्दः ।

[००६।२७]
असत्त्वाख्योऽन्यः

[००६।२७-००६।२८]
उपात्तानुपात्तमहाभूतहेतुकोऽप्यस्ति शब्द इत्यपरे ।

[००६।२८]
तद्यथा हस्तमृदङ्गसंयोगज इति ।

[००६।२८-००७।०१]
स तु यथैकौ वर्णपरमाणुर्न भूतचतुष्कद्वयमुपादायेष्यते तथा नैवैष्टव्य इति ।

[००७।०१]
उक्तः शब्दः ॥

[००७।०२]
रसः ।

[००७।०३]
षोढ

[००७।०४]
मधुराम्ललवणकटुकतित्तकषायभेदात् ।

[००७।०५]
चतुर्विधो गन्धः

[००७।०६]
सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् ।
त्रिविधस्तु शास्त्रे ।

[००७।०६-००७।०७]
“सुगन्धो दुर्गन्धः समगन्ध” इति ।

[००७।०८]
स्पृश्यमेकादशात्मद्कम् ॥ १.१० ॥

[००७।०९]
स्प्रष्टव्यमेकादशद्रव्यस्वभावम् ।

[००७।०९-००७।१०]
चत्वारि महाभूतानि श्लक्ष्णत्वं कर्कशत्वं गुरुत्वं लघुत्वं शीतं जिघत्सा पिपासा चेति ।

[००७।१०]
तत्र भूतानि पश्चाद्वक्ष्याम्ः ।

[००७।१०-००७।११]
श्लक्ष्णत्वं मृदुता ।

[००७।११]
कर्कशत्वं परुषता ।
गुरुत्वं येन भावास्तुल्यन्ते ।
लघुत्वं विपर्ययात् ।

[००७।११-००७।१२]
शीतमुष्णाभिलाषकृत् ।

[००७।१२]
जिघत्सा भोजनाभिलाषकृत् ।
कारणे कार्योपचारात् ।
यथा

[००७।१३-००७।१४]
“बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना ।
सुखा सङ्घस्य सामग्री समग्राणां तपः सुखं” ॥ इति ।

[००७।१५]
तत्र रूपधातौ जिघत्सापिपासे न स्तः ।
शेषमस्ति

[००७।१५-००७।१६]
यद्यपि तत्र वस्त्राण्येकशो न तुल्यन्ते सञ्चितानि पुनस्तुल्यन्ते ।

[००७।१६]
शीतमुपघातकं नास्ति ।

[००७।१६-००७।१७]
अनुग्राहकं किलास्ति ।

[००७।१८-००७।१९]
यदेतद्बहुविधं रूपमुक्तं तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति ।

[००७।१९]
कदाचिद्बहुभिर्यदा न व्यवच्छेदः ।

[००७।१९-००७।२०]
तद्यथा सेनाव्यूहमनेकवर्णसंस्थानं मणिसमूहं च दूरात्पश्यतः ।

[००७।२०]
एवं श्रोत्रादिविज्ञानं वेदितव्यम् ।

[००७।२१]
कायविज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरुत्पद्यत इत्येके ।

[००७।२१-००७।२२]
चतुर्भिर्महाभूतैरेकेन च श्लक्ष्णत्वादिना ।

[००७।२२]
सर्वैरेकादशभिरित्यपरे ।

[००७।२२-००७।२३]
ननु चैवं समस्तालम्बनत्वात्सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति न स्वलक्षणविषयाः ।

[००७।२३-००७।२४]
आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया इष्यन्ते न द्रव्यस्वलक्षणमित्यदोषः ।

[००७।२५]
इदं विचार्यते ।

[००७।२५-००७।२६]
कायजिह्वेन्द्रिययोर्युगपद्विषयप्राप्तौ सत्यां कतरद्विज्ञानं पूर्वमुत्पद्यते ।

[००७।२६]
यस्य विषयः पटीयान् ।

[००७।२६-००७।२७]
समप्राप्ते तु विषये जिह्वाविज्ञानं पूर्वमुत्पद्यते ।

[००७।२७]
भोक्तुकामतावर्जितत्वात्सस्न्ततेः ।

[००७।२७-००७।२८]
उक्ताः पञाचेन्द्रियार्थाः यथा च तेषां ग्रहणम् ।

[००७।२९]
अविज्ञप्तिरिदानीं वक्तव्या ।
सेयमुच्यते

[००८।०१-००८।०२]
विक्षिप्ताचित्तकस्यापि योऽनुबण्धः शुभाशुभः ।
महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते ॥ १.११ ॥

[००८।०३]
विक्षिप्तचित्तकस्येति तदन्यचित्तस्यापि ॥

[००८।०३-००८।०४]
अचित्तकस्यापीत्यसंज्ञिनिरोधसमापत्तिसमापन्नस्यापि ।

[००८।०४]
अपिशब्देनाविक्षिप्तसचित्तस्यापीति विज्ञायते ।

[००८।०५]
योऽनु बन्ध इति यः प्रवाहः ।
शुभाशुभ इति कुशलाकुशलः ।

[००८।०५-००८।०६]
कुशलाकुशले प्राप्तिवाहोऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते महाभूतान्युपादायेति ।

[००८।०७]
हेत्वर्थ उपादायार्थ इति वैभाषिकाः ।
जननादिहेतुभावात् ।

[००८।०७-००८।०८]
स ह्यविज्ञप्तिरिति हिशब्दस्तन्नामकरणविज्ञापनार्थः ।

[००८।०८-००८।०९]
रूपक्रियास्वभावापि सती विज्ञप्तिवत्परं न विज्ञापयतीत्यविज्ञप्तिः ।

[००८।०९-००८।०९
उच्यत इति आचार्यवचनं दर्शयति ।

[००८।०९-००८।१०]
समासतस्तु विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिः ।

[००८।११]
महाभूतान्युपादायेत्युक्तानि कतमानि भूतानि ।

[००८।१२]
भूतानि पृथिवीधातुरप्तेजोवायुधातवः

[००८।१३]
इत्येते चत्वारः स्वलक्षणोपादायरूपधारणाद्धातवश्चत्वारि महाभूतान्युच्यन्ते ।

[००८।१४]
महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वात् ।

[००८।१४-००८।१५]
अथ वा तदुद्भूतवृत्तिषु पृथिव्यप्तेजोवायुस्कन्धेष्वेषां महास्ण्निवेशत्वात् ।

[००८।१५-००८।१६]
ते पुनहेते धातवः कस्मिन् कर्मणि संसिधाः किंस्वभावाश्चेत्याह

[००८।१७]
धृत्यादिकर्मसंसिद्धाः

[००८।१८]
धृतिसंग्रहपक्तिव्यूहनकर्मस्वेते यथाक्रमं संसिद्धाः पृथिव्यप्तेजोवायुधातवः ।

[००८।१८-००८।१९]
व्यूहनं पुनर्वृद्धिः प्रसर्पणं च वेदितव्यम् ।

[००८।१९]
इदमेषां कर्म ।
स्वभावस्तु यथाक्रमं

[००८।२०]
खरस्नेहोस्णतेरणाः ॥ १.१२ ॥

[००८।२१]
खरः पृथिवीधातुः ।
स्नेहोऽब्धातुः ।
उष्णता तेजोधातुः ।

[००८।२२]
ईरणा वायुधातुः ।
ईर्यतेऽनया भूतस्रोतो देशान्तरोत्पादनात्प्रदीपेरणवदितीरणा ।

[००८।२३]
“वायुधातुः कतमो लघुसमुदीरणत्वम्” इति प्रकारणेषु निर्दिष्टं सूत्रे च ।

[००८।२३-००८।२४]
तत्तु लघुत्वमुपादाय रूपमप्युक्तं प्रकरणेषु ।

[००८।२४-००८।२५]
अतो य ईरणास्वभावो धर्मः स वायुरिति कर्ंणाऽस्य स्वभावोऽभिव्यक्तः ।

[००८।२६]
कः पुनः पृथिव्यादिनां पृथिवीधात्वादीनां च विशेषः ।

[००९।०१]
पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया ।
[००९।०२]
तथा हि पृथिवीं दर्शयन्तो वर्णं संस्थानं च दर्शयन्ति ।
यथा पृथिवी एवं

[००९।०३]
आपस्तेजश्च

[००९।०४]
वर्णसंस्थानमेवोच्यते लोकसंज्ञया ।

[००९।०५]
वायुस्तु धातुरेव

[००९।०६]
य एव तु वायुधातुः स एव लोके वायुअरित्युच्यते ।

[००९।०७]
तथपि च ॥ १.१३ ॥

[००९।०८]
यथा पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया तथ वायुअरपि ।

[००९।०८-००९।०९]
नीलिका वात्या मण्डलिका वात्येति ॥

[००९।१०]
कस्मात्पुनरयमविज्ञप्तिपर्यन्तो रूपस्कन्ध इत्युच्यते ।
रौपणात् ।

[००९।१०-००९।११]
उक्तं भगवता “रूप्यते रुप्यत इति भिक्षवस्तस्माद्रूपोपादानस्दन्ध इत्युच्यते ॥

[००९।११-००९।१२]
केन रुप्यते ।

[००९।१२]
पाणिस्पर्शेनापि स्पृष्टो रूप्यत” इति विस्तरः ।
रूप्यते बाध्यत इत्यर्थः ।

[००९।१३]
तथा ह्यर्थवर्गीयेषूक्तम्

[००९।१४-००९।१५]
“तस्य चेत्कामयानस्य च्छन्दजातस्य देहिनः ।
ते कामा न समृध्यन्ति शल्यविद्ध इव रूप्यते ॥”

[००९।१६]
रूपस्य पुनः का बधना ।
विपरिणामोत्पादना ।

[००९।१६-००९।१७]
प्रतिघातो रूपेणेत्यपरे ।

[००९।१७]
परमाणुरूपं तर्हि रूपं न प्राप्नोत्यरूपणात् ।

[००९।१७-००९।१८]
न वै परमाणुरूपमेकं पृथग्भूतमस्ति ।

[००९।१८]
सञ्घातस्थं तु तद्रूप्यत एव ।

[००९।१८-००९।१९]
अतीतानागतं तर्हि रूपं न प्राप्नोति ।

[००९।१९]
तदपि रूपितं रूपयिष्यमाणं तज्जातीयं चेति रूपमिन्धनवत् ।

[००९।१९-००९।२०]
अविज्ञप्तिस्तर्हि न प्राप्नोति ।

[००९।२०]
सापि विज्ञप्तिरूपणाद्रूपिता भवति ।

[००९।२०-००९।२१]
वृक्षप्रचलने च्छायाप्रचलनवत् ।

[००९।२१]
नाविकारात् ।

[००९।२१-००९।२२]
विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः स्याद्वृक्षाभावे च्छायाऽभाववत् ।

[००९।२२-००९।२३]
आश्रयभूतरूपणादित्यपरे एवं तर्हि चक्षुर्विज्ञानादीनामप्याश्रयरूपणात्रूपत्वप्रसङ्गः ।

[००९।२३]
विषमोऽयमुपन्यासः ।

[००९।२३-००९।२४]
अविज्ञप्तिर्हि च्छायेव वृक्षं प्रभेव मणिं भूतान्याश्र्त्य वर्त्तते ।

[००९।२४-००९।२५]
न त्वेवं चक्षुरादीन्याश्रित्य वर्त्तन्ते चक्षुर्विज्ञानादीनि केवलं तूत्पत्तिनिमिक्तमात्रं तानि तेषां भवन्तीति ।

[००९।२५-००९।२६]
इदं तावदवैभाषिकीयं वृक्षमाश्रित्य च्छाया वर्त्तते मणिं चाश्रित्य प्रभेति ।

[००९।२६-०१०।०१]
च्छायादिवर्णपरमाणूनां प्रत्येकं स्वभूतचतुष्काश्रितत्वाभ्युपगमात् ।

[०१०।०१]
सत्यपि च तदाश्रितत्वे च्छायाप्रभयोर्नाविज्ञप्तिस्तथैवाश्रिता ।
युज्यते ।

[०१०।०२]
निरुद्धेष्वपि अविज्ञ प्त्याशयेषु महाभूतेषु तस्या अनिरोधोऽभ्युपगम्यते ।

[०१०।०२-०१०।०३]
अतो न भवत्येष परिहारः ।

[०१०।०३-०१०।०४]
अन्ये पुनरत्र परिहारमाहुः चक्षुर्विज्ञानादीनामाश्रयो भेदं गतः ।

[०१०।०४]
कष्चिद्रूप्यते चक्षुरादिः कश्चिन्न रूप्यते यथा मनः ।

[०१०।०५]
न त्वेवमविज्ञप्तिः ।

[०१०।०५-०१०।०६]
तस्मादसमानः प्रसङ्गः इत्यत उपपन्नमेतदाश्रय रूपणाद्रूपमिति ।

[०१०।०७]
य एव रूपस्कन्धस्वभावा उक्ताः

[०१०।०८]
इन्द्रियार्थस्त एवेष्टा अशायतनधातवः ।

[०१०।०९]
आयतनव्यवस्थायां दशायतनानि ।

[०१०।०९-०१०।१०]
चक्षुरायतनं रूपायतनं यावत्कायायतनं स्प्रष्टव्यायतनमिति ।

[०१०।१०-०१०।११]
धातुव्यवस्थायां त एव दशधातवश्चक्षुर्छातू रूपधातुर्यावत्कायधातुः स्प्रष्टव्यधातुरिति ।

[०१०।११]
उक्तो रूपस्कन्धस्तस्य चायतनव्यवस्थानम् ।

[०१०।१२=०१०१२]
वेदनादयो वक्तव्यः ।

[०१०।१२]
तत्र

[०१०।१३]
वेदनाऽनुभवः

[०१०।१४]
त्रिविधोऽनुभवो वेदनास्कन्धः ।
सुखो दुःखो , दुःखासुखश्च ।

[०१०।१४-०१०।१५]
स पुनर्भिद्यमानः षड्वेदनाकायाः चक्षुःसंस्पर्शजा वेदना यावम्वनःसंस्पर्शजा वेदनेति ।

[०१०।१६]
संज्ञा निमित्तोद्ग्रहणात्मिका ॥ १.१४ ॥

[०१०।१७-०१०।१८]
यावन्नीलपीतदीर्घह्रस्वस्त्रिपुरुषमित्रमित्रसुखदुःखादिनिमित्तोद्ग्रहणमसौ संज्ञास्कन्धः ।

[०१०।१८]
स पुनर्भिद्यमानः षट्संज्ञाकाया वेदनावत् ॥

[०१०।१९]
चतुर्भ्योऽन्ये तु संस्कारस्कन्धः

[०१०।२०]
रूपवेदनासंज्ञाविज्ञानेभ्यश्चतुब्ब्र्योऽन्ये तु संस्काराः संस्कारस्कन्धः।

[०१०।२०-०१०।२१]
भगवता तु सूत्रे षट्चेतनाकाया इत्युक्तं प्राधान्यात् ।

[०१०।२१-०१०।२२]
सा हि कर्मस्वरूपत्वादभिसंस्करणे प्रधाना ।

[०१०।२२-०१०।२३]
अत एवोक्तं भगवता “संस्कृतमभिसंस्करोति ।

[०१०।२३]
तस्मात्संस्कारा उपादानस्कन्ध इत्युच्यत” इति

[०१०।२३-०१०।२५]
अन्यथा हि शेषाणां चैतसिकानां विप्रयुक्तानां च संस्काराणां स्कन्धासंग्रहाद्दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञापरिहाणे अपि न स्याताम्।

[०१०।२५-०१०।२६]
उक्तं च भगवता “नाहमेकधर्ममपि अनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामीति ।

[०१०।२६]
एवमप्रहाये” त्युक्तम् ।

[०११।०१]
तस्मादवश्यमेषां संस्कारस्कन्धसंग्रहो “भ्युपगन्तव्यः ।

[०११।०२]
एते पुनस्त्रयः ।

[०११।०३]
वेदनासंज्ञासंस्कारस्कन्धाः आयतनधातुव्यवस्थायां

[०११।०४]
धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतैः ॥ १.१५ ॥

[०११।०५]
इत्येतानि सप्त द्रव्याणि धर्मायतनं धर्मधातुश्चेत्याख्यायन्ते ।

[०११।०६]
विज्ञानं प्रतिविज्ञप्तिः

[०११।०७]
विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते ।

[०११।०७-०११।०८]
स पुनः षड्विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति ।

[०११।०८-०११।०९]
य एष विज्ञानस्कन्ध उक्त आयतनव्यवस्थायां

[०११।१०]
मन आयतनं च तत् ।

[०११।११]
धातुव्यवस्थायां स एव

[०११।१२]
धातवः सस्प्त च मताः

[०११।१३]
कतमे सप्त ।

[०११।१४]
षड्विज्ञानान्यथो मनः ॥ १.१६ ॥

[०११।१५]
चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुमनोधातुश्च ।

[०११।१५-०११।१६]
एवमत्र पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो निर्द्दिष्टा भवण्ति ।

[०११।१६-०११।१७]
अविज्ञप्तिवर्ज्यो रूपस्कन्धो दशायतनानि दश धतवः ।

[०११।१७-०११।१८]
वेदना दयः स्कन्धास्त्रयो “विज्ञप्तिरसंस्कृतानि च धर्मायतनं धर्मधातुश्च विज्ञानस्कन्धो मन आयतनं षड्विज्ञानधातवो मनोधातुश्चेति ॥

[०११।१९]
ननु च षड्विज्ञानकाया विज्ञानस्कन्ध इत्युक्तम् ।

[०११।१९-०११।२०]
अथ को “यं पुनस्तेभ्यो “न्यो मनोधातुः न खलु कश्चिदन्यः ।

[०११।२०]
किं नर्हि ।
तेषामेव

[०११।२१]
षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः ।

[०११।२२]
यद्यत्समनन्तरनिरुद्धं विज्ञानं तन्मनोधातुरित्युच्येत ।

[०११।२२-०११।२३]
तद्यथा स एव पुत्रो “न्यस्य पिता भवति तदेव फलमन्यस्य बीजमिति ।

[०११।२३-०११।२५]
एवं तर्हि द्रव्यतः सप्तदश धातवो भवन्ति द्वादश वा षड्विज्ञानधातुमनोधातूनामितरेतरान्तर्भावादिति कस्मादष्टादाश व्यवस्थाप्यन्ते ।

[०११।२५]
यद्यप्येवं तथापि

[०११।२६]
षष्ठाश्रयप्रसिद्ध्यर्थ धातवो “षादश्स्मृताः ॥ १.१७ ॥

[०११।२७]
पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः ।

[०११।२८]
षष्ठस्य मनोविज्ञानधातोराश्रयो “न्यो नास्ति ।

[०११।२८-०११।२९]
अतस्तदाश्रयप्रसिद्धच्यर्थ मनोधातुरूपदिष्टः ।

[०११।२९-०१२।०१]
एवमाश्रयाश्रितालम्बनष्ट्कव्यवसथानादष्टादश धातवो भवन्तीति ।

[०१२।०१]
अर्हतस्तर्हि चरमं चित्तं न मनो भविष्यति ।

[०१२।०२]
नहि तदस्ति यस्य तत्सस्मनन्तरातीतं स्यादिति ।
न ।

[०१२।०२-०१२।०३]
तस्यापि मनोभावेनावस्थितत्वात् ।

[०१२।०३]
अन्यकारणवैकल्यात्तु नोत्तरविज्ञानसंभूतिः ॥

[०१२।०४]
तत्र स्कन्धैः सर्वसंस्कृतसंग्रहः ।

[०१२।०४-०१२।०५]
उपादानस्कन्धैः सर्वसास्रवाणामा यतनधातुभिः सर्वधर्माणाम् ।

[०१२।०५]
समासतस्तु ज्ञातव्यः

[०१२।०६-०१२।०७]
सर्वसंग्रह एकेन स्कन्देह्नायतनेन च
धातुना च

[०१२।०८]
रूपस्कन्धेन मन आयतनेन धर्मधातुना च सर्वधर्माणां संग्रहो बोद्धव्यः ।

[०१२।०८-०१२।०९]
स खल्वेष संग्रहो यत्र क्वचिदुच्यमानो वेदितव्यः ।

[०१२।१०]
स्वभावेन

[०१२।११]
न परभावेन ।
किं कारणम् ।

[०१२।१२]
परभाववियोगतः ॥ १.१८ ॥

[०१२।१३]
वियुक्तो हि परभवेन धर्मः ।
तस्मान्न येन वियुक्तस्तेनैव संगृहीतो युज्यते ।

[०१२।१३-०१२।१४]
तद्यथा चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां च दुःखसमुदयसत्याभ्यां च संगृहीतम् ।

[०१२।१५]
तत्स्वभावत्वात् ।
नान्यैः स्कन्धादिभिस्तद्भाव वियुक्तत्वात् ।

[०१२।१५-०१२।१६]
यस्त्वन्येनान्यस्य संग्रह उच्यते यथा संग्रहवस्तुभिः पर्षदां स हि कादाचित्कत्वात्सांकेतिको वेदितव्यः ।

[०१२।१७]
ननु चैकविंशत्या धातुभिर्भवितव्यम् ।
चक्षुषो द्वित्वात्श्रोत्रघ्राणयोश्च ।

[०१२।१८]
न भवितव्यम् ।
यस्मात् ।

[०१२।१९-०१२।२०]
जातिगोचरविज्ञानसामान्यादेकधातुता
द्वित्वे “पि चक्षुरदीनं

[०१२।२१]
त्र जातिसामान्यमुभयोश्चक्षुःस्वभावत्वात् ।

[०१२।२१-०१२।२२]
गोचरसामान्यमुभयो रूपविषयत्वात् ।

[०१२।२२]
विज्ञानसामान्यमुभयोरेकचक्षुर्विज्ञानाश्रयत्वात् ।
तस्मदेक एव चक्षुर्धातुः ।

[०१२।२३]
एवं श्रोत्रघ्राणयोरपि योज्यम् ।

[०१२।२४]
शोभार्थं तु द्वयोद्भवः ॥ १.१९ ॥

[०१२।२५]
एकधातुत्वे “पि तु चक्षुरादीनं द्वयोः संभव आश्रयस्य शोभार्थम् ।

[०१२।२५-०१३।०१]
अन्य था ह्येकचक्षुःश्रोत्राधिष्ठानैकनासिकाविलसंभवात्महद्वैरुप्यं स्यादिति ।

[०१३।०२]
उक्ताः स्कन्धायतनधातवः

[०१३।०३]
इदं तु वक्तव्यं कः स्कन्धायतनधात्वर्थ इति ।

[०१३।०४]
राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः ।

[०१३।०५-०१३।०७]
ऽयत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिबाह्यमौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे अन्तिके तत्सर्वमैकध्यमभिसंक्षिप्य रूपस्कन्ध इति संख्यां गच्छती ति वचनात्सूत्रे राश्यर्थः स्कन्धार्थ इति सिद्धम् ।

[०१३।०७-०१३।०८]
तत्रातीतं रूपमनित्यतानिरुद्धम् ।

[०१३।०८]
अनागतमनुत्पन्नम् ।
प्रत्युत्पन्नमुत्पन्नानिरुद्धम् ।

[०१३।०९]
आध्यात्मिकं स्वासान्तानिकं बाह्यमन्यदायतनतो वा

[०१३।०९-०१३।१०]
औदारिकं सप्रतिघं सूक्ष्ममप्रतिघमापेक्षिकं वा ।

[०१३।१०]
आपेक्षिकत्वादसिद्धमिति चेत् ।
न ।

[०१३।१०-०१३।११]
अपेक्षाभेदात् ।

[०१३।११]
यदपेक्ष्यौ दारिकं न जातु तदपेक्ष्य सूक्ष्मं पितापुत्रवत् ।
हीनं क्लिष्टम् ।

[०१३।१२]
प्रणितमक्लिष्टम् ।
दूरमतीतानागतम् ।
अन्तिकं प्रत्युत्पन्नम् ।

[०१३।१२-०१३।१३]
एवं यावत्विज्ञानम् ।

[०१३।१३]
अयं तु विशषः ।
औदारिकं पञ्चेन्द्रियाश्रयं सूक्ष्मं मानसम् ।

[०१३।१३-०१३।१४]
भूमितो वेति वैभाषिकाः ।

[०१३।१४]
भदन्त आह औदारिकरूपं पञचेन्द्रियग्राह्यं सूक्ष्ममन्यत् ।

[०१३।१५]
हीनममनापं प्रणीतं मनापम् ।
दूरमदृश्यदेशम् ।
अन्तिकं दृश्यदेशम् ।

[०१३।१५-०१३।१६]
अतीतादीनां स्वशब्देनाभि हितत्वात् ।

[०१३।१६]
एवं वेदनादयोऽपि वेदितव्याः ।

[०१३।१७]
दूरान्तिकत्वं तु तेषामाश्रयवशात् ।
औदारिकसूक्ष्मत्वं तु पूअर्ववदिति ॥

[०१३।१८]
चित्तचैत्तायद्वारार्थ आयतनार्थः ।

[०१३।१८-०१३।१९]
निर्वचनं तु चित्तचैत्तानामायं तन्वन्तीति आयतनानि ।

[०१३।१९]
विस्तृण्वन्तीत्यर्थः ।
गोत्रार्थो धात्वर्थः ।

[०१३।१९-०१३।२१]
यथैकस्मिन् पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्रानि धातव उच्यन्ते एवमेकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते ।

[०१३।२१]
आकरास्तत्र गोत्राण्युअच्यन्ते ।

[०१३।२१-०१३।२२]
त इमे चक्षुरादयः कस्याकराः ।

[०१३।२२]
स्वस्या जातेः ।
सभागहेतुत्वात् ।

[०१३।२२-०१३।२३]
असंस्कृतं तर्हि न धातुः स्यात् ।

[०१३।२३]
चित्तचित्तानां तर्हि जातिवाचको “यं धातुशब्द इत्यपरे ।

[०१३।२३-०१३।२४]
अष्टादश्धर्माणां जातयः स्वभावा अष्टादश धातव इति ।

[०१३।२४-०१३।२५]
यदि राश्यर्थः स्कन्धार्थः प्रज्ञप्तिसन्तः स्कन्धाः प्राप्नुवन्ति ।

[०१३।२५]
अनेकद्रव्यसमूहत्वात्राशिपुद्गलवत् ।
न ।

[०१३।२६]
एकस्यापि द्रव्यपरमाणोः स्कन्धत्वात् ।
न तर्हि राश्यर्थः स्कन्धार्थ इति वक्तव्यम् ।

[०१३।२७]
न ह्येकस्यास्ति राशित्वमिति ।
कार्यभारोद्वहनार्थः स्कन्धार्थ इत्यपरे ।

[०१३।२७-०१३।२८]
प्रच्छेदार्थो वा ।

[०१३।२८]
तथाहि वक्तारो भवन्ति त्रिभिः स्कन्धकैर्देयं दास्याम इति ।
तदेतदुत्सूत्रम् ।

[०१३।२९]
सूत्रं हि राश्यर्थमेव ब्रवीति “यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमि”ति विस्तरः

[०१३।३०]
प्रत्येकमतीतादिरूपस्य स्कन्धत्वं तत्र विज्ञाप्यते ।

[०१३।३०-०१४।०१]
सर्वमेतदतीतादि रूपमेकशो रूपस्कन्ध इति ।

[०१४।०१]
न शक्यमेवं विज्ञातुम् ।

[०१४।०१-०१४।०२]
“तत्सर्वमैकध्यमभिसंक्षिप्ये”ति वचनात् । तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्तः

[०१४।०२-०१४।०३]
रूपोईन्यपि तर्ह्यायतनानि प्रज्ञप्तिसन्ति प्राप्नुवन्ति ।

[०१४।०३-०१४।०४]
बहुनां चक्षुरादिपरमाणूनामायद्वार भावात् ।

[०१४।०४]
न ।

[०१४।०४-०१४।०५]
एकशः समग्राणां कारणभावात्विषयसहकारित्वाद्वा नेन्द्रियं पृथगायतनं स्यात् ।
०१४०५-०१४०५]
विभाषायां तूच्यते “यद्याभिधर्मिकः स्कन्धप्रज्ञप्तिमपेक्षते ।

[०१४।०६]
स आह परमाणुरेकस्य धातोरेकस्यायतनस्यैकस्य स्कन्धस्य प्रदेशः ।

[०१४।०६-०१४।०७]
अथ नापेक्षते ।

[०१४।०७]
स आह ।
परमाणुरेको धातुरेकमायतनमेकः स्कन्ध” इति ।

[०१४।०७-०१४।०८]
भवति हि प्रदेशे “पि प्रदेशिवदुपचारो यथा पट्टैअकदेशे दग्धे पटो दग्ध इति ।

[०१४।०९]
किर्थं भगवान् स्कन्धादिमुधेन त्रिविधां देशनामारभते ।
आह ।
विनेयानां

[०१४।१०]
मोहेन्द्रियरुचित्रैधात्तिस्रः स्कन्धादिदेशनाः ॥ १.२० ॥

[०१४।११]
त्रयः प्रकारास्त्रैधम् ।
त्रिप्रकारः किल सत्त्वानां मोहः ।

[०१४।११-०१४।१२]
केचिच्चैत्तेषु संमूढाः पिण्डात्मग्रहणतः ।

[०१४।१२]
केचिद्रूप एव ।
केचिद्रूपचित्तयोः ।
इन्द्रियाण्यपि त्रिविधानि ।

[०१४।१३]
तीक्ष्णमध्यमृद्विन्द्रियत्वात् ।
रूचिरपि त्रिविधा ।

[०१४।१३-०१४।१४]
संक्षिप्तमध्यविस्तरग्रन्थरुचित्वात् ।

[०१४।१४]
तेषां यथाक्रमं तिस्रः स्कन्धायतनधातुदेशना इति ॥

[०१४।१५-०१४।१६]
किं पुनः कारणं चैतसिका एकत्र संस्कारस्कन्धनिक्षिप्ता वेदनासंज्ञे तु पृथक्स्कन्धीकृते इत्याह

[०१४।१७-०१४।१८]
विवादमूलसंसारहेतुत्वात्क्रमकारणात् ।
चैत्तेभ्यो वेदनासंज्ञे पृथकस्क्न्धौ निवेशितौ ॥ १.२१ ॥

[०१४।१९]
द्वे विवादमूले ।
कामाध्यवसानं दृष्ट्यध्यवसानं च ।

[०१४।१९-०१४।२०]
तयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतू ।

[०१४।२०-०१४।२१]
वेदनास्वादवशाद्धि कामानभिष्वजन्ते विपरीतसंज्ञावशाच्च दृष्टीरिति ।

[०१४।२१]
संसारस्यापि ते प्रधानहेतू ।
वेदनास्वादगृद्धो हि विषर्यस्तसंज्ञः संसरति ।

[०१४।२२-०१४।२३]
यच्च स्कन्धक्रमे कारणमुपदेक्ष्यमाणं ततोऽपि क्रमकारणादनयोः पृथक्स्कन्धीकरणं वेदितव्यम् ।

[०१४।२३]
एतच्च त्रेधो पपादयिष्यामः ।

[०१४।२४]
स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात्

[०१४।२५]
तद्धि स्कन्धेषूच्यमानं न तावदेतेष्वेवान्तर्णेतुं शक्यते
अर्थायोगात् ।

[०१४।२५-०१५।०१]
नहि तद्रूपं नापि यावद्विज्ञानमिति ।

[०१५।०१]
नचापि षष्ठः स्कन्धो वक्तुं शक्यते ।
कुतः ।
अर्थायोगात् ।

[०१५।०२]
“राश्यर्थो हि स्कन्धार्थ” इत्युक्तम् ।

[०१५।०२-०१५।०३]
नचासंस्कृतमतीतादिभेदभिन्नं रूपादिवद्यतस्तत्सर्वमैकध्यमभिसंक्षिप्यासंस्कृतस्कन्ध इति संख्यां गच्छेत् ।

[०१५।०३-०१५।०४]
संक्लेशवस्तुज्ञापनार्थं खलूपादानस्कन्धवचनं संक्लेशव्यवदानवस्तुज्ञापनार्थं स्कन्धवचनम् ।

[०१५।०४-०१५।०५]
नचोभयथा “प्यसंस्कृतमित्यर्थायोगान्न तेशु व्यवस्थापितम् ।

[०१५।०५-०१५।०६]
यथा घटोपरमो न घट एवं स्कन्धोपरमो न स्कन्धो भवितुमर्हतीत्यपरे ।

[०१५।०६-०१५।०७]
तेषां धात्वायतनेष्वप्येष प्रसङ्गः ।

[०१५।०७]
उक्तः स्कन्धानामन्यः प्रकारः ॥

[०१५।०८]
क्रमः पुनः ।

[०१५।०९]
यथौदारिकसंक्लेशभाजनाद्यर्थधातुतः ॥ १.२२ ॥

[०१५।१०]
रूपं हि सप्रतिघत्वात्सर्वौदारिकम् ।
अरुपिणां वेदना प्रचारौदारिकतया ।

[०१५।१०-०१५।११]
तथा हि व्यपदिशन्ति हस्ते मे वेदना पादे मे वेदनेति ।

[०१५।११]
द्वाभ्यां चौ दारिकतरा संज्ञा ।

[०१५।११-०१५।१२]
विज्ञानात्संस्कारा इत्यतो यदौदारिकतरं तत्पूर्वमुक्तम् ।

[०१५।१२-०१५।१३]
अथवा अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामास्ते च वेदनास्वादगर्द्धात् ।

[०१५।१३]
तद्गर्द्धः संज्ञाविपर्यासात् ।

[०१५।१४]
तद्विपर्यासः क्लेशैश्चित्तमच तत्संक्लिष्टमिति यथासंक्लेशं च क्रमः ।

[०१५।१४-०१५।१५]
भाजनाद्यर्थेन वा ।

[०१५।१५]
भजनभोजनव्यञ्जनकर्त्तृ भोक्तृभूता हि रूपादयः स्कन्धाः ।
धातुतो वा ।

[०१५।१६]
कामगुणरूपप्रभावितो हि कामधातुः ।
वेदनाप्रभावितानि ध्यानानि ।

[०१५।१६-०१५।१७]
संज्ञाप्रभाविताः त्रयः आरूप्याः ।

[०१५।१७]
संस्कारमात्रप्रभावितं भवाग्रम् ।

[०१५।१७-०१५।१८]
एता एव विज्ञानस्थितयः तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबिजसंदर्शनार्थः स्कन्धानुक्रमः ।

[०१५।१८-०१५।१९]
अत एव पञ्चस्कन्धा नाल्पीयांसो न भूयांसः ।

[०१५।१९-०१५।२०]
अत एव च क्रमकारणाद्वेदनासंज्ञे संस्कारेभ्यः पृथक स्कन्धीकृते ।

[०१५।२०-०१५।२१]
यत एते औदारिकतरे संक्लेशानुक्रमहेतू भाजनव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति ॥

[०१५।२२]
आयतनधातूनां षण्णां चक्षुरादीनामनुक्रमो वक्तव्यः ।

[०१५।२३]
तद्वशेनैव हि तद्विषयविज्ञानानां क्रमः ।
तेषां च पुनः षण्णाम् ।

[०१५।२४]
प्राक्पञ्च वार्त्तमार्थ्यात्

[०१५।२५]
चक्षुरादीनि पञ्च वर्त्तमानविषयत्वात्पूर्वमुक्तानि ।
मनस्त्वनियतविषयम्

[०१५।२५-०१६।०१]
किञ्चिद्वर्त्तमानविषयं किञ्चित्व्यध्वानध्रविषयम् ।

[०१६।०२]
भौतिकार्थ्याच्चतुष्टयम् ।

[०१६।०३]
प्रागिति वर्त्तते ।
पञ्चानां पुनश्च्त्वारि पूर्वमुक्तानि ।
भौतिकविषयत्वात् ।

[०१६।०३-०१६।०४]
कायस्य त्वनियतो विषयः

[०१६।०४]
कदाचिद्भूतानि कदाचिद्भौतिकं कदाचिदुभयम् ।

[०१६।०५]
दूराशुतरवृत्त्याऽन्यत्

[०१६।०६]
शेषं पुनरितस्माद्यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तम् ।
चक्षुःश्रोत्रं हि दूरविषयम् ।

[०१६।०७]
तत्पूर्वमुक्तं द्वयात् ।
तयोरपि चक्षुषो दूरतरे वृत्तिः ।

[०१६।०७-०१६।०८]
पश्यतोऽपि दूरान्नदीं तच्छब्दाश्रवणादतस्तत्पूर्वमुक्तम् ।

[०१६।०८]
घ्राणस्य तु नास्ति दूरे वृत्तिः ।
जिह्वायाश्च ।

[०१६।०९]
तयोराशुतरवृत्तित्वात्घ्राणं पूर्वमुक्तमप्राप्तस्यैव जिह्वा भोज्यस्य गन्धग्रहणात् ।

[०१६।१०]
यथास्थानं क्रमोऽथवा ॥ १.२३ ॥

[०१६।११]
अथवा अस्मिन् शरीरे चक्षुषोऽधिष्ठानमुपारिष्टात्निविष्टम् ।
तस्मादधः श्रोत्रस्य ।

[०१६।१२]
तस्मादधो घ्राणस्य । तस्मात्जिह्वायाः
तक्याः स्यास्य बहुल्येन ।

[०१६।१२-०१६।१३]
मनः पुनस्तान्येव निश्रितमदेशस्थं चेति यथास्थानमेषां क्रमः स्यात् ।

[०१६।१४]
किं पुनः कारणं दशस्वायतनेषु रूपस्कन्धसंगृहीतेष्वेकं रूपायतनमुच्यते ।

[०१६।१४-०१६।१५]
सर्वेषु च धर्मस्वभवेष्वेकं धर्मायतनमित्याह

[०१६।१६-०१६।१७]
विशेषणार्थं प्राधान्याद्बहुधर्माग्रसंग्रहात् ।
एकमायतनं रूपमेकं धर्माख्यमुच्यते ॥ १.२४ ॥

[०१६।१८]
कथं विशेषणार्थम् ।

[०१६।१८-०१६।१९]
यथा गम्येत प्रत्येकमेषां दशानामायतनत्वं विषयविषयित्वेन व्यवस्थानं न समस्तानामिति ।

[०१६।१९-०१६।२०]
चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद्रूपकयातनं ज्ञास्यत इत्यस्य पुनर्नामान्तरं नोच्यते ।

[०१६।२०-०१६।२१]
अथवा रूपायतनस्य प्राधान्यात् ।

[०१६।२१]
तद्धि सप्रतिघत्वाच्च ।
पाण्यादिसंस्पर्शैः स्पृष्टं रूप्यते ।

[०१६।२२]
सनिदर्शनत्वाच्च ।

[०१६।२२-०१६।२३]
इदमिहामुत्रेति निरूपणात्लोकेऽपि च तद्रूपमिति प्रतीतं नान्यानि ।

[०१६।२३]
विशेषणार्थमेव चैकं धर्मायतनमुक्तं न सर्वाणि ।

[०१६।२३-०१७।०१]
अपि चात्रबहूनां धर्माणां संग्रहो वेदनादीनाम् ।

[०१७।०१]
अतः सामान्येनाभिधानं क्रियते धर्मशब्देन ।
[०१७।०२]
अग्रस्य च निर्वाणधर्मस्यात्र संग्रहो नान्येष्विति ।

[०१७।०२-०१७।०३]
विंशतिप्रकारत्वेनौदारिकत्वान्मांस दिव्यार्यप्रज्ञाचक्षुस्त्रयगोचरत्वाच्चैकं रूपायतनमित्यपरे ॥

[०१७।०४-०१७।०५]
अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु तेषां किंेभिरेव संग्रहो वेदितव्य आहोस्विद्व्यतिरेकः

[०१७।०५]
एभिरेव संग्रहो न व्यतिरेकः ।
तत्र तावत्

[०१७।०६-०१७।०७]
धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः ।
तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः ॥ १.२५ ॥

[०१७।०८]
येषां वाक्स्वभावं बुद्धवचनं तेषां तानि रूपस्कन्धसंगृहीतानि ।

[०१७।०९]
येषां नामस्वभावं तेषां संस्कारस्कन्धेन ॥

[०१७।१०]
किं पुनर्धर्मस्कन्धस्य प्रमाणम् ।

[०१७।११]
शास्त्रप्रमाण इत्येके

[०१७।१२]
एके तावताहुर्धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य ओप्रमणमिति ।

[०१७।१२-०१७।१३]
तच्च षट्सहस्राणि ।

[०१७।१३]
अपरे पुनराहुः

[०१७।१४]
स्कन्धादीनं कथैकशः ।

[०१७।१५-०१७।१७]
स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानारणादीनां कथा प्रात्येकं धर्मस्कन्ध इति ।

[०१७।१८]
चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः ॥ १.२६ ॥

[०१७।१९]
एवं तु वर्णयन्त्यशीतिश्चरितसहस्रणि सत्त्वानाम् ।
रागद्वेषमोहमानादिचरितभेदेन ।

[०१७।२०]
तेषां प्रतिपक्षेण भगवताऽशीतिर्धर्मस्कन्धसहस्राण्युक्तानि ।

[०१७।२०-०१७।२१]
यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येष्वेव पञ्चस्कन्धेषु ओप्रतिपादितानि ।

[०१७।२२-०१७।२३]
तथाऽन्येऽपि यथायोगं स्कन्धायतनधातवः ।
प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम् ॥ १.२७ ॥

[०१७।२४-०१७।२६]
येऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्तास्तेऽप्येष्वेव यथोक्तेषु स्कन्धादिषु प्रतिओपाद्याः स्वं स्वं लक्षणमेषां यथाविहितमस्मिंच्छास्त्रे संप्रधर्य ।

[०१७।२६-०१८।०२]
तत्र तावत्पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः ।

[०१८।०२-०१७।०२]
शेषाः संस्कारस्कन्धेन ।

[०१८।०२-०१८।०३]
दशानां कृत्स्नायतनानामष्टावलोभस्वभावत्वाद्धर्मायतनेन ।

[०१८।०३]
सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् ।

[०१८।०४]
तथाऽभिभ्वायतनानि ।

[०१८।०४-०१८।०५]
आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात्मनोधर्मायतनाभ्याम् ।

[०१८।०५-०१८।०६]
पञ्च विमुक्त्यायतनानि प्रज्ञास्वभावत्वाद्धर्मायतनेन ।

[०१८।०६]
सपरिवाराणि तु शब्दो मनोधर्मायतनैः ।

[०१८।०७]
द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैर्गन्धर्सायतनाभावात् ।

[०१८।०७-०१८।०८]
नैवसंज्ञानासंज्ञायतनोपगा मनोधर्मायतनाभ्याम् ।

[०१८।०८]
एवं बहुधातुकेऽपि द्वाषष्टिर्धातवो देशिताः ।

[०१८।०८-०१८।०९]
तेषां यथायोगं संग्रहो वेदितव्यः ॥

[०१८।१०-०१८।११]
य इमे तत्र षड्धातवः उक्ताः पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुरित्येषां द्वयोर्लक्षणमनुक्तम् ।

[०१८।११-०१८।१२]
तत्किमाकाशमेवाकाशधातुर्वेदितव्यः सर्वमच विज्ञानं विज्ञानधातुः।

[०१८।१२]
नेत्याह ।
किं तर्हि ।
द्वारवातायनमुखनासिकादिषु

[०१८।१३]
छिद्रमाकाशधात्वाख्यम्

[०१८।१४]
छिद्रमित्युच्यमानं किं वेदितव्यम् ।

[०१८।१५]
आलोकतमसी किल ।

[०१८।१६]
नहि छिद्रमालोकतमोभ्यामन्यद्गृह्यते ।

[०१८।१६-०१८।१७]
तस्मात्किलाकाशधातुरालोकतमःस्वभावो रात्रिन्दिवस्वभावो वेदितव्यः ।

[०१८।१७-०१८।१८]
स एव चाघसामन्तकं रूपमित्युच्यते ।

[०१८।१८]
अघं किल चित्तस्थं रूपम् ।
अत्यर्थं घातात् ।

[०१८।१८-०१८।१९]
तस्य तत्सामन्तकमिति ।

[०१८।१९]
अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्सामन्तकं चान्यस्य रूपस्येत्यपरे ।

[०१८।२०]
विज्ञानधातुर्विज्ञानं सास्रवं

[०१८।२१]
कस्मादनास्रवं नोच्यते ।
यस्मादिमे षड्धातव इष्टाः ।

[०१८।२२]
जन्मनिश्रयाः ॥ १.२८ ॥

[०१८।२३]
एते हि जन्मनः प्रतिसन्धिचित्ताद्यावत्च्युतिचित्तसाधारणभूताः

[०१८।२३-०१८।२४]
अनास्रवास्तु धर्मा नैवमिति ।

[०१८।२४-०१८।२५]
तदेवं सत्येषां चत्वारो धातवः स्प्रष्टव्यधातावन्तर्भूताः पञ्चमो रूपधातौ षष्ठः सप्तसु विज्ञानधातुष्विति ।

[०१८।२६]
ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः कत्यनिदर्शनाः ।

[०१९।०१]
सनिदर्शन एकोऽत्र रूपं

[०१९।०२]
स हि शक्यते निदर्शयितुमिदमिहामुत्रेति ।
उक्तं भवति अनिदर्शनाः शेषा इति ॥

[०१९।०३]
कति सप्रतिघाः कत्यप्रतिघाः ।

[०१९।०४]
सपरतिघा दश ।

[०१९।०५]
रूपिणः ।

[०१९।०६]
य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः ।

[०१९।०६-०१९।०७]
प्रतिघो नाम प्रतिघातः स च त्रिविधः ।

[०१९।०७]
आवरणविषयालम्बनप्रतिघातः ।

[०१९।०७-०१९।०८]
तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिपोरतिवन्धः ।

[०१९।०८]
यथा हस्तो हस्ते प्रतिहन्यते उपले वा ।
उपलोऽपि तयोः ।

[०१९।०९]
विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु ।

[०१९।०९-०१९।१०]
यथोक्तं प्रज्ञप्ता”वस्ति चक्षुर्जले प्रतिहन्यते न स्थले ।

[०१९।१०]
यथा मत्स्यानाम् ।

[०१९।१०-०१९।११]
अस्ति स्थले न जले ।

[०१९।११]
प्रायेण मनुष्याणाम् ।
अस्त्युभयत्र ।

[०१९।११-०१९।१२]
शिशुमारमण्डूकपिशाचकैवर्त्तादीनाम् ।

[०१९।१२]
अस्ति नोभयत्र ।
एतानाकारान् स्थापयित्वा ।

[०१९।१२-०१९।१३]
अस्ति चक्षुर्यद्रात्रौ प्रतिहन्यते न दिवा ।

[०१९।१३]
तद्यथा तितीलोलूकादीनाम् ।
दिवा न रात्रौ ।

[०१९।१३-०१९।१४]
प्रायेण मनुष्याणाम् ।

[०१९।१४]
रात्रौ दिवा च ।
श्वशृगालतुरगद्वीपिमार्जारादीनाम् ।
नोभयत्र ।

[०१९।१४-०१९।१५]
एतानाकारान् स्थापयित्वे”त्ययं विशयप्रतिघातः ।

[०१९।१५-०१९।१६]
आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्बालम्वनेषु ।

[०१९।१६]
कः पुनर्विषयालम्बनयोर्विशेषः ।

[०१९।१६-०१९।१७]
यस्मिन् यस्य कारित्रं स तस्य विषयः ।

[०१९।१७]
यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् ।

[०१९।१७-०१९।१८]
कः पुनः स्वस्मिन्विषये प्रवर्त्तमानमालम्वने वा प्रतिहन्यत इत्युच्यते ।

[०१९।१८]
तस्मात्परेणाप्रवृत्तेः ।

[०१९।१८-०१९।१९]
निपातो वाऽत्र प्रतिघातो या स्वविषये प्रवृत्तिः

[०१९।१९-०१९।२०]
तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यमन्योन्यावरणात् ।

[०१९।२०-०१९।२१]
ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि त इति चतुष्कोटिकः

[०१९।२१]
प्रथमा कोटिः सप्त चित्तधातवो धर्मधातुप्रदेशश्च यः संप्रयुक्तः ।

[०१९।२२]
द्वितीया पञ्च विषयाः ।
तृतीया पञ्चेन्द्रियाणि ।

[०१९।२२-०१९।२३]
चतुर्थी धर्मधातुप्रदेशः संप्रयुक्तकवर्ज्यः ।

[०१९।२३-०१९।२४]
ये धर्मा विशयप्रतिघातेन सप्रतिघा आलम्बन प्रतिघातेनापि त इति ।

[०१९।२४]
पश्चात्पादकः ।
ये तावदालम्बनप्रतिघातेनापि विषयप्रतिघातेनापि ते ।

[०१९।२५-०१०।२५]
स्युर्विषयप्रतिघतेनैव नालम्बनप्रतिघातेन ।

[०१९।२५]
पञ्चेन्द्रियाणि ।

[०२०।०१-०२०।०२]
“यत्रोत्पित्सोर्मनसः प्रतिघतः शक्यते परैः कर्त्तुम् ।
तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टमि”ति

[०२०।०३]
भदन्तकुमारलातः ।
उक्ताः सप्रतिघा अप्रतिघाश्च ॥

[०२०।०४]
एषामष्टादशधातूनां कति कुशलाः कत्यकुशलाः कत्यव्याकृता ।

[०२०।०५]
अव्याकृता अष्टौ

[०२०।०६]
कतमे अष्टौ ।
य एते सप्रतिघा दशोक्ताः ।

[०२०।०७]
त एवारूपशब्दकाः ॥ १.२९ ॥

[०२०।०८]
पञ्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातवश्च ।

[०२०।०८-०२०।०९]
एतेऽष्टौ कुशलाकुशलभावेनाव्याकरणादव्याकृताः ।

[०२०।०९]
विपाकं प्रत्यव्याकरणादित्यपरे ।
एवमनास्रवेऽपि प्रसङ्गः ॥

[०२०।१०]
त्रिधाऽन्ये

[०२०।११]
अन्ये दश धातवः कुशलाकुशलाव्याकृताः ।

[०२०।११-०२०।१२]
तत्र सप्त धातवोऽलोभादिसंप्रयुक्ता कुशलाः ।

[०२०।१२]
लोभादिसंप्रयुक्ता अकुशलाः ।
अन्ये अव्याकृताः ।

[०२०।१२-०२०।१३]
धर्मधातुरलोभादिस्वभावसंप्रयुक्तसमुत्थः प्रतिसंख्यानिरोधश्च कुशलः ।

[०२०।१३-०२०।१४]
लोभादिस्वभावसंप्रयुक्तसमुत्थोऽकुशलः

[०२०।१४]
अन्योऽव्याकृतः ।

[०२०।१४-०२०।१५]
रूपशब्दधातू कुशलाकुशलचित्तसमुट्थौ कुशलाकुशलौ कायवाग्विज्ञप्तिसंगृहीतौ ।

[०२०।१५]
तदन्याव्याकृतौ ।
उक्तः कुशलादिभावः ।

[०२०।१६]
एषामष्टादशधातूनां कति कामधात्वाप्ताः कति रूपधात्वाप्ताः ।

[०२०।१७]
कामधात्वाप्ताः सर्वे

[०२०।१८]
आप्ता अवियुक्ताः कामधातुप्रतिसंयुक्ता इत्यर्थः ।

[०२०।१९]
रुपे चतुर्दश ।

[०२०।२०]
रूपधातौ चतुर्दश धातवः ।

[०२०।२१]
विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः ॥ १.३० ॥

[०२०।२२]
तत्र हि गन्धरसौ न स्तः ।

[०२०।२२-०२०।२३]
तयोः कवडीकाराहारत्वात्तद्द्वीतरागाणां च तत्रोपपत्तेः ।

[०२०।२३]
ततो घ्राणजिह्वाविज्ञाने अपि न स्तः ।

[०२०।२३-०२०।२४]
आलम्बनाभावात् ।

[०२०।२४]
एवं तर्हि स्प्रष्टव्यधातोरपि तत्रभावप्रसङ्गः ।
कवडीकाराहारत्वात् ।

[०२०।२५]
यो नाहारस्वभावः स तत्रास्ति ।
गन्धरसयोरप्येष प्रसङ्गः ।

[०२०।२५-०२०।२६]
नास्ति विनाऽभ्यवहारेण गन्धरसयोः परिभोगः ।

[०२०।२६-०२१।०१]
अस्ति तु स्प्रष्टव्यस्येन्द्रियाश्रयाधारप्रावरणभावेन ।

[०२१।०१-०२१।०२]
तस्मादभ्यवहारवीतरागाणां गन्धरसौ तत्र निष्प्रयोजनौ न तु स्प्रष्टव्यम् ।

[०२१।०२]
अन्ये पुनराहुः ।

[०२१।०२-०२१।०३]
ध्यानसमापत्तिसनिश्रयेणेह रूपाणि संदृश्यन्ते शब्दाश्च श्रूयन्ते ।

[०२१।०३]
प्रस्रब्धिसहगतेन स्प्रष्टव्य विशेषेण च कायोऽनुगृह्यते ।

[०२१।०३-०२१।०४]
अत एषामेव त्रयाणां ध्यानोपपत्तौ संभवो न गन्धरसयोरिति ।

[०२१।०४]
एवं तर्हि घ्राणजिह्वेन्द्रिययोरभावप्रसङ्गो निष्प्रयोजनत्वात् ।

[०२१।०५]
अस्ति प्रयोजनम् ।

[०२१।०५-०२१।०६]
ताभ्यां हि विनाऽ श्रयशोभैव न स्यादिति व्यवहार्श्च ।

[०२१।०६-०२१।०७]
यद्येतत्प्रयोजनमधिष्ठानमेवास्तु शोभार्थं वचनार्थं च मा भूदिन्द्रियम् ।

[०२१।०७]
नानिन्द्रियमधिष्ठानं संभवति ।
पुरुषेन्द्रियाधिष्ठानवत् ।

[०२१।०७-०२१।०८]
युक्तस्तदसंभवो निष्प्रयोजनत्वात् ।

[०२१।०८-०२१।०९]
घ्राणजिह्वाधिष्ठानं तु सप्रयोजनम्

[०२१।०९]
अतोऽस्य विनाऽपीन्द्रियेण युक्तः संभवः ।

[०२१।०९-०२१।१०]
निःप्रयोजनाऽपीन्द्रियाभिनिर्वृत्तिर्भवति ।

[०२१।१०]
यथा गर्भे नियतमृत्यूनाम् ।
स्यान्नाम निःप्रयोजना न तु निर्हेतुका ।

[०२१।११]
कश्च हेतुरिन्द्रियोत्पत्तेः ।
इन्दरियसतृष्णस्य कर्मविशेषः ।

[०२१।११-०२१।१२]
यश्च विषयाद्वितृष्णः स नियतमिन्द्रियादपीति ।

[०२१।१२]
न तद्विषयवीतरागाणां घ्राणजिह्वेन्द्रिये संभवितुमर्हतः ।

[०२१।१३]
पुरुषेन्द्रैयमपि वा किं न निवर्त्तते ।
अशोभाकरत्वात् ।

[०२१।१३-०२१।१४]
कोशगतवस्तिगुह्यानां किं न शोभेत ।

[०२१।१४]
न च प्रयोजनवशादुत्पत्तिः ।
किं तर्हि ।

[०२१।१४-०२१।१५]
कारणवशादित्यशोभाकरस्यापि स्यादेव सति हेतावुत्पत्तिः ।

[०२१।१५]
सूत्रं तर्हि विरुध्यते ।

[०२१।१५-०२१।१६]
“अविकला अहीनेन्दरिया” इति ।

[०२१।१६]
यानि तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति कोऽत्र विरोधः ।

[०२१।१६-०२१।१७]
इतरथा हि पुरुशेन्द्रियस्यापि स्यात्प्रसङ्गः ।

[०२१।१७]
एवं तुवर्णयन्ति ।

[०२१।१७-०२१।१८]
स्त एव तत्र घ्राणजिव्हेन्द्रिये न तु गन्धरसौ ।

[०२१।१८]
आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारो न विषयमुखेन ।

[०२१।१९]
पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति ।
तस्मात्सिद्धमेतद्रूपधात्वाप्ताश्चतुर्दश धातव इति ।

[०२१।२०]
आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः ।

[०२१।२१-०२१।२२]
रूपवीतरागाणां तत्रोपपत्तिरतोऽत्र दश रूपस्वभावा धातवस्तदाश्र्रयालम्बनाश्च पञ्च विज्ञानधातावो न संभवन्ति ॥

[०२१।२३]
कति सास्रवाः कत्यनास्रवाः ।
य एते मनोधर्ममनोविज्ञानधातव उक्ताः

[०२१।२४]
सास्रवानास्रवा एते त्रयः

[०२१।२५]
ये मार्गसत्यासंस्कृतसंघृहीतास्तेऽनास्रवा अन्ये सास्रवाः ।

[०२१।२६]
शेषास्तु सास्रवाः ॥ १.३१ ॥

[०२२।०१]
पञ्चदश धातवः शेषास्त्वेकान्तसास्रवाः ॥

[०२२।०२]
कति सवितर्काः सविचाराः कत्यवितर्का विचारमात्राः कत्यवितर्का अविचाराः ।

[०२२।०३]
सवितर्कविचारा हि पञ्च विज्ञानधातवः ।

[०२२।०४]
नित्यमेते वितर्कविचाराभ्यां संप्रयुक्ताः ।
अवधारणार्थो हिशब्दः ।

[०२२।०५]
अन्त्यास्त्रयस्त्रिप्रकाराः

[०२२।०६]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्चान्त्याः
एते त्रयस्त्रिप्रकाराः ।

[०२२।०६-०२२।०८]
तत्र मनोधातुर्मनोविज्ञानधातुः संप्रयुक्तश्च धरमधातुरन्यत्र वितर्कविचाराभ्यां कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः ।

[०२२।०८]
ध्यानान्तरेऽवितर्का विचारमात्राः ।

[०२२।०८-०२२।०९]
द्वितीयाद्ध्यानात्प्रभृत्याभवाग्रादवितर्का अविचाराः ।

[०२२।०९-०२२।१०]
सर्वश्चासंप्रयुक्तो धर्मधातुर्ध्यानातरे अच विचारः ।

[०२२।१०-०२२।११]
वितर्कस्तू नित्यमविअतर्को विचारमात्रो द्वितीयवितर्काभावात्विचारसंप्रयोगाच्च ।

[०२२।११]
कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु नान्तर्भवति ।

[०२२।११-०२२।१२]
स कथं वक्तव्यः ।

[०२२।१२]
अविचारो वितर्कमातरः ।
द्वितीयविचाराभावात्वितर्कसंप्रयोगाच्च ।

[०२२।१३]
अत एवोच्यते “स्युः सवितर्कसविचारायां भूमौ धर्माश्चतुःप्रकाराः ।

[०२२।१४]
सवितर्काः सविचारा विचारवितर्कवर्ज्याः संप्रयुक्ताः ।

[०२२।१४-०२२।१५]
अवितर्को विचारमात्रो वितर्कः ।

[०२२।१५]
अवितर्का अविचारा असंप्रयुक्ताः ।
अविचारो वितर्कमात्रो विचार” इति ।

[०२२।१६]
शेषा उभयवर्जिताः ॥ १.३२ ॥

[०२२।१७]
दश रुपिणो धातवः शेषा नित्यमवितर्का अविचारा असंप्रयोगित्वात् ॥

[०२२।१८]
यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः कथमविकल्पका इत्युच्यन्ते ।

[०२२।१९]
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।

[०२२।२०]
त्रिविधः किल विकल्पः ।
स्वभावाभिनिरूपणानुस्मरणविकल्पः ।

[०२२।२०-०२२।२१]
तदेषां स्वभावविकल्पोऽस्ति ।

[०२२।२१]
नेतरौ ।
तस्मादविकल्पका इत्युच्यन्ते ।

[०२२।२१-०२२।२२]
यथा एकपादकोऽश्वोऽपादक इति ।

[०२२।२२]
तत्र स्वभावविकल्पो वितर्कः ।
स चैत्तेषु पश्चान्निर्देक्ष्यते ।

[०२२।२२-०२२।२३]
इतरौ पुनः किंस्वभावौ ।

[०२२।२३]
यथाक्रमं

[०२२।२४]
तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥ १.३३ ॥

[०२२।२५]
मनोविज्ञानसंप्रयुक्ता प्रज्ञा मानसीत्युच्यते ।
असमाहिता व्यग्रेत्युच्यते ।

[०२२।२५-०२२।२६]
सा ह्यभिनिरूपणाविकल्पः ।

[०२२।२६]
मानस्येव सर्वा स्मृतिः समाहिता चासमाहिता चानुस्मरणविकल्पः ।

[०२२।२७]
कति सालम्बनाः कत्यनालम्बनाः ।

[०२३।०१]
सप्त सालम्बनाश्चित्तधातवः

[०२३।०२-०२३।०३]
चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो मनोधातुश्च एते सप्त चित्तधातवः सालम्बना विषयग्रहणात् ।

[०२३।०४-०२१।०४]
अर्धं च धर्मतः ।

[०२३।०५]
सालम्बनं यच्चैतसिकस्वभावम् ।

[०२३।०५-०२३।०६]
शेषा दश रूपिणो धातवो धर्मधातुप्रदेशश्चासंप्रयुक्तकोऽनालम्बना इतिसिद्धम् ।

[०२३।०७]
कत्युपात्ताः कत्यनुपात्ताः ।

[०२३।०८]
नवानुपात्ताः ।

[०२३।०९]
कतमे नव ।
ये सप्त सालम्बना उक्ताः अष्टमष्यार्धेन सार्धम् ।

[०२३।१०]
ते चाष्टौ शब्दश्च

[०२३।११]
इमे ते नवानुपात्ताः ।
सप्त चित्तधातवो धर्मधातुः शब्दधातुश्च ।

[०२३।१२]
अन्ये नव द्विधा ॥ १.३४ ॥

[०२३।१३-०१३।१३]
उपात्ता अनुपात्ताश्च ।

[०२३।१३]
तत्र चक्षुःश्रोत्रघ्राणजिह्वाकायाः प्रत्युत्पन्ना उपात्ताः ।

[०२३।१४]
अतीतानागता अनुपात्ताः ।

[०२३।१४-०२३।१५]
रूपगन्धरसस्प्रष्टव्यधातवः प्रत्युत्पन्ना इन्द्रियाविनिर्भागिण उपात्ताः ।

[०२३।१५-०२३।१६]
अन्येऽनुपात्तास्तद्यथा मूलवर्जेषु केशरोमनखदन्तेषु विण्मूत्रखेटसिंघाणकशेणितादिषु भूम्युदकादिषु च ।

[०२३।१६]
उपात्तमिति कोऽर्थः ।

[०२३।१६-०२३।१७]
यच्चित्तचैत्तैरधिष्ठानभावेनोपिअगृहीतमनुग्रहोपघाताभ्यामन्योन्यानुविधानात् ।

[०२३।१७]
यल्लोके सचेतनमित्युच्यते ।

[०२३।१८]
कति धातवो भूतस्वभावाः कति भौतिकाः ।

[०२३।१९]
स्प्रष्टव्यं द्विविधं

[०२३।२०]
भूतानि भौतिकं च ।
तत्र भूतानि चत्वारि ।
भौतिकं श्लक्ष्णत्वादि सप्तविधम् ।

[०२३।२१]
भूतेषु भवत्वात् ।

[०२३।२२]
शेषा रूपिणो नव भौतिकाः ।

[०२३।२३]
पञ्चेन्द्रियधातवश्च चत्वारो विषयाः ।
एते नव धातवो भौतिका एव ।

[०२३।२४]
धर्मधात्वेकदेशश्च

[०२३।२५]
अविज्ञप्तिसंज्ञको भौतिकः ।

[०२३।२५-०२४।०१]
शेषाः चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथा ।

[०२४।०१-०२३।०१]
“भूतमात्रं दशायतनानी”ति भदन्त्ब्दुद्धदेवः ।

[०२४।०१-०२४।०२]
तच्च नैवं भूतानां चतुष्ट्व खक्खटादिलक्षणावधारणात्सूत्रे ।

[०२४।०२]
तेषां स्प्रष्टव्यत्वात् ।

[०२४।०२-०२४।०३]
न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते नापि वर्णादयः कायेन्द्रियेण ।

[०२४।०३-०२४।०५]
उक्तं च सूत्रे “चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय रूपप्रसादो अरुप्यनिदर्शनं सप्रतैघमेवं यावत्कायः

[०२४।०५-०२४।०६]
रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरुपि सनिदर्शनं सप्रतिघम् ।

[०२४।०६-०२४।०७]
शब्दो भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादाय रुप्यनिदर्शनं सप्रतिघम् ।

[०२४।०७]
एवं गन्धरसाः ।

[०२४।०७-०२४।०८]
स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघमि”ति ।

[०२४।०९]
स्प्रष्ट्र्व्यायतनिकदेशेनैव भूतानां संग्रहाच्छेषं न भूतानीति स्पष्टमादर्शितम् ।

[०२४।०९-०२४।१०]
यत्तर्हि सूत्रे उक्तं “यच्चक्षुषि मंसपिण्डे खक्खटं खरगतमि”ति

[०२४।१०-०२४।११]
तेनाविनिर्भदिवर्त्तिनो मंसपिण्ड्स्यैष उपदेशः ।

[०२४।११-०२४।१२]
षड्धातुरयं भिक्षो पुरुष”इति गर्भवक्रान्तौ मौलसत्त्वद्रव्यसंदर्शनार्थम् ।

[०२४।१२]
पुनः षट्स्पर्श्यतनवचनाच्चैत्ताभावप्रसङ्गाच्च ।

[०२४।१२-०२४।१३]
न च युक्तं चित्तमेव चैत्ता इत्यभ्युपेतुम् ।

[०२४।१३-०२४।१४]
“संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रितऽ इति सूत्रे वचनात्सरागचित्तादि वचनाच्च ।

[०२४।१५]
तस्माच्यथोक्तं धातूनं भूतभौतिकत्वम् ।

[०२४।१६]
कति संचिताः कत्यसंचिताः ।

[०२४।१७]
संचिता दश रूपिणः ॥ १.३५ ॥

[०२४।१८]
पञ्चेन्द्रियधातवः पञ्च विषयाः संचिताः ।

[०२४।१८-०२४।१९]
परमाणुसंघातत्वात्शेषा न संचिता इति सिद्धं भवति ॥

[०२४।२०-०२४।२१]
अष्टादशानं धातूनां कश्छीनत्ति कशिचिआद्यते को दहति को दह्यते कस्तुलयति कस्तुल्यते ।

[०२४।२२]
छिनत्ति च्छिद्यते चैव बाह्यं धातुए चतुष्टयम् ।

[०२४।२३]
रूपगन्धरसस्प्रष्टव्याख्यं परशुदार्वादिसंज्ञकम् ।
छेदो नाम क एष धर्मः ।

[०२४।२३-०२४।२४]
संबन्धोत्पादिनः संघातस्रोतसो विभक्तोत्पादनम् ।

[०२४।२४]
न कायेन्द्रियादीनि च्छिद्यन्ते ।

[०२४।२४-०२४।२५]
निरवशेषाङ्गच्छेदे तदद्वैधीकरणात् ।

[०२४।२५]
न हीन्द्रियाणि द्विधा भवन्ति ।

[०२४।२५-०२४।२६]
छिन्नस्याङ्गस्य निरिन्द्रियत्वात् ।

[०२४।२६]
न चापि च्छिन्दन्ति ।
मणिप्रभावदन्धत्वात् ।

[०२४।२६-०२४।२७]
यथा च्छिनत्ती च्छियते चैव बाह्यं धातुचतुष्टयम् ।

[०२५।०१]
दह्यते तुलयत्येवं

[०२५।०२]
तदेव दह्यते तदेव तुलयति ।
नेन्द्रियाण्यच्छत्वान्मणिप्रभावत् ।
न शब्द उछेदित्वात् ।

[०२५।०३]
विवादो दग्धृतुल्ययोः ॥ १.३६ ॥

[०२५।०४]
केचिदाहुः तदेव धातुचतुष्टयं दाहकं तुल्यं च

[०२५।०४-०२५।०५]
केचिदाहुस्तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति ।

[०२५।०६-०२५।०७]
कति विपाकजाः धातवः कत्यौपचयिकाः कति नैह्ष्यन्दिकाः कति द्रवयुक्ताः कति क्षणिकाः ।

[०२५।०७]
आह ।

[०२५।०८]
विपाकजौपचयिकाः पञ्चाध्यात्मम् ।

[०२५।०९-०२५।१०]
अध्यात्मं तावत्पञ्च धातवः चक्षुरादयो विपाकजाश्चौपचयिकाश्च ।

[०२५।१०]
नैःष्यन्दिका न सन्ति ।
तद्व्यतिरिक्तनिष्यन्दाभावात् ।

[०२५।१०-०२५।११]
तत्र विपाकहेतोर्जाताः विपाकजाः ।

[०२५।११]
मध्यपदलोपात्गोरथवत् ।

[०२५।११-०२५।१२]
फलकालप्राप्तं वा कर्म विपाक इत्युच्यते ।

[०२५।१२]
विपच्यत इति कृत्वा ।
तस्माज्जाता विपाकजाः ।

[०२५।१२-०२५।१३]
फलं तु विपक्तिरेवेति विपाकः ।

[०२५।१३]
भवतु फलहेतौ फलोपचारो यथा फले हेतूपचारः ।

[०२५।१३-०२५।१४]
“षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यम्”इति ।

[०२५।१४-०२५।१५]
आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिकाः ।

[०२५।१५]
ब्रह्ंचर्येण चेत्येके ।
अनुपघातमात्रं तु तेन स्यान्नोपचयः ।

[०२५।१५-०२५।१६]
विपाकसन्तानस्योपचयसन्तानः प्रतिप्राकार इवारक्षा ।

[०२५।१६-०२५।१७]
शब्द औपचयिको नैःष्यन्दिकश्चास्ति ।

[०२५।१८]
विपाकजः ।

[०२५।१९]
न शब्दः

[०२५।२०]
किं कारणम् ।
ईहातः प्रवृत्तेः ।

[०२५।२०-०२५।२१]
यत्तर्हि प्रज्ञप्तिशास्त्रे उक्तं “पारुष्यविरतेः सुभावितत्वाद्ब्रह्मस्वरता महापुरुषलक्षणं निर्वर्त्त इति ।

[०२५।२१]
तृतीयाऽसौ परंपरेत्येके ।

[०२५।२२]
कर्मभ्यो हि भूतानि भूतेभ्यः शब्दः इति ।
पञ्चम्यसौ परंपरेत्यपरे ।

[०२५।२२-०२५।२४]
कर्मभ्यो हि विपाकजानि महाभूतानि तेभ्यश्चौपचयिकानि तेभ्यो नैःष्यन्दिकानि तेभ्यः शब्द इति ।

[०२५।२४-०२५।२५]
एवं तर्हि शाही हिक्यपि वेदना कर्मजभूतसंभूतत्वान्न विपाकः प्रप्नोति ।

[०२५।२५]
यदि शब्दवद्युक्तिविरोधः स्यात् ।

[०२५।२६]
अप्रतिघा अष्टौ नैःष्यन्दिकविपोआकजाः ॥ १.३७ ॥

[०२५।२७]
कतमेऽष्टौ ।
सप्त चित्तधातवो धर्मधातुश्च ।
नैःष्यन्दिकाः सभागसर्वत्रगहेतुजनिताः ।

[०२६।०१]
विपाकजा विपाकहेतुजनिताः ।
औपचयिका न सन्त्यप्रतिघानां सञाभावात् ।

[०२६।०२]
त्रिधाऽन्ये

[०२६।०३]
अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः ।

[०२६।०३-०२६।०४]
ते विपाकजा अप्यौपचयिका अपि नैःष्यन्द्रिका अपि ।

[०२६।०५]
द्रव्यवानेकः

[०२६।०६]
असंस्कृतं हि सारत्वाद्द्रव्यम् ।
तच्च धर्मधातावस्त्यतो धर्मधातुरेको द्रव्ययुक्तः ।

[०२६।०७]
क्षणिकाः पश्चिमास्त्रयः ।

[०२६।०८]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः ।

[०२६।०८-०२६।०९]
ते प्रथमानास्रवे दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्त्यतः क्षणिका इत्युच्यन्ते ।

[०२६।०९-०२६।१०]
अन्यसंभूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः ।

[०२६।१०-०२६।११]
तत्र दुःखे धर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर्मनोविज्ञानधातुश्च ।

[०२६।११]
शेषास्तत्सहभुवो धर्मधातुः ॥

[०२६।१२-०२५।१२]
इदं विचार्यते ।

[०२६।१२-०२६।१३]
यश्चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनाऽपि सः ।

[०२६।१३]
यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुनाऽपि सः ।
आह ।

[०२६।१४]
चक्षुर्विज्ञानधात्वोः स्यात्पृथक्लाभः सहापि च ॥ १.३८ ॥

[०२६।१५]
पृथक्तावत्स्याच्चक्षुर्धातुना न चक्षुर्विज्ञानधातुना ।

[०२६।१५-०२६।१६]
कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः ।

[०२६।१६]
आरुप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः ।

[०२६।१६-०२६।१७]
स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना ।

[०२६।१७-०२६।१८]
द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञान संमुखीकुर्वाणस्तत्प्रच्युतश्चाधस्तादुपपद्यमानः ।

[०२६।१८-०२६।१९]
सहापि स्यादुभयेन समन्वागमं प्रतिलभते ।

[०२६।१९]
आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः ।
नोभयेन ।

[०२६।२०]
एतानाकारान् स्थापयित्वा ।
यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुनाऽपि सः ।

[०२६।२१]
चतुष्कोटिकः ।
प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासंमुखीकुर्वाणः ।

[०२६।२२]
द्वितीया कामधातावलब्धविहीन चक्षुः ।

[०२६।२२-०२६।२३]
तृतीया कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् ।

[०२६।२३-०२६।२४]
चतुऋथ्येतानाकारान् स्थापयित्वा ।

[०२६।२४-०२६।२५]
एवं चक्षुर्धातुरूपधात्वोश्चक्षुर्विज्ञानरूपधात्वोश्च प्रतिलम्भसमन्वागमौ यथायोगमभ्यूहितव्यौ ।

[०२६।२५]
एतस्य प्रसङ्गस्य समुच्चयार्थश्चशब्दः सहापि च इति ।

[०२७।०१]
कत्याध्यात्मिका धातवः कति बाह्याः ।

[०२७।०२]
द्वादशाध्यात्मिकाः

[०२७।०३]
कतमे द्वादश ।

[०२७।०४]
हित्वा रूपादन्

[०२७।०५]
षड्विज्ञानानि षडाश्रया इत्येते द्वादश धातव आध्यात्मकाः ।

[०२७।०५-०२७।०६]
रूपादयस्तु षड्विषयधातवो बाह्याः ।

[०२७।०६]
आत्मन्यसति कथमाध्यात्मिकं बाह्यं वा ।

[०२७।०६-०२७।०७]
अहङ्कारसन्निश्रयत्वाच्चित्तमात्मेत्युपचर्यते ।

[०२७।०८]
“आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः”

[०२७।०९-०२६।०९]
इत्युक्तम् ।

[०२७।०९]
चित्तस्य चान्यत्र दमनमुक्तं भगवता ।

[०२७।१०]
“चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्” इति ।

[०२७।११]
अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् ।

[०२७।११-०२७।१२]
चक्षुरादीनामाध्यात्मिकत्वं रूपादीनां विषयभावाद्बाह्यत्वम् ।

[०२७।१२-०२७।१३]
एवं तर्हि षड्विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति ।

[०२७।१३]
न ह्येते मनोधातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति ।

[०२७।१३-०२७।१४]
यदा तदा त एव ते भवन्तीति लक्षणं नातिबर्त्तन्ते ।

[०२७।१४-०२७।१५]
अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः ।

[०२७।१५]
इष्यन्ते चाष्टादश धातवस्त्रैयध्विकाः ।

[०२७।१५-०२७।१६]
यदि चानागतप्रत्युत्पन्नस्य विज्ञानस्य मनोधातुलक्षणं न स्याततीतेऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत ।

[०२७।१७]
नहि लक्षणस्याध्वसु व्यभिचारोऽस्तीति ॥

[०२७।१८]
कति धातवः सभागाः कति तत्सभागाः ।
एकान्तेन तावत्
[०२७।१९]
धर्मसंज्ञकः ।

[०२७।२०]
सभागः

[०२७।२१-०२७।२२]
यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्तं भवत्युत्पत्तिधर्मि वा एवं स विषयः सभाग इत्युच्यते ।

[०२७।२२-०२७।२३]
न च सोऽस्ति कश्चिद्धर्मधातुर्यत्र नानन्तं मनोविज्ञानमुत्पन्नमुत्पत्स्यते वा ।

[०२७।२३-०२७।२४]
तथा हि सर्वार्यपुद्गलानामिदं चित्तमवश्यमुत्पद्यते “सर्वधर्मा अनात्मान” इति ।

[०२७।१४-०२७।२५]
तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम् ।

[०२७।२५-०२७।२६]
स पुनश्चित्तक्षणोऽन्यस्य चित्तक्षणस्यालम्बनमिति द्वयोः क्षणयोः सर्वधर्मा ह्यालम्बनं भवन्ति ।

[०२७।२६]
तस्माद्धर्मधातुअर्नित्यं सभागः ।

[०२७।२७]
तत्सभागाश्च शेषाः

[०२७।२८]
सभागश्चेति चशब्दः ।
कोऽयं तत्सभागो नाम ।

[०२८।०१]
यो न स्वकर्मकृत् ॥ १.३९ ॥

[०२८।०२]
उक्तं भवति यः स्वकर्मकृत्स सभाग इति ।

[०२८।०२-०२८।०३]
तत्र येन चक्षुषा रूपाण्यपश्यत्पश्यति द्रक्ष्यति वा तदुच्यते सभागमचक्षुः ।

[०२८।०३-०२८।०४]
एवं यावन्मनः स्वेन विषयकारित्रेण वक्तव्यम् ।

[०२८।०४]
तत्सभागं चक्षुः काश्मीराणां चतुर्विधम् ।

[०२८।०४-०२८।०५]
यद्दृष्ट्वा रूपाणि निअरुद्धं निरुध्यते निरोत्स्यते वा यच्चानुत्पत्तिधर्मि ।

[०२८।०५-०२८।०६]
पाश्चात्त्यानां पुनः पञ्चविधम् ।

[०२८।०६]
तदेवानुत्पत्तिधर्मि द्विधा कृत्वा विज्ञानसमायुक्तं चासमायुस्क्तं च ।

[०२८।०७]
एवं यावत्कायो वेदितव्यः ।
मनस्त्वनुत्पत्तिधर्मकमेव तत्सभागम् ।

[०२८।०७-०२८।०८]
रूपाणि च यानि चक्षुषाऽपशायत्पश्यति द्रक्ष्यति वा तानि सभागानि ।

[०२८।०८]
तत्सभागानि चतुर्विधानि ।

[०२८।०९]
यान्यदृष्टान्येव निरुद्धानि निरुध्यन्ते निरुत्स्यन्ते वा यानि चानुत्पत्तिधर्मीणि ।

[०२८।०९-०२८।१०]
एवं यावत्स्प्रष्टव्यानि ।

[०२८।१०]
स्वेन्द्रियकारित्रेण सभागतत्सभागानि वेदितव्यानि ।

[०२८।१०-०२८।११]
यदेकस्य चक्षुः सभागं तत्सर्वेषाम् ।

[०२८।११]
एवं तत्सभागमपि ।

[०२८।११०-०२८११]
तथ यावन्मनः ।

[०२८।११-०२८।१२]
रूपं तु यः पश्यति तस्य सभागं यो न पश्यति तस्य तत्सभागम् ।

[०२८।१२]
किं कारणम् ।

[०२८।१२-०२८।१३]
अस्ति हि संभवो यद्रूपमेकः पश्यति तद्धवोऽपि पश्येयुर्यथा चन्द्रनट्मल्लप्रेक्षासु ।

[०२८।१३-०२८।१४]
नतु संभवोऽस्ति यदेकेन चक्षुषा द्वौ पश्येताम् ।

[०२८।१४]
अतोऽस्यासाधारणत्वादेकसन्तानवशेन व्यवस्थानम् ।

[०२८।१५]
रूपस्य तु साधारणत्वातनेकसन्तानवशेन ।

[०२८।१५-०२८।१६]
यथा रौपमेवं शब्दगन्धरसस्प्रष्टव्यधातवो वेदितव्याः ।

[०२८।१६]
भवतु शब्द एवम् ।

[०२८।१६-०२८।१८]
गन्धादयस्तु य एकेन गृह्यन्ते न तेऽन्येन प्राप्तगृहणादित्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः ।

[०२८।१८]
अस्त्येतदेवमपि त्वेशामपि संभवं प्रति साधारणत्वम् ।

[०२८।१८-०२८।१९]
अस्ति ह्येष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपि ।

[०२८।२०]
न त्वेवं चक्षुरादयः ।
तस्मान्देषां रूपादिवदतिदेशः ।

[०२८।२०-०२८।२१]
चक्षुर्विज्ञानादीनां सभागतत्सभागत्वमुत्पत्त्यनुत्पत्तिधर्मित्वाद्यथा मनोधातोः ।

[०२८।२२]
सभाग इति कोऽर्थः ।

[०२८।२२-०२८।२३]
इन्द्रियविषयविज्ञानानामन्योन्यभजनं कारित्रभजनं वा भागः ।

[०२८।२३]
स एषामस्तीति सभागः ।
स्पर्शसमानकार्यत्वाद्वा ।

[०२८।२३-०२८।२४]
ये पुनरसभागास्ते तेषा सभागानां जातिसामान्येन सभागत्वात्तत्सभागाः ।

[०२८।२५]
कति धातवो दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः ।
रूपिणस्तावत्

[०२८।२६]
दश भावनया हेयाः पञ्च च

[०२८।२७]
विज्ञानधातवः ।

[०२८।२८]
अन्त्यास्त्रयस्त्रिधा ।

[०२८।२९]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च ।
एते त्रयो धातवः पाठानुपूर्व्याऽन्त्यास्त्रिप्रकाराः ।

[०२९।०१]
अष्टाशीत्यनुशयाः तत्सहभुवस्तत्प्रप्तयशाच सानुचरा दऋशनहेयाः ।

[०२९।०१-०२९।०२]
शेषाः सास्रवा भावनाहेयाः ।

[०२९।०२]
अनास्रवा अहेयाः ।

[०२९।०२-०२९।०३]
ननु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म ।

[०२९।०३-०२९।०४]
आर्यमार्गविरोधित्वात्न तद्दऋशनप्रहातव्यम् ।

[०२९।०४]
एष हि संक्षेपः ।

[०२९।०५]
न दृष्टिहेयमक्लिष्टं न रूपं नाप्यडड्त्ःजं

[०२९।०६]
नास्ति किञ्चिदक्लिष्टं दर्शनप्रहातव्यं नापि रूपम् ।

[०२९।०६-०२९।०७]
अक्लिष्टव्याकृतं च पृथग्जनत्वम् ।

[०२९।०७]
समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वामत्रूपं कायवाक्कर्म ।

[०२९।०८]
तस्मान्न दर्शनप्रहातव्यम् ।

[०२९।०८-०२९।०९]
सत्येष्व विप्रतिपत्तेर्दुःखे धर्मज्ञानक्षान्तौ प्र्थग्जनत्वप्रसङ्गाच्च ।

[०२९।१०]
नाप्यषष्टजम् ॥ १.४० ॥

[०२९।११]
षष्ठमुच्यते मन आयतनम् ।

[०२९।११-०२९।१२]
तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियजं च यत्तदपि नास्ति दर्श्नप्रहातव्यम् ॥

[०२९।१३]
अष्टादशानां धातूनां कति दृष्टिः कति न दृष्टिः ।

[०२९।१४]
चक्षुश्च धर्मधातोश्च प्रदेशु दृष्टिः

[०२९।१५]
कतमः स इत्याह

[०२९।१६]
अष्टधा ।

[०२९।१७-०२९।१८]
पञ्च सत्कायदृष्ट्यादिका दृष्टयः लौकिकी सम्यग्दृष्टिः शैङ्क्षी दृष्टिरशैक्षी दृष्टिरित्ययमष्टप्रकारो धर्मधातुर्दृष्टि रव्रशिष्टो न दृष्टिः ।
तत्र सत्कायदृष्ट्यादीनामनुशायनिर्देशे निर्द्देशः प्राप्तकालो भविष्यति ।

[०२९।१९-०२९।२०]
लौकिकी पुनः सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्ता कुशलसास्रवा प्रज्ञा ।

[०२९।२०-०२९।२१]
शैक्षस्यनास्रवा दृष्टिः षैक्षी अशैक्षस्य अक्शैक्षी ।

[०२९।२१-०२९।२२]
समेघामेघरत्रिन्दिवरूपदर्शनवत्क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् ।

[०२९।२२]
अथ कस्माल्लौदिकी सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्तैवोच्यते ।

[०२९।२३]
यस्मात् ।

[०२९।२४]
पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् ॥ १.४१ ॥

[०२९।२५]
सन्तीरिका हि दृष्टिरुपध्यानप्रवृत्तत्त्वात् ।
न चैवं पञ्चविज्ञानसहाजा प्रज्ञा ।

[०३०।०१]
तस्माद्सौ न दृष्टिः ।
अत एव चान्याऽपि क्लिष्टाऽक्लिष्टा वा प्राज्ञा न दृष्टिः ।

[०३०।०२]
चक्षुरिदानीमसन्तीरकत्वे कथं दृष्टिः ।
रूपालोचनार्थेन ।
यस्मात्

[०३०।०३]
चक्षुः पश्यति रूपाणि

[०३०।०४]
यदि चक्षुः पश्येदन्यविज्ञानसमङ्गिनोऽपि पश्येत् ।
न वै सर्वं चक्षुः पश्यति ।
किं तर्हि ।

[०३०।०५]
सभागं

[०३०।०६]
सविज्ञानकं यदा भवति तदा पश्यत्यन्यदा नेति ।

[०३०।०६-०३०।०७]
एवं तर्हि तदेव चक्षुराश्रितं विज्ञानं पश्यतीत्यस्तु ।

[०३०।०८]
न तदाश्रितम् ।

[०३०।०९]
विज्ञानं

[०३०।१०]
पश्यतीति शस्यमविज्ञातुम् ।
किं कारणम् ।

[०३०।११]
दृश्यते रूपं न किलान्तरितं यतः ॥ १.४२ ॥

[०३०।१२]
यस्मात्किल रूपं कुड्यादिव्यवहितं न दृश्यते ।

[०३०।१२-०३०।१३]
यदि हि विज्ञानं पश्येत्तस्स्याप्रतिघत्वात्कुड्यादिषु प्रतिघातो नास्ति इत्य्वाऋतमपि रूपं पश्येत् ।

[०३०।१३-०३०।१४]
नैव हावृते चक्षुर्विज्ञानमुत्पद्यत इत्यनुत्पन्नं कथं द्रक्ष्यति ।

[०३०।१४]
किं खलु नोत्पद्यते ।

[०३०।१४-०३०।१६]
यस्य तु चक्षुः पश्यति तस्य चक्षुषः सपरतिघत्वाद्व्ययवहिते वृत्त्यभाव इति विज्ञानस्यानुत्पत्ति राश्रयेणैक विषयप्रवृत्तत्वात्युज्यते ।

[०३०।१६-०३०।१७]
किं नु वै चक्षुः प्राप्तविषयं कायेन्द्रियवत्यत आवृतं न पश्येत् ।

[०३०।१७]
सप्रतिघत्वात् ।

[०३०।१७-०३०।१८]
काचाभ्रपटलस्फटिकाम्बुभिश्चान्तरितं कथं दृश्यते ।

[०३०।१८]
सप्रतिघत्वाच्चक्षुष आवृतस्य रूपस्यादर्शनम् ।

[०३०।१९]
किं तर्हि ।

[०३०।१९-०३०।२०]
यत्रालोकस्याप्रतिबन्ध आवृतेऽपि रुपे तत्रोपपद्यत एव चक्षुर्विज्ञानम् ।

[०३०।२०-०३०।२१]
यत्र तु प्रतिबन्धस्तत्र नोत्पद्यत इत्यनुत्पन्नत्वादावृतं नेक्ष्यते ।

[०३०।२१]
यत्तर्हि सूत्र उक्तं “चक्षुषा रूपाणि दृष्ट्वे”ति ।

[०३०।२१-०३०।२२]
तेनाश्रयेणेत्ययमत्राभिसन्धिर्यथा “मनसा धर्मान् विज्ञाये” त्याह ।

[०३०।२२-०३०।२३]
न च मनो धर्मान् विजानाति ।

[०३०।२३]
अतीतत्वात् ।
किं तर्हि ।
मनोविज्ञानम् ।

[०३०।२३-०३०।२४]
आश्रितकर्म वा आश्रयस्योपचर्यते ।

[०३०।२४]
यथा मञ्चाः क्रोशन्तीति ।

[०३०।२४-०३०।२५]
यथा च सूत्र उक्तं “चक्षुर्विज्ञेयानि रूपाणीष्टानि कान्तानि”ति ।

[०३०।२५]
न च तानि चक्षुषा विज्ञायन्ते ।

[०३०।२५-०३०।२७]
उक्तं च सूत्रे “चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दर्शनाय” इत्यतो गम्यते चक्षुषा द्वारेण विज्ञानं पश्यतीति ।
श्

[०३०।२७]
दर्शने तत्र द्वाराख्या ।
नह्येतद्युज्यते ।
चक्षुर्दार्शनमरूपाणां दर्श्नायेति ।

[०३१।०१]
यदि विज्ञानं क्पश्यति को विजानाति कश्चानयोर्विशेषः ।

[०३१।०१-०३१।०२]
यदेव हि रूपस्य विज्ञानं तदेवास्य दर्श्नमिति ।

[०३१।०२-०३१।०३]
तद्यथा काचित्प्रज्ञा पश्यतीत्यप्युच्यते प्रजानातीत्यप्येवं किञ्चिद्विज्ञानं पश्यतीत्यप्युच्याते विजानातीत्यपि ।

[०३१।०३]
अन्ये पुनराहुः ।

[०३१।०३-०३१।०४]
“यदि चक्षुः पश्यति कर्तृभूतस्य चक्षुषः काऽन्या दृशिक्रिये”ति वक्तव्यम् ।

[०३१।०४]
तदेतदचोद्यम् ।

[०३१।०४-०३१।०५]
यदि हि विज्ञानं विजानातीतीष्यते ।

[०३१।०५]
न च तत्र कर्तृक्रियाभेदः ।
एवमत्रापि ।

[०३१।०५-०३१।०६]
अपरे पुनर्ब्रुवते ।

[०३१।०६-०३१।०७]
“चक्षुर्विज्ञानं दर्शनं तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते ।

[०३१।०७]
यथा नादस्याश्रयभावात्घण्टा नदतीत्युच्यते” इति ।

[०३१।०७-०३१।०८]
ननु चईवं विज्ञानस्याश्रयभावाचक्षुर्विजानातीति प्राप्नोति ।

[०३१।०८]
न प्राप्नोति ।

[०३१।०८-०३१।०९]
तद्विज्ञानं दर्शनमिति रुढं लोके ।

[०३१।०९]
तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातम् ।

[०३१।०९-०३१।१०]
विभाषायामप्युक्तं “चक्षुः संप्रप्तं चक्षुर्विज्ञानानुभूतं दृष्टमित्युच्यत” इति ।

[०३०।१०-०३१।११]
तस्माच्चक्षुः पश्यतीत्येवोच्यते न विजानातीति ।

[०३१।११]
विज्ञानं तु सान्निध्यमात्रेण रूपं विजानातीत्युच्यते ।

[०३१।१२]
यथा सूर्यो दिवसकर इति ।
अत्र सौत्रान्तिका आहुः ।
किमिदमाकाशं खाद्यते ।

[०३१।१३]
चक्षुर्हि प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् ।
तत्र कः पश्यति को वा दृश्यते ।

[०३१।१४]
निव्र्यापारं हीदं धर्ममात्रं हेतुफलमात्रं च ।

[०३१।१४-०३१।१५]
तत्र व्यवहारार्थं च्छन्दत उपचाराः क्रियन्ते ।

[०३१।१५]
चक्षुः पश्यति विज्ञानं विजानातीति नात्राभिनिवेष्टव्यम् ।

[०३१।१५-०३१।१६]
उक्तं हि भगवता “जनपदनिरुक्तिं नाभिनिविशेत संज्ञां च लोकस्य नाभिधावेदि”ति ।

[०३१।१६-०३१।१७]
एष तु काश्मीरवैभाषिकाणां सिद्धान्तः ।

[०३१।१७-०३१।१८]
चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा आस्वादयति कायः स्पृशति मनो विजानातीति ।

[०३१।१९]
तद्यदि चक्षुः पश्यति किमेकेन चक्षुषा रूपाणि पश्यत्याहोस्विदुभाभ्याम् ।

[०३१।२०]
नात्र नियमः ।

[०३१।२१]
उभाभ्यामपि चक्षुभुयां पश्यति व्यक्तदर्शनात् ।

[०३१।२२]
उभाभ्यामपि चक्षुर्भ्यां पश्यतीत्याभिधार्मिकाः ।

[०३१।२२-०३१।२३]
तथा हि द्वयोर्विवृतयोः परैशाउद्धतरं दराशनं भवति ।

[०३१।२३-०३१।२४]
एकस्मिंश्चीन्मीलिते चक्षुषि द्वितीये चार्धनिमीलिते द्विचन्द्रादिग्रहणं भवति ।

[०३१।२४]
नैकतरान्यथीभावात् ।

[०३१।२४-०३१।२५]
न चाश्रयविच्छेदाद्विच्छेदपरसङ्गो विज्ञानस्य देशाप्रतिष्ठितत्वाद्रौपवदिति ।

[०३१।२६-०३१।२७]
यदि चक्षुः पश्यति श्रोत्रं शृणोति यावन्मनो विजानाति किमेषां प्राप्तो विषय आहोस्विदप्राप्तः ।

[०३२।०१]
चक्षुःश्रोत्रमनोऽप्राप्तविषयं

[०३२।०२]
तथा हि दूराद्रूपं पश्यत्यक्षिस्थमञ्जनं न पश्यति ।
दूराच्छब्दं शृणोति ।

[०३२।०२-०३२।०३]
सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह ध्यायिनां नोपजायेत ।

[०३२।०३]
घ्राणादिवत् ।

[०३२।०३-०३२।०४]
यद्यप्राप्तविषयं चक्षुः कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च ।

[०३२।०४-०३२।०५]
कथं तावदय्स्कान्तो न सर्वमप्राप्तमयः कर्षति ।

[०३२।०५]
प्राप्तविषयत्वेऽपि चैतत्समानम् ।

[०३२।०५-०३२।०६]
कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनं शलाकां वा ।

[०३२।०६-०३२।०७]
यथा च घ्राणादीनं प्राप्तो विषयो न तु सर्वः ।

[०३२।७-०३२०७]
सहभूगन्धाद्यग्रहणात् ।

[०३२।०७]
एवं चक्षुषोऽप्यप्राप्तः स्यान्न तु सर्वः ।

[०३२।०७-०३२।०८]
मनस्त्वरूपित्वात्प्राप्तुमेवाशक्तम् ।

[०३२।०८]
केचित्पुनः श्रोत्रं प्रप्ताप्राप्तविषयं मन्ययन्ते ।

[०३२।०९]
कर्णभ्यन्तरेऽपि शब्दश्रवणात् ।
शेषं तु घ्राणजिह्वाकायाख्यम् ।

[०३२।१०]
त्रयमन्यथा ॥ १.४३ ॥

[०३२।११]
प्राप्तविषयमित्यर्थः ।
घ्राणं कथं प्राप्तविषयम् ।
निरुच्छ्वासस्य गन्धाग्रहणात् ।

[०३२।१२]
केयं प्राप्तिर्नाम ।
निरन्तरोत्पत्तिः ।

[०३२।१२-०३२।१३]
किं पुनः परमाणवः स्पृशन्त्यन्योन्यमाहोस्विन्न ।

[०३२।१३-०३१।१३]
न स्पृशन्तीति काश्मीरकाः ।

[०३२।१३]
किं कारणम् ।

[०३२।१३-०३२।१४]
यदि तावत्सर्वान्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि ।

[०३२।१४]
अथैकदेशेन सावयवाः प्रसज्येरन् ।

[०३२।१५]
निरवयवाश्च परमाणवः ।
कथं शब्दाभिनिश्पत्तिर्भवति ।

[०३२।१५-०३२।१६]
अत एव यदि हि स्पृशेयुर्हस्तो हस्तेऽभ्याहतः सज्येतो पलश्चोपले ।
[०३२।१६-०३२।१७]
कथं चितं प्रत्याहतं न विशीर्यते ।

[०३२।१७]
वायुधातुसंधारितत्वात् ।

[०३२।१७-०३२।१८]
कश्चिद्वायुधातुर्विकिरणाय प्रवृत्तो यथा संवर्त्तन्यां कश्चित्संधारणाय यथा विवर्त्तन्यामिति ।

[०३२।१८-०३२।१९]
कथमिदानीं निरन्तर प्राप्त्या प्राप्तविषयं त्रयमुच्यते ।

[०३२।१९]
तदेवैषां निरुत्तरत्वं यन्मध्ये नास्ति किञ्चित् ।

[०३२।२०]
अपिख्लु संघाताः सावयवत्वात्स्पृशन्तीत्यद्वीषः ।

[०३२।२०-०३२।२१]
एवं च कृत्वाऽयमपि ग्रन्थ उपपन्नो भवति विभाषायाम् ।

[०३२।२१-०३२।२२]
किं नु स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकमिति प्रश्नयित्वाह”कारणं प्रति ।

[०३२।२२-०३२।२३]
कदाचित्स्पृष्टहेतुकमस्पृष्टमुत्पधते यदा विशीर्यते ।

[०३२।२३]
कदाचिदस्पृष्टहेतुकं स्पृष्टं यदा चयं गच्छति ।

[०३३।०१]
कदाचित्स्पृष्टहेतुकं स्पृष्टं यदा चयवतां चयः ।

[०३३।०१-०३३।०२]
कदाचिदस्पृष्टहेतुकमस्पृष्टं यदा वातायनरज” इति ।

[०३३।०२]
यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थानं स्यादिति भदन्तवसुमित्रः ।

[०३३।०३]
न स्पृशन्ति ।
निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः ।
भदन्तमतं चैष्टव्यम् ।

[०३३।०४]
अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत ।

[०३३।०४-०३३।०५]
यतः सप्रतिघा इष्यन्ते ।

[०३३।०५]
नच परमाणुभ्योऽन्ये संघाता इति ।

[०३३।०५-०३३।०६]
त एव ते संघाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्ते ।

[०३३।०६-०३३।०७]
यदि च परमाणोर्दिग्भागभेदः कल्प्यते स्पृष्टस्यास्पृष्टस्य वा सावयवत्वप्रसङ्गः ।

[०३३।०७]
नो चेत्स्पृष्टस्याप्यप्रसङ्गः ॥

[०३३।०८-०३३।०९]
किं पुनरेभिश्चक्षुरादिभिरात्मपरिमाणतुल्यस्यार्थस्य ग्रहणं भवत्याशुवृत्त्या च पर्वतादीनामलातक्रादिवदाहोस्वित्तुल्यातुल्यस्य ।

[०३३।०९-०३३।१०]
यानि तावदेतानि प्राप्तविषयाण्युक्तान्येभिः ।

[०३३।११]
त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् ।

[०३३।१२]
यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं जनयन्ति ।

[०३३।१३]
चक्षुःश्रोत्राभ्यां त्वनियमः ।
कदाचिदल्पीयांसो यदा वालाग्रं पश्यति ।

[०३३।१३-०३३।१४]
कदाचित्समा यदा द्राक्षाफतं पश्यति ।

[०३३।१४-०३३।१५]
कदाचित्भूयांसो यदा महान्तं पर्वतं पश्यत्युन्मिषितमात्रेण ।

[०३३।१५]
एवं श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् ।

[०३३।१५-०३३।१६]
मनस्त्वमूर्त्तिवदेवेति नास्य परिमाणपरिच्छेदः संप्रधार्यते ।

[०३३।१६]
कतहं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां संनिवेशः ।

[०३३।१७]
चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामजाजीपुष्पवदवस्थिताः ।

[०३३।१७-०३३।१८]
अच्छचर्मावच्छादितास्तु न विकीर्यन्ते ।

[०३३।१८-०३३।१९]
अधरौत्तर्येण पिण्डवदवस्थिता इत्यपरे ।

[०३३।१९]
न चान्योऽन्यमावृण्वन्ति स्फटिकवदच्छत्वात् ।

[०३३।१९-०३३।२०]
श्रोत्रेन्द्रियपरमाणवो भूर्जाभ्यन्तरावस्थिताः ।

[०३३।२०]
घ्राणेन्द्रियपरमाणवो घटाभ्यन्तरेण शलाकावत् ।

[०३३।२०-०३३।२१]
आद्यानि त्रीणीन्द्रियाणि मालावदवस्थितानि ।

[०३३।२१]
जिह्वेन्द्रियपरमाण्वोऽर्धचन्द्रवत् ।

[०३३।२१-०३३।२२]
वालाग्रमात्रं किल मध्यजिव्हायां जिह्वेन्द्रियपरमाणुभिरस्फुटम् ।

[०३३।२२-०३३।२३]
कायेन्द्रियपरमाणवः कायवदवस्थिताः ।

[०३३।२३]
स्त्रीन्द्रियपरमाणवो भेरीकटाहवत् ।
पुरुषेन्द्रियपरमाणवोऽङ्गुष्ठवत् ।

[०३३।२४]
तत्र चक्षुरिन्द्रियपरमाणवः कदाचित्सर्वे सभागा भवन्ति कदाचित्तत्सभागाः ।

[०३३।२४-०३३।२५]
कदाचिदेके सभागाः एके तत्सभागाः ।

[०३३।२५]
एवं यावज्जिह्वेन्द्रियपरमाणवः ।

[०३३।२५-०३३।२६]
कायेन्द्रियपरमाणवस्तु सर्वे सभागा न भवन्ति ।

[०३३।२६-०३३।२७]
प्रदीप्तनरकाभ्यन्तरावरुद्धानामपि ह्यपरिमाणाः कायेन्द्रियपरमाणवस्तत्सभागा भवन्ति ।

[०३३।२७-०३४।०१]
सर्वैः किल विज्ञानोत्पत्तावाश्रयो विशीर्येत ।

[०३४।०१]
न चैक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानं जनयति ।

[०३४।०१-०३४।०२]
संचिताश्रयालम्बनत्वात्पञ्चानां विज्ञानकायानाम् ।

[०३४।०२]
अत एवानिदर्शनः परमाणुरदृश्यत्वात् ॥

[०३४।०३-०३४।०४]
य इमे षड्विज्ञानधातव उक्ताश्चक्षुर्विज्ञानं यवन्मनोविज्ञानं किमेषां यथ विषयो वर्त्तमानः पञ्चानां चरमस्य त्रिकाल एवमाश्रयोऽपि ।

[०३४।०५]
नेत्याह ।

[०३४।०५-०३४।-५]
किं तर्हि ।

[०३४।०६]
चरमस्याश्रयोऽतीतः

[०३४।०७]
मनोविज्ञानधातोः समनन्तरनिरुद्धं मन आश्रयः ।

[०३४।०८-०३४।०७]
पञ्चानां सहजश्च तैः ॥ १.४४ ॥

[०३४।०९]
अतीतश्चेति चशब्दः ।

[०३४।०९-०३४।१०]
तत्र चक्षुर्विज्ञानस्य चक्षुः सहज आशारयो यावत्कायविज्ञानस्य कायः ।

[०३४।१०]
अतीतः पुनरेषामाश्रयो मन इत्यप्येते पञ्च विज्ञानकाया इन्द्रियद्वयाश्रयाः ।

[०३४।११]
अत एवोच्यते “यश्चक्षुर्विज्ञानस्याश्रयभावेन समनन्तरप्रत्ययभावेनापि स तस्ये”ति ।

[०३४।१२]
चतुष्कोतिकः ।
प्रथमा कोतिश्चक्षुः ।
द्वितीया समनन्तरातीतश्चैतसिको धर्मधातुः ।

[०३४।१३]
तृतीया समनन्तरातीतं मनः ।
चतुर्थी कोटिरुक्तनिर्मुक्ता धर्माः ।

[०३४।१३-०३४।१४]
एवं यावत्कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यम् ।

[०३४।१४]
मनोविज्ञानस्य पूर्वपादकः ।

[०३४।१४-०३४।१५]
यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि सः ।

[०३४।१५]
स्यात्समनन्तरप्रत्ययभावेन नाश्रयभावेन ।

[०३४।१५-०३४।१६]
समनन्तराभ्यतीतश्चेतसिको धर्मधातुरिति ।

[०३४।१७-०३४।१८]
किं पुनः कारणमुभयाधीनायां विज्ञानोत्पत्तौ चक्षुरादयः एवाश्रया उच्यन्ते न रूपादयः ।

[०३४।१९]
तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः ।

[०३४।२०]
धातव इत्यधिकारः ।

[०३४।२०-०३४।२१]
चक्षुरादीनां हि विकारेण तद्विज्ञानानां विकारो भवत्यनुग्रहोपघातपटुमन्दतानुविधानात्न तु रूपादीनां विकारेण तद्विकारः ।

[०३४।२२]
तस्मात्साधीयस्तदधीनत्वत्त एवाश्रया न रूपादयः ।

[०३४।२३-०३४।२४]
किं पुनः कारणं रूपादयश्च तैर्विज्ञायन्ते चक्षुर्विज्ञानं चोच्यते यावन्मनोविज्ञानम् ।

[०३४।२४]
न पुना रूपविज्ञानं यावद्धर्मविज्ञानमिति ।

[०३४।२४-०३४।२५]
य एते चक्षुरादय आश्रया एषाम् ।

[०३४।२६]
अतोऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते ॥ १.४५ ॥

[०३४।२७]
कथमसाधारणत्वम् ।
न हि चक्षुरन्यस्य विज्ञानस्याश्रयीभवितुमुत्सहते ।

[०३४।२७-०३४।२८]
रूपं तु मनोविज्ञानस्यालम्बनीभवत्यन्यचक्षुर्विज्ञानस्यापीति ।

[०३४।२८]
एवं यावत्कायो वेदितव्यः ।

[०३४।२९]
तस्मादाश्रयभावादसाधारणत्वाच्च विज्ञानं तेनैव निर्दिश्यते न रूपादिभिः ।

[०३४।२९-०३४।३०]
यथा भेरीशब्दो यवाङ्कुर इति ।

[०३५।०१-०३५।०२]
अथ यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानान्येकभूमिकान्येव भवन्त्याहोस्विदन्यभूमिकान्यपि ।

[०३५।०२]
आह ।
सर्वेषां भेदः ।

[०३५।०३]
कामधातूपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकं भवति ।

[०३५।०४-०३५।०५]
तस्यैव स्वानि रूपाणि प्रथमध्यानभूमीनि पश्यनो रूपाणि त्रीणपि तद्भूमिकानि ।

[०३५।०६-०३५।०७]
द्वितीयध्यानचक्षुषा स्वानि रूपोआणि पश्यतः कायरूपे स्वभूमिके चक्षुस्तद्भूमिकं विज्ञानं प्रथमध्यान भूमिकम् ।
[०३५।०७-०३५।०६]
प्रथमध्यानभूमीनि पश्यतो विज्ञानरुपे तद्भूमिके कायः कामावचरश्चक्षुर्द्वितीयद्यानभूमिकम् ।

[०३५।०८-०३५।१०]
द्वितीयध्यानभूमीनि पश्यतश्चक्षूअरूपे तद्भूमिके कायः कामावचरो विज्ञानं प्रथमभूमीकम् ।

[०३५।१०-०३५।११]
एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभुमिकानि रूपाणि पश्यतो योजयितव्यम् ।

[०३५।११-०३५।१२]
प्रथ्मध्यानोपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकमधराणि पश्यतः त्रयं स्वभूमिकम् ।

[०३५।१२-०३५।१३]
द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुस्तद्भूमिकम् ।

[०३५।१३-०३५।१४]
कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके रूपाण्यधराणि चक्षुस्तद्भूमिकम् ।

[०३५।१४-०३५।१५]
द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् ।

[०३५।१५]
एवं तृतीयध्यानचक्षुषा योज्यम् ।

[०३५।१६-०३५।१७]
द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथायोगं योजयितव्यम् ।

[०३५।१७]
अयं तु नियमः ।

[०३५।१८]
न कायस्याधरं चक्षुः ।

[०३५।१९]
पञ्चभूमिकानि हि कायचक्षूरूपाणि कामावचराणि यावच्चतुर्थध्यानभूमिकानि ।

[०३५।२०]
द्विभूमिकं चक्षुर्विज्ञानं कामावचरं प्रथमध्यानभूमिकं च ।

[०३५।२०-०३५।२१]
तत्र यद्भूमिकः कायस्तद्भूमिकं चक्षुरूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधरभूमिकम् ।

[०३५।२१-०३५।२२]
यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वा रूपं विषयो भवति ।

[०३५।२३]
ऊध्र्वं रूपं न चक्षुषः ।

[०३५।२४]
न हि कदाचिदूर्ध्र्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते ।

[०३५।२५]
विज्ञानं च

[०३५।२६]
ऊर्ध्व न चक्षुषो रूपवत् ।

[०३६।०१]
अस्य रूपं तु कायस्योभे च सर्वतः ॥ १.४६ ॥

[०३६।०२]
अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः ऊर्ध्वमधः स्वभूमौ च ।

[०३६।०३]
कायस्य चोभे रूपविज्ञाने सर्वतो भवतः ।
यथा चेचं चक्षुरुत्तं विस्तरेण वेदितव्यम्

[०३६।०४]
तथा श्रोत्रं

[०३६।०५-०३६।०६]
“न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः ।
विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः ॥”इति

[०३६।०७]
विस्तरेण योज्यम् ।

[०३६।०८]
त्रयाणां तु सर्वमेव स्वभूमिकम् ।

[०३६।०९]
घ्राणजिह्वाकायधातूनां कायविषयविज्ञानानि स्वभूमिकान्येव ।

[०३६।०९-०३६।१०]
इत्युत्सर्गविशेषेण कृत्वा पुनर्विशेषणार्थमपवाद आरभ्यते ।

[०३६।११]
कायविज्ञानमधरस्वभूमि

[०३६।१२]
कायः कायधातुः स्प्रष्टव्यं च स्वभूमिकान्येव नित्यं भवन्ति ।

[०३६।१२-०३६।१३]
कायविज्ञानं तु केषाञ्चित्स्वभूमिकं यथाकामधातुप्रथमध्यानोपपन्नाम् ।

[०३६।१३-०३६।१४]
केषाञ्चिदधरभूमिकं यथा द्वितीयादिध्यानोपपन्नानामिति ।

[०३६।१५]
अनियतं मनः ॥ १.४७ ॥

[०३६।१६-०३६।१७]
कदाचित्कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति कदाचिदूर्ध्वाधोभूमिकम् ।

[०३६।१७-०३६।१९]
पञ्चभूमिकेऽपि हि काये सर्वभूमिकानि मन आदीनि भवन्ति समापत्त्युपपत्तिकाले यथायोगमिति विस्तरेण समापत्तिनिर्देशे कोशस्थान एतदाख्यायिष्यते ।

[०३६।१९-०३६।२०]
अतिहहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनराख्यायते ।

[०३६।२०]
अल्पं च प्रयोजनं महांश्च श्रम इति समाप्त आनुषङ्गिकः प्रसङ्गः ।

[०३६।२१]
इदमिदानीं विचार्यते ।

[०३६।२१-०३६।२२]
अष्टादशानां च्दातूनां षण्णां च विज्ञानानां कः केन विज्ञेयः ।

[०३६।२२]
आह ।

[०३६।२३]
पञ्च बाह्या द्विविज्ञेयाः

[०३६।२४-०३६।२५]
रूपशबगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैरनुभूता मनोविज्ञानेन विज्ञायन्ते ।

[०३६।२५]
एवमेते प्रत्येकं द्वाभ्यां विज्ञानाभ्यां विज्ञेया भवन्ति ।

[०३६।२६-०३६।२७]
शेषास्त्रयोदश धातवः पञ्चानां विज्ञानकायानामविषयत्वादेकेन मनोविज्ञानेन विज्ञेया इत्याख्यातं भवति ।

[०३७।०१]
एषामष्टादशानां धातूनां मध्ये कति नित्याः कत्यनित्याः ।

[०३७।०१-०३७।०२]
न कश्च्त्सकलोऽस्ति नित्यो धातुरपि तु

[०३७।०३]
नित्या धर्मा असंस्कृताः ।

[०३७।०४]
तेन धार्मधात्वेकदेशो नित्यः शेषा अनित्याः ।

[०३७।०५]
कतीन्द्रियं कति नेन्द्रियम् ।

[०३७।०६]
धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः ॥ १.४८ ॥

[०३७।०७]
द्वाविंशतिरिन्द्रियाण्युक्तानि सूत्रे ।

[०३७।०७-०३७।११]
चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रैयमुपेक्षेन्द्रियं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं स्माधीन्द्रियं प्रज्ञेन्दरियमनाज्ञातमाज्ञास्यामीन्दरियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमिति ।

[०३७।११-०३७।१२]
आभिधार्मिकास्तु षडायतनव्यवस्थानमादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति ।

[०३७।१२]
सालम्बनत्वात् ।

[०३७।१२-०३७।१३]
तत्र धर्मार्धं जीवितेन्द्रियादीन्येकादशेन्द्रियाणि त्रयाणां च भागो धर्मधातुप्रदेशत्वात् ।

[०३७।१३-०३७।१४]
द्वादशानामाध्यात्मिकानां चक्षुरादयः पञ्च स्वनामोक्ताः ।

[०३७।१४-०३७।१५]
सप्त चित्तधातवो मनैन्द्रियं स्त्रिपुरुषेन्द्रिये कायधातुप्रदेशिति पश्चाद्वक्ष्यति ।

[०३७।१५-०३७।१६]
शेषाः पञ्च धातवो धर्मधातुप्रदेशश्च नेन्द्रियमिति सिद्धम् ॥

[०३७।१७]
अभिधर्मकोशभाष्ये धातुनिर्देशो नाम

[०३७।१८]
प्रथमं कोशस्थानं समाप्तमिति ।

[०३७।१९-०३७।२१]
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निर्होध एवंवादीउ महाश्रमणः ॥

[०३७।२२]
लिखापितमिदं श्रीलामावाकेनेति ।

द्वितीयं कोशस्थानम्

=====================================================================

[०३८।०२]
ओं नमो बुद्धाय ।

=====================================================================

[०३८।०३]
उक्तानीन्द्रियाणि ।
कः पुनरिन्द्रियार्थः ।
“इदि परमैश्वर्ये” ।

[०३८।०३-०३८।०४]
तस्य इन्दन्तीति इन्द्रियाणि ।

[०३८।०४]
अत आधिपत्यार्थ इन्द्रियार्थः ।
कस्य चैषां क्वाधिपत्यम् ।

[०३८।०५]
चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं

[०३८।०६]
चक्षुःश्रोत्रयोस्तावत्प्रत्येकं चतुर्ष्वर्थेवाधिपत्यम् ।

[०३८।०६-०३८।०७]
आत्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् ।

[०३८।०७]
आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् ।

[०३८।०८]
चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ ।

[०३८।०८-०३८।०९]
रूपदर्शनशब्दशारवणयोश्चासाधारणकारणत्वे ।

[०३८।०९]
घ्राणजिह्वाकायानामात्मभावशोभायां पूर्ववत् ।

[०३८।०९-०३८।१०]
आत्मभावपरिकर्षणे तैः कवडीकाराहारपरिभोगात् ।

[०३८।१०]
घ्राणादिविज्ञानानां ससंप्रयोगाणामुत्पत्तौ ।

[०३८।११]
गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पऋशनानां चासाधारणकारणत्व इति ।

[०३८।१२]
द्वयोः किल ।

[०३८।१३]
चतुर्णां

[०३८।१४]
स्त्रीपुरुषजीवितमनैन्द्रियाणाम् ।
द्वयोरर्थयोः प्रत्येकमाधिपत्यम् ।

[०३८।१४-०३८।१५]
स्त्री पुरुशेन्द्रियय्योस्तावत्सत्त्वभेदविकल्पयोः ।

[०३८।१५]
तत्र सत्त्वभेदः स्त्रि पुरुष इति ।

[०३८।१५-०३८।१६]
सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् ।

[०३८।१६]
संस्लेशव्यवदानयोरित्यपरे ।

[०३८।१७-०३८।१८]
तथा हि तद्विप्रयुक्तविकल्पानां षण्ढ पण्डकोभयव्यञ्जनानामसंवरानन्तार्यकुआशलमुलसमुच्छेदा न भवन्ति संवरफलप्राप्तिवैराग्याणि चेति ।

[०३८।१९]
जीवितेन्द्रियस्य निकायसभागसंबन्धसाधारणयोः ।

[०३८।१९-०३८।२०]
मनैन्द्रियस्य पुनर्भवसंबन्धवशिभावानुवर्त्तनयोः ।

[०३८।२०-०३८।२२]
तत्र पुन्र्भवसंबन्धे यथोक्तं “गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरचित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वे”ति ।

[०३८।२२]
वशिभावानुवर्त्तने यथोक्तं “चित्तेनायं लोको नीयत” इति विस्तरः ।

[०३८।२२-०३८।२३]
यत्पुनः सुखादीन्द्रियपञ्चकं यानि चाष्टौ श्रद्धादीनि तेषां

[०३८।२४]
पञ्चकाष्टानं संक्लेशव्यवदानयोः ॥ २.१ ॥

[०३८।२५]
आधिपत्यं यथाक्रमं पञ्चानां सुखादीनां संक्लेशे ।
रागादीनां तदनुशायित्वात् ।

[०३८।२५-०३९।०१]
श्रद्धादीनां व्यवदाने ।

[०३९।०१]
तै र्व्यवदायते ।
व्यवदानेऽपि सुखादीनामाधिपत्यमित्यपरे ।

[०३९।०१-०३९।०२]
“यस्मात्सुखितस्य चित्तं समाधीयते” ।

[०३९।०२-०३९।०३]
दुःधुपनिषच्छ्रद्धाषण्नैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः ।

[०३९।०३]
अपरे पुनराहुः ।

[०३९।०३-०३९।०४]
नैव चक्षुःश्रीत्राभ्यामात्मभावपरिकऋषणं विज्ञाय विषमपरिहारात् ।

[०३९।०४]
विज्ञाने तु तयोराधिपत्यम् ।

[०३९।०४-०३९।०५]
नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वाऽस्ति ।

[०३९।०५]
यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत ।

[०३९।०५-०३९।०६]
तस्मान्नैवमेषामिन्द्रियत्वम् ।

[०३९।०६]
कथं तर्हि ।

[०३९।०७]
स्वार्थोपलब्ध्याधिपत्यात्सर्वस्य च षडिन्द्रियम् ।

[०३९।०८]
चक्षुरादीनांपञ्चानां स्वस्यस्वस्यार्थस्योपलब्धाधिपत्यम् ।

[०३९।०८-०३९।०९]
मनसः पुनः सर्वार्थोपलब्धावाधिपत्यम् ।

[०३९।०९]
अत एतानि षट्प्रत्येकमिन्द्रियम् ।

[०३९।०९-०३९।१०]
ननु चार्थानामप्यत्राधिपत्यम् ।

[०३९।१०]
नाधिपत्यम् ।
अधिकं हि प्रभुत्वमाधिपत्यम् ।

[०३९।१०-०३९।११]
चक्षुषश्चक्षूरूपोपलब्धावधिकमैश्वर्यम् ।

[०३९।११-०३९।१२]
सर्वरूपोपलब्धौ सामान्यकारणत्वात्तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेः ।

[०३९।१२]
न रूपस्य ।
तद्वि पर्ययात् ।
एवं यावत्मनसो धर्मेषु योज्यम् ।

[०३९।१३]
स्रीत्व पुंस्त्वाधिपत्यात्तु कायात्स्त्रीपुरुषेन्द्रिये ॥ २.२ ॥

[०३९।१४]
कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक्व्यवस्थाप्येते ।
नार्थन्तरभूते ।

[०३९।१४-०३९।१५]
कश्चिदसौ कायेन्द्रियभाग उपस्थ प्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां परतिलभते ।

[०३९।१५-०३९।१६]
यथाक्रमं स्त्रीत्वपुंस्त्वय्योराधिपत्यात् ।

[०३९।१६]
तत्र स्त्रीभावः स्त्रियाकृतिः स्वरचेष्टा अभिप्रायाः ।

[०३९।१६-०३९।१७]
एतद्धि स्त्रिया स्त्रीत्वम् ।

[०३९।१७]
पुंभावः पुरुषाकृतिः स्वरचेष्टा अभिप्रायाः ।
एतद्धि पुंसः पुंस्त्वम् ।

[०३९।१८-०३९।१९]
निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः ।
जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः ॥ २.३ ॥

[०३९।२०]
निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् ।

[०३९।२०-०३९।२१]
तथाहि सुखायां वेदनायां रागोऽनुशेते दुःखायां प्रतिघोऽदुःखासुखायामविद्येत्युक्तं सूत्रे ।

[०३९।२१-०३९।२२]
व्यवदाने श्रद्धादीनां पञ्चानाम् ।

[०३९।२२]
तथाहि तैः क्लेशाश्च विष्कभ्यन्ते मार्गश्चावाह्यते ।

[०३९।२३]
अत एतेऽपि प्रत्येकमिन्द्रियमिष्टाः ।

[०४०।०१]
आज्ञास्या म्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा ।

[०४०।०२]
उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः ॥ २.४ ॥

[०४०।०३]
प्रत्येकमिन्द्रिमित्युपदर्शनार्थं तथाशब्दः ।

[०४०।०३-०४०।०४]
तत्राज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्य प्राप्तावाधिपत्यम् ।

[०४०।०४]
आज्ञेन्द्रैयस्याज्ञातावीन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य परिनिर्वाणे ।

[०४०।०५]
नह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति ।
आदिशब्दोऽन्यपर्यायद्योतनार्थः ।

[०४०।०६]
कतमोऽन्यः पार्यायः ।
दर्श्नहेयक्लेशपरिहाणं प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम् ।

[०४०।०७]
भावनाहेयक्लेआशप्रहाणं प्रत्याज्ञेन्द्रियस्य ।
दृष्टधर्मसुखविहारं प्रत्याज्ञातावीन्द्रियस्य ।

[०४०।०८]
विमुक्तिप्रीतिसुखसंवेदनादिति ।

[०४०।०८-०४०।०९]
आधिपात्यादिन्द्रियत्वेऽविद्यादीनामुपसंख्यानं कर्त्तव्यम् ।

[०४०।०९-०४०।१०]
अविद्यादीनामपि हि संस्कारादिष्वाधिपत्यमत एषामपीन्द्रियत्वमुपसंख्यातव्यम् ।

[०४०।१०]
वागादीनां च ।
वाक्याणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम् ।

[०४०।११]
वचनादानविहरणोत्सर्गानन्देष्वाधिपत्यात् ।
न खलूपसंख्यातव्यम् ।
यस्मादिहेष्टम्

[०४०।१२-०४०।१३]
चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च ।
संभारो व्यवदानं च यावता तावदिन्द्रियम् ॥ २.५ ॥

[०४०।१४]
तत्र चित्ताश्रयः षडिन्द्रियाणि ।
एतच्च षडायतनं मौलं सट्त्वद्रव्यम् ।

[०४०।१४-०४०।१६]
तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रैयाभ्यां स्थितिर्जीवितेन्द्रियेण संक्लेशो वेदना भिः ।

[०४०।१६]
व्यवदानसंभरणं पञ्चभिर्व्यवदानं त्रिभिः ।

[०४०।१६-०४०।१७]
अतो नाविद्यादीनामिन्द्रियत्वमिष्टम् ।

[०४०।१८-०४०।१९]
प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः ।
चतुर्दश तथाऽन्यानि निवृत्तेरिन्द्रियाणि वा ॥ २.६ ॥

[०४०।२०]
मतविकल्पार्थो वाशब्दः ।
अपरे पुनराहुः ।
प्रवृत्तेरश्रयः षडिन्द्रियाणि ।

[०४०।२०-०४०।२१]
उत्पत्तिः स्त्रीपुरुषेन्द्रिये ।

[०४०।२१]
तत उत्पत्तेः ।
स्थितिर्जीवितेन्द्रियम् ।
तेनावस्थानात् ।

[०४०।२१-०४०।२२]
उपभोगो वेदनाभिः ।

[०४०।२२]
अत एतानि चतुर्दशेन्द्रियाणि ।
तेनैव प्रकारेण निवृत्तेरन्यानि ।

[०४०।२२-०४०।२३]
श्रद्धदीनि हि निवृत्तेराश्रयाः ।

[०४०।२३-०४०।२४]
आज्ञास्यामीन्द्रियं प्रभवः स्थितिराज्ञेन्द्रियमुपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि ।

[०४०।२४]
अत एव चईषामेषोऽनुक्रमः ।

[०४०।२५]
वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात् ।

[०४०।२५-०४०।२६]
पाणिपादस्य चादानविहरणादनन्यत्वात् ।

[०४०।२६-०४०।२७]
तदेव हि तदन्यथाऽन्यत्र चोत्पन्नमादानं विहरणं चोच्यते ।

[०४०।२७]
विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीणाम् ।

[०४०।२७-०४०।२८]
पायोरपि नेन्द्रियत्वमुत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात् ।

[०४०।२८]
वायुना च तत्प्रेरणात् ।

[०४१।०१]
उपस्थस्यापि नेन्द्रियत्वमानन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत्सौख्यमिति ।

[०४१।०१-०४१।०३]
कण्ठदन्ताक्षिवर्त्मपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनविकाशन क्रियास्विन्द्रियत्वं प्रसज्येत ।

[०४१।०३-०४१।०४]
सर्वस्य वा कारणभूतस्य स्वस्यां करियायामित्ययुकतं वागादीनामिन्द्रियत्वम् ॥

[०४१।०५]
तत्र चक्षुरादीनां पुरुषेन्द्रियपर्यन्तानां कृतो निर्देशः ।

[०४१।०५-०४१।०६]
जीवितेन्द्रियस्य विप्रयुक्तत्वाद्विप्रयुक्तेष्वेव करिस्यते निर्देशः ।

[०४१।०६]
श्रद्धादीनां चैत्तेषु करिष्यते ।

[०४१।०६-०४१।०७]
सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्त्तव्यः ।

[०४१।०७]
सोऽयं क्रियते ।

[०४१।०८]
दुःखेन्द्रियमशाता या कायिकी वेदना
[०४१।०९]
अशातेत्युपधातिका दुःखेत्यर्थः ।

[०४१।१०]
सुखम् ।

[०४१।११]
शाता

[०४१।१२]
सुखेन्द्रियं कायिकी शात वेदना ।
शातेत्यनुग्राहिका सुखेत्यर्थः ।

[०४१।१३]
ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ॥ २.७ ॥

[०४१।१४]
तृतीये तु ध्याने सैव शाता वेदना चैतसी सुखेन्द्रियम् ।

[०४१।१४-०४१।१५]
नहि तत्र कायिकी वेदनाऽस्ति ।

[०४१।१५]
पञ्चविज्ञानकायाभावात् ।

[०४१।१६]
अन्यत्र सा सौमनस्यं

[०४१।१७-०४१।१८]
तृतीयाद्ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चैअतसिकी शाता वेदना सौमनस्येन्द्रियम् ।

[०४१।१८-०४१।१९]
तृतीये तु ध्याने प्रीतिवीतरागत्वात्सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम् ।

[०४१।१९]
प्रीतिर्हि सौमनस्यम् ।

[०४१।२०]
अशाता चैतसी पुनः ।

[०४१।२१]
दौर्मनस्यमुपेक्षा तु मध्या

[०४१।२२]
नैवशातानाशाता अदुःखासुखा वेदना मध्येत्युच्यते ।
सोपेक्षेन्द्रियम् ।

[०४१।२२-०४१।२३]
किं कायिकी चैतसिकीत्याह ।

[०४१।२४]
उभयी

[०४१।२५]
किं पुनः कारणमियमभिसमस्यै कमिन्द्रियं क्रियते ।

[०४२।०१]
अविकल्पनात् ॥ २.८ ॥

[०४२।०२]
चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते न तु कायिकम् ।

[०४२।०२-०४१।०३]
विषयवशादर्हतामप्युत्पत्तेः ।

[०४२।०३]
अतस्तयोरिन्द्रियत्वेन भेदः ।

[०४२।०३-०४२।०४]
उपेक्षा तु स्वरसेनाविकल्पयत एवोत्पद्यते कायिकी चैतसिकी चे त्येकमिन्द्रियं क्रियते ।

[०४२।०४-०४२।०५]
अन्यथा च कायिकं सुखमनुगृह्णात्यन्यथा चैतसिकम् ।

[०४२।०५]
एवं दुःखमन्यथा कायिकमुपहन्त्यन्यथा चैतसिकम् ।

[०४२।०५-०४२।०६]
उपेक्षायां त्वेष विकल्पो नास्त्यत उपेक्षणं प्रत्यविकल्पनादभेदः ।

[०४२।०७]
दृग्भावनाऽसैक्षपथे नव त्रीणि

[०४२।०८]
मनः सुखसौमनस्योपेक्षाः स्रद्धादीनि च पञ्च ।

[०४२।०८-०४२।०९]
तानि नवेन्द्रियाणि त्रिषु मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते ।

[०४२।०९-०४२।१०]
दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियमशैक्षमार्गे आज्ञातावीन्द्रियमिति ।

[०४२।१०]
किं कारणम् ।

[०४२।१०-०४२।११]
दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः ।

[०४२।११-०४२।१२]
भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम् ।

[०४२।१२]
अशैक्षमार्गे त्वाज्ञात्मित्यवगम आज्ञातावः ।

[०४२।१२-०४२।१३]
सोऽस्यास्तीति आज्ञातावी ।

[०४२।१३]
आज्ञातमवितुं शीलमस्येति वा ।
क्षयानुत्पादिज्ञानलाभात् ।

[०४२।१४]
“दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यमिति” तथाभूतस्येन्रियमाज्ञातावीन्रियम् ।

[०४२।१५-०४२।१६]
स्वभावनिर्देशां कृत्वा प्रकारभेदो वक्तव्य कति सास्रवाणि कत्यनास्रवाणि इन्रियाणित्येवमादि ।

[०४२।१६-०४२।१७]
तत्र तावद्यदेतदनन्तरोक्तमाज्ञास्यामीन्रियादिकमेतत् ।

[०४२।१८]
अमलं त्रयम् ।

[०४२।१९]
अनास्रवमित्यर्थः ।
मलानामास्रवपर्यायत्वात् ।

[०४२।२०]
रूपीणि जीवितं दुःखे सास्रवाणि

[०४२।२१]
रूपीणि सप्तेन्द्रियाणि जीवितेन्द्रियं दुखःदौर्मनस्येन्द्रिये चैकान्तसास्रवाणि ।

[०४२।२२]
रूपीणि पुनः सप्त चक्षुः
श्रोत्रघ्राणजिह्वाकायस्त्रिपुरुषेन्द्रियाणि रूपस्कन्धसंग्रहात् ।

[०४२।२३]
द्विधा नव ॥ २.९ ॥

[०४२।२४-०४२।२५]
मनःसुखसौमनस्योपेक्षाः श्रद्धादीनि च पञ्च एतानि नवेन्द्रियाणि सास्रवाण्यनास्रवाण्यपि ।

[०४२।२५]
अनास्रवाण्येव श्रद्धादीनीत्येके ।

[०४२।२५-०४२।२७]
उक्तं हि भगवता “यस्येमानि पञ्चेन्द्रियाणि सर्वेण स्र्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामी”ति ।

[०४२।२७]
नेदं ज्ञापकमनास्रवाण्यधिकृत्य वचनात् ।

[०४२।२७-०४२।२८]
तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह ।

[०४२।२८]
पृथग्जनो वा द्विविधः ।

[०४३।०१]
आभ्यन्तरकश्चासमुच्छिन्न कुशलमूलो बाह्यकश्च समुच्छिन्नकुशलमूलः ।

[०४३।०२]
तमधिकाऋत्याह “बाह्यं पृथग्जनपक्षावस्थितं वदामी”ति ।

[०४३।०२-०३२।०४]
उक्तं च सूत्रे “सन्ति च सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपी” त्यप्रवर्त्तित एव धर्मचक्रे ।

[०४३।०४]
तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनि ।

[०४३।०५-०४३।०७]
पुनश्चोक्तं “यावच्छाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तगमं च स्वादं चादीनवं च निःसरणं च यथाभूतं नाध्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकादि”ति विस्तरः ।

[०४३।०७]
न चानास्रवाणां धर्माणामेष परीक्षाप्रकारः ॥

[०४३।०८]
कतीन्द्रियाणि विपाकः कति न विपाकः ।
एकान्तेन तावत्

[०४३।०९]
विपाको जीवितं

[०४३।१०]
अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाकः ।

[०४३।११]
शास्त्र उक्थं “कथमायुःसंस्कारान् स्थापयति ।

[०४३।११-०४३।१३]
अर्हन् भिक्षुः ऋद्धिमांश्चेतोवशित्वं प्राप्तः संघाय व पुद्गलाय वा पात्रः वा चीवरं वा अन्यतमान्यतमं वा श्रामणकं जीवितपरिष्कारं वा दत्त्वा तत्प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यते ।

[०४३।१४-०४३।१५]
स तस्मात्व्युत्थाय चित्तमुत्पादयति वाचं च भाषते यन्मे भोगविपाकं तदायुर्विपाकं भवत्विति ।

[०४३।१५]
तस्य यत्भोगविपाकं तदायुर्विपाकं भवति ।

[०४३।१५-०४३।१६
येषां पुनरयमभिप्रायो विपाकोच्छेषं विपच्यत इति ।

[०४३।१६-०४३।१७]
त आहुः पूर्वजातिकृतस्य कर्मणो विपाकोच्छेषम् ।

[०४३।१७]
स भावनाबलेनाकृष्य प्रतिसंवेदयत” इति ।

[०४३।१७-०४३।१८]
कथमायुःसंस्कारा नुत्सृजति ।

[०४३।१८]
तथईव दानं दत्त्वा प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यत्

[०४३।१९]
यन्मे आयुर्विपाकं तत्भोगविपाकं भवत्विति तस्य तथा भवति ।

[०४३।२०]
भदन्तघोषकस्त्वाह ।

[०४३।२०-०४३।२१]
तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि ध्यानबलेन संमुधकरोत्यायुषोऽनुकूलानि वैहोधिकानि च ।

[०४३।२१-०४३।२२]
एवमायुःसंस्कारान् स्थापयत्येवमुत्सृजतीति ।

[०४३।२२]
एवं तु भवितव्यम् ।

[०४३।२२-०४३।२४]
समाधिप्रभाव एव स तेषां तदृशो येन पूर्वकर्मजं च स्थितिकालावेधमिन्द्रियमहाभूतानां व्याव्र्त्तयन्त्यपूर्वं च समाधिजमावेधमाक्षिपन्ति ।

[०४३।२४]
तस्मान्न तज्जीवितेन्द्रियं विपाकं ततोऽन्यत्तु विपाकः ।

[०४३।२५]
प्रश्नात्प्रश्नान्तरमुपजायते ।
किमर्थमायुःसंस्कारानधितिष्ठन्ति ।

[०४३।२५-०४३।२६]
परहितार्थं शासन्स्थित्यर्थं वा ।

[०४३।२६]
ते ह्यात्मनः क्षीणमायुः पश्यन्ति ।

[०४३।२७]
न च तत्रान्यं शक्तं पश्यन्ति ।
अथ किमर्थमुत्सृजन्ति ।

[०४४।०१]
अल्पं च परहितं जीविते पश्यन्ति रोगाभिभूतं चात्मभावम् ।
यथोक्तं

[०४४।०२-०४४।०३]
“सुचीर्णे ब्रह्मचर्येऽस्मिन्मार्गे चैव सुभाविते ।
तुष्ट आयुःक्षयात्भवति रोगस्यापगमे यथा ॥”

[०४४।०४]
इति ।
अथैतदायुः संस्काराणां स्थापनार्थमुत्सर्जनं वा क्व कस्य वा वेदितव्यम् ।

[०४४।०५]
मनुष्येष्वेवत्रिषु द्वीपेषु स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिकध्यानलाभिनः ।

[०४४।०६]
तस्य हि समाधौ वशित्वम् ।
क्लेशैश्चानुपस्तब्धा सन्ततिः ।
[०४४।०६-०४४।०७]
सूत्र उक्तम् “भगवान् जीवितसंस्कारानधिष्ठायायुःसंस्कारानुस्त्सृष्टवान्” ।

[०४४।०७-०४४।०८]
तेषां को विशेषः ।

[०४४।०८]
न कश्चिदित्येके ।
तथा ह्युक्तम् “जीवितेन्द्रियं कतमत् ।

[०४४।०८-०४४।०९]
त्रैधातुकमायुरि”ति ।

[०४४।०९]
पूर्वकर्मफलमायुःसंस्काराः प्रत्युत्पन्नकर्मफलं जीवितसंस्कारा इत्यपरे ।

[०४४।१०]
यैर्वा निकायसभागस्थितिस्त आयुःसंस्काराः ।

[०४४।१०-०४४।११]
यैस्तु कालान्तरं जीवति ते जीवितसंस्कारा इति ।

[०४४।११-०४४।१२]
बहुवचनं बहूनामायुर्जीवितसंस्कारक्षणानामुत्सर्जना धिष्ठानात् ।

[०४४।१२]
नह्येकस्य क्षणस्योत्सर्जनमधिष्ठनं चास्ति ।

[०४४।१२-०४४।१३]
न च कालान्तरस्थावरमेकमायुर्द्रव्यमिति द्योतनार्थमित्येके ।

[०४४।१३-०४४।१४]
बहुश्वेव संस्कारेष्वायुराख्या नास्त्येकमायुर्द्रव्यम् ।

[०४४।१४]
अन्यथा नैव संस्कारग्रहणमकरिष्यदित्यपरे ।

[०४४।१४-०४४।१५]
किमर्थं पुनर्भगवता आयुह्संस्कारा उत्सृष्टाश्चाधिष्टिताश्च ।

[०४४।१५-०४४।१६]
मरणवशित्वज्ञापनार्थमुत्सृष्टाजीवितवशित्वज्ञापनार्थमधिष्टिताः ।

[०४४।१६]
त्रैमास्यमेव नोध्र्वं विनेयकार्याभावात् ।

[०४४।१७-०४४।१८]
यच्चापि तत्प्रतिज्ञातम् “एवंभावितैरहं चतुर्भिरृद्धि पादैराकाङ्क्षन्कल्पमपि तिष्ठेयं कल्पावशेषमपी”ति ।

[०४४।१८]
तस्यापि संपादनार्थम् ।

[०४४।१८-०४४।१९]
स्कन्धमरणमारयोर्निर्जयार्थमिति वैभषिकाः ।

[०४४।१९]
बोधिमूले क्लेशदेवपुत्रमारौ निर्जिताविति ।

[०४४।१९-०४४।२०]
निष्ठितमानुषङ्गिकम् ॥

[०४४।२१]
प्रकृतमेवारभ्यते ।

[०४४।२२]
द्वेधा द्वादश

[०४४।२३]
कतमानि द्वादश ।

[०४४।२४]
अन्त्याष्टकादृते ।

[०४४।२५]
दौर्मनस्याच्च

[०४४।२६]
अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्यं च वर्जयित्वा ।

[०४४।२७-०४५।०१]
जीवितेन्द्रियादन्यानि द्वादश द्विविधानि विपाकश्चाविपाकश्च ।

[०४५।०१]
तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाकः ।
शेषाणि विपाकः ।

[०४५।०२]
मनोदुःखसुखसौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टान्य विपाकः ।

[०४५।०२-०४५।०३]
ऐर्यापथिकशाइल्पस्थानिकनैर्माणिकानि च यथायोगम् ।

[०४५।०३]
शेषाणि विपाकः ।

[०४५।०३-०४५।०४]
जीवितेन्द्रियं चक्षुरादीनि द्वादश हित्वा शेषाण्यविपाक इति सिद्धम् ।

[०४५।०४-०४५।०५]
यदि दौअर्मनस्येन्द्रियं न विपाक इति सूत्रं कथं नीयते “त्रीणि कार्याणि ।

[०४५।०५-०४५।०६]
सौमनस्यवेदनीयं कर्म दौर्मनस्यवेदनीयं कर्म उपेक्षा वेदनीयं कर्मे”ति संप्रयोगवेदनीयतामधिकृत्योक्तम् ।

[०४५।०६-०४५।०७]
दौर्मस्येन संप्रयुक्तं कर्म दौर्मनस्यवेदनीयम् ।

[०४५।०७]
यथा सुखसंपरयुक्तः स्पर्शः सुखवेदनीयः ।

[०४५।०७-०४५।०८]
सौमनस्योपेक्षावेदनीये अपि तर्हि कर्मणी एवं भविष्यतः ।

[०४५।०८]
यथेच्छसि तथाऽस्तु ।

[०४५।०८-०४५।०९]
संप्रयोगेऽपि न दोषः विपाकेऽपि न दोषः ।

[०४५।०९]
अगत्या ह्येतदेवं गम्येत ।

[०४५।०९-०४५।१०]
का पुन्रत्र युक्तिर्दौर्मनस्यं न विपाक इति ।

[०४५।१०]
दौर्मनस्यं हि परिकल्पविशेषैरुत्पाद्यते च व्युपशाम्यते च ।

[०४५।१०-०४५।११]
नचैवं विपाकः ।

[०४५।११]
सौमनस्यमप्येवं न स्याद्विपाकः ।

[०४५।११-०४५।१२]
यदि तर्हि दौमनस्यं विपाकः स्यादानन्तर्यकारिणां तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् ।

[०४५।१३]
सौमनस्यमप्येवम् ।

[०४५।१३-०४५।१४]
यदि सौमनस्यं विपाकः स्यात्पुण्यकारिणां तन्निमित्तं सौमनस्योत्पादात्तत्कर्म विपक्वं स्यात् ।

[०४५।१४]
वीतरागाणां तर्हि दौर्मनस्यासंभवात् ।

[०४५।१४-०४५।१५]
न चैवं विपाकः ।

[०४५।१५]
सौमनस्यमप्येषामव्याकृतं कोदृशं विपाकः स्यात् ।
यादृशं तादृशमस्तु ।

[०४५।१६]
सति तु संभवे सौमनस्यस्यास्ति विपाकावकाशी न दौअर्मनस्यस्य ।

[०४५।१६-०४५।१७]
सर्वथाऽसमुदाचारादिति नास्त्येवं दौर्मनस्यं विपाक इति वैभाषिकाः ।

[०४५।१७-०४५।१८]
तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाको दुर्गतावकुशलस्य ।

[०४५।१८]
मनैन्द्रियमुभयोरुभयस्य ।

[०४५।१८-०४५।१९]
सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य ।

[०४५।१९]
दुःखेन्द्रियमकुशलस्य ।

[०४५।१९-०४५।२०]
सुगताबुभयव्यञ्जनस्याकुशलेनतत्स्थानप्रतिलम्भः ।

[०४५।२०]
नत्विन्द्रियस्य कुशलाक्षेपात् ।
गतमेतद् ।

[०४५।२१]
इदं नु वक्तव्यम् ।
कतीन्द्रियाणि सविपाकानि कत्यविपाकानि ।

[०४५।२१-०४५।२२]
यदेतत्दौर्मनस्यमनन्तरोक्तं

[०४५।२३]
तत्त्वेकं सविपाकम् ।

[०४५।२४]
तदेकं सविपाकमेव ।
तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः ।

[०४५।२४-०४५।२५]
नहि तदव्याकृतमस्ति नाप्यनास्रवमसमाहितत्वात् ।

[०४५।२५]
अतो नास्त्यविपाकं दौर्मनस्यम् ।

[०४५।२६]
दश द्विधा ॥ २.१० ॥

[०४५।२७]
सविपाकान्यविपाकानि च ।
कतमानि दश ।

[०४६।०१]
मनोऽन्यवित्तिश्रद्धादीनि

[०४६।०२]
अन्यवित्तिग्रहणात्दौर्मनस्यादन्यत्वेदितं गृह्यते ।

[०४६।०२-०४६।०३]
श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाछिप्रज्ञाः ।

[०४६।०३-०४६।०४]
तत्र मनःसुखसौमनस्योपेक्षा अकुआशलाः कुशलाः सास्रवाश्च सविपाकाः ।

[०४६।०४]
अनास्रवा अव्याकृताश्चाविपाकाः ।

[०४६।०४-०४६।०५]
दुःखेन्द्रियं कुशलाकुआशलं सविपाकमव्याकृतमविपाकम् ।

[०४६।०५]
श्रद्धादीनि सस्रवाणि सविपाकान्यनास्रवाण्यविपाकानि ।

[०४६।०६]
अन्यदविपाकमिति सिद्धम् ।

[०४६।०७]
कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि ।
एकान्तेन तावत् ।

[०४६।०८]
अष्टकं कुशलं
[०४६।०९]
पञ्चश्रद्धादीनि त्रीणि चाज्ञास्यामीन्द्रियादीनि ।

[०४६।१०]
द्विधा ।

[०४६।११]
दौर्मनस्यम् ।

[०४६।१२]
कुशलं चाकुशलं च ।

[०४६।१३]
मनोऽन्या च वित्तिस्त्रेधा

[०४६।१४]
कुशलाकुशलाव्याकृतानि ।

[०४६।१५]
अन्यदेकधा ॥ २.११ ॥

[०४६।१६]
किञ्चिदन्यत् ।
जीविताष्टमं चक्षुरादि ।
एतदव्याकृतमेव ॥

[०४६।१७]
कतमदिन्द्रियं कतमधात्वाप्तमेषामिन्द्रियाणाम् ।

[०४६।१८]
कामाप्तममलं हित्वा ।
[०४६।१९]
कामप्रतिसंयुक्तं तावदिन्द्रियं वेदितव्यम् ।

[०४६।१९-०४६।२०]
एकान्तानास्रवमाज्ञास्यामीन्द्रियादित्रयं हित्वा ।

[०४६।२०]
तद्ध्यप्रतिसंयुक्तमेव ।

[०४६।२१]
रूपाप्तं स्त्रीपुमिन्द्रिये ।

[०४६।२२]
दुःखे च हित्वा

[०४६।२३]
अमलं चेति वर्त्तते ।
दुःखे इति दुःखदौर्मनस्ये ।

[०४६।२३-०४६।२४]
तत्र मैथुनधर्मवैराग्यादशोभाकरत्वाच्च रूपधातौ स्त्रीपुरुषेन्द्रिये न स्तः ।

[०४६।२४]
कथमिदानीं पुरुषास्त उच्यन्ते ।

[०४६।२५]
क्वोच्यन्ते ।
सूत्रे ।

[०४६।२५-०४६।२६]
“अस्थानमनवकाशो यत्स्त्री ब्रह्मत्वं कारयिष्यति ।

[०४६।२६]
नेदं स्थानं विद्यते ।
स्थानमेतत्विद्यते यत्पुरुष” इति ।

[०४६।२६-०४६।२७]
अन्यः पुरुषभावो यः कामछातौ पुरुषाणां भवति ।

[०४६।२७-०४६।२८]
दुःखेन्द्रियं नास्त्याश्रयस्याच्छत्वादकुशला भावाच्छ ।

[०४६।२८]
दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसन्तानत्वादाघातवस्त्वभावाच्च ।

[०४७।०१-०४७।०१]
आरूप्याप्तं सुखे चापोह्य रूपि च ॥ २.१२ ॥

[०४७।०२]
स्त्रीपुरुषेन्द्रिये दुःखे चामलं हित्वेति वर्त्तते ।
किमवशाइष्यते ।

[०४७।०२-०४७।०३]
मनोजीवितोपेक्षेन्द्रियाणि श्रद्धादीनि च पञ्च ।

[०४७।०३]
एतान्यारूप्यप्रतिसंयुक्तानि सन्ति नान्यानि ।

[०४७।०४]
कतीन्द्रियाणि दर्शनप्रहातव्यानि कति भावनाप्रहातव्यानि कत्यप्रहातव्यानि ।

[०४७।०५]
मनोवित्तित्रयं त्रेधा

[०४७।०६]
कतमद्वित्तित्रयम् ।
सुखसौमनस्योपेक्षाः ।

[०४७।०७]
द्विहेया दुर्मनस्कता ।

[०४७।०८]
दौअर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् ।

[०४७।०९]
नव भावनया ।

[०४७।१०]
हेयानीत्यधिकारः ।
जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावनाहेयान्येव ।

[०४७।११]
पञ्च त्वहेयान्यपि

[०४७।१२]
श्रद्धादीनि पञ्च भावनाहेयान्यप्यहेयान्यपि ।
सास्रवानास्रवत्वात् ।

[०४७।१३]
न त्रयम् ॥ २.१३ ॥

[०४७।१४]
त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकमनास्रवत्वात् ।
नहि निर्दोषं प्रहाणार्हम् ।

[०४७।१५]
उक्तः प्रकारभेदः ।

[०४७।१६]
लाभ इदानीं वक्तव्यः ।

[०४७।१६-०४७।१७]
कतीन्द्रियाणि कस्मिन्धातौ विपाकः प्रथमतो लभ्यन्ते ।

[०४७।१८]
कामेष्वादौ विपाको द्वे लभ्यते

[०४७।१९]
कायेन्द्रियं जीवितेन्द्रियं च ।
ते पुनः

[०४७।२०]
नोपपादुकैः ।

[०४७।२१]
उपपादुकप्रतिषेधादण्डजजरायुजसंस्वेदजईरिति वेदितव्यम् ।
कस्मान्न मनौपेक्षेन्द्रिये ।

[०४७।२२]
प्रतिसन्धिकाले तयोरवश्यं क्लिष्टत्वात् ।
अथोपपादुकैः कति लभ्यन्ते ।

[०४७।२३]
तैः षड वा

[०४७।२४]
यद्यव्यञ्जना भवन्ति ।
यथा प्राथमकल्पिकाः ।
कतमानि षट् ।

[०४७।२४-०४७।२५]
चक्षुःश्रोत्रघ्राणजिह्वाकायजीवितेन्द्रियाणि ।

[०४८।०१]
सप्त वा

[०४८।०२]
यद्येकव्यञ्जना भवन्ति ।

[०४८।०२-०४८।९२]
यथा देवादिषु ।

[०४८।०३]
अष्टौ वा

[०४८।०४]
यद्युभयव्यञ्जना भवन्ति ।
किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्ति ।

[०४८।०४-०४८।०५]
भवन्त्यपायेषु

[०४८।०५]
एवं तावत्कामधातौ ।
अथ रूपधातावारूप्यधातौ च कथमित्याह ।

[०४८।०६]
षड्रूपेषु

[०४८।०७]
कामप्रधानत्वात्कामधातुः कामा इति निर्दिश्यते ।

[०४८।०७-०४८।०८]
रूपप्रधानत्वाद्रूपधातू रूपाणीति ।

[०४८।०८-०४८।०९]
सूत्रेऽप्युक्तं “येऽपि ते भिक्षवः शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्या” इति ।

[०४८।०९]
तत्र रूपधातौ षड्डिन्द्रियाणि विपाकः परथमतो लभ्यन्ते ।

[०४८।०९-०४८।१०]
यान्येव कामधातावव्यञ्जनैअरुपपादुकैः

[०४८।११]
एकमुत्तरे ॥ २.१४ ॥

[०४८।१२]
रूपधातोरारूप्यधातुरुत्तरः ।
समापत्तितश्च परत्वादुपपत्तितश्च प्रधानतरत्वात् ।

[०४८।१३]
तस्मिनेकमेव जीवितेन्द्रियं विपाकः प्रथमतो लभ्यते नान्यत् ।

[०४८।१४]
उक्तो लाभः ।

[०४८।१५]
त्याग इदानीं वक्तव्यः ।
कस्मिन्धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति

[०४८।१६]
निरोधयत्युपरमान्नारूप्ये जीवितं मनः ।

[०४८।१७]
उपेक्षां चैव रूपेऽष्टौ

[०४८।१८]
रूपधातौ म्रियल्माणोऽष्टौ निरोधयति ।
तानि च त्रीणि चक्षुरादीनि पञ्च ।

[०४८।१८-०४८।१९]
सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते च ।

[०४८।२०]
कामे दश नवाष्टौ वा ॥ २.१५ ॥

[०४८।२१]
कामधातौ म्रियमाण उभयव्यञ्जनी दशेन्द्रियाणि निरोधयति ।

[०४८।२१-०४८।२२]
तानि चाष्टौ स्त्री पुरुषेन्द्रिये च ।

[०४८।२२]
एकव्यञ्जनो नव ।
अव्यञ्जनोऽष्टौ ।
सकृन्मरण एष न्यायः ।

[०४८।२३]
क्रममृत्यौ तु चत्वारि ।

[०४८।२४]
क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति ।
कायजीवितमनौपेक्षेन्द्रियाणि ।

[०४८।२५]
नह्येषां पृथग्निरोधः ।
एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः ।

[०४८।२६]
यदा तु कुशले चेतसि स्थितो म्रियते तदा

[०४९।०१]
षुभे सर्वत्र पञ्च च ।

[०४९।०२]
कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति ।

[०४९।०२-०४९।०३]
श्रद्धादीनि च पञ्चाधिकानि ।

[०४९।०३]
एषां कुशले चेतस्यवश्यंभावः ।

[०४९।०३-०४९।०४]
एवमारूप्येष्वष्टौ निरोधयति रूपेषु त्रयोदशाएति विस्तरेण गणनीयम् ।

[०४९।०५]
इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते ।

[०४९।०५-०४९।०६]
अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते ।

[०४९।०७]
नवाप्तिरन्त्य फलयोः

[०४९।०८]
नवभिरिन्द्रियैः प्रप्तिरन्त्यफलयोः ।
के पुनरन्त्ये ।
स्रोत आपत्तिफलमर्हत्त्वं च ।

[०४९।०९]
के मध्ये ।
सकृदागामिफलमनागामिफलं च ।

[०४९।०९-०४९।१०]
तत्र स्रोत आपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मनौपेक्षेन्द्रियाभ्यां चेति नवभिः ।

[०४९।१०-०४९।११]
आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यमाज्ञेन्द्रियं च विमुक्तिमार्गे ।

[०४९।११-०४९।१२]
उभाभ्यां हि तस्य प्राप्तिर्विसंयिओगप्राप्तेरावाहकसन्निश्रयत्वाद्यथाक्रमम् ।

[०४९।१२-०४९।१३]
अर्हत्त्वमस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैर्मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः ।

[०४९।१४]
सप्ताष्ट्नवभिर्द्वयोः ॥ २.१६ ॥

[०४९।१५]
सकृदागाम्यनागामिफलयोः प्रत्येकं सप्तभिरष्टभिर्नवभिष्चेन्द्रियैः प्राप्तिः ।

[०४९।१५-०४९।१६]
कथं कृत्वा ।

[०४९।१६-०४९।१७]
सकृदागामिफलं तावद्यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः ।

[०४९।१७]
पञ्चभिः श्रद्धादिभिरुपेक्षामनैन्द्रियाभ्यां चेति ।

[०४९।१७-०४९।१८]
अथ लोकोत्तरेण मार्गेण तस्याष्टभिरिन्द्रियै प्रप्तिः ।

[०४९।१८]
आज्ञेन्द्रियमष्टमं भवति ।

[०४९।१८-०४९।१९]
अथ भूयोवीतरागः प्राप्नोति तस्य नवभिर्येनेव स्रोत आपत्तिफलस्य ।

[०४९।१९-०४९।२०]
अनागामिफलं यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः ।

[०४९।२१]
यथा सकृदागामिफलस्य ।

[०४९।२१-०४९।२२]
अथ लोकोत्तरेण मार्गेण तस्याष्टभिस्तथैव ।

[०४९।२२]
अथ वीतरागः प्राप्नोति तस्य नवभिः ।

[०४९।२२-०४९।२३]
यथा स्रोत आपत्तिफलस्य ।

०४९२३-०४९२३]
अयं तु विशेषः ।

[०४९।२३-०४९।२४]
सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति ।

[०४९।२४]
निश्रयविशेषात् ।

[०४९।२४-०४९।२६]
यदाप्ययमानुपूर्विको नवमे विमूक्तिमार्गे तीक्ष्णेन्रियत्वा द्ध्यानं प्रविशाति लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति ।

[०४९।२६]
तत्रहि नवमे विमुक्तिमार्गे सौमनस्येन्द्रियमष्टमम् ।

[०४९।२६-०४९।२७]
भवत्यान
न्तर्यमार्गे तूपेक्षेन्द्रियमेव नित्यमुभाभ्यां च तस्य प्राप्तिः ।

[०४९।२७-०४९।२८]
अथ लोकोत्तरेण प्रविशाति तस्य नवभिरिन्द्रियैः प्राप्तिः ।

[०४९।२८]
आज्ञेन्रियं नवमं भवति ।

[०४९।२८-०५०।०१]
यत्तर्ह्यभिधर्म उक्तं “कतिभिरिन्द्रियैरर्हत्त्वं प्रप्नोतीत्याह एकादश्भ्हिरिति” ।

[०५०।०१-०५०।०२]
तत्कथं नवभिरित्युच्यते ।

[०५०।०२]
नवभिरेव तत्प्राप्नोति ।

[०५०।०३]
एकादशभिरर्हत्तवमुक्तं त्वेकस्य संभवात् ।

[०५०।०४-०५०।०५]
अस्ति संभवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्यीपेक्षाभिरर्हत्त्वं प्राप्नुयादत एकादशभिरित्युक्तम् ।

[०५०।०५-०५०।०६]
नतु खलु संभवोऽस्ति सुखादीनामेकस्मिन् काले ।

[०५०।०६]
कथमनागाभिनोऽप्येष प्रसङ्गो न भवति ।

[०५०।०६-०५०।०७]
नह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्न्नोति न च वीतरागपूर्वी परिहीयते ।

[०५०।०७-०५०।०८]
तद्वैराग्यस्य द्विमार्गप्रापणात् ।

[०५०।०९]
इदं विचार्यत्
कतमेनेन्द्रियेण समन्वागतः कतिभिः अवश्यं समन्वागतो भवति ।

[०५०।१०]
तत्र

[०५०।११]
उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वितः ॥ २.१७ ॥

[०५०।१२-०५०।१३]
य एषामुपेक्षादीनामन्यतमेन समन्वागतः सोऽवश्यं त्रिभिरिन्द्रियैः समन्वागतो भवत्येभिरेव ।

[०५०।१३]
नह्येषामन्योऽय्नेन विना समन्वागमः ।
शेषैस्त्वनियमः ।

[०५०।१३-०५०।१४]
स्यात्समन्वागतः स्यादसमन्वागतः ।

[०५०।१४-०५०।१५]
तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियै रारूप्योपपन्नो न समन्वागतः ।

[०५०।१५]
कामधातौ च येनाप्रतिलब्धविहीनानि ।

[०५०।१५-०५०।१६]
कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः ।

[०५०।१६]
स्त्रीन्द्रियेण रूपारूप्योपपन्नः ।
कामधतौ येनाप्रतिलब्धविहीनम् ।

[०५०।१६-०५०।१७]
एवं पुरुषेन्द्रियेण ।

[०५०।१७]
सुखेन्द्रियेण चतुर्ध्यानारूप्योपपन्नः पृथग्जनो न समन्वागतः ।

[०५०।१८]
सौमनस्येन्द्रियेण तृतीयचतुर्थध्यानारूप्योपपन्नः पृथग्जन एव ।

[०५०।१८-०५०।१९]
दुःखेन्द्रियेण रूपारूप्योपपन्नः ।

[०५०।१९]
दौर्मनस्येन कामवीतरागः ।

[०५०।१९-०५०।२०]
श्रद्धादिभिः समुच्छिन्नकुशलमूलः ।

[०५०।२०]
आज्ञास्यामीन्द्रियेण पृथग्जनफलथानसमन्वागताः ।

[०५०।२०-०५०।२१]
आज्ञेन्द्रियेण पृथग्जनदर्शनाशैक्षमार्गस्थाः ।

[०५०।२१]
आज्ञातावीन्द्रियेण पृथग्जनशैक्षैक्ष्या असमन्वागताः ।

[०५०।२२]
अप्रतिपिद्धास्ववस्थासु यथोक्तसमन्वागतो वेदितव्यः ।

[०५०।२३]
चतुर्भिः सुख कायाभ्यां

[०५०।२४-०५०।२५]
यः सुखेन्द्रियेण समन्वागतः सोऽवश्यं चतुर्भिरिन्द्रियैस्तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च ।

[०५०।२५]
यः कायेन्द्रियेण सोऽपि चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च ।

[०५१।०१]
पञ्चभिश्चक्षुरादिमान् ।

[०५१।०२]
यश्चक्षुरिन्द्रियेण सोऽवश्यं पञ्चभिरुपेक्षाजीवितमनः कायेन्द्रियैस्तेन च्

[०५१।०२-०५१।०३]
एवं श्रोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् ।

[०५१।०४]
सौमनस्यी च

[०५१।०५]
यश्चापि सौमनस्येन्द्रियेण सोऽवश्यं पञ्चभिरुपेक्षाजीवितमनःसुखसौमनस्यैः ।

[०५१।०६]
द्वितीयध्यानजस्तृतीयध्यानालाभी कतमेन सुखेन्द्रियेण समन्वागतो भवति ।

[०५१।०७]
क्लिष्टेन तृतीयध्यानभूमिकेन ।

[०५१।०८]
दुःखी तु सप्तभिः ।

[०५१।०९]
यो दुःखेन्द्रियेण सोऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः ।

[०५१।१०]
स्त्रीन्द्रियादिमान् ॥ २.१८ ॥

[०५१।११]
अष्टाभिः

[०५१।१२]
यः स्त्रीन्द्रियेण समन्वागतः सोऽवश्यमष्टभिः तैश्च सप्तभिः स्त्रीन्द्रियेणच ।

[०५१।१३]
आदिशब्देन पुरुषेन्द्रियदौर्मनस्यशरद्धादीनां संग्रहः ।

[०५१।१३-०५१।१४]
तद्वानपि प्रत्येकमष्टाभिः समन्वागतो भवति ।

[०५१।१४]
तैश्च सप्तभिरष्टमेन च पुरुषेन्द्रियेण ।
एवं दौर्मनस्येन्द्रियेण ।

[०५१।१४-०५१।१५]
श्रद्धादिमांस्तु तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च ।

[०५१।१६]
एकादशभिस्त्वाज्ञाज्ञातेन्द्रियान्वितः ।

[०५१।१७]
आज्ञात इन्द्रियमाज्ञातेन्द्रियम् ।

[०५१।१७-०५१।१८]
य आज्ञातेन्द्रियेण समन्वागतः सोऽवश्यमेकादशभिः सुखसौमनस्योपेक्षाजीवितमनश्रद्धादिबहिराज्ञेन्द्रियेण च ।

[०५१।१९]
एवमाज्ञा तावीन्द्रियेणापि ।
तैरेव दशभिराज्ञातावीन्द्रियेण च ।

[०५१।२०]
आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः ॥ २.१९ ॥

[०५१।२१]
कतमैस्त्रयोदशभिः ।

[०५१।२१-०५१।२२]
मनोजीवितकायेन्द्रियैः चतसृभिर्वेदनाभिः श्रद्धादिभिराज्ञास्यामीन्द्रियेण च ॥

[०५१।२३]
अथ यः स्र्वाल्पैः समन्वागतः स कियद्भिरिन्द्रियैः ।

[०५१।२४]
सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः ।

[०५१।२५]
युक्तः

[०५१।२६]
समुच्छिन्नकुशमूलो निःशुभः ।
स सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः ।

[०५१।२६-०५२।०१]
पञ्चभिर्वेदनादिभिः कायमनोजीवितैश्च ।

[०५२।०१]
वेदना हि वित्वेदयत इति कृत्वा ।
वेदनं वा वित् ।

[०५२।०२]
यथा संपदनं संपत् ।
यथा च निःशाउभः सर्वाल्पैरष्टाभिरिन्द्रियैर्युक्तः

[०५२।०३]
बालस्तथारूप्ये

[०५२।०४]
बाल इति पृथग्जनस्याख्या ।
कतमैरष्टाभिः ।

[०५२।०५]
उपेक्षायुर्मनःशुभैः ॥ २.२० ॥

[०५२।०६]
उपेक्षाजीवितमनोभिः श्रद्धादिभिश्च ॥

[०५२।०६-०५२।०७]
एकान्तकुशलत्वात्श्रद्धादीनि शुभग्रहणेन गृह्यन्ते ।

[०५२।०७]
आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः ।
न ।

[०५२।०७-०५२।०८]
अष्टाधिकाराद्द्वालाधिकाराच्च ॥

[०५२।०९]
अथ यः सर्वबहुभिरिन्द्रियैः समन्वागतः स कियद्भिः ।

[०५२।१०]
बहुभिर्युक्त एकान्नविंाशत्याऽमलवर्जितैः ।

[०५२।११]
अना स्रवणि त्रीणि वर्जयित्वा ।
स पुनः ।

[०५२।१२]
द्विलिङ्गः

[०५२।१३]
द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः ।
कश्चापरः ।

[०५२।१४]
आर्यो रागी

[०५२।१५]
अवीतरागोऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः ।

[०५२।१६]
एकलिङ्गद्वयमलवर्जितैः ॥ २.२१ ॥

[०५२।१७]
एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा ।
आज्ञातावीन्द्रियं द्वयोशाचान्यतरत् ।

[०५२।१७-०५२।१८]
उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेदः ।

[०५२।१९]
इदमिदानीं विचार्यते ।

[०५२।१९-०५२।२०]
किमेते संस्कृता धर्मा यथा भिन्नलक्षणा एवं भिन्नोत्पादा उताहो नियतसहोत्पादा अपि केचित्सन्ति ।

[०५२।२०]
सन्तीत्याह ।

[०५२।२०-०५२।२१
सर्व इमे धर्माः पञ्च भवन्ति ।

[०५२।२१]
रूपं चित्तं चैतसिकाश्च्त्तविप्रयुक्ताः संस्कारा असंस्कृतं च ।

[०५२।२२]
तत्रासंस्कृतं नैवोत्पद्यते ।
रूपिणां तु धर्माणामयं नियमः ।

[०५२।२३]
कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः ।

[०५२।२४]
सर्वसूक्ष्मो हि रूपसंघातः परमाणुरित्युच्याते ।
यतो नान्यतरो विज्ञायेत ।

[०५२।२४-०५२।२५]
स काम घातावशब्दकोऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते नान्यतमेन हीनः।

[०५२।२५-०५३।०१]
अष्टो द्रव्याणिचत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपगन्धरसस्प्रष्टव्यानि ।

[०५३।०१-०५३।०२]
सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते दशद्रव्यको वा ।

[०५३।०२]
तत्र तावत्

[०५३।०३]
कायेन्द्रियी नवद्रव्यः

[०५३।०४]
कायेन्द्रियमत्रास्तीति सोऽयं कायेन्द्रियी ।
तत्र नवद्रव्याणि ।
तानि चाष्टौ कायेन्द्रियं च ।

[०५३।०५]
दशद्रव्योऽपरेन्द्रियः ॥ २.२२ ॥

[०५३।०६]
अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि ।

[०५३।०६-०५३।०७]
तान्येव नव चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम् ।

[०५३।०७-०५३।०८]
सशब्दा पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादश द्रव्यका उत्पद्यन्ते ।

[०५३।०८-०५३।०९]
अस्ति हीन्द्रियाविनिर्भागी शब्दोऽपि य उपात्तमहाभूतहेतुकः ।

[०५३।०९-०५३।१०]
कथमिहाविनिर्भागे भूतानां कश्चिदेव संघातः कठिन उत्पद्यते कश्चिदेव द्रव उष्णो वा समुदीरणो वा ।

[०५३।१०-०५३।११]
यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोपलब्धिः ।

[०५३।११]
सूचीतूनी कलापस्पर्शवत्सक्तुलवणचूर्णरसवच्च ।

[०५३।११-०५३।१२]
कथं पुनस्तेषु शेषास्तित्वं गम्यते ।

[०५३।१२]
कर्मतः संग्रहघृतिपक्तिव्यूहनात् ।

[०५३।१२-०५३।१३]
प्रत्ययलाभे च सति कठिनादीनां द्रवणा दिभावातप्सु शैत्यातिशयादौष्ण्यं गम्यत इत्यपरे ।

[०५३।१३-०५३।१४]
अव्यति भेदेऽपि तु स्याच्छैत्यातिशयः ।

[०५३।१४]
शब्दवेदनातिशयवत् ।

[०५३।१४-०५३।१५]
बीजतस्तेषु तेषां भावो न स्वरूपत इत्यपरे ।

[०५३।१५]
“सन्त्यस्मिन् दारुस्कन्धे विविधा धातव”इति वचनात् ।

[०५३।१५-०५३।१६]
कथं वायौ वर्णसद्भावः ।

[०५३।१६]
श्रद्धानीय एषोऽर्थो नानुमानीयः ।

[०५३।१६-०५३।१७]
संस्पन्दतो गन्धग्रहणात्तस्य वर्णाव्यभिचारात् ।

[०५३।१७-०५३।१८]
रूपधातौ गन्धरसयोरभाव उक्तस्तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका इत्युक्तरूपत्वात्न पुनरुच्यन्ते ।

[०५३।१९]
किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते आहोस्विदायतनम् ।
किं चातः ।

[०५३।१९-०५३।२०]
यदि द्रव्यमेव द्रव्यं गृह्यते अत्यल्पमिदमुच्यते अष्टद्रव्यको नवदशाद्रव्यक इति ।

[०५३।२०-०५३।२१]
अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम् ।

[०५३।२१]
तस्यापि परमाणुसंचितत्वात् ।

[०५३।२१-०५३।२२]
गुरुत्वलघुत्वयोश्चान्यतरेण श्लक्ष्णत्वकर्कशत्वयोश्च ।

[०५३।२२-०५३।२३]
शीतेनापि क्वचित्जिघत्सया पिपासया च ।

[०५३।२३]
अथाप्यायतनद्रव्यं गृह्यते अयिवह्णिदमुच्यते अष्टद्रव्यक इति ।

[०५३।२३-०५३।२४]
चतुर्द्रव्यको हि वक्तव्यो यावता भूतान्यपि स्प्रष्टव्यायतनम् ।

[०५३।२४-०५३।२५]
किञ्चिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं किञ्चिदत्रायतनं द्रव्यं गृह्यते यदाश्रितभूतम् ।

[०५३।२५-०५३।२६]
एवमपि भूयांसि भूतद्रव्याणि भवन्त्युपादायरूपाणां प्रत्येकं भूतचतुष्काश्रितत्वात् ।

[०५४।०१]
अत्र पुनर्जातिद्रव्यं गृह्यते ।
भूतचतुष्कान्तराणां स्वजात्यनतिक्रमात् ।

[०५४।०१-०५४।०२]
कः पुनर्यत्स एवं विकल्पेन वक्तुम् ।

[०५४।०२]
च्छन्दतोऽपि हि वाचां प्रवृत्तिरर्थस्तु परीक्ष्यः ।

[०५४।०३]
उक्तो रूपिणां सहोत्पादनियमः ।
शेषाणां वक्तव्यस्तत्र तावत् ।

[०५४।०४]
चित्तं चैत्ताः सहवश्यम् ।

[०५४।०५]
नह्येते विनाऽन्योन्यं भवितुमुत्सहन्ते ।

[०५४।०६]
सर्वं संस्कृतलक्षणैः ।

[०५४।०७]
सहावश्यमिति वर्त्तते ।

[०५४।०७-०५४।०८]
यत्किं चिदुत्पद्यते रूपं चित्तं चैतसिका विप्रयुक्ता वा सर्वं संस्कृतलक्षणैः सार्धमुत्पद्यते ।

[०५४।०९]
प्राप्त्या वा ।

[०५४।१०-०५४।४१०]
प्राप्त्या सह सत्वाख्यमेवोत्पद्यते नान्यदिति विकल्पार्थो वाशब्दः ।

[०५४।११]
चैत्ता इत्युच्यन्ते ।
क इमे चैत्ताः ।

[०५४।१२]
पञ्चधा चैत्ता महाभूम्यादिभेदतः ॥ २.२३ ॥

[०५४।१३-०५४।१४]
पञ्च प्रकाराश्चैत्ता महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः अकुशलमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश्च ।

[०५४।१४]
भूमिर्नाम गतिविशयः ।

[०५४।१४-०५४।१५]
यो हि यस्य गतिविशयः स तस्य भूमिरित्युच्यते ।

[०५४।१५-०५४।१६
तत्र महती भूमिरेशामिति महाभूमिकाः ये सर्वत्र चेतसि भवन्ति ।

[०५४।१६]
के पुनः सर्वत्र चेतसि ।

[०५४।१७-०५४।१८]
वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः ।
मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि ॥ २.२४ ॥

[०५४।१९]
इमे किल दश धर्माः सर्वत्र चित्तक्षणे समग्रा भवन्ति ।
तत्र वेदना त्रिविधोऽनुभवः ।

[०५४।२०]
सुखो दुःखोऽदुःखा सुखश्च ।
चेतना चित्ताभिसंस्कारो मनस्कर्म ।

[०५४।२०-०५४।२१]
संज्ञा संज्ञानं विषयनिमित्तोद्रूह ।

[०५४।२१]
च्छन्दः कर्त्तृकामता ।
[०५४।२१-०५४।२२]
स्पर्श इन्द्रियविषयविज्ञानसन्निपातजा स्पृष्टिः ।

[०५४।२२]
मतिः प्रज्ञा धर्मप्रविचयः ।

[०५४।२२-०५४।२३]
स्मृतिरालम्बनासंप्रमोषः ।

[०५४।२३]
मनस्कारश्चेतस आभोगः ।
अधिमोक्षोऽधिमुक्तिः ।

[०५४।२३-०५४।२४]
समाधिश्चित्तस्यैकाग्रता ।

[०५४।२४]
सूक्ष्मो हि चित्तचैत्तानां विशेषः ।

[०५४।२४-०५४।२५]
स एव दुःपरिच्छेदः प्रवाहेष्वपि तावत्किं पुनः क्षणेषु ।

[०५४।२५-०५५।०२]
रूपिणीनामपि तावदोषधीनां बहुरसानां कासंचिदिन्द्रियग्राह्या रसविशेषा दुरवधारा भवन्ति किं पुनर्ये धर्मा अरूपिणो बुद्धिग्राह्याः ।

[०५५।०२-०५५।०३]
कुशला महाभूमिरेषां त इमे कुशल महाभूमिका ये सर्वदा कुशले चेतसिभवन्ति ।

[०५५।०३]
के पुनस्त इति ।

[०५५।०४-०५५।०५]
श्रद्धाऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा ।
मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ २.२५ ॥

[०५५।०६]
इमे दश धर्मा कुशले चेतसि नित्यं भवन्ति ।
तत्र श्रद्धा चेतसः प्रसादः ।

[०५५।०६-०५५।०७]
सत्यरत्न कर्मफलाभिसंप्रत्यय इत्यपरे ।

[०५५।०७]
अप्रमादः दुशलानां धर्माणां भावनाः ।

[०५५।०७-०५५।०८]
का पुनस्ते भ्योऽन्या भावना ।

[०५५।०८]
या तेष्ववहितता ।

[०५५।०८-०५५।०९]
चेतस आरक्षेति निकायान्तरीताः सूत्रे पठन्ति ।

[०५५।०९]
प्रश्रब्धिश्चित्तकर्मण्यता ।
ननु च सूत्रे कायप्रश्रब्धिरप्युक्ता ।

[०५५।०९-०५५।१०]
न खलु नोक्ता ।

[०५५।१०]
सा तु यथा कायिकी वेदना तथा वेदितव्या ।

[०५५।१०-०५५।११]
कथं सा बोध्यङ्गेषु योक्ष्यते ।

[०५५।११]
तत्र तर्हि कायकर्मण्यतैव कायिकी प्रश्रब्धिर्वेदितव्या ।

[०५५।११-०५५।१२]
कथं सा बोध्यङ्गमितयुच्यते ।

[०५५।१२]
बोध्यङ्गानुकूल्यात् ।

[०५५।१२-०५५।१३]
सा हि कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गमावहति ।

[०५५।१३]
अस्ति पुनः स्वचितन्यत्राप्येवं दृश्यते ।
अस्तीत्याह ।

[०५५।१३-०५५।१४]
तद्यथा प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यङ्गमुक्तं भगवता ।

[०५५।१४-०५५।१५]
प्रतिघः प्रतिघनिमित्तं च व्यापादनिवरणमुक्तम् ।

[०५५।१५-०५५।१६]
सम्यक्दृष्टिसंकल्पव्यायामाश्च प्रज्ञास्कन्ध उक्ताः ।

[०५५।१६-०५५।१७]
नच संकल्पव्यायामौ प्रज्ञास्वभावौ तस्यास्त्वनुगुणाविति तास्यात्वनुगुणाविति ताच्छय्द्यं लभेते ।

[०५५।१७-०५५।१८]
एवं कायप्रश्रब्धिरपि बोध्यङ्गानुगुण्याद्वोध्यङ्गशब्दं लभते ।

[०५५।१८]
उपेक्षा चित्तसमता चित्तानाभोगता ।
कथमिदानीमेतद्योक्ष्यते ।

[०५५।१८-०५५।१९]
“तत्रैव चित्ते आभोगात्मको मनस्कारोऽनाभोगात्मिका चोपेक्षे”ति ।

[०५५।१९-०५५।२०]
ननु चोक्तं “दुर्ज्ञान एषां विशेष” इति ।

[०५५।२०]
अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते ।

[०५५।२०-०५५।२१]
इदं तु खल्वतिदुर्ज्ञानं यद्विरोधेऽप्यविरोध इति ।

[०५५।२१]
अन्यत्राभोगोऽन्यत्रानाभोग इति कोऽत्र विरोधः ।

[०५५।२१-०५५।२२]
न तर्हीदानीमेकालम्बनाः सर्वे संप्रयुक्ताः प्राप्नुवन्ति ।

[०५५।२२-०५५।२३]
एवञ्जातीयकमत्रान्यदप्यायास्यतीति यस्तस्य नयः सोऽस्यापि वेदितव्यः ।

[०५५।२३]
ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते ।

[०५५।२३-०५५।२४]
मूलद्वयं द्वे कुशलमूले अलोभाद्वेषौ ।

[०५५।२४]
अमोहोऽप्यस्ति स तु प्रज्ञात्मकः ।

[०५५।२४-०५५।२५]
प्रज्ञा च महाभूमिकेति नासौ कुशलमहाभूमिक एवोच्यते ।

[०५५।२५]
अविहिंसा अविहेठना ।
वीर्यं चेतसोऽभ्युत्साहः ।

[०५६।०१]
उक्ताः कुशला महाभूमिकाः ।

[०५६।०२]
महती भूमिर्महाभूमिः ।

[०५६।०२-०५६।०३]
क्लेशा महाभूमिरेषां त इमे क्लेशमहाभूमिका ये धर्माः सदैव क्लिष्टे चेतसि भवन्ति ।

[०५६।०३]
के पुनस्ते सदैव क्लिष्टे चेतसि भवन्ति ।

[०५६।०४]
मोहः प्रमादः कौशीद्यमा श्रद्ध्यं स्त्यान्मुद्धवः ।

[०५६।०५]
क्लिष्टे सदैव

[०५६।०६]
तत्र मोहो नामाविद्याऽज्ञानमसंप्रख्यानम् ।

[०५६।०६-०५६।०७]
प्रमादः कुशलानां धर्माणामभावनाऽप्रमाद विपक्षो धर्मः ।

[०५६।०७]
कौशीद्यं चेतसो नाभ्युत्साह्हो वीर्यविपक्षः ।

[०५६।०७-०५६।०८]
आश्रद्ध्यं चेतसोऽप्रसादः श्रद्धाविपक्षः ।

[०५६।०८]
स्त्यानं कतमत् ।

[०५६।०८-०५६।०९]
या कायगुरुता चित्तगुरुता कायाकर्मण्यता चित्ताकर्मण्यता ।

[०५६।०९]
कायिकं सत्यानं चैतसिकं स्त्यानमित्युक्तमभिधर्मे ।

[०५६।१०]
कथं चैतसिको धर्मः कायिक इत्युच्यते ।
यथा कायिकी वेदना ।

[०५६।१०-०५६।११]
औद्धत्यं पुनश्चेतसोऽव्युपशमः ।

[०५६।११]
इतीमे षट्क्लेशमहाभूमिकाः ।

[०५६।११-०५६।१२]
ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते ।

[०५६।१२-०५६।१३]
“आश्रद्ध्यं कौशीद्यं मुषितस्मृतिता चेतसो विक्षेपः अविद्या असंप्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्चे” ति ।

[०५६।१४]
प्रप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञः ।
का पुनरत्रेष्टिः ।

[०५६।१४-०५६।१६]
मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षा महाभूमिकत्वात्न क्लेशमहाभूमिका एवावधार्यन्ते ।

[०५६।१६]
यथिवामोहः कुशलमहाभूमिको नावधार्यते प्रज्ञास्वभावत्वात् ।

[०५६।१७]
स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता ।
समाधिरेव क्लिष्टो विक्षेप इत्येवमादि ।

[०५६।१८-०५६।१९]
अत एवोच्यते “ये महाभूमिकाः क्लेशमहाभूमिका अपि त” इति ।

[०५६।१९]
चतुष्कोटिकः ।
प्रथमा कोटिर्वेदना चेतना संज्ञा च्छन्दः स्पर्शश्च ।

[०५६।१९-०५६।२०]
द्वितीयाऽश्राद्ध्यं कौशीद्यमविद्या औद्धत्यं प्रमादश्च ।

[०५६।२०-०५६।२१]
तृतीया मुषितस्मृत्यादयः पञ्च क्लिष्टा यठोक्ताः ।

[०५६।२१]
चतुर्थ्येतानाकारान् स्थापयित्वेति ।

[०५६।२१-०५६।२२]
केचित्तु मिथ्यासमाधेरन्यचेतसो विक्षेपमिच्छन्ति ।

[०५६।२२]
तेषामन्यथा चतुष्कोटिकः ।

[०५६।२२-०५६।२३]
स्त्यानं पुनरिष्यते सर्वक्लेशसंप्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे कस्यापराधः ।

[०५६।२३-०५६।२४]
एवं त्वाहुः पठितव्यं भवेत्समाध्यनुगुणत्वात्तु न पठितम् ।

[०५६।२४-०५६।२५]
क्षिप्रतरं किल स्त्यानचरितः समाधिमुत्पादयेन्नौद्धत्यचरित इति ।

[०५६।२५-०५६।२६]
कः पुनः स्त्यानचरितो यो नौद्धत्यचरितः को वा औद्धत्यचरितो यो न स्त्यानचरितः ।

[०५६।२६]
नह्येते जातु सहचरिष्णुतां जहीतः ।

[०५६।२६-०५६।२७]
तथापि यद्यस्याधिमात्रं स तच्चरितो ज्ञातव्यः ।

[०५६।२७]
अतः षडेव क्लेशमहाभूमिकाः सिद्ध्यन्ति ।

[०५६।२८]
एते हि सदा क्लेष्ट एव चेतसि भवन्ति नान्यत्र ॥

[०५७।०१]
अकुशले त्वाह्रीक्यमनपत्रपा ॥ २.२६ ॥

[०५७।०२-०५७।०३]
अकुशले तु चेतस्याह्रीक्यमनपत्राप्यं च नित्यं भवत इत्येतौ द्वौ धर्मावकुशलमहाभूमिकावुच्येते ।

[०५७।०३]
तयोश्च पश्चाल्लक्षणं वक्ष्यते ।

[०५७।०४-०५७।०५]
क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः ।
मायामद विहिंसाश्च परीत्तक्लेश्भूमिकाः ॥ २.२७ ॥
[०५७।०६-०५७।०७]
परीत्तक्लेशा भूमिरेषां त इमे परीत्तक्लेशभूमिका अविद्यामात्रेण भावनाहेयेन मनोभूमिकेनैव च संप्रयोगात् ।

[०५७।०७]
एषां तु निर्देक्श उपक्लेशेषु करिष्यते ।

[०५७।०८]
उक्ता इमे पञ्चप्रकाराश्चैत्ताः ।

[०५७।०८-०५७।०९]
अन्येऽपि चानियताः सन्ति वितर्कविचारकौकृत्यमिद्धादयः ।

[०५७।०९]
तत्र वक्तव्यं कस्मिंश्चित्ते कति चैत्ता अवश्यं भवन्तीति ।

[०५७।१०]
कामावचरं तावत्पञ्चविधं चित्तम् ।
कुशलमकुशलम् ।

[०५७।१०-०५७।११]
तत्राकुशलं द्विविधमावेणिकमन्यक्लेशसंप्रयुक्तं च ।

[०५७।११-०५७।१२]
अव्याकृतं द्विविधं निवृताव्याकृतमनिवृताव्याकृतं च ।

[०५७।१२]
तत्र तावत्कामावचरचित्तमवश्यं सवितर्कं सविचारम् ।
अतोऽत्र

[०५७।१३]
सवितर्कविचारत्वात्कुशले कामचेतसि ।

[०५७।१४]
द्वाविंशतिश्चैतसिकाः

[०५७।१५]
अवश्यं भवन्ति ।
दश महाभूमिका दश कुशलमहाभूमिका वितर्को विचारश्च ।

[०५७।१६]
कौकृत्यमधिकं क्वचित् ॥ २.२८ ॥

[०५७।१७]
नहि सर्वत्र कुशले चेतसि कौकृत्यमस्ति ।

[०५७।१७-०५७।१८]
यत्र त्वस्ति तत्र तदेवाधिकं कृत्वा त्रयोविंशतिश्चैत्ता भवन्ति ।

[०५७।१८]
किमिदं कौकृत्यं नाम ।
कुकृतस्य भावः कौकृत्यम् ।

[०५७।१९]
इह तु पुनः कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते चेतसो विप्रतिसारः ।

[०५७।१९-०५७।२१]
तद्यथा शून्यतालल्म्वनं विमोक्षमुख्ं शून्यतेत्युच्यते अशुभालम्बनश्चालोभोऽशुभ इति ।

[०५७।२१-०५७।२२]
लोकेऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः सर्वो ग्राम आगतः सर्वो देश आगत इति ।

[०५७।२२]
स्थानभूतं च कौकृत्यं विप्रतिसारस्य ।

[०५७।२२-०५७।२३]
फले वा हेतूपचारोऽयम् ।

[०५७।२३-०५७।२४]
यथोक्तं “षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यमि”ति ।

[०५७।२४]
यत्तर्हि अकृतालम्बनं तत्कथं कौकृत्यम् ।
अकृतेऽपि कृताख्या भवति ।

[०५८।०१]
न मया साधु कृतं यन्न कृतमिति ।
कतमत्कौकृत्यं कुशलम् ।

[०५८।०१-०५८।०२]
यत्कुशलमकृत्वातप्यते अकुशलं च कृत्वा ।

[०५८।०२]
विपर्ययादकुशलं कौकृत्यम् ।

[०५८।०२-०५८।०३]
तदेतदुभयमप्युभयाधिष्टानम् ।

[०५८।०४]
आवेणिके त्वकुशले दृष्टियुक्ते च विंशातिः ।

[०५८।०५]
यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः ।

[०५८।०५-०५८।०६]
दश महाभूमिकाः षट्क्लेआशमहाभूमिका द्वावकुशलमहाभूमिकौ वितर्कोविचारश्च ।

[०५८।०६-०५८।०७]
आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशोऽस्ति रागादिः ।

[०५८।०७-०५८।०८]
दृष्टियुक्तेऽप्यकुशले विंशतिर्य एवावेणिके ।

[०५८।०८]
ननु च दृष्ट्यधिकत्वादेक विंशतिर्भवन्ति ।
न भवन्ति ।

[०५८।०८-०५८।०९]
यस्मान्महाभूमिक एव कश्चित्प्रज्ञाविशेषो दृष्टिरित्युच्यते ।

[०५८।०९-०५८।१०]
तत्राकुशलं दृष्टियुक्तं यत्र मिथ्यादृष्टिर्वा दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा ।

[०५८।११]
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः ॥ २.२९ ॥

[०५८।१२-०५८।१३]
यत्र पुनश्चतुर्भिः क्लेशैः संप्रयुक्तमकुशलं चित्तं रागेण व प्रतिघेन वा मानेन वा विचिकित्सया वा तत्रैकविंशतिर्भवन्ति ।

[०५८।१३-०५८।१४]
स च क्लेशः आवेणिकोक्ताश्च विंशतिः ।

[०५८।१४-०५८।१५]
क्रोधादिभिरप्युपक्लेशैर्यथोक्तैः संप्रयुक्ते चित्ते एते च विंशतिः स चोपक्लेश इत्येकविंशतिर्भवन्ति ।

[०५८।१५]
कौकृत्येनाप्येकविंशतिः ।

[०५८।१५-०५८।१६]
तदेव कौकृत्यमेकविंशतितमं भवति ।

[०५८।१६]
समासत आवेणिके चेतस्यकुशले दृष्टियुक्ते च विंशतिः ।

[०५८।१६-०५८।१७]
अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वेकविंशतिः ।

[०५८।१८]
निवृतेऽष्टदश

[०५८।१९-०५८।१८]
सत्कायान्तग्राहदृष्टिसंप्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् ।

[०५८।१९-०५८।२०]
तत्राष्टादश चैत्ताः ।

[०५८।२०]
दश महाभूमिकाः षट्क्लेशमहाभूमिकाः वितर्कविचारौ च ।

[०५८।२०-०५८।२१]
दृष्टिः पूर्ववदेव नाधिका भवति ।

[०५८।२२]
अय्नत्र द्वादशाव्याकृते मताः ।

[०५८।२३]
निवृतादन्यदव्याकृतमनिवृताव्याकृतम् ।
तत्र द्वादश चैत्ता इष्टाः ।

[०५८।२३-०५८।२४]
दश महाभूमिका वितर्कविचारौ च ।

[०५८।२४]
बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्ति ।

[०५८।२४-०५८।२५]
तेषां तत्संप्रयुक्ते चेतसि त्रयोदश भवन्ति ।

[०५८।२६]
मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत् ॥ २.३० ॥

[०५८।२७]
सर्वैरेभिर्यथोक्तै श्चैतैर्मिद्धमविरुद्धं कुशलाकुशलाव्याकृतत्वात् ।

[०५८।२७-०५९।०१]
अतो तत्र तत्स्यात्तत्राधिकं तद्वेदितव्यम् ।

[०५९।०१-०५९।०२]
यत्र द्वाविंशतिस्तत्र त्रयोविंशतिर्यत्र त्रयोविंशतिस्तत्र चतुर्विंशतिरित्येवमादि ।

[०५९।०२]
य एव कामधातौ चैत्तानां नियम उक्तः

[०५९।०३]
कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः ।

[०५९।०४]
अतो यथोक्तात्कौकृत्यं मिद्धं च सर्वथा नास्ति प्रथमे ध्याने यत्किञ्चिदकुशलम् ।

[०५९।०५]
प्रतिघः शाठ्यमदमायावर्ज्याश्च क्रोधादय आह्रीक्यानपत्राप्ये च ।
अन्यत्सर्व तथैव ।

[०५९।०६]
य एव प्रथमे ध्याने न सन्ति त एव

[०५९।०७]
ध्यानान्तरे वितर्कश्च

[०५९।०८]
नास्ति ।
शेषं तथैव ।

[०५९।०९]
विचारश्चाप्यतः परम् ॥ २.३१ ॥

[०५९।१०-०५९।११]
ध्यानान्तरात्परेण द्वितीयादिषु ध्यानेष्वारूप्येषु च यथाप्रतिषिद्धं नास्ति विचारश्च ।

[०५९।११]
माया शाठ्यं चेत्यपिशब्दात् ।
शेषं तथैव ।

[०५९।११-०५९।१२]
ब्रह्मणो हि यावच्छाठ्यं पठ्यते पर्षत्सम्बन्धत्वान्नोर्ध्वम् ।

[०५९।१२-०५९।१३]
स हि स्वस्यां पर्षद्यश्वजिता भिक्षुणा प्रश्नं पृष्टः “कुत्रेमानि ब्रह्मन् चतवारि महाभूतान्यपरिशेषं निरुध्यन्ते” इति ।

[०५९।१३-०५९।१४]
अप्रजानन् क्षेपमकार्षीत् ।

[०५९।१४-०५९।१५]
“अहमस्मिन् ब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भूतानामि”ति ।

[०५९।१५]
उक्तमेतद्यस्यां भूमौ यत्र चित्ते यावन्तश्चैत्ताः ॥

[०५९।१६]
इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं नानाकारणं वक्ष्यते ।

[०५९।१६-०५९।१७]
आह्रीक्यस्यानपत्राप्यस्य च किं नानाकारणम् ।

[०५९।१८]
अह्रीरगुरुता

[०५९।१९-०५९।२०]
गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयमवशवर्तिता आह्रीक्यं गौरवप्रतिद्वन्द्वो धर्मः ॥

[०५९।२१]
अवद्ये भयादर्शित्वमत्रपा ।

[०५९।२२]
अवद्यं नाम यद्विगर्हितं सद्भिः ।
तत्राभयदर्शिताऽनपत्राप्यम् ।

[०५९।२२-०५९।२३]
भयमत्रानिष्टं फलं भीयतेऽस्मादिति ।

[०५९।२३-०५९।२४]
कथमिदं विज्ञातव्यमभयस्य दर्शनमभयदर्शिता आहोस्वित्भयस्यादर्शनम् ।

[०५९।२४]
किं चातः ।

[०५९।२४-०५९।२५]
अभयस्य दर्शनं चेत्प्रज्ञा विज्ञास्यते भयस्यादर्शनं चेदविद्या विज्ञास्यते ।

[०५९।२५]
नैव हि दर्शनं दर्शिता नाप्यदर्शनमदर्शिता ।
किं तर्हि ।

[०५९।२५-०५९।२६]
यस्तयोर्निमित्तमुपक्लेशस्तच्चानपत्राप्यमिति ।

[०५९।२६]
अन्ये पुनराहुः ।

[०५९।२६-०६०।०१]
आत्मापेक्षया दोषैरलज्जन माह्रीक्यं परापेक्षयाऽनपत्राप्यमिति ।

[०६०।०१]
एवमपि द्वे अपेक्षे युगपत्कथं सेत्स्यतः ।

[०६०।०१-०६०।०३]
न खलूच्यते युगपदात्मानं परं चापेक्षत इत्यपि त्वस्त्यसौ कदाचिदलज्जा या आत्मानमपेक्षमाणस्यापि प्रवर्तते सा आह्रीक्यम् ।

[०६०।०३-०६०।०४]
अस्ति या परमपेक्षमाणस्य प्रवर्त्तते साऽनपत्राप्यम् ।

[०६०।०४]
विपर्ययेण ह्रीरपत्राप्यं च वेदितव्यम् ।

[०६०।०४-०६०।०५]
प्रतहमेन तावत्कल्पेन सगौरवता सप्रतीशता न भयवशव्र्तिता ह्रीः ।

[०६०।०५]
अवद्येष्वभयदर्शिअताऽपत्राप्यम् ।

[०६०।०६]
द्वितीयेन कल्पेनात्मपरापेक्षाभ्यां लज्जने ।

[०६०।०७]
प्रेम्णो गौरवस्य च किं नानाकारणम् ।

[०६०।०८]
प्रेम श्रद्धा ।

[०६०।०९]
द्विविधं हि प्रेम क्लिषाटमक्लिष्टं च ।
तत्र क्लिष्टं तृष्णा यथा पुत्रदारादिषु ।

[०६०।०९-०६०।१०]
अक्लिष्टं श्रद्धा शास्तृगुरुगुणान्वितेषु ।

[०६०।१०]
स्याच्छ्रद्धा नप्रेम ।

[०६०।१०-०६०।११]
दुःधसमुदयालम्बना श्रद्धा ।

[०६०।११]
स्यात्प्रेम न श्रद्धा ।
क्लिष्टं प्रेम ।

[०६०।११-०६०।१२]
उभयं निरोधमार्गालम्बना श्रद्धा ।

[०६०।१२]
नोभयमेतानाकारान् स्थापयित्वा ।

[०६०।१२-०६०।१३]
पुद्गलेषु तु प्रेम न गौरवं पुत्रदारसार्धं विहार्यन्तेवासिषु ।

[०६०।१३]
गौरवं न प्रेम अन्यगुरुषु ।
उभयं स्वगुरुषु ।

[०६०।१३-०६०।१४]
नोभयमेतानाकारान् स्थापयित्वा ।

[०६०।१४]
श्रद्धा हि नाम गुणसंभावना ।
तत्पूर्विका च प्रियता प्रेम ।

[०६०।१५]
तस्मान्न सैव प्रेमेत्यपरे ।

[०६०।१६]
गुरुत्वं ह्रीः ।

[०६०।१७]
गौरवं हि नाम सप्रतीशता ।
तत्पूर्विका च लज्जा ह्रीः ।

[०६०।१७-०६०।१८]
अतो न गौरवमेव ह्लीरित्यपरे ।

[०६०।१९]
ते पुनः कामरूपयोः ॥ २.३२ ॥

[०६०।२०]
आरूप्यधातौ प्रेमगौरवे न स्तः ।

[०६०।२०-०६०।२१]
ननु च श्रद्धा ह्रीश्च कुशलमहाभूमिकत्वात्तत्रापि विद्येते ।

[०६०।२१]
द्विविधा हि श्रद्धा धर्मेषु पुद्गलेषु च ।
एवं सप्रतीशताऽपि ।

[०६०।२१-०६०।२२]
तत्र ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्तः ।

[०६०।२२]
ते चेह प्रेमगौरवे अभिप्रेते ।

[०६०।२३]
वितर्कविचारयोः किं नानाकारणम् ।

[०६०।२४]
वितर्कचारा वौदार्यसूक्ष्मते ।

[०६०।२५]
कस्य ।
चेतस इति पश्चाद्वक्ष्यति ।
चित्तौदारिकता वितर्कः ।
चित्तसूक्ष्मता विचारः ।

[०६०।२५-०६०।२६]
कथं पुनः अनयोरेकत्र चित्ते योगः ।

[०६०।२६]
केचिदाहुः ।

[०६०।२६-०६१।०१]
यथाऽप्यसुनिष्ठ्यूतं सर्पिः सूर्यरश्मिभिरूपरिष्टात्स्पृष्टं नातिश्यायते नातिविलीयते एवंवितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्योदारिक मित्युभयोरपि तत्रास्ति व्यापारः ।

[०६१।०१-०६१।०३]
एवं तर्हि निमिट्तभूतौ वितर्कविचारावौदारिक सूक्ष्मतयोः प्राप्नुतो यथा पयश्चा तपश्चसर्पिषः श्यानत्व विलीनत्वयोर्नतु पुनस्तत्स्वभावौ ।

[०६१।०३-०६१।०४]
आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद्वितर्कविचारौ स्याताम् ।

[०६१।०४-०६१।०५]
नचौदारिकसूक्ष्मातया जातिभेदो युकतः ॥

[०६१।०५]
अन्ये पुनराहुः ।

[०६१।०५-०६१।०६]
वाक्संस्कारा वित्र्कविचाराः सूत्र उक्ताः ।

[०६१।०६]
“वितर्क्य विचार्य वाचं भाषते नावितस्र्याविचार्ये”ति ।

[०६१।०६-०६१।०७]
तत्र ये औदारिकास्ते वितर्काः ये सूक्ष्मास्ते विचाराः ।

[०६१।०७-०६१।०८]
यदि चैकत्र चित्तेऽन्यो धर्म औदारिकोऽन्यः सूक्ष्मः कोऽत्र विरोध इति ।

[०६१।०८-०६१।०९]
न स्याद्विरोधो यदि जातिभेदः स्याद्वेदनासंज्ञावत् ।

[०६१।०९]
एकस्यां जातौ मृद्वधिमात्रता युगपन्न संभवति ।

[०६१।१०]
जातिभेदो ।प्यस्ति ।
स तर्हि वक्तव्यः ।
दुर्वचो ह्यसावतो मृद्वधिमात्रतया व्यज्यते ।

[०६१।११]
नैवं व्यक्तो भवति ।
प्रत्येकं जातीनां मृद्वधिमात्रतवात् ।

[०६१।११-०६१।१२]
नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे ।

[०६१।१२]
कथमिदानीं प्रथमं ध्यानं पञ्चाङ्गयुक्तम् ।

[०६१।१३]
भूमितस्तत्पञ्चाङ्गयुकतं न क्षणतः ॥

[०६१।१४]
मानमदयोः किं नानाकारणम् ।

[०६१।१५-०६१।१६]
मान उन्नतिः ।
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः ॥ २.३३ ॥

[०६१।१७]
येन केनचित्परतो विशेषपरिकल्पेन चेतस उन्नतिः मानः ।

[०६१।१७-०६१।१८]
मदस्तु स्वधर्मेष्वेव रक्तस्य यच्चेतसः पर्यादानम् ।

[०६१।१८]
यथा मद्यज एवं रागजः ।

[०६१।१८-०६१।१९]
संप्रहऋशणविशेषो मद इत्यपरे ।

[०६१।२०]
उक्ताः सह चित्तेन चैत्ताः प्रकारश स्तेषां पुनरिमाः संज्ञाः परिभाष्यन्ते ।

[०६१।२१]
प्रवचन एताभिः सद्व्यवहारात् ।

[०६१।२२]
चित्तं मनोऽथ विज्ञानमेकार्थं

[०६१।२३]
चिनोतीति चित्तम् ।
मनुत इति मनः ।
विजानातीति विज्ञानम् ।

[०६१।२३-०६२।०१]
चित्तं शुभाशुभैर्धातुभिरिति चित्तम् ।

[०६२।०१]
तदेवाश्रयभुतं मनः ।
आश्रितभूतं विज्ञानमित्यपरे ।

[०६२।०१-०६२।०२]
यथा चित्तं मनो विज्ञानमित्येकोऽर्थः ।

[०६२।०२]
एवम् ।

[०६२।०३]
चित्तचैतसाः ।

[०६२।०४]
साश्रया लम्बनाकाराः संपरयुक्ताश्च ।

[०६२।०५]
एकोऽर्थः ।
त एव हि चित्तचैत्ताः साश्रया उच्यन्ते इन्द्रियाश्रितत्वात् ।

[०६२।०५-०६२।०६]
सालम्बना विषयग्रहणात् ।

[०६२।०६]
साकारास्तस्यैवालम्बनस्य प्रकारश आकरणात् ।

[०६२।०६-०६२।०७]
सम्प्रयुक्ताः समं प्रयुक्तत्वात् ।

[०६२।०७]
केन प्रकारेण समं परयुक्ता इत्याह

[०६२।०८]
पञ्चधा ॥ २.३४ ॥

[०६२।०९]
पञ्चभिः समताप्राकारैराश्रयालम्बनाकारकालद्रव्यसमताभिः ।
केयं समता ।

[०६२।०९-०६२।१०]
यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैका इति ।

[०६२।१०]
निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः ।

[०६२।११-०६२।१२]
विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता ।
आसंज्ञिकं समापत्ती जीवितं लक्षणानि च ॥ २.३५ ॥

[०६२।१३]
नामकायादयश्चेति

[०६२।१४]
इमे संस्कारा न चित्तेन असंप्रयुक्ता नच रूपस्वभावा इति चित्तविप्रयुक्ताउच्यन्ते ।

[०६२।१५]
तत्र तावत्

[०६२।१६]
प्रप्तिर्लाभः समन्वयः ।
[०६२।१७]
द्विविधा हि प्राप्तिरप्राप्तविहीनस्य च लाभः प्रतिलब्धेन च समन्वागमः ।

[०६२।१८]
विपर्ययादप्राप्तिरिति सिद्धम् ।
कस्य पुनरिमे प्राप्त्यप्राप्ती ।

[०६२।१९]
प्राप्त्यप्राप्ती स्वसंतान पतितानां

[०६२।२०]
न परसंतानपतितानाम् ।
नहि परकीर्यैः कश्चित्समन्वागतः नाप्यसंततिपतितानाम् ।

[०६२।२१]
न ह्यसतत्वसंख्यातैः कश्चित्समन्वागतः ।
एष तावत्संस्कृतेषु नियमः ।

[०६२।२१-०६२।२२]
असंस्कृतेषु पुनः प्राप्त्यप्राप्ती

[०६२।२३]
निरोधयोः ॥ २.३६ ॥

[०६२।२४]
सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः ।

[०६२।२४-०६२।२५]
अत एव हि चोत्तमभिधर्मे “अनास्रवैर्धर्मः कः समन्वागतः ।

[०६२।२५]
आह ।

[०६२।२५-०६२।२६]
सर्वसत्त्वा” इति ।

[०६२।२६-०६३।०१]
प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्याः पृथग्जनाश्च केचित्समन्वागताः ।

[०६३।०१-०६३।०२]
आकाशेन तु नास्ति कश्चित्समन्वागतः ।

[०६३।०२]
तस्मादस्य नासति प्राप्तिः ।

[०६३।०२-०६३।०३]
यस्य च नास्ति प्राप्तिस्तस्तस्याप्राप्तिरपि नास्तीति सिद्धान्तः ।

[०६३।०३]
प्राप्तिर्नामास्ति किञ्चित्भावान्तर्मिति ।
कुत एतत् ।

[०६३।०४]
आह सूत्रात् ।

[०६३।०४-०६३।०५]
सूत्रे ह्युस्तं “स एषां दशानामशैक्षाणां धर्मणामुत्पादात्प्रतिलम्भात्समन्वागमादर्यो भवति पञ्चाङ्गविप्रहीण” इति विस्तरः ।

[०६३।०६]
तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति परसत्त्वैश्च ।
किं कारणम् ।

[०६३।०७]
सूत्र वचनात् ।
“राजा भिक्षवश्चक्रवर्ति सप्तभी रत्नैः समन्वागत” इति विस्तरः ।

[०६३।०८]
वशित्वमत्र समन्वागमशब्देनोक्तम् ।
तस्य तेषु रत्नेषु वशित्वं कामचार इति ।

[०६३।०९]
अत्र वशित्वं समन्वागमोऽन्यत्र पुनर्द्रव्यान्तरमिति ।
कुत एतत्कः पुनरेवमयोगः ।

[०६३।१०-०६३।११]
अयमयोगः यदस्या नैव स्वभावः प्रज्ञायते रूपशब्दादिवद्रागद्वेषादिवद्वा न चापि कृत्यं चक्षुःश्रोत्रादिवत् ।

[०६३।११]
तस्मात्द्रव्यधर्मासंभवादयोगः ।

[०६३।११-०६३।१२]
उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् ।

[०६३।१२]
असंस्कृतस्य न स्यात् ।

[०६३।१२-०६३।१३]
ये च धर्मा अप्राप्ता ये च त्यक्ता भूमिसंचारवैअराग्यतस्तेषां कथमुत्पत्तिः स्यात् ।

[०६३।१३]
सहजप्राप्तिहेतुका चेत् ।

[०६३।१३-०६३।१४]
जातिरिदानीं किङ्करी जातिजातिर्वा ।

[०६३।१४-०६३।१५]
सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदो न स्यात्प्राप्त्यभेदात् ।

[०६३।१५]
यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः ।

[०६३।१५-०६३।१६]
तस्मान्नोत्पत्तिहेतुः प्राप्तिः ।

[०६३।१६]
कश्चैवमाहोत्पत्तिहेतुः प्राप्तिरिति ।
किं तर्हि ।

[०६३।१६-०६३।१७]
व्यवस्था हेतुः ।

[०६३।१७-०६३।१८]
असत्यां हि प्राप्तौ लौकिकमानसानामार्यपृथग्जनानामार्या इमे पृथग्जना इम इति न स्याद्व्यवस्थानम् ।

[०६३।१८-०६३।१९]
प्रहीणाप्रहीण क्लेशताविशेषादेतत्भवितुमर्हति ।

[०६३।१९-०६३।२०]
एतच्चैव कथं भविष्यत्येषां प्रहीणः क्लेश एषामप्रहीण इति ।

[०६३।२०]
प्रप्तौ सत्यामेतत्सिध्यति तद्विगमाविगमात् ।
आश्रयविशेषादेतत्सिध्यति ।

[०६३।२१-०६३।२२]
आश्रयो हि स आर्याणां दर्शनभावनामार्गसामर्थ्यात्तथा परावृत्तो भवति यथा न पुनस्तत्प्रहेयाणां क्लेशानां प्ररोहसमर्थो भवति ।

[०६३।२२-०६३।२३]
अतोऽग्निदग्धव्रीहिवदवीजीभूते आश्रये क्लेशानां प्रहीणक्लेश इत्युच्यते ।

[०६३।२३]
उपहतवीजभावे वा लौकिकेन मार्गेण ।

[०६३।२४]
विपर्ययादप्रहीणक्लेशः ।

[०६३।२४-०६३।२५]
यश्चाप्रहीणस्तेन समन्वागतो यः प्रहीणस्तेना समन्वागत इति प्रज्ञप्यते ।

[०६३।२५-०६३।२६]
कुशला अपि धर्मा द्विप्रकारा अयत्नभाविनो यत्नभाविनश्च ये त उच्यन्ते उत्पत्तिप्रतिलम्भिकाः प्रायोगिकाश्चेति ।

[०६३।२६-०६३।२७]
तत्रायत्नभाविभिराश्रयस्य तद्वीजभावानुपघातात्समन्वागत उपघातादसमन्वागत उच्यते समुच्छिन्नकुआशलमूलः ।

[०६३।२७-०६४।०१]
तस्य तूपघातो मिथ्यादृष्ट्या वेदितव्यः ।

[०६४।०१-०६४।०२]
न तु खलु कुशलानां धर्माणां वीजभावस्यात्यन्तं सन्ततौ समुद्घातः ।

[०६४।०२-०६४।०३]
येपुनर्यत्नभाविनस्तैरुत्पन्नैस्तदुत्पत्तिर्वशित्वा विघातात्सन्ततेः समन्वागत उच्यते ।

[०६४।०३-०६४।०५]
तस्माद्वीजमेवात्रानपोद्धृतमनुपहतं परिपृष्टं च वाशिअत्वकाले समन्वागमाख्यां तभते नान्यद्द्रव्यम् ।

[०६४।०५]
किं पुनरिदं बीजं नाम ।

[०६४।०५-०६४।०६]
यन्नामरूपं फलोत्पत्तौ समर्थ साक्षात्पारंपर्येण वा ।

[०६४।०६]
सन्ततिपरिणामविशेषात् ।
कोऽयं परिणामो नाम ।

[०६४।०६-०६४।०७]
सन्ततेरन्यथात्वम् । का चेयं सन्ततिः।

[०६४।०७]
हेतुफलभूतस्त्रैयध्विकाः संस्काराः ।

[०६४।०७-०६४।०८]
यत्तूक्त “लोभेन समन्वागतोऽभव्यश्चत्वारि स्मृत्युपस्थानानि भावयितुमि”ति ।

[०६४।०८-०६४।०९]
तत्राधिवासनं लोभस्याविनोदनं वा समन्वागमः ।

[०६४।०९-०६४।१०]
यावद्धि तस्याधिवासकोऽविनोदको भवति तावत्भव्यस्तानि भावयितुम् ।

[०६४।१०-०६४।११]
एवमयं समन्वागमः सर्वाथा प्रज्ञप्तिधर्मो न तु द्रव्यधर्मः ।

[०६४।११]
तस्य च प्रतिषेधोऽसमन्वागम इति ।

[०६४।११-०६४।१२]
द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति ।

[०६४।१२]
किं कारणम् ।
एष हि नः सिद्धान्त इति ।
सा किलैषा प्रप्तिः

[०६४।१३]
त्रैयध्विकानां त्रिविधा

[०६४।१४]
अतीतानां धर्माणामतीताऽपि प्राप्तिरस्त्यनागत्याऽपि प्रत्युत्पन्नाऽपि ।

[०६४।१४-०६४।१५]
एवमनागतपरत्युत्पन्नानां प्रत्येकं त्रिविधा ।

[०६४।१६]
षुभादीनां षुभादिका ।

[०६४।१७]
कुशलाकुशलाव्याकृतानां कुआशलाकुशलाव्याकृतैव यथाक्रमं प्राप्तिः ।

[०६४।१८]
स्वधातुका तदाप्तानां

[०६४।१९]
ये धर्मास्तद्धात्वाप्तास्तेषां स्वधातुका प्राप्तिः ।

[०६४।१९-०६४।२०]
कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् ।

[०६४।२१]
अनाप्ता नां चतुर्विधा ॥ २.३७ ॥

[०६४।२२]
अनास्रवाणां धर्माणां चतुर्विधा प्रप्तिः ।
समासेन त्रैधातुकी चानास्रवा च ।

[०६४।२३-०६४।२४]
तत्राप्रप्तिंसंङ्ख्यानिरोधस्य त्रैधातुकी प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा च ।

[०६४।२४]
मार्गसत्यस्यानास्रवैव ।
सेयं समस्य चतुर्विधा भवति ।

[०६४।२५]
शैक्षाणां धर्माणां शैक्षैव प्राप्तिः अक्षैक्षाणामशैक्षानाशैक्षाणान्तुभेदः ।

[०६५।०१]
स निर्दिश्यते

[०६५।०२]
त्रिधा नशैक्षाऽशैक्षाणां

[०६५।०३]
नैवशैक्षानाशैक्षा धर्मा उच्यन्ते सास्रवा धर्मा असंस्काऋतं च ।

[०६५।०३-०६५।०४]
तेषां शैक्षादिभेदेन त्रिविधा प्राप्तिः ।

[०६५।०४]
सास्रवाणां तावत्नैवशैक्षानाशैक्षी प्राप्तिः ।

[०६५।०४-०६५।०५]
अप्रतिसंख्यानिरोधस्य च प्रतिसंख्यानिरोधस्य चानार्येण प्रप्तस्य ।

[०६५।०५-०६५।०६]
तस्यैव शैक्षेण मार्गेण प्रप्तस्य शैक्षी अशैक्षेणाशैक्षी ।

[०६५।०६-०६५।०७]
दर्शनभावनाहेयानां यथाक्रमं दराशनभावनाहेयैव पराप्तिः ।

[०६५।०७]
अहेयानां तु भेदः ।
स निर्दिश्यते

[०६५।०८]
अहेयानां द्विधा मता ।

[०६५।०९-०६५।१०]
अप्रहेयाधर्मा अनास्रवाः ।
तेषामप्रतिसंख्यानिरोधस्य भावनाहेया प्राप्तिः अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य ।

[०६५।१०-०६५।११]
तस्यैवार्यमार्गप्राप्तस्यानास्रवाऽहेया मार्गसत्यस्य च ।

[०६५।१२]
यदुक्तं “त्रैयध्विकानां त्रिविधे” ति तस्योत्सर्गस्यायमपवादः

[०६५।१३]
अव्याकृताप्तिः सहजा

[०६५।१४]
अनिवृताव्याकृतानां सहजैव प्राप्तिर्नाग्रजा न पश्चात्कालजा ।
दुर्बलत्वात् ।

[०६५।१४-०६५।१५]
तेनतेषामतीतानामतीतैव यावत्प्रत्युत्पन्नानां प्रत्युत्पन्नैव ।

[०६५।१५-०६५।१६]
किं सर्वस्यैवानिवृताव्याकृतस्य ।

[०६५।१६]
न सर्वस्य ।

[०६५।१७]
अभिज्ञानैर्माणिकादृते ॥ २.३८ ॥

[०६५।१८]
द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा ।

[०६५।१८-०६५।१९]
तेषां हि बलवत्त्वात्प्रयोगविशेषनिष्पत्तेः पूर्व पश्चात्सहजा प्राप्तिः ।

[०६५।१९-०६५।२०]
शैल्पस्थानिकस्यापि कस्यचिदीर्यापथिकस्या
त्यर्थमभ्यस्तस्येच्छन्ति ।

[०६५।२१]
किमनिवृताव्याकृतस्यैव सहजा प्रप्तिरित्याह

[०६५।२२]
निवृतस्य च रूपस्य

[०६५।२३-०६५।२४]
निवृताव्याकृतस्यापि विज्ञप्तिरूपस्य सहर्जैव प्राप्तिरधिमात्रेणाप्यविज्ञप्त्यनुत्थापनादौर्बल्यसिद्धेः ।

[०६५।२५-०६५।२६]
यथाऽव्याकृतानां धर्माणामयं प्रप्तिभेदः किमेवं कुशलाकुशलानामपिकश्चित्प्राप्तिभेदोऽस्ति ।

[०६५।२६]
अस्तीत्याह ।

[०६५।२७]
कामे रूपस्य नाग्रजा ।

[०६५।२८]
कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्रप्तिः सर्वथा नास्ति ।

[०६५।२८-०६५।२९]
सहजा चास्ति पश्चात्कालजा च ।

[०६५।३०]
किमप्राप्तेरपि प्राप्तिवत्प्रकारभेदः ।
नेत्याह ।
किं तर्हि ।

[०६६।०१]
अक्लिष्टाव्याकृताऽप्राप्तिः

[०६६।०२]
अप्राप्तिरनिवृताव्याकृतैव सर्वा ।
अध्वभेदेन पुनः

[०६६।०३]
साऽतीताजातयोस्त्रिधा ॥ २.३९ ॥

[०६६।०४]
प्रत्युत्पन्नस्य नारत्यप्राप्तिः प्रत्युत्पन्ना ।

[०६६।०४-०६६।०५]
अतीतानागतयोस्तु त्रैयध्विकी ।

[०६६।०६]
कामाद्याप्तामलानां च

[०६६।०७]
त्रिविधेति वर्त्तते ।
कामाप्तानां कामरूपारूप्यावचरी ।

[०६६।०७-०६६।०८]
एवं रूपारूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः ।

[०६६।०८]
तथाहि ।

[०६६।०९]
मार्गस्याप्राप्तिरिष्यते ।

[०६६।१०]
पृथग्जनत्वम्

[०६६।११]
“पृथग्जनत्वं कतमत् ।
आर्यधर्माणामलाभ” इति शास्त्रपाठः ।

[०६६।११-०६६।१२]
अलाभश्च नामाप्राप्तिः ।

[०६६।१२]
नच पृथग्जनत्वमनास्रवं भवितुमर्हति ।

[०६६।१२-०६६।१३]
कतमेषामार्यधर्माणामलाभः ।

[०६६।१३]
सर्वेषामविशेषवचनात् ।
स तु यो विना लाभेनालाभः ।

[०६६।१३-०६६।१४]
अन्यथा हि चुद्धोऽपि श्रावकप्रत्येकबुद्धगोत्रकै रसमन्वागमादनार्यः स्यात् ।

[०६६।१४-०६६।१५]
एवशब्दस्तर्हि पठितव्यः ।

[०६६।१५]
न पठितव्यः ।
एकपदान्यपि ह्यवधारणानि भवन्ति ।

[०६६।१५-०६६।१६]
तद्यथा अब्भक्षो वायुभक्ष इति ।

[०६६।१६]
दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे ।

[०६६।१६-०६६।१७]
न च तद्योगा दनार्यत्वप्रसङ्गः ।

[०६६।१७]
तदलाभस्यात्यन्तं हतत्वात् ।

[०६६।१७-०६६।१८]
ते तर्हि त्रिगोत्रा इति कतमेषामलाभः ।

[०६६।१८]
सर्वेषाम् ।
एवं तर्हि स एव दोषः ।
पुनः स एव परिहारः ।

[०६६।१८-०६६।१९]
यत्नस्तर्हि व्यर्थः ।

[०६६।१९]
एवं तु साधु यथा सौत्रान्तिकानाम् ।
कथं च सौत्रान्तिकानाम् ।

[०६६।२०]
“अनुत्पन्नार्यधर्मसन्ततिः पृथग्जनत्वमि”ति ।

[०६६।२१]
अथेयमप्राप्तिः कथं विहीयते ।
यस्य या धर्मस्य प्राप्तिरसौ

[०६६।२२]
तत्प्राप्तिभुसंचाराद्विहीयते ॥ २.४० ॥

[०६६।२३-०६६।२४]
यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वं तस्य लाभात्तद्विहीयते भूमिसंचाराच्च ।

[०६६।२४]
एवमन्येषामपि योज्यम् ।

[०६६।२४-०६६।२५]
विहीयत इति तस्या अप्राप्तेरप्राप्तिरुत्पद्यते प्राप्तिश्छिद्यते ।

[०६६।२५-०६६।२६]
किं पुनरप्राप्तिप्राप्त्योरपि प्राप्त्यप्राप्ती भवतः ।

[०६६।२६]
उभयोरप्युभयं भव्तीत्याहुः ।

[०६६।२६-०६६।२७]
ननु चैवमनवस्था प्रसङ्गः प्रप्तीनाम् ।

[०६६।२७]
नानवस्थाप्रसङ्गः ।
परस्परसमन्वागमात् ।

[०६६।२७-०६७।०१]
आत्मना तृतीयो हि धर्म उत्पद्यते ।

[०६७।०१]
स च धर्मस्तस्य प्राप्तिः प्राप्तिप्राप्तिश्च ।

[०६७।०१-०६७।०२]
तत्र प्राप्त्युत्पादात्तेन धर्मेण समन्वागतो भवति प्राप्तिप्राप्त्या च ।

[०६७।०२-०६७।०३]
प्राप्तिप्राप्त्युत्पादात्पुनः प्राप्त्यैव समन्वागतो भवत्यतो नानव्स्था ।

[०६७।०३-०६७।०४]
एवं च कृत्व आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य क्लिष्टस्य वा द्वितीये क्षणे तिस्रः प्राप्तयो जायन्ते ।

[०६७।०४-०६७।०५]
तासां च पुनस्तिस्रोऽनुप्राप्तय इति षड्भवन्ति ।

[०६७।०५-०६७।०६]
तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरित्यष्टादाश भवन्ति ।

[०६७।०६-०६७।१०]
एवमुत्तरोत्तरवाऋद्धिप्रसण्ङ्गेनैताः प्रप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां संप्रयोग सहभुवामनाद्यन्तसंसारपर्यापन्नानामनन्ता एकस्य प्राणिनः क्षणे क्षणे उपजायन्ते इत्यनन्तद्रव्याः प्रतिसन्तानमात्मभावक्षणाः सत्त्वानां भवन्ति ।

[०६७।१०]
अत्युत्सवो वतायं प्राप्तीनां वर्त्तते ।

[०६७।११]
केवलं तु अप्रतिघातिन्यो यतोऽवकाशमाकाशे लभन्ते ।

[०६७।११-०६७।१२]
इतरथा ह्याकाशेऽप्यव काशो न स्यात्द्वितीयस्य प्राणिनः ॥

[०६७।१३]
अथ केयं सभागता ।

[०६७।१४]
सभागता सत्त्वसाम्यं

[०६७।१५]
सभागता नाम द्रव्यम् ।
सत्त्वानां साकृश्यं निकायस भाग इत्यस्याः शास्त्रे संज्ञा ।

[०६७।१६]
सा पुनरभिन्ना भिन्ना च ।
अभिन्ना सर्वसत्त्वानां सत्त्वसभागता ।

[०६७।१६-०६७।१७]
प्रतिसत्त्वं सर्वेषु भावात् ।

[०६७।१७-०६७।१८]
भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षा शैक्ष्यादिभेदेन प्रतिनियता धर्मसभागता ।

[०६७।१८-०६७।२०]
पुनः स्क्न्धायतनधातुतः यदि सत्वसभागता द्रव्यमविशिष्तं न स्यातन्योन्यविशेषभिन्नेषु सत्त्वेषु सत्त्वस्त्त्व इत्यभेदेन बुद्धिर्न स्यात्प्रज्ञप्तिश्च ।

[०६७।२०-०६७।२१]
एवं स्कन्धादि बुद्धिप्रज्ञप्तय्योऽपि योज्याः ।

[०६७।२१]
स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति ।

[०६७।२२]
चतुष्कोटिकः ।
प्रथमा कोटिः यतश्च्यवते तत्रैवोपपद्यमानः ।

[०६७।२२-०६७।२३]
द्वितीया नियाममव्क्रामन् ।

[०६७।२३]
स हि पृथग्जनसभागतां विजह्यादार्यसभागतां प्रतिलभते ।

[०६७।२४]
तृतीया गतिसंचारात् ।
चतुर्थ्येतानाकारान् स्थापयित्वा ।
[०६७।२५]
यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन ।

[०६७।२६]
नहि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्येते ।

[०६७।२६-०६८।०२]
नैव च लोकः सभागतां पश्यत्यरूपिणीत्वात्नचैनां प्रज्ञया परिच्छिनत्ति प्रतिपद्यते च सत्वानां जात्यभेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः ।

[०६८।०२]
अपिचासत्त्वसभागताऽपि किं नेष्यते ।

[०६८।०३-०६८।०४]
शालियवमुद्गमासाम्रपनसलोहकाञ्चनादीनां स्वजातिसादृश्यात्तासां च सभागतानामन्योन्यभिन्नानां कथमभेदेन सभागता प्रज्ञप्तिः क्रियते ।

[०६८।०४-०६८।०५]
वैशेषिकाश्चैवं द्योतिता भवन्ति ।

[०६८।०५]
तेषामपि ह्येष सिद्धान्तः ।

[०६८।०५-०६८।०६]
सामान्यपदार्थो नामास्ति यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्वपीति ।

[०६८।०६]
अयं तु तेषां विशेषः ।

[०६८।०६-०६८।०७]
स एकोऽप्यनेकस्मिन् वर्त्तते यदि द्योतिता यदि न द्योतिता ।

[०६८।०७-०६८।०८]
अस्त्येषा तु सभागता सूत्रे वचनादिति वैभाषिकाः ।

[०६८।०८-०६८।०९]
उस्तं हि भगवता “स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतामि”ति ।

[०६८।०९]
उक्तमेतन्नतूक्तं द्रव्यान्तरमिति ।
का तर्हि सा ।

[०६८।०९-०६८।१०]
त एव हि तथाभूताः संस्कारा येषु मनुष्यादिप्रज्ञप्तिः शाल्यादिषु सभागतावत् ।

[०६८।१०-०६८।११]
तत्त्वेतन्न वर्णयन्ति ।

[०६८।१२]
अथ किमिदमासंज्ञिकं नाम ।

[०६८।१३]
आसंज्ञिकमसंज्ञिषु ।

[०६८।१४]
निरोधश्चित्तचैत्तानां

[०६८।१५-०६८।१७]
असंज्ञिसत्त्वेषु देवेपूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासंज्ञिकंनाम द्रव्यं येन चित्तचैत्ता अनागतेऽध्वनि कालान्तरं संनिरुध्यन्ते नोत्पत्तुं लभन्ते ।

[६८१।७-०६८१७]
नदीतोयसंनिरोधवत् ।

[०६८।१७]
तत्पुनरेकान्तेन

[०६८।१८]
विपाकः

[०६८।१९]
कस्य विपाकः ।
असंज्ञिसमापत्तेः ।
कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः ।

[०६८।२०]
ते बृहत्फलाः ॥ २.४१ ॥

[०६८।२१]
बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् ।

[०६८।२२]
किं पुनस्तेनैव कदाचिअत्संशिनो भवन्ति ।
भवन्त्युपपत्तिकाले च्युतिकाले च ।

[०६८।२३-०६८।२४]
“प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात्तेषां सत्त्वानां तत्स्थानात्च्युतिर्भवती”ति सूत्रे पाथः ।

[०६८।२४-०६८।२५]
ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते नान्यत्र ।

[०६८।२५-०६८।२६]
पूर्वसमापत्तिसंस्कारपरिक्षयातपूर्वानुपचयाच्च क्षिप्ता इव क्षीणवेगा इषवः पृथिवीं पतन्ति ।

[०६८।२६-०६८।२७]
येन च तत्रोपपत्तव्यं तस्यावश्यं कामावचरं कर्मापरपर्यायवेदनीयंभवति ।

[०६८।२७]
यथोत्तरकौरवाणां देवोपपात्तिवेदनीयम् ।

[०६८।२८]
अथ समापत्ती इति यदुक्तं कतमे ते समापत्ती ।

[०६८।२८-०६८।२९]
असंज्ञिसमापत्तिर्निरोधसमापत्तिश्च ।

[०६८।२९]
केयमसंज्ञिसमापत्तिः ।

[०६८।२९-०६८।३०]
यथैवासंज्ञिकमुक्तं “निअरोधश्चित्तचैत्तानामि”ति ।

[०६९।०१]
तथाऽसंज्ञिसमापत्तिः

[०६९।०२]
असंज्ञिनां समापत्तिरसंज्ञा वे त्यसंज्ञिसमापत्तिः ।

[०६९।०२-०६९।०३]
साऽपि चित्तचैत्तानां निरोधः ।

[०६९।०३]
एतावत्तथाशब्देनान्वाकृष्यते ।
सा तु समापत्तिः ।

[०६९।०४]
ध्यानेऽन्त्ये

[०६९।०५]
अन्त्यध्यानं चतुर्थं तत्पर्यापन्नाऽसौ नान्यभुमिका ।
किमर्थमेनां समापद्यन्ते ।

[०६९।०६]
निःसृतीच्छया ।

[०६९।०७]
निःसरणमेषां मन्यन्ते ।
अतो मोक्षकामतया समापद्यन्ते ।

[०६९।०७-०६९।०८]
आसंज्ञिकं विपाकत्वातव्याकृतमिति सिद्धम् ।

[०६९।०८]
इयं तु

[०६९।०९]
शुभा

[०६९।१०]
कुशलैवासंज्ञिसमापत्तिः ।
तस्या असंज्ञिसत्त्वेषु पञ्चस्कन्धको विपाकः ।
कुशला सती

[०६९।११]
उपपद्यवेद्यैव

[०६९।१२]
उपपद्यवेदनीयैव ।
न दृष्टधर्मपर्यायवेदनीया नापि अनियता ।

[०६९।१२-०६९।१३]
योऽप्येनामुत्पाद्य परिहीयते सोऽपि किलावश्यं पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यत इति ।

[०६९।१३-०६९।१४]
अत एव तल्लाभी नियामं नावक्रामति ।

[०६९।१४]
सेयं पृथग्जनस्यैवेष्यते ।

[०६९।१५]
नार्यस्य

[०६९।१६]
नह्यार्यामसंज्ञिसमापत्तिं समापद्यन्ते विनिपातस्थानमिवैतां पश्यन्तः।

[०६९।१६-०६९।१७]
निःसरणसंज्ञिनो हि तां समापद्यन्ते ।

[०६९।१७-०६९।१८]
अथ किमेनामार्याश्चतुर्थध्यानलाभादतीतानागतां प्रतिलभन्ते ध्यानवत् ।

[०६९।१८]
अन्येऽपि अतावन्न प्रतिलभन्ते ।
किं कारणम् ।

[०६९।१८-०६९।१९]
एषा ह्युचिताऽपि सती महाभिसंस्कारसाध्यत्वादचित्तकत्वाच्च ।

[०६९।२०]
एकाध्विकाप्यते ॥ २.४२ ॥

[०६९।२१]
एककालिकेत्यर्थः ।
वर्त्तमानकालिकैव लभ्यते

[०६९।२१-०६९।२२]
यथा प्रातिमोक्षसंवरः ।

[०६९।२२-०६९।२३]
लब्धया तु द्वितईयादिषु क्षणेष्वतीतयाऽपि समन्वागतो भवति यावन्न त्यजति ।

[०६९।२३]
अचित्तक त्वान्नानागता भाव्यते ।

[०६९।२४]
निरोधसमापत्तिरिदानिं कतमा ।

[०७०।०१]
निरोधाख्या तथैवेयं

[०७०।०२]
यथैवासंज्ञिमापत्थिः ।
तथाशब्देन कः प्रकारो गृह्यते ।
“निरोधश्चित्तचैत्तानामि”ति ।

[०७०।०३]
अयं त्वस्या विशेषः ।
इयं

[०७०।०४]
विहारार्थं

[०७०।०५]
शान्तविहारसंज्ञापूअर्वकेण मनसिकारेण एनां समापद्यन्ते ।

[०७०।०५-०७०।०६]
तां तु निःसरणसंज्ञा पूर्वकेण ।

[०७०।०६]
सा खल्वपि चतुर्थध्यानभूमिका ।
इयं तु

[०७०।०७]
भवाग्रजा ।

[०७०।०८]
नैवसंज्ञानासंज्ञायतनभूमिकैव ।
सा चेयं

[०७०।०९]
शुभा

[०७०।१०]
कुशलैव न क्लिल्ष्टा नाव्याकाऋता ।
कुशला सती

[०७०।११]
द्विवेद्याऽनियता च ।

[०७०।१२]
द्वयोः कालयोर्वेद्या उपपद्यवेदनीया चापरपर्यायवेदनीया च ।

[०७०।१२-०७०।१३]
अनियता च विपाकं प्रति कदाचिन्न विपच्यते ।

[०७०।१३-०७०।१४]
यदीह परिनिअर्वायात्तस्या हि भवाग्रे चतुःस्कन्धको विपाकः ।

[०७०।१४]
सा चेयमेकान्तेन

[०७०।१५]
आर्यस्य

[०७०।१६-०७०।१७]
नहि पृथग्जना निरोधसमापत्तिमुत्पादयितुं शक्नुवन्त्युच्छेदभीरुत्वादार्यमार्गबलेन चोत्पादनाद्दृष्टधर्मनिर्वाणस्य तदधिमुक्तितः ।

[०७०।१७]
आर्यस्यापि चेयं न वैराग्यलभ्या ।
[०७०।१८]
किं तर्हि ।

[०७०।१९]
आप्या प्रयोगतः ॥ २.४३ ॥

[०७०।२०]
प्रयोगलभ्यैवेयम् ।
न चातीता लभ्यते नाप्यनागत भाव्यते ।

[०७०।२०-०७०।२१]
चित्तबलेन तद्भावनात् ।

[०७०।२१]
किं भगवतोऽपि परायोगिकी ।
नेत्याह ।

[०७०।२२]
बोधिलभ्या मुनेः

[०७०।२३-०७०।२४]
क्षयज्ञानसमनं कालं बुद्धा भगवन्त एनां लभन्ते नास्ति किञ्चिद्बुद्धानां प्रायोगिकं नाम ।

[०७०।२४]
इच्छामात्रप्रतिबद्धो हि तेषां सर्वगुणसंपात्संमुखीभावः ।

[०७०।२५]
तस्मादेषां सर्ववैराग्यलाभिकम् ।

[०७०।२५-०७०।२६]
कथं खल्वि दानीमनुत्पादितायां निरोधसमापत्तौ क्षयज्ञानकाले भगवानुभयोतोभागविमुक्तः सिध्यति ।

[०७०।२७-०७१।०१]
सिध्यत्युत्पादितायामिव तस्यां वशित्वात्प्रागेव तां बोधिसत्त्वः शैक्ष्यावस्थायामुत्पादयतीति पाश्चत्त्याः ।

[०७१।०१]
अथ कस्मादेवं नेष्यते ।

[०७१।०१-०७१।०२]
एवं च स्थविरोपगुप्तस्यापीदं नेत्रीपदं प्रामाणिकं भविष्यति ।

[०७१।०२-०७१।०३]
“निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत”इति ।

[०७१।०४]
न प्राक्

[०७१।०५]
नहि पूर्वं तस्या उतपादनं युज्यत इति काश्मीरकाः ।
किं कारणम् ।

[०७१।०६]
चतुस्त्रिंशत्क्षणाप्तितः ।

[०७१।०७]
चतुस्रिंशता किल चित्तक्षणैर्बोधिसत्त्वो बोधिमनुप्राप्तः ।

[०७१।०७-०७१।०९]
सत्याभिसमये षोडशभिर्भवाग्रवैराग्ये चाष्टादशभिर्नवप्रकाराणां क्लेशानां प्रहाणाय नवानन्तर्यविमुक्तिमार्गोत्पादनात् ।

[०७१।०९]
त एते चतुस्त्रिंशत्भवन्ति ।

[०७१।०९-०७१।१०]
आकिञ्चन्यायतनवीतरागस्यास्यनियामावक्रमणादधोभूमिका न पुनःः प्रहेया भवन्ति ।

[०७१।१०-०७१।११]
अत एतस्मिन्नन्तरे विसभागचित्तासंभवान्निरोधसमापत्तेरयोग इति ।

[०७१।११-०७१।१२]
किं पुनः स्याद्यदि विसभागचित्तमन्तरा संमुखीक्कुर्यात् ।

[०७१।१२-०७१।१३]
व्युत्थानाशयः स्यादव्युत्थानाशयाश्च बोधिसत्त्वाः ।

[०७१।१३]
सत्यमव्युत्थानाशया नतु आस्रव मार्गाव्युत्थानात् ।

[०७१।१३-०७१।१४]
कथं तर्हि “न तावत्भेत्स्यामि पर्यङ्कमप्राप्ते आस्रवक्षय” इति ।

[०७१।१४-०७१।१५]
अस्याशयस्याव्युत्थाना देकायन एव सर्वार्थपरिसमाप्तेरिति बहिर्देशकाः ।

[०७१।१५-०७१।१६]
पूर्वमेव तु वर्णयन्ति काश्मीराः ।

[०७१।१६]
यद्यप्यनयोः समापत्त्योर्बहुप्रकारो विशेषः ।

[०७१।१७]
कामरूपाश्रये भूते

[०७१।१८]
उभे अपि त्वेते असंज्ञिनिरोधसमापत्ती कामधातौ रूपधातौ चोत्पत्स्येते ।

[०७१।१८-०७१।१९]
ये त्वसंज्ञिसमापत्तिं रूपधातौ नेच्छन्ति तेषामयं ग्रन्थो विरुध्यते ।

[०७१।१९-०७१।२०]
स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः ।

[०७१।२०-०७१।२२]
स्याद्रूपावचराणां सत्त्वानां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापर्त्तिं च समापन्नानामसंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भव” इति ।

[०७१।२२]
अत उभे अप्येते कामरूपाश्रये ।

[०७१।२२-०७१।२३]
तत्रापि त्वयं विशेषः ।

[०७१।२४]
निरोधाख्यादितो नृषु ॥ २.४४ ॥

[०७१।२५]
निरोधसमापत्तिः प्रथमतो मनुष्येपूत्पाद्यते पश्चाद्रूपधातौ परिहीणपूर्वैः ।

[०७१।२६]
किमतोऽप्यस्ति परिहाणिः ।
अस्तीत्याह ।

[०७१।२६-०७२।०१]
अन्यथा हि न्दायि सूत्रं विरुध्येत ।

[०७२।०१-०७२।०२]
“इहायुष्मन्तो भिक्षुः शीलसंपन्नश्च भवति समाधिसंपन्नश्च प्रज्ञासंपन्नश्च ।

[०७२।०२-०७२।०५]
सोऽभीक्ष्णं संज्ञावेदयित निरोधं समापद्यते च व्युत्तिष्ठते चास्ति चैतत्स्थानमिति यथाभूतं प्रजानाति स न हैव दृष्ट एव धर्मे प्रतिपत्त्ये वाज्ञामारागयति नापि मरणकालसमये भेदाच्च कायस्यातिक्रम्य देवान् कवडीकाराहार भक्षानन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते ।

[०७२।०५-०७२।०६]
स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्टहते चास्ति चैतत्स्थानमिति यथाभूतं प्रजानाती”ति ।

[०७२।०६-०७२।०७]
अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो भगवता ।

[०७२।०७]
इयं च समापत्तिर्भावाग्रिकी ।

[०७२।०८]
तत्कथमपरिहीणस्य तल्लाभिनो रूपधातौ स्यादुपपत्तिः ।

[०७२।०८-०७२।०९]
चतुर्थध्यानभूमिकामपि निरोधसभापतिं निकायान्तरीया इच्छन्ति ।

[०७२।०९]
तेषां विनापि परिहाण्या सिध्यत्येतत् ।

[०७२।१०]
एतदेव तु न सिध्यति ।
चतुर्थध्यानभूमिकाऽप्यसावस्तीति ।
किं कारणम् ।

[०७२।११]
“नवानुपूर्वसमापत्तय” इति सूत्रे वचनात् ।

[०७२।११-०७२।१२]
यद्येष नियमः कथं व्युत्क्रान्तसमापत्तयो भवन्ति ।

[०७२।१२]
प्राथमकल्पिकं प्रत्येष नियमः ।

[०७२।१२-०७२।१३]
प्रप्तप्रकामवाशित्वास्तु सन्तो विलङ्घ्यापि समापद्यन्ते ।

[०७२।१३]
एवमनयोः समापत्त्योर्भूमितोऽपि विशेषः ।

[०७२।१४]
चतुर्थध्यानतयाऽग्राभूमिकत्वात् ।

[०७२।१४-०७२।१५]
प्रयोगतोऽपि निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् ।

[०७२।१५]
संतानतोऽपि पृथग्जनार्यसंतानत्वात् ।

[०७२।१५-०७२।१६]
फलतोऽप्यासंज्ञिकभवाग्रफलत्वात् ।

[०७२।१६-०७२।१७]
वेदनीयतोऽपि नियतानियतोपपद्योभयथावेदनीयत्वात् ।

[०७२।१७]
प्रथमोत्पादनतोऽपि द्विधातुमनुष्योत्पादनात् ।

[०७२।१७-०७२।१८]
कस्मात्पुनरेते चित्ततचैत्तनिरोधस्वभावे सत्यावसंज्ञिसमापत्तिः संज्ञावेदितनिरोधसमापत्तिश्चोच्यते ।

[०७२।१८-०७२।१९]
तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात् ।

[०७२।१९]
वेदनादिज्ञानेऽपि परचित्तज्ञानवचनवत् ।

[०७२।१९-०७२।२०]
कथमिदानीं बहुकालं निरुद्धाच्चित्तात्पुनरपि चित्तं जायते ।

[०७२।२०-०७२।२१]
अतीतस्याप्यस्तित्वातिष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् ।

[०७२।२१]
अपरे पुनराहुः ।

[०७२।२१-०७२।२२]
कथं तावद्रूपोपपन्नानां चिरनिरुद्धेऽपि रूपे पुनरपि रूपं जायते ।

[०७२।२२]
चित्तादेव हि तज्जायते न रूपात् ।

[०७२।२२-०७२।२३]
एवं चित्तमप्यस्मादेव सेन्द्रियात्कायाज्जायते न चित्तात् ।

[०७२।२३-०७२।२४]
अन्योन्यबीजकं ह्येतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः ।

[०७२।२४-०७२।२५]
भदन्तवसुमित्रस्त्वाह परिपृच्छायां “यस्याचित्तिका निरोधसमापत्तिस्तस्यैष दोषो मम तु सचित्तिका समापत्तिरि”ति ।

[०७२।२६]
ति ।
भदन्तघोषक आह तदिदं नोपपद्यते ।

[०७२।२६-०७२।२७]
“सति हि विज्ञाने त्रयाणां संनिपातः स्पर्शः ।

[०७२।२७-०७२।२८]
स्पर्शप्रत्यया च वेदना संज्ञा चेतन्ऽऽएत्युक्तं भगवता ।

[०७२।२८]
अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् ।
अथापि स्यात् ।

[०७३।०१]
यथा वेदनाप्रत्यया तृष्णे”त्युक्तम् ।

[०७३।०१-०७३।०२]
सत्यामपि तु वेदनायामर्हतो न तृष्णोत्पत्तिरेवं सत्यपि स्पर्शे वेदन्नादयो न स्युरिति ।

[०७३।०२]
तस्याविशेषितत्वात् ।

[०७३।०२-०७३।०३]
अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना तृष्णेत्युक्तं नतु वेदनोत्पत्तौ स्पर्शो विशेषित इत्यसमानमेतत् ।

[०७३।०४]
तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः ।

[०७३।०४-०७३।०५]
कथमचित्तिकायाः समापत्तित्वम् ।

[०७३।०५]
महाभूतसमतापादनात् ।

[०७३।०५-०७३।०६]
समापत्तिचित्तेन च तां समापद्यन्ते समागच्छन्तीति समापत्तिः ।

[०७३।०६]
किं पुनरेते समापत्ती द्रव्यतः स्त उताहो प्रज्ञप्तितः ।

[०७३।०७]
द्रव्यत इत्याह ।
चित्तोत्पत्तिप्रतिबन्धनात् ।
न ।
समापत्तिचित्तेनैव तत्प्रतिबन्धनात् ।

[०७३।०८-०७३।०९]
समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते येन कालान्तरं चित्तस्या प्रवृत्तिमात्रं भवति ।

[०७३।०९]
तद्विरुद्धाश्रयापादनात् ।

[०७३।०९-०७३।११]
याऽसौ समापत्तिरिति प्रज्ञप्यते तच्चाप्रवृत्तिमात्रं न पूर्वमासीन्न पश्चात्भवति व्युत्थितस्येति संस्कृताऽसौ समापत्तिः प्रज्ञप्यते ।

[०७३।११]
अथवा आश्रयस्यैव तथा समापादनं समापत्तिः ।

[०७३।११-०७३।१२]
एवमासंज्ञिकमपि द्रष्टव्यम् ।

[०७३।१२-०७३।१३]
चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति ।

[०७३।१३]
व्याख्याते समापत्ती ॥

[०७३।१४]
जीवितं कतमत् ।

[०७३।१५]
आयुर्जीवितम्

[०७३।१६]
एवं ह्युक्तमभिधर्मेऽजीवितेन्रियं कतमत् ।
त्रैधातुकमायुरि”ति ।

[०७३।१६-०७३।१७]
एतच्चैव न ज्ञायते आयुर्नाम क एष धर्म इति ।

[०७३।१८]
आधार ऊष्मविज्ञानयोर्हि यः ।

[०७३।१९]
इदमुक्तं भगवता

[०७३।२०-०७३।२१]
“आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतन” इति ॥

[०७३।२२]
तद्य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुस्तदायुः ।

[०७३।२२-०७३।२३]
तस्येदानीमायुषः क आधारभूतः ।

[०७३।२३-०७३।२४]
एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते ।

[०७३।२४]
यद्वशादिभवौ विवर्त्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः ।

[०७३।२५]
आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तं कर्मणा तावदनुवर्त्तनात् ।

[०७३।२५-०७३।२६]
ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते ।

[०७३।२६]
मा भूत्सर्वं विज्ञानमामरणाद्विपाक इति ।

[०७३।२७]
ऊष्मणस्तर्हि कर्माधार्भूतं भविष्यति ऊष्मा च विज्ञानस्य ।

[०७३।२७-०७३।२८]
एवमप्यारूप्येष्वनाधारं विज्ञानं स्यादूष्माभावात् ।

[०७३।२८]
तस्य पुनः कर्माधारो भविष्यति ।

[०७३।२८-०७४।०१
न वै लभ्यते कामचारो यत्क्वचिदेवोष्मा विज्ञानस्याधारो भविष्यति क्वचिदेव कर्मेति ।

[०७४।०२]
उक्तं चात्र ।
किमुक्तम् ।

[०७४।०२-०७४।०३]
“मा भूत्सर्वं विज्ञानमामरणाद्विपाक” इति ।

[०७४।०३]
तस्मादस्त्येव तयोराधारभूतमायुः ।

[०७४।०३-०७४।०४]
नहि नास्तीति ब्रूमो नतु द्रव्यान्तरम् ।

[०७४।०४]
किं तर्हि ।
त्रैधातुकेन कर्मणा निकायसभागस्य स्थितिकालावेधः ।

[०७४।०५-०७४।०६]
यावद्धि कर्मणा निकायसभागस्यावेधः कृतो भवत्येतावन्तं कालमवस्थातव्यमिति तावत्सोऽवतिष्ठते तदायुरित्युच्यते ।

[०७४।०६-०७४।०७]
सस्यानां पाककालावेधवत्क्षिप्तेषुस्थितिकालावेधवच्च ।

[०७४।०७-०७४।०८]
यस्तु मन्यते संस्कारो नाम कश्चिन् गुणविशेष इषौ जायते यद्वशाद्गमनमापतनाद्भवतीति ।

[०७४।०८-०७४।०९]
तस्य तदेकत्वात्प्रतिपन्नाभावाच्च देशान्तरैः शीघ्र तरतमप्राप्तिकालभेदा नुपपत्तिः पतनानुपपत्तिश्च ।

[०७४।०९-०७४।१०]
वायुना तत्प्रतिबन्ध इति चेत् ।

[०७४।१०]
अर्वाक्पतनप्रसङ्गो न वा कदाचिद्वायोरविशेषात् ।

[०७४।१०-०७४।११]
एवं तु वर्णयन्ति द्रव्यान्तरमेवायुरस्तीति ।

[०७४।१२]
अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि ।

[०७४।१२-०७४।१३]
प्रज्ञप्तावुक्तम् “आयुःक्षयान्मरणं न पुण्यक्षयादि”ति ।

[०७४।१३]
चतुष्कोटिः ।

[०७४।१३-०७४।१४]
प्रथमा कोटिरायुर्विपाकस्य कर्मणः पर्यादानात् ।

[०७४।१४]
द्वितीया भोगविपाकस्य ।
तृतीयोभयोः ।

[०७४।१४-०७४।१५]
चतुर्थी विषमापरिहारेण ।

[०७४।१५]
आयुरुत्सर्गाच्चेति वक्तव्यक्म् ।
न वक्तव्यम् ।
आयुःक्षयादेव तन्मरणम् ।

[०७४।१६]
प्रथमकोट्यन्तर्गमात् ।

[०७४।१६-०७४।१७]
क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् ।

[०७४।१७]
तस्मादुभयक्षये सति मरणमायुःक्षयादित्युक्तम् ।

[०७४।१७-०७४।१८]
ज्ञानप्रस्थानेऽप्युक्तम् “आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ।

[०७४।१८]
सकृदुत्पन्नं तिष्ठनीति वक्तव्यम् ।

[०७४।१९]
आह ।

[०७४।१९-०७४।२०]
कामावचराणां सत्त्वानामसंज्ञिसमापर्त्तिं निरोधसमापर्त्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्त्तत इति वक्तव्यम् ।

[०७४।२०-०७४।२१]
समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सक्र्दुत्पन्नं तिष्ठतीति वक्तव्यम्” ।

[०७४।२१]
कोऽस्य भाषितस्यार्थः ।

[०७४।२१-०७४।२२]
यस्याश्रयोपघातादुपाघतस्तत्सन्तत्यधीनत्वात्प्रथमम् ।

[०७४।२२-०७४।२३]
यस्य त्वाश्रयोपघात एव नास्ति तद्यथो त्पन्नावस्थानात्द्वितीयम् ।

[०७४।२३-०७४।२४]
सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः ।

[०७४।२४]
तस्मादस्त्यकालमृत्युः ।

[०७४।२४-०७४।२५]
सूत्र उक्तम् “चत्वार आत्मभावप्रतिलम्भाः ।

[०७४।२५]
अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रमते न परसंचेतने”ति ।

[०७४।२६]
चतुष्कोटिकः ।

[०७४।२६-०७४।२७]
आत्मसंचेतनैव क्रमते कामधातौ क्रीडाप्रमोष्काणां देवानां मनःप्रदूषकाणां च ।

[०७४।२७-०७४।२८]
तेषां हि प्रहर्षमनःोप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिर्भवति नान्यथा।

[०७४।२८]
दुद्धानां चेति वक्तव्यम् ।

[०७५।०१]
स्वयंमृत्युत्वात् ।
परसंचेतनैव क्रमते गर्भाण्डगतानाम् ।

[०७५।०१-०७५।०२]
उभयमप्येषां कामावचराणां प्रायेण ।

[०७५।०२-०७५।०६]
नोभयं सर्वेषा मन्तराभविकाणां रूपारूप्यावचराणामनेकजातीयानां कामावचराणां तद्यथा नारकाणा मुत्तरकौरवाणां दर्शनमार्गमैत्रीनिरोधासंज्ञि समापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्ट धर्मिलो त्तरगङ्गिल श्रेष्ठिपुत्रयशः दुमारजीवकादीनां सर्वेषा चरमभविकानांवोधिसत्त्व मातुस्तद्गर्भायाः चक्रवर्त्तिनश्चक्रवर्त्तिमातुश्च तद्गर्भायाः।

[०७५।०६-०७५।०७]
अथ कस्मात्सूत्र उक्तं कतमे ते भदन्त सत्त्वा येषां नात्मसंचेतना क्रमते न परसंचेतना ।

[०७५।०७-०७५।०८]
नैवसंज्ञानासंज्ञायतनोपगाः शारिपुत्रे”ति ।

[०७५।०८-०७५।०९]
अन्येषु किल ध्यानरूप्येध्वात्मसंचेतनास्वभूमिक आर्यमार्गः परसंचेतना उत्तरभूमिसामन्तकस्तत्र चोभयं नास्तीति ।

[०७५।०९-०७५।१०]
ननु चैवं तत्रापि परभूमिक आर्यमार्गः परसंचेतना प्राप्नोति ।

[०७५।१०]
पर्यन्तग्रहणात्तर्हि तदादिसंप्रत्ययः ।

[०७५।११]
क्वचिदादिसंप्रत्ययः क्वचिदादिना पर्यन्तोऽपि प्रतीयते ।
यदाह ।

[०७५।११-०७५।१२]
“तद्यथा देवा ब्रह्मकायिकाः ।

[०७५।१२]
इयं प्रथमा सुखोपपत्तिरिति ।
क्वचित्पर्यन्तेनादिरपि प्रतीयते ।

[०७५।१३]
यदाह ।
तद्यथा देवा आभास्वराः ।
इयं द्वितीया सुखोपपत्तिरि”ति

[०७५।१३-०७५।१४]
अयमत्र तद्यथाशब्दो दृष्टान्तवाचक इति युक्त एतस्माच्छेषसं प्रत्ययः ।

[०७५।१४-०७४।१५]
एष हि दृष्टान्तधर्मो यदेकमपि तज्जातीयकं दृश्यते ।

[०७५।१५-०७५।१६]
स चेह तद्यथाशब्दो नास्तीत्यनुपसंहार एषः ।

[०७५।१६]
यद्ययं तद्यथाशब्दो दृष्टान्तवाचकः स्यादिह न प्राप्नुयात् ।

[०७५।१६-०७५।१७]
सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथा मनुष्यस्तदेकत्याश्चदेवा इति ।

[०७५।१७-०७५।१८]
तस्मादुपदर्शनार्थ एवायं द्रष्टव्य इत्यलमतिप्रसङ्गेन ।

[०७५।१८]
उक्तं जीवितम् ॥

[०७५।१९]
लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता ॥ २.४५ ॥

[०७५।२०]
एतानि हि संस्कृतस्य चत्वारि लक्षणानि ।

[०७५।२०-०७५।२१]
यत्रैतानि भवन्ति स धर्मः संस्कृतो लक्ष्यते ।
[०७५।२१]
विपर्ययादसंस्कृतः ।

[०७५।२१-०७५।२२]
तत्र जातिस्तं धर्मं जनयति स्थितिः स्थपयति जरा जरयति अनित्यता विनाशयति ।

[०७५।२२-०७५।२३]
ननु “त्रीणिमानि संस्कृत लक्षणानी”ति सूत्र उक्तम् ।

[०७५।२३]
चतुर्थमप्यत्र वक्तव्यं स्यात् ।
किं चात्र नोक्तम् ।
आह ।

[०७५।२४]
स्थितिः ।
यत्तर्हि “इदं स्थित्यन्यथात्वमि”ति ।

[०७५।२४-०७५।२५]
जराया एष पर्यायस्तद्यथा जातेरुत्पाद इत्यनित्यतायाश्च व्यय इति ।

[०७५।२५-०७६।०१]
ये हि धर्माः संस्काराणामध्वसंचाराय प्रवृत्तास्त एव सूत्रे लक्षणान्युक्तान्युद्वेजनार्थम् ।

[०७६।०१-०७६।०२]
जातिर्हि या संस्काराननागतादध्वनः प्रत्युत्पन्नमध्वानं संचारयति ।

[०७६।०२-०७६।०३]
जराऽनित्यते पुनः प्रत्युत्पन्नादतीतं दुर्बलीकृत्य प्रतिघातात् ।

[०७६।०३]
तद्यथा किल गहनप्रविष्टस्य पुरुषस्य त्रयः शत्रवः ।

[०७६।०३-०७६।०४]
तत एक एनं गहनादाकर्षेत्द्वौ पुनर्जीविताद्वच्यपरोपयेतां तद्वदिति ।

[०७६।०४-०७६।०५]
स्थितिस्तु तान् संस्कारानुपगुह्य तिष्ठत्यवियोगमिवेच्छन्ती ।

[०७६।०५-०७६।०६]
अतोऽसौ संस्कृतलक्षणं न व्यवस्थापिता ।

[०७६।०६]
असंस्कृतस्यापि च स्वलक्षणे स्थितिभावात् ।

[०७६।०६-०७६।०७]
अन्ये पुनः कल्पयन्ति स्थितिं जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं लक्षणमुक्तं सूत्रे ।

[०७६।०७]
किं प्रयोजनम् ।

[०७६।०८-०७६।०९]
एषा ह्येषु सङ्गास्पदमतः श्रियमिवैनां कालकर्णीसहितां दर्शयामास तस्यामनासङ्गार्थमिति ।

[०७६।०९]
अतश्चत्वार्येव संस्कृत लक्षणानि ।

[०७६।०९-०७६।१०]
तेषामपि नाम जात्यादीनां संस्कृतत्वादन्यैर्जात्यादिभिर्भवितव्यम् ।

[०७६।१०]
भवन्त्येव ।

[०७६।११]
जातिजात्यादयस्तेषां

[०७६।१२]
तेषामपि चत्वार्यनुलक्षणानि भवन्ति ।

[०७६।१२-०७६।१३]
जातिजातिः स्थितिस्थितिः जराजरा अनित्यताऽनित्यता इति ।

[०७६।१३]
ननु चैकस्यैकस्य चतुर्लक्षणी प्राप्नोति अपर्यवसानदोषश्च ।

[०७६।१४]
तेषां पुनरन्यजात्यादिप्रसङ्गात् ।
न प्राप्नोति ।
यस्मात् ।

[०७६।१५]
तेऽष्टधर्मैकवृत्तयः ।

[०७६।१६]
तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः ।
किमिदं वृत्तिरिति ।
कारित्रं पुरुषकारः ।

[०७६।१७]
जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म उत्पद्यते ।

[०७६।१८]
सार्धं लक्षणानुलक्षणैरष्टाभिः ।

[०७६।१८-०७६।१९]
तत्र जातिरात्मानं विरहय्यान्यानष्टौ धर्मान् जनयति ।

[०७६।१९]
जातिजातिः पुन स्तामेव जातिम् ।

[०७६।१९-०७६।२०]
तद्यथा किल काचित्कुक्कुटी बहून्य पत्यानि प्रजायते काचिदल्पानि ।

[०७६।२०-०७६।२१]
तद्वत्स्थितिरप्यात्मानं वर्जयित्वाऽन्यानष्टौ धर्मान् स्थापयति स्थितिस्थितिस्तु तामेव स्थितिम् ।

[०७६।२१-०७६।२२]
एवं जराऽनित्यते अपि यथायोग्यं यज्ये ।

[०७६।२२]
तस्माना भवत्यनवस्थाप्रसङ्गः ।

[०७६।२२-०७६।२३]
तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः ।

[०७६।२३-०७६।२४]
नह्येते जात्यादयो धर्मा द्रव्यतः संविद्यन्ते यथाऽभिव्यज्यन्ते ।

[०७६।२४]
किं कारणम् ।
प्रमाणाभावात् ।

[०७६।२४-०७६।२५]
नह्येषां द्रव्यतोऽस्तित्वे किञ्चिदपि प्रमाणमस्ति प्रत्यक्षमनुमानमाप्तागमो वा यथा रूपादीनां धर्माणामिति ।

[०७६।२६-०७६।२७]
यत्तर्हि सूत्र उक्तं “संस्कृतस्योत्पादोऽपि प्रज्ञायते व्ययोऽपि स्थित्यन्यथात्वमपी” ति ।

[०७६।२७]
ग्रन्थज्ञो देवानां प्रियो नत्वर्थज्ञः ।
अर्थश्च प्रतिशरण मुक्तं भगवता ।

[०७६।२८]
कः पुनरस्यार्थः ।

[०७६।२८-०७६।२९]
अविद्यान्धा हि बालाः संस्कारप्रवाहमात्मात आत्मीयतश्चाधिमुक्ता अभिष्वजन्ते ।

[०७६।२९-०७७।०२]
तस्य मिथ्याधिमोक्षस्य व्यावर्त्तनार्थं भगवांस्तस्य संस्कारप्रवाहस्यसंस्कृतत्वं प्रतीत्यसमुत्पन्नतां द्योतयितुकाम इदमाह “त्रिणीमानि संस्कृतस्य संस्कृतलक्षणानि” ।

[०७७।०२]
न तु क्षणस्य ।
नहि क्षणस्योत्पादादयः प्रज्ञायन्ते ।

[०७७।०३]
नचाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति ।

[०७७।०३-०७७।०४]
अथ एवात्र सूत्रे “संस्कृतस्योत्पादोऽपि प्रज्ञायत” इत्युक्तम् ।

[०७७।०४-०७७।०५]
पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञाये त ।

[०७७।०५-०७७।०६]
मैवं विज्ञायि संस्कृतस्य वस्तुनोऽस्तित्वे लक्षणानि जलवलाकावत्साध्वसादुत्वे वा कन्यालक्षणवदिति ।

[०७७।०६-०७७।०७]
तत्र प्रवाहस्यादिरुत्पादो निवृत्तिर्व्ययः ।

[०७७।०७]
स एव प्रवाहोऽनुवर्त्तमानः स्थितिः ।

[०७७।०७-०७७।०८]
तस्य पूर्वापरविशेषः स्थित्यन्यथात्वम् ।

[०७७।०८-०७७।०९]
एवं च कृत्वोक्तं “विदिता एव नन्दस्य कुलपुत्रस्य वेदना उत्पद्यन्ते विदिता अव तिष्ठन्ते विदिता अस्तं परिक्षयं पर्यादानं गच्छन्ती”ति ।

[०७७।१०]
आह चात्र

[०७७।११-०७७।१२]
“जातिरादिः प्रवाहस्य व्ययश्छेदः स्थितिस्तु सः ।
स्थित्यन्यथात्वं तस्यैव पूर्वापरविशिष्टता ॥”

[०७७।१३-०७७।१४]
“जातिरपूर्वो भावं स्थितिः प्रबन्धो व्ययस्तदुच्छेदः ।
स्थित्यन्यथात्वमिष्टं प्रबन्धपूर्वापरविशेष” इति ॥

[०७७।१५-०७७।१६]
“क्षणिकस्य हि धर्मस्य विना स्थित्या व्ययो भवेत् ।
न च व्येत्येव तेनास्य वृथा तत्परिकल्पना ॥”

[०७७।१७]
तस्मात्प्रवाह एव स्थितिः ।
एवं च कृत्वाऽयमप्यभिधर्मनिर्देश उपपन्न्नो भवति ।

[०७७।१८]
“स्थितिः कतमा ।
उत्पन्नानां संस्काराणामविनाश” इति ।

[०७७।१८-०७७।१९]
नहि क्षणस्योत्पन्नस्याविनाशोऽस्तीति ।

[०७७।१९]
यदपि च ज्ञानप्रस्थान उक्तम् “एकस्मिंश्चित्ते क उत्पादः ।

[०७७।२०]
आह ।
जातिः ।
को व्ययो मरणम् ।
किं स्थित्यन्यथात्वं जरे”ति ।

[०७७।२०-०७७।२१]
तत्रापि निकायसभागचित्तं युज्यते ।

[०७७।२१-०७७।२२]
प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते विनाऽपि द्रव्यान्तरकल्पनया ।

[०७७।२२]
कथमिति ।

[०७७।२३]
प्रतिक्षणमभूत्वाभाव उत्पादः ।
भूत्वाऽभावो व्ययः ।

[०७७।२३-०७७।२४]
पूर्वस्य पूर्वस्योत्तरक्षणानुवन्धः स्थितिः ।

[०७७।२४]
तस्याविस्दृशत्वं स्थित्यन्यथात्वमिति ।
यदा तर्हि सदृशा उत्पद्यन्ते ।

[०७७।२४-०७७।२५]
न ते निर्विशेषा भवन्ति ।

[०७७।२५]
कथमिदं ज्ञायते ।

[०७७।२५-०७७।२६]
क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्य वज्रादेश्चिराशुतरपातकालभेदात्तन्महाभूतानां परिणामविशेषसिद्धेः ।

[०७७।२६-०७७।२७]
नातिवहुविशेषभिन्नास्तु संस्काराः सत्यप्यन्यथात्वे सदृशा एव दृश्यन्ते ।

[०७७।२७-०७७।२९]
अन्तिमस्य तर्हि शब्दार्चिःक्षणस्य परिनिर्वाणकाले च षडायतनस्योत्तरक्षणाभावात्स्थित्यह्न्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति ।

[०७७।२९]
न वै संस्कृतस्य स्थितिरेवोच्यते ।

[०७८।०१]
लक्षणमपि तु स्थित्यन्यथात्वम् ।

[०७८।०१-०७८।०२]
अतो यस्यास्ति स्थितिस्तस्यावश्यमन्यथात्वं भवतीति नास्ति लक्षणव्यवस्थाभेदः ।

[०७८।०२-०७८।०४]
समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति द्योतितं भगवता “संस्कृतं नाम यद्भूतवा भवति भूत्वा च पुनर्न भवति यश्चास्य स्थितिसंज्ञकः प्रबन्धः सोऽन्यथा चान्यथा च भवती”ति ।

[०७८।०४-०७८।०५]
किमत्र द्रव्यान्तरैर्जात्यादिभिः कथमिदानीं स एव धर्मो लक्ष्यस्तस्यैव लक्षणं योक्ष्यते ।

[०७८।०५-०७८।०८]
कथं तावन्महापुरुषलक्षणानि महापुरुषान्नान्यानि सास्ना-लाङ्गूल-ककुद-शफ-विषाणादीनि च गोत्वलक्षणानि गोर्नान्यानि काठिन्यादीनि च पृथिवीधात्वादीनां लक्षणानि तेभ्यो नान्यानि ।

[०७८।०८-०७८।०९]
यथा चोध्र्वगमनेन दूराद्धूमस्य धूमत्वं लक्ष्यते नच तत्तस्मादन्यत् ।

[०७८।०९]
स एवात्र न्यायः स्यात् ।

[०७८।०९-०७८।१०]
नच संस्कृतानां रूपादीनां तावत्संस्कृतत्वं लक्ष्यते ।

[०७८।१०-०७८।११]
गृह्णतापि स्वभावं यावत्प्रागभावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः ।

[०७८।११-०७८।१२]
तस्मान्न तेनैव तल्लक्षितं भवति नच तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते ।

[०७८।१२]
अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः ।

[०७८।१२-०७८।१३]
किमयुक्तं स्यात् ।

[०७८।१३-०७८।१४]
एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूत्वात् ।

[०७८।१४]
कारित्रकालभेदात् ।
अनागता हि जातिः कारित्रं हि करोति ।

[०७८।१४-०७८।१६]
यस्मान्न जातं जन्यते जनिते तु धर्मे वर्त्तमानाः क्षित्यादयः कारित्रं कुर्वन्तीति न यदा जायते तदा तिष्टति जीर्यति विनश्यति वा ।

[०७८।१६]
इदं तावदिह संप्रधार्यं भवेत् ।

[०७८।१६-०७८।१७]
किमनागतं द्रव्यतोऽस्ति नास्तीति पश्चाज्जनयति वा नवेति सिध्येत् ।

[०७८।१७-०७८।१८]
सत्यपि तु तस्मिन् जातिः कारितरं कुर्वती कथमनागता सिध्यतीत्यनागत लक्षणं वक्तव्यम् ।

[०७८।१८-०७८।२०]
उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना सिध्यतीति वर्त्तमानलक्षाणं वक्तव्यम् ।

[०७८।२०-०७८।२१]
स्थित्यादयोऽपि च युगपत्कारित्रे वर्त्तमाना एकक्षण एव धर्मस्य स्थितजीर्णविनष्टतां प्रसञ्जेयुः ।

[०७८।२१-०७८।२२]
यदैव ह्येनं स्थितिः स्थापयति तदैव ज्रा जरयति अनित्यता विनाशयतीति ।

[०७८।२२-०७८।२४]
किमयं तत्र काले तिष्टत्वाहोस्विज्जीर्यतु विनश्यतु वा योऽपि हि ब्रूयात्स्थित्यादीनामपि कारित्रं क्रमेणेति तस्य क्षणिकत्वं बाध्यते ।

[०७८।२४]
अथाप्येवं ब्रूयातेष एव हि नः क्षणो यावतैतत्सर्वं समाप्यत इति ।

[०७८।२५-०७८।२६]
एवमपोइ ताभ्यां सहोत्पन्ना स्थितिस्तावत्स्थापयति न ज्रा जरयति अनित्यता वा विनाश्यतीति ।

[०७८।२६]
कुत एतत् ।
स्थितेर्बलीयस्त्वात् ।
पुनः केनावलीयस्त्वम् ।

[०७८।२६-०७८।२७]
यदैनां सह धर्मेणानित्यता हन्ति ।

[०७८।२७]
कृतकृत्या पुनः कर्त्तुं नोत्सहते जातिवत् ।

[०७८।२८]
स्थतुर्युक्तमनुत्सोढुम् ।

[०७८।२८-०७८।२९]
नहि शक्यं जात्यादिजन्यं वर्तमानतामानीतं पुनरानेतुम् ।

[०७८।२९]
शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तमपि स्थापयितुम् ।

[०७८।२९-०७९।०१]
अतो न युक्तं यन्नोत्सहते ।

[०७९।०१]
को वाऽत्र प्रतिबन्धः ।
ते एव जराऽनित्यते ।

[०७९।०१-०७९।०२]
यदि हि ते बलीयस्यौ स्यातां पूर्वमेव स्याताम् ।

[०७९।०२-०७८।०४]
निवृत्तकारित्रायां खल्वपि स्थितौ त चापि न तिष्टतः स चापि धर्म इति कथं कुत्र वा कारित्रं कर्त्तुमुत्सहिष्येते किं वा पुनस्ताभ्यां कर्त्तव्यम् ।

[०७९।०४-०७९।०५]
स्थितिपरिग्रहाद्धि स धर्म उत्पन्नमात्रो न व्यनश्यत् ।

[०७९।०५-०७९।०६]
स तु तया व्युपेक्ष्यमाणो नियतं न स्थास्यत्ययमेवास्य विनाशः ।

[०७९।०६]
स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः विनाशोऽनित्यता ।

[०७९।०७]
जरा तु खलु सर्वथात्वेन न तथा ।
पूर्वापरविशेषात्विपरिणामाच्च ।

[०७९।०७-०७९।०८]
अतस्तदन्यथात्वेऽन्य एव ।

[०७९।०८]
उक्तं हि

[०७९।०९-०७९।१०]
“तथात्वेन जराऽसिद्धिरन्यथात्वेऽन्य एव सः ।
तस्मानैकस्य भावस्य जरा नामोपपद्यते”॥

[०७९।११-०७९।१२]
योऽप्याह निकायान्तरीयो “विनाश कारणं प्राप्यानित्यता विनाशायती”ति तस्य हरीतकीं प्राप्य देवता विरेचयतीत्यापन्नं भवति किं पुनस्तां कल्पयित्वा ।

[०७९।१२-०७९।१५]
ततेवास्तु विनाशकारणाद्विनाशः चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यताया विनाशकारणानपेक्षत्वात्स्थित्यनित्यते कारित्रमभिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थित विनष्टता संप्रसज्येत ।

[०७९।१५-०७०।१६]
तस्मात्प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीत्येवमेतत्सूत्रं सूनीतं भवति ।

[०७९।१७]
अपिच यद्यनागता जातिर्जन्यस्य जनिका किमर्थं सर्वमनागतं युगपन्नोत्पद्यते ।
यस्मात्

[०७९।१८]
जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्वेना ॥ २.४६ ॥

[०७९।१९]
नहि विना हेतुप्रत्ययसामग्रया जातिर्जनिका भवति ।

[०७९।१९-०७९।२०]
हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः ।

[०७९।२०-०७९।२१]
सति सामर्ग्य भावादसति चाभावान्न जातेरिति हेतुप्रत्यया एव जन काःसन्तः ।

[०७९।२१]
किं च भोः सर्वं विद्यमानमुपलभ्यते ।

[०७९।२२]
सूक्ष्मा अपि धर्मप्रकृतयः संविद्यन्ते ।

[०७९।२२-०७९।२३]
जातमित्येव तु न स्यादसत्यां जातौ षष्ठिवचनं च रूपस्योत्पादः इति यथा रूपस्य रूपमिति ।

[०७९।२३-०७९।२४]
एवं यावदनित्यता यथायोगं वक्तव्या ।

[०७९।२४]
तेन तर्ह्यनात्मत्वमप्येष्टव्यमनात्मबुद्धि-सिद्ध्यर्थम् ।

[०७९।२४-०७९।२६]
संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्व-सत्तादयोऽपि तीर्थकर-परिकल्पिता अभ्युपगन्तव्या एक-द्वि-महदणु-पृथक्-संयुक्त-वियुक्त-परापर-सदादि-बुद्धि-सिद्ध्यर्थम् ।

[०७९।२६-०७९।२७]
षष्टीविधानार्थं च रूपस्य संयोग इति ।

[०७९।२७]
एषा च षष्टो कथं कल्प्यते ।

[०७९।२७-०७९।२८]
रूपस्य स्वभाव इति ।

[०७९।२८]
तस्मात्प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति ।

[०७९।२८-०८०।०१]
स चाभूत्वाभावलक्षाण उत्पादो बहुविकल्पः ।

[०८०।०१-०८०।०२]
तस्य विशेषणार्थं रूपस्योत्पाद इति षष्टीं कुर्वन्ति यथा रुपसंज्ञक एवोत्पादः प्रतीयेत माऽन्यः प्रत्यायीति ।

[०८०।०२-०८०।०३]
तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति ।

[०८०।०३-०८०।०४]
एवं स्थित्यादयोऽपि यथायोगं वेदितव्याः ।

[०८०।०४]
यदि जात्या विना जायते कस्मादसंस्कृतमप्याकाशादिकं न जायते ।

[०८०।०५]
जायतित्यभूत्वा भवति ।
असंस्कृतं च नित्यमस्तीति न जायते ।

[०८०।०५-०८०।०६]
यथा च धर्मतया न सर्वं जातिमदिष्यते तथा न सर्वं जायत इत्येष्टव्यम् ।

[०८०।०६-०८०।०८]
यथा च तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्त्येवमेवासंस्कृतस्योत्पादने सर्वेऽप्यसमर्थाः स्युः ।

[०८०।०८]
सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः ।

[०८०।०९-०८०।१०]
नहि दूषकाः सन्तीत्यागमा अपास्यन्ते नहि मृगाः सन्तीति यवा नोष्यन्ते नहि मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते ।

[०८०।१०-०८०।११]
तस्माद्दोषेषु प्रतिविधातव्यं सिद्धान्तश्चानुवर्त्तितव्यः ।

[०८०।११]
उक्तानि लक्षणानि ॥

[०८०।१२]
नामकायादयः कतमे ।

[०८०।१३]
नामकायादयः संज्ञावाक्याक्षरसमुक्तयः ।

[०८०।१४]
आदिग्रहणेन पदव्यञ्जनकायग्रहणम् ।
तत्र संज्ञाकरणं नाम ।

[०८०।१४-०८०।१५]
तद्यथा रूपं शब्द इत्येवमादिः ।

[०८०।१५-०८०।१६]
वाक्यं पदं यावताऽर्थपरिसमाप्तिस्तद्यथा “अनित्या वत संस्कारा” इत्येवमादि येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते ।

[०८०।१६-०८०।१७]
व्यञ्जनमक्षरं तद्यथा अ आ इत्येवमादि ।

[०८०।१७]
ननु चाक्षराण्यपि लिप्यवयवानां नामानि ।

[०८०।१७-०८०।१८]
न वै लिप्यवयवानां प्रत्यायनार्थमक्षाराणि प्रणीतान्यक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः ।

[०८०।१९]
कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषां नामानि ।

[०८०।१९-०८०।२०]
एषां च संज्ञादीनां समुक्तयो नामादिकायाः ।

[०८०।२०]
उच समवाये पठन्ति ।
तस्य समुक्तिरित्येतद्रूपं भवति ।

[०८०।२१]
योऽर्थः समवाय इति सोऽर्थः समुक्तिरिति ।

[०८०।२१-०८०।२२]
तत्र नामकायस्तद्यथा रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि ।

[०८०।२२-०८०।२३]
पदकायः तद्यथा “सर्वसंस्कारा अनित्याः सर्वधर्म अनात्मानः शान्तं निर्वाणमि” त्येवमादि ।

[०८०।२३-०८०।२४]
व्यञ्जनकायस्तद्यथा क ख ग घ ञेत्येवमादि ।

[०८०।२४-०८०।२५]
ननु चैते वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति ।

[०८०।२५]
कस्माच्चित्तविप्रयुक्ता इत्युच्यन्ते ।
नैते वाक्स्वभावाः ।

[०८०।२५-०८०।२६]
घोषो हि वाक्नच घोषामात्रेनार्थाः प्रतीयन्ते ।

[०८०।२६]
किं तर्हि ।

[०८०।२६-०८०।२८]
वाङ्नाम्नि प्रव्र्त्तते नामार्थं द्योतयति नैव घोषमात्रं वाग्येन तु घोषेणार्थः प्रतीयते स घोषो वाक् ।

[०८०।२८]
केन पुनर्घोषेणार्थः प्रतीयते ।

[०८०।२८-०८१।०१]
योऽर्थेषु कृतावधिर्वक्तृभिस्तद्यथागौरित्येष शब्दो नवस्वर्थेषु कृतावधिः ।

[०८१।०२-०८१।०३]
“वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु ।
नवस्वर्थेषु मेधावी गोशब्दमुपधारयेदि”ति ॥

[०८१।०४-०८१।०५]
योऽपि हि मन्यते नामार्थं द्योतयतीति तेनाप्येतदवश्यमभ्युपगन्तव्यं यदि प्रतीपदार्थकं भवतीति ।

[०८१।०५-०८१।०६]
तच्चैत च्छब्दमात्रादेव प्रतीतपदार्थकात्सिध्यतीति किमर्थरं नाम कल्पयित्वा ।

[०८१।०६]
इदं चापि न ज्ञायते कथं वाङ्नाम्नि प्रवर्त्तत इति ।

[०८१।०६-०८१।०७]
किं तावदुत्पादयत्याहोस्वित्प्रकाशयति ।

[०८१।०७]
यद्युत्पाद यति ।

[०८१।०७-०८१।०९]
घोषस्ववत्वाद्वाचः सर्वं घोषमात्रं नामोत्पादयिष्यति यादृशो वा घोषविआशेष इष्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति ।

[०८१।०९]
अथ प्रकाशयति ।

[०८१।०९-०८१।११]
घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं नाम प्रकशयिष्यति यादृशो वा घोषविशेष इष्यते नाम्नः परकाशकः स एवार्थस्य द्योतको भविष्यति ।

[०८१।११]
न खल्वपि शब्दानां सामर्ग्यमस्ति क्षणैकमिलनम् ।

[०८१।१२]
न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ्नामोत्पादयेत् ।

[०८१।१२-०८१।१३]
कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् ।

[०८१।१३-०८१।१४]
एवं तर्हि पश्चिम एव दे नाम्न उत्पादाद्योऽपि तमेवैकं शृणोति सोऽप्यर्थं प्रतिपद्येत ।

[०८१।१४-०८१।१५]
अथाप्येवं कल्प्येत वाग्व्यञ्जनं जनयति व्यञ्जनं तु नामेति ।

[०८१।१५-०८१।१६]
अत्रापि स एव प्रसङ्गो व्यञ्जनां सामर्ग्याभावात् ।

[०८१।१६]
एष एव च प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः ।

[०८१।१६-०८१।१८]
व्यञ्जनां पि वाग्विशिष्टप्रज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुं नोत्सहन्त इति व्यञ्जयापि वाक्नैवोत्पादिका न प्रकाशिका युज्यते ।

[०८१।१८-०८१।१९]
अथाप्यर्थसहजं नाम जात्यादिवदिष्यते ।

[०८१।१९]
एवं सत्यतीतानागतस्यार्थस्य वर्त्तमानं नाम न स्याद् ।

[०८१।१९-०८१।२१]
अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम तत्सहजं स्यातसंस्कृतानां च धर्माणां केन सहजं नाम स्यादित्यनिष्टिरेवेयम् ।

[०८१।२१-०८१।२२]
यदप्युक्तं भगवता

[०८१।२३]
“नामसंनिशारिता गाथा गाथानां कविराश्रयः” इति

[०८१।२४-०८१।२५]
अत्रार्थेषु कृतावधिः शब्दो नाम नाम्ना च रचनाविशेषो गाथेति नामसंनिताभवति रचनाविशेषाश्च द्रव्यान्तरं नोपपद्यते ।

[०८१।२५]
पङ्क्तिवच्चित्तानुपूर्व्यवच्च ।

[०८१।२६]
अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना ।

[०८१।२६-०८१।२७]
तत्समूहा एव नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रज्ञप्तिः ।

[०८१।२७-०८१।२८]
सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकाया द्रव्यत इति वैभाषिकाः ।

[०८१।२८]
नहि सर्व धर्मास्तर्कगम्या भवन्तीति ।

[०८२।०१-०८२।०२]
अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्या असत्त्वाख्या विपाकजा औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् ।

[०८२।०२]
आह

[०८२।०३]
कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः ।

[०८२।०४]
कामाप्ता रूपाप्ताश्चेति ।
आरुप्याप्ता अपि सन्ति ते त्वनभिलाप्या इत्यपरे ।

[०८२।०५]
सत्त्वाख्या एते ।
यश्च द्योतयति स तैः समन्वागतो न यो द्योत्यते ।

[०८२।०५-०८२।०६]
नैःष्यन्दिका अनिवृताव्याकृताश्च ।

[०८२।०६-०८२।०७]
यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च ।

[०८२।०८]
तथा ॥ २.४७ ॥

[०८२।०९]
सभागता सा तु पुनर्विपाकोऽपि

[०८२।१०]
न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी ।

[०८२।११]
आप्तयो द्विधा ।

[०८२।१२]
प्राप्तयो नैःष्यन्दिक्यो विपाकजाश्च ।

[०८१।१३]
लक्षणानि च ।

[०८१।१४]
द्विधेति वर्त्तते प्राप्तिवत् ।

[०८२।१५]
निःष्यन्दाः समापत्त्य समन्वयाः ॥ २.४८ ॥

[०८२।१६]
द्वे अचित्तसमापत्ती असमन्वागमश्च नैःष्यन्दिका एव ।
शेषमेषां वक्तव्यमुक्तम् ।

[०८२।१७]
शेषयोश्चासंज्ञिकजीवितयोरतो न पुनर्ब्रुमः ।
कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वागमवचनात् ।

[०८२।१८]
कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता ।
सर्वसंस्कृटसहभूत्वात् ॥
उक्ता विप्रयुक्ताः ॥

[०८२।१९-०८२।२०]
यक्तूक्तं “जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना” इति क इमे हेतवः केच प्रत्ययाः ।

[०८२।२१-०८२।२२]
कारणं सहभूश्चैव सभागः संप्रयुक्तकः ।
सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते ॥ २.४९ ॥

[०८२।२३]
षडिमे हेतवः ।

[०८२।२३-०८२।२४]
कारणहेतुः सहभूहेतुः सभागहेतुः संप्रयुक्तकहेतुः सर्वत्रगहेतुः विपाकहेतुरिति ।

[०८२।२४]
तत्र

[०८२।२५]
स्वतोऽन्ये कारणं हेतुः

[०८२।२६]
संस्कृतस्य हि धर्मस्य स्वभावव्र्ज्याः सर्वधर्माः कारणहेतुरुत्पादयति ।

[०८२।२७]
अविघ्नभावावस्थानात् ।

[०८२।२७-०८३।०२]
ननु च येऽस्याजानत उदपत्स्यन्तास्रवा जानतोऽस्य ते नोत्पद्यन्त इति ज्ञानमेषां विघ्नमुअत्पत्तौ करोति सूर्यप्रभावज्ज्योतिषां दर्शनस्येति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति ।

[०८३।०२]
उत्पद्यमानस्याविध्नभावेनावस्थानादिति ज्ञातव्यम् ।

[०८३।०३]
भवेत्तावदुत्पत्तौ विध्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम् ।

[०८३।०३-०८३।०४]
तद्यथा अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः स्वामिना स्मः सुखिता इति ।

[०८३।०४-०८३।०६]
यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुं तस्य कथं हेतुभावस्तद्यथा निर्वाणस्यानुत्पत्तिधर्मकाणां च सर्वोत्पत्तौ नारकादीनां चरूप्यसत्त्व स्कन्धोत्पत्तौ ।

[०८३।०६-०८३।०७]
असन्तोऽपि ह्येते तथैव विध्नं कर्त्तुमसमर्थः स्युः ।

[०८३।०७-०८३।०८]
असमर्थेऽपि हि भोजके तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः ।

[०८३।०८-०८३।०९]
यस्तु प्रधानः कारणहेतुः स उत्पादनेऽपि समर्थो यथा चक्षूरूपे चक्षुर्विज्ञानस्य आहारः शरीरस्य वीजादयोऽङ्कुरादीनामिति ।

[०८३।१०-०८३।११]
यस्त्वेवं चोदयति अनावरणभावेन चेत्सर्व धर्महेतवो भवन्ति कस्माना सर्वस्योत्पादो युगपद्भवति प्राणातिपातेन च घातकवत्सर्वे तद्भाजो भवन्तीति ।

[०८३।११-०८३।१२]
तस्येदमचोद्यम् ।

[०८३।१२]
यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते न कारकभावेनेति ।

[०८३।१३]
सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे ।

[०८३।१३-०८३।१४]
तद्यथा निर्वाणस्यापि चक्षुर्विज्ञानम् ।

[०८३।१४]
कथं कृत्वा ।

[०८३।१४-०८३।१६]
तेन ह्यालम्बनात्मनोविज्ञानमुत्पद्यते कुशलाकुशालं यतः क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरपरया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् ।

[०८३।१६]
एवमन्यस्यापि प्रतिपत्तव्यम् ।
एषा हि दिक् ।

[०८३।१६-०८३।१७]
उक्तः कारणहेतुः ।

[०८३।१८]
सहभूर्ये मिथःफलाः ।

[०८३।१९]
मिथः पारंपर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथा ।
कथम् ।

[०८३।२०]
भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् ॥ २.५० ॥

[०८३।२१]
चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः ।
चित्तं चित्तानुवर्त्तिनां धर्माणां तेऽपि तस्य ।

[०८३।२२]
संस्कृतलक्षणानि लक्ष्यस्य सोऽपि तषाम् ।

[०८३।२२-०८३।२३]
एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् ।

[०८३।२३-०८३।२४]
विनापि चान्योन्यफलत्वेन धर्मोऽनुलक्षणानां सहभूहेतुर्न तानि तस्येत्युपसंख्यातव्यम् ॥

[०८३।२५]
के पुनरेते चित्तानुवर्त्तिनो धर्माः ।

[०८३।२६]
चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।

[०८३।२७]
चित्तानुवर्त्तिनः

[०८३।२८]
सर्वेचित्तसंप्रयुक्ताः ।
ध्यानसंवरोऽनास्रवसंवरस्तेषां च ये जात्यादयश्चित्तस्य च ।

[०८३।२८-०८४।०१]
एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते ।

[०८४।०१]
कथमेते चित्तमनुपरिवर्त्तन्ते ।
समासतः

[०८४।०२]
कालफलादिशुभतादिभिः ॥ २.५१ ॥

[०८४।०३]
कालस्तावच्चितेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन च ।

[०८४।०३-०८४।०४]
फलादिभिरेकफलविपाकनिःष्यन्दतया ।

[०८४।०४]
पूर्वकस्त्वेकशब्दः सहार्थे वेदितव्यः ।

[०८४।०५]
शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया ।

[०८४।०५-०८४।०६]
एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते ।

[०८४।०६-०८४।०७]
तत्र सर्वाल्प चित्तमष्टपञ्चाशतो धर्माणां सहभूहेतुः ।

[०८४।०७-०८४।०८]
दशानां महाभूमिकानां चत्त्वारिंशतस्तल्लक्षणानामष्टानां च स्वलक्षणानुलक्षाणानाम् ।

[०८४।०८]
तस्य पुनश्चतुःपञ्चाशद्धर्माः सहभूहेतुः ।

[०८४।०८-०८४।०९]
स्वान्यनुलक्षणानि स्थापयित्वा ।

[०८४।०९]
चतुर्दशेत्यपरे ।
दश महभूमिकाः स्वान्येव च लक्षणानीति ।

[०८४।०९-०८४।१०]
तदेतन्न वर्णयन्ति ।

[०८४।१०]
प्रकरणग्रन्थो ह्येवं विरुध्येत ।

[०८४।१०-०८४।११]
“स्याद्दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः ।

[०८४।११-०८४।१३]
सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः ।

[०८४।१३]
सत्कायदृष्टेक्श्च हेतुर्यदेतत्स्थापितमि” ति ।

[०८४।१३-०८४।१५]
ये तर्हि “तत्संप्रयुक्तानां च धर्माणा मि” त्येतन्न पथन्ति तैरप्येतत्पथितव्यमर्थतो वैवं बोद्धव्यमिति काश्मीराः ।

[०८४।१५]
यक्तावत्सहभूहेतुना हेतुः सहभ्वपि तत् ।

[०८४।१५-०८४।१६]
स्यात्तु सहाभूर्न सहभूहेतुना हेतुः ।

[०८४।१६]
धर्मस्यानुलक्षणानि ।
तानि चान्योन्यम् ।

[०८४।१६-०८४।१९]
अनुपरिवर्त्त्यनुलक्षनानि चैवं चित्तस्य तानि चान्योन्यं सप्रतिघं चोपादायरूपमन्योन्यमप्रतिघं च किञ्चित्सर्वं च भूतैः प्राप्तयश्च सहजाः प्राप्तिमतः सहभुवो न सहभूहेतुरनेकफलविपाक निष्यन्दत्वात् ।

[०८४।१९-०८४।२०]
न चैताः सहचरिष्णवः पूर्वमप्युत्पत्तेः पश्चादपीति ।

[०८४।२०]
सर्वमप्येतत्स्यात् ।

[०८४।२०-०८४।२१]
किं तु प्रसिद्धहेतुफलभावानां बीजादीनामेष न्यायो न दृष्ट इति वक्तव्यमेतत्कथं सहोत्पन्नानां धर्माणां हेतुफलभाव इति ।

[०८४।२२]
तद्यथा प्रदीपप्रभयोरङ्कुरच्छाययोश्च ।

[०८४।२२-०८४।२४]
संप्रधार्यं तावदेतत्किं प्रभायाः प्रदीपो हेतुराहोस्वित्पूर्वोत्पन्नैव सामग्री सप्रभस्य प्रदीपस्य सच्छायस्याङ्दुरस्योत्पत्तौ हेतुरिति ।

[०८४।२४]
इतस्तर्हि भावाभावयोस्तद्वत्त्वात् ।

[०८४।२४-०८४।२५]
एतद्धि हेतुहेतुमतो लक्षणमाचक्षतेर्हेतुकाः ।

[०८४।२५-०८४।२६
यस्य भावाभावयोः यस्य भावाभावौ नियमतः स हेतुरितरो हेतुमानिति ।

[०८४।२६-०८५।०१]
सहभुवां च धर्माणामेकस्य भावे सर्वेषां भाव एकस्याभावे सर्वेषामभाव इति युक्तो हेतुफलभावः ।

[०८५।०१]
स्यात्तावत्सहोत्पन्नानां परस्परं तु कथम् ।

[०८५।०२-०८५।०३]
अथ एवाह एवं तर्ह्यविनिर्भाविणोऽप्युपादायरूपस्यान्योन्यमेष प्रसङ्गः भूतैश्च सार्धं चित्तानुलक्षणादीनां चे चित्तादिभिः ।

[०८५।०३-०८५।०४]
त्रिदण्डान्योन्यबलावस्थानवत्तर्हि सहभुवां हेतुफलभावः सिध्यति ।

[०८५।०४]
मीमांस्यं तावदेतत् ।

[०८५।०४-०८५।०६]
किमेषां सहोत्पन्नबलेनावस्थानमाहोस्वित्पूर्वसामग्रीवशात्तथैवोत्पाद इति अन्न्यदपि च तत्र किञ्चिद्भवति सूत्रकं शङ्कुको वा पृथिवी वा धारिका ।

[०८५।०६-०८५।०७]
एषामपि नामान्येऽपि सभागहेतुत्वादयो भवन्तीति सिद्धः सहभूहेतुः ।

[०८५।०८]
सभागहेतुः कतमः ।

[०८५।०९]
सभागहेतुः सदृशाः

[०८५।१०-०८५।११]
सदृशा धर्माः सदृशानां धर्माणां सभागहेतुस्तद्यथा कुशलाः पञ्च स्कन्धाः कुशलानामन्योय्यं क्लिष्टाः क्लिष्टानामव्याकृता अव्याकृतानां रूपमव्याकृतं पञ्चानाम् ।

[०८५।१२]
चत्वारस्तु न रूपस्येत्यपरे ।
न्यूनत्वात् ।

[०८५।१२-०८५।१३]
कललं कललादीनां दशानामवस्थानामर्वुदायोऽर्वुदादीनामेकैकापर्हासेनैकस्मिन्निकायसभागे ।

[०८५।१३-०८५।१४]
अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम् ।

[०८५।१४-०८५।१५]
बाह्येष्वपि यवो यवस्य शालिः शालेरिति विस्तरेण योज्यम् ।

[०८५।१५-०८५।१६]
ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुं तेषामेष ग्रन्थः इच्छाविघातायसंप्रवर्त्तते “अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपति” रिति ।

[०८५।१७]
किं पुनः सर्वे सदृशानां सभागहेतः ।
नेत्याह ।
किं तर्हि ।

[०८५।१८]
स्वनिकायभुवः ।

[०८५।१९]
स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः ।

[०८५।१९-०८५।२०]
पञ्च निकायाः दुःखदर्शनप्रहातव्यो यावत्भावनाप्रहातव्यः ।

[०८५।२०]
नव भूमयः ।

[०८५।२०-०८५।२१]
कामधातुरष्टौ च ध्यानारूप्याः ।

[०८५।२१]
तत्र दुःखदर्शनहेयाः दुःखदर्शनहेयानां सभागहेतुर्नान्येषाम् ।

[०८५।२१-०८५।२२]
एवं यावत्भावनाहेया भावनाहेयानाम् ।

[०८५।२२-०८५।२४]
तेऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां यावत्भवाग्रभूमिकास्तद्भूमिकानामेवणान्यषाम् ।

[०८५।२४]
तेऽपि न सर्वे ।
किं तर्हि ।

[०८५।२५]
अग्रजाः ।

[०८५।२६]
पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः ।
अनागता नैव सभागहेतुः ।

[०८५।२७]
एवमतीते कुत एतताह ।
शास्त्रात् ।
“सभागहेतुः कतमः ।

[०८५।२७-०८६।०२]
पूर्वोत्पन्नानि कुशलमूलानिपश्चादुत्पन्नानां कुशलमूलानां तत्संप्रयुक्तानां च धर्माणां स्वधातौ सभागहेतुना हेतुः ।

[०८६।०२]
एवमतीतान्यतीतप्रत्युत्पन्नानाम् ।

[०८६।०२-०८६।०३]
अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्” ।

[०८६।०३-०८६।०४]
इदपि शास्त्रं “यो धर्मो यस्य धर्मस्य हेतुः कदाचित्स धर्मस्तस्य न हेतुः ।

[०८६।०४]
आह ।

[०८६।०४-०८६।०५]
न कदाचिदिति सहभूसंप्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः एषः ।

[०८६।०५-०८६।०६]
यस्तु मन्यते अनागतोऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे नियतीभूतो भवत्यतस्तां चरमावस्थामभिसंधायोक्तं “न कदाचिन्न हेतुरि”ति ।

[०८६।०६-०८६।०८]
तस्या यमपरिहारो यस्मात्स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चात्भवति ।

[०८६।०८-०८६।१०]
इहपि च प्रश्ने यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित्स धर्मस्तस्य धर्मस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यान्न कदाचिदिति ।

[०८६।१०]
कस्मादेवमाह ।

[०८६।१०-०८६।११]
यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसंदर्शनार्थं यथा तत्र तथेहापि कर्त्तव्यम् ।

[०८६।११]
यथा चेह तथा तत्रेति ।

[०८६।११-०८६।१२]
एवं सति को गुणो लभ्यत इत्यकौशल मेवात्र शास्त्रकारस्यैव संभाव्येत ।

[०८६।१२-०८६।१३]
तस्मात्पूर्वक एवात्र परिहारः साधुः ।

[०८६।१३-०८६।१५]
यत्तर्हीदमुक्तम् “अनागतानां सत्कायदृष्टिं तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्यं तत्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुर्यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरि”ति ।

[०८६।१५-०८६।१६]
अनागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत्कर्त्तव्यमर्थतोऽपि चैवं बोद्धव्यमिति ।

[०८६।१६-०८६।१८]
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते “सर्वधर्माश्चतुष्के नियता हेतौफले आश्रये आलम्वने नियता” इति ।

[०८६।१८]
हेतुरत्र संप्रयुक्तकहेतुः सहभूहेतुश्च ।

[०८६।१८-०८६।१९]
फलं पुरुषकारफलमधिपतिफलं च ।

[०८६।१९]
आश्रयश्चक्षुरादिरालम्बनं रूपादिकमिति द्रष्टव्यम् ।

[०८६।१९-०८६।२०]
ननु चैवं सति सभाग हेतुरभूत्वा हेतुर्भवतीति प्राप्तम् ।

[०८६।२०-०८६।२१]
इष्यत एवावस्थां प्रति न द्रव्यम् ।

[०८६।२१]
अवस्थाफलल्ं हि सामर्ग्यं न द्रव्यफलम् ।

[०८६।२१-०८६।२२]
किं पुनः स्याद्यदि विपाकहेतुवदनागतोऽपि सभागहेतुः स्यात् ।

[०८६।२२]
शास्त्रे तस्य ग्रहणं स्यात् ।

[०८६।२२-०८६।२३]
स एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः ।

[०८६।२३]
नैतदस्ति ।

[०८६।२३-०८६।२४]
निःष्यन्दफलेन हि सफलः सभागहेतुः ।

[०८६।२४]
तच्चानागतस्यायुक्तं पूर्वपश्चिमताऽभावात् ।

[०८६।२४-०८६।२५]
न चोत्पन्नमनागतस्य निष्यन्दो युज्यते ।

[०८६।२५]
यथाऽतीतं वर्त्तमानस्य ।
मा भूद्धेतोः पूर्वं फलमिति ।

[०८६।२६]
नास्त्यनागतः सभागहेतुः ।
विपाकहेतुरपि एवमनागतो न प्रप्नोति ।

[०८६।२६-०८६।२७]
वीपाकफलस्य पूर्वं सह चायोगादनागते चाध्वति पूर्वपश्चिमताऽभावात् ।

[०८६।२७]
नैतदस्ति ।

[०८६।२८-०८६।२९]
सभागहेतोर्विना पौर्वापर्येण सदृशः सदृशस्य सभागहेतुरित्यन्योन्यहेतुत्वादन्योन्यनिःष्यन्दता संप्रसज्येत ।

[०८६।२९]
नचान्योन्यनिःष्यन्दता युक्तिमतीति ।

[०८७।०१]
नत्वेव विपाकहेतोर्विना पौर्वापर्येणान्योन्यहेतुफलता संप्रसज्यते ।

[०८७।०१-०८७।०२]
भिन्नलक्षणात्वाद्धेतुफलयोः ।

[०८७।०२-०८७।०३]
तस्मादवस्थाव्यव्स्थितमेव सभागहेतुर्लक्षणव्यवस्थितस्तुपाकहेतुरित्यनागतोऽपि न वार्यते ।

[०८७।०४]
यदुक्तं स्वभूमिकः सभागहेतुर्भवतीति किमेष नियमः सर्वस्य सास्रवस्यैष नियमः ।

[०८७।०५]
अन्योऽन्यं नवभूमिस्तु मार्गः

[०८७।०६]
सभागहेतुरित्यधिकारः ।

[०८७।०६-०८७।०७]
अनागम्ये ध्यानान्तरिकायां चतुर्षुरनेषु त्रिषु चारूप्येषु मार्गसत्यमन्योऽन्यं सभागहेतुः ।

[०८७।०७]
किं कारणम् ।

[०८७।०७-०८७।०८]
आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितस्तद्भमि काभिस्तृष्णाभिरस्वीकृतत्वात् ।

[०८७।०८-०८७।०९]
अतः मानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति ।

[०८७।०९]
स पुनः ।

[०८७।१०]
समविशिष्टयोः ॥ २.५२ ॥

[०८७।११]
न्यूनस्य हेतुर्भवति ।

[०८७।११-०८७।१२]
तद्यथा दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः सभागहेतुविशिष्टस्यच यावदनुत्पादज्ञानस्य ।

[०८७।१२-०८७।१३]
अनुत्पादज्ञानमनुत्पादज्ञानस्यैवान्यविशिष्टभावात् ।

[०८७।१३]
दर्शनभावनाऽशैक्ष्यमार्गास्त्रिध्येकेषाम् ।

[०८७।१३-०८७।१४]
तत्रापि मृद्विन्द्रियमार्गो मृदुतीक्ष्णेन्द्रियमार्गस्य हेतुः ।

[०८७।१४]
तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव ।

[०८७।१४-०८७।१५]
तद्यथा श्रद्धानुसारिश्रद्धाधिमुक्तसमयविमुक्त्तमार्गाः षण्णां चतुर्णां द्वयोश्च ।

[०८७।१५-०८७।१६]
धर्मानुसारिष्टप्राप्तासमयविमुक्तमार्गाः त्रयाणां द्वयोरेकस्य ।

[०८७।१६-०८७।१७]
कथं पुनरूर्ध्वंभूमिकस्याधोभूम्मिकोमार्गः समो वा भवति विशिष्टो वा ।

[०८७।१७]
इन्द्रियतो हेतूपचयतश्च ।

[०८७।१७-०८७।१८]
तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तर हेतूपचिततराः ।

[०८७।१८-०८७।१९]
यद्यप्येकसन्ताने श्रद्धार्नुसारिमार्गयोरसंभवः उत्पन्नस्त्वनागतस्य हेतुः ।

[०८७।२०]
किं पुनः मार्ग एव समविशिष्टयोः सभागहेतुर्भवति ।
नेत्याह ।

[०८७।२०-०८७।२१]
लौकिका अपि हि

[०८७।२२]
प्रयोगजास्तयोरेव

[०८७।२३]
समविशिष्टयोः सभागहेतुर्भवन्ति न न्यूनस्य ।
यथा कतमे इत्याह

[०८७।२४]
श्रुतचिन्तामयादिकाः ।

[०८७।२५-०८७।२६]
एते हि प्रायोगिकाः श्रुतचिन्ताभावनामया गुणाः समविशिष्टयोरेव हेतुर्नन्यूनानाम् ।

[०८७।२६-०८७।२७]
तद्यथा कामावचराः श्रुतमयाः श्रुतचिन्तामयानां चिन्तामयाचिन्तामयानाम् ।

[०८७।२७]
भावनामयाभावात् ।

[०८७।२७-०८७।२८]
रूपावचराः श्रुतमयाः श्रुतभावनामयानां चिन्तामयाभावात् ।

[०८७।२८]
भावनामया भावनामयानामेव ।

[०८७।२८-०८७।२९]
आरूप्यावचराभावनामया भावनामयानामेव ।

[०८७।२९-०८८।०१]
तेषामपि नवप्रकारभेदात्मृदुमृदवः सर्वेषां मृदुमध्या अष्टानामित्येषानीतिः ।

[०८८।०१-०८८।०२]
उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्पर सभागहेतुः ।

[०८८।०२]
क्लिष्टा अप्येवम् ।

[०८८।०२-०८८।०३]
अनिवृताव्याकृतास्तु चतुर्विधाः ।

[०८८।०३]
विपाकजा ऐर्यपथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च ।

[०८८।०३-०८८।०४]
ते यथाक्रमं चतुस्त्रीद्वेकेषां सभागहेतुः निर्माणचित्तमपोइ कामावचर चतुर्ध्यनफलम् ।

[०८८।०५]
तत्र नोत्तरध्यानफलमधरध्यानफलस्य ।

[०८८।०५-०८८।०६]
नह्याभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति ।

[०८८।०६-०८८।०७]
तद्यथा शालिर्यवादीनां मा भून्निष्फलः प्रयत्न इति ।

[०८८।०७-०८८।०८]
अत एव चाहुः स्यादुत्पन्नोऽनास्रवोऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्तद्यथा दुःखे धर्मज्ञानमुत्पनामनुत्पन्नानां दुःखे धर्मज्ञानक्षान्तीनाम्।

[०८८।०८-०८८।०९]
सर्वं च विशिष्टं न्यूनस्य न हेतुः ।

[०८८।०९-०८८।१०]
स्यादेकसन्ताननियतः पूर्वप्रतिलब्धोऽनास्रवो धर्मः पश्चादुत्पन्नस्य नहेतुः ।

[०८८।१०-०८८।११]
स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्ययस्मान्न पूर्वतरं फलमस्त्यनागतो वा सभागहेतुः ।

[०८८।११-०८८।१२]
स्यात्पूर्वोत्पन्नोऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः ।

[०८८।१२]
स्यादविमात्रो न्यूनस्य ।

[०८८।१२-०८८।१४]
तद्यथोत्तरफलपरिहीणस्यावर फलसंमुखीभावे दुःखे धर्मज्ञानप्राप्तिश्चोत्तरोत्तर क्षण सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न्यूनत्वादिति ।

[०८८।१४]
उक्तः सभागहेतुः ।

[०८८।१५]
संप्रयुक्तकहेतुस्तु चित्तचैत्ताः ।

[०८८।१६]
एवं सति भिन्नकालसन्तानजानाम प्यन्योन्यसंप्रयुक्तकहेतुत्वप्रसङ्गः ।

[०८८।१६-०८८।१७]
एकाकारा लम्बनास्तर्हि ।

[०८८।१७]
एवमपि स एव प्रसङ्गः ।
एककालास्तर्हि ।

[०८८।१७-०८८।१८]
एवं तर्हि सति भिन्नसन्तानजानामपि प्रसङ्गो नवचन्द्रादीनि पश्यताम् ।

[०८८।१८]
तस्मात्तर्हि

[०८८।१९]
समाश्रयाः ॥ २.५३ ॥

[०८८।२०]
समान आश्रयो येषां ते चित्तचैत्ताः अन्योन्यं संप्रयुक्तकहेतुः ।

[०८८।२०-०८८।२२]
समान इत्यभिन्नस्ततद्यथा य एव चक्षुरिन्द्रियक्षणश्चक्षुर्विज्ञानस्याश्रयः स एव तत्संप्रयुक्तानां वेदनादीनामेव यावन्मनः ।

[०८८।२२]
इन्द्रियक्षणो मनोविज्ञानत्संप्रयुक्टानां वेदितव्यः ।

[०८८।२२-०८८।२३]
यः संप्रयुक्तकहेतुः सहभूहेतुरपि सः ।

[०८८।२३]
अथ केनार्थेन सहभूहेतुः केन संप्रयुक्तकहेतुः ।

[०८८।२४]
अन्योन्यफलार्थेन सहभूहेतुः ।
सहसार्थिकान्योन्यबलमार्गप्रयाणवत् ।

[०८८।२४-०८८।२५]
पञ्चभिः समताभिः संप्रयोगार्थेन संप्रयुक्तकहेतुः ।

[०८८।२५-०८८।२६]
तेषामेव सार्थिकानां समानान्नपानादिपरिभोगक्रियाप्रयोगवत् ।

[०८८।२६-०८८।२७]
एकेनापि हि विना सर्वेण न संप्रयुज्यन्त इत्ययमेषां हेतुभावः ।

[०८८।२७]
उक्तः संप्रयुक्तकहेतुः ।

[०८९।०१]
सर्वत्रगहेतुः कतमः ।

[०८९।०२]
सर्वत्रगाख्यः क्लिल्ष्टानां स्वभूमौ पूर्वसर्वगाः ।

[०८९।०३]
स्वभूमिकाः पूर्वोत्पन्नाः सर्वत्रगा धर्माः पश्चिमानां क्लिष्टानां धर्माणां सर्वत्रगहेतुः ।

[०८९।०४]
तान् पुनः पश्चादनुशयनिर्देशकोशस्थान एव व्याख्यास्यामः ।

[०८९।०४-०८९।०५]
क्लिष्टधर्मसामान्यकारणत्वेनायं सभागहेतोः पृथक्व्यवस्थाप्यते ।

[०८९।०५-०८९।०६]
निकायान्तरीयाणामपि हेतुत्वादेषां हि प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते ।

[०८९।०६-०८९।०७]
किमार्यपुद्गलस्यापि क्लिष्टा धर्माः सर्वत्रगहेतुकाः ।

[०८९।०७-०८९।०८]
सर्व एव क्लिष्टा धर्मा दर्शनप्रहातव्यहेतुका इति काश्मीराः ।

[०८९।०८-०८९।०९]
तथा प्रकारणेषूक्तं “दर्शनप्रहातव्यहेतुकाः धर्माः कतमे ।

[०८९।०९]
क्लिष्टा धर्माः यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति ।

[०८९।०९-०८९।१०]
अव्याकृतहेतुका धर्माः कतमे ।
[०८९।१०]
अव्याकृताः संस्कृता धर्मा अकुशलाश्चेति ।

[०८९।१०-०८९।१३]
दुःखसत्यं स्यात्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति विस्तरो यावन्न सत्कायदृष्टेः तेषां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्य”मिति ।

[०८९।१३]
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते “स्याद्धर्मोऽकुशलोऽकुशलहेतुक एव ।

[०८९।१४-०८९।१५]
स्यादार्यपुद्गलः कामवैराग्यात्परिहीयमाणो यां तत्प्रथमतः क्लिल्ष्टाञ्चेतनां संमुखीकरोती”ति ।

[०८९।१५]
अप्रहीणहेतुमेतत्संधायोक्तम् ।

[०८९।१५-०८९।१६]
दर्शनप्रहातव्यो हि तस्या हेतुः प्रहीणत्वान्नोक्तः ।

[०८९।१६]
उक्तः सर्वदगहेतुः ।

[०८९।१७]
विपाकहेतुः कतमः ।

[०८९।१८]
विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः ॥ २.५४ ॥

[०८९।१९]
अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः ।
विपाकधर्मत्वात् ।

[०८९।१९-०८९।२०]
कस्मादव्याकृता धर्माः विपाकं न निर्वर्त्तयन्ति ।

[०८९।२०]
दुर्बलत्वात् ।
पूति बीजवत् ।

[०८९।२१]
कस्मान्नानास्रवाः ।
तृष्णानभिष्यन्दितत्वात् ।
अनभिष्यन्दितसारबीजवत् ।

[०८९।२१-०८९।२२]
अप्रतिसंयुक्ता हि किंप्रतिसंयुक्तं विपाकमभिनिर्वर्त्तयेयुः ।

[०८९।२२]
शेषास्तूभयविधत्वान्निर्वर्त्तयन्ति ।

[०८९।२३]
साराभिष्यन्दितबीजवत् ।

[०८९।२३-०८९।२४]
कथमिदं विज्ञातव्यं विपाकस्य हेतुर्विपाकहेतुराहोस्विद्विपाक एव हेतुर्विपाकहेतुः ।

[०८९।२४]
किं चातः ।

[०८९।२४-०८९।२५]
यदि विपाकस्य हेतुर्विपाकहेतुः “वीपाकजं चक्षुरि”ति एतन्न प्राप्नोति ।

[०८९।२५-०८९।२६]
अथ विपाक एव हेतुर्विपाकहेतुः “कर्मणो विपाक” इत्येतन्न प्राप्नोति ।

[०८९।२६]
नैष दोषः ।
“उभयथापि योग” इत्युक्तं प्राक् ॥

[०८९।२६-०८९।२७]
अथ विपाक इति कोऽर्थः ।

[०८९।२७]
विसदृशः पाको विपाकः ।
अन्येषां तु हेतूनां सदृशः पाकः ।

[०८९।२७-०९०।०१]
एकस्योभयथेति वैभाषिकाः ।

[०९०।०१]
नैव तु तेषां पाको युक्तः ।

[०९०।०१-०९०।०२]
पाको हि नाम सन्ततिपरिणामविशेषजः फलपर्यन्तः ।

[०९०।०२-०९०।०३]
न च सहाभूसंप्रयुक्तहेत्वोः सन्ततिपरिणामविशेषजं फलमस्ति ।

[०९०।०३]
न चापि सभागहेत्वादीनां फलपर्यन्तोऽस्ति ।

[०९०।०३-०९०।०४]
पुनः पुनः कुशलाद्यासंसारफलत्वात् ।

[०९०।०४]
कामधातावेकस्कन्धको विपाकहेतुरेकफलः प्रत्ययस्तज्जात्यादयश्च ।

[०९०।०५]
द्विस्कन्धक एकफलः कायवाक्कर्म तज्जात्यादयश्च ।

[०९०।०५-०९०।०६]
चतुस्कन्धक एकफलः कुशलाकुशलाश्चित्तचैत्ताः सह जात्यादिभिः ॥

[०९०।०६-०९०।०७]
रूपधातावेकस्कन्धको वीपाकहेतुरेकफलः प्राप्तिरसंज्ञिसमापत्तिश्च सह जात्यादिभिः ।

[०९०।०७-०९०।०८]
द्विस्कन्धक एकफलः प्रथमे ध्याने विज्ञप्तिः सह जात्यादिभिः ।

[०९०।०८-०९०।०९]
चतुस्कन्धक एकफलः कुशले चेतस्यसमाहिते ।

[०९०।०९]
पञ्चस्कन्धक एकफलः समाहिते ॥

[०९०।०९-०९०।१०]
आरूप्यधातावेकस्कन्धको विपाकहेतुरेकफलः प्राप्तिर्निरोधसमापतिश्च सह जात्यादिभिः ।

[०९०।१०-०९०।११]
चतुस्कन्धकः कुशलाश्चित्तचैत्ताः तज्जात्यादयश्च ।

[०९०।११-०९०।१२]
अस्ति कर्म यस्यैकमेव धर्मायतनं वीपाको विपच्यते जीवितेन्द्रियम् ।

[०९०।१२]
यस्य मन आयतनं तस्य द्वे मनोधर्मायतने ।

[०९०।१२-०९०।१३]
एवं यस्य स्प्रष्टव्यायतनं यस्य कायायतनं तस्य त्रीणि कायस्प्रष्टव्यधर्मायतनानि ।

[०९०।१३-०९०।१४]
एवं यस्य रूपगन्धरसायतनानि ।

[०९०।१४]
यस्य चक्षुरायतनं तस्य चत्वारि चक्षुःकायस्प्रष्टव्यधर्मायतनानि ।

[०९०।१५]
एवं यस्य श्रोत्रग्राणजिह्वायतनानि ।

[०९०।१५-०९०।१६]
अस्ति तत्कर्म यस्य पञ्च षट्सप्ताष्टौ नव दशैकादशायतनानि विपाको विपच्यते ।

[०९०।१६-०९०।१७]
विचित्राविचित्रफलत्वात्कर्मणो बाह्यबीजवत् ।

[०९०।१७]
तद्यथा बाह्यानि वीजानि कानिचिद्विचित्रफलानि भवन्ति ।

[०९०।१७-०९०।१८]
तद्यथा पद्मदाडिमन्यग्रोधादीनाम् ।

[०९०।१८]
कानिचिदविचित्रफालानि तद्यथा यवगोदूमादीनाम् ।

[०९०।१९]
एकाध्विकस्य कर्मणस्त्रैयध्विको विपाको विपच्यते ।

[०९०।१९-०९०।२०]
न तु द्वैयध्विकस्याप्येकाध्विको मा भूदतिन्यूनं हेतोः फलमिति ।

[०९०।२०-०९०।२१]
एकमेकक्षनिकस्य बहुक्षाणिको ननु विपर्ययात् ।

[०९०।२१-०९०।२२]
न च कर्मणा सह विपाको विपच्यते नाप्यनन्तरं समनन्तरप्रत्ययाकृष्टत्वात्समनन्तरक्षणस्य ।

[०९०।२२]
प्रवाहापेक्षो हि विपाकहेतुः ।

[०९०।२३]
अथ क एषां हेतूनामध्वनियमः ।

[०९०।२३-०९०।२४]
उक्त एषामर्थतोऽध्वनियमः नतु सूत्रित इत्यतः सूत्र्यते ।

[०९०।२५]
सर्वत्रगः सभागश्च द्वयध्वगौ

[०९०।२६]
अतीतप्रत्युत्पन्नावेव अनागतौ न स्तः ।
उक्तं चात्र कारणम् ।

[०९०।२७]
त्र्यध्वगा स्त्रयः ।

[०९०।२८]
सहभूसंप्रयुक्तकविपाकहेतव स्त्रिकालाः ।
कारणहेतुस्तु कालनियमानुपदर्शनात् ।

[०९०।२९]
सर्वाध्वक श्चाध्वविप्रयुक्तश्च वेदितव्यः ।
उक्ता हेतवः ।

[०९०।३०]
किं पुनस्तत्फलं यस्यैते हेतवः ।

[०९१।०१]
संस्कृतं सविसंयोग फलं

[०९१।०२]
फलं धर्माः ।
कतमे ।
“संस्कृता धर्माः प्रतिसंख्यानिरोधश्चे”ति शास्त्रम् ।

[०९१।०२-०९१।०४]
एवं तर्हि फलत्वादसंस्कृतस्य हेतुना भवितव्यं यस्य तत्फलं हेतुत्वाच्च फलेन भवितव्यं यस्य तद्धेतुः ।

[०९१।०४]
संस्कृतस्यैव धर्मस्य हेतुफले भवतः ।

[०९१।०५]
नासंस्कृतस्य ते ॥ २.५५ ॥

[०९१।०६]
किं कारणम् ।
षड्विधहेत्वसंभवात्पञ्चविधफलासंभवाच्च ।

[०९१।०६-०९१।०७]
कस्मात्मार्गो विसंयोगस्य कारणहेतुर्नेष्यते ।

[०९१।०७-०९१।०८]
यास्मात्स उत्पादाविघ्नभावेन व्यवस्थापितो न चासंस्कृतमुत्पत्तिमत् ।

[०९१।०८]
कस्येदानीं तत्फलं कथं वा मार्गस्य फलम् ।

[०९१।०९]
तद्बलेन प्राप्तेः ।
प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति ।

[०९१।०९-०९१।१०]
तस्यामेव तस्य सामर्थ्यान्न विसंयोगः ।

[०९१।१०]
अन्यथा ह्य्स्य प्राप्तौ सामर्थ्यमन्यथा विसंयोगे ।

[०९१।१०-०९१।११]
कथमस्य प्राप्तौ सामर्थ्यम् ।

[०९१।११]
उत्पादनात् ।
कथं विसंयोगे ।
प्रपणात् ।

[०९१।११-०९१।१२]
तस्मान्न तावदस्य मार्गः कथञ्चिदपि हेतुः ।

[०९१।१२]
फलं चास्य विसंयोगः ।

[०९१।१२-०९१।१३]
अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः ।

[०९१।१३]
उत्पत्त्यनावरणभावेन कारणहेतुः ।

[०९१।१३-०९१।१४]
न चास्य फलमस्त्यध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् ।

[०९१।१४]
नैव हि क्वचिदसंस्कृतं भगवता हेतुरित्युक्तम् ।

[०९१।१५]
उक्तं तु पर्यायेण हेतुरिति सौत्रान्तिकाः ।
कथमुक्तम् ।

[०९१।१६]
“ये हेतवो ये प्रत्यया रूपस्योत्पादाय तेऽप्यनित्याः ।

[०९१।१७]
अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यं भविष्यति”

[०९१।१८]
एवं यावद्धि विज्ञानमिति ।

[०९१।१८-०९१।१९]
एवं तर्हि विज्ञानस्यालमबनप्रत्ययोऽप्यसंस्कृतं न प्राप्नोति ।

[०९१।१९]
उत्पादायेत्यवधारणात् ।
प्राप्नोति ।

[०९१।२०]
“ये हेतवो ये प्रत्यया विज्ञानस्योत्पादाय तेऽप्यनित्या”

[०९१।२१]
इत्युक्तं नतूक्तं ये विज्ञानस्य प्रत्ययाः तेप्यनित्या इति ।

[०९१।२१-०९१।२३]
ननु च हेतवोऽपि य उत्पादाय त एवानित्या इति वचनादसंस्कृतस्यानावरणभावमात्रेण कारणहेतुत्वाप्रतिषेधः ।

[०९१।२३-०९१।२४]
उक्त आलम्बनप्रत्ययः सूत्रे न त्वनावरणहेतुरिति न सूत्रे सिध्यत्यसंस्कृतस्य हेतुभावः ।

[०९१।२४]
यद्यपि नोक्तो नतु प्रतिषिद्धः ।

[०९१।२४-०९१।२५]
सूत्राणि च बहून्यन्तर्हितानीति कथमेतन्निर्धार्यते नोक्त इति ।

[०९१।२६]
अथ कोऽयं विसंयोगो नाम ।
ननु चोक्तं प्राक्”प्रतिसंख्यानिरोध” इति ।

[०९१।२७-०९२।०१]
तदानीं “प्रतिसंख्यानिरोधः कतमो यो विसंयोग” इत्युक्तमिदानीमिसंयोगःकथमः ।

[०९२।०१]
यः प्रतिसंख्यानिरोध इत्युच्यते ।

[०९२।०१-०९२।०२]
तदिदमितरेतराश्रयं व्याख्यानमसमर्थं तत्स्वभावद्योतने ।

[०९२।०२]
तस्मादन्यथा तत्स्वभावो यक्तव्यः ।

[०९२।०२-०९२।०३]
आर्यैरेव तत्स्वभावः प्रत्यात्मवेद्यः ।

[०९२।०३]
एतावक्तु शक्यते वक्तुं नित्यं कुशलं चास्ति द्रव्यान्तरम् ।

[०९२।०३-०९२।०४]
तद्विसंयोगश्चोच्यते प्रतिसंख्यानिरोधश्चेति ।

[०९२।०४]
सर्वमेवासंस्कृतमद्रव्यमिति सौत्रान्तिकाः ।

[०९२।०५]
नहि तद्रूपवेदनादियत्भावान्तरमस्ति ।
किं तर्हि ।
स्प्रष्टव्याभावमात्रमाकाशम् ।

[०९२।०६]
तद्यथा ह्यन्धकारे प्रतिधातमविन्दन्त आकाशमित्याहुः ।

[०९२।०६-०९२।०७]
उत्पन्नानुशयजन्मनिरोधः प्रतिसंख्यावलेनान्यस्यानुत्पादः प्रतिसंख्यानिरोधः ।

[०९२।०७-०९२।०८]
विनैव प्रतिसंख्यया प्रत्ययवैकलयादनुत्पादो यः सो ।प्रतिसंख्यानिरोधः ।

[०९२।०८-०९२।०९]
तद्यथा निकायसभागशेषस्यान्तरामरणे ।

[०९२।०९]
निकायान्तरीयाः पुनराहुः ।

[०९२।०९-०९२।१०]
अनुशयानामुत्पत्तौ प्रज्ञायाः सामर्थ्यमतोऽसौ प्रतिसंख्यानिरोधः ।

[०९२।१०-०९२।११]
यस्तु पुनः दुःखस्यानुत्पादः सः उत्पादकारणानुशयवैकल्यादेवेति न तस्मिन्प्रज्ञायाः सामर्थ्यमस्त्यतोऽसावप्रतिसंख्यानिरोध इति ।

[०९२।१२]
सोऽपि तु नान्तरेण प्रतिसंख्यां सिध्यतीति प्रतिसम्ख्यानिरोध एवासौ ।

[०९२।१२-०९२।१३]
य एवोत्पन्नस्य पश्चादभावः स एव स्वरस निरोधादप्रतिसंख्यानिरोध इत्यपरे ।

[०९२।१३-०९२।१४]
अस्यां तु कल्पनायामनित्योऽप्रतिसंख्यानिरोधः प्राप्नोत्यविनष्टे तदभावात् ।

[०९२।१४-०९२।१५]
ननु च प्रतिसंख्यानिरोधोऽप्यनित्यः प्राप्नोति ।

[०९२।१५]
प्रतिसंख्यापूर्वकत्वात् ।

[०९२।१५-०९२।१६]
न वै स प्रतिसंख्यापूर्वको नहि पोऊर्वं प्रतिसंख्या पश्चादनुत्पन्नानामनुत्पादः ।

[०९२।१६]
किं तर्हि ।

[०९२।१६-०९२।१७]
पूर्वमेव स तेषामनुत्पादोऽस्ति ।

[०९२।१७-०९२।१८]
विना तु प्रतिसंख्यया ये धर्मा उत्पत्स्यन्ते तदुत्पन्नायां प्रतिसंख्यायां पुनर्नोपपद्यन्त इति ।

[०९२।१८-०९२।१९]
एतदत्र प्रतिसंख्याया समर्थ्यं यदुताकृतोत्पत्तिप्रतिबन्धानामुत्पत्तिप्रतिबन्धभावः ।

[०९२।१९-०९२।२१]
यदि नर्हि अनुत्पाद एव निर्वाणमिदं सूत्रपदं कथं नीयते “पञ्चेमानीन्द्रियाणि आसेवितानि भावितानि बहुलीकृतान्यतीतानागतप्रत्यूत्पन्नस्य दुःखस्य प्रहाणाय संवर्त्तन्त” इति ।

[०९२।२१-०९२।२२]
प्रहाणं हि निर्वाणमनागतस्यैव चानुत्पादो नातीतप्रत्युत्पन्नस्येते ।

[०९२।२२]
अस्त्येतदेवम् ।

[०९२।२२-०९२।२४]
किं तु तदालम्बनक्लेशप्रहाणात्दुःखस्य प्रहाणमुक्तं भगवता “यो रूपे च्छन्दरागस्तं प्रजहीत ।

[०९२।२४-०९२।२५]
च्छन्दरागे प्रहीणे एवं वस्तद्रूपं प्रहीणं भविष्यति पारिज्ञातं विस्तरेण यावद्विज्ञानमि”ति ।

[०९२।२५]
एवं त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यते ।

[०९२।२६]
अथाप्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेत्युच्येत ।
अत्राप्येष नयः ।

[०९२।२७-०९२।२९]
अथवाऽयमभिप्रायो भवेदतीतः क्लेशः पौर्वजन्मिकः प्रत्युत्पन्नः क्लेश ऐहजन्मिको यथा तृष्णा विचरितेष्वष्टादश तृष्णाविचरितान्यतीतमध्वानमुपादायेत्यतीतं जन्माधिकृत्योक्तमेवं यावत्प्रत्युत्पन्नम् ।

[०९२।२९-०९३।०१]
तेना च क्लेशद्वयेनास्यां सन्ततौ बीजभाव आहितोऽनागतस्योत्पत्तये ।

[०९३।०१]
तस्य प्रहाणात्तदपि प्रहीणं भवति ।

[०९३।०१-०९३।०२]
यथा विपाकक्षयात्कर्मं क्षीणं भवति ।

[०९३।०२-०९३।०३]
अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावातत्यन्तमनुत्पादः प्रहाणम् ।

[०९३।०३-०९३।०४]
अन्यथा ह्यतीतप्रत्युत्पन्नस्य किं प्रहातव्यम् ।

[०९३।०४]
नहि निरुद्धे निरोधाभिमुखे च यत्नः सार्थको भवतीति ।

[०९३।०४-०९३।०६]
यद्यसंस्कृटं नास्त्येव, यदुक्तं भगवता “ये केचिद्धर्माः संस्कृता वाऽसंस्कृता वा विरागस्तेषामग्र आख्यायते” इति कथमसतामसन्नग्रो भवितुमर्हति ।

[०९३।०६-०९३।०७]
न वै नास्त्येवासंस्कृतमिति ब्रूमः ।

[०९३।०७]
एतत्तु तदीदृशं यथाऽस्माभिरुक्तम् ।

[०९३।०७-०९३।०८]
तद्यथा अस्ति शब्दस्य प्रागभावोऽस्ति पश्चादभाव इत्युच्यते ।

[०९३।०८]
अथ च पुनर्नाभावो भावः सिध्यति ।

[०९३।०८-०९३।०९]
एवमसंस्कृतमपि द्रष्टव्यम् ।

[०९३।०९-०९३।१०]
अभावोऽपि च कश्चित्प्रशस्यतमो भवति यः सकलस्योपद्रवस्यात्यन्तमभाव इत्यन्येषां सोऽग्र इति प्रशंसां लब्धुमर्हति ।

[०९३।१०]
विनेयानां तस्मिन्नुपच्छन्दनार्थम् ।

[०९३।११]
यद्यप्यसंस्कृतमभावमात्रं स्यान्निरोध आर्यसत्यं न स्यात् ।
नहि ततु किञ्चिदस्तीति ।

[०९३।१२]
कस्तावदयं सत्यार्थः ।
ननु चाविपरीतार्थः ।

[०९३।१२-०९३।१४]
उभयमपि चैतदविपरीतं दृष्टमार्यैर्यदुत दुःखं च दुःखमेवेति दुःखाभावश्चाभाव एवेति कोऽस्यार्यसत्यत्वे विरोधः कथमभावश्च नाम तृतीयं चार्यसत्यं स्यात् ।

[०९३।१४-०९३।१५]
उस्तं यथार्यसत्यं द्वितीयस्यानन्तरं दृष्टमुद्दृष्टं चेति तृतीयं भवति ।

[०९३।१५-०९३।१६]
यद्यसंस्कृतमभावमात्रं स्यादाकाशनिर्वाणालम्बनविज्ञानमसदालम्बनं स्यात् ।

[०९३।१६-०९३।१७]
एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः ।

[०९३।१७]
यदि पुनर्द्रव्यमेवासंस्कृतमिष्येत किं स्यात् ।

[०९३।१७-०९३।१८]
किं च पुनः स्यात् ।

[०९३।१८]
वैभाषिकपक्षः पालितः स्यात् ।

[०९३।१८-०९३।१९]
देवता एनं पालयिष्यन्ति पालनीयं चेत्मंस्यते ।

[०९३।१९]
अभूतं तु परिकल्पितं स्यात् ।
किं कारणम् ।

[०९३।१९-०९३।२०]
नहि तस्य रूपवेदनादिवत्स्वभाव उपलभ्यते नचापि चक्षुरादिवत्कर्म ।

[०९३।२०-०९३।२१]
अमुष्य च वस्तुनोऽयं निरोघ इति षष्ठीव्यवस्था कथं प्रकल्प्यते ।

[०९३।२१-०९३।२२]
नहि तस्य तेन सार्धं कश्चित्संबन्धो हेतुफलादिभावासंभवात् ।

[०९३।२२]
प्रतिषेधमात्रं तु युज्यते अमुष्याभाव इति ।

[०९३।२२-०९३।२३]
भावान्तरत्वेऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाय्द्यो निरोधः प्राप्यते स तस्येति व्यवदिश्यते ।

[०९३।२४]
तस्य तर्हि प्राप्तिनियमे को हेतुः ।

[०९३।२४-०९३।२५]
“दृष्टधर्मनिर्वाणप्राप्तो भिक्षुरि”त्युक्तं सूत्रे ।

[०९३।२५]
तत्र कथमभावस्य प्राप्तिः स्यात् ।

[०९३।२५-०९३।२६]
प्रतिपक्षलाभेन क्लेशपुनर्भवोत्पादात्यन्तविरुद्धाश्रय लाभात्प्राप्तं निर्वाणमित्युच्यते ।

[०९३।२६-०९३।२७]
आगमश्चाप्यभावमात्रं द्योतयति ।

[०९३।२७]
एवं ह्याह ।

[०९३।२७-०९४।०१]
“यत्स्वल्पस्य दुःखस्याशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपक्षमोऽस्तङ्गमः अन्यस्य च दुःखस्याप्रति सन्धिरनुत्पादोऽप्रादुर्भावः ।

[०९४।०१-०९४।०२]
एतत्कान्तमेतत्प्रणीतं यदुत स्र्वोपाधिप्रनिनिः सर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाण” मिति ।

[०९४।०२-०९४।०३]
किमेवं नेष्यते नास्मिन् प्रादुर्भव्बतीत्यतोऽप्रादुर्भाव इति ।

[०९४।०३]
असमर्थामेतां सप्तमीं पश्यामः ।
किमुक्तं भवति ।

[०९४।०४-०९४।०५]
नास्मिन्प्रादुर्भवतीति यदि सतीत्यभिसंबध्यते नित्यमेवाप्रादुर्भावप्रसङ्गो निर्वाणस्य नित्यत्वात् ।

[०९४।०५-०९४।०६]
अथ प्राप्त इत्यभिसंबध्यते यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव संमुखीभूते प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः ।

[०९४।०६-०९४।०७]
अयं च दृष्टान्त एवं सूपनीतो भवति ।

[०९४।०८]
“प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस” इति ।

[०९४।०९]
यथा प्रद्योतस्य निर्वाणमभाव एवं भगवतोऽपि चेतसो विमोक्ष इति ।

[०९४।०९-०९४।१०]
अभिधर्मेऽपि चोक्तम् “अवस्तुका धर्माः कतमे ।

[०९४।१०]
असंस्कृता धर्मा” इति ।

[०९४।१०-०९४।११]
अवस्तुका अशरीरा अस्वभावा इत्युक्तं भवति ।

[०९४।११]
नास्यायमर्थः ।

[०८९।४११-०९४११]
कस्तर्हि ।

[०९४।११]
पञ्चविधवस्तु ।

[०९४।११-०९४।१२]
स्वभाववस्तु यथोक्तं “यद्वस्तु प्रतिलब्धं समन्वागतः स तेन वस्तुने”ति ।

[०९४।१२]
आलम्बनवस्तु ।

[०९४।१२-०९४।१३]
यथोक्तं “सर्वधर्मज्ञेया ज्ञानेन यथावस्त्वे”ति ।

[०९४।१३]
संयोगवस्तु ।

[०९४।१३-०९४।१४]
यथोक्तं “यस्मिन् वस्तुनि अनुनयः संयोजनेन संप्रयुक्तः प्रतिघसंयोजनेनापि तस्मि
न्नि”ति ।

[०९४।१४-०९४।१५]
हेतुवस्तु यथोक्तं “सवस्तुका धर्माः कतमे ।

[०९४।१५]
संस्कृता धर्मा” इति ॥
परिग्रहवस्तु ।

[०९४।१५-०९४।१६]
यथोक्तं “क्षत्रवस्तु गृहवस्त्वि”ति ।

[०९४।१६-०९४।१७]
तदत्र हेतुर्वस्तुशब्देनोक्तस्तस्मादस्त्येवासंस्कृतं द्रव्यत इति वैभाषिकाः ।

[०९४।१७]
तस्य तु हेतुफले न विद्येते इति ।
गतं तावदेतत् ।

[०९४।१८]
अथैषां फलानां कतमत्फलं कस्य हेतोः ।

[०९४।१९]
विपाकफलमन्त्यस्य

[०९४।२०]
विपाकहेतुरन्त्येऽभिहितत्वातन्त्यः ।
तस्य विपाकफलम् ।

[०९४।२१]
पूर्वस्याधिपतं फलम् ।

[०९४।२२]
कारणहेतुः पूर्वमुक्तत्वात्पूर्वः ।
तस्याधिपजं फलम् ।

[०९४।२२-०९४।२३]
अनावरणभावमात्रेणावस्थितस्य किमाधिपत्यम् ।

[०९४।२३-०९४।२४]
एतदेव अङ्गीभावोऽपि चास्ति कारणहेतोस्तद्यथा “पञ्चसु विज्ञानकायेषुदशानामायतनानां भाजनलोके च कर्मणाम् ।

[०९४।२४-०९४।२५]
श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानोत्पत्तौ पारंपर्येणाधिपत्यम् ।

[०९४।२५-०९४।२६]
श्रुत्वा द्रष्टुकामतोत्पत्ते” रित्येवमादि योज्यम् ।

[०९४।२७]
सभाग सर्वत्रगयोर्निष्यन्दः

[०९४।२८]
सदृशफलत्वादनयोर्निःष्यन्दफलम् ।

[०९५।०१]
पौरुषं द्वयोः ॥ २.५६ ॥

[०९५।०२]
सहभूसंप्रयुक्तकहेत्वोः पुरुषकारफलम् ।
पुरुषभावव्यतिरेकात्पुरुषकारः पुरुषमेव ।

[०९५।०३]
तस्य फलं पौरुषम् ।
कोऽयं पुरुषकारो नाम ।
यस्य धर्मस्य यत्कारित्रम् ।

[०९५।०४]
पुरुषकार इव हि पुरुषकारः ।
तद्यथा काकजङ्घा ओषधिर्मत्तहस्ती मनुष्य इति ।

[०९५।०५]
किमन्येषामप्यस्ति पुरुषकारफामुताहो द्वयोरेव ।

[०९५।०५-०९५।०६]
अन्येषामप्यस्त्यन्यत्र विपाकहेतोः ।

[०९५।०६-०९५।०७]
यस्मात्सहोत्पन्नं वा समनन्तरोत्पन्नं वा पुरुषकारफलं भवति ।

[०९५।०७]
न चैवं विपाकः ।
तस्याप्यस्ति विप्रकृष्टपुरुषकारफलम् ।

[०९५।०७-०९५।०८]
यथा कर्षकाणां सस्यमित्यपरे ।

[०९५।०९]
किं पुनरिदं विपाकफलं नाम किं यावदधिपतिफलम् ।

[०९५।१०]
विपाकोऽव्याकृतो धर्मः ।

[०९५।११]
अनिवृताव्याकृतो हि धर्मः विपाकः ।
असत्त्वाख्योऽपि स्यादत आह ।

[०९५।१२]
सत्त्वाख्यः

[०९५।१३]
औपचयिकोऽपि स्यात्नैःष्यन्दिकोऽप्यताह ।

[०९५।१४]
व्याकृतोद्भवः ।

[०९५।१५]
कुशलाकुशलं हि विपाकं प्रति व्याकरणाद्व्याकृतम् ।

[०९५।१५-०९५।१६]
तस्माद्य उतरकालं भवति न सह नान्तरं स विपाकः ।

[०९५।१६]
एतद्विपाकस्य लक्षणम् ।

[०९५।१६-०९५।१७]
कस्मादसत्त्वाख्योऽर्थः कर्मजो न विपाकः ।

[०९५।१७]
साधारणत्वात् ।
अन्योऽपि हि तत्तथैव परिभोक्तुं समर्थः ।

[०९५।१८]
असाधारणस्तु विपाकः ।
नह्यन्यकृतस्य कर्मणोऽन्यो विपाकं प्रतिसंवेदयते ।

[०९५।१८-०९५।१९]
अधिपतिफलं कस्मात्प्रतिसंवेदयते ।

[०९५।१९]
साधारणकर्मसंभूतत्वात् ।

[०९५।२०]
निःष्यन्दो हेतुसदृशः ।

[०९५।२१]
हेतोर्यः सदृशो धर्मः स निष्यन्दफलम् ।
तद्यथा सभागसर्वत्रगहेत्वोः ।

[०९५।२१-०९५।२२]
यदि सर्वत्रगहेतोरपि समानं फलं कस्मान्न सभागहेतोरेवेष्यते ।

[०९५।२२-०९५।२३]
यस्मात्भूमितः क्लिष्टतया चास्य सादृश्यं नतु प्रकारतः ।

[०९५।२३-०९५।२४]
यस्य तु प्रकारतोऽपि सादृश्यं सोऽभ्युपगम्यत एव सभागहेतुः ।

[०९५।२४-०९५।२५]
अथ एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः क्रियते ।

[०९५।२५]
प्रथमा कोटिरसर्वत्रगः सभागहेतुः ।

[०९५।२५-०९५।२६]
द्वितीयाऽन्यनैकायिकः सर्वत्रगहेतुः ।

[०९५।२६]
तृतीयैकनैकायिकः सर्वत्रगहेतुः ।

[०९५।२६-०९५।२७]
चतुर्थ्यतानाकारान्स्थापयित्वेति ।

[०९६।०१]
विसंयोगः क्षयो धिया ॥ २.५७ ॥

[०९६।०२]
क्षयो निरोधः ।
धीः प्रज्ञा ।
तेना प्रतिसंख्या निरोधो विसंयोगफलमित्युक्तं भवति ।

[०९६।०३]
यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् ।

[०९६।०४-०९६।०५]
तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्यानास्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि ।

[०९६।०५-०९६।०६]
प्रतिसंख्यानिरोधस्तु यद्वलात्प्राप्यत इति वक्तव्यम् ।

[०९६।०७-०९५।६०७]
अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् ॥ २.५८ ॥

[०९६।०८]
पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् ।

[०९६।०८-०९६।०९]
पुरुषाधिपतिफलयोः किं नाना कारणम् ।

[०९६।०९]
कर्तुः पुरुषकारफलम् ।
अकर्तुरप्यधिपतिफलम् ।

[०९६।१०]
तद्यथा शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं च ।
अन्येषामधिपतिफलमेव ।

[०९६।११]
अथैषां हेतूनां कतम्मो हेतुः कस्मिन्काले फलं प्रतिगृह्णाति ददाति वा ।

[०९६।१२]
वर्तमानाः फलं पञ्च गृह्णन्ति

[०९६।१३]
नातीताःः प्रतिगृहीतत्वान्नाप्यनागता निष्पुरुषकारत्वात् ।
कारणहेतुरप्येवम् ।

[०९६।१३-०९६।१४]
स तु नावश्यं सफल इति नोच्यते ।

[०९६।१५]
द्वौ प्रयच्छतः ।

[०९६।१६]
सहभूसंप्रयुक्तकहेतू वर्त्तमानौ फलं प्रयच्छतः ।

[०९६।१६-०९६।१७]
समानकालमेव ह्यनयेः फलदानग्रहणम् ।

[०९६।१८]
वर्त्तमानाभ्यतीतौ द्वौ
[०९६।१९]
फलं प्रयच्छतः सभागसर्वत्रगहेतू ।
युक्तं तावद्यदतीताविति ।

[०९६।१९-०९६।२०]
अथ कथं वर्त्तमानौ निष्यन्दफलं प्रयच्छतः ।

[०९६।२०]
समनन्तरनिवर्त्तनात् ।

[०९६।२०-०९६।२१]
निवृत्ते तु फले तौ चाभ्यतीतौ भवतः ।

[०९६।२१]
फलं चापि दत्तं न पुनस्तदेव दत्तः ।

[०९६।२१-०९६।२२]
अस्ति कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः ।

[०९६।२२-०९६।२३]
प्रथमा कोटिः कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति ।

[०९६।२३-०९६।२४]
द्वितीया कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते ।

[०९६।२४]
एवं तु वक्तव्यम् ।

[०९६।२४-०९६।२५]
स्यात्ता एव प्रतिसंदधानस्य तृतीया असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु ।

[०९६।२५]
चतुर्थ्यतानाकारान् स्थापयित्वा ।

[०९६।२६]
अकुशलस्य तु प्रथमा कोटिः ।

[०९६।२६-०९६।२८]
कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति द्वितीया कामवैराग्यात्परिहीयमाणो याः सर्वप्रथमं प्रतिलभते ।

[०९६।२८]
एवं तु वक्तव्यम् ।

[०९६।२८-०९६।२९]
स्यात्ता एव परिहीयमाणस्य ।

[०९६।२९]
तृतीया कामावीतरागस्य शेषास्ववस्थासु ।

[०९६।२९-०९७।०१]
चतुर्थ्यतानाकारान् स्थापयित्वा ।

[०९७।०१-०९७।०२]
एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् ।

[०९७।०२]
अनिवृताव्याकृतस्य पश्चात्पादकः ।

[०९७।०२-०९७।०३]
यास्तावत्ददाति प्रतिगृह्णात्यपि सः ।

[०९७।०३]
स्यात्प्रतिगृह्णाति न ददात्यर्हतश्चरमाः स्क्न्धाः ।

[०९७।०३-०९७।०४]
सालम्बननियमेन तु क्षणशः ।

[०९७।०४]
कुशलः सभागहेतुः फलं प्रतिगृह्लाति न ददातीति ।
चतुष्कोक्टिकः ।

[०९७।०५]
प्रथमा कोटिः कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं संमुखीकरोतीति ।

[०९७।०६]
द्वितीया विपर्ययात् ।
तृतीया कुशलचित्तानन्तरं कुशलमेव ।

[०९७।०६-०९७।०७]
चतुर्थ्यतानाकारान् स्थापयित्वा ।

[०९७।०७]
एवमकुशलादयोऽपि योज्याः ।
कथं पुनः फलं प्रतिगृहीतं भवति ।

[०९७।०८]
तस्य बीजभावोपगमात् ।

[०९७।०९]
एकोऽतीतः प्रयच्छति ॥ २.५९ ॥

[०९७।१०]
विपाकहेतुरतीत एव फलं प्रयच्छति ।
यस्मान्न सह वा समनन्तरो वाऽस्ति विपाकः ।

[०९७।११]
पुनरन्ये चतुर्विधं फलमाहुः ।
प्रतिष्ठाफलम् ।

[०९७।११-०९७।१२]
यथा जलमण्डलं वायुमण्डलस्य यावत्तृणादयः पृथिव्याः ।

[०९७।१२]
प्रयोगफलम् ।
यथाऽशुभाया यावदनुत्पादज्ञानम् ।

[०९७।१३]
सामग्रीफलम् ।
यथा चक्षुरादीनां चक्षुर्विज्ञानादीनि ।
भावनाफलम् ।

[०९७।१३-०९७।१४]
यथा रूपावचरस्य चित्तस्य निर्माणम् ।

[०९७।१४-०९७।१५]
एतत्तु पुरुषकाराधिपतिफलयोरन्तर्भूतम् ।

[०९७।१५]
उक्ता हेतवः फलानि च ॥

[०९७।१६-०९७।१७]
तत्र कतमे धर्माः कतिभिः हेतुभिरुत्पद्यन्त इत्याह समासत इमे चतुर्विधा धर्मास्तद्यथा क्लिष्टा धर्मा विपाकजाः प्रथमानास्रवास्तेभ्यश्च शेषाः ।

[०९७।१७-०९७।१८]
के पुनः शेषाः ।

[०९७।१८]
विपाकवर्ज्याः अव्याकृताः प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति ।

[०९७।१८-०९७।१९]
एते चतुर्विधा धर्माः ।

[०९७।२०-०९७।२१]
क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् ।
विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः ॥ २.६० ॥

[०९७।२२]
क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पञ्चभ्यो जायन्ते ।

[०९७।२२-०९७।२३]
विपाकजा सर्वत्रगहेतुं हेत्वा शेषेभ्यः पञ्चभ्य एव ।

[०९७।२३-०९७।२४]
शेषा धर्मास्तौ विपाकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्र्यो जायन्ते ।

[०९७।२४-०९७।२५]
प्रथमानास्रवास्तौ च विपाकसर्वत्रगहेतू सभागहेतुं च हित्वा शेषेभ्यः त्रिभ्यो जायन्ते ।

[०९७।२६]
कतमे इमे धर्माश्चतुर्विधा निर्दिष्टा इत्याह

[०९७।२७]
चित्तचैत्ताः

[०९७।२८]
अथ ये चित्तविप्रयुक्ता रूपिणश्च धर्मास्ते कथमित्याह ।

[०९७।२९]
तथाऽन्येऽपि संप्रयुक्तकवर्जिताः ।

[०९७।३०-०९८।०१]
प्रयुक्तकहेतुनैकेन वर्जिताः अन्येऽपि क्लिष्टादयो धर्मास्तथैवोत्पद्यन्ते यथा चित्तचईत्ताः ।

[०९८।०१]
तत्र क्लिष्टाश्चतुभ्र्यो विपाकजाश्च ।

[०९८।०१-०९८।०२]
शेषास्त्रिभ्यः प्रथमानास्रवा द्वाभ्याम् ।

[०९८।०२]
एकहेतुसंभूतो नास्ति धर्मः ॥
समाप्तो हेतुविस्तरः ॥

[०९८।०३]
प्रत्ययाः कतमे ।

[०९८।०४]
चत्वारः प्रत्यया उक्ताः

[०९८।०५]
क्ववोक्ताः ।
सूत्रे ।
“चतस्रः प्रत्ययताः ।

[०९८।०५-०९८।०६]
हेतुप्रत्ययता समनन्तरप्रत्ययता आलम्बनप्रत्ययता अधिपतिप्रत्ययता चे”ति ।

[०९८।०६]
प्रत्ययजातिः प्रत्ययता ।
तत्र

[०९८।०७]
हेत्वाख्यः पञ्च हेतवः ॥ २.६१ ॥

[०९८।०८]
कारणहेतुवर्ज्याः पण्य्च हेतवो हेतुप्रत्ययः ।

[०९८।०९]
चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः ।

[०९८।१०]
अर्हतः पश्चिमानपास्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः ।

[०९८।१०-०९८।११]
समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः ।

[०९८।११]
अत एव रूपं न समनन्तरप्रत्ययो विषमोत्पत्तेः ।

[०९८।१२-०९८।१३]
तथाहि कामावचरस्य रूपस्यानन्तरं कदाचित्कामावचरं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते कदाचित्कामावचरं चानास्रवं चेति व्याकुलो रूपसंमुखीभावः ।

[०९८।१४-०९८।१५]
अव्याकुलस्तु समनन्तरप्रत्ययः अनिरुद्ध एवैकस्मिन्नौप चयिकरूपसन्ताने द्वितीयोत्पत्तेरिति भदन्तवसुमित्रः ।

[०९८।१५]
अल्पबहुतरोत्पत्तेरिति भदन्तः ।

[०९८।१५-०९८।१६]
कदाचिद्धि महतो रूपादल्पमुत्पद्यते ।

[०९८।१६]
तद्यथा पलालराशेर्भस्म ।
कदाचिदल्पाद्वहूत्पद्यते ।

[०९८।१६-०९८।१७]
तद्यथा वटनिकायाः क्रमेण यावदनेकशाखावरोहो न्यग्रोध इति ।

[०९८।१७-०९८।१८]
ननु चास्ति चैत्ताना मप्यल्पबहुतरोत्पत्तिः ।

[०९८।१८-०९८।१९]
कुशलाकुशलाव्याकृतेषु चित्तेसु सवितर्कसविचारादौ च समाधित्रये ।

[०९८।१९]
अस्ति जात्यन्तरं प्रति न स्वजातिम् ।

[०९८।१९-०९८।२०]
नहि कदाचिद्वहुतरा वेदनोत्पद्यते संज्ञादयो वा ।

[०९८।२०-०९८।२१]
किं पुनः स्वजातेरेव समनन्तरप्रत्ययो भवति ।

[०९८।२१]
नैतदस्ति ।

[०९८।२१-०९८।२२]
सकल एव कलापः सकलस्य कलापान्तरस्य समनन्तरप्रत्ययो नत्वल्पकाद्वेदनादिद्रव्यात्प्रभूतं वेदनादि द्रव्यमुत्पद्यत इत्येतावदेवात्रोत्तम् ।

[०९८।२३]
सन्तानसभागिकास्तु मन्यन्ते “स्वजातेरेव समनन्तरप्रत्ययः ।

[०९८।२३-०९८।२४]
तद्यथा चित्तं चित्तस्यैव वेदना वेदनाया एवे”ति विस्तरः ।

[०९८।२४-०९८।२६]
यदा त्वक्लिष्टान्तरं क्लिष्टमुत्पद्यते तस्य क्लेशस्य पूर्वनिरुद्धः क्लेशः समनन्तरप्रत्ययस्तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्येति ।

[०९८।२६]
तदेतन्न वत्स्र्यते ।

[०९८।२६-०९८।२७]
प्रथमानास्रवचित्तानुत्पत्तिप्रसङ्गत्चित्तविप्रयुक्ता अपि संस्काराः ।

[०९८।२७-०९८।२९]
अत एव व्याकुलसंमुखीभावान्न समनन्तरप्रत्ययस्त्रैवातुकाप्रतिसंयुक्तानां युगपत्संमुखीभावात् ।
[०९८।२९]
कस्मादनागतो नेष्यते समनन्तरप्रत्ययः ।

[०९८।२९-०९९।०१]
व्याकुलत्वादनागतस्याध्वनः पूर्वोत्तरताऽभावात् ।

[०९९।०१-०९९।०२]
कथं तर्हि भगवान् जानाति अमुष्यानागतत्त्यानन्तरमिदमनागतं भावीति ।

[०९९।०२]
अतीतसांप्रतानुमानात् ।

[०९९।०२-०९९।०३]
अतीतं किलाध्वानं पश्यति भगवानेवञ्जातीयकात्कर्मणः एवञ्जातीयको वीपाकः उत्पन्नो धर्माद्वा धर्मः ।

[०९९।०४]
इदं चापि संप्रत्येवञ्जातीयकं कर्म ।

[०९९।०४-०९९।०५]
तस्मादतोऽप्येवञ्जातीयको विपाक उत्पत्स्यते धर्माद्वा धर्म इति जानाति ।

[०९९।०५]
नचान्यत्ज्ञानमानुमानिकं भवति ।

[०९९।०५-०९९।०७]
यस्मादतीतसांप्रतानुमानेन भगवान् विकीर्णान्यनागतानि द्रव्याणि प्रत्यक्षमीक्षित्वा जानात्यनेन पुद्गलेनैवंविधं कर्म कुर्वतेदमनागतं फलं परिगृहीतमिति ।

[०९९।०७-०९९।०८]
एवं तर्हि भगवान् पूर्वान्तमदृष्ट्वाऽपरान्तं न जानीयात् ।

[०९९।०८]
अन्ये पुनराहुः ।

[०९९।०८-०९९।१०]
फलचिह्नभूतः सत्त्वानां सन्ततौ चित्तविप्रयुक्तः संस्कारविशेषोऽस्ति यं व्यवलोक्य भगवाननागतं जानात्यसंमुखीकृत्वापि ध्यानमभिज्ञां चेति ।

[०९९।१०-०९९।११]
नैमिक्तिको हि नाम भगवान् स्यादेवं सति न पुनः साक्षात्कारी ।

[०९९।११]
तस्मात्सर्वमिच्छामात्रेण भगवान् जानातीति सौत्रान्तिकाः ।

[०९९।१२]
“अचिन्त्यो हि बुद्धानां बुद्धिविषय” इत्युक्तं भगवता ।

[०९९।१२-०९९।१३]
अथ असत्यनागतस्य क्रमनियमावस्थाने कस्मादग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिरेवोत्पद्यते नान्यो धर्मः ।

[०९९।१४]
एवं यावद्वर्जो पमानन्तरं क्षयज्ञानमेवोत्पद्यते नान्यो धर्म इति ।

[०९९।१५]
यस्य यत्प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते ।

[०९९।१५-०९९।१६]
तद्यथा वीजादीनामङ्कुरादयो विनापि समनन्तरप्रत्ययेनेति ।

[०९९।१६]
कस्मादर्हतश्चरमाश्चित्तचैत्ता न समनन्तरप्रत्ययः ।

[०९९।१७]
अन्यचित्तासंबन्धनात् ।

[०९९।१७-०९९।१८]
ननु चैवं समनन्तरनिरुद्धं चित्तं मनो भवतीत्यनन्तर विज्ञानाभावात्मनोऽपि चरमं चित्तं न प्राप्नोति ।

[०९९।१८-०९९।१९]
आश्रयभावप्रतिभावितं मनो न कारित्रप्रभावितमित्यस्त्येवाश्रयभावः ।

[०९९।१९-०९९।२०]
कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोत्पद्यत इति ।

[०९९।२०-०९९।२१]
कारित्रप्रभावितस्तु समनन्तरप्रत्ययस्तेन यो धर्मः फलं क्प्रतिगृहीतः स सर्वैरपि धर्मईः सर्वप्राणिभिर्वा न शक्यं प्रतिब्न्द्धुं यथा नोत्पद्यते ।

[०९९।२१-०९९।२२]
ये धर्माश्चित्तसमनन्तराश्चित्तनिरन्तरा अपि ते ।

[०९९।२२]
चतुष्कोटिकः ।

[०९९।२२-०९९।२३]
प्रथमा कोटिरचित्तकायाः समापत्तेर्व्युत्थान चित्तं द्वितीयादयश्च समापत्तिक्षणाः ।

[०९९।२३-०९९।२४]
द्वितीया कोटिः प्रथमस्य समापत्तिक्षणस्य सचित्तकायाश्चावस्थाया जात्यादयः ।

[०९९।२४-०९९।२५]
तृतीया कोटिः प्रथमः समापत्तिक्षणः सचित्तिका चावस्था ।

[०९९।२५-०९९।२६]
चतुर्थी कोटि द्वीर्तीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च ।

[०९९।२६-०९९।२७]
ये धर्माश्चित्तसमनन्तराः समापत्तिनिरन्तरा अपि ते ।

[०९९।२७]
चतुष्कोटिकः ।

[०९९।२७-१००।०१]
ये तृतीयावतुर्थ्यौ ते प्रथमाद्वितीये ये प्रथमाद्वितीये ते तृतीयाचतुर्थ्यौ कर्त्तव्ये ।

[१००।०१-१००।०२]
कथमिदानीं दूरान्तरविच्छिन्नं व्युत्थानचित्तं समापत्तिचित्तस्य समनन्तरमित्युच्यते ।

[१००।०२]
चित्तान्तराव्यवहितत्वात् ॥
उक्तःः समनन्तरप्रत्ययः ॥

[१००।०३]
आलम्बनं सर्वधर्माः ।

[१००।०४]
यथायोगं चक्षुर्विज्ञानस्य ससंप्रयोगस्य रूपम् ।
श्रोत्रविज्ञानस्य शब्दः ।

[१००।०४-१००।०५]
ग्राणविज्ञानस्य गन्धः ।

[१००।०५]
जिह्वाविज्ञानस्य रसः ।
कायविज्ञानस्य स्प्रष्टव्यम् ।

[१००।०५-१००।०६]
मन्नोविज्ञानस्य सर्वधर्माः ।

[१००।०६]
यो धर्मो यस्य धर्मस्यालम्बनं न कदाचित्स धर्मस्तद्धर्मस्य नालम्बनम्।

[१००।०७]
अनालम्ब्यमानोऽपि तथालक्षणत्वाद् ।

[१००।०७-१००।०८]
यथाऽनिध्यमानमपीन्धनमुच्यते काष्ठादिकं तथालक्षाणत्वादिति ।

[१००।०८-१००।०९]
त एते चित्तचैता धर्मा आयतनद्रव्यलक्षणनियमेनालम्बने यथास्वं नियताः ।

[१००।०९]
किमाश्रयनियमेनापि नियताः ।
ओमित्याह ।

[१००।०९-१००।१०]
उत्पन्नास्त्वाश्रयसहिता अनुत्पन्ना ह्यतीता आश्रयविश्लिष्टाः ।

[१००।१०]
अतीता अप्याश्रयसहिता इत्यपरे ॥

[१००।११]
उक्त आलम्बनप्रत्ययः ॥

[१००।१२]
कारणाख्योऽधिपः स्मृतः ॥ २.६२ ॥

[१००।१३]
य एव कारणहेतुः स एवा धिपतिप्रत्ययः ।

[१००।१३-१००।१४]
अधिकोऽयं प्रत्यय इत्यधिपतिप्रत्ययः ।

[१००।१४-१००।१५]
आलम्बनप्रत्ययोऽपि सवन्धर्माः अधिपतिप्रत्ययोऽपीति किमस्त्याधिक्यम् ।

[१००।१५]
न जातु सहभुवो धर्मा आलम्बनं भवन्ति ।

[१००।१५-१००।१६]
भवन्ति त्वधिपति प्रत्यय इत्यस्यैवाधिक्यम् ।

[१००।१६]
अधिकस्य वा प्रत्ययः ।

[१००।१६-१००।१७]
सर्वः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य ।

[१००।१७]
स्याद्धर्मो धर्मस्य चतुर्भिरपि प्रत्ययैर्न प्रत्ययः ।

[१००।१७-१००।१८]
स्यात्स्वभावः स्वभावस्य परभावोऽपि ।

[१००।१८]
स्यात्संस्कृतमसंस्कृतस्यासंस्कृतं चासंस्कृतस्य ।

[१००।१९-१००।१८]
अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति ।

[१००।१९-१००।२०]
हेतुप्रत्ययस्तावत्पञ्चविध उक्तः ।

[१००।२०]
तत्र

[१००।२१]
निरुध्यमाने कारित्रं द्वी हेतू कुरुतः ।

[१००।२२]
निरुध्यमानं नाम वर्क्तमानम् ।
निरोधाभिमुखत्वात् ।

[१००।२२-१००।२३]
तत्र सहभूसंप्रयुक्तकहेतु कारित्रं कुरुतः ।

[१००।२३]
सहोत्पन्नेऽपि फले तयोर्व्यापारः ।

[१००।२४]
त्रयः ।

[१००।२५]
जायमाने

[१००।२६]
जायमानं नामानागतमुत्पादाभिमुखम् ।

[१००।२६-१००।२७]
तत्र सभागसर्वत्रगविपाकहेतवः कारित्रं कुर्वन्ति ।

[१००।२७]
एवं तावद्धेतुप्रत्ययः ।

[१०१।०१]
ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥ २.६३ ॥

[१०१।०२-१०१।०३]
येन कारित्रन्यायेन हेतुप्रत्ययौ द्विधा कृत्वोक्तस्तद्विपर्ययात्समनतरप्रत्ययालम्बनप्रत्ययौ वेदितव्यौ ।

[१०१।०३-१०१।०४]
समन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् ।

[१०१।०४]
आलम्बनप्रत्ययो निरुध्यमाने ।
वर्त्तमानैश्चित्तचैतैर्ग्रहणात् ।

[१०१।०४-१०१।०५]
अधिपतिप्रत्ययस्तु सर्वस्यामवस्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् ॥

[१०१।०६]
उक्ताः सकारित्राः प्रत्ययाः ॥

[१०१।०७]
अथ कतमो धर्मः कतिभिः प्रत्ययैरुत्पद्यते ।

[१०१।०८]
चतुर्भिश्चत्तचैत्ता हि

[१०१।०९]
तत्र हेतुप्रत्यय एषां सर्वे पञ्च हेतवः ।

[१०१।०९-१०१।१०]
समन्तरप्रत्ययः पूर्वकाश्चित्तचैत्ता अन्यैरव्यवहिताः ।

[१०१।१०]
आलम्बनप्रत्ययो यथायोगं पञ्च विषयाः सर्वे धर्माश्च ।

[१०१।१०-१०१।११]
अधिपतिप्रत्ययः स्वभावर्ज्याः सर्वधर्माः ।

[१०१।१२]
समापत्तिद्वयं त्रिभिः ।

[१०१।१३]
निरोधासंज्ञिसमापत्त्यो रालम्बनप्रत्ययो नास्ति ।
नहि ते आलम्बिके ।

[१०१।१३-१०१।१४]
हेतुप्रत्ययस्तुतयोर्द्विविधो हेतुः ।

[१०१।१४-१०१।१५]
सहभूहेतुश्च जात्यादयः सभागहेतुश्च पूर्वोत्पन्ना समानभूमिकाः कुशला धर्माः ।

[१०१।१५]
समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् ।

[१०१।१५-१०१।१६]
अधिपतिप्रत्ययः पूर्ववत् ।

[१०१।१६]
चित्ताभिसंस्कारजत्वादेते समापत्ती चित्तसमनन्तरे ।

[१०१।१६-१०१।१७]
चित्तोत्पत्तिविबन्धकत्वात्न समनन्तरप्रत्ययः ।

[१०१।१८]
द्वाभ्यामन्ये तु जायन्ते

[१०१।१९-१०१।२०]
अन्ये तु विप्रयुक्ता रूपिणश्च धर्मा हेत्वधिपतिप्रत्ययाभ्यां जायन्ते यथाविहितमेव ।

[१०१।२०-१०१।२१]
आह तु “प्रत्ययेभ्यो भावा उपजायन्ते न पुनः सर्वस्यैव जगतः ईश्वरपुरुषप्रधानादिकं कारणमिति ।

[१०१।२१]
कोऽत्र हेतुः ।
यदि खलु हेतुकृतां सिद्धिं मन्यसे ।

[१०१।२२]
ननु च अथ एवास्य वादस्य व्युदासः प्राप्नोत्येकं कारणमीश्वरादिकं सर्वस्येति ।

[१०१।२३]
अपिच

[१०१।२४]
नेश्वरादेः क्रमादिभिः ॥ २.६४ ॥

[१०१।२५]
यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा युगपत्सर्वेण जगता भवितव्यंस्यात् ।

[१०१।२६]
दृश्यते च भावानां क्रमसंभवः ।

[१०१।२६-१०१।२७]
स तर्हि च्छन्दवशा दीश्वरस्य स्यादयमिदानीमुत्पद्यतामयं निरुध्यतामयं पश्चादिति ।

[१०१।२७]
च्छन्दभेदात्तर्हि सिद्धमनेकं कारणं स्यात् ।

[१०१।२७-१०२।०१]
स चापि च्छन्दर्भेदो युगपत्स्यात्तद्धेतोरीश्वरस्याभिन्नत्वात् ।

[१०२।०१-१०२।०२]
कारणान्तरभेदापेक्षणे वा नेश्वर एव कारणं स्यात् ।

[१०२।०२-१०२।०४]
तेषामपि च क्रमोत्पत्तौ कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्ग स्यादित्यनन्तरभेदायाः कारणपरंपराया अनादित्वाभ्युपगमादयमीश्वरकारणाधिमुक्तः शाक्ययूर्वीयमेव न्यायं नातिवृत्तः स्यात् ।

[१०२।०४-१०२।०५]
योगपद्येऽपीश्वरच्छन्दानां जगतो न यौगपद्यम् ।

[१०२।०५]
यथाच्छन्दमुत्पादनादि ति चेत् ।
न ।

[१०२।०५-१०२।०६]
तेषां पश्चाद्विशेषाभावात् ।

[१०२।०६]
कश्च तावदीश्वरस्येयता सर्गप्रयासेनार्थः ।

[१०२।०६-१०२।०८]
यदि प्रीतिस्तां तर्हि नान्तरेणोपाये शक्तः कर्तुमिति न तस्यामीश्वरः स्यात्तथैव चान्यस्मिन् ।

[१०२।०८-१०२।०९]
यदि चेश्वरो नरकादिषु प्रजां बहुभिश्चेतिभिरूपसृष्टां सृष्ट्वा तेन प्रीयते नमोऽस्तु तस्मै तादृशायेश्व्राय ।

[१०२।०९]
सुगीतश्चायं तमारभ्य श्लोको भवति ।

[१०२।१०]
“यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।

[१०२।११]
मांसशोणितमज्जादो यत्ततो रुद्र उच्यत” इति ।

[१०२।१२-१०२।१३]
एकं खल्वपि जगतः कारणं परिगृह्णताऽन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्गृह्ण्तः स्यात् ।

[१०२।१३]
सहापि च कारणैः कारक मीश्वरं कल्पयता केवलो भक्तिवादः स्यत् ।

[१०२।१४]
कारणेभ्योऽन्यस्य तदुत्पत्तौ व्यापारादर्शनात् ।

[१०२।१४-१०२।१५]
सहकारिषु चान्येषु कारणेष्वीश्वरो नेश्वरः स्यात् ।

[१०२।१५]
अथादिसर्ग ईश्वरहेतुकः ।

[१०२।१५-१०२।१६]
तस्याप्यन्यानपेक्षत्वादीश्वरवदनादित्वप्रसङ्ग ।

[१०२।१६]
एवं प्रधानेऽपि यथायोगं वाच्यम् ।

[१०२।१६-१०२।१७]
तस्मान्न लोकस्यैकं कारणमस्ति ।

[१०२।१७]
स्वान्येवैषां कर्माणि तस्यां तस्यां जातौ जनयन्ति ।

[१०२।१७-१०२।१८]
अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं मिथ्या परिकल्पयन्ति ।

[१०२।१९]
गतमेतद्यत्तु खलु तदुक्तं “द्वाभ्यामन्ये तु जायन्त” इति ।

[१०२।२०]
अथ कथं भूतानि भूतानां हेतुप्रत्ययः ।

[१०२।२१]
द्विधा भूतानि तद्धेतुः

[१०२।२२]
भूतहेतुरित्यर्थः ।
सभागसहभूहेतुभ्यां

[१०२।२३]
भौतिकस्य तु पञ्चधा ।

[१०२।२४]
भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः ।
कथम् ।

[१०२।२५]
“जननान्निःश्रयात्स्थानादुपस्तम्भोगवृंहणात्”

[१०२।२६]
सोऽयं कारणहेतुरेव पुनः पण्य्चधा भिन्नः ।

[१०२।२६-१०२।२७]
जननहेतुस्तेभ्य उत्पत्तेः ।

[१०२।२७-१०२।२८]
निश्रयहेतुर्जातस्य भूतानुविधायित्वात्पुरुषकारफलादाचार्यादिनिःश्रयवत् ।

[१०२।२८]
प्रतिष्ठाहेतुराधारभावात् ।
चित्रकृत्यवत् ।

[१०३।०१]
उपस्तम्भहेतुरनुच्छेदहेतुत्वात् ।

[१०३।०१-१०३।०२]
एवमेषां जन्मविकाराधारस्थितिवृद्धिहेतुत्वमाख्यातं भवति ।

[१०३।०३]
त्रिधा भौतिकमन्योन्यम् ।

[१०३।०४]
हेतुसहभूसभागविपाकहेतुभिः कारणहेतुरविशेषयत्तित्वात्न सर्वदा गण्यते ।

[१०३।०४-१०३।०५]
तत्र सहभूहेतुरन्योन्यं चित्तानुपरिवर्त्ति कायवाक्कर्म ।

[१०३।०५]
नान्यदुपादायरूपम् ।

[१०३।०५-१०३।०६]
सभागहेतुः सर्वं पूर्वोत्पन्नं सभागस्य ।

[१०३।०६]
विपाकहेतुर्यस्य वाक्कर्मणश्चक्षुरादयो विपाकः ।

[१०३।०७]
भूतानामेकधैव तत् ॥ २.६५ ॥

[१०३।०८]
भूतानां तु तद्भूतिकं रूपं विपाकहेतुरेव यस्य कायवाक्कर्मणो भूतानि विपाकाः ।

[१०३।०९-१०३।१०]
अभेदेन चित्तचैत्ताः समनन्तरप्रत्यय उक्ता नियमस्तु नोक्तः कस्य चित्तस्यानन्तरं कस्योत्पक्तिरिति ।

[१०३।१०]
स इदानीं वक्तव्यः ।

[१०३।१०-१०३।११]
तत्र तावत्समासेन द्वादश चित्तानि ।

[१०३।११]
किमर्थमित्याह

[१०३।१२]
कुशलाकुशलं कामे निवृतानिवृतं मनः ।

[१०३।१३]
कामधातौ चत्वारि चित्तानि ।

[१०१।१३]
कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च ।

[१०३।१४]
रूपारूप्येष्वकुशलादन्यत्र

[१०३।१५]
रूपधातावकुशलं नास्ति ।
त्रीणि सन्ति ।
एवमारूप्यधातौ ।

[१०३।१५-१०३।१६]
इत्येतानि सानुस्रवाणि दश चित्तानि भवन्ति ।

[१०३।१७]
अनास्रवं द्विधा ॥ २.६६ ॥

[१०३।१८]
शैक्षमशैक्षं च ।
एवमेतानि द्वादश चित्तानि भवन्ति ।
तत्र

[१०३।१९]
कामे नव शुभाच्चित्ताच्चित्तानि

[१०३।२०]
अनन्तरमिति पश्चाद्वक्ष्यति ।

[१०३।२०-१०३।२१]
कामधातौ यत्कुशलं चित्तं तस्मादनन्तरं नव चित्तान्युत्पद्यन्ते ।

[१०३।२१]
स्वभूमिकानि चत्वारि ।
रूपावचरे द्वे ।

[१०३।२१-१०३।२२]
समापत्तिकाले कुशलं प्रतिसन्धिकाले निवृतम् ।

[१०३।२२]
आरूप्यावचरं निवृतमेव प्रतिसन्धिकाले ।

[१०३।२२-१०३।२३]
अतिविप्रकृष्टत्वात्न कुशलम् ।

[१०३।२३]
आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे ।

[१०३।२३-१०३।२४]
आश्रयाकारालम्बनप्रतिपक्षदूरताभिः ।

[१०३।२४]
शैक्षमशैक्षं चेति ।

[१०३।२५]
अष्टाभ्य एव तत् ।

[१०३।२६]
तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते ।

[१०३।२६-१०३।२७]
स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराभ्यां द्वाभ्याम् ।

[१०३।२७]
कुशलाच्च व्युत्थानकाले ।
[१०३।२७-१०३।२८]
निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधारकुशलभूमिसंश्रयणात् ।

[१०३।२८]
शैक्षाशैक्षाभ्यां च व्युत्थानकाले ।

[१०४।०१]
दशभ्योऽकुशलं

[१०४।०२-१०४।०३]
शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः समनन्तरमकुशलं चित्तमुत्पद्यते ।

[१०४।०४]
तस्माच्चत्वारि ।

[१०४।०५]
अकुशलाच्चित्तात्समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव ।

[१०४।०५-१०४।०६]
यथाऽकुशलमुक्तं कामधातौ

[१०४।०७]
निवृतं तथा ॥ २.६७ ॥

[१०४।०८]
दशभ्य एव समनन्तरम् ।
तस्माच्च पुनश्चत्वार्येव ।

[१०४।०९]
पञ्चभ्योऽनिवृतं

[१०४।१०]
काम इति वर्त्तते ।
अनिवृताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते ।

[१०४।१०-१०४।११]
स्वभूमिकेभ्य श्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् ।

[१०४।१२]
तस्मात्सप्त चित्तान्यनन्तरम् ।

[१०४।१३]
अनिवृताव्याकृटात्कामावचरात्स्वभूमिकानि चत्वारि ।
रूपावचरे द्वे ।

[१०४।१३-१०४।१४]
कुशलं निर्माणचित्तादनन्तरम् ।

[१०४।१४]
क्लिष्टं प्रतिसन्धिकाले ।

[१०४।१४-१०४।१५]
आरूप्यावचरं च क्लिष्टं प्रतिसन्धिकाल एव ।

[१०४।१६]
रूपे दशैकं च शुभात्

[१०४।१७]
रूपे धातौ यत्कुक्शलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते ।

[१०४।१७-१०४।१८]
आरुप्यावचरमनिवृताव्याकृतं वर्जयित्वा ।

[१०४।१९]
नवभ्यस्तदनन्तरम् ॥ २.६८ ॥

[१०४।२०]
रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते ।

[१०४।२०-१०४।२१]
कामावचरं क्लिष्टद्वयमारुप्यावचरं चानिवृताव्याकृतं हित्वा ।

[१०४।२२]
अष्टाभ्यो निवृतं

[१०४।२३]
निवृताव्याकृतं रूपावचरं चित्तमष्टभ्य उत्पद्यते ।

[१०४।२३-१०४।२४]
कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वा ।

[१०४।२५]
तस्मात्षट्

[१०४।२६]
रूपावचरान्निवृताव्याकृतादनन्तरं षट् ।

[१०४।२६-१०४।२७]
स्वभूमिकानि त्रीणि कामावचराणि चानिवृताव्याकृतं मुक्त्वा ।

[१०४।२८]
त्रिभ्योऽनिवृतं पुनः ।

[१०४।२९]
रूपावचरमनिवृताव्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव ।

[१०५।०१]
तस्मात्षट्

[१०५।०२]
स्वभूमिकानि त्रीणि ।
कामावचरे च क्लिष्टे ।
आरूप्यावचरं च ।

[१०५।०२-१०५।०३]
यथा रूपधातावनिवृताव्याकृतमुक्तम् ।

[१०५।०४]
एवमारूप्ये तस्य नीतिः ।

[१०५।०५]
ततस्तदप्यनिवृताव्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः ।

[१०५।०५-१०५।०६]
तस्मादपि च षडेवोत्पद्यन्ते ।

[१०५।०६]
स्वभूमिकानि त्रीणि अधरधातुकानि च क्लिष्टानि ।

[१०५।०७]
शुभात्पुनः ॥ २.६९ ॥

[१०५।०८]
नव चित्तानि

[१०५।०९]
आरूप्यावचरातृ कुक्शलान्नव चित्तान्युत्पद्यन्ते ।

[१०५।०९-१०५।१०]
कामावचरं कुक्शलं कामरूपावचरे चानिवृताव्याकृते हित्वा ।

[१०५।११]
तत्षण्णां

[१०५।१२]
आरूप्यावचरं कुक्शलं स्वेभ्यस्त्रिभ्यो रूपावचरात्कुक्शलाच्छैक्षाशैक्षाभ्यां च ।

[१०५।१३]
निवृतात्सप्त

[१०५।१४-१०५।१५]
आरूप्यावचरान्निवृतात्स्वभूमिकानि त्रीणि रूपावचरं कुशलं निवृतं च कामावचरं क्लिष्टद्वयम् ।

[१०५।१६]
तत्तथा ।

[१०५।१७]
तदपि सप्तभ्य एवोत्पद्यते ।
कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वा ।

[१०५।१८]
चतुर्भ्यः शैक्षम् ।

[१०५।१९]
त्रैधातुकेभ्यः कुशलेभ्यः शैक्षाच्च ।

[१०५।२०]
अस्मात्तु पञ्च

[१०५।२१]
तान्येव चत्वार्यशैक्षं च ।

[१०५।२२]
अशैक्षं तु पञ्चकात् ॥ २.७० ॥

[१०५।२३]
अत एवानन्तरोक्तात् ।

[१०५।२४]
तस्माच्चत्वारि चित्तानि

[१०५।२५]
तस्मात्पुनरशैक्षाच्चित्तात्समनन्तरं चत्वारि चित्तान्युत्पद्यन्ते ।

[१०५।२५-१०५।२६]
त्रैधातुकानि कुशलान्यशैक्षं च ॥

[१०५।२६]
समाप्तानि द्वादश चित्तानि ॥

[१०५।२७]
पुनः क्रियन्ते

[१०६।०१]
द्वादशैतानि विंशतिः ।

[१०६।०२]
कथं कृत्वा ।

[१०६।०३]
प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा ॥ २.७१ ॥

[१०६।०४]
त्रिषु धातुषु कुशलं चित्तं द्विधा भिद्यते ।
प्रायोगिकं चोपपत्तिलाभिकं च

[१०६।०५]
विपाकजैयपिथिकशैल्पस्थानिकनैर्मितम् ।

[१०६।०६]
चतुर्धाऽव्याकृतं कामे

[१०६।०७]
भित्त्वेति वर्त्तते ।
कामावचरमनिवृताव्याकृतं चतुर्धा भिद्यते ।

[१०६।०७-१०६।०८]
विपाकजमैर्यापथिकं शेल्पस्थानिकं निर्माणचित्तं च ।

[१०६।०९]
रूपे शिल्पविवर्जितम् ॥ २.७२ ॥

[१०६।१०]
रूपधातौ त्रिधा भिद्यते शैल्पस्थानिकं वर्जयित्वा ।
तत्र शिल्पाभावात् ।

[१०६।१०-१०६।११]
एवमेतानि द्वादश चित्तानि पुनर्विशर्तिर्भर्वन्ति ।

[१०६।११-१०६।१२]
षोढा कुशलमनिवृताव्याकृतं च सप्तधा भिद्यते ।

[१०६।१२]
ऐर्यापथिकादीनि चित्तानीर्यापथाद्यभावादारूप्यधातौ न सन्ति ।

[१०६।१३]
रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् ।
शैल्पस्थानिकस्य तु शब्दोऽपि ।

[१०६।१३-१०६।१४]
एतानि मनोविज्ञानान्येव ।

[१०६।१४]
पञ्च तु विज्ञानकाया ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिकाः ।

[१०६।१५-१०६।१६]
ऐर्यापथिकाभिनिर्हृतं मनोविज्ञानमस्ति द्वादशायतनालम्बननित्यपरे ।

[१०६।१७]
एषां पुनर्विशतेक्श्चित्तानां कस्य कतमत्समनन्तरम् ।

[१०६।१७-१०६।१८]
कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते ।

[१०६।१८-१०६।१९]
स्वभूमिकानि सप्ताऽन्यत्राभिज्ञाफलात् ।

[१०६।१९]
रूपावचरं प्रायोगिकं शैक्षल्मशैक्षं च ।
तत्पुनरष्टचित्तानन्तरम् ।

[१०६।१९-१०६।२०]
स्वेभ्यः कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिक क्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।

[१०६।२०-१०६।२१]
उपपत्तिप्रतिलम्भिकानन्तरं नव ।

[१०६।२१-१०६।२२]
स्वभूमिकानि सप्तऽन्यत्राभिज्ञाफलाद्रूपा रूपावचरे च क्लिष्टे ।

[१०६।२२]
तत्पुनरेकादशानन्तरम् ।

[१०६।२२-१०६।२३]
स्वेभ्यः सप्तभ्यः पूर्ववत्रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।

[१०६।२३]
अकुशल निवृत्ताव्याकृतानन्तरं सप्त ।

[१०६।२४]
स्वान्येव पूर्ववत् ।
ते पुनश्चतुर्दशचित्तानन्तरम् ।

[१०६।२४-१०६।२५]
स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्योऽन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् ।

[१०६।२५-१०६।२६]
आरुप्यावचरेभ्यस्त्रिभ्योऽन्यत्र प्रायोगिकात् ।

[१०६।२६]
ऐर्यापथिकविपाकजानन्तरमष्टौ ।

[१०६।२६-१०६।२७]
स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यां रूपारुप्यावचारे च क्लिष्टे ।

[१०६।२७-१०६।२८]
ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् ।

[१०६।२८]
शैल्पस्थानिकानन्तरं षट् ।
स्वान्येवान्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् ।

[१०६।२९]
तत्पुनः सप्तानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् ।

[१०७।०१]
अभिज्ञाफलानन्तरं द्वे ।
स्वं चाभिज्ञाफलमेव ।
रूपावचरं च प्रायोगिकम् ।

[१०७।०१-१०७।०२]
तदप्यस्मादेव द्वयात् ।

[१०७।०३]
रूपावचराणामिदानीं षण्णां वक्षामः ।
प्रायोगिकानन्तरं द्वादश ।

[१०७।०३-१०७।०५]
कामावचरे कुशले अभिज्ञाफलं च स्वानि षटारुप्यावचरं च प्रायोगिकंशैक्षमशैक्षं च ।

[१०७।०५]
तत्पुनर्दशचित्तानन्तरम् ।

[१०७।०५-१०७।०७]
कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां स्वेभ्यश्चतुर्भ्योऽन्यत्रेर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।

[१०७।०७]
उपपत्तिप्रतिलम्भिकानन्तरमष्टौ ।

[१०७।०७-१०७।०८]
कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभिज्ञाफलातारुप्यावचरं क्लिष्टम्।

[१०७।०८-१०७।०९]
तत्पुनः पञ्चभ्यः स्वेभ्यः एवान्यत्राभिज्ञाफलात् ।

[१०७।०९]
क्लिष्टानन्तरं नव ।

[१०७।०९-१०७।१०]
कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि पञ्चान्यत्राभिज्ञाफलात् ।

[१०७।१०]
तत्पुनरेकादशचित्तानन्तरम् ।

[१०७।११-१०७।१२]
कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्यापथिक विपाकजेभ्यः स्वेभ्यः पञ्चभ्योऽन्यत्राभिज्ञाफलातारूप्यावचरेभ्यस्त्रिभ्योऽन्यत्र प्रायोगिकात् ।

[१०७।१२-१०७।१३]
ऐर्यापथिकानन्तरं सप्त ।

[१०७।१३-१०७।१४]
कामावचरे क्लिष्टे स्वानि चत्वार्यन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् ।

[१०७।१४-१०७।१५]
तत्पुनः पण्य्चानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् ।

[१०७।१५]
एवं विपाकजं वक्तव्यम् ।
अभिज्ञाफलानन्तरं द्वे ।

[१०७।१५-१०७।१६]
स्वे एव प्रायोगिकाभिज्ञाफले ।

[१०७।१६]
तदप्याभ्यामेव ।

[१०७।१७]
आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः ।
प्रायोगिकानन्तरं सप्त ।

[१०७।१७-१०७।१८]
रूपावचरं प्रायोगिकं स्वानि चत्वारि शैक्षमशैक्षं च ।

[१०७।१८]
तत्पुनः षट्चित्तानन्तरम् ।

[१०७।१८-१०७।१९]
रूपावचरात्प्रायोगिकात्स्वेभ्यस्त्रिभ्योऽन्यत्र वीपाकजात्शैक्षाशैक्षाभ्यां च ।

[१०७।१९-१०७।२०]
उपपत्तिप्रातिलम्भिकानन्तरं सप्त ।

[१०७।२०]
स्वानि चत्वार्यधरभूमिकानि च क्लिष्टानि ।

[१०७।२०-१०७।२१]
तत्पुनश्चतुर्भ्यः स्वेभ्य एव ।

[१०७।२१]
क्लिष्टानन्तरम्ष्टौ ।

[१०७।२१-१०७।२२]
स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे कामावचारे क्लिष्टे ।

[१०७।२२]
तत्पुनर्दशानन्तरम् ।

[१०७।२२-१०७।२३]
स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्तिप्रातिंलम्भिकैर्यापथिकविपाकजेभ्यः ।

[१०७।२३]
विपाकजानन्तरं षट् ।

[१०७।२४]
स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि क्लिष्टानि ।

[१०७।२४-१०७।२५]
तत्पुनश्चतुर्भ्यः स्वेभ्य एव ।

[१०७।२५]
शैक्षानन्तरं षट् ।

[१०७।२५-१०७।२६]
त्रैधातुकानि प्रायोगिकाणि कामावचरमुपपत्तिप्रतिलम्भिकं शैक्षमशैक्षं च ।

[१०७।२६]
तत्पुनश्चतुर्भ्यः ।

[१०७।२६-१०७।२७]
प्रायोगिकेभ्यः त्रिभ्यः शैक्षाच्च ।

[१०७।२७]
अशैक्षानन्तरं पञ्च ।
यथा शैक्षानन्तरं शैक्षमेकं हित्वा ।

[१०७।२७-१०७।२८]
तत्पुनः पञ्चभ्यः ।

[१०७।२८]
त्रिभ्यः प्रायोगिकेभ्यः शैक्षाशैक्षाभ्यां चेति ।

[१०८।०१-१०८।०२]
किं पुनः कारणं प्रायोगिकचित्तानन्तरं वीपाकजैयापथिकशैल्पस्थानिकानिचित्तान्युत्पद्यन्ते न पुन्रेभ्यः प्रायोगिकम् ।

[१०८।०२-१०८।०३]
ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्दुर्बलानभिसंस्कारवाहित्वाच्चैत्तानि न प्रायोगिकानुकूलानि ।

[१०८।०३-१०८।०४]
निष्क्रमणचित्तं त्वनभिस्कारवाहीति युक्तोऽस्य प्रायोगिकचित्तानन्तरमुत्पादः ।

[१०८।०४-१०८।०५]
एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते ।

[१०८।०५]
विगुणत्वात् ।

[१०८।०५-१०८।०६]
तथापि क्लेशसमुदाचारपरिखिन्नस्य तत्परिज्ञानद्युक्तः प्रायोगिकसंमुखीभावः ।

[१०८।०६-१०८।०७]
कामावचरमुपपत्तिप्रतिलम्भिकं पटुत्वात्शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तरमुत्पद्यते ।

[१०८।०७-१०८।०८]
अनभिसंस्कारवाहित्वात्तस्मादेतानि नोत्पद्यन्ते ।

[१०८।०८-१०८।०९]
रूपावचरकिलष्टानन्तरं कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते ।

[१०८।०९]
पटुत्वात् ।

[१०८।०९-१०८।१०]
आरूप्यावचरक्लिष्टानन्तरं तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यतेऽपटुत्वादिति ॥

[१०८।११]
त्रयो मनस्काराः ॥
स्वलक्षणमनस्कारः ।

[१०८।११-१०८।१२]
तद्यथा “रूपणालक्षणं रूप”मित्येवमादि ।

[१०८।१२]
सामान्यलक्षणमनस्कारः ।
षोडशाकारसंप्रयुक्तः ।

[१०८।१२-१०८।१३]
अधिमुक्तिमनस्कारः ।

[१०८।१३-१०८।१४]
अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु ।

[१०८।१४-१०८।१६]
त्रिविधमनस्कारानन्तरमार्यमार्गं संमुखीकरोति तस्मादपि त्रिविधं मास्कारमेवं सति युतमिदं भवति “अशुभासहगतं स्मृतिसंबोध्यङ्ग भावयती”ति ।

[१०८।१६]
सामान्यमनस्कारानन्तरमेवार्यमार्ग संमुखीकरोति ।
तस्मात्तु त्रिविधमित्यपरे ।

[१०८।१७]
अशुभया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरं मार्गं संमुखीकरोति ।

[१०८।१८]
अतः पारंपर्यमभिसंधायोक्तम् “अशुभासहगतं स्मृतिसंवोध्यङ्गं भावयती”ति ।

[१०८।१९]
आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे ।

[१०८।१९-१०८।२१]
स्यात्तावदनागम्यादित्रिभूमिसंनिःश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं कामावचरं सामान्यमनस्कारं संमुखीकुर्याद् ।

[१०८।२१]
अथ द्वितीयादिध्यानसंनिःश्रयेण नियामा वक्रान्तौ कथम् ।

[१०८।२१-१०८।२२]
नहि कामावचरः शक्योऽतिविप्रकृष्टत्वात् ।

[१०८।२२-१०८।२३]
नच तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयात् ।

[१०८।२३]
नचार्यो निर्वेधभागीयं पुनः संमुखीकरोति ।

[१०८।२३-१०८।२४]
नहि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति अन्योऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति ।

[१०८।२५-१०८।२६]
तद्यथा “सर्वसंकारा अनित्याः सर्वधर्मा अनात्मानः शान्तं निर्वाण”मिति तत्संमुखी करिष्यति ।

[१०८।२६]
तदेतन्न वर्णयन्ति ।

[१०८।२६-१०८।२७]
अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं वा व्युत्थानं चित्तम् ।

[१०८।२७-१०८।२८]
आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा ।

[१०८।२८]
शेषासु स्वभूमिकमेव ।

[१०८।२८-१०८।२९]
कामधातौ त्रयो मनस्काराः श्रुतचिन्तामयोपपत्तिप्रतिलम्भिकाः ।

[१०८।२९]
भावनामयो नास्ति ।

[१०८।३०]
रूपधातौ त्रयः श्रुतभावनामयोपपत्तिप्रतिलम्भिकाः ।
चिन्तामयो नास्ति ।

[१०८।३०-१०८।३१]
यदा चिन्तमितुमारभन्ते तदैषां समाधिरेवोपतिष्ठते ।
[१०८।३१-१०९।०१]
आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ ।

[१०९।०१-१०९।०२]
तत्र पञ्चविधमनस्कारानन्तरमार्यमार्गसंमुखीभावोऽन्यत्रोपपत्तिप्रतिलभ्भिकेभ्यः ।

[१०९।०२]
प्रयोगप्रतिबद्धत्वात् ।

[१०९।०२-१०९।०३]
मार्गानन्तरं तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य संमुखीभावः ।

[१०९।०३]
पटुत्वादिति ॥

[१०९।०४]
यानि द्वादश चित्तानि उक्तान्येषां कतमस्मिंश्चित्ते कतीनां लाभः ।

[१०९।०५]
क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः

[१०९।०६]
कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभः ।

[१०९।०६-१०९।०७]
तैर्समन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसंधानाद्धातुप्रत्यागमनाच्च ।

[१०९।०८-१०९।०९]
अकुशलनिवृताव्याकृतयोः रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात्परिहाणितश्च ।

[१०९।०९]
आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शेक्षस्य च ।

[१०९।१०]

रूपावचरेऽपि क्लिल्ष्टे षण्णां लाभः ।

[१०९।१०-१०९।११]
रूपावचराणां त्रयाणां कामावचरस्य चानिवृताव्याकृतस्य धातुप्रत्यागमनात् ।

[१०९।११-१०९।१२]
आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च परिहाणितः ।

[१०९।१२]
आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभः ।

[१०९।१२-१०९।१३]
परिहाणितस्तस्यैव क्लिष्टस्य शैक्षस्य च ।

[१०९।१४]
शुभे ।

[१०९।१५]
त्रयाणां रूपजे

[१०९।१६-१०९।१७]
रूपावचरे कुशले त्रयाणां चित्तानां लाभस्तस्यैव कुशलस्य कामरूपावचरयोश्चानिवृताव्याकृतयोः ।

[१०९।१८]
शैक्षे चतुर्णां

[१०९।१९]
तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यावचारस्य च कुशलस्य ।

[१०९।२०]
आर्यमार्गेण कामरूपधातुवैराग्ये ।

[१०९।२१]
तस्य शेषिते ॥ २.७३ ॥

[१०९।२२]
शेषं कृतं शेषितम् ।

[१०९।२२-१०९।२३]
यत्र चित्ते लाभ्हो न व्याख्यातस्तत्र तस्यैव लाभो द्रष्टव्यो नान्यस्य ।

[१०९।२३]
अन्ये पुनरभेदेनाहुः ।

[१०९।२४-१०९।२५]
“क्लिष्टे चित्ते नवानां हि लाभः इत्युच्यते बुधैः ।
षण्णां तु कुशले चित्ते तस्यैवा व्याकृटे खलु ॥”

[१०९।२६]
तत्र सप्तानां कुशले चित्त इति वक्तव्यम् ।

[१०९।२६-११०।०२]
कामावचरस्य कुशलस्य सम्यग्दृष्ट्या कुशलमूलप्रतिसंधानात्कामरूपावचरयोरनिवृताव्याकृतयोर्वैराग्यतः रूपारूप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभतः शैक्षाशैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोः शेषमत एवव्याख्यानादवधार्यम् ।

[११०।०२]
संग्रहश्लोकः ।

[११०।०३-११०।०४]
“उपपत्तिसमापत्तिवैराग्यपरिहाणिषु ।
कुशलप्रतिसंधौ च चित्तलाभो ह्यतद्वतः” ॥

[११०।०४]
इति ।

[११०।०५]
॥समाप्तः प्रत्ययप्रसङ्गः ॥

=====================================================================

[११०।०६]
अभिधर्मकोशभाष्ये इन्द्रियनिर्द्देशो नाम

[११०।०७]
द्वितीयं कोशस्थानं

[११०।०८]
समाप्तमिति ।

=====================================================================

[११०।०९]
श्रीलामावाकस्य

=====================================================================

तृतीयं कोशस्थानम्

=====================================================================

[१११।०२]
ओं नमो दुद्धाय ।

[१११।०३]
इदमिदानीं वक्तव्यम् ।
कामरूपारूप्यनैयम्येन चित्तादीनां कृतो निर्देशः ।

[१११।०३-१११।०४]
तत्र कतमे ते कामरूपारूप्यधातव इत्युच्यते

[१११।०५]
नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः ।

[१११।०६]
कामधातुः

[१११।०७]
चतस्रो गतयः ।

[१११।०७-१११।०९]
षट्च देवनिकायास्तद्यथा चातुर्महाराजकायिका स्त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्त्तिनश्चेत्येष कामधातुः सह भाजनलोकेन ।

[१११।०९]
स एष कति स्थानानीत्याह

[१११।१०]
स नरकद्वीपभेदेन विंशतिः ॥ ३.१ ॥

[१११।११]
स्थानानीति वाक्यशेषः संबध्यते ।
अष्टौ महानरकाः ।

[१११।११-१११।१२]
संजीवः कालसूत्रः संघातो रौरवो महारौरवस्तपनः प्रतापनोऽवीचिश्चेति ।

[१११।१२]
चत्वारो द्वीपाः ।

[१११।१२-१११।१३]
जम्बूद्वीपः पूर्वविदेहोऽवरगोदानीयः उत्तरकुरुश्च ।

[१११।१३-१११।१४]
षट्चानन्तरोक्ता देवनिकायाः तिर्यश्चः प्रेताश्च विंशतिः स्थानानि ।

[१११।१४-१११।१५]
कामधातुः परनिर्मितवशवर्तिभ्यो यावदवीचिः सभाजनग्रहणेन तु यावद्वायुमण्डलम् ।

[१११।१५]
एतस्माच्च कामधातोः

[१११।१६]
ऊर्ध्वं सप्तदशस्थानो रूपधातुः

[१११।१७]
कथमित्याह

[१११।१८]
पृथक्पृथक्

[१११।१९]
ध्यानं त्रिभूमिकं तत्र

[१११।२०]
प्रथमद्वितीयतृतीयध्यानानि प्रत्येकं त्रिभूमिकानि ।

[१११।२१]
चतुर्थं त्वष्टभूमिकम् ॥ ३.२ ॥

[१११।२२]
तत्र प्रथमध्यानं ब्रह्मकायिका ब्रह्मपुरोहिताः महाब्रह्माणः ।

[१११।२२-१११।२३]
द्वितीयं परीत्ताभा अप्रमाणाभा आभास्वराः ।

[१११।२३-१११।२४]
तृतीयं परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः ।

[१११।२४-१११।२५]
चतुर्थमनभ्रकाः पुण्यप्रसवाः बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा इत्येतानि सप्तदश स्थानानि रूपधातुः ।

[१११।२५-१११।२६]
सह तन्निवासिभिः सत्त्वैः षोडशेति काश्मीराः ।

[१११।२६-१११।२७]
ब्रह्मपुरोहितेष्वेव किल स्थानमुत्कृष्टतरं महाब्रह्मणः परिगण इवाभिनिर्वृत्तमेकनायकं नतु भूम्यन्तरमिति ।

[११२।०१]
आरूप्यधातुरस्थानः

[११२।०२]
नह्यरूपिणां धर्मानां स्थानमस्ति ।

[११२।०२-११२।०३]
अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा आदेशस्था इति नियमः ।

[११२।०३]
स तु

[११२।०४]
उपपत्त्या चतुर्विधः ।

[११२।०५]
उपपत्तिभेदेन चतुर्विध आरूप्यधातुः ।

[११२।०५-११२।०६]
यदुत आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवराञ्ज्ञानासंज्ञायतनमिति ।

[११२।०६]
नत्वेषां देशकृतमौत्तराधर्य भिद्यते ।

[११२।०७]
यत्रैव हि देशे तत्स्मापत्तिलाभिनश्च्यवन्ते तत्रैवोपपद्यन्ते इति ।

[११२।०७-११२।०८]
पुनश्च तस्माच्च्यवमानानां तत्रैवान्तराभवोऽभिनिर्वर्त्तते ।

[११२।०९-११२।१०]
यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते चित्तसंततिरेवमारूप्येषु किं निश्रित्य प्रव्र्त्तते ।

[११२।११]
निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः ॥ ३.३ ॥

[११२।१२]
निकायसभागं जीवितेन्द्रियं च निश्रित्येत्याभिधार्मिकाः ।

[११२।१३]
रुपिणामपि तर्हि सत्त्वानां किमर्थ न तदेव द्वयं निश्रित्य प्रवर्त्तते चित्तसन्ततिः ।

[११२।१४]
दुर्बलत्वात् ।
तस्याः केन बलवत्त्वम् ।
समापत्तिविशेषजत्वात् ।

[११२।१४-११२।१५]
सा हि समापत्तिर्विभूतरूपसंज्ञा ।

[११२।१५]
तत एव तर्हि बलवत्त्वात्प्रवर्त्तिष्यते किं पुनर्निश्रयेण ।

[११२।१५-११२।१६]
इदं चापि वक्तव्यम् ।

[११२।१६-११२।१७]
यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते निकायसभागो जीवितेन्द्रियं च एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवर्त्तते ।

[११२।१७]
तदेव द्वयमन्योऽन्यम् ।

[११२।१८]
रूपिणामपि तर्हि किमर्थं न तदेव द्वयमन्योन्यम् ।
दुर्बलत्वात्तयोः ।

[११२।१८-११२।१९]
तत्रेदानीं केन बलवत्त्वाम् ।

[११२।१९]
समापत्तिविशेषजत्वात् ।

[११२।१९-११२।२०]
तदेतच्चित्तसन्ततौ समानं चित्तचैत्तेषु वा ।

[११२।२०-११२।२१]
तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्यं निश्रय इति सौत्रान्तिकाः ।

[११२।२१-११२।२३]
अपि तु यस्याश्चित्तसन्ततेराक्षेपहेतुरवीततृष्णो रूपे तस्याः सह रूपेण संभवाद्रूपं निश्रित्य प्रवृत्तिर्यस्यास्तु हेतुर्वीततृष्णो रूपे तस्या अनपेक्ष्य रूपं प्रवृत्तिः ।

[११२।२३]
हेतोस्तद्विमुखत्वादिति ।

[११२।२४]
अथ कस्मादेते कामरूपारूप्यधातव इत्युच्यन्ते ।
स्वलक्षणधारणाद्धातुः ।

[११२।२५-११२।२६]
कामप्रतिसंयुक्तोधातुः कामधातुः रूपप्रतिसंयुक्तो धातू रूपधातुर्मध्यपदलोपाद्वज्रबालकवत्मरिचपानकवच्च ।

[११२।२६]
नात्र रूपमस्तित्यरूपः ।

[११२।२७]
अरूपस्य भाव आरुप्यम् ।
रूपणीयो वा रूप्यः ।

[११२।२७-११२।२८]
न रूप्योऽरूप्यस्तद्भाव आरूप्यम् ।

[११२।२८]
तत्प्रतिसंयुक्तो धातुरारूप्यधातुः ।

[११२।२८-११३।०१]
कामानां धातुः कामधातुः कामान् यो दधाति ।

[११३।०१]
एवं रूपारूप्यधातू वेदितव्यौ ।
कोऽयं कामो नाम ।

[११३।०१-११३।०२]
समासातः कवडीकाराहार मैथुनोपसंहितो रागः ।

[११३।०३-११३।०४]
“न ते कामा यानि चित्राणि लोके संकल्परागः पुरुषस्य कामः ।
तिष्ठन्ति चित्राणि तथैव लोके अठात्र धीरा विनयन्ति कामम्” ॥
इति

[११३।०५]
गाथाभिधानान् ।
अजीवक आर्यशारिपुत्रं प्रत्याह

[११३।०६-११३।०७]
“न ते कामा यानि चित्राणि लोके संकल्परागं वदसीह कामम् ।
भिक्षुर्भविष्यत्यपि कामभोगी संकल्पयन् सोऽकुशलान् वितर्कान्” ।

[११३।०८]
आर्यशारिपुत्र आह

[११३।०९-११३।१०]
ते चेत्कामा यानि चित्राणि लोके संकल्परागो यदि ते न कामः ।
शास्ताऽपि ते भविता कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि”॥

[११३।११-११३।१२]
किं पुनर्ये केचन धर्माः कामरूपारुप्यधातुषु समुदाचरन्ति सर्वे ते कामरूपारूप्यप्रतिसंयुक्ताः ।

[११३।१२]
नेत्याह ।
किं तर्हि ।
येषु कामरूपारुप्यरागा अनुशेरते ।

[११३।१३]
के पुनरमी कामरूपारूप्यरागाः ।

[११३।१३-११३।१४]
ये कामरूपारूप्यधातुष्वनुशेरते ।

[११३।१४]
इदमिदानीं तदश्ववन्धीयम् ।
कस्यायमश्वबन्धो यस्यायमश्वः ।

[११३।१४-११३।१५]
कस्यायमश्वः ।

[११३।१५]
यस्यायमश्वबन्धः ।
इत्युभयमपि न ज्ञायते ।
नेदमश्वबन्धीयम् ।

[११३।१५-११३।१६]
कृतनिर्देशानि हि स्थानानि कामधातौ ।

[११३।१६]
तेष्ववीतरागस्य यो रागः स कामरागः ।

[११३।१७]
यत्रानुशेते सोऽपि धर्मः कामप्रतिसंयुक्तः ।

[११३।१७-११३।१८]
एवं रूपारूप्यरागावधोवीतरागस्य यथायोगं वेदितव्यौ ।

[११३।१८]
असमाहितभूमिको वा रागः कामरागः ।

[११३।१८-११३।१९]
ध्यानारूप्येषु रागो रूपारूप्यरागः ।

[११३।१९]
निर्माणचित्ते कथं कामरागः ।

[११३।१९-११३।२०]
श्रुत्वा परिहाय च तदास्वादनात् ।

[११३।२०]
निर्माणवशेन वा निर्मायक चित्तोऽपि रागः ।
गन्धरसनिर्माणाद्वा ।

[११३।२१]
तस्य कामवचरत्वम् ।
रूपावचरेण तयोरनिर्माणात् ।
किं पुनरेकमेव त्रैधातुकम् ।

[११३।२२]
त्रैधातुकानामन्तो नास्ति ।
यावदाकाशं तावन्तो धातवः ।

[११३।२२-११३।२३]
अथ एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः ।

[११३।२३-११३।२४]
प्रतिबुद्धोत्पादं चासंख्येयसत्त्वपरिनिर्वाणेऽपि नास्ति सत्त्वानां परिक्षय आकाशवत् ।

[११३।२५]
कथमवस्थानं लोकधतूनाम् ।

[११३।२५-११३।२७]
तिर्यक्सूत्र उक्तं तद्यथा “ईषाधारे देवे वर्षति नास्ति वीचिर्वा अन्तरिका व अन्तरीक्षाद्वारिधाराणां प्रपतन्तीनाम् ।

[११३।२७-११३।२८]
एवं पूर्वस्यां दिशि नास्ति वीचिर्वा अन्तरिका वा लोकधातूनां संवर्त्तमानानां विवर्त्तमानां च ।

[११३।२८-११३।२९]
यथा पूर्वस्यां दिशि एवं दक्षिणास्यां पश्चिमायामुत्तरस्यामि”ति ।

[११३।२९]
नतूक्तमूर्ध्वमधश्चेति ।

[११४।०१]
ऊर्ध्वमप्यध्होऽपीत्यपरे ।
निकायान्तरपाठाद् ।
अकनिष्ठादूर्ध्वं पुनः कामधातुः ।

[११४।०२]
कामधातोश्चाधः पुनरकनिष्ठाः ।
यश्चैकस्मात्कामधातोर्वीतरागः स सर्वेभ्यः ।

[११४।०३]
एवं रूपारूप्येभ्यः ।

[११४।०३-११४।०४]
यश्च प्रथमध्यानसंनिश्रयाद्धि उत्पादयति स यत्र लोकधातौ जात उत्पादयति तत्रत्यमेव ब्रह्मलोकमुपागच्छति नान्यम् ।

[११४।०४-११४।०५]
य एते त्रयो धातव उक्ताः ।

[११४।०६]
नरकादिस्वनामोक्ता गतयः पञ्च तेषु

[११४।०७]
नरकास्तिर्यञ्चः प्रेता देवा मनुष्या इति ।

[११४।०७-११४।०८]
स्वैरेव नामभिस्तेषु पञ्च गतयः प्रोक्ताः ।

[११४।०८]
कामधातो चतस्रो गतयः पञ्चम्याश्च प्रदेशः ।

[११४।०८-११४।०९]
रूपारूप्यधात्वोरेकस्या देवगतेः प्रदेशः ।

[११४।०९]
किं पुनर्गतिनिर्मुक्ताः सन्ति धातवो यत धातुष्वित्युच्यन्ते ।

[११४।१०]
सन्ति कुशलक्लिष्टभाजनान्तराभवस्वभावा अपि धातवः ।
यास्तु पञ्च गतयः ।

[११४।११]
ताः ।

[११४।१२]
अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः ॥ ३.४ ॥

[११४।१३]
अनिवृताव्याकृता एव गतयः ।
अन्यथा हि गतिसंभेदः स्यात् ।

[११४।१३-११४।१४]
सत्त्वाख्या एव च नचान्तराभवस्वभावाः ।

[११४।१४-११४।१५]
प्रज्ञ्यप्तिपूक्तम् “चतसृभिर्योनिभिः पञ्च गतयः संगृहीता नतु पञ्चभिर्गतिभिश्चतस्रो योनयः ।

[११४।१५]
किमसंबृहीतम् ।

[११४।१६]
अन्तराभव” इति ।
धर्मस्कन्धेऽपि चोक्तम् “चक्षुर्धातुः कतमः ।

[११४।१६-११४।१८]
चत्वारि महाभूतान्युपादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुनरिकस्तैर्यग्योनिकं पैतृविषयिको देव्यो मानुष्यको भावनामयोऽन्तराभविकश्चे”ति ।

[११४।१८-११४।१९]
सूत्रेऽपि च बहिष्कृतोऽन्तराभवो गतिभ्यः ।

[११४।१९]
कस्मिन् सूत्रे ।

[११४।१९-११४।२०]
“सप्त भवा नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवोऽन्तराभव” इति ।

[११४।२०-११४।२१]
अत्र हि पञ्च गतयः सहेतुकाः सहागमनाश्चोक्ताः ।

[११४।२१]
अथ एव चानिवृताव्याकृताः सिध्यन्ति ।

[११४।२२]
तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् ।
काश्मीराश्च सूत्रं पठन्ति ।

[११४।२२-११४।२४]
स्थविरशारिपुत्रेणोक्तं “नारकाणामायुष्मन्नास्रवाणां संमुखीभावान्नरकवेदनीयानि कर्माणि करोत्युपचिनोति ।

[११४।२४-११४।२५]
तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणा नरकेषु रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते ।

[११४।२६-२२४।२६]
निर्वृत्ते विपाके नारक इति संख्यां गच्छति ।

[११४।२६-११४।२७]
तत्रायुष्मन्नारको नोपलभ्यतेऽन्यत्र तेभ्यो धर्मेभ्य” इति ।

[११४।२७]
अतोऽप्यनिवृताव्याकृता एव गतयः ।

[११४।२७-११५।०१]
प्रकरणाग्रन्थस्तर्हि परिहार्यो “गतिषु सर्वेऽनुशया अनुशेरत” इति ।

[११५।०१-११५।०२]
प्रतिसंधिचित्तानि हि गतीनां पञ्चप्रकाराणि सन्त्यतः सप्रवेशगतिग्रहणाददोष एव ।

[११५।०२-११५।०३]
ग्रामग्रहणे ग्रामोपचार ग्रहणवत् ।

[११५।०३]
कुशलक्लिष्टा अपीत्यपरे ।

[११५।०३-११५।०४]
यक्तूक्तम् “कर्मभवस्य ताभ्यो बहिष्करणा”दिति ।

[११५।०४]
नावश्यं पृथग्वचनाद्बहिष्कृतो भवति ।

[११५।०४-११५।०५]
तद्यथा पञ्चसु कषायेषु क्लेशदृष्टिकषायौ पृथगुक्तौ ।

[११५।०५]
न च दृष्टयो न क्लेशाः ।

[११५।०५-११५।०६]
एवं कर्मभवोऽपि गतिश्च स्यात् ।

[११५।०६]
पृथक्चास्य वचनं स्यात्गतिहेतुज्ञापनाऋथम् ।

[११५।०७]
अन्तराभवेऽप्येष प्रसङ्गः ।
नायोगात् ।
गच्छन्ति तामिति गतिः ।

[११५।०७-११५।०८]
नचान्तराभवो गन्तव्यश्च्युतिदेश एवोत्पादनात् ।

[११५।०८]
आरूप्या अपि गतिर्न भविष्यन्ति ।

[११५।०९-०१५।०९]
च्युतिदेश एवोत्पादात् ।

[११५।०९-११५।१०]
एवं तर्ह्यन्तराभवत्वादेवान्तराभवो न गतिर्गत्यन्तरालत्वात् ।

[११५।१०]
यदि हि गतिः स्यादन्तराभव इत्येव न स्यात् ।

[११५।१०-११५।११]
यतर्हि स्थविरशारिपुत्रेणोक्तं “निर्वृत्ते विपाके नारक इति संख्यां गच्छती”ति ।

[११५।११-११५।१२]
निर्वृत्ते वीपाक इत्युक्तः नतु विपाक एवेति ।

[११५।१२-११५।१३]
यत्तर्ह्यक्तं “तत्रायुष्मन्नारको नोपलभ्यतेऽन्यत्र तेभ्यो धर्मेभ्य” इति ।

[११५।१३-११५।१४]
गतिगामिनः पुद्गलद्रव्यस्य प्रतिषेधं करोति नान्यत्र स्कन्धेभ्य उपलभ्यते नारक इति न तु स्कन्धान्तरप्रतिषेधम् ।

[११५।१४-११५।१५]
अव्याकृता एव तु गतयो वर्ण्यन्ते वैभाषिकैः ।

[११५।१५]
ताश्च विपाकस्वभावा एवेत्येके ।

[११५।१५-११५।१६]
औपचयिकस्वभावा अपीत्यपरे ।

[११५।१७]
अत्रैव पञ्चगतिके धातुत्रये यथाक्रमं वेदितव्याः

[११५।१८]
नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः ।

[११५।१९]
विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः ॥ ३.५ ॥

[११५।२०]
विज्ञानस्थितयः सप्त

[११५।२१-११५।२२]
सूत्रे उक्तः “रुपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथामनुष्यास्तदेकत्याश्च देवाः ।

[११५।२२]
इयं प्रथमा विज्ञानस्थितिः ।
कतमे पुनस्ते तदेकत्या देवाः ।

[११५।२३]
कामावचराः प्रथमघ्यानभूमिकाश्च प्रथमाभिनिर्वृत्तवर्ज्याः” ।

[११५।२३-११५।२४]
नानात्वेन काय एषामिति नानात्वकायाः ।

[११५।२४]
अनेकवर्णलिङ्गसंस्थानत्वात् ।

[११५।२४-११५।२५]
नानात्वेन संज्ञा नानात्वसंज्ञा ।

[११५।२५-११५।२४]
सैषामस्तीति नानात्वसंज्ञिनः ।

[११५।२५]
सुखदुःखादुःखासुखसंज्ञित्वात् ।

[११५।२५-११५।२७]
रूपिणः सन्ति नानात्वकाया एकत्वसंज्ञिनस्तद्यथा देवा ब्रह्मकायिका ये तत्प्रथमाभिनिर्वृत्ताः ।

[११५।२७]
इयं द्वितीया विज्ञानस्थितिः ।

[११५।२७-११५।२८]
ते हि प्रथमाभिनिर्वृत्ताः सर्व एकैकसंज्ञिनो भवन्ति अनेन वयं ब्रह्मणा सृष्टा इति ।

[११५।२८-११५।२९]
ब्रह्मणोऽप्येवं भवति मयैते सृष्टा इत्यभिन्नकारसंज्ञानादेकत्वसंज्ञिनः ।

[११५।२९-११५।३१]
अन्यथैव तु महाब्रह्मण आरोहपरिणाह आकृतिविग्रहो वाग्भाषा चीवरधारणं च अन्यथा तत्पर्षद इति नानात्वकायाः ।

[११५।३१-११६।०२]
यदिदमुक्तं सूत्रे “तेषामेवं भवति इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तं यावदहो वतान्येऽपि सत्त्वा इहोपपद्येरन्मम सभामतायामि”ति ।

[११६।०२]
अस्य च सत्त्वस्यैवञ्चेतसः प्रणिधिर्वयं चेहोपपन्ना इति ।

[११६।०२-११६।०३]
कथं तमद्राक्षुः ।

[११६।०३]
आभास्वरस्था इत्येके ।

[११६।०३-११६।०५]
ततो हि ते प्रच्युताः कथमिदानीमलब्धायां द्वितीयध्यानसमापत्तौ तद्भूमिकं पूर्वेनिवासमस्मार्षुः लब्धायां वा कथं महाब्रह्मालम्बनां शीलव्रतपरामर्शदृष्टिं निविष्टाः ।

[११६।०५]
अन्तराभवस्था अद्राक्षुरित्यपरे ।

[११६।०६]
तत्रापि न दीर्घमध्वानमवस्थातुं संभवः प्रतिबन्धाभावादिति ।

[११६।०६-११६।०७]
कथं तेषामेवं भवति स्म “इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तमि”ति ।

[११६।०८-११६।०९]
तस्मात्तत्रस्था एव ते तस्य पूर्ववृत्तान्तं समनुस्मरन्त एव दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तो दृष्ट्वा च पश्चादद्राक्ष्मेत्येषां बभूव ।

[११६।०९-११६।१०]
रुपिणः सन्ति सत्त्वा एकत्वकाया नानात्वसंज्ञिनस्तद्यथा देवा आभास्वराः ।

[११६।१०]
इयं तृतीया विज्ञानस्थितिः ।

[११६।१०-११६।११]
अत्र पुनः पर्यन्तग्रहणात्सकलद्वितीयध्यानग्रहणं वेदितव्यम् ।

[११६।११-११६।१२]
अन्यथा हि परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् ।

[११६।१२-११६।१३]
तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः ।

[११६।१३]
सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च नानात्वसंज्ञिनः ।

[११६।१४-११६।१५]
ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं संमुखीभवन्ति ।

[११६।१५-११६।१६]
सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनमौल्या भुमेः सौमनस्येन्द्रियं संमुखीकुर्वन्ति ।

[११६।१६-११६।१७]
यथा कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति धर्मरतिपरिखिन्नाः कामरतिमिति ।

[११६।१७]
ननु च शुभकृत्स्नेष्वप्येष प्रस्ङ्गः ।

[११६।१७-११६।१८]
न तेषां तेन सुखेनास्ति परिखेदः ।

[११६।१८]
किं कारणम् ।

[११६।१८-११६।१९]
शान्तं हि तत्सुखमशान्तं च सौमनस्यं चेतस उत्प्लावकत्वादिति सौत्रान्तिका व्याचक्षते ।

[११६।१९-११६।२०]
सूत्र उक्तं “यथा ते नानात्वसंज्ञिनः ।

[११६।२०-११६।२२]
तत्र ये सत्त्वा आभास्वरे देवनिकायेऽचिरोपपन्ना भवन्ति नैव संवर्त्तनीकुशला न विवर्त्तनीकुशला अस्य लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्त उद्विजन्ते संवेगमापद्यन्ते ।

[११६।२२]
सहैवैषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽर्वागागमिष्यतीति ।

[११६।२३-११६।२४]
तत्र ये सत्त्वा आभास्वरे देवनिकाये चिरोपपन्नाः संवर्त्तनीकुशला विवर्त्तनीकुशलाश्चास्य लोकस्य ते तान् सत्त्वान् भीतानाश्वासयन्ति ।

[११६।२४-११६।२५]
मा भैष्ट माऋषाः मा भैष्ट मार्षाः ।

[११६।२५]
पूर्वमप्येषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽत्रैवान्तर्हिते”ति ।

[११६।२६-११६।२७]
अतोऽर्चिष आगमव्यपगमसंज्ञित्वात्भीता भीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वादिति ।

[११६।२७-११६।२८]
रूपिणः सन्ति सत्त्वा एकत्वकाया एकत्वसंज्ञिनस्तद्यथा देवाः शुभकृत्स्नाः ।

[११६।२८]
इयं चतुर्थी विज्ञानस्थितिः ।

[११६।२८-११७।०१]
तत्राभिन्नवर्णसंस्थानलिङ्गत्वादेकत्वकायाः ।

[११७।०१]
एकत्वसंज्ञिनः सुखसंज्ञित्वात् ।

[११७।०१-११७।०२]
तत्र प्रथमे ध्याने क्लिष्टया संज्ञया एकत्वसंज्ञिनः ।

[११७।०२-११७।०३]
द्वितीये कुशलया संज्ञया नानात्वसंज्ञिनस्तृतीये विपाकजया संज्ञयाएकत्वसंज्ञिनः ।

[११७।०३-११७।०४]
आरुप्यास्त्रयो यथासूत्रमित्येताः सप्त विज्ञानस्थितयः ।

[११७।०४]
काऽत्र विज्ञानस्थितिः ।

[११७।०४-११७।०५]
तत्प्रतिसंयुक्ताः पञ्च स्कन्धाश्चत्वारश्च यथायोगम् ।

[११७।०५]
शेषं कस्मान्ना विज्ञानस्थितिः ।

प्[११७०५]
यस्मात्

[११७।०६]
शेषं तत्परिभेदवत् ।

[११७।०७]
किं पुनः शेषम् ।
दुर्गतयश्चतुर्थ ध्यानं भवग्रं च ।

[११७।०७-११७।०८]
अत्र हि विज्ञानपरिभेदाः सन्त्यत एव न विज्ञानस्थितिः ।

[११७।०८]
कः पुनः परिभेदः येन विज्ञानं परिभिद्यते

[११७।०८-११७।०९]
तत्रापायेषु दुःखा वेदना परिभेद उपधातिदत्वात् ।

[११७।०९]
चतुतें ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च ।

[११७।१०]
भवाग्रे निरोधसमापत्तिश्चित्तसन्ततिच्छेदात् ।
पुनराह ।

[११७।१०-११७।११]
यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाव्युच्चलितुकामताऽसौ विज्ञानस्थितिरुक्ता ।

[११७।११-११७।१२]
अपायेषु चोभयं नास्हि ।

[११७।१२-११७।१३]
चतुर्थे ध्याने सत्त्वा उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामा आर्याः शुद्धावासान् भवाग्रानपटुप्रचारत्वान्न विज्ञानस्थितिरिति ।

[११७।१४]
एताश्च सप्त विज्ञानस्थितयो यथोक्ताः ।

[११७।१५]
भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः ॥ ३.६ ॥

[११७।१६]
एषु हि सत्त्वा आवसन्ति स्वेच्छया ।

[११७।१७]
अनिच्छावसनान्नान्ये

[११७।१८]
के पुनरन्ये ।
अपायाः ।
तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते ।

[११७।१९]
नत्विच्छया वसन्ति ।
अतस्तेन सत्त्वावासा बन्धनस्थानवत् ।

[११७।१९-११७।२०]
अन्यत्र सूत्रे सप्त विज्ञानस्थितय उक्ताः अन्यत्र

[११७।२१]
चतस्रः स्थितयः पुनः ।

[११७।२२]
कतमाश्चतस्रः ।
रूपोपगा विज्ञान स्थितिर्वेदनोपगा संज्ञोपगा संस्कारोपगा इति ।

[११७।२३]
तासां कः स्वभावः ।
ता हि यथाक्रमम् ।

[११७।२४]
चत्वारः सास्रवाः स्कन्धाः

[११७।२५]
ते पुनः

[११७।२६]
स्वभूमावेव

[११७।२७]
नान्यत्र भूमौ ।
किं कारणम् ।
प्रतिष्टा हि स्थितिः ।

[११७।२७-११७।२८]
न च विसभागभूमिकेषु स्कन्हेषु विज्ञानं तृष्णावशात्प्रतितिष्ठतीति ।

[११७।२८-११७।२९]
कस्मान्न विज्ञानं विज्ञानस्थितिरुच्यते यथा सप्तसु विज्ञानस्थितिषु पञ्च स्कन्धा इति ।

[११७।२९]
स्थातुः परिहारेण स्थितिविधानात् ।

[११८।०१]
नहि स्थातैव स्थितिरुच्यते ।

[११८।०१-१२८।०१]
यथा न राजैव राजासनमिति ।

[११८।०१-११८।०२]
यांश्च धर्मानभिरुह्य विज्ञानं वाहयति नौनाविकन्यायेन ते धर्मा विज्ञानस्थितय उक्ताः ।

[११८।०३]
नतु विज्ञानं विज्ञानमेवारुह्य वाहयत्यतो नोक्तमिति वैभाषिकाः ।

[११८।०३-११८।०४]
यत्तर्हि सूत्र उक्तं “विज्ञाने आहारे अस्ति नन्दी अस्ति राग इति ।

[११८।०४-११८।०५]
यत्रास्ति नन्दी अस्ति रागः प्रतिष्ठितं तत्र विज्ञानमधिरूढमि”ति ।

[११८।०५]
तत्कथम् ।

[११८।०५-११८।०६]
“सप्त च विज्ञानस्थितयः पञ्चस्कन्धसंगृहीता” इति तत्कथम् ।

[११८।०६-११८।०७]
एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः ।

[११८।०७-११८।०८]
प्रत्येकं तु यथा रूपादयो विज्ञानस्य संक्लेशाय भवन्ति ।

[११८।०८]
तस्माच्चतसृषु विज्ञानस्थितिषु

[११८।०९]
केवलम् ॥ ३.७ ॥

[११८।१०]
विज्ञानं न स्थितिः प्रोक्तं

[११८।११]
अपि च क्षेत्रभावेन भगवता चतस्रो विज्ञानस्थितयो देशिताः ।

[११८।११-११८।१३]
वीजभावेन च सोपादानं विज्ञानं कृत्स्नमेवेति न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयांबभूवेत्यभिप्रायं परिकलपयामास ।

[११८।१३-११८।१४]
ये धर्माः सहवर्त्तिनो विज्ञानस्य तेऽस्य क्षेत्रभावेन साधीयांसो भवन्तीति त एवास्य स्थितय उक्ताः ।

[११८।१५-११८।१६]
अथ कथं सप्तभिर्विज्ञानस्थितिभिश्चतस्रो विज्ञानस्थितयः संगृहीताश्चातसृभिर्वा सप्त ।

[११८।१६]
नैव हि सप्तभिश्चतस्रो नापि चतसृभिः सप्त ।

[११८।१७]
चतुष्कोटि तु संग्रहे ।

[११८।१८]
संग्रहे विचार्यमाणे चतुष्कोटिकं वेदितव्यम् ।

[११८।१८-११८।१९]
स्यात्सप्तभिः संगृहीतं न चतसृभिरित्येवमादि ।

[११८।१९]
प्रथमाः कोटिः सप्तसु यद्धिज्ञानम् ।

[११८।१९-११८।२०]
द्वितीया अपायेषु चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः ।

[११८।२०-११८।२१]
तृतीया सप्तसु चत्वारः स्कन्धाश्चतुर्थ्येतानाकारान् स्थापयित्वा ।

[११८।२२]
यच्चैतत्गत्यादिभेदभिन्नं त्रैधातुकमुक्तं वेदितव्याः ।

[११८।२३]
चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः ॥ ३.८ ॥

[११८।२४]
अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः ।
योनिर्नाम जातिः ।

[११८।२५]
युवान्त्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः ।
अण्डजा योनिः कतमा ।

[११८।२६]
ये सत्त्वा अण्डेभ्यो जायन्ते ।
तद्यथा हंसक्रोञ्चचक्रवाकमयूरशूकशारिकादयः ।

[११८।२७]
जरायुजा योइः कतमा ।
ये सत्त्वा जरायोर्जायन्ते ।

[११८।२७-११८।२८]
तद्यथा हस्त्यश्वगोमहिषखरवराहादयः ।

[११८।२८]
संस्वेदजा योनिः कतमा ।

[११८।२८-११८।२९]
ये सत्त्वा भूसंस्वेदाज्जायन्ते ।

[११८।२९]
तद्यथा कृमिकीटपतङ्गमशकादयः ।
उपपादुका योनिः कतमा ।

[११९।०१]
ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः सकृदुपजायन्ते ।

[११९।०१-११९।०२]
अत एव उपपदने (रेअद्: उपपादने) साधुकारित्वादुपपादुका इत्युच्यन्ते ।

[११९।०२]
तद्यथा देवनारकान्तराभविकादयः ।

[११९।०३]
अथ कस्यां गतौ कति योनयः संविद्यन्त इत्याह

[११९।०४]
चतुर्धा नर तिर्यञ्चः

[११९।०५]
मनुष्याश्चतुर्विधाः ।

[११९।०५-११९।०७]
अण्डजास्तावद्यथा क्रोञ्चीनिर्यातौ शैलोपशैलौ स्थविरौ मृगारमातुश्च द्वात्रिंशत्पुत्राः पञ्चालराजस्य च पञ्च पुत्रशतानि ।

[११९।०७]
जरायुजा यथेदानीम् ।

[११९।०७-११९।०८]
संस्वेदजास्तद्यथा मान्धातुचारुश्पचारूपचारुकपोतमालिन्याम्रपाल्यादयः ।

[११९।०८]
उपपादुकाः पुनः प्राथमकल्पिकाः ।

[११९।०८-११९।०९]
एवं तिर्यञ्चोऽपि चतुर्विधाः ।

[११९।०९]
त्रिविधा दृश्यन्त एव ।
उपपादुकास्तु नागसुपर्णि प्रभृतयः ।

[११९।१०]
नारका उपपादुकाः ।

[११९।११]
अन्तराभवदेवाश्च

[११९।१२]
सर्वे नारका अन्तराभविकाः देवाश्चोपपादुका एव ।

[११९।१३]
प्रेता अपि जरायुजाः ॥ ३.९ ॥

[११९।१४]
अपिशब्दादप्युपपादुका इति ।
आयुष्मते महामौद्गल्यायनाय प्रेती निवेदयते

[११९।१५]
“पञ्च पुत्रानहं रात्रौ दिवा पञ तथा परान् ।

[११९।१६]
भक्षयामि जनित्वा तान्नास्ति तृप्तिस्तथापि मे ॥”

[११९।१७]
कतमा योनिः सर्वसाध्वी ।
उपपादुका ।

[११९।१७-११९।१८]
अथ किमर्थं चरमभविको बोधिसत्त्वः प्राप्तोपपत्तिवशित्वेऽपि जरायुर्जां योर्नि भजते ।

[११९।१८-११९।१९]
एवं हि क्रियमाणे महान्तमर्थं पश्यति ।

[११९।१९-११९।२१]
ज्ञातिसंबन्धेन महतः शाक्यवंशस्य धर्मेऽवतरणार्थं चक्रवर्त्तिवंश्योऽयमिति चान्येषां बहुमानादरावर्जनार्थं मनुष्यभूता अपि चैनां सिद्धिं गच्छन्तीति विनेयाना मुत्साहार्थम् ।

[११९।२१-११९।२३]
इतरथा ह्यप्रज्ञायमानकुलगोत्रः कोऽप्ययं मायापुरुष इत्येवं परिकल्पयेयुर्देवः पिशाच इति वा यथाऽन्यतीर्थ्या अपभाषन्ते कल्पशतस्यात्ययादेवंविधो मायावी लोके प्रादुर्भूय मायया लोकं भक्षयतीति ।

[११९।२४]
अपरे त्वाहुः ।

[११९।२४-११९।२६]
शरीरधातूनामवस्थापनार्थं येषुमनुष्या अन्ये च प्रजां विज्ञाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां बाह्यबीजाभावान्मृतानां कायो नावतिष्ठते निशान्त इव तैलप्रद्योतोऽन्तर्धीयते ।

[११९।२६-११९।२७]
आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एक्ष परिहारः ।

[११९।२७]
प्रश्नात्प्रश्नान्तरमुपजायते ।

[११९।२७-१२०।०२]
यद्यप्युपपादुकानां कायनिधनं न प्रज्ञयते कथमुक्तं सूत्रे “उपपादुकः सुपर्णी उपपादुकं नागमुद्धरति भक्षार्थमि”ति ।

[१२०।०२]
नोक्तं भक्षयतीत्यपि तूद्धरति भक्षार्थमज्ञत्वादित्यदोषः ।

[१२०।०२-१२०।०३]
भक्षयति वा यावन्न मृतो भवति न पोउन्र्मृतस्यास्य तृष्यतीति ।

[१२०।०४]
कतमा योनिः सर्ववह्वी ।
उपपादुकैव ।

[१२०।०४-१२०।०५]
सा हि द्विगती तिसृणां च प्रदेशः सर्वे चान्तराभाविका इति ।

[१२०।०६]
कोऽयमस्तराभावो नाम ।

[१२०।०७]
मृत्यूपपत्तिभवयोरन्तरा भवतीह वः ।

[१२०।०८-१२०।०९]
मरणभवस्योपपत्तिभवस्य चान्तरा य आत्मभावोऽभिनिर्वर्त्तते देशान्तरोपपत्तिसम्प्राप्तये सोऽन्तराभव इत्युच्यते ।

[१२०।०९]
गत्यन्तरालत्वात् ।

[१२०।०९-१२०।१०]
कथमयं जातश्च नाम नचोपपन्नो भवति ।

[१२०।११]
गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः ॥ ३.१० ॥

[१२०।१२]
उपपत्तिगतो ह्युपपन्न इत्युच्यते ।
पदेर्गत्यर्थत्वात् ।

[१२०।१२-१२०।१३]
नचायं गम्यदेशमुपगतोन्तराभवस्तस्मान्नोपपन्नः ।

[१२०।१३]
कः पुनरसौ देशो गन्तव्यः ।

[१२०।१३-१२०।१४]
यत्राक्षिप्तस्य वीपाकस्याभिव्यक्तिः समाप्तिश्च ।

[१२०।१४-१२०।१५]
विच्छिन्न एवोपपत्तिभवो मरणभवात्संभवतीति निकायान्तरीयाः ।

[१२०।१५]
तदेतन्नेष्यते ।
किं कारणम् ।
युक्तितश्च आगमतश्च ।

[१२०।१५-१२०।१६]
तत्र तावत्युक्तिं निश्रित्योच्यते ।

[१२०।१७]
व्रीहिसन्तानसाधर्म्वादविच्छिन्नभवोद्भवः ।

[१२०।१८-१२०।१९]
सन्तानवर्त्तिनां हि धर्माणामविच्छेदेन देशान्तरेषु प्रादुर्भावो दृष्टस्तद्यथा व्रीहिसन्तानस्य ।

[१२०।१९-१२०।९२०]
तस्मादस्यापि सत्त्वसन्तानस्याविच्छेदेन देशान्तरेषु प्रादुर्भावो भविष्णुः ।

[१२०।२०-१२०।२१]
विच्छिन्नोऽपि दृष्टः प्रादुर्भावस्तद्यथा आदर्शादिषु बिम्बात्प्रतिबिम्बस्य ।

[१२०।२१]
एवं मरणभवादुपपत्तिभवस्य स्यात् ।

[१२०।२२]
प्रतिबिम्बमसिद्धत्वादसाम्याच्छानिदर्शनम् ॥ ३.११ ॥

[१२०।२३]
प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्माह्न्तरमित्यसिद्धमेतत् ।

[१२०।२३-१२०।२४]

सिद्धावपि च सत्यामसाम्यादनिदर्शनं भवति ।

[१२०।२४]
कथं तावदसिद्धम् ।

[१२०।२५]
सहैकत्र द्वयाभावात्

[१२०।२६]
तत्रैव हि देशे आदर्शरूपं दृश्यते प्रतिबिम्बं च ।

[१२०।२६-१२०।२७]
न चैकत्र देशे रूपद्वयस्यास्ति सहभाव आश्रयभूतभेदात् ।

[१२०।२७-१२०।३०]
तथा दिग्भेदव्यवस्थितेरेकस्मिन्वाप्यम्बुदेशे स्वाभिमुखदेशस्थानां रूपाणामन्योऽन्यं प्रतिबिम्बकमुपलभ्यते नत्वेकत्र रूपे द्वयोः पश्यतोः सहदर्शनं न भवतीति न तत्र रूपान्तरोपपत्तिर्युक्ता ।

[१२०।३०-१२१।०१]
छायातपयोश्च द्वयोः सहैकत्रभावो न दृष्टः ।

[१२१।०१-१२१।०२]
उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिविम्बकमिति न युक्तोऽस्य तत्र प्रादुर्भावः ।

[१२१।०२]
अथवा “सहैकत्र द्वयाभावादि”ति कतमस्य द्वयस्य ।

[१२१।०२-१२१।०३]
आदर्शतलस्येन्दुप्रतिबिम्बकस्य च ।

[१२१।०३-१२१।०४]
अन्यत्रैव हि देशे आदर्शतलं भवत्यन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् ।

[१२१।०४-१२१।०५]
तच्च तत्रोपपद्यमानं नान्यत्रोपलभ्यते ।

[१२१।०५]
अतो नास्त्येव तत्किञ्चित् ।

[१२१।०५-१२१।०६]
सामग्र्यास्तु स तस्यास्तादृशः प्रभावो यत्तथा दर्शनं भवति ॥

[१२१।०६]
अचिन्त्यो हि धर्माणां हि धर्माणां शक्तिभेदः ।

[१२१।०६-१२१।०७]
एवं तावन्दसिद्धत्वात् ।

[१२१।०७]
कथमसाम्यादनिदर्शनं भवति ।

[१२१।०८]
असन्तानाद्

[१२१।०९]
नहि विम्वस्य प्रतिबिम्बकं सन्तानभूतमादर्शसन्तानसंवद्धत्वात्सहभावाच्च ।

[१२१।१०]
यथा मरणस्योपपत्तिभवः ।

[१२१।१०-१२१।११]
सन्तानं च प्रत्यविच्छेदेन देशान्तरेषु प्रादुर्भाव उदाहृअतो नासन्तानमित्यसाम्यं दृष्टान्तस्य प्रतिबिम्बस्य च ।

[१२१।१२]
द्वयोदयात् ।

[१२१।१३]
द्वाभ्यां हि कारणाभ्यां प्रतिबिम्बस्योदयो भवति ।

[१२१।१३-१२१।१४]
बिम्बाच्चादर्शा च्चेति यत्प्राधानं कारणं तदाश्रित्योत्पद्यते ।

[१२१।१४-१२१।१६]
नचैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवो मरणभवाच्चान्यतश्च प्रधानभूतादित्यतोऽप्ययमसमानो दृष्टान्तः ।

[१२१।१६]
न च युक्तमुक्तं बाह्यमेव चेतनं शुक्रशोणितं प्रधानकारणमिति ।

[१२१।१६-१२१।१७]
यत्र चान्धकाण एव प्रादुर्भाव उपपादुकानां तत्र किं परिकल्प्यते ।

[१२१।१७-१२१।१८]
एवं तावद्युक्तितो नेष्यते ।

[१२१।१८]
न मराणभवाद्विच्छिन्न उपपत्तिभवप्रादुर्भावः ।
तस्मादस्त्येवान्तराभवः ।

[१२१।१९]
कण्ठोक्तेश्चास्ति

[१२१।२०]
सूत्र उक्तं “सप्त भवाः ।

[१२१।२०-१२१।२१]
नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवोऽन्तराभव इति ।

[१२१।२१]
नैतत्सूत्रं तैराम्नायते ।
इतस्तर्हि

[१२१।२२]
गन्धर्वात्

[१२१।२३]
“त्रयाणां स्थानानां संमुखीभावात्मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति ।

[१२१।२३-१२१।२४]
माता कल्या स्पि भवति ऋतुमती च ।

[१२१।२४]
मातापितरौ रक्तौ भवतः सनिपतितौ च ।

[१२१।२५]
गन्धर्वश्च प्रत्युपस्थितो भाती”ति ।
अन्तराभवं हित्वा कोऽन्यो गन्धर्वः ।

[१२१।२६]
एतदपि नैव तैराम्नायते ।
कथं तर्हि ।
“स्क्न्धभेदश्च प्रत्युपस्थितो भवती”ति ।

[१२१।२७]
यद्येवमाश्वलायनसूत्रं कथं नीयते ।

[१२१।२७-१२१।२८]
“जानन्त भवन्तो योऽसौ गन्धर्वः प्रत्युपस्थितः ।

[१२१।२८]
क्षत्रियो वाऽसौ ब्राह्मणो वा वैश्यो वा शूद्रो वा ।

[१२१।२८-१२२।०१]
यदि वा पूर्वस्या दिश आगतो यदि वा दक्षिणस्या पश्चिमाया उत्त्रस्या” इति ।

[१२२।०२]
नहि स्कन्धभेदस्यागमनं युज्यते ।
अथैतदपि न पठच्यते ।
इतस्तर्हि ।

[१२२।०३]
पञ्चोक्तेः ।

[१२२।०४]
“पञ्चानागामिन” इत्युक्तं भगवता ।

[१२२।०४-१२२।०५]
अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्ध्वस्त्रोताश्चेति ।

[१२२।०५-१२२।०६]
असत्यन्तराभवे कथमन्तरापरिनिर्वायी नाम स्यात् ।

[१२२।०६]
अन्तरा नाम देवाः सन्तीत्येके ।

[१२२।०७]
उपपद्यादयोऽपि हि नाम देवा एवं सति प्रसज्यते ।
तस्मान्येयं कल्पना साध्वी ।

[१२२।०८]
इतश्च

[१२२।०९]
गतिसूत्रतः ॥ ३.१२ ॥

[१२२।१०]
“सप्त सत्पुरुषगतयः” इत्यत्र सूत्रे ।
अन्तरापरिनिर्वायिणस्त्रय उक्ताः ।

[१२२।१०-१२२।११]
कालदेशप्रकर्षभेदेन ।

[१२२।११-१२२।१२]
तद्यथा परीत्तः सकलिकाग्निरभिनिवर्त्तमान एव परिनिर्वायादेवं प्रथमः ।

[१२२।१२]
तद्यथाऽयः प्रपाटिका उत्पतन्त्येव निर्वायादेवं द्वितीयः ।

[१२२।१२-१२२।१३]
तद्यथाऽयःप्रपातिका उत्प्लुत्य पृथिव्यामपतितैव निर्वायादेवं तृतीयः ।

[१२२।१३-१२२।१४]
नचैवमन्तरा नाम देवास्त्रिप्रकाराः कालदेशप्रकर्षभिन्नाः सन्तीति कल्पनैवेयं केवला ॥

[१२२।१४]
अन्ये पुनराहुः ।

[१२२।१५-१२२।१६]
आयुप्रमाणान्तरे वा देवसमीपान्तरे वा यः क्लेशान् प्रजहाति सोऽन्तरापरिनिर्वायी ।

[१२२।१६-१२२।१७]
स पुनर्धातुगतो वा परिनिर्वाति संज्ञागतो वा वितर्कगतो वा ।

[१२२।१७]
तेन त्रिविधो भवतीति ।

[१२२।१७-१२२।१८]
प्रथमो वा रूपधातौ निकायसभागपरिग्रहं कृत्वा परिनिर्वाति ।

[१२२।१८]
द्वितीयो देवसमृद्धिं चानुभूय ।

[१२२।१८-१२२।१९]
तृतीयो देवानां धर्मसंगीतिमनुप्रविश्य ।

[१२२।१९-१२२।२१]
उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिमनुप्रविश्य परिनिर्वाति भूयसा वा आयुरूपहत्य नोपपन्नमात्र एवेति त एते सर्वेऽपि शकलिकादिदृष्टान्तैर्न संवध्यन्ते ।

[१२२।२१]
देशगतिविशेषाभावात् ।

[१२२।२१-१२२।२२]
आरुप्येष्वपि चान्तरापरिनिर्वायी पठ्येतायुःप्रमाणान्तरे परिनिर्वाणात् ।

[१२२।२२]
न च पठ्यते ।

[१२२।२३-१२२।२४]
“ध्यानैश्चतस्रो दशिका आरुप्यैः सप्तिकात्रयम् ।
संज्ञया षट्टिकां कृत्वा वर्गो भवति समुदितः ॥

[१२२।२५]
इत्येतस्यायुर्दानगाथायाम् ।
तस्मादेतदपि सर्वं कल्पनामात्रम् ।

[१२२।२६]
अथैतान्यपि सूत्राणि तैर्नाम्नायन्ते ।

[१२२।२६-१२३।०१]
किमिदानीं कुर्मो यच्छास्ता च परिनिर्वृतः शासनं चेदमनायकं बहुधा भिन्नं भिद्यते चाद्यापि यथेच्छं ग्रन्थतश्चार्थतश्च ।

[१२३।०१-१२३।०२]
येषां तु तावदयमागमः प्रमाणं तेषामागमतोऽपि सिद्धोऽन्तराभवः ।

[१२३।०२-१२३।०३]
यत्तर्हि सूत्र उत्तम् “अथ च पुनर्दूषी मारः स्वशरीरेणाविचौ महानरके प्रपतित” इति ।

[१२३।०३]
तत्कथमिति ।

[१२३।०४]
स हि जीवन्नेव नारकीभिर्ज्वालाभिरालिङ्गितः ।

[१२३।०४-१२३।०५]
कालल्ं कृत्वाऽन्तराभवेनावीचिं प्राप्त इत्ययं तत्राभिप्रयः ।

[१२३।०५-१२३।०६]
अत्युदीर्णपरिपूर्णानि हि कर्माणि कायस्य निक्षेपं न प्रतीक्षन्ते ।

[१२३।०६]
अतोऽस्य दृष्टधर्मवेदनीयं कर्म पूर्वं वीपक्वं पश्चादुपपद्यवेदनीयमिति ।

[१२३।०७-१२३।०८]
इदमिदानीं कथं नीयते “पञ्चानन्तर्याणि कर्माणि यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत” इति ।

[१२३।०८]
अन्यां गतिमगत्वेत्यभिप्रायः ।

[१२३।०८-१२३।०९]
उपपद्यवेदनीयत्वं तत्र कर्मणो द्योतितम् ।

[१२३।०९]
अथ यथारुतं कल्प्यते ।
पञ्चैव कृत्वा नैकमिति प्राप्नोति ।

[१२३।०९-१२३।१०]
क्रियानन्तरं च ।

[१२३।१०]
न कालान्तरं जीवित्वा को वाऽन्तराभवस्योपपद्यमानत्वं नेच्छति ।

[१२३।१०-१२३।११]
अन्तरा भवेनैव ह्यसौ मरणान्तरं नरकेषूपपद्यते ।

[१२३।११]
अभिमुखत्वात् ।

[१२३।११-१२३।१२]
न च ब्रूम उपपन्नो भवतीति ।

[१२३।१२]
इयं तर्हि गाथा कथं नीयते

[१२३।१३-१२३।१४]
“उपनीततया जरातुरः संप्राप्तो हि ममान्तिकं द्विज ।
वासोऽपि हि नास्ति तेऽन्तरा पाथेयं च न विद्यते तवे” ति ॥

[१२३।१५]
अत्रापि मनुष्येष्वन्तरावासो नास्तीत्यभिप्रायः ।

[१२३।१५-१२३।१६]
अथवाऽन्तराभवेऽप्यस्य वासो नास्त्युपपत्तिदेशसंप्राप्तिप्रति गमनाधिष्ठानादिति ।

[१२३।१६-१२३।१७]
अयमत्राभिप्रायो नायमभिप्राय इति दुत एवैतत् ।

[१२३।१७]
तुल्य एष भवतोऽप्यनुयोगः ।

[१२३।१७-१२३।१८]
तस्मादुभयस्मिन्नपि पक्षे यथ्होत्तसूत्राविरोधान्न भवत्येतदन्तराभवस्याभावे ज्ञापकम् ।

[१२३।१८-१२३।१९]
ज्ञापकं हि नामागतिका गतिरिति ।

[१२३।२०]
अथ कां गतिं गमिष्यतः किमाकृतिरन्तराभवोऽभिनिवर्त्तते ।

[१२३।२१]
एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः ।

[१२३।२२]
येनैव कर्मणा गतिराक्षिप्यते तेनैवान्तराभवस्तत्प्राप्तये ।

[१२३।२२-१२३।२३]
अतो यां गतिं गन्ता भवति तस्यां गतौ य आगमिष्यत्पूर्वकालभवस्तस्यैवास्याकृतिर्भवति ।

[१२३।२३-१२३।२५]
एवं तर्हि शुनीप्रबृतीनामेकस्मिन् कुक्षौ पाञ्चगतिकोऽन्तराभवोऽभिनिर्वर्त्तते इति नारकोऽन्तराभवः कुक्षिं निर्दहेत् ।

[१२३।२५-१२३।२६]
पूर्वकालभवेऽपि तावन्नारका न नित्यं प्रज्वलिता भवन्त्युत्सदेषु भ्रमन्तः किं पुनरन्तराभविकाः ।

[१२३।२६]
अस्तु वा प्रज्वलितः ।

[१२३।२६-१२३।२७]
स तु यथा न द्रष्टुं शस्यते तथा न स्प्रष्टुमप्यच्छत्वादात्मभावस्येत्यचोद्यमेतत् ।

[१२३।२७-१२३।२८]
अन्तराभवानामप्यन्योन्यं कुक्षावसंश्लेषात्कर्मप्रतिबन्धाच्च न दाहः ।

[१२३।२८-१२४।०१]
प्रमाणं तु यथा पञ्चषड्वर्षस्य दारकस्य स तु षटिन्द्रियो भवति बोधिसत्त्वस्य पुनर्यथा संपूर्णयूनः सलक्षणानुव्यञ्जनश्च ।

[१२४।०१-१२४।०२]
अत एवान्तराभवस्थेन मातुः कुक्षिं प्रविशता कोटीशतश्चातुर्द्वीपिकानामवभासितः ।

[१२४।०३]
यत्तर्हि माता बोधिसत्वस्य स्वप्ने गजपोतं पाण्डरं कुक्षिं प्रविशन्तमद्राक्षीत् ।

[१२४।०३-१२४।०४]
निमित्तमात्रं तत्तिर्यग्योनेश्चिरव्यावृत्तत्वात् ।

[१२४।०४]
तद्यथा कृकी राजा दश स्वप्नानद्राक्षीदिति ।

[१२४।०५-१२४।०६]
“करिकूपसक्तु चन्दनकलभारामास्त था कपेरभिषेकः ।
अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः” ॥

[१२४।०७]
नैव चान्तराभविकः कुक्षिं भित्त्वा प्रविशत्यपि तु मातुर्योनिद्वारेण ।

[१२४।०७-१२४।०८]
अत एव यमलयोर्यः पश्चात्प्रजायते स ज्यायानुच्यते यः पूर्वं स कनीयानिति ।

[१२४।०८]
धर्मसूत्रविभाष्यं कथं नीयते ।

[१२४।०९-१२४।१०]
“वारण त्वमुपगम्य पाण्डरं षड्विषाणरुचिरं चतुष्क्रमम् ।
मातृगर्भशयनं विशेषसंप्रजाननृषिराश्रमं यथेति” ॥

[१२४।११]
नैतदवश्यनेतव्यम् ।
नह्येतत्सूत्रं न विनयः नाभिधर्मः ।
काव्यमेतत् ।

[१२४।११-१२४।१२]
कवीनां च काव्यं समायोजयतां केचित्भावाः समारोपिता गच्छन्ति ।

[१२४।१२]
अथवा नेतव्यमेव ।

[१२४।१२-१२४।१३]
यथाऽस्य माता स्वप्ने तं प्रविशन्तमद्राक्षित्तथा सोऽपि गाथामकार्षीदिति ।

[१२४।१३-१२४।१४]
रूपावचरोऽप्यन्तराभवः संपूर्णप्रमाणः सवस्त्रश्च प्रादुर्भवति ।

[१२४।१४]
अपत्राप्योत्सदत्वात् ।

[१२४।१४-१२४।१५]
बोधिसत्त्वस्य सवस्त्रः शुक्लायाश्च भिक्षुण्याः प्रणिधानवशाध्यावन्तमेव परिवेष्टिता निर्दग्धा ।

[१२४।१५]
अन्यो नग्नः ।

[१२४।१५-१२४।१६]
कामधातोरनपत्राप्योत्सदत्वात् ।

[१२४।१७]
अथ कोऽयं पूर्वकालभवो नाम ।

[१२४।१८]
स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः ॥ ३.१३ ॥

[१२४।१९]
भवो हि नामाविशेषेण पञ्चोपादानस्कन्धाः ।
स एव चतुर्धा भिद्यते ।
अन्तराभवो यथोक्तः ।

[१२४।२०]
उपपत्तिभबो गतीषु प्रतिसन्धिक्षणः ।

[१२४।२०-१२४।२१]
तस्मात्परेण मरणक्षणं पर्युदस्यान्यः सर्वो भवः पूर्वकालभवः ।

[१२४।२१]
चरमक्षणो मरणभबो यत ऊर्ध्वमन्तराभवो भवति रूपिषु चेत्सत्त्वेषूपपद्यते ।

[१२४।२२]
स चायमन्तराभवः ।

[१२४।२३]
सजातिशुद्धदिव्याक्षिदृश्यः

[१२४।२४]
समानजातीयैरेवान्तराभविकैर्दृश्यते ।

[१२४।२४-१२५।०१]
येषां च दिव्यं चक्षुः सुविशुद्धमभिज्ञामयं त एनं पश्यन्ति ।

[१२५।०१]
उपपत्तिक्षुषा तु न दृश्यते ।
जात्यर्थमच्छत्वात् ।

[१२५।०१-१२५।०२]
देवान्तराभविकः सर्वान् पश्यति ।

[१२५।०२]
मनुष्यप्रेततिर्यग्नारकान्तराभविकाः पूर्व पूर्वमपात्येत्यपरे ।

[१२५।०३]
कर्मर्द्धिवेगवान् ।

[१२५।०४]
ऋद्धिराकाशगमनम् ।
कर्मणा ऋद्धिः कर्मर्द्धिः ।
तस्या वेगः कर्मर्द्धिवेगः शीग्रता ।

[१२५।०५]
सोऽस्यास्तीति कर्मर्द्धिवेगवान् ।
येनासौ न शक्यो बुद्धैरपि प्रतिबन्द्धुम् ।

[१२५।०५-१२५।०६]
कर्मणोऽस्य बलीयस्त्वात् ।

[१२५।०७]
सकलाक्षः

[१२५।०८]
समग्रपञ्चेन्द्रियः ।

[१२५।०९]
अप्रतिघवान्

[१२५।१०]
प्रतिघातः प्रतिघः ।
सोऽस्यास्तीति प्रतिघवान् ।
न प्रतिघवानप्रतिघवान् ।

[१२५।१०-१२५।११]
वज्रादिभिरप्यनिवार्यत्वात् ।

[१२५।११-१२५।१२]
तथा हि प्रदीप्तायःपिण्दभेदे तन्मध्यसंभूतः क्रिमिरूपलब्धः श्रूयते ।

[१२५।१२]
यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा ।

[१२५।१३]
अनिवर्त्यः

[१२५।१४]
नहि कदाचिन्मनुष्यान्तराभवोऽन्तर्धाय देवान्तराभवो भवत्यन्यो वा ।

[१२५।१४-१२५।१५]
नियतमनेन यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोपपत्तव्यं नान्यस्यामिति ।

[१२५।१६]
किं पुनरन्तराभवोऽपि कामावचरः कवडीकारमाहारं भुङ्क्ते ।
ओमित्याह ।
न त्वौदारिकम् ।

[१२५।१७]
किं तर्हि ।

[१२५।१८]
स गन्धभुक् ॥ ३.१४ ॥

[१२५।१९]
अत एव गन्धर्व इत्युच्यते ।
धातूनामनेकार्थत्वात् ।
ह्रस्वत्वं शकन्धुकर्कन्धुवत् ।

[१२५।१९-१२५।२०]
अल्पेशाख्यस्तु दुर्गन्धाहरो महेशख्यः सुगन्धाहारः ।

[१२५।२०]
कियन्तं कालमवतिष्ठते ।
नास्ति नियम इति भदन्तः ।

[१२५।२१]
यावदुपपत्तिसामग्रीं न लभते नहि तस्यायुषः पृथगेवाक्षेपः ।
एकनिकायसभागत्वात् ।

[१२५।२१-१२५।२२]
इतरथा हि तस्यायुषः क्षयान्मरणभवः प्रसज्येत ।

[१२५।२२-१२६।०१]
यद्यासुमेरोः स्थलं मांसस्य स्यात्तत्सर्व वर्षासु क्रिमीणां पूर्येत ।

[१२६।०१-१२६।०२]
किमिदानीं तत्प्रतीक्षा एव तेषामन्तराभवा आसन् कुतो या तदा तेभ्यो गता इति वक्तव्यम् ।

[१२६।०२]
नैतदागतं सूत्रे शास्त्रे वा ।

[१२६।०२-१२६।०३]
एवं तु युज्यते ।

[१२६।०३]
गन्धरसाभिगृद्धानामल्पायुषां जन्तूनामन्तो नास्ति ।

[१२६।०३-१२६।०५]
ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिभावसंवर्त्तनीयं कर्म प्रवोध्य तया तृष्णया क्रिमिषूपपद्यन्त इति ।

[१२६।०५-१२६।०७]
अथवा नूनं तत्प्रत्ययप्रचूर एव काले तत्संवर्त्तनीयानि कर्माणि वीपाकाभिनिर्वृत्तौ वृत्तिं लभ्न्ते नान्यत्र ।

[१२६।०७-१२६।०८]
तथाहि चक्रवर्त्तिसंवर्त्तनीयानि कर्मणि अशीतिवर्षसहस्रायुषि प्रजायां वहुतरायुषि वा चक्रवर्त्तिनो जायन्ते नान्यस्याम् ।

[१२६।०८-१२६।०९]
अत एव चोक्तं भगवता “अचिन्त्यः सत्त्वानां कर्मविपाक” इति ।

[१२६।०९]
सप्ताहं तिष्ठतीति भदन्तवसुमित्रः ।

[१२६।०९-१२६।१०]
यदि तावता सामग्रीं न लभते तत्रैव पुनश्च्युत्या जायन्ते ।

[१२६।१०]
सप्त सप्ताहानीत्यपरे ।

[१२६।१०-१२६।११]
अल्पं कालमिति वंभाषिकाः ।

[१२६।११-१२६।१२]
स हि संभवैषित्वात्सम्धावगत्वा सम्धिं बध्नातीति यथात्वसमग्राः प्रत्यया भवन्ति ।

[१२६।१२]
नियतं चानेन तस्मिन् देशे तस्यां जातौ जनितव्यं भवति ।

[१२६।१२-१२६।१३]
तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति ।

[१२६।१३-१२६।१४]
अथानियातं ततोऽन्यत्र देशे तस्यां जातौ जायते सदृश्या मित्यपरे ।

[१२६।१४-१२६।१५]
तद्यथा गवामूष्मसु मैथुनस्य प्राचुर्यं शरदि शुनामृक्षानां हेमन्ते चाक्ष्वानाम् ।

[१२६।१५-१२६।१७]
गवयशृगालखरतरक्षाणां पुनः कालो नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते येन श्वस्स शृगालेषु येनाश्वेसु स गर्दभेषु येन ऋक्षेषु स तरक्षेषूपपद्यते इति ।

[१२६।१७-१२६।१८]
न त्वस्य निकायसभागान्तराभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेककामाक्षेपादिति वक्तव्यमेतत् ।

[१२६।१९]
स खल्वेष गतिदेशसंप्राप्त्यर्थं प्रादुर्भूतोऽन्तराभवः

[१२६।२०]
विपर्यस्तमतिर्याति गतिदेशं रिरंसया ।

[१२६।२१]
स हि कर्मप्रभावसंभूतेन चक्षुषा सुदूरस्थोऽपि स्वमुपपत्तिदेशं प्रेक्षते ।

[१२६।२१-१२६।२२]
तत्रास्य मातापित्रोस्तां विप्रतिपत्तिं दृष्ट्वा पुंसः सतः पौंस्नो राग उत्पद्यते मातरि स्त्र्या सत्या स्त्रैणो रागाः उद्पद्यते पितरि ।

[१२६।२२-१२६।२३]
विपर्ययात्प्रतिघः ।

[१२६।२३-१२६।२४]
एवं पठच्यते प्रज्ञप्तौ “गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरच्चित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वेति ।

[१२६।२४-१२६।२५]
स ताभ्यां विपर्यस्तो रन्तुकामतया तं देशमाश्लिष्य तामवस्थामात्मन्यधिमुच्यते ।

[१२६।२५-१२६।२६]
तस्मिंश्चाशुचौ गर्भस्थानसंप्राप्ते जातहर्षोऽभिनिविशते ।

[१२६।२६-१२६।२७]
ततोऽस्य स्कन्धा घनीभवन्त्यन्तराभवस्कन्धाश्चान्तर्धीयन्ते इत्युपपन्नो भवति ।

[१२६।२७-१२६।२८]
स चेत्पुमान् भवति मातुर्दक्षिणकुक्षिमाश्रित्य पृष्ठाभिमुख उत्केटुकः संभवत्यथ स्त्री ततो वामकुक्षिमाश्रित्योदराभिमुखी ।

[१२७।०१]
अथेदानीं नपुंसकं तद्येन रागेणाश्लिष्टं तथा तिष्ठति ।

[१२७।०१-१२७।०२]
न चास्त्यन्तराभवो व्यन्तरः सकलेन्द्रियत्वात् ।

[१२७।०२-१२७।०३]
अथः स्त्रीभूतः पुरुषभूतो वाऽनुप्रविश्य यथास्थानं तिष्ठति पश्चात्गर्भ आप्यायमानो नपुंसकं भवतीति” ।

[१२७।०३]
इदं विचार्यते ।

[१२७।०३-१२७।०५]
किमस्य शुक्रक्शोणितमहाभूतान्येवेन्द्रियाश्रयभावमापद्यन्ते कर्मवशादाहोस्वित्भूतान्तराण्येव कर्मभिर्जायन्ते ।

[१२७।०५]
तान्युपश्रित्येति ।
तान्येवेत्येके ।

[१२७।०५-१२७।०६]
अनिन्द्रियं हि शुक्रशोणितमन्तराभवेन सार्धं निरुध्यते सेन्द्रियं प्रादुर्भवति ।

[१२७।०६-१२७।०७]
वीजाङ्दुरनिरोधोत्पादन्यायेन यत्तत्कालमित्याख्यायते ।

[१२७।०७-१२७।०८]
एवं च कृत्वेदं सूत्रपदं सूत्रे सूनीतं भवति “मातापित्रशुचिकललसंभुतस्ये”ति ।

[१२७।०८-१२७।०९]
तथा “दीर्घरात्रं युष्माभिर्भिक्षिवः कतसिः संवर्द्धिता रुधिरविन्दुरूपात्त” इति ।

[१२७।०९]
भूतान्तराण्येवेत्यपरे ।
तद्यथापर्णक्रिमेः ।

[१२७।०९-१२७।१०]
अशुचिसंनिश्रयोत्पत्त्यभिसंबन्धिवचनात्तु कललस्य सूत्राविरोध इति ।

[१२७।१०-१२७।११]
एवं तावदण्डजां जरायुजां च योर्नि प्रतिपद्यते ।

[१२७।११]
अन्यत्र तु यथायोगं वक्तव्यमित्याहुः ।

[१२७।११-१२७।१२]
तत्र चायं योगो दृश्यते

[१२७।१३]
गन्धस्थानाभिकामोऽन्यः

[१२७।१४-१२७।१५]
संस्वेदजां योनिं प्रतिपद्यमान उपपत्तिस्थानं गत्वाभिलाषात्गच्छत्यमेध्यं मेध्यं वा यथाक्रमम् ।

[१२७।१५]
उपपादुकां तु योनिं प्रपद्यमानः स्थानाभिलाषात् ।

[१२७।१५-१२७।१६]
कथं नरकेषु स्थानाभिलाषः ।

[१२७।१६]
विपर्यस्तबुद्धित्वात् ।

[१२७।१६-१२७।१७]
स हि शीतवातवर्षाभिषेकैरात्मानं बाध्यमानं पश्यति नरकेषु चाग्निं दीप्यमानम् ।

[१२७।१७-१२७।१८]
तत्र उष्णाभिलाषाद्धावति ।

[१२७।१८-१२७।१९]
पुनस्तप्तवातातपाग्निसंतापैरात्मानं बाध्यमानमनुपश्यन् शैत्यं च नरकेषु शीताभिलाषाद्धावति ।

[१२७।१९-१२७।२०]
यदवस्थस्तदुपपत्तिसंवर्त्तनीयं कर्माकार्षीत्तदवस्थात्मानं ताश्च सत्त्वान् पश्यन् धावतीति पूर्वाचार्याः ।

[१२७।२०-१२७।२१]
तत्र पुनर्देवान्तराभव ऊर्ध्वं गच्छत्या सनादिवोत्तिष्ठन्मनुष्यतिर्यक्प्रेतानां मनुष्यादिवत् ।

[१२७।२२]
ऊर्ध्वपादस्तु नारकः ॥ ३.१५ ॥

[१२७।२३-१२७।२४]
“ते वै पतन्ति नरकादूर्ध्वपादा अवाङ्मुखाः ।
ऋषीणामभिवक्तारः संयतानां तपस्विनाम्” इति ॥

[१२७।२५]
गाथाभिधानात् ।

[१२७।२६]
यदुक्तं “विपर्यस्तमतिर्याती”ति ।

[१२७।२६-१२७।२७]
किमवश्यं सर्वोऽन्तराभवस्तथा मातुः कुक्षिमवक्रामति ।

[१२७।२७]
नित्याह ।
किं तर्हि ।
चतस्रो गर्भावक्रान्तयः सूत्र उक्ताः ।
कतमाश्चतस्रः ।

[१२८।०१]
संप्रजानन् विशत्येकः

[१२८।०२]
तिष्ठति निष्क्रामति सा संप्रजानन् ।

[१२८।०३]
तिष्ठत्यप्यपरः ।

[१२८।०४]
संप्रजानन्निति वर्त्तते ।
प्रविशत्यपीत्यपिक्षब्दात् ।

[१२८।०५]
अपरः ।

[१२८।०६]
निष्क्रामत्यपि

[१२८।०७]
संप्राजानन् प्रविशति तिष्ठत्यपि ।

[१२८।०८]
सर्वाणि मूढोऽन्यः

[१२८।०९-१२८।१०]
कश्चित्पुनः सर्वाण्येवासंप्रजानन् करोति प्रविशत्यसंप्रजानन् तिष्ठति निष्क्रामत्यपि ।
[१२८।१०]
एताश्चतस्रो गर्भावक्रान्तयः प्रतिलोमं निर्दिष्टाः ।

[१२८।११]
श्लोकबन्धानुगुण्यतः ।

[१२८।१२]
नित्यमण्डजः ॥ ३.१६ ॥

[१२८।१३]
अण्डजः सत्त्वो नित्यं मूढ एव सर्वाणि करोति ।
कथमण्डाज्जातो गर्भं प्रविशति ।

[१२८।१४]
योऽपि जनिष्यते सोऽप्यण्दजः ।
अथवा भाविन्यापि संज्ञया निर्देशाः क्रियन्ते ।

[१२८।१५]
तद्यथा “संकृतमभिसंस्करोती”ति सूत्रे ओदनं पचतीति सक्तुं पिनष्टीति लोके ।

[१२८।१६]
तस्मान्नैष दोषः ।

[१२८।१७]
कथं पुनरसंप्रजानन्मातुः कुक्षिं प्रविशति यावन्निष्क्रामति कथं वा संप्रजानन् ।

[१२८।१८-१२८।१९]
अल्पेशाख्यस्य तावत्सत्त्वस्य मातुः कुक्षिं प्रविशतः एवं वीपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते ।

[१२८।१९]
वातो वाति देवो वर्षति ।

[१२८।१९-१२८।२१]
शीतं दुर्दिनं महतो वा जनकायस्य कोलाहलं ह्न्त तृणगहनं वा प्रविशामि वनगहनं वा तृणकुटीं वा पर्णकुटीं वा वृक्षमूलं वा सर्पामि कुण्डयमूलं वेति ।

[१२८।२१-१२८।२२]
तिष्ठतोऽप्येषु तिष्ठामिति निष्क्रामतो स्प्येभ्यो निर्यामीति ।

[१२८।२२-१२८।२३]
महेशाख्यस्य तु सत्त्वस्यारामं वा प्रविशाम्युद्यानं वाप्रासादं वाऽभिरोहामि कूटागारं वा पर्यङ्क वेति ।

[१२८।२३]
तथा तिष्ठामि निर्यामीति ।

[१२८।२३-१२८।२४]
एवं तावदसंप्रजानन् प्रविशति यावन्निष्क्रामति ।

[१२८।२४-१२८।२५]
संप्रजानंस्तु सम्यक्प्रजानाति मातुः कुक्षिं प्रविशाम्यत्रैव तिष्ठामि अत एव निर्यामिति ।

[१२८।२५-१२८।२६]
नास्य विपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते ।

[१२८।२६]
अत्र पुनरपदिश्यते ।

[१२८।२७]
गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् ।

[१२८।२८]
चक्रवर्त्तिनश्च स्वयंभुवोश्च प्रत्येकबुद्धसंबुद्धयोश्च ।
यथाक्रममित्यन्ते वक्ष्यति ।

[१२८।२८-१२८।२९]
तत्र प्रथमा चक्रवर्त्तिनः ।

[१२८।२९]
स हि प्रविशत्येव संप्रजानन्न तिष्ठति नापि निष्क्रामति ।

[१२८।३०]
प्रत्येकबुद्धस्तिष्ठत्यपि ।
बुद्धो निष्क्रामत्यपि ।
अत्रापि भाविन्या संज्ञया निर्देशः ।

[१२९।०१]
कर्मज्ञानोभयेषां वा विशदत्वाद्यथाक्रमम् ॥ ३.१७ ॥

[१२९।०२]
विशदकर्मणाम्दारपुण्यक्रियाणां प्रथमा ।

[१२९।०२-१२९।०३]

विशदज्ञानानां बाहुश्रुत्यकृतप्रविचयानां द्वितीया ।

[१२९।०३]
विशद पुण्यकर्मज्ञानानां तृतीया ।

[१२९।०३-१२९।०४]
त एव त्वेते चक्रवर्त्त्यादय एवंभूता युज्यन्ते यथाक्रमम् ।

[१२९।०४]
शेषाणां चतुर्थीति सिद्धं भवति ।

[१२९।०५]
अत्रेदानीं बाह्यका आत्मवादं परिगृह्योत्तिष्ठन्ते ।

[१२९।०५-१२९।०६]
यदि सत्त्वो लोकान्तरं संचरतीति प्रतिज्ञायते सिद्ध आत्मा भवतीति ।

[१२९।०६]
स एष प्रतिषिध्यते

[१२९।०७]
नात्मास्ति

[१२९।०८]
कीदृश आत्मा य इमान्निक्षिपत्यन्याश्च स्क्न्धान् प्रतिसंदधातीति परिकल्प्यते ।

[१२९।०९]
स तदृशो नास्त्यन्तर्व्यापारपुरुषः ।

[१२९।०९-१२९।११]
एवं तूक्तं भगवता “अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतात् ।

[१२९।११-१२९।१२]
तत्रायं धर्मसंकेतो यदुतास्मिन् सतीदं भवतीति विस्तरेण प्रतीत्यसमुत्पादः “।

[१२९।१२]
कीदृशस्तर्ह्यात्मा न प्रतिषिध्यते ।

[१२९।१३]
स्कन्धमात्रं तु

[१२९।१४]
यदि तु स्कन्धमात्रमेवात्मेति उपचर्यते तस्याप्रतिषेधः ।

[१२९।१४-१२९।१५]
एवं तर्हि स्कन्धा एव लोकान्तरं संचरन्तीति प्राप्तं स्कन्धमात्रं तु नात्र संचरतीति ।

[१२९।१६]
क्लेशकर्माभिसंस्कृतम् ।

[१२९।१७]
अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् ॥ ३.१८ ॥

[१२९।१८]
क्षणिका हि स्कन्धास्तेषां संचरितुं नास्ति शक्तिः ।

[१२९।१८-१२९।१९]
क्लेशैस्तु परिभावितं कर्मभिश्च क्लेशमात्रमन्तराभासंज्ञिकया संतत्या मातुः कुक्षिमायाति ।

[१२९।१९-१२९।२०]
तद्यथा प्रदीपः क्षणिकोऽपि संतत्या देशान्तरमिति नास्त्येष दोषः ।

[१२९।२०-१२९।२१]
तस्मात्सिद्धमेतदसत्यप्यात्मनि क्लेशकर्माभिसंस्कृटः स्कन्धानां संतानो मातुः कुक्षिमापद्यत इति ।

[१२९।२१]
स पुनः

[१२९।२२]
यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः ।

[१२९।२३]
परलोकं पुनर्याति

[१२९।२४]
नहि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवत्यायुप्यस्य कर्मणो भेदात् ।

[१२९।२४-१२९।२५]
अतो यस्य यावानाक्ष्पस्तस्य तावती वृद्धिः क्रमेण भवति ।

[१२९।२५]
केन क्रमेण ।

[१३०।०१-१३०।०२]
“कललं प्रथमं धवति कललाज्जायतेऽर्बुदः ।
अर्बुदाज्जायते पेशी पेशीतो जायते घनः ॥

[१३०।०३-१३०।०४]
घनात्प्रशाखा जायन्ते केशरोमनखादयः ।
इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः ॥

[१३०।०५]
इत्यार्याः ।

[१३०।०५-१३०।०६]
एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः ।

[१३०।०६-१३०।०८]
तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशत्लस्याभ्यन्तरात्मातुः कुक्षौ कर्मविपाकजा वायवो वान्ति ये तं गर्भशल्यं संपरिवर्त्त्य मातुः कायावक्षरद्वाराभिमुखमवस्थापयन्ति ।

[१३०।०८-१३०।०९]
सक्रूरपुरीषपिण्ड इवातिमात्रं स्थानात्प्रच्युतो दुःखं संपरिवर्त्त्यते ।

[१३०।०९-१३०।१५]
यदि पुनः कदाचिन्मातुराहारविहारक्रियापचारेण च पूर्वकर्मापराधेन गर्भ एव व्यापादं प्राप्नोति तत एनं तज्ज्ञास्त्रियः कुमारभृत्यका वा सुखोष्णेन सर्पिस्तैलेन सुपिष्टेन शाल्मलीकल्केनान्येन वा हस्तमभ्यज्य तीक्ष्णं तनुकं चात्र शस्त्रकमुपनिवध्य तस्मिन्वर्चस्कूप इवोग्रदुर्गन्धान्धकारसमलपल्वले सुवहुक्रिमिकुलसहस्रावासे नित्यस्राविणि सततप्रतिक्रिये शुक्रश्रोणितलसिकामलसंक्लिन्नविक्लिन्नक्वथितपिच्छिले परमवीभत्सदर्शने छिद्रतनुचर्मावच्छादिते पूर्वकर्मवीपाकर्जे महति कामनाडीर्वणे हस्तं प्रवेश्या ङ्गमङ्गं निकृत्याध्याहरन्ति ।

[१३०।१६]
स चाप्यपरपर्यायवेदनीयेन कर्मणा पूर्वकेण कामपि गतिं नीयते ।

[१३०।१६-१३०।२०]
अथ पुनः स्वस्ति प्रजायते तत एनं माता पुत्राभिलाषिणी तत्परिका वा स्त्रियः सद्योजातकं तरुणव्र्णायमानात्मानं शस्त्रक्षारा यमाणसंस्पर्शाभ्यां पाणिभ्यां परिगृह्य स्नापयन्ति स्तन्येन सर्पिपा वाप्याययन्ति औदारिकं चाहारमाहर्तुं क्रमेणाभ्यासयन्ति ।

[१३०।२०-१३०।२१]
तस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकान्पुनरपि क्लेशाः समुदाचरन्ति कर्मणि चोपचयं गच्छन्ति ।

[१३०।२१-१३०।२२]
सः तैः कायस्य भेदादन्तराभवसंतत्या पूर्ववत्परलोकं पुनर्याति ।

[१३०।२३]
इत्यनदिभवचक्रकम् ॥ ३.१९ ॥

[१३०।२४-१३०।२५]
एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् ।

[१३०।२५-१३०।२६]
आदौ हि परिकल्प्यमाने त्स्याहेतुकत्वमेतेषु सज्येत सति चाहेतुकत्वे सर्वमेवेदमहेतुकं प्रादुःस्यात् ।

[१३०।२७-१३०।२८]
दृष्टं चाङ्कुरादीषु वीजादीनां सामर्थ्यं देशकालप्रतिनियमादग्न्यादीनां च पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः ।

[१३०।२८-१३१।०१]
नित्यकारणास्तित्ववादश्च प्रागेव पर्युदस्तः ।

[१३१।०१]
तस्मान्नास्त्येव संसारस्यादिः ।
अन्तस्तु हेतुक्षयात्युक्तः ।

[१३१।०१-१३१।०२]
हेत्वधीनत्वाज्जन्मनो वीजक्षयादिवङ्कुरस्येति ।

[१३१।०३]
य एष स्कन्धसंतानो जन्मत्रयावस्थ ऊपदिष्टः

[१३१।०४]
स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः ।

[१३१।०५-१३१।०६]
तत्र द्वादशाङ्गानि अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्जरामरणं च ।

[१३१।०६-१३१।०७]
त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि ।

[१३१।०७-१३१।०८]
कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते ।

[१३१।०९]
पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ

[१३१।१०]
अविद्या संस्काराश्च पूर्वान्ते जातिर्जरामरणं चापरान्ते ।

[१३१।१०-१३१।११]
शेषाण्यष्टौ मध्ये ।

[१३१।११]
किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति ।
नेत्याह ।
कस्य तर्हि ।

[१३१।१२]
परिपूरिणः ॥ ३.२० ॥

[१३१।१३-१३१।१४]
परीपूरोऽस्यास्तीति परिपूरो य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति सोऽत्र पुद्गलोऽभिप्रेतो न तु योऽन्तराल एव म्रियते ।

[१३१।१४]
नापि रूपारुप्यावचरः ।

[१३१।१४-१३१।१५]
तथा हि महानिदानपर्याये कामावचर एव पुद्गलो निर्दिष्टः ।

[१३१।१५-१३१।१६]
“विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेदि”ति वचनात् ।

[१३१।१६-१३१।१८]
यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते पौर्वान्तिकश्चापरान्तिकश्चेति तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः पञ्चापरान्तिकः ।

[१३१।१८]
सफलहेतुकयोः पूर्वापरान्तयोर्ग्रहणात् ।

[१३१।१९]
अथ क इमेऽविद्यादयः ।

[१३१।२०]
पूर्वक्लेशा दशाऽविद्या

[१३१।२१]
या पूर्वके जन्मनि क्लेशावस्था सेहाविद्येत्युच्यते ।

[१३१।२१-१३१।२२]
साहचर्यात्तद्वशेन तेषां समुदाचाराच्च ।

[१३१।२२]
राजागमनवचने तदनुयात्रिका गमनसिद्धवत् ।

[१३१।२३]
संस्काराः पूर्वकर्मणः ।

[१३१।२४]
दशेति वर्त्तते ।

[१३१।२४-१३१।२५]
पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा इत्युच्यन्ते यस्य कर्मण इह विपाकः ।

[१३१।२६]
संधिस्कन्धास्तु विज्ञानं

[१३१।२७]
मातुः कुक्षी प्रतिसंधिक्षणे पञ्च स्कन्धा विज्ञानम् ।

[१३२।०१]
नामरूपमतः परम् ॥ ३.२१ ॥

[१३२।०२]
प्राक्षडायतनोत्पादात्

[१३२।०३-१३२।०४]
संधिचित्तात्परेण यावत्षडायतनं नोत्पद्यते साऽवस्था नामरूपं तावत्षडायतनमित्युच्यते ।

[१३२।०४-१३२।०५]
प्रक्चतुरायतनोत्पादादिनि वक्तव्ये षडायतनवचनं तदा तद्व्यवस्थापनात् ।

[१३२।०६]
तत्पूर्वं त्रिकसंगमात् ।

[१३२।०७-१३२।०८]
उत्पन्ने षडायतने सावस्था तावत्षडायतनमित्युच्यते यावदिन्द्रियविषयविज्ञानत्रिकसंनिपातः ।

[१३२।०९]
स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः ॥ ३.२२ ॥

[१३२।१०]
त्रयाणां संनिपातात्स्पर्शो भवति ।

[१३२।१०-१३२।११]
स यावद्वेदनात्रयकारणपरिच्छेदेन समर्थो भवति साऽवस्था स्पर्श इत्युच्यते ।

[१३२।११]
परिच्छेदसामर्थ्ये सति

[१३२।१२]
वित्तिः प्राक्मैथुनात्

[१३२।१३]
वेदनावस्था यावन्मैथुनरागो न समुदाचरति ।

[१३२।१४]
तृष्णा भोगमैथुनरागिणः ।

[१३२।१५]
कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते यावन्न तद्विषयपर्येष्टिमापद्यते ।

[१३२।१६]
उपादानं तु भोगानां प्राप्तये परिधावतः ॥ ३.२३ ॥

[१३२।१७-१३२।१८]
यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावत्यसाववस्था उपादानमित्युच्यते ।

[१३२।१८]
तथा च परिधावन्

[१३२।१९]
स भविष्यत्भवफलं कुरुते कर्म तत्भवः ।

[१३२।२०]
स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सोऽस्य भवः ।

[१३२।२१]
तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसंधिर्भवति ।
योऽसौ

[१३२।२२]
प्रतिसंधिः पुनर्जातिः

[१३२।२३]
यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः ।
ततूर्ध्वं

[१३२।२४]
जरामरणमा विदः ॥ ३.२४ ॥

[१३२।२५]
जातेः परेण यावदेदनावस्था जरामरणम् ।

[१३२।२५-१३२।२७]
यान्येवेह चत्वार्यङ्गानि नामरूपषडायतनस्पर्शवेदनास्तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि ।

[१३२।२७]
स चैष प्रतीत्यसमुत्पादश्चतुर्विध उच्यते ।

[१३३।०१]
क्षणिकः प्रकर्षिकः सांबन्धिकः आवस्थिकश्च ।
कथं क्षणिकः ।

[१३३।०१-१३३।०२]
एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति ।

[१३३।०२-१३३।०३]
तद्यथा लोभवशेन प्राणिनं जीविताद्व्यपरोपयेत् ।

[१३३।०३]
यो मोहः साऽविद्या ।
या चेतना ते संस्काराः ।
वस्तुप्रतिविज्ञप्तिर्विज्ञानम् ।

[१३३।०४]
विज्ञानसहभुवश्चत्वारः स्कन्धा नामरूपम् ।

[१३३।०४-१३३।०५]
नामरूपे व्यवस्थापितानि इन्द्रियाणि षडायतनम् ।

[१३३।०५]
षड्डायतनाभिनिपातः स्पर्शः ।
स्पर्शानुभवनं वेदना ।

[१३३।०५-१३३।०६]
यो लोभः स तृष्णा ।

[१३३।०६]
तत्संप्रयुक्तानि पर्यवस्थानानि उपादानम् ।

[१३३।०६-१३३।०७]
तत्समुत्थितं कायवाक्कर्म भवः ।

[१३३।०७-१३३।०८]
तेषां धर्माणामुत्सर्जनं जातिः परीपाको जरा भङ्गो मरणमिति ।

[१३३।०८]
पुनराहुः ।

[१३३।०८-१३३।०९]
क्षणिकः सांबन्धिकश्च यथा प्रकरणेषु “प्रतीत्यसमुत्पादः कतमः ।

[१३३।०९]
सर्वे संस्कृता धर्मा” इति ।

[१३३।०९-१३३।१०]
आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसंबद्धाः ।

[१३३।१०]
स एव प्राकर्षिकः ।
एषां कतमोऽयमभिप्रेतो भगवतः ।

[१३३।११]
आवस्थिकः किलेष्टोऽयं

[१३३।१२]
यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्त्तयति स्म ।

[१३३।१३]
प्राधान्यत्त्वङ्गकीर्तनम् ।

[१३३।१४-१३३।१५]
अविद्याप्रधानामवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान्यावज्जरामरणमित्यदोषः ।

[१३३।१५-१३३।१६]
किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः प्रकरणेष्वन्यथा “प्रतीत्यसमुत्पादः कतमः ।

[१३३।१६]
सर्वे संस्कृता धर्मा” इति ।

[१३३।१६-१३३।१७]
अभिप्रायिकः सूत्रे लाक्षणिकोऽभिधर्मः ।

[१३३।१७-१३३।१८]
तथावस्थिकः क्षणिकः प्राकर्षिकः सांबन्धिकः सत्त्वाख्योऽसत्त्वाख्यश्चेति भेदः ।

[१३३।१८]
किमर्थं पुनः सूत्रे सत्त्वाख्य एव ।

[१३३।१९]
पूर्वापरान्तमध्येषु संमोहविनिवृत्तये ॥ ३.२५ ॥

[१३३।२०]
अत एव च त्रिकाण्डः ।

[१३३।२०-१३३।२१]
तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा किं न्व हमभूवमतीतेऽध्वनि आहोस्विन्नाभूवं को न्वहमभूवं कथं न्वहमभूवमिति ।

[१३३।२२]
अपरान्तसंमोहो यत इयं विचिचित्सा किं नु भविष्याम्यनागतेऽध्वनीति विस्तरः ।

[१३३।२३]
मध्यसंमोहो यत इयं विचिकित्सा किम्स्विदिदं के सन्तः के भविष्याम इति ।

[१३३।२४-१३३।२६]
एतस्य त्रिविधस्य संमोहस्य व्यावर्त्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च विज्ञानं यावत्भवश्च ।

[१३३।२६-१३४।०२]
तथाहि सूत्र एवोक्तं “यतश्च भिक्षवो भिक्षुणा प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक्प्रज्ञया दृष्टा भवन्ति ।

[१३४।०२]
स न पूर्वान्तं प्रतिसरति किं न्वहमभूवमतीतेऽध्वनी”ति विस्तरः ।

[१३४।०३]
तृष्णोपादानभवा अप्यपरान्तसंमोहव्यावर्तनार्थमित्यपरे ।

[१३४।०३-१३४।०४]
तस्यैव ह्येते हेतव इति स पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः ।

[१३४।०५]
क्लेशकर्मवस्तूनि ।
तत्र

[१३४।०६]
क्लेशास्त्रीणि

[१३४।०७]
त्रीण्यङ्गानि क्लेशस्वभावान्यविद्यातृष्णेपादानानि ।

[१३४।०८]
द्वयं कर्म

[१३४।०९]
अङ्गद्वयं कर्मस्वभावं संस्कारा भवश्च ।

[१३४।१०]
सप्त वस्तु

[१३४।११]
सप्ताङ्गानि वस्तुस्वभावानि विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरामरणानि ।

[१३४।१२]
क्लेशकर्माश्रयत्वात् ।
यथा च वस्तु सप्ताङ्गानि

[१३४।१३]
फलं तथा ।

[१३४।१४]
सप्तैवाङ्गानि फाभूतानि ।
शेषाणि पञ्च हेतुभूतानि ।

[१३४।१४-१३४।१५]
कर्मक्लेशस्वभावभूतत्वात् ।

[१३४।१५]
किं पुनः कारणं मध्ये फलहेतू विशालितौ ।

[१३४।१५-१३४।१६]
वस्तुनः पञ्चधा भेदात् ।

[१३४।१६]
क्लेशस्य द्विधा ।
अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदात् ।

[१३४।१७]
अतीतेऽध्वनि हेतुरेकमुखक्लेशोपदेशादिति ।

[१३४।१८]
फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः ॥ ३.२६ ॥

[१३४।१९]
मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्योऽनुमानुमिति नोक्तः ।

[१३४।२०]
पुनरपरात्मकं हि यत्नं मा कार्यमिति ।

[१३४।२०-१३४।२२]
यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पाद एवं सत्यविद्याया अनुपदिष्टहेतुकत्वादादिमान् संसारः प्राप्नोति जरामरणस्य चानुपदिष्टफलत्वादन्तवान् ।

[१३४।२२-१३४।२३]
अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्य नवस्थाप्रसङ्गः ।

[१३४।२३]
नोपसंख्यातव्यम् ।
यस्मादुपदर्शितोऽत्र भगवता

[१३४।२४-१३४।२५]
क्लेशात्क्लेशः क्रिया चैव ततो वस्तु ततः पुनः ।
वस्तुक्लेशाश्च जायन्ते भवाङ्गनामयं नयः ॥ ३.२७ ॥

[१३४।२६]
क्लेशात्क्लेशो जायते तृष्णाया उपादानम् ।
क्लेशात्कर्म ।

[१३४।२६-१३५।०१]
उपादानात्भवोऽविद्यायाश्च संस्कारा ।

[१३५।०१]
कर्मवस्तुसंस्कारेभ्यो विज्ञानं भवाच्च जातिः ।

[१३५।०१-१३५।०२]
वस्तुनो वस्तुविज्ञानानामरूपं यावत्स्पर्शाद्वेदना जातेश्च जरामरणम् ।

[१३५।०२-१३५।०३]
वस्तुनः क्लेशो वेदनाया स्तृष्णेति ।

[१३५।०३-१३५।०४]
यस्मादेष नयो व्यवस्थितो भवाङ्गानां तस्मादविद्याऽपि क्लेशस्वभावा वस्तुनः क्लेशाद्वेति ज्ञापितं भवति ।

[१३५।०४-१३५।०५]
वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति नात्र पुनः किञ्चिदुपसंख्येयम् ।

[१३५।०५-१३५।०६]
“एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवती”ति वचनात् ।

[१३५।०६]
अन्यथा हि किमस्य सामर्थ्यं स्यात् ।

[१३५।०७]
अयोनिशोमनस्कारहेतुकाऽविद्योक्ता सूत्रान्तरे ।
अविद्याहेतुकश्चायोनिशोमनस्कारः ।

[१३५।०८]
स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति अपरे ।

[१३५।०८-१३५।०९]
कथमयोनिशोमनस्कारस्योपादानेऽन्तर्भावः ।

[१३५।०९]
यदि संप्रयोगतः ।
तृष्णाऽविद्ययोरपि तस्यान्तर्भावप्रसङ्गः ।

[१३५।१०]
सत्यपि चान्तर्भावे कथमत्रेदं ज्ञापितं भवत्ययोनिशोमनस्कारहेतुका अविद्येति ।

[१३५।११-१३५।१२]
यदि तर्ह्यन्तर्भावेनैव हेतुफलभावो विज्ञायते तृष्णाऽविद्ययोरपि तर्हि तत्रान्तर्भावा दङ्गन्तरत्वं शक्यमकर्त्तुम् ।

[१३५।१२]
अन्यः पुनराह ।

[१३५।१२-१३५।१३]
अयोनिशो मनस्कारो हेतुरविद्याया उक्तः सूत्रान्तरे ।

[१३५।१३]
स चापि स्पर्शकाले निर्दिष्टः ।

[१३५।१३-१३५।१४]
“चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज” इति ।

[१३५।१४]
वेदनाकाले चावश्यमविद्यया भवितव्यम् ।

[१३५।१५]
“अविद्यासंस्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णे”ति सूत्रान्तरात् ।

[१३५।१६-१३५।१७]
अतः स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति नास्त्यहेतुकत्वमविद्याया न चाङ्गान्तरमुपसंख्येयम् ।

[१३५।१७-१३५।१८]
नचाप्यनवस्थाप्रसङ्गः ।

[१३५।१८-१३५।१९]
तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनादाविलो मनस्कारो मोहज इति ।

[१३५।१९]
तत्तर्ह्येतदन्त्यत्रोक्तमिह पुनर्वक्तव्यम् ।
न वक्तव्यम् ।
कथमनुच्यमानं गम्यते ।

[१३५।२०]
युक्तितः ।
कया युक्त्या ।

[१३५।२०-१३५।२१]
नहि निरवद्या वेदना तृष्णायाः प्रत्ययीभवत्यर्हतां न चावीपरीतः स्पर्शः क्लिष्टाया वेदनायाः ।

[१३५।२१-१३५।२२]
नच पुनर्निरवद्यस्यार्हतः स्पर्शो विपरीत इत्यनया युक्त्या ।

[१३५।२२]
अतिप्रसङ्ग एवं प्राप्नोति ।

[१३५।२२-१३५।२३]
यौवत्युक्त्या संभवति तावदनुक्तं गम्यत इति ।

[१३५।२३-१३५।२४]
तस्मान्न भवत्ययं परिहारः ।

[१३५।२४]
अचोद्यमेव त्वेतद् ।

[१३५।२४-१३५।२५]
अविद्याजरामरणयोः परेणाङ्गन्तरानभिधानात्संसारस्याद्यन्तवत्त्वप्रसङ्गः ।

[१३५।२५]
नचापरिपूर्णो निर्देश इति ।
किं कारणम् ।

[१३५।२६-१३५।२७]
प्रवृत्तिसंमूडेभ्यो विनेयेभ्यः कथं परलोकादिहलोक इहलोकाच्च पुनः परलोकः संबध्यत इत्येतावतोऽत्रार्थस्य विवक्षितत्वात् ।

[१३५।२७]
एतस्य च पूर्वमेवोत्तत्वात् ।

[१३६।०१]
पूर्वापरान्तमध्येषु संमोह विनिवृत्तये” ।

[१३६।०२-१३६।०३]
उक्तं भगवता “प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्यसमुत्पन्नांश्च धर्मानित्यथक एषां विशेषः ।

[१३६।०३]
शास्त्रतस्तावन्न कश्चित् ।

[१३६।०३-१३६।०४]
उभ्यं हि सर्वे संस्कृता धर्मा इति ।

[१३६।०४]
कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते ।

[१३६।०४-१३६।०५]
कथं तावदकृता एवानागताः संस्कृता उच्यन्ते ।

[१३६।०५]
आभिसम्स्कारिकया चेतनया चेतितत्वात् ।

[१३६।०५-१३६।०६]
अनास्रवाः कथम् ।

[१३६।०६]
तेऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति ।
निर्वाणेऽपि प्रसङ्गः ।

[१३६।०७-१३६।०८]
तज्जातीयत्वात्तत्तत्रैवातिदेशो यथा नच तावद्रूप्यते रूपं चोच्यते तज्जातीयत्वादित्यदोषः ।

[१३६।०८]
सूत्राभिप्रायस्त्वयमुच्यते ।

[१३६।०९]
हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् ।

[१३६।१०-१३६।११]
हेतुभूतमङ्गप्रतीत्यसमुत्पादः समुत्पद्यतेऽस्मादिति दृत्वा फलभूतमङ्ग प्रतीत्यसमुत्पन्नम् ।

[१३६।११]
एवं सर्वाण्यङ्गान्युभययथा सिध्यन्ति ।
हेतुफलभवात् ।

[१३६।११-१३६।१२]
न चैवं सत्यव्यवस्था भवन्त्यपेक्षाभेदात् ।

[१३६।१२-१३६।१३]
यदपक्षय प्रतीत्यसमुत्पादो न तदेवापेक्ष्य प्रतीत्यसमुत्पन्नं हेतुफलवत्पितृपुत्रवच्च ।

[१३६।१३-१३६।१४]
स्थविरपूर्णाशः किलाह स्यात्प्रतीयसमुत्पादो न प्रतीत्यसमुत्पन्ना धर्मा इति ।

[१३६।१४]
चतुष्कोटिकः ।

[१३६।१५]
प्रथमा कोटिरनागता धर्माः ।
द्वितीयाऽर्हतश्चरमाः ।

[१३६।१५-१३६।१६]
तृतीया तदन्येऽतीतप्रत्युपन्ना धर्माः ।

[१३६।१६]
चतुर्थ्य संस्कृता धर्मा इति ।
अत्र तु सौत्रान्तिका विज्ञापयन्ति ।

[१३६।१६-१३६।१७]
किं खल्वेता इष्टय उच्यन्ते या यस्येष्टिराहोस्वित्सूत्रार्थः ।

[१३६।१७]
सूत्रार्थ इत्याह ।

[१३६।१७-१३६।१८]
यदि सूत्रार्थो नैष सूत्रार्थः ।

[१३६।१८]
कथं कृत्वा ।

[१३६।१८-१३६।१९]
यत्तावदुक्तमा “वस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्चस्कन्धिका अवस्था द्वादशङ्गानी” त्येतदुत्सूत्रम् ।

[१३६।१९]
सूत्रेऽन्यथा निर्देशाद् ।

[१३६।२०]
“अविद्या कतमा ।
यत्तत्पूर्वान्तेऽज्ञानमि”ति विस्तरेण ।

[१३६।२०-१३६।२१]
यच्च नीतार्थं न तत्पुनर्नेयं भवतीति नैष सूत्रार्थः ।

[१३६।२१]
न वै सर्वं निर्देशतो नीतार्थं भवति ।

[१३६।२१-१३६।२२]
यथाप्रधानं चापि निर्देशाः क्रियन्ते ।

[१३६।२२-१३६।२३]
तद्यथा हस्तिपदोपमे “पृथिवीधातुः कतमः” इत्यधिकृत्याह “केशा रोमाणी”ति ।

[१३६।२३]
सन्ति च तत्रान्येऽपि रूपादयः ।
एवमत्रापि यथाप्रधानं निर्देशः स्यात् ।

[१३६।२४]
औपसंहार एषः ।
नहि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते ।

[१३६।२४-१३६।२५]
यत एषामपरिपूर्णो निर्देशः स्यादपि तु केशादिभिरेव पृथिवीधातुः तत्र निर्देश्यते ।

[१३६।२५-१३६।२६]
न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति संपूर्ण एवास्य निर्देशः ।

[१३६।२६-१३७।०१]
एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशो न सावशेषः ।

[१३७।०१-१३७।०२]
ननु चाभ्यतीत्यापि केशादीनश्रुखेट शिङ्घाणका दिष्वस्ति पृथिवीधातुः ।

[१३७।०२]
सोऽपि निर्दिष्ट एवेति ।

[१३७।०२-१३७।०४]
यद्व “पुनरन्यदप्यस्मिन् काये खकूखटं खरगतमिति वचनात्भवतु वा तथैवाविद्यावशेषो यदि शक्यते दर्शयितुम् ।

[१३७।०४]
जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः ।

[१३७।०५-१३७।०६]
यद्यपि च तास्ववस्थासु पञ्च स्कन्धा विद्यन्ते यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् ।

[१३७।०६-१३७।०७]
सत्यपि च पञ्चस्कन्धकेऽर्हतः संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः ।

[१३७।०७]
किं तर्हि
अविद्याहेतुका एव ।

[१३७।०७-१३७।०८]
तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं तृष्णा दयश्चेति ।

[१३७।०८]
यथानिर्देशमेव सूत्रार्थः ।

[१३७।०९]
यदप्युक्तं “हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिक” इति ।

[१३७।१०]
एतदप्युत्सूत्रम् ।
सूत्रेऽन्यथा निर्देशात् ।
“प्रतीत्यसमुत्पादः कतमः ।

[१३७।१०-१३७।१२]
यदुतास्मिन् सतीदं भवतीति विस्तरेणोक्त्वा इति याऽत्र धर्मता धर्मस्थितिता यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पाद” इति ।

[१३७।१२]
ध्र्मता च नाम धर्मजातिः धर्माणां शैलिः ।

[१३७।१३]
अतो येयं धर्मता य एष नियमः ।
अविद्यायामेवसत्यां संस्कारा भवन्ति नोन्यथा ।

[१३७।१४]
एष प्रतीत्यसमुत्पादो न हेतुरेव ।

[१३७।१४-१३७।१५]
यदपि चतुष्कोटिकमुक्तं तत्र यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः सूत्रं विरुध्यते ।

[१३७।१५-१३७।१६]
प्रतीत्यसमुत्पन्ना धर्माः कतमे ।

[१३७।१६]
अविद्या यावज्जातिः जरामरणम् ।”

[१३७।१६-१३७।१७]
तयो रनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते ।

[१३७।१७]
असंस्कृतः प्रतीत्यसमुत्पाद इति निकायान्तरीयाः ।

[१३७।१८]
“उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मते”ति वचनात् ।

[१३७।१८-१३७।१९]
तदेतदभिप्रायवशादेवं च न चैवम् ।

[१३७।१९]
कथं तावदेवं कथं वा नैवम् ।

[१३७।१९-१३७।२१]
यद्ययमभिप्राय उत्पादद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन् प्रतीत्य संस्कारादीनामनुत्पादो न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति एवमेतदिति प्रतिग्राह्यम् ।

[१३७।२१-१३७।२२]
अथायमभिप्रायः प्रतीत्यसमुत्पादो नाम किञ्चित्भावान्तरं नित्यमस्तीति ।

[१३७।२२-१३७।२३]
नैतदेवमिति प्रतिषेद्धव्यम् ।

[१३७।२३]
किं कारणम् ।
उत्पादस्य संस्कृतलक्षणत्वात् ।

[१३७।२३-१३७।२४]
न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते ।

[१३७।२४-१३७।२५]
उत्पादश्च नामोत्पत्तुर्भवतीति कोऽस्याविद्यादिभिरभिसम्बन्धो यतस्तेषां प्रतीत्यसमुत्पाद इत्युच्येत ।

[१३७।२५-१३७।२६]
पदार्थश्चासमर्थो भवतीति नित्यश नाम प्रतीत्यसमुत्पादश्चेति ।

[१३८।०१]
अथ प्रतीत्यसमुत्पाद इति कः पदार्थः ।

[१३८।०१-१३८।०२]
प्रतिः प्राप्त्यर्थ एति गत्यर्थः ।

[१३८।०२]
उपसर्गवशेन धात्वर्थपरिणामात्प्राप्येति योऽर्थः सोऽर्थः प्रतीत्येति ।

[१३८।०३]
पदिः सत्तार्थं समुत्पूर्वः प्रादुर्भावार्थः ।

[१३८।०३-१३८।०४]
तेन प्रात्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः ।

[१३८।०४]
न युक्त एष पदार्थः ।
किं कारणम् ।

[१३८।०४-१३८।०५]
एकस्य हि कर्त्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवति ।

[१३८।०५]
तद्यथा स्नात्वा भुङ्क्त इति ।

[१३८।०५-१३८।०६]
नचासौ पूर्वमुत्पादात्कश्चिदस्ति यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते ।

[१३८।०६-१३८।०७]
नचाप्यकर्तु कास्ति क्रियेति ।

[१३८।०७]
आह चात्र

[१३८।०८-१३८।०९]
“प्रत्येति पूर्वमुत्पादाद्यद्यसत्त्वान्न युज्यते ।
सह चेत्क्त्वा न सिद्धोऽत्र पूर्वकालविधानत” इति ॥

[१३८।१०]
नैष दोषः ।
इदं तावद्यं प्रष्टव्यः शाब्दिकः ।

[१३८।१०-१३८।११]
किमवस्थो धर्मः उत्पद्यते वर्त्तमान उताहोऽनागते इति ।

[१३८।११]
किं चातः ।
यदि वर्त्तमान उत्पद्यते ।

[१३८।११-१३८।१२]
कथं वर्त्तमानो यदि नोत्पन्नः ।

[१३८।१२]
उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः ।

[१३८।१२-१३८।१३]
अथानागत उत्पद्यते कथमसतः कर्तृत्वं सिद्धत्यकर्तृका वा क्रियेति ।

[१३८।१३-१३८।१४]
अतो यदवस्थ उत्पद्यते तदवस्थ एव प्रत्येति ।

[१३८।१४]
किमवस्थश्चोत्पद्यते ।
उत्पादाभिमुखोऽनागतः ।

[१३८।१४-१३८।१५]
तदवस्थ एव प्रत्ययं प्रत्येतीत्युच्यते ।

[१३८।१५-१३८।१६]
अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रियाव्यवस्थानं भवतीत्येष कर्त्ता भूतिरित्येषा क्रिया ।

[१३८।१६-१३८।१७]
न चात्र भवितुरर्थात्भूतिमन्यां क्रियां पश्यामः ।

[१३८।१७]
तस्मादच्छलं व्यवहारेषु ।
एष तु वाक्यार्थः ।

[१३८।१७-१३८।१८]
अस्मिन् सत्यस्य भावः अस्योत्पादादिदमुत्पद्यत इति योऽर्थः सोऽर्थः प्रतीत्यसमुत्पाद इति ।

[१३८।१९]
आह चात्र

[१३८।२०-१३८।२३]
“असन्नुत्पद्यते यद्वत्प्रत्येत्यपि तथाऽथ सन् ।
उत्पन्न उत्पद्यत इत्यनिष्ठाऽसन् पुराऽपि वा ॥
सहकालेऽपि च क्त्वाऽस्ति दीपं प्राप्य तमो गतम् ।
आस्यं व्यादाय शेते च पश्चाच्चेत्किं न संवृते ॥”

[१३८।२४]
अन्ये पुनरस्य चोद्यस्य परिहारार्थमन्यथा परिकल्पयन्ति ।

[१३८।२४-१३८।२५]
प्रतिर्वीप्सार्थः ।

[१३८।२५]
इतौ साधव इत्या अनवस्थायिनः ।
उत्पूर्वः पदिः प्रादुर्भावार्थः ।

[१३८।२६-१३८।२७]
तां तां कारण सामग्रीं प्रति इत्यानां समवायेनोत्पादः प्रतीत्यसमुत्पाद इति ।

[१३८।२७]
एषा तु कल्पनाऽत्रैव कल्प्यते ।

[१३८।२७-१३८।२८]
इह कथं भविष्यति “चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति”ति ।

[१३८।२८-१३९।०१]
किमर्थं पुनर्भगवान् पर्यायद्वयमाह “अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यते” इति ।

[१३९।०१-१३९।०२]
अवधारणार्थम् ।

[१३९।०२-१३९।०३]
यथाऽन्यत्राह “अविद्यायां सत्यां संस्कारा भवन्ति नान्यत्राविद्यायाः संस्कारा” इति ।

[१३९।०३]
अङ्गपरंपरां वा दर्शयितुम् ।

[१३९।०३-१३९।०४]
अस्मिन्नङ्गे सतीदं भवति अस्य पुनरङ्गस्योत्पादादिदमुत्पद्यत इति ।

[१३९।०४]
जन्मपरंपरां वा ।

[१३९।०४-१३९।०५]
पूर्वान्ते सति मध्यान्तो भवति मध्यान्तस्योत्पादादपरान्त उत्पद्यत इति ।

[१३९।०५-१३९।०६]
साक्षात्पारंपर्येण प्रत्ययभावं दर्शयति ।

[१३९।०६]
कदाचिद्धि समनन्तरमविद्यायाः संस्कारा भवन्ति कदाचित्पारंपर्येणेति ।

[१३९।०७]
अहेतुनित्यहेतुवादप्रतिषेधार्थमित्यपरे ।

[१३९।०७-१३९।०८]
नासति हेतो भावो भवति न चानुत्पत्तिमतो नित्यात्प्रकृतिपुरुषादिकात्किञ्चिदुत्पद्यत इति ।

[१३९।०८-१३९।०९]
अस्यां तु कल्पनायां पूर्वपदस्य ग्रहणमनर्थकं प्राप्नोति ।

[१३९।०९]
अस्योत्पादादिमुत्पद्यत इत्यनेनैवोभयवादप्रतिषेधसिद्धेः ।

[१३९।१०-१३९।११]
सन्ति तर्हि केचिद्य आत्मनि सत्याश्रयभूते संस्कारादीनां भावं परिकल्पयन्ति अविद्यादीनां चोत्पादात्तदुत्पत्तिम् ।

[१३९।११-१३९।१२]
अतस्तां कल्पनां पर्युदासयितुमिदं निर्धारयांवभूव यस्यैवोत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तत्भवति नान्यस्मिन् ।

[१३९।१२-१३९।१३]
यदुता “विद्याप्रत्ययाः संस्काराः यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति”ति ।

[१३९।१४]
अप्रहीणोत्पत्तिज्ञापनार्थमित्याचार्याः ।
अविद्यायामप्रहीणायां संस्कारा न प्रहीयन्ते ।

[१३९।१५]
तस्या एवोत्पादादुत्पद्यन्त इति विस्तरः ।

[१३९।१५-१३९।१६]
स्थित्युत्पत्तिसंदर्शनार्थमित्यपरे ।

[१३९।१६]
यावत्कारणस्रोतस्तावत्कार्यस्रोतो भवति ।

[१३९।१६-१३९।१७]
कारणस्यैवचोत्पादात्कार्यमुत्पद्यत इति ।
[१३९।१७-१३९।१८]
उत्पादे त्वधिकृते कः प्रसङ्गः स्थितिवचनस्य भिन्नक्रमं च भगवान् किमर्थमाचक्षित प्राक्स्थितिं पश्चादुत्पोआदम् ।

[१३९।१८-१३९।१९]
पुनराह “अस्मिन् सतीदं भवती”ति “कार्ये सति कारणस्य विनाशो भवती”ति ।

[१३९।१९-१३९।२०]
स्यान्मत महेतुकं तर्हि कार्यमुत्पद्यत इत्यत आह नाहेतुकम् ।

[१३९।२०-१३९।२१]
यस्मादस्योत्पादादिदमुत्पद्यत इति ।

[१३९।२१]
एष चेत्सूत्रार्थोऽभविष्यदस्मिन् सतीदं न भवतीत्येवाचक्षत ।

[१३९।२१-१३९।२२]
पूर्वं च तावत्कार्यस्योत्पादाने वाचक्षत पश्चादस्मिन् सतीदं न भवतीति ।

[१३९।२२-१३९।२३]
एवं हि साधुः क्रमो भवति ।

[१३९।२३-१३९।२४]
इतरथा तु प्रतीत्यसमुत्पादः कतम इत्यादेरर्थे कः प्रक्रमो विनाशवचनस्य ।

[१३९।२४]
तस्मान्नैष सूत्रार्थः ।

[१३९।२४-१३९।२५]
कथं पुन “र्विद्याप्रत्ययाः संस्कारा यावत्जातिप्रत्ययं जरामरणामि”ति ।

[१३९।२५]
आभिसंबन्धमात्रं दर्शयिष्यामः ।

[१३९।२५-१४०।०२]
बालो हि प्रतीत्यसमुत्पन्नं संस्कारमात्रमिदमित्यप्रजाननात्मदृष्ट्यस्मिमानाभिनिविष्ट आत्मनः सुखार्थमदुःखार्थं वा कायादिभिस्त्रिविधं कर्मारभते आयति सुखार्थं पुण्यं सुखादुःखासुखार्थमानैज्जमैहिकसुखार्थमपुण्यं तस्याविद्याप्रत्ययाः संस्काराः कर्माक्षेपवशाच्च विज्ञानसंततिस्तां तां गतिं गच्छति ।

[१४०।०२-१४०।०३]
ज्वालागमनयोगेनान्तराभवसंबन्धात् ।

[१४०।०३]
तदन्यसंस्काराप्रत्ययं विज्ञानम् ।

[१४०।०३-१४०।०४]
एवं च कृत्वा तदुपपन्नं भवति विज्ञानाङ्गनिर्देशे “विज्ञानं कतमत् ।

[१४०।०४]
षड्विज्ञानकाया” इति ।

[१४०।०५-१४०।०६]
विज्ञानपूर्वकं पुनस्तस्यां तस्यां गतौ नामरूपं जायते पञ्चस्कन्धकं कृत्स्नजन्मानुगतम् ।

[१४०।०६]
विभङ्गे महानिदानपर्याये चैवं निर्देशात् ।

[१४०।०६-१४०।०७]
“तथा नामरूपपरिपाकात्क्रमेण षडायतनम् ।

[१४०।०७]
ततो विषयसंप्राप्तौ सत्यां विज्ञानसंभव” इति ।

[१४०।०७-१४०।०८]
त्रयाणां संनिपातः स्पर्शः सुखादिवेदनीयः ।

[१४०।०८]
ततस्त्रिविधा वेदना ।
तत्स्तृष्णा ।

[१४०।०८-१४०।०९]
दुःखोत्पीडितस्य सुखायां वेदनायां कामतृष्णा ।

[१४०।०९]
सुखायामदुःखासुखायां च रूपतृष्णा ।

[१४०।०९-१४०।१०]
अदुःखासुखायामारुप्यतृष्णा ।

[१४०।१०]
तत इष्टवेदनातृष्णायाः कामादीनामुत्पादनम् ।

[१४०।१०-१४०।११]
तत्र कामाः पञ्च कामगुणाः ।

[१४०।११]
दृष्टयो द्वाषष्टिर्यथा ब्रह्मजालसूत्रे ।
शीलं दौःशील्यविरतिः ।

[१४०।१२]
व्रतं कुक्कुरगोव्रतादीनि ।
यथा च निर्ग्रन्थादीनां नग्नो घवत्यचेलक इति विस्तरः ।

[१४०।१३-१४०।१४]
ब्राह्मणप
ाशुपतपरिब्राजकादीनां च दण्डाजिनभस्मजटात्रिदण्डमौण्ड्यादिसमादानम् ।

[१४०।१४]
आत्मवादः पुनरात्मभावः ।

[१४०।१४-१४०।१५]
आत्मेति वादोऽस्मिन्नित्यात्मवादः ।

[१४०।१५]
आत्मदृष्ट्यस्मिमानावित्यपरे ।
कथमनयोरात्मवादत्वम् ।

[१४०।१५-१४०।१६]
“आभ्यामात्मे”ति वचनात् ।

[१४०।१६]
आत्मनो ह्यसत्त्वादात्मवादोपादानमित्युच्यते ।

[१४०।१६-१४०।१७]
प्रज्ञप्तिमात्रकस्योपादानात् ।

[१४०।१७-१४०।१८]
यथोक्त “मात्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो नत्वत्रात्मा वा आत्मीयं वा” इति ।

[१४०।१८-१४०।१९]
तेषामुपादानं तेषु यश्छन्दरागः ।

[१४०।१९]
एवं हि भगवता सर्वत्राख्यातम् “उपादानं कतमत् ।

[१४०।१९-१४०।२०]
योऽत्रच्छन्दरागं” इति ।

[१४०।२०]
उपादानप्रत्ययं पुनः पौनर्भविकं कर्मोपचीयते ।
तद्भवः ।

[१४०।२०-१४०।२१]
“यदप्यानन्द कर्मायत्यां पुनर्भावाभिनिवर्तम्कमिदमत्र भवस्ये”ति सूत्रात् ।

[१४०।२१-१४०।२२]
भवप्रत्ययं पुनर्विज्ञानावक्रान्तियोगेन ।

[१४०।२२]
अनागतं जन्म जातिः पञ्चस्कन्धिका ।

[१४०।२२-१४०।२३]
जातौ सत्यां जरामरणं यथा निरिष्टं सूत्रे ।

[१४०।२३]
“एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो घवती”ति ।

[१४०।२४]
केवलस्येत्यात्मीयरहितस्य ।
महतो दुःखस्कन्धस्येत्यनाद्यनन्तस्य दुःखसमूहस्य ।

[१४०।२५]
समुदयो भवतीति प्रदुर्भावः ।
स एव तु वैभाषिकन्यायो यः पूर्वमुक्तः ।

[१४०।२६]
अथाविद्येति कोऽर्थः ।
या न विद्या ।
चक्षुरादिष्वपि प्रसङ्गः ।

[१४०।२६-१४०।२७]
विद्याया अभावस्तर्हि ।

[१४०।२७]
एवं सति न किञ्चित्स्यात् ।

[१४०।२७-१४०।२८]
न चैतत्युक्तम् ।

[१४०।२८]
तस्मात्

[१४१।०१]
विद्याविपक्षो धर्मोऽन्योऽविद्याऽमित्रानृतादिवत् ॥ ३.२८ ॥

[१४१।०२-१४१।०३]
यथा मित्रविपर्ययेण तद्विपक्षभूतः कश्चिदमित्रो भवति न तु यः कश्चिदन्यो मित्रान्नापि मित्राभावः ।

[१४१।०३]
ऋतं चोच्यते सत्यम् ।

[१४१।०३-१४१।०४]
तद्विपक्षभूतं वाक्यमनृतं भवति ।

[१४१।०४]
अधर्मानर्थाकार्यादयश्च धर्मादिप्रतिद्वन्द्वभूताः ।

[१४१।०४-१४१।०५]
एवमविद्याऽपि विद्यायाः प्रतिद्वन्द्वभूतधर्मान्तरमिति द्रष्टव्यम् ।

[१४१।०५]
कुत एतत् ।
प्रत्ययभावेनोपदेशात् ।
अपि च

[१४१।०६]
संयोजनादिवचनात्

[१४१।०७]
संयोजनं बन्धनमनुशय ओघो योगश्चाविद्योच्यते सूत्रेषु ।

[१४१।०७-१४१।०८]
न चाभावमात्रं तथा भवितुमर्हति ।

[१४१।०८]
न चापि चक्षुरादयः ।
तस्माद्धर्मान्तरमेवाविद्या ।

[१४१।०८-१४१।०९]
यथा तर्हि कुभार्या अभार्येत्युच्यते कुपुत्रश्चापुत्रः ।

[१४१।०९]
एवमविद्याऽप्यस्तु ।

[१४१।१०]
कुप्रज्ञा चेन्न दर्शनात् ।

[१४१।११]
कुत्सिता हि प्रज्ञ क्लिष्टा ।
सा च दृष्टिस्वभावा इति नाविद्या युज्यते ।

[१४१।११-१४१।१२]
या तर्हि न दृष्टिः सा भविष्यति ।

[१४१।१२]
साऽपि भवितुं नार्हति ।
किं कारणम् ।

[१४१।१३]
दृष्टेस्तत्संप्रयुक्तत्वात्

[१४१।१४]
अविद्या चेत्प्रज्ञाऽभविष्यन्न दृष्टिस्तया युज्यते संप्रायोक्ष्यत ।

[१४१।१४-१४१।१५]
द्वयोः प्रज्ञाद्रव्ययोरसंप्रयोगात् ।

[१४१।१५]
इतश्च

[१४१।१६]
प्रज्ञोपक्लेशदेशनात् ॥ ३.२९ ॥

[१४१।१७]
“रागोपक्लिष्टं चित्तं नावमुच्यते अविद्योपक्लिष्टा प्रज्ञा न विशुध्यती”त्युक्तं सूत्रे ।

[१४१।१८]
न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति ।

[१४१।१८-१४१।१९]
यथा चित्तस्यान्यो भिन्नजातीय उपक्लेशो राग एवं प्रज्ञाया अविद्या ।

[१४१।१९]
किं पुनरेवं नेष्यते ।

[१४१।२०]
क्लिष्टया प्रज्ञया कुशला प्रज्ञा व्यव्कीर्यमाणा न विशुध्यति ।

[१४१।२०-१४१।२१]
अतोऽसौ तस्या उपक्लेश इति ।

[१४१।२१]
यद्वापि रागोपक्लिष्टं चित्तं न विमुच्यते ।

[१४१।२१-१४१।२२]
किं तदवश्यं रागपर्यवस्थितं भवति ।

[१४१।२२]
उअपहतं तु तत्तथा रागेण भवति यन्न विमुच्यते ।

[१४१।२२-१४१।२३]
तां पुन्र्भावनां व्यावर्तयतो विमुच्यते ।

[१४१।२३-१४१।२४]
एवमविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीत्यविद्योपहतां परिक्ल्पयामः ।

[१४१।२४]
को हि परिकल्पयन् वार्यते ।
जात्यन्तरमेव त्वविद्यां वर्णयन्ति ।

[१४१।२५]
योऽपि मन्यते “सर्वक्लेशा अविद्ये”ति तस्याप्यत एव व्युदासः ।

[१४१।२५-१४२।०१]
सर्वक्लेशस्वभावाऽपि सती संयोजनादिषु पृथग्नोच्येत दृष्ट्या च न संप्रयुज्येत ।

[१४२।०१-१४२।०२]
अन्येन वा क्लेशेन दृष्ट्यादीनां परंपरासंप्रयोगात्चित्तमपि चाविद्योपक्लेष्टमेवोक्तं भवेत् ।

[१४२।०२-१४२।०३]
अथ मतं विशेषणार्थं तथोक्तमिति ।

[१४२।०३]
प्रज्ञायामप्यविद्याविशेषणं कर्त्तव्यं भवेत् ।

[१४२।०३-१४२।०४]
भवत्वविद्या धर्मान्तरं कस्तु तस्याः स्वभावः ।

[१४२।०४]
सत्यवन्न कर्मफलानामसंप्रख्यानम् ।

[१४२।०४-१४२।०५]
एतच्चैव न ज्ञायते किमिदमसंप्रख्यानं नामेति ।

[१४२।०५-१४२।०६]
यदि यन्न संप्रख्यानं संप्रख्यानाभावेऽपि तथैव दोषो यथा अविद्यायाम् ।

[१४२।०६-१४२।०७]
अथ संप्रख्यानविपक्षभूतं धर्मान्तरम् ।

[१४२।०७]
तदिदं तथैव न ज्ञायते किं तदिति ।

[१४२।०७-१४२।०८]
एवञ्जातीयकोऽपि धर्माणां निर्देशो भवति ।

[१४२।०८]
तद्यथा “चक्षुः कतमत् ।
यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय” इति ।

[१४२।०९]
अस्मीति सत्त्वमयताऽविद्येते भदन्तधर्मत्रातः ।
का पुनरस्मिमानादन्या मयता ।

[१४२।१०-१४२।१२]
याऽसौ सूत्र उक्ता “सोऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां प्रहाणात्परिज्ञानान्निश्छायो निवृत” इति ।

[१४२।१२]
अस्त्येषा मयता ।
सा त्वियमविद्येति कुत एतत् ।

[१४२।१३]
यत एषा नान्यः क्लेशः शक्यते वक्तुम् ।
ननु चान्यो मान एव स्यात् ।

[१४२।१३-१४२।१४]
अत्र पुनर्विचार्यमाणे बहु वक्तव्यं जायते ।

[१४२।१४]
तस्मात्तिष्ठत्वेतत् ।

[१४२।१५]
अथ नामरूपमिति कोऽर्थः ।
रूपं विस्तरेण यथोक्तम् ।

[१४२।१६]
नाम त्वरूपिणः स्कन्धाः

[१४२।१७]
किं कारणम् ।
नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम ।
कतमस्य नाम्नो वशेन ।

[१४२।१८]
यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्यायकं गौरश्वो रूपं रस इत्येवमादि ।

[१४२।१९]
एतस्य पुनः केन नामत्वम् ।
तेषु तेष्वर्थेषु तस्य नाम्नो नमनात् ।

[१४२।१९-१४२।२०]
इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामरुपिणः स्कन्धा इत्यपरे ॥

[१४२।२१]
षडायतनमुक्तम् ।

[१४२।२२]
स्पर्शो वक्तव्यः ।

[१४२।२३]
ष्पर्शाः षट्

[१४२।२४]
चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति ।
ते पुनः

[१४३।०१]
संनिपातजाः ।

[१४३।०२]
त्रयाणां संनिपाताज्जाता इन्द्रियार्थविज्ञानानाम् ।

[१४३।०२-१४३।०३]
युक्तं तावत्पञ्चानामिन्द्रियाणामर्थविज्ञानाभ्यां संनिपातः ।

[१४३।०३]
सहजत्वात् ।

[१४३।०३-१४३।०४]
मनैन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं संनिपातः ।

[१४३।०४-१४३।०५]
अयमेव तेषां संनिपातो यः कार्यकारणभावः ।

[१४३।०५]
एककार्यार्थो वा संनिपातार्थः ।

[१४३।०५-१४३।०६]
सर्वे च ते त्रयोऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति ।

[१४३।०६]
अत्र पुनराचार्याणां भेदं गता बुद्धयः ।

[१४३।०६-१४३।०८]
केचिद्धि सकृन्निपातमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति “इति य एषां त्रयाणां धर्माणां संगतिः संनिपातः समवायः स स्पर्शः” इति ।

[१४३।०८-१४३।०९]
केचित्पुनश्चित्तसंप्रयुक्तं धर्मान्तरमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति “षट्षट्को धर्मपर्यायः कतमः ।

[१४३।१०]
षडाध्यात्मिकान्यायतनानि ।
षट्बाह्यान्यायतनानि ।
षट्विज्ञानकायाः ।

[१४३।१०-१४३।११]
षट्स्पर्शकायाः ।

[१४३।११]
षट्वेदनाकायाः ।
षट्तृष्णाकाया” इति ।

[१४३।११-१४३।१२]
अत्र हीन्द्रियार्थविज्ञानेभ्यः स्पर्शकायाः पृथग्देशिताः ।

[१४३।१२-१४३।१३]
तत्र ये संनिपातमेव स्पर्शमाहुस्त एवं क्परिहारमाहुः ।

[१४३।१३]
न वै पृथिग्निर्देशात्पृथग्भावो भवति ।

[१४३।१३-१४३।१४]
मा भूद्धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति ।

[१४३।१४-१४३।१५]
नैष दोषस्तद्व्यतिरिक्तस्यापि धर्मायतनस्य भावात् ॥

[१४३।१५-१४३।१६]
न चैवं स्पर्शभूतात्त्रयादन्यत्त्रयमस्ति यस्य शेषस्यात्र ग्रहणं स्यात् ।

[१४३।१६-१४३।१७]
यद्यपि हीन्द्रियार्थौ स्यातामविज्ञानकौ न तु पुन्र्विज्ञानमनिन्द्रियार्थकम् ।

[१४३।१७]
तस्मात्त्रिषु निर्दिष्टेषु पुनः स्पर्शस्य ग्रहणमनर्थकं प्राप्नोति ।

[१४३।१८-१४३।१९]
न खलु सर्वे चक्षुरूपे सर्वस्य चक्षुर्विज्ञानस्य कारणं नापि सर्वं चक्षुर्विज्ञानं सर्वयोश्चक्षुरूपयोः कार्यम् ।

[१४३।१९-१४३।२०]
अतो येषां कार्यकारणाभावस्ते स्पर्शभावे व्यवस्थापिता इत्येके ।

[१४३।२०-१४३।२१]
ये पुनः संनिपातादन्यं स्पर्शमाहुस्त एतत्सूत्र कथं परिहरन्ति “इति य एषां त्रयाणां संगतिः संनिपातः समवायः स स्पर्श” इति ।

[१४३।२१]
न वा एवं पठन्ति ।

[१४३।२१-१४३।२२]
किं तर्हि ।

[१४३।२२-१४३।२३]
संगतेः संनिपातात्समवायादिति पठन्ति कारणे व कार्योपचारोऽयमिति ब्रुवन्ति ।

[१४३।२३]
अतिवहुविस्तरप्रसारिणी त्वेषा कथेत्यलं प्रसङ्गेन ।

[१४३।२३-१४३।२४]
अन्यमेव स्पर्शं वर्णयन्त्याभिधार्मिकाः ।

[१४३।२४]
तेषां प्न्नां षण्णां स्पर्शानां

[१४३।२५]
पञ्चप्रतिघसंस्पर्शः षष्ठोऽधिवचनाह्वय ॥ ३.३० ॥

[१४३।२६]
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शाः पञ्च प्रतिघ संस्पर्श इत्युच्यते ।

[१४३।२६-१४४।०१]
सप्रतिघेन्द्रियाश्रयत्वात् ।

[१४४।०१]
मनः संस्पर्शः षष्ठः सोऽधिवचनस्पर्श इत्युच्यते ।

[१४४।०१-१४४।०२]
किं कारणमधिवचनमुच्यते नाम ।

[१४४।०२]
तत्किलास्याधिकमालम्बनमतोऽधिवचनसंस्पर्श इति ।

[१४४।०२-१४४।०४]
यथोक्तं “चक्षुर्विज्ञानेन नीलं विजानाति नो तु नीलं मनोविज्ञानेन नीलं विजानाति नीलमिति च विजानाती”ति ।

[१४४।०४]
एक आश्रयिअप्रभाइतो द्वितीय आलम्बनप्रभावितः ।

[१४४।०५]
अपरे पुनराहुः ।
वचनमधिकृत्यार्थेषु मनोविज्ञानस्य प्रवृत्ति र्न पञ्चानाम् ।

[१४४।०६]
अतस्तदेवाधिवचनम् ।

[१४४।०६-१४४।०७]
तेन संप्रयुक्तः स्पर्शोऽधिवचनसंस्पर्श इत्येक आश्रयप्रभावितो द्वितीयः संप्रयोगप्रभावितः ।

[१४४।०७]
पुनस्त एव षट्स्पर्शास्त्रयो भवन्ति ।

[१४४।०८]
विद्याविद्येतरस्पर्शाः

[१४४।०९]
विद्यासंस्पर्शोऽविद्यासंस्पर्शः ।
ताभ्यां चान्यो नैवविद्यानाविद्यासंस्पर्श इति ।

[१४४।०९-१४४।१०]
एते पुनर्यथाक्रमं वेदितव्याः ।

[१४४।११]
अमलक्लिष्टशेषिताः ।

[१४४।१२-१४४।१३]
अनास्रवः स्पर्शो विद्यासंस्पर्शः क्लिष्टोऽविद्यासंस्पर्शो विद्याऽविद्याभ्यां संप्रयुक्तत्वात् ।

[१४४।१३]
शेषो नैवविद्यानाविद्यासंस्पर्श उभाभ्यामसंप्रयोगात् ।
कः पुन शेषः ।

[१४४।१४]
कुशलसास्रवोऽनिवृताव्याकृतश्च ।

[१४४।१४-१४४।१५]
पुनरविद्यासंस्पर्शस्याभीक्ष्णसमुदाचारिण एकदेशस्य ग्रहणात्द्वौ सोपर्शौ भवतः ।

[१४४।१६]
व्यापादानुनयस्पर्शौ

[१४४।१७]
व्यापादानुनयाभ्यां संप्रयोगात् ।
पुनः सर्वसंग्रहेण

[१४४।१८]
सुखवेद्यादयस्त्रयः ॥ ३.३१ ॥

[१४४।१९]
सुखवेदनीयः स्पर्शो दुःखवेदनीयोऽदुःखासुखवेदनीयश्च ।
सुखवेदनादिहितत्वात् ।

[१४४।२०]
अथवा वेद्यते तद्वेदयितुं वा शक्यमिति वेदनीयम् ।
किं तत् ।
वेदितम् ।

[१४४।२०-१४४।२१]
सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति

[१४४।२१-१४४।२२]
एवं दुःखादुःखासुखवेदनीयावपि योज्यौ ।

[१४४।२२]
त एते षोडश स्पर्शा भवन्ति ।
उक्तः स्पर्शः ॥

[१४४।२३]
वेदना वक्तव्या ।
तत्र यः पूर्वं षड्विधः स्पर्श उक्तः

[१४४।२४]
तज्जाः षड्वेदनाः

[१४४।२५]
चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदनाः ।
तासां पुनः

[१४५।०१]
पञ्च कायिकी चैतसी परा ।

[१४५।०२]
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च्चवेदनाः कायिकी वेदनेत्युच्यते ।

[१४५।०२-१४५।०३]
रूपीन्द्रियाश्रितत्वात् ।

[१४५।०३]
मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते ।
चित्तमात्राश्रितत्वात् ।

[१४५।०३-१४५।०४]
अथ किं स्पर्शादुत्तरकालं वेदना भवत्याहोस्वित्समानकालम् ।

[१४५।०४-१४५।०५]
समानकालमिति वैभाषिकाः ।

[१४५।०५]
अन्योन्यं सहभूहेतुत्वात् ।

[१४५।०५-१४५।०६]
कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति ।

[१४५।०६]
कथं च न सिध्यति ।
असामर्थ्यात् ।

[१४५।०६-१४५।०७]
जाते धर्मे धर्मस्यनास्ति सामर्थयं प्रतिज्ञाऽविशिष्टम् ।

[१४५।०७-१४५।०८]
यदेव हीदं सहोत्पन्नयोर्जन्यजनकभावो नास्तीति तदेवेदं जाते धर्मे धर्मस्य नास्तीति ।

[१४५।०८]
अन्योन्यजनकप्रसङ्गत्तर्हि ।
इष्टत्वाददोषः ।

[१४५।०९]
इष्टमेव हि सहभूहेतोरन्योन्यफलत्वम् ।

[१४५।०९-१४५।१०]
इष्टमिदं सूत्रे त्वनिष्टं स्पर्शवेदनयोरन्योन्यफलत्वम् ।

[१४५।१०-१४५।११]
“चक्षुःसंस्पर्श प्रतीत्य उत्पद्यते चक्षुःसंस्पर्शजा वेदना न तु चक्षुःपंस्पर्शजां वेदनां प्रतीत्योत्पद्यते चक्षुःसंस्पर्श” इति वचनात् ।

[१४५।११-१४५।१२]
जनकधर्मातिक्रमाव्चायुक्तम् ।

[१४५।१२-१४५।१३]
यो हि धर्मो यस्य धर्मस्य जनकः प्रसिद्धः स तस्मात्भिन्नकालः प्रसिद्धः ।

[१४५।१३-१५३।१४]
तद्यथा पूर्वं वीजं पश्चादङ्कुरः पूर्वं क्षीरं पश्चाद्दधि पूर्वमभिघातः पश्चाच्छन्दः पूर्वं मनः पश्चात्मनोविज्ञानमित्येवमादि ।

[१४५।१४-१४५।१५]
अन्यथा परंपरापेक्षत्वात्कार्यकारणयोः सर्वं वा युगपदुत्पद्यते न वा कदाचित्पश्चाद्विशेषाभावात् ।

[१४५।१५-१४५।१६]
नहि न सिद्धः कार्यकारणयोः पूर्वापराभावः ।

[१४५।१६]
सहभावोऽपि तु सिद्धः ।

[१४५।१६-१४५।१८]
तद्यथा चक्षुर्वज्ञानादीनां चक्षुरूपादिभिर्भूतभौतिकानां च तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानम् ।

[१४५।१८-१४५।१९]
पूर्वकाच्च भूतभौतिकसमुदायादुत्तर उत्पद्यत इतीष्यमाणे कः प्रतिषेधः ॥

[१४५।१९]
यथा तर्हि च्छायाङ्कुरयोरेवं स्पर्शवेदनयो रिति वैभाषिकाः ।

[१४५।२०]
स्पर्शादुत्तरकालं वेदनेत्यपरे ।
इन्द्रियार्थौ हि पूर्वान्तो विज्ञानम् ।

[१४५।२०-१४५।२१]
सोऽसौ त्रयाणां संनिपातः स्पर्शः स्पर्शप्रत्ययात्पश्चाद्वेदना तृतीयक्षण इति ।

[१४५।२१-१४५।२२]
एवं तर्हि न सर्वन्त्रवज्ञाने वेदना प्राप्नोति न च सर्वं विज्ञानं स्पर्शः ।

[१४५।२२]
नैष दोषः ।

[१४५।२२-१४५।२३]
पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना सर्वे च स्पर्शाः सर्ववेदनकाः सर्वं च विज्ञानं स्पर्श इति ।

[१४५।२४]
इदमयुक्तं वर्त्तते ।
किमत्रायुक्तम् ।

[१४५।२४-१४५।२५]
यदुत भिन्नालम्बनयोरपि स्पर्शयोः पूर्वस्पर्शैतुकोत्तरस्य वेदनेति ।

[१४५।२५-१४५।२६]
कथं नामान्यजातीयालम्बनस्पर्शसंभूता वेदनाऽन्यालम्बना भविष्यति येन वा चित्तेन संप्रयुक्ता ततो भिन्नालम्बनेति ।

[१४५।२६-१४६।०१]
अस्तु तर्हि तस्मिन्काले स्पर्शभूतं विज्ञानमवेदनकम् ।

[१४६।०१-१४६।०२]
तस्माच्च यत्पूर्वं विज्ञानं सवेदनकं तन्न स्पर्शः ।

[१४६।०२]
प्रत्ययवैधुर्यादित्येवं सति को दोषः ।
महाभूमिकनियमो भिद्यते ।

[१४६।०३]
“सर्वत्र चित्ते दशमहाभूमिका” इति ।
क्व चैष नियमः सिद्धः ।
शास्त्रे ।

[१४६।०३-१४६।०४]
सूत्रप्रमाणका वयं न शास्त्रप्रमाणकाः ।

[१४६।०४-१४६।०५]
उक्तं हि भगवता “सूत्रान्तप्रतिशरणैर्भवितव्यमि” ति ।

[१४६।०५-१४६।०६]
न वा एष महाभूमिकार्थः सर्वत्र चित्ते दश महाभूमिकाः संभवन्तीति ।

[१४६।०६]
कस्तर्हि महाभूमिकार्थः ।
तिस्रो भूमयः ।

[१४६।०६-१४६।०७]
सवितर्का सविचारा भुमिः अवितर्का विचारमात्रा अवितर्का विचारा भूमिः
पुनश्तिस्र कुसला भूमिः अकुशलाऽव्याकृता भुमिः ।

[१४६।०७-१४६।०८]
पुनस्तिस्रः ।

[१४६।०८]
शैक्षी भूमिरशैक्षी नैवशैक्षी भुमिः ।

[१४६।०८-१४६।०९]
तद्य एतस्यां सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः ।

[१४६।०९-१४६।१०]
ये कुक्शलायामेव ते कुक्शलमहाभूमिकाः ।

[१४६।१०]
ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः ।

[१४६।१०-१४६।११]
ते पुनर्यथासंभवं पर्यायेणनतु सर्वे युगपदित्यपरे ।

[१४६।११]
अकुशलमहाभूमिकास्तु पाठप्रसङ्गे नासञ्जिताः ।

[१४६।११-१४६।१२]
इदानीं पूर्वं न पठ्यन्ते स्म ।

[१४६।१२-१४६।१४]
यदि तर्हि स्पर्शादुत्तरकालल्ं वेदना सूत्रं परिहार्यं “चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः सहजाता वेदना संज्ञा चेतने”ति ।

[१४६।१४-१४६।१५]
सहजाता इत्युच्यते न स्पर्शसहजाता इति किमत्र परिहार्यम् ।

[१४६।१५-१४६।१६]
समनन्तरेऽपि चायं सहशब्दो दृष्टस्तद्यथा “मैत्रीसहगतं स्मृतिसंवोध्यङ्गं भावयती” त्यज्ञापकमेतत् ।

[१४६।१६-१४६।१८]
यत्तर्हि सूत्र उक्तं “या च वेदना या च संज्ञा या च चेतना यच्च विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टा” इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् ।

[१४६।१८]
संप्रधार्यं तावदेतत्क एष सम्सृष्टार्थः ।

[१४६।१८-१४६।२०]
तत्र हि सूत्र एवमुक्तं “यद्वेदयते तच्चेतयते यच्चेतयते तस्त्संप्रजानीते यत्संप्रजानीते तद्विजानाती”ति ।

[१४६।२०-१४६।२१]
तन्न विज्ञायते किं तावदयमेषामालम्बननियम उक्त उताहो क्षणनियम इति ।

[१४६।२१]
आयुरुष्मणोः साहभाव्ये संसृष्टवचनात्सिद्धः क्षणनियमः ।

[१४६।२२]
यच्चापि सूत्र उक्तं “त्रयाणां संनिपातः स्पर्शः” इति ।

[१४६।२२-१४६।२३]
तत्कथं विज्ञानं चास्ति न च त्रयाणां संनिपातो न च स्पर्श इति ।

[१४६।२३-१४६।२४]
तस्मादवश्यं सर्वत्र विज्ञाने स्पर्शः स्पर्शसहजा च वेदनैष्टव्या ।

[१४६।२४]
अलमतिप्रसङ्गिया कथया ।
प्रकृतमेवानुक्रम्यताम् ॥

[१४६।२५]
उक्ता समासेन चैतसिकी वेदना ॥

[१४६।२६]
पुनश्चाष्टादशविधा सा मनोपविचारतः ॥ ३.३२ ॥

[१४६।२७]
सैव चैतसिकी वेदना पुनराष्टदश मनोपविचारव्यवस्थानादष्टादधा भिद्यते ।

[१४६।२७-१४६।२८]
पुनः संधिकरणं चात्र द्रष्टव्यम् ।

[१४६।२८]
अष्टादशमनो पविचाराः कतमे ।

[१४६।२८-१४७।०१]
षट्सौमनस्योपचिराः षट्दौर्मनस्योपविचाराः षडुपेक्षोपविचाराः ।

[१४७।०१]
कथमेषां व्यवस्थानम् ।
यदि स्वभावतः ।

[१४७।०२]
त्रयो भविष्यन्ति ।
सौमनस्यदौर्मनस्योपेक्षाविचाराः ।

[१४७।०२-१४७।०३]
अथ संप्रयोगतः ।

[१४७।०३]
एको भविष्यति ।
सर्वेषां मनः संप्रयुक्तत्वात् ।
अथालम्बनतः ।
[१४७।०३-१४७।०४]
षट्भविष्यन्ति ।

[१४७।०४]
रूपादिषड्विषयालम्बनत्वत् ।
त्रिभिरपि स्थापना ।

[१४७।०४-१४७।०५]
तेषां पञ्चदश रूपाद्युपविचारा असंभिन्नालम्बनाः प्रतिनियतरूपाद्यालम्बनत्वात् ।

[१४७।०५-१४७।०६]
त्रयो धर्मोपविचारा उभयथा ।

[१४७।०६]
मनोपविचारा इति कोऽर्थः ।

[१४७।०६-१४७।०७]
मनः किल प्रतीत्यैते सौमनस्यदयो विषयानुपविचरन्तीति ।

[१४७।०७]
विषयेषु वा मन उपविचारयन्तीत्यपरे ।

[१४७।०८]
वेदनावशेन मनसो विषयेषु पुनः पुनर्विचरणात् ।

[१४७।०८-१४७।०९]
कस्मात्कायिकी वेदना न मनोपविचारः ।

[१४७।०९-१४७।१०]
नैव ह्यसौ मन एवाश्रिता नाप्युपविचारिकाऽविकल्पकत्वादित्ययोगः ।

[१४७।१०]
तृतीयध्यानसुखस्य कस्मान्मनोपविचारेष्वग्रहणम् ।

[१४७।१०-१४७।११]
आदितः किल कामधातौ मनोभूमिकसुखेन्द्रियाभावात्तत्प्रतिद्वन्द्वेन कुःखोपविचाराभावाच्चेति ।

[१४७।१२]
यदि मनोभूमिका एवैते ।

[१४७।१२-१४७।१३]
यत्तर्हि सूत्र उक्तं “चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि रूपाण्युपविचरन्तीत्येवमादिः ।

[१४७।१३]
कथम् ।

[१४७।१३-१४७।१४]
पञ्चविज्ञानकायाभिनिर्हृतत्वमभिसंधायैतदुक्तं “मनोभूमिका ह्येते ।

[१४७।१४-१४७।१५]
तद्यथाऽशुभा चक्षुर्विज्ञानाभिनिर्हृता च मनोभूमिका चे”ति ।

[१४७।१५-१४७।१६]
अपि तु “दृष्ट्वा यावत्स्पृष्ट्वे”ति वचनात् ।

[१४७।१६-१४७।१७]
अचोद्यमेवैतत् ।
येऽप्य दृष्ट्वा यावदस्पृष्ट्वोपविचर्न्ति तेऽपि मनोपविचाराः ।

[१४७।१७-१४७।१८]
इत्रथा हि कामधातौ रूपधात्वालम्बना रूपाद्युपविचारा न स्युः कामधात्बलम्वनाश्च रूपधातौ गन्धरसस्प्रष्टव्योपविचाराः ।

[१४७।१८-१४७।१९]
यथा तु यक्ततरं तथोक्तं योऽपि रूपाणि दृष्ट्वा शब्दानुपविचरति सोऽपि मनोपविचारः ।

[१४७।२०]
यथा त्वनाकुलं तथोक्तमिन्द्रियार्थस्य व्यवच्छेदतः ।

[१४७।२०-१४७।२१]
किमस्ति रूपं यत्सौमनस्यस्थानीयमेव स्यात्यावदुपेक्षास्थानीयमेव ।

[१४७।२१-१४७।२२]
अस्ति संतानं नियमय्य न त्व्बालम्बनम् ॥

[१४७।२३-१४७।२४]
अथैषां मनोपविचाराणां कति कामप्रतिसंयुक्तास्तेषां च कति किमालम्बना एवं यावदारूप्यप्रतिसंयुक्ता वक्तव्याः ।

[१४७।२४]
आह

[१४७।२५]
कामे स्वालम्बनाः सर्वे

[१४७।२६]
आमधातौ सर्वेऽष्टादश सन्ति स च तेषां सर्वेषामालम्बनम् ।
तेषामेव

[१४८।०१]
रूपी द्वादशगोचरः ।

[१४८।०२]
रूपधातुर्द्वादशानामालम्बनं षट्गन्धरसोपविचारानपास्य ।
तत्र तयोरभावात् ।

[१४८।०३]
त्रयाणामुत्तरः

[१४८।०४]
गोचर इति वर्तते ।
आरुप्यधातुस्त्रयाणां धर्मोपविचाराणामालम्बनम् ।

[१४८।०४-१४८।०५]
तत्र रूपाद्यभावात् ॥

[१४८।०५]
उक्ताः कामप्रतिसंयुकताः ।

[१४८।०६]
रूपप्रतिसंयुक्ता वक्तव्याः ।
तत्र तावत्

[१४८।०७]
ध्यानद्वये द्वादश

[१४८।०८]
दौर्मनस्योपविचारानपास्य ।
ते च द्वादश

[१४८।०९]
कामगाः ॥ ३.३३ ॥

[१४८।१०]
कामान् गच्छन्तीति कामगाः ।
कामधातुमालबन्त इत्यर्थः ।

[१४८।१०-१४८।११]
दृष्टो हि विषयाणां ग्रहणार्थे गमिप्रयोगः ।

[१४८।११]
कथमेतत्गम्यते ।
एवमेतत्गम्यत इति ।

[१४८।१२]
स्वोऽष्टालम्बनम्

[१४८।१३]
स एव रूपधातुस्तेषं स्वः ।
स एव रूपधातुस्तेषां स्वः ।

[१४८।१३-१४८।१४]
स्वोऽष्टानां मनोपविचाराणामालम्बनं गन्धरसोपविचारांश्चतुरो हित्वा ।

[१४८।१५]
आरूप्यो द्वयोः

[१४८।१६]
धर्मोपविचारयोरालम्बनम् ।

[१४८।१७]
ध्यानद्वये तु षट् ।

[१४८।१८]
तृतीयचतुर्थयोर्ध्यान्योः षडुपेक्षोपविचारा एव सन्ति नान्ये ।
तेषां पुनरालम्बनं

[१४८।१९]
कामाः षण्णां

[१४८।२०]
कामधातुः षण्णामप्यालम्बनम् ।

[१४८।२१]
चतुर्णां स्वः

[१४८।२२]
रूपधातुश्चतुर्णां तत्र गन्धरसाभावात् ।

[१४८।२३]
एकस्यालम्बनं परः ॥ ३.३४ ॥

[१४८।२४]
आरुप्यधातुरेकस्यैव धर्मोपविचारस्यालम्बनम् ।
उक्ता रूपप्रतिसंयुक्ताः ।

[१४९।०१]
आरूप्यप्रतिसंयुक्ता इदानीमुच्यन्ते ।

[१४९।०२]
चत्वारोऽरूपिसामन्ते

[१४९।०३]
आकाशानन्त्यायतनसामन्तकमत्रारूपिसामन्तकम् ।

[१४९।०३-१४९।०४]
तत्र चत्वारो रूपशब्दस्प्रष्टव्यधर्मोपविचाराः ।

[१४९।०४]
ते च

[१४९।०५]
रूपगाः

[१४९।०६]
चतुर्थं हि ध्यानमेषामालम्बनम् ।

[१४९।०६-१४९।०८]
येषां तत्व्यवच्छिन्नालम्बनमस्ति येषां पुनः परिपिण्डितालम्बनं तेषां तत्रैक एव संभिन्नालम्बनो धर्मोपविचारः ।

[१४९।०९]
एक ऊर्ध्वगः ।

[१४९।१०]
एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः ।

[१४९।११]
एको मौले

[१४९।१२]
मौले पुनरारूप्ये धर्मोपविचार एवैकोऽस्ति नान्यः ।
स चापि

[१४९।१३]
स्वविषयः

[१४९।१४]
आरुप्यधात्वालम्बन एव ।

[१४९।१४-१४९।१५]
नहि मौलानामारुप्याणामधरो धातुरालम्बनमिति पश्चात्प्रतिवेदविष्यामः ।

[१४९।१५]
एते च मनोपविचाराः

[१४९।१६]
सर्वेऽष्टादश सास्रवाः ॥ ३.३५ ॥

[१४९।१७]
नास्ति कश्चिदनास्रवः ।
कः कतिभिः समन्वागतः ।

[१४९।१७-१४९।२१]
कामधातूपपन्नो रूपावचरस्य कुशलस्य चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टेनैवालाभी रूपावचरस्य कुशलस्य चित्तस्या वितरागः सर्वैः कामावचरैः प्रथमध्यानभुमिकैर्दशभिः ।

[१४९।२१-१४९।२२]
चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनौ व्युदस्य षड्भिरूपेक्षोपविचारैरनागम्यभूमिकैः ।

[१४९।२२]
द्वितीयध्यानभूमिकैरष्टाभिः ।

[१४९।२३]
तृतीयचतुर्थध्यानारूप्यभूमिकैः पूर्ववत् ।
अनया वर्त्तन्या शेषमनुगन्तव्यम् ।

[१४९।२४-१४९।२५]
ध्यानोपपन्नस्तु कामावचरेणैकेनोपेक्षाधर्मोपविचारेण निर्माणचित्तसंप्रयुक्तेन समन्वागतो वेदितव्यः ।

[१४९।२५]
अपर आह ।

[१४९।२५-१५०।०१]
अस्त्येवं मनोपविचाराणां वैभाषिकीयोऽर्थः ।

[१५०।०१]
सूत्रार्थस्त्वन्यथा दृश्यते ।

[१५०।०१-१५०।०२]
नहि यो यस्माद्वीतरागः स तदालम्बनमुपविचरतीति युक्तम् ।

[१५०।०२-१५०।०३]
अतः सास्रवा अपि न सर्वे सौमनस्यादयो मनोपविचाराः ।

[१५०।०३]
किं तर्हि ।
सांक्लेशिका यैर्मनो विषयानुपविचरतीति ।

[१५०।०३-१५०।०४]
कथं चोपविचरति ।

[१५०।०४-१५०।०५]
अनुनीयते च प्रतिहन्यते चाप्रतिस्ङ्ख्याय चोपेक्षते येषां प्रतिपक्षेण षट्सातता विहारा भवन्ति ।

[१५०।०५-१५०।०७]
चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतिमान् संप्रजाननेवं यावन्मनसा धर्मान् विज्ञायेति ।

[१५०।०७-१५०।०८]
नह्यर्हतो लौकिकं नास्ति कुशलं धर्मालम्बनं सौमनस्यं यत्तु तत्सांक्लेशिकं मनस उपविचारभुतं तस्यैव प्रतिषेधो लक्ष्यत इति ।

[१५०।०८-१५०।०९]
पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति ।

[१५०।०९]
गर्धनैष्क्रम्याश्रितभेदेन ।

[१५०।१०]
तद्भेदस्य शास्त्रा गमितत्वात् ।

[१५०।१०-१५०।११]
तत्र गर्धाश्रिताः क्लिष्टा नैष्क्रम्याश्रिताः कुशलाः ।

[१५०।११]
एवमेतद्वेदनाख्यं भवाङ्गमनेकप्रकारभेदं वेदितव्यम् ।

[१५०।११-१५०।१२]
शेषाण्यङ्गानि पुनर्नोच्यन्ते ।

[१५०।१२]
किं कारणम् ।
यस्मात्

[१५०।१३]
उक्तं च वक्ष्यते चान्यत्

[१५०।१४]
किञ्चिदत्राङ्गमुक्तं किञ्चित्पश्चद्वक्ष्यते ।
तत्र विज्ञानं तावदुक्तं

[१५०।१५]
“विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च तदि”ति ।

[१५०।१६]
षडायतनमप्युक्तं

[१५०।१७]
“तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादय” इति ।

[१५०।१८]
संस्कारा भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते ।
तृष्णोपादानानि क्लेशकोशस्थाने ।

[१५०।१९]
स चैष प्रतीत्यसमुत्पादः समासतः क्लेशकर्मवस्तूनीति प्राक्ज्ञापितम् ।

[१५०।२०]
अत्र तु क्लेश इष्यते ।

[१५०।२१]
बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा ॥ ३.३६ ॥

[१५०।२२]
किमस्य वीजादिभिः साधर्म्यम् ।

[१५०।२२-१५०।२३]
तद्यथा वीजादङ्कुरकाण्डपत्रादीनां प्रभवो भवत्येवं क्लेशात्क्लेशकर्मवस्तूनाम् ।

[१५०।२३-१५१।०१]
यथा नागाधिष्टितं सरो न शुष्यत्येवं क्लेशनागाधिष्ठितं जन्मसरः ।

[१५१।०१-१५१।०२]
यथा चानपोद्धृतमूला वनस्पतयश्छिन्नाश्छिन्नाः पुनरपि प्ररोहन्त्येवमनपोद्धृतक्लेशमूला गतयः ।

[१५१।०२-१५१।०३]
यथा च वृक्षाः कालेन कालल्ं पुष्पफलानां प्रसोतारो भवन्त्येवं क्लेशा अप्यसकृत्क्लेशकर्मवस्तूनां हेतुर्भवन्ति ।

[१५१।०३-१५१।०६]
यथा च तुषावनद्धास्तण्डुलाः प्ररोहणसमर्था भवन्ति न केवला एवं क्लेशप्राप्ततुषावनद्धं कर्म जन्मान्तरविरोहणे समर्थं भवति न केवलमित्येवं तावत्क्लेशो बीजादिवद्वेदितव्यः ।

[१५१।०७]
तुषितण्डुलवत्कर्म तथैवौषधिपुष्पवत् ।

[१५१।०८]
तुषौऽस्यास्तीति तुषी ।
तुषस्थानीयः क्लेश उक्तः ।

[१५१।०८-१५१।०९]
इदानीं तुषितण्डुलस्थानीयं कर्म्मोच्यते ।

[१५१।०९-१५१।१०]
सन्त्योषधयः फलपाकान्ता एवं कर्माणि विपच्य पुनर्विपाकानभिनिर्वर्त्तयन्ते ।

[१५१।१०-१५१।११]
यथा च पुष्पं फलोत्पत्तवासन्नं कारणमेवं कर्माणि विपाकोत्पत्तो वेदितव्यानि ।

[१५१।१२]
सिद्धान्नपानवद्वस्तु

[१५१।१३-१५१।१४]
पथा सिद्धमन्नं पानं च केवलं परिभोगाय कल्प्यते न पुनर्विरोहाय एवं विपाकाख्यं वस्तु ।

[१५१।१४]
नहि पुनर्विपाकाद्विपाकान्तरं जन्मान्तरेषु प्रवर्हते ।

[१५१।१४-१५१।१५]
यदि हि प्रवर्धेत मोक्षो न स्यात् ।

[१५१।१५-१५१।१६]
न खल्वेष जन्मसंतान एवं प्रतीत्यसमुत्पद्यमानो भवचतुष्टयं नातिक्रामति ।

[१५१।१६]
यदुतान्तराभवमुपपत्तिभवं पूर्वकालभवं मरणभवं च ।

[१५१।१६-१५१।१७]
ते च व्याख्याताः ।

[१५१।१८]
तस्मिन् भवचतुष्टये ॥ ३.३७ ॥

[१५१।१९]
उपपत्तिभवः क्लिष्टः

[१५१।२०]
एकान्तेन ।
कतमेन क्लेशेन ।

[१५१।२१]
सर्वक्लेशै स्वभूमिकैः ।

[१५१।२२]
यद्भमिक उपपत्तिभवस्तद्भूमिकईरेव सर्वक्लेशैः ।

[१५१।२२-१५१।२३]
नहि स क्लेशोऽस्ति येन प्रतिसम्धिबन्धः प्रतिविद्यते इत्याभिधर्मिकाः ।

[१५१।२३-१५१।२४]
क्लेशैरेव तु न पर्यवस्थानैः स्वतन्त्रईः ।

[१५१।२४-१५१।२५]
यद्यपि साऽवस्था मन्दिका यस्तु यत्राभीक्ष्णं चरित आसन्नश्च तस्य तदानीं स एव क्लेश उपतिष्ठते ।

[१५१।२५]
पूर्वावेधात् ।

[१५१।२५-१५१।२६]
अन्तरभवप्रतिसंधिरप्येवमवश्यं क्लिष्टो वेदितव्यः ।

[१५१।२७]
त्रिधाऽन्ये

[१५१।२८]
अन्ये त्रयो भवास्त्रिप्रकाराः अन्तरभवादयः कुशलक्लिष्टाव्याकृताः ।

[१५२।०१]
अथैषां भवानां कतमः किंप्रतिसंयुक्तः ।

[१५२।०२]
त्रय आरूप्ये

[१५२।०३]
अन्तराभवं वर्जयित्वा ।

[१५२।०३-१५२।०४]
नह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नो यस्य प्राप्त्यर्थमन्तराभवोऽभिनिर्वर्तेत ।

[१५२।०४-१५२।०५]
कामरूपधात्वोरपरिसंख्यानात्सर्व एव चत्वारो भवाः सन्तीत्यनुज्ञापितं भवति ।

[१५२।०५-१५२।०६]
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण ।

[१५२।०७]
अथ कथं सत्त्वानां स्थितिभवतीत्याह

[१५२।०८]
आहारस्थितिकं जगत् ॥ ३.३८ ॥

[१५२।०९-१५२।१०]
एको धर्मो भगवता स्वयमभिज्ञायाभिसंबध्याख्यातो “यदुत सर्वस्त्त्वा आहारस्थितिका” इति सूत्रपदम् ।

[१५२।१०]
के पुनराहाराः ।
चत्वार आहाराः ।

[१५२।१०-१५२।११]
कवडीकाराहारः प्रथमः ।

[१५२।११]
औदारिकः सूक्ष्मश्च ।

[१५२।११-१५२।१२]
सूक्ष्मोऽन्तराभविकानां गन्धाहारत्वात् ।

[१५२।१२]

देवानां प्राथमकल्पिकानां च निःष्यन्दाभावात् ।

[१५२।१२-१५२।१३]
तैलस्येव सिकतास्वङ्गेष्वनुप्रवेशात् ।

[१५२।१३]
सूक्ष्माणां वा सूक्ष्मो बालकसंस्वेदजन्तुकादीनाम् ।

[१५२।१३-१५२।१४]
स्पर्शो द्वितीयः ।

[१५२।१४]
मनःसंचेतना तृतीयः ।
विज्ञानमाहारश्चतुर्थः ।

[१५२।१५]
तत्र पुनः

[१५२।१६]
कवडीकार आहारः कामे

[१५२।१७]
न रूपारूप्यधात्वोस्तद्वीतरागस्य तत्रोपपत्तेः ।
स च

[१५२।१८]
त्र्यायतनात्मकः ।

[१५२।१९]
कामावचराणि गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार आहारः ।

[१५२।१९-१५२।२०]
कवडीकृत्याभ्यवहरणात् ।

[१५२।२०]
मुखनासिकाग्रासव्यवच्छेदतः ।

[१५२।२०-१५२।२१]
च्छायातपज्वालाप्रभासु तेषां कथमाहारत्वम् ।

[१५२।२१]
बाहुल्येन किलैष निर्देशः ।

[१५२।२१-१५२।२२]
यान्यपि तु नाभ्यवह्नियन्ते स्थितिं चाहरन्ति तान्यपि सूक्ष्म आहारः ।

[१५२।२२]
स्नानाभ्यङ्गवदिति ।

[१५२।२२-१५२।२३]
कस्मान्न रूपायतनमाहारः ।

[१५२।२३]
तदपि कवडीकृत्याभ्यवह्रियते ।

[१५२।२४]
न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात् ॥ ३.३९ ॥

[१५२।२५]
आहारो हि नाम य इन्द्रियमहाभूतानामनुग्रहाय संवर्त्तते ।

[१५२।२५-१५२।२६]
रूपायतनं चाभ्यवहरणकाले स्वमिन्द्रियं तन्महाभूतानि वा नानुगृह्णाति ।

[१५२।२६]
कुत एवान्यान्यविषत्वात् ।

[१५३।०१-१५३।०२]
यदापि च दृश्यमाने सुखसौमनस्ये आदधाति तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवति न रूपम् ।

[१५३।०२-१५३।०३]
मुक्तानामनागाम्यर्हेतां सुमनोज्ञमप्याहारं पश्यतामनुग्रहाभावात् ।

[१५३।०४]
स्पर्शसंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु ।

[१५३।०५]
स्पर्शस्त्रिकसंनिपातजः ।

[१५३।०५-१५३।०६]
चेतना मनस्कर्म विज्ञानं च सास्रवाण्येवाहाराः त्रिष्वपि धातुषु संविद्यन्ते ।

[१५३।०६]
किमर्थं नानास्रवाणि ।

[१५३।०६-१५३।०७]
यस्मात्भवापोषणार्थ आहारार्थः ।

[१५३।०७]
तानि च भावक्षयायोत्थितानीति वैभाषिकाः ।

[१५३।०७-१५३।०९]
अपि तु सूत्र उक्तं “चत्वार इमे आहारा भूतानां सत्त्वानां स्थितये यापनायै संभवैषिणां चानुग्रहाये”ति ।

[१५३।०९]
न चैवमनास्रवा धर्मा इति नाहाराः ।

[१५३।१०]
भूता हि तावत्सत्त्वा उपपन्ना इति विज्ञायन्ते ।
अथ संभवैषिणः कतमे ।

[१५३।११]
मनोमयः संभवैषी गन्धर्वश्चान्तराभवः ॥ ३.४० ॥

[१५३।१२]
निर्वृत्तिश्च

[१५३।१३]
अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता ।

[१५३।१३-१५३।१४]
स एव मनोनिर्जातत्वात्मनोमय उक्तः ।

[१५३।१४]
शुक्रशोणितादिकं किञ्चिद्बाह्यमनुपादाय भावात् ।

[१५३।१४-१५३।१५]
संभवैषणशीलत्वात्संभवैषी ।

[१५३।१५]
गन्धर्वणात्गन्धर्वः ।
उपपत्त्यद्भिमुखत्वादभिनिर्वृत्तिः ।

[१५३।१५-१५३।१६]
“अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके उपपद्यत” इति सूत्रपदात् ।

[१५३।१६-१५३।१८]
“तथास्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्” इति सूत्र चतुःकोटिकात् ।

[१५३।१८]
प्रथमा कोटिर्द्विधातुवीतरागस्योर्ध्वंस्रोतसोऽनागामिनः ।

[१५३।१८-१५३।१९]
द्वितीयान्तरापरिनिर्वायिणः ।

[१५३।१९]
तृतीयाऽर्हताम् ।
चतुर्थ्येतानाकारान् स्थापयित्वा ।

[१५३।१९-१५३।२०]
भूतावाऽर्हन्तः संभवैषिणः सतृष्णाः ।

[१५३।२१]
अथ कत्याहाराः सत्त्वानां स्थितये कति संभवैषिणामनुग्रहाय ।

[१५३।२१-१५३।२२]
सर्वेऽप्युभयथेति वैभाषिकाः ।

[१५३।२२]
कवडीकाराहारोऽपि हि तद्रागिणां पुनर्भवाय संवर्तते ।
उक्तं हि ।

[१५३।२३-१५३।२४]
भगवता “अत्वार इमे आहारा रोगस्य मूलल्ं गण्डस्य शल्यस्य जरामरणस्य प्रत्यय” इति ।

[१५३।२४]
मनःसंचेतनाऽपि चेह स्थितये दृश्यते ।

[१५३।२४-१५३।२६]
एवं हि वर्णयन्ति दुर्भिक्षाभ्याहतेन कील पित्रा पुत्रकौ सक्तव इति भस्मना भस्त्रां परिपूर्य कीलके आसज्याश्वासितौ ।

[१५३।२६-१५३।२७]
तौ च तां परिकल्पयन्तौ चिरमप्यासितौ केनापि चोद्घाटितायां भस्मेति नैराश्यमापन्नौ व्यापन्नाविति ।

[१५३।२७-१५४।०२]
पुनश्च महासमुद्रे भग्नयानपात्राः पुरुषाः स्थलमिति महान्तं फेनपिण्डं प्रद्रुताः आमृश्य चैनं निराशा उपरेमुरिति ।

[१५४।०२-१५४।०४]
संगीतिपर्याये चोक्तं महासमुद्रादौदारिकाः प्राणिनो जलात्स्थलमभिरुह्य सिकतास्थलेऽण्डानि स्थापयित्वा सिकताभिरवष्टभ्य पुनरपि महासमुद्रेऽवतरन्ति ।

[१५४।०४-१५४।०५]
तत्र यासां मातृणामण्डान्यारभ्य स्मृतिर्न मुष्यते तान्यण्डानि न पूतीभवन्ति यासां तु मुष्यते तानि पूतीभवन्ति ।

[१५४।०५]
तदेतन्न वर्णयन्ति सौत्रान्तिकाः ।

[१५४।०५-१५४।०६]
मा भूत्परकीयेणाहारेणाहार इति ।

[१५४।०६]
एवं तु वर्णयन्ति ।

[१५४।०६-१५४।०७]
येषामण्डानां मातरमारभ्य स्मृतिर्न मुष्यते तानि न पूतीभवन्ति ।

[१५४।०७-१५४।०८]
येषां तु मुष्यते तानि पूतीभवन्ति ।

[१५४।०८]
तस्याः स्पर्शावस्थायाः स्मरन्तीति ।

[१५४।०९]
अथ कस्माच्चत्वार एवाहाराः ।

[१५४।०९-१५४।१०]
ननु च सर्व एव सास्रवा धर्मा भवानां पोषकाः ।

[१५४।१०]
यद्यप्येतदेवं तथापि प्रधान्येनोक्तम्

[१५४।११]
इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् ।

[१५४।१२]
द्वयमन्यभवाक्ष्पनिवृत्त्यर्थं यथाक्रमम् ॥ ३.४१ ॥

[१५४।१३]
आश्रयो हि सेन्द्रियः कायः ।
तस्य पुष्टये कवडीकाराहाराः ।

[१५४।१३-१५४।१४]
आश्रिताश्चित्तचैत्तास्तेषां पुष्टये स्पर्शः ।

[१५४।१४]
अनयोस्तावदिहोत्पन्नस्य भवस्य पोषणे प्राधान्यम् ।

[१५४।१४-१५४।१६]
मनःसंचेतनया पुनर्भवस्याक्षेपः आक्षिप्तस्य पुनः कर्मपरिभाविताद्विज्ञानवीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम् ।

[१५४।१६]
अतश्चत्वार उक्ताः ।

[१५४।१६-१५४।१७]
पूर्वकौ हि द्वौ धात्रीस्थानीयौ जातस्य पोषकत्वात् ।

[१५४।१७]
उत्तरौ मातृस्थानीयौ जनकत्वादिति ।

[१५४।१८]
यः कश्चित्कवडीकारः सर्वः स आहारः ।

[१५४।१८-१५४।१९]
स्यात्कवडीकारो नाहार इति चतुष्कोटिकम् ।

[१५४।१९-१५४।२०]
प्रथमा कोटिर्यं कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां च परिभेदः ।

[१५४।२०]
द्वितीया कोटिस्त्रय आहाराः ।

[१५४।२०-१५४।२१]
तृतीया यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः ।

[१५४।२१-१५४।२२]
चतुर्थ्येतानाकारान् स्थापयित्वा ।

[१५४।२२-१५४।२३]
एवं स्पर्शदिभिरपि यथायोगं चतुःकोटिकानि कर्त्तव्यानि ।

[१५४।२३-१५४।२४]
स्यात्स्पर्शादीन् प्रतीत्येन्द्रियाणामुपचयो महाभूतानां च वृद्धिर्न च त आहाराः ।

[१५४।२४]
स्यादन्यभूमिकाननास्रवांश्च ।

[१५४।२४-१५४।२५]
योऽपि हि परिभुक्तो भोक्तुर्बाधामादधाति सोऽप्याहार एव ।

[१५४।२५]
आपातेऽनुग्रहात् ।

[१५४।२५-१५४।२६]
द्वयोर्हि कालयोराहार आहारकृत्यं करोति परिभुज्यमानो जीर्यंश्चेति वैभाषिकाः ।

[१५४।२६]
अथ कस्यां गतौ कत्याहाराः ।

[१५४।२७]
सर्वासु सर्वे ।
एवं योनिष्वपि ।
कथं नरकेषु कवडीकार आहारः ।

[१५४।२७-१५४।२८]
प्रदीप्तायस्पिण्डाः स्वथितं च ताम्राम् ।

[१५४।२८-१५५।०१]
यद्यूपघातकोऽप्याहारो भवति चतुःकोटिकं बाध्यते प्रकरणग्रन्थश्च “कवडीकार आहारः कतमः ।

[१५५।०१-१५५।०३]
यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभुतानां च वृद्धिर्यापनाऽनुयापनेति विस्तरेण यावद्विज्ञानम् ।”

[१५५।०३]
उपचयाहाराभिसंधिवचनादविरोधः ।

[१५५।०३-१५५।०४]
अपचयाहारस्तु नरकेक्षु लक्षणप्राप्तत्वात् ।

[१५५।०४]
सोऽपि हि जिघत्सां पिपासां हन्तुं समर्थ इति ।

[१५५।०४-१५५।०५]
अपितु प्रत्येकनरकेषु मनुष्यवत्कवडीकाराहारसद्भावाद्युक्तं पाञ्चगतिकत्वम् ।

[१५५।०५-१५५।०७]
उक्तं भगवता “यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं भोजयेद्यश्चैकं जम्बूषण्डगतं पृथगजनम् ।

[१५५।०७]
अतो दानादिदं दानं महाफलतरमि”ति ।

[१५५।०७-१५५।०८]
कोऽयं जम्बूषण्डगतो नाम पृथग्जनः ।

[१५५।०८]
जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके ।

[१५५।०८-१५५।०९]
तदेतन्न युक्तमेकमिति वचनात् ।

[१५५।०९]
कश्चात्र विशेषः ।

[१५५।०९-१५५।१०]
स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः पुण्यं स्यात्नाल्पीयसो वीतरागानिति ।

[१५५।१०]
संनिकृष्टो बोधिसत्त्व इत्यपरे ।

[१५५।११]
तदेतन्न वर्णयन्ति “बहुतरं हि तस्मै दत्वा पुण्यं नार्हत्कोटिभ्य” इति ।

[१५५।११-१५५।१२]
अतो निर्वेधभागीयलाभी पृथग्जन एषोऽभिप्रेतः इति वैभाषिकाः ।

[१५५।१२-१५५।१३]
नत्वियमन्वर्था संज्ञा नापिक्वचित्परिभाषिता सूत्रे शास्त्रे वा ।

[१५५।१३-१५५।१४]
जम्बूषण्डगतो निर्वेधभागीयलाभीति परिकल्प एवायं केवलः ।

[१५५।१४]
बोधिसत्त्व एव त्वेषु जम्बूद्वीपषण्डेषु निषण्णो युज्यते ।

[१५५।१४-१५५।१५]
स हि पृथग्जन कामवैराग्यसंबन्धेन तदानीं तेभ्यो विशिष्यमाण उक्त इति ।

[१५५।१५-१५५।१६]
अनन्तेभ्योऽपि हि स तेभ्यो विशिष्यमाणः ।

[१५५।१६]
शतग्रहणं तु पूर्वाधिकारात् ।

[१५५।१६-१५५।१७]
इत्थं चैतदेवं यदेवं पर्युदस्य बाह्यकेभ्य एव स्रोतापत्ति फलप्रतिपन्नकं विशेषयांबभूव ।

[१५५।१७-१५५।१८]
अन्यथा हि जम्बूषण्डगतादेव व्यशेषयिष्यत् ।

[१५५।१८-१५५।१९]
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो यथावस्थितिश्च्युतिरप्युक्ता यथायुःक्षयादिभिः ।

[१५५।२०]
इदमिदानीं वक्तव्यम् ।
कतमस्मिन् विज्ञाने वर्तमाने च्युत्युपपत्ती भवत इत्याह

[१५५।२१]
छेदसंधान वैराग्यहानिच्युत्युपपत्त्यः ।

[१५५।२२]
मनोविज्ञान एवेष्टाः

[१५५।२३-१५५।२४]
कुशलल्मूलसमुच्छेदः कुशलमूलप्रतिसंधानं धातुभूमिवैराग्यं परिहाणिश्च्युतिरुपपत्तिश्च ।

[१५५।२४]
एते षट्धर्मा मनोविज्ञान एवेष्यन्ते नान्यत्र ।

[१५५।२४-१५५।२५]
उपपत्तिवचनादन्तराभवप्रतिसंधिरप्युक्तरूपो वेदितव्यः ।

[१५५।२५]
वेदनायां तु

[१५६।०१]
उपेक्षायां च्युतोद्भवौ ॥ ३.४२ ॥

[१५६।०२]
च्युतिरेव च्युतमुपपत्तिरुद्भवः ।

[१५६।०२-१५६।०३]
एतावदुःखासुखायां वेदनायां भवतस्तस्या अपटुत्वात् ।

[१५६।०३]
इतरे हि वेदने पट्व्यौ ।
न च पटुविज्ञाने च्युत्युपपत्ती युज्येते ।

[१५६।०३-१५६।०४]
तत्रापि च मनोविज्ञानेऽपि

[१५६।०५]
नैकाग्राचित्तयोरेतौ

[१५६।०६]
च्युतोद्भवाविति वर्तते ।
नहि समाहितचित्तस्यास्ति च्युतिरुपपत्तिर्वा ।

[१५६।०६-१५६।०७]
विसभागभूमिकत्वादभिसंस्कारिकत्वादनुग्राहकत्वाच्च ।

[१५६।०७-१५६।०८]
नाप्यचित्तस्य सा नह्यचित्तक उपक्रमितुं शस्येत ।

[१५६।०८-१५६।०९]
यदा चास्याश्रयो विपरिणन्तुमारभते तदावश्यमस्य तदाश्रयप्रतिबद्धं चित्तं संमुखीभूय पश्चात्प्रच्यवेत नान्यथा ।

[१५६।०९-१५६।१०]
उपपत्तौ च चित्तच्छेदहेत्वभावाद्विना च क्लेशेनानुपपत्तेरयुक्तमचित्तकत्वम् ।

[१५६।११]
मरणभवस्त्रिप्रकार इत्युक्तम् ।
अर्हस्तु

[१५६।१२]
निर्वात्यव्याकृतद्वये ।

[१५६।१३]
ऐर्यापथिके विपाकचित्ते वा ।
अस्ति चेत्कामधातौ विपाक उपेक्षा ।

[१५६।१३-१५६।१४]
नास्ति चेदैर्यापथिक एव ।

[१५६।१४]
किमर्थमव्याकृट एव नान्यस्मिन् ।

[१५६।१४-१५६।१५]
तद्वि चित्तच्छेदानुकूलं दुर्बलत्वात् ।

[१५६।१६]
अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते ।

[१५६।१६-१५६।१७]
सकृन्मरणे समनस्कं कायेन्द्रियं सहसाऽन्तर्दीयते ।

[१५६।१७]
यदि तु क्रमेण च्यवते ततः

[१५६।१८]
क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः ॥ ३.४३ ॥

[१५६।१९]
अधोनृसुरगाजानां

[१५६।२०]
अधो गच्छन्तीत्यधोगा अपायगामिनः ।
नृन् गच्छन्तीति नृगा मनुष्यगामिनः ।

[१५६।२०-१५६।२१]
सुरान् गच्छन्तीति सुरगा देवगामिनः ।

[१५६।२१-१५६।२२]
तेषां यथासंख्यं पादयोर्नाभ्यां हृदये च विज्ञानं संनिरुध्यते ।

[१५६।२२]
न पुनर्जायन्त इत्यजा अर्हन्तः ।
तेषामपि हृदये विज्ञानं निरुध्यते ।

[१५६।२३]
मूर्ध्नीत्यपरे ।

[१५६।२३-१५६।२४]
कायेन्द्रियस्य तेषु निरोधात्कायेन्द्रियं हि म्रियमाणस्य तप्त इवोपले जलं निष्ठ्यूतं संकोचमापद्यमानं पादादिष्वन्तर्धीयत इति ।

[१५६।२४-१५६।२५]
एवं च पुनः क्रमेण मरणम् ।

[१५६।२५]
प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां जायते ।

[१५६।२६]
मर्मच्छेदस्त्वबादिभिः ।

[१५६।२७]
शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति ।

[१५६।२७-१५७।०१]
ते ह्येतदुच्यन्ते मर्माणीति ।

[१५७।०१-१५७।०३]
तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसंपातस्यर्धिनाडीतीब्राभिर्वेदनाभिः छिद्यन्त इव न च पुनस्तानि काष्ठादिवच्छिद्यन्ते छिन्नबद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते ।

[१५७।०३-१५७।०४]
कस्मान्न पृथिवीधातुना ।

[१५७।०४]
चतुर्थदोषाभावात् ।
वातपित्तश्लेष्माणो हि त्रयो दोषाः ।

[१५७।०४-१५७।०५]
ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति ।

[१५७।०५]
भाजनलोकसंवर्त्तनीसाधर्म्येणेत्यपरे ।

[१५७।०५-१५७।०६]
देवेषु नास्ति मर्मच्छेदः ।

[१५७।०६]
किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमित्तानि प्रादुर्भवन्ति ।

[१५७।०७-१५७।०९]
वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति शरीरप्रभा मन्दीभवति स्नातस्योदबिन्दवः काये संतिष्ठन्ते चपलात्मनाऽप्येकत्र विषये बुद्धिरवतिष्ठते उन्मेषनिमेषौ चाक्ष्णोः संभवतः ।

[१५७।०९]
एतानि तु व्यभिचारीणि ।

[१५७।०९-१५७।१०]
पञ्च पुनर्निमित्तानि मरणं नातिवर्त्तन्ते ।

[१५७।१०-१५७।११]
वासांसि क्लिश्यन्ति माला म्लायन्ति कक्षाभ्यां स्वेदो मुच्यते दौर्गन्ध्यं कायेऽवक्रामति स्वे चासने देवपुत्रो नाभिरमते ।

[१५७।११-१५७।१२]
सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमनश्च त्रिषु राशिषु स्थापितो भगवता ।

[१५७।१२-१५७।१३]
त्रयो राशयः ।

[१५७।१३-१५७।१४]
सम्यक्त्वनियतो राशिर्मिथ्यात्वनियतो राशिरनियतो राशिरिति ।

[१५७।१४]
तत्र पुनः

[१५७।१५]
सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः ॥ ३.४४ ॥

[१५७।१६]
“सम्यक्त्वं कतमत् ।

[१५७।१६-१५७।१७]
यत्तत्पर्यादाय रागप्रहाणं पर्यादाय द्वेषप्रहाणं पर्यादाय मोहप्रहाणं पर्यादाय सर्वक्लेशप्रहाणमिदमुच्यते सम्यक्त्व”मिति सूत्रम् ।

[१५७।१७]
आर्याः कतमे ।

[१५७।१८]
येषामनास्रवो मार्ग उत्पन्नः ।
आराद्याताः पापकेभ्यो धर्मेभ्य इत्यार्याः ।

[१५७।१८-१५७।१९]
आत्यन्तिकविसंयोगप्राप्तिलाभात् ।

[१५७।१९-१५७।२०]
एते हि क्लेशक्षये नियतत्वात्सम्यक्त्वनियताः मोक्षभागीयलाभिनोऽप्यवश्यं परिनिर्वाणधर्माण इति ।

[१५७।२०]
कस्मान्न सम्यक्त्वे नियताः ।

[१५७।२१]
ते हि मिथ्यात्वेऽपि नियता भवेयुः ।

[१५७।२१-१५७।२२]
न च ते कालनियमेन सम्यक्त्वे नियता यथा सप्तकृत्वः परमादयः ।

[१५७।२२]
मिथ्यात्वं कतमत् ।

[१५७।२२-१५७।२३]
नरकाः प्रेतास्तिर्यञ्च इदमुच्यते मिथ्यात्वम् ।

[१५७।२३]
तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः ।

[१५७।२३-१५७।२४]
नियतेभ्योऽन्येऽनियता इति सिद्धम् ।

[१५७।२४]
प्रत्ययापेक्षं हि तेषामुभयभाक्त्वमनुभयभाक्त्वं च ।

[१५७।२५]
उक्तः सत्त्वलोको भाजनलोक इदानीं वक्तव्यः ।

[१५७।२६-१५७।२७]
तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः ।
लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् ॥ ३.४५ ॥

[१५८।०१]
त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति ।

[१५८।०१-१५८।०२]
यदुताकाशष्प्रतिष्ठमधस्ताद्वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् ।

[१५८।०२-१५८।०४]
कर्माधिपत्येन तस्य योजनलक्षाणां षोडशकमुद्वेधः परिणाहेनासंख्यं तथा च दृढंं यन्महालग्नोऽपि वज्रेण भेत्तुमशक्तः ।

[१५८।०४]
तस्योपरिष्टात्

[१५८।०५]
अपामेकादशोद्वेधं सहस्राणि च विंशतिः ॥

[१५८।०६]
मण्डलमिति वर्त्तते ।

[१५८।०६-१५८।०७]
तस्मिन् वायुमण्दले सत्त्वानां कर्मभिर्मेघाः संभूयाक्षमात्राभिर्धाराभिरभिवर्षन्ति ।

[१५८।०७]
तत्भवत्यषां मण्डलम् ।

[१५८।०७-१५८।०८]
तस्य योजनानामेकादशलक्षाण्यूर्ध्वेऽधो विंशतिश्च सहस्राणि ।
[१५८।०८]
कथं ता आपो न तिर्यङ्ग्विस्रवन्ति ।

[१५८।०८-१५८।०९]
सत्त्वानां कर्माधिपत्येन ।

[१५८।०९-१५८।१०]
यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वाशयमापतती त्येके ।

[१५८।१०]
कुसूलन्यायेन वायुना संधार्यन्त इति निकायान्तरीयाः ।

[१५८।१०-१५८।१२]
ताश्च पुनरापः सत्त्वानां कर्मप्रभावसंभूतैर्वायुभिरावर्त्यमाना उपरिष्टात्काञ्चनीभवन्ति पक्वक्षीरीशरीभावयोगेन ।

[१५८।१२]
तत्भवत्यषां मण्डलम् ।

[१५८।१३]
अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् ॥ ३.४६ ॥

[१५८।१४]
किं च शेषम् ।
त्रयो लक्ल्षाः सहस्राणि च विंशतिः ।

[१५८।१४-१५८।१५]
सा काञ्चनमयी मही भवत्यपामुपरिष्टातुक्तो जलकाञ्चनमण्डलोच्छ्रायः ।

[१५८।१६-१५८।१७]
तिर्यक्त्रीणि सहस्राणि सार्धं शतचतुष्टयम् ।
लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् ॥ ३.४७ ॥

[१५८।१८]
समानं ह्येतदुभयं विस्तारतः ।

[१५८।१९]
समन्ततस्तु त्रिगुणं

[१५८।२०-१५८।२१]
समन्ततः परिक्षेपेण तु परिगण्यमानं त्रिगुणं जायते षट्त्रिंशल्लक्षा दशसहस्राणि सार्धानि च त्रीणि शतानि योजनानाम् ।

[१५८।२१-१५८।२२]
यच्च तत्काञ्चनमयं महीमण्डलमपामुपरिष्टात्संनिविष्टं

[१५८।२३-१५८।२४]
तत्र मेरुर्युगन्धरः ।
ईशाधारः खदिरकः सुदर्शनगिरिस्तथा ॥ ३.४८ ॥

[१५९।०१]
अश्वकर्णो विनितको निमिन्धरगिरिः

[१५९।०२]
इतीमे काञ्चनमण्डलप्रतिष्ठा अष्टौ महापर्वताः ।
मध्ये सुमेरुः ।

[१५९।०२-१५९।०३]
शेषाः सुमेरुपरिचायावस्थिताः ।

[१५९।०३-१५९।०४]
तस्यान्यसप्तपर्वतप्राकारपरिक्षिप्तस्य यो बाह्यः पर्वते निमिन्धरगिरिः ।

[१५९।०५]
ततः ।

[१५९।०६]
द्वीपाः

[१५९।०७]
ततो बहिश्चत्वारो द्वीपाः ।
तेभ्यः पुनः

[१५९।०८]
बहिश्चक्रवाडः

[१५९।०९]
तेन चातुर्द्विपकश्चक्रीकृतः ।
तेषां तु

[१५९।१०]
सप्त हैमाः स आयसः ॥ ३.४९ ॥

[१५९।११]
युगन्धरादयः सप्त पर्वताः सौवऋणाश्चक्रवाडः शस्त्रकः ।

[१५९।१२]
चतूरत्नमयो मेरुः

[१५९।१३]
सुवर्णमयो रूप्यमयो वैदूर्यमयः स्फटिकमयश्च यथासंख्यं चतुर्षु पार्श्वेषु ।

[१५९।१३-१५९।१४]
यच्च यन्मयं पार्श्वं सुमेरोस्तस्यानुभावेन तद्वर्ण तस्यां दिशि नभो दृश्यते ।

[१५९।१४-१५९।१५]
जाम्बूद्वीपकमस्य पार्श्वं वैदूर्यमयं वर्णयन्ति ।

[१५९।१५-१५९।१६]
तस्येह प्रभानुरागेण वैदूर्यमयं नभो दृश्यत इति ।

[१५९।१७]
अथ कथं तेषां संभवः ।

[१५९।१७-१५९।१८]
काञ्चनमय्यां पृथिव्यां पुनर्वारिधारा अतिपतन्ति ।

[१५९।१८-१५९।१९]
ता ह्यापो नानाविधबीजगर्भा बहुविधप्रभावभिन्नैर्वायुभिर्मथ्यमानास्तां तां जातिं परिणमयन्ति ।

[१५९।१९-१५९।२०]
एवं च पुनः परिणमयन्ति यद्भिन्नजातीयस्य कार्यविशेषोत्पत्तावसमवधानेन प्रत्ययीभवन्ति ।

[१५९।२०-१५९।२१]
न तु खलु यथा सांख्यानां परिणामः ।

[१५९।२१]
कथं च सांख्यानां परिणामः ।

[१५९।२१-१५९।२२]
अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भाव इति ।

[१५९।२२]
कश्चात्र दोषः ।

[१५९।२२-१५९।२३]
स एव हि धर्मी न संविद्यते यस्यावस्थितस्य धर्माणां परिणामः कस्प्येत ।

[१५९।२३-१५९।२४]
कश्चैंवमाह धर्मेभ्योऽन्यो धर्मीति ।

[१५९।२४]
तस्यैव तु द्रव्यस्यान्यथीभावमात्रं परिणामः ।

[१५९।२४-१५९।२५]
एवमप्ययुक्तम् ।

[१५९।२५]
किमत्रायुक्तम् ।
तदेव चेदं न चेदं तथेति अपूर्वैषा वायो युक्तिः ।

[१५९।२५-१५९।२६]
एवं च पुनः संभूताः सुवर्णादयः कर्मप्रभावात्प्रेरितैर्वायुभिः समाहृत्य राशीक्रियन्ते ।

[१५९।२६-१५९।२७]
त एते पर्वताश्च भवन्ति द्वीपाश्च ।

[१५९।२७]
ते पुनः सुमेवदयश्चक्रवाडपर्यन्ताः पर्वताः

[१६०।०१]
जलेऽशीतिसहस्रके ।

[१६०।०२]
मग्नाः

[१६०।०३]
काञ्चनमय्याः पृथिव्या उपर्यशीतिय्योजनसहस्राण्युदकं तत्र ते मग्नाः ।

[१६०।०४]
ऊर्ध्वं जलात्मेरुर्भूयोऽशीतिसहस्रकः ॥ ३.५० ॥

[१६०।०५]
इति हि मेरोः षष्टि योजनशतसहस्रं समुच्छ्रयः ।

[१६०।०६]
अर्धार्धहानिरष्टासु

[१६०।०७]
जलादूर्ध्वं यावान्सुमेरुस्ततोऽर्धेन युगन्धरश्चत्वारिंशद्योजनसहस्राणि ।

[१६०।०७-१६०।०९]
ततोऽर्धेन ईशाधर इत्येवमन्येष्वप्यर्धार्धहानिर्वेदितव्या यावन्निमिन्धरार्धेनार्धत्रयोदशोत्तराणि त्रीणि योजनशतानि चक्रवाडः ।

[१६०।१०]
समोच्छ्रायघनाश्च ते ।

[१६०।११]
यावानेव चैषां जलादूर्ध्वं समुच्छ्रायस्तावानेव घनो विस्तार इत्यर्थः ।

[१६०।१२]
शीताः सप्तान्तराण्येषां

[१६०।१३-१६०।१४]
एषां च निमिन्धरान्तनां पर्वतानां सप्तान्तराणि सप्त शीता उच्यन्ते पूर्णा अष्टाङ्गोपेतस्य पानीयस्य ।

[१६०।१४-१६०।१५]
तद्धि पानीयं शीतलं च स्वादु च लघु च मृदु चाच्छं च निष्प्रतिकं च पिबतश्च कण्ठं न क्षिणोति पीतं च कुक्षिं न व्याबाधते ।

[१६०।१६]
तासां च पुनः

[१६०।१७]
आद्याशीतिसहस्रिका ॥ ३.५१ ॥

[१६०।१८]
सुमेरुयुगन्धरान्तरं प्रथमा शीता ।
अशीतिर्योजनसहस्राणि वैपुल्येन ।

[१६०।१९]
आभ्यन्तरः समुद्रोऽसौ

[१६०।२०]
द्वौ हि समुद्रावाभ्यन्तरो बाह्यश्च ।
तदाऽसौ शीताऽभ्यन्तरः समुद्रः

[१६०।२१]
त्रिगुणः स तु पार्श्वतः ।

[१६०।२२]
अशीतिर्योजनसहस्राण्यस्य वैपुल्यमुक्तम् ।

[१६०।२२-१६०।२३]
पार्श्वतस्रिगुणो भवति युगन्धरतीरेण गण्यमानः चत्वारिंशत्सहस्राणि लक्षद्वयं च ।

[१६१।०१]
अर्धार्धेनापराः शीताः

[१६१।०२-१६१।०३]
युगन्धरस्येषाधारस्य चान्तरं द्वितीया शीता अर्धेन प्रथमायाश्चत्वारिंशत्योजनसहस्राणि ।

[१६१।०३-१६१।०४]
ततोऽर्धेन पुनस्तृतीयेत्येवमर्धार्धेनापराः शीताः भवन्ति ।

[१६१।०४]
यावदर्धत्रयोदशशतानि सप्तमी शीता ।

[१६१।०४-१६१।०५]
दैर्ध्यं तु तासां न परिसंख्यातमतिबहुप्रकर्षविसर्पणात् ।

[१६१।०६]
शेषं बाह्यो महोदधेः ॥ ३.५२ ॥

[१६१।०७]
किं शेषम् ।
निमिन्धरचक्रवाडयोरन्तरम् ।

[१६१।०७-१६१।०८]
तद्धि बाह्यो महासमुद्रो लवणं पूर्णः ह्षारोदकस्य ।

[१६१।०८]
स खलु विस्तारेण योजनानां

[१६१।०९]
लक्षत्रयं सहस्राणि विंशतिर्द्वे च

[१६१।१०]
तत्र चत्वारो द्वीपाश्चतुर्षु सुमेरुपार्श्वेषु ।

[१६१।११]
तत्र तु ।

[१६१।१२]
जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः ॥ ३.५३ ॥

[१६१।१३]
साहस्राणि त्रीणि पार्श्वान्यस्य शकटस्येवाकृतिः ।

[१६१।१३-१६१।१५]
तस्य च मध्ये काञ्चनमय्यां पृथिव्यां वज्रासनमभिनिर्वृत्तं यस्मिन्निषद्य सर्वे बोधिसत्त्वा वज्रोपमं समाधिमुत्पादयन्ति ॥

[१६१।१५]
नहि तमन्य आश्रयः प्रदेशो वा सोढुं समर्थः ।

[१६१।१६]
सार्धत्रियोजनं त्वेकं

[१६१।१७]
च्तुर्थमस्य पार्श्वं सार्धानि त्रीणि योजनानि ।
अत एव ह्यसौ शकटाकृतिः ।

[१६१।१८]
प्राग्विदेहोऽर्धचन्द्रवत् ।

[१६१।१९]
इतः पूर्वेण सुमेरुपार्श्वे पूर्वं विदेहो द्वीपः ।
सोऽर्धचन्द्र इवाभिनिर्वृत्तः ।

[१६१।१९-१६१।२०]
परिमाणतस्तु

[१६१।२१]
पार्श्वत्रयं तथाऽस्य

[१६१।२२]
यथा जम्बूद्वीपस्य द्वे द्वे योजनसहस्रे ।

[१६१।२३]
एकं सार्धं त्रिशतयोजनम् ॥ ३.५४ ॥

[१६१।२४]
चतुर्थं पार्श्वं सार्धानि त्रीणि योजनशतानि ।

[१६१।२५]
गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः ।

[१६२।०१-१६२।०२]
इतः पश्चिमेन सुमेरुपार्श्वेऽपरगोदानीयो द्वीपः सार्धानि सप्त योजनसहस्राणि साकल्येन ।

[१६२।०२]
मण्डलश्चासौ पूर्णचन्द्रवत् ।

[१६२।०३]
सार्धे द्वे मध्यमस्य

[१६२।०४]
मध्यमस्यार्धतृतीये योजनसहस्रे ।

[१६२।०५]
अष्टौ चतुरस्रः कुरुः समः ॥ ३.५५ ॥

[१६२।०६]
इह उत्तरेण सुमेरुपार्श्वे उत्तरकुरुद्वीपः ।

[१६२।०६-१६२।०७]
सोऽष्टौ योजनसहस्राणि साकल्येन चतुरस्रः ।

[१६२।०७]
कृत्यापीठिकावत् ।

[१६२।०७-१६२।०८]
सर्वेषु च पार्श्वेषु समो यथैकं पार्श्वं द्वियोजनसहस्रे ।

[१६२।०८]
तथाऽन्यानि स्तोकमपि नाधिकम् ।

[१६२।०८-१६२।०९]
यश्च द्वीपो यदाकृतिस्तदाकृतीन्येव तत्र मनुष्याणां मुखानि ।

[१६२।१०]
तेषां खलु द्वीपानामन्तरालेऽन्तरद्वीपा अभिनिर्वृत्ताः ।

[१६२।१०-१६२।११]
के पुनस्ते कति चेत्याह

[१६२।१२-१६२।१३]
देहा विदेहाः कुरवः कौरवाश्चामरावराः ।
अष्टौ तदन्तरद्ब्वीपा गाठा उत्तरमन्त्रिणः ॥ ३.५६ ॥

[१६२।१४]
तत्र देहविदेहौ पूर्वविदेहपरिवारौ ।
कुरुकौरवौ उत्तरकुरोः ।

[१६२।१४-१६२।१५]
गाठोत्तरमन्त्रिणावपरगोदानीयस्य ।

[१६२।१५]
चामरावरौ जम्बूद्वीपस्य ।
सर्वे मनुष्यैरावासिताः ।

[१६२।१५-१६२।१६]
एको राक्षसैरित्यपरे ।

[१६२।१७]
इहोत्तरेण कीटाद्रिनवकाद्धिमवान्

[१६२।१८-१६२।१९]
इहैव जम्बूद्वीपे उत्तरेणास्य जम्बूद्वीपस्य कृष्णपर्वतास्त्रयस्तानतिक्रम्यापरे त्रयः पुनश्च त्रय इति नवभ्यः कीटपर्वतेभ्यः परेण हिमवान् पर्वतः ।

[१६२।२०]
ततः ।

[१६२।२१]
पञ्चाशद्विस्तृतायामं सरोऽर्वाग्गन्धमादनात् ॥ ३.५७ ॥

[१६२।२२-१६२।२३]
तस्माद्धिमवतः परेणानवतप्तं नाम सरो गन्धमादनादर्वाक्यतश्चतस्रो नद्यः स्रव्न्ति गङ्ग सिन्धुः शीता वक्षुश्च ।

[१६२।२३-१६२।२४]
तस्य पञ्चाशद्योजनानि विस्तारः पञ्चाशदायामः ।

[१६२।२४]
पूर्णमष्टाङ्गस्याङ्गोपेतस्याम्भसः ।

[१६२।२४-१६२।२५]
दुर्गमं च मनुअष्याणामनृद्धिमताम् ।

[१६२।२५-१६२।२६]
तस्यैव चान्तिके जम्बूरभिनिर्वृत्ता मधुरस्वादूनि यस्याः फलानि तस्या अधिकारेणायं जम्बूद्वीप इति ख्यातः ।

[१६२।२६-१६२।२७]
तत्फलाधिकारेण वा जम्बूद्वीप इति ।

[१६२।२८]
नरकाः कस्मिन्नवकाशे कियत्प्रमाणाश्च ।

[१६३।०१]
अधः सहस्रैविंशत्या तन्मात्रोऽवीचिरस्य हि ।

[१६३।०२-१६३।०३]
अस्यैव जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरको विंशतिसहस्रप्रमाण एवोद्वेधविस्ताराभ्यामेवमस्याधरतलमितश्चत्वारिंशता योजनसहस्रैर्भवति ।

[१६३।०३-१६३।०४]
दुःखनिरन्तरत्वादवीचिः ।

[१६३।०४-१६३।०५]
अन्येषु सान्तरं दुःखं तद्द्यथा संजीवे च्छिन्नावभिन्नसंपिष्टशरीराणां शीतला वायवो वान्ति पुनरपि तान् सत्त्वान् संजीवयन्ति ।

[१६३।०५-१६३।०६]
अत एव संजीवः ।

[१६३।०६]
नास्मिन् सुखवीचिरस्तीत्यवीचिरित्यपरे ।

[१६३।०६-१६३।०७]
अन्येष्वपि सुखा वेदना विपाको नास्ति ।

[१६३।०७]
नैः ष्यन्दिकी न वार्यते ।

[१६३।०८]
तदूर्ध्वं सप्त नरकाः

[१६३।०९]
तस्मादवीचेरूर्ध्वं सप्त नरकाः उपर्युपरि संनिविष्टाः ।

[१६३।०९-१६३।१०]
प्रतापनस्तापनो महारौरवो रौरवः संघातः कालसूत्रः संजीवश्च ।

[१६३।१०]
अवीचिपार्श्वेष्वित्यपरे ।
ते पुनः

[१६३।११]
सर्वेऽष्टौ षोडशोत्सदाः ॥ ३.५८ ॥

[१६३।१२]
उक्तं हि भगवता

[१६३।१३-१६३।१४]
“इत्येते नरका अष्टावाख्याता दुरतिक्रमाः ।
रौद्रकर्मभिराकीर्णाः प्रत्येकं षोडशोत्सदाः ॥

[१६३।१५-१६३।१६]
चतुस्कन्धाश्चतुर्द्वारा विभक्ता भागशोऽसिताः ।
अयःप्राकारपर्यन्ता अयसा प्रतिवर्जिताः ॥

[१६३।१७-१६३।१८]
तप्ता चैवायसी भुमिर्ज्वलिता तेजसा युता ।
अनेकयोजनशता स्फुटा तिष्ठति अर्च्चिषे”ति ।

[१६३।१९]
षोडशोत्सदाः कतमे ।

[१६३।२०]
कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी ।

[१६३।२१]
तेषां चतुर्दिशम् ।

[१६३।२२]
द्वारे द्वारे तेषां चत्वार उत्सदाः ।
कुकूलं जानुमात्रम् ।

[१६३।२२-१६३।२३]
यत्र तेषां सत्त्वानां निक्षिप्ते संशीर्यते त्वङ्मांसशोणितमुत्क्षिप्ते पादे पुनरपि संजायते त्वङ्मांसशोणितम् ।

[१६३।२४-१६३।२५]
कुणपं गूथमृत्तिका यत्र न्यङ्कुटा नाम प्राणिनः प्रतिवसन्ति सर्वश्वेताः कृष्णशिरसः सूचिमुखास्तेषां सत्त्वानां यावदस्थीनि भिन्दन्ति ।

[१६३।२५-१६४।०१]
क्षुरधाराचितो महापथः यत्र तेषां सत्त्वाना मन्वाक्रामतां निक्षिप्ते पादे संछिद्यते त्वङ्मांसशोणितमिति पूर्ववत् ।

[१६४।०१-१६४।०२]
असिपत्रवनं यत्र तेषां सत्त्वानां तीक्ष्णा असयः संनिपतन्ति अङ्गप्रत्यङ्गान्यवकृन्तन्ति श्यामशबलाश्च श्वानो भक्षयन्ति ।

[१६४।०२-१६४।०३]
अयःशाल्मलीवनं तीक्ष्णषोड्शाङ्गुलकण्टकम् ।

[१६४।०३-१६४।०४]
तेषां सत्त्वानामभिरोहतां कण्टका अवाङ्मुखीभवन्तः कायं भिन्दन्ति अवतरतां चोर्ध्वीभवन्तः ।

[१६४।०४-१६४।०५]
अयस्तुण्डाश्च वायसा अक्षीण्युत्पाट्योत्पाट्य भक्षयन्ति ।

[१६४।०५-१६४।०६]
तदेतत्क्षुरमार्गादिक त्रयं शस्त्राभिनिपातं सामान्यादेकीक्रियन्ते ।

[१६४।०६-१६४।०८]
चतुर्थ उत्सदो नदी वैतरणि पूर्ण तप्तस्य क्षारोदकस्य यस्यां ते सत्त्वा असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणा ऊर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्ते अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते ।

[१६४।०९]
तद्यथा बहूदकायां स्थाल्यामग्नावधिश्रितायां तिलतण्डुइलादयः ।

[१६४।०९-१६४।१०]
सा हि महानरकस्य परिखेवोत्पन्ना ।

[१६४।१०]
त एते चत्वार उत्सदा दिग्भेदेन षोडशोच्यन्ते ।

[१६४।११]
अधिकयातनास्थानित्वादुत्सदाः इत्युच्यन्ते ।
नरकेषु हि पतिता एतेषु पुनर्यात्यन्ते ।

[१६४।१२]
नरका वरोधादुर्ध्वमेतेषु सीदन्त्युत्सदा इत्यपरे ।

[१६४।१३]
प्रश्नात्प्रश्नान्तरमुपजायते ।

[१६४।१३-१६४।१४]
किं ते नरकपालाः सत्त्वसंख्याता उताहो नेति ।

[१६४।१४]
नेत्येके ।
कथमिदानीं चेष्टन्ते ।

[१६४।१४-१६४।१५]
सत्त्वानां कर्मभिर्विवर्त्तनीवायुबीजवत् ।

[१६४।१५]
यत्त्र्हि भदन्तधर्मसुभूतिनोक्तं

[१६४।१६-१६४।१७]
“क्रोधनाः क्रूरकर्माणः पापाभिरुचयश्च ये ।
दुःखितेषु च नन्दन्ति जायन्ते यमराक्षसा” इति ॥

[१६४।१८-१६४।१९]
ये ते यमेनानुशिष्टाः सत्त्वान्नरकेषु प्रक्षिपन्ति त एते यमराक्षसा उक्ता न तु ये कारणाः कारयन्तीति ।

[१६४।१९]
सत्त्वसंख्याता इत्येके ।
तस्येदानीं कर्मणः क्व विपाकः ।

[१६४।२०-१६४।२१]
तेष्वेव नरकेषु हि आनन्तर्यकारिणां विपाकावकाशस्तत्र तेषां को विप्रतिबन्धः ।

[१६४।२१]
कथमग्निना न दह्यन्ते ।
अग्नेर्नूनं कर्मभिः कृतावधित्वात् ।

[१६४।२१-१६४।२२]
भूतविशेषनिर्वृत्तेर्वा ।

[१६४।२३]
इमे तावदुष्णा अष्टौ महानरका उच्यन्ते ।

[१६४।२४]
शीता अन्येऽष्टावर्वुदादयः ॥ ३.५९ ॥

[१६४।२५]
अन्ये शीतनरका अष्टौ ।

[१६४।२५-१६५।०१]
तद्यथा अर्वुदो निरर्वुदः अटतो हहवः हुहुवः उत्पलः पद्मो महापद्मश्च ।

[१६५।०१-१६५।०२]
तेषां सत्त्वानां तीर्वशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि ।

[१६५।०२]
तेऽप्यस्यैव जम्बूद्वीपस्याधस्तात्महानरकाणां तिर्यक् ।

[१६५।०२-१६५।०३]
कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः ।

[१६५।०३-१६५।०४]
धान्यराशिवदधो विशाला हि द्वीपाः ।

[१६५।०४]
अत एव महासमुद्रोऽनुपूर्वनिम्नः ।

[१६५।०४-१६५।०५]
इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः ।

[१६५।०५-१६५।०६]
प्रत्येकं नरकास्तु स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः ।

[१६५।०६]
बहूनां सत्त्वानां द्वयोरेकस्य वा ।

[१६५।०६-१६५।०७]
तेषामनेकप्रकल्पो भेदः स्थानं चानियतं नदीपर्वतमरुप्रदेशेष्वन्येषु वाऽधश्च भावात् ।

[१६५।०७-१६५।०८]
एष तावन्नरकभाजनानां संनिवेशः ।

[१६५।०८]
तिर्यञ्चः स्थलजलाकाशगोचराः ।

[१६५।०८-१६५।०९]
तेषां किल मूलं स्थानं महासमुद्रस्ततोऽन्यत्र विसृता इति ।

[१६५।०९]
प्रेतानां यमो राजा ।

[१६५।०९-१६५।१०]
तस्य जम्बूद्वीपस्याधस्तात्पञ्चयोजनशतान्तरपरिच्छिन्ना राजधानी तेषां मूलस्थानं ततोऽन्यत्र विसृताः ।

[१६५।११]
केचित्प्रेता महर्द्धिका दैवीमिव श्रियमुद्वहन्ति ।
शेषा यथा प्रेतावदाने ।

[१६५।१२]
अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ ।
वायौ ।

[१६५।१२-१६५।१३]
वायवोऽन्तरीक्षे सर्वसत्त्वसाधारणकर्माधिपत्यनिर्वृत्ता आवर्तवत्सुमेरुं परिवर्तन्ते ।

[१६५।१३-१६५।१४]
चन्द्रार्कताराणां वोर्ध्वचारः ।

[१६५।१४]
कियद्वीप्रकृष्टावितश्चन्द्रार्कौ ।

[१६५।१५]
अर्धेन मेरोश्चन्द्रार्कौ ।

[१६५।१६]
युगन्धरगिरेर्मूर्ध्ना समं वहतः ।
किं प्रमाणौ ।
यथाक्रमं

[१६५।१७]
पण्चाशत्सैकयोजनौ ।

[१६५।१८]
पञ्चाशत्योजनानि चन्द्रमण्डलस्य प्रमाणम् ।

[१६५।१८-१६५।१९]
सैकानि पञ्चाशत्सूर्यमण्दलस्य प्रमाणम् ।

[१६५।१९]
एकपञ्चाशदित्यर्थः ।

[१६५।१९-१६५।२०]
तारकाविमानानां यस्याल्पप्रमाणं प्रमाणं तस्य क्रोशः ।

[१६५।२०-१६५।२१]
सूर्यविमानस्याधस्तात्वहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं तापनं प्रकाशनं च ।

[१६५।२१-१६५।२२]
चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च ।

[१६५।२२-१६५।२३]
प्रणीनां कर्मभिर्दृष्टिशरीरफलपुष्पसस्योषधीनामनुग्रहार्थमुपघातकार्थं यथासंभवम् ।

[१६५।२३]
चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोत्येकः सूर्यः ।

[१६५।२३-१६५।२४]
किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत्कृत्यं करोति ।

[१६५।२४]
नेत्याह ।
किं तर्हि ।
तेषु ।

[१६५।२५]
अर्धरात्रोऽस्तङ्गमनं मध्याह्न उदयः सकृत् ॥ ३.६० ॥

[१६५।२६-१६५।२७]
यदोत्तरकुरावर्धरात्रं तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनं जम्बूद्वीपे मध्याह्नो गोदानीये उदयः ।

[१६५।२७]
एवमन्येष्वपि योज्यम् ।
सूर्यस्येह गतिभेदेन रात्रिदिवानां वृद्धिह्रासौ ।

[१६५।२८]
तत्र पुनः

[१६६।०१]
प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा ।

[१६६।०२]
वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः ।

[१६६।०३]
हेमन्तानां चतुर्थे तु हीयते

[१६६।०४]
सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते ।
अन्त्यनवम्यामिति वर्त्तते ।

[१६६।०४-१६६।०५]
फाल्गुनमासस्य द्वितीयपक्षनवम्याम् ।

[१६६।०६]
अहर्विपर्ययात् ॥ ३.६१ ॥

[१६६।०७]
यदा रात्रिर्वर्धते तदा दिवसो हीयते ।
यदा रात्रिर्हीयते तदा दिवसो वर्धते ।

[१६६।०८]
कियत्या मात्रया वर्धते ।

[१६६।०९]
लवशो रात्र्यहर्वृद्धी

[१६६।१०]
लवं लवं रात्रिर्वर्धते दिवसो वा ।
ते च हानिवृद्धी यथाक्रमं

[१६६।११]
दक्षिणोत्तरगे रवौ ।

[१६६।१२]
जम्बूद्विपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः उत्तरं गच्छत्यहर्वृद्धिः ।

[१६६।१३]
शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते ।
किं तत्र कारणम् ।

[१६६।१४]
स्वच्छाययाऽर्कसामीप्याद्विकलेन्दुसमीक्षणम् ॥ ३.६२ ॥

[१६६।१५-१६६।१६]
यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो भासस्तस्मिन् विमाने पतन्ति ।

[१६६।१६-१६६।१७]
ततोऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति प्राज्ञप्तिको निर्देशः ।

[१६६।१७-१६६।१८]
वाहयोगः स तादृशो भवति यत्कदाचिद्विमानस्यार्धं दृश्यत इति पूर्वाचार्याः ।

[१६६।१८-१६६।१९]
अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति ।

[१६६।१९]
देवाश्चातुर्महाराजकायिकाः ।
किमेतान्येव तेषां स्थानानि ।

[१६६।२०]
विमानवासिनामेतानि ।
भूमिनिवासिनां पुनः सुमेरूपरिषण्डादीनि ।

[१६६।२०-१६६।२१]
कति चास्य परिषण्डाः कियत्यो वा ।

[१६६।२२]
परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः ।

[१६६।२३]।
दशयोजनसहस्राण्युद्गम्यैका ।
एवं यावच्चतुर्थी ।
ताभिः सुमेरोरर्धमाक्षिप्तम् ।

[१६६।२४]
ताश्च ततो यथासंख्यं

[१६७।०१]
षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ३.६३ ॥

[१६७।०२]
प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता ।

[१६७।०३]
द्वितीयाऽष्टौ तृतीया चत्वारि चतुर्थी द्वे ।

[१६७।०४]
करोटपाणयस्तासु मालाधारास्सदामदाः ।

[१६७।०५]
महाराजिकदेवाश्च

[१६७।०६]
प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति ।

[१६७।०६-१६७।०७]
द्वितीयायां मालाधारास्तृतीयायां सदामदाः सदामत्ताः ।

[१६७।०७]
सर्व एते चतुर्महाराजकायिकाः ।

[१६७।०७-१६७।०८]
चतुर्थ्यां तु चत्वारो महाराजाः स्वयं प्रतिवसन्ति तत्परिचाराश्च ।

[१६७।०८-१६७।०९]
अतस्तस्यां महाराजकायिका देवा इत्युक्तम् ।

[१६७।०९]
यथा परिषण्डासु चतुर्महाराजकायिका देवा एवं

[१६७।१०]
पर्वतेष्वपि सप्तसु ॥ ३.६४ ॥

[१६७।११]
युगन्धरादिषु पर्वतेषु तेषां ग्रामनिगमाः ।
अत एवैष देवनिकायः सर्वेषां महिष्ठः ।

[१६७।१२]
मेरुमूर्ध्नि त्रयस्त्रिंशाः

[१६७।१३]
अथ कियान्मेरुमूर्धा ।

[१६७।१४]
स चाशीतिसहस्रदिक् ।

[१६५।१५]
एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् ।

[१६७।१५]
अन्ये पुनराहुः ।

[१६७।१५-१६७।१६]
स विंशतिसहस्रदिक् ।

[१६७।१६]
चत्वारि पार्श्वन्यस्य चतस्रो दिशः ।

[१६७।१६-१६७।१७]
एकैकं पार्श्वं विंशतिर्योजनसहस्राणि समन्तात्परिक्षेपेणाशीतिरिति ॥

[१६७।१७]
तस्य च

[१६७।१८]
विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः ॥ ३.६५ ॥

[१६७।१९]
सूमेरुमूर्ध्नो विदिशः कोणाः ।

[१६७।१९-१६७।२०]
तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा अभ्युद्गता येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति ।

[१६७।२०]
तस्य च मेरुमूर्ध्नः

[१६७।२१-१६७।२२]
मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् ।
पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु ॥ ३.६६ ॥

[१६७।२३-१६७।२४]
सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरं दैर्ध्ये सार्धतृतीययोजनसहस्रे एकैकं पर्श्वमुच्छ्रायेणाध्यर्धयोजनम् ।

[१६७।२४-१६७।२५]
प्राकारः सौवर्ण एकोत्तरेण धातुशतेनास्य भुमिश्चित्रिता ।

[१६७।२५-१६७।२६]
तच्च भूमितलं तूलपिचुवत्मृदुसंस्पर्शं पादक्षेपोत्क्षेपाभ्यां नतोन्नतं शक्रस्य देवानामिन्द्रस्य राजधानी ।

[१६८।०१]
सार्धद्विशतपाश्र्वोऽत्र वैजयन्तः

[१६८।०२-१६८।०४]
शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्नस्थानविधानसंपदा सर्वान्यभवनश्रीमहिम्ना ह्रेपणो दैर्ध्येणार्धतृतीये योजनशते पार्श्वं पार्श्वम् ।

[१६८।०४]
इयं तावन्नगरस्याभिरामता ।

[१६८।०५]
बहिः पुनः ।

[१६८।०६]
तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम् ॥ ३.६७ ॥

[१६८।०७]
तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रिडाभूमयः ।

[१६८।०८]
चैत्ररथमुद्यानं पारुष्यकं मिश्रकावणं नन्दनवनं च ।
तैस्तन्नगरं बहिरलङ्कृतम् ।

[१६८।०९]
विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् ।

[१६८।१०-१६८।११]
एषां चोद्यानानां चतुर्दिशं चत्वारि सुमूमीनि विंशतियोजनान्तरितानि क्रीडास्थानान्येव देवानां परस्परस्पर्धयैव शोभां वितन्वन्ति ।

[१६८।१२]
वहिरेव नगरस्य पार्श्वे

[१६८।१३]
पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे ॥ ३.६८ ॥

[१६८।१४]
पारिजातो नाम कोविदारस्त्रायस्त्रिंशानां देवानां कामरतिप्रकर्षाश्रयः ।

[१६८।१४-१६८।१५]
तस्य पञ्च योजनानि मूलाहिनिवेशो योजनशतमुच्छ्रायः।

[१६८।१५-१६८।१६]
पञ्चाशत्योजनानि शाखापत्रपलाशं स्करित्वा तिष्ठति ।

[१६८।१६-१६८।१७]
तस्य खलु सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजन योजनानि प्रतिवातम् ।

[१६८।१७]
युक्तं तावदनुवातम् ।

[१६८।१७-१६८।१८]
प्रतिवातं तु कथम् ।

[१६८।१८]
वृक्षानतिक्रमं संधायोक्तमित्येके ।

[१६८।१८-१६८।१९]
नहि नाम स्प्रतिवातं वातो वाति ।

[१६८।१९-१६८।२०]
तस्यैव तु सा गन्धस्य तादृशो प्रभावसंपदेष्टव्या यात्प्रतिबध्यमानोऽपि दिव्यैर्मृदुमारुतैर्गन्धान्तरं संतनोति ।

[१६८।२०-१६८।२१]
मन्दतरतमसमारम्भात्तु संतान आश्वेव समुच्छिद्यते यतो न तथा विप्रकृष्टमध्वानं प्रसर्पति ।

[१६८।२१-१६८।२२]
किं पुनः स्वभूताश्रित एवमपुष्पगन्धसंतानो वर्तते उताहो वायुरधिवासितो जायते ।

[१६८।२२]
नात्र नियमः ।

[१६८।२३]
उभयथापि ह्याचार्येष्टिः ।
यत्तर्हि भगवतोक्तं

[१६८।२४-१६८।२५]
“न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरश्चान्दनो वा ।
सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाती”ति ।

[१६९।०१]
मानुष्यकं पुष्पगन्धं संधायोक्तम् ।
तद्धि प्रतीतं लोके ।

[१६९।०१-१६९।०३]
न च तस्य तादृशी शक्तिः महीसासकास्तु पथन्ति “योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजनानि प्रतिवातमिति ।

[१६९।०३-१६९।०४]
सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे यस्यां निषद्य देवाः कृत्याकृत्यं समर्थयन्ति ।

[१६९।०४]
एष तावत्त्रिदशानां भाजनसंनिवेशः ।

[१६९।०५]
ततऊर्ध्वं विमानेषु देवाः

[१६९।०६]
त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः ।

[१६९।०६-१६९।०७]
ते पुनर्यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थानान्तरगताः ।

[१६९।०८]
इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते ।

[१६९।०९]
कामभुजस्तु षट् ।

[१६९।१०]
तेषां तु षट्कामावचरा देवनिकायाः कामान् परिभुञ्जते न शेषाः ।

[१६९।१०-१६९।११]
तद्यथा चतुर्महाराजकायिका यावत्परनिर्मितवशवर्तिनः ।

[१६९।११]
ते पुनः

[१६९।१२]
द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथुनाः ॥ ३.६९ ॥

[१६९।१३]
द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम् ।

[१६९।१३-१६९।१४]
चातुर्महाराजकायिकानां त्रायस्त्रिङ्क्शानां यथा मनुष्याणाम् ।

[१६९।१४]
तेषां तु वायुनिर्मोक्षात्दाहविगमः शुक्राभावात् ।

[१६९।१४-१६९।१५]
आलिङ्गनेन मैथुनं यामानामालिङ्गनमात्रेण दाहविगमात् ।

[१६९।१५-१६९।१६]
पाणिसंप्राप्त्या तुषितानां हसितेन निर्माणरतीनां प्रेक्षितेन परनिर्मितवशवर्तिनाम् ।

[१६९।१६-१६९।१७]
स्ववर्तिनां सर्वेषां द्वन्द्वसमापत्त्या ।

[१६९।१७]
कालपरिमानं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः ।

[१६९।१७-१६९।१८]
यावद्यावद्विषयाणां तीव्रतरता तावत्तावद्रागोऽपि तीव्रतरः ।

[१६९।१८-१६९।१९]
यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते स तयोः पुत्रो भवति सा च दुहिता ।

[१६९।१९-१६९।२०]
कियत्प्रमाणो जायते ।

[१६९।२१]
पञ्चवर्षोपमो यावत्दशवर्षोपमः शिशुः ।

[१६९।२२]
संभवत्येषु

[१६९।२३]
यथासंख्यं षट्सु देवनिकायेषु ।
ते तु क्षिप्रमेवाभिवर्धन्ते ।

[१६९।२४]
संपूर्णाः सवस्त्राश्चैव रूपिणः ॥ ३.७० ॥

[१७०।०१]
रूपावचरा देवाः संपूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते ।

[१७०।०१-१७०।०२]
सर्वे देवा आर्यभाषाभाषिणः ।

[१७०।०२]
तदत्र कामधातौ वेदितव्याः

[१७०।०३]
कामोपपत्तयस्तिस्रः कामदेवाः समानुषाः ।

[१७०।०४]
कथं कृत्वा ।

[१७०।०४-१७०।०५]
सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं वशे वर्तयन्ति ।

[१७०।०५]
तद्यथा मनुष्यास्तदेकत्याश्च देवाः ।
ते पुनश्चत्वारो देवनिकायाः ।

[१७०।०६]
सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्य वशे वर्तयन्ति ।

[१७०।०६-१७०।०७]
तद्यथा देवा निर्माणरतयः ।

[१७०।०७-१७०।०८]
सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्य वशे वर्त्तयन्ति ।

[१७०।०८]
तद्यथा देवाः परनिर्मितवशवर्त्तिनः ।

[१७०।०८-१७०।१०]
ता एता यथोत्पन्नपरिभोगित्वात्यथेच्छात्मनिर्मितपरिभोगित्वाद्यथेच्छात्मपर निर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते ।

[१७०।१०]
रूपधातौ तु

[१७०।११]
सुखोपपत्तयस्त्रिसो नवत्रिध्यानभूमयः ॥ ३.७१ ॥

[१७०।१२]
त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः ।

[१७०।१२-१७०।१४]
ते हि देवा विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो दीर्घमध्वानं तिष्ठन्ति ।

[१७०।१४]
अत एता निर्दुःखदीर्घसुखत्वात्सुखा उपपत्तयः सुखोपपत्तयः ।

[१७०।१४-१७०।१५]
ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात्सुखोपपत्तित्वं विचार्यम् ।

[१७०।१६-१७०।१७]
यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि तेषामधरादुत्तरं कियद्विप्रकृष्टम् ।

[१७०।१७]
नैतत्सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् ।
अपि तु

[१७०।१८]
स्थानात्स्थानादधो यावत्तावदूर्ध्वं ततस्ततः ।

[१७०।१९-१७०।२०]
जम्बूद्वीपात्प्रभृति यदुत्तरं स्थानं तस्माद्यावदधो जम्बूद्वीपस्तावत्पुनस्तस्मादूर्ध्वं स्थानान्तरम् ।

[१७०।२०-१७०।२१]
तद्यथा चतुर्थी परिषण्डा चतुर्णां महाराजानां मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि ।

[१७०।२१-१७०।२२]
तस्माद्यावदधोजम्बूद्वीपस्तावदूर्ध्वं त्रिदशानां स्थानं तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् ।

[१७०।२३]
ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति ।

[१७०।२३-१७०।२४]
एवं विस्तरेण सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वंमकनिष्ठानां स्थानम् ।

[१७०।२५]
तस्मादूर्ध्वं न पुनः स्थानमस्ति ।
अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते ।

[१७०।२५-१७०।२६]
अघनिष्ठा इत्यपरे ।

[१७०।२६]
अघं किल चित्तस्थं रूपं तन्मात्रनिष्ठेति ।

[१७०।२७]
किं पुनरधरस्थानोपपन्ना उर्ध्वानि विमानानि गत्वा पश्यन्ति

[१७१।०१]
नोर्ध्वं दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् ॥ ३.७२ ॥

[१७१।०२]
ऋद्ध्या वा त्रायस्त्रिंशा यामान् ।
गच्छेयुः ।

[१७१।०२-१७१।०३]
पराश्रयेण वा यद्वृद्धिमता नीयेरन् देवेन वा तत्रत्येन ।

[१७१।०३]
एवं शेषाः ।

[१७१।०३-१७१।०४]
आगतं तूर्ध्वोपपन्नं पश्येन्नतूर्ध्वधातुकं नोर्ध्वभूमिकम् ।

[१७१।०४]
यिअथा स्प्रष्टव्यं न स्पृशेदविषयत्वात् ।

[१७१।०४-१७१।०५]
अत एव तेनास्वेन कायेनागच्छन्ति ।

[१७१।०५-१७१।०६]
किं तर्हि निर्मितेनाधरभूमिकेन तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः ।

[१७१।०७]
अथैषां यामादिविमानानां कियत्प्रमाणम् ।

[१७१।०७-१७१।०८]
चतुर्णां तावद्यावत्सुमेरुमूर्ध्नः इत्येके ।

[१७१।०८]
द्विगुणोत्तरमित्यपरे ।
प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः ।

[१७१।०८-१७१।०९]
द्वितीयं यावान् साहस्रश्चूडिको लोकधातुः ।

[१७१।०९]
तृतीयं यावान् द्विसाहस्रः ।

[१७१।०९-१७१।१०]
चतुर्थं यावांस्रिसाहस्र इत्येके ।

[१७१।१०]
प्रथमादीनि साहस्रादिपरिमाणानि ।

[१७१।१०-१७१।११]
चतुर्थं त्वपरिमाणमित्यपरे ।

[१७१।१२]
अथ कोऽयं साहस्रश्चूडिको लोकधातुः को द्विसाहस्रस्त्रिसाहस्रो वा ।

[१७१।१३-१७१।१४]
चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् ।
ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः ॥ ३.७३ ॥

[१७१।१५-१७१।१७]
सहस्रञ्जंबूद्वीपानां पूर्वविदेहानामपरगोदानीयानामुत्तरकुरुणां सहस्रं सूर्याणां चन्द्राणां सुमेरूणां सहस्रं चातुर्महाराजकायिकानां देवानां यावत्परनिर्मितवशवर्तिनां सहस्रं ब्रह्मलोकानामयमुच्यते साहस्रश्चूडिको लोकधातुः ।

[१७१।१८]
तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः ।

[१७१।१९]
तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः ।

[१७१।२०]
तत्सहस्रं त्रिसाहस्रः

[१७१।२१]
तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः ।

[१७१।२१-१७१।२२]
एष हि कृत्स्नः

[१७१।२३]
समसंवर्तसंभवः ॥ ३.७४ ॥

[१७१।२४]
समं संवर्तते समं विवर्तते ।
संभवो हि विवर्तः इत्युत्तरत्र व्याख्यास्यते ।

[१७१।२५-१७१।२६]
किं खलु यथा भाजनानां प्रमाणभेद एवं तद्वासिनामपि सत्त्वानां प्रमाणभेदोऽस्ति ।

[१७१।२६]
अस्तीत्याह ।
तत्र तावत्

[१७१।२७]
जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः ।

[१७१।२८]
जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः केचित्तु चतुर्हस्तकाः

[१७२।०१]
द्विगुणोत्तरवृद्ध्या तु पूर्वगोदोत्तराह्वयाः ॥ ३.७५ ॥

[१७२।०२-१७२।०३]
पूर्वविदेहका गोदानीका उत्तरकौरवाश्च मनुष्या अष्टषोडशद्वात्रिंशद्धस्तका यथाक्रमम् ।

[१७२।०४]
पादवृद्ध्या तनुर्यावत्सार्धक्रोशो दिवौकसाम् ।

[१७२।०५]
कामिनां

[१७२।०६]
पादः क्रोशस्य चतुर्थो भगः ।

[१७२।०६-१७२।०८]
तन्मात्रं शरीरं चातुर्महाराजकायिकानां द्वौ पादौ त्रायस्त्रिंशानां त्रयो यामानां चत्वारस्तुषितानां पञ्च निर्माणरतीनामध्यर्धः क्रोशः परनिर्मितवशवर्तिनाम् ।

[१७२।०९]
रुपिणां त्वादौ योजनार्धं

[१७२।१०]
रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् ।

[१७२।११]
ततः परम् ॥ ३.७६ ॥

[१७२।१२]
अर्धार्धवृद्धिः

[१७२।१३]
त्रिषु स्थानेसु ब्रह्मपुरोहितानां योजनं महाब्रह्मणोऽध्यर्धं परीत्ताभानां द्वे योजने ।

[१७२।१४-१७२।१५]
उर्ध्वं तु परीत्ताभेभ्य आश्रयः ।
द्विगुणद्विगुणा हित्वाऽनभ्रकेभ्यऽस्त्रियोजनम् ॥ ३.७७ ॥

[१७२।१६]
अप्रमाणाभानां चत्वारि योजनानि ।
आभास्वराणामष्टौ ।

[१७२।१६-१७२।१७]
एवं द्विगुणवृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः ।

[१७२।१७-१७२।१८]
अनभ्रकाणां ततो योजनत्रयेण हीनं द्विगुणं पञ्चविंशतियोजन शतम् ।

[१७२।१८-१७२।१९]
तस्मात्परेण पुनः पुण्यप्रसवानां द्विगुणं द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् ।

[१७२।२०]
एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः ।
अस्तीत्याह ।

[१७२।२१]
सहस्रमायुः कुरुषु

[१७२।२२]
वर्षाणाम् ।

[१७२।२३]
द्वयोरर्धार्धवर्जितम् ।

[१७२।२४]
द्वयोर्द्विपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् ।

[१७२।२४-१७२।२५]
अर्धतृतीये वर्षशते पूर्वविदेहानाम् ।

[१७३।०१]
इहानियतम्

[१७३।०२]
जम्बूद्वीपे नास्त्यायुषो नियमः कदाचित्भूयो भवति कदाचिदल्पीयः ।

[१७३।०३]
अन्ते तु दशाब्दाः

[१७३।०४]
अब्दः संवत्सरः ।
अन्ते हीयमानं दश वर्षाण्यायुर्भवति ।

[१७३।०५]
आदितोऽमितम् ॥ ३.७८ ॥

[१७३।०६]
आदितः प्राथमकल्पिकानं मनुष्याणामपरिमाणमायुर्भवति ।

[१७३।०६-१७३।०७]
सहस्रादिसंख्यया परिमातुं न शक्यते ।

[१७३।०८]
उक्तं मनुष्याणां देवानां वक्तव्यम् ।

[१७३।०८-१७३।०९]
तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव चैषां व्यवस्थाप्यते ।

[१७३।१०-१७३।११]
नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् ।
कामेऽधराणां

[१७३।१२-१७३।१३]
यानि मनुष्याणां पञ्चाशद्वर्षाणि तानि कामधातावधराणां देवानां चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् ।

[१७३।१४]
तेनायुः पञ्चवर्षशतानि तु ॥ ३.७९ ॥

[१७३।१५-१७३।१६]
तेन ततस्तेनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण दिव्यानि पञ्चवर्षशतान्यायुः प्रमाणम् ।

[१७३।१७]
द्विगुणोत्तरमूर्ध्वानामुभयं

[१७३।१८]
ऊर्ध्वानां देवानामुभय द्विगुणोत्तरमहोरात्रश्चायुश्च ।
कथं कृत्वा ।

[१७३।१८-१७३।१९]
यन्मनुष्याणां वर्षशतं तत्त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम् ।

[१७३।१९-१७३।२०]
तेन रात्रिन्दिवेन दिव्यं वर्षसहस्रमायुः ।

[१७३।२०]
एवं यामादीनां यथाक्रमम् ।

[१७३।२०-१७३।२१]
मानुष्यकाणि द्वे चत्वार्यष्टौ षोडश वर्षशतान्येकं रात्रिन्दिवम् ।

[१७३।२१-१७३।२२]
तेन रात्रिन्देवेन द्वे चत्वार्यष्टौ षोडश दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् ।

[१७३।२२]
युगन्धरादूर्वं सूर्याचन्द्रमसोरभावात् ॥

[१७३।२२-१७३।२३]
कथं देवानामहोरात्रव्यवस्थानमालोककृत्यं वा ।

[१७३।२३-१७३।२४]
पुष्पाणां संकोचविकासात्कुमुदबन्धु वत्शकुनीनां कूजनाकूजनात्मिद्धापगमागमाच्च आलोककृत्यं स्वयंप्रभत्वात् ।

[१७३।२५]
उक्तमायुः कामिनाम् ।

[१७४।०१]
रूपिणां पुनः ।

[१७४।०२]
नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः ॥ ३.८० ॥

[१७४।०३]
येषां रूपिणामर्धयोजनमाश्रयः तेषामर्धकल्पमायुः ।
येषां योजनं तेषां कल्पम् ।

[१७४।०३-१७४।०५]
एवं यस्य यावद्योजनमाश्रयस्तस्य तावत्कल्पमायुर्यवदकनिष्ठानां षोडशकल्पसहस्राण्यायुः प्रमाणम् ।

[१७४।०६]
आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् ।

[१७४।०७]
आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् ।

[१७४।०८]
विज्ञानानन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि ।

[१७४।०८-१७४।०९]
आकिञ्चन्यायतने तस्मादधिकं विंशतिः ।

[१७४।०९]
भवाग्रे तस्मादधिकं विंशतिः ।

[१७४।०९-१७४।१०]
एवं तेषां यथाक्रमं विंशतिश्चत्वारिंशत्षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् ।

[१७४।११-१७४।१२]
कतमोऽत्र कल्पो वेदितव्यः किमन्तरकल्पोऽथ संवर्तकल्पोऽथ विवर्त्तकल्पोऽथ महाकल्पः ।

[१७४।१३]
महाकल्पः परीत्ताभात्प्रभृत्यर्धमधस्ततः ॥ ३.८१ ॥

[१७४।१४]
परीत्ताभादेव निकायात्प्रभृति महाकल्पेनायुः वेदितव्यम् ।

[१७४।१४-१७४।१५]
तस्मादधो महाकल्पस्यार्ध कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् ।

[१७४।१५]
कथं कृत्वा ।

[१७४।१५-१७४।१७]
यच्च लोको विंशतिमन्तरकल्पान् विवर्तते यच्च लोको विंशतिमन्तरकल्पान्विवर्त आस्ते यच्च विंशतिमन्तरकल्पान्संवर्तते इमे षष्टिरन्तरकल्पा महाब्रह्मणोऽध्यर्धः कल्पः उक्तः ।

[१७४।१७-१७४।१८]
एवं च कृत्वा महाकल्पस्यार्धं चत्वारिंशदन्तरकल्पान् कल्पीकृत्य तेषामायुः प्रमाणमुक्तम् ।

[१७४।१९]
उक्तं सुगतावायुः प्रमाणम् ।

[१७४।२०]
दुर्गताविदानीं वक्तव्यम् ।
तत्र तावत्

[१७४।२१-१७४।२२]
कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् ।
संजीवादिषु षट्सु

[१७४।२३-१७४।२४]
यावत्षण्णां कामावचराणां देवनिकायानामायुरुक्तं तेन तुल्या अहोरात्राः षट्षु नरकेषु यथाक्रमं वेदितव्याः ।

[१७४।२४-१७४।२५]
संजीवे कालसूत्रे संघाते रौरवे महारौरवे तापने च ।

[१७४।२६]
आयुस्तैस्तेषां कामदेववत् ॥ ३.८२ ॥

[१७४।२७-१७४।२८]
तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुस्तथैव यथाक्रमं वेदितव्यम् ।

[१७४।२८]
कथं कृत्वा ।

[१७४।२८-१७४।२९]
यद्धि चातुर्महाराजकायिकानामायुः प्रमाणं तत्संजीवने महानरके एकं रात्रिन्दिवम् ।

[१७४।२९-१७५।०१]
तेन यावत्द्वादशमासकेन संवत्सरेण तत्रत्यानि पञ्चवर्षशतान्यायुः ।

[१७५।०१-१७५।०२]
यत्त्रायस्त्रिंशानामायुः प्रमाणं तत्कालसूत्रे महानरके एकं रात्रिन्दिवम् ।

[१७५।०२-१७५।०३]
तेन रात्रिन्दिवेन तस्मिन्वर्षसहस्राण्यायुःप्रमाणम् ।

[१७५।०३-१७५।०४]
एवमन्येष्वपि यथायोगं योज्यं यावत्परनिर्मितवशवर्तिनामायुःप्रमाणं तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् ।

[१७५।०५]
अर्धं प्रतापने

[१७५।०६]
प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुः प्रमाणम् ।

[१७५।०७]
अवीचावन्तःकल्पं

[१७५।०८]
तिरश्चां तु नियमो नास्ति ।

[१७५।०९]
परं पुनः ।

[१७५।१०]
कल्पं तिरश्चां

[१७५।११]
परमायुस्तिरश्चामन्तरकल्पं तत्पुनर्नागानां नन्दोपनन्दाश्वतलीप्रभृतीनाम् ।

[१७५।११-१७५।१३]
उक्तं हि भगवता “अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था धरणिधरा” इति विस्तरः ।

[१७५।१४]
प्रेतानां मासाह्ना शतपञ्चकम् ॥ ३.८३ ॥

[१७५।१५]
यो मनुष्याणां मासः स प्रेतानामहोरात्रः ।

[१७५।१५-१७५।१६]
तेनाहोरात्रेण पञ्च वर्षशतान्यायुः ।

[१७५।१६]
शीतनरकेष्वायुषः किं प्रमाणम् ।

[१७५।१७-१७५।१८]
वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः ।
अर्वुदाद्विंशतिगुणप्रतिवृद्ध्यायुषः परे ॥ ३.८४ ॥

[१७५।१९-१७५।२०]
उपमानमात्रेण तेष्वायुराख्यातं भगवता “तद्यथा भिक्षवः इह स्याद्विंशतिखारीको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकावद्धः ।

[१७५।२०-१७५।२२]
ततः कश्चिदेव वर्षशतस्यात्ययादेकं तिलमपनयते क्षिप्रतरं भिक्षवः सविंशतिखारीको मागधस्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् ।

[१७५।२२]
न त्वेवाहमर्वुदोपपन्नानामायुषः पर्यन्तं वदामि ।

[१७५।२२-१७५।२४]
यथा खलु भिक्षवो विंशतिर्वुदा एवमेको निरर्वुदो विस्तरेण यथा खलु भिक्षवो विंशतिः पद्या एवमेको महापद्म” इति ।

[१७५।२५]
एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूर्णायुषामन्तरा मृत्युराहोस्विन्न ।

[१७५।२६]
सर्वत्रास्ति

[१७६।०१]
कुरुबाह्योऽन्तरामृत्युः

[१७६।०२]
उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति ।
अन्येषु नावश्यम् ।

[१७६।०३]
पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रियया ।

[१७६।०३-१७६।०५]
तुषितस्थर्स्यकजातिबद्धस्य बोधिसत्त्वस्य चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभुतस्य श्रद्धाधर्मानुसारिणो बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादिनाम् ।

[१७६।०६-१७६।०७]
योजनप्रमणेन स्थानानि शरीराणि चोत्कानि वर्षप्रमाणेनायुरुक्तं तयोश्च प्रमाणं नोक्तमिति वक्तव्यं नाना च सर्वेषां ववस्थानमतस्तस्यापि पर्यन्तो वक्तव्यः ।

[१७६।०८]
तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते ।

[१७६।०९]
परमाण्वक्षरक्षणाः ।

[१७६।१०]
रूपनामाध्वपर्यन्ताः

[१७६।११]
रूपस्यापचीयमानस्य पर्यन्तः परमाणुः ।

[१७६।११-१७६।१२]
कालस्य पर्यन्तः क्षणो नाम्नः पर्यन्तोऽक्षरं तद्यथा गौरिति ।

[१७६।१२]
क्षणस्य पुनः किं प्रमाणम् ।

[१७६।१२-१७६।१३]
समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः गच्छन्वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति ।

[१७६।१३-१७६।१४]
बलवत्पुरुषाद्धट्मात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः ।

[१७६।१५]
परमाणुरणुस्तथा ॥ ३.८५ ॥

[१७६।१६-१७६।१७]
लोहापशशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः ।
यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ३.८६ ॥

[१७६।१८]
एतत्परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् ।
सप्त परमाणवोऽणुः ।

[१७६।१८-१७६।१९]
सप्ताणवो लोहरजः ।

[१७६।१९]
तानि सप्ताव्रजस्तानि सप्त दाशरजस्तानि सप्तैडकरजः ।

[१७६।१९-१७६।२०]
तानि सप्त गोरजः तानि सप्त वातायनच्छिद्ररजः ।

[१७६।२०]
तानि सप्त लिक्षास्तदुद्भवा यूकेत्यर्थः ।

[१७६।२०-१७६।२१]
सप्त यूका यवः ।

[१७६।२१-१७६।२२]
सप्त यवा अङ्गुलीपर्व त्रीणि पर्वाण्यङ्गुरीति प्रसिद्धमेवेति नोक्तम् ।

[१७६।२२]
पार्श्वाकृतास्तु ।

[१७७।०१]
चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् ।

[१७७।०२]
धनुः

[१७७।०३]
व्यासेनेत्यर्थः ।

[१७७।०४]
पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम् ॥ ३.८७ ॥

[१७७।०५]
मनुषां पञ्च शतानि क्रोशः ।
क्रोशमात्रं च ग्रामादि रण्यमिष्टम् ।

[१७७।०६]
तेऽष्टौ योजनमित्याहुः ।

[१७७।०७]
उक्तं योजनस्य प्रमाणम् ।
वर्षस्येदानीमुच्यते ।

[१७७।०८]
विंशं क्षणशतं पुनः ।

[१७७।०९]
तत्क्षणः

[१७७।१०]
क्षणानां विंशं शतमेकस्तत्क्षणः ।

[१७७।११]
ते पुनः षष्टिर्लवः ।

[१७७।१२]
तत्क्षणाः षष्टिर्लव इत्युच्यते ।

[१७७।१३]
त्रिंशद्गुणोत्तराः ॥ ३.८८ ॥

[१७७।१४]
त्रयो मुहूर्त्ताहोरात्रमासाः

[१७७।१५]
त्रिंशल्लवा मुहूर्त्तस्त्रिशन्मुहूर्त्ता अहोरात्रः ।

[१७७।१५-१७७।१६]
कदाचित्तु रात्रिरधिका भवति कदाचिदूना कदाचित्समा ।
[१७७।१६]
त्रिदशाहोरात्रा मासः ।

[१७७।१७]
द्वादशमासकः ।

[१७७।१८]
संवत्सरः सोनरात्रः

[१७७।१९-१७७।२०]
चत्वारो मासा हेमन्तानां चत्वारो ग्रीष्माणां चत्वारो वर्षाणामित्येते द्वादश मासा संवत्सरः सार्धमूनरात्रैः ।

[१७७।२०]
संवत्सरेण हि षडूनरात्रा निपात्यन्ते ।
कथं कृत्वा ।

[१७७।२१]
“हेमन्तग्रीष्मवर्षाणामध्यर्धे मासि निर्गते ।
शेषेऽर्धमासे विद्वद्भिरूनरात्रो निपात्यते ॥”

[१७७।२३]
उक्तं वर्षप्रमाणम् ।

[१७८।०१]
कल्पस्येदानीं वक्तव्यम् ।

[१७८।०२]
कल्पो बहुविधः स्मृतः ॥ ३.८९ ॥

[१७८।०३]
अन्तरकल्पो संवर्त्तकल्पो विवर्तकल्पो महाकल्पश्चेति ।
तत्र तावत्

[१७८।०४]
संवर्त्तकल्पो नरकासंभवात्भाजनक्षयः ।

[१७८।०५]
नरकेषु हि सत्त्वासंभवात्प्रभृति यावत्भाजनसंक्षयः ।
द्वे हि संवर्त्तन्यौ ।

[१७८।०५-१७८।०६]
गतिसंवर्तनी धातुसंवर्तनी च ।

[१७८।०६]
पुनर्द्वे संवर्तन्यौ ।
सत्त्वसंवर्तनी भाजनसंवर्तनी च ।

[१७८।०७]
भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते ।
स आरम्भः संवर्तकल्पस्य ।

[१७८।०८]
यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् ।

[१७८।०८-१७८।०९]
यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत्प्रतिपन्नं वक्तव्यम् ।

[१७८।०९-१७८।१०]
यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति ।

[१७८।१०-१७८।११]
यदुत नरकसंवर्त्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म घ्रियते स लोकधात्वन्तरनरकेषु क्षिप्यते ।

[१७८।११-१७८।१२]
एवं तिर्यक्संवर्त्तनी प्रेतसंवर्त्तनी च वक्तव्या ।

[१७८।१२]
महासमुद्रगतास्तिर्यञ्चः पूर्वं संवर्तन्ते ।

[१७८।१२-१७८।१३]
मनुष्यसहचरिष्णवस्तु तैरेव सार्धं भवन्ति ।

[१७८।१३-१७८।१६]
स कालो यन्मनुष्येष्वन्यतमः सत्त्वः स्वयमनाचार्यकं धर्मताप्रातिलम्भिकं प्रथमं ध्यानं समापद्यते स तस्मात्व्युत्थाय वाचं भाषते सुखं वत विवेकजं प्रीतिसुखं शान्तं वत विवेकजं प्रीतिसुखमिति ।

[१७८।१६-१७८।१७]
तं च शब्दं श्रुत्वा अन्येऽपि सत्त्वाः समापद्यन्ते ।

[१७८।१७]
कालं कृत्वा ब्रह्मलोक उपपद्यन्ते ।

[१७८।१७-१७८।१८]
यदा जम्बूद्वीप एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत जम्बूद्वीपसंवर्तन्या ।

[१७८।१८-१७८।१९]
एवं पूर्वविदेहगोदानीयोत्तरकुरुसंवर्तन्यो वक्तव्याः ।

[१७८।१९-१७८।२०]
यदा मनुष्येष्वेकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत मनुष्यगतिसंवर्त्तन्या ।

[१७८।२०-१७८।२१]
औत्तरकौरवास्तु कालं कृत्वा कामावचरेषु देवेषूपपद्यन्ते ।

[१७८।२१]
तत्र वैराग्याभावात् ।

[१७८।२१-१७८।२२]
एवं चातुर्महाराजकायिकेष्वपि देवेषु प्रथमं ध्यानं समापद्य ब्रह्मलोक उपपद्यन्ते ।

[१७८।२२-१७८।२४]
यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत चातुर्महाराजकायिकसंवर्तन्या ।

[१७८।२४-१७८।२५]
एवं यावत्परनिर्मितवशवर्तिसंवर्त्त्न्यो वक्तव्याः ।

[१७८।२५-१७८।२६]
यदैकसत्त्वोऽपि कामावचरेषु देवेषु नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत कामधातुसंवर्तन्या ।

[१७८।२६-१७८।२८]
ब्रह्मलोकेऽप्यन्यतमः सत्त्वो धर्मताप्रातिलम्भिकं द्वितीयं ध्यानं समापद्योत्थाय वाचं भाषते सुखं वत समाधिजं प्रीतिसुखं शान्तं वत समाधिजं प्रीतिसुखमिति ।

[१७८।२८-१७९।०१]
तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते ।

[१७९।०१-१७९।०२]
यदा ब्रह्मलोक एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्तन्या ।

[१७९।०२-१७९।०४]
ततः शून्ये भाजने इत एव सामन्तकात्सत्त्वानां तदाक्षेपके कर्मणि परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत्पृथिवीं सुमेरुं च निःशेषं दहन्ति ।

[१७९।०४-१७९।०५]
तस्मादेवं प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत्परैति ।

[१७९।०५]
तच्च तद्भूमिकमेवार्चिर्वेदितव्यम् ।

[१७९।०५-१७९।०६]
नहि विसभागा अपक्षालाः क्रमन्ते ।

[१७९।०६]
तत्संबद्धसंभूतत्वात्तस्मात्तदित्युक्तम् ।

[१७९।०६-१७९।०७]
कामावचरो ह्यग्नी रूपावचरमग्निं संबध्नातीति ।

[१७९।०७-१७९।०८]
एवमन्यस्यामपि संवर्तन्यां यथायोगं वेदितव्यमिति ।

[१७९।०८-१७९।०९]
नरकेषु सत्त्वानां च्युत्यनुत्पादात्प्रभृति यावत्भाजनानां संक्षय एष कालः ।

[१७९।१०]
विवर्तकल्पः प्राग्वायोर्यावन्नरकसंभवः ॥ ३.९० ॥

[१७९।११]
थमाद्वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः एष कालो विवर्तकल्प इत्युच्यते ।

[१७९।१२-१७९।१४]
तथा संवृते हि लोक आकाशमात्रावशेषश्चिर कालं तिष्ठति यावत्पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा वायवः स्यन्दन्ते ।

[१७९।१४-१७९।१५]
तदा यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् ।

[१७९।१५]
यद्विंशतिमन्तरकल्पान् विवर्त्तिष्यते तदुपयातं वक्तव्यम् ।

[१७९।१६]
ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते ।

[१७९।१६-१७९।१७]
ततः शनैर्यथोक्तक्रमविधानं सर्वं जायते अप्मण्डलं काञ्चनमयी महापृथिवी द्वीपाः सुमेर्वादयश्च ।

[१७९।१७-१७९।१८]
प्रथमं तु ब्राह्म विमानमुत्पद्यते ।

[१७९।१८]
ततो यावत्यामीयं ततो वायुमण्डलादीनि ।

[१७९।१८-१७९।१९]
इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्तन्या ।

[१७९।१९-१७९।२०]
अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते ।

[१७९।२०-१७९।२१]
अन्येऽपि सत्त्वास्ततश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यन्ते ।

[१७९।२१]
ततो ब्रह्मकायिकेषु परनिर्मितवशवर्तिषु ।

[१७९।२१-१७९।२२]
क्रमेण यावदुत्तरकुरौ गोदानीये पूर्वविदेहे जम्बूद्वीपे प्रेतेषु तिर्यक्षु नरकेषूपपद्यन्ते ।

[१७९।२२-१७९।२३]
धर्मता ह्येषा यत्पश्चात्संवर्तते तत्पूर्वं विवर्त्तते ।

[१७९।२३-१७९।२४]
यदा नरकेष्वेकः सत्त्वोऽपि प्रादुर्भूतो भवति तदा यदयं लोको विंशतिमन्तरकल्पान् विवर्तते तन्निर्यातं भवति ।

[१७९।२४-१७९।२५]
यद्विंशतिमन्तरल्पान् विवर्त्तः स्थास्यति तदुपयातं भवति ।

[१७९।२६]
अन्तःकल्पोऽमितात्यावद्दशवर्षायुषः

[१७९।२७-१८०।०१]
विवर्तमाने लोके एकान्न विंशतिरन्तरकल्पा अपरिमितायुषां मनुष्याणामतिक्रामन्ति ।

[१८०।०१-१८०।०२]
अपरिमितायुषामेव क्रमतां यावद्दशवर्षायुषो भवन्ति ।

[१८०।०२]
सोऽसौ विवृत्तानां तिष्ठतां प्रथमोऽन्तरकल्पः ।

[१८०।०३]
ततः ।

[१८०।०४]
उत्कर्षा अपकर्षाश्च कल्पा अष्टादशापरे ॥ ३.९१ ॥

[१८०।०५]
तस्मादपरेऽष्टादशोत्कर्षा अपकर्षाश्चाष्टादशान्तरकल्पा भवन्ति ।
कथं कृत्वा ।

[१८०।०६]
तेभ्यो हि दशवर्षायुष्केभ्य उत्कर्षं गच्छन्तः क्रमेणाशीतिवर्षसहस्रायुषो भवन्ति ।

[१८०।०७]
पुनश्चापकर्षं गच्छन्तो दशवर्षायुषो भवन्ति ॥
एवं द्वितीयोऽन्तरकल्पः ।

[१८०।०७-१८०।०८]
एवं यावदष्टादश ।

[१८०।०९]
उत्कर्ष एकः

[१८०।१०]
एकान्तरकल्पो विंशतितम उत्कर्ष एवमपकर्षः ।

[१८०।१०-१८०।११]
दशवर्षायुष्केभ्यो यावदशीतिवर्षायुषां मनुष्याणामिति वर्त्तते ।

[१८०।११]
अथैते उत्कर्षाः कियन्तं प्रकर्षं गच्छन्ति ।

[१८०।१२]
तेऽशीतिसहस्राद्यावदायुषः ।

[१८०।१३-१८०।१४]
नातः परेण वर्धन्ते यावानेव चान्येषामन्तरकल्पानामुत्कर्षापकर्षकालस्तावानेव प्रथमस्यापकर्षकालः पश्चिमस्य चोत्कर्षकाल इति समानकालाः सर्वे भवन्ति ।

[१८०।१५]
इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् ॥ ३.९२ ॥

[१८०।१६]
इत्यनेनान्तरकल्पन्यायेनायं विंशतिमन्तरकल्पान्विवृत्तस्तिष्ठति ।

[१८०।१६-१८०।१७]
यावन्तं कालं विवृत्तस्तिष्ठति तावन्तमेव कालं

[१८०।१८]
विवर्ततेऽथ संवृत्त आस्ते सम्वर्तते समम् ।

[१८०।१९]
विंशतिमेवान्तरकल्पान् विवर्तते विंशतिं संवर्तते विंशतिं संवृत्त आस्ते ।

[१८०।१९-१८०।२०]
यद्यपि तदानीमुत्कर्षा अपकर्षाश्च न प्रवर्तन्ते कालस्तु समानः परिसंख्यायते ।

[१८०।२०-१८०।२२]
तत्रैकेनान्तर कल्पेन भाजनान्यभिनिवर्तन्ते एकान्नविंशत्याऽन्तरकल्पैरावास्यन्ते एकेनान्तरकल्पेन भाजनानि विध्वस्यन्ते एकान्नविंशत्या शून्यी भवन्ति ।

[१८०।२२-१८०।२३]
ता एता अन्तरकल्पानां चतस्रो विंशत्योऽशीतिर्भवन्ति ।

[१८०।२४]
ते ह्यशीतिर्महाकल्पः

[१८०।२५]
एतन्महाकल्पस्य प्रमाणम् ।
कल्पः किंस्वभावः ।
पञ्चस्कन्धस्वभावः ।

[१८०।२५-१८१।०१]
यदुच्यते त्रिभिरसंख्येयैः कल्पानां बुधत्वं प्राप्यत” इति ।

[१८१।०१]
तत्कतमेषां कल्पानाम् ।

[१८१।०१-१८१।०२]
य एव महाकल्पो निर्दिष्टः ।

[१८१।०३]
तदसंख्यत्रयोद्भवम् ॥ ३.९३ ॥

[१८१।०४]
बुद्धत्वम्

[१८१।०५]
संख्येयानां कल्पानां त्रयेण ।

[१८१।०५-१८१।०६]
कथमसंख्येयस्यासति संख्येयावसाने पुनस्त्रित्वमुच्यते ।

[१८१।०६]
नैअदेवं वेदितव्यम् । किं तर्हि ।

[१८१।०६-१८१।०७]
“षष्टिः स्थानान्तराण्यसंख्येयमि”ति मुक्तकसूत्रं पठ्यते ।

[१८१।०७]
कतमानि षष्टिः ।
एको ह्यद्वितीयः प्रथमं स्थानान्तरम् ।

[१८१।०८]
एककानां दशको द्वितीयम् ।
दश दशकानि शतं तृतीयम् ।
दश शतानि सहस्रम् ।

[१८१।०९]
दश सहस्राणि प्रभेदः ।
दश प्रभेदा लक्षम् ।

[१८१।०९-१८१।१०]
दश लक्षा अतिलक्षः ।

[१८१।१०]
दशातिलक्षाः कौटिः ।
दश कौट्यो मध्यः।
दश मध्या अयुतम् ।

[१८१।११]
शायुता महायुतम् ।
दश महायुता नियुतम् ।
दश नियुता महानियुतम् ।

[१८१।११-१८१।१२]
दश महानियुताः प्रयुतम् ।

[१८१।१२]
दश प्रयुता महाप्रयुतः ।
दश महाप्रयुताः कङ्करः ।

[१८१।१२-१८१।१३]
दश कङ्करा महाकङ्करः ।

[१८१।१३]
दश महाकङ्करा विस्वरः ।
दश विस्वरा महाविस्वरः ।

[१८१।१३-१८१।१४]
दश महाविस्वरा अक्षोभ्यः ।

[१८१।१४]
दशाक्षोभ्या महाक्षोभ्यः ।
दश महाक्षोभ्या विवाहः ।

[१८१।१५]
दश विवाहा महाविवाहः ।
दश महाविवाहा उत्सङ्गः ।
दशोत्सङ्गा महोत्सङ्गः ।

[१८१।१६]
दश महोत्सङ्गा वाहनः ।
दश वाहनानि महावाहनम् ।

[१८१।१६-१८१।१७]
दश महावाहनानि तटिभः ।

[१८१।१७]
दश तिटिभा महातिटिभः ।
दश महातिटिभा हेतुः ।

[१८१।१७-१८१।१८]
दश हेतवो महाहेतुः ।

[१८१।१८]
दश महाहेतवः करभः ।
दश करभा महाकरभः ।

[१८१।१८-१८१।१९]
दश महाकरभा इन्द्रः ।

[१८१।१९]
दशेन्द्रा महेन्द्रः ।
दश महेन्द्राः समाप्तम् ।
दश समाप्तानि महासमाप्तम् ।

[१८१।२०]
दश महासमाप्तानि गतिः ।
दश गतयो महागतिः ।
दश महागतयो निम्बरजः ।

[१८१।२०-१८१।२१]
दश निम्बरजांसि महानिम्बरजः ।

[१८१।२१]
दश महानिम्बरजांसि मुद्रा ।
दश मुद्रा महामुद्रा ।

[१८१।२१-१८१।२२]
दश महामुद्राः बलम् ।

[१८१।२२]
दश बलानि महाबलम् ।

[१८१।२२-१८१।२३]
दश महाबलानि सज्ञा ।

[१८१।२३]
दश संज्ञा महासंज्ञा ।
दश महासंज्ञा विभूतः ।
दश विभूता महाविभूतः ।

[१८१।२३-१८१।२४]
दश महाविभूता बलाक्षम् ।

[१८१।२४]
दश बलाक्षा महाबलाक्षम् ।
दश महाबलाक्षाण्यसम्ख्यम् ।

[१८१।२५]
अष्टकं मध्याद्विस्तृतम् ।

[१८१।२५-१८२।०१]
इत्येतेषां षष्टिस्थानान्तरगतां संख्यामनुप्राप्ताः कल्पा असंख्येयानित्युच्यन्ते ।

[१८२।०१]
ततो व्यावृत्य पुनर्गण्यन्ते ।

[१८२।०१-१८२।०२]
एवं त्रीणि असंख्येयानीत्युच्यन्ते ।

[१८२।०२]
न तु नैव परिसंख्यातुं शक्यन्त इति ।

[१८२।०३]
किन्तु खलु कालप्रकर्षेणैव कृतप्रणिधाना बोधिसत्त्वा बोधिमभिसंबुध्यन्ते ।

[१८२।०४]
किमेतदेव भविष्यति ।

[१८२।०४-१८२।०५]
महतां हि पुण्यज्ञानसंभारेण षड्भिः पारमिताभिः बहुभिर्दुष्करशतसहस्रैस्त्रिभिः कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते बोधिसत्त्वाः ।

[१८२।०६]
यद्यप्यन्यथाऽप्यस्ति मोक्षावकाशः किमर्थं त इयन्तं यत्नमारभन्ते ।

[१८२।०६-१८२।०७]
परार्थं त इयन्तं यत्नमारभन्ते कथं परानपि महतो दुःखौघात्परित्रातुं शक्नुयामिति ।

[१८२।०७-१८२।०८]
क एषां परार्थेन स्वार्थः ।

[१८२।०८]
एष एव तेषां स्वार्थो यः परार्थस्तस्याभिमतत्वात् ।

[१८२।०८-१८२।०९]
इदानीमेतच्छ्राद्धास्यते ।

[१८२।०९]
सत्यं दुःश्रद्धानमेतदात्मंभरिभिर्निष्करुणैः ।

[१८२।०९-१८२।११]
कारुणिकैस्तु श्रद्धितमेवैतत्यथा चेह केचिदभ्यस्तनैर्धृण्या असत्यपि स्वार्थे परव्यसनाभिरता उपलभ्यन्ते ।

[१८२।११-१८२।१२]
तथा पुनरभ्यस्तकारुण्या असत्यपि स्वार्थे परहितक्रियाभिरामाः सन्तीति संभाव्यम् ।

[१८२।१२-१८२।१५]
यथैव चाभ्यासवशादनात्मभूतेषु संस्कारेषु संस्कृतलक्षणानभिज्ञा आत्मस्नेहं निवेश्य तद्धेतोर्दुःखान्युद्वहन्ति एवं पुनरभ्यासवशादात्मस्नेहं तेभ्यो निर्वर्त्य परेष्वपेक्षां वर्धयित्वा तद्धेतोर्दुःखान्युद्वहन्तीति संभाव्यम् ।

[१८२।१५-१८२।१६]
गोत्रान्तरमेव हि तत्तथाजातीयं निर्वर्तते यत्परेषां दुःखेन दुःखायते सुखेन सुखायते नात्मन इति ।

[१८२।१६]
न ते पुनः स्वार्थमन्यं पश्यन्ति ।
आह चात्र

[१८२।१७-१८२।२०]
“हीनः प्रार्थयते स्वसंततिगतं यैस्तैरूपायः सुखं
मध्यो दुःखनिवृत्तिमेव न सुखं दुःखास्पदं तद्यतः ।
श्रेष्ठः प्रार्थयते स्वसंततिगतैर्दुःखैः परेषां सुखं
दुःखात्यन्तनिवृत्तिमेव च यतस्तद्दुःखदुःख्येव सः ॥”

[१८२।२१]
किं पुनरुत्कर्षा बुद्धा उत्पयन्ते आहोस्विदपकर्षाः ।

[१८२।२२]
अपकर्षे हि शताद्यावत्तदुद्भवः ।

[१८२।२३-१८२।२४]
अशीतिवर्षशतायुपि प्रजायामपकर्षे आरब्धे यावद्वर्षशतायुषो मनुष्या भवन्त्येतस्मिन्नन्तरे बुद्धा उत्पद्यन्ते ।

[१८२।२४]
कस्मान्नोत्कर्षकाले ।
तदा हि दुःसमुद्वेजाः सत्त्वा भवन्ति ।

[१८३।०१]
कस्मान्न शतात् ।

[१८३।०१-१८३।०२]
तदा हि पञ्च कषाया अभ्युत्सदा भवन्ति ।

[१८३।०२-१८३।०३]
तद्यथाऽयुष्कषायः कल्पकषायः क्लेशकषायः दृष्टिकषायः सत्त्वकषायश्च ।

[१८३।०३]
अपकर्षस्याधस्तात्प्रत्यवरा आयुरादयः किटभूतत्वात्कषाया उच्यन्ते ।

[१८३।०४]
द्वाभ्यां हि जीवितोपकरणविपत्ती यथाक्रमम् ।
द्वाभ्यां कुशलपक्षवीपत्तिः ।

[१८३।०४-१८३।०५]
कामसुखल्लिकाऽत्मक्लमथानुयोगाधिकारात्गृहिप्रव्रजितपक्षयोर्वा ।

[१८३।०५-१८३।०६]
एकेनात्मभाववीपत्तिः ।

[१८३।०६]
प्रमाणरूपारोग्यबलवृद्धिस्मृतिवीर्यधैर्यभ्रंसात् ।

[१८३।०७]
अथ प्रत्येकबुद्धानां कस्मिन् काले उत्पादः ।

[१८३।०८]
द्वयोः प्रत्येकबुद्धानाम् ।

[१८३।०९]
उत्कर्षेऽयपकर्षेऽपि ।
द्विविधा हि प्रत्येकबुद्धा वर्गचारिणः खड्गविषाणकल्पाश्च ।

[१८३।१०]
तत्र वर्गचारिणः श्रावकपूर्विणः प्रत्येकजिना उच्यन्ते ।

[१८३।१०-१८३।११]
पृथग्जनपूर्विणोऽपि सन्तीत्यपरे ।

[१८३।११]
येऽन्यत्रोत्पादितनिर्वेधभागीया इह स्वयं मार्गमभिसंबुध्यन्ते ।
[१८३।११-१८३।१४]
तथाहि पूर्वयोगं पठन्ति “पर्वते किल पञ्चशतानि तापसानां कष्टानि तपांसि तप्यन्ते स्म यावत्प्रत्येकबुद्धसहोषितेन मर्कटेनागम्य तदीर्यापथसंदर्शनात्प्रत्येकबोधिमभिसंबन्द्धा” इति ।

[१८३।१४]
नचार्याः सन्तः कष्टानि तपांसि तप्येरन् ।

[१८३।१४-१८३।१५]
खड्गविषाणकल्पाः पुनरेकविहारिणः ।

[१८३।१५]
तेषां प्रत्येकबुद्धानां

[१८३।१६]
खड्गः कल्पशतान्वयः ॥ ३.९४ ॥

[१८३।१७-१८३।१८]
महाकल्पानां शतं बोधिसंभारेषु चरितः खड्गं विषाणकल्पो भवति ।

[१८३।१८]
विनोपदेशेनात्मानमेकं प्रतिबुधा इति प्रत्येकबुद्धाः ।

[१८३।१८-१८३।१९]
ते ह्येकमात्मानं दमयन्ति नान्यान् ।

[१८३।१९]
किं पुनरत्र कारणम् ।

[१८३।१९-१८३।२०]
नहि तावदशक्ता धर्मं देशयितुं प्रतिसंवित्प्राप्तत्वात् ।

[१८३।२०]
शक्यं च तैः पूर्वबुद्धानां शासनमनुस्मृत्यापि धर्मं देशयितुम् ।

[१८३।२१]
नापि निष्करुणाः ।
सत्त्वानुग्रहार्थमृद्धेराविष्करणात् ।

[१८३।२१-१८३।२२]
नापि सत्त्वानामभव्यत्वात् ।

[१८३।२२]
तथा हि लौकिकमार्ग वीतरागाः संविद्यन्ते ।
किं तर्हि ।

[१८३।२२-१८३।२३]
पूर्वाभ्यासवशेनाल्पोत्सुकताऽधिमुक्तत्वात्नोत्सहन्ते गम्भीरधर्मग्रहणाय परेषां व्यापर्तुम् ।

[१८३।२४]
अनुस्रोतो गामिनीनां हि प्रजानां दुष्करं प्रतिस्रोतो नयनम् ।

[१८३।२४-१८३।२५]
गणपरिकर्षणप्रसङ्गपरिहारार्थं च व्याक्षेपसंसर्गभीरुत्वात् ।

[१८४।०१]
अथ चक्रवर्त्तिनः कदोत्पद्यन्ते ।

[१८४।०२]
चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् ।

[१८४।०३]
अमिते चायुषि मनुष्याणां यावदशीतिसहस्रके चोत्पत्तिश्चक्रवर्त्तिनां नाधः ।

[१८४।०३-१८४।०४]
तस्याः सस्यसंपदस्तदूनायुषामभाजनत्वात् ।

[१८४।०४-१८४।०५]
राज्यं चक्रेण वर्तयितुं शीलमेषामिति चक्रवर्त्तिनः ।

[१८४।०५]
ते पुनश्चतुर्विधाः ।

[१८४।०६]
सुवर्णरूप्यताम्रायश्चक्रिणः

[१८४।०७]
सुवर्णरूप्यताम्रायश्चक्र्काणि येषां सन्ति ।

[१८४।०७-१८४।०८]
प्रथम एषामुत्तमो द्वितीय उपोत्तमः तृतीयो मध्यमश्चतुर्थोऽधमः ।

[१८४।०९]
तेऽधरक्रमात् ॥ ३.९५ ॥

[१८४।१०]
एकद्वित्रिचतुर्द्वीपाः

[१८४।११]
यस्यायसं चक्रं स एकद्वीपाधिपतिः ।
यस्य ताम्रमयं स द्वयोः ।

[१८४।११-१८४।१२]
यस्य रूप्यमयं स त्रयाणाम् ।

[१८४।१२]
यस्य सुवर्ण्मयं स चतुर्द्वीपाधिपतिः ।
एष प्राज्ञप्तिको निर्देशः ।

[१८४।१३]
सूत्रे तु प्रधानग्रहणादेकमेव सौवर्णं चक्रम् ।

[१८४।१३-१८४।१६]
“यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदईव पोषधे पञ्चदश्यां शिरःस्नातस्योपोषधो पोषितस्योपरिप्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं शुभकर्मारकृतं दिव्यं सर्वसौवर्णं स राजा भवति चक्रवर्ती”ति ।

[१८४।१७]
एवं चैते चक्रवर्तिन उत्पद्यन्ते ।

[१८४।१८]
न च द्वौ सह बुद्धवत् ।

[१८४।१९-१८४।२०]

सूत्र उक्त” मस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतावर्हन्तौ सम्यक्संबुद्धौ लोक उत्पद्येयातां नेदं स्थानं विद्यते स्थानमेतद्विद्यते यदैकस्तथागतः ।

[१८४।२०-१८४।२१]
यथा तथागत एवं चक्रवर्त्तिनावि”ति ।

[१८४।२१]
इदमत्र संप्रधार्यम् ।

[१८४।२१-१८४।२२]
किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्ट उताहो सर्वलोकधातव इति ।

[१८४।२२-१८४।२३]
नान्यत्र बुद्धा उत्पद्यन्ते इत्येके ।

[१८४।२३]
किं कारणम् ।

[१८४।२३-१८४।२४]
मा भूत्भगवतः शक्तिव्याघातः इति ।

[१८४।२४]
एक एव हि भगवान् सर्वत्र शक्तः ।

[१८४।२४-१८४।२५]
यत्र बुद्ध एको न शक्तः स्याद्विनेयान् विनेतुं तत्राऽन्योऽपि न शक्त इति ।

[१८४।२५-१८४।२७]
उक्तं च सूत्रे “स चेत्त्वां शारिपुत्र कश्चिदुपसंक्रम्यैवं पृच्छेतस्ति कश्चिदेतर्हि श्रमणो वा ब्राह्मणो वा समसमः श्रमणेन गोतमेन यदुताभिसंबोधाय ।

[१८४।२७-१८४।२८]
एवं च पृष्टः किं व्याकुर्याः ।

[१८४।२८-१८५।०१]
स चेन्मां भदन्त कश्चिदुपसंक्रम्येवं पृच्छेत्तस्याहं पृष्ट एवं व्याकुर्या नास्ति कश्चिदेतर्ह्हि शृअमणो वा ब्राह्मणो वा समसमो भगवता यदुताभिसंबोधाय ।

[१८५।०१]
तत्कस्य हेतोः ।

[१८५।०१-१८५।०३]
संमुखं मे भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतमस्थानमनवकासो यदपूर्वाचरमौ तथागतौ लोक उत्पद्येयातां नेदं स्थानं विद्यत” इति ।

[१८५।०३-१८५।०४]
यत्तर्हि भगवतोक्तं ब्रह्मसूत्रे “यावत्त्रिसाहस्रमहासाहस्रको लोको वशे मेऽत्र वर्तत” इति ।

[१८५।०४]
आभिप्रायिक एष निर्देशः ।

[१८५।०४-१८५।०५]
कोऽत्राभिप्रायः तावतोऽनभिसंस्कारेण व्यवलोकनात् ।

[१८५।०५-१८५।०६]
अभिसंस्कारेन त्वनन्तो बुद्धानां चक्षुर्विषयः ।

[१८५।०६]
सन्त्येवान्यलोकधातुषु बुद्धा इति निकायान्तरीयाः ।
किं कारणम् ।

[१८५।०७]
बहवो हि समं संभारेषु प्रवर्तमाना दृश्यन्ते ।

[१८५।०७-१८५।०९]
न चैकत्र बहूनां बुद्धानां युगपत्योग उत्पत्तुं न चास्ति तदुत्पत्तौ कक्श्चित्प्रतिबन्धः इति नियतं लोकधात्वन्तरेषूत्पद्यन्ते ।

[१८५।०९-१८५।१०]
अनन्ता लोकधातव इति न शक्यं भगवता कल्पमप्यायुर्विर्भ्रता यिथेह तथाऽन्येष्वपि अनन्तेषु लोकधातुषु व्यापर्तुं किं पुनः पुरुषायुषम् ।

[१८५।१०-१८५।११]
कथं चेह बुद्धो व्याप्रियते ।

[१८५।११-१८५।१३]
अस्य पुद्गलस्येदमिन्द्रियमियता कालेलामुष्मिन् देशे अमुं पुद्गलमागम्यास्य दोषस्य परिहारादस्याङ्गस्योपसंहारादनेन प्रयोगेणानुत्पन्नं वोत्पत्स्यते अपरिपूर्णं वा परिपूरयिष्यतीति ।

[१८५।१३-१८५।१५]
यत्त्विदं सूत्रमत्रोपनीत “मस्थानमनवकाशो यद्पूर्वाचरमौ द्वी तथागतावेकत्र लोक उत्पद्येयातामि”ति तदेवेदं संप्रधार्यते किमिदमेकं लोकधातुमधिकृत्योक्तमाहोस्वित्सर्वानिति ।

[१८५।१५-१८५।१६]
चक्रवर्तिनोऽपि चास्य लोकद्धातौ न स्यादुत्पादः ।

[१८५।१६]
सहोत्पत्तिप्रतिषेधात्बुद्धवत् ।

[१८५।१६-१८५।१७]
अथैतत्क्षम्यते इदं तु कस्मान्न क्षम्यते “पुण्यस्तु बुद्धानां लोक उत्पाद” इति ।

[१८५।१७-१८५।१८]
यदि बहूनां बहुषु स्यान्न दोषः स्यात् ।

[१८५।१८]
भूयसां लोकानामभ्युदयेन योगः स्यान्निःश्रेयसेन च ।

[१८५।१८-१८५।१९]
अथैङ्कस्मिन्नपि कस्मात्द्वौ तथागतौ न सहोत्पद्येते ।

[१८५।१९]
प्रयोजनाभावात्प्रणिधानवशाच्च ।

[१८५।१९-१८५।२१]
एवं हि बोधिसत्त्वाः प्रणिधानं कुर्वन्ति अहो वताहमन्धे लोकेऽपरिणायके बुद्धो लोक उत्पद्येयमनाथानां नाथ इति ।

[१८५।२१]
आदराभित्वरार्थं च ।

[१८५।२२-१८५।२३]
एकस्मिन्हि बुद्धे सुतरामाद्रियन्ते दुर्लभ ईदृशोऽन्य इति मन्यमानाः सुतरां चाभित्वरन्ते शासनप्रतिपत्तौ माऽस्मिन् गते परिनिर्वृते वाऽनाथा भूमेति ।

[१८५।२४]
अथैते चक्रवर्तिनः सुवर्णादिमयैश्चक्रैः पृथिवीं जयन्तः कथं जयन्ति ।
यथाक्रमं

[१८५।२५]
प्रत्युद्यानस्वयंयान कलहास्त्रजितः

[१८५।२६]
यस्य सौवर्ण चक्रं भवति तं कोटराजानः स्वयं प्रत्युद्गच्छन्ति ।

[१८५।२६-१८६।०१]
इमे देवस्य जनपदाः ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च ।

[१८६।०१-१८६।०२]
तान् देवः समनुशास्तु ।

[१८६।०२]
वयं देवस्यानुयात्रिका भविष्याम इति ।

[१८६।०२-१८६।०३]
यस्य रूप्यमयं स स्वयमेव तेषामन्तिकं याति पश्चादस्य प्रह्वीभवन्ति ।

[१८६।०३-१८६।०४]
यस्य ताम्रमयं स तेषामन्तिकं गत्वा कलहायते पश्चात्प्रह्वीभवन्ति ।

[१८६।०४-१८६।०५]
यस्य शस्त्रमयं स तेषामन्तिकं गच्छति अन्योन्यं शस्त्राण्यावहन्ति पश्चान्नमन्ति ।

[१८६।०५]
सर्वे तु चक्रवर्तिनः

[१८६।०६]
अवधाः ॥ ३.९६ ॥

[१८६।०७-१८६।०८]
शस्त्रेणापि जयतां बधो न प्रवर्तते निर्जित्य च सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति ।

[१८६।०८]
अत एव ते नियतं देवेषूत्पद्यन्ते ।

[१८६।०८-१८६।०९]
सूत्र उक्तं “राज्ञश्चक्रवर्तिनो लोके प्रादुर्भावात्सप्तानां रत्नानां लोके प्रादुर्भावो भवति ।

[१८६।१०-१८६।११]
तद्यथा चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्ये”ति ।

[१८६।११]
कथं सत्त्वसंख्याता हस्त्यादयः परकीयेण कर्मणोत्पद्यन्ते ।

[१८६।१२]
न वै कश्चित्परकीयेणोत्पद्यते ।

[१८६।१२-१८६।१३]
येन तु सत्त्वेन तत्संबन्ध संवर्तनीयं कर्मोपचितं तस्मिन्नुत्पन्ने स्वान्येवैनं कर्माण्युत्पादयन्ति ।

[१८६।१३-१८६।१४]
किमेष एवान्यराजभ्यश्चक्रवर्तिनां विशेषः ।

[१८६।१४]
अन्योऽपि विशेषोऽस्ति ।

[१८६।१४-१८६।१५]
तद्यथा द्वात्रिंशन्महापुरुषलक्षणान्येषां भवन्ति तद्यथा बुद्धानाम् ।

[१८६।१५]
तत्र तु

[१८६।१६]
देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः ।

[१८६।१७]
देशस्थतराणि बुद्धानां लक्षणानि ।

[१८६।१७-१८६।१८]
उत्तप्ततराणि संपूर्णतराणि चेत्येष तेषां विशेषः ।

[१८६।१९]
किं खलु प्राथमकल्पिका अपि मनुष्याः सराजका आसन् ।
नेत्याह ।

[१८६।२०]
किं तर्हि ।

[१८६।२१]
प्रागासन्नुपिवत्सत्त्वाः

[१८६।२२]
प्रथमकल्पिका मनुष्या रूपावचरा इवासन् ।

[१८६।२२-१८६।२४]
सूत्र उक्तं “ते भवन्ति रूपिणो मनोमयाः सर्वाङ्गप्रत्यङ्गोपेता आविकला अहीनेन्द्रियाः शुभा वर्णस्थायिनः स्वयं प्रभा विहायसंगमाः प्रीतिभक्षः प्रीत्याहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ती”ति ।

[१८६।२५]
रसरागात्ततः शनैः ॥ ३.९७ ॥

[१८६।२६]
आलस्यात्सन्निधिं कृत्वा साग्रहैः क्षेत्रपो भृतः ।

[१८६।२७]
तेषां तथाभूतानां भूमिरसः प्रादुर्भूतो मधुस्वादुरसः ।

[१८६।२७-१८७।०१]
तस्यान्यतमो लोलुपजातीयः सत्त्वो गन्धं घ्रात्वा रसं स्वादितवान् भक्षितवांश्च ।

[१८७।०१-१८७।०२]
तथाऽन्येऽपि सत्त्वास्तथैवाकार्षुः ।

[१८७।०२]
स आरम्भः कवडीकाराहारस्य ।

[१८७।०२-१८७।०३]
तेषां तदाहाराभ्यासात्खरत्वं गुरुत्वं च कायेऽवक्रान्तं प्रभावा अन्तर्हिताः ।

[१८७।०३-१८७।०४]
ततोऽन्धकार उत्पन्ने सूर्याचन्द्रमसौ प्रादुर्भूतौ ।

[१८७।०४-१८७।०५]
सोऽप्येषां भूमिरस आस्वादगृद्धानां क्रमेणान्तर्हितो भूमिपर्पटकं प्रादुर्भूतम् ।

[१८७।०५]
तत्रापि गृद्धास्तदप्यन्तर्हितम् ।
वनलता प्रादुर्भूता ।

[१८७।०५-१८७।०६]
तत्रापि गृद्धाः साऽप्यन्तर्हिता ।

[१८७।०६]
अकृष्टोप्तः शालिरुत्पन्नस्तं प्रभुक्ताः ।

[१८७।०६-१८७।०८]
तस्येदानीमौदारिकत्वान्निःस्यन्दनिर्वाहार्थं सत्त्वानां मूत्रपुरीषमार्गौ सह स्त्रीपुरुषेन्द्रियाभ्यां प्रादुर्भूतौ संस्थानं च भिन्नम् ।

[१८७।०८-१८७।०९]
तेषामन्योन्यं पश्यतां पूर्वाभ्यासवशादयोनिशोमनस्कारग्राहग्रासतां गतानां कामराग उदीर्णो यतो विप्रतिपन्नाः ।

[१८७।०९-१८७।१०]
एष आरम्भः कामिनां कामभूतग्रहावेशस्य ।

[१८७।१०-१८७।११]
ते च खलु तं शालिं सायं च सायमाशार्थं प्रातश्च प्रातराशार्थं प्रवेशयन्ति स्म ।

[१८७।११]
अथान्यतमः सत्त्वोऽलसजातीयः संनिधिकारमकार्षीत् ।

[१८७।१२]
अन्येऽपि च सत्त्वाः संनिधिकारमकार्षुः ।

[१८७।१२-१८७।१३]
तेषां तत्र ममकार उत्पन्ने स शालिर्लूनो लूनो न पुनर्जायते स्म ।

[१८७।१३-१८७।१४]
ततः क्षेत्राणि प्रविभज्य स्वेष्वाग्रहं कृत्वा परकीयं हर्तुमारब्धाः ।

[१८७।१४]
प्रथम आरम्भश्चौर्यस्य ।

[१८७।१४-१८७।१५]
तैस्तेषामङ्कुशार्थं समेत्यान्यतमः पुरुषविशेषः क्षेत्राणि पालयितुं षष्ठभागेन भृतः ।

[१८७।१५-१८७।१६]
तस्य क्षेत्राणामधिपतिः क्षत्रियः क्षत्रिय इति संज्ञोत्पन्ना ।

[१८७।१६-१८७।१७]
महाजनकायस्य संमतः प्रजां च रञ्जयतीति महासंमतो राजेति सम्ज्ञोत्पन्ना ।

[१८७।१७]
एष आरम्भो राजपरंपरायाः ।

[१८७।१७-१८७।१८]
तत्र ये गृहेभ्यो वहिर्मनसः संवृत्तास्तेषां ब्राह्मणा इति संज्ञोत्पन्ना ।

[१८७।१८-१८७।१९]
अथान्यतमस्य राज्ञो लोभात्सम्विभागमकुर्वन्तः सत्त्वानां तास्कर्यं प्राचुर्यमापन्नं स तान् शस्त्रेणोपसंक्रमते स्म ।

[१८७।२०]
ततोऽन्ये नैवङ्कारकाः स्म इति मृषा वाचं वक्तुमारब्धाः इति

[१८७।२१]
ततः कर्मपथाधिक्यादपह्रासे दशायुषः ॥ ३.९८ ॥

[१८७।२२-१८७।२३]
तत एवं कर्मपथानां वृद्धौ सत्यां क्रमेण ह्रसतां मनुस्याणां दशवर्षायुषो मनुष्याः संभवन्ति ।

[१८७।२३]
अतोऽस्य कृत्स्नस्यानर्थौघस्य द्वौ धर्मौ मूलयोनिः रसराग आलस्यं च ।

[१८७।२४]
दशवऋषायुषां मनुष्याणामन्तरकल्पस्य निर्यणं भवति ।
कथं भवतीत्याह

[१८७।२५]
कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः ।

[१८७।२६]
त्रिभिरन्तरकल्पस्य निर्याणं भवति ।
शस्त्रेण रोगेण दुर्भिक्षेण च ।

[१८७।२६-१८८।०२]
अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्याः अधर्मरागरक्ता भवन्ति विषमलोभाविभूता मिथ्याधर्मपरीताः ।

[१८८।०२-१८८।०३]
तेषां व्यापाद उत्कर्ष गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति ।

[१८८।०३-१८८।०५]
तद्यथेदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठं वा लोष्टं वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति ।

[१८८।०५]
तेऽन्योन्यं सत्त्वं जीविताद्व्यपरोपयन्ति ।

[१८८।०५-१८८।०६]
पुनः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या ईति मुत्सृजन्ति ।

[१८८।०६-१८८।०७]
तेषामसाध्या व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते ।

[१८८।०७-१८८।०८]
पुनर्दशवर्षायुषां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति यतो दुर्भिक्षं जायते चञ्चः श्वेतास्थि शलाकावृत्तिः ।

[१८८।०८]
कथं च चञ्चः ।

[१८८।०९]
द्वाभ्यां कारणाभ्याम् ।
य इदानीं समवायः स तदानीं चञ्च इत्युच्यते ।

[१८८।०९-१८८।१०]
समुद्गोऽपि चञ्चः ।

[१८८।१०-१८८।११]
ते च मनुष्या जिघत्सादौर्बल्यपरीताः समेत्य कालं कुर्वन्ति समुद्रेषु चानागतजनताऽनुग्रहार्थं बीजान्यवस्थापयन्ति ।

[१८८।११]
अतस्तद्दुर्भिक्षं चञ्चमित्युच्यते ।

[१८८।१२]
कथं श्वेतास्थि ।
द्वाभ्यां कारणाभ्याम् ।

[१८८।१२-१८८।१४]
तेषां हि शुष्करुक्षकायानां कालं कुर्वतामाश्वेवास्थीनि श्वेतानि भवन्ति बुभुक्षाहताश्च श्वेतान्यस्थीनि संहृत्य क्वाथयित्वा पिवन्ति ।

[१८८।१४]
कथं शलाकावृत्तिः ।
द्वाभ्यां कारणाभ्याम् ।

[१८८।१४-१८८।१७]
ते हि सत्त्वाः शलाकोद्देशिकया गृहेष्वामिर्षं सम्विभजन्ते अद्य गृहस्वामी भोक्ष्यते श्वो गृहस्वामिनीत्येवमादि धान्यस्थानविवरेभ्यश्च शलाकया धान्यफलानि निष्कृष्य बहुलोदकेन क्वाथयित्वा पिवन्ति ।

[१८८।१७]
एवं वर्णयन्ति ।

[१८८।१७-१८८।१९]
येनैकाहमपि प्राणातीपातविरतिः सम्रक्षिता भवति एकहरीतकी वा संघायैकपिण्डपातो वा सत्कृत्यानुप्रदत्तो भवति स तेषु शस्त्ररोगदुर्भिक्षान्तरकल्पेषु नोत्पद्यत इति ।

[१८८।२०]
अथ कियन्तं कालमेतानि शस्त्राघातरोगदुर्भिक्षाणि तेषां सत्त्वानां भवन्ति

[१८८।२१]
दिवसान् सप्त मासांश्च वर्षाणि च य्थाक्रमम् ॥ ३.९९ ॥

[१८८।२२]
शस्त्रकः प्राणातिपातः सप्त दिवसान् भवति ।
रोगः सप्त मासांश्च दिवसांश्च ।

[१८८।२३]
दुर्भिक्षं सप्तवर्षाणि च मासांश्च दिवसाम्श्चेति समुच्चयार्थश्चकारः ।

[१८८।२३-१८८।२४]
तदा च द्वयोर्द्वीपयोस्तेषां प्रतिरूपकाणि भवन्ति ।

[१८८।२४-१८८।२५]
व्यापाद उद्रेकप्राप्तो भवति वैवस्त्र्यदौर्बल्ये जिघत्सापिपासे च ।

[१८८।२५]
यदुक्तमेवमन्यस्यामपि संवर्तन्यां वेदितव्यं यथायोगमिति ।

[१८८।२६]
अथ कतीमाः संवर्तन्यः ।

[१८९।०१]
संवर्तन्यः पुनस्तिस्रो भवन्त्यग्न्यम्बुवायुभिः ।

[१८९।०२]
एकत्र ध्याने सत्त्वाः समं संवर्तन्ते एतस्यामिति संवर्तनी ।

[१८९।०२-१८९।०३]
सप्तभिः सूर्यैस्तेजः संवर्तनी भवति वर्षोदकेनाप्संवर्तनी वायुप्रकोपाद्वायुसंवर्तनी ।

[१८९।०४]
ताभिश्च भाजनानां सुक्ष्मोऽप्यवयवो नावशिष्यते ।

[१८९।०४-१८९।०५]
अत्र तु केचितीर्थङ्करा इच्छन्ति ।

[१८९।०५]
परमाणवो नित्यास्ते तदानीं शिष्यन्त इति ।
कस्मात्त एवमिच्छन्ति ।

[१८९।०६]
मा भूदबीजकः स्थूलानां प्रादुर्भाव इति ।

[१८९।०६-१८९।०७]
ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् ।

[१८९।०७]
सर्वर्तनीशीर्षवायुर्वातस्य निमित्तं भविष्यति ।

[१८९।०७-१८९।०८]
“वायुना लोकान्तरेभ्यो बीजान्याह्रियन्त” इति महीशासकाः सूत्रे पठन्ति ।

[१८९।०८-१८९।०९]
एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति ।

[१८९।०९]
किं तर्हि ॥

[१८९।०९-१८९।१०]
स्वेभ्य एवावयवेभ्यस्तेषामपि स्वेभ्यः ।

[१८९।१०]
एवं यावत्परमाणुभ्यः ।

[१८९।१०-१८९।११]
किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् ।

[१८९।११]
न किञ्चिदन्यत्र तत्परमाणूपसर्पणात् ।

[१८९।११-१८९।१२]
किं पुनः कारणं त एवमिच्छन्ति ।

[१८९।१२]
नहि विजातीयात्संभवो युक्त इति ।
कस्मान्न युक्तः ।

[१८९।१२-१८९।१३]
अनियमो हि स्यात् ।

[१८९।१३]
शक्तिनियमान्नैवं भविष्यति ।
शब्दपाकजोत्पत्तिवत् ।

[१८९।१३-१८९।१४]
चित्रो हि गुणधर्मो द्रव्यं तु नैवम् ।

[१८९।१४-१८९।१५]
समानजातीयेभ्यः एव हि द्रव्येभ्यः समानजातीयानां दृष्ट उत्पादस्तद्यथा वीरणेभ्यः कटस्य तन्तुभ्यः पटस्येति ।

[१८९।१५]
इदमयुक्तं वर्तते ।

[१८९।१५-१८९।१६]
किमत्रायुक्तं यदसिद्धं साधनायोदाह्रियते ।

[१८९।१६]
किमत्रासिद्धम् ।

[१८९।१७]
अन्यो वीरणेभ्यः कटोऽन्यश्च तन्तुभ्यः पट इति ।

[१८९।१७-१८९।१८]
त एव हि ते यथासंनिविष्टास्तां तां संज्ञां लभ्न्ते ।

[१८९।१८]
पिपीलिकापङ्क्तिवत् ।
कथं गम्येत ।

[१८९।१८-१८९।१९]
एकतन्तुसंयोगे पटस्यानुपलम्भात् ।

[१८९।१९]
को हि तदा सतः पटस्योपलब्धौ प्रतिबन्धः ।

[१८९।१९-१८९।२०]
अकृत्स्नवृत्तौ पटभागोऽत्र स्यान्न पटः ।

[१८९।२०]
समूहमात्रं च पटः स्यात् ।
कश्च तन्तुभ्योऽन्यः पटभागः ।

[१८९।२०-१८९।२१]
अनेका श्रयसंयोगापेक्षणे दशामात्रसंयोगे पटोपलब्धिः स्यान्न वा कदाचित् ।

[१८९।२१-१८९।२२]
मध्यपरभागानामिन्द्रियेणासंनिकर्षात् ।

[१८९।२२-१८९।२३]
क्रमसंनिकर्षे चावयवानां चक्षुःस्पर्शनाभ्यामवयवविज्ञानं न स्यात् ।

[१८९।२३-१८९।२४]
तस्मात्क्रमेण संनिकर्षादवयविव्यवसायादवयवेष्वेव तद्बुद्धिरलातचक्रवत् ।

[१८९।२४]
भिन्नरूपजातिक्रियेषु तन्तुषु पटस्य रूपाद्यसंभवात् ।

[१८९।२४-१८९।२६]
चित्ररूपादित्वे विजातीयारम्भोऽपि स्यातचित्रे च पार्श्वान्तरे पटस्यादर्शनं चित्रदर्शनं वा ।

[१८९।२६]
क्रियाऽपि चित्रेत्यतिचित्रम् ।

[१८९।२६-१८९।२७]
तापप्रकाशभेदे वाऽग्निप्रभाया आदिमध्यान्ते तद्रूपस्पर्शयोरनुपपत्तिः ।

[१८९।२७-१९०।०२]
परमाण्वतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं यथा तेषां कार्यारम्भकत्वं चक्षुरादीनां च तैमिरिकाणां च विकीर्णकेशोपलब्धिः ।

[१९०।०२]
तेषां परमाणुवदेकः देशोऽतीन्द्रियः ।

[१९०।०२-१९०।०३]
रूपादिष्वेव च परमाणुसंज्ञानिवेशा त्तद्विनाशे सिद्धः परमाणुविनाशः ।

[१९०।०३-१९०।०४]
द्रव्यं हि परमाणुरन्यच्च रूपादिभ्यो द्रव्यमिति न तेषं विनाशे तद्विनाशः सिद्ध्यति ।

[१९०।०४-१९०।०५]
अयुक्तमस्यान्यत्वं यावता न निर्धार्यते केनचितिमानि पृथिव्यप्तेजांसि इम एषां रूपादय इति ।

[१९०।०६-१९०।०७]
चक्षुःस्पर्शनग्राह्याणि च प्रज्ञायन्ते दग्धेषु चोर्णाकर्पासकुसुम्भकुङ्कुमादिषु तद्बुद्ध्यभावाद्रूपादिभेदेष्वेव तद्बुद्धिः ।

[१९०।०७-१९०।०८]
पाकजोत्पत्तौ घटपरि
ज्ञनं संस्थानसामान्यात्पङ्क्तिवत् ।

[१९०।०८]
चिह्नमपश्यतः परिज्ञानाभावात् ।

[१९०।०८-१९०।०९]
को वा बालप्रलापेष्वादरः इति तिष्ठतु तावदेवाप्रतिषेधः ।

[१९०।१०]
अथ कस्याः संवर्तन्याः कतमच्छीर्ष भवति ।

[१९०।११]
ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम् ॥ ३.१०० ॥

[१९०।१२]
त्रीणि संवर्तनीशीर्षाणि ।
तेजःसंवर्तन्या द्वितीयं ध्यानं शीर्षं भवत्यधो दह्यते ।

[१९०।१३]
अप्संवर्तन्यास्तृतीयं ध्यानं शीर्ष भवत्यधः क्लिद्यते ।

[१९०।१३-१९०।१४]
वायुसंवर्त्तन्याश्चतुर्थं ध्यानं शीर्षं भवत्यधो विकीर्यते ।

[१९०।१४]
यद्धि संवर्तन्या उपरिष्टात्तच्छीर्षमित्युच्यते ।

[१९०।१४-१९०।१६]
किं पुनः कारणं प्रथमद्वितीयतृतीयध्यानानि तेजोजलवायुभिर्ध्वस्यन्ते ।

[१९०।१७]
तदपक्षालसाधम्र्यात्

[१९०।१८]
प्रथेमे हि ध्याने वितर्कविचारा अपक्षालाः ।

[१९०।१८-१९०।१९]
ते च मनसः परिदाहकत्वादग्निकल्पाः ।

[१९०।१९]
द्वितीये प्रीतिरपक्षालः सा च प्रस्रब्धियोगेनश्रयमृदूकरणादप्कल्पाः ।

[१९०।२०]
अत एवतस्मिन् कृत्स्नकायक्रौर्यापगमात्दुःखेन्द्रियस्य निरोध उक्तः सूत्रे ।

[१९०।२१]
तृतीये ध्याने आश्वासप्रश्वासाः ।
ते च वायव एव ।

[१९०।२१-१९०।२२]
इति यस्यां ध्यानसमापत्तौ यथाभुत आध्यात्मिकोऽपक्षालस्तस्यां ध्यानोपपत्तौ तथाभूतो बाह्य इति ।

[१९०।२२-१९०।२३]
कस्मात्पृथिवीसंवर्तनी न भवति ।

[१९०।२३-१९०।२४]
पृथिव्येव हि भाजनाख्या तस्यां तेजोजलवायुभिर्विरोधो न पृथ्हिव्येति ।

[१९०।२४]
अथ चतुर्थध्याने कथं न संवर्तनी ।

[१९०।२५]
न चतुर्थेऽस्त्यनिञ्जनात् ।

[१९०।२६]
चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेञ्ज मुक्तं भगवता ।

[१९०।२६-१९०।२७]
अतोऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी ।

[१९०।२७]
शुद्धावासप्रभावादित्यपरे ।

[१९०।२७-१९१।०१]
नहि तैः शक्यमारुप्यान् प्रवेष्टुं नाप्यन्यत्र गन्तुमिति ।

[१९१।०१-१९१।०२]
नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्न्नोति ।

[१९१।०३]
न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् ॥ ३.१०१ ॥

[१९१।०४]
नहि चतुर्थं ध्यानमेकभूमिसंबद्धम् ।
किं तर्हि ।

[१९१।०४-१९१।०५]
विच्छिन्नस्थानान्तरं तारकावत् ।

[१९१।०५]
तत्राप्ययं सत्त्व उपपद्येत च्यवेत वा ।

[१९१।०५-१९१।०६]
स सार्धं विमानेनेति नास्त्यस्य नित्यत्वम् ।

[१९१।०६]
केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति ।
निरन्तरं तावत्

[१९१।०७]
सप्ताग्निना

[१९१।०८]
सप्त संवर्तन्यस्तेजसा भवन्ति ।
ततः ।

[१९१।०९]
अद्भिरेका

[१९१।१०]
सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति ।

[१९१।११]
एवं गतेऽद्भिः सप्तके पुनः ।

[१९१।१२]
तेजसा सप्तकः

[१९१।१३]
एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनीनां सप्तको भवति ।

[१९१।१४]
पश्चाद्वायुसंवर्तनी ततः ॥ ३.१०२ ॥

[१९१।१५]
पश्चादेकावायुसंवर्तनी भवति ।
किं कारणम् ।

[१९१।१५-१९१।१७]
यथिव हि तेषां सत्त्वानां समापत्तिविशेषादात्मभावानां स्थितिविशेषस्तथा भाजनानामपामिति ता एता भवन्ति षट्पञ्चाशत्तेजः संवर्तन्यः सप्ताप्संवर्त्तन्यः एका वायुसंवर्त्तनी ।

[१९१।१७-१९१।१८]
एवं च प्रज्ञप्तिभाष्यं सुनीतं भवति “चतुःषष्टि कल्पाः शुभकृत्स्नानां देवानामायुःप्रमाणमि”ति ।

[१९१।१९-१९१।२०]
“ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतोह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमण” ॥ इति ।

[१९१।२१]
अभिधर्मकोशभाष्ये लोकनिर्देशो नाम

[१९१।२२-१९१।२३]
तृतीयं कोशस्थानं समाप्तमिति ।

चतुर्थं कोशस्थानम्

=====================================================================

[१९२।०२]
ओं नमो बुद्धाय ।

[१९२।०३]
अथ यदेतत्सत्त्वभाजनलोकस्य बहुधा वैचित्र्यमुक्त तत्केन कृतम् ।

[१९२।०३-१९२।०४]
न खलु केनचिद्बुद्धिपूर्वकं कृतम् ।

[१९२।०४]
किं तर्हि ।
सत्त्वानां

[१९२।०५]
कर्मजं लोकवैचित्र्यं

[१९२।०६-१९२।०७]
यदि कर्मजं कस्मात्सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा जायन्ते न तेषां शरीराणि ।

[१९२।०७-१९२।०८]
कर्माण्येव तान्येवञ्जातीयाति व्याभिश्रकारिणां सत्त्वानां यदाश्रयाश्च व्रणभूता जायन्ते भोगाश्च रम्यास्तत्प्रतीकारभूताः ।

[१९२।०८-१९२।०९]
अव्यामिश्रकारिणां तु देवानामुभयेऽपि रम्याः ।

[१९२।०९]
किं पुनस्तत्कर्मेत्याह

[१९२।१०]
चेतना तत्कृतं च तत् ।

[१९२।११]
सूत्र उक्तं “द्वे कर्मणी चेतना कर्म चेतयित्वा चे”ति ।

[१९२।११-१९२।१२]
यत्तच्चेतयित्वा चेतनाकृटं च तत् ।

[१९२।१२]
ते एते द्वे कर्मणी त्रीणि भवन्ति ।
कायवाङ्मनस्कर्माणि ।

[१९२।१२-१९२।१३]
कथमेषां कर्मणां व्यवस्थानम् ।

[१९२।१३]
किमाश्रयतः आहोस्वित्स्वभावतः समुत्थानतो वा ।

[१९२।१३-१९२।१४]
आश्रयतश्चेदेकं कायकर्म प्राप्नोति ।

[१९२।१४]
सर्वेषां कायाश्रितत्वात्स्वभावतश्चेद्वाक्कर्मैकं प्राप्नोति ।

[१९२।१५]
वचसः कर्मस्वभावत्वात् ।
समुत्थानतश्चेन्मनस्कर्मैकं प्राप्नोति ।

[१९२।१५-१९२।१६]
सर्वेषां मनः समुत्थितत्वात् ।

[१९२।१६]
यथाक्रमं त्रिभिः कारणैस्त्रयाणामिति वैभाषिकाः ।
तत्र पुनः

[१९२।१७]
चेतना मानसं कर्म

[१९२।१८]
चेतना मनस्कर्मे ति वेदितव्यम् ।

[१९२।१९]
तज्जं वाक्कायकर्मणी ॥ ४.१ ॥

[१९२।२०]
यत्तच्चेतनाजनितं चेतयित्वा कर्मेत्युक्तं कायवाक्कर्मणी ते वेदितव्ये ।

[१९२।२१]
ते तु विज्ञप्त्यविज्ञप्ती

[१९२।२२]
ते तु कायवाक्कर्मणी प्रत्येकं विज्ञप्त्यविज्ञप्तिस्वभावे वेदितव्ये ।
तत्र तु

[१९२।२३]
कायविज्ञप्तिरिष्यते ।

[१९२।२४]
संस्थानं

[१९२।२५]
चित्तवशेन कायस्य तथा तथा संस्थानं कायविज्ञप्तिः ।
गतिरित्यपरे ।

[१९२।२५-१९२।२६]
प्रस्यन्दमानस्य हि कायकर्म नोऽप्रस्यन्दमानस्येति ।

[१९२।२६]
त उच्यन्ते

[१९३।०१]
न गतिर्यस्मात्संस्कृतं क्षणिकं

[१९३।०२]
कोऽयं क्षणो नाम ।
आत्मलाभोऽनन्त्रविनाशी ।
सोऽस्यास्तीति क्षणिकम् ।

[१९३।०३]
दण्डकवत् ।
सर्व हि संस्कृतमात्मलाभा दूर्ध्वं न भवतीति यत्रैव जातं तत्रैव ध्वस्यते ।

[१९३।०४]
तस्यायुक्ता देशान्तरसंक्रान्तिः ।
तस्मान्न गतिः कायकर्म ।

[१९३।०४-१९३।०५]
स्यादेतदेव यदि सर्वस्य ष्क्णिकत्वं सिध्येत् ।

[१९३।०५]
सिद्धमेवैतत्विद्धि ।
कुतः ।
संस्कृतस्यावश्यम् ।

[१९३।०६]
व्ययात् ॥ ४.२ ॥

[१९३।०७]
अकस्मिको हि भावानां विनाशः ।
किं कारणम् ।
कार्यस्य हि कारणं भवति ।

[१९३।०८]
वनाशश्चाभावः ।
यश्चाभावस्तस्य किं कर्तव्यम् ।

[१९३।०८-१९३।०९]
सोऽसावाकस्मिकोक्विनाशो यदि भावस्योत्पन्नमात्रस्य न स्यात्पश्चादपि न स्याद्भावस्य तुल्यत्वात् ।

[१९३।०९-१९३।१०]
तथान्यथीभूतः ।

[१९३।१०]
न युक्तं तस्यैव ।
न्यथात्वम् ।
न हि स एव तस्माद्विलक्षणो युज्यते ।

[१९३।१०-१९३।११]
दृष्टो वै काष्ठादीनामग्न्यादिसंयोगाद्विनाशः ।

[१९३।११-१९३।१२]
न च दृष्टाद्गरिष्ठं प्रमाणमस्तीति ।

[१९३।१२-१९३।१३]
न च सर्वस्याकस्मिको विनाशः कथं तावत्भवान् काष्ठादीनामग्न्यादिसंयोगाद्विनाशं पश्यामीति मन्यते ।

[१९३।१३]
तेषां पुनरदर्शनात् ।

[१९३।१३-१९३।१४]
संप्रधार्यं तावदेतत् ।

[१९३।१४-१९३।१५]
किमग्निसंयोगात्काष्ठादयो विनष्टा अतो न दृश्यन्ते उताहो स्वयं विनष्टा अन्ये च पुनर्नोत्पन्ना अतो न दृश्यन्ते ।

[१९३।१५-१९३।१६]
यथा वायुसंयोगात्प्रदीपः पाणिसंयोगाद्घण्टाशब्द इति ।

[१९३।१६]
तस्मादनुमानसाध्योऽयमर्थः ।
किं पुनरत्रानुमानम् ।

[१९३।१६-१९३।१७]
उक्तं तावतकार्यत्वादभावस्येति ।

[१९३।१७]
पुनः

[१९३।१८]
न कस्यचिदहेतोः स्यात्

[१९३।१९]
यदि विनाशो हेतुसामान्यान्न कस्यचिदहेतुकः स्यादुत्पादवत् ।

[१९३।१९-१९३।२०]
क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाश इति नायं हेतुमपेक्षते ।

[१९३।२०-१९३।२१]
यस्तु मन्यते बुद्ध्यन्तराद्बुद्धेर्विनाशः शब्दान्तराच्छब्दस्येति ।

[१९३।२१]
तदयुक्तम् ।
बुद्ध्योरसमवधानात् ।

[१९३।२१-१९३।२२]
न हि शंसयनिश्चयज्ञानयोर्युक्तं समवधानं सुखदुःखयो रागद्वेषयोर्वा ।

[१९३।२२-१९३।२४]
यदा च पटुबुद्धिशब्दानन्तरमपटुबुद्धिशब्दावुत्पद्येते तदा कथमपटुः समानजातीयो धर्मः पटीयांसं हिंस्यात् ।

[१९३।२४-१९३।२५]
अन्त्ययोश्च कथं योऽप्यर्चिषामवस्थानहेत्वभावाद्धर्माधर्मवशाद्वा विनाशं मन्यते तदप्ययुक्तम् ।

[१९३।२५]
न ह्यभावः कारणं भवितुमर्हति ।

[१९३।२५-१९३।२६]
न चाप्युत्पादविनाशहेत्वोर्धर्मार्धर्मयोः क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ भवितुमर्हतः ।

[१९३।२७]
सक्यष्चैष कारण परिकल्पः सर्वत्र सम्स्कृते कर्तुमित्यलं विवादेन ।

[१९४।०१-१९४।०२]
यदि च काष्ठादीनामग्न्यादिसंयोगहेतुको विनाशः स्यादेवं सति पाकजानां गुणानां पक्वतरतमोत्पत्तौ

[१९४।०३]
हेतुः स्याच्च विनाशकः ।

[१९४।०४]
हेतुरेव च विनाशकः स्यात् ।
कथं कृत्वा ।

[१९४।०४-१९४।०६]
घासाद्यग्निसंबन्धा गुणाः पाकजा उत्पन्नास्तत एव तादृशाद्वा पुनः पक्वतरतमोत्पत्तौ तेषां विनाश इति हेतुरेव तेषां विनाशकः स्याद्धेत्वविशिष्टो वा ।

[१९४।०६-१९४।०७]
न च युक्तं यत एव तादृशाद्द्वा तेषां भावस्तत एव तादृशाच्च तेषां पुनरभाव इति ।

[१९४।०७-१९४।०८]
ज्वालान्तरेषु तावद्धेतुभेदकल्पनां परिकल्पेयुः ।

[१९४।०८-१९४।०९]
क्षरहिमशुक्तसूर्योदकभूमिसंबन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः ।

[१९४।०९-१९४।१०]
यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते किं तत्राग्निसंयोगाः कुर्वन्ति ।

[१९४।१०-१९४।११]
तेजोधातुं प्रभावतो वर्धयन्ति यस्य प्राभावादपां संघातः क्षामक्षामो जायते यावदतिक्षामतां गतोऽन्ते न पुनः संतानं संतनोति ।

[१९४।११-१९४।१२]
इदमत्राग्निसंयोगाः कुर्वन्ति ।

[१९४।१२-१९४।१४]
तस्मान्नास्ति भावानां विनाशहेतुः स्वयमेव तु भङ्गुरत्वाद्विनश्यन्त उत्पन्नमात्रा विनश्यन्तीति सिद्ध एषां क्षणभङ्गः क्षणभङ्गाच्च गत्यभावः ।

[१९४।१४]
गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् ।

[१९४।१५]
गत्यभावे च “संस्थानं कायविज्ञप्ति”रिति सिद्धम् ।

[१९४।१५-१९४।१६]
नास्ति संस्थानं द्रव्यत इति सौत्रान्तिकाः ।

[१९४।१६]
एकदिङ्मुखे हि भूयसि वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते ।

[१९४।१६-१९४।१७]
तमेवापेक्ष्याल्पीयसि ह्रस्वमिति ।

[१९४।१७]
चतुर्दिशं भूयसि चतुरस्रमिति ।

[१९४।१७-१९४।२७]
सर्वत्र समे वृत्तमिति ।

[१९४।१८]
एवं सर्वम् ।

[१९४।१८-१९४।१९]
तद्यथाऽलातमेकस्यां दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते सर्वतो दृश्यमानं मण्डलमिति ।

[१९४।१९-१९४।२०]
न तु खलु जात्यन्तरमस्ति संस्थानम् ।

[१९४।२०]
यदि हि स्यात्
[१९४।२१]
द्विग्राह्यं स्यात्

[१९४।२२-१९४।२३]
चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वेति द्वाभ्यामस्य ग्रहणं प्राप्नुयात् ।

[१९४।२३]
न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति ।

[१९४।२३-१९४।२४]
यथा वा स्प्रष्टव्ये दीर्घादिग्रहणं तथा वर्णे संभाव्यताम् ।

[१९४।२४]
स्मृतिमात्रं तत्र स्प्रष्टव्यसाहचर्यात्भवति ।

[१९४।२४-१९४।२५]
स तु साहचर्यात्भवति न तु साक्षात्ग्रहणम् ।

[१९४।२५-१९४।२६]
यथाऽग्निरूपं दृष्ट्वा तस्योष्णतायां स्मृतिर्भवति पुष्पगन्धं च घ्रात्वा तद्वर्ण इति ।

[१९४।२६-१९५।०१]
युक्तमत्राव्यभिचारत्वादन्येनान्यस्य स्मरणं नतु किञ्चित्स्प्रष्टव्यं क्वचित्संस्थाने नियतं यतस्तत्र स्मरणं नियमेन स्यात् ।

[१९५।०१-१९५।०२]
अथासत्यपि साहचर्यनियमे संस्थानस्मरणं नियमेन स्यात् ।

[१९५।०२]
वर्णेऽपि स्यात्वर्णवद्धा संस्थानेऽप्यनियमेन स्यात् ।

[१९५।०२-१९५।०३]
नचैवं भवति ।

[१९५।०३]
अयुक्तमस्य स्प्रष्टव्यात्स्मरणम् ।

[१९५।०३-१९५।०४]
चित्रास्तरणेवाऽनेकवर्णसंस्थाने दर्शनाद्बहूनामैकदेश्यं प्राप्नुयात् ।

[१९५।०४]
तच्चायीउक्तं वर्णवत् ।

[१९५।०४-१९५।०५]
तस्मान्नास्ति द्रव्यतः संस्थानम् ।

[१९४।०६]
यच्चापि किञ्चित्सप्रतिघं रूपमस्ति तदवश्यं परमाणौ विद्यते ।

[१९५।०७]
न चाणौ तत्

[१९५।०८]
न च संस्थानं परमाणौ विद्यते दीर्घादि ।

[१९५।०८-१९५।०९]
तस्माद्बहुष्वेव तथा संनिविष्टेषु दीर्घादिप्रज्ञप्तिः ।

[१९५।०९-१९५।१०]
अथ मत्तं संस्थानपरमाणव एव तथा संनिविष्टा दीर्घादिसंज्ञां लभन्त इति ।

[१९५।१०]
सोऽयं केवलः पक्षपातस्तेषामसिद्धत्वात् ।

[१९५।१०-१९५।११]
सिद्धस्वलक्षाणानां हि तेषां संचयो युज्यते ।

[१९५।११]
न च संस्थानावयवानां वर्णादिवत्स्वभावः सिद्ध इति कुत एषां संचयः ।

[१९५।१२]
यत्तर्हि वर्णश्चाभिन्नो भवति संस्थानं च भिन्नं दृश्यते मृद्भाजनानाम् ।

[१९५।१२-१९५।१४]
ननु चोक्तं यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते तथा च पिपीलिकादीनामभेदे पङ्क्तिचक्रादीनां भेदः प्रज्ञायते तथा संस्थानस्यापि ।

[१९५।१४-१९५।१६]
यत्तर्हि तमपि दूराद्वा वर्णमपश्यन्तः स्थाण्वादीनां दैर्घ्यादीनि पश्यन्ति वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति ।

[१९५।१६]
पङ्क्तिसेनापरिकल्पवत् ।
इत्थं चैतदेवम् ।

[१९५।१७]
यत्कदाचिदनिर्धार्यमाणपरिच्छेदं संघातमात्रमव्यक्तं दृश्यते किमप्येतदिति ।

[१९५।१८-१९५।१९]
अथेदानीं कायस्य गतिं निराकृट्य सम्स्थानं च तत्र भवन्तः सौत्रान्तिकाः कां कायविज्ञर्प्तिं प्रज्ञपयन्ति ।

[१९५।१९]
संस्थानमेव हि ते कायविज्ञर्प्ति प्रज्ञपयन्ति ।
नतु पुनर्द्रव्यतः ।

[१९५।२०]
तां च प्रज्ञपयन्तः कथं कायकर्म प्रज्ञपयन्ति ।

[१९५।२०-१९५।२१]
कायाधिष्ठानं कर्म कायकर्म या चेतना कायस्य तत्र तत्र प्रणेत्री ।

[१९५।२१]
एवं वाङ्मनस्कर्मणी अपि यथायोगं वेदितव्ये ।

[१९५।२२-१९५।२३]
यत्तर्हि “चेतना कर्म चेतयित्वा चे”त्युक्तं संकल्पचेतना पूर्वं भवत्येवं संकल्पचेतना पूर्वं भवत्येवं चैवं च करिष्यामीति ।

[१९५।२३]
तथा चेतयित्वा पश्चात्क्रिया चेतनोत्पद्यते ।

[१९५।२३-१९५।२४]
यया कायः प्रेर्यते साऽसौ चेतयित्वा कर्मेत्युच्यते ।

[१९५।२४-१९५।२५]
एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी नास्तीति महान्तो दोषा अनुषज्यन्ते ।

[१९५।२५-१९५।२६]
अनुषङ्गानां पुनः प्रत्यनुषङ्गा भविष्यन्ति ।

[१९५।२६-१९५।२७]
यदि तस्मादेव कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात् ।

[१९५।२७-१९५।२८]
चित्तानुपरिवर्तिनी स्यात्समाहितविज्ञप्तिवत्नै वं भविष्यति ।

[१९५।२८]
चेतनाविशेषेण तदाक्ष्पविशेषात् ।

[१९५।२८-१९६।०१]
साऽपि च विज्ञप्तिः सती तदाक्षेपे चेतनाया बलं निभालयते ।

[१९६।०१]
जडत्वात् ।

[१९६।०१-१९६।०२]
द्रव्यमेव तु संस्थानं वैभाषिका वर्णयन्ति संस्थानात्मिकां तु कायविज्ञप्तिम् ।

[१९६।०३]
वाग्विज्ञप्तिस्तु वाग्ध्वनिः ॥ ४.३ ॥

[१९६।०४]
वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः ।
अविज्ञप्तिः पूर्वमेवोक्ता ।

[१९६।०४-१९६।०५]
साऽपि द्रव्यतो नास्तीति सौत्रान्तिकाः ।

[१९६।०५]
अभ्युपेत्याकरणमात्रत्वात् ।

[१९६।०५-१९६।०६]
अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेस्तेषां चाविद्यमानस्वभावत्वाद्रूपलक्षणाभावाच्च ।

[१९६।०६-१९६।०७]
अस्तीति वैभांषिकाः ।

[१९६।०७]
कथं ज्ञायते ।

[१९६।०८]
त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादिभिः ।

[१९६।०९]
त्रिविधं रूपमुक्तं सूत्रे ।
“त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति ।

[१९६।०९-१९६।१०]
अस्ति रूपं सनिदर्शनं सप्रतिघम् ।

[१९६।१०]
अस्ति रूपमनिदर्शनं सप्रतिघम् ।

[१९६।१०-१९६।११]
अस्ति रूपमनिदर्शनमप्रतिघमि”ति ।

[१९६।११]
अनास्रवं च भगवता रूपमुक्तम् ।
“अनास्रवाः धर्माः कतमे ।

[१९६।१२-१९६।१३]
यस्मिन् रूपेऽतीतानागतप्रत्युत्पन्नो नोत्पद्यतेऽनुनयो वा प्रतिघो वा यावद्यस्मिन्विज्ञाने ।

[१९६।१३]
इम उच्यन्तेऽनास्रवा धर्मा” इति ।

[१९६।१३-१९६।१४]
न चा विज्ञप्तिं विरहय्यास्ति रूपमनिदर्शनमप्रतिघं नाप्यना स्रवम् ।

[१९६।१४]
वृद्धिरपि चोक्ता ।

[१९६।१४-१९६।१७]
“एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा चरतो वा स्वपतो वा तिष्ठतो वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यमुपजायत एव पुण्यम् ।

[१९६।१७]
एवं निरौपधिकैरि”ति ॥

[१९६।१७-१९६।१८]
न चाविज्ञप्तिमन्तरेणान्यमनसोऽप्ति पुण्यस्याभिवृद्धिर्युज्यते ।

[१९६।१८-१९६।१९]
अकुर्वतश्च स्वयं परैः कारयतः कर्मपथा न सिध्येयुरसत्यामविज्ञप्तौ ।

[१९६।१९]
नह्याज्ञापनविज्ञप्तिः मौलः कर्मपथो युज्यते ।

[१९६।२०]
तस्य कर्यणोऽकृतत्वात् ।
कृतेऽपि च तस्याः स्वभावविशेषादिति ।

[१९६।२०-१९६।२२]
उक्तं च भगवता “धर्मा भिक्षवो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमनिदर्शनमप्रतिघमि”ति ।

[१९६।२२]
न त्वरूपीत्युक्तम् ।

[१९६।२२-१९६।२३]
तत्र किं प्रयोजनं स्याद्यदि धर्मायतनान्तर्गतमविज्ञप्तिरूपं नश्येत ।

[१९६।२३]
अष्टाङ्गश्च मार्गो न स्यादविज्ञप्तिमन्तरेण ।

[१९६।२३-१९६।२४]
समापन्नस्य सम्यग्वाक्कर्मान्ताजीवानामयोगात् ।

[१९६।२४-१९६।२६]
यत्तर्हीदमुक्तं “तस्यैवं जानत एवं पश्यतः सम्यग्दृष्टिर्भावनापरिपूरिं गच्छति सम्यक्संकल्पः सम्यक्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः ।

[१९६।२६-१९६।२७]
पूर्वमेव चास्य सम्यक्वावक्र्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाता” इति ।

[१९६।२७-१९६।२८]
लौकिकमार्गवैराग्यं पूर्वकृतमभिसंधायैतदुक्तम् ।

[१९६।२८-१९७।०१]
प्रातिमोक्षसंवरश्चपि न स्यादसत्यामविज्ञप्तौ ।

[१९७।०१-१९७।०२]
न हि समादानादुर्ध्वं तदस्ति येनान्यमनस्कोऽप्ययं भिक्षुः स्यात्भिक्षुणी वेति ।

[१९७।०२]
सेतुश्च सूत्रे विरक्तिरुक्ता ।
दौःशील्यविवन्धत्वात् ।

[१९७।०२-१९७।०३]
न वा भवन्ती सेतुर्भवितुमर्हतीत्यस्त्येवाविज्ञप्तिः ।

[१९७।०३-१९७।०४]
अत्र सौत्रान्तिका आहुः बह्वप्येतच्चित्रमप्येतत् ।

[१९७।०४]
नैवं त्वेतत् ।
किं कारणम् ।
यत्तावदुक्तं “त्रिविधरूपोक्तेरि” ति ।

[१९७।०४-१९७।०५]
तत्र योगाचारा उपदिशन्ति ।

[१९७।०५]
ध्यायिनां समाधिविषयो रूपं समाधिप्रभावादुत्पद्यते ।

[१९७।०६]
चक्षुरिन्द्रियाविषयत्वातनिदर्शनम् ।
देशानावरणत्वादप्रतिघमिति ।
अथ मतम् ।

[१९७।०७]
कथमिदानीं तत्रूपमिति ।
एतदविज्ञप्तौ समानम् ।
[१९७।०७-१९७।०८]
यदप्युक्तमनास्रवरूपोक्तेरिति तदेव समाधिप्रभावसंभूतं रूपमनास्रवे समाधावनास्रवं वर्णयन्ति योगाचाराः ।

[१९७।०९]
अर्हतो यद्रूपं बाह्यं चेत्यपरे ।
आस्रवाणामनिश्रयत्वात् ।

[१९७।०९-१९७।१०]
यत्तर्हि सूत्र उक्तं “सास्रवा धर्माः कतमे ।

[१९७।१०]
यावदेव चक्षुर्यवदेव रूपाणी”ति विस्तरः ।

[१९७।१०-१९७।११]
तत्र पुनरास्रवाणामप्रतिपक्षत्वात्सास्रवमुक्तम् ।

[१९७।११]
पर्यायेण तर्हि तदेव सास्रवं चानास्रवं च स्यात् ।
किं स्यात् ।

[१९७।१२]
लक्षणसंकरः स्यात् ।

[१९७।१२-१९७।१३]
यथा तत्सास्रवं तथा न कदाचिदनास्रवमिति कोऽत्र संकरः ।

[१९७।१३-१९७।१५]
यदि च रूपायतनादीनि एकान्तेन सास्रवाणि स्युरिह सूत्रे किमर्थ विशेषितानि स्यु”र्यानि रूपाणि सास्रवाणि सोपादानीयानि चेतःखिलम्रक्षवस्त्वि”ति विस्तरः ।

[१९७।१५-१९७।१९]
यदप्युक्तं “पुण्याभिवृद्धिवचनादिति तत्रापि पूर्वाचार्या निर्दिशन्ति “धर्मता ह्येषा यथा दातॄणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणां तदालम्बनदानचेतना भाविताः संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति ।”

[१९७।१९-१९७।२०]
“इदमभिसंधायोक्तं” भवेदभिवर्धत एव पुण्यमुपजायत एव पुण्यमिति ।

[१९७।२०-१९७।२१]
अथ मतं कथमिदानीं संतानान्तरविशेषादन्यमनसोऽपि संतानान्तरस्य परिणामः सेत्स्यतीति ।

[१९७।२१]
एतदविज्ञप्तौ स्मानम् ।

[१९७।२१-१९७।२३]
कथमिदानीं संतानान्तरविशेषात्संतानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्यतीति निरूपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति ।

[१९७।२३-१९७।२४]
अभिक्ष्णं तदालम्बनचेतनाभ्यासात्स्वप्नेष्वपि ता अनुषङ्गिन्यो भवन्ति ।

[१९७।२४-१९७।२५]
अविज्ञप्तिवादिनस्तु निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथामविज्ञप्तिः स्यात् ।

[१९७।२५-१९७।२६]
औपधिकेऽप्यभीक्षणं तदालम्बनेचेतनाभ्यासादित्यपरे ।

[१९७।२६-१९८।०१]
यत्तर्हि सूत्र उक्तं “यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं परिभुज्याप्रमाणं चेतःसमार्धिं कायेन साक्षात्कृत्वोपसंपद्य विहरत्यप्रमाणस्तन्निदानदायकस्य दानपतेः पुण्याभिष्यन्दः कुशलाभिष्यन्दः सुखास्वादधारः प्रतिकाङ्क्षितव्य” इत्यत्र तदानीं दातुः कश्चेतनाविशेषः ।

[१९८।०१-१९८।०२]
तस्मात्संततिपरिणामविशेष एव न्याय्यः ।

[१९८।०२-१९८।०३]
यदप्युक्तं “कारयतः कथं कर्मपथाः सेत्स्यन्ती”ति तत्राप्येवं वर्णयन्ति ।

[१९८।०३-१९८।०५]
तत्प्रयोगेण परेषामुपघातविशेषात्प्रयोक्तुः सूक्ष्मः संततिपरिणाम विशेषो जायते यत आयत्यां समन्तेऽपि बहुतरफलाभिनिर्वर्त्तनसमर्था भवतीति स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः ।

[१९८।०५-१९८।०६]
सोऽसौ संततिपरिणामविशेषः कर्मपथ इत्याख्यायते ।

[१९८।०६]
कार्ये कारणोपचारात् ।

[१९८।०६-१९८।०७]
कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद्यथा विज्ञप्तिवादिनामविज्ञप्तेरिति ।

[१९८।०७-१९८।०८]
उपात्तेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावध्वेन स्पृश्यत इति भदन्तः ।

[१९८।०८-१९८।०९]
हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति ।

[१९८।०९]
न त्वियता कर्मपथः परिसमाप्यते ।

[१९८।१०]
मा भूदहतेऽपि मात्रादौ हताभिमानिनामानन्तर्यं कर्मेति ।

[१९८।११]
स्वयं तु घ्नत एतावांश्चेतनासमुदाचार इत्ययमत्राभिप्रायो युक्तरूपः स्यात् ।

[१९८।११-१९८।१३]
क इदानीमेष प्रद्वेषो यदविज्ञप्तिः प्रक्षिप्यते संततिपरिणामविशेषश्चाभ्युपगम्यते तथैवाप्रज्ञायमानः ।

[१९८।१३]
न खलु कश्चित्प्रद्वेषः ।

[१९८।१३-१९८।१४]
किन्तु चित्तान्वयकायप्रयोगेण क्रियापरिसमाप्तौ ताभ्यां पृथग्भूतं धर्मान्तरं प्रयोजयितुरुत्पद्यत इति नोत्पद्यते परितोषः ।

[१९८।१५-१९८।१६]
यत्कृतप्रयोगसंभूता तु क्रियापरिसमाप्तिस्तस्यैव तन्निमित्तः संततिपरिणामो भवतीति भवति परितोषः ।

[१९८।१६]
चित्तचैतसंतानाच्चायत्यां फलोत्पत्तेः ।
उक्तं चात्र ।

[१९८।१७]
किमुक्तम् ।
“विज्ञप्त्यभावादि”त्येवमादि ।
तदभावादविज्ञप्तेरभावः ।

[१९८।१७-१९८।१८]
यदप्युक्तं “धर्मायतनस्यारूपित्वं यस्मान्नोक्तमि”ति ।

[१९८।१८-१९८।१९]
तद्यदेवात्र रूपमनिदर्शनमप्रतिघं चोक्तं तदेवास्तु धर्मायतनपर्यापन्नम् ।

[१९८।१९]
यदप्युक्तमष्टाङ्ग आर्यमार्गो न स्यादिति ।

[१९८।१९-१९८।२०]
अङ्गं तावदाचक्ष्व ।

[१९८।२०]
कथं मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति ।

[१९८।२०-१९८।२१]
किमसौ वाचं भाष्यते क्रियां वा करोति चीवरादीन् वा पर्येषते ।

[१९८।२१]
नेत्याह ।
किं तर्हि ।

[१९८।२२]
तद्रूपामनास्रवामविज्ञप्तिं प्रतिलभते ।

[१९८।२२-१९८।२३]
यस्याः प्रतिलम्भाद्व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते ।

[१९८।२३-१९८।२४]
अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ तदाख्या क्रियते ।

[१९८।२४-१९८।२७]
यद्येवमिहाप्येवं किं न गृह्यते मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं च आश्रयं च प्रतिलभते यस्य प्रतिलम्भात्व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते ।

[१९८।२७-१९९।०१]
अतो निमित्ते नैमित्तिकोपचारं कृत्वा अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति ।

[१९९।०१]
अपरस्त्वाह ।
तदक्रियामात्रमत्राङ्गमुक्तं स्यात् ।

[१९९।०१-१९९।०२]
यदसावार्यमार्गसामर्थ्यादक्रियानियमं प्रतिलभते तच्चानास्रवमार्गसंनिश्रयलाभादनास्रवं स्यात् ।

[१९९।०२-१९९।०३]
नहि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते ।

[१९९।०३-१९९।०४]
तद्याथाऽष्टौ लोकधर्माः लाभोऽलाभः यशोऽयशः निन्दा प्रशंसा सुखं दुःखमिति ।

[१९९।०४]
नचात्र चीवरादीनामलाभो नामास्ति द्रव्यान्तरम् ।

[१९९।०५-१९९।०६]
प्रातिमोक्षसंवरोऽपि स्यात्यया चेतनया विधिपूर्वं कृत्वाऽभ्युपगमः प्रतिषिद्धात्कर्मणः कायवाचौ संवृणोति ।

[१९९।०६]
अन्यचित्तोन संवृतः स्यादिति चेत् ।
न ।

[१९९।०७-१९९।०९]
तद्भावनया क्रियाकाले स्मरतः तत्प्रत्युपस्थानात्सेतुभावोऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य संस्मृत्य लज्जितो दौःशील्याकरणातित्यर्थमेव च तस्याः समादानम् ।

[१९९।०९-१९९।१०]
यदि पुनरविज्ञप्तेरेव दौःसील्यं प्रतिबध्नीयात्न कश्चित्मुषितस्मृतिः शिक्षां भिन्द्यात् ।

[१९९।१०-१९९।११]
अलं विस्तरेणास्त्येव द्रव्यान्तरमविज्ञप्तिरूपति वैभाषिकाः ।

[१९९।१२-१९९।१३]
यद्यस्ति तच्च महाभूतान्युपादायेत्युक्तं तत्किं विज्ञप्तिमहाभूतान्येवोपादायाविज्ञप्तिरुत्पद्यते अथान्यानि ।

[१९९।१३]
अन्यान्येव सा महाभूतान्युपादायोत्पद्यते ।

[१९९।१४]
न हि सैव सामग्री सुक्ष्मफला चौदारिकफाला च युज्यते ।

[१९९।१४-१९९।१५]
किं खलु यदातनी विज्ञप्तिस्तदातनान्येव सा महाभूतान्युपादाय वर्तते ।

[१९९।१५-१९९।१६]
सर्वमुपादायरूपं प्रायेणैवं किञ्चित्तु वर्तमानमनागतं चातीतानि महाभूतान्युपादाय ।

[१९९।१६]
किं पुनस्तदिति ।

[१९९।१७]
क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा ॥ ४.४ ॥

[१९९।१८]
प्रथमात्क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादायोत्पद्यते ।

[१९९।१९]
तान्यस्या आश्रयार्थेन भवन्ति ।
प्रत्युत्पन्नानि शरीरमहाभूतानि संनिश्रयार्थेन ।

[१९९।२०]
प्रवृत्यनुवृत्तिकारणत्वाद्यथाक्रमम् ।

[१९९।२०-१९९।२१]
चक्रस्येव भूमौ सपरिवर्तमानस्य पाण्यावेधभूमिप्रदेशौ ।

[१९९।२२]
अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म ।

[१९९।२३]
स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् ।

[१९९।२४-१९९।२५]
कामावचरं कायवाक्कर्मं कामावचराण्येव महाभूतान्युपादाय एवं यावच्चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय ।

[१९९।२६]
अनास्रवं यत्र जातः

[१९९।२७-२००।०१]
अस्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति तद्भूमिकान्युपादाय तद्वेदितव्यम् ।

[२००।०१]
धात्वपतितत्वादनास्रवाणां च भूतानामभावात्तद्वलेन चोत्पत्तेः ।

[२००।०२]
तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये ।

[२००।०३]
अविज्ञप्तिरनुपात्तिका ॥ ४.५ ॥

[२००।०४]
नैःष्यन्दिकी च सत्त्वाख्या

[२००।०५]
किञ्च

[२००।०६]
निष्यन्दोपात्तभूतजा ।

[२००।०७]
नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति ।

[२००।०७-२००।०८]
असमाहितभूमिकाया एष प्रकारः ।

[२००।०९]
समाधिजौपचयिकानुपाताभिन्नभूतजा ॥ ४.६ ॥

[२००।१०]
ध्यानानास्रवसंवराविज्ञप्तिः समाधिजा ।

[२००।१०-२००।१२]
सा समाधिसंभूतान्यौपचयिकान्यनुपातानि च महाभूतान्युपादायोत्पद्यते अभिन्नानि च यान्येव च भूतान्युपादाय प्राणातिपाताद्विरतिरुत्पद्यते तान्येव यावत्संभिन्नप्रलापात् ।

[२००।१२]
किं कारणम् ।

[२००।१३]
चित्तवत्भूताभेदात् ।
[२००।१३-२००।१४]
प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति ।

[२००।१४]
विज्ञप्तिस्तु नैःष्यन्दिकी ।
उपात्ता तु कायिकी ।

[२००।१४-२००।१६]
किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य संतानं बाधित्वोत्पद्यते उताहो न ।

[२००।१६]
किञ्चातः यदि बाधित्वोत्पद्यते ।
न ।

[२००।१६-२००।१७]
विपाकरूपस्योच्छिन्नस्य पुनः प्रवन्धादवैभाषिकीयं प्राप्नोति ।

[२००।१७]
अथाबाधित्वा ।

[२००।१७-२००।१८]
कथमेकस्मिन्भूतसंघाते संस्थानद्वयं सिध्यति ।

[२००।१८-२००।१९]
अन्यान्येव तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति ।

[२००।१९-२००।२०]
एवं तर्हि यद्यदेवाङ्गं निश्रित्योत्पद्यते विज्ञप्तिस्तेन तेनाङ्गेन महीयसा भवितव्यम् ।

[२००।२०]
तन्महाभूतैरभिव्यापनात् ।

[२००।२०-२००।२१]
अनभिव्यापने च पुनः कथं कृत्स्नाङ्गेन विज्ञपयेत् ।

[२००।२१]
शुषिरत्वात्कायस्यास्ति तेषामवकाशः ।

[२००।२२]
तत्खल्वेतत्कर्म पर्यायेण द्विविधं त्रिविधं पञ्चविधं चोत्तम् ।

[२००।२२-२००।२३]
चेतना चेतयित्वा चेति ।

[२००।२३]
चेतयित्वा पुनर्द्विधा ।
कायवाक्कर्म चेतना च ।

[२००।२३-२००।२४]
कायकर्म पुनः द्विविधं विज्ञप्त्याख्यमविज्ञप्त्याख्यं च ।

[२००।२४-२००।२५]
एवं वाक्कर्म चेतना चेति पञ्चविधं भवति ।

[२००।२५]
तत्र पुनरविज्ञप्तिर्द्विधा ।
कुशलाऽकुशला च ।

[२००।२६]
नाव्याकृतास्त्यविज्ञप्तिः

[२००।२७]
किं कारणम् ।

[२००।२७-२००।२८]
अव्याकृतं हि चित्तं दुर्बलमतो न शक्तं बलवत्कर्माक्षेप्तुं यन्निरुद्धेऽपि तस्मिन्ननुवध्नीयात् ।

[२०१।०१]
त्रिधाऽन्यत्

[२०१।०२]
अन्यत्कर्म त्रिविधम् ।
कुशलाकुशलाव्याकृतम् ।
किं तदन्यत् ।
विज्ञप्तिश्चेतना च ।

[२०१।०३]
अशुभं पुनः ।

[२०१।०४]
कामे

[२०१।०५]
अकुशलं वस्तु कर्म कामहातौ वेदितव्यम् ।
नान्यत्र ।

[२०१।०५-२०१।०६]
अकुशलमूलानां प्रहीणत्वादाह्रीक्यानपत्राप्ययोश्च ।

[२०१।०६-२०१।०७]
कुशलाव्याकृतं तु सर्वत्रा प्रतिवेधात् ।

[२०१।०७]
तत्र

[२०१।०८]
रूपेऽप्यविज्ञप्तिः

[२०१।०९]
कामेऽपीत्यपिशब्दात् ।
आरूप्येषु नास्ति भूताभावात् ।

[२०१।०९-२०१।१०]
यत्र हि कायवाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ ।

[२०१।१०]
इह तर्हि समापन्नस्य स्यादनास्रवा विज्ञप्तिवत् ।

[२०१।११]
न ।
तस्या धात्वपतितत्वात् ।

[२०१।११-२०१।१२]
आरूप्यावचरी त्वविज्ञप्तिनांर्हति विसभागानि भूतान्युपादाय भवितुम् ।

[२०१।१२]
सर्वरूपवैमुख्याच्चारूप्यसमापत्तुनार्लं रूपोत्पत्तये ।

[२०१।१३]
विभूतरूपसंज्ञत्वात् ।
दौःशील्यप्रतिपक्षेण शीलम् ।
तच्च दौःशील्यं कामावचरम् ।

[२०१।१४]
आरूप्याश्च कामधातोराश्रया कारालम्बनप्रतिपक्षदूरताभिर्दूरे ।

[२०१।१४-२०१।१५]
अत एष्वविज्ञप्तिर्नास्तीति वैभाषिकाः

[२०१।१६]
विज्ञप्तिः सविचारयोः ॥ ४.७ ॥

[२०१।१७]
विज्ञप्तिस्तु सविचारयोरेव भूम्योः ।
कामधातौ प्रथमे च ध्याने न तत ऊर्ध्वम् ।

[२०१।१८]
कामेऽपि निवृता नास्ति

[२०१।१९]
निवृता तु विज्ञप्तिः कामधातावपि नास्ति ।
ब्रह्मलोक एवास्ति ।

[२०१।१९-२०१।२०]
महाब्राह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते ।

[२०१।२०-२०१।२१]
स हि स्वपर्षन्मध्ये आयुष्मतोऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवात् ।

[२०१।२१-२०१।२२]
तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् ।

[२०१।२२]
अन्ये पुनराहुः ।

[२०१।२२-२०१।२३]
द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता ।

[२०१।२३]
न कुशला न क्लिष्टा ।
किं कारणम् ।

[२०१।२४-२०१।२५]
न हि तेषूपपन्नस्तज्जातीयमधोभूमिकं चित्तं संमुखीकरोति येन तां विज्ञप्तिं समुत्थापयेत् ।

[२०१।२५]
न्यूनत्वात्प्रहीणत्वच्च ।
पूर्वमेव तु वर्णयन्ति ।

[२०१।२५-२०१।२६]
किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः कामधातौ च निवृक्ताव्याकृता नास्ति ।

[२०२।०१]
समुत्थानमसद्यतः ।

[२०२।०२]
सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते ।

[२०२।०२-२०२।०३]
तच्च द्वितीयादिषु ध्यानेषु नास्ति भावनाप्रहातव्येन चोत्थाप्यते ।

[२०२।०३]
दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् ।

[२०२।०४]
तच्च कामधातौ निवृतव्याकृतं नास्ति ।

[२०२।०५]
किं खलु समुत्थानवशादेवं धर्माणां कुशलाकुशलत्वं वेदितव्यम् ।
नेत्याह ।

[२०२।०६]
किं तर्हि ।
चतुर्भिः प्रकारैः परमार्थतः स्वभावतः संप्रयोगतः समुत्थानतश्च ।

[२०२।०७]
तत्र तावत् ।

[२०२।०८]
परमार्थशुभो मोक्षः

[२०२।०९]
निर्वाणं हि सर्वदुःखव्युपशमः ।
ततः परमक्षेमत्वात्परमार्थेन कुशलमारोग्यवत् ।

[२०२।१०]
स्वतो मूलह्यर्पत्रपाः ॥ ४.८ ॥

[२०२।११]
त्रीणि कुशलमूलानि ।

[२०२।११-२०२।१२]
ह्रिश्चापत्रप्यं च स्वभाएव्न कुशलानि अन्यसंप्रयोगसमुत्थनानपेक्षत्वात् ।

[२०२।१२]
पथ्यौषधवत् ।

[२०२।१३]
संप्रयोगेण तद्युक्ताः

[२०२।१४-२०२।१५]
तैरेव कुशलमूलह्यर्पत्राप्यैः संप्रयुक्ता धर्माः संप्रयोगेण कुशलास्तैरसंप्रयुक्तानां कुशलत्वाभावादौषधमिश्रपानीयवत् ।

[२०२।१६]
समुत्था नात्क्रियादयः ।

[२०२।१७-२०२।१८]
कायवावक्कर्मणि चित्तविप्रयुक्ताश्च संस्कारजात्यादयः प्राप्तिनिरोधासंज्ञिसमापत्तयस्तैरेव कुशलमूलादिसंप्रयुक्तै धर्मः समुपस्थापिताः समुत्थानेन कुशलाः ।

[२०२।१९]
औषधपानीयसंभूतधात्रीक्षीरवत् ।

[२०२।१९-२०२।२०]
प्राप्तीनां तु विसभागचित्तसमुत्थापितानां कथं कुशलत्वमिति वक्तव्यम् ।

[२०२।२०-२०२।२१]
तद्यथा विचिकित्सया कुशलमूलप्रतिसंधानं धातुप्रत्यागमपरिहाणिभ्यां च ।

[२०२।२१]
यथा च कुशलमुक्तं ततो

[२०२।२२]
विपर्ययेणाकुशलं

[२०२।२३]
कथं कृत्वा ।
संसारः परमार्थेनाकुशलः ।
सर्वदुःखप्रवृत्त्यात्मकत्वेन परमाक्षेमत्वात् ।

[२०२।२४]
अकुशलमूलाह्रीक्यानपत्राप्याणि स्वभावतः ।
तत्संप्रयुक्ता धर्माः संप्रयोगतः ।

[२०२।२४-२०२।२५]
तत्समुत्थापिताः कायवाक्कर्मजात्यादिप्राप्तयः समुत्थानतः व्याध्यपथ्यौषधादिभिरूपमेयाः ।

[२०३।०१]
एवं तर्हि न किञ्चित्सास्रवमव्याकृतं भविष्यति कुशलं वा ।
संसाराभ्यन्तरत्वात् ।

[२०३।०२]
परमार्थत एवमुक्तं विपाकं तु प्रति यत्सास्रवं न व्याक्रियते तदव्याकृतमित्युच्यते ।

[२०३।०३]
इष्टविपाकं च कुक्शलमित्युच्यते ।
यदि तु परमार्थेनाव्याकृतं मृग्यते तत् ।
[२०३।०४]
परमाव्याकृते ध्रुवे ॥ ४.९ ॥

[२०३।०५]
द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते ।
आकाशमप्रतिसंख्यानिरोधश्च ।

[२०३।०५-२०३।०६]
इदं विचार्यते ।

[२०३।०६-२०३।०७]
यदि समुत्थानवशात्कुशलाकुशलत्वं कायवाक्कर्मणः किं न महाभूतानाम् ।

[२०३।०७]
कर्मणि हि कर्त्तुरभिप्रायो न महाभूतेषु ।

[२०३।०७-२०३।०९]
समाहितस्याविज्ञप्तौ नास्त्यभिप्रायो न चासमाहितं चित्तं तस्याः समुत्थापकं विसभागभूमिकत्वादिति कथं तस्याः कुशलत्वम् ।

[२०३।०९-२०३।१०]
दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुक्शलत्वप्रसङ्गः ।

[२०३।१०]
कर्त्तव्योऽत्र यत्नः ।
यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति ।

[२०३।११-२०३।१२]
किं तर्हि भगवतोक्तं “ततोऽपि मिथ्यादृष्टेर्मिथ्यासंकल्पः प्रभवति मिथ्या वाग्मिथ्याकर्मान्त” मित्येवमादि ।

[२०३।१२]
अविरुद्धमेतत् ।

[२०३।१३]
समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् ।

[२०३।१४]
द्विविधं समुत्थानं हेतुसमुत्थानं तत्क्षणसमुत्थानं च ।
तत्रैव क्षणे तद्भावात् ।

[२०३।१५]
प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम् ॥ ४.१० ॥

[२०३।१६]
हेतुसमुत्थानं प्रवर्तकमाक्षेपकत्वात् ।
तत्क्षणसमुत्थानमनुवर्तकं क्रियाकालानुवर्तनात् ।

[२०३।१७]
किमिदानीं तस्य तस्यां क्रियायां सामर्थ्यम् ।

[२०३।१७-२०३।१८]
तेन हि विनाऽसौ मृतस्येव न स्यादा क्षिप्ताऽपि सती ।

[२०३।१८]
अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति ।

[२०३।१८-२०३।१९]
स्फुटतरा तर्हि सचित्तकस्य भवतीत्येतत्सामर्थ्यम् ।

[२०३।१९]
तत्र च

[२०३।२०]
प्रवर्तकं दृष्टिहेयं विज्ञानम्

[२०३।२१]
दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम् ।

[२०३।२१-२०३।२२]
तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् ।

[२०३।२२]
न त्वनुवर्तकम् ।

[२०३।२२-२०३।२३]
बहिर्मुखचित्तस्य क्रियाकाले तदभावात् ।

[२०३।२३]
तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् ।
किं स्यात् ।

[२०३।२३-२०३।२४]
अभिधर्मोबाधितः स्यात् ।

[२०३।२४]
विद्याऽविद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् ।

[२०३।२४-२०३।२५]
साध्य एष पक्षः ।

[२०३।२५]
भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः ।
समानचित्तोत्थापितत्वात् ।

[२०४।०१]
नैवं भविष्यति यथा न कुशलाकुशलानि भवन्ति ।
अथवा पुनर्भवन्तु ।
नैवं शक्यम् ।

[२०४।०२]
नहि तानि दर्शनप्रहातव्यानि युज्यन्ते नाप्यप्रहातव्यानि ।
किं कारणम् ।

[२०४।०२-२०४।०३]
अक्लिष्टस्य धर्मस्य विद्याऽविद्याभ्यामविरोधात् ।

[२०४।०३-२०४।०४]
अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः ।

[२०४।०५]
उभयं पुनः ॥

[२०४।०६]
मानसं भावनाहेयम् ।

[२०४।०७]
भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति ।
प्रवर्त्तकं चानुवर्तकं च ।

[२०४।०८]
पञ्चकं त्वनुवर्तकम् ॥ ४.११ ॥

[२०४।०९]
पञ्च विज्ञानकाया अनुवर्तका एव ।
तदिदं चतुष्कोटिकं भवति ।

[२०४।०९-२०४।१०]
प्रवर्तकमेव दर्शनप्रहातव्यं चित्तम् ।

[२०४।१०]
अनुवर्तका एव पञ्च विज्ञानकायाः ।

[२०४।१०-२०४।११]
उभयं भावनाहेयं मनोविज्ञानम् ।

[२०४।११]
नोभयमनास्रवम् ।
किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति ।

[२०४।१२]
नायमेकान्तम् ।

[२०४।१३]
प्रवर्तके शुभादौ हि स्यात्त्रिधाऽप्यनुवर्तकम् ।

[२०४।१४]
कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् ।

[२०४।१५]
एवमकुशले चाव्याकृते च ।

[२०४।१६]
तुल्यं मुनेः

[२०४।१७]
बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम् ।
कुशले कुशलमव्याकृते चाव्याकृतम् ।

[२०४।१८]
शुभं यावत्

[२०४।१९]
कुशलं वा भवत्यनुवर्तकमव्याकृतेऽपि प्रवर्तके ।

[२०४।१९-२०४।२०]
न तु कदाचित्कुश्लं प्रवर्तकमनुवर्तकं चाव्याकृतं भवति ।

[२०४।२०]
आम्नायमाना हि बुद्धानां देशनेति ।

[२०४।२०-२०४।२१]
नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः ।

[२०४।२१-२०४।२२]
कुशलैकताना हि बुद्धानां संततयो नित्यं समाहितत्वात् ।

[२०४।२२]
उक्तं हि सूत्रे

[२०४।२३-२०४।२४]
“चरन् समाहितो नागस्तिष्ठन्नागः समाहितः ।
स्वपन् समाहितो नागो निषण्णोऽपि समाहित” इति ।

[२०४।२५-२०४।२६]
अनिच्छयाऽस्य चित्तस्याविसरणादेवमुक्तं न तु न सन्त्यव्याकृतानि विपाकजैर्या पथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः ।

[२०४।२६-२०४।२७]
मानसं भावनाहेयं प्रवर्तकं चानुवर्तकं चेत्युक्तम् ।

[२०४।२७]
तत्कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम् ।

[२०५।०१]
नोभयं तु विपाप्कजम् ॥ ४.१२ ॥

[२०५।०२]
विपाकजं तु चित्तं नैव प्रवर्तकं नानुवर्तकं निरभिसंस्कारवाहित्वात् ।

[२०५।०२-२०५।०३]
किमिदानीं यथा प्रवर्तकं तथा विज्ञप्तिराहोस्विद्यथाऽनुवर्तकम् ।

[२०५।०३]
किं चातः ।

[२०५।०३-२०५।०४]
यथा प्रवर्तकं चेत् ।

[२०५।०४]
इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति ।

[२०५।०५]
सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् ।

[२०५।०५-२०५।०६]
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम् ।

[२०५।०६-२०५।०७]
यथानुवर्तकं चेतकुक्शलाव्याकृतचित्तस्य प्रातिमोक्षविज्ञप्तिः कुशला न प्राप्नोति ।

[२०५।०७]
यथा प्रवर्तकं तथा विज्ञप्तिर्नतु यथा दर्शनप्रहातव्यम् ।

[२०५।०७-२०५।०८]
भावना हेयान्तरितत्वात् ।

[२०५।०८]
यदि नानुवर्तकवशाद्विज्ञप्तेः कुशलादित्वं न तर्हीदं वक्तव्यम् ।

[२०५।०९]
हेतुसमुत्थानं संधायोक्तं सूत्रे न तत्क्षणसमुत्थानम् ।

[२०५।०९-२०५।१०]
अतो नास्तीह निवृताव्याकृता विज्ञप्तिरिति ।

[२०५।१०]
एवं वक्तव्यम् ।
अन्यव्यवहितं हेतुसमुत्थानं संधायोक्तमिति ।

[२०५।११]
अवसितः प्रसङ्गः ।

[२०५।१२]
सा तु पूर्वोक्ता ।

[२०५।१३]
अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा ।

[२०५।१४]
संवरश्चासंवरश्च ।
ताभ्यां चेतरो नैवसंवरो नासंवरः ।

[२०५।१४-२०५।१५]
दौःशील्यप्रसरस्य संवरणं संरोधः संवरः ।

[२०५।१५]
तत्र पुनः

[२०५।१६]
संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा ॥ ४.१३ ॥

[२०५।१७]
त्रिविधः संवरः ।
प्रातिमोक्षसंवर इहत्यानां कामावचरं शीलम् ।

[२०५।१७-२०५।१८]
ध्यानसंवरो रूपावचरं शीलम् ।

[२०५।१८]
अनास्रवसंवरोऽनास्रवं शीलम् ।
तत्र पुनः

[२०५।१९]
अष्टधा प्रातिमोक्षाख्यः

[२०५।२०-२०५।२१]
भिक्षुसंवरो भिक्षुणीसंवरः शिक्षमाणासंवर श्रामणेरसंवरः श्रामणेरीसंवरः उपासकसंवर उपासिकासंवर उपवाससंवरश्च ।

[२०५।२१-२०५।२२]
एषोऽष्टविधसंवरः प्रातिमोक्षसंवर इत्याख्यायते ।

[२०५।२२]
नामत एषोऽष्टविधः ।

[२०५।२३]
द्रव्यतस्तु चतुर्विधः ।

[२०५।२४]
भिक्षुसंवरः श्रमणेरसंवर उपासकसंवर उपवाससंवरश्च ।

[२०५।२४-२०५।२५]
इत्येष चतुर्विधः प्रातिमोक्षसंवरस्तु द्रव्यतः ।

[२०५।२५]
प्रतिनियतलक्षणत्वात् ।

[२०५।२५-२०५।२६]
भिक्षुसंवराद्भिक्षुणीसंवरो नान्यः श्रामणेरसंवराच्च शिक्षमाणाश्रामणेरीसंवरौ ।

[२०५।२६-२०५।२७]
उपासकसंवरादुपासिकासंवरो नान्यः ।

[२०५।२७]
कथं ज्ञायते ।

[२०६।०१]
लिङ्गतो नामसंचारात्

[२०६।०२]
लिङ्गमिति व्यञ्जनस्याख्या येन स्त्रीपुरुषौ लिङ्ग्येते ।

[२०६।०२-२०६।०३]
लिङ्गतो हि भिक्षुभिक्षुण्यादीनां नामसंचारो भवति ।

[२०६।०३]
कथं कृत्वा ।

[२०६।०३-२०६।०४]
परिवृत्ते हि व्यञ्जने भिक्षुर्भिक्षुणीत्युच्यते भिक्षुणी च पुनर्भिक्षुः ।

[२०६।०४-२०६।०५]
श्रामणेरीत्युच्यते श्रामणेरी च पुनः शिक्षमाणा च श्रामणेरः ।

[२०६।०५]
उपासक उपासिकेत्युच्यते उपासिका च पुनरूपासक इति ।

[२०६।०५-२०६।०६]
न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागे कारणमस्ति नाप्यपूर्वसंवरप्रतिलम्भे ।

[२०६।०६-२०६।०७]
तस्मादभिन्न एषां चतुर्णा संवराणां त्रिभ्यः स्वभावः ।

[२०६।०८-२०६।१०]
य उपासकसंवराच्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्भिक्षुसंवरं किं ते संवरा विरतिवृद्धियोगादन्योऽन्य उच्यन्ते पञ्चदश विंशतिवत्दीनारशतेरवच्च आहोस्वित्पृथगेव ते सकला जायन्ते ।

[२०६।१०]
आह ।

[२०६।११]
पृथक्

[२०६।१२]
अव्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते ।

[२०६।१२-२०६।१३]
त्रिषु संवरेषु तिस्रः प्राणातिपातविरतयो यावन्मद्यपानविरतयः ।

[२०६।१३]
एवं शेषाः ।
को नु तासां विशेषः ।

[२०६।१३-२०६।१४]
निदानविशेषाद्विशेषः ।

[२०६।१४]
कथं कृत्वा ।

[२०६।१४-२०६।१७]
यथा यथा हि वहुतराणि शिक्षापदानि समादित्सते तथा तथा बहुतरेभ्यो मद्दप्रमादपदेभ्यो निवर्तमानो बहुतरेभ्यः प्राणातिपातादीनां निदानेभ्यो निवर्तते विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद्विरतीनां विशेषः ।

[२०६।१७-२०६।१८]
एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान्विजह्याद्दयोरपि तत्रान्तर्भावात् ।

[२०६।१८]
न चैतदिष्टम् ।
तस्मात्पृथगेव ते संवराः ।

[२०६।१९]
ते चाविरोधिनः ॥ ४.१४ ॥

[२०६।२०]
ते च त्रयोऽपि सह वर्तन्ते ।
नोत्तरसंवरसमादानात्पुर्वकस्य त्यागः ।

[२०६।२०-२०६।२१]
मा भूत्भिक्षुसंवरपरित्यागादनुपासक एवेति ।

[२०६।२२]
कथं चायमुपासको भवति कथमुपवासस्थो यावत्भिक्षुः ।

[२०६।२३-२०६।२४]
पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
उपासकोपवासस्थश्रमणोद्देशभिक्षुता ॥ ४.१५ ॥

[२०६।२५]
यथासंख्यमनुदेशो वेदितव्यः ।

[२०६।२५-२०७।०१]
पञ्च्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमादानादुपासकसंवरस्थो भवति ।

[२०७।०१-२०७।०२]
प्राणातिपाताददत्तादानात्काममिथ्याचारात्मृषावादात्सुरामैरेयमद्यपानाच्च ।

[२०७।०२-२०७।०३]
अष्टाभ्यो विरतिसमादानादुपवासस्थः ।

[२०७।०३-२०७।०४]
प्राणातिपातादत्तादानाब्रह्मचर्यमृषावादमद्यपानेभ्यो गन्धमाल्यविलेपननृत्यगीतवादित्रादुच्चशयनमहाशयनादकालभोजनाच्च ।

[२०७।०४-२०७।०५]
दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति ।

[२०७।०५]
एभ्य एव जातरूपरजतप्रतिग्रहाच्च ।

[२०७।०५-२०७।०६]
नृत्यगितवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति ।

[२०७।०६-२०७।०७]
सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात्भिक्षुरित्युच्यते ।

[२०७।०७]
स एष प्रातिमोक्षसंवरः ।

[२०७।०८]
शीलं सुचरितं कर्म संवरश्चोच्यते

[२०७।०९]
विषमकर्मणां विरतिसमादानाच्छीलम् ।
शीतलत्वादिति निरुक्तिः ।

[२०७।१०]
“सुखशीलसमादानं कायो न परिदह्यत” इति

[२०७।११]
गाथावचनात् ।
विद्वत्प्रशस्तत्वात्सुचरितम् ।
क्रियास्वभावत्वात्कर्म ।

[२०७।११-२०७।१२]
ननु चाविज्ञप्तिरक्रियेत्युच्यते ।

[२०७।१२]
सा कथं क्रिया भाति ।

[२०७।१२-२०७।१३]
न कुर्वन्ति तया समात्तया लज्जिनः पापमित्यक्रियेत्युच्यते ।

[२०७।१३]
सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति ।

[२०७।१४]
क्रियाहेतुत्वात्क्रियाफलत्वाच्चेत्यपरे ।
संवर इति कायवाचोः संवरणात् ।

[२०७।१४-२०७।१५]
एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते ।

[२०७।१६]
पुनः ।

[२०७।१७]
आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षकियापथः ॥ ४.१६ ॥

[२०७।१८]
संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते ।

[२०७।१८-२०७।१९]
पापस्य तेन प्रातिमोक्षणादुत्सर्जनादित्यर्थः ।

[२०७।१९]
स्वार्थे वृद्धिविधानाद्वैकृतवैशसवत् ।

[२०७।१९-२०७।२०]
प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात्कर्मपथ इत्युच्यते ।

[२०७।२०]
मौलसंगृहीतत्वात् ।

[२०७।२०-२०७।२१]
द्वितीयादिषु क्षणेषुइ प्रातिमोक्षसंवर एव न प्रातिमोक्षः ।

[२०७।२१]
पृष्ठं च न मौलः कर्मपथः ।

[२०७।२२]
अथैषां संवराणां केन कः समन्वागतः ।

[२०७।२३]
प्रातिमोक्षान्विता अष्टौ

[२०७।२४]
प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागता भिक्षुर्भिक्षुणी यावदुपवासस्थोऽष्टमः ।

[२०८।०१]
किं खलु बाह्यकानां समादानशीलं नास्ति ।
अस्ति नतु प्रातिमोक्षसंवरः ।

[२०८।०१-२०८।०२]
किं कारणम् ।

[२०८।०२]
नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते ।
भवसंनिश्रितत्वात् ।

[२०८।०३]
ध्यानजेन तदन्वितः ।

[२०८।०४]
ध्यानाद्ध्याने वा जातो ध्यानजः ।
यो ध्यानेन समन्वागतः सोऽवश्यं ध्यानसंवरेण ।

[२०८।०५]
सामन्तकमप्यत्र ध्यानं कृत्वोच्यते ।
यथा ग्रामसामन्तकमपि ग्राम इत्युच्यते ।

[२०८।०६]
अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रमस्ति व्रैहेयमिति ।

[२०८।०७]
अनास्रवेणार्यसत्त्वाः

[२०८।०८]
आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः ।
ते पुनः शैक्षाशैक्षाः ।

[२०८।०८-२०८।०९]
यदुक्तं “सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनावि”ति ।

[२०८।१०]
कतमो तौ ।
एषामेव त्रयाणाम्

[२०८।११]
अन्त्यौ चित्तानुवर्तिनौ ॥ ४.१७ ॥

[२०८।१२]
ध्यानसंवरोऽनास्रवसंवरश्च ।
न प्रातिमोक्षसंवरः ।
किं कारणम् ।

[२०८।१२-२०८।१३]
अन्यचित्ताचित्तकस्याप्यनुवृत्तेः ।

[२०८।१३]
पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते ।

[२०८।१४]
कस्यामवस्थायामित्याह

[२०८।१५]
अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ ।

[२०८।१६]
अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु प्रहाणसंवरावित्युच्येते ।

[२०८।१७]
ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् ।

[२०८।१७-२०८।१८]
अत एव स्याद्ध्यानसंवरो न प्रहाणसंवर इति चतुष्कोटिकं क्रियते ॥

[२०८।१८-२०८।१९]
प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्रवो ध्यानसंवरः ।

[२०८।१९]
द्वितीया अनागम्यानन्तर्यमार्गेष्वनास्रवः ।

[२०८।२०]
तृतीया अनागम्यानन्तर्यमार्गेषु सास्रवः ।

[२०८।२०-२०८।२१]
चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः ।

[२०८।२१-२०८।२२]
एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं यथायोगं वेदितव्यम् ।

[२०८।२२]
यत्तर्हि भगवतोक्तं

[२०८।२३-२०८।२४]
“कायेन संवरः साधु साधु वाचाऽथ संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः । इति ।

[२०८।२५]
यच्चोक्तं “चक्षुरिन्द्रियेण संवरसंवृतो विहरती”ति ।

[२०८।२५-२०८।२६]
एतौ मनैन्द्रियसंवरौ किंस्वभावौ ।

[२०८।२६]
नैतावविज्ञप्तिशीलस्वभावौ ।
किं तर्हि ।

[२०९।०१]
संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ ॥ ४.१८ ॥

[२०९।०२-२०९।०३]
प्रत्येकं द्विस्वभावज्ञपनार्थं पुनर्द्विग्रहणं मा यथासंख्यं विज्ञायीति मनःसंवरोऽपि स्मृतिसंप्रज्ञानस्वभाव इति ।

[२०९।०३]
इन्द्रियसंवरोऽपि ।

[२०९।०४]
इदं विचार्यते ।

[२०९।०४-२०९।०५]
कः कतमया विज्ञप्त्याऽविज्ञप्त्या वा कियन्तं कालं समन्वागत इति ।

[२०९।०५]
तत्र

[२०९।०६]
प्रातिम्मोक्षस्थितो नित्यमत्यागाद्वर्तमानया ।

[२०९।०७]
अविज्ञप्त्याऽन्वितः

[२०९।०८-२०९।०९]
यः प्रातिमोक्षासंवरस्थः पुद्गल उक्तः स यावत्तामविज्ञप्तिर्न त्यजति तावत्तया वर्तमानया नित्यं समन्वागतः ।

[२०९।१०]
पूर्वात्क्षणादूर्ध्वमतीतया ॥ ४.१९ ॥

[२०९।११][
प्रथमात्क्षणादूर्ध्वमतीतयाऽपि समन्वागतः ।

[२०९।११-२०९।१२]
अत्यागादिति सर्वत्राधिकृतं वेदितव्यम् ।

[२०९।१२]
यथा प्रातिमोक्षसंवरस्थ उक्तः

[२०९।१३]
तथैवासंवरस्थोऽपि

[२०९।१४-२०९।१५]
असंवरस्थोऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया समन्वागतः ।

[२०९।१५]
क्षणादूर्ध्वमतीतयाऽपि ।

[२०९।१६]
ध्यानसंवरवान् सदा ।

[२०९।१७]
अतीताजातया

[२०९।१८-२०९।१९]
ध्यानसंवरस्य लाभी नित्यमतीतानागताभ्यामविज्ञप्तिभ्यां समन्वागतः आत्यागात् ।

[२०९।१९]
प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते ।

[२०९।२०]
आर्यस्तु प्रथमे नाभ्यतीतया ॥ ४.२० ॥

[२०९।२१]
आर्यस्तु पुद्गलोऽप्येवमनास्रव्या ।
अयं तु विशेषः ।

[२०९।२१-२०९।२२]
स प्रथमे क्षणे नातीतया समन्वागतो मार्गस्य पूर्वमनुत्पादितत्वात् ।

[२१०।०१]
समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया ।

[२१०।०२-२१०।०३]
तौ ध्यानानास्रवसंवरान्वितौ समाहितर्यमार्गसमापन्नौ वर्तमानया अविज्ञप्त्या समन्वागतौ यथाक्रमं न तु व्युत्थितौ ।

[२१०।०३-२१०।०४]
संवरासंवरस्थानां तावदेष वृत्तान्तः ।

[२१०।०५]
अथेदानीं मध्यस्थस्य ।

[२१०।०६]
मध्यस्थस्यास्ति चेदादौ मध्यया

[२१०।०७]
यो नैव संवरे नासंवरे स्थितः स मध्यस्थः ।

[२१०।०७-२१०।०८]
तस्य नावश्यमविज्ञप्तिरस्ति ।

[२१०।०८]
यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः ।

[२१०।०९]
वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद्

[२१०।१०]
ऊर्ध्वं द्विकालया ॥ ४.२१ ॥

[२१०।११]
प्रथमात्क्षणादूर्ध्वमतीतया वर्तमानया च ।
आत्यागादिति वर्तते ।

[२१०।११-२१०।१२]
किमसंवरस्थः कदाचित्कुशलया विज्ञप्त्या समन्वागतो भवति संवरस्थो वा पुनरकुशलया भवति ।

[२१०।१३]
भवन् कदा कियन्तं वा कालमित्याह

[२१०।१४-२१०।१५]
असंवरस्थः शुभयाऽशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत्प्रसादक्लेशवेगवान् ॥ ४.२२ ॥

[२१०।१६-२१०।१८]
येन प्रसादवेगेनासंवरस्थस्य कुशलाऽविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां कुर्वतः येन च क्लेशवेगेन संवरस्थस्याकुशलाऽविज्ञप्तिरुत्पद्यते वधबन्धनताडनादिक्रियां कुर्वतः तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती ।

[२१०।१८-२१०।१९]
स आद्ये क्षणे वर्तमानयैवाविज्ञप्त्या समन्वागतो भवत्यन्येष्वतीतयाऽपि ।

[२१०।१९]
अविज्ञप्त्यधिकारः समाप्तः ।

[२१०।२०]
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।

[२१०।२१]
सर्वे संवरासंवरमध्यस्था यावदिज्ञप्तिं कुर्वन्ति तावत्तया वर्तमानया समन्वागताः ।

[२१०।२२]
अतीतया क्षणादूर्ध्वमात्यागात्

[२१०।२३]
प्रथमात्क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति ।

[२१०।२४]
नास्त्यजातया ॥ ४.२३ ॥

[२११।०१]
अनागतया तु विज्ञप्त्या न कश्चित्समन्वागतः ।

[२११।०२]
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।

[२११।०३]
अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्समन्वागतः ।

[२११।०४]
दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति ।
किङ्कृतं तस्या दौर्बल्यम् ।

[२११।०५]
चित्तकृतम् ।
चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् ।
नैतदेवम् ।

[२११।०५-२११।०६]
जडा हि विज्ञप्तिः परतन्त्रा च ।

[२११।०६]
न चैवं चित्तम् ।

[२११।०६-२११।०७]
सा हि विज्ञप्तिर्दुर्बलेनोत्थापिता दुर्बलतरा भवति ।

[२११।०८]
असंवरस्थ इत्युक्तम् ।
कोऽयमसंवरो नाम ।

[२११।०९]
असंवरो दुश्चरितं दौःशील्यं कर्मं तत्पथः ॥ ४.२४ ॥

[२११।१०]
असंवरस्येमे पर्यायशब्दाः ।
तत्र कायवाचोरसंवरणादसंवरः ।

[२११।१०-२११।११]
सद्भिः कुत्सितत्वादनिष्टफलत्वाद्दुश्चरितम् ।

[२११।११]
शीलविपक्षाद्दौःशील्यम् ।
कायवाक्कर्मत्वात्कर्म ।

[२११।१२]
मौलसंगृहीतत्वात्कर्मपथः ।
स्याद्विज्ञप्त्या समन्वागतो नाविज्ञप्त्येति चतुष्कोटिकम् ।

[२११।१३]
तत्र तावत् ।

[२११।१४]
विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः ।

[२११।१५-२११।१७]
मृद्व्या चेतनया कुशलमकुक्शलं वा कुर्वन्नैवसंवरनासंवरस्थितो विज्ञप्त्यैव समन्वागतो भवति नाविज्ञप्त्या प्रागेवाव्याकृते अन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्यः ।

[२११।१८]
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ ४.२५ ॥

[२११।१९-२११।२०]
अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ न तावद्विज्ञप्तं वा पुनर्विहीनम् ।

[२११।२०-२११।२१]
उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् ।

[२११।२२]
अथैते संवराः कथं लभ्यन्ते ।

[२११।२३]
ध्यानजो ध्यनभूम्यैव लभ्यते

[२११।२४-२११।२५]
यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवं तदा ध्यानसंवरोऽपि सहभूतत्वात् ।

[२११।२६]
अनास्रवस्तया ।
[२११।२७]
आर्यया

[२११।२८]
तयैव ध्यानभूम्याऽनास्रवया लभ्यमानयाऽनास्रवः संवरो लभ्यते ।

[२११।२८-२११।३०]
तत्र षट्ध्यानभूमयोऽनास्रवा भवन्ति चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति पश्चात्प्रवेदयिष्यामः ।

[२१२।०१]
प्रातिमोक्षाख्यः परविज्ञपनादिभिः ॥ ४.२६ ॥

[२१२।०२]
प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते ।
यद्येनं परो विज्ञपयति असौ च परम् ।

[२१२।०३]
स पुनः संघाद्वा पुद्गलाद्वा ।
संधाद्भीक्षुभिक्षुणीशिक्षमाणासंवराः पुद्गलाद्दन्ये ।

[२१२।०४]
दशविधा उपसंपदिति विनयविभाषिकाः ।
तस्य ऊपसंग्रहणार्थमादिशब्दः ।

[२१२।०४-२१२।०९]
स्वयंभूत्वेन बुद्धानां प्रत्येकबुद्धानां च नियामावक्रान्त्या पञ्चकानामेहिभिक्षुकया यशःप्रभृतीनां शास्तुरभ्युपगमान्महाकाश्यपस्य प्रश्नाराधनेन सोदायिनः गुरुधर्माभ्युपगमेन महाप्रजापत्याः दूतेन धर्मदिन्नायाः विनयद्धरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु दशवर्गेण मध्येषु जनपदेषु शरणगमनं त्रैवाचिकेन षष्टिभद्रवर्गपूगोपसंपादितानामिति तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः ।

[२१२।०९-२१२।१०]
स पुनरेष प्रातिमोक्षासंवरः समादीयमानः कियन्तं कालं समादातव्यः ।

[२१२।११]
यावज्जीवं समादानमहोरात्रं च संवृतेः ।

[२१२।१२-२१२।१३]
सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानमुपवाससंवरस्याहोरात्रमित्येष नियमः ।

[२१२।१३]
किं कारणम् ।
द्वौ हि कालपर्यन्तौ ।

[२१२।१३-२१२।१४]
अहोरात्रपर्यन्तो जीवितपर्यन्तश्च ।

[२१२।१४]
अहारोत्राणां पौनरुक्त्येन पक्षादयः ।
कालो नाम क एष धर्मः ।

[२१२।१५]
संस्कारपरिदीपनाधिवचनमेतत् ।
आलोकावस्था हि द्वीपेषु दिवस इत्युच्यते ।

[२१२।१६]
तमोऽवस्था रात्रिः ।
युक्तं तावज्जीवितादूर्ध्वं सत्यपि समादाने संवरस्यानुत्पत्तिः ।

[२१२।१७]
विसभागत्वादाश्रयस्य तेन च तत्राप्रयोगादस्मरणाच्च ।

[२१२।१७-२१२।१९]
अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो बहूनामुपवाससंवराणामुत्पत्तौ ।

[२१२।१९-२१२।२०]
इत्थमस्ति प्रतिबन्धो यद्भगवानहोरात्रिकमेवोपवासं सूत्रे शास्तिस्म ।

[२१२।२०]
इदमिदानीं संप्रधार्यम् ।

[२१२।२०-२१२।२२]
किं तावदहोरात्रादूर्ध्वं संवरस्यानुत्पर्त्ति पश्यता तथागतेनाहोरात्रिक उपवासो देशित उताहो दुर्बलेन्द्रियाणामहोरात्रकेऽपि संवरसमादानेन संनियोजनार्थमिति ।

[२१२।२२]
कुतस्त्वेतदेवं तर्क्यते ।

[२१२।२२-२१२।२३]
अहोरात्रात्परेणापि संवरोत्पत्तौ युक्त्यविरोधात् ।

[२१२।२३-२१२।२४]
तदेतत्कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः ।

[२१२।२४]
असंवरस्येदानीं कः कालनियमः ।

[२१२।२५]
नासंवरोऽस्त्यहोरात्रं

[२१२।२६]
यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रं यथोपवासः ।
किं कारणम् ।

[२१३।०१]
न किलैवं प्रगृह्यते ॥ ४.२७ ॥

[२१३।०२-२१३।०३]
न किल कश्चिदेवमसंवरं समादत्ते यथोपवासं कच्चिदहमहोरात्रमसंवृतः स्यामिति ।

[२१३।०३]
कुत्सितत्वात्कर्मणः ।

[२१३।०३-२१३।०४]
एवं चैव न कश्चिदादत्ते कच्चिदहं यावजीवमसंवृतः स्यामिति ।

[२१३।०४]
यावज्जीवमप्यस्य लाभो न स्यात् ।

[२१३।०४-२१३।०६]
यद्यपि नैवमादत्ते तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते न कालान्तरविपन्नेन ।

[२१३।०६]
उपवाससंवरस्तु समादानबलाधानादनात्यन्तिकेऽप्याशये लभ्यत एव ।

[२१३।०७]
संवरार्थित्वात् ।

[२१३।०७-२१३।०८]
यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत सोऽवश्यं लभेत ।

[२१३।०८]
न त्वेददृष्टमिति नैवं व्यवस्थाप्यते ।

[२१३।०९]
अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः ।

[२१३।०९-२१३।१०]
स एव तु पापक्रियाभिसंधिरसंवरः ।

[२१३।१०]
सानुबन्धो यतः कुशलचित्तोऽपि तद्वानुच्यते ।

[२१३।१०-२१३।११]
तस्यानिराकृतत्वात् ।

[२१३।१२]
अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः ।

[२१३।१३-२१३।१४]
काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिता ।
उपवासः समग्राङ्गो निर्भुषेणानिशाक्षयात् ॥ ४.२८ ॥

[२१३।१५]
काल्यं तावत्सूर्योदयकाले अहोरात्रिकत्वात्संवरस्य ।

[२१३।१५-२१३।१६]
यस्तु पूर्वकृतसमादानो नित्यमष्टभ्यामुपचेष्यामीति स भुक्त्वापि गृह्णीयात् ।

[२१३।१६-२१३।१७]
अन्यतश्च ग्रहीतव्यो न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् ।

[२१३।१७-२१३।१८]
नीचैः स्थितेनोत्कुट्टकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वाऽन्यत्र स्थास्यात् ।

[२१३।१८-२१३।१९]
अगौरवस्य हि संवरो नोत्पद्यते ।

[२१३।१९]
दातुश्च वचनमनुब्रुवीत ।
न पूर्वं न युगपत् ।

[२१३।१९-२१३।२०]
एवं ह्यसौ परस्मात्गृहीतो भवति ।

[२१३।२०]
अन्यथा हि दानग्रहणं न सिध्येत् ।

[२१३।२०-२१३।२१]
समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यो न विकलाङ्गः ।

[२१३।२१]
निर्भूषेण च ।
आजस्रिकमभ्यलङ्कारं मुक्त्वा ।

[२१३।२२]
आजस्रिको ह्यलङ्कारो नात्यर्थं मदमादधाति ।

[२१३।२२-२१३।२३]
आरात्रिपरिक्षयाच्च ग्रहीतव्यो यावत्पुनः सूर्योदयात् ।

[२१३।२३-२१३।२४]
अतोऽन्यथा गृह्णतः सुचरितमात्रं स्यान्नतूपवाससंवरः ।

[२१३।२४-२१३।२५]
एवं च कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते ।

[२१३।२५]
अर्हतां समीपे वसन्त्यनेनेत्युपवासस्तेषामनुशिक्षणात् ।

[२१३।२५-२१३।२६]
यावज्जीविकसंवरसमीपे वसन्त्यनेने त्यपरे ।

[२१३।२६-२१३।२७]
अल्पकुशलमूलानां कुशलमूलपोषणात्पोषध इति वा ।

[२१४।०१-२१४।०२]
“पोषं दधाति मनसः कुशलस्य यस्मादुक्तस्ततो भगवता किल पोषधोऽयमि”ति ।

[२१४।०३]
किमर्थं पुनरष्टाङ्गन्युपादीयन्ते ।
यस्मात्

[२१४।०४]
शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् ।

[२१४।०५]
चत्वार्येकं तथा त्रीणि

[२१४।०६]
चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः ।
प्रकृतिसावद्यविरतित्वात् ।

[२१४।०७]
एकमप्रमादाङ्ग मद्यपानाद्विरतिः ।
समात्तशीलोऽपि मद्यपः प्रमाद्येत ।

[२१४।०७-२१४।०८]
त्रीणि वृताङ्गानि यावदकालभोजनाद्विरतिः ।

[२१४।०८]
संवेगानुगुणत्वात् ।

[२१४।०८-२१४।०९]
किं पुनरेभिरप्रमादाङ्गवृताङ्गैरनुपात्तैः स्यात् ।

[२१४।१०]
स्मृतिनाशो मदश्च तैः ॥ ४.२९ ॥

[२१४।११]
मद्यं हि पिवतः कार्या कार्यस्मृतिरेव नश्येत् ।

[२१४।११-२१४।१२]
उच्चशयनमहाशयननृत्तगीतादिकं प्रतिसेवमानस्य मदः संभवेत् ।

[२१४।१२]
मत्तस्य च दौःशील्यमदूरं भवेत् ।

[२१४।१२-२१४।१४]
काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् ।

[२१४।१४]
तदभावादुभयं न स्यादिति ।

[२१४।१४-२१४।१५]
केचित्तु खल्वकालभोजनात्प्रतिविरतिमेवोपवासं मन्यन्ते ।

[२१४।१५]
तस्य शेषाण्यष्टाङ्गानीति ।

[२१४।१५-२१४।१६]
नृत्यगोतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा ।

[२१४।१६]
एवं तु सति सूत्रपाठो न युज्येत ।

[२१४।१६-२१४।१८]
अकालभोजनाद्विरति मुक्त्वा “अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीय” इति ।

[२१४।१८]
कस्तर्हि सोऽन्य उपवासो यस्येमान्यङ्गानि ।
समुदायस्यावयवा अङ्गानि ।

[२१४।१९-२१४।२०]
यथा स्थस्याङ्गानि चतुरङ्गो बलकायः पञ्चाङ्गं तूर्यं तथाऽष्टाङ्ग उपवासो द्रष्टव्यः ।

[२१४।२०-२१४।२१]
अकालभोजनात्प्रतिविरतिरूपवास उपवासाङ्गं च यथा सम्यग्दृष्टिर्मार्गो मार्गाङ्गं च ।

[२१४।२१-२१४।२२]
धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं चेति वैभाषिकाः ।
[२१४।२२-२१४।२३]
नतु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त इति ।

[२१४।२३-२१४।२४]
पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गं यदि स्युः प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् ।

[२१४।२५]
किं खल्वयमुपवासकस्यैवोपवास आहोस्विदन्यस्यापि ।

[२१४।२६]
अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न ।

[२१४।२७-२१५।०१]
अनुपवासकोऽपि यस्तमहोरात्रं बुद्धधर्मसंघान् शरणं गत्वोपवासं गृह्णाति तस्योत्पद्यते उपवाससंवरो नान्यथा ।

[२१५।०१]
अन्यत्राज्ञानात् ।

[२१५।०१-२१५।०४]
सूत्र उक्तं “यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति वाचं च भाषते उपवासकं च मां धरय ।

[२१५।०४]
इयता उपावासको भवती”ति ।
तत्किं शरणगमनादेवोपवासको भवति ।

[२१५।०५]
भवतीति बहिर्देशकाः ।
न विना संवरेणेति काश्मीराः ।
यत्तर्हि सूत्र उक्तम् ।

[२१५।०६]
नास्त्यत्र विरोधः ।
यस्मादस्योत्पद्यते तत एव

[२१५।०७]
उपासकत्वोपगमात्संवृत्

[२१५।०८]
उपासकत्वाभ्युपगमादेवास्योपासकसंवरो जायते ।

[२१५।०८-२१५।०९]
“यदेवाभ्युपगच्छत्युपासकं मां धारयेत्याद्यग्रेण यावज्जीवं प्राणापेतमि”ति ।

[२१५।०९-२१५।१०]
प्राणातिपाताद्यपेतमित्यर्थो मध्यपदलोपात् ।

[२१५।१०]
लघुसंवरस्यापि व्युत्पादनार्थं शिक्षापदानाम्

[२१५।११]
उक्तिस्तु भिक्षुवत् ॥ ४.३० ॥

[२१५।१२-२१५।१३]
यथैवं भिक्षुर्लब्धसंवरोऽपि पुनः शिक्षापदानि ग्राह्यते श्रामणेरश्च व्युत्पादनार्थमित श्चामुतश्च ते संवर इति तथोपवासकोऽपि न तु विना संवरेणोपासकोऽस्ति ।

[२१५।१४]
सर्वे चेत्संवृता एकदेशकार्यादयः कथम् ।

[२१५।१५-२१५।१६]
यदि सर्व एवोपासका उपासकसंवरस्थाः कथं भगवता एकदेशकारी प्रदेशकारी यद्भूयःकारी पूरिपूर्णकारी चोपासक उक्तः ।

[२१५।१७]
तत्पालनात्किल प्रोक्ताः

[२१५।१८]
यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः ।
सर्वे तु समं संवरस्थाः ।

[२१५।१९]
इदमुत्सूत्रं वर्तते ।
किमत्रोत्सूत्रम् ।

[२१५।१९-२१५।२०]
उपासकत्वाभ्युपगमादेव संवरलाभो यस्मात्प्राणतिपातमित्याहेति ।

[२१५।२०]
न ह्येवं सूत्रपाठः उक्तो यथा महानामसूत्रे पाठः ।

[२१५।२१]
तत्रैव चोपासकलक्षणोपदेशो नान्यत्र ।

[२१५।२१-२१५।२२]
यत्र त्वेष पाठो “यावज्जीवं प्राणापेतं शरणगतमभिप्रसन्नमि”ति ।

[२१५।२२-२१५।२३]
तत्र ते दृष्टसत्या “अवेत्यप्रसादान्वयं प्राणैरपि सद्धर्मोपगमनं दर्शयन्ति स्म ।

[२१५।२३]
जीवितहेतो रप्यभव्या वयमेनं धर्मं परित्यक्तु”मिति ।

[२१५।२३-२१५।२४]
न त्वेष लक्षणोपदेशः संवरस्य ।

[२१५।२४]
प्राणापेतं तु न क्वचित्पठ्यते ।

[२१५।२४-२१६।०१]
कश्चैतदपरिस्फुटार्थं पठेत् ।

[२१६।०१]
एकदेशकार्यादींस्तु खण्डितशिक्षानधिकृत्य प्रश्न एव न युज्यते ।

[२१६।०२]
कुतो विसर्जनमावेणिकधर्माणाम् ।

[२१६।०२-२१६।०३]
को ह्यपासकसंवरं जाननेतन्न ज्ञास्यते यो हि यच्छिक्षापदं न खण्डयति स तत्कारी भवतीति ।

[२१६।०३-२१६।०४]
उपासकसंवरस्य तु परिमाणानभिज्ञांस्तन्मात्रशिक्षाक्षमान् प्रत्येष प्रश्नो युज्यते ।

[२१६।०४-२१६।०५]
“कियता भदन्तोपासक एकदेशकारी भवति यावत्परिपूर्णकारी भवति ।”

[२१६।०५-२१६।०६]
यदि तर्हि विना संवरेणोपासकः स्याद्विकलेन वा भिक्षुश्रामणेरावपि स्याताम् ।

[२१६।०६-२१६।०७]
कथं तावदेषामुपासकसंवरादीनामङ्गप्रतिनियमो भवति ।

[२१६।०७]
शास्तृप्रज्ञप्तिवशात् ।

[२१६।०८]
उपासकत्वादिप्रतिनियमोऽपि शास्तृप्रज्ञप्तिवशादिष्यताम् ।

[२१६।०८-२१६।०९]
विनापि हि संवरेणोपासकः प्रज्ञप्तितो न तु भिक्षुश्रामणेराविति ते त्वेतन्नेच्छन्ति काश्मीराः ।

[२१६।०९-२१६।१०]
सर्वेषां तु संवराणाम् ।

[२१६।११]
मृद्वादित्वं यथा मनः ॥ ४.३१ ॥

[२१६।१२]
मृदुमध्याधिमात्रत्वं ससंतानचित्तवशात् ।

[२१६।१२-२१६।१३]
एवं च कृत्वाऽर्हतोऽपि मृदुः प्रातिमोक्षसंवरः स्यात्पृथग्जनस्याधिमात्रः ।

[२१६।१३-२१६।१४]
किं पुनः संवरग्रहणादेवोपासकः स्याद्विना शरणगमनैः ।

[२१६।१४]
न स्यादन्यत्राज्ञानात् ।

[२१६।१५]
यो बुद्धधर्मसंघाञ्छरणं गच्छति किमसौ शरणं गच्छति ।

[२१६।१६-२१६।१७]
बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः ।
निर्वाणं चेति शरणं यो याति शारणत्रयम् ॥ ४.३२ ॥

[२१६।१८-२१६।२०]
यो बुद्धं शरणं गच्छति अशैक्षानसौ बुधकरकान्धर्माञ्छरणं गच्छति येषां प्राधान्येन स आत्मभावो बुधा इत्युच्यते येषां वा लाभेन सर्वावबोधसामर्थ्याद्बुद्धो भवति ।

[२१६।२०]
के पुनस्ते ।
क्षयज्ञानादयः सपरिवाराः ।

[२१६।२०-२१६।२१]
रूपकायस्य पूर्वं पश्चाच्चाविशेषात् ।

[२१६।२१]
किं सर्वबुद्धानथैकम् ।
लक्षणतः सर्वबुधान् ।

[२१६।२१-२१६।२२]
मार्गस्याविलक्षाणत्वात् ।

[२१६।२२-२१६।२३]
यः संघं शरणं गच्छति शैक्षाशैक्षानसौसंघकरकान्हर्मान् गच्छति येषां लाभेनाष्टौ पुद्गलाः संघीभवन्ति ।

[२१६।२३]
अभेदत्वात् ।

[२१६।२४]
किं सर्वसंघानथैकम् ।
लक्षणतः सर्वसंघान्मार्गस्याविलक्षणत्वात् ।

[२१६।२४-२१६।२६]
यत्तु सूत्र उक्तं “योऽप्यसौ भविष्यत्यनागतेऽध्वनि संघो नाम तमपि शरणं गच्छतमि “ति ।

[२१६।२६]
तत्प्रत्यक्षभाविनः संवरत्वस्योद्भावनार्थम् ।

[२१६।२६-२१६।२७]
यो धर्मं शरणं गच्छति असौ निर्वाणं शरणं गच्छति प्रतिसंख्यानिरोधम् ।

[२१६।२७-२१६।२८]
स्वपरसंतानक्लेल्शानां दुःखस्य च शान्त्येकलक्षणात्वात् ।

[२१६।२८-२१६।२९]
यद्यशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुक्ष्टचित्तरुधिरोत्पादनादानन्तर्यं भवति ।

[२१६।२९-२१७।०१]
आश्रयविपादनात्तेऽपि विपादिता भवन्तीति वैभाषिकाः ।

[२१७।०१]
शास्त्रं तु नैवं वाचकमशैक्षा धर्मा एव बुद्ध इति ।

[२१७।०१-२१७।०२]
किं तर्हि ।

[२१७।०२]
बुद्धकरका इति ।
अत आश्रयस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत् ।

[२१७।०२-२१७।०३]
अन्यथा हि लौकिकचित्तस्थो न बुद्धः स्यान्न संघः शीलमेव च भिक्षुकरकं भिक्षुः स्यात् ।

[२१७।०४]
यथा तु यो भिक्षून् पूजयति भिक्षुकरकमसौ शीलं पूजयति ।

[२१७।०४-२१७।०५]
एवं यो बुद्धं शरणं गच्छत्यशैक्षानसौ बुद्धकरकान्धर्मान् शरणं गच्छति ।

[२१७।०५-२१७।०६]
यो बुद्धं शरणं गच्छति सोऽष्टादशावेणिकान्बुद्धर्मानित्यपरे ।

[२१७।०६-२१७।०७]
किंस्वभावानि शरणगमनानि ।

[२१७।०७]
वाग्विज्ञप्तिस्वभावानि ।
कः पुनः शरणार्थः ।

[२१७।०७-२१७।०८]
त्राणार्थः शरणार्थः ।

[२१७।०८]
तदाश्रयेण सर्वदुःखात्यन्तनिर्मोक्षात् ।
उक्तं हि भगवता

[२१७।०९-२१७।१०]
“बहवः शरणं यान्ति पर्वतांश्च वनानि च
आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः ॥

[२१७।११-२१७।१२]
न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् ।
नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥

[२१७।१३-२१७।१४]
यस्तु बुद्धं च धर्मं च संघं च शरणं गतः ।
चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥

[२१७।१५-२१७।१६]
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् ।
आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥

[२१७।१७-२१७।१८]
एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् ।
एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥”इति ।

[२१७।१९]
एत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि ।

[२१७।२०-२१७।२१]
किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद्विरतिः शिक्षापदं व्यवस्थापितमुपासकस्य तु काममिथ्याचारात् ।

[२१७।२२]
मिथ्याचारातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः ।

[२१७।२३]
काममिथ्याचारो हि लोकेऽत्यन्तं गर्हितः ।
परेषां दारोपघातादापायिकत्वाच्च ।

[२१७।२४]
न तथाऽब्रह्मचर्यम् ।

[२१७।२४-२१७।२५]
सुकरा च काममिथ्याचाराद्विरतिर्गृहानध्यावसतां दुष्करात्वब्रह्मचर्यादिति दुष्करं कर्त्तुं नोत्सहेरन् ।

[२१७।२५-२१७।२६]
आर्याश्चाकरणसंवरं काममिथ्याचारात्प्रतिलभन्ते ।

[२१७।२६-२१८।०१]
जन्मान्तरेष्वप्यनध्याचरणान्नत्वब्रह्मच्र्यादित्युपासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत्परिवृत्तजन्मान्तरः शैक्ष उपासकसंवराङ्गेष्वसंवृत इति ।

[२१८।०१-२१८।०२]
अक्रियानियमो ह्यकरणसंवरः ।

[२१८।०२-२१८।०३]
य उपासकाः सन्तो भार्याः परिणयन्ति किं तैस्ताभ्योऽपि संवरः प्रतिलब्धोऽथ न ।

[२१८।०३]
प्रतिलब्धो मा भूत्प्रादेशिकसंवरलाभ इति ।

[२१८।०३-२१८।०४]
कथं संवरक्षोभो न भवति ।

[२१८।०४]
यस्मात्

[२१८।०५]
यथाभ्युपगमं लाभः संवरस्य न संततेः ॥ ४.३३ ॥

[२१८।०६]
यथा ह्येषामभ्युपगमस्तथा संवरलाभः ।
कथं चैषामभ्युपगमः ।

[२१८।०६-२१८।०७]
काममिथ्याचाराद्विरमामीति ।

[२१८।०७-२१८।०८]
न त्वत्र संताने मया ब्रह्मचर्यं न कर्तव्यमित्यत एवैषां तदधिष्ठात्काममिथ्याचाराङ्गादेव संवरलाभो नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः ।

[२१८।०९-२१८।१०]
अथ कस्मात्मृषावादाद्विरतिरेवोपासकसंवरशिक्षापदं न पैशुन्यादिविरतिः ।

[२१८।१०]
एभिरेव च त्रिभिः कारणैः ।

[२१८।११]
“मृषावादातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः ।”

[२१८।१२]
मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे ।

[२१८।१३-२१८।१५]
सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति नाहमेवमहार्षमिति मृषावादस्य प्रसङ्गो भवत्यतो मृषावादाद्विरतिर्विधीयते कथं कृतातिक्रमोऽप्यात्मनि माविष्कुर्यादिति ।

[२१८।१५-२१८।१६]
किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् ।

[२१८।१७]
प्रतिक्षेपणसावद्यान्मद्यादेव

[२१८।१८]
किं कारणं मद्यादेव नान्यस्मात् ।

[२१८।१९]
अन्यगुप्तये ॥ ४.३४ ॥

[२१८।२०]
मद्यं पिवतोऽन्यान्यप्यङ्गान्यगुप्तानि स्युः ।

[२१८।२०-२१८।२१]
कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते ।

[२१८।२१]
प्रकृतिसावद्यलक्षणाभावात् ।

[२१८।२१-२१८।२२]
प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते ।

[२१८।२२]
शक्यं तु मद्यं प्रतीकारबुद्ध्यैव पातुं यावन्न मदयेत् ।

[२१८।२२-२१८।२३]
क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति ।

[२१८।२३-२१८।२४]
न तत्क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति ।

[२१८।२४]
प्रकृतिसावद्यं मद्यमिति विनयधराः ।

[२१८।२४-२१८।२५]
“कथं भदन्त ग्लान उपस्थातव्यः ।

[२१८।२५-२१८।२६]
प्रकृतिसावद्यमुपालिन् स्थापयित्वा” इत्युक्तं भगवता ।

[२१८।२६]
शाक्येषु च ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् ।

[२१८।२७-२१८।२८]
इदं चोक्तं मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न पातव्यमि” त्यतः प्रकृतिसावद्यमिति ज्ञायते ।

[२१८।२८]
आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् ।

[२१८।२९]
प्राणिवधादिवत् ।
कायदुश्चरितवचनाद्दुर्गतिगमनाच्चेति ।
नेत्याभिधार्मिकाः ।

[२१९।०१-२१९।०२]
उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मद्नीयमात्रानीयमनात् ।

[२१९।०२]
अत एव कुशाग्रपानप्रतिषेधः ।

[२१९।०३]
आर्यैरनध्याचरणं ह्रीमत्त्वात्तेन च स्मृतिनाशात् ।

[२१९।०३-२१९।०४]
अल्पकस्याप्यपानमनियमाद्विषवत् ।

[२१९।०४]
दुश्चरितवचनं प्रमादस्थानत्वात् ।

[२१९।०४-२१९।०५]
अत एवात्र प्रमादस्थानग्रहणं नान्येषु तेषां प्रकृतिसावद्यत्वात् ।

[२१९।०५]
अत्यासेवितेन दुर्गतिगमनाभिधानम् ।

[२१९।०५-२१९।०६]
तत्प्रसङ्गेनाभीक्ष्णमकुशलसंततिप्रवृत्तेरापायिकस्य कर्मण आक्षेपाद्वृत्तिलाभाद्वा ।

[२१९।०६-२१९।०७]
सुरामैरेयमद्यप्रमादस्थानमिति कोऽर्थः ।

[२१९।०७]
सुरा अनासवः ।
मैरेयं द्रवासवः ।

[२१९।०७-२१९।०८]
ते च कदाचिदप्राप्तच्युतमद्यभावे भवतः इत्यतो मद्यग्रहणम् ।

[२१९।०८-२१९।०९]
पूगफलकोद्रवादयोऽपि मदयन्तीति सुरामैरेयग्रहणम् ।

[२१९।०९-२१९।१०]
प्रज्ञप्तिसावद्यस्याप्यादरेण प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम् ।

[२१९।१०]
सर्वप्रमादास्पदत्वादिति ।

[२१९।११-२१९।१२]
य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषौ ।

[२१९।१२]
नेत्याह ।
किं तर्हि ।

[२१९।१३]
सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते ।

[२१९।१४]
वर्तमानेभ्य एव स्कन्धायतन धातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः ।

[२१९।१५]
सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः ।

[२१९।१५-२१९।१७]
उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते ।

[२१९।१७]
सत्त्वाधिष्टानप्रवृत्तत्वात्नातीतानागतेभ्यः ।
तेषामसत्त्वसंख्यातत्वात् ।

[२१९।१८]
मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ ॥ ४.३५ ॥

[२१९।१९-२१९।२१]
मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते न प्रयोगपृष्ठेभ्यः कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीतानागतेभ्योऽपि ।

[२१९।२१]
अत एव चतुष्कोटिकं क्रियते ।

[२१९।२१-२१९।२२]
सन्ति तानि स्कन्ध धात्वायतनाति येभ्यः प्रातिमोक्षसंवरः एव लभ्यते न ध्यानानास्रवसंवराविति विस्तरः ।

[२१९।२२-२१९।२३]
प्रथमा कोटिः प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च ।

[२१९।२३-२१९।२४]
द्वितीयाऽतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः ।

[२१९।२४]
तृतीया प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्यः ।

[२२०।०१]
चतुर्थ्यतीतानागतेभ्यः सामन्तकपृष्ठेम्यः इति ।

[२२०।०१-२२०।०२]
नतु संवरकाले वर्तमानाः कर्मपथाः सन्तीति वर्तमानाधिष्ठानेभ्यः इति वक्तव्यम् ।

[२२०।०२-२२०।०३]
अनागतानामेव संवरणं युज्यते नातीतवर्तमानानाम् ।

[२२०।०४-२२०।०५]
अथ किं संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते सर्वाङ्गेभ्यः सर्वकारणैश्च आहोस्विदस्ति भेदः ।

[२२०।०५]
नियतं तावत्लभ्यते ।

[२२०।०६]
संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः ।

[२२०।०७]
सर्वसत्त्वेभ्य एव संवरो लभ्यते केभ्यश्चितङ्गेभ्यस्तु विभाषा ।

[२२०।०७-२२०।०८]
कश्चित्सर्वेभ्यो लभ्यते ।

[२२०।०८]
भिक्षुसंवरः ।
कश्चिच्चतुर्भ्यः ।
ततोऽन्यः ।

[२२०।०८-२२०।०९]
कर्मपथा हि संवरस्याङ्गानि ।

[२२०।०९]
कारणैरपि केनचित्पर्यायेण सर्वैः केनचिदेकेन ।
केन तावत्सर्वैः ।

[२२०।१०]
यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ।
केनै केन ।

[२२०।१०-२२०।११]
यदि म्कृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ।

[२२०।११-२२०।१२]
पश्चिमं पर्यायं नियमय्योच्यते अस्ति संवरस्थायी सर्वसत्त्वेषु संवृतो न सर्वाङ्गैः न सर्वकारणैः ।

[२२०।१२-२२०।१३]
यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोवास श्रामणेरसंवरं समादत्ते ।

[२२०।१३-२२०।१४]
अस्ति सर्वसत्त्वेषु संवृतः सर्वङ्गैश्च न तु सरकारणैः ।

[२२०।१४]
यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते ।

[२२०।१५]
अस्ति सर्वसत्त्वेषु सर्वङ्गैः सर्वकारणैश्च ।

[२२०।१५-२२०।१६]
यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्ते ।

[२२०।१६]
अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैः ।

[२२०।१६-२२०।१७]
य उपासकोपवासश्रामणेरसंवरान्मृदुमध्याधिमात्रैः समादत्ते ।
[२२०।१७-२२०।१८]
यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति ।
[२२०।१८-२२०।१९]
यस्मात्सर्वसत्त्वानुगते कल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा पापाशयस्यानुपरतत्वात् ।

[२२०।१९-२२०।२०]
पञ्च नियमान् कुर्वन् प्रातिमोक्षसम्वरं प्रतिलभते ।

[२२०।२०]
सत्त्वाङ्गदेशकालसमयनियमात् ।

[२२०।२०-२२०।२१]
अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः ।

[२२०।२१]
अमुष्मादङ्गादित्यङनियमः ।
अमुस्मिन देश इति देशनियमः ।

[२२०।२२]
मासाद्यावदिति कालनियमः ।
अन्यत्र युद्धादिति समयनियमः ।

[२२०।२२-२२०।२३]
सुचरितमात्रं तु स्यात्तथा गृह्णतः ।

[२२०।२३]
कथमशक्येभ्यः संवरलाभः ।

[२२०।२३-२२०।२४]
सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् ।

[२२०।२४-२२०।२५]
यदि पुनः शक्येभ्य एव संवरो लभ्यते चयापचययुक्तः स्यात् ।

[२२०।२५]
शक्याशक्यानामितरेतरसंचारात् ।

[२२०।२५-२२०।२६]
एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य लाभत्यागौ स्यातामिति वैभाषिकाः ।

[२२०।२६]
नैवं भविस्यति ।

[२२०।२६-२२१।०१]
यथा ह्यपूर्वतृणाद्युत्पत्तौ शोषे वा संवरस्य वृद्धिह्लासौ न भवतस्तथा शक्याशक्यसंचारेऽपि न स्याताम् ।

[२२१।०१]
न सत्त्वानां पूर्वं पश्चाच्च भावात्तृणादीनां त्वभावात् ।

[२२१।०१-२२१।०२]
को न्वत्र विशेषो न वा भवेदसत्सु तृणादिषु संवरस्तद्वदशक्यो वा भवेत् ।

[२२१।०२-२२१।०४]
यदा च परिनिर्वृता न भवन्त्येव तदा कथं संवरह्लासो न स्यादिति नैष युक्तः परिहारः ।

[२२१।०४]
तस्मात्पूर्वक एव परिहारः साधुः ।

[२२१।०४-२२१।०६]
एवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रतिमोक्षसंवरस्या लाभात्कथं शीलन्यूनता न प्रसज्येत ।

[२२१।०६]
सर्वेषां सत्त्वेभ्यो लाभात् ।

[२२१।०६-२२१।०७]
यदि हि तेऽप्यभविष्यं स्तेभ्योऽपि तेऽलप्स्यन्त ।

[२२१।०७]
उक्तं यतः संवरो लभ्यते ।

[२२१।०८]
असम्वरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ४.३६ ॥

[२२१।०९]
असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते सर्वकर्मपथेभ्यश्च ।

[२२१।०९-२२१।१०]
नास्ति हि विकलेनासंवरेणासंवरिकः ।

[२२१।१०]
न तु सर्वकारणैर्युगपत्मृद्वादिचित्तासंभवात् ।

[२२१।१०-२२१।१२]
यो मृदुना चित्तेनासंवरं प्रतिलभते सोऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद्व्यपरोपयन्मृदुनैवा संवरेण समन्वागतो भवत्यधिमात्रया तु प्राणातिपातविज्ञप्त्या ।

[२२१।१२-२२१।१३]
एवं मध्याधिमात्रेण योज्यम् ।

[२२१।१३-२२१।१५]
तत्रेमे आसंवरिकास्तद्यथा औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुनिका मात्सिका मृगलुब्धकाश्चौरा वध्यघातका बन्धनपालका नागबन्धकाः श्वपाका वागुरिकाश्च ।

[२२१।१५-२२१।१६]
राजानो दण्डनेतारो व्यावहारिकाश्चार्थत आसंवरिकाः असंवरे भवत्वात्तत्रस्हतया असंवर एषामस्तीति आसंवरिका वा ।

[२२१।१६-२२१।१७]
उरभ्रान् घ्नन्तीति औरभ्रिकाः ।

[२२१।१७]
एवमन्येऽपि योज्याः ।

[२२१।१७-२२१।१८]
युक्तस्तावत्संवरस्य सर्वसत्त्वेभ्यो लाभः ।

[२२१।१८]
सर्वसत्त्वहिताध्याशयेन ग्रहणात् ।

[२२१।१८-२२१।२०]
औरभ्रिकादीनां तु मातापितृपुत्रदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां कथमसंवरः सर्वसत्त्वेभ्यो युज्यते ।

[२२१।२०]
मात्रादीनपि हि त उरभ्रीभूतान् हन्युः ।

[२२१।२०-२२१।२१]
न हि तावत्ते त एव इति विद्वांसो हन्युः ।

[२२१।२१-२१२।२२]
आर्यीभूतानां च पुनः पशु भवितुं नास्त्यवकाश इति तेभ्यः कथं स्यात् ।

[२२१।२२-२२१।२३]
यदि चा नागतात्मभावापेक्षया वर्त्तमानादसंवृतः स्यादुरभ्रादीनपि ते पुत्रीभूतात्सर्वथा न हन्युरिति इन स्यात्तेभ्य्योऽसंवरः ।

[२२१।२३-२२२।०१]
कथं हि नाम जिघांसतामेव तेभ्यो न स्यादसंवरः ।

[२२२।०१]
एतन्मात्रादिषु समानम् ।

[२२२।०१-२२२।०२]
कथं हि नामाजिघांसतामेव तेभ्यः स्यादसंवर इति ।

[२२२।०२]
यश्चौरभ्रिको जन्मनाप्यादत्ते स्वदारपरितुष्टो मूकश्च ।

[२२२।०३]
कथमस्य पूर्वङ्गेभ्योऽसंवरः स्यात् ।
आशयस्याविपन्नत्वात् ।

[२२२।०३-२२२।०४]
मूकोऽपि च वाक्प्रापणीयमर्थं कायेन प्रापयितुं शक्त इति ।

[२२२।०४-२२२।०५]
यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते ।

[२२२।०५]
सर्वथा नास्ति विकलः प्रादेशिकश्चासंवरिक इति वैभाषिकाः ।

[२२२।०५-२२२।०७]
यथा भ्युपगमं विकलोऽपि स्यात्प्रादेशिकोऽप्यसंवरः संवरश्चान्यत्राष्टविधादिति सौत्रान्तिकाः ।

[२२२।०७]
तन्मात्रशील दौःश्लील्यप्रतिबन्धात् ।

[२२२।०८]
उक्तमिदमसंवरस्य येभ्यो लाभः ।
कथं तु लाभ इति नोक्तम् ।
तत इदमुच्यते ।

[२२२।०९]
असंवरस्य क्रियया लाभोऽभ्युपगमेन वा ।

[२२२।१०]
द्वाभ्यां कारणाभ्यामसंवरो लभ्यते ।

[२२२।१०-२२२।११]
वधप्रयोगक्रियया तत्कुलीनैः तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः ।

[२२२।११]
वयमप्यनया जीविकया जीविष्याम इति ।

[२२२।१२]
शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् ॥ ४.३७ ॥

[२२२।१३]
क्षेत्रं वा तद्रूपं भवति यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते ।

[२२२।१३-२२२।१४]
यथौपधिकेषु पुण्यक्रियावस्तुषु ।

[२२२।१४-२२२।१५]
अथवा समादानमादत्ते बुद्धमवन्दित्वा न भोक्ष्ये तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि ।

[२२२।१५-२२२।१६]
आदरेण तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतोऽस्याविज्ञप्तिरुत्पद्यते ।

[२२२।१६-२२२।१७]
उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलम्भः ।

[२२२।१८]
त्याग इदानीं वक्तव्यः ।
तत्र तावत्

[२२२।१९-२२२।२०]
प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् ॥ ४.३८ ॥

[२२२।२१]
दाम्यन्त्यनेनेति दमः संवरोऽभिप्रेतस्तेनेन्द्रियदमनात् ।

[२२२।२१-२२२।२२]
चतुर्भिः कारणैः प्रातिमोक्षसंवरस्य त्यागः ।

[२२२।२२]
स्थापयित्वोपवासम् ।

[२२२।२२-२२२।२४]
शिक्षापदानां विज्ञपुरुषस्यान्तिके प्रत्याख्यानदाशयतः निकायसभागत्यागात्युगपदु भयव्यञ्जनप्रादुर्भावात्कुशलमूलसमुच्छेदाच्च ।

[२२२।२४]
उपवाससंवरस्य त्वेभिश्चतुर्भिरारात्रिक्षयाच्च ।

[२२२।२४-२२२।२५]
तान्येतान्यभिसमस्य पञ्च त्यागकारणानि भवन्ति ।

[२२२।२५-२२२।२६]
किं पुनः कारणमेभिः कारणैस्त्यागो भवति ।

[२२२।२६-२२२।२७]
समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयविकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च ।

[२२३।०१]
पतनीयेन चेत्येके

[२२३।०२]
अन्ये पुनराहुश्चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति ।

[२२३।०३]
सद्धमन्तिर्धितोऽपरे ।

[२२३।०४]
सद्धर्मस्यान्तर्धानादित्यपरे ।

[२२३।०४-२२३।०५]
यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः प्रतिप्रस्रभ्यन्त इति ।

[२२३।०६]
धनर्णवत्तु काद्मीरैरापन्नस्येष्यते द्वयम् ॥ ४.३९ ॥

[२२३।०७]
काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति ।

[२२३।०७-२२३।०८]
न मौलीमध्यापत्तिमा पन्नस्यास्ति भिक्षुसंवरत्यागः ।

[२२३।०८]
किं कारणम् ।
न ह्येकदेशक्षोभात्कृत्स्न संवरत्यागो युक्त इति ।

[२२३।०९]
नैव चान्यामप्यापत्ति मापन्नस्यास्ति शीलच्छेदः ।
किं तर्हि ।

[२२३।०९-२२३।१०]
द्वयमस्य भवति शीलं दौःशील्यं च ।

[२२३।१०]
यथा कस्यचिद्धनं स्यादृणं च ।

[२२३।१०-२२३।११]
आविष्कृतायां तु तस्यामापत्तौ शीलवान्भवति न दुःशीलो यथा ऋणं शोधयित्वा धनवान्भवति न त्वृणवानिति ।

[२२३।१२]
यत्तर्हि भगवतोक्तम् “भिक्षुर्भवत्यश्रमणोऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावात् ।”

[२२३।१३]
कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितमिति ।

[२२३।१३-२२३।१४]
परमार्थभिक्षुत्वं संधायैतदुक्तम् ।

[२२३।१४]
इदमभिसाहसं वर्तते ।
किमत्राभिसाहसम् ।

[२२३।१४-२२३।१५]
यत्भगवता नीतार्थं पुनरन्यथा नीयते ।

[२२३।१५]
दौःशील्याय च बहुक्लेशेभ्यः प्रत्यया दीयन्ते ।

[२२३।१५-२२३।१६]
कथमेत नीतार्थम् ।

[२२३।१६]
एष हि विनये निर्देषः ।
“चतुर्विधो भिक्षुः ।

[२२३।१७]
संज्ञाभिक्षुः प्रतिज्ञाभिक्षुर्भिक्षत इति भिक्षुर्भिन्नक्लेशत्वात्भिक्षुः ।

[२२३।१७-२२३।१८]
अस्मिंस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसंपन्नो भिक्षुरि”ति ।

[२२३।१८-२२३।२१]
न चासौ पूर्वं परमार्थभिक्षुरासीद्यतः पश्चादभिक्षुर्भवेत्यच्चोक्तमेकदेशक्षोभादिति अत्र शास्त्रैव दत्तोऽनुयोग “स्तद्यथा तालो मस्तकाच्छिन्नोऽभव्योऽङ्कुरितत्वाय अभव्यो विरुढिं वृद्धिं विपुलतामाप्तु” मित्युपमां कुर्वता ।

[२२३।२१]
कः पुनरूपमार्थः ।

[२२३।२१-२२३।२२]
एवमेकदेश स्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो विरोडुमिति ।

[२२३।२२-२२३।२४]
स च गुर्वीं भिक्षुभावमर्यादाभेदिनीं मौलीमापत्तिमापद्यमानस्तीव्रानपत्राप्ययोगात्संवरस्य मूलं च्छिनत्तीति युक्तः कृत्स्नसंवरत्यागः ।

[२२३।२३-२२४।०२]
यस्य चैकग्रासपरिभोगोऽप्येकपाद पार्ष्णिर्प्रदेशपरिभोगोऽपि च नाभ्यनुज्ञायते सांघिकयोराहारविहारयोः सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा यं चाधिकृत्योक्तम् ।

[२२४।०३-२२४।०४]
“नाशयत कारण्डवकं कशम्बकमपकर्षत ।
अथोत्प्लाविनं वाहयत अभिक्षुं भिक्षुवादिनम्”इति ॥

[२२४।०५]
तस्य कीदृशो भिक्षुभावः ।
यादृशस्तादृशोऽस्तु ।
अस्ति तु भिक्षुभावः ।

[२२४।०५-२२४।०६]
तथाहि “चत्वारः श्रमणा न पञ्चमोऽस्ति चुन्दे”ति

[२२४।०७]
भगवानवोचत्

[२२४।०८-२२४।०९]
“मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी” अस्त्येतदुक्तम् ।

[२२४।०९-२२४।१०]
स त्वेष आकृतिमात्रावशेषत्वाच्छमण उक्तो दग्धकाष्ठशुष्कह्लदशुकनाशा पूतिवीजालातचक्रमृतसत्त्ववत् ।

[२२४।१०-२२४।११]
यदि हि दौःशील्यादभिक्षुः स्यात्शिक्षादत्तको न स्यात् ।

[२२४।११]
न वयं ब्रूमः सहाध्यापत्त्या सर्वः पाराजिकः इति ।

[२२४।११-२२४।१२]
यस्तु पाराजिकः सोऽवश्यमभिक्षुः ।

[२२४।१२-२२४।१३]
कश्चित्तु संतानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छादनादिति व्यवस्थापितं धर्मस्वामिना ।

[२२४।१३-२२४।१४]
यदि तर्हि पाराजिको न भिक्षुः किं पुनर्न प्रव्राज्यते ।

[२२४।१४-२२४।१५]
तीव्रानपत्राप्यविपादितत्वात्संततेः संवराभव्यत्वान्न तु खलु भिक्षुभावापेक्षया ।

[२२४।१५]
तथा ह्यसौ निक्षिप्तशिक्षोऽपि न प्रव्राज्यते ।

[२२४।१५-२२४।१६]
कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतोऽपि भिक्षुर्नमोऽस्तु तस्मै तादृशाय भिक्षुत्वाय ।

[२२४।१७]
सद्धर्मान्तर्धाने बु विनयकर्माभावादपूर्वसंवरलाभो नास्ति ।

[२२४।१७-२२४।१८]
लब्धस्य तु नास्ति त्यागः ।

[२२४।१९]
अथ ध्यानानास्रवसंवरयोः कथं त्यागः ।

[२२४।२०]
भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् ।

[२२४।२१]
सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते ।

[२२४।२१-२२४।२२]
उपपत्तितो वा भूमिसंचारादूर्ध्वं चावश्यं परिहाणितो वा समापत्तेर्निकायसभागत्वाच्च किञ्चित् ।

[२२४।२३]
यथा च रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते

[२२४।२४]
तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः ॥ ४.४० ॥

[२२४।२५]
अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते ।

[२२४।२५-२२५।०१]
फलप्राप्तितः पूर्वको मार्गः परित्यक्ष्यते ।

[२२५।०१]
इन्द्रियोत्तापनेन मृद्धिन्द्रियमार्गः ।
परिहाणित उत्तरो मार्गः ।

[२२५।०१-२२५।०२]
फलं फलविशिष्टो वा ।

[२२५।०२]
एवं तावत्संवरास्त्यज्यन्ते ।

[२२५।०३]
असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः ।

[२२५।०४]
त्रिभिः कारणैरसंवरच्छेदः ।
संवरप्राप्तितः ।

[२२५।०४-२२५।०५]
यदि संवरं समादत्ते ध्यानसंवरं वा लभते ।

[२२५।०५]
हेतुप्रत्ययबलेन समाधिलाभात् ।
तेनासंवश्छिद्यते ।

[२२५।०५-२२५।०६]
प्रतिद्वन्द्वबलीयस्त्वात् ।

[२२५।०६]
मरणेनाश्रयत्यागात् ।
द्विव्यञ्जनोत्पादेनाश्रयविकोपनादिति ।

[२२५।०६-२२५।०७]
शस्त्रजालत्यागेऽप्यकरणाशयतः ।

[२२५।०७]
संवरमन्तरेणासंवरच्छेदो नास्ति ।

[२२५।०७-२२५।०८]
निदानपरिवर्जनेऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् ।

[२२५।०९-२२५।१०]
य आसंवरिक उपवासं गृह्णाति किमसौ तस्मात्संवरात्पुनरसंवरं गच्छत्याहोस्विन्नैवसंवरं नासंवरम् ।

[२२५।१०]
असंवरमित्येके ।
त्यागाशयस्यानात्यन्तिकत्वात् ।

[२२५।१०-२२५।११]
प्रदीप्तैवायःपिण्डः पुनः श्यामतां नाप्रयुज्यमानो गच्छतीत्यपरे ।

[२२५।११-२२५।१२]
तल्लाभस्य विज्ञप्त्यधीनत्वात् ।

[२२५।१३]
अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते ।

[२२५।१४]
वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा ॥ ४.४१ ॥

[२२५।१५-२२५।१६]
येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति तस्य च्छेदात्साऽपि च्छिद्यते ।

[२२५।१६]
कुम्भकारचक्रेषुगतिवत् ।
आदानत्यागादपि च्छिद्यते ।

[२२५।१७]
यदि समादानं त्यजत्यलं समादानेनेति ।

[२२५।१७-२२५।१८]
क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः ।

[२२५।१८]
अर्थविच्छेदादपि विच्छिद्यते ।
कतमस्यार्थस्य ।

[२२५।१८-२२५।१९]
चैत्यारामविहारशयनासन यन्त्रजालादिनो वस्तुनः ।

[२२५।१९-२२५।२०]
आयुषोऽपि कुशलल्मूलानामपि च्छेदाद्विच्छिद्यते ।

[२२५।२०-२२५।२१]
यदा कुशलमूलानि समुच्छेत्तुमारभत इत्येभिः षद्भिः कारणैरविज्ञप्तिर्मध्यमा त्यज्यते ।

[२२५।२२]
कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः ।

[२२५।२३]
कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते ।

[२२५।२३-२२५।२४]
कुशलमूलसमुच्छेदाद्रूपारूप्यधातूपपत्तितो वा ।

[२२५।२५]
प्रतिपक्षोदयात्क्लिष्टमरूपं तु विहीयते ॥ ४.४२ ॥

[२२६।०१]
क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते ।

[२२६।०१-२२६।०२]
यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते नान्यथा ।

[२२६।०३]
अथ केषां सत्त्वानामसंवरो भवति केषां संवरः ।

[२२६।०४]
नृणामसंवरो हित्वा शण्डपण्डद्विधाकृतीन् ।

[२२६।०५]
कुरुंश्च

[२२६।०६]
मनुष्यगतावेवासंवरो नान्यत्र ।

[२२६।०६-२२६।०७]
तत्रापि शण्ढपण्डकोभयव्यञ्जनानुतरकौरवांश्च हित्वा ।

[२२६।०८]
संवरोऽप्येवं देवानां च

[२२६।०९]
संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः ।

[२२६।०९-२२६।१०]
शण्ढादीनां संवरो नास्तीति कथं गम्यते ।

[२२६।१०]
सूत्राद्विनयाच्च ।

[२२६।१०-२२६।१२]
सूत्र उक्तं यतश्च महानाम गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते उपासकं मां धारय इयता चोपासको भवती”ति ।

[२२६।१२-२२६।१३]
विनयेऽपि तद्रूपो नाशयितव्य उक्तः ।

[२२६।१३]
किं पुनः कारणमेषां संवरो नास्ति ।

[२२६।१३-२२६।१४]
उभयाश्रयक्लेशाधिमात्रतया प्रतिसंख्यानाक्षमत्वात्तीव्रह्रीव्यपत्राप्याभावाच्च ।

[२२६।१४]
असंवरस्तर्हि कस्मान्नास्ति ।

[२२६।१४-२२६।१५]
पापेऽप्यस्थिराशयत्वात् ।

[२२६।१५]
यत्रैअव च संवरस्तत्रासंवरोऽपि प्रतिद्वन्द्वभावात् ।

[२२६।१५-२२६।१६]
उत्तरकोरवाणां समादानसमाध्यभावात्पापक्रियाशयाभावाच्च संवरासंवराभावः ।

[२२६।१६-२२६।१७]
आपायिकानामपि तीव्रं ह्रीव्यपत्राप्यं नास्ति यद्योगाद्यद्विपादनाच्च संवरासंवरौ स्याताम् ।

[२२६।१८-२२६।२०]
अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः शण्डपण्डकोभयव्यञ्जनोत्तरकौरवापायिकानां यत्राश्रये संवरो पि न विरोहत्यसंवरोऽप्यूषर इव क्षेत्रे सस्यमप्यतिमात्रं कक्वमपीति ।

[२२६।२०-२२६।२१]
यत्तर्हि सूत्र उक्तम् “अण्डजो भिक्षवो नागोऽष्टम्यां पक्षस्य भावनादभ्युद्गम्याष्टाङ्गसमन्वागतमुपवासमुपवसती”ति ।

[२२६।२२]
सुचरितमात्रं तत्तेषां न संवरः ।
तस्मादेवमनुष्याणामेव संवरः ।
तत्र पुनः

[२२६।२३]
नृणां त्रयः ॥ ४.४३ ॥

[२२६।२४]
मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते ।

[२२६।२५]
कामरूपजदेवानां ध्यानजः

[२२६।२६]
ध्यानसंवरः कामरूपधातूपपन्नानां देवानामुर्ध्वं नास्ति ।

[२२६।२७]
अनास्रवः पुनः ।

[२२७।०१]
ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम् ॥ ४.४४ ॥

[२२७।०२-२२७।०३]
अनास्रवसंवरस्तु कामरूपधातूपपन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्वोपपन्नान्वर्जयित्वा ।

[२२७।०३]
आरूप्योपपन्नानामपि तेषां तु समन्वागमतोऽस्ति न संमुखीभावतः ।

[२२७।०४]
अतः परमिदानीं कर्मनिर्देशाधिकारात्सूत्रीद्दिष्टानां कर्मणां निर्देष आरप्स्यते ।

[२२७।०५]
त्रीणि कर्माणि ।
कुशलं कर्माकुशलमव्याकृतं कमेति ।
तत्र

[२२७।०६]
क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् ।

[२२७।०७]
इदं कुशलादीनां लक्षणम् ।

[२२७।०७-२२७।०८]
क्षेमं कर्म कुशलं यदिष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात् ।

[२२७।०८-२२७।०९]
तत्कालमत्यन्तं च अक्षेममकुशलं क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः ।

[२२७।०९-२२७।१०]
ताभ्यामितरत्कर्म नैव क्षेमं नाक्षेमं यत्तत्कुशलाकुशलाभ्यामितरत्वेदितव्यम् ।

[२२७।१०]
अव्याकृतमित्यर्थः ।
पुनः

[२२७।११]
पुण्यापुण्यमविञ्जं च सुखवेद्यादि च त्रयम् ॥ ४.४५ ॥

[२२७।१२]
त्रीणी कर्माणि पुण्यमपुण्यमानेञ्जं च ।
पुनः त्रीणि ।

[२२७।१२-२२७।१३]
सुखवेदनीयं कर्म दुःखवेदनीयमदुःखासुखवेदनीयं च ।

[२२७।१३]
तत्र तावत्

[२२७।१४]
कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् ।

[२२७।१५]
शुभमिति वर्तते ।
रूपारूप्यावचरं कुशलं कर्मानेञ्जम् ।

[२२७।१५-२२७।१६]
ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता ।

[२२७।१६-२२७।१७]
“यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुरित्येवमादि ।

[२२७।१७]
समादौ सापक्षालतां तेषामधिकृत्यैवमुक्तम् ।

[२२७।१८]
आनिञ्जान्यपि तु तान्युक्तान्यानिञ्जसूत्रे ।

[२२७।१८-२२७।१९]
आनिञ्जसंप्रेयगामिनीं प्रतिपदमारभ्य ।

[२२७।१९]
किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्जमुक्तम् ।

[२२७।२०]
तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति ॥ ४.४६ ॥

[२२७।२१]
कामावचरं हि विपाकं प्रति कम्पते ।
कथं कम्पते ।
अव्यवस्थानात् ।

[२२७।२१-२२७।२२]
अन्यगति कमपि ह्यन्यस्यां गतौ विपच्यते ।

[२२७।२२]
अन्यदेवनैकायिकं चान्य देवनिकाये ।

[२२७।२२-२२७।२४]
यदेव हि प्रमाणबलवर्णकर्मान्यभूमिक सुखभोगादि संवर्तनीयं कर्म देवेषु विपच्यते तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यकप्रेतेषु विपच्यते ।

[२२७।२४-२२७।२५]
रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते ।

[२२७।२५-२२८।०१]
तस्माद्व्यवस्थितविपाकत्वादानेञ्जमित्युच्यते ।

[२२८।०१]
अपुण्यं तु कर्माकुशलमिति प्रसिद्धं लोके ।

[२२८।०२]
यश्च लोकतोऽर्थः प्रसिद्धः किं तत्र यत्नेन ।
कृतः पुण्यादीनां कर्मणां निर्देशः ।

[२२८।०३]
सुखवेदनीयादीनां कर्तव्यः ।
स एष क्रियते ।

[२२८।०४]
सुखवेद्यं शुभं ध्यानादातृतीयात्

[२२८।०५]
कुशलं कर्म सुखवेदनीयं यावत्तृतीयाद्ध्यानात् ।

[२२८।०५-२२८।०६]
एषा हि भूमिः सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि ।

[२२८।०७]
अतः परम्

[२२८।०८]
अदुःखासुखवेद्यं तु

[२२८।०९]
शुभमिति वर्तते ।

[२२८।०९-२२८।१०]
तृतीयध्यानात्परेण कुशलं कर्मादुःखासुखवेदनीयं सुखदुःखवेदनाऽभावात् ।

[२२८।११]
दुःखवेद्यमिहाशुभम् ॥ ४.४७ ॥

[२२८।१२]
अकुशलं कर्म दुःखवेदनीयम् ।
इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् ।

[२२८।१२-२२८।१३]
न चैषां वेदनैव फलम् ।

[२२८।१३]
किं तर्हि ।
ससंभारा ।

[२२८।१४]
अधोऽपि मध्यमस्त्येके ।

[२२८।१५]
अन्ये पुनराहुः तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तमेतच्चतुर्थध्यानादधोऽप्यस्ति ।

[२२८।१६]
किं कारणम् ।

[२२८।१७]
ध्यानान्तरविपाकतः ।

[२२८।१८]
इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्ध्यानान्तरं वा कस्यचित्कर्मणः ।

[२२८।१८-२२८।१९]
तत्र सुखदुःखयोरभावात् ।

[२२८।१९]
ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रीयं विपाक इत्येके ।

[२२८।१९-२२८।२०]
नैव तस्य वेदना विपाक इत्यपरे ।

[२२८।२०]
तदेतदुच्छास्त्रम् ।

[२२८।२०-२२८।२१]
शास्त्रे हि पठितं “स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत ।

[२२८।२१]
स्यात्कुशलस्यावितर्कस्य कर्मण” इति ।

[२२८।२२]
अपुर्वाचरमः पाकस्त्रयाणां चेष्यते यतः ॥ ४.४८ ॥

[२२८।२३]
यतश्चोक्तं सूत्रे “स्यात्त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत ।

[२२८।२३-२२८।२४]
स्यात्सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः ।

[२२८।२४-२२८।२५]
अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता” इत्यतोऽप्यस्त्यदुःखासुखवेदनीयं कर्माधस्तात् ।

[२२८।२५-२२९।०१]
नहि कामधातोरन्यत्रास्ति युगपत्कर्मत्रयस्य विपाके संयोगः ।

[२२९।०१]
किमिदानीं तत्कुक्शलमाहोस्विदकुशलम् ।

[२२९।०१-२२९।०२]
दुर्बलं तु तत् ।

[२२९।०२-२२९।०३]
एवं तर्हि “सुखवेद्यं शुभं ध्यानादातृतीया” “दिष्ट-विपाकं च कुशल” मित्यस्य विरोधः ।

[२२९।०३]
बाहुलिक एष निर्देशो द्रष्टव्यः ।

[२२९।०३-२२९।०४]
कथं पुनरवेदनास्वभावं कर्म सुखादिवेदिनीयमित्युच्यते ।

[२२९।०४-२२९।०५]
सुखवेदनायै हितं सुखवेदनोयं सुखोऽस्य वेदनीय इति वा ।

[२२९।०५]
कश्च वेदनीयः ।
यो विपाकः ।

[२२९।०५-२२९।०६]
स ह्यसौ विद्यते सुखस्य वा वेदनीयं येन सुखं वेदयते ।

[२२९।०६]
स्नानीयकपायवत् ।

[२२९।०६-२२९।०७]
एवं दुःखवेदनीयमदुःखासुखवेदनीयं च द्रष्टव्यम् ।

[२२९।०७]
अपि च ।

[२२९।०८-२२९।०९]
स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः ।
संमुखीभावतश्चेति पञ्चधा वेदनीयता ॥ ४.४९ ॥

[२२९।१०]
स्वभाववेदनीयता वेदनानाम् ।
स्वभावेनैव वेदनीयत्वात् ।

[२२९।१०-२२९।११]
संप्रयोगवेदनीयता स्पर्शस्य ।

[२२९।११]
“सुखवेदनीयः स्पर्शः” इति ।
आलम्बनवेदनीयता विषयाणाम् ।

[२२९।११-२२९।१३]
यथोक्तं “चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसंवेदी भवति नोतु रूपरागप्रतिसंवेदी”त्येवमादि ।

[२२९।१३]
वेदनया हि तामालम्बमानः प्रतिसंवेदयते ।

[२२९।१३-२२९।१४]
विपाकवेदनीयता कर्मणः ।

[२२९।१४]
“दृष्टधर्मवेदनीयं कर्मे”ति विस्तरः ।
संमुखीभाववेदनीयता ।

[२२९।१५-२२९।१६]
यथोक्तं “यस्मिन् समये सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवत” इति ।

[२२९।१६-२२९।१७]
नहि यस्मिन्समये सुखा वेदना वर्तते तस्मिन्पुनरन्या वेदनाऽस्ति स यां तां वेदयते ।

[२२९।१७]
संमुखीकुर्वस्तु तां वेदयत इत्युच्यते ।

[२२९।१७-२२९।१८]
अतो विपाकस्य वेदनीयत्वात्कर्माप्युच्यते सुखवेदनीयमित्येवमादि ।

[२२९।१९]
नियतानियतं तच्च

[२२९।२०]
तच्चैतत्सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम् ।

[२२९।२०-२२९।२१]
नावश्यवेदनीयमनियतम् ।

[२२९।२२]
नियतं त्रिविधं पुनः ।

[२२९।२३]
दृष्टधर्मादिवेद्यत्वात्

[२२९।२४-२२९।२५]
दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं चेत्येतत्त्रिविधं कर्म नियतमित्येतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन ।

[२२९।२६]
पञ्चधा कर्म केचन ॥ ४.५० ॥

[२२९।२७]
अपरे पुनः पञ्चविधं कर्मेच्छन्ति ।
अनियतवेदनीयं द्विधा कृत्वा ।

[२२९।२७-२३०।०१]
विपाकेन नियतमनियतं चेति ।

[२३०।०१]
तत्र दृष्टधर्मवेदनीयं यत्र जन्मनि कृतं तत्रैव विपच्यते ।

[२३०।०१-२३०।०२]
उपपद्यवेदनीयं द्वितीये जन्मनि ।

[२३०।०२]
अपरपर्यायवेदनीयं तस्मात्परेण ।

[२३०।०२-२३०।०४]
जन्मान्तरेऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात्तन्नामव्यवस्थानमित्यपरे ।

[२३०।०४]
मा भूद्यदेवमिष्टकर्म तस्याल्पिष्ठो विपाकः इति ।

[२३०।०४-२३०।०५]
तदेवं नेच्छन्ति वैभाषिकाः ।

[२३०।०५-२३०।०६]
अस्ति हि कर्म संनिकृष्टफलं न विप्रकृष्टफलमस्ति विपर्ययाद्बाह्यबीजवत् ।

[२३०।०६-२३०।०७]
यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति यवगोधूमादयः षड्भिर्मासैरिति ।

[२३०।०८]
चतुष्कोटिकमित्यन्ये

[२३०।०९]
दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति ।
अस्ति कर्मावस्थानियतं न विपाके नियतम् ।

[२३०।१०]
यत्कर्म दृष्टधर्मादिवेदनीयं विपाकेऽनीयतम् ।
अस्ति विपाके नियतं नावस्थायाम् ।

[२३०।११]
यत्कर्मानियतवेदनीयं विपाके नियतम् ।

[२३०।११-२३०।१२]
अस्त्युभयनियतं यदृष्टधर्मादिवेदनीयं विपाके नियतम् ।

[२३०।१२]
अस्ति नोभयनियतं यत्कर्मानियतवेदनीयं विपाके अनियतम् ।

[२३०।१३]
तेषां तत्कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च ।
एवं यावदनियतवेदनीयम् ।

[२३०।१४]
नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति ।

[२३०।१४-२३०।१५]
स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् ।

[२३०।१५-२३०।१६]
स्यात्त्रिषु परं प्रयोज्य काममिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत्समाप्तौ ।

[२३०।१६]
एषां च पुनश्चतुर्णां कर्मणाम् ।

[२३०।१७]
निकायाक्षेपणं त्रिभिः ।

[२३०।१८]
नहि दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते ।

[२३०।१९]
कतमस्मिन्धातौ कतिविधं कर्माक्षिप्यते कस्यां वा गतौ ।

[२३०।२०]
सर्वत्र चतुराक्षेपः ।

[२३०।२१-२३०।२२]
सर्वेषु त्रिषु धातुषु सर्वासु च गतिषु चतुर्णां कर्मणामाक्षेपः कुशलानामकुशलानां च यथासंभवम् ।

[२३०।२२]
अस्योत्सर्गस्यायमपवादः ।

[२३०।२३]
शुभस्य नरके त्रिधा ॥ ४.५१ ॥

[२३०।२४]
नरकेषु कुशलस्य कर्मणस्त्रिविधस्या क्षेपो न दृष्टधर्मवेदनीयस्य ।

[२३०।२४-२३०।२५]
तत्रेष्टविपाकाभावात् ।

[२३०।२६]
यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् ।

[२३०।२७-२३०।२८]
यतो भूमेः वीतरागपृथग्जनो भवत्यसौ च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेदनीयं कर्म न करोति ।

[२३०।२८]
किमन्यत्करोति ।

[२३१।०१]
नान्यवेद्यकृदप्यार्यः

[२३१।०२]
थर इति वर्तते ।

[२३१।०२-२३१।०३]
आर्यपुद्गलस्तु यतो वीतरागो न च परिहाणधर्मा स तत्रोपपद्यदनीयं चापरपर्यायवेदनीयं च कर्म न करोति ।

[२३१।०३-२३१।०४]
न ह्यसौ भव्यः पुनराधस्तनीं भूमिमायातुमनियतं कुर्याद्दृष्टधर्मवेदनीयं चात्रोपपन्नः ।

[२३१।०५]
कामेऽग्रे वाऽस्थिरोऽपि न ॥ ४.५२ ॥

[२३१।०६-२३१।०७]
परिहाणधर्मापि त्वार्यपुद्गलः कामधातोर्भवाग्रा द्वीतरागः तयोरूपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्त्तुम् ।

[२३१।०७]
किं कारणम् ।
फलाद्धि स परिहीणो भवति ।

[२३१।०७-२३१।०८]
न चास्ति लपरिहीणस्य कालक्रियेति पश्चात्प्रवेदयिष्यामः ।

[२३१।०९]
किमन्तराभवेऽप्यस्ति कर्मण आक्षेपः ।
अस्तीत्याह ।

[२३१।१०]
द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः ।

[२३१।११]
गामावचरो ह्यन्तराभवो द्वाविंशतिविधं कर्माक्षिपति ।
कथं कृत्वा ।

[२३१।११-२३१।१२]
पञ्च हि गर्भावस्थाः ।

[२३१।१२]
कललार्वुदपेशीघनप्रशाखावस्थाः ।
पञ्च जातावस्थाः ।

[२३१।१२-२३१।१३]
बालकुमारवमध्यवृद्धावस्थाः ।

[२३१।१३]
तत्रान्तराभवः कललवेदनीयं कर्माक्षिपत्यनियतं नियतं च ।

[२३१।१४]
एवं यावद्वृद्धवेदनीयमन्तराभववेदनीयं च ।

[२३१।१५]
दृष्टधर्म फलं तच्च

[२३१।१६]
तच्चैतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्वेदितव्यम् ।

[२३१।१७]
किं कारणम् ।

[२३१।१८]
निकायो ह्येक एव सः ॥ ४.५३ ॥

[२३१।१९-२३१।२०]
एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तो यश्चान्तराभवो याश्च तदन्वया दशावस्थाः ।

[२३१।२०]
अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम् ।

[२३१।२०-२३१।२१]
उपपद्यवेदनीयेन च तस्याक्षेपात् ।

[२३१।२२]
कीदृशं कर्म नियतं वेदितव्यम् ।

[२३१।२३-२३१।२४]
तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् ।
गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत् ॥ ४.५४ ॥

[२३१।२५-२३२।०१]
यद्धि कर्म तीव्रेण क्लेशेन कृतं यच्च तीव्रेण प्रसादेन यच्च सातत्येन गुनक्षेत्रे च तन्नियतं वेदितव्यम् ।

[२३२।०१]
तत्र गुणक्षेत्रं त्रीणि रत्नानि ।

[२३२।०१-२३२।०२]
पुद्गलविशेषो वा कश्चित्फलसमापत्तिविशेषप्राप्तः ।

[२३२।०२-२३२।०३]
तत्र ह्यन्तरेणापि तीव्रक्लेशप्रसादानां सातत्यं च कुशलमकुशलं च कर्म नियतं संपद्यते ।

[२३२।०३]
पितरौ पुनर्माता च पिता च ।

[२३२।०४]
तयोश्चापि यत्र घातिकं कर्म यथा तथा वा तन्नियतं संपद्यते नान्यत् ।

[२३२।०५]
अथ दृष्टधर्मवेदनीयं कर्म कीदृशं वेदितव्यम् ।

[२३२।०६]
दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः ।

[२३२।०७]
दृष्टधर्मवेदनीयं कर्म क्षेत्रविशेषाद्वा भवति ।

[२३२।०७-२३२।०८]
यथा संघस्त्रीवादसमुदाचाराद्व्यञ्जनपरिवृत्तिः श्रूयते ।

[२३२।०८]
आशयविशेषाद्वा ।

[२३२।०८-२३२।०९]
यथा शण्ढस्य गवामपुंस्त्वप्रतिमोक्षणात्पुम्भावः ।

[२३२।०९]
अथवा

[२३२।१०]
तद्भूम्यत्यन्तवैराग्यात्

[२३२।११-२३२।१२]
तस्य वा कर्मणो या भूमिः कुशलस्याकुशलस्य वा ततोऽत्यन्तवैराग्यात्तत्कर्म दृष्टधर्मवेदनीयं कर्म संपद्यते ।

[२३२।१२]
तस्यां भूमौ जातस्य कीदृशं कर्मेत्याह

[२३२।१३]
विपाके नियतं हि यत् ॥ ४.५५ ॥

[२३२।१४]
यद्धि कर्म नियतं विपाके न त्ववस्थायां नाप्यनियतं तत्यैष नियमः ।

[२३२।१४-२३२।१५]
यत्पुनरवस्थान्तरनियतं तस्य तत्रैव नियतो विपाकस्तद्वतोऽत्यन्तवैराग्यासंभवात् ।

[२३२।१५-२३२।१६]
यच्चानियतं तस्याविपाक एवात्यन्तवैराग्यात् ।

[२३२।१७]
कीदृशं पुनः क्षेत्रं यत्रावश्यं दृष्टधर्मवेदनीयं कर्म संपद्यते ।
आह ।

[२३२।१७-२३२।१८]
बुद्धप्रमुखो भिक्षुसंघः पुद्गलास्तु पञ्च ।

[२३२।१९-२३२।२०]
ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः ।
तेषु कारापकारस्य फलं सद्योऽनुभूयते ॥ ४.५६ ॥

[२३२।२१]
निरोधसमापत्तिव्युत्थितः परां चित्तशान्तिं लभते ।
निर्वाणसदृशत्वात्समापत्तेः ।

[२३२।२२]
स हि गतप्रत्यागत एव निर्वाणाद्भवति ।

[२३२।२२-२३२।२३]
अरणाव्युत्थितस्याप्रमाणसत्त्वारणाहिताध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिर्वर्तते ।

[२३२।२३-२३२।२५]
मैत्रीव्युत्थितस्याप्रमाणसत्त्वसुखाध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिवर्तते ।

[२३२।२५-२३२।२६]
दर्शनमार्गव्युत्थितस्याशेषदर्शनप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिनिर्मला संततिर्वर्तते ।

[२३२।२६-२३२।२७]
अर्हत्फलव्युत्थितस्याशेषभावनाप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिशुद्धा संततिर्वर्तते ।

[२३२।२७-२३३।०१]
अत एतेषु कृतानां कारापकाराणां फलं दृष्ट एव धर्मे नियतं प्राप्यते ।

[२३३।०१-२३३।०३]
शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्व्युत्थितानां न तथा प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसंततिर्वर्तत इति न ते तथा पुण्यक्षेत्रं भवति ।

[२३३।०४]
विपाकः पुनर्वेदनाप्रधानः ।
तदिदानीं विचार्यते ।

[२३३।०४-२३३।०५]
स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत न कायिकी ।

[२३३।०५-२३३।०६]
स्यात्कायिक्येव न चैतसिकी स्यादित्याह

[२३३।०७-२३३।०८]
कुक्शलस्यावितर्कस्य कर्मणो वेदना मता ।
विपाकश्चैतसिक्येव

[२३३।०९]
अवितर्कं कर्म ध्यानान्तरात्प्रभृति यावत्भवाग्रे ।

[२३३।०९-२३३।१०]
तस्यावितर्कस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः ।

[२३३।१०]
कस्मान्न कायिकी ।

[२३३।१०-२३३।११]
तस्या अवश्यं सवितर्कविचारत्वात् ।

[२३३।१२]
कायिक्येवाशुभस्य तु ॥ ४.५७ ॥

[२३३।१३]
अकुशलस्य कर्मणः कायिक्येव वेदना विपाकः ।
कस्मान्न चैतसिकी ।

[२३३।१३-२३३।१५]
तस्य हि दुःखा वेदना विपाकश्चैतसिकी च दुःखा वेदना दौर्मनस्यं न च दौर्मनस्यं विपाक इति व्याख्यातमेतत् ।

[२३३।१६]
यत्तर्हि सत्त्वानां चित्तक्षेपो भवति ।
कतमस्मिन्नसौ चित्ते भवति केन वा कारणेन ।

[२३३।१७]
चित्तक्षेपो मनश्चित्ते ।

[२३३।१८]
मनोविज्ञान इत्यर्थः ।
नहि पञ्चसु विज्ञानकायेषु चित्तं क्षिप्यते ।
अविकल्पकत्वात् ।

[२३३।१९]
स च कर्मविपाकजः ।

[२३३।२०]
स चैष चित्तक्षेपः सत्त्वानां कर्मजः ।

[२३३।२०-२३३।२३]
ये हि द्रव्यमन्त्रप्रयोगेण वा परेषां चित्तं क्षेपयन्ति अकामकं वा विषं मद्यं वा पाययन्ति त्रासयन्ति वा मृगयादिष्वग्निं वा दावेषुत्सृजन्ति प्रपाताद्वा पातयन्त्यन्येन वा केनचित्परेषां स्मृतिं भ्रंशयन्ति तेषां तस्य कर्मणो विपाकेनायत्यां चित्तं क्षिप्यते ।

[२३३।२४]
भयोपघातवैषम्यशोकैश्च

[२३३।२५]
कथं तावद्भयेन ।

[२३३।२५-२३३।२६]
अमनुष्यादयो मनुष्यान्विरूपेण रूपेणोपसंक्रामन्ति ।

[२३३।२६]
तेभ्यो भीतानां चित्तं क्षीप्यते ।
कथमुपघातेन ।

[२३३।२६-२३४।०१]
अमनुष्या एव कुपिता मनुष्याणां मर्मसु प्रहरन्ति ।

[२३४।०१]
कथं महाभूतवैषम्येण ।

[२३४।०१-२३४।०२]
वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते ।

[२३४।०२]
कथं शोकेन ।
यथा वासिष्ठीप्रभृतीनाम् ।

[२३४।०२-२३४।०३]
यदि मनो विक्षिप्यते कर्मविपाकजश्च चित्तक्षेपः ।

[२३४।०३]
कथं न चैतसिकी वेदना विपाकः प्राप्नोति ।

[२३४।०३-२३४।०४]
नहि ब्रूमस्तदेव चित्तविपाक इत्यपि तु यो महाभूतानां प्रकोपः स विपाकः ।

[२३४।०४-२३४।०५]
तस्माज्जातमतो विपाकजम् ।

[२३४।०५-२३४।०६]
कर्मजेन हि धातुना वैषम्येण व्याकुलमवशं भ्रष्टस्मृतिकं चित्तं वर्तत इति क्षिप्तमित्युच्यते ।

[२३४।०६]
एवं चेदं चतुष्कोटिकं युज्यते ।

[२३४।०६-२३४।०७]
अस्ति चित्तं क्षिप्तं न विक्षिप्तमिति विस्तरः ।

[२३४।०७]
क्षिप्तं तावन्न क्षिप्तं विक्षिप्तचित्तस्य ।

[२३४।०७-२३४।०८]
क्लिष्टं चित्तं विक्षिप्तं न क्षिप्तं स्वस्थचित्तस्य क्लिष्टम् ।

[२३४।०८]
उभयं क्षिप्तचित्तस्य क्लिष्टम् ।

[२३४।०९]
नोभयं स्वस्थचित्तस्याक्लिष्टम् ।

[२३४।१०]
कतमेषां पुनः सत्त्वानां चित्तं क्षिप्यते ।

[२३४।११]
अकुरुकामिनाम् ॥ ४.५८ ॥

[२३४।१२]
अकुरुणां कामिनाम् ।
देवेष्वपि हि देव ।
उन्मत्ताः सन्ति प्रागेव मनुष्यतिर्यक्प्रेतेषु ।

[२३४।१३]
नारकास्तु नित्यं क्षिप्तचित्ता एव ।

[२३४।१३-२३४।१५]
ते हि विविधयातनासहस्रव्यतिभिन्नमर्माणस्तीर्वाभिर्वेदनाभिरभितुन्ना आत्मानमपि तावन्नाभिचेतयन्ति किं पुनः कार्यमकार्यं वा ।

[२३४।१५]
हाचित्तपरिदेवकश्चात्र नारक उदाहार्यः ।

[२३४।१५-२३४।१६]
आर्याणामपि चित्तं क्षिप्यते भूतवैषम्येणान्यत्र बुद्धात् ।

[२३४।१६-२३४।१७]
न कर्मणा नियतस्य पूर्वं विपाकादनियतस्याविपाकात् ।

[२३४।१७]
न भयेन ।
पञ्चभयसमतिक्रमात् ।
नोपघातेन ।

[२३४।१७-२३४।१८]
मनुष्यप्रकोपकारणस्याप्रासादिकस्याकरणात् ।

[२३४।१८]
न शोकेन ।
धर्मताभिज्ञत्वात् ।

[२३४।१९]
पुनस्त्रयो वङ्का उक्ताः सूत्रे ।
कायवङ्कोक्वाग्वङ्को मनोवङ्कः ।
त्रयो दोषाः ।

[२३४।२०]
कायदोषो वाग्दोषो मनोदोषः ।
त्रयः कषायाः ।

[२३४।२०-२३४।२१]
कायकषायो वाक्कषायो मनः कषायः इति ।

[२३४।२१]
तत्र यथाक्रमं वेदितव्याः ।

[२३४।२२]
वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे ।

[२३४।२३]
शठ्यजं कायकर्म कायवङ्क इत्युक्तम् ।
कुटिलान्वयत्वात् ।
एवं वाङ्मनोवङ्कौ ।

[२३४।२४]
द्वेषजं कायकर्म कायदोष इत्युक्तम् ।
चित्तप्रदोषान्वयत्वात् ।
एवं वाङ्मनोदोषौ ।

[२३४।२५]
रागजं कायकर्म कायकषाय इत्युक्तम् ।
राञ्जनान्वयत्वात् ।
एवं वाङ्मनःकषायौ ।

[२३४।२६]
कृष्णशुक्लादिभेदेन पुनःः कर्म चतुर्विधम् ॥ ४.५९ ॥

[२३५।०१]
“अस्ति कर्म कृष्णं कृष्णविपाकम् ।
अस्ति कर्म शुक्लं शुक्लविपाकम् ।

[२३५।०१-२३५।०२]
अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् ।

[२३५।०२-२३५।०३]
अस्ति कर्माकृष्णमशुक्लमविपाकम् ।

[२३५।०३]
यत्तत्कर्म कर्मक्षयाय संवर्तत” इति ।
तत्र

[२३५।०४-२३५।०५]
अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् ।
कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम् ॥ ४.६० ॥

[२३५।०६]
अशुभं कर्म एकान्तेन कृष्णं क्लिष्टत्वात्कृष्णविपाकं चामनोज्ञविपाकत्वात् ।

[२३५।०७]
रूपाप्तं शुभमेकान्तेन शुक्लमकुशलेनाव्यतिभेदात् ।

[२३५।०७-२३५।०८]
शुक्लविपाकं च मनोज्ञविपाकत्वात् ।

[२३५।०८]
आरुप्याप्तं कस्मान्नोच्यते ।

[२३५।०८-२३५।०९]
यत्र किल द्विविधोऽस्ति विपाक आन्तराभविक औपपत्तिभविकश्च ।

[२३५।०९-२३५।१०]
त्रिविधस्य कायवाङ्मनस्कर्मणो यत्रैव संभवस्तत्रैवोक्तमिति ।

[२३५।१०]
तदपि तूक्तं सूत्रान्तरे ।

[२३५।१०-२३५।११]
“कामाप्तं शुभं कर्म कृष्णशुक्लमकुशलव्यवकीर्णत्वत्कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्” ।

[२३५।११-२३५।१२]
संतानत एतद्व्यवस्थापितं न स्वभावतः ।

[२३५।१२-२३५।१३]
न ह्येवञ्जातीयकमेकं कर्मास्ति विपाको वा यत्कृष्णं च स्यात्शुक्लं चान्योन्यविरोधात् ।

[२३५।१३-२३५।१४]
ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति ।

[२३५।१४]
नावश्यमकुशलं कुशलेन व्यवकीर्यते ।

[२३५।१५]
कामधातौ तस्य बलवत्त्वात् ।
कुक्शलं तु व्यवकीर्यते ।
दुर्बलत्वादिति ।

[२३५।१६]
अनस्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते ।

[२३५।१६-२३५।१७]
तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताऽभावात् ।

[२३५।१७-२३५।१८]
आभिप्रायिको ह्येषोऽशुक्ल शब्दः ।

[२३५।१८-२३५।१९]
उक्तं तु भगवता महत्यां शुन्यताया मशैक्षान् धर्मानारभ्य “इमे ते आनन्द धर्मा एकान्तकुशला एकान्तानवद्या” इति ।

[२३५।१९]
शास्त्रे च ।

[२३५।१९-२३५।२०]
“शुक्ला धर्माः कतमे ।

[२३५।२०]
कुशला धर्मा अनिवृताव्याकृताश्चे”ति ।

[२३५।२०-२३५।२१]
अविपाकं धात्वपतितत्वात्प्रवृत्तिविरोधाच्च ।

[२३५।२२]
किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ।

[२३५।२३]
नेत्युच्यते ।
किं तर्हि ।

[२३६।०१-२३६।०२]
धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके ।
या चेतना द्वादशधा कर्म कृष्णक्षयाय तत् ॥ ४.६१ ॥

[२३६।०३-२३६।०४]
दर्शनमार्गे चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना सेयं द्वादशविधा चेतना कृष्णस्य कर्मणः प्रहाणाय कर्म ।

[२३६।०५]
नवमे चेतना या सा कृष्णशुक्लक्षयाय च ।

[२३६।०६-२३६।०७]
नवमे कामवैराग्यानन्तर्यमार्गे या चेतना सा कृष्णशुक्लस्य कुशलस्य कर्मणः कृष्णस्य चाकुशलस्य नवमस्य प्रकारस्य प्रहाणाय ।

[२३६।०८]
शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा ॥ ४.६२ ॥

[२३६।०९-२३६।१०]
ध्यानाद्व्यानाद्वैराग्यं कुर्वतो योऽन्त्यो नवम आनन्तर्यमार्गस्तत्र या चेतना इयं चतुर्विधा चेतना शुक्लस्य कर्मणः प्रहाणाय ।

[२३६।१०-२३६।११]
किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन ।

[२३६।११-२३६।१२]
नह्हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् ।

[२३६।१२]
किं तर्हि ।
तदालम्बनक्लेशप्रहाणात् ।

[२३६।१२-२३६।१३]
अतो यावदेकोऽपि तदालम्बनक्लेशप्रकार आस्ते तावदस्य प्रहाणं नोपपद्यते ।

[२३६।१४]
अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः ।

[२३६।१५-२३६।१६]
अन्ये पुनराचार्याः पश्यन्ति नरकवेदनीयं नरकाच्चान्यकामधातुवेदनीयं कर्म यथाक्रम कृष्णं कृष्णशुक्लं चेति ।

[२३६।१६-२३६।१८]
नरके ह्यकुशलस्यैव कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णमित्युच्यते अतोऽन्य कामधातौ कुशलाकुशलस्य कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णशुक्लमित्युक्तम् ।

[२३६।१९]
दृग्धेयं कृष्णमन्ये

[२३६।२०]
अन्ये पुनराहुर्दर्शनप्रहातव्यं कर्म कृष्ण कुशलेनामिश्रत्वात् ।

[२३६।२१]
अन्यत्कृष्णशुक्लं तु कामजम् ॥ ४.६३ ॥

[२३६।२२]
अन्यत्तु कामावचरं कर्म कृष्णशुक्लम् ।
किं तदन्यत् ।
भावनाप्रहातव्यम् ।

[२३६।२२-२३६।२३]
तद्धि कुशलं चाकुशलं चेति ।

[२३६।२३-२३६।२४]
सूत्र उक्तं त्रीणि मौनेयानि कायमौनेयं वाङ्मौनेयं मनोमौनेयं च ।

[२३६।२४]
तत्र

[२३७।०१-२३७।०२]
अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् ।
मौनत्रयम्

[२३७।०३]
अशैक्षे कायवाक्कर्मणी कायवाङ्मौनेये ।

[२३७।०३-२३७।०४]
अशैक्षं तु मन एव मनोमौनेयं न मनस्कर्मेति ।

[२३७।०४]
किं कारणम् ।
चित्तं हि परमार्थमुनिः ।

[२३७।०४-२३७।०५]
तत्किल कायवाक्कर्मभ्यामनुमीयत इति ।

[२३७।०५]
अपि खलु कायवाक्कर्मणी विरतिस्वभावेन न मनस्कर्म ।

[२३७।०५-२३७।०६]
चित्ता विज्ञप्त्यभावात् ।

[२३७।०६]
विरमार्थेन च मौनम् ।
अतो मन एव विरतं मौनमित्युच्यते ।

[२३७।०७]
कस्मादशैक्षमेव नान्यत् ।
अर्हतः पर्मार्थमुनित्वात् ।

[२३७।०७-२३७।०८]
सर्वक्लेशजल्पोपरतेः ।

[२३७।०८]
त्रीणि शौचेयानि उक्तानि सूत्रे ।
कायशौचेयं वाक्शौचेयं मनःसौचेयं च ।

[२३७।०९]
तदेतत् ।

[२३७।१०]
त्रिधा शौचं सर्वं सुचरितत्रयम् ॥ ४.६४ ॥

[२३७।११]
सर्वं कायसुचरितं कायशौचम् ।
सर्वं वाङ्मनः सुचरितं वाङ्मनः शौचम् ।

[२३७।११-२३७।१२]
दुश्चरितमलापकर्षणात्तावत्कालमत्यन्तं वा ।

[२३७।१२-२३७।१३]
एषा च देशना मिथ्यामौन शौचाधिमुक्तिकानां विवेचानार्थम् ।

[२३७।१३]
त्रीणि दुश्चरितान्युक्तानि ।
तत्र

[२३७।१४]
अशुभं कायकर्मादि मतं दुश्चरित त्रयम् ।

[२३७।१५]
अकुशलं कायवाङ्मनस्कर्म यथाक्रमं कायवाङ्मनोदुश्चरितम् ।

[२३७।१६]
अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा ॥ ४.६५ ॥

[२३७।१७-२३७।१८]
अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनार्थान्तरभूतमभिध्या व्यापादो मिथ्यादृष्टिश्च ।

[२३७।१८]
अभिध्यादय एव मनस्कर्मेति दार्ष्टान्तिकाः ।

[२३७।१८-२३७।१९]
संचेतनीयसूत्रे वचनात् ।

[२३७।१९]
एवं तु सति कर्मक्लेशयोरैक्यं स्यात् ।

[२३७।१९-२३७।२०]
किं स्याद्यदि कश्चित्क्लेशोऽपि कर्म स्यात् ।

[२३७।२०]
नैतदस्ति ।
सूत्रं विरुद्धं स्यात् ।

[२३७।२०-२३७।२१]
सूत्रे तु चेतनायास्तन्मुखेन प्रवृत्तेस्तैस्तां दर्शयतीति वैभाषिकाः ।

[२३७।२१-२३७।२२]
अनिष्टफलत्वात्कुट्सितः कायवाङ्मनश्चारो दुश्चरितम् ।

[२३७।२३]
विपर्ययात्सुचरितम्

[२३७।२४]
इष्टं कुशलं कायवाङ्मनस्कर्मानभिध्याऽव्यापादसम्यग्दृष्टयश्च ।

[२३७।२४-२३८।०२]
परानुग्रहोपघाताभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्टव्योः कुशलाकुशलत्वम् ।

[२३८।०२]
तन्मूलत्वात् ।
यानि चैतानि दुश्चरितसुचरितान्युक्तानि

[२३८।०३-२३८।०४]
तदौदारिकसंग्रहात् ।
दश कर्मपथा उक्ता यथायोगं शुभाशुभाः ॥ ४.६६ ॥

[२३८।०५-२३८।०६]
तेषामेव सुचरितदुश्चरितानां चौदारिकसंग्रहेण दश कर्मपथाः सूत्र उक्ताः यथायोगं कुशलाः सुचरितेभ्योऽकुशला दुश्चरितेभ्यः ।

[२३८।०६-२३८।०७]
किमत्र दुश्चरितमसंगृहीतं किं वा सुचरितम् ।

[२३८।०७-२३८।०८]
अकुक्शलेषु तत्कर्मपथेसु कायदुश्चरितस्य प्रदेशो न संगृहीतः प्रयोगपृष्ठभूतः क्लिष्टश्चान्योऽपि बन्धानादिः ।

[२३८।०८]
तस्य नात्यौदारिकत्वात् ।
[२३८।०८-२३८।०९]
यद्धि कायदुश्चरितं परेषां जीवितभोगदारेभ्यश्च्यावकं तत्कर्मपथ उक्तं ततो विवेचनार्थम् ।

[२३८।१०]
वाग्दुश्चरितमपि यदेव प्रशादं तत्कर्मपथ उक्तं तदर्थमेव ।

[२३८।१०-२३८।११]
मनोदुश्चरितस्य च प्रदेशचेतना ।

[२३८।११-२३८।१२]
कुशलेष्वपि कायसुचरितस्य प्रदेशः प्रयोगपृष्ठमद्यादिविरतिदानेज्यादिको वाक्सुचरितस्य प्रियवचनादिको मनः सुचरितस्य चेतना ।

[२३८।१३]
एषां च कर्मपथानाम्

[२३८।१४]
अशुभाः षडविज्ञप्तिः

[२३८।१५-२३८।१६]
अकुशलाः षट्कर्मपथा अवश्यमविज्ञप्तिस्वभावाः प्राणातिपातादत्तादानमृषावादपैशुन्यपारुप्यसंभिन्नप्रलापाः ।

[२३८।१६]
परेण कारयतो मौलविज्ञप्त्यभावात् ।

[२३८।१७]
द्विधैकः

[२३८।१८-२३८।१९]
काममिथ्याचारो नित्यं विज्ञप्त्यविज्ञप्तिस्वभावस्तस्य स्वयेव निष्ठापनात् ।

[२३८।१९]
नहि तं परेण कारयतस्तादृशी प्रीतिर्भवतीति ।

[२३८।२०]
तेऽपि कुर्वतः ।

[२३८।२१-२३८।२२]
तेऽपि षट्कर्मपथाः स्वयं कुर्वतो द्विविधा भवन्ति विज्ञप्तिरविज्ञप्तिश्च तत्कालमरणे पश्चात्मरणे त्वविज्ञप्तिरेव ।

[२३८।२३]
कुशलानां पुनः कर्मपथानां

[२३८।२४]
द्विविधाः सप्त कुशलाः

[२३८।२५]
कुशलाः सप्त रूपिणः कर्मपथा अवश्यं द्विप्रकारा विज्ञप्तिरविज्ञप्तिश्च ।

[२३८।२५-२३८।२६]
विज्ञप्त्यधीनत्वात्समादानशीलस्य ।

[२३९।०१]
अविज्ञप्तिः समाधिजाः ॥ ४.६७ ॥

[२३९।०२]
ध्यानानास्रवसंवरसंगृहीताः समाधिजाः उच्यन्ते ।

[२३९।०२-२३९।०३]
ते ह्यविज्ञप्तिरेव चित्तमात्राधीनत्वात् ।

[२३९।०४]
सामन्तकास्तु विज्ञप्तिः

[२३९।०५]
कर्मपथसामन्तकास्तु विज्ञप्तिस्वभावा अवश्यम् ।

[२३९।०६]
अविज्ञप्तिर्भवेन्न वा ।

[२३९।०७-२३९।०८]
यदि तीव्रेण पर्यवस्थानेन प्रमादेन वा घनरसेन प्रयोगमारभेत स्यादविज्ञप्तिरन्यथा न स्यात् ।

[२३९।०९]
विपर्ययेण पृष्ठानि

[२३९।१०]
सामन्तकेभ्यो विपर्ययेण कर्मपथानां पृष्ठानि वेदितव्याति ।

[२३९।१०-२३९।११]
तानि अवश्यमविज्ञप्तिस्वभावानि ।

[२३९।११]
विज्ञप्तिस्तु भवेन्न वा ।

[२३९।११-२३९।१२]
यदि कर्मपथं कृट्वा पुनस्तस्यानुधर्मं चेष्टेत तस्य स्यात्विज्ञप्तिरन्यथा न स्यात् ।

[२३९।१२-२३९।१३]
अथ कुतो यावदेषां प्रयोगमौलपृष्ठानां व्यवस्थानम् ।

[२३९।१३-२३९।१६]
यदा तावदिह कश्चित्पशुं हन्तुकामो मञ्चकादुत्तिष्ठति मूल्यं गृह्लाति गच्छत्यामृशति पशुं क्रीणात्यानयति पुष्णाति प्रवेशयति निहन्तुं शास्त्रमादत्ते प्रहारमेकं ददाति द्वौ वा यावन्न जीविता द्वच्यपरोपयति तावत्प्रयोगः ।

[२३९।१६-२३९।१७]
येन तु प्रहारेण जीविताद्व्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वाऽविज्ञप्तिरयं मौलः कर्मपथः ।

[२३९।१७-२३९।१८]
द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते प्रयोगतः मृते सति फलपरिपूरितश्च ।

[२३९।१८-२३९।१९]
तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठं भवन्ति ।

[
२३९।१९-२३९।२१]
यावच्च तं पशुं कुष्णाति शोधयति विक्रीणीते पचति खादयत्यनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति ।

[२३९।२१]
एवमन्येष्वपि यथासंभवं योज्यम् ।

[२३९।२१-२३९।२२]
अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रात्कर्मपथः ।

[२३९।२३]
इदमत्र वक्तव्यम् ।

[२३९।२३-२३९।२४]
किं तावत्मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्यविज्ञप्ती ते कर्मपथ आहोस्विन्मृते ।

[२३९।२४]
किं चातः ।

[२३९।२४-२३९।२५]
यदि तावन्मरणभवस्थे सहमृटस्यापिओ अन्तुर्घातयितुर्वा प्राणातिपातावद्येन योगः प्राप्नोति ।

[२३९।२५-२४०।०१]
न चेष सिद्धान्तः ।

[२४०।०१]
अथ मृते ।

[२४०।०१-२४०।०२]
यदुक्तं “येन तु प्रहारेण जीविताद्वच्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वाऽविज्ञप्तिरयं मौलः कर्मपथ” इति तना वक्तव्यम् ।

[२४०।०३]
यच्चापीदं शास्त्र उक्तं “स्यात्प्राणी हतः प्राणातिपातश्चानिरुद्धः ।

[२४०।०३-२४०।०६]
स्याद्यथा हि तत्प्राणी जीविताद्व्यपरोपितो भवति प्रयोगश्चाप्रतिप्रस्रग्ध” इत्यत्र पृष्ठं प्रयोगशब्देनोक्तमिति वैभाषिकीयोऽर्थविरोधो मौलस्यैव तदानीमनिरुद्धत्वात् ।

[२४०।०६]
यथा न दोषस्तथाऽस्तु ।
कथं च न दोषः ।

[२४०।०६-२४०।०७]
मौल एवात्र प्रयोगशब्देनोक्त इति ।

[२४०।०७]
विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवति ।

[२४०।०७-२४०।०८]
कथं च न भवितव्यम् ।

[२४०।०८]
असामर्थ्यत् ।
अविज्ञप्तिरिदानीं कथं भवति ।

[२४०।०८-२४०।१०]
तस्मात्प्रयोगफलपरिपूरिकाले तदुभयं कर्मपथः स्यात्कर्मत्पथोऽप्यन्यस्य प्रयोगः पृष्ठं च भवति ।

[२४०।१०]
प्राणातिपातस्य दशापि कर्मपथाः प्रयोगः ।

[२४०।१०-२४०।१४]
यथा च शत्रोर्वधार्थं कृत्यं समुपस्थापयन् पशुना वलिं कुर्यात्परकीयं कृत्वा दारेषु चास्य विप्रतिपद्येत तैरेव तद्घातनार्थमनृतपिशुनपरुषसान्तवैश्चास्य मित्रभेदं कुर्याद्यान्यस्य परित्राणाय कल्पेरनभिध्यां च तत्स्व कुर्यात्तत्रैव च व्यापादं तद्वधार्थं च मिथ्यादृष्टिं वृंहयेदिति ।

[२४०।१४]
एवमन्येष्वपि यथायोगं योज्यम् ।

[२४०।१४-२४०।१५]
न त्वभिध्यादयः प्रयोगा युज्यन्ते ।

[२४०।१५]
नहि चित्तोत्पादमात्रेण प्रयुक्तो भवति ।
क्रियानारम्भात् ।

[२४०।१६-२४०।१७]
सूत्र उक्तं “प्राणातिपातो भिक्षवस्त्रिविधो लोभजो द्वेषजो मोहजो यावन्मिथ्यादृष्टि”रिति ।

[२४०।१७-२४०।१८]
तत्र कीदृशः प्राणातिपातो लोभज इत्येवमादि वक्तव्यम् ।

[२४०।१८]
नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा ।

[२४०।१९]
प्रयोगस्तु त्रिमूलजः ॥ ४.६८ ॥

[२४०।२०]
प्रयोगस्तेषामकुशलमूलत्रयाज्जात इत्यादिसमुत्थानवचनादेवमुक्तः ।

[२४०।२०-२४०।२२]
तत्र लोभजप्रणातिपातो यथा तच्छरीरावयवार्थमर्थार्थं क्रीतार्थं च प्राणिनं जीविताद्व्यपरोपयति आत्मसुहृत्परित्राणाय ।

[२४०।२२]
द्वेषजो यथा वैरनिपीडनार्थम् ।

[२४०।२२-२४०।२३]
मोहजो यथा याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् ।

[२४०।२३-२४०।२४]
दुष्टानां किल निग्रहं कुर्वन्तो राजानः पुण्यभाजो भवन्तीति ।

[२४०।२४]
पारसीकानां च ।
ते ह्येवमाहुः ।

[२४०।२५]
“मातापितरौ जीर्णौ वा ग्लानौ वा हन्तव्या”विति ।

[२४०।२५-२४१।०१]
ये चान्येऽप्येवमाहुरहिवृश्चिकत्र्यम्वुकादयो मनुष्याणामुपघातापका हन्तव्याः मृगपशुपक्षिमहिषादयश्चोपभोगार्थत्वादिति ।

[२४१।०१-२४१।०२]
यश्च मिथ्यादृष्टिप्रवर्तितः प्राणातिपातः ।

[२४१।०२-२४१।०३]
लोभजमदत्तादानं यो येनार्थि स तद्वरति अन्यलाभसत्कारयशोऽर्थं वा आत्मसुकृतपरित्राणाय वा ।

[२४१।०३]
द्वेषजं यद्वैरनिपीडनार्थम् ।

[२४१।०३-२४१।०४]
मोहजं यथा राज्ञां धर्मपाठकप्रामाण्यात् ।

[२४१।०४-२४१।०५]
दुष्टनिग्रहार्थं यथा ब्राह्मणा आहुः “सर्वमिदं ब्रह्मणा ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृष्लाः परिभुञ्जते ।

[२४१।०५-२४१।०६]
तस्मादपहरन् ब्राह्मणः सुमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति चे” ति ।

[२४१।०७]
न चैशामपरस्वसंज्ञा भवति ।
यच्च मिथ्यादृष्टिप्रवर्त्तितम् ।

[२४१।०७-२४१।०८]
लोभजः काममिथ्याचारः दारादिषु तत्संरागादब्रह्मचर्यं लाभसत्कारार्थमात्मसुहृत्परित्राणाय ।

[२४१।०८-२४१।०९]
द्वेषजो वैरनिपीडनार्थम् ।

[२४१।०९]
मोहजो यथा पारसीकानां मात्रादिगमनं गोसवे च यज्ञे ।

[२४१।१०]
योथोक्तं “ब्राह्मणो गोसवेनेष्ट्या संवत्सरगोव्रती भवति ।

[२४१।१०-२४१।११]
उपहा उदकं चूषति तृणानि च्छिनत्ति उपैति मातरमुपस्वसारमुप सगोत्रा”मिति ।

[२४१।११-२४१।१२]
ये चाहु “रुदूखलपुण्यफलपक्वान्नतीर्थमार्गप्रख्यो मातृग्राम” इति ।

[२४१।१२-२४१।१३]
मृषावादादयो लोभजा द्वेषजाश्चपूर्ववत् ।

[२४१।१३]
मोहजो मृषावादो यथाह ।

[२४१।१४-२४१।१७]
“न नर्मयुक्तमनृतं हि नास्ति
न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे
पञ्चानृतान्याहुरपातकानी”ति ।

[२४१।१८]
यष्च मिथ्यादृष्टिप्रवर्तितो मृषावादः ।
पैशुन्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजाः ।
[२४१।१९]
यष्चच वेदाद्यसच्छास्त्रप्रलापः ।

[२४१।२०]
अभिध्यादयः कथं लोभजाः ।

[२४१।२१]
तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः ।

[२४१।२२]
लोभादनन्तरमुत्पन्ना लोभजाः द्वेषादनन्तरं द्वेषजा मोहादनन्तरं मोहजाः ।

[२४१।२२-२४१।२३]
उक्ता कुशलाः कर्मपथाः ।

[२४१।२४]
कुशलाः कथमित्याह

[२४१।२५]
कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः ॥ ४.६९ ॥

[२४१।२६]
सप्रयोगपृष्ठाः कुशलाः कर्मपथा अलोभद्वेषमोहजाः ।

[२४१।२६-२४१।२७]
कुषलचित्तसमुत्थितत्वात् ।

[२४१।२७-२४२।०१]
तस्य च अवश्य मलोभादिभिः संप्रयोगात्तत्राकुशल कर्मपथप्रयोगाद्विरतिः कुशलकर्मपथप्रयोगः ।

[२४२।०१]
मौलाद्विरतिः मौलः ।

[२४२।०१-२४२।०२]
पृष्ठाद्विरतिः पृष्ठः ।

[२४२।०२-२४२।०३]
तद्यथा श्रामणेर उपसंपाद्यमानो नानावासं प्रविशति भिक्षून्वन्दते उपाध्यायं याचते यावदेकं कर्मवाचनं क्रियते द्वितीयं च ।

[२४२।०३]
अयं प्रयोगः ।

[२४२।०३-२४२।०४]
तृतीय कर्मवाचने या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः ।

[२४२।०४-२४२।०५]
तत ऊर्ध्वं यावन्निश्रया आरोच्यन्ते तदधिष्ठानं च विज्ञपयति अविज्ञप्तिच यावदतुवर्तते इदं पृष्ठम् ।

[२४२।०६]
यदुक्तं “न सर्वेषां कर्मपथानां लोभादिभिर्निष्ठे”त्यथ कस्य केन निष्ठा ।

[२४२।०७]
वधव्यापादपारुष्यनिष्ठा द्वेषेण

[२४२।०८]
एषां प्राणातिपातव्यापादपारुष्पाणां द्वेषेण समाप्तिः ।

[२४२।०८-२४२।०९]
परित्यागपरुषचित्तसंमुखी भावात् ।

[२४२।१०]
लोभतः ।

[२४२।११]
परस्त्रीगमनाभिध्याऽदत्तादानसमापनम् ॥ ४.७० ॥

[२४२।१२]
लोभेन काममिथ्याचाराभिध्याऽदत्तादानानां समाप्तिः ।

[२४२।१३]
मिथ्यादृष्टेस्तु मोहेन

[२४२।१४]
अधिमात्रभूतो हि तां निष्ठापयति ।

[२४२।१५]
शेषाणां त्रिभिरिष्यते ।

[२४२।१६]
के पुनः शेषाः ।
मृषावादपैशुन्यसंभिन्नप्रलापाः ।

[२४२।१६-२४२।१७]
एषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा

[२४२।१८-२४२।१९]
य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकस्त्रयश्च एषां यथाक्रमं

[२४२।२०]
सत्त्वभोगावधिष्ठानं नामरूपं च नाम च ॥ ४.७१ ॥

[२४२।२१]
सत्त्वाधिष्ठाना वधादयः ।
भोगाधिष्ठानां परस्त्रीगमनादयः ।

[२४२।२१-२४२।२२]
नामरूपाधिष्ठामिथ्यादृष्टिः ।

[२४२।२२]
नामकायाधिष्ठाना मृषावादादयः ।

[२४२।२३-२४२।२४]
यः परं मरणान्नियमय्य समं तेन पूर्वं वा म्रियते किमस्य मौलः कर्मपथो भवत्युताहो न ।

[२४२।२५]
समं प्राक्च मृतस्यास्ति न मौलः

[२४२।२६-२४२।२७]
अत एवोच्यते “स्यात्प्रयोगं कुर्यात्फलं च परिपूरयेन्न च प्राणातिपातावद्येन स्पृश्यते ।

[२४२।२७]
आह ।

[२४२।२७-२४३।०२]
स्यात्यथापि तद्व्यपरोपवः पूर्वं सह वा कालं कुर्या”दिति किं पुनस्तत्कारणं नहि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगो नापि सहमृतस्य हन्तुः ।

[२४३।०३]
अन्याश्रयोदयात् ।

[२४३।०४]
थेनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नोऽन्य एवाश्रयो निकायसभागभिन्न उत्पन्नः ।

[२४३।०५]
तस्य प्रयोक्तृत्वात्कर्मपथेन योगो न युक्तः ।

[२४३।०५-२४३।०६]
यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्त्येकश्च प्राणातिपातं करोति कस्तेन समन्वागतो भवति ।

[२४३।०७]
सेनादिष्वेककार्यत्वात्सर्वे कत्तृवदन्विताः ॥ ४.७२ ॥

[२४३।०८]
यथैव हि कर्त्ता तथा सर्वे समन्वागता भवन्त्येककार्यत्वात् ।

[२४३।०८-२४३।०९]
अर्थतो हि तेऽयोन्यं पयोक्तारो भवन्ति ।

[२४३।०९-२४३।११]
यस्तर्हि बलान्नीयते सोऽपि समन्वागतो भवत्यन्यत्र य एवं नश्चित्य यायात्यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामीति ।

[२४३।१२-२४३।१३]
कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कियता यावन्मिथ्यादृष्टिः कर्मपथः इति लक्षणं वक्तव्यं तदुच्यते ।

[२४३।१४]
प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् ।

[२४३।१५]
यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव च मारयति नान्यं भ्रमित्वा ।

[२४३।१६]
इयता प्राणातिपातो भवति ।

[२४३।१६-२४३।१७]
यस्तर्हि संदिग्धो मारयति किमयं प्राणी न प्राणीति स एवान्यो वेति सोऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति ।

[२४३।१७-२४३।१८]
योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं भवति ।

[२४३।१८]
कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति ।

[२४३।१९]
प्राणो नाम वायुः कायचित्तसंनिश्रितो वर्तते ।
तमभिपातयति ।

[२४३।१९-२४३।२०]
यथा प्रदीपं निरोधयति घण्टास्वनं वा ।

[२४३।२०]
जीवितेन्द्रियं वा प्राणास्तन्निरोधयति ।

[२४३।२०-२४३।२१]
यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृश्यते नान्यथा ।

[२४३।२२]
कस्य तज्जीवितं यस्तदभावान्मृतो भवति ।

[२४३।२२-२४३।२३]
कस्येति षष्ठीं पुद्गलवादे विचारयिष्यामः ।

[२४३।२३]
उक्तं तु भगवता

[२४३।२४-२४३।२५]
“आयुरुष्माऽथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतन” ॥ इति ।

[२४३।२६]
तस्मात्सेन्द्रियः कायो जीवतीत्युच्यते अनिन्द्रियो मृत इति ।

[२४३।२६-२४३।२७]
अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो यथाऽग्निसंयोगाद्दाह इति निर्ग्रन्थाः ।

[२४३।२७-२४४।०१]
तेषां परदारदर्शनेऽप्येष प्रसङ्गः ।

[२४४।०१-२४४।०३]
निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुर्वैद्यानां चातुरपीडने मरणे च मातृगभस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् ।

[२४४।०३]
वध्यस्यापि च तत्क्रियासंबन्धादग्निस्वाश्रयदाहवत् ।

[२४४।०३-२४४।०४]
कार्यतश्चाप्रसङ्गस्तदसम्बन्धात् ।

[२४४।०४]
परेणाग्निं स्पर्शयतस्तेनादाहवत् ।

[२४४।०४-२४४।०५]
अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात्पापप्रसङ्गो न वा दृष्टान्तमात्रात्सिद्धिरिति ।

[२४४।०६]
उक्तः प्राणातिपातः ।

[२४४।०७]
अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ॥ ४.७३ ॥

[२४४।०८]
अभ्रान्त्येति वर्तते ।

[२४४।०८-२४४।०९]
यदि बलाद्वा चौर्येण वा परस्वं स्वीकरोति यत्रैव च बलचौर्याभिप्रायेणान्यत्र संज्ञाविभ्रमातियताऽदत्तादानं भवति ।

[२४४।०९-२४४।१०]
स्तूपादपहरतो बुद्धाद दत्तादानम् ।

[२४४।१०]
सर्वं हि तद्भगवता परिनिर्वाणकाले परिगृथीतमिति ।

[२४४।१०-२४४।११]
येषां सम्रक्ष्यमित्यपरे ।

[२४४।११-२४४।१२]
अस्वामिकं च निधिमुद्धरतो विषयस्वामिकात्परिवर्तकं हरतः कृते कर्मणि सीमाप्राप्तेभ्यः अकृते सर्वबुद्धशैक्ष्येभ्यः ।

[२४४।१३]
अगम्यगमनं काममिथ्याचारश्चतुर्विधः ।

[२४४।१४]
चतुष्प्रकारमगम्यगमनं काममिथ्याचारः ।

[२४४।१४-२४४।१५]
अगम्यां गच्छति परपरिगृहीतां वा मातरं दुहितरं वा मातृपितृसंबन्धिनीं वा ।

[२४४।१५-२४४।१६]
अनङ्गे वा गच्छति स्वामपि भार्यामपाने मुखे वा ।

[२४४।१६]
अदेशे वा गच्छति प्रकाशे चैत्ये विहारे वा ।

[२४४।१७]
अकाले वा गच्छति ।
कः पुनः अकालः ।

[२४४।१७-२४४।१८]
गर्भिणीं वा गच्छति पाययन्तीं वा सनियमां वा ।

[२४४।१८]
यदि भर्तुरनुज्ञया सनियमा भवतीत्येके ।
अभ्रान्त्येति वर्तते ।

[२४४।१८-२४४।१९]
यदि स्वसंज्ञी परस्त्रियं यायात्न स्यात्कर्मपथः ।

[२४४।१९-२४४।२०]
यद्यन्यः परस्त्रीसंज्ञयाऽन्यामभिगच्छेत्परदारप्रयोगाद्वस्तुपरिभोगाच्च स्यादित्येके ।
[२४४।२०-२४४।२१]
अन्यत्र प्रयोगान्न स्यात्प्राणाति पातवदित्यपरे ।

[२४४।२१]
भिक्षुणीं गच्छतः कस्यान्तिकात्काममिथ्याचारः ।

[२४४।२१-२४४।२२]
विषयस्वामिनः ।

[२४४।२२]
तस्य हि तन्न मर्षणीयम् ।
तस्यापि सनियमा स्वभार्येव तु सा न गम्या ।

[२४४।२३]
कुमारीं गच्छतो यस्य निसृष्टा नो चेद्यस्य रक्षाऽन्ततो राज्ञः ।

[२४४।२४]
अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः ॥ ४.७४ ॥

[२४४।२५-२४५।०१]
यदि यमर्थं ब्रवीति तस्मिन्नन्यथासम्ज्ञी भवति यं चाधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो भवति तद्वाक्यं मृषावादः ।

[२४५।०१]
अनभिज्ञे किं स्यात् ।

[२४५।०१-२४५।०२]
संभिन्नप्रलापः स्यात् ।

[२४५।०२]
वाक्यमित्युच्यते ।

[२४५।०२-२४५।०३]
कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमः तत्र कर्मपथः ।

[२४५।०३]
पश्चिमः सहाविज्ञप्त्या यत्र चार्थाभिज्ञो भवति ।
पूर्वे तु वर्णाः प्रयोगः ।

[२४५।०४]
अर्थाभिज्ञ इत्युच्यते ।

[२४५।०४-२४५।०५]
कि तावदभिज्ञातार्थे श्रोतरि आहोस्वितभिज्ञातुं समर्थे ।

[२४५।०५]
किं चातः ।

[२४५।०५-२४५।०६]
यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्वाक्यार्थस्य श्रोत्रविज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात्कर्मपथः ।

[२४५।०६-२४५।०७]
अथाभिज्ञातुं समर्थे ।

[२४५।०७]
एवं दोषो न भवति ।

[२४५।०७-२४५।०८]
कथं चाभिज्ञातुं समर्थोऽप्युत्पन्नभाव उत्पन्ने श्रोत्रविज्ञाने ।

[२४५।०८]
यथा न दोषस्तथाऽस्तु ।

[२४५।०९]
षोदश व्यवहाराः सूत्र उक्ताः ।

[२४५।०९-२४५।११]
“अदृष्टे दृष्टवादिता अश्रुतेऽमतेऽविज्ञाते विज्ञातवादिता दृष्टे अदृष्टवादिता यावद्विज्ञातेऽविज्ञातवादिता इतीमेऽनार्या अष्टौ व्यवहाराः ।

[२४५।११-२४५।१२]
दृष्टे दृष्टवादिता यावद्विज्ञाते विज्ञातवादिता अदृष्ट्ऽदृष्टवादिता यावदविज्ञाते अविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः ।

[२४५।१२-२४५।१३]
तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् ।

[२४५।१४-२४५।१५]
चक्षुः श्रोत्रमनश्चित्तैरनुभूतं त्रिभिश्च यत् ।
तद्दृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् ॥ ४.७५ ॥

[२४५।१६]
यच्चक्षुर्विज्ञानेनानुभूतं तद्दृष्टमित्युक्तम् ।
यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् ।

[२४५।१६-२४५।१७]
यन्मनो विज्ञानेन तत्विज्ञातम् ।

[२४५।१७]
यत्घ्राणजिह्वाकायविज्ञानैस्तन्मतम् ।
किं कारणम् ।

[२४५।१८]
गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि ।
अत एतेषु मताख्येति वैभाषिकाः ।

[२४५।१९]
किमत्र ज्ञापकम् ।
सूत्रं युक्तिश्च ।

[२४५।१९-२४५।२१]
सूत्रं तावत्”तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि न दृष्टानि न दृष्टपूर्वाणि न पश्यसि नापि ते एवं भवति पश्येयमिति ।

[२४५।२१-२४५।२२]
अपि नु ते तन्निदानमुत्पन्नश्छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा नीयतिरध्यवसानं वा ।

[२४५।२२]
नो भदन्त ।

[२४५।२२-२४५।२४]
ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वा विस्तरेण यावन्मनसा धर्मा न विज्ञाता विस्तरेण यावन्नो भदन्त ।

[२४५।२४-२४५।२५]
अत्र च ते माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति श्रुते मते विज्ञाते विज्ञातपात्रमित्यु”क्तम् ।

[२४५।२५-२४५।२६]
अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद्गन्धादिषु मताख्या अम्यते ।

[२४५।२६-२४५।२७]
अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात्गन्धादिषु व्यवहारो न स्यादित्येषा युक्तिः ।

[२४५।२७]
सूत्रं तावज्ज्ञापकमन्यार्थत्वात् ।

[२४५।२७-२४५।२८]
न ह्यत्र सूत्रे भगवान् व्यवहारानां लक्षाणं शास्ति स्म ।

[२४५।२८]
किं तर्हि ।

[२४५।२८-२४६।०१]
अत्र च ते षड्विधे विषये चतुर्षु व्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्यति न प्रियाप्रियनिमित्ताध्यारोप इत्ययमत्र सूत्रार्थो दृश्यते ।

[२४६।०१]
किं पुनर्डृष्टं किं च यावद्विज्ञातम् ।
केचित्तावदाहुः ।

[२४६।०१-२४६।०२]
“यत्पञ्चभिरिन्द्रियैः प्रत्यक्षं तद्दृष्टम् ।

[२४६।०२]
यत्परत आगमितं तच्छ्रुतम् ।

[२४६।०२-२४६।०३]
यत्स्वयं युक्त्यनुमानतो रुचितं तन्मतम् ।

[२४६।०३-२४६।०४]
यन्मनःप्रत्यक्षभावेनाधिष्टितं प्रत्यात्मवेद्यं तद्विज्ञातमि”ति ।

[२४६।०४]
एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रिल्यन्ते ।

[२४६।०५]
श्रुता मता विज्ञाता इति वा ।

[२४६।०५-२४६।०६]
षष्ठोऽन्यत्र दृष्टादिति नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः ।

[२४६।०६]
तस्माद्युक्तिंरप्येषा युक्तिर्न भवति ।

[२४६।०६-२४६।०७]
पूर्वाचार्या एवमाहुः ।

[२४६।०७]
यद्दृष्टं यत्प्रत्यक्षीकृतं चक्षुषा ।
श्रुतं यच्छ्रोत्रेण परतश्चाखरितम् ।

[२४६।०८]
मतं यत्स्वयं चिन्तितम् ।
विज्ञातं यत्प्रत्यात्मप्रतिसंवेदितमधिगतं चोत्पन्नम् ।

[२४६।०९]
प्रसङ्गेन शास्त्रं प्रवर्तयताम् ।
यः कायेनान्यथात्वं प्राप्येत्स्यान्मृषावादः ।

[२४६।१०]
स्यात् ।
अत एवोच्यते ।
“स्यिआन्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत ।

[२४६।११]
स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत ।

[२४६।११-२४६।१२]
स्यात्कायेन पराक्रमेत स्यान्न कायेन न वाचा पराक्रक्मेत उभयावद्येन च स्पृश्येत ।

[२४६।१३]
स्यातृशीणां मनःप्रदोषेण पोषधनिदर्शनं चात्रे”ति ।

[२४६।१३-२४६।१४]
यद्युभयथाऽपि न पराक्रमेत न चाविज्ञप्तिकास्त्यविज्ञप्तिः कामावचरी कथं तयोः कर्मपथः सिद्ध्यति ।

[२४६।१५]
कर्तव्योऽत्र यत्नः ।
गतो मृषावादः ।

[२४६।१६]
पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने ।

[२४६।१७]
यत्क्लिष्टचित्तस्य परेषां भेदाय वचनमप्रीतये तत्पैशुन्यम् ।

[२४६।१७-२४६।१८]
अर्थभिज्ञ इति वर्तते अभ्रान्त्येति च ।

[२४६।१९]
पारुष्यमप्रियं

[२४६।२०]
वचनत् ।
क्लिष्टचित्तस्येति वर्तते ।
अर्थाभिज्ञे अभ्रान्त्येति च ।

[२४६।२०-२४६।२२]
यत्क्लिष्टचित्तस्य परेषामप्रियवचनमर्थाभिज्ञे तत्रैव च यत्विवक्षितं तत्पारुष्यम् ।

[२४६।२३]
सर्वं क्लिष्टं भिन्न प्रलापिता ॥ ४.७६ ॥

[२४६।२४]
वाक्यमित्यधिकारो वर्तते ।
सर्वं क्लिष्टं वचनं संभिन्नप्रलापः ।

[२४६।२४-२४६।२५]
सैव संभिन्नप्रलापिता ।

[२४६।२५]
तद्योगेन हि संभिन्नप्रलापी भवति ।

[२४७।०१]
अतोऽन्यत्क्लिष्टमित्यन्ये

[२४७।०२]
अतो मृषावादादिकाद्वाक्कर्मणो यदन्यत्क्लिष्टं वचनं तत्संभिन्नप्रलाप इत्यपरे ।

[२४७।०३]
लपनागीतनाट्यवत् ।

[२४७।०४]
कुशास्त्रवच्च

[२४७।०५-२४७।०६]
तद्यथा भिक्षुर्मिथ्याजीवी लपनां करोति रक्ताश्च केचित्गायन्ति नाटच्ये च नटाः परेषां रञ्जनार्थं प्रलपन्ति ।

[२४७।०६]
कुक्शास्त्राणि च तद्दृष्टयोऽपि गदन्ति ।

[२४७।०६-२४७।०७]
एवं परिदेवसंगणिकादिकमपि यदन्यन्मृषावादादिभ्यः क्लिष्टं वाक्कर्म तत्संभिन्नप्रलापः ।

[२४७।०७-२४७।०८]
कथं चक्रवर्तिकाले गीतं चास्ति न च संभिन्नप्रलापः ।

[२४७।०८-२४७।०९]
नैष्क्रम्योपसंहितानि हि तदानीं गियन्ते स्म न ग्राम्यरसोपसंहितानि ।

[२४७।०९-२४७।१०]
तदाप्यावाहविवाहद्यभिलापसद्भावादस्ति संभिन्नप्रलापो न कर्मपथ इत्यपरे ।

[२४७।११]
अभिध्या तु परस्वविषमस्पृहा ॥ ४.७७ ॥

[२४७।१२-२४७।१३]
अहो वत यत्परेषां तन्मम स्यादिति परस्वेभ्यो या विषमेणान्यायेन स्पृहा स्वीकरनेच्छा बलाद्वा चोपायाद्वा साऽभिध्या कर्मपथः ।

[२४७।१३-२४७।१४]
सर्वैव कामावचरी तृष्णाभिध्येत्यपरे ।

[२४७।१४-२४७।१५]
तथा हि निवरणाधिकारे कामच्छन्दमधिकृत्योक्तं सूत्रे “सोऽभिध्यां लोके प्रहाये” त्येवमादि ।

[२४७।१५-२४७।१६]
यद्यपि सर्वाभिध्या नतु सर्वा कर्मपथ औदारिकदुष्चरितसंग्रहादित्यपरे ।

[२४७।१६-२४७।१७
मा भूच्चक्रवर्तिनामप्युत्तरकौरवानां पाभिध्या कर्मपथ इति ।

[२४७।१८]
व्यापादः सत्त्वविद्वेषः

[२४७।१९]
सत्त्वेषु विद्वेषो व्यापादः परपीडाकारप्रवृत्तः ।

[२४७।२०]
नास्तिदृष्टिः शुभाशुभे ।

[२४७।२१]
मिथ्यादृष्टिः

[२४७।२२]
शुभे चाशुभे च कर्मणि या नास्तीति दृष्टिः सा मिथ्यादृष्टिः ।

[२४७।२२-२४७।२४]
तद्यथा “नास्ति दत्तं नास्तीष्टं नास्ति हुतं नास्ति सुचरितं नास्ति दुश्चरितमित्येवमादि यावन्न सन्ति लोकेऽहन्त” इति ।

[२४७।२४-२४७।२५]
सैषा साकल्येन कर्मफलार्यापवादिका मिथ्यादृष्टिर्भवति ।

[२४७।२५]
आदिमात्रं तु श्लोके दर्शितम् ।
एवंलक्षणा एते दश कर्मपथाः ।

[२४८।०१]
कर्मपथा इति कोऽर्थः ।

[२४८।०२]
त्रयो ह्यत्र पन्थानः सप्त कर्म च ॥ ४.७८ ॥

[२४८।०३]
अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः ।

[२४८।०३-२४८।०४]
तत्संप्रयोगिणी हि चेतना तेषां वाहेन वहति तेषां गत्या गच्छति ।

[२४८।०४]
तद्वशेन तथाभिसंस्करणात् ।

[२४८।०४-२४८।०६]
सप्त तु प्राणातिपातादयः कर्म च कायवाक्कर्मत्वात्कर्मणश्च पन्थान इति कर्मपथास्तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति ।

[२४८।०६]
कर्मपथाश्चकर्म च कर्मपथाश्चेति कर्मपथाः ।

[२४८।०७]
असरूपाणामप्येकशेषसिद्धेः ।

[२४८।०७-२४८।०८]
एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः ।

[२४८।०८-२४८।०९]
प्रयोगपृष्टानि कर्माणि कर्मपथाः यस्मात्तदर्थं तन्मूलिका च तेषां प्रवृत्तिः ।

[२४८।०९-२४८।०९-]
यथौदारिकं च ग्रहणादित्युक्तं प्राक् ।

[२४८।०९-२४८।१०]
येषां चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः ।

[२४८।१०-२४८।११]
ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति तेषां ते कथं कर्मपथाः ।

[२४८।११]
त एव हि प्रष्टव्याः ।

[२४८।१२]
अपि तु शक्यं वक्तुं कर्म च ते पन्थानश्च सुगतिदुर्गतीनामिति कर्मपथाः ।

[२४८।१२-२४८।१३]
इतरेतरावाहनाद्वा ।

[२४८।१३-२४८।१४]
य एते दशाकुशलाः कर्मपथाः सर्वे एते कुशलानां कर्मणां समुदाचारविरोधिनः ।

[२४८।१५]
मूलच्छेदस्त्वसद्दृष्ट्या

[२४८।१६]
कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया ।

[२४८।१६-२४८।१७]
यत्तर्हि शास्त्र उक्तं “कतमान्यधिमात्राण्यकुशलमूलानि ।

[२४८।१७-२४८।१८]
यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखती”ति ।

[२४८।१८-२४८।२०]
अकुशलमूलाध्याहृतत्वात्मिथ्यादृष्टेस्तेष्वेव तत्कर्मापदेश एष क्रियते तद्यथाग्निरेव ग्रामं दहनि चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो दग्ध इत्युच्यते ।

[२४८।२१]
कतमेषां कुशलमूलानां समुच्छेदो भवति ।

[२४८।२२]
कामाप्तोत्पत्तिलाभिनाम् ।

[२४८।२३]
कामावचराणि कुशलमूलानि समुछिद्यन्ते ।

[२४८।२३-२४८।२४]
रूपारूप्यावचरैरसमन्वागतत्वात् ।

[२४८।२४]
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते ।

[२४८।२४-२४८।२५]
“इयताऽनेन पुद्गलेन त्रैधातुकानि कुशलमूलालि समुच्छिन्नानि भवन्ती”ति ।

[२४८।२५-२४९।०१]
तत्प्राप्तिदूरीकरणमभिसंधायैतदुक्तम् ।

[२४९।०१]
संततेस्तदभाजनत्वापादनात् ।

[२४९।०१-२४९।०२]
उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते ।

[२४९।०२]
प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् ।

[२४९।०२-२४९।०३]
किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते

[२४९।०४]
फलहेत्वपवादिन्या

[२४९।०५-२४९।०६]
या च हेतुमपवदते नास्ति सुचरितं नास्ति दुश्चरितमिति या च फलं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति ।

[२४९।०६-२४९।०७]
आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे ।

[२४९।०७-२४९।०८]
सास्रवालम्बनयैव नानास्रवालम्बनया सभागधात्वालम्बनयैव च न विसभागधात्वालम्बनया ।

[२४९।०८]
संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादित्येके ।

[२४९।०८-२४९।०९]
एवं तु वर्णयन्ति ।

[२४९।१०]
सर्वथा

[२४९।११]
नवप्रकाराण्यपि कुशलमूलानि सकृत्समुच्छिद्यन्ते ।
दर्शनप्रहातव्यवदित्येके ।

[२४९।११-२४९।१२]
एवं तु वर्णयन्ति ।

[२४९।१३]
क्रमशः

[२४९।१४]
नवप्रकारया मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते ।

[२४९।१४-२४९।१५]
भावना हेयक्लेशवत्यावदधिमात्राधिमात्रया मृदुमृदूनीति ।

[२४९।१५-२४९।१६]
एवमयं ग्रन्थः पालितो भवति ।

[२४९।१६]
“कतमान्यणुसहगतानि कुशलमूलानि ।
आह ।

[२४९।१६-२४९।१८]
यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात्विजहाति यैः विकीर्णैः समुच्छिन्न कुशलमूल इति संख्यां गच्छती”ति ।

[२४९।१८]
अस्य तर्हि ग्रन्थस्य को नयः ।

[२४९।१८-२४९।१९]
“कतमान्यधिंमात्राधिमात्राण्यकुशलमूलानि ।

[२४९।१९-२४९।२०]
यैरकुक्शलमूलैः कुशलमूलानि समुच्छिनत्ती”ति ।

[२४९।२०]
समाप्तिमेतत्संधायोक्तम् ।
तैनिरवशेषच्छेदात् ।

[२४९।२०-२४९।२१]
एकोऽपि हि प्रकार स्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति ।

[२४९।२१-२४९।२२]
दर्शनमार्गवदभ्युत्थानेन च्छिनत्तीत्येके ।

[२४९।२२]
एवं तु वर्णयन्त्युभयथेति ।

[२४९।२२-२४९।२३]
पूर्वं संवरं विजहाति पश्चात्कुशलमूलानि समुच्छिनत्तीत्येके ।

[२४९।२३]
एवं तु वर्णयन्ति ।

[२४९।२३-२४९।२४]
यस्य चित्तस्य फलसंवरस्तत्त्यागात्तस्य त्याग इति ।

[२४९।२४]
अथ कुशलमूलानि समुच्छिद्यन्ते

[२४९।२५]
नृषु ॥ ४.७९ ॥

[२४९।२६]
मनुष्येष्वेव नापायेषु ।
क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् ।

[२४९।२६-२४९।२७]
न देवेषु कर्मफल प्रत्यक्षत्वात् ।

[२४९।२७]
त्रिषु द्वीपेषु नोत्तरकुरौ ।
अपापाशयत्वात्जम्बूद्वीप एवेत्यपरे ।

[२४९।२८]
तेषामयं ग्रन्थो विरुध्यते ।
“जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः ।

[२५०।०१]
एवं पूर्वविदेहको गोदानीयक” इति ।
तानि पुनः

[२५०।०२]
छिनत्ति स्त्री पुमान्

[२५०।०३]
स्त्रि च समुच्छिनत्ति पुरुषश्च मन्दच्छन्दवीर्यप्रज्ञत्वात्
न स्त्रीत्यपरे

[२५०।०३-२५०।०४]
अयं ग्रन्थो विरुध्येत

[२५०।०४-२५०।०५]
“यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागत” इति

[२५०।०५]
तेषामपि तृष्णाचरितो न समुच्छिनत्ति

[२५०।०५-२५०।०६]
चलाशयत्वात्

[२५०।०६]
कस्तर्हि

[२५०।०७]
दृष्टिचरितः

[२५०।०८]
दृढगूढपापाशयत्वात्
अत एव न शण्डादयस्तृष्णाचरिते पक्ष्यत्वात्

[२५०।०८-२५०।०९]
आपायिकवच्च

[२५०।०९]
किंस्वभावः कुशलमूलसमुच्छेदः

[२५०।१०]
सोऽसमन्वयः

[२५०।११]
यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते अप्राप्तिरप्युत्पद्यते ।

[२५०।११-२५०।१२]
तस्मिन्नसमन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते ।

[२५०।१२-२५०।१३]
तेषां समुच्छिन्नानां कथं पुनः प्रतिसंधिः

[२५०।१४]
संधिः काङ्क्षास्तिदृष्टिभ्याम् ।

[२५०।१५]
यदाऽस्य हेतुफले विचिकित्सा चोत्पद्यते ।
अष्टिदृष्टिर्वा सम्यक्दृष्टिरित्यर्थः ।

[२५०।१६]
तदा पुनः तत्प्राप्तिसमुत्पादात्प्रतिसंधितानि कुशलमूलान्युच्यन्ते ।

[२५०।१६-२५०।१७]
नवप्रकाराणां युगपत्प्रतिसंधानं क्रमेण तु संमुखीभाव आरोग्यबललाभवत् ।

[२५०।१७-२५०।१८]
स पुनस्तेषां प्रतिसंधिः

[२५०।१९]
नेहानन्तर्यकारिणः ॥ ४.८० ॥

[२५०।२०]
अन्यस्यैवेह स्यादानन्तर्यकारिणस्तु नेह स्यात् ।

[२५०।२०-२५०।२२]
तमेव संधायोक्तम् “अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसंधातुं नियतमयं नवकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसंधास्यति” इति ।

[२५०।२२-२५०।२४]
उपपद्यमानोऽन्तराभवस्थश्च्यवमानश्च्युत्यभिमुखस्तत्र पुनर्यो हेतुबलेन समुच्छिनत्ति स च्यवमानः प्रतिसंदधाति यः प्रत्ययबलेन स उपपद्यमानः ।

[२५०।२४-२५०।२५]
एवं यः स्वबलेन परबलेन ।

[२५०।२५]
पुनराह ।

[२५०।२५-२५०।२६]
य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसंदधाति ।

[२५०।२६]
य आशयप्रयोगविपन्नः स भेदात्कायस्येति ।

[२५०।२६-२५१।०१]
एवं यो दृष्टिविपन्नो दृष्टि शीलविपन्न इति ।

[२५१।०१]
स्यात्समुच्छिन्न कुशलमूलो न मिथ्यात्वनियत इति ।

[२५१।०२]
चतुष्कोटिकम् ।
प्रथमा कोटिः पूरणादयः ।
द्वितीयाऽजातशत्रुः ।
तृतीया देवदत्तः ।

[२५१।०३]
चतुर्थ्येतानाकारान् स्थापयित्वा ।

[२५१।०३-२५१।०४]
कुशलमूलसमुच्छेदिकाया मिथ्यादृष्टेरवीचौ विपाकः ।

[२५१।०४]
आनन्तर्यकारिणां तु तत्र वाऽन्यत्र वा नरके ।

[२५१।०५]
कर्मपथप्रसङ्ग एवायं वर्तते ।

[२५१।०५-२५१।०६]
तत्र वक्तव्यं कतिभिः कर्मपथैः सह चेतना युगपदुत्पन्ना वर्तत इति ।

[२५१।०७]
युगपद्यावदष्टाभिरशुभैः सह वर्तते ।

[२५१।०८]
चेतना

[२५१।०९]
एकेन तावत्सह वर्तते ।

[२५१।०९-२५१।१०]
विनाऽन्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने ।

[२५१।१०]
द्वभ्यां सह वर्तते ।

[२५१।१०-२५१।११]
व्यापन्नचित्तस्य प्राणिवधे अभिध्याविष्टस्य वाऽदत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा ।

[२५१।१२]
त्रिभिः सह वर्तते ।
व्यापन्नचित्तस्य परकीय प्राणिमारणापहरणे युगपत् ।

[२५१।१२-२५१।१३]
न तर्हीदानीमदत्तादानस्य लोभेनैव निष्टा सिध्यति ।

[२५१।१३-२५१।१४]
अनन्यचित्तस्य तत्समाप्तौ स नियमो ज्ञेयः ।

[२५१।१४-२५१।१५]
अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव ।

[२५१।१५]
चतुर्भिः सह वर्तते ।

[२५१।१५-२५१।१६]
भेदाभिप्रायस्यानृत वचने परुषवचने वा ।

[२५१।१६]
तत्र हिमानस एको भवति वाचिकास्त्रयः ।

[२५१।१६-२५१।१७]
अभिध्यादिगतस्य वा तत्प्रयोगेणा न्यरूपित्रय निष्ठागमने ।

[२५१।१७]
एवं पण्चषट्सप्तभिर्यो जयितव्या ।

[२५१।१७-२५१।१८]
अष्टाभिः सह वर्तते ।

[२५१।१८]
षट्सु प्रयोग्गं कृत्वा स्वयं कामभिथ्याचारं कुर्वतः समं निष्ठागमने ।

[२५१।१९]
एवं तावदकुशलैः ।

[२५१।२०]
दशभिर्यावच्छुभैः

[२५१।२१]
कुशलैः पुनः कर्मपथर्यावत्दशभिः सह चेतना वर्तत इत्युत्सर्गं कृत्वाऽपवादं करोति

[२५१।२२]
नैकाष्टपञ्चभिः ॥ ४.८१ ॥

[२५१।२३]
एकेनाष्टाभि पञ्चभिश्च कर्मपथैः सह न वर्तते ।
तत्र द्वाभ्यां सह वर्तते ।

[२५१।२३-२५२।०१]
कुशलेषु पञ्चसु विज्ञानेषु ।

[२५२।०१]
आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोः ।

[२५२।०१-२५२।०२]
त्रिभिः सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने ।

[२५२।०२-२५२।०३]
चतुर्भिरकुशलाव्याकृतचित्तस्यो पासकश्रामणेरसंवरसमादाने ।

[२५२।०३]
षड्भिः कुशलेषु पञ्चषु विज्ञानकायेषु तत्समादाने ।

[२५२।०३-२५२।०४]
सप्तभिः कुशले मनोविज्ञाने तत्समादान एव अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने ।

[२५२।०५]
नवभिः कुशलेषु पञ्चषु विज्ञानेषु ।

[२५२।०५-२५२।०६]
तत्समादाने क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते ।

[२५२।०६-२५२।०७]
दशभिस्ततोऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव ।

[२५२।०७-२५२।०९]
सर्वा च ध्यानानास्रव संवरसहवर्तिनी चेतनाऽन्यत्र क्षयानुत्पादज्ञानाभ्यां संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्य चित्तस्यैकाङ्गविरतिसमादाने ।

[२५२।०९-२५२।१०]
पञ्चाष्टाभिरपि स्यात्कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् ।

[२५२।११-२५२।१२]
कस्यां गतौ कति कर्मपथा अकुशला कुशला वा संमुखीभावतः समन्वागमतो वा ।

[२५२।१३]
भिन्नप्रलापपारुष्यव्यापादा नरके द्विधा ।

[२५२।१४]
इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति ।

[२५२।१४-२५२।१५]
संमुखीभावतः समन्वागमभावतश्च ।

[२५२।१५]
परिदेवनात्संभिन्नप्रलापः ।
परस्परपरितापनात्पारुष्यं रुक्षसंतानतया ।

[२५२।१६]
परस्परद्वेषाद्व्यापादः ।

[२५२।१७]
समन्वागमतोऽभिध्यामिथ्यादृष्टी ।

[२५२।१८]
न संमुखीभावतः ।
रञ्जनीयवस्त्वभावात्कर्मफलप्रत्यक्षत्वाच्च ।

[२५२।१८-२५२।१९]
कर्मक्षयेण मरणान्न प्राणातिपातः ।

[२५२।१९-२५२।२०]
द्रव्यस्त्रीपरिग्रहाभावान्नदत्तादानकाममिथ्याचारौ प्रयोजनाभावान्न मृषावादः ।

[२५२।२०]
अत एव न पैशुन्यं नित्यभिन्नत्वाच्च ।

[२५२।२१]
कुरौ त्रयः ॥ ४.८२ ॥

[२५२।२२]
समन्वागमत इति वर्तते ।
अभिध्याव्यापादमिथ्यादृष्टयो न संमुखीभावतः ।

[२५२।२३-२५२।२४]
अममापरिग्रहत्वात्स्निग्ध संतानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ।

[२५२।२५]
सप्तमः स्वयमप्यत्र

[२५२।२६]
असंभिन्नप्रलापः संमुखीभावतोऽप्यस्ति ।
ते हि क्लिष्टचित्ताः कदाचित्गायन्ति ।

[२५३।०१]
अपापाशयत्वात्न प्राणतिपातादयः ।

[२५३।०१-२५३।०२]
नियतायुष्कत्वाद्द्रव्यस्त्रीपरिग्रहाभावात्प्रयोजनाभावाच्च ।

[२५३।०२]
कथमेषामब्रह्मचर्यम् ।

[२५३।०२-२५३।०३]
ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ गृहीत्वा वृक्षमूलमुपसर्पन्ति ।

[२५३।०३-२५३।०४]
गम्या चेत्वृक्षश्छादयति तां ते गच्छन्ति ।

[२५३।०४]
अगम्या चेन्न छादयति तां ते न गच्छन्ति ।

[२५३।०५]
कामेऽन्यत्र दशाशुभाः ।

[२५३।०६]
स्वयमपीति वर्तते ।

[२५३।०६-२५३।०७]
नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः कर्मपथाः संमुखीभावतोऽपि विद्यन्ते ।

[२५३।०७]
तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः ।
[२५३।०७-२५३।०८]
मनुष्येष्वसंवरसंगृहीता अपि ।

[२५३।०८]
यद्यपि देवो देवं न मारयति अन्यगतिस्थं तु मारयति ।

[२५३।०८-२५३।०९]
देवा अपि शिरोमध्यच्छेदात्भ्रियन्त इत्यपरे ।

[२५३।०९]
उक्ता अशुभाः ।

[२५३।१०]
शुभास्त्रयस्तु सर्वत्र संमुखीभाव लाभतः ॥ ४.८३ ॥

[२५३।११-२५३।१२]
पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्याऽव्यापादसम्यग्दृष्ट्यः संमुखीभावतः समन्वागमतश्च विद्यन्ते ।

[२५३।१३]
आरुप्यासंज्ञिसत्त्वेषु लाभतः सप्त

[२५३।१४]
कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वागमत एव ।

[२५३।१४-२५३।१६]
आरूप्योओपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् ।

[२५३।१६]
असंज्ञिसत्त्वानां च ध्यानसंवरसमन्वागमात् ।

[२५३।१६-२५३।१७]
यद्भूम्या श्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति तेनारूप्येष्वतीतेन समन्वागतो भवति ।

[२५३।१८]
पञ्च भूम्याश्रयेण त्वनागतेन ।

[२५३।१९]
शेषिते ।

[२५३।२०]
संमुखीभावतश्चापि हित्वा सनरकान् कुरुन् ॥ ४.८४ ॥

[२५३।२१]
शेसः कृतः शेषितः ।
योऽन्यो धातुः शेषितो गतिर्वा ।

[२५३।२१-२५३।२२]
तत्रैते सप्त कुशलाः कर्मपथाः संमुखीभावतोऽपि संविद्यन्तेऽन्यत्र नरकोत्तरकुरुभ्यः ।

[२५३।२२-२५३।२३]
ते पुनस्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीता अन्यत्रोभयथा ।

[२५३।२३-२५३।२४]
त एते दशाकुशलाः कर्मपथाः कुशलाश्च

[२५३।२५]
सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः ।

[२५३।२६]
अकुशलैस्तावत्सर्वैरेवासेवितभावितबहुलीकृतैः नरकेष्रपपद्यते ।
तदेषां विपाकफलम् ।

[२५४।०१-२५४।०५]
स चेदित्थं त्वमागच्छति मनुष्याणां सभागतां प्रणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवतिकाममिथ्याचारेन स संपन्नदारः मृषावादेनाभ्याख्यानबहुलः पैशुन्येन मित्रभेदोऽस्य भवति पारुष्येणामनोज्ञशब्दश्रवणं संभिन्नप्रलापेनानादेयवाक्यः अभिध्यया तीव्ररागः व्यापादेन तीव्रद्वेषः मिथ्यादृष्ट्या तीव्रमोहः ।

[२५४।०५]
तस्या मोहभूयस्त्वात् ।
इदमेषां निःष्यन्दफलम् ।

[२५४।०५-२५४।०६]
अल्पमप्यायुर्मनुष्येषु कुशलफलम् ।

[२५४।०६]
तत्कथं प्राणातिपातस्य निःष्यन्दफलं भवति ।

[२५४।०६-२५४।०७]
नोच्यते तदेवायुस्तस्य फलम्

[२५४।०७]
किं तर्हि ।
तेनाल्पायुर्भवतीति ।

[२५४।०७-२५४।०८]
अतोऽन्तरायहेतुः प्राणाति पातस्तस्यायुषो भवतीति वेदितव्यम् ।

[२५४।०८-२५४।०९]
प्राणातीपातेनात्यासेवितेन बाह्या भावा अल्पौजसो भवन्तीति ।

[२५४।०९-२५४।१२]
अदत्तादानेनाशनिरजोबहुलाः काममिथ्याचारेण रजोऽवकीर्णाः मृषावादेन दुर्गन्धाः पैशुन्येनोत्कूलनिकूलाः पारुष्येणोपरजाङ्गला प्रतिकुष्टाः पापभूमयः संभिन्नप्रलापेन विषमर्तुपरिणामाः अभिध्यया शुष्कफलाः व्यापादेन कटुकफला मिथ्यादृष्ट्याऽल्पफला अफला वा ।

[२५४।१२]
इदमेषामधिपतिफलम् ।

[२५४।१३]
किं तेनैव कर्मणाऽयमिहाल्पायुर्भवत्यथान्येन ।
तेनेवेत्येके ।

[२५४।१३-२५४।१४]
तद्विपाकफलमिदं निष्यन्दफलमिति ।

[२५४।१४]
तत्र प्रयोगेणेह मौलेल्नेत्येके ।

[२५४।१४-२५४।१५]
परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति ।

[२५४।१५]
यदप्येतन्निःष्यन्दफलमुक्तं नैतद्द्वयमतिवर्तते विपाकफलमधिपतिफलं च ।

[२५४।१६]
सादृश्यविशेषात्तु तथोक्तम् ।

[२५४।१६-२५४।१७]
किं पुनः कारणमेषां कर्मपथानामेतत्त्रिविधफलमभिनिवर्तते ।

[२५४।१७-२५४।१८]
प्राणातिपातं हि तावत्कुर्वता मार्यमाणस्य दुःखमुत्पादितं मारितमोजो नाशिमतोऽस्य

[२५४।१९]
दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम् ॥ ४.८५ ॥

[२५४।२०]
परस्य दुःखनाद्विपाकफलेन नरके दुःखितो भवति ।

[२५४।२०-२५४।२१]
मारणन्निःष्यन्दफलेनाल्पायुर्भवति ।

[२५४।२१]
ओजोनाशनादधिपति फलेनाल्पौजसो बाह्या औषधयो भवन्ति ।

[२५४।२३]
एवमन्येष्वपि योज्यम् ।

[२५४।२३-२५४।२४]
एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यं प्राणातिपातविरत्या आसेवितया भावितया बहुलीकृतया देवेषुपपद्यते ।

[२५४।२४-२५४।२५]
स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् ।

[२५४।२५-२५४।२६]
यद्भगवता “मिथ्यावांिमथ्याकर्मान्तो मिथ्याजीव” इत्युक्तं कोऽयमन्यस्ताभ्यां मिथ्याजीवः ।

[२५४।२६]
नायमन्योऽस्ति ।
तदेव तु

[२५५।०१]
लोभजं कायवाक्कर्म मिथ्याजीवः

[२५५।०२]
द्वेषमोहजौ तु कायवाक्कर्मान्तौ ।
स चैष ताभ्यां

[२५५।०३]
पृथक्कृतः ।

[२५५।०४]
दुःशोधत्वात्

[२५५।०५]
हारी हि लोभधर्मः ।
तत्समुत्थात्कर्मणश्चित्तं न सुरक्ष्यम् ।

[२५५।०५-२५५।०६]
अत आजीवो दुःखशोध इत्यादरोत्पादनार्थं तत्रासौ पृथग्निर्दिष्टः ।

[२५५।०६]
आह चात्र

[२५५।०७-२५५।०८]
“दुःशोधा गृहिणां दृष्टिर्नित्यं विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्वायत्तदृष्टिने”ति ॥

[२५५।०९]
परिष्कारलोभोत्थं चेत्

[२५५।१०]
यो मन्यते जीवित्परिष्कारलोभोत्थमेव कायवाक्कर्म मिथ्याजीवोनान्यत् ।

[२५५।१०-२५५।११]
नह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति तत्

[२५५।१२]
न सूत्रतः ॥ ४.८६ ॥

[२५५।१३]
शीलस्कन्धिकायां हि भगवता हस्तियुद्ध दर्शनादीन्यपि मिथ्याजीवे न्यस्तानि ।

[२५५।१४]
किं कारणम् ।
मिथ्यविषयपरिभोगात् ।
गतमेतत् ।

[२५४।१५]
यानि पूर्वं पञ्च फलान्युक्तानि तेषां कतमत्कर्म कतिभिः फलैः प्रहाणम् ।

[२५५।१६]
प्रहाणमार्गे समले सफलं कर्म पञ्चभिः ।

[२५५।१७]
प्रहाणार्थं मार्गः प्रहीयन्ते वाऽनेन क्लेशा इति प्रहाणमार्गः आनन्तर्यमार्गः ।

[२५५।१८]
तस्मिन्सास्रवे यत्कर्म तत्पञ्चभिः फलैः सफलम् ।

[२५५।१८-२५५।१९]
तस्य हि विपाकफलं स्वभूमाविष्टो विपाकः ।

[२५५।१९]
निःष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः ।

[२५५।१९-२५५।२०]
विसंयोगफलं विसंयोग एव ।

[२५५।२०]
यत्तत्प्रहाणम् ।

[२५५।२०-२५५।२१]
पुरुषकारफलं तदाकृष्टा धर्मस्तद्यथाऽधिमुक्तिमार्गस्तत्सहभुवश्च ।

[२५५।२१]
यच्चानागतं भाव्यते तच्च प्रहाणम् ।

[२५५।२१-२५५।२२]
अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्नवर्ज्याः ।

[२५५।२३]
चतुर्भिरमले

[२५५।२४]
अनास्रवे प्रहाणमार्गे यत्कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं हित्वा ।

[२५५।२५]
अन्यच्च सास्रवं यच्छुभाशुभम् ॥ ४.८७ ॥

[२५६।०१-२५६।०२]
यच्चान्यत्प्रहाणमार्गात्सास्रवं कुशलं कर्मं यच्चाकुशलं तदपि चतुर्भिर्विसंयोगफलं हित्वा ।

[२५६।०३]
अनास्रवं पुनः शेषां त्रिभिरव्याकृतं च यत् ।

[२५६।०४]
प्रहाणमार्गादन्यदनास्रवं कर्म अव्याकृतं च कर्म त्रिभिर्विपाकविसंयोगफले हित्वा ।

[२५६।०५]
चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः ॥ ४.८८ ॥

[२५६।०६]
अनुक्रममिति पश्चाद्वक्ष्यति ।

[२५६।०६-२५६।०७]
कुशल्स्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा ।

[२५६।०७]
अकुशला द्वे पुरुषकाराधिपतिफले ।

[२५६।०७-२५६।०८]
अव्याकृता स्त्रीणि निःष्यन्दविसंयोगफले हित्वा ।

[२५६।०८]
अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् ।

[२५६।१०]
यथाक्रममित्यर्थः ।
अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले ।
[२५६।११]
अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा ।

[२५६।११-२५६।१२]
अव्याकृताश्चत्वारि विसंयोगफलं हित्वा ।

[२५६।१२-२५६।१३]
अव्याकृते हि सत्कायान्तग्राहदृष्टी अकुशलानां सर्वत्रगाणां दुःखदर्शन हेयानां च निःष्यन्दफलम् ।

[२५६।१४]
अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः ॥ ४.८९ ॥

[२५६।१५]
अव्याकृतस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफलेल् ।

[२५६।१५-२५६।१६]
अकुशलाः त्रीणि विपाकविसंयोगफले हित्वा ।

[२५६।१६-२५६।१७]
अकुशला हि दुःखदर्शनादिहेया अव्याकृतयोर्दृष्ट्योनिःर्ष्यन्दफलम् ।

[२५६।१७]
अव्याकृता धर्मा एतान्येव त्रीणि ।

[२५६।१८]
सर्वेऽतीतस्य चत्वारि

[२५६।१९]
सर्व इति त्रैयध्विकाः ।

[२५६।१९-२५६।२०]
अतीतस्य कर्मणस्त्रैयद्विकाः धर्माश्चत्वारि फलानि ।

[२५६।२०]
विसंयोगफलल्ं हित्वा ।

[२५६।२१]
मध्यमस्याप्यनागताः ।

[२५६।२२]
प्रत्युत्पन्नस्यापि कर्मणोऽनागता धर्माश्चत्वाति फलान्येतान्येव ।

[२५६।२३]
मध्यमा द्वे

[२५६।२४]
प्रत्युत्पन्ना धर्माः प्रत्युपन्नस्य द्वे पुरुषकाराधिपतिफले ।

[२५६।२५]
अजातस्य फलानि त्रिण्यनागताः ॥ ४.९० ॥

[२५७।०१]
अनागतस्यानागतानि त्रीणि फलानि ।
निःष्यन्दविसंयोगफले हित्वा ।

[२५७।०२]
स्वभूमिधर्माश्चत्वारि

[२५७।०३]
स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफलं हित्वा ।

[२५७।०४]
त्रीणि द्वे वाऽन्यभूमिकाः ।

[२५७।०५]
अन्यभूमिका धर्मा अनास्रवाश्चेत्त्रीणि फलानि ।
विपाकविसंयोगफले हित्वा ।

[२५७।०६]
धात्वपतितत्वात् ।
सास्रवाश्चेत्द्वे पुरुषकाराधिपतिफले ।

[२५७।०७]
शैक्षस्य त्रीणि शैक्षाद्याः

[२५७।०८]
शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि विपाकविसंयोगफले हित्वा ।

[२५७।०८-२५७।०९]
अशैक्षा अप्येवम् ।

[२५७।०९]
नैवशैक्षानाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा ।

[२५७।१०]
अशैक्षस्य तु कर्मणः ॥ ४.९१ ॥

[२५७।११]
धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् ।

[२५७।१२]
अशैक्षस्य कर्मणः शैक्षा धर्माः एकमधिपतिफलम् ।

[२५७।१२-२५७।१३]
अशैक्षास्त्रीणि विपाकविसंयोगफले हित्वा ।

[२५७।१३]
नैवशैक्षानाशैक्षा द्वे पुरुषकाराधिपतिफले ।

[२५७।१४]
ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च ॥ ४.९२ ॥

[२५७।१५-२५७।१६]
शैक्षाशैक्षाभ्यामन्यस्य कर्मणो नैवशैक्षानाशैक्षस्य शैक्षा धर्मा द्वे पुरुषकाराधिपतिफले ।

[२५७।१६]
अशैक्षा अप्येवम् ।
नैवशैक्षानाशैक्षाः पञ्च फलानि ।

[२५७।१७]
त्रीणि चत्वारि चैकं च दृग्धेयस्य तदादयः ।

[२५७।१८]
दर्शनहेयस्य कर्मणोदर्शनहेया धर्मास्त्रीणि फलानि विपाकविसंयोगफलेहित्वा ।

[२५७।१९]
भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा ।
अप्रहेया एकमधिपतिफलम् ।

[२५७।२०]
ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः ॥ ४.९३ ॥

[२५७।२१]
भावनाहेयस्य कर्मणो दर्शनहेया धर्मा द्वे पुरुषकाराधिपतिफले ।

[२५७।२१-२५७।२२]
भावनाहेयाश्चत्वारि विसंयोगफलं मुक्त्वा ।

[२५७।२२]
अप्रहेयास्त्रीणि विपाकनिःष्यन्दफले मुक्त्वा ।

[२५७।२३]
अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् ।

[२५७।२४]
अप्रहेयस्य कर्मणो दर्शनहेया धर्मा एकमधिपतिफलम् ।

[२५७।२४-२५८।०१]
भावनाहेया द्वे पुरुषकाराधिपतिफले ।

[२५८।०१]
अप्रहेयाश्चत्वारि विपाकफलं मुक्त्वा ।

[२५८।०१-२५८।०२]
पुनर्यथाक्रमग्रहणमाद्यन्तवन्मध्येऽपि ज्ञापनार्थम् ।

[२५८।०२]
एष हि पेयालधर्मः ।

[२५८।०३]
कर्मनिर्देशप्रसङ्गेनेदमपि परिप्रश्न्यते ।

[२५८।०३-२५८।०४]
शास्त्रेषु अयोगविहितं योगविहितम्, नैवयोगविहितं नायोगविहितं च कर्मोक्तम् ।

[२५८।०४]
तस्य किं लक्षणम् ।

[२५८।०५]
अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन ॥ ४.९४ ॥

[२५८।०६]
क्लिष्टं कर्मायोगविहितमयोनिशोमनस्कारसंभूतत्वादित्येके ।

[२५८।०७]
विधिभ्रष्टमपीत्यपरे ।

[२५८।०७-२५८।०८]
येन यथा गन्तव्यं स्थातव्यं भोक्तव्यं प्रविचरितव्यमित्येवमादि ।

[२५८।०८]
तच्चान्यथा विदधाति ।
तदयुक्तविधानादयोगविहितमिति ।

[२५८।०८-२५८।०९]
कुशलं कर्मं योगविहितमविधिभ्रष्टं चेत्यपरे ।

[२५८।०९]
उभाभ्यामन्यन्नोभयथा ।

[२५८।०९-२५८।१०]
नैवयोगविहितं नायोगविहितम् ।

[२५८।११]
किमेकं कर्म एकमेव जन्माक्षिपति अथ नैकमपि ।

[२५८।११-२५८।१२]
तथा किमेकमपि कर्मैकं जन्माक्षिपत्यथानेकम् ।

[२५८।१२]
एष हि सिद्धान्तः ।

[२५८।१३]
एकं जन्माक्षीपत्येकम्

[२५८।१४]
एकमेव जन्माक्षिपत्येकमेव च कर्म नानेकं जन्मेति निकायसभागस्याख्या ।

[२५८।१४-२५८।१५]
तत्र हि लब्धे जात इत्युच्यते ।

[२५८।१५-२५८।१६]
यत्तर्हि स्थविरानिरुद्धेनोक्तं “सोऽहं तस्यैकपिण्डपातस्य विपाकेन सप्तकृत्वस्त्रयस्त्रिंशेषु देवेषूपपन्नो यावदेतह्य्राद्ये शाक्यकुले जात” इति ।

[२५८।१७]
तेन ह्यसौ समृद्विं लब्द्वा जातिस्मरः पुनरन्यत्पुण्यं कृतवान् ।

[२५८।१७-२५८।१८]
तत उत्थानं दर्शयति स्म ।

[२५८।१८-२५८।१९]
यथा मनुष्यो दीनारोत्थोऽनेन सहस्रं निर्विश्याह एकेन दीनारेणाहमैत दीश्वर्यं प्राप्त इति ।

[२५८।१९]
अपरे त्वाहुः ।

[२५८।१९-२५८।२०]
तस्य तं पिण्डपातमधिष्ठानं कृत्वा दानचेतनानां प्रवाहो महानुत्पन्नः कयाचित्किञ्चित्फलं परिगृहीतमिति ।

[२५८।२०-२५८।२१]
अनेकेनाप्येकमाक्षिप्यते मा भूत्खण्डशो निकायसभागस्याक्षेप इति ।

[२५८।२२]
एकेन तु कर्मणा क्लिष्टस्य निकायसभागस्येष्यते कर्म ।

[२५८।२३]
अनेकं परिपूरकम् ।

[२५८।२४]
यथा चित्रकर एकया वर्त्या रूपमालिख्य वह्वीभिः परिपूरयति ।

[२५८।२४-२५८।२६]
तथा हि तुल्ये मानुष्ये कश्चित्सकलेन्द्रियाङ्गप्रत्यङ्गो भवतिवर्णकृतिप्रमाणबलसंपदा विभ्राजमानः कश्चिदेषां केनचिद्विकलः ।

[२५८।२६]
न च केवलं कर्मैवाक्षेपकं जन्मनः ।
किं तर्हि ।

[२५८।२७]
अन्यदपि सविपाकम् ।
सर्वथा तु

[२५९।०१]
नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च ॥ ४.९५ ॥

[२५९।०२]
अविपाकाभ्यामप्यचित्तसमापत्तिभ्यां निकायसभागो नाक्षिप्यते ।

[२५९।०२-२५९।०३]
कर्मासहभूतत्वात् ।

[२५९।०३]
प्राप्तिभिश्च कर्मणोऽनेकफलत्वात् ।

[२५९।०४]
त्रिण्यावरणान्युक्तानि भगवता ।
कर्मावरणं क्लेशावरणं विपाकावरणं च ।

[२५९।०४-२५९।०५]
तेषां कः स्वभावः ।

[२५९।०६-२५९।०७]
आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः ।
कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम् ॥ ४.९६ ॥

[२५९।०८]
पञ्चानन्तर्याणि कर्मावरणम् ।

[२५९।०८-२५९।०९]
तद्यथा मातृवधः पितृवधोऽर्हद्वधः संघभेदः तथागतश्रीरे दुष्टचित्तरुधिरोत्पादनम् ।

[२५९।०९]
तीव्रक्लेशता क्लेशावरणम् ।
द्विविधो हि क्लेशः ।

[२५९।१०]
तिव्रश्च य अभिक्ष्णिकः तीक्ष्णश्च योऽधिमात्रः ।
तत्र यस्तीव्रः स आवरणम् ।

[२५९।११]
यथा शण्ठादीनाम् ।

[२५९।११-२५९।१२]
शक्तो ह्यधिमत्रवेगोऽपि क्लेशः कादाचित्को निहन्तुं नतु समूहोऽप्याजस्रिकः ।

[२५९।१२-२५९।१३]
आजस्रिके हे क्लेशे तन्निर्घाताय पराक्रमकालं न लभते ।

[२५९।१३]
तस्य मृदुं प्रतीत्य मध्य उपजायते ।
मध्यं प्रतीत्याधिमात्रः ।

[२५९।१४-२५९।१५]
तस्मातेवावरणं त्रिविधा दुर्गतिः विपाकावरणं सुगतेश्च प्रदेशः औत्तरकौरवा असंज्ञिसत्त्वाश्च ।

[२५९।१५]
कस्यैतान्यावरणानि ।

[२५९।१५-२५९।१७]
आर्यमार्गस्यार्यमार्गप्रायोगिकाणां च कुशलमूलानामन्यान्यपि ह्यपायादिनियतानि अण्डजसंस्वेदजस्त्रीत्वाष्टमभवयतानि कर्माणि वक्तव्यानि स्युः ।

[२५९।१७-२५९।१९]
यान्येव तु पञ्चभिःकारणैः सुदर्शकानि पज्ञकानि अधिष्ठानतः फलतो गतितः उपपत्तितः पुद्गलतश्च तान्येवोक्तानि नान्यानि ।

[२५९।१९]
क्लेशावरणं चैषां सर्वजघन्यम् ।
ततः कर्मावरणम् ।

[२५९।१९-२५९।२०]
ताम्यां हि द्वितीयेऽपि जन्मन्यचिकित्सो भवत्युत्तरोत्तरावाहनादिति वैभाषिकाः ।

[२५९।२१]
आनन्तर्याणीति कोऽर्थः ।

[२५९।२१-२५९।२२]
नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन कर्मान्तरेणेत्यानन्तर्याणि ।

[२५९।२२]
न तिरस्कर्तुमित्यर्थः ।

[२५९।२२-२५९।२३]
न वा तत्कारिणः पुद्गलस्येतश्च्युतस्यान्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः ।

[२५९।२३]
तद्भाव आनन्तर्यम् ।

[२५९।२४]
यस्य धर्मस्य योगात्सोऽनन्तरो भवति ।
श्रामण्यवत् ।

[२५९।२५]
अथैषामावरणानां कतमत्कस्यां गतौ वेदितव्यम् ।
एकान्तेन तावत्

[२६०।०१]
त्रिषु द्वीपेष्वानन्तर्य

[२६०।०२]
नोत्तरकुरौ नान्यासु गतिषु ।
कुत एवान्यत्र धातौ ।
तेत्ष्वपि स्त्रिपुरुषाणामेव ।

[२६०।०३]
शण्डा दीनां तु नेष्यते ।

[२६०।०४]
किं कारणम् ।
तदेवासंवराभावे कारणमुद्दिष्टम् ।
अपि च

[२६०।०५]
अल्पोपकारालज्जित्वात्

[२६०।०६]
यथाक्रमं मातापित्रोस्तेषां च ।
अल्पोपकारौ किलैषां मातापितरौ ।

[२६०।०६-२६०।०७]
विकलात्मभावाधिपतित्वादल्पस्नेहत्वाच्च ।

[२६०।०७-२६०।०८]
तेषामपि न तीव्रं ह्यपत्राप्यं मातापित्रोरन्तिके प्रत्युपस्थितं यद्विपादनादानन्तर्येण स्पृश्येरन् ।

[२६०।०८]
अत एव तिर्यवप्रेतानामपि नेष्यते ।

[२६०।०९]
पटुबुद्धीनां स्यादश्वाजानेयवदिति भदन्तः ।

[२६०।०९-२६०।१०]
मनुष्यस्याप्यमानुषौ मातापितरौ मारयतो न स्यादानन्तर्यम् ॥

[२६०।१०]
उक्तं कर्मावरणम् ॥

[२६०।११]
शेषे गतिषु पञ्चसु ॥ ४.९७ ॥

[२६०।१२]
के पुनः शेषे ।
क्लेशविपाकावरणे ।
मनुष्येषु विपाकावरणम् ।

[२६०।१२-२६०।१३]
कौरवा देवेष्वसंज्ञिसत्त्वाः ।

[२६०।१३]
किंस्वभावान्यानन्तर्याणि ।

[२६०।१३-२६०।१४]
चत्वारि कायकर्म एकं वाक्कर्म त्रीणि प्राणातिपात एकं मृषावादः एकं प्राणातिपातप्रयोगः ।

[२६०।१४-२६०।१५]
अनुपक्रमधर्माणो हि तथागताः ।

[२६०।१५]
हेतौ फलोपचारात्संघभेद आनन्तर्यमुक्तम् ।

[२६०।१५-२६०।१६]
भिद्यते वाऽनेनेति कृत्वा ।

[२६०।१७]
संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः ।

[२६०।१८]
अक्लिष्टाव्याकृतो धर्मः

[२६०।१९]
असामग्री नान चित्तविप्रयुक्तः संस्कारोऽनिवृताव्याकृतः संघभेदः ।

[२६०।१९-२६०।२०]
स किमानन्तर्यं भविष्यति नैव च तेन भेत्ता समन्वागतः ।

[२६०।२०]
किं तर्हि ।

[२६०।२१]
संघस्तेन समन्वितः ॥ ४.९८ ॥

[२६०।२२]
यो हि भिन्नस्तस्य भेदो न भेत्तुः ।
अथ भेत्ता केन समन्वागतः ।

[२६०।२३]
सदवद्यमृषावादस्तेन भेत्ता समन्वितः ।

[२६०।२४]
संघभेदावद्येन भेत्ता समन्वागतः ।
तत्पुनर्मृषावादः ।

[२६०।२४-२६०।२५]
स पुनः संघभेदसहजे वाग्विज्ञप्त्यविज्ञप्ती ।

[२६०।२५]
स च तेनावद्येन समन्वागतो भेत्ता ।

[२६१।०१]
अवीचौ पच्यते कल्पन्

[२६१।०२]
अन्तरकल्पमवीचौ महानरके विपच्यते ।
अन्यैस्तु नावश्यमवीचौ ।

[२६१।०२-२६१।०३]
अथ येन बहुन्यानन्तर्याणि कृतानि भवन्ति अनन्तरमेव तानि विपच्यन्ते ।

[२६१।०३-२६१।०४]
किं तु तैस्तस्य भवति ।

[२६१।०५]
अध्हिकैरधिका रुजः ॥ ४.९९ ॥

[२६१।०६-२६१।०७]
सहि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते कारणाश्च बहुतरास्तीव्रतराश्च येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते ।

[२६१।०७-२६१।०८]
कः पुनरेष संघं भनत्ति ।

[२६१।०९]
भिक्षुर्दु क्वचरितो वृत्ती भिनत्ति ।

[२६१।१०]
भिक्षुर्भिनत्ति न गृही न भिक्षुण्यादयः ।
स च दृष्टिचरित एव न तृष्णाचरितः ।

[२६१।११]
ऋतस्थो न भिन्नवृत्तस्तस्यानादेयवाक्यत्वात् ।
क्व भिनत्ति ।

[२६१।१२]
अत्र भगवान् संनिहितस्ततः ।

[२६१।१३]
अन्यत्र

[२६१।१४]
नहि शास्तुरेव संनिधौ शक्यो भेत्तुम् ।
तथागतानां दुष्प्रसहत्वादादेयवाक्यत्वाच्च ।

[२६१।१५]
कान् भिनत्ति ।

[२६१।१६]
बालिशान् ।

[२६१।१७]
पृथग्जनानेव नार्यान् प्रत्यक्षधर्मत्वात् ।
तानपि न क्षान्तिलाभिन इत्यपरे ।

[२६१।१७-२६१।१८]
कियता भिन्नः संघो भवति ।

[२६१।१९]
शास्तृमार्गान्तरक्षान्तौ भिन्नः

[२६१।२०-२६१।२१]
यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते तदुपदिष्टाच्च मार्गादन्यो मार्ग इयता भिन्नः संघो वक्तव्यः ।

[२६१।२१]
कियन्तं कालं भिन्न आस्ते ।
तामेव रात्रिं

[२६१।२२]
न विवसत्यसौ ॥ ४.१०० ॥

[२६१।२३]
अपर्युषित एव हि संघभेदे संघोऽवश्यं प्रतिसंधीयते ।
योऽयं संघभेद उक्तः

[२६१।२४]
चक्रभेदः स च मतः

[२६१।२५]
धर्मचक्रं हि तदा भगवतो भिन्नं भवति ।
मार्गप्रवृत्तिविष्ठापनात् ।

[२६१।२५-२६१।२६]
अत एव चक्रादश्चोच्यते संघभेदश्च ।

[२६१।२६]
क्व पुनश्चक्रभेदो भवति ।

[२६२।०१]
जम्बूद्वीपे

[२६२।०२]
नान्येषु द्वीपेषु ।
कतिभिर्भिक्षुभिः ।

[२६२।०३]
नवादिभिः ।

[२६२।०४]
नवादिं कृत्वा ।
परेणानियमः ।
अष्टौ भिक्षयः संघो भवति ।
नवमो भेत्ता ।

[२६२।०४-२६२।०५]
अवश्यं हि संघेन द्वयोःपक्षयोः स्थातव्यम् ।

[२६२।०५]
एवं भिन्नो भवति ।

[२६२।०५-२६२।०६]
अन्यस्तु संघभेदः कर्मभेदाद्भवति ।

[२६२।०६]
यद्येकसीमायां व्यग्राः कर्म कुर्वन्ति ।
स चैष

[२६२।०७]
कर्मभेदस्त्रिषु द्वीपेषु

[२६२।०८]
येष्वेव शासनम् ।
कतिभिर्भिक्षुभिः

[२६२।०९]
अष्टाभिरधिकैश्च सः ॥ ४.१०१ ॥

[२६२।१०]
चक्रभेदस्तु षट्सु कालेषु न भवति ।
कतमेषु ।

[२६२।११-२६२।१२]
आदावन्तेऽर्बुदात्पूर्वं युगाच्चोपरते मुनौ ।
सीमायां चाप्यबद्धायां चक्रभेदो न जायते ॥ ४.१०२ ॥

[२६२।१३]
आदावचिरप्रवर्तिते धर्मचक्रे ।
अन्ते परिनिर्वाणकाले भगवतः ।

[२६२।१३-२६२।१४]
एतयोर्हि द्वयोरवस्थयोः संघ एकरसो भवति ।

[२६२।१४-२६२।१५]
मध्येऽप्यर्बुदात्पूर्वं न भिद्यते यावच्छासने शीलार्बुदं दृष्ट्यर्बुदं च नोत्पन्नं भवति ।

[२६२।१५-२६२।१६]
युगाच्च पूर्वं न भिद्यते यावच्छ्रावकाग्रयुगं नोत्पन्नं भवति ।

[२६२।१६]
भिन्नन्यायपरिवासात्तेन च प्रतिसंधानीयत्वात् ।

[२६२।१६-२६२।१७]
उपरते मुनौ शास्तरि परिनिर्वृते प्रतिद्वन्द्वाभावात् ।

[२६२।१७-२६२।१८]
सीमायामबद्धायां यावत्सीमा न बद्धा भवति ।

[२६२।१८-२६२।१९]
एकसीमायां हि पक्षद्वयावस्थानात्संघभेद इत्येषु कालेसु चक्रभेदोन भवति ।

[२६२।१९]
न च पुनः सर्वेषां बद्धानां चक्रभेदः ।
कर्माधीनत्वात् ।

[२६२।२०]
कस्मात्मातृवधादिष्वानन्तर्यं नान्यत्र ।

[२६२।२१]
उपकारियुणक्षेत्रनिराकृतिविपादनात् ।

[२६२।२२]
मातापितृवधे तावदुपकारिणो निराकरणात् ।
कथं तावुपकारिणौ ।

[२६२।२२-२६२।२३]
आत्मभावस्य तत्प्रभवत्वात् ।

[२६२।२३]
किं तयोर्निराकरणम् ।
परित्यागः ।
गुणक्षेत्रत्वादर्हद्वधादानन्तर्यम् ।

[२६२।२४-२६२।२५]
यदि पुनर्मातुर्व्यञ्जनं परिवृत्तं स्यात्पितुर्वा तत्रैकस्मिन्नाम्नायो

[२६३।०१]
व्यञ्जनान्तरितोऽपि स्यात्

[२६३।०२]
अत एवोच्यते “स्यात्पुरुषं जीविताद्वच्यपरोपयेन्न पितरं नार्हन्तम् ।

[२६३।०२-२६३।०३]
आनन्तर्यावद्येन च स्पृश्येत ।

[२६३।०३]
स्यान्मातुर्व्यञ्जनं परिवृत्तं स्यादिति ।

[२६३।०३-२६३।०४]
स्यात्स्त्रीं जीविताद्व्यपरोपयेन्न मातरं नार्हन्तीमानन्तर्यावद्येन च स्पृश्येत ।

[२६३।०४-२६३।०५]
स्यात्पितुर्व्यञ्जनं परिवृत्तं स्यादि”ति ।

[२६३।०५]
अन्यस्याः स्त्रियाः कललं प्रस्रुतमन्यया योन्या पीतम् ।

[२६३।०५-२६३।०६]
कतरा तस्य माता यां घ्नतः स्यादानन्तर्यम् ।

[२६३।०७]
माता यच्छोणितोद्भवः ॥ ४.१०३ ॥

[२६३।०८]
यस्याः शोणितादसावुद्भूतः सत्त्वः साऽस्य माता द्वितीया तु सर्वकृत्येष्ववलोक्या ।

[२६३।०९]
सा ह्यापायिका पोषिका संवर्धिका च ।

[२६३।०९-२६३।१०]
यदि मातरि प्रयोगं कृत्वाऽन्यां मारयेन्न स्यादानन्तर्यम् ।

[२६३।१०]
अमातृप्रयोगेण मारयेत्तथापि न स्यात् ।

[२६३।१०-२६३।११]
मञ्चतलावलीनमातृमारणं चात्रोदाहार्य धावकस्य च पुत्रेण मसक प्रयोगेण पितुर्मारणं च ।

[२६३।११-२६३।१२]
एकेन प्रहारेण मातरमन्यां च मारयतो द्वे अविज्ञप्ती भवतः ।

[२६३।१२]
विज्ञप्तिस्त्वानन्तर्यमेव ।

[२६३।१३]
तस्य कर्मणो बलीयस्त्वात् ।
परमाणुसंचितत्वाद्विज्ञप्तिरपि द्विधेति भदन्तघोषकः ।

[२६३।१४-२६३।१५]
अनर्हत्संज्ञयाऽपि अर्हद्घाते भवत्यानन्तर्यमहं हन्मीत्याश्रयावधारणात् ।

[२६३।१५]
यः पितरमर्हन्तं हिंस्यात्तस्याप्येकमेव स्यादानन्तर्यमाश्रयैकत्वात् ।

[२६३।१६]
इदमवदानं कथं नीयते “गच्छ शिखण्डिनं ब्रूहि द्वे आनन्तर्ये भवता कृते ।

[२६३।१६-२६३।१७]
यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन्नि”ति ।

[२६३।१७]
द्वाभ्यां कारणाभ्यामिति वक्तव्यम् ।

[२६३।१८]
द्वाभ्यां वा मुखाभ्यां परिभाषितः ।

[२६३।१८-२६३।१९]
किमवश्यं तथागतस्यास्ति कुटुष्टचित्तरुधिरोत्पादनादानन्तर्यम् ।

[२६३।१९]
वधाभिप्रायस्य स्यात् ।

[२६३।२०]
बुद्धे न ताडनेच्छस्य

[२६३।२१]
यदि ताडनाभित्राय उत्पादयेन्न स्यात् ।
यद्यनर्हति प्रहरेत्स च प्रहारादूर्ध्वमर्हन् स्यात्

[२६३।२२]
प्रहारान्नोर्ध्वमर्हति ।

[२६३।२३]
स्यादानन्तर्यमिति वर्तते ।
नहि तेन तत्र प्रयोगः कृतः ।

[२६३।२३-२६३।२४]
किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यं फलं वा न प्राप्नुयात् ।

[२६३।२५]
नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः ॥ ४.१०४ ॥

[२६४।०१-२६४।०२]
अन्यकर्मफलपथप्रयोगं तु कृत्वार्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिराश्रयस्यात्यन्तं तद्विरुद्धत्वात् ।

[२६४।०३]
एषामानन्तर्याणां कतमत्महासावद्यम् ।

[२६४।०४]
संघमेदे मृषावादो महावद्यतमो मतः ।

[२६४।०५-२६४।०६]
यः संघभेदनिमित्तं मृषावादो धर्माधर्मज्ञस्य विपर्ययद्योतनात्स सर्वेषां दुश्चरितानां महावद्यतमः ।

[२६४।०६]
किं कारणम् ।

[२६४।०६-२६४।०७]
तथागतधर्मशरीरप्रहारितत्वात्लोकानां च स्वर्गापवर्गमार्गान्तरायकत्वात् ।

[२६४।०७-२६४।१०]
संघे हि भिन्ने लोकस्य नियामावक्रन्तिफलप्राप्तिवैराग्यास्रवक्षयाः प्रतिबध्यन्ते ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न प्रवर्तन्ते सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते यावत्पुनर्न प्रतिसंधितो भवतियस्माच्चाविचौ कल्पं विपाकः ।

[२६४।१०-२६४।११]
शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि सर्वलघुः पितृवधः ।

[२६४।११-२६४।१३]
यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः पुनर्मिथ्यादृष्टिः परमवद्यानामित्युक्तमानन्तर्याणि नियमस्य संघभेदो महासावद्य उक्तः ।

[२६४।१३-२६४।१४]
त्रीणि कर्माणि नियमय्य मनोदण्दः दृष्टीर्नियमय्य मिथ्यादृष्टिः ।

[२६४।१४-२६४।१५]
अथवा विपाकविस्तरं महाजनव्यापादनं कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् ।

[२६४।१६]
सुचरितानां पुनः कतमत्महाफलतमम् ।

[२६४।१७]
भवाग्रचेतना लोके महाफलतमा शुभे ॥ ४.१०५ ॥

[२६४।१८]
कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा ।

[२६४।१८-२६४।१९]
तस्या अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः ।

[२६४।१९]
विपाकफलं चाधिकृत्यैतदुक्तम् ।

[२६४।१९-२६४।२१]
विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला सर्वसम्योजनपर्यादानफलत्वात् ।

[२६४।२१]
अत एव लोक इत्युक्तम् ।

[२६४।२२]
किमानन्तर्यैरेवावश्यं नरकेषूपपद्यते ।
आनन्तर्यसभागैरप्यवश्यमुपपद्यते ।

[२६४।२३]
नत्वनन्तरमेवेत्यपरे ।
कतमानि तानीत्याह

[२६४।२४-२६४।२५]
दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् ।
बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका ॥ ४.१०६ ॥

[२६५।०१]
आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् ।

[२६५।०२]
एतानि पञ्च पञ्चानामानत्नर्याणां यथाक्रमं सभागानि ।

[२६५।०२-२६५।०४]
यदि मातरमर्हन्तीं दूषयत्यब्रह्मचर्यकरणात्नियतिपतीतं बोधिसत्त्वं मारयति शैक्षं मारयति संघस्य सुखायद्वारिकं हरति स्तूपभेदं करोति ।

[२६५।०४-२६५।०५]
अन्यदपि तु कर्म सविपाकं त्रिषु कालेष्वत्यर्थं विघ्नयति ।

[२६५।०५]
कतमेषु त्रिसु ।

[२६५।०६]
क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् ॥ ४.१०७ ॥
[२६५।०७]
मूर्धभ्यः क्षान्तिमाकिरत आपायिकानि कर्माणि विघ्नायोपतिष्ठन्ते ।

[२६५।०७-२६५।०८]
तद्विपाकभूम्यतिक्रमात् ।

[२६५।०८]
यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उपतिष्ठन्ते ।

[२६५।०८-२६५।१०]
अनागामिफलं प्राप्नुवतः कामावचराणि विघ्नायोपतिष्ठन्ते तथैव स्थापयित्वा दृष्टधर्मवेदनीयं कर्म ।

[२६५।१०]
अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव ।

[२६५।१०-२६५।११]
यदुक्तं “बोधिसत्त्वस्य मारण”मिति

[२६५।१२]
बोधिसत्त्वः कुतो यावत्

[२६५।१३]
कुत उपादाय बोधिसत्त्वोवक्तव्यः ।

[२६५।१४]
यतो लक्षण कर्मकृत् ।

[२६५।१५-२६५।१६]
यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुं स हि तदानीं नियतिपतितो भवति ।

[२६५।१६]
कथं कृत्वा ।
स हि तस्मात्कालात्प्रभृति नित्यं भवति ।

[२६५।१७]
सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् ॥ ४.१०८ ॥

[२६५।१८]
प्रशस्ता गतिरस्येति सुगतिर्देवमनुष्योपपत्तेः ।

[२६५।१८-२६५।१९]
तस्यां च सुगतौ क्षत्रियब्राह्मणगृहपतिमहाशालकुलजो भवति नान्यः कुलीनः ।

[२६५।१९]
विकलान्यक्षाण्यस्येति व्यक्षः ।

[२६५।२०]
न व्यक्षोऽव्यक्षः अविकलेन्द्रियः इत्यर्थः ।
पुरुष एव न स्त्री कुत एव शण्ढादिः ।

[२६५।२१]
जातिस्मरश्च भवति ।
सर्वस्यां जातौ निवर्तत इति निवृत् ।
न निवृदनिवृत् ।

[२६५।२२]
अनिवर्तक इत्यर्थः ।

[२६५।२२-२६५।२३]
सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् ।

[२६५।२३]
यत्तल्लोक उच्यते “अपणक्रीतो दास” इति ।

[२६५।२३-२६५।२६]
बोधिसत्त्वास्ते ते हि महात्मानः सर्वसंपत्प्रकर्षविशेषप्राप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात्सर्वसत्त्वेषु चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थानां सोढारो भवन्ति सर्वश्रमयन्त्रणानां चोद्वोढारः ।

[२६५।२६-२६५।२७]
यच्चैतल्लक्षणविपाकं कर्मेत्युक्तम् ।

[२६६।०१-२६६।०२]
जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः ।
चिन्तामयं कल्पशते शेष आक्षिपते हि तत् ॥ ४.१०९ ॥

[२६६।०३]
जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति ।
नान्यत्र ।

[२६६।०३-२६६।०४]
जाम्बूद्वीपकानां तीक्ष्णबुद्धित्वात् ।

[२६६।०४]
पुरुष एव न स्त्री ।

[२६६।०४-२६६।०५]
संमुखीभूत एव शास्तरि बुद्धालम्बनयैव चेतनया चिन्तामयं तत्कर्म न श्रुतमयं न भावनामयम् ।

[२६६।०५-२६६।०६]
कल्पशते च शेष आक्षिपति न बहुभवेसु ।

[२६६।०६-२६६।०७]
भगवता तु शाक्यमुनिनोत्तप्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् ।

[२६६।०७-२६६।०९]
अत एव चोक्त “मितोऽहं ग्रामणीरेकनवतं कल्पमुपादाय न समनुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं वे”ति ।

[२६६।०९-२६६।११]
ततः प्रभृति प्रकृतिजातिस्मरत्वात्प्रथमकल्पासंख्येयनिर्यात एव बोधिसत्त्व एतांश्चतुरो दोषान् व्यावर्तयति द्वौ च गुणो प्रतिलभत इति पूर्वाचार्याः ।

[२६६।११]
तेषां च लक्षणानाम्

[२६६।१२]
एकैकं पुण्यशतजम्

[२६६।१३]
किं पुण्यस्य परिमाणम् ।

[२६६।१३-२६६।१४]
संनिकृष्टबोधिसत्त्वं स्थापयित्वा यावत्सर्वसत्त्वानां भोगफलमित्येके ।

[२६६।१४-२६६।१५]
यावत्सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्रमहासाहस्रको लोकोऽभिनिवर्तत इत्यपरे ।

[२६६।१५]
बुद्धा एव च तत्परिमाणज्ञा इत्यपरे ।

[२६६।१५-२६६।१६]
अथ बोधिसत्त्वभूतो भगवान् कियतो बुद्धान् पर्युपासयामास ।

[२६६।१६-२६६।१७]
प्रथेमे कल्पासंख्येये पञ्चसप्ततिसहस्राणि द्वितीये षट्सप्ततिं तृतीये सप्तसप्ततिम् ।

[२६६।१८]
अथ कस्य कल्पासंख्येयस्यान्ते कतमो बुद्ध आसीत् ।

[२६६।१८-२६६।१९]
प्रतिलोमानुक्रमेण यथाक्रमम् ।

[२६६।२०]
असंख्येयत्रयान्त्यजाः ।

[२६६।२१]
विपश्यी दीपकृद्रत्नशिखी

[२६६।२२]
रत्नशिखिनि सम्यक्संबुद्धे प्रथमोऽसंख्येयः समाप्तः ।
दीपङ्करे भगवति द्वितीयः ।

[२६६।२३]
विपश्यिनि तथागते तृतीयः ।
सर्वेषां तु तेषां

[२६६।२४]
शास्यमुनिः पुरा ॥ ४.११० ॥

[२६६।२५]
शाक्यमुनिर्नाम सम्यक्संबुद्धः पूर्वं वभूव ।

[२६६।२५-२६७।०२]
यत्र भगवता बोधिसत्त्वभूतेनाद्यं प्रणिधानं कृतमेवंप्रकार एवाहं बुद्धो भवेयमिति नोऽप्येवं कलियुग एवोत्पन्नवानार्यवत्तस्याप्येवं वर्ष सहस्रान्तं शासनं बभूव ।

[२६७।०३]
अथ कस्यामवस्थावां बोधिसत्त्वः कां पारमितां परिपूरयते ।

[२६७।०४]
सर्वत्र सर्वं ददतः कारुण्याद्दानपूरणम् ।

[२६७।०५-२६७।०६]
यदा सर्वस्मै सर्वं ददाति आ अक्ष्णः आ मज्जायाः कारुण्यान्नाभ्युदयविशेषं लिप्समानः इयता दानपारमिता परिपूर्णा भवति ।

[२६७।०७]
अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः ॥ ४.१११ ॥

[२६७।०८-२६७।०९]
यदाऽयमवीतरागोऽपि च्छिद्यमानेष्वङ्गेषु नाल्पमपि कुप्यति तदाऽस्य क्षान्तिशीलपारमिते परिपूर्णे भवतः ।

[२६७।१०]
तिष्यस्तोत्रेण वीर्यस्य

[२६७।११-२६७।१२]
तिष्यं तथागतरत्नगुहायां तेजोधातुसमापन्नदृष्ट्या भगवान् बोधिसत्त्वभूत एकेन पादेन स्थित्वा सप्त दिवसान् स्तुतवानेकगाथया

[२६७।१३-२६७।१६]
“न दिवि भुवि वा नास्मिन् लोके न वैश्रवणालये ।
न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥
चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् ।
पुरुषवृषभस्त्वत्तुल्योऽन्यो महाश्रमणः कुत” इति ॥

[२६७।१७]
तदा किल वीर्यपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः ।

[२६७।१८]
धीसमाध्योरनन्तरम् ।

[२६७।१९-२६७।२०]
बोधेः पूर्वसमनन्तरं ध्यानप्रज्ञापारमितयोः परिपूरिर्वज्रोपमसमाधौ स्वस्याः संपदः पारगमनात्पारमिताः ।

[२६७।२१]
सूत्र उक्तं “त्रीणि पुण्यक्रियावस्तूनि ।

[२६७।२१-२६७।२२]
दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयमि”ति ।

[२६७।२२]
कथमेतत्त्रयं पुण्यक्रियावस्तु ।

[२६७।२३]
पुण्यं क्रियाऽथ तद्वस्तु त्रयं कर्मपथा यथा ॥ ४.११२ ॥

[२६७।२४]
पुण्यमप्येतत्त्रयं क्रियाऽपि वस्त्वपि यथायोगमिति पुण्यक्रियावस्तु ।

[२६७।२४-२६८।०१]
तद्यथा कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मंपथा उक्ताः ।

[२६८।०१-२६८।०२]
तत्र दानमये तावत्पुण्यक्रियावस्तुनि कायवाक्कर्म त्रिधा भवति ।

[२६८।०२-२६८।०३]
तत्समुत्थापिका चेतना पुण्यं च क्रिया च ।

[२६८।०३]
तत्सहभुवो धर्माः पुण्यमेव ।
शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति ।

[२६८।०४]
भावनामयो मैत्री पुण्यं च पुण्यक्रियायाश्च वस्तु ।

[२६८।०४-२६८।०६]
तत्संप्रयुक्तायाश्चेतनाया मैत्रीमुखेनाभिसंस्करणात्तत्सहभुवश्चेतना शीलं च पुण्यं च क्रिया च ।

[२६८।०६-२६८।०७]
अन्ये तत्सहभुवः पुण्यमेव पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या एतानि त्रीणि वस्तूनि ।

[२६८।०७]
एषां संपादनार्थं पुण्यप्रयोगारम्भादिति ।

[२६८।०७-२६८।०८]
कुशलचेतनापरमार्थेन पुण्यक्रिया ।

[२६८।०८]
तस्या एतानि वस्तूनीत्यपरे ।

[२६८।०९]
किमिदं दानं नाम ।
यदपि दीयते दद्दानम् ।
इह तु

[२६८।१०]
दीयते येन दद्दानं

[२६८।११]
भवति स्म ।
रागादिभिरपि दीयते ।
न चात्र तदिष्टम् ।
अतो विशेषणार्थमाह

[२६८।१२]
पूजानुग्रहकाम्यया ।

[२६८।१३]
परेषां पूजानुग्रहकामताभ्यां येन दीयते ।
किं पुनस्तत्स्याद्येन दीयते ।

[२६८।१४]
कायवाक्कर्म सोत्थानं

[२६८।१५]
किं पुनस्तदुत्थानम् ।
येन कलापेन तदुत्थाप्यते ।
आह चात्र

[२६८।१६-२६८।१७]
शुभेन मनसा द्रव्यं स्वं ददाति यदा पुमान् ।
तत्क्षणं कुशलाः स्कन्धाः दानमित्यभिधीयते ॥” इति ।
[२६८।१८]
महाभोग्यफलं च तत् ॥ ४.११३ ॥

[२६८।१९]
तच्चैतद्दानमयं पुण्यक्रियावस्तु महाभोग्यफलम् ।
स्वभावे चैष मयड्वेदितव्यः ।

[२६८।२०]
तद्यथा तृणमयं गृहं पर्णमयं भाजनमिति ।
तत्खल्वेतद्दानं

[२६८।२१]
स्वपरार्थोभयार्थाय नोभयार्थाय दीयते ।

[२६८।२२-२६८।२३]
तत्र यदवीतरागः आर्यः पृथग्जनो वा वीतरागश्चैत्ये दानं ददाति तदस्यात्मन एवार्थाय ।

[२६८।२३]
परेषां तेनानुग्रहाभावात् ।

[२६८।२३-२६९।०१]
यदार्यो वीतरागः परसत्त्वेभ्यो दानं ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तत्र दानं परेषामर्थाय ।

[२६९।०१-२६९।०२]
तेन तेषामनुग्रहात् ।

[२६९।०२]
नात्मनोऽर्थाय ।
तद्विपाकभूमेरत्यन्तसमतिक्रान्तत्वात् ।

[२६९।०२-२६९।०३]
यदवीतरागः पृथग्जनो वा वीतरागः परसत्त्वेभ्यो ददाति तद्दानमुभयेषामर्थाय ।

[२६९।०३-२६९।०४]
यदार्यो वीतरागश्चैत्ये ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तद्दानमुभयेषां नार्थाय ।

[२६९।०४-२६९।०५]
तद्धि केवलं गौरवं कृत्ज्ञाभ्यां दीयते ।

[२६९।०५]
सामान्येन दानं महाभोग्यफलमुक्तम् ।

[२६९।०६]
तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः ॥ ४.११४ ॥

[२६९।०७]
तत्र तावत्

[२६९।०८]
दाता विशिष्टः श्रद्धाद्यैः

[२६९।०९]
श्रद्धाशीलश्रुतादिगुणयुक्तो दाता विशिष्टो भवति ।

[२६९।०९-२६९।१०]
तस्य तद्दानदातृविशेषेण फलदानं प्रतिविशिष्यते ।

[२६९।१०]
स च तादृशो दाता

[२६९।११]
सत्कृत्यादि ददाति

[२६९।१२]
सत्कृत्य स्वहस्तं काले परानुपहत्य ददाति ।

[२६९।१३]
अतः ।

[२६९।१४]
सत्कारोदाररुचिता कालानाच्छेद्यलाभिता ॥ ४.११५ ॥

[२६९।१५]
अतोऽस्य दातुस्तत्तादृशं दानं दत्त्वा यथाक्रमं चत्वारो विशेषा भवन्ति ।

[२६९।१५-२६९।१६]
सत्कारलाभी भवति ।

[२६९।१६]
उदारेषु च भोगेषु रुचिं लभते ।

[२६९।१६-२६९।१७]
कालेल्न च भोगान् लभते नातिक्रान्तिकालेन ।

[२६९।१७]
अनाच्छेद्यांश्च भोगान् लभते ।

[२६९।१७-२६९।१८]
नास्य भोगाः परैराच्छाद्यन्ते नाप्यग्न्यादिभिर्विनाश्यन्ते ।

[२६९।१८-२६९।१९]
उक्तं यथा दाता विशिष्यते तद्विशेषाच्च दानविशेषः ।

[२६९।२०]
अथ वस्तु कथं विशिष्यते ।

[२६९।२१]
वर्णादिसम्पदा वस्तु

[२६९।२२]
विशिष्टमिति वर्तते ।

[२६९।२२-२६९।२३]
यदि यद्दीयते दद्वर्णगन्धरसस्पर्शानामन्यतमेनापि संपन्नं भवति ।

[२६९।२३]
एवं वस्तु विशिष्यते ।
तादृशं वस्तु दत्त्वा किं भवति ।
यथाक्रमम्

[२६९।२४-२६९।२५]
सुरूप्त्वं यशस्वि वा ।
प्रियता सुकुमारर्तुसुखस्पर्शाङ्ता ततः ॥ ४.११६ ॥

[२६९।२६]
वर्णसम्पन्नं दत्त्वा सुरूपो भवति ।
गन्धसंपन्नं दत्त्वा यशस्वी भवति ।

[२६९।२६-२७०।०१]
गन्धवद्यशसो दिक्षु विधारणात् ।

[२७०।०१]
रससंपन्नं दत्त्वा प्रियो भवति ।
रस इव स्वादुः ।

[२७०।०१-२७०।०३]
स्पर्शसंपन्नं दत्त्वा सुकुमाराङ्गाश्च भवति ऋतुसुखस्पर्शानि चास्याङ्गानि भवन्ति यथा स्त्रीरत्नस्य ।

[२७०।०४]
अथ क्षेत्रं कथं विशिप्यते ।

[२७०।०५]
गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते ।

[२७०।०६]
गतिविशेषातावद्विशिष्यते ।

[२७०।०६-२७०।०७]
तथा ह्युक्तं भगवता “तिर्यग्योनिगताय दानं दत्त्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः ।

[२७०।०७-२७०।०८]
दुःशीलाय मनुष्यभूताय दानं दत्त्वा सहस्रगुण” इति ।

[२७०।०८]
दुःखविशेषा द्विशिष्यते ।
तथा ह्यौपधिकेषु पुण्यक्रियावस्तुषु ।

[२७०।०९]
ग्लाने दानं ग्लानोपस्थापके दानम् ।

[२७०।०९-२७०।११]
शीतलिकादिषु च दानमुक्त्वोक्तमे” भिः सप्तभिः औषधिकैः पुण्यक्रियावस्तुभिःसमन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यानां प्रमाणमुद्ग्रहीतुमि”ति ।

[२७०।१२-२७०।१३]
उपकारित्वविशेषाद्यथा मातापित्रोरन्येषां चोपकारिणामृष्यमृगजातकाद्युदाहरणात् ।

[२७०।१३]
गुणविशेषाद्यथा” शीलवते दत्त्वा शतसहस्रगुणो विपाक” इत्येवमादि ।

[२७०।१४]
सर्वेषां तु दानानाम्

[२७०।१५]
अग्रं मुक्तस्य मुक्ताय

[२७०।१६]
“यद्वीतरागो वीतरागाय दत्त्वाऽतिदानमिदं श्रेष्ठमामिषदानेषु दानमित्युक्तं भगवता ।

[२७०।१७]
बोधिसत्त्वस्य च

[२७०।१८]
यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोस्तदमुक्तस्याप्यमुक्तेऽभ्यादानमग्रम् ।

[२७०।१९]
तत्स्थापयित्वा यानि भगवतोऽन्यान्यष्टौ दानान्युक्तानि तेषाम्

[२७०।२०]
अष्टमम् ॥ ४.११७ ॥

[२७०।२१]
अग्रमिति वर्तते ।
कतमान्यष्टौ ।

[२७०।२१-२७०।२४]
आसाद्य दानं भयदानमदान्मे दानं दास्यति मे दानं दत्त्पूर्वं मे दानं पितृभिश्च पितामहैश्चेति दानं ददाति स्वर्गार्थं दानं कीर्त्यर्थं दानं चित्तालङ्कारार्थं दानं चित्तपरिष्कारार्थं यिओगसंभारार्थमुत्तमार्थस्य प्राप्तये दानं ददाति ।

[२७०।२४]
तत्रासाद्य दानं यतासन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः ।

[२७०।२५]
भयदानं यद्विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति ।

[२७०।२५-२७०।२६]
शेषं सुगमत्वान्न विभक्तम् ।

[२७०।२६]
स्रोत आपत्तिफलप्रतिपन्नकाय दानं दत्त्वाऽप्रमेयविपाकः ।

[२७०।२७]
ततोऽप्रमेयतरः स्रोत आपन्नायेति विस्तरेणोक्तं सूत्रे ।
अपितु

[२७१।०१-२७१।०२]
मातृपितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने ।
बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा ॥ ४.११८ ॥

[२७१।०३]
एभ्यः पञ्चभ्यः पृथग्जनभूतेभ्योऽप्यप्रमेया फलतो दक्षिणा भवति ।

[२७१।०३-२७१।०४]
तत्रान्त्यजन्मा बोधिसत्त्वश्चरमभविकः ।

[२७१।०४-२७१।०५]
धर्मकथिकश्चतुर्विधे क्षेत्रविशेषे कतमस्मिन् पक्षे दिक्षेप्तव्यः ।

[२७१।०५]
उपकारिपक्षे ।

[२७१।०५-२७१।०७]
स हि महाकल्याणमित्रमविद्यान्धायां प्रजायां प्रज्ञाचक्षुषो दाता समविषमस्य प्रकाशयिता अनास्रवस्य धर्मकायस्यातिनिवर्तयिता समासतो बुद्धकृत्यस्य कर्ता ।

[२७१।०८]
कर्मणां तु गुरुलघुत्वं ज्ञातुकामेन समासतः षट्कारणानि ज्ञेयानि ।
तद्यथा

[२७१।०९-२७१।१०]
पृष्ठं क्षेत्रमधिष्ठानं प्रयिओगश्चेतनाशयः ।
एषां मृद्वधिमात्रत्वात्कर्ममृद्वधिमात्रता ॥ ४.११९ ॥

[२७१।११]
पृष्ठं नाम यत्कृतस्य पुनरनुक्रिया ।
क्षेत्रं नाम यत्र कारापकाराः क्रियन्ते ।

[२७१।१२]
अधिष्ठानं कर्मपथः ।
प्रयोगस्तदर्थं कायवाक्कर्म ।

[२७१।१२-२७१।१३]
चेतना यया कर्मपथं निष्ठापयति ।

[२७१।१३-२७१।१४]
आशयस्तदभिप्राय एवं चैवं च कुर्यामेवं चैवं च न करिष्यामीति ।

[२७१।१४]
कस्यचित्पृष्ठपरिग्रहेणैव तत्कर्म गुरु संपद्यते ।

[२७१।१४-२७१।१५]
विपाकनैयम्येनावस्थानात् ।

[२७१।१५]
कस्यचित्क्षेत्रवशेनैव ।

[२७१।१५-२७१।१६]
तत्रैव क्षेत्रे पुनरधिष्ठानवशात्गुरु संपद्यते नान्यथा ।

[२७१।१६]
यथा माताइत्रोः प्राणातिपातात्न त्वेवमदत्तादानादिकात् ।

[२७१।१६-२७१।१७]
एवमन्यदपि योज्यम् ।

[२७१।१७-२७१।१८]
यस्य तु सर्वाण्यधिमात्राणि भवन्ति तस्यात्यर्थमधिमात्रं गुरु कर्म वेदितव्यम् ।

[२७१।१८]
यस्य मृदूनि तस्यात्यर्थं मृदु वेदितव्यम् ॥

[२७१।१९]
कृतं चोपचितं च कर्मोच्यते ।
कथं कर्मोपचितं भवति ।
पञ्चभिः करणैः ।

[२७१।२०-२७१।२१]
संचेतनसमाप्तिभ्यां निष्कौकृत्य विपक्षतः ।
परिवाराद्विपाकाच्च कर्मोपचितमुच्यते ॥ ४.१२० ॥

[२७१।२२]
कथं संचेनतः ।
संचिन्त्य कृतं भवति नाबुद्धिपूर्वं न सहसा कृतम् ।

[२७१।२२-२७१।२३]
कथं समापत्तितः ।

[२७१।२३]
कश्चिदेकेन दुश्चरितेनापायान्यातिकश्चिद्यावत्त्रिभिः ।

[२७१।२३-२७१।२४]
कश्चिदेकेन कर्मपथेन कश्चिद्यावद्दशभिः ।

[२७१।२४-२७१।२५]
तत्र यो यावता गच्छति तस्मिन्नसमाप्ते कृतं तत्कर्म नोपचितं समाप्ते तूपचितम् ।

[२७१।२५]
कथं निष्कौकृत्यविपक्षतः ।

[२७१।२५-२७२।०१]
निर्विप्रतिसारं च तत्कर्म भवति निष्प्रतिपक्षं च ।

[२७२।०१]
कथं परिवारतः ।

[२७२।०१-२७२।०२]
अकुशलं चाकुशलपरिवारं च भवति ।

[२७२।०२]
कथं विपाकतः ।
विपाकदान नियतं भवति ।

[२७२।०३]
एवं कुशलमपि योज्यम् ।
अतोऽन्यथा कर्म कृतं भवति नोपचितम् ।

[२७२।०४]
चैत्ये सरागस्यात्मार्थं दानमित्युक्तम् ।

[२७२।०४-२७२।०५]
तत्रासत्युपभोक्तरि कथं पुण्यं भवति ।

[२७२।०५-२७२।०६]
द्विविधं हि पुण्यं त्यागान्वयं त्यागादेव यदुपपद्यते परिभोगान्वयं च देयधर्मपरिभोगाद्यदुत्पद्यते ।

[२७२।०७]
चैत्ये त्यागान्वयं पुण्यं

[२७२।०८]
परिभोगान्व्यं पुण्यं नास्ति ।
कथं तत्राप्रतिगृह्णति कस्मिंश्चित्पुण्यम् ।

[२७२।०८-२७२।०९]
किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं नासतीति ।

[२७२।०९]
कस्यचिदप्यनुग्रहाभावात् ।
इदमकारणम् ।

[२७२।१०]
यदि हि पुण्यं परानुग्रहादेव स्यात्मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात् ।

[२७२।११]
तस्मादेष्टव्यं चैत्यैऽपि पुण्यम् ।

[२७२।१२]
मैत्र्यादिवदगृह्णति ।

[२७२।१३-२७२।१४]
यथा मैत्र्यादिष्वन्तरेणापि प्रतिग्राहकं परानुग्रहं वा पुण्यं भवति स्वचित्तप्रभवं तथाभ्यतीतेऽपि गुणवति तद्भक्तिकृतं स्वचित्तात्पुण्यं भवति ।

[२७२।१४-२७२।१५]
दानमानक्रिया तर्हि व्यर्था प्राप्नोति ।

[२७२।१५]
न ।
तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात् ।

[२७२।१५-२७२।१६]
यथा हि शत्रुवधाभिप्रायस्य तत्समुत्थापितं कायवाक्कर्म ।

[२७२।१६-२७२।१७]
शत्रुसंज्ञया तस्मिन्मृतेऽपि कुर्वतो बहुतरमपुण्यं जायते ।

[२७२।१७]
नाभिप्रायमात्रेण ।

[२७२।१७-२७२।१८]
तथाभ्यतीते शास्तरि तद्भक्तिसमुत्थां दानमानक्रियां कुर्वतो बहुतरं पुण्यं जायते ।

[२७२।१९]
न भक्तिमात्रेण ।

[२७२।१९-२७२।२०]
यदि स्वक्षेत्रे दानक्रियावीजमिष्टफलं भवति तत्क्षेत्रे तर्ह्यनिष्टफलं भविष्यति ।

[२७२।२१]
कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात् ॥ ४.१२१ ॥

[२७२।२२-२७२।२३]
कुक्षेत्रेऽपि फलस्य बीजादविपर्ययो दृष्टो मृद्वीकाबीजान्मृद्वीकाफलमेवोत्पद्यते मधुरं निम्बवीजान्निम्बमेव तिक्तम् ।

[२७२।२३-२७२।२४]
एवं कुक्षेत्रेऽपि परहिताध्याशयप्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते नानिष्टम् ।

[२७२।२४-२७३।०१]
क्षेत्रदोषात्तु तद्वीजमल्पफलं वा भवत्यफलं वा ।

[२७३।०१]
गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् ॥

[२७३।०२]
शीलमयं वक्तव्यम् ।
तदुच्यते

[२७३।०३]
दौःशीत्लमशुभं रूपं शीलं तद्विरतिः

[२७३।०४]
अकुशलं हि रूपं दौःशील्यमुच्यते ।
तस्माद्विरतिः शीलम् ।
सा पुनर्विरतिः

[२७३।०५]
द्विधा ।

[२७३।०६]
यया च विरम्यते विज्ञप्त्या यच्च तद्विरमणमविज्ञप्तिः ।

[२७३।०६-२७३।०७]
न च केवलं दौःशील्याद्विरतिः शीलम् ।

[२७३।०७]
किं तर्हि ।

[२७३।०८]
प्रतिक्षिप्ताच्च बुद्धेन

[२७३।०९-२७३।१०]
यदपि न प्रकृत्या दौःशीलयं भगवता च बुद्धेन प्रतिक्षिप्तमकालभोजनादिकं तस्मादपि द्विधा विरतिः शीलम् ।

[२७३।१०]
समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यं जायते ॥

[२७३।१०-२७३।११]
उक्तं तमासेन शीलम् ॥

[२७३।१२]
विशुद्धं तु चतुर्गुणम् ॥ ४.१२२ ॥

[२७३।१३]
तत्तु शीलं चतुर्गुणं भवति ।
विपर्ययादविशुद्धम् ।
अथ कथं चतुर्गुणमित्याह

[२७३।१४]
दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् ।

[२७३।१५]
दौःशीत्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन ।
हेतुनाऽप्यनुपहतं भवति ।

[२७३।१६]
लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति ।

[२७३।१६-२७३।१७]
स्मृत्युपस्थानसंनिश्रितत्वात्समाश्रितं च भवति ।

[२७३।१७]
नोपपत्तिविशेषाश्रितम् ।

[२७३।१७-२७३।१८]
निर्वाणपरिणामितवात् ।

[२७३।१८]
पञ्चभिः कारणैः इत्यपरे ।

[२७३।१८-२७३।१९]
मौलैः कर्मपथैर्विशुद्धं भवति सामन्तकैर्विशुद्धं वितर्कैरनुपहतं स्मृत्याऽनुपरिगहीतं निर्वाणपरिणामितं चेति ।

[२७३।१९-२७३।२०]
चतुर्विधं शीलमित्यपरे ।

[२७३।२०]
भयशीलं यदा जीविकाश्लोकदण्डदुर्गतिभयात्पाल्यते ।

[२७३।२०-२७३।२१]
आशास्तिशीलं यद्भवभोगसत्कारतृष्णाकृतम् ।

[२७३।२१-२७३।२२]
बोध्यङ्गानुलोमं शीलं यन्मोक्षार्थं सम्यग्दृष्टिकाणाम् ।

[२७३।२२]
परिशुद्धं शीलमनास्रवशीलं निर्मलत्वादिति ॥
गतं शीलम् ॥

[२७३।२३]
समाहितं तु कुशलं भावना

[२७३।२४]
किमिदं समाहितं नाम ।
समाधिस्वभावं सहभू यत् ।
किमर्थमेतत्भावनेत्युच्यते ।

[२७४।०१]
चित्तवासनात् ॥ ४.१२३ ॥

[२७४।०२]
तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति ।
गुणैस्तन्मयीकरणात्संततेः ।

[२७४।०२-२७४।०३]
पुष्पैस्तिलभावनावत् ।

[२७४।०३]
दानं तावन्महाभोगतायै संवर्तत इत्युक्तम् ।

[२७४।०३-२७४।०४]
अथ शीलं भावना च

[२७४।०५]
स्वर्गाय शीलं प्राधान्यात्विसंयोगाय भावना ।

[२७४।०६]
दानमपि स्वर्गाय शीलं प्राधान्यात् ।
शीलमपि विसंयोगाय ।
भावना तु प्राधान्यात् ।

[२७४।०७]
सुत्र उक्तं “चत्वारः पुद्गला ब्राह्मण्यं पुण्यं प्रसवन्ती”ति ।

[२७४।०७-२७४।०८]
कतमत्तद्ब्राह्मपुण्यम् ।

[२७४।०८]
यत्तल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति वैभाषिकाः ।

[२७४।०९]
पूर्वाचार्यास्तु व्याचक्षते ।

[२७४।१०]
चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ ४.१२४ ॥

[२७४।११]
यावता पुण्येन कल्पं स्वर्गेषु मोदते इदं ब्राह्मं पुण्यम् ।

[२७४।११-२७४।१२]
ब्रह्मपुरोहितानां कल्पायुष्कत्वात् ।

[२७४।१२]
निकायान्तरे गाथां पठन्ति

[२७४।१३]
“ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदत” इति ।

[२७४।१४]
आमिषदानमुक्तम् ।
धर्मदानं वक्तव्यम् ।
तदिदमुच्यते ।

[२७४।१५]
धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना ।

[२७४।१६]
सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम् ।

[२७४।१६-२७४।१७]
अतो महतीं त आत्मनः पुण्यज्यानिं कुर्वन्ति ये विपरीतधर्मं देशयन्ति ।

[२७४।१७-२७४।१८]
क्लिष्टचित्ता वा लाभसत्कार यशांसि वाञ्छन्तः ।

[२७४।१८]
उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलं पुनः

[२७४।१९]
पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ ४.१२५ ॥

[२७४।२०-२७४।२१]
पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयं यस्मिन्नुत्पन्ने नियतं परिनिर्वाणधर्मा भवति ।

[२७४।२१-२७४।२३]
यस्य संसारादीनवनैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रूपातौ भवतस्तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयं प्रवृषीवाङ्कुरप्ररोहात्खलविलेषु बीजास्तित्वम् ।

[२७४।२३-२७४।२४]
निर्वेधभागीयमुष्मादि चतुर्विधं पश्चाद्व्याख्यास्यामः ।

[२७५।०१]
यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति क एषां स्वभावः ।

[२७५।०२-२७५।०३]
योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा ।
लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ ४.१२६ ॥

[२७५।०४]
योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् ।
त्रिधा कर्मेति कायवाङ्मनस्कर्म ।

[२७५।०४-२७५।०५]
तत्र लिपिमुद्रे तावद्योगप्रवर्तितं कायकर्म समुत्थापनम् ।

[२७५।०५]
गणना काव्यं च वाक्कर्म ।

[२७५।०६]
इत्येतानि पञ्चस्कन्धस्वभावानि ।
संख्या मनस्कर्म ।
यन्मनसा संकलनं धर्माणाम् ।

[२७५।०७]
धर्माणामिदानीं केचित्पर्याया उच्यन्ते ।

[२७५।०८]
सावद्या निवृता हीनाः क्लिष्टा धर्माः

[२७५।०९]
क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः ।

[२७५।१०]
शुभामलाः ।

[२७५।११]
प्रणीताः

[२७५।१२]
कुशलानास्रवाणां प्रणीता इति पर्यायः ।

[२७५।१२-२७५।१३]
हीनप्रणीतेभ्योऽन्ये मध्या इति सिद्धं भवति ।

[२७५।१४]
संस्कृतशुभाः सेव्याः

[२७५।१५]
कुसलसंस्कृतानां सेवितव्या इति पर्यायः ।
शेषा असेवितव्या इति सिद्धं भवति ।

[२७५।१६]
कस्मादसंस्कृतं न सेव्यम् ।
अनभ्यसनीयत्वादफलत्वाच्च ।
फलर्थं हि सेवा भवति ।

[२७५।१७]
सोत्तरा अन्ये सर्वधर्माः ।

[२७५।१८]
मोक्षस्त्वनुत्तरः ॥ ४.१२७ ॥

[२७५।१९]
नहि निर्वाणाद्विशिष्टतरमस्ति ।
तच्च सर्वेभ्यो विशिष्टं कुशलनित्यत्वात् ।

=====================================================================

[२७५।२०-२७५।२१]
अभिधर्मकोशभाष्ये कर्मनिर्द्देशो नाम चतुर्थं कोशस्थानमिति ॥

पञ्चमं कोशस्थानम्

=====================================================================

ओं नमो बुद्धाय

=====================================================================

[२७७।०३]
“कर्मजं लोकवैचित्र्य” मित्युक्तम् ।

[२७७।०३-२७७।०४]
तानि कर्माण्यनुशयवशादुपचयं गच्छन्ति अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि भवन्ति ।

[२७७।०४]
अतो वेदितव्याः

[२७७।०५]
मूलं भवस्यानुशयाः

[२७७।०६]
क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति ।

[२७७।०६-२७७।०९]
मूलं च दृढीकरोति संततिमवस्थापयति क्षेत्रमापादयति निःष्यन्दं निर्वर्तयति कर्मभवमभिनिर्हरति स्वसंभारमरिगृह्णाति आलम्बने संमोहयति विज्ञानस्रोतो नमयति कुशलपक्षाद्व्युत्क्रामति पन्धनार्थं च स्फरति धात्वनतिक्रमयोगेनेति ।

[२७७।१०]
कति चेमेऽनुशयाः ।
समासेन षट् ।
कतमे

[२७७।११]
षड्रागः प्रतिघस्तथा ।

[२७७।१२]
मानोऽविद्या च दृष्टिश्च विचिकित्सा च

[२७७।१३]
अथाग्रहणं रागवशेनान्येषामालम्बनानुशायितज्ञापनार्थम् ।

[२७७।१३-२७७।१४]
एतच्च पश्चात्प्रवेदयिष्यामः ।

[२७७।१५]
ते पुनः ॥ ५.१ ॥

[२७७।१६]
षड्रागभेदात्सप्तोक्ताः

[२७७।१७]
त एते षड्नुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः ।

[२७७।१७-२७७।१९]
कामरागानुशयः प्रतिघानुशयो भवरागानुशयो मानानुश्यः अविद्यानुशयो दृष्ट्यनुशयो विचिकित्सानुशय इति ।

[२७७।१९-२७८।०१]
कथमिदं ज्ञातव्यं कामराग एवानुशयः कामरागानुशयः आहोस्वित्कामरागस्यानुशयः कामरागनुशयः ।

[२७८।०१]
किं चातः ।

[२७८।०१-२७८।०२]
कामराग एवानुशयश्चेत्सूत्रविरोधः ।

[२७८।०२]
“इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति ।

[२७८।०२-२७८।०३]
उत्पन्नस्य कामरागपर्यवस्थानस्योत्तरि निःसरणं यथाभूतं प्रजानाति ।

[२७८।०३-२७८।०४]
तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसमवहतं सानुशयं प्रहीयत”इति ।

[२७८।०४-२७८।०६]
कामरागस्यानुशयश्चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः “कामरागानुशयस्त्रिभिरिन्द्रियैः संप्रयुक्त” इति ।

[२७८।०६]
कामराग एवानुश्य इति वैभाषिकाः ।

[२७८।०६-२७८।०७]
एवं यावद्विचिकित्सैवानुशय इति ।

[२७८।०७]
ननु चोक्तमेवं सूत्रविरोध इति ।
नास्ति विरोधः ।
सानुशयं सानुबन्धमित्यर्थः ।

[२७८।०८]
औपचारिको वा सूत्रेऽनुशयशब्दः प्राप्तौ ।
यथा दुःखोऽग्निरिति ।

[२७८।०८-२७८।०९]
लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः ।

[२७८।०९]
तस्मात्संयुक्ता एवानुशयाः ।
कथमिदं गम्यते ।

[२७८।१०]
अनुशयानां

[२७८।११]
“चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्” ।

[२७८।१२-२७८।१३]
यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते उत्पन्नाच्च परिहीयते तस्मान्न विप्रयुक्ताः ।

[२७८।१३]
अथ विप्रयुक्तैरप्येवं स्यात् ।

[२७८।१३-२७८।१४]
कुशलं न कदाचिदुपलभ्येत ।

[२७८।१४]
तेषां नित्यं संनिहितत्वात् ।
उपलभ्यते च ।
अतः

[२७८।१५-२७८।१६]
“कुशलस्य चोपलम्भादविप्रयुक्ताः अथ इहानुशयाः” इति ।

[२७८।१७-२७८।१८]
तदिदमज्ञापकं यस्माद्यो विप्रयुक्तमनुशयमिच्छति स एतत्सर्वमनुशयकृतं नेच्छति ।

[२७८।१८]
क्लेशकृतमेवेच्छति ।
एवं तु साधु यथा सौत्रान्तिकानाम् ।

[२७८।१९]
कथं च सौत्रान्तिकानाम् ।
कामरागस्यानुशयः कामरागानुशय इति ।

[२७८।१९-२७८।२०]
न चानुशयः संप्रयुक्तो न विप्रयुक्तस्तस्याद्रव्यान्तरत्वात् ।

[२७८।२०]
प्रसुप्तो हि क्लेशोऽनुशय उच्यते ।

[२७८।२१]
प्रबुद्धः पर्यवस्थानम् ।
का च तस्य प्रसुप्तिः ।
असंमुखीभूतस्य बीजभावानुबन्धः ।

[२७८।२२]
कः प्रबोधः ।
संमुखीभावः ।
कोऽयं वीजभावो नाम ।

[२७८।२२-२७८।२३]
आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः ।

[२७८।२३-२७८।२४]
यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्यथा चाङ्कुरादीनां शालिफलजा शालिफलोत्पादनशक्तिरिति ।

[२७८।२४-२७९।०१]
यस्तु क्लेशानां बीजार्थमर्थान्तरं वीप्रयुक्तमनुशयं कल्पयति तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते ।

[२७९।०१-२७९।०३]
यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के “सोऽस्य भवति सुखायां वेदनायां रागानुशय” इति ।

[२७९।०३]
भवतीति वचनान्नासौ तदैवानुशयः ।
कदा तर्हि भवति ।

[२७९।०३-२७९।०४]
यदा प्रसुप्तो भवति ।

[२७९।०४]
हेतौ वा तदुपचार एष द्रष्टव्यः ।
तिष्ठतु प्रसङ्गः ।
शास्त्रं प्रवर्त्तताम् ।

[२७९।०५]
य एष सूत्रे रागस्य भेदः कृतः कामरागो भवराग इति ।

[२७९।०६]
कोऽयं भवरागः ।

[२७९।०७]
भवरागो द्विधातुजः ।

[२७९।०८]
रूपारूप्यधातुजो रागो भवरागः कृटः ।
किं कारणमेवं कृतः ।

[२७९।०९]
अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ ५.२ ॥

[२७९।१०]
समापत्तिरागो हि तेषां प्रायेण ।
स चान्तर्मुखप्रवृत्तस्तस्मात्भवरागः ।

[२७९।११]
उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाव्याव्यवर्त्तनार्थमेकेषामिति ।

[२७९।११-२७९।१२]
आत्मभाव एव तु भवः ।

[२७९।१२-२७९।१३]
ते च सत्त्वाः समापत्तिं साश्रया मास्वादयन्त आत्मभावमेवास्वादयन्ति कामवीतरागत्वात् ।

[२७९।१३]
अतः स रागो भवराग इत्युक्तः ।

[२७९।१३-२७९।१४]
पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते ।

[२७९।१४]
कथं कृत्वा ।

[२७९।१५-२७९।१६]
दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः ।
दृष्टिशीलवृतपरामर्शाविति पुनर्दश ॥ ५.३ ॥

[२७९।१७]
षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति ।

[२७९।१७-२७९।१८]
पञ्च दृष्टिस्वभावाः सत्कायदृष्टिरन्तग्रहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलवृतपरामर्शश्च ।

[२७८।१८-२७८।१९]
यथा दृष्टिस्वभावाः रागह्प्रतिध्हो मानोऽविद्या विचिकित्सा ।

[२७९।१९-२७९।२०]
एते पुनरेते दशानुशया अभिधर्मेऽष्टानवतिः क्रियन्ते ।

[२७९।२०-२७९।२१]
कामावचराः षट्त्रिंशद्रूपावचरा एकत्रिंशतारूप्यावचरा एकत्रिंशत् ।

[२७९।२१]
कथं कृत्वा ।

[२७९।२१-२७९।२२]
समासतो ह्येतेऽनुशयास्त्रैधातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च ।

[२७९।२२-२७९।२३]
तत्र तावत्कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् ।

[२७९।२३]
कतमे त इत्याह

[२८०।०१-२८०।०२]
दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ५.४ ॥

[२८०।०३]
य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति ।

[२८०।०४]
एभ्य एव सप्त समुदयदर्शनप्रहेयाः ।

[२८०।०४-२८०।०५]
सप्त निरोधदर्शनहेयाः सत्कायदृष्टिमन्तग्राहदृष्टिं शीलव्रतपरामर्शं च वर्जयित्वा ।

[२८०।०५]
अष्टौ मार्गदर्शनहेयाः ।

[२८०।०५-२८०।०६]
सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा ।

[२८०।०६]
इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः ।

[२८०।०७]
सत्यानां दर्शनमात्रेण प्रहाणात् ।

[२८०।०८]
चत्वारो भावनाहेयाः

[२८०।०९]
तद्यथा रागः प्रतिघो मानोऽविद्या च ।

[२८०।०९-२८०।१०]
दृष्टसत्यस्य पश्चात्मार्गाभ्यासेन प्रहाणात् ।

[२८०।१०]
तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया ।

[२८०।१०-२८०।११]
एवमन्तग्राहदृष्टिः मिथ्यादृष्टिश्चतुष्प्रकारा भवति ।

[२८०।११]
दुःखसमुदयनिरोधमार्गदर्शनहेया ।

[२८०।११-२८०।१२]
एवं दृष्टिपरामर्शो विचिकित्सा च ।

[२८०।१२]
शीलव्रतपरामऋशो द्विप्रकारः दुःखमार्गदर्शनहेयः ।

[२८०।१३-२८०।१४]
रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेया भावनाहेयाश्च ।

[२८०।१४]
कीदृशा एते दुःखदर्शनहेयाः कीदृशा यावद्भावनाहेयाः ।

[२८०।१४-२८०।१५]
ये यद्दर्शनहेयालम्बनास्ते तद्दर्शनहेया अवशिष्टा भावनाहेयाः ।

[२८०।१५-२८०।१७]
ता एव द्वादश दृष्टयो भवन्ति चतस्रो विचिकित्साः पञ्च रागाः पञ्च प्रतिघाः पञ्च मानां पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति ।

[२८०।१८]
त एवाप्रतिघाः पुनः ।

[२८०।१९]
रूपधातौ

[२८०।२०]
पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति ।

[२८०।२१]
यथा रूपधातौ

[२८०।२२]
तथारूप्ये

[२८०।२३]
एकत्रिंशदनुशया भवन्ति ।

[२८०।२४]
इत्यष्टानवतिर्मताः ॥ ५.५ ॥

[२८०।२४-२८०।२५]
त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मताः आमिधार्मिकाणाम् ।

[२८१।०१]
य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते ।

[२८१।०२]
नेत्याह ।
किं तर्हि ।

[२८१।०३]
भवाग्रजाः क्षान्तिवध्या दृग्घेया एव

[२८१।०४]
ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव न भावनाहेयाः ।

[२८१।०५]
शेषजाः ।

[२८१।०६]
दृग्भावनाभ्याम्

[२८१।०७]
क्षान्तिवध्या इति वर्तते ।

[प्२८।१०७-२८१०८]
शेषासु भूमिषु यथायोगं धर्मान्वयज्ञानक्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः पृथग्जनानां भावनाहेयाः ।

[२८१।०९]
अक्षान्तिवध्या भावनयैव तु ॥ ५.६ ॥

[२८१।१०]
सर्वासु भूमिषु येऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः ।

[२८१।१०-२८१।११]
नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे ।

[२८१।१२-२८१।१४]
तथाहि महाकर्मविभागसूत्रे पूर्वान्तकल्पकानां च शाश्वतवादिनामेकत्यशाश्वतिकानामहेतुसमुत्पत्तिकानां च वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः ।

[२८१।१३-२८१।१४]
न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वात् ।

[२८१।१४-२८१।१५]
तस्मात्कामप्रतिसंयुक्ता एव ता अप्रहीणा इति ।

[२८१।१५-२८१।१६]
दृष्ट्युत्पादसमकालं ते परिहीणा देवदत्त इवेति वैभाषिकाः ।

[२८१।१७]
दृष्टयः पण्च नामतो निर्दिष्टा न तु स्वभावतस्तत्कस्तासां स्वभावः ।

[२८१।१८-२८१।१९]
आत्मात्मीयद्रुवोच्छेदनास्तिहीना ग्रदृष्टयः ।
अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः ॥ ५.७ ॥

[२८१।२०]
आत्मदृष्टिरात्मीयदृष्टिर्वा सत्कायदृष्टिः ।
सीदतीति सत् ।

[२८१।२०-२८१।२१]
चयः कायः संघातः स्कन्ध इत्यर्थः ।

[२८१।२१]
सच्चायं कायश्चेति सत्कायः पञ्चोपादानस्कन्धाः ।

[२८१।२२]
नित्यसंज्ञां पिण्डसंज्ञां च त्याजयितुमेवं द्योतिता ।
एतत्पूर्वको हि तेष्वात्मग्रहः ।

[२८१।२३]
सत्काये दृष्टिः सत्कायदृष्टिः ।

[२८१।२३-२८१।२४]
सर्वैव सास्रवालम्बना दृष्टिः सत्काये ।

[२८१।२४]
आत्मात्मीयदृष्टिरेव तु सत्कायदृष्टिरुक्ता ।

[२८१।२४-२८२।०१]
यथा गम्येत सत्कायदृष्टिरियं नात्मनि नात्मीये वेति ।

[२८२।०१-२८२।०३]
यथोक्तं “ये केचिद्भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि”ति ।

[२८२।०३]
तस्यैवात्माभिमतस्य वस्तुनो ध्रुवदृष्टिरुच्छेददृष्टिर्वाऽन्तग्राहदृष्टिः ।

[२८२।०४]
शाश्वतोच्छेदान्तग्रहणात् ।
सति दुःखादिसत्ये नास्तीति दृष्टिर्मिथ्यादृष्टिः ।

[२८२।०४-२८२।०५]
सर्वैव हि विपरीतस्वभावप्रवृट्ता दृष्टिर्मिथ्यादृष्टिः एकैव तूक्ता ।

[२८२।०५-२८२।०६]
अतिशयवत्त्वात्दुर्गन्धक्षतवत् ।

[२८२।०६]
एषा ह्यपवादिका अन्यास्तु समारोपिकाः ।
हीने अग्रदृष्टिर्दृष्टिपरामर्शः ।

[२८२।०७]
किं हीनम् ।
सर्वं सास्रवम् ।
आर्यैः प्रहीणत्वात् ।
तस्याग्रतो ग्रहणं दृष्टिपरामर्शः ।
[२८२।०८]
दृष्ट्यादिपरामर्श इति वक्तव्ये आदिशब्दलोपः कृतः ।

[२८२।०८-२८२।०९]
अहेतौ हेतुदृष्टिरमार्गे मार्गदृष्टिः शीलवृतपरामर्शः ।

[२८२।०९]
तद्यथा महेश्वरो न हेतुर्लोकानाम् ।

[२८२।०९-२८२।१०]
तं च हेतुं पश्यति प्रजापतिमन्यं वा ।

[२८२।१०-२८२।११]
अग्निजलप्रवेशादयश्च न हेतुः स्वर्गस्य तांश्च हेतुं पश्यति ।

[२८२।११-२८२।१२]
शीलव्रतमात्रकं सांख्ययोगज्ञानादयश्च न मार्गो मोक्षास्य तांश्च मार्गं पश्यति ।

[२८२।१२-२८२।१३]
अत्रापि किलादिशब्दलोपः कृत इत्येतास्ताः पञ्च दृष्टयो वेदितव्याः ।

[२८२।१३]
सत्यकारणे कारणदृष्टिः शिलव्रतपरामर्शः ।

[२८२।१३-२८२।१४]
कस्मादयं न समुदयदर्शनप्रहातव्यः ।

[२८२।१४-२८२।१५]
यो हि कश्चिदीश्वरः प्रजापतिमन्यं वा कारणं पश्यति स तन्नित्यमेकं चात्मानं कर्तारमभिनिविश्य ।

[२८२।१५]
तद्यस्मात्स

[२८२।१६-२८२।१७]
ईश्वरादिषु नित्यात्मविपर्यासात्प्रवर्तते ।
कारणाभिनिवेशोऽतो दुःखदृग्घेय एव सः ॥ ५.८ ॥

[२८२।१८]
दुःखदर्शनादेव हि तेषु तौ नित्यात्मग्राहौ प्रहीयेते ।

[२८२।१८-२८२।१९]
तस्मात्तत्कृतोऽपि कारणाभिनिवेशस्तत एव प्रहीयते ।

[२८२।१९-२८२।२०]
यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति शीलवृतेन वा शुद्धिं सोऽपि दुःखदर्शनप्रहातव्य एव ।

[२८२।२०]
एष हि शास्त्रपाठः ।

[२८२।२०-२८२।२२]
“ये चैवं दृष्टय एवंवादिनो यदयं पुरुषपुद्गलो गोशीलं समादाय वर्तते मृगशीलं कुक्कुरशीलं, स तेन शुध्यति मुच्यते सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति ।

[२८२।२२-२८२।२३]
अकारणं कारणतः प्रत्येति शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः” इति विस्तरः ।

[२८२।२३-२८२।२४]
किं पुनः कारणमसौ दुःखदर्शनप्रहातव्यः ।

[२८२।२४]
दुःखे विप्रतिपन्नत्वात् ।

[२८२।२४-२८२।२५]
सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् ।

[२८२।२५-२८२।२६]
कीदृशो वाऽन्यः शीलवृतपरामर्शो मार्गेदर्शनप्रहात्व्यः ।

[२८२।२६]
यो मार्गदर्शनप्रहातव्यालम्बनः ।

[२८२।२६-२८२।२७]
सोऽपि हि नाम दुःखे विप्रतिपन्नः ।

[२८२।२७-२८२।२८]
यस्य च मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वाऽस्ति स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यति ।

[२८३।०१]
अथान्यं मोक्षमार्गं परामृश्य एष मोक्षमार्गो नास्तीत्याह ।

[२८३।०१-२८३।०२]
सोऽपि तेनैवान्येन शुद्धिं प्रत्येति न तया मिथ्यादृष्ट्येति ।

[२८३।०२-२८३।०३]
तस्याप्यसौ मार्गदर्शनप्रहातव्यालम्बनो न सिध्यति ।

[२८३।०३-२८३।०४]
यश्चापि समुदयनिरोधदर्शनप्रहातव्यालम्बनया मिथ्यादृष्ट्या शुद्धिं प्रत्येति स कस्मान्न तद्दर्शनहेयः ।

[२८३।०४]
तस्मात्परीक्ष्य एषोऽर्थः ।

[२८३।०५]
यदुक्तं “नित्यात्मविपर्यासादि”ति ।
किमेतावेव द्वौ विपर्यासौ ।

[२८३।०५-२८३।०६]
चत्वारो विपर्यासाः ।

[२८३।०६]
अनित्ये नित्यमिति ।
दुःखे सुखमिति ।
अशुचौ शुचीति ।

[२८३।०६-२८३।०७]
अनात्मन्यात्मेति ।

[२८३।०७]
अथैतद्विपर्यासचतुष्कं किंस्वभावम् ।

[२८३।०८]
दृष्टित्रयाद्विपर्यासचतुष्कं

[२८३।०९]
अन्तग्राहदृष्टेः शाश्वतदृष्टिर्नित्यविपर्यासः ।

[२८३।०९-२८३।१०]
दृष्टिपरामर्शात्सुखशुचिविपर्यासौ ।

[२८३।१०]
सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यासः ।
सकलेत्यपरे ।

[२८३।१०-२८३।११]
कथमात्मीयदृष्टिर्विपर्यासः ।

[२८३।११]
कथं च न विपर्यासः ।
विपर्याससूत्राद् ।

[२८३।११-२८३।१३]
आत्मानमेव तत्र वशिनं पश्येन्नात्मीयं पश्यतीत्यात्मदृष्टिरेवासौ द्विमुखी अथाहमित्येतस्मात्ममेति दृष्ट्यन्तरं स्यात् ।

[२८३।१३]
मया मह्यमित्येतदपि स्यात् ।

[२८३।१४]
कस्मादन्ये क्लेशा न विपर्यासाः ।

[२८३।१४-२८३।१५]
यस्मात्त्रिभिः कारणैर्विपर्यासानां व्यवस्थानं कतमैस्त्रिभिः ।

[२८३।१६]
वीपरीततः ।

[२८३।१७]
नितीरणात्समारोपात्

[२८३।१८]
एकान्तविपर्यस्तत्वादालम्बने नितीरकत्वात्समारोपणाच्च ।

[२८३।१८-२८३।१९]
उच्छेददृष्टिर्मिथ्यादृष्टिश्च न समारोपिके ।

[२८३।१९]
अभावमुखप्रवृत्तत्वात् ।

[२८३।१९-२८३।२०]
शीलव्रतपरामर्शो नैकान्तविपर्यस्तस्तन्मात्रशुद्ध्यालम्बनत्वात् ।

[२८३।२०-२८३।२१]
अन्ये क्लेशा न सन्तीरका अतो न विपर्यासाः ।

[२८३।२१-२८३।२२]
यत्तर्हि सूत्रे उक्त “मनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिविपर्यास” इति ।

[२८३।२२]
दृष्टिरेवात्र विपर्यासः ।

[२८४।०१]
संज्ञाचित्ते तु तद्वशात् ॥ ५.९ ॥

[२८४।०२]
दृष्टिविपर्यासवशादेव तत्संप्रयुक्ते संज्ञाचित्ते विपर्यासावुक्तौ ।

[२८४।०२-२८४।०३]
वेदनादयोऽपि कस्मान्नोक्ताः ।

[२८४।०३]
लोकप्रसिद्ध्या ।

[२८४।०३-२८४।०४]
लोके हि विपर्यस्तसंज्ञो विपर्यस्तचित्त इति प्रसिद्धं न पुनर्विपर्यस्तवेदन इति ।

[२८४।०४-२८४।०५]
त एते विपर्यासाः सर्वेऽपि स्रोत आपन्नस्य प्रहीणा भवन्ति ।

[२८४।०५]
दर्शनप्रहेयत्वात्दृष्टीनां ससंप्रयोगाणाम् ।
द्वादश विपर्यासाः ।

[२८४।०५-२८४।०६]
अनित्ये नित्यमिति संज्ञादृष्टिचित्तविपर्यासास्त्रयः ।

[२८४।०६]
एवं यावदनात्मन्यात्मेति ।

[२८४।०६-२८४।०७]
तत्राष्टौ दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः ।

[२८४।०७-२८४।०८]
दुःखे च संज्ञा चित्तविपर्यासावशुचौ चेति निकायान्तरीयाः ।

[२८४।०८-२८४।०९]
इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति ।

[२८४।०९]
तदेतन्नेच्छन्ति वैभाषिकाः ।

[२८४।१०]
यदि हि सुखशुचिसंज्ञाचित्तसमुदाचारादार्यस्य तद्विपर्यासावीक्ष्येते ।

[२८४।१०-२८४।११]
सत्त्वसंज्ञाचित्तसमुदाचारात्तद्विपर्यासावपि किं नेष्येते ।

[२८४।११-२८४।१२]
न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञाया कामरागो युक्त इति ।

[२८४।१२-२८४।१३]
सूत्रेऽपि चोक्तं “यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति ।

[२८४।१३-२८४।१४]
यावत्तस्य तस्मिन् समये योऽनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिवीपर्यासः स प्रहीयत” इति विस्तरः ।

[२८४।१४-२८४।१६]
तस्माद्दृष्टिसमुत्ये एव संज्ञाचित्ते विपर्यासौ नान्ये तत्काल भ्रान्तिमात्रत्वादलातचक्रचित्र यक्षभ्रान्तिवत् ।

[२८४।१६]
यत्तर्हि स्थविरानन्देनार्थं वागीशमधिकृत्योक्तं

[२८४।१७-२८४।१८]
“विपर्यासे च संज्ञानां चित्तं ते परिदह्यते” ।
निमित्तं वर्ज्यतां तस्माच्छुभं रागोपसंहितम् ॥

[२८४।१९]
तस्मात्सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः शैक्षस्याप्रहीणा इत्यपरे ।

[२८४।१९-२८४।२०]
तेऽपि चार्यसत्यानां यथाभूतपरिज्ञानात्प्रहीयन्ते ।

[२८४।२०-२८४।२१]
न विना तेनेत्युपायसमा ख्यानान्नास्ति सूत्रविरोधः ।

[२८४।२२]
अथ किं दृष्ट्यनुशयस्य एव भेदो नान्यस्य ।
मानस्याप्यस्ति ।
कथमित्याह

[२८४।२३]
सप्त मानाः

[२८४।२४]
मानोऽतिमानो मानातिमानोऽस्मिमानोऽभिमान ऊनमानो मिथ्यामानश्च ।

[२८४।२५]
अभेदेन चित्तस्योन्नतिर्मान उक्ताः ।
स प्रवृत्तिभेदात्सप्तधा भवति ।

[२८४।२५-२८५।०१]
हीनाद्विशिष्टः समेन वा समोऽस्मीति मन्यमानस्योन्नतिर्मानः ।

[२८५।०१]
समाद्विशिष्टोऽस्मीत्यभिमानः ।

[२८५।०२]
विशिष्टाद्विशिष्टोऽस्मीति मानातिमानः ।

[२८५।०२-२८५।०३]
पञ्चोपादानस्कन्धानात्मत आत्मीयतो वा मन्यमानस्यास्मिमानः ।

[२८५।०३]
अप्राप्ते विशेषाधिगमे प्राप्तो मयेत्यभिमानः ।

[२८५।०३-२८५।०४]
बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीत्यूनमानः ।

[२८५।०४]
अगुणवतो गुणवानस्मीति मिथ्यामानः ।

[२८५।०५]
यत्तर्हि शास्त्रे नव मानविधा उक्ताः ।
“श्रेयानस्मीति मानविधा ।

[२८५।०५-२८५।०६]
सदृशोऽस्मीति मानविधा ।

[२८५।०६]
हीनोऽस्मीति मानविधा ।

[२८५।०६-२८५।०७]
अस्ति मे श्रेयानस्ति मे सदृशोऽस्ति मे हीनः ।

[२८५।०७]
नास्ति मे श्रेयान्नास्ति मे सदृशो नास्ति मे हीन” इति ।

[२८५।०७-२८५।०८]
एभ्य एव मानेभ्य एताः ।

[२८५।०९]
नवविधास्त्रिभ्यः

[२८५।१०]
कतमेभ्यस्त्रिभ्यः मानातिमानोनमानेभ्यः ।

[२८५।१०-२८५।११]
तत्र प्रथमं त्रयं दृष्टिसंनिश्रितास्त्रयो मानाः ।

[२८५।११]
अतिमानमानोनमानाः ।
द्वितीयं त्रयमूनमानमानातिमानाः ।

[२८५।११-२८५।१२]
तृतीयं त्रयं मानातिमानोनमानाः ।

[२८५।१२-२८५।१३]
युक्तस्तावद्बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीत्यूनमान उन्नतिस्थानत्वात् ।

[२८५।१३-२८५।१४]
नास्ति मे हीन इत्यत्र किमुन्नति स्थानम् ।

[२८५।१४]
अस्ति सदृशो योऽभिप्रेते वरे सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते ।

[२८५।१५]
अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः ।

[२८५।१५-२८५।१७]
प्राकरणं तु निर्देशं परिगृह्य श्रेयानस्मीत्येकेषु मानोऽपि स्यादति मानोऽपि मानातिमानोऽपि हीनसमविशिष्टापेक्षया ।

[२८५।१८]
अथैते सप्त मानाः किंप्रहातव्या इत्याह

[२८५।१९]
दृग्भावनाक्ष्याः ।

[२८५।२०]
दृग्भावनाभ्यामेषां क्षयः ।

[२८५।२०-२८५।२१]
एतदुक्तं भवति सर्वे दर्शनभावनाप्रहातव्या इति यद्भावनाहेयमप्रहीणं किमवश्यं तदार्याणां समुदाचरति ।

[२८५।२१]
नावश्यं तद्यथा

[२८५।२२]
वधादिपर्यवस्थानं हेयं भावनया

[२८५।२३-२८५।२४]
येन क्लेशपर्यवस्थानेन संचिन्त्य प्राणिवधं कुर्याद्यावन्मृषावादं तद्भावनाहेयं भावनाहेयधर्मालम्बनत्वात् ।

[२८५।२५]
तथा ॥ ५.१० ॥

[२८६।०१]
विभवेच्छा

[२८६।०२]
विभवतृष्णाऽपि भावनाहेया ।
विभवो नाम क एष धर्मः ।
त्रैधातुकी अनित्यता ।

[२८६।०३]
तत्र प्रर्थना विभवतृष्णा ।
तथाशब्देन भवतृष्णायाः प्रदेशो गृह्यते ।

[२८६।०३-२८६।०४]
“अहो वताहमैरावणः स्यां नागराज” इत्येवमादि ।

[२८६।०४-२८६।०५]
मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमस्मिममानश्च ।

[२८६।०६]
न चार्यस्य संभवन्ति विधादयः ।

[२८६।०७]
नास्मिता

[२८६।०८]
आदिग्रहणेन यावद्विभवतृष्णाया ग्रहणम् ।

[२८६।०८-२८६।०९]
किं कारणमप्रहीणा अप्येते न समुदाचरन्ति ।

[२८६।१०]
दृष्टिपुष्टत्वात्

[२८६।११]
सत्कायदृष्टिपुष्टा हि मानविधा अस्मिमानश्च ।

[२८६।११-२८६।१२]
अतो भग्नपृष्ठत्वात्नोत्थातुं पुनरुत्सहन्ते ।

[२८६।१२]
वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टत्वात् ।

[२८६।१२-२८६।१३]
विभवतृष्णा उच्छेद्दृष्टिपुष्टत्वात् ।

[२८६।१३]
भवतृष्णायाः प्रदेशः शाश्वतदृष्टिपुष्टत्वात् ।

[२८६।१४]
कौकृत्यं नापि चाशुभम् ॥ ५.११ ॥

[२८६।१५]
अकुक्शलं चापि कौकृत्यं भावनाप्रहातव्यम् ।

[२८६।१५-२८६।१६]
न चार्यस्य तत्संभवति विचिकित्सा समुत्थितत्वात् ।

[२८६।१७]
अथैषामष्टानवतेरनुशयानां कति सर्वत्रगाः कत्यसर्वत्रगाः ।

[२८६।१८-२८६।१९]
सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा ।
विमतिः सह ताभिश्च याऽविद्याऽवेणिकी च या ॥ ५.१२ ॥

[२८६।२०-२८६।२१]
दुःखसमुदयदर्शनप्रहातव्या दृष्टयो विचिकित्सा च ताभिश्च संप्रयुक्ता अविद्या आवेणिकी च दुःखसमुदयप्रहातव्ये चाविद्या ।

[२८६।२०-२८७।०१]
इतीमे एकादशानुशयाः सभागधातुसर्वत्रगाः ।

[२८७।०१]
सप्त दृष्टयो द्वे विचिकित्से द्वे अविद्ये सकलस्वधात्वालम्बनत्वात् ।

[२८७।०२]
किमेभिर्युगपदालम्बते आहोस्वित्क्रमेण ।
यदि क्रमेण अन्येषामपि प्रसङ्ग ।

[२८७।०२-२८७।०४]
अथ युगपत्कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा कारणतः ।

[२८७।०४]
सकलं नोच्यते सकलं युगपदालम्बन्त इति ।

[२८७।०४-२८७।०५]
अपि तु पञ्चप्रकारमपि सर्वं युगपत् ।

[२८७।०५-२८७।०६]
एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा यत्राग्रशुद्धिदृष्टी तत्र तत्प्रार्थना तेन च मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति ।

[२८७।०६-२८७।०७]
एवं सति दर्शनभावनाहेयालम्बनत्वादेतदुभयं किंप्रहातव्यं स्यात् ।

[२८७।०७-२८७।०८]
भावनाप्रहातव्यं व्यामिश्रालम्बनत्वात् ।

[२८७।०८]
अथवा पुनरस्तु दर्शनप्रहातव्यं दृष्टिबलाधानवर्तित्वात् ।

[२८७।०८-२८७।०९]
स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ ।

[२८७।०९]
तस्मान्न सर्वत्रगाविति वैभाषिकाः ।

[२८७।१०]
व एते सभागधातुसर्वत्रगा एकादशानुशया उक्ताः

[२८७।११]
नवोध्र्वालम्बना एषां दृष्टिद्वयविवर्जिताः ।

[२८७।१२]
सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वाऽन्ये नवानुशया विसभागधातुसर्वत्रगाः ।

[२८७।१३]
कदाचित्तु विसभागमेकं धातुमालम्बन्ते कदाचित्द्वौ ।

[२८७।१३-२८७।१४]
“येऽनुशयाः कामप्रतिसंयुक्ता रूपप्रतिसंयुक्तालम्बनाः ।

[२८७।१४-२८७।१५]
कामप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्तालम्बनाः कामप्रतिसंयुक्ता रूपारूप्यप्रतिसंयुक्तालम्बना” इति वचनात् ।

[२८७।१५-२८७।१७]
यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टिं नित्यदृष्टिं चोज्त्पादयति तदा कथं सत्कायान्त ग्राहदृष्टी विसभागधात्वालम्बने न भवतः ।

[२८७।१७-२८७।१८]
आत्मात्मीयत्वेनाग्रहणादन्तग्राहदृष्टिश्च तत्समुत्थितत्वात् ।

[२८७।१८]
का तर्हीयं दृष्टिः ।

[२८७।१८-२८७।१९]
नेयं दृष्टिर्मिथ्याज्ञानं पुनः एतदित्याभिधार्मिकाः ।

[२८७।१९-२८७।२०]
कुतो नु खल्वेतदन्या तदालम्बना दृष्टिरेषा न दृष्टिरिति सिद्धान्तस्तु प्रमाणयितयः ।

[२८७।२१]
किं खल्वनुशयाः एव सर्वत्रगाः ।
नेत्याह ।

[२८७।२२]
प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः ॥ ५.१३ ॥

[२८७।२३]
सर्वत्रगैरनुशयैः सहभुवो येऽप्यन्ये धर्मास्तेऽपि सर्वत्रगाः प्राप्तयस्तु नैवम् ।

[२८७।२३-२८८।०१]
अनेक फलत्वात् ।

[२८८।०१-२८८।०२]
अत एव स्युः सर्वत्रगानुशया न सर्वत्रहेतुना हेतुरिति चतुष्कोटिकं क्रियते ।

[२८८।०२]
प्रथमा कोटिरनागताः सर्वत्रगा अनुशयाः ।

[२८८।०२-२८८।०३]
द्वितीयाऽतीतप्रत्युपन्नास्तत्सहभुवः ।

[२८८।०३]
तृतीयाचतुथौ योज्ये ।

[२८८।०४]
एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः ।

[२८८।०५-२८८।०६]
मिथ्यादृग्विमती ताभ्यां युक्ताऽविद्याऽथ केवला ।
निरोधमार्गदृग्घेयाः षडनास्रवगोचराः ॥ ५.१४ ॥

[२८८।०७-२८८।०८]
निरोधदर्शनप्रहातव्यास्त्रयोऽनुशया मिथ्यादृष्टिर्विचिकित्साऽविद्या च ताभ्यां संप्रयुक्ताऽऽवेणिकी च ।

[२८८।०८]
मार्गदर्शनप्रहातव्या अप्येत एव त्रयः ।

[२८८।०८-२८८।०९]
इत्येते षडनास्रवालम्बनाः ।

[२८८।०९]
शेषां सास्रवालम्बना इति सिद्धम् ।
तत्र पुनः

[२८८।१०-२८८।११]
स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः ।
तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः ॥ ५.१५ ॥

[२८८।१२-२८८।१३]
निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां कामधातोरेव यावत्भवाग्रभूमिकानां भवाग्रस्यैव ।

[२८८।१३-२८८।१४]
मार्गालम्बनानां कामावचराणां षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् ।

[२८८।१४-२८८।१५]
योऽपि रूपारूप्यप्रतिपक्षः रूपारुप्यावचराणामप्यदृष्टभूमिकानां नवभूमिकः ।

[२८८।१५-२८८।१६]
स एवान्वयज्ञानपक्ष्यो मार्ग आलम्बनं मार्गस्यान्योऽन्यहेतुकत्वात् ।

[२८८।१६-२८८।१७]
यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके नत्वन्वयज्ञानं कामधातुप्रतिपक्ष इति ।

[२८८।१७-२८८।१८]
न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते ।

[२८८।१८-२८८।१९]
धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात्तद्भूमिकानां मार्गलम्बनानामालम्बनं भविष्यति ।

[२८८।१९-२८८।२०]
न तत्सकलं प्रतिपक्षो दुःखसमुदयधर्मज्ञानयोरतत्प्रतिपक्षत्वात् ।

[२८८।२०-२८८।२१]
नापि सकलयो रूपारूप्यय्योर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावान्न भवत्यालम्बनम् ।

[२८८।२२]
अथ कस्माद्रागप्रतिघमाना दृष्टिशीलवृअतपरामर्शौ चानास्रवालम्बना नेष्यन्ते ।

[२८८।२३]
न रागस्तस्य वर्ज्यत्वात्

[२८९।०१-२८९।०२]
वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात्कुशलधर्मच्छन्दवत् ।

[२८९।०३]
न द्वेषोऽनपकारतः ।

[२८९।०४]
अपकारवस्तुनि हि प्रतिघ उत्पद्यते ।
न चैवं निरोधमागौम् ।

[२८९।०५]
न मानो न परामर्शौ शान्तशुद्धयग्रभावतः ॥ ५.१६ ॥

[२८९।०६]
निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति ।

[२८९।०६-२८९।०७]
भूतार्थशुद्धित्वान्न तयोः शुद्धिग्राहः शीलव्रतपरामर्शः ।

[२८९।०७]
अग्रौ च तौ ।
हीने चाग्रग्राहो दृष्टिपरामर्शः ।

[२८९।०८]
तस्मादयुक्तमेषामनास्रवालम्बनत्वम् ।

[२८९।०९]
एषामष्टानवतेरनुशयानां कत्यालम्बनतोऽनुशेरते कति संप्रयोगत एव ।

[२८९।१०-२८९।११]
सर्वत्रगा अनुशयाः सकलामनुशेरते ।
स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः ॥ ५.१७ ॥

[२८९।१२-२८९।१३]
ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतोऽनुशेरते ।

[२८९।१३]
असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतोऽनुशेरते नान्यम् ।

[२८९।१४]
तद्यथा दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम् ।

[२८९।१४-२८९।१५]
एवं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेव नान्यम् ।

[२८९।१५]
उत्सर्गं कृत्वाऽपवादं करोति

[२८९।१६]
नानास्रवोर्ध्वविषयाः

[२८९।१७]
अनास्रवालम्बना अनुशया नैवालम्बनतोऽनुशेरते ।
नाप्यूर्ध्वभूम्यालम्बनाः ।

[२८९।१७-२८९।१८]
किं कारणम् ।

[२८९।१८]
तदालम्बनस्य वस्तुनः

[२८९।१९]
अस्वीकाराद्विपक्षतः ।

[२८९।२०-२८९।२१]
यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्येऽप्यनुशया अनुगमयितुमुत्सहन्ते ।

[२८९।२१]
आर्द्र इव पटे रजांसि संस्थातुम् ।

[२८९।२१-२८९।२२]
न चैवमनास्रवा नाप्येवमूर्ध्वा भूमिः ।

[२८९।२२]
अतो न तदालम्बनास्तेष्वनुशेरते ।
यस्त्विहस्थस्तां भूमिं प्रार्थयते ।

[२८९।२३-२९०।०१]
कुशलोऽसौ धर्म्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा च भूमिरधराणाम् ।

[२९०।०१]
अतो न तेषु प्रतिष्ठां लभन्ते ।

[२९०।०१-२९०।०२]
तप्त इवोपले तलानि पादानाम् ।

[२९०।०२]
आनुगुण्यार्थोऽत्रानुशयार्थः ।
न च ते तदनुगुणा इत्यपरे ।

[२९०।०२-२९०।०३]
वातिकस्य रुक्षाननुशयनवत् ।

[२९०।०३]
अत उक्ता आलम्बनतोऽनुशेरते ।

[२९०।०४]
येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः ॥ ५.१८ ॥

[२९०।०५]
अनुशरेत इति वर्तते ।

[२९०।०५-२९०।०६]
योऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतोऽनुशेते ।

[२९०।०६]
यावदप्रहीण इति विशेषणार्थस्तुशब्दः ।

[२९०।०६-२९०।०७]
स्युरनुशया नानास्रवालम्बना न विसभागधातुसर्वत्रगाः ।

[२९०।०७-२९०।०८]
ते चानुशयाः संप्रयोगतोऽनुशयीरन्नालम्बनतः न स्युर्विसभागभूमिसर्वत्रगा अनुशयाः ।

[२९०।०९]
एषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः ।

[२९०।१०]
ऊर्ध्वमव्याकृताः सर्वे

[२९०।११]
रूपारुप्यावचरास्तावत्सर्व एवाव्याकृताः ।
किं कारणम् ।

[२९०।१२]
क्लिष्टानां धर्माणां दुःखविपाकः स्यात् ।
तच्च तयोइर्नास्ति परव्याबाधहेत्वभावात् ।

[२९०।१३]
कामे सत्कायदर्शनम् ।

[२९०।१४]
अन्तग्राहः सहाभ्यां च मोहः

[२९०।१५]
कामधातौ सत्कायान्तग्राहदृष्टी तत्संप्रयुक्ता चाविद्या अव्याकृताः ।

[२९०।१५-२९०।१६]
किं कारणम् ।

[२९०।१६]
दानादिभिरविरुद्धत्वात् ।

[२९०।१६-२९०।१७]
अहं प्रेत्य सुखी भविष्यामीति दानं ददाति शीलं रक्षति ।

[२९०।१७]
उच्छेददृष्टिरपि मोक्षानुकूला ।

[२९०।१७-२९०।१९]
अत एवोक्तं भगवता “एतदग्रं बाह्यकानां दृष्टिगतानां यदुत नो च स्यां नो च मे स्यात्न भविष्यामि न मे भविष्यती”ति ।

[२९०।१९]
अपि चानयोर्दृष्ट्योः स्वद्रव्यसंमूढत्वादपरपीडाप्रवृत्तत्वाच्च ।

[२९०।१९-२९०।२०]
स्वर्गतृष्णाऽस्मिमानयोरप्येवं प्रसङ्गः ।

[२९०।२०]
सहजा सत्कायदृष्टिरव्याकृता ।

[२९०।२०-२९०।२१]
या मृगपक्षिणामपि वर्त्तते ।

[२९०।२१]
विकल्पिता त्वकुशलेति पूर्वाचार्याः ।

[२९१।०१]
शेषस्त्विहाशुभाः ॥ ५.१९ ॥

[२९१।०२]
शेषास्त्वशुभा अनुशयाः कामधातावकुशलाः ।

[२९१।०३]
कत्यकुशलमूलानि कति न ।

[२९१।०४]
कामेऽकुशलमूलानि रागप्रतिघमूढयः ।

[२९१।०५-२९१।०६]
कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहोऽन्यत्र सत्कायान्तग्राहदृष्टिसंप्रयुक्ताद्यथाक्रमम् ।

[२९१।०७]
त्रीण्यकुशलमूलानि

[२९१।०८]
लोभोऽकुशलमूलं द्वेषो मोहोऽकुशलमूलम् ।

[२९१।०८-२९१।०९]
यद्ध्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम् ।

[२९१।०९-२९१।१०]
शेषा अनुशया नाकुशलमूलानीति सिद्धम् ।

[२९१।११]
कत्यव्याकृतमूलानि कति न ।
त्रीण्यव्याकृत मूलानि ।
कतमानि त्रीणि ।

[२९१।१२]
तृष्णाऽविद्या मतिश्च सा ॥ ५.२० ॥

[२९१।१३-२९१।१४]
सेत्यव्याकृततां दर्शयति या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा चान्ततो विपाकजा अपि सर्वाऽसावव्याकृतमूलमिति काश्मीराः ।

[२९१।१५]
द्वैधोर्ध्ववृत्तेर्नातोऽन्यौ

[२९१।१६]
विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति ।
चलत्वात् ।

[२९१।१६-२९१।१७]
उन्नतिलक्षणेनोर्ध्ववृत्तेर्न मानो मूलम् ।

[२९१।१७-२९१।१८]
विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके दृष्टान्नीति ।

[२९२।०१]
चत्वार्येवेति बाह्यकाः ।

[२९२।०२]
बाह्यका श्चत्वार्यव्याकृतमूलानीच्छन्ति ।

[२९२।०३]
तृष्णादृङ्मानमोहास्ते

[२९२।०४]
स इत्यव्याकृता इति दर्शयति ।
अव्याकृता तृष्णा दृष्टिर्मानोऽविद्या च ।

[२९२।०४-२९२।०५]
किं कारणमेतान्यव्याकृतमूलानीच्छन्ति ।

[२९२।०६]
ध्यायित्रित्वादविद्यया ॥ ५.२१ ॥

[२९२।०७]
यस्मात्त्रयो ध्यायिनः ।
तृष्णादृष्टिमानोत्तरध्यायिनः ।
ते चाविद्यावशाद्भवन्तीति ।

[२९२।०८]
यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि किं तानि अव्याकृतत्वात् ।
नेत्याह ।

[२९२।०९]
किं तर्हि ।
स्थापनीयः प्रश्नोऽव्याकृत इत्युक्तम् ।
चतुर्विधो हि प्रश्नः ।

[२९२।०९-२९२।१०]
एकांशव्याकरणीयो विभज्यव्याकरणीयः परिपृच्छय्य व्याकरणीयः स्थापनीयश्च ।

[२९२।१०-२९२।११]
तत्र यथाक्रमं वेदितव्यम् ।

[२९२।१२-२९२।१४]
एकांशतो व्याकरणं विभज्य परिपृच्छय च ।
स्थाप्यं च मरणोत्पत्ति विशिष्टात्माऽन्यतादिवत् ॥ ५.२२ ॥

[२९२।१५]
किं सर्वसत्त्वा मरिष्यन्तीत्येकांशेन व्याकर्त्तव्यं मरिष्यन्तीति ।

[२९२।१५-२९२।१६]
किं सर्वे जनिष्यन्त इति विभज्य व्याकर्त्तव्यं संक्लेशा जनिष्यन्ते न निःक्लेशा इति ।

[२९२।१६-२९२।१७]
किं मनुष्यो विशिष्टो हीन इति परिपृच्छय्य व्याकत्तेव्यम् ।

[२९२।१७]
कानधिकृत्य प्रश्नयसीति ।

[२९२।१७-२९२।१८]
यदि ब्रूयाद्देवानिति ।

[२९२।१८]
हीन इति व्याकर्त्तव्यम् ।
अथ ब्रूयादपायानिति ।

[२९२।१८-२९२।१९]
विशिष्ट इति व्याकर्त्तव्यम् ।

[२९२।१९]
किमन्यः स्कन्धेभ्यः सत्त्वोऽनन्य इति स्थापनीयः ।

[२९२।१९-२९२।२०]
सत्त्वद्रव्यस्याभावात्वन्ध्यापुत्रश्यामगौरतादिवत् ।

[२९२।२१]
कथमेतद्व्याकरणं भवति अव्याकृतमेतदिति ।
एवं व्याकरणात् ।

[२९२।२२]
अपर आह ।
इदमप्येकांशव्याकरणं यन्न सर्वे जनिष्यन्त इति ।

[२९२।२३-२९२।२४]
यस्तु पृच्छेद्ये मरिष्यन्ति किं ते जनिष्यन्त इत्येतद्विभज्यव्याकरणीयं स्यात् ।

[२९२।२४-२९३।०१]
मनुष्येषु चोभयमस्ति हीनत्वं विशिष्टत्वं चापेक्षिकमित्युभयमेकांशेन व्याकर्त्तव्यम् ।

[२९३।०१-२९३।०२]
तद्यथा विज्ञानं कार्यं कारणं चेति एकान्तेन तु पृच्छतो नैकान्तव्याकरणात्विभज्यव्याकरणं युज्यते ।

[२९३।०२-२९३।०३]
स्कन्धेभ्योऽन्यः सत्त्व इत्येतदव्याकृतमेव ।

[२९३।०३]
न चाव्याकरणमेव व्याकरणं युज्यत इति ।

[२९३।०३-२९३।०४]
यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते ।

[२९३।०४]
कथं न व्याकृतो भवति ।

[२९३।०५]
आभिधर्मिका आहुः ।

[२९३।०५-२९३।०७]
“तथागतो भगवानर्हन् सम्यक्संबुद्धः स्वाख्यातोऽस्य धर्मः सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञान दुःखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्तिरेकांशेन व्याकर्त्तव्यमर्थोपसंहितत्वात् ।

[२९३।०७-२९३।०८]
विभज्जव्याकरणं नाम यदि कश्चिद्ब्रूयाद्धर्मान् वदेति स वक्तव्यो बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान् वदामीति ।

[२९३।०९]
यदि ब्रू यादतीतानिति ।
स व्यक्तव्योऽतीता अपि बहवो रूपं यावद्विज्ञानमिति ।

[२९३।१०]
अथं ब्रूयाद्रूपमिति ।
स वक्तव्यो रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं च ।

[२९३।११]
यद्याह कुशलमिति ।

[२९३।११-२९३।१२]
तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापादिति ।

[२९३।१२]
यद्याह प्राणातिपाताद्विरतिमिति ।

[२९३।१२-२९३।१३]
साऽपि त्रिप्रकारा अलोभजाऽद्वेषजाऽमोहजा ।

[२९३।१३]
यद्याहालोभजामिति ।

[२९३।१३-२९३।१४]
अलोभजाऽपि द्विविधा विज्ञाप्त्यविज्ञप्तिभेदादित्येवं विभज्य वक्तव्यमिति ।

[२९३।१४]
एतदेव च शठस्य परिपृच्छ्य व्याकरणम् ।

[२९३।१४-२९३।१५]
तस्य वक्तव्यं धर्मा बहव इति ।

[२९३।१५]
न तु विभक्तव्या यावत्तूष्णिं वा तिष्ठति स्वयं वा व्याकरोतीति ।

[२९३।१६-२९३।१७]
यदा तौ न किञ्चित्पृच्छतः केवलमध्येषयतः तयोश्च न किञ्चित्व्याक्रियते केवलं परिप्रश्न्येते तत्कथमनयोः प्रश्नो भवति कथं वा व्याकरणम् ।

[२९३।१८]
यो ह्हि पन्थानं ब्रूहीत्याह किं तेन पन्था न पृष्टो भवति ।

[२९३।१८-२९३।१९]
परिपृच्छयैव व्याकरणात्कथं न परिपृच्छाव्याकरणं भवति ।

[२९३।१९-२९३।२०]
स्थापनीयस्तु यथा अन्तवान् लोकोऽनन्तवानित्येवमादि सूत्रान्तादेव तु प्रश्नव्याकरणानां लक्षणं द्रष्टव्यम् ।

[२९३।२०-२९३।२१]
भदन्तमहासाङ्घिकाः सूत्रं पठन्ति ।

[२९३।२१]
“चत्वारीमानि भिक्षवः प्रश्नव्याकरणानीति ।

[२९३।२१-२९३।२२]
कतमानि चत्वारि ।

[२९३।२२]
अस्ति भिक्षव एकांशव्याकरणीयः प्रश्नः ।
अस्ति यावत्स्थापनीयः ।

[२९३।२३]
कतमश्च भिक्षवः एकांशव्याकरणीयः प्रश्नः ।

[२९३।२३-२९३।२४]
सर्वे संस्कारा अनित्या इत्ययं भिक्षव एकांशव्याकरणीयः प्रश्नः ।

[२९३।२४]
कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः ।

[२९३।२४-२९३।२५]
संचेतनीयं कर्म कृत्वा किं प्रतिवेदयत इत्ययं विभज्यव्याकरणीयः प्रश्नः ।

[२९३।२५-२९३।२६]
कतमश्च भिक्षवः परिपृच्छ्यव्याकरणीयः प्रश्नः ।

[२९३।२६-२९३।२७]
संज्ञासु पुरुषस्यात्मा उताहोऽन्यासंज्ञा अन्य आत्मेति पृष्टेन सता परिप्रष्टव्यः कतमं पुनरायुष्मानात्मानं प्रत्येति ।

[२९३।२७-२९३।२८]
स चेदेवं वदेदौ दारिकं खल्वहयायुष्मन्नात्मानं प्रत्येमि ।

[२९३।२८-२९३।२९]
एवं सत्यन्या संज्ञा अन्य आत्मेत्येवं वचनीयः ।

[२९३।२९]
अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः ।

[२९३।२९-२९४।०१]
कतमश्च भिक्षवः स्थापनीयः प्रश्नः ।

[२९४।०१]
तद्यथा शाश्वतो लोकोऽशाश्वतः ।

[२९४।०१-२९४।०२]
शाश्वतश्चाशाश्वतश्च ।

[२९४।०२]
नैव शाश्वतो नाशाश्वतः ।
अन्तवानन्ततः ।
अन्तवांश्चानन्तश्च ।

[२९४।०२-२९४।०३]
नैवान्तवान्नानन्तवान् ।

[२९४।०३-२९४।०४]
भवति तथागतः परं मरणान्न भवति तथागतः परं मरणात्यावदन्यो जीवोऽन्यच्छरीरमित्ययं भिक्षवः स्थापनीयः प्रश्न” इति ।

[२९४।०४-२९४।०५]
यस्य पुद्गलस्य योऽनुशयो यस्मिन्नालम्बनेऽनुशेते स तेन तस्मिन् संप्रयुक्तः ।

[२९४।०५-२९४।०६]
इदं तु
वक्तव्यमतीते न कस्मिन् यावत्प्रत्युपन्ने न कस्मिन्निति ।

[२९४।०७]
समासत इमे द्विविधाः क्लेशाः ।
स्वलक्षणक्लेशाश्च रागप्रतिवमानाः ।

[२९४।०८]
सामान्यक्लेशाश्च दृष्टिविचिकित्सादऽविद्याः ।
तत्र तावत् ।

[२९४।०९-२९४।१०]
रागप्रतिघमानैः स्यादतीतप्रत्युपस्थितैः ।
यत्रोत्पन्नाऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः ॥ ५.२३ ॥

[२९४।११-२९४।१२]
अतीताः प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः ।

[२९४।१२]
एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं सर्वत्रोत्पद्यन्ते ।

[२९४।१३]
सर्वत्रानागतैरेभिर्मानसैः

[२९४।१४]
यत्राप्रहीणास्ते इति वर्त्तते ।

[२९४।१४-२९४।१५]
अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः सर्वत्र वस्तुनि संयुतस्त्रैयध्विके ।

[२९४।१५]
मानसानां त्र्यध्वविषयत्वात्

[२९४।१६]
स्वाध्विके परैः ।

[२९४।१७]
अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः ।
के पुनरन्ये ।

[२९४।१७-२९४।१८]
ये पञ्च विज्ञानकायिका रागाश्च प्रतिघाश्च ।

[२९४।१८]
उत्पत्तिधर्मभिरेव ।
तैरेव तु

[२९४।१९]
अजैः सर्वत्र

[२९४।२०]
अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः ।
त्रैयध्विकेऽपि

[२९४।२१]
शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ ५.२४ ॥
[२९५।०१]
के पुनः शेषाः ।
दृष्टिविचिकित्साऽविद्यास्त्रैयध्विकाः ।

[२९५।०१-२९५।०२]
तैः सर्वैरपि सर्वस्मिन्वस्तुनि संयुक्तः ।

[२९५।०२]
सामान्यक्लेशत्वात् ।
यावदप्रहीणा इत्यधिकारोऽनुवर्त्तत एव ।

[२९५।०२-२९५।०३]
किं पुनरिदमतीतानागतमुच्यतेऽस्त्यथ न ।

[२९५।०३-२९५।०४]
यद्यस्ति सर्वकालास्तित्वात्संस्काराणां शाश्वतत्वं प्राप्नोति ।

[२९५।०४]
अथ नास्ति ।
कथं तत्र तेन वा संयुक्तो भवति विसंयुक्तो वा ।

[२९५।०४-२९५।०५]
न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृतलक्षणयोगात् ।

[२९५।०५-२९५।०६]
प्रतिज्ञायते तु विशदं

[२९५।०७]
सर्वकालास्तिता

[२९५।०८]
किं कारणम् ।

[२९५।०९]
उक्तत्वात्

[२९५।१०-२९५।११]
उक्तं हि भगवताऽ”तीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत् ।

[२९५।११-२९५।१२]
यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षो भवति ।

[२९५।१२-२९५।१३]
अनागतं चेद्रूपं नाभविष्यत्न श्रुतवानार्यश्रावकोऽनागतं रूपं नाभ्यनन्दिष्यत् ।

[२९५।१३-२९५।१४]
यस्मात्तर्ह्यस्त्यनागतं रूपमिति” विस्तरः ।

[२९५।१५]
द्वयात्

[२९५।१६]
“द्वयं प्रतीत्य विज्ञानस्योत्पाद” इत्युक्तम् ।
द्वयं कतमत् ।

[२९५।१६-२९५।१७]
चक्षू रूपाणि यावत्मनो धर्मा इति ।

[२९५।१७]
असति वाऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यात् ।

[२९५।१८]
एवं तावदागमतोऽस्त्यतीतानागतं युक्तितोऽपि ।

[२९५।१९]
सद्विषयात्

[२९५।२०]
सति विषये विज्ञानं प्रवर्तते नासति ।

[२९५।२०-२९५।२१]
यदि चातीतानागतं न स्यादसदालम्बनं विज्ञानं स्यात् ।

[२९५।२१]
ततो विज्ञानमेव न स्यादालम्बनाभावात् ।

[२९५।२२]
फलात् ।

[२९५।२३]
यदि चातीतं न स्यात्शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् ।

[२९५।२३-२९६।०१]
न हि फलोत्पत्तिकाले वर्त्तमानो विपाकहेतुरस्तीति ।

[२९६।०१-२९६।०२]
तस्मादस्त्येवातीतानागतमिति वैभाषिकाः ।

[२९६।०२]
अवश्यं च किलैतत्सर्वास्तिवादेन सताऽभ्युपगन्तव्यम् ।
यस्मात्

[२९६।०३]
तदस्तिवादात्सर्वास्तिवादा इष्टाः

[२९६।०४]
ये हे सर्वमस्तीति वदन्ति अतीतमनामतं प्रत्युत्पन्नं च ते सर्वास्तिवादाः ।

[२९६।०४-२९६।०६]
ये तु केचिदस्ति यत्प्रत्युत्पन्नमदत्तफलं चातीतं कर्म किञ्चिन्नास्ति यद्दत्तफलमतीतमनागतं चेति विभज्य वदन्ति ते विभज्यवादिनः ।

[२९६।०६-२९६।०७]
कति चैते सर्वास्तिवादा इत्याह

[२९६।०८]
चतुर्विधाः ॥ ५.२५ ॥

[२९६।०९]
ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंज्ञिताः ।

[२९६।१०]
भावान्यथिको भदन्तधर्मत्रातः ।
स किलाह ।

[२९६।१०-२९६।११]
धर्मस्याध्वसु, प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यान्यथात्वम् ।

[२९६।११-२९६।१२]
यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा क्रियमाणस्य संस्थानान्यथात्वं भवति न वर्णान्यथात्वम् ।

[२९६।१२-२९६।१३]
यथा च क्षीरं दधित्वेन परिणमद्रसवीर्यविपाकान् परित्यजति न वर्णम् ।

[२९६।१३-२९६।१४]
एवं धर्मोऽप्यनागतादध्वनः प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति न द्रव्यभावम् ।

[२९६।१४-२९६।१५]
एवं प्रत्युत्पन्नादतीतमध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति न द्रव्यभावमिति ।

[२९६।१६]
लक्षाणान्यथिको भदन्तघोषकः ।
स किलाह ।

[२९६।१६-२९६।१७]
धर्मोऽध्वसु प्रवर्त्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः ।

[२९६।१७-२९६।१८]
अनागतोऽनागतलक्षणयुक्तोऽतीतप्रत्युत्पन्नाभ्यामवियुक्तः ।

[२९६।१८-२९६।१९]
एवं प्रत्युत्पन्नोऽप्यतीतानागताभ्यामवियुक्तः ।

[२९६।१९]
तद्यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त इति ।

[२९६।२०]
अवस्थाऽन्यथिको भदन्तवसुमित्रः ।
स किलाह ।

[२९६।२०-२९६।२१]
धर्मोऽध्वसु प्रवर्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निदिश्यते अवस्थान्तरतो न द्रव्यान्तरतः ।

[२९६।२१-२९६।२३]
यथैका वर्तिका एकाङ्के निक्षिप्ता एकमित्युच्यते शताङ्के शतं सहस्राङ्के सहस्रमिति ।

[२९७।०१]
अन्यथान्यथिको भदन्तबुद्धदेवः ।
स किलाह ।

[२९७।०१-२९७।०२]
धर्मोऽध्वसु प्रवर्तमानः पूर्वापरमपेक्ष्यान्योऽन्य उच्यते अवस्थान्तरतो न द्रव्यान्तरतः ।

[२९७।०२-२९७।०३]
यथैका स्त्री माता वोच्यते दुहिता वेति ।

[२९७।०३]
इत्येते चत्वारः सर्वास्तिवादाः ।

[२९७।०४]
एषां तु प्रथमः परिणामवादित्वात्सांख्यपक्षे निक्षेप्तव्यः ।

[२९७।०४-२९७।०५]
द्वितीयस्याध्वसंकरः प्राप्नोति ।

[२९७।०५]
सर्वस्य सर्वक्षणयोगात् ।

[२९७।०५-२९७।०६]
पुरुषस्य तु कस्याञ्चित्स्त्रियां रागः समुदाचरति कस्याञ्चित्केवलं समन्वागम इति किमत्र साम्यम् ।

[२९७।०६-२९७।०७]
चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्ति ।

[२९७।०७-२९७।०८]
अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति ।

[२९७।०८]
एवमनागतेऽपि ।
अत एषां सर्वेषां

[२९७।०९]
तृतीयः शोभनः

[२९७।१०]
योऽयमवस्थाऽन्यथिकः ।
तस्य किल

[२९७।११]
अध्वानः कारित्रेण व्यवस्थिताः ॥ ५.२६ ॥

[२९७।१२]
यदा स धर्मः कारित्रं न करोति तदाऽनागतः ।
यदा करोति तदा प्रत्युत्पन्नः ।

[२९७।१३]
यदा कृत्वा निरुद्धस्तदाऽतीत इति ।
परिगतमेतत्सर्वम् ।
इदं तु वक्तव्यम् ।

[२९७।१३-२९७।१४]
यद्यतीतमपि द्रव्यतोऽस्त्यनागतमिति ।

[२९७।१४]
कस्मात्तदतीतमित्युच्यतेऽनागतमिति वा ।

[२९७।१४-२९७।१५]
ननु चोक्तमध्वानः कारित्रेण व्यवस्थिता इति ।

[२९७।१५-२९७।१६]
यद्येवं प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् ।

[२९७।१६]
फलदानप्रतिग्रहणम् ।

[२९७।१६-२९७।१७]
अतीतानामपि तर्हि सभागहेत्वादीनां फलदानात्कारित्रप्रसङ्गोऽर्धकारित्रस्य वेति लक्षणसंकरः ।

[२९७।१८]
इदं च वक्तव्यम् ।
तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे

[२९७।१९]
किं विघ्नं

[२९७।२०]
येन कदाचित्कारित्रं करोति कदाचिन्नेति ।
प्रत्ययानामसामग्रयमिति चेत् ।
न ।

[२९७।२१]
नित्यमास्तित्वाभ्युपगमात् ।
यच्च तत्कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते

[२९७।२२]
तत्कथं

[२९८।०१]
किं कारित्रस्याप्यन्यदस्ति कारित्रम् ।

[२९८।०१-२९८।०२]
अथ तन्नैवातीतं नाप्यनागतं न प्रत्युत्पन्नमस्ति च ।

[२९८।०२]
तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् ।

[२९८।०२-२९८।०३]
अतो न वक्तव्यं यदा करित्रं न करोति धर्मस्तदाऽनागत इति ।

[२९८।०४]
स्यादेष दोषो यदि धर्मात्कारित्रमन्यत्स्यात् ।
तत्तु खलु

[२९८।०५]
नान्यत्

[२९८।०६]
अतो न भवत्येष दोषः ।
एवं तहि स एव

[२९८।०७]
अध्वायोगः

[२९८।०८-२९८।०९]
यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत इत्युच्यते कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति ।

[२९८।०९]
किमत्र न सिध्यति ।

[२९८।१०]
यो ह्यजातो धर्मः सोऽनागतः ।
यो जातो भवति न च विनष्टः स वर्त्तमानः ।

[२९८।११]
यो विनष्टः सोऽतीतः इति ।
एतदेवात्र वक्तव्यम् ।

[२९८।११-२९८।१२]
यदि यथा वर्त्तमानं द्रव्यतोऽस्ति तथाऽतीतमनागतं चास्ति ।

[२९८।१२]
तस्य

[२९८।१३]
तथा सतः ।

[२९८।१४]
अजातनष्टता केन

[२९८।१५]
तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्टः इति वेति ।

[२९८।१६]
किमस्य पूर्वं नासीद्यस्याभावादजात इत्युच्यते ।

[२९८।१६-२९८।१७]
किं च पश्चान्नास्ति यस्याभावा द्विनष्ट इत्युच्यते ।

[२९८।१७]
तस्मान्न सिध्यति सर्वथाऽप्यत्राध्वत्रयम् ।

[२९८।१७-२९८।१८]
यद्यभुत्वा भवतीति नेष्यते भूत्वा च पुनर्न भवतीति ।

[२९८।१८-२९८।१९]
यदप्युक्तं “संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग” इति ।

[२९८।१९]
तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् ।

[२९८।१९-२९८।२०]
नित्यं च नामास्ति स धर्मो न च नित्य इत्यपूर्वैषा वाचो युक्तिः ।

[२९८।२०]
आह खल्वपि

[२९८।२१-२९८।२२]
“स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते ।
न च स्वभावाद्भावोऽन्यो व्यक्तमीश्वरचेष्टितम् ।”

[२९९।०१]
यत्तूक्तमुक्तत्वादिति ।
वयमपि ब्रूमोऽस्त्यतीतानागतमिति ।

[२९९।०१-२९९।०२]
अतीतं तु यद्भूतपूर्वम् ।

[२९९।०२]
अनागतं यत्सति हेतौ भविष्यति ।

[२९९।०२-२९९।०३]
एवं च कृत्वाऽस्तीत्युच्यते न तु पुनर्द्रव्यतः ।

[२९९।०३]
कश्चैवमाह ।
वर्तमानवत्तदस्तीति ।
कथमन्यथाऽस्ति ।

[२९९।०३-२९९।०४]
अतीता नागतात्मना ।

[२९९।०४]
इदं पुनस्तवोपस्थितम् ।

[२९९।०४-२९९।०५]
कथं तदतीतमनागतं चोच्यते यदि नित्यमस्तीति ।

[२९९।०५-२९९।०७]
तस्मात्भूतपूर्वस्य च हेतोर्भाविनश्च फलस्य भूतपूरतां भावितां च ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता “अस्त्यतीतमस्त्यनागतमि”ति ।

[२९९।०७]
अस्तिशब्दस्य निपातत्वात् ।

[२९९।०७-२९९।०९]
यथाऽस्ति दीपस्य प्रागभावोऽस्ति पश्चादभाव इति वक्तारो भवन्ति यथा चास्ति निरुद्धः स दीपो न तु मया निरोधित इति ।

[२९९।०९]
एवमतीतानागतमप्यस्तीत्युक्तम् ।

[२९९।०९-२९९।१०]
अन्यथा ह्यतीतानागतभाव एव न सिध्येत् ।

[२९९।१०-२९९।११]
यत्तर्हि लगुडशिखीयकान्परिव्राजकानधिकृट्योक्तं भगवता “यत्कर्माभ्यतीतं क्षीणं निरुद्धं विगतं विपरिणतं तदस्ती”ति ।

[२९९।११-२९९।१२]
किं ते तस्य तस्य कर्मणो भूतपूर्वत्वं नेच्छन्ति स्म ।

[२९९।१२-२९९।१३]
तत्र पुनस्तदाहितं तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् ।

[२९९।१३]
अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येत् ।

[२९९।१३-२९९।१५]
इत्थं चैतदेवं यत्परमार्थशून्यतयामुक्तं भगवता “चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति ।

[२९९।१५-२९९।१६]
इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिगच्छती”ति

[२९९।१६-२९९।१७]
यदि चानागतं चक्षुः स्यान्नोक्तं स्याद्भूत्वा न भवतीति ।

[२९९।१७]
वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेत्न ।

[२९९।१७-२९९।१८]
अध्वनो भावादनर्थान्तरत्वात् ।

[२९९।१८]
अथ स्वात्मन्यभूत्वा भवति ।
सिद्धमिदमनागतं चक्षुर्नास्तीति ।

[२९९।१८-२९९।१९]
यदप्युक्तं “द्वयं प्रतीत्य विज्ञानस्योत्पादादिति इदं तावदिह संप्रधार्यम् ।

[२९९।२०-२९९।२१]
यन्मनः प्रतीत्य धर्मश्चोत्पद्यते मनोविज्ञानं किं तस्य यथा मनोजनकः प्रत्यय एवं धर्मा आहोस्विदालम्बनमात्रं धर्मा इति ।

[२९९।२१-२९९।२२]
यदि तावत्जनकः प्रत्ययो धर्माः कथं यदनागतं कल्पसहस्रेण भविष्यति वा न वा तदिदानीं विज्ञानं जनयिष्यति ।

[२९९।२३]
निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपपद्यते ।
अथालम्बनमात्रं धर्मा भवन्ति ।

[२९९।२४]
अतीतानागतमप्यालम्बनं भवतीति ब्रूमः ।
यदि नास्ति कथमालम्बनम् ।

[२९९।२४-२९९।२५]
अत्रेदानीं ब्रूमः ।

[२९९।२५]
यदा तदालम्बनं तथास्ति कथं तदालम्बनमभूत्भविष्यति चेति ।

[२९९।२५-२९९।२६]
न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति ।

[२९९।२६]
किं तर्हि ।
अभूदिति ।

[२९९।२६-२९९।२७]
यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते ।

[२९९।२७-२९९।२८]
यथा चानागतं वर्त्तमानं भविष्यति तथा बुद्ध्या गृह्यते ।

[२९९।२८]
यदि च तत्तथैवास्ति वर्तमानं प्राप्नोति ।

[२९९।२८-२९९।२९]
अथ नास्ति ।

[२९९।२९]
असदप्यालम्बनं भवतीति सिद्धम् ।
तदेव तद्विकीर्णमिति चेत् ।
न ।

[३००।०१]
विकीर्णस्याग्रहणात् ।
यदि च तत्तदेव रूपं केवलं परमाणुशो विभक्तम् ।

[३००।०१-३००।०२]
एवं सति परमाणवो नित्याः प्राप्नुवन्ति ।

[३००।०२-३००।०३]
परमाणुसंचर्यावभागमात्रं चैवं सति प्राप्नोति ।

[३००।०३-३००।०४]
न तु किञ्चिदुत्पद्यते नापि निरुध्यत इत्याजीविकवाद आलम्बितो भवति ।

[३००।०४-३००।०५]
सूत्रं चापविद्धं भवति “चक्षुरुत्पद्यमानं न कुतश्चिदागच्छती”ति विस्तरः ।

[३००।०५]
अपरमाणुसंचितानां वेदनादीनां कथं विकीर्णत्वम् ।

[३००।०५-३००।०६]
तेऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते ।

[३००।०६]
यदि च ते तथैव सन्ति नित्याः प्राप्नुवन्ति ।

[३००।०६-३००।०७]
अथ न सन्ति ।

[३००।०७]
असदप्यालम्बनमिति सिद्धम् ।

[३००।०७-३००।०८]
यद्यसदप्यालम्बनं स्यात्त्रयोदशमप्यायतनं स्यात् ।

[३००।०८]
अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् ।

[३००।०९]
एतदेव नामलम्बनम् ।
एवं तर्हि नाम एव नास्तीति प्रतीयेत ।

[३००।०९-३००।१०]
यश्च शब्दस्य प्रागभावमालम्बते किं तस्यालम्बनम् ।

[३००।१०]
शब्द एव ।

[३००।१०-३००।११]
एवं तर्हि यः शब्दाभावं प्रार्थयते तस्य शब्द एव कर्तव्यः स्यात् ।

[३००।११]
अनागतावस्य इति चेत् ।

[३००।११-३००।१२]
सति कथं नास्तिबुद्धिः ।

[३००।१२]
वर्तमानो नास्तीति चेत् ।
न ।
एकत्वात् ।

[३००।१२-३००।१३]
यावता तस्य विशेषस्तस्याभूत्वाभावसिद्धिः ।

[३००।१३]
तस्मादुभयं विज्ञानस्यालम्बनं भावश्चाभावश्च ।

[३००।१४-३००।१५]
यत्तर्हि बोधिसत्त्वेनोक्तम् “यत्तत्लोके नास्तितदहं ज्ञास्यामि वा द्रक्ष्यामि वा नेदं स्थानं विद्यत” इति ।

[३००।१५-३००।१६]
अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं पश्यन्ति ।

[३००।१६]
अहं तु सन्तमेवार्स्तीति पश्यामीत्ययं तत्राभिप्रायः ।

[३००।१६-३००।१८]
इतरथा हि सर्वबुद्धीनां सदालम्बनत्वे कुतोऽस्य विमर्शः स्यात्को वा विशेषः ।

[३००।१८]
इत्थं चैतदेवम् ।

[३००।१८-३००।१९]
यदन्यत्र भगवतोक्तम् “एतत्भिक्षुर्मम श्रावको यावत्स मया कल्पमवोदितः सायं विशेषाय परैष्यति ।

[३००।१९-३००।२०]
सायमवोदितः कल्पं विशेषाय परैष्यति ।

[३००।२०-३००।२१]
सच्च सतो ज्ञास्यति असच्चासतः सोत्तरञ्च सोत्तरतः अनुत्तरं चानुरत्तरत” इति ।

[३००।२१]
तस्मादयमप्यहेतुः ।
सदालम्बनत्वाद्विज्ञानस्येति ।

[३००।२१-३००।२२]
यदष्युक्तं फलादिति ।

[३००।२२]
नैव हि सौत्रान्तिका अतीतात्कर्मणः फलोत्पत्ति वर्णयन्ति ।

[३००।२३]
किं तर्हि ।
तत्पूर्वकात्संतानविशेषादित्यात्मवादप्रतिषेधे संप्रवेदयिष्यामः ।

[३००।२४-३००।२५]
यस्य त्वतीतानागतं द्रव्यतोऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र कर्मणः सामर्थ्यम् ।

[३००।२५]
उत्पादने सामर्थ्यम् ।
उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् ।

[३०१।०१]
अथ सर्वमेव चास्ति ।
कस्येदानीं क्व सामर्थ्यम् ।

[३०१।०१-३०१।०२]
वार्षगण्यवादश्चैवं द्योतितो भवति ।

[३०१।०२]
“यदस्त्यस्त्येव तत् ।
यन्नास्ति नास्त्येव तत् ।
असतो नास्ति संभवः ।

[३०१।०३]
सतो नास्ति विनाश” इति ।
वर्तमानीकरणे तर्हि सामर्थ्यम् ।

[३०१।०३-३०१।०४]
किमिदं वर्त्तमानीकरणं नाम ।

[३०१।०४]
देशान्तराकर्षणं चेत् ।
नित्यं प्रसक्तम् ।
अरूपिणां च कथं तत् ।

[३०१।०४-३०१।०५]
यच्च तदाकर्षणं तदभूत्वा भूतम् ।

[३०१।०५-३०१।०६]
स्वभावविशेषणं चेत्सिद्धमभूत्वा भवनम् ।

[३०१।०६]
तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति ।

[३०१।०६-३०१।०७]
यदतीतानागतं द्रव्यतोऽस्तीति वदति ।

[३०१।०७]
एवं तु साधुर्भवति ।
यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति ।

[३०१।०८]
कथं च सूत्रे सर्वमस्तीत्युक्तम् ।
“सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानी”ति ।

[३०१।०९]
अध्वत्रयं वा ।

[३०१।०९-३०१।१०]
यथा तु तदस्ति तथोक्तमथासत्यतीतातानागते कथं तेन तस्मिन्वा संयुक्तो भवति ।

[३०१।१०-३०१।११]
तज्जतद्धेत्वनुशयभावात्क्लेशेन तदालम्बने क्लेशानुशयभावाद्वस्तुनि संयुक्तो भवति ।

[३०१।११]
अस्त्येव त्वतीतानागतमिति वैभाषिकाः ।

[३०१।११-३०१।१२]
यत्र नेतुं शक्यते तत्रात्मकात्मनैवं वेदितव्यम् ।

[३०१।१३]
गम्भीरा खलुधर्मता ॥ ५.२७ ॥

[३०१।१४]
नावश्यं तर्ह्यसाध्या भवतीति ।
अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते ।

[३०१।१५]
रूपमुत्पद्यते रूपं निरुध्यते ।
अस्ति पर्यायोऽन्यदुत्पद्यतेऽन्यन्निरुध्यते ।

[३०१।१५-३०१।१६]
अनागतमुत्पद्यते वर्त्तमानं निरुध्यते ।

[३०१।१६]
अध्वाऽप्युत्पद्यते ।
उत्पद्यमानस्याध्वसंगृहीतत्वात् ।

[३०१।१७]
अध्वनोऽप्युत्पद्यते ।
अनेकक्षणिकत्वादनागतस्याध्वनः ।

[३०१।१७-३०१।१८]
गतमेतत्यत्प्रसङ्गेनागतम् ।

[३०१।१९]
इदानीमिदं विचार्यते ।
यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन्वस्तुनि ।

[३०१।१९-३०१।२०]
यत्र वा विसं युक्तः प्रहीणं तस्य तद्वस्त्विति ।

[३०१।२०-३०१।२१]
यत्र तावद्विसंयुक्तः प्रहीणं तस्य तद्वस्तु ।

[३०१।२१]
स्यातु प्रहीणं न च तत्र विसंयुक्तस्तद्यथा

[३०१।२२-३०१।२३]
प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः ।
प्राक्प्रहीणे प्रकारे च शेषैस्तद्विषयैर्मलैः ॥ ५.२८ ॥

[३०१।२४-३०२।०१]
दुःखज्ञाने समुत्पन्ने समुदयज्ञानेऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो भवति ।

[३०२।०१]
तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः ।

[३०२।०२-३०२।०३]
भावनाप्रहातव्येऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक्प्रहीणस्तस्मिन् प्रहीणेऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः ।

[३०२।०४-३०२।०५]
कस्मिन्वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं वक्तव्यं जायते ।

[३०२।०५]
तस्मात्पिण्डविभाषां कुर्वन्ति ।

[३०२।०५-३०२।०६]
कथमल्पेनाल्पेन यत्नेन महतो महतः प्रश्नौघान् प्रतिपाद्येमहीति ।

[३०२।०६-३०२।०७]
समासत इमे षोडश धर्माः कामरूपारुप्यावचराः पञ्चप्रकाराः अनास्रवाश्च ।

[३०२।०७]
चित्तान्यपि षोडश एतान्येव ।

[३०२।०७-३०२।०९]
तत्र कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा अमुष्मिन्नियन्तोऽनुशया अनुशेरत इत्येतदभ्यूहितव्यम् ।

[३०२।०९]
तत्र तावत्

[३०२।१०-३०२।११]
दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः ।
स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः ॥ ५.२९ ॥

[३०२।१२]
स्वकं च तत्त्रयं च स्वकत्रयम् ।

[३०२।१२-३०२।१३]
एकं च तद्रूप्राप्तं च एकरूपाप्तम् ।

[३०२।१३]
एषा विग्रहजातिः ।

[३०२।१३-३०२।१४]
कामावचरास्तावद्दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां चित्तानामालम्बनम् ।

[३०२।१४-३०२।१५]
स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव अनास्रवस्य चेति ।

[३०२।१६]
स्वदाधरत्रयोर्ध्वैकामलानां रूपधातुजाः ।

[३०२।१७]
रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् ।

[३०२।१७-३०२।१८]
स्वधातुकानां त्रयाणां तेषामेव ।

[३०२।१८]
अधरधातुकानां त्रयाणां तेषामेव ।

[३०२।१८-३०२।१९]
ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव ।

[३०२।१९]
अनास्रवस्य चेति ।

[३०२।२०]
आरुप्यजास्त्रिधात्वाप्तत्रयानास्रवगोचराः ॥ ५.३० ॥

[३०२।२१]
आरूप्यावचरास्त एव त्रिप्रकारा धर्मा दशानां चित्तानामालम्बनम् ।

[३०२।२१-३०२।२२]
त्रैधातुकानां त्रिप्रकाराणां तेषामेव ।

[३०२।२२]
अनास्रवस्य चेति ।

[३०२।२२-३०२।२३]
उक्तास्त्रैधातुका दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः ।

[३०२।२४]
निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः ।

[३०३।०१]
निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव ।

[३०३।०१-३०३।०२]
तस्याधिकस्य ते धर्मा आलम्बनं ज्ञेयाः ।

[३०३।०२]
कथं कृत्वा ।

[३०३।०२-३०३।०३]
कामावचरा हि निरोधदर्शनहेया धर्माः षण्णां विज्ञानानामालम्बनम् ।

[३०३।०३-३०३।०४]
पूर्वोक्तानां पञ्चानां तस्यैव च निरोधदर्शनप्रहातव्यस्याधिकस्य ।

[३०३।०४]
मार्गदर्शनहेया अप्येवम् ।

[३०३।०४-३०३।०५]
पञ्चानां पूर्वोक्तानां तस्यैव च मार्गदर्शनप्रहातव्यस्याधिकस्य ।

[३०३।०५]
एवं रूपारूप्यावचराणि ।

[३०३।०५-३०३।०७]
निरोधमार्गदर्शनप्रहातव्यास्तस्यैव निरोधमार्गदर्शनप्रहातव्यस्याधिकस्य चित्तस्यालम्बनमिति नवानामेकादशानां च चित्तानामालम्बनं भवन्ति ।

[३०३।०७-३०३।०८]
उक्तास्त्रैधातुकाः पञ्चप्रकाराः धर्माः ।

[३०३।०९]
अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः ॥ ५.३१ ॥

[३०३।१०]
अनास्रवा धर्मा दशानां चित्तानामालम्बनम् ।

[३०३।१०-३०३।११]
त्रैधातुकानामन्त्यानां त्रिप्रकाराणां निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति ।

[३०३।११-३०३।१२]
पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन संग्रहो भवति ।

[३०३।१३-३०३।१५]
“दुःखहेतुदृगभ्यासहेया धातुत्रयेऽमलाः
पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः
निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः” । इति ।

[३०३।१६-३०३।१७]
एवमेषां षोडशानां चित्तानां षोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशयकार्यां योजयितव्यम् ।

[३०३।१७]
दिङमात्रं दर्शयिष्यामः ।

[३०३।१८-३०३।१९]
सुखेन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरत इति प्रश्न आगते विचारयितव्यम् ।

[३०३।१९-३०३।२०]
सुखेन्द्रियं सप्तविधं कामावचरं भावनाप्रहातव्यं रूपावचरं च पञ्चप्रकारमनास्रवं चेति ।

[३०३।२०-३०३।२१]
तदेतत्समासतो द्वादशधर्मस्य विज्ञानस्यालम्बनं भवति ।

[३०३।२१]
कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् ।

[३०३।२२-३०३।२३]
रूपावचरस्य पञ्चप्रकारस्यारूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य च ।

[३०३।२३]
इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् ।

[३०३।२३-३०३।२५]
तत्र यथासंभवं कामावचराश्चत्वारो निकाया रूपावचराश्च संस्कृतालम्बना आरूप्यावचरौ च द्वौ निकायौ सर्वत्रगाश्चानुशया अनुशेरत इति ज्ञातव्यम् ।

[३०३।२५-३०३।२६]
सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ।

[३०३।२६-३०४।०१]
तत्पुनः सुखेन्द्रियालम्बनालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् ।

[३०४।०१-३०४।०२]
तस्यैव द्वादशविधास्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य ।

[३०४।०२-३०४।०५]
इदं चतुर्दशविधं सुखेन्द्रियालम्बनालम्बनं विज्ञानं तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृतालम्बना अनुशया अनुशेरत इति ज्ञातव्यम् ।

[३०४।०५]
अनया वर्तन्याऽन्यदप्यनुगन्तव्यम् ।

[३०४।०५-३०४।०६]
यैरनुशयैर्यच्चित्तं सानुशयं तेऽनुशयास्तस्मिश्चित्तेऽनुशेरते ।

[३०४।०६]
स्युरनुशेरते ।

[३०४।०६-३०४।०७]
येऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणास्तदालम्बनाश्चाप्रहीणाम् ।

[३०४।०७]
स्युर्नानुशेरते ।

[३०४।०७-३०४।०८]
येऽनुशयास्तेन चित्तेन संप्रयुक्ताः प्रहीणास्तदालम्बनाश्च ।

[३०४।०८]
तदेवं कृत्वा भवति ।

[३०४।०९]
द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः ।

[३०४।१०-३०४।११]
क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयं तत्संप्रयुक्ततदालम्बनैरप्रहीणैरननुशयानैश्च तत्संप्रयुक्तैः प्रहीणैस्तत्सहितत्वात् ।

[३०४।११-३०४।१२]
अक्लिष्टं तु चित्तमनुशयानैरेव तदालम्बनैरप्रहीणैरिति ।

[३०४।१३]
अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति ।

[३०४।१३-३०४।१४]
आदित एव तावदविद्याय्योगात्सत्येषु स मुह्यति ।

[३०४।१४]
दुःखमस्मै न रोचते यावत्मार्गस्ततः

[३०४।१५]
मोहाकाङ्क्षा

[३०४।१६]
मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते ।
दुःखं न्विदं नत्विदं दुःखमित्येवमादि ।

[३०४।१७]
ततो मिथ्यादृष्टिः

[३०४।१८]
विचिकित्साया मिथ्यादृष्टिः प्रवर्तते ।

[३०४।१८-३०४।१९]
संशयितस्य मिथ्याश्रमणचित्तानां मिथ्यानिश्चयोत्पत्तेः ।

[३०४।१९]
नास्ति दुःखमित्येव्मादि ।

[३०४।२०]
सत्कायदृक्ततः ॥ ५.३२ ॥

[३०४।२१]
मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते ।
दुःखतः स्कन्धानपोह्यात्मतोऽभिनिवेशात् ।

[३०४।२२]
ततोऽन्तग्रहणं

[३०५।०१]
सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते ।
आत्मनः शाश्वतोच्छेदान्तग्रहणात् ।

[३०५।०२]
तस्माच्छ्हीलामर्शः

[३०५।०३]
अन्तग्रहाच्छीलव्रतपरामर्शः ।

[३०५।०३-३०५।०४]
यमेवान्तं गृह्णाति तेन शुद्धिप्रत्यागमनात् ।

[३०५।०५]
ततो दृशः ।

[३०५।०६]
आमर्श इति वर्तते ।
शीलव्रतपरामर्शाद्दृष्टिपरामर्शः प्रवर्तते ।

[३०५।०६-३०५।०७]
येन शुद्धिं प्रत्येति तस्याग्रतो ग्रहणात् ।

[३०५।०७]
ततो ।

[३०५।०८]
रागः स्वदृष्टौ मानश्च

[३०५।०९]
तस्यामभिष्वङ्गात्तया चोन्नतिगमनात् ।

[३०५।१०]
द्वेषोऽन्यत्र

[३०५।११]
स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टौ द्वेषः प्रवर्तते ।

[३०५।११-३०५।१३]
अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति दर्शनहेयानां रागादीनां स्वासान्तानिकदृष्ट्यालम्बनत्वात् ।

[३०५।१४]
इत्यनुक्रमः ॥ ५.३३ ॥

[३०५।१५]
एष एषां दशानां क्लेशानां प्रवृत्तिक्रमः ।

[३०५।१६]
उत्पद्यमानस्तु त्रिभिः कारणैरुत्पद्यते ।

[३०५।१७-३०५।१८]
अप्रहीणादनुशयाद्विषयात्प्रत्युपस्थितात्
अयोनिशो मनस्कारात्क्लेशः

[३०५।१९-३०५।२०]
तद्यथा रागानुशयोऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते ।

[३०५।२०-३०५।२१]
तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि ।

[३०५।२१]
एवमन्योऽपि क्लेश उत्पद्यत इति वेदितव्यो यः

[३०५।२२]
संपूर्णकारणः ॥ ५.३४ ॥

[३०६।०१]
कदाचित्किअल्विषयबलेनैवोत्पद्यन्ते ।
न हेतुबलेन ।

[३०६।०१-३०६।०२]
यथा परिहाणधर्मकस्यार्हत इति ।

[३०६।०२-३०६।०३]
एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः कामस्रवो भवास्रवोऽविद्यास्रव इति ।

[३०६।०३-३०६।०४]
चत्वार ओघाः कामौघो भवौघो दृष्ट्योभोऽविद्यौघश्च ।

[३०६।०४]
चत्वारो योगा एत एव ।

[३०६।०४-३०६।०५]
चत्वार्युपादानानि कामोपादानं दृष्ट्युपादानं शीलवृतोपादानमात्मवादोपादानमिति ।

[३०६।०५]
तत्र तावत्

[३०६।०६]
कामे सपर्यवस्थानाः क्लेशाः कामास्रवो विना ।

[३०६।०७]
मोहेन

[३०६।०८-३०६।०९]
अविद्यां वर्जयित्वाऽन्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो वेदितव्य एकचत्वारिंशद्द्रव्याणि ।

[३०६।०९-३०६।१०]
एकत्रिंशदनुशयाः पञ्चप्रकारामविद्यां हित्वा दश पर्यवस्थानानि ।

[३०६।११]
अनुशया एव रूपारूप्ये भवास्रवः ॥ ५.३५ ॥

[३०६।१२]
विना मोहेनेति वर्तते ।

[३०६।१२-३०६।१३]
रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो द्वापञ्चाशद्द्रव्याणि ।

[३०६।१३]
रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा ।

[३०६।१४]
आरूप्यावचराः षड्विंशतिः ।
ननु च तत्राप्यस्ति पर्यवस्थानद्वयं स्त्यानमौद्धत्यं च ।

[३०६।१५]
प्रकरणेषु चोक्तं “भवास्रवः कतमः ।

[३०६।१५-३०६।१६]
अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रतिसंयुक्तानि ।

[३०६।१६]
संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानी”ति ।

[३०६।१६-३०६।१७]
कस्मा दिह तस्याग्रहणम् ।

[३०६।१७]
अस्वातन्त्र्यादिति काश्मीराः ।

[३०६।१८]
किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवाग्र उक्तः ।

[३०६।१९]
अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः ।

[३०६।२०]
अत एकीकृताः ।

[३०६।२१-३०६।२२]
ते ह्यूभयेऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन साधम्येर्णैकताः ।

[३०६।२२-३०६।२३]
येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रवः इत्यविद्येदानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् ।

[३०६।२३]
तानि पञ्चदश द्रव्याणि ।

[३०६।२३-३०६।२४]
किं कारणमसौ पृथग्व्यवस्थाप्यते ।

[३०६।२४]
सर्वेषां हि तेषां

[३०७।०१]
मूलमविद्येत्यास्रवः पृथक् ॥ ५.३६ ॥

[३०७।०२]
यथा चैते आस्रवा उक्ता वेदितव्याः

[३०७।०३]
तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् ।
[३०७।०४]
कामास्रव एव कामौघः कामयोगश्च ।

[३०७।०४-३०७।०५]
एवं भवास्रव एव भवौघो भवयोगश्चान्यत्र दृष्टिभ्यः ।

[३०७।०५]
ताः किल पटुत्वादोघयोगेषु पृथक्स्थापिताः ।

[३०७।०६]
नास्रवेष्वसहायानां न किलास्यानुकूलता ॥ ५.३७ ॥

[३०७।०७]
आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यते ।

[३०७।०७-३०७।०८]
न च किल केवला दृष्ट्य आस्यानुकूलाः पटुत्वात् ।

[३०७।०८]
अत आस्रवेषु न पृठक्स्थापिताः ।

[३०७।०८-३०७।०९]
मिश्रीकृत्य स्थापिता इति तदेवं कामौघ एकान्नत्रिंशद्द्रव्याणि ।

[३०७।०९-३०७।१०]
रागप्रतिघमानाः पञ्चदश विचिकित्साश्चतस्रो दश पर्यवस्थानानीति ।

[३०७।१०]
भवौघोऽष्टाविंसतिद्रव्याणि ।

[३०७।१०-३०७।११]
रागमाना विंशतिर्विचिकित्साऽष्टौ ।

[३०७।११]
दृष्ट्योघः षट्त्रिंशद्द्रव्याणि ।

[३०७।११-३०७।१२]
अविद्यौघः पञ्चदश द्रव्याणि ।

[३०७।१२]
ओघवद्योगा वेदितव्याः ।

[३०७।१३]
यथोक्ता एव साऽविद्या द्विधा दृष्टिविवेचनात् ।

[३०७।१४]
उपादानानि

[३०७।१५]
कामयोग एवसहाविद्यया कामोपादानं चतुस्त्रिंशद्द्रव्याणि ।

[३०७।१५-३०७।१६]
रागप्रतिघमानाऽविद्याविंशतिर्विचिकित्साश्चतस्रो दश पर्यवस्थानानि ।

[३०७।१६-३०७।१७]
भवयोग एव सहाविद्यया आत्मवादोपादानमष्टत्रिंशद्द्रव्याणि ।

[३०७।१७]
रागमानाविद्यास्त्रिंशद्विचिकित्सा अष्टौ ।

[३०७।१८]
दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्यु पादानं त्रिंशद्द्रव्याणि ।

[३०७।१८-३०७।१९]
शीलव्रतोपादानं षड्द्रव्याणि कर्मदृष्टिभ्यो निष्कृष्टम् ।

[३०७।१९]
मार्गप्रतिद्वन्द्वित्वा दुभयपक्षविप्रलम्भनाच्च ।

[३०७।२०-३०७।२१]
गृहिणोऽप्यनेन विप्रलब्धा अनशनादिभिः स्वर्गमार्गसंज्ञया प्रव्रजिता अपीष्टविषयपरिवर्जनेन शुद्धिप्रत्यागमनादिति ।

[३०७।२१-३०७।२२]
किं कारणमविद्यां मिश्रयित्वोपादानमुक्तं न पृथक् ।

[३०७।२२]
भवग्रहणादुपादानानि ।

[३०७।२३]
अविद्या तु ग्राहिका नेति मिश्रिता ॥ ५.३८ ॥

[३०८।०१]
असंप्रख्यानलक्षणतयाऽपटुत्वादविद्या न ग्राहिका भवत्यतः किल मिश्रिता ।

[३०८।०१-३०८।०२]
सूत्रे तु भगवतोक्तं “कामयोगः कतमः ।

[३०८।०२-३०८।०४]
विस्तरेण यावद्योऽस्य भवति कामेषु कामरागः कामच्छन्दः कामस्नेहः कामप्रेम कामेच्छा काममूर्च्छा कामगृद्धः कामपरिगर्द्धः कामनन्दी कामनियन्तिः कामाध्यवसानं तदन्यचित्तं पर्यादाय तिष्ठति ।

[३०८।०४-३०८।०५]
अयमुच्यते कामयोगः ।

[३०८।०५]
एवं यावद्भवयोगः” ।

[३०८।०५-३०८।०६]
च्छन्दरागश्चोपादानमुक्तं सुत्रान्तरेष्वतो विज्ञायते काम ह्युपादानमपि कामादिषु च्छन्दराग इति ।

[३०८।०७]
उक्तमिदमनुशया एवास्रवौघयोगोपादानसंशब्दिताः सूत्रेष्विति ।

[३०८।०८]
अथ कोऽयमनुशयार्थः कश्च यावदुपादानार्थः ।

[३०८।०९-३०८।१०]
अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते ।
अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः ॥ ५.३९ ॥

[३०८।११]
तत्राणवः सूक्ष्मप्रचारत्वात्दुर्विज्ञानतया ।
अनुगताः प्राप्त्यनुषङ्गतः ।

[३०८।११-३०८।१२]
अनुशेरते द्वाभ्यां प्रकाराभ्यामालम्बनतः संप्रयोगतश्च ।

[३०८।१२-३०८।१३]
अनुबध्नन्त्यप्रयोगेण प्रतिवारयतोऽपि पुनः पुनः संमुखीभावात् ।

[३०८।१३]
एभिः कारणैरनुशया उच्यन्ते ।

[३०८।१४-३०८।१५]
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ ।
उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः ॥ ५.४० ॥

[३०८।१६]
आसयन्ति संसारे आस्रवन्ति भवाग्राद्यावदवीचिं षङ्भिरायतनव्रणैरित्यास्रवाः ।

[३०८।१७]
हरन्तीत्योघाः ।
श्लेषयन्तीति योगाः ।
उपगृह्णन्तीति उपदानानि ।

[३०८।१७-३०८।१८]
एवं तु साधीयः स्याद् ।

[३०८।१८]
आस्रवत्येभिः संततिर्विषयेष्वित्यास्रवाः ।

[३०८।१८-३०८।१९]
“तद्यथा आयुष्मन्तो नौर्महद्भिरभिसंस्कारैः प्रतिस्रोतो नीयते ।

[३०८।१९-३०८।२०]
सा तेषामेव संस्काराणां ग्रतिप्रस्रव्ध्याऽल्पकृच्छ्रेणानुस्रोत उह्यत”इति सूत्रवादानुसारात् ।

[३०८।२१]
अधिमात्रवेगत्वादोघाः ।
तर्हि तद्वानुह्यते तदनुविधानात् ।

[३०८।२१-३०८।२२]
नातिमात्रसमुदाचारिणोऽपि योगा विविधदुःखसंयोजनात् ।

[३०८।२२-३०८।२३]
आभीक्ष्ण्यानुषङ्गतो वा कामाद्युपादानादुपादानानीति ।

[३०८।२४]
संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः ।

[३०९।०१-३०९।०२]
त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः ।

[३०९।०२-३०९।०३]
तत्र नव संयोजनान्यनुन्वयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्या मात्सर्यसंयोजनानि ।

[३०९।०३]
तत्रानुनयसंयोजनं त्रैधातुको रागः ।

[३०९।०३-३०९।०४]
एवमन्यानि यथासंभवं योज्यानि ।

[३०९।०४]
दृष्टिसंयोजनं तिस्रो दृष्टयः ।
परामर्शसंयोजनं द्वे दृष्टी ।

[३०९।०५-३०९।०६]
अत एवोच्यते स्यात्द्ष्टिसंप्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्तो न दृष्टिसंयोजनेन न च तत्र दृष्ट्यनुशयो नानुशयीत ।

[३०९।०६-३०९।०७]
आह स्यात्समुदयज्ञाने उत्पन्ने निरोधज्ञानेऽनुत्पन्ने निरोधमार्गदर्शानप्रहातव्येषु दृष्टिशीलव्रतपरामर्शसंप्रयुक्तेषु धर्मेषु ।

[३०९।०८]
तेष्वनुनयसंयोजनेन संयुक्तस्तदालम्बनेन दृष्टिसंयोजनेनासंयुक्तः ।

[३०९।०९-३०९।१०]
सर्वत्रगस्य प्रहीणत्वादसर्वत्रगस्य च तदालम्बनसंप्रयोगिणो दृष्टिसंयोजनस्याभावात् ।

[३०९।१०]
दृष्ट्यनुशयश्च तेष्वनुशेते ।

[३०९।१०-३०९।११]
ते एव परामर्शडृष्टी संप्रयोगतः ।

[३०९।१२-३०९।१३]
किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंप्रयोजनं पृथगुक्तं द्वे पुनर्दृष्टी परामर्शासंयोजनं पृथक् ।

[३०९।१४]
द्रव्यामर्शन सामान्याद्दृष्टी संयोजनान्तरम् ॥ ५.४१ ॥

[३०९।१५]
अष्टादश द्रव्याणि तिस्रो दृष्टयः ।
अष्टादशैव द्वे परामर्शदृष्टी ।

[३०९।१५-३०९।१६]
अतः किल द्रव्य सामान्यादेते संयोजनान्तरं कृते ।

[३०९।१६-३०९।१७]
एते च द्वे परामर्शस्वभावेन शेषाइति परामर्शनसामान्यादप्येते पृथग्विहिते ग्राह्यग्राहकभेदात् ।

[३०९।१८-३०९।१९]
अथ कस्मादीष्र्यामात्सर्ये संयोजने पृथक्संयोजनद्वयमुक्तं नान्यत्पर्यवस्थानम् ।

[३०९।२०-३०९।२१]
एकान्ताकुशलं यस्मात्स्वतन्त्रं चोभयं यतः ।
ईष्र्यामात्सर्यमेषूक्तं पृथक्संयोजनद्वयम् ॥ ५.४२ ॥

[३०९।२२-३०९।२३]
नह्यन्यत्पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्यादेकान्ताकुशलत्वं स्वतन्त्रत्वं चेति ।

[३०९।२३]
यस्याष्टौ पर्यवस्थानानि तस्येवं स्यात् ।

[३०९।२३-३०९।२४]
यस्य पुनर्दश तस्य क्रोधम्रक्षावप्युभयप्रकारौ ।

[३०९।२४]
तस्मान्न भवत्ययं परिहार इत्यपरे ।

[३०९।२४-३०९।२५]
पुनरन्यत्र भगवता संयोजनमुक्तम्

[३१०।०१]
पञ्चधाऽवरभागीयं

[३१०।०२]
तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति ।

[३१०।०३]
कस्मादेतान्ववरभागीयान्युच्यन्ते ।
अवरभागहितत्वात् ।

[३१०।०३-३१०।०४]
अवरो हि भागः कामधातुरेतानि च तस्यानुगुणानि ।

[३१०।०४]
यस्मात् ।

[३१०।०५]
द्वाभ्यां कामानतिक्रमः ।

[३१०।०६]
त्रिभिस्तु पुनरावृत्तिः

[३१०।०७]
कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति ।

[३१०।०७-३१०।०८]
सत्कायदृष्ट्यादिभिरतिक्रान्तोऽपि पुनरावर्त्यते दौवारिकानुचरसाधर्म्यात् ।

[३१०।०८-३१०।०९]
त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वं द्वाभ्यां धात्ववरतां कामधातुम् ।

[३१०।०९-३१०।१०]
अत एव तान्यवरभागीयानीत्यपरे ।

[३१०।१०-३१०।१२]
यदा स्रोत आपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात्षट्क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च ।

[३१०।१२]
सर्वमेतद्वक्तव्यं स्यात् ।
किं तूक्तं

[३१०।१३]
मुखमूलग्रहात्त्रयम् ॥ ५.४३ ॥

[३१०।१४]
त्रिप्रकाराः किल क्लेशा एकप्रकारा द्विप्रकाराक्श्चतुप्रकाराक्श्च ।

[३१०।१४-३१०।१५]
तेषामेभिस्त्रिभिर्मुखं गृहीतमिति ।

[३१०।१५]
अपिचान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता ।

[३१०।१५-३१०।१६]
दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तितः मिथ्यादृष्टिर्विचिकित्साप्रवतिता ।

[३१०।१६]
मूलं गृहीतमिति ।

[३१०।१७]
अपरे पुनराहुः ।

[३१०।१८-३१०।१९]
अगन्तुकामतामार्गविभ्रमो मार्गसंशयः ।
इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ५.४४ ॥

[३११।०१]
त्रयोऽन्तराया देशान्तरगमने भवन्ति ।

[३११।०१-३११।०२]
अगन्तुकामता मार्गविभ्रमोऽन्यमार्गसंश्रयणात्मार्गसंशयश्च ।

[३११।०२]
एवं मोक्षगमनेऽप्येत एव त्रयोन्तरायाः ।

[३११।०२-३११।०३]
तत्र सत्कायदृष्ट्या मोक्षादुत्रासमापन्नस्यागन्तुकामता भवति ।

[३११।०३-३११।०४]
शीलव्रतपरामर्शेनान्यमार्गसंश्रयणान्मोक्षविभ्रमः ।

[३११।०४]
विचिकित्सया मार्गसंशयः ।

[३११।०४-३११।०६]
एषां मोक्षगमनान्तरायाणां प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् ।

[३११।०६]
यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् ।
एवं पुनः

[३११।०७]
पञ्चधैवोर्ध्वभागीयं

[३११।०८]
कथमित्याह

[३११।०९]
द्वौ रागौ रूप्यरूपिजौ

[३११।१०]
तौ

[३११।११]
औद्धत्यमानमोहाश्च

[३११।१२]
इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि ।

[३११।१२-३११।१३]
तद्यथा रूपराग आरूप्यराग औद्धत्यं मानोऽविद्या च ।

[३११।१३]
एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् ।
समाप्तः संयोजनप्रसङ्गः ।

[३११।१४]
बन्धनानि कतमानि ।
त्रीणि बन्धनानि ।

[३११।१४-३११।१५]
रागो बन्धनं सर्वः द्वेषो बन्धनं सर्वः मोहो बन्धनं सर्वः ।

[३११।१५]
कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता ।

[३११।१६]
विद्वशाद्बन्धनत्रयम् ॥ ५.४५ ॥

[३१२।०१]
त्रिवेदनावशार्त्तीणि बन्धनानि ।

[३१२।०१-३१२।०२]
सुखायां हि वेदनायां रागोऽनुशेते आलम्बनसंप्रयोगाभ्याम् ।

[३१२।०२]
दुःखायां द्वेषः ।
अदुःखासुखायां मोहो न तथा रागद्वेषौ ।

[३१२।०२-३१२।०३]
स्वासांतनिकालम्बनतो वा नियमः ।

[३१२।०३]
अनुशयाः पूर्वमेवोक्ताः ।

[३१२।०४]
उपक्लेशाः वक्तव्याः ।
तत्र ये यावत्क्लेशा उपक्लेशा अपि ते ।

[३१२।०४-३१२।०५]
चित्तोपक्लेशनात् ।

[३१२।०६-३१२।०७]
येऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ।
क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः ॥ ५.४६ ॥

[३१२।०८-३१२।०९]
येऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त उपक्लेशास्ते पुनर्ये क्षुद्रवस्तुके पठिताः ।

[३१२।०९-३१२।१०]
इह तु पर्यस्थानक्लेशमलसंगृहीतानेव निर्देक्ष्यामः ।

[३१२।१०]
कानि पुनः पर्यवस्थानानीत्याह ।

[३१२।१०-३१२।११]
क्लेशा अपीहिपर्यवस्थानं कामरागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् ।

[३१२।११]
प्रकरणशास्त्रे तु

[३१२।१२-३१२।१३]
आह्लीक्यमनपत्राप्यमीर्ष्यामात्सर्यमुद्धवः ।
कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ ५.४७ ॥

[३१२।१४]
वैभाषिकन्यायेन पुनर्दश पर्यवस्थानान्येतानि चाष्टौ

[३१२।१५]
क्रोधभ्रक्षौ च

[३१२।१६]
तत्राह्लीक्यानपत्राप्ये व्याख्याते ।
परसंपत्तौ चेतसो व्यारोष ईर्ष्या ।

[३१२।१६-३१२।१७]
धर्मामिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् ।

[३१२।१७]
औद्धत्यं चेतसोऽव्युपशमः ।

[३१२।१७-३१२।१८]
कौकृत्यं स्त्यानं च व्याख्याते ।

[३१२।१८]
कायसंधारणासमर्थश्चित्ताभिसंक्षेपो मिद्धम् ।

[३१२।१८-३१२।१९]
तत्तु क्लिष्टमेव पर्यवस्थानम् ।

[३१२।१९]
कौकृत्यं च व्यापाद विहिंसावर्जितः सत्त्वासत्त्वयोराघातः क्रोधः ।

[३१२।२०]
अवद्यप्रच्छादनं भ्रक्षः ।
एषां च दशानां पर्यवस्थानानां

[३१२।२१]
रागोत्था आह्लीक्यौद्धत्यमत्सराः ।

[३१२।२२]
एते त्रय उपक्लेशा रागनिःष्यन्दाः ।

[३१३।०१]
भ्रक्षे विवादः

[३१३।०२]
तृष्णानिःष्यनद इत्येके ।
अविद्यानिःष्यन्द इत्यपरे ।
उभयोरित्यन्ये ।

[३१३।०२-३१३।०३]
यथा क्रमं ज्ञाताज्ञातानामिति ।

[३१३।०४]
अविद्यातः स्त्यानमिद्धानपत्रपाः ॥ ५.४८ ॥

[३१३।०५]
एते त्रयोऽविद्यानिःष्यन्दाः ।

[३१३।०६-३१३।०७]
कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये ।

[३१३।०८]
प्रतिघसमुत्थे इत्येते च दश क्लेशनिःष्यन्दा उपक्लेशाः ।

[३१३।०९]
अन्ये च षट्क्लेशमलाः

[३१३।१०]
तद्यथा

[३१३।११]
माया शाठ्यं मदस्तथा ॥ ५.४९ ॥

[३१३।१२]
प्रदाश उपनाहश्च विहिंसा चेति

[३१३।१३]
तत्र परवञ्चना माया ।

[३१३।१३-३१३।१४]
चित्तकौटिल्यं शाठ्यं येन यथाभूतं नाविष्करोति विक्षिपत्य परिस्फुटं वा प्रतिपद्यते ।

[३१३।१४]
मदः पूर्वोक्तः ।

[३१३।१४-३१३।१५]
सावद्यवस्तुदृढग्राहिता प्रदाशो येन न्यायसंज्ञप्तिं न गृह्णाति ।

[३१३।१५]
आघातवस्तुवहुलीकार उपनाहः ।

[३१३।१६]
विहेठ्नं विहिंसा येन प्रहारपारुष्यादिभिः परान् विहेठ्यते ।

[३१३।१६-३१३।१७]
एषां पुनः षण्णां क्लेशमलानां

[३१३।१८]
रागजौ

[३१३।१९]
मायामदौ प्रतिघजे उपनाहविहिंसने ॥ ५.५० ॥

[३१४।०१]
दृष्ट्यामर्शात्प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् ।

[३१४।०२]
“किं कुटिलं पापिका दृष्टिरिति” गाथावचनाद्युज्यते ।

[३१४।०२-३१४।०३]
शाठ्यं दृष्टिनिःष्यन्दः ।

[३१४।०४]
क एषां किंप्रहातव्यः ।
यानि तावत्दश पर्यवस्थानान्युक्तानि

[३१४।०५]
तत्राह्लीक्यानपत्राप्यस्त्यानमिद्धोद्धवा द्विधा ॥ ५.५१ ॥

[३१४।०६]
एते पञ्च धर्मा द्विविधा दर्शनभावनाप्रहातव्या उभयप्रकारक्लेशसंप्रयोगात् ।

[३१४।०६-३१४।०७]
यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः ।

[३१४।०८]
तदन्ये भावनाहेयाः

[३१४।०९]
तेभ्योऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव ।

[३१४।०९-३१४।१०]
इर्ष्यामात्सर्यकौकृत्यक्रोधभ्रक्षाः स्वतन्त्राश्च ।

[३१४।१०-३१४।११]
स्वतन्त्राश्चैते पञ्चोपक्लेशा अधिमात्रसंप्रयोगित्वात् ।

[३१४।११]
यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः

[३१४।१२]
स्वतन्त्राश्च तथा मलाः ।

[३१४।१३]
षट्क्लेशमलास्तथैव ।
एते पुनर्यथोक्ता उपक्लेशाः

[३१४।१४]
कामेऽशुभाः

[३१४।१५]
कामधातावकुशलाः ।
तत्रापि

[३१४।१६]
त्रयो द्विधा

[३१४।१७]
स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानि ।

[३१४।१८]
परेणाव्याकृतास्ततः ॥ ५.५२ ॥

[३१४।१९]
कामधातोरुर्ध्वमव्याकृताः उपक्लेशा यथासंभवम् ।

[३१५।०१]
कति पुनरेषां कुतस्त्या वेदितव्याः ।

[३१५।०२]
माया शाठ्यं च कामाद्यध्यानयोः

[३१५।०३]
एतौ द्वौ कामधातौ प्रथमे च ध्याने ।
कथं ब्रह्मलोके मायाः ।

[३१५।०४]
ब्रह्मवञ्चनात् ।

[३१५।०५-३१५।०६]
स हि तत्र महाब्रह्मा वितथात्मसंदर्शनतया आयुष्मन्तमश्वजितं वञ्चयितुं प्रवृत्तः ।

[३१५।०६]
उक्तमपि शाठ्यं प्रसङ्गागतं पुनरेवोक्तम् ।

[३१५।०७]
स्त्यानौद्धत्यमदा धातुत्रये

[३१५।०८]
एते त्रयस्त्रैधातुकाः ।

[३१५।०९]
अन्ये कामधातुजाः ॥ ५.५३ ॥

[३१५।१०]
षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव ।

[३१५।१०-३१५।११]
उक्ता क्लेशाः उपक्लेशाश्च ।

[३१५।१२]
अथैषामनुशयानां कति मनोभूमिकाः कति षड्विज्ञानकायिकाः ।
संक्षेपतः

[३१५।१३]
समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः ।

[३१५।१४-३१५।१५]
दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि ।

[३१५।१५]
ते हि सकले मनोभूमिके ।

[३१५।१६]
उपक्लेशाः स्वतन्त्राश्च

[३१५।१७-३१५।१८]
ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका एव द्रष्टव्याः ।

[३१५।१९]
षड्विज्ञानाश्रयाः परे ॥ ५.५४ ॥

[३१५।२०]
अन्ये क्लेशोपक्लेशाः षड्विज्ञानभूमिकाः वेदितव्याः ।
के पुनरन्ये ।

[३१६।०१]
भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्संप्रयुक्ताः ।

[३१६।०१-३१६।०२]
आह्लीक्यानपत्राप्यस्त्यानौद्धत्यानि ।

[३१६।०२]
ये च क्लेशमहाभूमिकेषूक्ताः ।

[३१६।०३-३१६।०४]
यानीमानि सुखादीनि पञ्चेन्द्रियाणि एषां कतमेनेन्द्रियेण कतमः क्लेश उपक्लेशो वा संप्रयुक्तः ।

[३१६।०५]
सुखभ्यां संप्रयुक्तो हि रागः

[३१६।०६]
सुखसौमनस्याभ्यां रागः संप्रयुक्तः ।

[३१६।०७]
द्वेषो विपर्ययात् ।

[३१६।०८]
दुःखाभ्यामित्यर्थः ।
दुःखेन दौर्मनस्येन च ।

[३१६।०८-३१६।०९]
हर्षदैन्याकारवर्तित्वात्षङ्विज्ञानभूमिकत्वाच्च रागद्वेषयोः ।

[३१६।१०]
मोहः सर्वैः

[३१६।११]
अविद्यायाः सर्वक्लेशसंप्रयोगित्वात्पञ्चभिरपीन्द्रियैः संप्रयोगः ।

[३१६।१२]
असद्दृष्टिर्मनोदुःखसुखेन तु ॥ ५.५५ ॥

[३१६।१३]
मनोदुःखं दौर्मनस्यं मनःसुखं सौमनस्यं च ।

[३१६।१३-३१६।१४]
ताभ्यं मिथ्यादृष्टिः संप्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् ।

[३१६।१५]
दौर्मनस्येन काङ्क्षा

[३१६।१६]
संशयितो हि निश्चयेनार्थी दुर्मनायते ।

[३१६।१७]
अन्ये सौमनस्येन

[३१६।१८]
अन्येऽनुशयाः सौमनस्येनैव संप्रयुक्ताः ।
के पुनरन्ये ।
चतस्रो दृष्टनो मानश्च ।

[३१६।१९]
हर्षाकारवर्तित्वात् ।
किंप्रतिसंयुक्ता इमेऽनुशया निर्दिष्टाः ।
आह ।

[३१६।२०]
कामजाः ।

[३१७।०१]
एवं प्रतिनियतं संप्रयोगमुक्त्वा सामान्येनाह

[३१७।०२]
सर्वेऽप्युपेक्षया

[३१७।०३]
सर्वेऽप्येतेऽनुशया उपेक्षेन्द्रियेण संप्रयुक्ताः ।

[३१७।०३-३१७।०४]
प्रवाहच्छेदकाले किल क्लेशानामवश्यमुपेक्षा संतिष्ठते ।

[३१७।०४]
अधोभूमिकाः कथमित्याह

[३१७।०५]
स्वैः स्वैर्यथाभुम्यूर्ध्वभूमिकाः ॥ ५.५६ ॥

[३१७।०६]
स्वैः स्वैरिन्द्रियैरुर्ध्वभूमिका अनुशयाः संप्रयुज्यन्ते ।
यस्यां भूमौ यावन्तीन्द्रियाणि ।

[३१७।०७-३१७।०८]
तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् ।

[३१७।०८]
उक्तः क्लेशानामिन्द्रियसंप्रयोगः ।

[३१७।०९]
उपक्लेशानां पुनः

[३१७।१०]
दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् ।

[३१७।११]
उपनाहं प्रदाशश्च

[३१७।१२]
संप्रयुक्तानीति वर्तते ।
दैन्याकारवर्तित्वादेषां मनोभूमिकत्वाच्च ।

[३१७।१३]
मात्सर्यं तु विपर्ययात् ॥ ५.५७ ॥

[३१७।१४]
सौमनस्येनेत्यर्थः ।
लोभान्वयत्वेन हर्षाकारवर्तित्वात् ।

[३१७।१५]
माया शाठ्यमथी भ्रक्षो मिद्धं चोभयथा

[३१७।१६]
सौमनस्यदौर्मनस्याभ्यां संप्रयुज्यन्ते ।
कदाचिद्धि सुमनाः परं वञ्चयते ।

[३१७।१६-३१७।१७]
कदाचिद्दुर्मनाः ।

[३१७।१७]
एवं यावत्स्वपिति ।

[३१७।१८]
मदः ।

[३१७।१९]
सुखाभ्याम्

[३१८।०१]
तृतीये ध्याने सुखेनाधस्तात्सौमनस्येन ऊर्ध्वमुपेक्षया ।
यस्मात्

[३१८।०२]
सर्वगोपेक्षा

[३१८।०३]
अतस्तया सर्वेऽनुशयाः संप्रयुज्यन्ते ।

[३१८।०३-३१८।०४]
न हि तस्याः क्वचित्प्रतिषेधो यथाऽविद्यायाः ।

[३१८।०५]
चात्वार्यन्यानि पञ्चभिः ॥ ५.५८ ॥

[३१८।०६-३१८।०७]
आह्लीक्यमनपत्राप्यं स्त्यानमौद्धत्यं चैतानिचत्वारि पर्यवस्थानानि पञ्चभिरपीन्द्रियैः संप्रयुज्यन्ते ।

[३१८।०७]
अकुशलमहाभूमिकत्वात्क्लेशमहाभूमिकत्वाच्च ।

[३१८।०८-३१८।०९]
यानि सूत्रे पञ्च निवरणानि उक्तानि कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च ।

[३१८।०९-३१८।१०]
तत्र किं त्रैधातुक्यः स्त्यानौद्धत्यविचिकित्सा गृह्यन्ते ।

[३१८।१०]
अथ कामप्रतिसंयुक्ता एव ।

[३१८।१०-३१८।११]
“केवलोऽयं परिपूर्णोऽकुशल राशिर्यदुत पञ्च निवरणानी”त्येकान्ताकुशलत्ववचनात्सूत्रे ।

[३१८।१२]
कामे निवरणानि

[३१८।१३]
नान्यत्र धातौ ।

[३१८।१३-३१८।१४]
किं पुनः कारणं द्वे स्त्यानमिद्धे एकं निवरणमुक्तं द्वे चौद्धत्यकौकृत्ये एकम् ।

[३१८।१५]
एकविपक्षाहारकृत्यतः ।

[३१८।१६]
द्व्येकता

[३१८।१७]
द्वयोरेकता द्व्येकता ।
विपक्षः प्रतिपक्षोऽनाहार इत्येकोऽर्थः ।

[३१८।१७-३१८।१८]
स्त्यानमिद्धयोरेक आहारः सूत्रेऽनाहारश्च ।

[३१८।१८]
कः स्त्यानमिद्धनिवरणस्याहारः ।
पञ्च धर्माः ।

[३१८।१९]
तन्द्रा अरतिर्विजृम्भिका भक्तेऽसमता चेतसो लीनत्वमिति ।

[३१८।१९-३१८।२०]
अथ स्त्यानमिद्धनिवरणस्यानाहारः आलोकसंज्ञेति ।

[३१८।२०]
कृत्यमनयोरप्येकम् ।

[३१८।२०-३१९।०१]
उभे अपि ह्येते चित्तं लयं चोदयतः ।

[३१९।०१]
औद्धत्यकौकृत्ययोरप्येक आहार उक्तः एकोनाहारः ।

[३१९।०२]
कश्चौद्धत्यकौकृत्यनिवरणस्याहारः ।
चत्वारो धर्माः ।

[३१९।०२-३१९।०३]
ज्ञातिवितर्को जनपदवितर्कोऽमरवितर्कः पौराणस्य च हसितक्रिडितरमितपरिभावितस्यानुस्मर्ता भवतीति ।

[३१९।०४]
कश्चौद्धत्यकौकृत्यनिवरणस्यानाहारः ।
शमथ इति ।
कृत्यमप्यनयोरेकम् ।

[३१९।०४-३१९।०५]
उभे अपि ह्येते चित्तमव्युपशान्तं वर्तयतः ।

[३१९।०५-३१९।०६]
अत एकविपक्षाहारकृत्यत्वात्द्वयोरप्येकत्वमुक्तम् ।

[३१९।०६]
यदि सर्वक्लेशा निवरणं कस्मात्पञ्चैवोक्तानि ।

[३१९।०७]
पञ्चता स्कन्धविधातविचिकित्सनात् ॥ ५.५९ ॥

[३१९।०८]
कामच्छन्दव्यापादाभ्यां शीलस्कन्धविधातः ।

[३१९।०८-३१९।१०]
स्त्यानमिद्धेन प्रज्ञास्कन्धस्यौद्धत्यकौकृत्येन समाधिस्कन्धस्य समाधिप्रज्ञयोरभावे सत्येषु विचिकित्सको भवतीत्यतः पञ्चोक्तानि ।

[३१९।१०-३१९।११]
एतस्यां तु कल्पनायां समाधिस्कन्धविरोधिन औद्धत्यकौकृत्यनिवरणस्य पूर्व ग्रहणं प्राप्नोति ।

[३१९।११]
अतो यथासंख्यमेताभ्यां समाधिप्रज्ञास्कन्धोपघात इत्यपरे ।

[३१९।१२]
समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद्भयम् ।
धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्यादिति ।

[३१९।१३]
अन्ये त्वन्यथा वर्णयन्ति ।
कथं वर्णयन्ति ।

[३१९।१३-३१९।१५]
चारगतस्य प्रियाप्रियरूपेषु विषयेषु निमित्तग्राहाद्विहारगतस्य तत्पूर्वकौ कामच्छन्दव्यापादौ समाधिप्रवेशस्यादितोऽन्तरायं कुरुतः ।

[३१९।१५-३१९।१७]
ततः समाधिप्रविष्टस्याप्रयोगेण शमथविपश्यना सेवनात्स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च यथाक्रमं शमथविपश्यनयोरन्तरायं कुरुतः ।

[३१९।१७]
व्युत्थितस्यापि धर्मनिध्यानकाले विचिकित्सान्तरायं करोति ।

[३१९।१८]
अतः पञ्च निवरणान्युक्तानि ।

[३१९।१९]
इदं विचार्यते ।

[३१९।१९-३१९।२०]
विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालम्बनानां यदालम्बनं परिज्ञायते तदा न प्रहीयन्ते ।

[३१९।२०-३१९।२१]
यदा प्रहीयन्ते तदालम्बनं न परिज्ञायते इति कथमेषां प्रहाणम् ।

[३१९।२१-३१९।२२]
नावश्यमालम्बनपरिज्ञानात्क्लेशानां क्षयो भवति ।

[३१९।२२]
किं तर्हि ।
चतुर्भिः प्रकारैः ।
कतमैश्चतुर्भिः ।

[३१९।२२-३१९।२३]
दर्शनहेयानां तावत्

[३१९।२४]
आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् ।

[३१९।२५]
आलम्बनग्रहाणाच्च

[३१९।२६-३१९।२७]
तत्रालम्बनपरिज्ञानाद्दुःखसमुदयदर्शनहेयानां स्वभूम्यालम्बनानामनास्रवालम्बनानां च ।

[३१९।२७]
तदालम्बनसंक्षयाद्विसभागधातुसर्वत्रगाणाम् ।

[३१९।२७-३२०।०१]
तदालम्बना हि सभागधातुसर्वत्रगाः ।

[३२०।०१]
तेषु प्रहीणेषु तेऽपि प्रहीणा भवन्ति ।

[३२०।०१-३२०।०२]
आलम्बनप्रहाणान्निरोधमार्गहेयानां सास्रवालम्बनानाम् ।

[३२०।०२-३२०।०३]
ते ह्यनास्रवालम्बनास्तेषामालम्बनम् ।

[३२०।०३]
अतस्तेषु प्रहीणेषु तेऽपिप्रहीणा भवन्ति ।
भावनाहेयानां पुनः

[३२०।०४]
प्रतिपक्षोदयात्क्षयः ॥ ५.६० ॥

[३२०।०५]
यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते ।

[३२०।०५-३२०।०६]
कस्य पुनः कः प्रतिपक्षः ।

[३२०।०६]
अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तारेण पश्चात्प्रवेदयिष्यामः ।

[३२०।०७]
कतिविधश्च प्रतिपक्ष इत्याह

[३२०।०८]
प्रहाणाधारभूतत्वदूषणारुयश्चतुर्विधः ।

[३२०।०९]
प्रतिपक्षः

[३२०।१०]
प्रहाणप्रतिपक्षः आनन्तर्यमार्गः ।

[३२०।१०-३२०।११]
आधारप्रतिपक्षस्तस्मात्परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते ।

[३२०।११-३२०।१२]
दूरीभावप्रतिपक्षो विमुक्तिमार्गात्परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् ।

[३२०।१२]
विमुक्तिमार्गोऽपीत्यपरे ।
सोऽपि हि तां प्राप्ति दूरीकरोति ।

[३२०।१३]
विदूषणाप्रतिपक्षो येन मार्गेण तं धातुं दोषतो दर्शनाद्विदूषयति ।

[३२०।१३-३२०।१४]
अपि त्वेषामियमातुपूर्वीं साध्वी भवेत् ।

[३२०।१४]
विदूषणाप्रतिपक्षो दुःखसमुदयालम्बनः प्रयोगमार्गः ।

[३२०।१५]
प्रहाणप्रतिपक्षः सर्व आनन्तर्यमार्गः ।
आधारप्रतिपक्षो विमुक्तिमार्गः ।

[३२०।१५-३२०।१६]
दूरीभावप्रतिपक्षो विशेषमार्ग इति ।

[३२०।१७]
प्रहीयमाणः क्लेशः कुतः प्रहातव्यः ।

[३२०।१८]
प्रहातव्यः क्लेश आलम्बनात्मतः ॥ ५.६१ ॥

[३२०।१९]
न हि संप्रयोगात्क्लेशो विवेचयितुं शक्यते आलम्बनाच्च शक्यते ।

[३२०।१९-३२०।२०]
यस्मान्न पुनस्तदालम्ब्योत्पद्यते ।

[३२०।२०-३२०।२१]
अनागतस्तावच्छक्येतालम्बनाद्विवेचयितुम् ।

[३२०।२१]
अतीतस्तु कथम् ।
अथालम्बन परिज्ञानात्प्रहातव्य इत्ययमस्यार्थः ।

[३२१।०१]
एषोऽपि नैकान्तः ।
तस्माद्वक्तव्यमेतत् ।
कियता क्लेशः प्रहीणो वक्तव्यः ।

[३२१।०१-३२१।०२]
स्वासंतानिकः प्राप्तिच्छेदात् ।

[३२१।०२-३२१।०३]
पारसांतानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मस्तदालम्बनस्वासांतानिकक्लेशप्रहाणात् ।

[३२१।०४]
दूरीभाव इत्युच्यते ।
कतिविध्हो दूरीभावः ।
चतुर्विधा किल दूरता ।

[३२१।०५-३२१।०६]
वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः ।
भूतशीलप्रदेशाध्वद्वयानामिव दूरता ॥ ५.६२ ॥

[३२१।०७]
विलक्षणदूरता यथा महाभूतानाम् ।
वैलक्षण्यात्सहजानामपि दूरता ।

[३२१।०७-३२१।०८]
विपक्षदूरता यथा शीलस्य दौःशील्यम् ।

[३२१।०८-३२१।०९]
देशविच्छेददूरता यथा विप्रकृष्टदेशानां देशविच्छेदात्पूर्वपश्चिमसमुद्रवत् ।

[३२१।०९]
कालदूरता यथा अतीतानागतदूरमुच्यते ।
दुतस्तद्दूरम् ।

[३२१।१०]
वर्तमानात् ।
यदनन्तरातमुत्पद्यमानं वा तत्कथं दूरम् ।

[३२१।१०-३२१।११]
अध्वनानात्वेन तद्दूरं न चिरभूतभावित्वेन ।

[३२१।११]
वर्तमानमप्येवं दूरं प्राप्नोति ।
अकारित्रा त्तर्हि तद्दूरम् ।

[३२१।१२]
असंस्कृतस्य कथमन्तिकत्वं सिध्यति ।
सर्वत्र तत्प्राप्तेः ।

[३२१।१२-३२१।१३]
अतीतानागतेऽपि तत्प्रसङ्गः ।

[३२१।१३]
आकाशं च कथम् ।

[३२१।१३-३२१।१४]
एवं तर्ह्यतीतानागतमन्योऽन्यं वर्त्तमानव्यवहितत्वाद्दूरम् ।

[३२१।१४]
वर्त्तमानमुभयो रासन्नत्वादन्तिकम् ।

[३२१।१४-३२१।१५]
असंस्कृतं चाप्यव्यवहितत्वादिति ।

[३२१।१५]
एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति ।

[३२१।१५-३२१।१६]
एवं तु युक्तं स्यात् ।

[३२१।१६]
धर्मस्वलक्षणादनागतं दूरमसंप्राप्तत्वात् ।
अतीतं च प्रच्युतत्वादिति ।

[३२१।१७]
किं मार्गविशेषगमनात्क्लेशानां पुनः प्रहाणविशेषो भवति ।
नैतदस्ति ।

[३२१।१८]
सर्वेषां हि क्लेशानां

[३२१।१९]
सकृत्क्षयः

[३२१।२०]
यस्य यः प्रहाणमार्गस्तेनैव तस्य क्षयः ।

[३२१।२१]
विसंयोगलाभस्तेषां पुनः पुनः ।

[३२२।०१]
कतिषु कालेष्वित्याह षट्सु कालेषु ।

[३२२।०२]
प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु ॥ ५.६३ ॥

[३२२।०३]
प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेतः ।
फलानि चत्वारि श्रामण्यफलानि ।

[३२२।०४]
इन्द्रियविवृद्धिरिन्द्रियसंचारः ।
एतेषु कालेषु क्लेशस्य विसंयोगलाभः ।

[३२२।०४-३२२।०५]
स पुनरेष यथायोगं द्रष्टव्यः ।

[३२२।०५]
केषाञ्चित्षट्सु कालेषु केषाञ्चिद्यावद्द्वयोः ।

[३२२।०६]
स एव विसंयोगस्तासु तास्ववस्थासु परिज्ञासंज्ञां लभते ।

[३२२।०६-३२२।०७]
द्वे हि परिज्ञे ज्ञानपरिज्ञा प्रहाणपरिज्ञा च ।

[३२२।०७]
तत्र ज्ञानपरिज्ञा सास्रवं ज्ञानम् ।

[३२२।०७-३२२।०८]
प्रहाणपरिज्ञा तु प्रहाणमेव ।

[३२२।०८]
फले हेतूपचारात् ।
किमेकैव परिज्ञा सर्वप्रहाणम् ।
नेत्याह ।
किं तर्हि ।

[३२२।०९]
परिज्ञा नव

[३२२।१०]
तत्र तावत्

[३२२।११]
कामाद्यप्रकारद्वयसंक्षयः ।

[३२२।१२]
एका

[३२२।१३-३२२।१४]
कामधातावाद्यस्य प्रकारद्वयस्य दुःखसमुदयदर्शनहेयस्य प्रहाणमेका परिज्ञा ।

[३२२।१५]
द्वयोः क्षये द्वे ते

[३२२।१६]
कामधातावेव निरोधदर्शनहेयस्य प्रकारस्यप्रहाणमेका परिज्ञा ।

[३२२।१६-३२२।१७]
मार्गदर्शनहेयस्यैका ।

[३२२।१७]
यथा कामावचराणां दर्शनप्रहातव्यानां प्रहाणं तिस्रः परिज्ञाः

[३२२।१८]
तथोर्ध्वं निस्र एव ताः ॥ ५.६४ ॥

[३२२।१९]
रूपारूप्यावचराणां दर्शनप्रहातव्यानां प्रहाणं तथैव तिस्रः परिज्ञा भवन्ति ।

[३२२।१९-३२२।२१]
दुःखसमुदयदर्शनप्रहातव्यानां प्रहाणमेका निरोधदर्शनहेयानां प्रहाणं द्वितीया मार्गदर्शनहेयानां प्रहाणं तृतीयेति त्रैधातुकानां दर्शनहेयानां प्रहाणं षट्परिज्ञा भवन्ति ।

[३२३।०१]
अन्या अवरभागीयरूपसर्वास्रवक्षयाः ।

[३२३।०२]
तिस्रः परिज्ञाः

[३२३।०३]
अवरभागीयप्रहाणमेका परिज्ञा ।
रूपास्रवप्रहाणमेका रूपरागक्षयपरिज्ञा ।

[३२३।०४]
आरूप्याप्तानां सर्वास्रवप्रहाणमेका सर्वसंयोजनपर्यादान परिज्ञा ।

[३२३।०४-३२३।०५]
कस्माद्रूपारूप्यावचराणां भावनाहेयानां प्रहाणं पृथक्परिज्ञा न दर्शनहेयानाम् ।

[३२३।०५-३२३।०६]
भावनाहेयानामतुल्यप्रतिपक्षत्वात् ।

[३२३।०६]
इत्येता नव परिज्ञाः ।
आसां पूर्विकाः

[३२३।०७]
षट्क्षान्तिफलं

[३२३।०८]
या एव दर्शनहेयप्रहाणस्वभावाः ।

[३२३।०९]
ज्ञानस्य शेषिताः ॥ ५.६५ ॥

[३२३।१०]
अवरभागीयप्रहाणादिपरिज्ञा भावनामार्गफलत्वात् ।

[३२३।११]
कथं क्षान्तिफलं परिज्ञा भवन्ति ।
क्षान्तीनां ज्ञानपरिवारत्वात् ।

[३२३।११-३२३।१२]
राजपरिवारे राजोपचारवत् ।

[३२३।१२]
ज्ञानैकफलत्वाच्च ।

[३२३।१३]
अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा ।

[३२३।१४]
अष्टौ

[३२३।१५-३२३।१६]
वैभाषिकमतेन मौलध्यानफलं पञ्च परिज्ञा या रूपारूप्यावचरक्लेशप्रहाण स्वभावाः ।

[३२३।१६]
कामावचरक्लेशप्रहाणस्यानागम्यफलत्वात्भदन्तघोषकस्य मतेनाष्टौ ।

[३२३।१७]
स हि वीतरागस्यापि कामावचराणां दर्शनहेयानां प्रहाणं दर्शनमार्गफलमिच्छन्ति ।

[३२३।१८]
अनास्रवविसंयोगप्राप्तिलाभात् ।
अवरभागीयप्रहाणपरिज्ञा त्वनागम्यफलमेव ।

[३२३।१९]
ध्यानान्तरं ध्यानवद्द्रष्टव्यम् ।
आरुप्याणां तु

[३२३।२०]
सामन्तकस्यैका

[३२३।२१]
आकाशानन्त्यायतनसामन्तकस्यैका रूपरागक्षयपरिज्ञा फलम् ।

[३२४।०१]
मौलारूप्यत्रयस्य च ॥ ५.६६ ॥

[३२४।०२]
मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् ।

[३२४।०३]
आर्यमार्गस्य सर्वाः

[३२४।०४]
नव परिज्ञाः फलम् ।

[३२४।०५]
द्वे लौकिकस्य

[३२४।०६]
लौकिस्य मार्गस्य द्वे अवरभागीयरूपरागक्षयपरिज्ञे फलम् ।

[३२४।०७]
अन्वयस्य च ।

[३२४।०८]
अन्वयज्ञानस्यापि द्वेपरिज्ञे फलं पश्चिमे ।

[३२४।०९]
धर्मज्ञानस्य तिस्रस्तु

[३२४।१०]
पश्चिमा एव त्रिधातुकभावनाहेय प्रतिपक्षत्वात् ।

[३२४।११]
षट्तत्पक्षस्य पञ्च च ॥ ५.६७ ॥

[३२४।१२]
धर्मज्ञानपक्षस्य षट्परिज्ञाः फलं या एव धर्मज्ञान क्षन्तिज्ञानानाम् ।

[३२४।१२-३२४।१३]
अन्वयज्ञानपक्षस्य पञ्च या एवान्वयक्षान्तिज्ञानानाम् ।

[३२४।१३]
पक्षग्रहणेन हि क्षान्तिज्ञानानि गृह्यन्ते ।

[३२४।१४]
कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते ।

[३२४।१४-३२४।१५]
यस्मात्क्षान्तिफलं तावत्प्रहाणं व्यवस्थाप्यते ।

[३२४।१६]
अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः ।

[३२४।१७]
हेतुद्वयसमुद्घातात्परिज्ञा

[३२४।१८]
यत्रैतानि त्रीणि कारणानि भवन्ति तत्प्रहाणं परिज्ञोच्यते ।

[३२४।१८-३२५।०१]
पृथग्जनस्य तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं परिज्ञाख्यां लभते ।

[३२५।०१]
आर्यस्यापि यत्क्षान्तिफलं तावत्प्रहाणम् ।

[३२५।०१-३२५।०२]
तत्र यावत्दुःखेऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति न तु भवाग्रविकलीकृटम् ।

[३२५।०२-३२५।०३]
दुःखेऽन्वयज्ञाने उभयमस्ति न तु हेतुद्वयसमुद्घातः ।

[३२५।०३-३२५।०४]
समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोरप्रहीणत्वात् ।

[३२५।०४]
अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति ।

[३२५।०४-३२५।०५]
अतस्तास्ववस्थासु प्रहाणं परिज्ञाख्यां लभते ।

[३२५।०५]
ज्ञानफलं तु प्रहाणम् ।
अतश्च कारणत्रयात्परिज्ञाख्यां लभते ।

[३२५।०६]
चतुर्थाच्च

[३२५।०७]
धात्वतिक्रमात् ॥ ५.६८ ॥

[३२५।०८]
यदा धातुं समतिक्रामति ।

[३२५।०८-३२५।०९]
कृत्स्नधातुवेराग्यातुभयसंयोगवियोगं पञ्चमं कारणमाहुरपरे ।

[३२५।०९-३२५।१०]
यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन क्लेशेन विसंयुक्तो भवतीति ।

[३२५।१०-३२५।११]
स तु नास्य उभयहेतुसमुद्घातात्धातुसमतिक्रमाच्चेति न ब्रूमः ।

[३२५।१२]
कः कतिभिः परिज्ञाभिः समन्वागतः ।

[३२५।१३]
नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः ।

[३२५।१४]
पृथग्जनस्तावन्नैव समन्वागतः ।

[३२५।१४-३२५।१५]
आर्योऽपि दर्शनमार्गस्थो यावत्समुदयधर्मज्ञानक्षान्तिं नैव समन्वागतः ।

[३२५।१५]
समुदये धर्मज्ञान एकया समन्वागतः ।

[३२५।१५-३२५।१६]
समुदयेऽन्वयज्ञाने द्वाभ्याम् ।

[३२५।१६-३२५।१७]
निरोधे धर्मज्ञाने तिसृभ्हिर्निरोधान्वयज्ञाने चतसृभिर्मार्गधर्मज्ञाने पञ्चभिः ।

[३२५।१८]
भवनास्थः पुनः षङ्भिरेकया वा द्वयेन वा ॥ ५.६९ ॥

[३२५।१९-३२५।२०]
भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षडिभिः परिज्ञाभिः समन्वागतो यावत्कामवैराग्यं न प्राप्तः ।

[३२५।२०-३२५।२१]
परिहीणो वा ततः कामवैराग्यं प्राप्तः पूर्वं पश्चाद्वा एकयाऽवरभागीयप्रहाणपरिज्ञया ।

[३२५।२१-३२५।२२]
अर्हत्त्वं प्राप्त एकयैव सर्वसंयोजनपर्यादानपरिज्ञया ।

[३२५।२२-३२५।२३]
परिहीणोऽपि रूपावचरेण पर्यवस्थानेनैकयाऽवरभागीयप्रहाणपरिज्ञया ।

[३२५।२३-३२५।२४]
रूपवैराग्यं प्राप्तो द्वभ्यामवरभागीयप्रहाणरूपरागक्षयपरिज्ञाभ्याम् ।

[३२५।२४]
प्रहीणोऽप्यारूप्यावचरेण पर्यवस्थानेनाभ्यामेव ।

[३२५।२४-३२५।२५]
किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते न भूयस्यः ।

[३२५।२५-३२५।०१]
यस्मात्

[३२६।०१]
तासां संकलनं धातुवैराग्यफललाभतः ।

[३२६।०२-३२६।०३]
द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवत्येकत्वेन व्यवस्थापनं धातुवैराग्यात्फलप्राप्तितश्च ।

[३२६।०३]
तयोश्चावस्थयोरेतदुभयं भवति ।

[३२६।०३-३२६।०४]
अतः सर्वं प्रहाणं संकलय्यैका परिज्ञोच्यते ।

[३२६।०५]
अथ कः कति परिज्ञास्त्यजति लभते वा ।

[३२६।०६]
एकां द्वे पञ्च षट्कश्चिज्जहात्याप्नोति पञ्च न ॥ ५.७० ॥

[३२६।०७]
एकां त्यजति अर्हत्त्वात्कामवैराग्याद्वा परिहीयमाणः ।

[३२६।०७-३२६।०८]
द्वे परिज्ञे त्यजत्यनागामी रूपवीतरागः कामवैराग्यात्परिहीयमाणः ।

[३२६।०८-३२६।०९]
पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञाने ।

[३२६।०९-३२६।१०]
स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च परिज्ञास्त्यजति ।

[३२६।१०]
षट्परिज्ञास्त्यजत्यानुपोऊर्विकः कामवैराग्यात् ।
लाभेऽप्येवमेव ।

[३२६।१०-३२६।११]
कश्चिदेकां परिज्ञां लभते ।

[३२६।११]
यः कश्चिदपूर्वा लभते ।

[३२६।११-३२६।१२]
कश्चिद्द्वे यः केवलादारूप्यधातुवैराग्यात्परिहीयते ।

[३२६।१२]
कश्चित्षट्योऽनागामिफलात्परिहीयते ।

[३२६।१२-३२६।१३]
पञ्च तु नै कश्चिल्लभते ।

[३२६।१४]
समाप्तः परिज्ञाप्रसङ्गः ॥

=====================================================================

[३२६।१५-३२६।१६]
अभिधर्मकोशभाष्येऽनुशयनिर्द्देशो नाम
पञ्चमं कोशस्थानं समाप्त्मिति ॥

[३२६।१७]
श्रीलामावाकस्य यदत्र पुण्यम् ।

षष्ठं कोशस्थानम्

=====================================================================

नमो बुद्धाय

=====================================================================

[३२७।०३]
उक्तं यथा प्रहाणं परिज्ञाख्यां लभते ।
तदपि च

[३२७।०४]
क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात् ।

[३२७।०५]
दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणाख्यातम् ।

[३२७।०५-३२७।०६]
ताविदानीं दर्शनभावनामार्गौ किमनास्रवौ सास्रवाविति वक्तव्यम् ।

[३२७।०६]
अत इदमुच्यते

[३२७।०७]
द्विविधो भावनामार्गो दर्शनख्यस्त्वनास्रवः ॥ ६.१ ॥

[३२७।०८]
द्विधो भवनामार्गो लौकिकोक्लोकोत्तरश्च ।

[३२७।०८-३२७।०९]
दर्शनमार्गस्तु लोकोत्तर एव त्रैधातुकप्रतिपक्षत्वात् ।

[३२७।०९]
नवप्रकाराणां दर्शन हेयानां सकृत्प्रहाणाच्च ।

[३२७।०९-३२७।१०]
न हि लौकिकस्य एषा शक्तिरस्ति ।

[३२७।११]
सत्यदर्शनादित्युक्तम् ।
कानीमानि सत्यानि कति च ।

[३२७।१२]
सत्यान्युक्तानि चत्वारि

[३२७।१३]
ववोक्तानि ।
सास्रवानास्रवधर्मनिर्देशे ।

[३२७।१३-३२७।१५]
“अनास्रवा मार्गसत्यमि”ति स्वशब्देन “प्रतिसंख्यानिरोधो यो विसंयोग” इति निरोधसत्यं “दुःखं समुदयो लोक” इत्यत्र दुःखसमुदयसत्ये ।

[३२७।१५]
किमेष एवैषामनुक्रमः ।
नेत्याह ।
किं तर्हि ।

[३२७।१६]
दुःखं समुदयस्तथा ।

[३२७।१७]
निरोधमार्ग इति

[३२७।१८]
एष एषामनुक्रमः ।
स्वभावस्तु यथा पूर्वमुक्तस्तयैवेतिप्रदर्शनार्थस्तथाशब्दः ।

[३२७।१८-३२७।१९]
स पुनरयम्

[३२७।२०]
एषां यथाऽभिसमयं क्रमः ॥ ६.२ ॥

[३२८।०१]
यस्य हि सत्यस्याभिसमयः पूर्वस्य पूर्वनिर्देशः ।

[३२८।०१-३२८।०२]
इतरथा हि पूर्वं हेतुनिर्देशोऽभविष्यत्पश्चात्फलनिर्देशः ।

[३२८।०२]
केषाञ्चिदुत्पत्त्यनुकूला देशनाः ।

[३२८।०३]
यथा स्मृत्युपस्थानध्यानादीनाम् ।

[३२८।०३-३२८।०४]
देषाञ्चित्प्ररूपणानुकूला देशना यथा सम्यक्प्रहाणानाम् ।

[३२८।०४]
न ह्येष नियमो यत्पूर्वमुत्पन्नानां प्रहाणाय च्छन्दं जनयति ।

[३२८।०४-३२८।०५]
पश्चादनुत्पन्नानामनुत्पादायेति ।

[३२८।०५]
सत्यानां त्वभिसमयानुकूला देशना ।

[३२८।०५-३२८।०६]
किं पुनः कारणमेवमेषां सत्यानामभिसमयः ।

[३२८।०६-३२८।०७]
यत्र हि सत्तो येन च वाध्यते यतश्च मोक्षं प्रर्थयते तदेवादौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते ।

[३२८।०७-३२८।०८]
पश्चात्कोऽस्य हेतुरिति समुदयसत्यं कोऽस्य निरोध इति निरोधसत्यं कोऽस्य मार्ग इति मार्गसत्यम् ।

[३२८।०८-३२८।०९]
व्याधिं दृष्ट्वा तन्निदानक्षयमेषजान्वेषाणवत् ।

[३२८।०९]
सूत्रेऽप्येष एव सत्यानां दृष्टान्तो दर्शितः ।

[३२८।१०]
कतमस्मिन् सूत्रे ।
“चतुर्भिरङ्गैः समन्वागतो भिषक्तल्पसर्त्ते”त्यत्र ।

[३२८।१०-३२८।११]
यथा च व्यवचारणावस्थायां सत्यपरीक्षा तथाभिसमयावस्थायां सत्याभिसमयः ।

[३२८।११-३२८।१२]
पूर्ववेधात् ।

[३२८।१२]
दृष्टभूमिनिःसंगाश्वधावनवत् ।
अभिसमय इति कोऽर्थः ।

[३२८।१२-३२८।१३]
अभिसंबोध इणो बोधनार्थत्वात् ।

[३२८।१३]
करमादनास्रव एव न सास्रवः ।
स हि निर्वाणाभिमुखः सम्यक्बोधः ।

[३२८।१४]
सम्यगिति तत्त्वेन ।
तत्र फलभूता उपादानस्कन्धा दुःखसत्यम् ।

[३२८।१५]
हेतुभूताः समुदयसत्यम् ।
समुदेत्यस्मादिति कृत्वा ।

[३२८।१५-३२८।१६]
अत एव तयोः फलहेतुभावान्नामतो भेदो न द्रव्यतः ।

[३२८।१६]
निरोधमार्गयोस्तु द्रव्यतोऽपि ।

[३२८।१६-३२८।१७]
आर्यसत्यानीति सूत्र उच्यन्ते ।

[३२८।१७]
कोऽस्यार्थः ।

[३२८।१७-३२८।१८]
आर्याणामेतानिसत्यानि तस्मादार्यसत्यानीति सूत्र एवोक्तम् ।

[३२८।१८]
किमन्येषामेतानि मृषा ।
सर्वेषामेतानि सत्यान्यविपरीतत्वात् ।

[३२८।१८-३२८।१९]
आर्यैस्तु यथैतानि तथा दृष्टानि नान्यैः ।

[३२८।१९-३२८।२०]
अत आर्याणामेतानि सत्यान्युच्यन्ते न त्वनार्याणां वीपरीतदर्शनात् ।

[३२८।२१-३२८।२२]
“यदार्याः सुखतः प्राहुस्तत्परे दुःखतो बिदुः ।
यत्परे सुखत्ः प्राहुस्तदार्या दुःखतो बिदुः ॥”

[३२८।२३]
इति गाथा ।
द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे ।

[३२८।२३-३२८।२४]
यथा वेदनैकदेशो दुःखस्वभावः ।

[३२८।२४]
कथं सर्वे सास्रवाः संस्कारा दुःखमित्युच्यन्ते ।

[३२८।२५-३२८।२६]
दुःखास्त्रिदुःखतायोगाद्यथायोगमशेषतः ।
मनाषा अमनापाश्च तदन्ये चैव सास्रवाः ॥ ६.३ ॥

[३२९।०१]
तिस्रो हि दुःखता दुःखदुःखता संस्कारदुःखता विपरिणामदुःखता च ।

[३२९।०१-३२९।०२]
ताभिर्यथायोगमशेषतः सर्व सास्रवाः संस्कारा दुःखाः ।

[३२९।०२]
तत्र मनाषा विपरिणामदुःखतया ।

[३२९।०३]
अमनाषा दुःखदुःखतया ।
तेभ्योऽन्ये संस्कारदुःखतया ।

[३२९।०३-३२९।०४]
के पुनर्मनापाः केऽमनाषाः के क्नोभयथा ।

[३२९।०४-३२९।०५]
तिस्रो वेदना यथाक्रमं तद्वशेन सुखवेदनीयादयोऽपि संस्कारा मनापादिसंज्ञां लभन्ते ।

[३२९।०५-३२९।०६]
सुखाया हि वेदनाया विपरिणामेन दुःखता ।

[३२९।०६-३२९।०७]
सूत्र उक्तं “सुखा वेदना उत्पादमुखा स्थितिसुखा विपरिणामदुःख्”ति ।

[३२९।०७]
दुःखायाः दुःखस्वभावेनैव दुःखता ।

[३२९।०७-३२९।०८]
“दुःखा वेदना उत्पाददुःखा स्थितिदुःखा” इति सूत्रे ।

[३२९।०८]
अदुःखासुखावेदनायाः संस्कारेणैव दुःखता ।

[३२९।०९]
“प्रत्ययाभिसंस्करणाद्यदनित्यं तद्दुःखमि”ति ।

[३२९।०९-३२९।१०]
वेदनावत्तद्वेदनीया अपि संस्कारा उच्यन्ते ।

[३२९।१०]
दुःखमेव दुःखता दुःखदुःखता ।
एवं यावत्संस्कारा एव दुःखतेत्यपरे ।

[३२९।११]
असाधारणत्वात्मनाषाऽमनापानां विपरिणामदुःखदुःखते उक्ते ।

[३२९।११-३२९।१२]
सर्वे तुसंस्काराः संस्कारदुःखतया दुःखाः ।

[३२९।१२]
तांस्त्वार्या एव पश्यन्ति ॥
आह चात्र ।

[३२९।१३-३२९।१६]
“ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः
अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडं च ।
करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म
अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते गाढमि”ति ॥

[३२९।१७-३२९।१८]
न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते यथार्याणां भावाग्रिकेष्वपीति ।

[३२९।१८]
एवं तर्हि मार्गस्यापि संस्कारदुःखताप्रसङ्गः ।

[३२९।१९]
संस्कृतत्वात् ।
प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो दुःखम् ।

[३२९।१९-३२९।२०]
न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनात् ।

[३२९।२०-३२९।२१]
यदापि ते निर्वाणं शान्ततः पश्यन्ति तदापि यदेव दुःखतो दृष्टं तस्यैव निरोधं शान्ततः पश्यन्तिन मार्गस्य ।

[३२९।२१-३२९।२२]
यदापि दुःखमप्यत्रास्ति तस्मात्दुःखमेवार्यसत्यमुच्यते ।

[३२९।२२-३२९।२३]
सुखस्याल्पत्वात्मूद्गादिभावेऽपि माषराश्यपदेशवदित्येके ।

[३२९।२३-३२९।२४]
को हि विद्वान् परिषेकसुखाणुकेन गण्डसुखमिति व्यवस्येत् ।

[३२९।२४]
आह खल्वपि

[३२९।२५-३२९।२६]
“दुःखस्य च हेतुत्वात्दुःखैश्चानल्पकैः समुदितत्वात् ।
दुःखे च सति तदिष्टेर्दुःखं सुखमिति व्यवस्यन्ति” इति ॥

[३३०।०१]
सहैव तु सुखेन सर्वं भवमार्या दुःखतः पश्यन्ति ।
संस्कारदुःखतैकरसत्वात् ।

[३३०।०१-३३०।०२]
अतो दुःखमेवार्यासत्यं व्यवस्थाप्यते न सुखम् ।

[३३०।०२-३३०।०३]
कथमिदानीं सुखस्वभावां वेदनां दुःखतः पश्यन्ति ।

[३३०।०३]
अनित्यतया प्रतिकूलत्वात् ।
यथा रूपसंज्ञादीन्यपि दुःखतः पश्यन्ति ।

[३३०।०४]
न चतान्येवं दुःखानि यथा दुःखवेदनेति ।
यस्तु मन्यते दुःखहेतुत्वादिति ।

[३३०।०५]
तस्यासौ समुदयाकारः स्यान्न दुःखकारः ।

[३३०।०५-३३०।०६]
आर्याणां चरूपारुप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तेत ।

[३३०।०६-३३०।०७]
न हि पुनस्तेषां दुःखवेदनाहेतुः स्कन्धा भवन्ति ।

[३३०।०७]
संस्कारदुःखता च सूत्रे किमर्थं पृथगुक्ता भवेत् ।

[३३०।०७-३३०।०८]
यदि तर्ह्यनित्यत्वात्दुःखतःपश्यन्ति ।

[३३०।०८]
अनित्यदुःखाकारयोः कः प्रतिविशेषः ।

[३३०।०८-३३०।०९]
उदयव्ययधर्मित्वादनित्यं पश्यन्ति ।

[३३०।०९]
प्रतिकूलत्वात्दुःखम् ।

[३३०।०९-३३०।१०]
अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षति ।

[३३०।१०-३३०।११]
नास्त्येव सुख वेदनेत्येकीया दुःखैव तु सर्वा ।

[३३०।११]
कथमिदं गम्यते ।
सूत्राद्युक्तितश्च ।
कथं तावत्सूत्रात् ।

[३३०।११-३३०।१२]
उक्तं हि भगवता “यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये”ति ।

[३३०।१२-३३०।१३]
“दुःखा वेदना दुःखतो द्रष्टव्ये”ति ।

[३३०।१३]
“दुःखे सुखमिति संज्ञाविपर्यास” इति ।
एवं तावत्सूत्रात् ।
कथं युक्तितः ।

[३३०।१४]
सुखहेत्वव्यवस्थानात् ।

[३३०।१४-३३०।१५]
य एव हि केचित्पानभोजनशीतोष्णादय इष्यन्ते सुखहेतवस्त एवात्युपयुक्ता अकालोपयुक्ताश्च पुनर्दुःखहेतवः संपद्यन्ते ।

[३३०।१५-३३०।१७]
न च युक्ता सुखहेतुबृद्धच्या समेन वाऽन्यस्मिन्काले दुःखोत्पत्तिरित्यादित एव ते दुःखहेतवो न सुखस्य ।

[३३०।१७]
अन्ते तु तद्दुःखं वृद्धिमापन्नं व्यक्तिमापद्यत इति ।

[३३०।१७-३३०।१८]
एवमीर्यापथविकल्पेऽपि वक्तव्यम् ।

[३३०।१८]
दुःखप्रतिकारे च सुखबुद्धेर्दुःखविकल्पे च ।

[३३०।१८-३३०।२०]
न हि तावत्सुखमिति वेद्यते किञ्चिद्यावन्न दुःखान्तरेणोपद्रुतो भवति क्षुत्पिपासाशीतोष्णश्रमकामरागप्रभवेण ।

[३३०।२०-३३०।२१]
तस्मात्प्रतीकार एवाविदुषां सुखबुद्धिर्नसुखे दुःखविकल्पे च वालः सुखबुद्धिमुत्पादय्न्ति यथांशादंशं भारं संचारयन्तः ।

[३३०।२२]
तस्मान्नास्त्येव सुखमिति ।
अस्त्येवेत्याभिवार्मिकाः ।
एष एव चन्यायः ।

[३३०।२२-३३०।२३]
कथं कृत्वा ।

[३३०।२३]
इदं हि तावदयं प्रष्टव्यः सुखापवादी ।
किमिदं दुःखं नाम ।

[३३०।२३-३३०।२४]
यद्वाधनात्मकं चेत् ।

[३३०।२४]
कथमिति वक्तव्यम् ।
उपघातकं चेत् ।
अनुग्राहकं सुखमिति सिद्धम् ।

[३३०।२४-३३०।२५]
अनभिप्रेतं चेत् ।

[३३०।२५]
अभिप्रेतं सुखमिति सिद्धम् ।

[३३०।२५-३३०।२६]
तदेव ह्यभिप्रेतं पुनरनभिप्रेतं भवत्यार्याणां नैवाल्पकाले ।

[३३०।२६]
तस्मादनिष्पनमभिप्रेतत्वं चेत् ।
न ।
अन्यथाऽनभिप्रेतत्वात् ।

[३३०।२७]
या हि वेदना स्वेन लक्षणेनाभिप्रेता नासौ पोउओनस्तेनैव जात्वनभिप्रेता भवति ।

[३३०।२७-३३१।०२]
तथा ह्येनामाकारान्तरेण विदूषयन्त्यार्याः प्रमादपदं चैनां पश्यन्ति महाभिसंस्कारसाध्यां च विपरिणामिनीं चानित्यां चयेनानभिप्रेता भवति ।

[३३१।०२]
न तु खलु स्वलक्षणाकारेण ।

[३३१।०३-३३१।०४]
यदि चासौ स्वेनात्मनानभिप्रेता भवेन्नैव तस्यां कस्यचिद्रागो भवेद्यतो वैराग्यार्थं प्रकारान्तरेणापि दोषवतीं पश्येयुः ।

[३३१।०४]
तस्मादस्त्येव स्वलक्षणतः सुख वेदना ॥

[३३१।०५-३३१।०७]
यत्तु भगवतोक्तं “यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये”ति तद्भगवतैव नीतार्थं “संस्कारानित्यतामानन्द मया संघाय भाषितं संस्कारविओपरिणामतां च यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये”ति ।

[३३१।०७-३३१।०८]
अतो न दुःख-दुखतां संधायैतदुक्तमिति सिद्धं भवति ।

[३३१।०८-३३१।०९]
यदिच स्वभावत एव सर्वं वेदितव्यं दुःखमभविष्यत्किमर्थमार्यानन्द एवं भगवन्तमप्रक्ष्यत् ।

[३३१।०९]
तिस्र इमे वेदना उक्ता भगवता सुखा दुःखाऽदुःखासुखा च ।

[३३१।१०]
उक्तं चेदं भगवता “यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये”ति ।

[३३१।१०-३३१।११]
किं नु संधाय भगवता भाषितं यत्किञ्चिद्वेदितमिदमत्र दुःखस्येति ।

[३३१।११-३३१।१२]
एवं हि सोऽप्रक्ष्यत्किं नु संधाय भाषितं तिस्रो वेदना इति ।

[३३१।१२]
भगवानष्येव व्याकरिष्यत् ।

[३३१।१२-३३१।१३]
इदं मया संधाय भाषितं तिस्रो वेदना इति ।

[३३१।१३]
न त्वेवमाह ।
तस्मात्सन्त्येव स्वभावतस्तिस्रो वेदनाः ।

[३३१।१४-३३१।१५]
इदं तु संधाय मया भाषितं यत्किम्चिद्वेदितमिदमत्र दुःखस्येत्याभीप्रायिकमेतद्वाक्यं दर्शयति ।

[३३१।१५]
यदष्युक्तं “सुखा वेदना दुःखेति द्रष्टव्ये”ति ।
उभयं तस्यामस्ति ।

[३३१।१५-३३१।१६]
सुखत्वं च स्वभावतोमनापत्वाद्दुःखत्वं च पर्यायतो विपरिणामानित्यधर्मत्वात् ।

[३३१।१६-३३१।१७]
सा तु सुखतो दृश्यमाना बन्धाय कल्पते तदास्वादनात् ।

[३३१।१७-३३१।१८]
दुःखतो दृश्यमाना मोक्षाय कल्पते ।

[३३१।१८]
तद्वैराग्यादिति ।

[३३१।१८-३३१।१९]
यथा दृश्यमाना मोक्षाय कल्पते तथैनां द्रष्टुमाज्ञापयन्ति बुद्धाः ।

[३३१।१९]
कथमिदं गम्यते स्वभावतः सा सुखेति ।
य दाह

[३३१।२०-३३१।२१]
“संस्कारानित्यतां ज्ञात्वा अथो विपरिणामताम् ।
वेदना दुःखतः प्रोक्ता संबुद्धेन प्रजाननेति” ॥

[३३१।२२]
यदपि चोक्तं “दुःखे सुखमिति संज्ञाविपर्यास” इति ।
आभिप्रायिक एष निर्देशः ।

[३३१।२३]
लोकस्य हि सुखसंज्ञा वेदनायां कामगुणेषूपपत्तौ च ।

[३३१।२३-३३१।२४]
तत्र सूखं वेदनां पर्यायेण दुःखं सतीमेकान्तसुखां पश्यतो विपर्यासः ।

[३३१।२४]
एवमुपपत्तिम् ।

[३३१।२५]
तस्मान्नातः सुखवेदनाऽभावसिद्धिः ।

[३३१।२५-३३१।२६]
यदि तु स्वभावत एव सर्वं वेदितं दुःखमभविष्यत्तिस्रो वेदना इति वचने कोगुणोऽभविष्यत् ।

[३३१।२६-३३२।०१]
लोकानुवृत्त्येति चेत्न ।

[३३२।०१-३३२।०२]
सर्ववेदितदुःखत्वस्य संस्कारविपरिणामानित्यतां संधाय भाषितवचनात्यथाभूतवचनाच्च ।

[३३२।०२-३३२।०४]
“यच्च सुखेन्द्रियं यच्च सौमनस्येन्द्रियं सुखैषा वेदना द्रष्टव्ये” ति विस्तरेणोक्त्वा “येनेमानि पञ्चेन्द्रियाण्येवं यथाभूतं सम्यक्प्रज्ञया दृष्टानि त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ती” त्येवमादि ।

[३३२।०४-३३२।०५]
लोकोऽपि च कथं दुःखां वेदनां त्रिविधां व्यवस्येत् ।

[३३२।०५]
मृद्वधिमात्रमध्यासु यथाक्रमं सुखादिबुद्धिरिति चेत् ।
न ।

[३३२।०६]
सुखस्यापि त्रिविधत्वात्मृद्वादिषु दुःखेष्वधिमात्रा दिसुखबुद्धिः स्यात् ।

[३३२।०६-३३२।०८]
यदा च गन्धरसस्प्रष्टव्यविशेषजं सुखं वेदयते तदा कतमत्दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवति ।

[३३२।०८-३३२।०९]
अनुत्पन्नविनष्टे चतस्मिन्मृदुनि दुःखे सुतरां सुकबुद्धिः स्यात् ।

[३३२।०९]
अशेषदुःखापगमात् ।
एवं कामसुखसंमुखीभावेऽपि वक्तव्यम् ।

[३३२।१०-३३२।११]
कथं च नामेदं योज्यते यन्मृदुनिवेदिते सुव्यक्तस्तीव्रोऽनुभवो गृह्यते मध्ये पुनरव्यक्त इति ।

[३३२।११]
त्रिषु च ध्यानेषु सुखवचनात्मृदु दुःखं स्यात् ।

[३३२।११-३३२।१२]
ऊर्ध्वमदुःखसुखवचनान्मध्यं दुःखमिति न युज्यते मृद्वादिषु दुःखेषु दुःखेषु सुखादिवेदनाव्यवस्थानम् ।

[३३२।१२-३३२।१४]
उक्तं च भगवता “रूपं चेन्महानामन्नेकान्तदुःखमभविष्यन्न सुखं न सुखानुगतमि”त्येवमादि ।

[३३२।१४]
तस्मादप्यस्ति किञ्चित्सुखम् ।

[३३२।१४-३३२।१५]
एवं तावन्न सूत्रात्सुखवेदनाऽभावः सिध्यति ।

[३३२।१५]
यत्पुनः सुखहेत्वव्यवस्थानादित्युक्तम् ।
हेत्वपरिज्ञानादिदमुच्यते ।

[३३२।१६]
आश्रयविशेषापेक्षो हि विषयः सुखहेतुर्वा भवति दुःखहेतुर्वा ।
न केवलो विषयः ।

[३३२।१७-३३२।१८]
स यां कामवस्थां प्राप्य सुखहेतुर्भवति न तां पुनः प्राप्य कदाचिन्न भवतीति व्यवस्थित एव सुखहेतुः ।

[३३२।१८-३३२।२०]
तद्यथा स एवाग्निः पाक्यभूतविशेषापेक्षः स्वादुपाकहेतुर्भवति स एवास्वादपाकहेतुः न तु यां पाक्यभूतावस्थां प्राप्य स्वदुपाकहेतुस्तां पुनः प्राप्य न हेतुरित्येष दृष्टान्तः ।

[३३२।२०-३३२।२१]
ध्यानेषु च कथं न व्यवस्थितः सुखहेतुः ।

[३३२।२१-३३२।२२]
यत्तु पुनः दुःखप्रतिकारे सुखबुद्धिरित्युक्तं तत्र विहितः प्रतीकारः ।

[३३२।२२-३३२।२३]
यदा गन्धादिविशेषजं सुखं वेदयते तदा कस्य प्रतीकारेषु सुखबुद्धिर्भवत्यनुत्पन्नविनष्टे च तस्मिन् दुःखे सुतरां सुखबुद्धिः स्यात् ।

[३३२।२३-३३२।२४]
ध्यानजे सुखे कः कस्य प्रतीकार इत्येवमादि ।

[३३२।२४-३३२।२५]
भावसंचारेऽपि चावस्थान्तरजं सुखमेवोत्पद्यते ।

[३३२।२५]
यावदसौ तादृशी कायावस्थाऽन्तर्घीयते ।

[३३२।२५-३३२।२६]
अन्यथा हि पश्चाद्भूयसी सुखबुद्धिः स्यात् ।

[३३२।२६]
एवं श्रान्तस्येर्यापथविकल्पेषु वेदितव्यम् ।

[३३२।२७]
“अन्ते कुतो दुःखबुद्धिरारम्भो यदि नादित” इति

[३३३।०१]
चेत् ।
कायपरिणामविशेषान्मद्यादीनामन्ते माधुर्यशुक्ततावत् ।

[३३३।०१-३३३।०२]
तस्मादस्त्येव सुखा वेदनेति सिद्धम् ।

[३३३।०२]
त्रिदुःखतायोगाद्वा सर्वं सास्रवं दुःखमिति ।

[३३३।०२-३३३।०३]
यत्तु समुदयसत्यं तदेवोच्यते ।

[३३३।०३]
इदमुत्सूत्रं सूत्रे हि तृष्णैवोक्ता ।
प्रधान्यादसौ सूत्र उक्ता ।

[३३३।०३-३३३।०४]
अन्येऽपि तु समुदयः ।

[३३३।०४]
कथमिदं प्रत्येतव्यम् ।
अन्यत्रान्यस्यापि वचनात् ।
उक्तं हि भगवता ।

[३३३।०५]
“कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराय” इति ।

[३३३।०६]
पुनश्चोक्तं “पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधिवचनम् ।

[३३३।०७]
पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनमि”ति ।

[३३३।०७-३३३।०८]
तस्मादाभिप्रायिकः सूत्रेषु निर्देशो लाक्षणिकस्त्वभिधर्मे ।

[३३३।०८-३३३।०९]
अपि त्वभिनिर्वृत्तिहेतुं ब्रूवता समुदयसत्यं तृष्णैवोक्ता ।

[३३३।०९-३३३।१०]
उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रूवता गाथायां कर्म च तृष्णा चाविद्योक्ता ।

[३३३।१०-३३३।११]
“कर्महेतुरूपपत्तये तृष्णाहेतुरभिनिर्वृत्तय” इति सूत्रे वचनात् ।

[३३३।११-३३३।१२]
सहेतुसप्रत्ययसनिदानसूत्रक्रमेण वा बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयोऽष्युक्ताः ।

[३३३।१२]
का पुनरुषपत्तिः का चाभिनिर्वृत्तिः ।

[३३३।१२-३३३।१३]
धातुगतियोन्यादिप्रकारभेदेनात्मभावस्योषपदनमुपपत्तिः ।

[३३३।१३]
अभेदेन पुनर्भवप्रतिसंधानमभिनिर्वृत्तिः ।

[३३३।१४]
तयोर्यथाक्रमं कर्म च भवतृष्णा च हेतुः ।

[३३३।१४-३३३।१५]
तद्यथा बीजं शालिवादिजातिप्रकारभेदेनाङ्कुरोओपपदनस्य हेतुः ।

[३३३।१५]
आपः पुनरभेदेन सर्वङ्कुरप्ररोहमात्रस्येत्येव दृष्टान्तः ।

[३३३।१६]
तृष्णाऽभिनिर्वृत्तिहेतुरिति काऽत्र युक्तिः ।
वीततृष्णस्य जन्माभावात् ।

[३३३।१६-३३३।१७]
उभयेऽपि ब्रियन्ते ।

[३३३।१७]
सतृष्णा वीततृष्णाश्च ।
सतृष्णा एव जाता दृश्यन्ते न वीततृष्णा इति ।

[३३३।१८]
विना तृष्णया जन्माभावात् ।
भवस्याभिनिर्वृत्तौ तृष्णाहेतुं प्रतीमः ।

[३३३।१८-३३३।१९]
संततिनमनाच्च ।

[३३३।१९]
यत्र च सतृष्णा तत्राभीक्ष्णं चित्तसंततिं नमन्तीं पश्यामः ।

[३३३।१९-३३३।२०]
तस्मात्पुनर्भवेऽष्येवमिति व्यवस्यामः ।
[३३३।२०-३३३।२१]
न चात्मभाव एवं केनचिदागृहीतो यथा तृष्णया ।

[३३३।२१]
शुष्कमसूरोपस्नानलेपाङ्गवत् ।

[३३३।२१-३३३।२२]
न चान्यो हेतुरेवमनुषत्तो यथात्मस्नेह इत्येषा युक्तिः ।

[३३३।२३]
चत्वार्यपि सत्यान्युक्तानि भगवता ।

[३३३।२३-३३३।२४]
द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं च ।

[३३३।२४]
तयोः किं लक्षणम् ।

[३३४।०१-३३४।०२]
यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् ।
घटार्थवत्संवृतिसत्परमार्थसदन्यथा ॥ ६.४ ॥

[३३४।०३]
यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत्संवृतिसत् ।
तद्यथा घटः ।

[३३४।०४]
तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति ।

[३३४।०४-३३४।०५]
तत्र चान्यानपोह्य धर्मान् बुद्धच्या तद्बुद्धिर्न भवति तच्चापि संवृतिसद्वेदितव्यम् ।

[३३४।०५]
तद्यथाम्बु ।

[३३४।०५-३३४।०६]
तत्र हि बुद्धच्या रूपादीन्धर्मानषोह्याम्बुबुद्धिर्न भवति ।

[३३४।०६-३३४।०७]
तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात्घटश्चाम्बु चास्तीति ब्रूबन्तः सत्यमेवाहुर्न मृषेत्येतत्संवृतिसत्यम् ।

[३३४।०७-३३४।०८]
अतोन्यथा परमार्थ सत्यम् ।

[३३४।०८]
तत्र भिन्नेऽपोइ तद्बुधिर्भवत्येव ।

[३३४।०८-३३४।०९]
अन्यधर्मापोहेऽपि बुद्धच्या तत्परमार्थसत् ।

[३३४।०९]
तद्यथा रूपम् ।

[३३४।०९-३३४।१०]
तत्र हि परमाणुशो भिन्ने वस्तुनि रसार्हानपि च धर्मानपोह्य बुद्धच्या रूपस्य स्वभावबुद्धिर्भवत्येव ।

[३३४।१०]
एवं वेदनादयोऽपि द्रष्टव्याः ।

[३३४।१०-३३४।११]
एतत्परमार्थेन भावात्परमार्थसत्यमिति ।

[३३४।११-३३४।१२]
यथा लोकोत्तरेन ज्ञानेन गृह्यते तत्पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् ।

[३३४।१२-३३४।१३]
यथान्येन तथा संवृतिसत्यमिति पूर्वाचार्याः ।

[३३४।१३]
उक्तानि सत्यानि ।

[३३४।१४]
कथं पुनस्तेषां दर्शनं भवति ।
वक्तव्यम् ।
अत आदिप्राथानमारभ्योच्यते ।

[३३४।१५]
वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते ।

[३३४।१६]
सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति ।

[३३४।१६-३३४।१७]
ततः सत्यदर्शनस्यानुलोमं श्रुतमुद्गृह्लात्यर्थं वा श्रुणेनि ।

[३३४।१७-३३४।१८]
श्रुत्वा चिन्तयति अविपरीतं चिन्तयित्वा भावनायां प्रयुज्यते ।

[३३४।१८]
समाधौ तस्य श्रुतमयीं प्रज्ञां निश्रित्य चिन्तामयी जायते ।

[३३४।१८-३३४।१९]
चिन्तामयीं निश्रित्य भावनामयी जायते ।

[३३४।२०]
किं पुनरासां प्रज्ञानां लक्षणम् ।

[३३४।२१]
नामोभयार्थविषया श्रुतमय्यादिका धियः ॥ ६.५ ॥

[३३४।२२]
नामालम्बना किल श्रुतमयी प्रज्ञा ।
नामार्थालम्बना चिन्तामयी ।

[३३४।२२-३३४।२३]
कदाचिद्वच्यञ्जनेनार्थमाकर्षति कदाचिदर्थेन व्यञ्जनम् ।

[३३४।२३]
अर्थलम्वनैव भावनामयी ।

[३३४।२४]
सा हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते ।

[३३४।२४-३३५।०१]
तद्यथाऽम्भसि प्लोतुमशिक्षितः प्लवन्नेव मुञ्चति ।

[३३५।०१]
कियच्छिक्षितः कदाचित्मुञ्चेत्कदाचिदालम्वते ।

[३३५।०१-३३५।०२]
सुशिक्षिता प्लवन्निरपेक्षस्तरतीत्येष दृष्टान्तः इति वैभाषिकाः ।

[३३५।०२-३३५।०३]
अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धच्यतीत्यपरे ।

[३३५।०३-३३५।०४]
याहि नामालम्बना श्रुतमयी प्राप्नोति याऽर्थालम्बना भावनामयीति ।

[३३५।०४-३३५।०५]
इदं तु लक्षणं नानिरवद्यं विद्यते ।

[३३५।०५]
आप्तवचनप्रामाण्यजातनिश्चयः श्रुतमयी ।
युक्तिनिध्यानजश्चिन्तामयी ।

[३३५।०६]
समाधिज्जो भावनामयीति ।
हेतौ मयट्विधानात् ।

[३३५।०६-३३५।०७]
यद्यथाऽन्नमयाः प्राणाः तृणमय्यो गायः इति ।

[३३५।०८]
तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना संपद्यत इत्याह ।

[३३५।०९]
व्यपकर्षद्वयवतः

[३३५।१०]
यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति ।
संसर्गाकुशलवितर्कदूरीकरणात् ।

[३३५।११]
तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति ।
योऽल्पेच्छः संतुष्टश्च ।

[३३५।१२]
नासंतुष्टमहेच्छयोः ।

[३३५।१३]
का पुनरियमसंतुष्टिः ।
का च महेच्छता ।

[३३५।१४]
लब्धे भूयःस्पृहाऽतुष्टिरलब्धेच्छा महेच्छाता ॥ ६.६ ॥

[३३५।१५]
लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामतऽसंतुष्टिः ।

[३३५।१५-३३५।१६]
अलब्धेषु तत्कामता महेच्छतेत्याभिधार्मिकाः ।

[३३५।१६-३३५।१७]
ननु च साऽतिभूयस्कामताऽलब्ध एव न लब्धे भवतीति कोऽनयोर्विशेष इति वक्तव्यमेतद् ।

[३३५।१७]
एवं तु युज्यते ।

[३३५।१७-३३५।१८]
लब्धेनाप्रणीतेनाप्रभूतेन परितापोऽसंतुष्टिः ।

[३३५।१८]
अलब्धप्रणीतप्रभूतेच्छा महेच्छता ।

[३३५।१९]
विपर्यासात्तद्विपक्षौ

[३३५।२०]
असंतुष्टिमहेच्छताविपर्ययेण तत्प्रतिपक्षौ वेदितव्यौ ।

[३३५।२०-३३५।२१]
संतुष्टिश्चाल्पेच्छता चेति ।

[३३६।०१]
त्रिधात्वाप्तामलौ च तौ ।

[३३६।०२]
तद्विपक्षाविति वर्तते ।
त्रिधातुकौ च पोरतिसंयुक्तौ च ।
सास्रवानास्रवत्वात् ।

[३३६।०३]
असंतुष्टिमहेच्छते च कामावचर्यावेव ।

[३३६।०४]
कः पुनरनयोरल्पेच्छतासंतुष्टच्योः स्वभाव इत्याह ।

[३३६।०५]
अलोभः

[३३६।०६]
अलोभस्वभावे ह्येते ।

[३३६।०७]
आर्यवंशाश्च

[३३६।०८]
अलोभ इति वर्तते ।
आर्याणामेभ्यः प्रसवादार्यवंशाश्चत्वारः ।

[३३६।०८-३३६।०९]
तेऽप्यलोभस्वभावाः ।

[३३६।१०]
तेषां तुष्टच्यात्मकास्त्रयः ॥ ६.७ ॥

[३३६।११]
ज्संतुष्टिस्वभावाः ।
चीवरपिण्डपातशयनासनसंतुष्टयः ।

[३३६।११-३३६।१२]
प्रहाणभावनारामता चतुर्थ आर्यवंशः कथमलोभस्वभावः ।

[३३६।१२]
भवकामरागवैमुख्यात् ।

[३३६।१३]
अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता ।

[३३६।१४]
कर्मान्तेन त्रिभिर्वृत्तिः

[३३६।१५-३३६।१६]
धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तं वृत्तिश्च कर्म च ।

[३३६।१६]
त्रिभिरार्यवंशैर्वृत्तिश्चतुर्येन कर्म ।

[३३६।१७]
अनया वृत्त्येदं कर्म कुर्वाणा भवन्ती न चिरान्मोक्षं प्राप्स्यन्तीति ।

[३३६।१७-३३६।१८]
कस्मात्पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् ।

[३३६।१९]
तृष्णोत्पादविपक्षतः ।

[३३६।२०]
चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः ।

[३३६।२०-३३६।२१]
“चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते प्रतितिष्ठन्ति प्रतितिष्ठति अभिनिविशमानाऽभिनिविशते ।

[३३६।२१-३३६।२२]
पिण्डपातहेतोः शय्यासनहेतोरिति ।

[३३६।२२]
भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यत” इति विस्तरः ।

[३३७।०१]
एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः ।

[३३७।०२]
ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये ॥ ६.८ ॥

[३३७।०३]
स एवार्थः पुनः परिशेषेणोच्यते ।

[३३७।०३-३३७।०४]
ममकारवस्तु चीवरादयोऽहं कारवस्त्वात्मभावः ।

[३३७।०४]
तत्रेच्छा तृष्णा ।

[३३७।०४-३३७।०५]
तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय आर्यवंशा भवन्ति ।

[३३७।०५]
उभयेच्छात्यन्तशान्तये चतुर्थ इति ।

[३३७।०५-३३७।०६]
उक्तामिदं यथा भूतस्य भावना संपद्यते ।

[३३७।०७]
तस्य त्वेवं पात्रोभूतस्य कथं तस्यां भावनायामवतारो भवति ।

[३३७।०८]
तत्रावतारोऽशुभया चानापानस्मृतेन च ।

[३३७।०९]
स्मृतिरेव स्मृतम् ।
केषां पुनरशुभया केषामानापानस्मृत्या ।
यथाक्रमम्

[३३७।१०]
अधिरागवितर्काणाम्

[३३७।११]
अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः ।

[३३७।११-३३७।१२]
यो हि प्रत्यासन्नमत्यर्थं रागचरितस्तस्याशुभया ।

[३३७।१२]
यो हि वितर्कचरितस्तस्यानापानस्मृत्येति ।

[३३७।१२-३३७।१३]
अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके ।

[३३७।१३-३३७।१४]
अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद्वितर्कमावहतीति ।

[३३७।१४]
अवहिमुखत्वादित्यपरे ।

[३३७।१४-३३७।१५]
अशुभा हि चक्षुर्विज्ञानवद्बहिर्मुखी ।

[३३७।१५]
तद्विषयोपनिध्यानात् ।

[३३७।१५-३३७।१६]
तत्र पुनश्चतुर्विधो रागः वर्णरागः संस्थानरागः स्पर्शराग उपचाररागश्च ।

[३३७।१६-३३७।१७]
प्रथमस्य प्रतिपक्षेण विनोलकाद्यालम्बनामशुभां वर्जयन्ति ।

[३३७।१७-३३७।१९]
द्वितियस्य विखादितकविक्षिप्तालम्बनां तृतीयस्य विपटुम्ना पूयनिबद्धास्थ्यालम्बनां चतुर्थस्य निश्चेष्टमृत्कायालम्बनाम् ।

[३३७।१९]
अभदेन तु शस्यते

[३३७।२०]
शङ्कला सर्वरागिणाम् ॥ ६.९ ॥

[३३८।०१-३३८।०२]
अस्थिसंकक्लायां हि सर्वमेतच्चतुर्विधं रागस्तु नास्तीति अधिमुक्तिप्रादेशिकमनस्कारत्वादशुभया न क्लेशप्रहाणं विष्कम्भणं तु ।

[३३८।०२-३३८।०३]
स पुनरयमशुभां भावयन् योगाचारस्त्रिविध उच्यते ।

[३३८।०३]
आदिकार्मिकः कृतपरिजयोऽतिक्रान्तमनस्कारश्च ।
तत्र

[३३८।०४]
आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः ।(६-१० ब्)

[३३८।०५]
अशुभां भावयितुकाम आदितो योगाचारः ।

[३३८।०५-३३८।०६]
स्वाङ्गावयवे चित्तं निबध्नाति पादाङ्गुष्ठे ललाटे यत्र चास्याभिरतिः ।

[३३८।०६-३३८।०७]
स तत्र मांसक्लेदपीता धिमोक्षक्रमेणास्थिविशोधयन् सकलामस्थिसंकलां पश्यति ।

[३३८।०७-३३८।०९]
तथैव च पुनर्द्वितीयामधिमुच्यते यावद्विहारारामक्षेत्रक्रमेण समुद्रपर्यन्तां पृथिवीमस्थिसंकलां पूर्णामधिमुच्यतेऽधिमोक्षाभिवर्धनार्थम् ।

[३३८।०९-३३८।१०]
पुनश्च संक्षिपन्यावदेकामेव स्वमस्थिसंकलामधिमुच्यते चित्तसंक्षेपार्थम् ।

[३३८।१०]
इयता किल कालेनाशुभा ओपरिनिष्पन्ना भवति ।

[३३८।१०-३३८।११]
अयमादिकर्मिको योगाचारः ।

[३३८।१२]
पादास्थ्न आकपालार्थत्यागात्कृतजयः स्मृतः ॥ ६.१० ॥

[३३८।१३-३३८।१४]
स पुनः चित्तसंक्षेपविशेषार्थ तस्यामस्थिशङ्कलायां पादास्थीनि हित्वा शेषं मनसि करोति ।

[३३८।१४-३३८।१५]
एवं क्रमेण यावत्कपालस्यार्धं हित्वाऽर्धं मनसि करोति क्षयकृतपरिजयः ।

[३३८।१६]
अतिक्रान्तमनस्कारो ब्रूमध्ये चित्तधारणात् ।(६-११ ब्)

[३३८।१७]
सोऽर्धमपि कपालस्य मुक्त्वा ब्रूवोर्मध्ये चित्तं धारयति ।

[३३८।१७-३३८।१८]
अयं किलाशुभायामतिक्रान्तमनस्कारो योगाचारः ।

[३३८।१८-३३८।१९]
अस्त्यशुभा आलल्म्बनपरीत्ततया परीत्ता न वशितापरीत्ततया परीत्तेति चतुष्कोटिकम् ।

[३३८।१९-३३८।२०]
जिताजितमनस्कारयोरजितजितमनस्कारयोश्च स्वकायसमुद्रपर्यन्तालम्बनात् ।

[३३८।२१]
अथ किंस्वभावेयमशुभा कतिभूमिका किमालम्बना क्व चोत्पद्यते ।

[३३८।२२]
यथाक्रमम् ।

[३३८।२३]
अलोभो दशभूः कामदृश्यालम्बा नृजाऽशुभा ॥ ६.११ ॥

[३३८।२४-३३८।२६]
अलोभस्वभावा दशभूमिका ससामन्तकध्यानान्तरेषु चतुर्षु ध्यानेषुइ कामधातौ च कामावचर दृष्यालम्बना किं पोओउन्र्दृश्यवस्तुसंस्थाने ।

[३३८।२५-३३८।२६]
अथ एवार्थालम्वनेति सिद्धम् ।

[३३८।२६]
मनुष्येष्वेवोत्पद्यते ।
नान्यस्यां गतौ ।
कुत एव धातौ ।

[३३९।०१]
तत्रापि नोत्तरकुरौ ।
नाम्नैव सिद्धमशुभाकारेति ।
यदध्विका तदध्वालम्बना ।

[३३९।०२]
अनुत्पत्तिधर्मिणी तु व्यध्वालम्बना ।
अधिमुक्तिमनस्कारत्वात्सास्रवा ।

[३३९।०२-३३९।०३]
वैराग्यलाभिकी च प्रायोगिकी च ।

[३३९।०३]
उचितानुचितत्वात् ।

[३३९।०३-३३९।०४]
उक्तमशुभायाः सप्रभेदं लक्षणम् ।

[३३९।०५]
आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा ।

[३३९।०६]
कामाश्रया

[३३९।०७]
आननमान आश्वासो यो वायुः प्रविशति ।

[३३९।०७-३३९।०८]
अपाननमपानः प्रश्वासो यो वायुः निष्क्रामति ।

[३३९।०८]
तयोः स्मृतिरानापानस्मृतिः ।
सैव प्रज्ञास्वभावा ।

[३३९।०८-३३९।०९]
स्मृतिवचनं तु स्मृत्युपस्थानवत्तद्वलाधानवृत्तित्वात् ।

[३३९।०९-३३९।१०]
पञ्चसु भूमिसु त्रिषु सामन्तकेषु ध्यानान्तरे कामधातौ चोपेक्षासंप्रयोगित्वात् ।

[३३९।१०-३३९।११]
वितर्कानुगुणत्वात्किल ल्सुखदुःखयोस्तत्प्रतिपक्षस्य ताभ्यामसंप्रयोगः ।

[३३९।११-३३९।१२]
सुखसौमनस्ययोश्चावधानपरिपन्थित्वात्तस्याश्चावधाने साध्यत्वादिति ।

[३३९।१२-३३९।१३]
ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति नेषामष्टभूमिका ।

[३३९।१३]
परेणाश्वासप्रश्वासानमभूमित्वात् ।

[३३९।१३-३३९।१४]
वाय्वालम्बना चैषा कामधात्वाश्रया ।

[३३९।१४]
देवमनुष्येषु प्रायोगिकी वैराग्यलाभिको च ।

[३३९।१४-३३९।१५]
तत्वमनस्कारश्चैषा ।

[३३९।१५]
इदं धर्माणामेव ।

[३३९।१६]
न बाह्यानाम्

[३३९।१७]
उपदेशाभावात् ।
स्वयं च सूक्ष्मधर्मानभिसंबोधात् ।
सा चेयं

[३३९।१८]
षड्विधा गणनादिभिः ॥ ६.१२ ॥

[३३९।१९]
षट्कारणयुक्ता चैषा परिपूर्णा भवति ।

[३३९।१९-३३९।२०]
गणनयाऽनुगमेन स्थापनया उपलक्षणया विवर्त्तेन परिशूद्धच्या च ।

[३३९।२०-३३९।२२]
तत्र च गणना नाम आश्वासप्रश्वासेषु चित्तं दत्त्वाऽनभिसम्स्कारेण कायं चित्तं चाध्युपेक्ष्य स्मृतिमात्रेण गणयत्येकं द्वौ यावद्दश ।

[३३९।२२]
चित्ताभिसंक्षेप विक्षेपभयान्नाल्पवहुतरा ।

[३३९।२२-३३९।२३]
तस्यां तु त्रयो दोषाः ।

[३३९।२३]
ऊनगणना यदि द्वावेकं गृह्लाति ।

[३३९।२३-३३९।२४]
अधिकगणना यद्येकं द्वाविति ।

[३३९।२४]
संकरो यद्याश्वासं प्रश्वासतो गृह्लाति विपर्ययाद्वा ।

[३३९।२४-३४०।०१]
अतोऽन्यथा सम्यग्गणना ।

[३४०।०१]
अन्तरविक्षेपे पुनरादितो गणयितव्यं तावद्यावत्समाधि लभते ।

[३४०।०२]
अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति ।

[३४०।०२-३४०।०३]
कियद्दूरमेते प्रविशन्ति वा निष्क्रामन्ति वा किमेते सर्वशरीरव्याओपिन एकदेशचारिण इति ।

[३४०।०४]
तान् प्रविशतः कण्ठहृदयनाभिकट्युरुजङ्घाप्रवेशक्रम्४ण यावत्पादावनुगच्छति ।

[३४०।०५]
निष्क्रामतो वितस्तिव्यामान्तरं यावद्वायुमण्डलं वैरम्भाश्च वायव इत्यपरे ।

[३४०।०६]
तदेतत्तत्वमनसिकारत्वान्न युक्तम् ।

[३४०।०६-३४०।०७]
स्थापना नाम नासिकाग्रे यावत्पादन्ङ्गुष्ठे स्थितां पश्यति ।

[३४०।०७]
मणिसूत्रवत् ।

[३४०।०७-३४०।०८]
किमनुग्राहका एते उपधातकाः शीता उष्णा इति ।

[३४०।०८]
उपलक्षणा नाम नैते केवला वायव एव ।

[३४०।०८-३४०।१०]
चत्वार्येतानि महाभूतानि महाभूताभिनिर्वृत्तमुपादायरूपं तदाश्रिताश्चित्तचैत्ता इति पञ्चस्कन्धानुपलक्षयति ।

[३४०।१०-३४०।११]
विवर्तो नाम वाय्वालम्बनां वृद्धिं विवर्त्त्योत्तरेषु कुशलमूलेषु संनियोजनं यावदग्रधर्मेषु ।

[३४०।११]
परिशुद्धिर्दर्शनमार्गादिष्ववतारः ।

[३४०।१२]
स्मृत्युपस्थानादिवज्रोपमसमाध्यन्ता विवर्त इत्यपरे ।
क्षयज्ञानादिशुद्धिरिति ।

[३४०।१३-३४०।१४]
“गणनानुगमः स्थानं लक्षणार्थविवर्त्त्ना
परिशुद्धिश्च षोढेयमानापानस्मृतिर्मता” इति संग्रहश्लोकाः ।

[३४०।१५]
तत्र पुनर्वेदितव्यौ

[३४०।१६]
आनापातौ यतः कायः ।

[३४०।१७]
यद्भूमिको हि कायः तद्भूमिकावेतै ।
कायैकदेशत्वात् ।

[३४०।१७-३४०।१८]
कायचित्तविशेषसंनिश्रिता आश्वासप्रश्वासा वर्तन्ते ।

[३४०।१८-३४०।१९]
आरुप्यकललादिगतानामभावातचित्तचतुर्थध्यानसमापन्नानां च ।

[३४०।१९-३४०।२०]
यदि हि कायः शुषिरो भवति आश्वासप्रश्वासभूमिकं च चित्तं संमुखीभूतमेवं ते वर्त्तन्ते ।

[३४०।२०-३४०।२१]
जायमानस्य चतुर्थध्यानाद्व्युत्तिष्ठमानस्य च प्रविशन्ति भियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति ।

[३४०।२१-३४०।२२]
एतौ चानापानौ ।

[३४०।२३]
सत्त्वाख्यौ

[३४०।२४]
नासत्त्वसंख्यातौ ।

[३४०।२५]
अनुपात्तकौ ।

[३४१।०१]
इन्द्रियविनिर्भागित्वात् ।

[३४१।०२]
नैःष्यन्दिकौ

[३४१।०३]
नौपचयिकविपाकजौ ।
कायोपचयनानुपचयात्छ्हिन्नानां पुनः प्रतिसंधानाच्च ।

[३४१।०४]

नह्येतद्विपाकरूपस्यास्ति ।

[३४१।०५]
नाधरेण लक्षयेते मनसा च तौ ॥ ६.१३ ॥

[३४१।०६]
स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम् ।
नावरेणेर्यापथिक नैर्माणिकेन ।

[३४१।०७]
उक्ते द्वे अवतारमुखे ।
ताभ्यां तु समाधिलब्धा

[३४१।०८]
निष्पन्नशमथः कुर्यात्स्मृत्युपस्थानभावनाम् ।

[३४१।०९]
विपश्यनायाः संपादनार्थम् ।
कथं च पुनः कुर्यात् ।

[३४१।१०]
कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् ॥ ६.१४ ॥

[३४१।११]
कायं स्वसामान्यलक्षणाभ्यां परीक्षते ।
वेदनां चित्तं धर्माश्च ।

[३४१।११-३४१।१२]
स्वभाव एवैषां स्वलक्षणम् ।

[३४१।१२-३४१।१३]
सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शुन्यताऽनात्मते सर्वधर्माणाम् ।

[३४१।१३]
कायस्य पुनः कः स्वभावः । भूतभौतिकत्वम् ।

[३४१।१४]
धर्मास्त्रिभ्योऽन्ये ।

[३४१।१४-३४१।१५]
सामाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थाणं निष्पन्नं भवति ।

[३४१।१६]
अथ स्मृत्युपस्थानानां कः स्वभावः ।

[३४१।१६-३४१।१७]
विविधस्मृत्युपस्थानं स्वभावसंस्र्गालम्बनस्मृत्युपस्थानम् ।

[३४१।१७]
तत्र स्वभावस्मृत्युपस्थानम् ।

[३४१।१८]
प्रज्ञा

[३४१।१९]
कीदृशी प्रज्ञा ।

[३४१।२०]
श्रुतादिमयी

[३४२।०१]
श्रुतमयी चिन्तामयी भावनामयी च ।

[३४२।०१-३४२।०२]
त्रिविधानि स्मृत्युपस्थानानि श्रुतचिन्ताभावनामयानि ।

[३४२।०३]
अन्ये संसर्गालम्बनाः

[३४२।०४]
अन्ये तत्सहभुवो धर्माः संसर्गस्मृत्युपस्थानम् ।

[३४२।०४-३४२।०५]
तदालम्बना आलम्बनस्मृत्युपस्थानम् ।

[३४२।०५]
स्वभावस्मृत्युपस्थानं प्रज्ञेति ।
कुत एव तत् ।

[३४२।०५-३४२।०६]
“कामे कायानुपश्यना स्मृत्युपस्थान”मिति वचनात् ।

[३४२।०६]
का पुनरनुपश्यना ।
प्रज्ञा ।

[३४२।०६-३४२।०७]
तया हि तद्वाननुपश्यः क्रियते ।

[३४२।०७-३४२।०८]
यतश्चोक्त “मध्यात्मं काये कायानुपश्यी विहरती”ति ।

[३४२।०८]
अनुपश्यमस्यास्ति दर्शनमित्यनुपश्यी ।
कायेऽनुपश्यी कायानुपश्यी ।

[३४२।०९]
कस्मात्प्रज्ञा स्मृत्युपस्थानमित्युक्ता भगवता ।
स्मृत्युद्रेकत्वादिति वैभाषिकाः ।

[३४२।१०]
स्मृतिवलाधानवृत्तित्वादिति योऽर्थः ।
दारूपाटन कीलसंधारणवत् ।

[३४२।१०-३४२।११]
एवं तु युज्यते ।

[३४२।११]
स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा यथादृष्टस्याभिलपनात् ।

[३४२।१२-३४२।१३]
तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन “तस्य काये कायानुपशियनो विहरतः कायालल्म्बनानुस्मृतिस्तिष्ठति संतिष्ठत” इति विस्तरः ।

[३४२।१३-३४२।१४]
भगावताऽपि चोक्तं “तस्य काये कायानुपशियनो विहरत उपस्थिता स्मृतिर्भवत्यसंमूढे”ति ।

[३४२।१४-३४२।१५]
यत्र तूक्तं “कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदयश्च भवत्यस्तङ्गमश्च ।

[३४२।१५-३४२।१७]
आहरसमुदयात्कायस्य समुदयो भवत्याहारनिरोधात्कायस्यास्तङ्गम”इत्यत्रालम्बनमेव स्मृत्युपस्थानमुक्तम् ।

[३४२।१७]
स्मृतिरत्रोपतिष्ठत इति कृत्वा ।

[३४२।१७-३४२।१८]
यथालम्बनं चैषां नाम स्वपरोभयसंतत्यालम्बनत्वात्प्रत्येकमेषां त्रैविध्यम् ।

[३४२।१९]
क्रमः ।

[३४२।२०]
यथोत्पत्ति

[३४२।२१]
कस्मात्पुनरेवमुत्पत्तिः ।
औदारिकस्य पूर्वं दर्शनात् ।

[३४२।२२-३४२।२३]
यतो वा कामरागस्य कायोऽधष्ठानं स च वेदनाऽभिलाषात्स च चित्तस्यादान्तत्वात्तत्क्लेशाप्रहाणादिति वैभाषिकाः ।

[३४२।२४]
चतुष्कं तु विपर्यासविपक्षतः ॥ ६.१५ ॥

[३४३।०१-३४३।०३]
शुचिसुखनित्यात्मविपर्यासनां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्था नान्युक्तानि यथाक्रमं नाधिकन्यूनानि एवं च त्रीण्यसंभिन्नालम्बनानि चतुर्थमुभयथा ।

[३४३।०३]
यदिधर्मानेव पश्यत्यसंभिन्नालम्बनम् ।

[३४३।०३-३४३।०४]
अथ कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यति संभिन्नालम्बनम् ।

[३४३।०४-३४३।०५]
एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य

[३४३।०६-३४३।०७]
स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः ।
आनत्यदुःखतः शून्यानात्मतस्तान्विपश्यति ॥ ६.१६ ॥

[३४३।०८-३४३।०९]
संभिन्नलम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य चतुर्भिराकारैः पश्यति ।

[३४३।०९]
अनित्यतो दुःखतः शून्यतोऽनात्मतश्च ।

[३४३।१०]
ततूष्मगतोत्पत्तिः

[३४३।११-३४३।१२]
तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात्क्रमेणेष्मगतं नाम कुशामूलमुत्पद्यते ।

[३४३।१२]
ऊष्मगतमिवोष्मगतम् ।
क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् ।

[३४३।१३]
तच्चतुःसत्यगोचरम् ।

[३४३।१४]
तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् ।

[३४३।१५]
षोडशाकारम्

[३४३।१६-३४३।१७]
दुःखं चतुर्भिराकारैः पश्यत्यनित्यतो दुःखत्ः शून्यतोऽनात्मतश्च ।

[३४३।१७]
समुदयं चतुर्भिर्हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च ।

[३४३।१७-३४३।१८]
निरोधं चतुर्भिः निरोधतः शान्ततः प्रणीततो निःसरणतश्च ।

[३४३।१८-३४३।१९]
मार्गं चतुर्भिर्मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च ।

[३४३।१९]
एषां तु विशेषणं पश्चाद्वक्षयामः ।

[३४३।२०]
ऊष्मभ्यो मूर्धानः

[३४३।२१]
तेऽपि तादृशाः ॥ ६.१७ ॥

[३४४।०१]
यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च ।

[३४४।०१-३४४।०२]
उत्कृष्टतरत्वात्तु नामान्तरं चल कुशलमूलमूर्धत्वात्मूर्धानः ।

[३४४।०२]
एभ्यो हि पातोऽतिक्रमो वा ।

[३४४।०३]
उभयाकरणं धर्मेण

[३४४।०४]
एषां पुनरुभयेषमूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् ।

[३४४।०४-३४४।०५]
किमिदमाकरणम् ।

[३४४।०५]
सत्येष्वकाराणां प्रथमतोविन्यसनम् ।

[३४४।०६]
अन्यैरपि तु वर्धनम् ।

[३४४।०७]
चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् ।

[३४४।०७-३४४।०८]
विवर्धयतः पूर्वप्रतिलब्धानामंसंमुखीभाबोऽवहुमानत्वात् ।

[३४४।०८]
मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते

[३४४।०९]
तेभ्यः क्षान्तिः

[३४४।१०]
अधिमात्रस्य क्षमणादपरिहाणितः ।
साऽपि त्रिप्रकारा मृद्वी मध्याऽधिमात्रा च ।

[३४४।११]
द्विधा तद्वत्

[३४४।१२]
यथा मूर्धान उक्ताः एवं मृदुमध्ये क्षान्ती तथैवाकरणात् ।

[३४४।१२-३४४।१३]
विवर्धने त्वयं विशेषः ।

[३४४।१३]
सर्वस्याः

[३४४।१४]
क्षान्त्या धर्मेण वर्धनम् ॥ ६.१८ ॥

[३४४।१५]
स्मृत्युपस्थानेनैव नान्येन ।

[३४४।१६]
कामाप्तदुःखविषया त्वधिमात्रा

[३४४।१७]
क्षान्तिरिति वर्त्तते ।
अप्रधर्मसंश्लेषादसौ कामावचरदुःखालम्बनैव ।

[३४४।१८]
अत एवोष्मगतादीनां त्रैधातुकदुःखद्यालम्बनत्वसिद्धिर्नियमावचनात् ।

[३४४।१८-३४४।२०]
यदा किल रूपारुप्यप्रतिपक्षाद्येकैकसत्यालम्बनापह्लासेन यावत्कावावचरमेव दुखं द्वाभ्यां क्षणाभ्यां मनसि करोत्येषा सर्वैव मध्या क्षान्तिर्यदैकमेव क्षणं तदधिमात्रेति ।

[३४५।०१]
क्षणं च सा ।

[३४५।०२]
क्षणिका चासौ न प्राकर्षिकी ।

[३४५।०३]
तथाग्रधर्माः

[३४५।०४]
यथैवाधिमात्रा क्षान्तिः ।

[३४५।०४-३४५।०५]
तेऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च लौकिकाश्चैतेऽग्राश्च धर्माः ।

[३४५।०५]
सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः ।

[३४५।०५-३४५।०६]
विना सभागहेतुना मार्गस्य तत्पुरुषकारेणाकर्षणात् ।

[३४५।०६-३४५।०७]
त एत ऊष्मगतादयः स्मृत्युपस्थानस्वभावत्वात्प्रज्ञात्मका उच्यन्ते ।

[३४५।०८]
सर्वे तु पञ्चस्कन्धाः

[३४५।०९]
सपरिवारग्रहणात् ।

[३४५।१०]
विनाप्तिभिः ॥ ६.१९ ॥

[३४५।११]
प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते ।

[३४५।११-३४५।१२]
मा भूदार्यस्य तत्संमुखीभावादूष्मगतादीनां संमुखीभाव इति ।

[३४५।१२-३४५।१३]
तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि चत्वारि भाव्यन्ते ।

[३४५।१४]
निरोधसत्यालम्बने तदेवोभयथा ।
सर्वत्राकाराः सभागाः ।

[३४५।१४-३४५।१५]
विवर्धने चतुर्णामन्यतमदनागतानि चत्वारि ।

[३४५।१५-३४५।१६]
तत्रैव निरोधालम्बनेऽन्त्यमनागतानिचत्वारि आकाराः सर्वे ।

[३४५।१६]
लब्धत्वाद्गोत्राणाम् ।

[३४५।१६-३४५।१७]
मूर्धाकरणे चतुःसत्यालम्बनेऽपि निरोधालम्बनवर्धने चान्त्यमनागतानि चत्वारि आकाराः सर्वे ।

[३४५।१७-३४५।१८]
त्रिसत्यालम्बनवर्धने चतुर्णामन्यतमदनागतानिचत्वारि आकाराः सर्वे ।

[३४५।१८]
क्षान्तीनां सर्वत्र चान्त्यम् ।

[३४५।१९]
अनागतानि चत्वारि आकाराः सर्वे ।

[३४५।१९-३४५।२०]
अग्रधर्मेष्वन्त्यमनागतानि चत्वारि आकाराश्चत्वार एव ।

[३४५।२०]
अन्याभावाद्दर्शनमार्गसादृश्याच्च ।

[३४५।२१]
इति निर्वेधभागीयं चतुर्धा

[३४६।०१-३४६।०२]
इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः क्षान्तयोऽग्रधर्माश्च ।

[३४६।०२-३४६।०३]
एषां द्वे मृदूनी चलत्वात्परिहाणितः क्षान्तयो मध्यमग्रधर्मा अधिमात्रम् ।

[३४६।०३]
निर्वेधभागीयानीति कोऽर्थः ।
विध विभागे ।

[३४६।०३-३४६।०५]
निश्चितो वेधा निर्वेधः आर्यमार्गस्तेन विचिकित्सा प्रहाणात्सत्यानां च विभजनादिदं दुःखमयं यावत्मार्ग इति ।

[३४६।०५]
तस्य भागो दर्शनमार्गैकदेशः ।

[३४६।०५-३४६।०६]
तस्यावाहकत्वेन हितत्वान्निर्वेधभागीयानि ।

[३४६।०६]
तच्चैतच्चतुर्विधमपोइ निर्वेधभागीयम्

[३४६।०७]
भावनामयम् ।

[३४६।०८]
न श्रुतचिन्तामयम् ।

[३४६।०९]
अनागम्यान्तरध्यानभूमिकम्

[३४६।१०]
अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिस्तत्संगृहीतत्वात् ।

[३४६।११]
नोर्ध्व दर्शनमार्गपरिवारत्वात् ।
तदभावः कामधात्वालम्बनत्वात् ।

[३४६।११-३४६।१२]
तस्य च पूर्वपरिज्ञेयप्रहेयत्वात् ।

[३४६।१२]
तेषां रूपधातौ पञ्चस्कन्धको विपाकः ।

[३४६।१२-३४६।१३]
पूरिपूरकाण्येवनाक्षेपकाणि ।

[३४६।१३]
भवद्वेषित्वात् ।

[३४६।१४]
द्वे त्वधोऽपि वा ॥ ६.२० ॥

[३४६।१५]
वाशब्दो मतविकल्पार्थः ।

[३४६।१५-३४६।१६]
भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये सप्तभूमिके कामावचरे अपि तः ।

[३४६।१७]
सर्वाण्यपि त्वेतानि चत्वारि

[३४६।१८]
कामाश्रयाणि

[३४६।१९]
त्रीणि मनुष्येष्वेवोत्पद्यन्ते ।
त्रिषु द्वीपेषु ।
उत्पादितपूर्वाणां तु देवेषु संमुखीभावः ।

[३४६।२०]
चतुर्थं देवेष्वपि ।
त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते ।

[३४६।२१]
अग्रधर्मान् द्वच्याश्रयान् लभतेऽङ्गना ।

[३४७।०१]
अग्रधर्मास्तु स्त्र्येव द्वच्याश्रयान् लभते ।
पुरुषः पुरुषाश्रयानेव ।

[३४७।०१-३४७।०२]
स्त्रीत्व स्याप्रतिसंख्यानिरोधलाभात् ।

[३४७।०२]
कथं निर्वेधभागीयानां त्यागः ।

[३४७।०३]
भूमित्यागात्त्यजत्यार्यस्तानि

[३४७।०४-३४७।०५]
यद्भूमिकान्यनेन प्रतिलब्धानिभवन्ति तां भूमि त्यजन्नार्यस्तान्यपि त्यजति नान्यथा भूमित्यागः पुनर्भूमिसंचारात् ।
[३४७।०६]
अनार्यस्तु मृत्युना ॥ ६.२१ ॥

[३४७।०७]
पृथग्जनस्तु निकायसभागत्यागेनैव त्यजतिसत्यसति वा भूमिसंचारे ।

[३४७।०८]
आद्ये द्वेपरिहाण्या च

[३४७।०९]
त्यजति मृत्युना च पृथग्जन एव ।
आर्यस्य तु नास्ति ताभ्यां परिहाणिः ।

[३४७।०९-३४७।१०]
क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः ।

[३४७।११]
मौलेस्तत्रैव सत्यदृक् ।

[३४७।१२-३४७।१३]
यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति सतत्रैव जन्माति सत्यान्यवश्यं पश्यति ।

[३४७।१३]
तीव्रसंवेगत्वात् ।

[३४७।१४]
अपूर्वाप्तिर्विहीनेषु

[३४७।१५]
यदा विहिनेषु पुनर्लाभोभवत्यपूर्वाण्येव तदा लभ्यन्ते न पूर्वं त्यक्तानि ।

[३४७।१६]
प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् ।

[३४७।१६-३४७।१७]
सति प्रतिसीमादैशिके परेणोत्पादयत्यसति मूलादेव ।

[३४७।१८]
एते पुनर्विहीनिपरिहाणी किंस्वभावे ।

[३४७।१९]
हानी द्वे असमन्वितिः ॥ ६.२२ ॥

[३४७।२०]
उभे अप्येते असमन्वागमस्वभावे ।

[३४७।२२]
परिहाणिस्तु दोषकृता नावश्यं विहानिः ।

[३४७।२३]
गुणविशेषकृता च सा ।
परिहीणोऽप्यूष्मगतलाभी नियतं परिनिर्वाणधर्मा भवति ।

[३४७।२४]
मोक्षभागीयात्को विशेषः ।
सत्यदर्शनासन्नतरत्वमसत्यन्तराये ।

[३४८।०१]
मूर्धलाभी न मूलच्छित्

[३४८।०२-३४८।०३]
परिहीणोऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति ।

[३४८।०३]
अपायांस्तु पापादानन्तर्याण्यपि कुर्यात् ।

[३४८।०४]
क्षान्तिलाभ्यनपायगः ।

[३४८।०५-३४८।०६]
विहीनायामपि क्षान्तौ न पुनरपायान्याति तद्भूमिककर्मक्लेशदूरीकरणात् ।

[३४८।०६-३४८।०७]
क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषाञ्चिदनुत्पत्तिधर्मता प्रतिलभते ।

[३४८।०७-३४८।०९]
अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तिनां शण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां दर्शनहेयक्लेशानां च ।

[३४८।०९]
तां तु यथायोगं मृद्वधिमात्रायां च ।
मृद्वच्यामपायगतीनाम् ।

[३४८।१०]
अधिमात्रायामितरेषाम् ।
निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् ।
तत्र

[३४८।११]
शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात्

[३४८।१२]
ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावर्त्य पुनर्बुद्धः स्यादित्यस्ति संभवः ।

[३४८।१३]
क्षान्तौ तु लब्धायां नास्त्येव संभवः ।
किं कारणम् ।

[३४८।१३-३४८।१४]
अपायानां किल व्यावृत्तत्वात् ।

[३४८।१४]
बोधिसत्त्वाश्च परहित्क्रियापारतन्त्र्यादपायानप्यवगाहन्त इति ।

[३४८।१४-३४८।१५]
तस्यैव तु गोत्रस्याविवर्त्यत्वादसंभवः ।

[३४८।१६]
त्रीण्यपीतरः ॥ ६.२३ ॥

[३४८।१७]
विवर्त्य स्यादिति वर्तते ।

[३४८।१७-३४८।१८]
त्रीण्यपि निर्वेधभागीयानि श्रावकगोत्राद्वच्यावर्त्य बुद्धादिभवः स्यात्प्रत्येकबुद्ध इत्यर्थः ।

[३४८।१८-३४८।१९]
प्रत्येकबुद्धगोत्राणि तु व्यावर्तयितुमशक्यानि ।

[३४८।२०]
आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः ।

[३४८।२१]
शास्ता बुधः खड्गविषाणकल्पः प्रत्येकबुद्धः ।

[३४८।२१-३४८।२२]
तयोरेकत्रैवासने चतुर्थमेव ध्यानं निश्रित्यनिञ्ज्यपटुसमाधित्वान्निर्वेधभागीयान्यारभ्य यावद्बोधिरुत्पद्यते ।

[३४९।०१]
क्षयानुत्पादज्ञाने हि बोधिरिति पश्चादुपपादयिष्यामः ।

[३४९।०१-३४९।०२]
अशुभामारभ्य यावद्वोधिरित्यपरे ।

[३४९।०२]
येषां तु खड्गादन्योऽपि प्रत्येकबुद्धोऽस्तितद्गोत्राणां व्यावर्तनाप्रतिषेषः ।

[३४९।०३]
किं पुनः प्रथम एव जन्मनि कृतप्रयोगो निर्वेधभागीयान्युत्पादयेत् ।

[३४९।०३-३४९।०४]
नैतदस्ति अवश्यं हि

[३४९।०५]
प्राक्तेभ्यो मोक्षभागीयं

[३४९।०६]
उत्पादयितव्यम् ।
सर्वस्वल्पं हि

[३४९।०७]
क्षिप्रं मोक्षस्त्रिभिर्भवैः ॥ ६.२४ ॥

[३४९।०८]
एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् ।
द्वितीये निर्वेधभागीयानि ।

[३४९।०९]
तृतीये आर्यमार्गम् ।
बीजविरोपण सस्याभिवृद्धिफलोत्पत्तिक्रमवत् ।

[३४९।०९-३४९।१०]
क्रमेण हि संतानस्यास्यां धर्मतायामवतारपरिपाकविमुक्तयो भवन्तीति ।

[३४९।१०-३४९।११]
तच्च पुनर्मोक्षभागीयं वर्णयन्ति ।

[३४९।१२]
श्रुतचिन्तामयं

[३४९।१३]
न भावनामयम् ।
कति कर्माणि ।

[३४९।१४]
त्रीणि कर्माणि

[३४९।१५]
प्राधान्येन तु मनस्कर्म्म ।

[३४९।१५-३४९।१६]
तत्प्रणिधनपरिग्रहात्तु कायवाक्कर्मापि मोक्षभागोयं भवति ।

[३४९।१६-३४९।१७]
कश्चिदेकभिक्षामपि दत्त्वैक शिक्षामपि चादाय मोक्षाभिलाषवलाधानान्मोक्षभागीयान्याक्षिपति ।

[३४९।१७]
तत्त्वेतत् ।

[३४९।१८]
आक्षिप्यते नृषु ।

[३४९।१९]
मनुष्येष्वेव त्रिषु द्वीपेषु ।
नान्यत्र ।
प्रज्ञानिर्वेदयोरभावाद्यथायोगम् ।

[३४९।१९-३४९।२०]
उक्तं प्रसङ्गेन मोक्षभागीयम् ।

[३४९।२१]
अभिसमयक्रमस्तु वक्तुमारब्धः ।
तत्र च यावदग्रधर्मा उक्ताः ।

[३४९।२१-३४९।२२]
शेषं वक्तव्यम् ।

[३४९।२२]
अत इदमुच्यते ।

[३५०।०१]
लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा ॥ ६.२५ ॥

[३५०।०२]
लौकिकाग्रधर्मानन्तरमनास्रव धर्मज्ञानक्षान्तिरुत्पद्यते ।
कस्मिन्नालम्बने ।

[३५०।०३]
कामदुःखे ।

[३५०।०४]
कामावचरदुःखमस्या आलम्बनम् ।
सेयं दुःखे धर्मज्ञानक्षान्तिरित्युच्यते ।

[३५०।०४-३५०।०५]
अनास्रवज्ञानार्थं निःष्यन्देन विशेषणम् ।

[३५०।०५]
कर्मज्ञानार्थं क्षान्तिः ।
पुष्पफलवृक्षवत् ।

[३५०।०५-३५०।०६]
सैव च नियामावक्रान्तिरित्युच्यते ।

[३५०।०६]
सम्यक्त्वनियामावक्रमणात् ।

[३५०।०६-३५०।०७]
सम्यक्त्वं निर्वाणमुक्तं सूत्रे ।

[३५०।०७]
तत्र नियमो नियाम एकान्तीभावः ।
तस्याभिगमनमवक्रमणम् ।

[३५०।०८]
तस्यां चोत्पन्नायामार्यपुद्गल उच्यते ।
अनागतया पृथग्जनत्वं व्यावर्त्यते ।

[३५०।०८-३५०।०९]
एतदेव तस्याः कारित्रमनागतायामभ्युपगम्यते नान्यत् ।

[३५०।०९-३५०।१०]
प्रदीपजातिवत् ।

[३५०।१०]
लौकिकाग्रधर्मैरित्यपरे ।
न तद्धर्मत्वात्तद्विरोधित्वाददोषः ।

[३५०।११]
शत्रुस्कन्धारुढतद्घातनवत् ।
उभयैरित्यपरे ।
आनन्तर्यविमुक्तिमार्गसाध्र्म्यादिति ।

[३५०।१२]
ततोऽत्रैव धर्मज्ञानं

[३५०।१३]
ततः पुनर्दुःखे धर्मज्ञानक्षान्तेरनन्तरमत्रैअ कामावचरे दुःखे धर्मज्ञानमुत्पद्यते ।

[३५०।१४]
तत्दुःखे धर्मज्ञानमित्युच्यते ।
अनास्रवाधिकारः सर्वत्र वेदितव्यः ।

[३५०।१४-३५०।१५]
यथा च कामावचरे दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानं चोत्पद्यते

[३५०।१६]
तथा पुनः ।

[३५०।१७]
शेषे दुःखेऽन्वयक्षान्तिज्ञाने

[३५०।१८]
दुःखे धर्मज्ञानानन्तरं रूपारुप्यावचरे दुःखे समस्तालम्बनान्वयज्ञानक्षान्तिरुत्पद्यते ।

[३५०।१९]
सा दुःखेऽन्वयज्ञानक्षान्तिरित्युच्यते ।
ततोऽन्वयज्ञानमुत्पद्यते ।

[३५०।१९-३५०।२०]
तत्दुःखेऽन्वय ज्ञानमित्युच्यते ।

[३५०।२०]
प्रथमतोधर्मतत्त्वज्ञानाद्धर्मज्ञानम् ।

[३५०।२०-३५०।२१]
तदन्वयादूर्ध्वं दुःखालम्बनमन्वयज्ञानम् ।

[३५०।२१]
तथैवानुगमनात् ।

[३५०।२१-३५०।२२]
यथा चैतानि दुःखसत्ये चत्वारि क्षान्तिज्ञानान्युत्पद्यन्ते

[३५१।०१]
सत्यत्रये तथा ॥ ६.२६ ॥

[३५१।०२]
दुःखान्वयज्ञानादनन्तरं कामावचरे समुदये धर्मज्ञानक्षान्तिरुत्पद्यते ।

[३५१।०२-३५१।०३]
ततः समुदये धर्मज्ञानम् ।

[३५१।०२-३५१।०६]
एवं समनन्तरोत्पत्तिक्रमेण शेषे समुदयेऽन्वयज्ञानक्षान्तिः समुदयेऽन्वयज्ञानं कामावचरदुःखनिरोधे धर्मज्ञानक्षान्तिर्निरोधे धर्मज्ञानं शेषे निरोधेऽन्वयज्ञानक्षान्तिर्निरोधेऽन्वयज्ञानं कामवचरदुःखप्रतिपक्षमार्गे धर्मज्ञानक्षान्तिर्मार्गे धर्मज्ञानं शेषे मार्गेऽन्वयज्ञानक्षान्तिर्मार्गेऽन्वयज्ञानम् ।

[३५१।०७]
इति षोडशचित्तोऽयं सत्याभिसमयः

[३५१।०८]
इत्यनेन क्रमेणायं सत्यानामभिसमयः षोडशचित्तको भवति ।

[३५१।०८-३५१।०९]
ये तर्हि निकायान्तरीयाः सत्यानामेकाभिसमयं वर्णयन्ति ।

[३५१।०९]
अभिप्राय एष द्रष्टव्यः ।

[३५१।०९-३५१।१०]
अभेदेन ह्यभिसमय उच्यते सत्येषु

[३५१।११]
त्रिधा ।

[३५१।१२]
दर्शनालम्बकार्याख्यः

[३५१।१३]
दर्शनाभिसमयोऽनास्रवया प्रज्ञया सत्यानाम् ।

[३५१।१३-३५१।१४]
आलम्बनाभिसमयस्तत्संप्रयुक्तैर्वेदनादिभिरपि ।

[३५१।१४]
कार्याभिसमयो विप्रयुक्तैरपि शीलजात्यादिभिः ।

[३५१।१४-३५१।१५]
दुःखे हि दृश्यमाने तस्य त्रिविधोऽभिसमयः समुदयादीनां कार्याभिसमयः ।

[३५१।१५-३५१।१६]
प्रहाणसाक्षात्करणभावनात् ।

[३५१।१६]
तद्यदि सत्यानां दर्शनाभिसमयं प्रत्येकाभिसमयं ब्रूयात् ।

[३५१।१७]
अयुक्तं ब्रूयादाकारभेदात् ।
अथाप्यनात्माकारेण सर्वेषां दर्शनमिति ब्रूयात् ।

[३५१।१८]
न तर्हि सत्यानां दुःखादितो दर्शनं स्यात् ।
एवं च सूत्रविरोधः ।

[३५१।१८-३५१।२१]
“इहार्यश्रवकस्य दुःखं वा दुःखतो मनसि कूर्वतः समुदयं वा समुदयतो यावत्मार्ग वा मार्गतो मनसि कुर्वतोऽनास्रवेण मनसिकारेण संप्रयुक्तो यो धर्माणो प्रविचय” इति ।

[३५१।२१]
भावनामार्ग एवमिति चेत् ।
न ।
यथादर्शनं भावनात् ।

[३५२।०१]
अथाप्येकस्य दर्शनाच्छेषेषु व४ त्वलाभादेकाभिसमयं ब्रूयान्न दोषः स्यात् ।

[३५२।०१-३५२।०२]
अन्तरा तु व्युत्थानमस्ति नास्तीति विचार्यं स्यात् ।

[३५२।०२-३५२।०३]
अथ पुनर्ब्रूयात्दुःखमेव परिजानन्समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति ।

[३५२।०३-३५२।०४]
अत इकाभिसमय इति ।

[३५२।०४]
एवमपि न दोषः स्यादेकस्य दर्शने शेषाणां कार्याभिसमयवचनात् ।

[३५२।०४-३५२।०५]
दर्शनाभिसमयं तु प्रति सूत्रे सत्यानां क्रमेणाभिसमय उक्तो लक्ष्यते ।

[३५२।०५-३५२।०७]
“नहैव गृहपते सत्यानामेकाभिसमयोऽपि पूर्वाभिसयय” इति विस्तरेण सदृष्टान्तानि त्रीणि सूत्राणि ।

[३५२।०७-३५२।०८]
“यो दुःखे निष्काङ्क्षो निर्विचिकित्सो बुद्धेऽपि स” इति सूत्रादेकाभिसमय इति चेत् ।

[३५२।०८]
न ।
असंमुदाचारावश्यंप्रहाणाभिसंधिवचनात् ।

[३५२।०८-३५२।०९]
य एषौक्तः षोढशचित्तकोऽभिसमयः

[३५२।१०]
सोऽग्रधर्मैकभूमिकः ॥ ६.२७ ॥

[३५२।११]
यद्भूमिकोऽग्रधर्मस्तद्भूमिकान्येतानि षोडश चित्तानि ।

[३५२।११-३५२।१२]
त पुनः षड्भूमिका इत्युक्तं प्राक् ।

[३५२।१२]
कस्मात्पुनः क्षान्तयो ज्ञानानि चवश्यं भवन्ति ।
यस्मात्

[३५२।१३]
क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् ।

[३५२।१४]
अनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यन्तरयितुमशक्यत्वात् ।

[३५२।१४-३५२।१५]
विमुक्तिमार्गास्तु ज्ञानानि ।

[३५२।१५-३५२।१६]
क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् ।

[३५२।१६]
अत उभयैरवश्यं भवितव्यम् ।

[३५२।१६-३५२।१७]
द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् ।

[३५२।१७-३५२।१८]
यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव सह विसंयोगप्राप्तिरुत्पद्येत किं स्यात् ।

[३५२।१८]
प्रहीणविचिकित्सं ज्ञानं तत्रैवालम्बने नोत्पन्नं स्यात् ।

[३५२।१८-३५२।१९]
क्षान्तिभिः क्लेशप्रहाणान्नव संयोजननिकाया ज्ञानवध्या इति शास्त्रविरोध इति चेत् ।

[३५२।१९]
न ।

[३५२।२०]
क्षान्तीनां ज्ञानपरिवारत्वात् ।
राजपरिवारकृतस्य राजकृतव्यपदेशवत् ।

[३५२।२१]
किं पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनाद्दर्शनमार्गः ।
नेत्याह ।
किं तर्हि ।

[३५२।२२]
अदृष्टदृष्टेर्दृण्ट्ङ्मार्गस्तत्र पञ्चदश क्षणाः ॥ ६.२८ ॥

[३५३।०१-३५३।०२]
दुःखधर्मज्ञानक्षान्तिमारभ्य यावत्मार्गेऽन्वयज्ञान क्षान्तिरेते पञ्चदश क्षाणा दर्शनमार्गः ।

[३५३।०२]
कि कारणम् ।
अदृष्टसत्यदर्शनात् ।

[३५३।०२-३५३।०३]
षोडशे तु नास्त्यपोऊर्वं द्रव्यमिति ।

[३५३।०३]
यथाद्रष्टाभ्यसनाद्भावनामार्ग एव ।

[३५३।०३-३५३।०४]
ननु च तेनाष्यदृष्टं पश्यति मार्गेऽन्वयज्ञानक्षान्तिम् ।

[३५३।०४]
सत्यं प्रति चिन्ता न क्षणम् ।

[३५३।०४-३५३।०५]
न हि क्षणेनादृष्टेन सत्यमदृष्टं भवति ।

[३५३।०५]
यथा नैकेन लुङ्गेनालूनेन देदारमलूनं भवति ।

[३५३।०५-३५३।०७]
फलत्वादष्टज्ञानषोडशाकारभावनात्पूर्वमार्गविहानेः प्रवन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः ।

[३५३।०७-३५३।०८]
अपरिहाणिस्तुदर्शनहेयक्लेशप्रहाणसंधारणात् ।

[३५३।०८]
अत एव दर्शनमार्ग इति चेत् ।
न ।
अतिप्रसङ्गात् ।

[३५३।०८-३५३।०९]
सप्त ज्ञानानि कस्माद्दर्शनमार्गः ।

[३५३।०९]
दर्शनस्यासमाप्तत्वात् ।

[३५३।०९-३५३।१०]
न हि सर्वं सत्यदर्शनं समाप्तमिति तदन्तरालत्वात्तन्यप्पि दर्शनमार्गः ।

[३५३।१०-३५३।११]
उक्तं यथा दर्शनमार्गो भावनामार्ग श्चोत्पद्यते ।

[३५३।१२]
यथेदानीमुत्पन्नार्यमार्गाणां पुद्गलानां व्यवस्थानं तथा वक्ष्यामः ।

[३५३।१२-३५३।१३]
य एते दर्शनमार्गस्वभावाः पञ्चादश क्षण उक्ता वेदितव्यौ

[३५३।१४]
मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसरिणौ ।

[३५३।१५]
मृद्धिन्द्रियस्तेसु वर्तमानः श्रद्धानुसारीत्युच्यते ।
तीक्ष्णेन्द्रियो धर्मानुसारीति ।

[३५३।१६]
श्रद्धयानुसारः श्रद्धानुसारः ।
सोऽस्यास्तीति श्रद्धानुसारी ।

[३५३।१६-३५३।१७]
श्रद्धयानुसर्तुं शीलमस्येति वा ।

[३५३।१७]
पूर्वं परसंप्रत्ययेनार्थानुसरणात् ।
एवं धर्मानुसारी ।

[३५३।१७-३५३।१८]
पूर्वं स्वयमेव सूत्रादिभिर्धर्मैरर्थानुसरणात् ।

[३५३।१८]
तौ पुनः

[३५३।१९]
अहीन
भावनाहेयौ फलाद्यप्रतिपन्नकौ ॥ ६.२९ ॥

[३५३।२०]
फलानामाद्यं स्रोत आपत्तिफलं सर्वफलप्राप्तौ तस्य प्रथमत्वात् ।

[३५३।२०-३५३।२२]
तावेव श्रद्धाधर्मानुसारिणौ यदि पूर्वं लौकिकेन मार्गेणाप्रहीणभावनाहेयौ भवतः सकलवन्धनौ तो स्रोत आपत्तिफलप्रतिपन्नकावुच्येते ।

[३५३।२३]
यावत्पञ्चप्रकारघ्नौ

[३५३।२४-३५३।२५]
यदि पूर्वं लौकिकेन मार्गेण कामावचराणं भावनाहेयानां यावत्पञ्च प्रकाराः प्रहीणा भवन्ति ।

[३५३।२५]
तथैव प्रथमफलप्रतीपन्नकावुच्येते ।

[३५४।०१]
द्वितीयेऽर्वाङ्नवक्षयात् ।

[३५४।०२]
द्वीतीयनिमित्तं द्वितीये ।

[३५४।०२-३५४।०३]
यदि तयोस्तस्मात्परेण षट्सप्ताष्टौ वा प्रकाराः पूर्वप्रहीणा भवन्ति ।

[३५४।०३]
द्वौ तौ द्वितीयफलप्रतिपन्नकावुच्येते ।
कतमच्च द्वितीयम् ।

[३५४।०४]
सकृदागामिफलम् ।

[३५४।०५]
कामाद्विरक्ताबुर्ध्व वा तृतीयप्रतिपन्नकौ ॥ ६.३० ॥

[३५४।०६-३५४।०७]
यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणात्कामधातोर्वीतरागौ भवत ऊर्ध्वं वा यावदाकिञ्चन्यायतनात्तौ तृतीय प्रतीपन्नकावुच्येते ।

[३५४।०७]
कतमच्च तृतीयम् ।

[३५४।०८]
अनागामिफलम् ।

[३५४।०९]
षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः ।

[३५४।१०]
षोडशे तु चित्त उत्पन्ने तौ न पुनः श्रद्धाधर्मानुसारिणावुच्येते ।

[३५४।१०-३५४।११]
नापि प्रतिपन्नकौ ।

[३५४।११]
किं तर्हि ।
फलस्थो ।

[३५४।११-३५४।१२]
यत्र फले यः प्रतिपन्नको भूतः स तदानीं तत्र फलस्थितो भवति ।

[३५४।१२]
स्रोत आपत्तिफले सकृदागामिफले वा अनागामिफले वा ।

[३५४।१३]
अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् ।
दर्शनमार्गेण भावनाहेयानामप्रहाणात् ।

[३५४।१३-३५४।१४]
पूर्वं च भवाग्रवैराग्यासंभवात् ।

[३५४।१५]
श्रद्धाधिमुक्तदृष्टच्याप्तौ मृदुतोक्ष्णेन्द्रियौ तदा ॥ ६.३१ ॥

[३५४।१६]
तस्मिन्काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते ।

[३५४।१७]
यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते ।

[३५४।१७-३५४।१८]
श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वात् ।

[३५४।१८-३५४।१९]
किं पुनः कारणं प्रहीणपञ्चप्रकारोऽपि षोडशे चित्ते स्रोत आपन्न एवोच्यते न सकृदागामिफलप्रतिपन्नकः ।

[३५४।२०]
यस्मात्

[३५४।२१-३५४।२२]
फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यनः ।
नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः ॥ ६.३२ ॥

[३५४।२३]
फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः ।

[३५४।२३-३५४।२४]
अतः फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ तावत्प्रतिपन्नको नोच्यते ।

[३५४।२४-३५४।२५]
एवमन्यत्रापि फले वेदितव्यम् ।

[३५४।२५-३५५।०१]
यस्तु तृतीयध्यानवीतरागोऽधरां भूमि निश्रित्य नियाममवक्रामति सोऽवश्यं फलविशिष्टं मार्ग संमुखीकरोति ।

[३५५।०१-३५५।०२]
अन्यथा हि स तस्मादूर्ध्वोपपन्नः सुखेन्द्रियेणासमन्वागतः स्यात् ।

[३५५।०२-३५५।०३]
एवं तावद्भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गलव्यवस्थानम् ।

[३५५।०४]
आनुपूर्विकं तु वक्तव्यम् ।
अत इदं तावद्वच्यवस्थाप्यते ।

[३५५।०४-३५५।०५]
यथैते कामधातौ नवप्रकाराः क्लेशा उपदिष्टा एवं

[३५५।०६]
नवप्रकारा दोषा हि भूमौ भूमौ

[३५५।०७]
यावद्भवाग्रे ।
यथा च दोषाः

[३५५।०८]
तथा गुणाः ।

[३५५।०९]
तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा एव ।

[३५५।०९-३५५।१०]
कथं कृत्वा ।

[३५५।११]
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ६.३३ ॥

[३५५।१२]
मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः ।

[३५५।१२-३५५।१३]
तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रत्वेन त्रिविधत्वात्नव व्यवस्थाप्यन्ते ।

[३५५।१३-३५५।१५]
तद्यथा मृदुमृदुः प्रकारो मृदुमध्यो मृद्वधिमात्रो मध्यमृदुर्मध्यमध्यो मध्याधिमात्रोऽधिमात्रमृदुरधिमात्रमध्योऽधिमात्राधिमात्रश्चेति ।

[३५५।१५-३५५।१६]
तत्र मृदुमृदुनामार्गेणाधिमात्राधिमात्रस्य क्लेशस्य प्रहाणम् ।

[३५५।१६]
एवं यावदधिमात्राधिमात्रेण मृदुमृदोः ।

[३५५।१६-३५५।१८]
आदित एवाधिमात्रमार्गसंभवादुत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशासंभवातौदारिको हि मलश्चेलात्पूर्वं निर्दूयते पश्चात्सूक्ष्मः ।

[३५५।१८-३५५।१९]
औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते सूक्ष्मं चाधिमात्रेणेत्येष दृष्टान्तयोगः ।

[३५५।१९]
शुक्ला हि धर्मा वलवन्तो दुर्बलास्तु कृष्णाः ।

[३५५।१९-३५५।२१]
क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरंपराप्यायिताधिमात्राणां क्लेशानामुन्मूलत्वात् ।

[३५५।२१-३५५।२२]
बहुकालसंवर्द्धितानां दोषाणां त्रिवृत्कर्षवत्क्षणिकाल्पप्रदीपमहातमोपघातवच्य ।

[३५५।२२]
एवं नवप्रकारेषु क्लेशेषु सर्वत्र

[३५५।२३]
अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः ।

[३५६।०१]
यस्य हि फलस्थस्यैकोऽपि भावनाहेयः प्रकारोऽप्रहीणः स स्रोत आपनः ।

[३५६।०१-३५६।०२]
सप्तजन्मानि करोतीति सप्तकृत ।

[३५६।०२]
परः सर्वान्त्यः ।

[३५६।०२-३५६।०३]
न हि सर्वसप्तकृदिति ।

[३५६।०३]
सप्तकृत्वःपरम इति सूत्रपाठः ।
सप्तकृत्वः परमं जन्माऽस्येत्यर्थः ।

[३५६।०४]
प्रकर्षे परमशब्दः ।
निर्वाणस्रोतो हि मार्गस्तेन तत्र गमनात् ।

[३५६।०४-३५६।०५]
तदसावापन्न आगतः प्राप्त इति स्रोत आपन्नः ।

[३५६।०५]
कथमापन्नः ।

[३५६।०५-३५६।०६]
आद्यमार्गलाभाच्चेतष्टमकोऽपि स्यात् ।

[३५६।०६]
आद्यफललाभाच्चेत्भूयो वीतरागोऽपि स्यात् ।
कामवीतरागः ।

[३५६।०७]
सर्वफलप्रापिणमधिकृत्याद्यफललाभात् ।
किं पुनः कारणं स एव नाष्टमकः ।

[३५६।०८-३५६।०९]
प्रतिपन्नकफलमार्गलाभात्दर्शनभावनामार्गलाभात्सकलस्रोतोऽभिसमयाच्च मार्गान्वयज्ञाने ।

[३५६।०९-३५६।१०]
स एव तस्मादन्यान्सप्तोपपत्तिभवान्मनुष्येषु प्रतिसंदधाति सप्तान्तराभवान् ।

[३५६।१०]
एवं देवेष्वित्यष्टाविंशतियवान् प्रतिसंदधाति ।

[३५६।१०-३५६।११]
सप्तकसामान्यात्तु सप्तकृत्वः ।

[३५६।११]
परम उक्तः ।
सप्तस्थानकौशलसप्तपर्णवदिति वैभाषिकाः ।

[३५६।१२-३५६।१३]
यत्तर्ह्हि सूत्र उक्तं “अस्थानमनवकाशो यद्दष्टिसंपन्नः पुद्गलोऽष्टमं भवमभिनिर्वर्तयिष्यति ।

[३५६।१३]
नेदं स्थानं विद्यत” इति ।
एकस्यां गतावित्यभिप्रायः ।

[३५६।१३-३५६।१५]
यथारुतं वा कल्प्यमानेऽन्तराभवोऽपि न स्यातेवमप्यूरेध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभावो न प्राप्नोति ।

[३५६।१५-३५६।१६]
कामधात्वभि संधिवचनाददोषः ।

[३५६।१६]
किमत्र ज्ञापकं सूत्रं युक्तिर्वा ।

[३५६।१६-३५६।१७]
इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु सप्तकृत्वो न पोउनरुभयेष्वेव सप्तकृत्व इति ।

[३५६।१७]
एवं हि पठच्यते ।

[३५६।१८]
“सप्तकृत्वो देवाश्च मनुष्याश्चे”ति ।
प्रत्येकमपि तु काश्यपीयाः पठन्ति ।

[३५६।१९]
“सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानि”ति ।
नात्राभिनिवेष्टव्यम् ।

[३५६।१९-३५६।२०]
यश्च मनुष्येसु स्रोत आपन्नो भवति स तानेवागम्य परिनिर्वाति ।

[३५६।२०]
यो देवेषु स तानेव ।

[३५६।२१]
किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति ।

[३५६।२१-३५६।२२]
तावता ककलेनावश्यं संततिपरिपाकात् ।

[३५६।२२]
मार्गो हि स तज्जातीयः ।
सप्तपदाशीविष दष्टवच्चातुर्थकज्वरवच्च ।

[३५६।२३]
सप्तसंयोजनावशेषत्वाच्च ।
द्वे अवरभागीये पञ्च चोर्ध्वभागीयानीति ।

[३५६।२३-३५६।२४]
अन्तरेणाप्यार्यमार्गं संमुखीकुर्वाणो न परिनिर्वाति ।

[३५६।२४-३५६।२५]
तावत्भववेदनीयस्य कर्मणो वलाधानात् ।

[३५६।२५]
असति बुद्धोत्पादग्रहस्थ एवार्हत्त्वं प्राप्नोति ।

[३५६।२५-३५६।२६]
अगारं तु पोउनर्नाध्यावसति ।

[३५६।२६]
धर्मताप्रतिलम्भिकं तु भिक्षुलिङ्ग प्रतिलभते ।

[३५६।२६-३५६।२७]
अन्याश्रमिकं लिङ्गेनेत्यपरे ।

[३५६।२७]
कस्मादविनिपातकधर्मा भवति ।

[३५६।२७-३५६।२९]
तद्गामि कर्मानुपचयादुपचितविपाकदानवैगुण्याच्च संततेर्बलवत्कुशला धिवासनात्प्रयोगाशयशुद्धितः ।

[३५६।२९]
अपायनिपाते तु कर्मण्यसौ क्षान्तिमपि नोत्पादयेत् ।
आह चात्र

[३५७।०१-३५७।०४]
“कृत्वा बुधोऽल्पमपि पापमधः प्रयाति
कृत्वा बुधो महदपि प्रजहात्यनर्थम्
मज्जन्यधोऽल्पमपि वारिणि संहतं हि
पात्रिकृतं महदपि प्लवते तदेव” इति ।

[२५७।०५]
दुःखस्यान्तं करोतीति को दुःखस्यान्तः ।

[३५७।०५]
यस्मात्परेण दुःखं नास्ति ।

[३५७।०६]
अप्रतिसंधिकं दुःखं करोतीत्यर्थः ।
अथवा निर्वाणमन्तः ।
कथं निर्वाणं करोति ।

[३५७।०७]
तत्प्राप्तिविवन्धापनयनात् ।
यथाकाशं कुरु मण्डपं पातयेति भवन्ति वक्तारः ।

[३५७।०८]
अन्योऽपि च स्यात्सप्तकृत्वः परमो न तु नियत इति नोच्यते ।

[३५७।०८-३५७।०९]
एवं तावदक्षीणभावनाहेयः फलस्थः सप्तकृत्वः परमो भवति ।

[३५७।१०]
त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलङ्कुलः ॥ ६.३४ ॥

[३५७।११]
स एव स्रोत आपन्नस्त्रिभिः ।

[३५७।११-३५७।१२]
क्लेशप्रहाणतस्त्रिचतुःपोरकारप्रहीणत्वात् ।

[३५७।१२]
इन्द्रियतस्तत्प्रतिपक्षानास्रवेन्द्रियलाभात् ।

[३५७।१२-३५७।१३]
जन्मतो द्वित्रिजन्मावशेषत्वात् ।

[३५७।१३-३५७।१४]
श्लोके तु द्वयोर्ग्रहणं स्रोत आपन्नस्य पश्चात्प्रहीणे सति तत्प्रतिपक्षानास्रवेन्द्रियस्यानुक्तसिद्धत्वात् ।

[३५७।१४-३५७।१५]
जन्म तु कदाचिदल्पीयः स्यात् ।[३५७१५]
परेण भव्यत्वाद् ।

[३५७।१५]
अतोऽस्य ग्रहणम् ।

[३५७।१५-३५७।१६]
कस्मान्न पञ्चप्रकारप्रहाणात् ।

[३५७।१६-३५७।१७]
तत्प्रहाणे षष्ठस्यावश्यं प्रहाणात्नहि तस्यैकः प्रकारः फलं विघ्नयितुं समर्थः ।

[३५७।१७]
एकवीचिकस्येव धात्वनतिक्रमात् ।

[३५७।१७-३५७।१८]
स एव कुलङ्कुलो द्विविधः ।

[३५७।१८-३५७।१९]
देवकुलङ्कुलो यो देवेष द्वे त्रीणि वा कुलानि संश्रित्य परिनिर्वाति तत्र वाऽन्यत्र वा देवनिकाये ।

[३५७।१९-३५७।२०]
मनुष्यकुलङ्कुलो यो मनुष्येषु तत्र वाऽन्यत्र व द्वीपे परिनिर्वाति ।

[३५७।२०]
स एव पुनः फलस्थः

[३५७।२१]
आपञ्चमप्रकारघ्नो द्वितीयप्रतीपन्नकः ।

[३५७।२२-३५७।२३]
यस्य फलस्थस्यैकप्रकारोयावत्पञ्चमः प्रहीणो भवति असौ द्वितीयफलप्रतिपन्नको वेदितव्यः ।

[३५७।२४]
क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः ॥ ६.३५ ॥

[३५८।०१]
द्वितीयफलप्राप्तो भवति ।

[३५८।०१-३५८।०२]
देवान् गत्वा सकृन्मनुष्यलोकागमनात्सकृदागामी ।

[३५८।०२]
परेण जन्माघावात् ।
रागद्वेषमोहानां च तनुत्वादित्युच्यते ।

[३५८।०३]
मृदुप्रकारावशेषत्वात् ।
स एव पुनः फलस्थः ।

[३५८।०४]
क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः ।

[३५८।०५]
तृतीयप्रतिपन्नश्च

[३५८।०६]
त्रिभिः कारणैः ।
स एव सकृदागाम्येकवीचिदो वेदितव्यः ।

[३५८।०६-३५८।०७]
सप्ताष्टप्रकारप्रहाणात् ।

[३५८।०७-३५८।०८]
तत्प्रतिपक्षानास्रवेन्द्रियलाभादेकजन्मावशेषत्वात् ।

[३५८।०८]
कथमस्यैकः प्रकारः फलं विध्नयितुं शक्नोति ।
धात्वतिक्रमात् ।

[३५८।०९]
अवस्थात्रये हि कर्माणि विध्नायोपतिष्ठन्त” इत्युक्तं प्राक् ।

[३५८।०९-३५८।१०]
यथा कर्माण्येवं क्लेशा अपि वेदितव्या इति ।

[३५८।१०]
विपाकनिःष्यन्दफलभूम्यतिक्रमात् ।

[३५८।१०-३५८।१२]
वीचिर्नामान्तरं तस्य चैकजमव्यवहितत्वात्निर्वाणस्य एकक्लेशप्रकारव्यवहितत्वाद्वाऽनागामिफलस्यैको वीचिरस्येत्येकवीचिकः ।

[३५८।१२-३५८।१३]
तृतीयफलप्रतिपन्नकश्चैकवीचिको वेदितव्यः प्रहीणसप्ताष्टप्रकारः ।

[३५८।१३-३५८।१४]
पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न तावत्कुलङ्कुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न समुखीकृतः ।

[३५८।१५]
सोऽनागामी नवक्षयात् ॥ ६.३६ ॥

[३५८।१६]
स एवपुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः ।

[३५८।१६-३५८।१७]
कामधात्वनागमनात् ।

[३५८।१७-२५८।१८]
“पञ्चानामवरभागीयानां संयोजनानां प्रहाणादि”त्युच्यते प्रहाणसंकुलनात् ।

[३५८।१८]
अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति ।

[३५८।१९]
सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः ।

[३५८।२०]
ऊर्ध्वस्रोताश्च

[३५८।२१]
अन्तरा परिनिर्वृतिरस्येत्यन्तरापरिनिर्वृतिः ।

[३५८।२१-३५८।२२]
एवमुत्पन्नस्य संस्कारेणासंस्कारेणेति योज्यम् ।

[३५८।२२]
स एवानागामी पुनः पञ्चधा भवति ।

[३५९।०१]
अन्तरापरिनिर्वायी योऽन्तराभवे परिनिर्वाति ।

[३५९।०१-३५९।०२]
उपपद्यपरिनिर्वायी य उपपन्नमात्री न चिरात्परिनिर्वात्यभियुक्तवाहिमार्गत्वात् ।

[३५९।०२]
सोपधिशेषनिर्वाणेन ।

[३५९।०२-३५९।०३]
सोऽप्पि निरूपधिशेषेणेत्यपरे ।

[३५९।०३]
नायुरुत्सर्गावशित्वात् ।

[३५९।०३-३५९।०४]
साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रति प्रस्रब्धप्रयोगः ।

[३५९।०४]
साभिसंस्कारं परिनिर्वात्यभियुक्तावाहिमार्गत्वात् ।

[३५९।०५]
अनभिसंस्कारपरिनिर्वायी त्वंनभिसंस्कारेणाभियोगवाहिमार्गाभावात् ।

[३५९।०५-३५९।०६]
संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे ।

[३५९।०६]
तत्तु न ।
अतिप्रसङ्गात् ।

[३५९।०६-३५९।०७]
सूत्रे त्वनाभिसंस्कारपरिनिर्वायी पूर्व पठच्यते ।

[३५९।०७]
तथैव च युज्यते ।

[३५९।०७-३५९।०८]
वाह्यवाहिमार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः ।

[३५९।०८-३५९।०९]
उपपद्यपरिनिर्वायिणस्तु वाहितरोऽधिमात्रतरश्च मार्गो मृदुतराश्चानुशया इति ।

[३५९।०९-३५९।१०]
ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रिव परिनिर्वाणं यत्रोपपन्नः ।

[३५९।१०]
स्रोतो गतिरित्येकोऽर्थः ।

[३५९।११]
स ध्याने व्यवकीर्णोऽकनिष्ठगः ॥ ६.३७ ॥

[३५९।१२]
ऊर्ध्वस्रोता द्विवधो हेतुतः फलतश्च ।
हेतुतो व्यवकोर्णाव्यवकीर्णध्यानत्वात् ।

[३५९।१३-३५९।१४]
फलतोऽकनिष्ठभवाग्रपरमत्वात्तत्र येन ध्यानं व्यवकीर्णं सोऽकनिष्ठान् गत्वा परिनिर्वाति ।

[३५९।१५]
स प्लुतोऽर्धप्लुतः सर्वच्युतश्च
[३५९।१६]
स पुनरेषोऽकनिष्ठपरम ऊर्ध्वंस्रोतास्त्रिविधः ।
प्लुतादिभेदात् ।

[३५९।१६-३५९।१९]
तत्र प्लुतो नाम य इह ध्यानानि व्ययकीर्य ध्यानच्यातोपरिहीणं प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य तस्मात्प्रच्युतोऽकनिष्ठेषूपपद्यते ।

[३५९।१९]
एष हिमध्यानिमज्जनात्प्लुतः ।

[३५९।१९-३५९।२०]
अर्ध्प्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं विलङ्घच्याकनिष्ठान् प्रविशति ।

[३५९।२०-३५९।२१]
महाब्रह्मस्वार्यो नोपपद्यते दृष्टिस्थानत्वादेकनायकत्वाच्चेति ।

[३५९।२१-३५९।२२]
सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति ।

[३५९।२२]
न च दकाचिदनागामी ।

[३५९।२२-३५९।२३]
तत्रैवोल्पत्यायतने द्वितीयं जन्माभिनिर्वर्तयति ।

[३५९।२३]
विशेषगामित्वात् ।

[३५९।२३-३५९।२४]
एवं चास्य परिपूर्णमनागामित्वं भवति ।

[३५९।२४]
यत्रोपपन्नस्तस्याधस्तत्र चात्यन्तमनागमनात् ।

[३५९।१४-३५९।१५]
एवं तावद्धच्याने व्यवकीर्णेऽकनिष्टगो वेदितव्यः ।

[३५९।१५-३५९।२५]
ततः

[३६०।०१]
अन्यो भवाग्रगः ।

[३६०।०२]
अव्यवकीर्णध्यान ऊर्ध्वंस्रोता भवाग्रनिष्ठो भवति ।

[३६०।०२-३६०।०४]
स हि समापत्त्यन्तराण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावसानारुप्यक्रमोत्पत्तितो भवाग्रं गत्वा परिनिर्वाति ।

[३६०।०४]
शमथचरितो ह्येषः ।

[३६०।०४-३६०।०५]
पूर्वकस्तु विपश्यनाचरितः ।

[३६०।०५]
अन्तरापि तु परिनिर्वाणमूर्ध्वंस्रोतसो युज्यमानं पश्यामः ।

[३६०।०५-३६०।०६]
अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद्यथा सप्त कृत्वःपरमत्वं स्रोत आपन्नस्येति ।

[३६०।०६-३६०।०७]
इमे तावत्पञ्च रुपोपगा अनागामिनः ।

[३६०।०८]
आरुग्यगश्चतुर्धान्यः

[३६०।०९]
अन्य आरुप्यगोऽनागामी यो रूपवीतराग इतश्चच्युत्वारुप्येषुपपद्यते ।

[३६०।०९-३६०।१०]
स पुनश्चतुर्विध उपपद्यादिपरिनिर्वायिभेदात् ।

[३६०।१०]
त एते षडनागामिनो भवन्ति ।
ततः

[३६०।११]
इह निर्वापकोऽपरः ॥ ६.३८ ॥

[३६०।१२]
इहैव जन्मन्यपरः परिनिर्वाति ।
स दृष्टधर्मपरिनिर्वायो सप्तमः ।

[३६०।१३]
पुनस्त्रींस्त्रिविधान् कृत्वा नव रुपोपगाः स्मृताः ।

[३६०।१४]
पुनस्त्रयाणामनागामिनां त्रिधा भेदाद्रूपोपगा नवानागामिनो भवन्ति ।

[३६०।१५]
कतमेषां त्रयाणाम् ।
अन्तरोपपद्यपरिनिर्वायिणोरुर्ध्वस्रोतसश्च ।
कथं त्रिधाभेदात् ।

[३६०।१६]
अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरिनिर्वाणात्दृष्टान्तत्रयेण ।

[३६०।१६-३६०।१७]
उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणात् ।

[३६०।१७-३६०।१८]
सर्वे ह्येते त्रयोऽप्युपपन्न परिनिर्वाणादुपपद्यपरिनिर्वायिणः ।

[३६०।१८]
ऊर्ध्वंस्रोतसः प्लुतादिभेदात् ।

[३६०।१८-३६०।१९]
सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् ।

[३६०।२०]
तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः ॥ ६.३९ ॥

[३६०।२१]
तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्रियविशेषाद्विशेषः ।

[३६०।२१-३६१।०१]
त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधिमात्र क्लेशसमुदाचार त्वादधिमात्रमध्यमुद्विन्द्रियत्वाच्च ।

[३६१।०१-३६१।०२]
तेषामपि नवानां प्र्त्येकमत एव यथायोगं विशेषः ।

[३६१।०२]
प्रथमयोस्त्रिकयोः क्लेशेन्द्रियविशेषात्पूर्ववत् ।

[३६१।०२-३६१।०३]
पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति ।

[३६१।०३-३६१।०४]
त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानागामिनो भवन्ति ।

[३६१।०४]
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः ।

[३६१।०५]
ऊर्ध्वंस्रोतुरभेदेन सप्त सद्गतयो मताः ।

[३६१।०६]
ऊर्ध्वं स्रवणधर्मा ऊर्ध्वंस्रोता ।

[३६१।०६-३६१।०७]
तस्याभेदनिर्देशात्सप्त सत्पुरुषगतयः सूत्रेऽभिहिताः ।

[३६१।०७]
कस्मात्पुनरेता एव सत्पुरुषगतयो नान्याः शैक्षगतयः ।

[३६१।०७-३६१।०८]
एता हि गतयो येषां तेषां सत्येव कर्माणि वृत्तिः कुशले असत्यवृत्तिरकुशले ।

[३६१।०८-३६१।०९]
एताश्च गतीर्गतानां न पुनः प्रत्यागतिरस्ति ।

[३६१।०९]
नत्वेतद्यथोक्तमन्यत्रास्ति ।
अतः

[३६१।१०]
सदसद्वृत्त्यवृत्तिभ्यां गताओप्रत्यागतेश्च ताः ॥ ६.४० ॥

[३६१।११]
सप्त सत्पुरुषगतयो नान्या इति ।

[३६१।११-३६१।१२]
यत्तर्हि सूत्रे एवोक्तं “सत्पुरुषाः कतमः ।

[३६१।१२]
शैक्ष्यः सम्यग्दृष्टच्या समन्वागत” इति विस्तरः ।

[३६१।१२-३६१।१३]
अन्येषामप्यस्ति पोआर्यायिकं सत्पुरुषत्वम् ।

[३६१।१३-३६१।१४]
पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भात्प्रायेणाकुशलप्रहाणाच्च ।

[३६१।१४]
येषां तु निष्पर्यायेण तेषामिहाध्हिकारः ।

[३६१।१५]
किं पुनः परिवृत्तजन्मनोऽप्यनागामिन एष भेदोऽस्ति ।
यस्मात्

[३६१।१६]
न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः ।

[३६१।१७]
कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति ।

[३६१।१७-३६१।१८]
अनागामि फलं प्राप्य तत्रैव जन्मनि परिनिर्वाणात् ।

[३६१।१८-३६१।१९]
रूपधातौ तु परावृत्तजन्म कदाचिदारुप्यान्प्रविशति ।

[३६१।१९]
य ऊर्ध्वंस्रोता भवाग्रपरमः ।

[३६१।१९-३६१।२०]
यत्तर्हि शक्रेणोक्तं “ये ते देवा अकनिष्ठा इति विश्रुताः ।

[३६१।२०]
अन्ते मे हीयमानस्य तत्रोपपत्तिर्भविष्यति” ।

[३६१।२०-३६१।२१]
अभिधर्मा नभिज्ञत्वादिति वैभाषिकाः ।

[३६१।२१]
भवता “प्यनिवारणं संहर्षणीयत्वा” दिति ।

[३६२।०१]
स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक् ॥ ६.४१ ॥

[३६२।०२-३६२।०३]
स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि संचरति नापि कथञ्चित्परिहीयते ।

[३६२।०३-३६२।०४]
किं पुनः कारणं परिवृत्तजन्मान्तास्यार्यस्य रूपारुप्यप्रवेशेन्द्रियसंचारपरिहाणयो नेष्यन्ते ।

[३६२।०४]
यस्मान्न सन्ति ।
कस्मान्न सन्ति ।

[३६२।०४-३६२।०५]
जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वादाश्रयविशेषलाभाच्च ।

[३६२।०६]
अथ कस्माद्वीतरागः शैक्षो नान्तराये परिनिर्वायी भवति ।

[३६२।०६-३६२।०८]
मार्गस्याजितत्वादसंमुखीभावतः अनुशयानां च नातिमन्दत्वात्दुःसमतिक्रामत्वात्कामवातोरिति वैभाषिकाः ।

[३६२।०८]
बहु ह्यनेन कर्तव्यं भवति ।

[३६२।०८-३६२।०९]
अकुशलाम्याकृतक्लेशप्रहाणं द्वित्रिश्रामण्यफलप्राप्तिस्त्रिधातुसमतिक्रमश्च ।

[३६२।०९]
तच्चान्तराभवस्थो न शक्तः कर्तुमिति ।

[३६२।१०]
यदुक्तं “स ध्याने व्यवकीर्णेऽकनिष्ठग” इति ।

[३६२।१०-३६२।११]
अथ कतमद्धच्यानं प्रथमतो व्यवकीर्यते ।

[३६२।१२]
आकीर्यते चतुर्थं प्राक्

[३६२।१३]
स हि सर्वकर्मण्यः समाधिः सुखप्रतिपदामग्रच्यत्वात् ।

[३६२।१३-३६२।१४]
एवं च पुनः व्यवकीर्यते ।

[३६२।१४]
अर्हन्ननागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते ।

[३६२।१५]
तस्माद्वच्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते पुनश्चानास्रवम् ।

[३६२।१५-३६२।१७]
एवं प्रवाहाप्रहासेन यदा किल द्वौ क्षणावनास्रवौ समापद्यते द्वौ सास्रवौ पुनश्चानास्रवावयं व्यवकिरणस्य प्रयोगः ।

[३६२।१८]
निष्पत्ति क्षणमिश्रणात् ।

[३६२।१९]
यदा त्वनास्रवस्य क्षयस्यानन्तरं सास्रवं संमुखीकरोति सास्रवस्यानास्रवम् ।

[३६२।२०-३६२।२१]
एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात्व्यवकिरणं निष्पन्नं भवतीति वैभाषिकाः ।

[३६२।२१-३६२।२२]
द्वौ हि क्षणावानन्तर्यमार्गसदृशौ तृती यो विमुक्तिमार्गसदृश इति ।

[३६२।२२]
एवं चतुर्थं ध्यानं व्यवकीर्य तद्वलेल्नान्यान्यपि व्यवकीर्यन्ते ।

[३६२।२२-३६२।२३]
कामधातौ त्रिषु द्वीपेषु प्रथमं व्यवकीर्यते ।

[३६२।२३]
पश्चात्परिहीणेन रूपधातौ ।

[३६२।२३-३६२।२४]
अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् ।

[३६२।२४-३६२।२५]
अत इच्छातः प्रवाहत्रयसमापत्तितो निष्पन्नं भवतीति पश्यामः ।

[३६२।२६]
किमर्थं पोउनर्ध्यानं व्यवकीर्यते ।

[३६३।०१]
उपपत्तिविहारार्थं क्लेशभीरुतयाऽपि च ॥ ६.४२ ॥

[३६३।०२]
त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति ।

[३६३।०२-३६२।०३]
तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च ।

[३६३।०३-३६३।०४]
मृद्विन्द्रियाः क्लेशभिरुतया चास्वादनासंप्रयुक्तसमाधिदूरीकरणादपरिहीणार्थम् ।

[३६३।०४]
अर्हन्तस्तु तीक्षणेन्द्रिया दृष्टधर्मसुखविहारार्थम् ।

[३६३।०५]
मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहीणार्थम् ।

[३६३।०६]
अथ कस्मात्पञ्चैव शुद्धावासोपपत्तयः ।

[३६३।०६-३६३।०७]
यदेतद्वच्यवकीर्णभावितं चतुर्थं ध्यानमुक्तम्

[३६३।०८]
तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः ।

[३६३।०९]
सा हि व्यवकीर्णभावना पञ्चप्रकारा म्र्दुमध्याधिमात्रतरतमभेदात् ।

[३६३।०९-३६३।१०]
प्रथमायां त्रीणि चित्तानि संमुखीद्रियन्ते ।

[३६३।१०]
अनास्रवं सास्रवमनास्रवं च ।
द्वितीयायां षट् ।

[३६३।११]
तृतीयायां नव ।
चतुर्थ्यां द्वादश ।
पञ्चम्यां पञ्चदश ।

[३६३।११-३६३।१२]
तासां यथासंख्यं पञ्च शुद्धावासाः फलम् ।

[३६३।१२]
यत्तत्र सास्रवं तद्वशात्तेषूपपत्तिः ।

[३६३।१२-३६३।१३]
श्रद्धादीन्द्रियाधिक्यात्पञ्चेत्यपरे ।

[३६३।१४]
निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः ॥ ६.४३ ॥

[३६३।१५]
निरोधलाभोऽस्यास्तीति निरोधलाभी ।

[३६३।१५-३६३।१६]
यो हि कश्चिदनागामी निरोधसमापत्तिलाभी स कायसाक्षीत्युच्यते ।

[३६३।१६-३६३।१७]
निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् ।

[३६३।१७]
कथं पुनः कायेन साक्षात्करोति ।
चित्ताभावात्कायाश्रयोत्पत्तेः ।

[३६३।१८]
एवं तु भवितव्यम् ।

[३६३।१८-३६३।१९]
स हि तस्माद्व्युत्थायाप्रतिलब्धपूर्वा सविज्ञानकां कायशान्तिं प्रतिलभते ।

[३६३।१९-३६३।२०]
यतोऽस्यैवं भवति शान्ता वत निरोधसमापत्तिर्निर्वाणसदृशी वत निरोधसमापत्तिरिति ।

[३६३।२०]
एवमनेन तस्याः शान्तत्वं कायेन साक्षत्कृतं भवति ।

[३६३।२१]
प्राप्तिज्ञानसाक्षात्क्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया ।

[३६३।२१-३६३।२२]
अष्टादश शैक्षा” इत्यत्र सूत्रे कि कारणं कायसाक्षी नोक्तः ।

[३६३।२२]
कारणाभावात् ।
कि पुनः कारणम् ।

[३६३।२३]
अनास्रवास्तिस्रः शैक्षास्तत्फां च ।
तद्विशेषेण हि शैक्षाणां व्यवस्थानम् ।

[३६३।२३-३६३।२४]
निरोधसमापत्तिश्च नैवशैक्षानाशिक्षा फलम् ।

[३६३।२४]
अतो न तद्योगाच्धैक्षविशेष उक्तः ।

[३६३।२४-३६३।२५]
एष तावदनागामिनां यथास्थूलं भेदः ।

[३६३।२५]
सूक्ष्मं तु भिद्यमानाः सहस्रशो भिद्यन्ते ।

[३६३।२६]
अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् ।
भूमिभेदाच्चत्वारः ।

[३६४।०१]
परिहाणधर्मादिगोत्रभेदात्षट् ।

[३६४।०१-३६४।०२]
स्थानान्तरभेदात्षोडश भूमिवैराग्यभेदात्षट्त्रिंशत् ।

[३६४।०२-३६४।०३]
रूपधतौ सकलाबन्धनो यावच्चतुर्थध्यानाष्टप्रकारवीतरागः ।

[३६४।०३]
स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद्वानवतानि पञ्चविंशतिः शतानि ।

[३६४।०४]
कथं कृत्वा ।
एकस्मिन् स्थाने षट्गोत्राणि ।

[३६४।०४-३६४।०६]
गोत्रे गोत्रे नव पुद्गलाः सकलबन्धनो यावदष्टप्रकारवीतरागः स्वस्मात्स्थानात्षण्ण्णवकानि चतुष्पञ्चाशत्षोडश चतुष्पञ्चाशत्कानि चतुःषष्टान्यष्टौ शतानि ।

[३६४।०६-३६४।०७]
इन्द्रियभेदात्पुनस्त्रिगुणा इत्येवं कृत्वा योऽधरध्याने नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः ।

[३६४।०७-३६४।०८]
समगणनार्थम् ।

[३६४।०८-३६४।०९]
यथान्तरापरिनिर्वायिण एवं यवदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिंशदूनानि त्रयोदशसहस्राप्यनागामिनां भवन्ति ।

[३६४।१०]
आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपक्षकः ।

[३६४।११]
अनागामीत्यधिकृतम् ।

[३६४।११-३६४।१२]
स खल्वयमनागामी प्रथमध्यानैकप्रकारवैराग्यात्प्रबृति यावत्भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नको भवन्ति ।

[३६४।१३]
नवमस्याप्यानन्तर्यपथे

[३६४।१४-३६४।१५]
नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे सोऽर्हत्त्वप्रतिपन्नक एव ।

[३६४।१६]
वज्रोपमश्च सः ॥ ६.४४ ॥

[३६४।१७]
स चानन्तर्यमार्गो वज्रोपमः समाधिरित्युच्येत ।

[३६४।१८]
सर्वानुशयभेदित्वात् ।
भिन्नत्वादसौ न पुनः सर्वान् भिनत्ति ।

[३६४।१८-३६४।१९]
सर्वास्तु भेत्तुं समर्थः ।

[३६४।१९]
सर्वानन्तर्यमार्गाणामधिमात्रतमत्वात् ।

[३६४।१९-३६४।२०]
वज्रोपमानां तु बहुभेदं वर्णयन्ति ।

[३६४।२०-३६४।२१]
अनागाम्यसंगृहीता भावाग्रिकदुःखसमुदायालम्बनैर्दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ ।

[३६४।२१]
निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ ।

[३६४।२२]
निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालम्बनाश्चत्वारः ।

[३६४।२२-३६४।२३]
एवं यावत्भवाग्रनिरोधालम्बनाश्चत्वारः ।

[३६४।२३]
मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः ।

[३६५।०१]
कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् ।

[३६५।०१-३६५।०२]
त इमे ज्ञानाकारालम्बनभेदभिन्ना द्वापञ्चाशद्वज्रोपमा भवन्ति ।

[३६५।०२]
यथाऽनागाम्यसंगृहीता एवं यावच्चतुर्थध्यानसंगृहीताः ।

[३६५।०३-३६५।०४]
आकाशविज्ञानानन्त्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंशतिविंशतिश्च भवन्ति ।

[३६५।०४-३६५।०५]
तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्याभावात् ।

[३६५।०५]
अधोभूमिप्रतिपक्षालम्बनं तु भवति ।
तस्यान्योऽन्यहेतुत्वादिति ।

[३६५।०५-३६५।०७]
येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालम्बनमिष्टं तेषामष्टाविंशतिमधिकान् प्रक्षीप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति ।

[३६५।०७-३६५।०८]
एवं यावच्चतुर्थध्यान संगृहीताः ।

[३६५।०८-३६५।०९]
आकाशानन्त्यायतनादिषु यथाक्रमं चत्वारिंशत्द्वात्रिंशच्चतुर्विशतिश्च भवन्ति ।

[३६५।०९]
पुनर्गोत्रेन्द्रियभेदात्भूयांसो भवन्ति ।

[३६५।१०]
यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणं

[३६५।११]
तत्क्षयाप्त्या क्षयज्ञानं

[३६५।१२]
तस्य पुनर्नवमस्य प्रकारस्य सह क्षयप्राप्त्या क्षयज्ञानमुत्पद्यते ।

[३६५।१२-३६५।१३]
वज्रोपमसमाधेरनन्तरं पश्चिमो विमुक्तिमार्गः ।

[३६५।१३-३६५।१४]
अत एव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्प्रथमतः ।

[३६५।१५]
अशैक्षोऽर्हन्नसौ तदा ।

[३६५।१६-३६५।१७]
उत्पन्ने च पुनः क्षयज्ञाने सोऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हश्चार्हत्त्वफलप्राप्तः ।

[३६५।१७]
फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः ।

[३६५।१७-३६५।१९]
अत एव स परमार्तं करणार्थत्वात्सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवत्यन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति ।

[३६५।१९]
केन ते शैक्षाः ।

[३६५।१९-३६५।२०]
आस्रवक्षयाय नित्यं शिक्षणशीलत्वाच्छिक्षात्रये अधिशीलमधिचित्तमधिप्रज्ञं च ।

[३६५।२०]
ताः पुनः शीलसमाधिप्रज्ञास्वभावाः ।

[३६५।२१]
पृथग्जनोऽपि शैक्षः प्राप्नोति ।
न ।
यथाभूतं सत्याप्रज्ञानात्पुनश्चापशिक्षणात् ।

[३६५।२२-३६५।२३]
अत एव द्विरभिधानं सूत्रे “शिक्षायां शिक्षते शिक्षायां शिक्षत इति शिवकतस्माच्छैक्ष इत्युच्यत” इति ।

[३६५।२३-३६५।२४]
यः शिक्षत एव नापशिक्षते स शैक्ष इत्यवधारणं यथा विज्ञायेत ।

[३६५।२४]
प्रकृतिस्थ आर्यः कथं शिक्षणशीलः ।

[३६५।२५]
आशयतः ।
स्थिताध्वगवत्प्राप्त्यनुषङ्गतश्च षिक्षात्रयस्य ।

[३६५।२५-३६५।२६]
अथ शैक्षा धर्माः कतमे ।

[३६५।२६]
शैक्षस्यानास्रवाः ।
अशैक्षाः कतमे ।
अशैक्षस्यानास्रवाः ।

[३६५।२६-३६५।२७]
निर्वाणं कस्मान्न शैक्षम् ।

[३६५।२७]
अशैक्षपृथग्जनयोरपि तद्योगात् ।
कस्मान्नाशैक्षम् ।

[३६५।२७-३६६।०१]
शैक्षपृथग्जनयोरपि तद्योगात् ।

[३६६।०१]
त एते सर्व एवाष्टावार्यपुद्गला भवन्ति ।

[३६६।०१-३६६।०२]
प्रतिपन्नकाश्चत्वारश्च फले स्थिताः ।

[३६६।०२]
तद्यथा स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्रोत आपन्नः ।

[३६६।०३]
एवं यावदर्हत्त्वफलसाक्षात्क्रियायै प्रतिंपन्नकोऽर्हन्निति ।
नामत एतेऽष्टौ भवन्ति ।

[३६६।०४]
द्रव्यतस्तु पञ्च ।
प्रथमः प्रतिपन्नकश्चत्वारश्च फलस्थाः ।

[३६६।०४-३६६।०५]
शेषाणां प्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात् ।

[३६६।०५]
अनुपूर्वाधिगमं प्रत्येवमुच्यते ।

[३६६।०५-३६६।०७]
भूयःकामवीतरागौ तु स्यातां दर्शनमार्गे सकुदागाम्यनागामिफलप्रतिपन्नकौ न च स्रोत आपन्न सकृदागामिनाविति ।

[३६६।०८]
द्विविधो हि भावनामार्ग उक्तो लौकिको लोकोत्तरश्चेति ।

[३६६।०८-३६६।०९]
केनायं शैक्षंः कुतो वैराग्यं प्राप्नोति ।

[३६६।१०]
लोकोत्तरेण वैराग्यं भवाग्रात्

[३६६।११]
न लौकिकेन ।
कि कारणम् ।

[३६६।११-३६६।१२]
तत ऊर्ध्व लौकिकाभावात्स्वभूमिकस्य वा प्रतिपक्षत्वात् ।

[३६६।१२]
कस्मान्न प्रतिपक्षः ।

[३६६।१२-३६६।१३]
तत्क्लेशानुशयितत्वात् ।

[३६६।१३-३६६।१४]
यो हि क्लेशो यत्र वस्तुन्यनुशेते न तस्य तद्वस्तु ओप्रहाणाय संवर्तते यस्य च यः प्रतिपक्षो न तत्र स क्लेशोऽनुशेते इति ।

[३६६।१५]
अन्यतो द्विधा ॥ ६.४५ ॥

[३६६।१६]
भवाग्रादन्यतः सर्वतो भूमेलौकिकेनाओपि वैराग्यं लोकोत्तरेणापि ।
तत्र पुनः

[३६६।१७]
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा ।

[३६६।१८-३६६।१९]
लौकिकेन मार्गेणार्यवैराग्यं गच्छतो द्विविधा विसंयोगप्राप्तय उत्पद्यन्ते लौकिक्यो लोकोत्तराश्च ।

[३६६।२०]
लोकोत्तरेण चेत्येके

[३६६।२१]
लोकोत्तरेणाप्येवमित्यपरे ।
किं कारणम् ।

[३६६।२२]
त्यवते क्लेशासमन्वयात् ॥ ६.४६ ॥

[३६७।०१-३६७।०३]
यदि ह्यार्यमार्गेण वैराग्यं प्राप्नुवतो लौकिकी विसंयोगप्रापोतिर्नोत्पद्यते एवं सति य आर्यमार्गेणाकिञ्चन्यायतनाद्वीतरागो ध्यानं निश्रित्येन्द्रियाणि संचरति सकृत्स्नपूर्वमार्गत्यागात्केवलफलमार्गलाभाच्चोर्ध्वभूमिक्लेशविसंयोगेनासमन्वागतः स्यात् ।

[३६७।०४]
त्यक्ते च तस्मिन् तैः क्लेशैः समन्वागतः स्यादिति ।

[३६७।०५]
भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः ।

[३६७।०६-३६७।०७]
असत्यामपि तु तस्यां लौकिक्यां विसंयोगप्राप्तौ न तैः समन्वागमः स्यात् ।

[३६७।०७-३६७।०९]
तद्यथा भवाग्रादर्ध प्रकारविमुक्तस्यासत्यामपि तु लौकिक्यां तद्विसंयोगप्राप्तौ त्यक्तायामपि चेन्द्रियसंचारेण लोकोत्तरायां न पुनस्तैः क्लेशैः समन्वागमो भवति ।

[३६७।०९-३६७।१०]
यथा च पृथग्जनस्य प्रथमध्यानभूमेरुर्ध्वं जातस्य कामावचरक्लेशविसंयोगप्राप्तित्यागान्न पुनस्तैः समन्वागमो भवतीत्यज्ञापकमेतत् ।

[३६७।११]
कतपया पुनर्भूम्या कुतो वैराग्यं भवति ।

[३६७।१२]
अनास्रवेण वैराग्यमनागाम्येन सर्वतः ॥ ६.४७ ॥

[३६७।१३]
आभवाग्रात् ।

[३६७।१३-३६७।१४]
अथ यः सामन्तकं निश्रित्याधरभूमिवैराग्यं प्राप्नोति किमस्यानन्तर्यमागवत्सर्वे विमुक्तिमार्गाः सामन्तकाद्भवन्ति ।

[३६७।१४]
नेत्याह ।
किं तर्हि ।

[३६७।१५]
ध्यानात्सामन्तकाद्वाऽन्त्यो मुक्ति मार्गस्त्रिभूजये ।

[३६७।१६]
नव ह्यपपत्तिभूमयः ।
सर्वकामधातुरष्टौ च ध्यानारुप्याः ।

[३६७।१६-३६७।१७]
तत्र यावत्द्वितीयध्यानवैराग्यं त्रिभूमिजयः ।

[३६७।१७-३६७।१८]
तस्मिन् पश्चिमो विमुक्तिमार्गः सामन्तकाद्भवति ध्यानाद्वा मौलात् ।

[३६७।१९]
नोर्ध्वं सामन्तकात्

[३६७।२०]
त्रिभूमिजयादूर्ध्वं मौलादेव न पुनः सामन्तकादुपेक्षेन्द्रियसामान्यात् ।

[३६७।२०-३६७।२१]
त्रिषु हि ध्यानेषु सामन्तकमौलयोरिन्द्रियभेदात्कश्चिन्न शक्नोति मौलं ध्यानं प्रवेष्टुम् ।

[३६८।०१]
इन्द्रियसंचारस्य दुष्करत्वात् ।

[३६८।०१-३६८।०२]
अतस्त्रिभूमिवैराग्ये ध्यानसामन्तकादप्यन्यो विमुक्तिमार्गो भवति ।

[३६८।०३]
“अनास्रवेण वैराग्यमनागम्येन सर्वत” इत्युक्तमन्यैस्तु नोक्तम् ।
अत उच्यते

[३६८।०४]
आर्यैरष्टाभिः स्वोर्ध्वभूजयः ॥ ६.४८ ॥

[३६८।०५-३६८।०६]
अनास्रवैरष्टाभिर्ध्यानध्यानान्तरारुप्यैः स्वस्या ऊर्ध्वायाश्च भूमेर्वैराग्यं नाधराया वीतरागत्वात् ।

[३६८।०६-३६८।०७]
तत्र लोकोत्तरा आनन्तर्यविमुक्तिमार्गाः सत्यालम्बनत्वात्सत्याकारप्रवृत्ता इति सिद्धम् ।

[३६८।०८]
विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् ।

[३६८।०९]
शान्ताद्युदाराद्याकाराः

[३६८।१०]
विमुक्तिमार्गाः शान्ताद्याकारा आनन्तर्यमार्गा औदारिकाद्याकाराः ।

[३६८।१०-३६८।११]
ते पुनर्यथाक्रमम्

[३६८।१२]
उक्तराधरगोचराः ॥ ६.४९ ॥

[३६८।१३]
विमुक्तिमार्गा उत्तरां भूमिं शान्ततः प्रणीततो निःसर्णतश्चाकारयन्ति संभवतः ।

[३६८।१४]
आनन्तर्यमार्गा अधरां भूमिमौदारिकतो दुःखिलतः स्थूलभित्तिकतश्च ।

[३६८।१४-३६८।१५]
अशान्तत्वादौदरिकतो महाभिसंस्कारतरत्वात् ।

[३६८।१५-३६८।१६]
अप्रणीतत्वात्दुःखिलतो बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावात् ।

[३६८।१६-३६८।१७]
स्थूलभित्तिकतस्तयैव तद्भूम्यनिःसरणात्भित्त्यनिःसरणवत् ।

[३६८।१७]
एषां विपर्ययेण शान्तप्रणीतनिःसरणाकाराः ।
गत मानुषङ्गिकम् ।

[३६८।१८]
इदं तु वक्तव्यम् ।

[३६८।१९]
अथ क्षयज्ञानाकनन्तरं किमुत्पद्यते

[३६८।२०]
यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः

[३६८।२१]
अकोप्यधर्मा चेदर्हन्भवति क्षयज्ञानात्समनन्तरमनुत्पादज्ञानमस्योत्पद्यते ।

[३६८।२२]
न चेत् ।

[३६९।०१]
क्षयज्ञानमशैक्षी वा दृष्टिः

[३६९।०२-३६९।०३]
न चेदकोप्यधर्मा भवति क्षयज्ञानात्क्षवज्ञानमेवोत्पद्यते अशैक्षी वा सम्यग्दृष्टिः ।

[३६९।०३]
न त्वनुत्पादज्ञानं परिहाणिसंभवात् ।

[३६९।०३-३६९।०४]
किं पुनरकोपोयधर्मणः सा नैवोत्पद्यते ।

[३६९।०५]
सर्वस्य साऽर्हतः ॥ ६.५० ॥

[३६९।०६-३६९।०७]
अकोप्यधर्मणोऽप्यनुत्पादज्ञानात्कदाचिदनुत्पादज्ञानमेवोत्पद्यते कदाचिदशैक्षी सम्यग्दृष्टिः ।

[३६९।०८]
यान्येतानि चत्वारि फलान्युक्तानि कस्यैतानि फलानि ।
श्रमण्यफलानि ।

[३६९।०९]
किमिदं श्रामण्यं नाम ।

[३६९।१०]
श्रावण्यममलो मार्गंः

[३६९।११]
अनास्रवो मार्गः श्रमण्यम् ।
तेन ह्हि श्रमणो भवति ।
क्लेशसंशमनात् ।

[३६९।१२-३६९।१३]
“शमिता अनेन भवन्ति अनेकविधाः षापका अकुशला धर्मा विस्तरेण यावज्जरामरणीयास्तस्माच्छ्रमण इत्युच्यत” इति सूत्रे वचनात् ।

[३६९।१३-३६९।१४]
अनत्यन्तशमनान्न पृथग्जनः परमार्थश्रमणः ।

[३६९।१४]
तस्य पुनः श्रामण्यस्य ।

[३६९।१५]
संस्कृतासंस्कृतं फलम् ।

[३६९।१६]
संस्कृतासंस्कृतानि हि श्रामण्यफलानि पुनश्चत्वार्युक्तानि सूत्रे ।
अपि तु

[३६९।१७]
एकान्ननवतिस्तानि

[३६९।१८]
कानि पुनस्तानि

[३६९।१९]
मुक्तिमार्गाः सह क्षयैः ॥ ६.५१ ॥

[३६९।२०-३६९।२२]
दर्शनहेयप्रहाणायाष्टावानन्त्र्यमार्गा अष्टौ विमुक्तिमार्गा भावनाहेयप्रहाणाय नवसु भूमिषु प्रत्येकं नव प्रकाराणां क्लेशानां प्रहाणाय तावन्त एवानन्तर्यमार्गा विमुक्तिमार्गाश्च ।

[३६९।२२-३७०।०१]
तत्रानन्तर्यमार्गाः श्रामण्यं विमुक्तिमार्गाः संस्कृतानि श्रामण्यफलानि ।

[३७०।०१]
तन्निष्यन्दपुरुषकारफलत्वात् ।

[३७०।०१-३७०।०२]
तेषां क्लेशानां प्रहाणान्यसंस्कृतानि श्रामण्यफलानि ।

[३७०।०२]
एवमेकान्ननवतिर्भवन्ति ।

[३७०।०२-३७०।०३]
एवं तर्हि बुद्धस्योपसंख्यानं कर्तव्यं जायते ।

[३७०।०३]
न कर्तव्यम् ।
यद्यपि भूयांसि फलानि

[३७०।०४]
चतुष्फलव्यवस्था तु पञकारणसंभवात् ।

[३७०।०५-३७०।०६]
यस्यां हि प्रहाणमार्गावस्थायां पञ्च कारणानि संभवन्ति तस्यां किअ भगवता फलं व्यवस्थापितम् ।

[३७०।०६]
कतमानि पञ्च ।

[३७०।०७]
पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले ॥ ६.५२ ॥

[३७०।०८]
ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना ।

[३७०।०९]
पूर्वमार्गत्यागोऽपूर्वमार्गाप्तिः प्रतिपन्नकफलमार्गत्यागलाभात् ।

[३७०।०९-३७०।१०]
प्रहाणसंकलनं सर्वस्यैकप्राप्तिलाभात् ।

[३७०।१०]
युगपदष्टज्ञानलाभश्चतुर्विधनां धर्मान्वयज्ञानानाम् ।

[३७०।११]
षोडशाकारभावना अनित्याद्याकाराणाम् ।

[३७०।११-३७०।१२]
इमानि हि पञ्च कारणानि फले फले भवन्ति ।

[३७०।१३-३७०।१४]
यद्यनास्रवो मार्गः श्रामण्यं कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं युज्यते ।

[३७०।१५]
लौकिकाओप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलल्म् ॥ ६.५३ ॥

[३७०।१६-३७०।१७]
न हि तत्र लौकिकमार्गफलमेव्प्रहाणं सकृदागामिफलं वा भवत्यनागामिफलं वा ।

[३७०।१७]
किं तर्हि ।

[३७०।१७-३७०।१८]
दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते ।

[३७०।१८]
सर्वस्य तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् ।

[३७०।१८-३७०।१९]
अत एव हि सूत्र उक्तं “सकृदागामिफलं कतमत् ।

[३७०।१९-३७०।२०]
यत्त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च ततुत्वमिति ।

[३७०।२०]
अनागामिफलं कतमत् ।

[३७०।२०-३७०।२१]
यदुत पञ्चानामवरभागीयानां सम्योजनानां प्रहाणमि”ति ।

[३७०।२१]
अनास्रवया च विसंयोगाप्राप्त्या तत्प्रहाणं सधार्यते ।

[३७०।२१-३७०।२२]
तद्वलेन परिहीणामरणात् ।

[३७०।२२]
अतोऽप्यस्य मरणं युक्तं श्रामण्यफलम् ।

[३७०।२२-३७०।२३]
यदेव चैतच्छ्रामण्ययुक्तम् ।

[३७०।२४]
ब्राह्मण्यं ब्रह्मचक्रं च तदेव

[३७०।२५]
क्लेशानां वाहनाद्वाह्मण्यं ब्रह्मचक्रं तु

[३७१।०१]
ब्रह्मावर्तनात् ।

[३७१।०२]
अनुत्तरब्रह्मण्ययोगात्भगवान्ब्रह्मा ।

[३७१।०२-३७१।०३]
“एष हि भगवान् ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपी”ति सूत्रात् ।

[३७१।०३]
तस्येदं चक्रमिति ब्राह्मं तेन प्रर्तितत्वात् ।

[३७१।०४]
धर्मचक्रं तु दृङ्मार्गः

[३७१।०५]
चङ्क्रमणाच्चक्रं तत्साधर्म्याद्दर्शनमार्गो धर्मचक्रम् ।
कथमस्य साधर्म्यम् ।

[३७१।०६]
आशुगत्वाद्यरादिभिः ॥ ६.५४ ॥

[३७१।०७]
आशुगत्वात्त्यजनक्रमणातजितजयजिताध्यवसनादुत्पतननिपत्तनाच्च ।

[३७१।०७-३७१।०८]
एवमाशुगत्वादिभिः अरादिभिः साधर्म्यादार्याष्टाङ्ङ्गो मार्गश्चक्रमिति भदन्तघोषकः ।

[३७१।०८-३७१।०९]
सम्यग्दृष्टिसंकल्पव्यायामस्मृतयो ह्यरस्थानीयाः ।

[३७१।०९-३७१।१०]
सम्यग्वाक्कर्मान्ताजीवा नाभिस्थानीयाः समाधिर्नेमिस्थानीय इति दर्शनमार्गो धर्मचक्रमिति ।

[३७१।१०-३७१।११]
कुत एततार्यकौण्डिन्यस्य तदुत्पत्तौ “प्रवर्त्तितं धर्मचक्रमि”ति वचनात् ।

[३७१।११-३७१।१२]
कथं तत्त्रिपरिवर्तं द्वादशाकारं च ।

[३७१।१२]
इदं दुःखमार्यसत्यम् ।

[३७१।१२-३७१।१३]
तत्खलु परिज्ञेयं तत्खलु परिज्ञातमित्येते त्रयः परिवर्ताः ।

[३७१।१३-३७१।१४]
एकैकस्मिंश्च परिवर्ते चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि इत्येते द्वादशाकाराः ।

[३७१।१४]
प्रतिसत्येमेवं भवन्ति ।

[३७१।१४-३७१।१५]
त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् ।

[३७१।१५]
द्वयसप्तस्थानकौशलादेशनावत् ।

[३७१।१५-३७१।१६]
एभिश्च परिवर्तैर्दर्शनभावनाशैक्षमार्गा यथासंख्यं दर्शता इति वैभाषिकाः ।

[३७१।१६-३७१।१७]
यद्येवं न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकार इति कथमसौ धर्मचक्रं व्यवस्थाप्यते ।

[३७१।१७-३७१।१८]
तस्मात्स एव धर्मपर्यायो धर्मचक्रं त्रिपरिर्तं द्वादशाकारं च युज्यते ।

[३७१।१८]
कथं च पुनस्त्रिपरिवर्तम् ।

[३७१।१९]
सत्यानां त्रिः परिवर्त्तनात् ।
कथं द्वादशाकारम् ।
चतुर्णां सत्यानां त्रिधाकरणात् ।

[३७१।२०]
दुःखं समुदयो निरोधो मार्ग इति ।

[३७१।२०-३७१।२१]
परिज्ञेयं प्रहेयं साक्षात्कर्तव्यं भावयितव्यमिति ।

[३७१।२१]
परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति ।

[३७१।२१-३७१।२२]
तस्य पुनः प्रवर्तनं परसंताने गमनमर्थज्ञापनात् ।

[३७१।२२]
अथवा सर्व एवार्यमार्गो धर्मचक्रं वेनेयसंतानक्रमणात् ।

[३७१।२३-३७१।२४]
तत्तु परसंताने दर्शनमार्गोत्पादनाद्वर्तयितुमारब्धमतः प्रवर्तितमित्युच्यते ।

[३७२।०१]
अथ कस्मिन्धातौ कति श्रामण्यफलानि प्राप्यन्ते ।

[३७२।०२]
कामे त्रयाप्तिः

[३७२।०३]
कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिर्नान्यत्र ।

[३७२।०४]
अन्त्यस्य त्रिषु

[३७२।०५]
अन्त्यं श्रामण्यफलमर्हत्वं तस्य त्रिषु धातुषु प्राप्तिः ।

[३७२।०५-३७२।०६]
फलद्वयस्य तावदवीतरागप्राप्यत्वादूर्ध्वमप्राप्तिर्युक्ता ।

[३७२।०६]
तृतीयस्य तु कस्मादप्राप्तिः ।

[३७२।०७]
नोर्ध्वं हि दृक्पथः ।

[३७२।०८]
ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति ।

[३७२।०८-३७२।०९]
न च तेन विनाऽस्ति वीतरागस्यानागामि फलप्राप्तिरित्येतत्कारणम् ।

[३७२।०९]
किं पुनः कारणं तत्र दर्शनमार्गो नास्ति ।

[३७२।१०]
आरुप्येषु तावत्श्रवणाभावादधोधात्वनालम्बनाच्च ।
रूपधातौ तु

[३७२।११]
असंवेगादिह विधा तत्र निष्ठेति चागमात् ॥ ६.५५ ॥

[३७२।१२]
रूपावचरा हि पृथग्जनाः समापत्तिमुखसङ्गा दुःखवेदनाभावाच्च न संविजन्ते ।

[३७२।१२-३७२।१३]
न च विना संगेनार्यमार्गः शक्तो लब्धुम् ।

[३७२।१३]
इयं तावद्युक्तिः ।

[३७२।१३-३७२।१४]
आगमोऽप्ययं “पञ्चानां पुद्गलानामिह विधा तत्र निष्ठा अन्तरापरिनिर्वायिणो यावदूर्ध्वंस्रोतस” इति ।

[३७२।१५]
विधा हि मार्गरम्भो निर्वाणोपायत्वात् ।

[३७२।१६]
इदमुक्तं “यद्यकोप्यः क्षयज्ञानादनुत्पादमति” रिति ।

[३७२।१६-३७२।१७]
तत्र किमर्हतमप्यस्ति भेदः ।

[३७२।१७]
अस्तीत्युच्यते ।

[३७२।१८]
षडर्हन्तो मताः

[३७२।१९-३७२।२०]
सूत्र उक्तं षडर्हन्तः परिहाणधर्मा चेतनाधर्मा अनुरक्षणा धर्मा स्थिताकम्पोयः प्रतिवेधनाभव्योऽकोप्यधर्मा चेति ।

[३७२।२१]
तेषां पञ्च श्रद्धाध्हिमुक्तिजाः ।

[३७३।०१]
अकोक्प्यधर्माणं वर्जयित्वाऽन्ये पञ्च श्रद्धाधिमुक्ति पूर्वकाः ।

[३७३।०२]
विमुक्तिः सामयिक्येषाम् ।

[३७३।०३]
एषां च पञ्चानां सामयिकी कान्त चेतोविमुक्तिर्वेदितव्या ।

[३७३।०३-३७३।०४]
नित्यानुरक्ष्यत्वात् ।

[३७३।०४]
अत एवैते समयविमुक्ता उच्यन्ते ।

[३७३।०४-३७३।०५]
समयापेक्षाश्चैतेऽधिमुक्ताश्चेति समयविमुक्ता मध्यपदलोपात्धृतघटवत् ।

[३७३।०५-३७३।०६]
एषां हि समयापेक्षासमाधिसंमुखीभाव उपकरणारोग्यदेशविशेषापेक्षत्वात् ।

[३७३।०७]
अकोप्याकोप्यधर्मणः ॥ ६.५६ ॥

[३७३।०८]
अकोप्यधर्मणस्त्वकोप्या विमुक्तिः ।
कोपयितुमशक्यत्वादपरिहाणितः ।

[३७३।०९]
अतोऽसमयमुक्तोऽसौ

[३७३।१०]
अत एवासमयविमुक्ति उच्यते ।
स ह्यसमयापेक्षाविमुक्तिश्च ।

[३७३।१०-३७३।११]
इच्छातः समाधिसंमुखीभावात् ।

[३७३।११-३७३।१२]
कालान्तरात्यन्तविमुक्तितो वा कोप्याकोप्यधर्मणोः समयासमये विमुक्तत्वं परिहाणिसंभवासंभवतः ।

[३७३।१३]
दृष्टिप्रप्तान्वयश्च सः ।

[३७३।१४]
स चाकोप्यधर्मा दृष्टिप्राप्तपूर्वको वेदितव्यः ।

[३७३।१५]
किं पुनरेते षडर्हन्त आदित एव तद्गोत्रा भवन्त्यथ पश्चात् ।

[३७३।१६]
तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः ॥ ६.५७ ॥

[३७३।१७]
कश्चित्प्रथमत एव चेतनाधर्मगोत्रको भवति ।

[३७३।१७-३७३।१८]
कश्चित्पुनः परिहाणधर्मा भूत्वेन्द्रियाणामुत्तापनया चेतनाधर्मतां गतः ।

[३७३।१८-३७३।१९]
एवं यावदकोओप्यधर्मतां गतो वेदितव्यः ।

[३७३।१९-३७३।२०]
तत्र परिहाणधर्मा यः परिहातुं भव्यो न चेतनादिधर्मा ।

[३७३।२०]
चेतनाधर्मा यश्चेतयितुं भव्यः ।
अनुरक्षणाधर्मा योऽनुरक्षितुं भव्यः ।

[३७३।२१-३७४।०१]
स्थिताकम्प्यो यः परिहाणिप्रत्ययं बलवन्तमन्तरेणानुरक्षन्नपि स्थातुं भव्यो न हातुं नापि वर्धयितुं विनाभियोगेन ।

[३७४।०१]
प्रतिवेधनाभव्यो योऽकोप्यः प्रतिवेद्धं भव्यः ।

[३७४।०२]
अकोप्यधर्मा यो नैव परिहातुं भव्यः ।

[३७४।०२-३७४।०३]
प्रथमौ द्वौ पूर्वमेव शैक्षावस्थायां सातत्यसत्कृत्यप्रयोगविकलौ ।

[३७४।०३]
तृतीयः सातत्यप्रयोगी ।
चतुर्थः सत्कृत्यप्रयोगी ।

[३७४।०३-३७४।०४]
पञ्चम उभयथाप्रयोगी मृद्विन्द्रियस्तु ।

[३७४।०४]
षष्ठ उभयथाप्रयोगी तीक्ष्णेन्द्रियश्च ।

[३७४।०४-३७४।०५]
नचावश्यं वरिहाणधर्मा परिहीयते नापि यावत्प्रतिवेधनाभव्यः प्रतिविध्यति ।

[३७४।०५-३७४।०६]
संभवं तु प्रत्येवमुच्यते ।

[३७४।०६]
एवं कृत्वा धातुत्रयेऽपिषडर्हन्तो युज्यन्ते ।

[३७४।०६-३७४।०८]
येषां त्ववश्यं परिहीयते यावत्प्रतिविध्यति तेषां कामधातौ षट्रूपारुप्यधात्वोः स्थिताकम्प्योऽकोप्यधर्मा च ।

[३७४।०८]
तयोःपरिहाणिचेतनेन्द्रियसंचाराभावात् ।

[३७४।०९]
कः पुनरेषां कुतः परिहीयते ।
फलात्गोत्राद्वा ।

[३७४।१०]
गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः

[३७४।११]
चेतनाधर्मादीनां चतुर्णां गोत्रात्परिहाणिः ।

[३७४।११-३७४।१२]
न हि परिहाणधर्मा पुनः स्वगोत्रात्परिहीयते ।

[३७४।१२-३७४।१३]
परिहाणधर्मादीनां पञ्चानां फलात्परिहाणिः ।

[३७४।१३]
तेषामपि तु

[३७४।१४]
न पूर्वकात् ।

[३७४।१५]
यस्य यत्प्रथमगोत्रं स तस्मान्न परिहीयते ।
शैक्षाशैक्षमार्गाभ्यां दृढीकुतत्वात् ।

[३७४।१६]
शैक्षस्तु लौकिकलोकत्तराभ्यां दृढीकृतत्वात्न परिहीयते स्वगोत्रात् ।

[३७४।१६-३७४।१७]
यत्तु पश्चात्प्रतिलब्धमुत्तापनया तस्मात्परिहीयते ।

[३७४।१७-३७४।१८]
यस्य च यत्प्रथमं फलं स तस्माना परिहीयते ।

[३७४।१८]
शेषात्परिहीयते ।

[३७४।१८-३७४।१९]
अत एव स्रोत आपत्तिफलान्नास्ति परिहाणिः ।

[३७४।१९]
एवं च कृत्वा परिहाणधर्मणस्त्रयः प्रकारा भवन्ति ।

[३७४।१९-३७४।२०]
तदवस्थस्य परिनिर्वाणमिन्द्रियसंचारः ।

[३७४।२०]
परिहाय वा शैक्षत्वम् ।
चेतनाधर्मणश्चत्वारः ।

[३७४।२०-३७४।२१]
एत एव त्रयः परिहाणधर्मगोत्रप्रत्यागमनं च ।

[३७४।२१-३७४।२२]
एवमन्येषां त्रयाणामेकैकप्रकारवृद्धच्या यथाक्रमं पञ्च षट्सप्त प्रकारा वेदितव्याः ।

[३७४।२२-३७४।२३]
यस्य च यत्प्रथमं गोत्रं स परिहाय शैक्षोभूतस्तत्रैवावतिष्ठते नान्यस्मिन् ।

[३७४।२३-३७४।२४]
अन्यथा हि तद्गोत्रविशेष लभाद्वृद्धिरेवास्य स्यान्न परिहाणिः ।

[३७४।२५]
किं पुनः कारणं प्रथमानां नास्ति परिहाणिः ।
दर्शनहेयानामवस्तुकत्वात् ।

[३७४।२६]
आत्माधिष्ठानप्रवृत्ता ह्येते ।
सत्कायदृष्टिमूलकत्वात् ।

[३७५।०१]
स चात्मा नास्तीति ।
असदालम्बनास्तर्हि प्राप्नुवन्ति ।
नासदालम्बनाः ।

[३७५।०१-३७५।०२]
सत्यालम्बनत्वात् ।

[३७५।०२]
वितथालम्बनास्तु ।
कतमश्च क्लेशो नैवमस्ति विशेषः ।

[३७५।०२-३७५।०४]
आत्मदृष्टिहि रूपादिके वस्तुनि कारकवेदकवशवर्तित्वेनात्मत्वमभूतमध्यारोपयति तदधिष्ठानानुवृत्ताश्चान्तग्राहदृष्टच्यादय इत्यवस्तुका उच्यन्ते ।

[३७५।०४-३७५।०६]
भावनाहेयास्तु रागप्रतिघमानाविद्या रूपादिके वस्तुनि केवलं सक्त्याघातोन्नत्यसंप्रख्यानभावेन वर्तन्त इति सवस्तुका उच्यन्ते ।

[३७५।०६-३७५।०७]
अस्ति च तच्ध्रातादिमात्रं यत्र तेषां प्रवृत्तयः न त्वात्मादिलेशोऽपि ।

[३७५।०७-३७५।०८]
तथा हि भावनाहेयानामस्ति प्रतिनियतं वस्तुमनापामनापलक्षणं न तु दर्शनहेयानामात्मादिलक्षणम् ।

[३७५।०८-३७५।०९]
तस्मादप्यवस्तुकाउच्यन्ते ।

[३७५।०९-३७५।१०]
अपि खल्वार्यस्यानुपनिध्यायतः स्मृतिसंप्रमोषात्क्लेश उत्पद्यते नोपनिध्यायतो रज्ज्वामिव सर्पसंज्ञा ।

[३७५।१०-३७५।१२]
न चानुपनिध्यायत आत्मदृष्टच्यादीनामुपपत्तिर्युज्यते सन्तीरकत्वादिति नास्ति दर्शनहेयक्लेश प्रहाणात्परिहाणिः ।

[३७५।१२]
अर्हत्वादपि नास्ति परिहाणिरिति सौत्रान्तिकाः ।

[३७५।१२-३७५।१३]
एष एव चन्यायः ।

[३७५।१३]
कथमिदं गम्यते ।
आगमाद्युक्तितश्च ।
कथमागमात् ।

[३७५।१३-३७५।१४]
“तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया प्रहीणमि”त्युक्तम् ।

[३७५।१४-३७५।१५]
आद्यन्तयोश्च फलयोरार्ययैव प्रज्ञयाऽधिगमः ।
[३७५।१५-३७५।१६]
“शैक्षस्य चाप्रमादकरणियेऽप्रमादकरणीयं वदामी” त्युक्तं नाऽर्हतः ।

[३७५।१६-३७५।१७]
“अर्हतोऽप्यहमानन्द लाभसत्कारमन्त्रायकरं वदामी”त्यत्र सूत्रे दृष्टधमेसुखविहारमात्रादेव परिहाणिरुक्ता ।

[३७५।१७-३७५।१८]
“या त्वनेनाकोप्यचेतोविमुक्तिः कायेन साक्षात्कृता ।

[३७५।१८]
ततोऽहं न केनचित्पर्यायेण परिहाणं वदामी”ति चोक्तम् ।

[३७५।१९]
सामयिक्या अस्तीति चेत् ।
वयमप्येवं ब्रूमः ।
सा तु विचार्या ।

[३७५।१९-३७५।२०]
किमर्हत्त्वमाहोस्विद्धच्यानानीति ।

[३७५।२०-३७५।२१]
मौलो हि ध्यानसमाधिः समये संमुखीभावात्सामयिकी चिमुक्तिरित्युच्यते ।

[३७५।२१]
दृष्टधर्मसुखविहारार्थं च पुनः पुनरेषणीयत्वात्कान्तेत्युच्यते ।

[३७५।२२]
आस्वादनीयत्वादित्यपरे ।

[३७५।२२-३७५।२३]
अर्हत्त्वविमुक्तिस्तु नित्यानुगतत्वान्न युज्यते ।सामयिकी अपुनःप्रर्थनीयत्वान्न कान्तेति ।

[३७५।२३-३७५।२४]
यदि चार्हत्त्वात्परिहणिसंभवोऽभविष्यत्किमर्थं भगवानाधिचेतसिकेभ्य एव दृष्टधर्मसुखविहारेभ्यः परिहाणिमवक्ष्यत् ।

[३७५।२४-३७५।२५]
अतो गम्यते सर्वस्यैवार्हतो विमुक्तिरकोप्यादृष्टध्र्मसुखविहारेत्युस्तु ।

[३७५।२५-३७५।२६]
कश्चित्लाभसत्कारव्याक्षेपदीषात्परिहीयते वशित्वब्र्हशाद्यो मृद्विन्द्रियः ।

[३७५।२७]
कश्चिन्न परिहीयते यस्तीक्ष्णेन्द्रियः ।
तत्र यः परिहीयते स परिहाणधर्मा ।

[३७५।२७-३७५।२८]
यो न परिहीयते सोऽपरिहाणधर्मा ।

[३७५।२८]
एवं चेतनाधर्मादयोऽपि योज्याः ।

[३७५।२८-३७६।०१]
अपरिहाणधर्मस्थिताकम्प्याकोप्यधर्मणां को विशेषः ।

[३७६।०१]
अपरिहाणधर्माऽनुत्तापनागतः ।

[३७६।०२]
अकोप्यधर्मा तूत्तापनागतः ।

[३७६।०२-३७६।०३]
तौ हि यं यमेव समापत्तिविशेषमुत्पादयतस्तस्मान्न परिहीयेते ।

[३७६।०३-३७६।०४]
स्थिताकम्प्यस्तु यस्मिन्नेव गुणे स्थितस्तस्मात्केवलं न परिहीयते न त्वन्यमुत्पादयति ।

[३७६।०४]
उत्पादयति वा तस्मात्तु कम्पत इत्येव विशेषो लक्ष्यते ।

[३७६।०५-३७६।०७]
आयुष्मान्भौतिकः शैक्षीभूतः सामयिक्या विमुक्तेरत्यास्वादनान्मृद्विन्द्रियत्वाच्चभीक्ष्णं परिहीयमाणो निर्विण्नः शस्त्रमाधारयन् कायजीवितनिरपेक्षत्वान्मरणकाल एवार्हत्त्वप्राप्तः परिनिर्वृत्तश्च ।

[३७६।०७]
तस्मात्सोऽपि नार्हत्त्वात्परिहीणः ।

[३७६।०७-३७६।०८]
दशोत्तरे चोक्तम् ।

[३७६।०८]
“एको धर्म उत्पादयितव्यः सामयिकी कान्ता चेतोविमुक्तिः ।

[३७६।०८-३७६।०९]
एको धर्मः साक्षात्कर्तव्यः अकोप्या चेतोविमुक्तिरि”ति ।

[३७६।०९-३७६।१०]
यदि चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत्किमर्थं तत्रैव दशकेऽर्हत्त्वस्य द्विग्रहणमकरिष्यात् ।

[३७६।१०-३७६।११]
न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् ।

[३७६।११]
किं तर्हि ।

[३७६।११-३७६।१२]
साक्षात्कर्तव्यं मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति ।

[३७६।१२]
किमनेन ज्ञापितं भवति ।

[३७६।१२-३७६।१३]
यदि तावदुत्पादयितुं शक्यमित्यदपि शक्यम् ।

[३७६।१३]
अथोत्पादनमर्हतीति ।

[३७६।१३-३७६।१४]
अन्यत्सुतरामर्हति ।

[३७६।१४]
तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् ।

[३७६।१४-३७६।१५]
कथं तर्हि समयविमुक्तोऽर्हन्नुच्यते ।

[३७६।१५]
यस्य मृद्विन्द्रियत्वात्समयापेक्षः समाधिसमुखीभावः ।

[३७६।१५-३७६।१६]
विपर्ययादसमयविमुक्तः ।

[३७६।१६]
अभिधर्मेऽपि चोक्तं “त्रिभिः स्थानेः कामरागानुशयस्योत्पादो भवति ।

[३७६।१७-३७६।१८]
कामरागानुशयिओऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार” इति ।

[३७६।१८]
परिपूर्णोत्पत्तिरेवमिति चेत् ।

[३७६।१९]
कस्य वा परिपूर्णकारणस्योत्पत्तिः ।
एवं तावदागमात् ।
कथं युक्तितः ।

[३७६।१९-३७६।२१]
यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा अत्यन्तमनुत्पत्तिधर्मतामापन्नाः कथं पुनः परिहीयते ।

[३७६।२१]
अथ नोत्पन्नः ।
कथं क्षीणास्रवो भवति ।

[३७६।२१-३७६।२२]
अत्यन्तमनयोद्ध्रतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः कथमर्हन्भवतीत्येवं युक्तिः ।

[३७६।२२-३७६।२३]
अङ्गारकर्षूपोमं सूत्रं तर्हि परिहार्यम् ।

[३७६।२३-३७६।२५]
यत्रेदमुक्तं “तस्य खलु श्रुतवत आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित्कर्हिचित्स्मृतिसंप्रमोषादुत्पद्यन्ते पापका अकुशला वितर्का” इति ।

[३७६।२५]
स हि तत्रार्हन्नेव ज्ञापितः ।

[३७६।२५-३७७।०१]
“दीर्घरात्र विवेकनिम्नं चित्तं भवति यावन्निर्वाणप्राग्भारमि”ति वचनात् ।

[३७७।०१-३७७।०२]
अर्हतो ह्येतद्बलमन्यत्रोक्तम् ।

[३७७।०२-३७७।०३]
“सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतमि”ति चाभिधानातस्त्येतदेवम् ।

[३७७।०३-३७७।०४]
यावत्तु चारो न सुप्रतिबद्धस्तावदेवं चरतोऽपि शैक्षस्यास्ति संभवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं वचनाददोषः ।

[३७७।०५]
प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात्फलद्वयात्परिहाणिः ।

[३७७।०५-३७७।०६]
अर्हत्त्वादपि तु परिहाणिं वर्णयन्ति वैभाषिकाः ।

[३७७।०७]
किं पुनरिमेऽर्हन्त एव षड्गोत्रा भवन्ति अथान्येऽपि षड्गोत्रा भवन्ति ।

[३७७।०८]
शैक्षानार्याश्च षड्गोत्राः

[३७७।०९]
शैक्षपृथग्जना अप्येवं षड्गोत्राः ।
तत्पूर्वकाण्येव ह्यर्हतां गोत्राणि ।
अपि तु

[३७७।१०]
संचारो नास्ति दर्शने ॥ ६.५८ ॥

[३७७।११]
दर्शनमार्गादन्यत्रेन्द्रियसंचारो भवति ।
प्रयोगासंभवान्न दर्शनमार्गे ।

[३७७।११-३७७।१२]
कश्चित्पृथग्जनावस्थायामिन्द्रियाणि संचरति ।

[३७७।१२]
कश्चिच्छद्धाधिमुक्तावस्थायाम् ।

[३७७।१३-३७७।१६]
यदिदं सूत्र उक्तं “ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा अधिगतास्ततोऽहमस्यान्यतमान्यतमस्मात्परिहाणिं वदामि या त्वनेनैकाकिना यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता ततोऽहं न केनचित्पर्यायेण परिहाणिं वदामी”ति ।

[३७७।१६-३७७।१७]
कथमकोप्यधर्मणो दृष्ट्धर्मसुखविहारेभ्यः परिहाणिः ।

[३७७।१८]
परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः ।

[३७७।१९]
प्राप्तपरिहाणिर्यदि प्रतिलब्धात्गुणात्परिहीयते ।

[३७७।१९-३७७।२०]
अप्राप्तपरिहाणिर्यदि प्राप्यं गुणं न प्राप्नोति ।

[३७७।२०]
उपभोगपरिहाणिर्यदि प्राप्तगुणं न संमुखीकरोति ।

[३७७।२०-३७७।२१]
आसां पुनः परिहाणीनाम्

[३७७।२२]
अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा ॥ ६.५९ ॥

[३७८।०१]
बुद्धस्योपभोगपरिहाणिरेव नान्या ।
अकोप्यधर्मणः सा चाप्राप्तपरिहाणिश्च ।

[३७८।०२]
पुद्गलविशेषधर्माप्रापणात् ।
अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति ।

[३७८।०२-३७८।०३]
अत उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः ।

[३७८।०३]
सर्वस्यानास्रवा विमुक्तिरकोप्या ।

[३७८।०४]
अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् ।
अत एतद्चोद्यमित्यपरिहाणिवादी ।

[३७८।०५]
अथ योइऽर्हत्फलात्परिहीयते किमसौ पुनर्जायते ।
नास्त्येतत् ।
यस्मात्

[३७८।०६]
म्रियते न फलभ्रष्टः

[३७८।०७]
नैव हि कश्चित्फलात्परिहीणः कालं करोति ।

[३७८।०७-३७८।०९]
“धन्धा भिक्षव आर्यश्रावकस्य स्मृतिसंप्रमोषा अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छनीति सूत्रे वचनात् ।

[३७८।०९]
अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् ।

[३७८।०९-३७८।१०]
यतश्च फलात्परिहीयते तत्फलस्थेन यदकार्यं

[३७८।११]
तादकार्यं करोति न ।

[३७८।१२]
परिहीणोऽपि संस्तत्फलविरुद्धां क्रियां न करोति ।
शूरप्रस्खलनापतनवत् ।

[३७८।१३]
अथेन्द्रियाणि संचरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति ।
[३७८।१४]
विमुक्त्यानन्तर्यपथा नवोकोप्ये

[३७८।१५-३७८।१६]
अकोप्यगोत्रे प्रतिविध्यमाने प्रितिवेधभावनाभव्यस्य नवानन्तर्यमार्गा विमुक्तिमार्गाश्च भवन्ति ।

[३७८।१६]
यथार्हत्त्वं प्राप्नुवतः ।
किं कारणम् ।

[३७८।१७]
अतिसेवनात् ॥ ६.६० ॥

[३७८।१८]
तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्त्तयितुं शक्यते ।

[३७८।१८-३७८।१९]
शैक्षाशैक्ष मार्गभ्यां दृढीकृतत्वात् ।

[३७८।२०]
दृष्टच्याप्ततायामेकैकः

[३७९।०१-३७९।०२]
दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवत्येको विमुक्तिमार्गः ।

[३७९।०२]
प्रयोगमार्गस्तु सर्वत्रैक एव ।
ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः

[३७९।०३]
अनास्रवाः

[३७९।०४]
न हि सास्रवेण मार्गेणार्याणामिन्द्रियसंचारः ।
क्व पुनरिन्द्रियाणि वर्धन्ते ।

[३७९।०५]
नृषु वर्धनम् ।

[३७९।०६]
मनुष्येष्वेवेन्द्रियसंचारो नान्यत्र ।
परिहाण्यसंभवात् ।

[३७९।०७]
कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति ।

[३७९।०८]
अशैक्षो नव निश्रित्य भूमीः

[३७९।०९]
अनागम्यस्यानन्तरं चत्वारि ध्यानानि त्रीणि चारुप्याणि ।

[३७९।१०]
शैक्षस्तु षट्

[३७९।११]
आरुप्यवर्ज्यः ।
किं कारणम् ।

[३७९।१२]
यतः ॥ ६.६१ ॥

[३७९।१३]
सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् ।

[३७९।१४-३७९।१५]
इन्द्रियाणि हि संचरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियगोत्रकं फलमार्गमेव प्रतिलभते ।

[३७९।१५-३७९।१६]
न चानागामिफलमारुप्यभूमिसंगृहीतमस्तीत्येतत्कारणम् ।

[३७९।१७]
त एते षडेवार्हन्तो नव भवन्ति ।
इन्द्रियभेदात् ।
कथं कृत्वा ।

[३७९।१८]
द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः ॥ ६.६२ ॥

[३८०।०१]
कतमे सप्त श्रावकाः ।
परिहाणधर्मादयः पञ्च ।

[३८०।०१-३८०।०२]
अकोप्यधर्मा च द्विविध उत्तापनागत आदितश्च तद्गोत्रः अकोप्यभेद एव ।

[३८०।०२]
द्वौ बुद्धौ प्रत्येकबुद्धो बुद्धश्च ।

[३८०।०३]
इत्यते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति ।

[३८०।०४]
सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति ।

[३८०।०४-३८०।०५]
श्रद्धानुसारी धर्मानुसारी श्रद्धाधिमुक्तो दृष्टिओप्राप्तः कायसाक्षी प्रज्ञाविमुक्त उभयतोविमुक्तश्च ।

[३८०।०५]
एते पुनः

[३८०।०६]
प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः ।

[३८०।०७]
पुद्गलाः सप्त

[३८०।०८]
प्रयोगतः श्रद्धाधर्मानुसारिणौ ।
पूर्वमेव परप्रत्ययधर्मानुसाराभ्यामर्थेषु प्रयोगात् ।

[३८०।०९]
इन्द्रियत श्रद्धाधिमुक्तदृष्टिप्राप्तौ ।

[३८०।०९-३८०।१०]
मृदुतीक्ष्णेन्द्रियत्वात्श्रद्धाधिमोक्षप्रज्ञाधिक्यतः ।

[३८०।१०-३८०।११]
समापत्तितः कायसाक्षी निरोधसमापत्ति साक्षात्करणात् ।

[३८०।११]
विमुक्तितः प्रज्ञाविमुक्तः ।
समापत्तिविमुक्तितः उभयतोभागविमुक्तः ।

[३८०।१२]
नामत एते सप्त पुद्गलाः ।

[३८०।१३]
षट्त्वेते ।

[३८०।१४]
द्रव्यतस्त्वेते षट्भवन्ति ।

[३८०।१५]
द्वौ द्वौ मार्गत्रये यतः ॥ ६.६३ ॥

[३८०।१६]
दर्शनमार्गे हि द्वौ पुद्गलौ श्रद्धाधर्मानुसारिणौ ।
तावेव भावनामार्गे द्वौ भवतः ।

[३८०।१७]
श्रद्धाधिमुक्तदृष्टिप्राप्तौ ।
तौ पुनरशैक्षमार्गे द्वौ भवतः ।
समयासमयविमुक्ताविति ।

[३८०।१८]
तत्रेन्द्रियतस्त्रयः ।
श्रद्धानुसारिणः गोत्रतः पञ्च ।
मार्गतः पञ्चदश ।

[३८०।१८-३८०।१९]
अष्ट क्षान्तिसप्तज्ञानस्थाः ।

[३८०।१९]
वैराग्यतस्त्रिसप्ततिः ।
सकलबन्धनः ।
कामवैराग्यान्नव ।

[३८०।२०]
एवं यावदाकिञ्चन्यायतनवैराग्यात् ।
आश्रयतो नव ।
त्रिद्वीपषाड्देवनिकायजाः ।

[३८०।२१-३८०।२२]
इन्द्रियगोत्रमार्गवैराग्याश्रयतः पण्डिताः शतसहस्रं संपद्यन्ते सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविशतिश्च ।

[३८०।२२]
एवमन्येऽपि पुद्गलाः संभवतः संख्येयाः ।

[३८१।०१]
कोयिमुभयतोभागविमुक्त इत्युच्यते कश्च प्रज्ञाविमुक्तः ।

[३८१।०२]
निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः ।

[३८१।०३]
यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः ।

[३८१।०३-३८१।०४]
प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वात् ।

[३८१।०४]
इतरः प्रज्ञाविमुक्तः ।

[३८१।०४-३८१।०५]
प्रज्ञाबलेन केवलं क्लेशावरणविमुक्तत्वात् ।

[३८१।०६-३८१।०७]
यदुक्तं भगवता “क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णः शैक्ष” इति ।

[३८१।०७]
कियता परिपूर्णः शैक्षो भवति ।

[३८१।०८]
समापत्तिन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते ॥ ६.६४ ॥

[३८१।०९]
त्रिविधा शैक्षस्य परीपूरिः ।
फलतः इन्द्रियतः समापत्तितश्च ।

[३८१।०९-३८१।१०]
फलत एव श्रद्धाधिमुक्तस्याकायसाक्षिणोऽनागामिनः ।

[३८१।१०-३८१।११]
इन्द्रियत एव दृष्टिप्राप्तस्यावीतरागस्य ।

[३८१।११]
फलेन्द्रियतो दृष्टिप्राप्तस्य कायसाक्षिणोऽनागामिनः ।

[३८१।११-३८१।१२]
फलसमापत्तितः श्रद्धाधिमुक्तस्य कायसाक्षिणः ।

[३८१।१२]
फलेन्द्रियसमापत्तितो दृष्टिप्राप्तस्य कायसाक्षिणः ।

[३८१।१३]
समापत्तित एव समापत्तीन्द्रियश्च परिपूर्णत्वं नास्ति विन फलेन ।

[३८१।१४]
अशैक्षपरिपूर्णत्वं द्वाभ्याम्

[३८१।१५]
इन्द्रियतः समापत्तिश्च ।

[३८१।१५-३८१।१६]
फलेन त्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य पुनः फलेन परिपूर्णपरिपूर्णत्वं व्यवस्थाप्यते ।

[३८१।१६-३८१।१७]
इन्द्रियतेवासमयविमुक्तस्य प्रज्ञाविमुक्तस्य ।

[३८१।१७]
समापत्तित एव समयविमुक्तस्योभयभागविमुक्तस्य ।

[३८१।१७-३८१।१८]
इन्द्रियसमापत्तिभ्यामसमयविमुक्तस्योभयतोभागविमुक्तस्य ।

[३८१।१९-३८१।२०]
वहव इमे मार्गभेदा उक्ता लौकिकलोकोक्त्तरदर्शनभावनाऽशैक्षमार्गाः प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति ।

[३८१।२०]
कतिविध एष समासतो मार्ग इति ।

[३८१।२१]
मार्गः समासतः ।

[३८१।२२]
विशेषमुक्त्यानन्तर्यप्रयोगाख्यश्चतुर्विधः ॥ ६.६५ ॥

[३८२।०१]
प्रयोगमार्गो यस्मादनन्तर्मानन्तर्यमार्गोत्पत्तिः ।

[३८२।०१-३८२।०२]
आनन्तर्यमार्गो येनावरणं प्रजहाति ।

[३८२।०२]
विमुक्तिमार्गो यस्तत्प्रहेयावरणविनिर्मुक्तस्तत्प्रथमत उत्पद्यते ।

[३८२।०३]
विशेषमार्गो य एभ्योऽन्यो मार्गः ।
कस्मात्मार्ग इत्युच्यते ।

[३८२।०३-३८२।०४]
एष हि निर्वाणस्य पन्था एतेन तद्गमनात् ।

[३८२।०४]
निर्वाणं मार्गयन्त्यनेनेति वा ।
[३८२।०४-३८२।०५]
विमुक्तिविशेषमार्ग योः कथं मार्गत्वम् ।

[३८२।०५-३८२।०६]
तज्जातीयादधिमात्रतरत्वादुत्तरोत्तरप्रापणात्निरूपधिशेषप्रवेशाद्वा ।

[३८२।०७]
मार्ग एव पुनः प्रतिपदित्युक्तो निर्वाणप्रतिपादनात् ।
चतस्रः प्रतिपदः ।

[३८२।०८]
अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा ।
अस्ति दुःखा क्षिप्राभिज्ञा ।

[३८२।०८-३८२।०९]
एवं सुखाऽपि द्विधा ।

[३८२।०९]
तत्र

[३८२।१०]
ध्यानेषु मार्गः प्रतिपत्सुखा

[३८२।११-३८२।१२]
चतुर्ध्यानेषु मार्गः सुखा प्रतिपदङ्गपरिग्रह शमथविपश्यना समताभ्यामयिअत्नवाहित्वात् ।

[३८२।१३]
दुःखाऽन्यभूमिषु ।

[३८२।१४-३८२।१६]
अन्यास्वनागम्यध्यानान्तरारुप्यभूमिषु मार्गो दुःखा प्रतिदङ्गापरिग्रहाच्छमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात्शमथन्यूने ह्यनागम्यध्यानान्तरे विपश्यनान्यूना आरुप्या इति ।

[३८२।१६]
सा पुनर्द्विविधाऽपि प्रतिपत्

[३८२।१७]
धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु ॥ ६.६६ ॥

[३८२।१८-३८२।१९]
मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा धन्धाभिज्ञा अस्यां प्रतिपदि ।

[३८२।१९]
सेयं धन्धाभिज्ञा ।

[३८२।१९-३८२।२०]
एवं क्षिप्राभिज्ञा ।

[३८२।२०]
धन्धस्य वा पुद्गलस्येयमिति धन्धाभिज्ञा ।

[३८२।२०-३८२।२१]
पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते ।

[३८२।२१]
सप्तत्रिंशद्वोधिपक्षा धर्माः ।
चत्वारि स्मृत्युपस्थानानि ।

[३८२।२२]
चत्वारि सम्यक्प्रहाणानि ।
चत्वार ऋद्धिपादाः ।
पञ्चेन्द्रियाणि ।

[३८२।२२-३८२।२३]
पञ्च बलानि ।

[३८२।२३]
सप्त बोध्यङ्गानि ।
आर्याष्टाङ्गो मार्गः इति ।
तत्र

[३८२।२४]
अनुत्पादक्षयज्ञाने बोधिः

[३८३।०१]
क्षयज्ञानमनुत्पादज्ञानं च ।
पुद्गलभेदेन तिस्रो बोधय उत्पद्यन्ते ।

[३८३।०१-३८३।०२]
श्रावकबोधिः प्रत्येकबोधिरनुत्तरा सम्यक्संबोधिरिति ।

[३८३।०२]
अशेषाविद्याप्रहाणात् ।

[३८३।०२-३८३।०३]
ताभ्यां स्वर्थस्य यथाभूत कृतापुनःकर्तव्यताववोधाच्च ।

[३८३।०४]
तादनुलोम्यतः ।

[३८३।०५]
सप्तत्रिंशत्तु तत्पक्ष्याः

[३८३।०६]
बोधेरनुलोमत्वाद्बोधिपक्ष्याः सप्तत्रिंशदुत्पद्यन्ते ।

[३८३।०७]
नामतो द्रव्यतो दश ॥ ६.६७ ॥

[३८३।०८]
दश द्रव्याणि सर्वे बोधिपक्ष्याः ।
कतमानि दश ।

[३८३।०९]
श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे ।

[३८३।१०]
प्रश्रब्धिशीलसंकल्पाः

[३८३।११]
इत्येतानि दश द्रव्याणि ।
कथं कृत्वा ।

[३८३।१२]
प्रज्ञा हि स्मृत्युपस्थितिः ॥ ६.६८ ॥

[३८३।१३]
वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः ।

[३८३।१४-३८३।१७]
प्रज्ञावीर्यसमाधिस्वभाधा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः अत इन्द्रियाणि तावद्वलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि च स्मृत्युपस्थानानि धर्मप्रविचयसंबोध्यङ्गं सम्यगृष्टिश्च प्रज्ञैव ।

[३८३।१७]
सम्यक्प्रहाणानि वीर्यसंबोध्यङ्गं सम्यग्व्यायामश्च वीर्यमेव ।

[३८३।१७-३८३।१८]
ऋद्धिपादाः समाधिसम्बोध्यङ्गं सम्यक्समाधिश्च समाधिरेव ।

[३८३।१८-३८३।१९]
स्मृतिसंबोध्यङ्गं सम्यक्स्मृतिश्च स्मृतिरेव ।

[३८३।१९]
किमवशिष्यते ।

[३८३।१९-३८३।२०]
प्रीतिप्रस्रब्ध्युपेक्षसंबोध्यङ्गानि सम्यक्संकल्पः शीलाङ्गनि च ।

[३८३।२०-३८३।२१]
तान्येतानि पञ्च द्रव्याणि एवमेते बोधिपक्ष्या दश द्रव्याणि भवन्ति ।

[३८३।२१]
वैभषिकाणा मेकादश ।

[३८३।२१-३८४।०१]
कायवाक्कर्मणोरसंभिन्नत्वात्शीलाङ्गानि द्वे द्रव्ये इति ।

[३८४।०१-३८४।०२]
यत्त्वेतदुक्तं “प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादय” इति ।

[३८४।०२]
अत्र वेदितव्यम् ।

[३८४।०३]
प्रधानग्रहणं सर्वे गुनाः प्रायोगिकास्तु ते ॥ ६.६९ ॥

[३८४।०४]
प्रधानग्रहणेनैवमुक्तम् ।

[३८४।०४-३८४।०५]
सर्वे तु प्रायोगिका गुणाःः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः ।

[३८४।०५]
कस्माद्वीर्य सम्यक्प्रधानमुक्तम् ।

[३८४।०५-३८४।०६]
तेन सम्यक्कायवाङ्मनांसि प्रधीयन्ते ।

[३८४।०६]
समाधिः कस्मादृद्धिपाद उक्तः ।
तत्प्रतिष्ठत्वात्सर्वगुणसंपत्तेः ।

[३८४।०७]
ये त्वाहुः “समाधिरेवर्द्धिः पादाश्छन्दादय” इति ।

[३८४।०७-३८४।०८]
तेषां द्रव्यतस्त्रयोदश बोधिपक्ष्याः प्राप्नुवन्ति ।

[३८४।०८]
च्छन्दचित्तयोइराधिक्यात्सूत्रं च विरुध्यते ।

[३८४।०८-३८४।०९]
“ऋद्धिं च वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांशच यावदृद्धिः कतमा ।

[३८४।०९-३८४।१०]
इह भिक्षुरनेकविधमृद्धिविषयं प्रत्यनुभवति ।

[३८४।१०]
एको भूत्वा बहुधा भवती”ति विस्तरः ।

[३८४।११]
कस्मादिन्द्रियाण्येव वलान्युक्तानि ।
मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनीयत्वात् ।

[३८४।१२]
इन्द्रियाणां किङ्कृतोऽनुक्रमः ।
श्रद्दधानो हि फलार्थं वीर्यमारभते ।

[३८४।१२-३८४।१३]
आरब्धवीर्यस्य स्मृतिरूपतिष्ठते ।

[३८४।१३]
उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते ।

[३८४।१३-३८४।१४]
समाहितचित्तो यथाभूतं प्रजानातीति ।

[३८४।१५]
कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते ।

[३८४।१६-३८४।१७]
आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः ।
भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ ६.७० ॥

[३८४।१८]
आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि ।

[३८४।१८-३८४।१९]
विशेषाधिगमेन वीर्यसंबधंनादूष्मगतेषु सम्यक्प्रधानानि ।

[३८४।१९-३८४।२०]
अपरिहाणीयकुशलमूलप्रवेशत्वात्मूर्धष्वृद्धिपादाः ।

[३८४।२०]
अपुनःपरिहाणित आधिपत्यप्राप्तत्वात्क्षान्तिष्विन्द्रियाणि ।

[३८४।२१]
क्लेशानवमर्दनीयत्वाद्ग्रधर्मेषु बलानि लौकिकान्यधर्मानवमर्दनीयत्वाद्वा ।

[३८४।२१-३८४।२२]
बोध्यासन्नत्वात्भावनामार्गे बोध्यङ्गानि ।

[३८४।२२]
गमनप्रभावित्वाद्दर्शनमार्गे मार्गाङ्गानी ।

[३८४।२३]
तस्याशुगामित्वात् ।
संख्यानुपूर्वीविधानार्थं तु पूर्व सप्तोक्तानि पश्चादष्टौ ।

[३८४।२३-३८४।२५]
तत्र धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं च सम्यग्दृष्टिर्मार्गो मार्गाङ्गं चेति वैभाषिकाः ।

[३८४।२५-३८४।२६]
अपरे पुनरभित्त्वैव क्रमं बोधिपक्ष्याणामानुपूर्वी वर्णयन्ति ।

[३८४।२६-३८५।०२]
“आदित एव तावद्वहुविधविषपव्यासेकविसारिणीनां बुद्धीनां निग्रहार्य स्मृत्युपस्थानानि चेतस उपनिबद्धानि भवन्ति यावदेव गर्धाश्रितानां स्मरसंकल्पानां प्रतिविनोदनाये”ति सूत्रे वचनात् ।

[३८५।०२-३८५।०३]
तद्वलेन वीर्यसंवर्धनाच्चतुर्विधकार्यसंपादनाय सम्यक्चित्तं प्रदधातीति सम्यक्प्रधानानि ।

[३८५।०३-३८५।०४]
ततः समाधिविशोधनादृद्धिपादाः ।

[३८५।०४]
समाधिसंनिश्रयेण लोकोत्तरधर्माधिपतिभूतानि श्रद्धादीनीन्द्रियाणि ।

[३८५।०५]
तान्येव च निर्जितविपक्षसमुदाचाराणि बलानि ।
दर्शनमार्गे बोध्यङ्गानि ।

[३८५।०६]
प्रहमतो धर्मतत्त्वावलोकातुभयोर्मार्गाङ्गानि ।

[३८५।०६-३८५।०७]
तथा ह्युक्तम् “आर्याष्टाङ्गे खलु मार्गे भावनापरिपूरि गच्छति ।

[३८५।०७-३८५।०८]
चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं गच्छन्ति यावत्सप्त बोध्यङ्गानी”ति ।

[३८५।०८-३८५।१०]
पुनश्चोक्तं “यथाभूतवचनारोचनमिति भिक्षवश्चतुर्णामार्यसत्यानामेतदधिवचनं यथागतेन मार्गेण प्रक्रमणमिति भिक्षो आर्याष्टाङ्गस्य मार्गस्यैतदधिवचनमि”ति ।

[३८५।१०-३८५।११]
तस्मादुभयोरार्याष्टाङ्गो मार्ग एष्टव्यः ।

[३८५।११]
सिद्धोऽनुक्रमः ।

[३८५।१२]
इदं तु वक्तव्यम् ।

[३८५।१२-३८५।१३]
कति बोधिपक्षा धर्माः सास्रवा इति कत्यनास्रवा इति ।

[३८५।१४]
अनास्रवाणि बोध्यङ्गमार्गाङ्गानि

[३८५।१५]
भावनादर्शनमार्ग योस्तद्वच्यवस्थापनात् ।

[३८५।१५-३८५।१६]
लौकिका अपि हि सम्यग्दृष्टच्यादयः सन्ति ।

[३८५।१६]
ते तु नार्यमार्गशब्दं लभन्ते ।

[३८५।१७]
द्विधेतरे ।

[३८५।१८]
अन्ये बोधिपक्षाः सास्रवाः ।
कस्यां भूमौ कति बोधिपक्षाः ।

[३८५।१९]
सकलाः प्रथमे ध्याने

[३८५।२०]
सर्वे सप्तत्रिंशत्प्रथमे ध्याने ।

[३८५।२१]
अनागम्ये प्रीतिवर्जिताः ॥ ६.७१ ॥

[३८५।२२]
कस्मादनागम्ये प्रीत्यभावः ।

[३८५।२२-३८५।२३]
सामन्तकानां बलवाहनीयत्वादधरभूमिसाशङ्कत्वाच्च ।

[३८६।०१]
द्वितीयेऽन्यत्र संकल्पात्

[३८६।०२]
द्वितीये ध्याने सम्यक्संकल्पवर्ज्याः षट्त्रिंशदेव ।
तत्र वितर्काभावात् ।

[३८६।०३]
द्वयोस्तद्द्वयवर्जिताः ।

[३८६।०४]
तृतीयचतुर्थयोर्ध्यानयोः प्रीतिसंकल्पाभ्यां वर्जिताः पञ्चत्रिंशत् ।

[३८६।०५]
ध्यानान्तरे च

[३८६।०६]
ताभ्यामेव द्वाभ्यां वर्जिताः पञ्चत्रिंशदेव ।

[३८६।०७]
शीलाङ्गैस्ताभ्यां च त्रिष्वरुपिषु ॥ ६.७२ ॥

[३८६।०८]
वर्जिता इति वर्तते ।

[३८६।०८-३८६।०९]
आरुप्येसु सम्यग्वाक्कर्मान्ताजीवैः प्रीतिसंकल्पाभ्यां च वर्जिता द्वात्रिंशत् ।

[३८६।१०]
कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः ।

[३८६।११]
द्वार्विशतिर्बोधिपक्ष्यास्तयोरनास्रवमार्गाभावात् ।

[३८६।१२]
बोधिपक्षेषु वर्तमानस्य कस्यामवस्थायामवेत्यप्रसादलाभो वेदितव्यः ।

[३८६।१३]
त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः ॥ ६.७३ ॥

[३८६।१४]
लाभो मार्गाभिसमये बुद्धतत्संघयिओरपि ।

[३८६।१५-३८६।१६]
दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्यकान्तानि च शीलानि प्रतिलभते ।

[३८६।१६-३८६।१७]
मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसंघेऽवेत्यप्रसादं प्रतिलभेते ।

[३८६।१७-३८६।१८]
यो हि तयोः प्रसादः सोऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षायाशैक्षेषु च संघकरकेषु प्रसादः ।

[३८६।१८]
अपि शब्दाच्छीलधर्मावेत्यप्रसादौ च प्रतिलभते ।

[३८६।१९]
कोऽयमिह धर्मोऽभिप्रेतः ।

[३८७।०१]
धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः ॥ ६.७४ ॥

[३८७।०२]
मार्गश्च

[३८७।०३]
अतश्चत्वर्यपि सत्यान्यभिसमयतो धर्मावेत्यप्रसादलाभः ।

[३८७।०३-३८७।०४]
त एते श्रद्धाधिष्ठानभेदान्नामतश्चत्वारोऽवेत्यप्रसादा उच्यन्ते ।

[३८७।०५]
द्रव्यतस्तु द्वे श्रद्धा शीलं च

[३८७।०६-३८७।०७]
बुद्धधर्मसंघावेत्यप्रसादाः श्रद्धास्वभावाः आर्यकान्तानि च शीलानि शीलमिति द्वे द्रव्ये भवतः ।

[३८७।०७]
किं पुनरेते सास्रवानास्रवा एकान्तेनावेत्यप्रसादाः ।

[३८७।०८]
निर्मला ।

[३८७।०९]
अवेत्यप्रसादा इति कोऽर्थः ।
यथाभूतसत्यान्यवबुध्य संप्रत्ययोऽवेत्यप्रसादः ।

[३८७।१०]
यथा च व्युत्थितः संमुखीकरोति तथैषामानुपूर्वीम् ।

[३८७।१०-३८७।११]
कथं व्युत्थितः संमुखी करोति ।

[३८७।११-३८७।१२]
सम्यक्संबुद्धो वत भगवान् स्वाख्यातोऽस्य धर्मविनयः सुप्रतिपन्नोऽस्य श्रावकसंघ इति वैद्यभैषज्योपस्थापकभूतत्वात् ।

[३८७।१२-३८७।१३]
चित्तप्रसादकृतश्च शीलप्रसाद इत्युच्यते चतुर्थ उक्तः ।

[३८७।१३]
एवं प्रसन्नस्यैषा प्रतिपत्तिरिति ।

[३८७।१४]
आरोग्यभूतत्वाद्वा देशिक मार्ग सार्थिकयानवद्वा ।

[३८७।१४-३८७।१५]
सूत्र उक्त”मष्टाभिरङ्गै समन्वागतः शैक्षो दर्शभिरङ्गैः समन्वागतोऽशैक्ष” इति ।

[३८७।१५-३८७।१६]
कस्माच्छैक्षस्य सम्यक्विमुक्तिः सम्यग्ज्ञानं च नोक्तम् ।

[३८७।१७]
नोक्ता विमुक्तिः शैक्षाङ्ग बद्धत्वात् ।

[३८७।१८]
बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति ।

[३८७।१८-३८७।१९]
कथं बद्धस्यैव सतो विमुक्तिर्व्यवस्थाप्येत ।

[३८७।१९]
न हि बन्धनैकदेशान्मुक्तो मुक्त इत्युच्यते ।

[३८७।१९-३८७।२०]
बिना च विमुक्तच्या कथं विमुक्तिज्ञानं व्यवस्थाप्यते ।

[३८७।२०-३८७।२१]
अशैक्षस्तु सर्वक्लेशबन्धनात्यन्तनिर्मोक्षाद्विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति तस्यैव तद्वचनं न्याय्यम् ।

[३८८।०१]
केयं विमुक्तिर्नाम ।

[३८८।०२]
सा पुनर्द्विधा ॥ ६.७५ ॥

[३८८।०३]
संस्कृता चासंस्कृता च ।
तत्र ।

[३८८।०४]
असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता ।

[३८८।०५]
क्लेशप्रहाणमसंस्कृता विमुक्तिः ।
अशैक्षाधिमोक्षः संस्कृता विमुक्तिः ।

[३८८।०६]
साङ्गः

[३८८।०७]
सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता ।
अङ्गानां संस्कृतत्वात् ।

[३८८।०८]
सैव विमुक्ती द्वे

[३८८।०९]
सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते ।

[३८८।०९-३८८।१०]
चेतो विमुक्तिः प्रज्ञाविमुक्तिश्च ।

[३८८।१०]
विमुक्तिस्क्न्धोऽपि स एव द्रष्ट्टव्यः ।

[३८८।१०-३८८।११]
यत्तर्हि सूत्र उक्तं “कतमच्च व्याग्राबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् ।

[३८८।११-३८८।१३]
इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तं द्वेषान्मोहाच्चित्तं विरक्तं भवति विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य चानुग्रहाय च्छन्दोवीर्यमि”ति विस्तरः ।

[३८८।१४]
तस्मानाधिमोक्ष एव विमुक्तिः ।
किं तर्हि ।

[३८८।१४-३८८।१५]
तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे ।

[३८८।१५]
उक्ता विमुक्तिः ।

[३८८।१६]
सम्यग्ज्ञानं तु सम्यग्दृष्टिः ।
व्यतिरिक्तं कतमत् ।

[३८८।१७]
ज्ञानं बोधिर्यथोदिता ॥ ६.७६ ॥

[३८८।१८]
यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् ।

[३८८।१८-३८८।१९]
यदुत क्षयज्ञानमनुत्पादज्ञानं च ।

[३८८।२०]
कतमत्पुनश्चित्तं विमुच्यते किमतीतमनागतं प्रत्युत्पन्नम् ।

[३८८।२१-४३८।८२१]
विमुच्यते जायमानसशैक्षं चित्तमावृतेः ।

[३८९।०१]
“अनागतं चित्तमुत्पद्यमानं विसुच्यते अशैक्षमावरणेभ्य” इति शास्त्रपाठः ।

[३८९।०२]
किं पुनस्तस्यावरणम् ।
क्लेशप्राप्तिस्तदुत्पत्तिविवन्धत्वात् ।

[३८९।०२-३८९।०३]
वज्रोपमे हि समाधो स च प्रहीयते ।

[३८९।०३]
तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते ।
सा च प्रहीणा भवति ।

[३८९।०४]
तचाशैक्षं चित्तमुत्पन्नं विमुक्तं च ।
यत्तर्हि नोत्पद्यमानं लौकिकं च ।

[३८९।०४-३८९।०५]
तदपि विमुच्यते ।

[३८९।०५]
यत्तु नियतमुत्पत्तौ तदेवोक्तम् ।

[३८९।०५-३८९।०६]
लौकिकं कुतो विमुच्यते ।

[३८९।०६]
तत एवोत्पत्त्यावरणात् ।

[३८९।०६-३८९।०७]
ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते न तत्तादृशम् ।

[३८९।०७]
कीदृशं तत् ।
क्लेशप्राप्तिसहितम् ।

[३८९।०७-३८९।०८]
किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति ।

[३८९।०९]
निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् ॥ ६.७७ ॥

[३८९।१०]
वर्तमान इत्यर्थः ।

[३८९।११-३८९।१२]
या चासंस्कृता विमुक्तिरुक्ता ये च त्रयोधातव उच्यन्ते प्रहाणधातुर्विंरागधातुनिरोधधातुरिति ।

[३८९।१२]
क एषां विशेषः ।

[३८९।१३]
असंस्कृतैव धात्वाख्या

[३८९।१४]
सैवासंस्कृता विमुक्तिस्त्रयो धातवः ।
तत्र पुनः

[३८९।१५]
विरागो रागसंक्षयः ।

[३८९।१६]
रागस्य प्रहाणं विरागधातुः ।

[३८९।१७]
प्रहाणधातुरन्येषाम् ।

[३८९।१८]
संक्षय इति वर्तते ।
रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः ।

[३८९।१९]
निरोधाख्यस्तु वस्तुनः ॥ ६.७८ ॥

[३८९।२०]
संक्षय इत्येवानुवर्तते ।
क्लेशनिर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः ।

[३८९।२१]
येन वस्तु निर्विद्यते विरज्यतेऽपि तेन वस्तुना ।
चतुष्कोटिकम् ।
कथं कृत्वा ।

[३९०।०१]
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः

[३९०।०२]
दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते नान्यैः ।

[३९०।०३]
विरज्यते ।

[३९०।०४]
सर्वैर्जहाति यैः

[३९०।०५]
सर्वैरपि दुःखसमुदयनिरोधमार्ग क्षान्तिज्ञानैर्विरज्यते ।

[३९०।०५-३९०।०६]
यैः क्लेशान् प्रजहाति ।

[३९०।०७]
एवं चतुष्कोटिकसंभवः ॥ ६.७९ ॥

[३९०।०८]
एवं चतुष्कोतिकं सिध्यति ।
निर्विद्यत एव दुःखसमुदयक्षान्तिज्ञानैः ।

[३९०।०९]
क्लेशान् प्रजहत्निर्वेदवस्त्वालम्बनत्वात् ।

[३९०।०९-३९०।१०]
विरज्यत एव निरोधमार्गक्षान्तिज्ञानैः क्लेशान् प्रजहत् ।

[३९०।१०]
प्रामोद्यवस्त्वालम्बनत्वात् ।

[३९०।१०-३९०।११]
उभयं पूर्वैः क्लेशान् प्रजहत् ।

[३९०।११]
नोभयमुत्तरैः क्लेशानप्रजहदिति ।

[३९०।११-३९०।१२]
तत्र वीतरागः सत्यानि पश्यन्धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति ।

[३९०।१२-३९०।१३]

ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गसंगृहीतैर्न प्रजहातीति ।

[३९०।१४-३९०।१५]
अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति

[३९०।१६]
॥श्री लामावाकस्य यदत्र पुण्यम् ॥
सप्तमं कोशस्थानम्

=====================================================================

नमो बुद्धाय

=====================================================================
[३९१।०२]
क्षान्तयश्चोच्यन्ते ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च ।

[३९१।०३]
किं पुनः क्षान्तयो न ज्ञानं सम्यग्ज्ञानं च न दृष्टिः ।

[३९१।०४]
नामला क्षान्तयो ज्ञानं

[३९१।०५]
तत्प्रहेयस्य विचिकित्साऽनुशयस्याग्रहीणत्वात् ।

[३९१।०५-३९१।०६]
दृष्टयस्तु ता सन्तिरणात्मकत्त्वात्यथा च क्षान्तयो दृष्टिर्न ज्ञानमेवं पुनः

[३९१।०७]
क्षयानुत्पादधीर्न दक् ।

[३९१।०८]
क्षयानमनुत्पादज्ञानं च न दृष्टिरसन्तीरणापरिमार्गणाशयत्वात् ।

[३९१।०९]
तद्न्योभयथार्या धीः

[३९१।१०]
क्षान्तिक्षयानुत्पादज्ञानेभ्योऽन्याऽनास्रवा प्रज्ञा दृष्टिः ज्ञानं च ।

[३९१।११]
अन्या ज्ञानं

[३९१।१२]
लौकिकी प्रज्ञा सर्वैव ज्ञानम् ।

[३९१।१३]
दृशश्च षट् ॥ ७.१ ॥

[३९१।१४]
पञ्च दृष्टयो लौकिकी च सम्यग्दृष्टिः ।

[३९१।१४-३९१।१५]
एषा षड्विधा लौकिकी प्रज्ञादृष्टिः अन्या न दृष्टिः ।

[३९१।१५]
ज्ञानं त्वेषा चान्या च ।
कियता सर्वज्ञानसंग्रहः ।
दशभिर्ज्ञानैः ।

[५९१।१६]३९११६]
समासेन तु

[३९१।१७]
सास्रवानास्रवं ज्ञानं

[३९१।१८]
तयोः पुनः

[३९१।१९]
आद्यं संवृतिज्ञापकम् ।

[३९२।०१]
यत्सास्रवं तत्संवृतिज्ञानम् ।
प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् ।

[३९२।०१-३९२।०२]
अज्ञानसंवृतत्वातित्यपरे ।

[३९२।०३]
अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च ॥ ७.२ ॥

[३९२।०४]
अनास्र्वं ज्ञानं द्विधा भिद्यते ।
धर्मज्ञानमन्वयज्ञानं च ।

[३९२।०४-३९२।०५]
एवगेते द्वे ज्ञाने त्रीणि भवन्ति ।

[३९२।०५]
संवृतिज्ञानं धर्मज्ञानं च ।
तत्र

[३९२।०६]
सांवृतं सर्वविषयं

[३९२।०७]
संवृतिज्ञानस्य सर्वधर्माः सष्कृतासंस्कृता आलम्बनं संभवतः ।

[३९२।०८]
कामदुःखदिगोचरम् ।

[३९२।०९]
धर्मख्यम्

[३९२।१०]
धर्मज्ञानस्य कामावचरं दुखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् ।

[३९२।११]
अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ७.३ ॥

[३९२।१२]
अन्वयज्ञानस्य रूपारुप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् ।

[३९२।१३]
ते एव सत्यभेदेन चत्वारि

[३९२।१४]
ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति ।

[३९२।१४-३९२।१५]
दुःखसमुदयनिरोधमार्गज्ञानानि ।

[३९२।१५]
तदालम्बनत्वात् ।

[३९२।१६]
एते चतुर्विधे ।

[३९२।१७]
अनुत्पादक्षयज्ञाने

[३९२।१८-३९२।१९]
एते एव धर्मज्ञानान्वयज्ञाने चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं चोच्यते ।

[३९२।२०]
ते पुनः प्रथमोदिते ॥ ७.४ ॥

[३९३।०१]
दुःखहेत्वन्वयज्ञाने

[३९३।०२-३९३।०३]
प्रथमोत्पन्ने तु क्षयज्ञानानुत्पादज्ञाने दुःखसमुदयान्वयज्ञाने दुःखसमुदयाकारैर्भावाग्रिकस्कन्धालम्बनत्वात् ।

[३९३।०३]
किं खलु वज्रोपमोऽपि ताभ्यामेकालम्वनोऽस्ति ।
[३९३।०४]
यदि दुःखसमुदयालम्वनो भवति ।
अथ निरोधमार्गालम्बनो नैकालम्बनः ।

[३९३।०५]
चतुर्भ्यः परचित्तवित् ।

[३९३।०६]
वेत्तीति वित्ज्ञानम् ।
परचित्तज्ञानं चतुर्भ्यो ज्ञानेभ्यो द्रष्टव्यम् ।

[३९३।०६-३९३।०७]
धर्मान्वयज्ञानमार्गः संवृतिज्ञानेभ्यः ।

[३९३।०७]
तस्य पुनरयं नियमः

[३९३।०८]
भूम्यक्षपुद्गलोत्क्रान्तं नष्टाजातं न वेति तत् ॥ ७.५ ॥

[३९३।०९]
भूम्यतिक्रान्तं न जानातीति ।

[३९३।०९-३९३।१०]
अधरध्यानभूमिकेनोत्तरध्यानभूमिकमिन्द्रियातिक्रान्तं न जानाति ।

[३९३।१०-३९३।११]
श्रद्धाधिमुक्तसमयमुक्तमार्गेण दृष्टिप्राप्तासमयविमुक्तार्ग पुद्गलोत्क्रान्तं न जानाति ।

[३९३।११-३९३।१२]
अनागाम्यहञ्च्छावक प्रत्येकबुद्धबुद्धमार्ग्गणामधरेणोत्तरं नष्टाजातं न जानाति ।

[३९३।१२-३९३।१३]
अतीतानागतं वर्तमानपर चित्तचैत्तविषयत्वात् ।

[३९३।१३]
किं च भूयः

[३९३।१४]
त धर्मान्वयधीपक्ष्यमन्योऽन्यं

[३९३।१५]
धर्मज्ञानपक्ष्यं परचित्तज्ञानमन्वयज्ञानपक्ष्यं चित्तं न जानाति ।

[३९३।१५-३९३।१६]
अन्वयज्ञानपक्ष्यं च धर्मज्ञानपक्ष्यं न जानाति ।

[३९३।१६]
कामधातुर्ध्वधातुप्रतिक्षालम्बनत्वात्तयोः ।

[३९३।१६-३९३।१७]
दर्शनमार्गे परचित्तज्ञानं नास्ति ।

[३९३।१७]
तदालम्बनं त्वस्ति ।

[३९३।१७-३९३।१८]
तत्र परचित्तज्ञानेन दर्ज्ञनमार्ग ज्ञातुकामः प्रयोगं कृत्वा प्रथमौ

[३९३।१९-३९३।२०]
दर्शनक्षणौ ।
श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धोऽप्रयोगतः ॥ ७.६ ॥

[३९३।२१]
श्रावको दर्शनमार्गात्परचित्तज्ञानेन द्वौ क्षणौ जानाति ।

[३९३।२१-३९३।२२]
दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च ।

[३९३।२२]
अन्वयज्ञानपक्षालम्बनस्यान्यप्रयोगसाध्यत्वात् ।

[३९३।२२-३९४।०१]
यावच्च स तत्र प्रयोगमार मते तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा न जानाति ।

[३९४।०१-३९४।०२]
प्रत्येकबुद्धस्त्रीन् क्षणान् ।

[३९४।०२]
प्रथमौ च द्वावष्टमं च समुदयान्वयज्ञानं मृदुप्रयोगत्वात् ।

[३९४।०३]
प्रथमद्वितीयपञ्चदशानित्यपरे ।

[३९४।०३-३९४।०४]
बुद्धस्तु सर्वानेव दर्शनमार्गक्षणानप्रयोगेण जानाति ।

[३९४।०५]
अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः ।

[३९४।०६-३९४।०७]
क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः ।
न परिज्ञेयमित्यादिरनुत्पादमतिर्मता ॥ ७.७ ॥

[३९४।०८]
क्षयज्ञानं कतमत् ।
दुःखं मे परिज्ञातमिति जानाति ।

[३९४।०८-३९४।०९]
समुदयः प्रहीणो निरोधः साक्षातकृतो मार्गो भावित इति जानाति ।

[३९४।०९-३९४।१०]
तदुपादाय यत्ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोकोऽभिसमयमिदमुच्यते क्षयज्ञानम् ।

[३९४।१०-३९४।११]
अनुत्पादज्ञानं कतमत् ।

[३९४।११-३९४।१२]
दुःखं मे परिज्ञातं न पोउनः परिज्ञेयमिति जानाति यावत्मार्गो भावितो न पुनर्भावयितव्य इति ।

[३९४।१२]
तदुपादाये”ति विस्तरेणोक्तं शास्त्रे ।

[३९४।१२-३९४।१३]
कथमनास्रवेण ज्ञानेनैवं जानाति ।

[३९४।१३]
तत्पृष्ठलब्धेन व्युत्थित एवं जानाति ।

[३९४।१३-३९४।१४]
अतस्तद्विशेषेण तयोर्विशेषः ।

[३९४।१४]
शास्त्रे ज्ञापिओत इति काश्मीराः ।

[३९४।१४-३९४।१५]
अनास्रवेणाप्येवं जानातीत्यपरे दर्शनवचनं तु भाष्याक्षेपात् ।

[३९४।१५]
ज्प्रत्यक्षवृत्तित्वाद्वा ।

[३९४।१५-३९४।१६]
अत एवोक्तं “यावत्ज्ञानं दर्शनमपि तदि”ति ।

[३९४।१६-३९४।१८]
इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं दुःखज्ञानं समुदयञ्ण्यानं निरोधज्ञानं मार्गज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च ।

[३९४।१८-३९४।१९]
तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः ।

[३९४।१९]
धर्मज्ञानमेकं ज्ञानं सप्तानां च भागः ।

[३९४।१९-३९४।२०]
दुःखसमुदयनिरोधमार्ग क्षयानुत्पादपरचित्तज्ञानानाम् ।

[३९४।२०]
एवमन्वयज्ञानम् ।

[३९४।२०-३९४।२१]
दुःखज्ञानमेकं ज्ञानं चतुर्णा च भागः ।

[३९४।२१]
धर्मान्वयक्षयानुत्पादज्ञानानाम् ।
एवं समुदयनिरोधज्ञाने चतुर्णां भागः ।

[३९४।२२]
मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागः ।
चतुर्णामनन्तरोक्तानां परचित्तस्य च ।

[३९४।२३]
परचित्तज्ञनमेकं ज्ञानं चतुर्णां च भागः ।
धर्मान्वयमार्ग संवृतिज्ञानानाम् ।

[३९४।२४]
क्षयज्ञानमेकं ज्ञानं षण्णां च भागः ।
धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम् ।

[३९४।२५]
एवमनुत्पादज्ञानम् ।

[३९४।१६-३९४।२६]
कस्मात्पुनरेतानि वीणि सन्ति दश व्यवस्थाप्यन्ते ।

[३९५।०१-३९५।०२]
स्वभावप्रतिपक्षान्यामाकाराकारगोचरात् ।
प्रयोगकृतकृत्यत्वहेतूपचयोतो दश ॥ ७.८ ॥

[३९५।०३]
सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते ।

[३९५।०३-३९५।०४]
स्वभावतः संवृतिज्ञानमपरमार्थज्ञानत्वात् ।

[३९५।०४]
प्रतिपक्षतो धर्मान्वयज्ञाने ।
कामथातुर्ध्वधातुप्रतिपक्षत्वात् ।

[३९५।०५]
आकारतो दुःखसमुदयज्ञाने ।
आलम्बनाभेदात् ।

[३९५।०५-३९५।०६]
आकारालम्बनतो निरोधमार्गज्ञाने ।

[३९५।०६]
आकारालम्बनभेदात् ।
प्रयोगतः परचित्तज्ञानम् ।
न हि तेन चैत्ता न ज्ञायते ।

[३९५।०७]
चित्तज्ञानार्थे तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् ।

[३९५।०७-३९५।०८]
कृतकृत्यतः क्षयज्ञानं कृतकृत्यसंतानोत्पत्तेः ।

[३९५।०८-३९५।०९]
प्रथमतः हेतूपचयतोऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति ।

[३९५।१०]
सकलस्य सकलप्रतिपक्षत्वात्कामधातुप्रतीपक्षो धर्मज्ञानमित्युक्तम् ।

[३९५।११]
अपि तु

[३९५।१२]
धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे ।

[३९५।१३]
त्रिधातुप्रतिपक्षस्तत्

[३९५।१४]
निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः ।

[३९५।१५]
कामधातोस्तु नान्वयम् ॥ ७.९ ॥

[३९५।१६]
अन्वयज्ञानं तु सर्वथा नास्ति कामधातुपोरतिपक्षः

[३९५।१७]
एषां दशानां ज्ञानानां

[३९५।१८]
धर्मज्ञानान्वयज्ञानं षोड्डशाकारम्

[३९५।१९]
तान् पुरस्तादुपदेक्ष्यामः ।

[३९५।२०]
अन्यथा ।

[३९५।२१]
तथा च सांवृतं

[३९५।२२]
संवृतिज्ञानं षोडशाकारमन्यथाकारं च सर्वधर्माणां स्वसामान्यलक्षणादिग्रहणात् ।

[३९५।२३]
स्वैः स्वैः सत्याकारैश्चतुष्टयम् ॥ ७.१० ॥

[३९६।०१-३९६।०२]
दुःखसमुदयनिरोधमार्ग ज्ञानानि स्वैः स्वैः सत्याकारैः प्रवर्तन्त इत्येकैकं चतुराकारं भवन्ति ।

[३९६।०३]
तथा परमतोज्ञानं निर्मलं

[३९६।०४]
अनास्रवं परचित्तज्ञानं तथेव ।
स्वसत्याकारत्वाच्चुतुराकारं मार्गज्ञानत्वात् ।

[३९६।०५]
समलं पुनः ।

[३९६।०६]
शेयस्वलक्षणाकारं
[३९६।०७]
सास्रवं परचित्तज्ञानं ज्ञेयानां चित्तचैत्तानां यत्स्वलक्षणं तदाकारयति ।

[३९६।०८]
स्वलक्षणग्राहकत्वात् ।
लभयमपि तु

[३९६।०९]
एकैकद्रव्यगोचरम् ॥ ७.११ ॥

[३९६।१०-३९६।११]
यदा चित्तं गृह्लाति न तदा चित्तानां यदा वेदनां न तदा संज्ञामित्येवमादि ।

[३९६।११-३९६।१२]
यत्तर्हि भगवतीक्तम् “सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाती”त्येवमादि ।

[३९६।१२]
न तयोर्दुगपद्ग्रहणम् ।
वस्त्रमलायुगापद्ग्रहणवत् ।

[३९६।१२-३९६।१३]
सरागं चित्तमिति द्विधा सरागता ।

[३९६।१३]
संसृष्टसरागता संयोइग सरागता च ।

[३९६।१३-३९६।१४]
तत्र सरागं संप्रयुक्तं चित्तं द्वाभ्यां सरागं ततोऽन्यत्सास्रवं संयोगसरागतया सरागम् ।

[३९६।१४-३९६।१५]
अत्र तु सूत्रे रागसंप्रयुक्तं सरागं रागप्रतिपक्षी विगतरागमित्येके ।

[३९६।१५-३९६।१६]
यदि हि रागेणासंप्रयुक्तं विगतरागं स्यादन्यक्लेशसम्प्रयुक्तमपि स्यात् ।

[३९६।१६-३९६।१७]
एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं स्यादित्येवमादि ।

[३९६।१७-३९६।१८]
तस्माद्रागसंप्रयुक्ततयाऽपि सरागं चित्तमत्रेष्टव्यमित्यपरे ।

[३९६।१८-३९६।१९]
एवं यावत्समोहं विगतमोहं च वेदितव्यम् ।

[३९६।१९]
संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् ।

[३९६।१९-३९६।२०]
विक्षिप्तं क्लिष्टं विक्षेपसंप्रयोगात् ।

[३९६।२०]
संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत क्लिष्टमिति पाश्चात्त्याः ।

[३९६।२१]
तदेतन्न वर्णयन्ति ।
तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात्क्लिष्टमिद्धसंप्रयीगात् ।

[३९६।२२]
शास्त्रविरोधश्च स्यात् ।
“संक्षिप्तं चित्तं यथाभूतं प्रजानाति ।

[३९६।२२-३९६।२३]
तज्ज्ञानं चत्वारि ज्ञानानि धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं मार्गज्ञानमि”ति ।

[३९६।२४]
लीनं चित्तं क्लिष्टं कौशीद्यसंप्रयोगात् ।
प्रगृहीतं कुशलं वीर्यसंप्रयोगात् ।

[३९६।२४-३९६।२५]
परीतां क्लिष्टं व्यवदानपरीत्तैर्निषेवितत्वात् ।

[३९६।२५]
महद्गतं कुशलं तद्विपर्ययात् ।

[३९६।२५-३९७।०१]
मूलमूल्यपरिवारानुपरिवर्तकवलाल्पवहुत्वाच्च ।

[३९७।०१-३९७।०२]
क्लिष्टचित्तं द्वाभ्यामकुशलमूलाभ्यां समुलम् ।

[३९७।०२]
कुशलं त्रिभिः कुशलमूलैः ।
क्लिष्टमल्पमूल्यमयत्न-साध्यत्वात् ।

[३९७।०३]
कुशलं भुमूल्यं वहाभिसंस्कारसाध्यत्वात् ।

[३९७।०३-३९७।०४]
क्लिष्टं तज्जातीयानागतभावनाऽभावान्न महापरिवारं त्रिभिश्च स्कन्धैः सानुपरिवर्तम् ।

[३९७।०४-३९७।०५]
कुशलं तु महापरिवारं चतुर्भिश्च स्कन्धैः सानुपरिवर्तम् ।

[३९७।०५-३९७।०६]
अल्पबलं खल्वपि क्लिष्टं बहुबलं कुशलम् ।

[३९७।०६]
एकया हि दुःखे धर्मज्ञानक्षान्त्या दशानुशयात्यन्तसमुद्घातः क्रियते ।

[३९७।०७]
तस्मादपि क्लिष्टं परीत्तं कुशलं महद्गतम् ।
उद्धतं क्लिष्टमौद्धत्यसंप्रयोगात् ।

[३९७।०८]
अनुद्धतं कुक्शलं तत्प्रतिपक्षत्वात् ।
एवमब्युपशान्त्ं व्युपशान्तं च ।

[३९७।०८-३९७।०९]
असमाहितं क्लिष्टं विक्षेपसंप्रयोगात् ।

[३९७।०९]
समाहितं कुशलं तत्प्रतिपक्षत्वात् ।

[३९७।०९-३९७।१०]
अभावितं क्लिष्टं प्रतिलम्भतिषेवणभावनाभ्यामभावितत्वात् ।

[३९७।१०-३९७।११]
भावितं कुशलं ताभ्यां भावितत्वात्विमुक्तं क्लिष्टं स्वभावसंतानविमुक्तिभ्यामविमुक्तत्वात् ।

[३९७।१२]
विमुक्तं कुशलं ताभयं विमुक्तत्वादिति वैभाषिकाः ।
एवं तु सूत्रं नानुलोमितं भवति ।

[३९७।१३]
एषां च पदानां नार्थविशेष उक्तो भवति ।

[३९७।१३-३९७।१४]
सूत्र उक्तं “कथं चित्तमध्यात्मं संक्षिप्तं भवति ।

[३९७।१४-३९७।१५]
यच्चित्तं स्त्यानमिद्धसहगतमध्यात्मं संनिरोधसहगतं नो तु विपश्यनया समन्वागतम् ।

[३९७।१५-३९७।१६]
कथं वहिर्विक्षिप्तं भवति ।

[३९७।१६]
यच्चित्तं पञ्चसु कामगुणेष्वनुविक्षिप्तं भवत्यनुविसृतमि”ति ।

[३९७।१६-३९७।१७]
ननु चोक्तं तदेव चित्तं संक्षिप्तं स्याद्विक्षिप्तं चेति ।

[३९७।१७-३९७।१८]
उक्तमिदमयुक्तं तूक्तं विद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानात् ।

[३९७।१८]
ननु चोक्तं शास्त्रविरोधः स्यादिति ।

[३९७।१८-३९७।१९]
वरं शास्त्रविरोधो न सूत्रविरीधः ।

[३९७।१९]
कथमेषां पदानां नार्थविशेष उक्तो भवति ।

[३९७।२०-३९७।२१]
विक्षिप्तलिलिनोद्धताव्युपशान्तासमाहिताभाविताविमुक्तानां चित्तानामभिन्नलक्षणवचनात्संक्षिप्तप्रगृहीतादीनां च ।

[३९७।२१]
न वै नोक्तः पदानामर्थविशेषो भवति ।

[३९७।२१-३९७।२२]
क्लिष्टसामान्येऽपि तद्दोषसंदर्शनात् ।

[३९७।२२-३९७।२३]
इत्यप्येतत्क्लिष्टं चित्तं विक्षिप्तं लीनमिति विस्तरः ।

[३९७।२३-३९७।२४]
एवं कुशलस्यापि गुणविशेषसंदर्शनादुक्त एवर्थविशेषो भवति ।

[३९७।२४]
सूत्रविरोधस्यापरिहारान्नैष एषां पदानामर्थः ।

[३९७।२४-३९७।२५]
यदि च सूत्रे तदेव लीनं चित्तं तदेवोद्धतमित्यभिप्रेतं स्यातिदं नोक्तं स्यात् ।

[३९७।२५-३९७।२७]
“यस्मिन्समये लीनं चित्तं भवति लयाभिर्शङ्क वा अकालस्तस्मिन्समये प्रस्रब्धिसमाध्युपेक्षासंवोध्यङ्गानां भावनायाः ।

[३९७।२७-३९७।२८]
यस्मिन्सगये उद्धातं चित्तं भवति औद्धत्याभिशङ्कि वा अकालस्तस्मिन्समये धर्मविचयवीर्यप्रीतिसंवोध्यङ्गानां भावनाया” इति ।

[३९७।२८-३९८।०१]
किं पुनर्वोध्यङ्गानां व्यग्रा भावना ।

[३९८।०१]
मनसिकरणं तेषां भावनेष्टा न संमुखीभाव इत्यदोष एषः ।

[३९८।०१-३९८।०२]
कौशीद्याधिकमत्र चित्तं लीनमित्युक्तम् ।

[३९८।०२]
औद्धत्याधिकं चोद्धतमित्यविरोधः ।

[३९८।०२-३९८।०३]
तयोस्तु सहभावात्तदेव चित्तं लीनं तदेवोद्धतमिति ब्रूमः ।

[३९८।०३]
नाभिप्रयिकं वचनं वार्यते ।

[३९८।०३-३९८।०४]
सूत्रे तु नायमभिप्राय इति ब्रूमः ।

[३९८।०४]
यत्तूक्तं “सर्वमेव रागसंप्रयुक्तं चित्तं सरागमि”ति ।

[३९८।०५]
कतमच्चित्तं रागसंप्रयुक्तम् ।
रागप्राप्तिसहितं चेत् ।

[३९८।०५-३९८।०६]
असास्रवमिति सरागं प्राप्नोति शैक्षचित्तम् ।

[३९८।०६]
रागालम्बनं चेत् ।
अर्हतोऽपि सास्रवं चित्तं सरागमिति गृह्लीयात् ।

[३९८।०७]
रागालम्बनत्वात्
कथं वा तत्सास्रवम् ।

[३९८।०७-३९८।०८]
सामान्य क्लेशालम्बनत्वादिति चेत् ।

[३९८।०८]
एवमपि समोहं गृह्लीयान्मोहालम्बनत्वात् ।

[३९८।०८-३९८।०९]
न च परचित्तज्ञानं प्राप्त्यालम्बनं नापि तच्चित्तालम्बनं रागालम्बनम् ।

[३९८।०९-३९८।१०]
तस्मान्न रागसंप्रयोगात्सरागं चित्तमत्रेष्टम् ।

[३९८।१०]
किं तर्हि ।

[३९८।१०-३९८।११]
रागसंप्रयुक्तं चित्तं सरागमसंप्रयुक्तं विगतरागमिति सूत्राभिग्रायो दृश्यते ।

[३९८।११-३९८।१२]
यत्तूक्तं “विगतरागमस्य तच्चित्तं भवति विगतद्वेषं विगतमोहमनावर्त्तिकधर्मि कामभवे रूपभवे आरुप्यभवे” इति ।

[३९८।१३]
तत्र तत्प्रप्तिविगमं संधायोक्तम् ।

[३९८।१३-३९८।१४]
ननु चोक्तमन्यक्लेशसंप्रयुक्तमपि चित्तं रागविप्रयुक्तत्वाद्विगतरागं स्यादि”ति ।

[३९८।१४]
एतेनाभिसंधिना न दोषः ।

[३९८।१४-३९८।१५]
न तु तद्विगतरागमिति कृत्वा गृह्यते ।

[३९८।१५]
किं तर्हि ।
सद्वेषं समोहमित्येवमादि ।

[३९८।१५-३९८।१६]
अलं प्रसङ्गेन सिद्धान्तो वर्ण्यताम् ।

[३९८।१७]
किं परचित्तज्ञानं परचित्तस्याकारमालम्बनं वा गृह्लाति ।

[३९८।१७-३९८।१९]
न गृह्लाति आकारलम्बननिरपेक्षंं हि तद्रक्तमिदं चित्तमिति जानाति नत्वमुष्मिन् रुपे रक्तमिति जानाति ।

[३९८।१९-३९८।२०]
अन्यथा हि तद्रूपालम्बनमपि स्यात्तदालम्बनं च परचित्तं गृह्लतः स्वभावग्रहणं प्राप्नुयात् ।

[३९८।२०-३९८।२२]
सर्वं च परचित्तज्ञानं द्रव्यस्वलक्षणचित्तचैत्तप्रत्युत्पन्नपरसंततिकामरूपप्रतिसंयुक्ताप्रतिसंयुक्तविषयं दर्शनमार्गप्रतिषिद्धं भावनामार्ग उपलभ्यते ।

[३९८।२२-३९८।२३]
शून्यताऽनिमित्तसमाधि विप्रयुक्तं क्षयानुत्पादज्ञानासंगृहीतमानन्तर्यमार्ग प्रतिषिद्धं च वेदित्तव्यम् ।

[३९८।२३]
उक्तं परचित्तज्ञानम् ।

[३९९।०१]
शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते ।

[३९९।०२]
क्षयानुत्पादज्ञाने शेषे ते चतुर्दशाकारे शून्यानात्मकारौ वर्जयित्वा ।

[३९९।०२-३९९।०४]
पारमार्थिकयोरपि संवृतिभजनात्शीणा मे जातिर्नापरमस्माद्भवं प्रजानामीति तद्वलानुव्यवहारतः ।

[३९९।०५]
किमनास्रवः स्वलक्षणाकारोऽस्त्यथ न ।
काश्मीराणां तावत्

[३९९।०६]
नामलः षोडशभ्योऽन्य आकारः

[३९९।०७]
नास्त्यनास्रवाकारः षोडशाकारनिर्मुक्तः ।

[३९९।०८]
अन्येऽस्ति शास्त्रतः ॥ ७.१२ ॥

[३९९।०९]
श्रन्ये पुनरस्तीत्याहुर्वहिर्देशकाः ।
कथं गम्यते ।
शास्त्रतः इति ।

[३९९।०९-३९९।१०]
शास्त्रे ह्येवमाह ।

[३९९।१०]
“स्यादप्रतिसंयुक्तेन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयात् ।

[३९९।११]
अनित्यतो दुःखतः शून्यतोऽनात्मतः हेतुतः समुदयतः प्रभवतः प्रत्ययतः ।

[३९९।११-३९९।१२]
अस्त्येतस्थानमस्त्येतद्वस्त्विति ।

[३९९।१२]
योगविहितती विजानोयादि”ति ।

[३९९।१२-३९९।१४]
नास्यायमर्थो यदस्त्येतत्स्थानमस्त्येतद्वस्त्वित्येवं विजानीयादिति अपि त्वस्त्येतत्स्थानमस्त्येतद्वस्तु यदनित्यादितो विजानीयादिति चेत् ।

[३९९।१४]
न्
अन्यत्रावचनात् ।

[३९९।१५]
एष चेच्छास्त्रार्थोऽभविष्यत् ।

[३९९।१५-३९९।१६]
यदिदं पठच्यते “स्याद्दर्शनप्रहातव्येन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयादिति ।

[३९९।१६]
आह ।
विजानीयात् ।

[३९९।१६-३९९।१८]
आत्मत आत्मीयत उच्छेदतः शाश्वततः अहेतुतोऽक्रियातोऽपवादतोऽग्रतः श्रेष्ठतो विशिष्टतः परमतः शुद्धितो मुक्तितो नैर्याणिकतः काङ्क्षातो विमतितो विचिकित्सातः ।

[३९९।१८-३९९।१९]
रज्येत द्विष्यान्मन्येत मुह्येदयोगविहिततो विजानीयादि”ति ।

[३९९।१९]
अत्राप्येवं पाठोऽभविष्यत् ।

[३९९।१९-३९९।२०]
अस्त्येतत्स्थानमस्त्येतद्वस्त्विति ।

[३९९।२०]
न त्वेवं पठच्यते ।
तस्मान्नास्यायमर्थः ।

[३९९।२१]
किं पुनरिमे षोडशाकारा नामत आहोस्वित्द्रव्यतः ।

[३९९।२१-३९९।२२]
सप्त द्रव्यतो नामतः षोडशेत्येके ।

[३९९।२२]
दुःखकाराश्चत्वारः समुदयनिरोधमार्गाकाराणामेककद्रव्यत्वात् ।

[३९९।२३]
एवं तु वर्णयन्ति ।

[४००।०१]
द्रव्यतः षोडशाकाराः

[४००।०२]
तत्प्रत्ययाधीनत्वातनित्यम् ।
षीडात्मकत्वात्दुःखम् ।

[४००।०२-४००।०३]
आत्मीयदृष्टिविपक्षेण शून्यम् ।

[४००।०३]
आत्मदृष्टिविपक्षेणानात्मा ।
हेतुर्वीजधर्मयोगेन ।

[४००।०३-४००।०४]
समुदयः प्रादुर्भावयोइगेन ।

[४००।०४]
प्रभवः प्रबन्धयोगेन ।

[४००।०४-४००।०५]
अभिनिष्पादनार्थेन प्रत्ययः ।

[४००।०५-४००।०६]
तद्यथा मृत्पिण्ददण्दचत्रसूत्रोदकसमवायात्घटाभिनिष्पत्तिर्भवति तद्वदिति ।

[४००।०६]
अक्न्धोपरमत्वात्निरोधः ।
अग्निनिर्वाषणात्शान्तः ।

[४००।०६-४००।०७]
निरूपद्रव्त्वात्प्रणीतः ।

[४००।०७]
सर्वापक्षालविमुक्तत्वान्निः सरणमिति ।
गमनार्थेन मार्गः ।

[४००।०७-४००।०८]
योगयुक्तत्वान्न्यायः ।

[४००।०८]
सम्यक्प्रतिपादनार्थेन प्रतिपत् ।
अत्यन्तसमतिक्रमणान्नैर्याणिक इति ।

[४००।०९]
अथवा अनात्यन्तिकत्वादनित्यम् ।
अभिन्यासभूतत्वात्दुःखम् ।

[४००।०९-४००।०१०]
अन्तर्व्यापारपुरुषपरहितत्त्वाच्छून्यम् ।

[४००।१०]
अकामकारित्वादनात्मा ।

[४००।१०-४००।०१०]
हेतुरागमनयोगेन ।

[४००।१०-४००।११]
समुदय उन्मज्जनयोगेन ।

[४००।११]
प्रभवः प्रसरणयोगेन ।
प्रतिसरणार्घेन प्रत्यय इति ।

[४००।११-४००।१२]
असंबन्धः संबन्धोपरमत्वान्निरोधः ।

[४००।१२]
त्रिसंस्कृतलक्षणविमुक्तत्वाच्छान्तः ।

[४००।१२-४००।१३]
कुशलत्वात्प्रणीतः ।

[४००।१३]
परमाश्वासत्वान्निः सरणमिति ।
कुमार्गविपक्षेण मार्गः ।

[४००।१३-४००।१४]
अन्यायविपक्षेण न्यायः ।

[४००।१४]
निर्वाणपुराविरोधनार्थेन प्रतिपत् ।
सर्वभवप्रतिपक्षत्वान्नैर्याणिकः ।

[४००।१५]
इत्येषां व्याख्यानमनेकपर्यायः ।
यथाभिप्रेतं प्रवक्ष्यामः ।
उदयव्ययत्वादनित्यम् ।

[४००।१६]
प्रतिकूलभावात् ।
दुःखम् ।
आत्मरहितत्वाच्छून्यम् ।
स्वयमनात्मत्वादनात्म ।

[४००।१७]
हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम् ।

[४००।१७-४००।१८]
“इमे पञ्चोपादानस्कन्धाश्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवा” इति ।

[४००।१८-४००।१९]
प्रभवशब्दः केवलं पश्चात्पठितव्यः शास्त्रे ।

[४००।१९]
कः पुनरेषां विशेषः ।
चतुर्विधो हि च्छन्दः ।

[४००।२०]
अस्मीत्यभेदेनात्मभाव्च्छन्दः ।
स्यामित्यभेदेन पुनर्भवच्छन्दः ।

[४००।२०-४००।२१]
इत्यं स्यामिति भेदेन पुनर्भवच्छन्दः ।

[४००।२१]
प्रतिसंधिवन्धच्छन्दश्चतुर्थः ।
कर्माभिसंस्कारच्छन्दो वा ।

[४००।२२]
तत्र प्रथोमो दुःखस्यादिकारणत्वान्मूलहेतुः ।
फलस्येव वीजम् ।

[४००।२२-४००।२३]
द्वितीयः समुदयस्तेन तत्समुदागमात्फलस्येवाङ्कुरादिप्रसवः ।

[४००।२३-४००।२४]
तृतीयस्तज्जातीयदुःखप्रत्ययः ।

[४००।२४]
फलस्येव क्षोत्रोदकपाश्यादिकम् ।

[४००।२४-४००।२६]
क्षेत्रादिवशेन हि फलस्य गन्धरसवीर्यविपाकप्रभावभेदा भवन्ति चतुर्थः प्रभवस्ततः एव तत्संभवात्फलस्येव पुष्पावसानमिति ।

[४००।२६]
अथवा ।

[४००।२६-४०१।०१]
तृष्णाविचरितानां द्वौ पञ्चकौ द्वौ चतुष्कौ चत्वारश्छन्दाः ।

[४०१।०१-४०१।०२]
“अस्मीति भिक्षवः साति इत्थमस्मीति भवति एवमस्मीति भवति अन्यथाऽस्मीति सदस्मीति असदस्मीति ।

[४०१।०२-४०१।०३]
भविष्यामीत्यस्य भवति न भविष्यामि इत्थं भविष्यामि एवं भविष्यामि एवं भविष्यामि श्रन्यथा भविष्यामि ।

[४०१।०४-४०१।०५]
स्यामित्यस्य भवति इत्थं स्यामेवं स्यामन्यथा स्यामपितु स्यामपीत्थं स्यामप्येवं स्यामप्यन्यथा स्यामित्यस्य भवति ।

[४०१।०६]
प्रवृत्त्युपर्मत्वान्निरोधः ।
निर्दुःखत्वाच्छन्तः ।

[४०१।०६-४०१।०७]
“इति हि भिक्षवो दुःखाः संस्काराः शान्तं निर्वाणमि”ति वचनात ।

[४०१।०७]
निरुत्तरत्वात्प्रणीतः ।

[४०१।०७-४०१।०८]
अपुनरावृत्तित्वान्निःसरणम् ।

[४०१।०८]
पथिभूतत्वान्मार्गः ।
यथाभूतप्रवृत्तत्वान्न्यायः ।

[४०१।०८-४०१।०९]
प्रतिनियतत्वात्प्रतिपत् ।

[४०१।०९]
यथोक्तम्

[४०१।१०]
“एष मार्गो हि नास्त्यन्यो दर्शनस्य विशुद्धय” इति

[४०१।११]
अत्यन्तनिर्याणान्नैर्याणिकः ।

[४०१।११-४०१।१२]
अथवा नित्यसुखात्मीयात्मदृष्टिचरितानां प्रतिपक्षेणानित्यदुःखशुन्यानात्माकाराः ।

[४०१।१२-४०१।१३]
अहेत्वेकहेतुपरिणामबुद्धिपूर्वक दृष्टिचरितानां प्रतिपक्षेण हेतुसमुदयप्रभवप्रत्ययाकाराः ।

[४०१।१३-४०१।१४]
नास्ति मोक्ष इति दृष्टिचरितानां निरोधाकारः ।

[४०१।१४]
दुःखो मोक्ष इति दृष्टिचरितानां शान्ताकारः ।

[४०१।१४-४०१।१५]
ध्यानसुखप्रणीतदृष्टिचरितानां प्रणीताकारः ।

[४०१।१५-४०१।१६]
पुनः पुनः परिहाणितो नात्यन्तिको मोक्ष इति दृष्टिचरितानां निःसरणाकारः ।

[४०१।१६-४०१।१७]
नास्ति मार्गः कुमार्गोऽयमन्यो मार्गः पुनरावर्ती मार्ग इति दृष्टिचरितानां मार्गन्यायप्रतिपन्नैर्याणिकाकारा इति ।

[४०१।१८]
आकारो नाम क एष धर्मः ।

[४०१।१९]
प्रज्ञाकारः

[४०१।२०]
एवं तर्हि प्रज्ञा साकारा न भविष्यति ।
प्रज्ञान्तरासंयोगात् ।
एवं तु युक्तं स्यात् ।

[४०१।२१]
सर्वेषां चित्तचैत्तानामालम्बनग्रहणप्रकार आकार इति ।

[४०१।२२]
अथ किं प्रज्ञैवाकारयति नेत्याह ।
किं तर्हि ।

[४०१।२३]
तया सह ।

[४०१।२४]
आकारय्न्ति सालम्बाः

[४०२।०१]
प्रज्ञा चान्ये च सर्वे सालम्बना धर्मा आकारयन्ति ।

[४०२।०२]
सर्वमाकार्यते तु सत् ॥ ७.१३ ॥

[४०२।०३]
यत्किञ्चिदस्ति सर्वमाकार्यते ।

[४०२।०३-४०२।०४]
तदेवं कृत्वा सिद्धं भवति प्रज्ञा आकारश्चाकारयति चाकार्यन्ते च ।

[४०२।०४-४०२।०५]
आलम्बना आकार्यन्त एवेति ।

[४०२।०६]
अतः परमेषां ज्ञानानां कुशलादिभेदं निर्वेक्ष्यामः ।

[४०२।०७]
त्रिधाद्यं कुशलान्यन्यानि

[४०२।०८]
संवृतिज्ञानं श्लोकादौ भवत्वादाद्यम् ।
तत्त्रिविधम् ।

[४०२।०८-४०२।०९]
कुशलाकुशलाव्याकृतम् ।

[४०२।०९]
अन्यानि नव ज्ञानानि कुशलान्येव ।

[४०२।१०]
आद्यं सर्वासु भूमिषु ।

[४०२।११]
कामधाती यावद्भवाग्रे ।

[४०२।१२]
धर्माख्यं षट्सु

[४०२।१३]
धर्मज्ञानं चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरे च ।

[४०२।१४]
नवसु त्वन्वयाख्यं

[४०२।१५]
अन्वयज्ञानं तास्वेव च षट्सु भूमिष्वारुप्यत्रये च ।

[४०२।१६]
तथैव षट् ॥ ७.१४ ॥

[४०२।१७]
दुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानान्यप्येतास्वेव नवसु भूमिष्वभेदेन ।

[४०२।१८]
भेदेन पुन्र्धर्मज्ञानसंगृहीतानि षट्सु अन्वयज्ञान संगृहीतानि नवसु ।

[४०२।१९]
ध्यानेष्वन्यमनोज्ञानं

[४०३।०१]
परचित्तज्ञानं चतुर्ष्वेव ध्यानेषु नान्यत्र ।

[४०३।०२]
कामरूपाश्रयं च तत् ।

[४०३।०३]
कामरूपधात्वोश्च तत्परचित्तज्ञानं संमुखीक्रियते ।

[४०३।०४]
कामाश्रयं तु धर्मारुयम्

[४०३।०५]
धर्मज्ञानं तु कामधात्वाश्रयमेव ।
न रूपारुप्यधात्वोः संमुखीक्रियते ।

[४०३।०६]
अन्यत्त्रैधातुकाश्रयम् ॥ ७.१५ ॥

[४०३।०७]
किं पुनरन्यत् ।
परचित्तज्ञानं धर्मज्ञाननिर्मुक्तम् ।
कृतो भूम्यश्रयनिर्देशः ।

[४०३।०८]
स्मृत्युपस्थानसंग्रहो वक्तव्यः ।
सोऽयमुच्यते ।

[४०३।०९]
स्मृत्युपस्थानमेकं धीर्निरोधे

[४०३।१०]
धीः प्रज्ञा ज्ञानमिति पर्यायाः ।
निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् ।

[४०३।११]
परचित्तधीः ।

[४०३।१२]
त्रीणि

[४०३।१३]
परचित्तज्ञानं त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि ।

[४०३।१४]
चत्वारि शेषाणि

[४०३।१५]
निरोधपरचित्तज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि

[४०३।१६]
कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ।

[४०३।१७]
धर्मधीगोचरो नव ॥ ७.१६ ॥

[४०३।१८]
धर्मज्ञानस्य नव ज्ञानान्यालम्बनमन्यत्रान्वयज्ञानात् ।

[४०४।०१]
नव मार्गान्वयदियोः

[४०४।०२]
अन्वयज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र धर्मज्ञानात् ।

[४०४।०२-४०४।०३]
मार्गज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र संवृतिज्ञानात् ।

[४०४।०४]
दुःखहेतुधियोर्द्वयम् ।

[४०४।०५]
दुःखसमुदयज्ञानयोर्द्वे संवृतिपरचितज्ञाने आलम्बनम् ।

[४०४।०६]
चतुर्णां दश

[४०४।०७]
संवृतिपरचित्तक्षयानुत्पादज्ञानानां दश ज्ञानान्यालम्बनम् ।

[४०४।०८]
नैकस्य

[४०४।०९]
एकस्य निरोधज्ञानस्य नैव ज्ञानमालम्बनम् ।

[४०४।१०]
योज्या धर्माः पुनर्दश ॥ ७.१७ ॥

[४०४।११]
कतमे दश ।

[४०४।१२]
त्रैधातु कामला धर्मा अकृताश्च द्विधा द्विधा ।

[४०४।१३]
संकृता धर्मा अष्टधा क्रियन्ते ।

[४०४।१३-४०४।१४]
कामरूपारुप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात् ।

[४०४।१४]
असंस्कृता द्विधा क्रियन्ते ।
कुशलाव्याकृतभेदात् ।

[४०४।१४-४०४।१५]
इमे दश धर्माः कथं योज्याः कस्य ज्ञानस्य कत्यालम्बनमिति ।

[४०४।१५-४०४।१६]
तत्र संवृतिज्ञानस्य सर्वे दश धर्मा आलम्बनम् ।

[४०४।१६]
धर्मज्ञानस्य पञ्च ।
कामावचरानास्रवा श्चत्वारः कुशलं चासंस्कृतम् ।

[४०४।१७]
अन्वयज्ञानस्य सप्त ।
रूपारुप्यावचरानास्रवाः षट्कुशलं चासंस्कृतम् ।

[४०४।१७-४०४।१८]
दुःखसमुदयज्ञानयोः कामरूपारुप्यावचराः षट् ।

[४०४।१८]
निरोधज्ञानस्यैकः ।

[४०४।१८-४०४।१९]
कुशलमेवासंस्कृतम् ।

[४०४।१९]
मार्गज्ञानस्य द्वावनास्रवौ ।
परचित्तज्ञानस्य त्रयः ।

[४०४।१९-४०४।२०]
कामरूपावचरानास्रवाः संप्रयुक्ताः ।

[४०४।२०-४०४।२१]
क्षयानुत्पादज्ञानयोः नव धर्मा आलम्बनमव्याकृतमसंस्कृतं मुक्त्वा ।

[४०४।२२]
स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् ।
न स्यात् ।
अपि तु

[४०५।०१]
सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः ॥ ७.१८ ॥

[४०५।०२-४०५।०३]
संवृतिज्ञानं स्वस्मात्कलापादन्यान् सर्वधर्माननात्वतो जानीयात्सर्वधर्मा अनात्मान इति ।

[४०५।०३]
ज्स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः ।

[४०५।०३-४०५।०४]
तेषामग्रहणं विषयविषयिभेदादेकालम्बनत्वादिति ।

[४०५।०४]
संनिकृष्टत्वाच्च ।

[४०५।०४-४०५।०५]
तच्च कामावचरं श्रुतचिन्तामयं रूपावचरं श्रुतमयं भावनामयम् ।

[४०५।०५-४०५।०६]
तस्य व्यवच्छिन्नभूम्यालम्बनत्वात् ।

[४०५।०६]
अन्यथा हि युगपत्सर्वतो वैराग्यं स्यात् ।
गतमेतत् ।

[४०५।०७]
इदं तु वक्तव्यम् ।
कः कतिभिर्ज्ञानैः समन्वागत इति ।

[४०५।०७-४०५।०८]
पृथग्जनस्तावदेकेन समन्वागतः ।

[४०५।०८]
संवृतिज्ञानेन ।
वीतरागस्तु परचित्तज्ञानेनापि ।
आर्यः पुनः ।

[४०५।०९]
एकज्ञानान्वितो रागीप्रथमेऽनास्रवक्षणे ।

[४०५।१०]
कामावीतरागो दुःखधर्मज्ञानक्षान्तवेकेनैव संवृतिज्ञानेन समन्वागतो भवति ।

[४०५।११]
द्वितीये त्रिभिः

[४०५।१२]
दुःखधर्मज्ञाने त्रिभिः संवृतिज्ञानधर्मज्ञानदुःखज्ञानैः ।

[४०५।१३]
ऊर्ध्वस्तु चतुष्र्वेकैकवृद्धिमान् ॥ ७.१९ ॥

[४०५।१४]
अतः परं चतुर्षु क्षणेषु एकैकज्ञानवृद्धिरस्य ज्ञातव्या ।

[४०५।१४-४०५।१५]
दुःखेऽन्वयज्ञानेऽन्वयज्ञानं वर्धते ।

[४०५।१५-४०५।१६]
समुदयनिरोधमार्गधर्मज्ञानेषु समुदयनिरोधमार्गज्ञानानि वर्धन्त इति मार्गधर्मज्ञाने सप्तभिर्ज्ञानैः समन्वागतो भवति ।

[४०५।१६-४०५।१७]
वीतरागस्तु सर्वत्राधिकेन परचित्तज्ञानेन समन्वागतो वेदितव्यः ।

[४०५।१८]
अथ कस्यामवस्थायां कति ज्ञानानि भव्यन्ते ।

[४०५।१९]
यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने ।

[४०५।२०]
अनागतानि

[४०६।०१-४०६।०२]
दर्शनमार्गे यद्यदेवोत्पद्यते क्षान्तिर्ज्ञानं वा तज्जातीयमनागतं भावनां गच्छति तदाकारा एव चत्वारः ।

[४०६।०२-४०६।०३]
कस्माद्दर्शनमार्गे सभागज्ञानाकारभावनैव गोत्राणामपोरतिलब्धत्वात् ।

[४०६।०४]
तत्रैव सांवृतं चान्वयत्रये ॥ ७.२० ॥

[४०६।०५-४०६।०६]
तत्रैव दर्शनमार्गे संवृतिज्ञानं चापि भाव्यते त्रिषु दुःखसमुदयनिरोधान्वयज्ञानेषु ।

[४०६।०६]
न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयात् ।

[४०६।०७]
अतोऽभिसमयान्त्याख्यं

[४०६।०८]
अत एव तदाभिसमयान्तिकं संवृतिज्ञानमाख्यावते ।

[४०६।०८-४०६।०९]
एकैकसत्याभिसमयान्ते भावनात् ।

[४०६।०९]
कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति ।

[४०६।०९-४०६।१०]
मार्गसत्यस्य पूर्व लौकिकेन मार्गेणानभिसमितत्वातकृत्स्नाभिसमयाच्च ।

[४०६।१०-४०६।१२]
कृत्स्नं हि दुःखं शक्यते परिज्ञातुं समुदयः प्रहातुं निरोधः साक्षात्कर्तु न तु मार्गः शक्यते कृत्स्नो भावयितुमित्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते ।

[४०६।१२-४०६।१३]
समुदयोऽपि न तदा सर्वः प्रहीणो भवतीति न स्यादाभिसमयान्तिकम् ।

[४०६।१३]
न ।

[४०६।१३-४०६।१४]
तत्सत्यदर्शनहेयः सर्वः प्रहीण्नो भवति ।

[४०६।१४-४०६।१५]
मार्गस्तद्दर्शनहेयप्रतिपक्षो न सर्वः शक्यते भावयितुं वहुगोत्रत्वातित्यस्ति महान्विशेषः ।

[४०६।१५]
दर्शनमार्गपरिवारत्वादित्यपरे ।

[४०६।१५-४०६।१६]
तदिदं साध्यत्वादज्ञापकम् ।

[४०६।१६]
किं पुनस्तदाभिसमयान्तिकं सम्वृतिज्ञानं कदाचित्संमुखीक्रियते ।

[४०६।१६-४०६।१७]
न कदाचितेकान्तेन हि

[४०६।१८]
तदानुत्पत्तिधर्मकम् ।

[४०६।१९]
कथं पुनस्तद्भावितं भवति ।

[४०६।१९-४०६।२०]
अलब्धलाभात्कथमिदानीं तत्प्रतिलब्धं यदि नैव संमुखीकर्तु शक्यते ।

[४०६।२०]
प्राप्तितः ।

[४०६।२०-४०६।२१]
यस्माल्लब्धं तस्माल्लब्धमित्यपूर्वैषा निर्देशजातिः ।

[४०६।२१]
तस्मान्नैवं भावना सिध्यति ।

[४०६।२१-४०६।२२]
एवं तु सिध्यति यदाहुः पूर्वाचार्याः ।

[४०६।२२]
कथं च पूर्वाचार्या आहुः ।

[४०६।२२-४०६।२४]
लोकोत्तरमार्ग-सामर्थ्यात्संवृतिज्ञानं भाव्यते यद्व्युत्थितः सत्यालम्बनं विशिष्टतरं लौकिकं ज्ञानं संमुखीकरोति ।

[४०६।२४-४०७।०१]
एष एव च तस्य लाभो यत्-तत्-संमुखीभाव-समर्थाश्रयलाभः ।

[४०७।०१]
गोत्रे हि लब्धे लब्धं गौत्रिकं भवति ।
एव तु नेच्छन्ति वैभाषिकाः ।

[४०७।०२]
कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते ।
दर्शनमार्गस्य

[४०७।०३]
स्वधोभूमि

[४०७।०४]
यद्भूमिको दर्शनमार्गो भवति तद्भूमिकं चावरभूमिकं च संवृतिज्ञानं भाव्यते ।

[४०७।०५]
आनागम्यभूमिकश्चेद्भवति द्विभूमिकं बाव्यते ।
अनागम्यभूमिकं कामावचरं च ।

[४०७।०६]
एवं यावच्चतुर्थध्यानभूमिके दर्शनमार्गे सप्तभूमिकं संवृतिज्ञानं भाष्यते ।

[४०७।०७]
तत्र पुनः कति स्मृत्युपस्थानानि ।

[४०७।०८]
निरोधेऽन्त्यं

[४०७।०९]
निरोधेऽभिसमिते यत्संवृतिज्ञानं तदन्त्यं स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् ।

[४०७।०९-४०७।१०]
एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारि स्मृत्युपस्थानानीति ।

[४०७।१०-४०७।११]
तच्चैतदाभिसमयान्तिकं संवृतिज्ञानं

[४०७।१२]
स्वसत्याकारं

[४०७।१३]
यत्सत्याभिसमयाल्लभ्यते तत्सत्याकारमेव ।

[४०७।१३-४०७।१४]
तदाकारवचनादालम्बनस्य तदेव सत्यमित्युक्तं भवति ।

[४०७।१४]
दर्शनमार्गलभ्यत्वाच्च तत् ।

[४०७।१५]
यत्निकम् ॥ ७.२१ ॥

[४०७।१६]
प्रायोगिकमित्यर्थः ।

[४०७।१६-४०७।१७]
सपरिवारग्रहणात्कामरूपावचाराणि चतुष्पञ्चस्कन्धस्वभावानि ।

[४०७।१८]
षोडशे षट्सरागस्य

[४०७।१९]
भाव्यन्त इति वर्तते ।

[४०७।१९-४०७।२०]
अवीतरागस्य षोडशे मार्गान्वयज्ञानक्षणे द्वे ज्ञाने प्रत्युत्पन्ने ।

[४०७।२०]
मार्गज्ञानमार्गान्वयज्ञाने ।
पुरागतानि षट्भाव्यन्ते ।

[४०७।२०-४०७।२१]
धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि ।

[४०८।०१]
वीतरागस्य सप्त तु ।

[४०८।०२]
वीतरागस्य परचित्तज्ञानं सप्तमं भाव्यते ।

[४०८।०३]
सरागभावना मार्गे तदूर्ध्वं सप्तभावना ॥ ७.२२ ॥

[४०८।०४-४०८।०५]
षोडशात्क्षणादुर्ध्वं भावनामार्गे यावन्न वीतरागो भवति तावत्सर्वेषु प्रयोगान्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते ।

[४०८।०५-४०८।०६]
धर्मान्वयदुःखसमुदयनिरोधमार्गसंवृतिज्ञानानि ।

[४०८।०६]
लौकिकश्चेत्भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् ।

[४०८।०७]
लोकोत्तरश्चेत्चतुर्णां धर्मज्ञानानामन्यतमत् ।

[४०८।०८-४०८।०९]
सप्तभूमिजयाऽभिज्ञाकोप्याप्त्याकीर्णभाविते
आननतर्यपथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च ॥ ७.२३ ॥

[४०८।१०]
सप्तज्ञानानि भाव्यन्ते इति वर्तते ।

[४०८।१०-४०८।११]
सप्त भूमयः चत्वारि ध्यानानि त्रयश्चारुप्याः ।

[४०८।११-४०८।१३]
तासां जयः वैराग्यं तस्मिन् सप्तभूमिके वैराग्ये पञ्चसु चाभिज्ञासु अकोप्यप्रतिवेधे च व्यवकीर्णभाविते च ध्याने शैक्षस्य यावन्तः आनन्तर्यमार्गास्तेष्वपि सर्वेषु सप्त ज्ञानानि भाव्यन्ते तान्येव ।

[४०८।१३-४०८।१४]
लौकिकेश्चेत्भाव्नामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् ।

[४०८।१४-४०८।१५]
लोकोत्तरश्चेच्चतुर्णामन्वज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् ।
[४०८।१५]
अकोप्यप्रतिवेधे तु संवृतिज्ञानं न भाव्यते ।

[४०८।१५-४०८।१६]
भवाग्राप्रति पक्षत्वात् ।

[४०८।१६]
तत्र जयज्ञानं सप्तमं वेदितव्यम् ।

[४०८।१६-४०८।१७]
सप्तभूमिवैराग्यादपि चोर्ध्वंभवाग्रवैराग्ये विमुक्तिमार्गेष्वष्टासु सप्तैव ज्ञानानि भाव्यन्ते ।

[४०८।१७-४०८।१८]
धर्मान्वयदुःखसमुदयनिरोधमार्गपरचित्तज्ञानानि ।

[४०८।१८]
संवृतिज्ञानं न भाव्यते ।
भवाग्राप्रतिपक्षत्वात् ।

[४०८।१८-४०८।१९]
प्रत्युत्पन्नं तु चतुर्णामन्वयज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् ।

[४०८।२०]
शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना ।

[४०८।२१-४०८।२३]
शैक्षस्येन्द्रियोत्तापनायां विमुक्तिमार्गे सरागस्य षण्णां भावना धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां वितरागस्य सप्तानां परचित्तज्ञानं प्रक्षिप्य ।

[४०८।२३]
संवृतिज्ञानस्याप्युभयोरिति केचित् ।
तत्र मतविकल्पज्ञापनार्थो वाशब्धः ।

[४०८।२४]
प्रयोगमार्गे तु तयोः संवृतिज्ञानस्यापि भावना ।

[४०९।०१]
आनन्तर्यपथ षण्णां

[४०९।०२-४०९।०३]
वीतरागस्यावीतरागस्य वा शैक्षस्येन्द्रियोत्तापनायामानन्तर्यमार्गे षण्णां भावना पूर्ववत् ।

[४०९।०३]
न संवृतिज्ञानस्य ।
दर्शनमार्ग सादृश्यात् ।

[४०९।०४]
न परचित्तज्ञानस्य ।
सर्वानन्तर्यमार्ग प्रतिपिद्धत्वात् ।
किमर्थ प्रतिपिध्यते ।

[४०९।०४-४०९।०५]
अप्रतिपक्षत्वात् ।

[४०९।०६]
भवाग्रविजये तथा ॥ ७.२४ ॥

[४०९।०७]
भवाग्रवैराग्येऽप्यानन्तर्यमार्गेषु षण्णां भावना तथैव ।

[४०९।०८]
नवानां तु क्षयज्ञाने

[४०९।०९]
भवाग्रवैराग्ये नवमो विमुक्तिमार्गः क्षयज्ञानम् ।

[४०९।०९-४०९।१०]
तत्र नवानां ज्ञानानां भावना अन्यत्रानुत्पादज्ञानात् ।

[४०९।११]
अकोप्यस्य दश भावना ।

[४०९।१२]
यस्त्वकोप्यधर्मा भवति तस्य दशानां ज्ञानानां भावना ।

[४०९।१२-४०९।१३]
अनुत्पादज्ञानलाभात् ।

[४०९।१४]
तत्संचरेऽन्त्यमुक्तौ च

[४०९।१५]
योऽप्यकोप्यतां संचरति तस्याप्यन्त्ये विमुक्तिमार्गे दशानां भावना ।

[४०९।१६]
प्रोक्तशेषेऽष्टभावना ॥ ७.२५ ॥

[४०९।१७]
किं पुनः शेषम् ।

[४०९।१७-४०९।१९]
कामवैराग्ये नवमो विमुक्तिमार्गः सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः अकोप्यप्रतिवेधोऽष्टौ विमुक्तिमार्गाः सर्वे च वीतरागस्य प्रयोगविशेषमार्गाः ।

[४०९।१९]
तेषु सर्वेष्वष्टौ ज्ञानानि भाव्यन्ते ।

[४०९।२०]
अनागतभावनया क्षयानुत्पादज्ञाने हित्वा ।
शैक्षस्यैवम् ।

[४०९।२०-४०९।२१]
अशैक्षस्य पुनरभिज्ञादिप्रयोगविमुक्तविशेषमार्गेषु नव ज्ञानानि दश वा ।

[४०९।२१-४०९।२३]
अभिज्ञाव्यवकीर्णभावितानन्तर्यविमुक्तिमार्गेषु त्वष्टौ नव वा द्वयोस्त्वभ्हिज्ञाविमुक्तिमार्गयोरव्याकृतत्वान्न किचिदनागते भाव्यते ।

[४०९।२३-४१०।०१]
पृथग्जनस्य तु कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु ध्यानभूमिकेषु च प्रयोगाभिज्ञात्रयविमुक्तिमार्गाप्रमाणादिगुणाभिनिर्हारेषु संवृतिज्ञानमनागतं भाव्यते परचित्तज्ञानं चान्यत्र निर्वेधभागीयेभ्यः ।

[४१०।०१]
तेषु हि परचित्तज्ञानं न भाव्यते ।
दर्शनमार्गपरिवारत्वात् ।

[४१०।०२]
अन्यत्रापूर्वमार्गलाभे संवाऋतिज्ञानमेवानागतं भाव्यते ।

[४१०।०३]
अथ कस्मिन्मार्गे कतिभूमिकं ज्ञानं भाव्यते ।

[४१०।०३-४१०।०४]
संवृतिज्ञानं तावद्यद्भूमिको मार्गो यां च प्रथमतो भूमि लभते तद्भूमिकमनागतं भाव्यते ।

[४१०।०४-४१०।०५]
अनास्रवं तु न केवलं यद्भूमिको मार्गः ।

[४१०।०५]
किं तर्हि ।

[४१०।०६]
यर्द्वराग्याय यल्लाभस्तत्र चाधश्च भाव्यते ।

[४१०।०७-४१०।०९]
यद्भूमिवैराग्यायापि हि द्विविधोऽपि मार्गो भवति प्रयोगमार्गादिः यां च भूमि लभते वैराग्यतस्त्द्भूमिकान्यधोभूमिकानि चानास्रवाणि ज्ञानानि भावनां गच्छन्ति ।

[४१०।१०]
सास्रवाश्च क्षयज्ञाने

[४१०।११-४१०।१३]
क्षयज्ञाने तु सर्वभूमिकाः सास्रवा अपि गुणाः क्षयज्ञानलाभिका भावनां गच्छन्ति अ४ भानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः रज्जुच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण ।

[४१०।१३-४१०।१४]
स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्यपोरप्तौ प्राभृतेन विषयप्रत्युद्गमनवत् ।

[४१०।१५]
यत्किचिल्लभ्यते तत्सर्व भाव्यते ।
यदपूर्व लभ्यते तत्भाव्यते ।

[४१०।१६]
लब्धपूर्व न भाव्यते ॥ ७.२६ ॥

[४१०।१७]
यद्विहीनं पुनर्लभ्यते न त्त्भाव्यते ।
भावितोत्सृष्टत्वात् ।

[४१०।१८]
किं खलु प्रतिलम्भ एव भावना नेत्युच्यते ।
चतुर्विधा हि भावना ।

[४१०।१९]
प्रतिलम्भभावना निषेवणभावना प्रतिपक्षभावना विनिर्धावनभावना च ।
तत्र

[४१०।२०-४१०।२१]
प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने ।
प्रतिपक्षविनिर्धवभावने सास्रवस्य तु ॥ ७.२७ ॥

[४११।०१]
प्रतिलम्भनिषेवणभावने कुज्ञलसंस्कृतानां धर्माणामनागतानामेका प्रत्युत्पन्नानामुभे ।

[४११।०२]
प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् ।

[४११।०२-४११।०३]
तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति ।

[४११।०३]
अनास्रवाणां द्वे क्लिष्टाव्याकृतानां च ।

[४११।०३-४११।०४]
बाह्याभिधर्मिकाणां षट्भाव्नाः ।

[४११।०४]
एताश्चतस्रः संवरभावना विभावन च ।

[४११।०४-४११।०५]
इन्द्रियाणां पूर्वी कायस्योत्तरा ।

[४११।०५-४११।०६]
“षडिगानीन्द्रियाणि सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन्काये क्लेशा” इति विस्तरः ।

[४११।०६-४११।०७]
ते तु प्रतिपक्षनिर्धावभावनान्तर्भूते इति काश्मीराः ।

[४११।०७-४११।०८]
सामान्येन सर्वेषां पुद्गलानां क्षय
ज्ञाने गुणभावनोक्ता ।

[४११।०९]
अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः ।

[४११।१०]
ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति नान्यस्य ।
कतमेऽष्टादश ।

[४११।११]
दश बलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि महाकरुणा च ।

[४११।११-४११।१२]
असाधारणं ह्यावेणिकमित्युच्यते ।

[४११।१२]
तत्र

[४११।१३]
स्थानास्थाने दश ज्ञानानि

[४११।१४]
स्थानास्थानज्ञानबलं दश ज्ञानानि ।

[४११।१५]
अष्टौ कर्मफले

[४११।१६]
कमविपाकज्ञानबलमष्टी ज्ञानानि ।
निरोधमार्गज्ञाने हित्वा ।

[४११।१७]
नव ॥ ७.२८ ॥

[४११।१८]
ध्यानाद्यक्षाध्हिमोक्षेषु धातौ च

[४११।१९]
ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नव ज्ञानानि ।
निरोध ज्ञानं हित्वा ।

[४११।१९-४११।२०]
एवमिन्द्रियपरापरज्ञान बलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं वेदितव्यम् ।

[४११।२१]
प्रतिपत्सु तु ।

[४१२।०१]
दश वा

[४१२।०२]
नव वेति मतविकल्पाऽर्थो वाशब्दः ।
यदि सफला प्रतिपत्गृह्यते ।

[४१२।०२-४१२।०३]
सर्वत्रगामिनी प्रतिपज्ज्ञानबलं दश ज्ञानानि ।

[४१२।०३]
न चेन्नव ।
अन्यत्र निरोधज्ञानात् ।

[४१२।०४]
संवृतिज्ञानं द्वयोः

[४१२।०५]
पूर्वनिवासानुस्मृतिज्ञानबलं च संवृतिज्ञानम् ।

[४१२।०६]
षट्दश वा क्षये ॥ ७.२९ ॥

[४१२।०७]
आस्रवक्षयज्ञानबलं सड्ज्ञानानि धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानिम् ।

[४१२।०८]
यदि निरोधज्ञानमेवास्रवक्षयज्ञानम् ।

[४१२।०८-४१२।०९]
अथ क्षीणस्रवसंताने ज्ञानमास्रवक्षयज्ञानं ततो दश ज्ञानानि ।

[४१२।१०]
उक्तः स्वभावो भूमिरिदानीमुच्यते ।

[४१२।११]
प्राङिनविसच्युतोत्पादबलध्यानेषु

[४१२।१२]
च्युतिरेव च्युतम् ।
पूर्वनिवासच्युत्युपपतीज्ञानं बलं चतुर्ध्यानभूमिकम् ।

[४१२।१३]
शेषितम् ।

[४१२।१४]
सर्वभूमिषु

[४१२।१५]
शेषं बलं सर्वभूमिसंगृहीतम् ।
ताः पुनरेकादश ।

[४१२।१५-४१२।१६]
कामधातुरनागम्य ध्यानान्तरं ध्यानारुप्याश्च ।

[४१२।१६]
सर्वाणि ।
जम्बूद्वीपपुरुषाश्रयाणि ।
अन्यत्र दुद्धानुत्पादात् ।

[४१२।१६-४१२।१७]
तदेतद्दशविधं ज्ञानमन्यस्य बलं नोच्यते ।

[४१२।१७]
बुद्धस्यैव बलमिति ।

[४१२।१८]
केनास्य बलमव्याहतं यतः ॥ ७.३० ॥

[४१२।१९]
यस्मादस्य सर्वत्र ज्ञेये ज्ञानभव्याहतं वर्तते तस्माद्वलम् ।

[४१२।१९-४१२।२०]
अनेषां तु व्याहन्यते ।

[४१२।२०-४१३।०१]
ज्ञानं ववचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाध्यां लब्धुम् ।

[४१३।०१-४१३।०२]
स्थविरशारिपुत्रेण प्रव्रज्यापेक्षपुरुषप्रत्याख्यानं श्येनोपद्रुतस्य पक्षिण उपपत्त्यादीपर्यन्ताज्ञानं चात्रोदाहरणम् ।

[४१३।०२-४१३।०३]
एवं तावदव्याहतज्ञानत्वाद्बुद्धानां ज्ञेयवदनन्तं मानसं बलम् ।

[४१३।०४]
नारायणबलं काये

[४१३।०५]
काये पुनर्बुद्धस्य नारायणं बलं वर्णयति

[४१३।०६]
संधिष्वन्ये

[४१३।०७]
सन्धौ सन्धौ नारायणबलमित्यपरे ।

[४१३।०७-४१३।०८]
मानसवत्कायिकमप्यस्यान तं बलमिति भदन्तः ।

[४१३।०८]
अन्यथा ह्यननतज्ञानबलसहिष्णु नं स्यादिति ।

[४१३।०८-४१३।०९]
नागग्रन्धिशङ्कलाशङ्कुसंधयश्च बुधप्रत्येकबुद्धचक्रवर्तिनः ।

[४१३।१०]
किं पुनर्नारायणस्य बलस्य प्रमाणम् ।

[४१३।११]
दशाधिकम् ।

[४१३।१२]
हस्त्यादिसप्तकबलम्

[४१३।१३]
यद्दशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः ।

[४१३।१३-४१३।१४]
एवं महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां दशोत्तरवृद्धिर्वत्तव्या ।

[४१३।१४-४१३।१५]
प्राकृतगन्धहस्तिमहानग्नप्रस्कन्दिनां दशात्तरवृद्धच्यार्धनारायणं बलं तत्द्विगुणं नारायण मित्यपरे ।

[४१३।१५-४१३।१६]
यथा तु वहुतर तथा युज्यते ।

[४१३।१७]
स्प्रष्टव्यायतनं च तत् ॥ ७.३१ ॥

[४१३।१८]
तच्चतत्कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष एव ।

[४१३।१९]
उपादायरूपं सप्तभ्योऽर्थान्तरमित्यपरे ।
उक्तानि वलानि ।

[४१३।२०]
वैशारध्यं चतुर्धा तु

[४१३।२१]
यथासूत्रम् ।
एतानि पुनश्चत्वारि वैशारद्यानि

[४१४।०१]
यथाद्यदशमे बले ।

[४१४।०२]
द्वितीयसप्तमे चैव ।

[४१४।०३-४१४।०४]
यथा स्थानास्थानज्ञानबलमेवं सम्यक्संबुद्धस्य वत मे सते इत्येतद्वैशारद्यं वेदितव्यम् ।

[४१४।०४]
यथास्रवक्षयज्ञानबलमेवं क्षीणास्रवस्य वत मे सत इत्येतद्वैशारद्यम् ।

[४१४।०५-४१४।०६]
यथा कर्मस्वकज्ञानवलमेवं ये वा पुनर्मया श्रावकाणामन्तरायिका धर्मा आध्याता इत्येतद्वैशारद्यम् ।

[४१४।०६-४१४।०७]
यथा सर्वत्रगामिनी प्रतिपज्ज्ञानं वलमेवं यो व पुनर्मया श्रावकाणां निर्याणाय मार्ग आध्यात इत्येतद्वैशारद्यं वेदितव्यम् ।

[४१४।०७-४१४।०८]
कथं न ज्ञानमेव वैशार्द्यम् ।

[४१४।०८]
निर्भयता हि वैशारद्यम् ।

[४१४।०८-४१४।०९]
एभिश्च निर्भयो भवति ।

[४१४।०९]
ज्ञानकृतं वैशारद्यं युज्यते ।
न ज्ञानमेव ।

[४१४।१०]
त्रीणि स्मृत्युपस्थानानि पर्षद्भेदात्भवन्ति यथासूत्रम् ।
तत्त्वेतत्

[४१४।११]
स्मृतिप्रज्ञात्मकं त्रयम् ॥ ७.३२ ॥

[४१४।१२]
स्मृतिसंप्रज्ञानस्वभावान्येतानि त्रीणि स्मृत्युपस्थानानि ।

[४१४।१२-४१४।१३]
यदा श्रावकस्यापि शुश्रूषमाणाशुश्रूपमाणोभयेष्वानन्दी न भवत्याघातो वा ।

[४१४।१४]
कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते ।
सवासनप्रहाणात् ।

[४१४।१४-४१४।१६]
अथवा यस्य श्रावकास्तस्य चच्छूश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः सुतरां न तथाऽन्यस्येति तस्यैव तानुत्पादादाश्चर्य व्यवस्थाप्यते नान्यस्येति ।

[४१४।१७]
महाकरुणेदानी वक्तव्या ।
सेयमुच्यते ।

[४१४।१८]
महाकृपा संवृतिधीः

[४१४।१९]
संवृतिज्ञानात्मिका महाकरुणा ।

[४१४।१९-४१४।२०]
अन्यथा हि न सर्वसत्त्वालम्बना सिध्येत्न च त्रिदुःखताकारा ।

[४१४।२०]
करुणावत् ।
कस्मादियं महाकरुणेत्युच्यते ।

[४१४।२१]
संभाराकारगोचरैः ।

[४१५।०१]
समत्वादाधिमाव्याच्च

[४१५।०२]
सभारेण महापुण्यज्ञानसंभारसमुदागमात् ।
आकारेण त्रिदुःखताकरणात् ।

[४१५।०३]
आलम्बनेन त्रिधातुकालम्बनात् ।
समत्येन सर्वसत्त्वेषु समवृत्तित्वात् ।

[४१५।०३-४१५।०४]
अभिमात्रत्वेन सर्वस्त्त्वेषु समवृत्तित्वात् ।

[४१५।०४]
अधिमात्रत्वेन ततोऽधिमात्रतराभावात् ।

[४१५।०५]
करुणामहाकरुणयोः किं नानाकरणम् ।

[४१५।०६]
नानाकरणमष्ट्धा ॥ ७.३३ ॥

[४१५।०७]
स्वभावतोऽद्वेषामोहस्वभावत्वात् ।

[४१५।०७-४१५।०८]
आकारत एकत्रिदुःखताकारत्वात् ।

[४१५।०८]
आलम्बनत एकत्रिधात्वालम्बनत्वात् ।

[४१५।०८-४१५।०९]
भूमितश्चतुर्ध्यानचतुर्थध्यानभूमिकत्वात् ।

[४१५।०९]
संतानतः श्रावकादिबुद्धसंतानजत्वात् ।

[४१५।०९-४१५।१०]
लाभतः कामधातुभवाग्रवैराग्यलभ्यत्वात् ।

[४१५।१०]
अपरित्राणपरित्राणतः अतुल्यकरुणायनाच्च ।

[४१५।११]
किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति ।
नेत्याह ।

[४१५।१२-४१५।१३]
संभारधर्मकायाभ्यां जगतश्चार्थचर्यया ।
समता सर्वबुद्धानां नायुर्जातिप्रमाणतः ॥ ७.३४ ॥

[४१५।१४]
त्रिभिः कारणैः साम्यं सर्वबुद्धानाम् ।

[४१५।१४-४१५।१५]
सर्वपुण्यज्ञानसंभारसमुदागमतः धर्मकायपरिनिष्पत्तितः अर्थचर्यया च लोकस्य ।

[४१५।१५]
आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति ।

[४१५।१६-४१५।१७]
चिराल्पतरजीवनात्क्षत्रियव्राह्मणजातिभेदात्काश्यपगौतमादिगोत्रभेदातल्पानल्पप्रमाणभेदाच्च यथकालमिति ।

[४१५।१७-४१५।१९]
एतामेव च त्रिविधां संपदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसंपदं फलसंपदमुपकारसंपदं च ।

[४१५।१९]
तत्र चतुर्धा हेतुसंपत् ।

[४१५।१९-४१५।२०]
सर्वपुण्यज्ञानसंभाराभ्यासो दीर्घकालाभ्यासो निरन्तराभ्यासः सत्कृत्याभ्यासश्च ।

[४१५।२०]
चतुर्विधा फलसंपत् ।

[४१५।२१]
ज्ञानसंपत्प्रहाणसंपत्प्रभावसंपद्रूपकयसंपच्व ।
चतुर्विधोपकारसंपत् ।

[४१५।२१-४१५।२३]
अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसंपत्यानत्रयसुगति प्रतिष्ठापनसंपद्वा ।

[४१५।२३]
ज्ञानसंपत्पुनश्चतुर्विधा ।

[४१५।२३-४१६।०१]
अनुपदिष्टज्ञानं सर्वत्रज्ञान सर्वथाज्ञानमयत्नज्ञानं च ।

[४१६।०१]
चतुर्विधा प्रहाणसंपत् ।

[४१६।०१-४१६।०२]
सर्वक्लेशप्रहाणमत्यन्तप्रहाणं सवासनप्रहाणं सर्वसमाधिसमापत्त्यावरणप्रहाणं च चतुर्विधा प्रभावसंपत् ।

[४१६।०२-४१६।०४]
बाह्यविषयनिर्माणपरिणामना धिष्ठानवशित्यसंपतायुरुत्प्तर्गाधिष्ठानवशित्वसंपतावृताकाशदूरक्षीप्रगमनाल्पवहुत्वप्रवेशन वशित्वसंपत्विविधनिजाश्चर्यधर्मसंपच्च ।

[४१६।०४-४१६।०५]
चतुर्विधा रूपकायसंपत् ।

[४१६।०५]
लक्षणसंपतनुव्यञ्जनसंपत्बलसंपत्वज्रसारास्थिसंपत् ।

[४१६।०६]
इत्येतत्सामासिकं बुद्धानां माहात्म्यम् ।
अनन्तप्रभेदं तु तद्भिद्यमानं जायते ।

[४१६।०७-४१६।०८]
तच्च पुनर्बुद्धा एव सकलं ज्ञातुं बक्तुं च समर्थाः यद्यनेकासंख्येयं कल्पं जीवितमधितिष्ठेयुः ।

[४१६।०८]
एवं च तावदनन्ताद्भूतगुणज्ञानप्रभावोपकारमाहरत्नाकरास्तथागताः ।

[४१६।०९-४१६।१०]
अथ चपुनर्बालाः स्वगुणदारिद्रच्यहताधिमोक्षाः श्रुण्वन्तोऽपि तां तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते तस्य च धर्मम् ।

[४१६।१०-४१६।११]
पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते तस्य च धर्मम् ।

[४१६।११-४१६।१३]
ते हे श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते ।

[४१६।१३]
अत एव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते ।

[४१६।१४]
अवन्ध्येष्ठपोरकृष्टाशुस्वन्तफलत्वात् ।
उक्तं हि भगवता

[४१६।१५-४१६।१६]
“येऽन्यानपि जिने कारान्करिष्यन्ति विनायके ।
विचित्रं स्वर्गमागम्य ते लप्स्यन्तेऽमृतं पदमि”ति ।

[४१६।१७]
इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते ॥

[४१६।१८]
शिष्यसाधारणा अन्ये धर्माः

[४१६।१९]
श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् ।

[४१६।२०]
केचित्पृथग्जनैः ।

[४१६।२१]
के पुनस्त इति यथायोगम्

[४१६।२२]
अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः ॥ ७.३५ ॥

[४१७।०१-४१७।०२]
अरणप्रणिधिज्ञानप्रतिसंविदभिज्ञाध्यानारुप्यांप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादयः ।

[४१७।०२-४१७।०४]
तत्रारणा नाम कश्चिदेवार्हन् क्लेशप्रभवं सत्त्वानां दुःखं विदित्वात्मानं च दक्षिणीयविशेषं परेषां तदालम्बनं क्लेशोत्पादं परिहर्तुकामस्तादृशं ज्ञानमुत्पादयति भेन परेषां सर्वथाऽपि रणं नोत्पादयति ।

[४१७।०४-४१७।०५]
न कस्यचित्तदालम्बनो राग उत्पद्यते द्वेषो मानो वा ।

[४१७।०५]
नैषा प्रतिपत्कञ्चिदेव रणयतीत्यरणा ।
सा पुनरेषा

[४१७।०६]
संवृतिज्ञानमरणा

[४१७।०७]
अयमस्या स्वभावः ।

[४१७।०८]
ध्यानेऽन्त्ये

[४१७।०९]
चतुर्थध्यान भूमिका सुखप्रतिपदामग्रत्वात् ।

[४१७।१०]
अकोप्यधर्मणः ।

[३४१।७११-४१७११]
नान्यस्यार्हतः ।

[४१७।११-४१७।१२]
अन्यो हि स्वसंतानादपि कदाचित्क्लेशरणं परिहर्तु न शक्नोति ।

[४१७।१३]
नृजा

[४१७।१४]
मनुष्येष्वेवोत्पद्यते त्रिषु द्वीपेषु ।

[४१७।१५]
अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः ॥ ७.३६ ॥

[४१७।१६-४१७।१७]
अनागताः कामावचराः सवस्तुकाः क्लेशाः अस्या आलम्बनं नापरेषां क्लेश उदपादीत्येवं प्रवृत्तत्वात् ।

[४१७।१७-४१७।१८]
अवस्तुकास्तु क्लेशा न शक्याः परिहर्तुं सर्वत्रगाणां सकलस्वभूम्यालम्बनत्वात् ।

[४१७।१८]
यथा चारणोक्ता

[४१७।१९]
तथैव प्रणिधिज्ञानं

[४१८।०१]
तदपि हि संवृतिज्ञानं ध्यानेऽन्त्येऽकोप्यधर्मणः मनुष्याश्रयं च

[४१८।०२]
सर्वालम्बं तु तत्

[४१८।०३]
सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः ।

[४१८।०३-४१८।०४]
आरुप्यास्तु न साक्षात्प्राणिधिज्ञानेन ज्ञायन्ते ।

[४१८।०३]
किं तर्हि ।
निष्पन्नचरितविशेषात् ।

[४१८।०४-४१८।०५]
कर्षकनिदर्शनं चात्रेति वैभाषिकाः ।

[४१८।०५-४१८।०६]
प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानं यद्धि प्रणिधाय प्रान्तकोटिकं चतुर्थ ध्यानं समापद्यते ।

[४१८।०६]
इदं जानीयामिति तद्यथाभूतं जानाति ।
सर्वस्तत्समाधिविषयः

[४१८।०७-४१८।०८]
तथा ।
धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः ॥ ७.३७ ॥

[४१८।०९]
चतस्रो हि प्रतिसंविदः ।

[४१८।०९-४१८।१०]
धर्मप्रतिसंविदर्थप्रतिसंविन्निरुक्तिप्रतिसंवित्प्रतिभानप्रतिसंविच्च ।

[४१८।१०-४१८।११]
ता अपि धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदस्तथैव यथाऽरणा ।

[४१८।११]
किमासां तथैव अकोप्यधर्ममनुष्याश्रयत्वम् ।

[४४१।८११-४१८१२]
आलम्बनभूमिस्वभावविशेषस्त्वासां पृथगुच्यते ।

[४१८।१३]
तिस्रो नामथवाग्ज्ञानमविवर्त्य यथाक्रमम् ।

[४१८।१४-४१८।१५]
नामपदव्यञ्जनकायेष्वर्थवाचिता अविवर्त्यज्ञानं धर्माथंनिरुक्तिप्रतिसंविदो यथाक्रमम् ।

[४१८।१६]
चतुर्थीयुक्तोमुक्ताभिलापमार्गवशित्वयोः ॥ ७.३८ ॥

[४१८।१७]
अविवर्त्यं ज्ञानमिति वर्तते ।

[४१८।१७-४१८।१८]
युक्तमुताभिलापितायां समाधिवशिसंप्रक्याने चाविवर्त्यं ज्ञानं प्रतिभानसंवित् ।

[४१८।१९]
वाङ्मार्गालम्बना चासौ

[४१८।२०]
वाक्च मार्गश्च तस्याः आल्म्वनम् ।

[४१८।२१]
नव ज्ञानानि

[४१९।०१]
नवज्ञानस्वभावा प्रतिभानप्रतिसंविदन्यत्र निरोधज्ञानात् ।

[४१९।०२]
सर्वभूः ।

[४१९।०३]
सर्वभूमिका चासौ कामधातौ यावत्भवाग्रे वाङ्मार्गयोरन्यतरालम्बनात् ।

[४१९।०४]
दश षड्वाऽर्थसंवित्

[४१९।०५]
अर्थप्रतिभानसंवित्सर्वधर्माश्च्चेदर्था दश ज्ञानानि ।

[४१९।०५-४१९।०६]
निर्वाणं चेदर्थः षट्ज्ञानानि ।

[४१९।०६]
धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानि ।

[४१९।०७]
सा सर्वत्र

[४१९।०८]
सा पुनरेषाऽर्थप्रतिसंवित्सर्वभूमिका ।

[४१९।०९]
अन्ये तु सांवृतम् ॥ ७.३९ ॥

[४१९।१०-४१९।११]
अन्ये तु द्वे धर्मनिरुक्तिप्रतिसविदौ संवृतिज्ञानस्वभावे नामकायादिवागालम्बनस्वभावत्वात् ।

[४१९।१२]
कामध्यानेषु धर्मे वित्

[४१९।१३-४१९।१४]
धर्मप्रतिसंवित्पञ्चभूमिका कामधातुचतुर्थध्यानसंगृहीता ऊर्ध्वं नामकायाभावात् ।

[४१९।१५]
वाचि प्रथमकामयोः ।

[४१९।१६]
वाङ्निरुक्तिरित्येकोऽर्थः ।

[४१९।१६-४१९।१७]
निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका ऊर्ध्वं वितर्काभावात् ।

[४१९।१७]
प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः ।

[४१९।१७-४१९।१९]
“पदव्यञ्जने तस्यैवर्थे तस्यैकद्विवहुस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्माविप्रतिसंविद” इत्यत एवासां क्रमसिद्धिः ।

[४१९।१९]
निर्वचनं निरुक्तिः ।

[४१९।१९-४१९।२०]
यथा रुप्यते तस्माद्रूपमित्येवमादि ।

[४१९।२०]
उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे ।

[४१९।२०-४१९।२१]
आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दवैद्या हेतुविद्या च पूर्वप्रयोगो यथाक्रमम् ।

[४१९।२१-४२०।०१]
नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोतीति ।
[४२०।०१]
बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति ।

[४२०।०२]
यस्य चैका तस्यावश्यं चतस्रः प्रतिसंविदी भवन्ति ।

[४२०।०३]
विकलाभिर्न तल्लाभी

[४२०।०४]
नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति ।

[४२०।०५]
ये चैत उपदिष्टा अरणादयो गुणाः ।

[४२०।०६]
षडेते प्राण्तकोटिकाः ॥ ७.४० ॥

[४२०।०७]
प्रान्तकोटिकध्यानवलेनैषां लाभः ।

[४२०।०८]
तत्षडिवधं

[४२०।०९]
तदपि प्रान्तकोटिकं चतुर्थ ध्यानं षडात्मकम् ।

[४२०।०९-४२०।१०]
अरणाप्रणिधिज्ञानं तिस्रः प्रतिसंविदः ।

[४२०।१०]
तदेव प्रन्तकोटिकम् ।

[४२०।१०-४२०।११]
निरुक्तिप्रतिसंविदस्तद्वलेन लाभो न तु सा चतुर्थध्यानभूमिका ।

[४२०।१२]
किं पुनरिदं प्रान्तकोटिकं नाम ।

[४२०।१२-४२०।१३]
ध्यानमन्त्यं चतुर्थं ध्यानम् ।

[४२०।१४]
सर्वभूम्यनुलोमितम् ।

[४२०।१५]
वृद्धिकाष्टागतं तच्च

[४२०।१६]
कथं सर्वभूम्यनुलोमितम् ।
कामावचराच्चित्तात्प्रथमं ध्यानं समापद्यते ।

[४२०।१७]
ततो द्वितीयमेवं क्रमेण यावन्नैवसंज्ञानासंज्ञायतनम् ।

[४२०।१७-४२०।१८]
प्रतिलोमं पुनर्यावत्कामावचरं चित्तं ततः पुनरनुलोमं यावच्चतुर्थध्यानमेवं सर्वभूम्यनुलोमितम् ।

[४२०।१८-४२०।१९]
कथं वृद्धिकाष्टागतम् ।

[४२०।१९]
तथाभावितान्मृदुनो मध्यं मध्यादधिमात्रं समापद्यते ।

[४२०।१९-४२०।२०]
वृद्धिप्रकर्षो हि वृद्धिकाष्टा ।

[४२०।२०]
इदमीदृशं प्रान्तकोटिकं प्रगताऽन्त कोटिरस्येति कृत्वा ।

[४२०।२०-४२०।२१]
कोटिः पुनरत्र वृद्धिः प्रकारो वा ।

[४२०।२१]
चतुष्कोटिकवत् ।

[४२०।२२]
एते पुनः बुद्धतुणाः

[४२१।०१]
बुद्धान्यस्य प्रयोगजाः ॥ ७.४१ ॥

[४२१।०२]
बुद्धादन्यस्य प्रायोगिका न वैराग्यलाभिकाः ।
बुद्धस्य नास्ति किञ्चित्प्रायोगिकम् ।

[४२१।०३]
तस्य सर्वधर्मेश्वरत्वादिच्छामात्र प्रतिबधः सर्वगुणसंपत्संमुखीभावः ।

[४२१।०३-४२१।०४]
इमे तावच्छ्रादकसाधारणगुणा अभिज्ञादयः पृथग्जनैरपि ।

[४२१।०५]
केयमभिज्ञा नाम ।

[४२१।०६]
ऋद्ध्हिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये ।

[४२१।०७]
ज्ञातसाक्षीक्रियाऽभिज्ञा षड्विधा

[४२१।०८]
ऋद्धिविषये ज्ञानसाक्षात्क्रिया अभिज्ञा ।

[४२१।०८-४२१।०९]
दिव्यश्रोत्रचेतःपर्यायपूर्वनिवासानुस्मृतिच्युत्युत्पपादास्रवक्षयज्ञानसाक्षात्क्रिया अभिज्ञाः ।

[४२१।०९]
एताः षडभिज्ञा ।

[४२१।०९-४२१।१०]
आसां पञ्च पृथग्जनैः साधारणाः ।

[४२१।१०]
सर्वास्त्वेताः

[४२१।११]
मुक्तिमार्गधीः ॥ ७.४२ ॥

[४२१।१२]
विमुक्तिमार्गप्रज्ञास्वभावाः ।
श्रामण्यफलवत् ।

[४२१।१३]
चतस्रः संवृतिज्ञानं

[४२१।१४]
चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा ।

[४२१।१५]
चेतसि ज्ञानपञ्चकम् ।

[४२१।१६]
चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि ।

[४२१।१७]
क्षयाभिज्ञा बलं यद्वत्

[४२१।१८]
यथास्रवक्षयज्ञानवलमुक्तं तथा वेदितव्या ।
षड्दश ज्ञानानीति ।

[४२१।१८-४२१।१९]
सर्वभूमिकाऽप्येषा तथैव ज्ञात्व्या ।

[४२१।१९]
शेषास्तु

[४२२।०१]
पञ्च ध्यानचतुष्टये ॥ ७.४३ ॥

[४२२।०२]
पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः ।
कस्मादारुप्यभूमिका न सन्ति ।

[४२२।०२-४२२।०३]
तिस्रस्तावन्न सन्ति ।

[४२२।०३]
रूपालम्बनत्वात् ।

[४२२।०३-४२२।०४]
चेतःपर्यायाभ्हिज्ञापि नास्ति रूपतीर्थाभिनिष्पाद्यत्वात् ।

[४२२।०४]
पूर्वनिवासस्मृतिरप्यनुपूर्वावस्थान्तरमरणाभिनिष्पत्तेः ।

[४२२।०४-४२२।०५]
स्थानगोत्राद्यालम्बनत्वाच्च ।

[४२२।०५-४२२।०६]
परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्लाति ।

[४२२।०६-४२२।०७]
कीदृशेऽपि मे काये कीदृशं चित्तं भवत्येवं परेषामप्याभुजतश्चित्तज्ञानादभिनिष्पन्ना भवति ।

[४२२।०७]
अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति ।

[४२२।०७-४२२।०९]
पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य तत्समनन्तरप्रातिलोम्येनावस्थान्तराणि मनसिकरोति ।

[४२२।०९-४२२।१०]
यावत्संधिचित्तम् ।

[४२२।१०]
ततोऽन्तराभवस्यैकक्षणं मरणेऽपि निष्पन्नो भवति ।

[४२२।१०-४२२।११]
एवं परस्यापि स्मरति ।

[४२२।११-४२२।२११]
अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् ।

[४२२।११]
अनुभूतपूर्वस्यैव स्मरणम् ।

[४२२।१२]
शुद्धावासानां कथं स्मरणम् ।
श्रवणेनानुभूतत्वात् ।

[४२२।१२-४२२।१३]
आरुप्यच्युतस्येहोपपन्नस्य परसंतत्यधिष्ठानेनोत्पादनम् ।

[४२२।१३]
अन्येषां स्वसंतत्यधिष्ठानेन ।

[४२२।१३-४२२।१४]
ऋद्ध्यादीनां तु लघत्वशब्दालोकमनसिकरणं प्रयोगः ।

[४२२।१४]
ताः पुनरेताः पञ्चाभिज्ञाः

[४२२।१५]
स्वाधोभूविषयाः

[४२२।१६]
यद्भूमिका ऋद्धच्यभ्हिज्ञा भवति तां भूमि तया गच्छति ।

[४२२।१६-४२२।१७]
निर्मिणोति वा अधरां नोक्तराम् ।

[४२२।१७-४२२।१८]
एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोत्यधरभूमिकं वा नोर्ध्वभूमिकम् ।

[४२२।१८]
चेतः पर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं जानाति ।

[४२२।१८-४२२।१९]
पूर्वनिवासानुस्मृत्या न स्मरति ।

[४२२।१९]
च्युतोपपादाभिज्ञया न पश्यति ।

[४२२।१९-४२२।२०]
अत एवारुप्यभुमिकं चित्तं चेतःपर्यायपूर्वनिवासभिज्ञाभ्यां न गृह्लात्युर्ध्वभूमिकत्वात् ।

[४२२।२१]
कथमेता लभ्यन्ते ।
अतुचित्ताः प्रयोगतः

[४२२।२२]
लभ्या उचितास्तु विरागतः ।

[४२२।२३]
जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते वैशेषिक्यः प्रयोगतः ।

[४२२।२३-४२२।२४]
सर्वासां तु प्रयोगेणोत्पादनम् ।

[४२२।२५]
तृतीया त्रीप्युपस्थानानि

[४२३।०१]
चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि ।

[४२३।०१-४२३।०२]
चित्तचैत्तालम्ल्बनत्वात् ।

[४२३।०३]
आद्यं श्रोत्रर्द्विवक्षुषि ॥ ७.४४ ॥

[४२३।०४]
अभिज्ञेति वर्तते ।

[४२३।०४-४२३।०५]
ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा आद्यं स्मृत्युपस्थानमित्यर्थः ।

[४२३।०५]
रूपालम्बनत्वात् ।
ऋद्धिश्चतुर्बाह्यायतनालम्बनाऽन्यत्र शब्दात् ।

[४२३।०६]
दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने ।

[४२३।०६-४२३।०७]
कथं तर्हि “च्युतोपपादज्ञानेनैव जानाति अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः” इत्येवमादि ।

[४२३।०७-४२३।०८]
न तत्तेन जानाति ।

[४२३।०८]
अभिज्ञापरिवारज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति ।

[४२३।०९]
अनिर्धारणाच्छेषे चतुःस्मृत्युपस्थानस्वभावे इति सिद्धम् ।

[४२३।१०]
अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः ।

[४२३।११]
दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते ।
ते पुनश्चक्षुःश्रोत्रविज्ञानसंप्रयुक्तप्रज्ञे ।

[४२३।१२]
कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः ।
आश्रयवशेन तद्भूमिनिर्देशात् ।

[४२३।१२-४२३।१३]
तदाश्रये हि चक्षुःश्रोत्रे चतुर्ध्यानभूमिके ।

[४२३।१३]
आनन्तर्यमार्गवशेन वा ।

[४२३।१३-४२३।१४]
अन्याश्चतस्रः कुशलाः ।

[४२३।१४]
यत्तर्हि प्रकरणेषूक्तम् “अभिज्ञा कतमा ।
कुशला प्रज्ञे”ति ।

[४२३।१४-४२३।१५]
प्रधानिक एष निर्देशो वाहुलिको वा ।

[४२३।१५]
आसां चाभिज्ञानां

[४२३।१६]
तिस्रो विद्याः

[४२३।१७]
पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः अशैक्ष्यो विद्या उच्यन्ते ।

[४२३।१८]
कस्मादेता एव नान्याः ।

[४२३।१९]
अविद्यायाः पूर्वान्तादौ निवर्त्तनात् ॥ ७.४५ ॥

[४२३।२०]
एता हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् ।
आसां परमार्थेन

[४२४।०१]
अशैक्ष्यन्त्या

[४२४।०२]
आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या ।

[४२४।०३]
तदास्ये द्वे तत्संतानसुद्भवात् ।

[४२४।०४]
अन्ये द्वे अशैक्ष्यसंतानसंभूतत्वादशैक्ष्यावुच्येते ।
नैव तु ते शैक्ष्यो नाशैक्ष्यौ ।

[४२४।०४-४२४।०५]
किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते ।

[४२४।०५]
यतः शैक्ष्यौ विद्ये नोच्येते ।

[४२४।०६]
इष्टे शैक्ष्स्य नोक्ते तु विद्ये साविद्यसंततेः ॥ ७.४६ ॥

[४२४।०७]
न हि साविद्यसंताने विद्याव्यवस्थानं युज्यते ।
पुनरप्यविद्याभिभवात् ।

[४२४।०८]
आसां चाभिज्ञानाम्

[४२४।०९]
आद्या तृतीया षष्ठी च प्रातिहार्याणि

[४२४।१०-४२४।११]
ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रममृद्धच्यादेशनानुशासनप्रातिहार्याणि ।

[४२४।११-४२४।१२]
विनेयमनसामादितोऽत्यर्थ हरणात्प्रातिहार्याणि प्रातिशब्दयोरादिकर्मबृशार्थत्वात् ।

[४२४।१२-४२४।१३]
प्रतिहतमध्यस्थानां मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा ।

[४२४।१३]
एषां पुनः

[४२४।१४]
शासनम् ।

[४२४।१५]
अग्च्र्यम्

[४२४।१६]
अनुशासनं प्रतिहार्यमग्च्य म् ।

[४२४।१७]
अव्यभिचारित्वाद्धितेष्टफलयोजनात् ॥ ७.४७ ॥

[४२४।१८]
ऋद्धच्यादेशने हि विद्यया विकेइयेते ।

[४२४।१८-४२४।१९]
अस्ति हि च गान्धारी नाम विद्या ययाफाशेन गच्छति ईक्षणिका च नाम विद्या यया परचित्तं जानाति ।

[४२४।१९-४२५।०१]
न तु यथाभूतानुशासनमन्यथा शक्यं कर्तुमव्य्भिचारित्वात् ।

[४२५।०१-४२५।०३]
प्रधानमावर्जनमात्रं च ताभ्यामनुशासनप्रातिहार्येण तु हितेन इष्टेनफलेन योगो भवत्युपायोपदेशादित्येवावश्यमृद्धिरित्युच्यते ।

[४२५।०४]
केयमृद्धिः ।
वैभाषिकन्यायेन

[४२५।०५]
ऋद्धिः समाधिः

[४२५।०६]
ऋध्यत्यनेनेति कृत्वा योजयितव्यम् ।
किं तेन समृध्यति ।

[४२५।०७]
गमनं निर्माणं च

[४२५।०८]
ततस्तत्र

[४२५।०९]
गतिस्त्रिधा ।

[४२५।१०]
शरीरवाहिनी आधिमोक्षिकी मनोजवा च तत्र गतिः ।

[४२५।११]
शास्तुर्मनोजवा

[४२५।१२]
मनस इवास्या रव इति मनोजवा गतिर्बुद्धस्यैव नान्यस्य ।

[४२५।१२-४२५।१३]
सुदूरमपि देशं चित्तोत्पादकालेल्न गमनात् ।

[४२५।१३]
अत ए”वाचिन्त्यो बुद्धानां बुद्धविषय” इत्युक्तं भगवता ।

[४२५।१४]
इतरे तु गती बुद्धस्यानुक्तसिद्धे ।

[४२५।१५]
अन्येषां वाहिन्यप्याधिमोक्षिकी ॥ ७.४८ ॥

[४२५।१६]
श्रावकप्रत्येकबुद्धानां शरीरवाहिनी च गतिः ।
पक्षिवत्क्रमेण शरीरवाहनात् ।

[४२५।१७]
आधिमोक्षिकी च दूरस्यासन्नाधिमोक्षेणाशुगमनात् ।
निर्माणं पुनर्द्विविधम् ।

[४२५।१८]
कामावचरं रूपावचरं च ।
तत्र तावत्

[४२५।१९]
कामाप्तं निर्मितं बाह्यं चतुरायतनं

[४२५।२०]
कामावचरं निर्माणं रूपरसगन्धस्प्रष्टव्यायतनस्वभावम् ।
तत्पुनर्

[४२६।०१]
द्विधा ।

[४२६।०२]
स्वपरशरीरसंबद्धम् ।

[४२६।०३]
रूपाप्तं द्वे तु

[४२६।०४]
रूपावचरनिर्माणं द्वे रूपस्प्रष्टव्यायतने ।
तत्र गन्धरसाभावात् ।

[४२६।०४-४२६।०५]
तदपि द्विविधं तथैव ।

[४२६।०५-४२६।०६]
कामधाताविदं चतुर्विधं निर्माणमेवं रूपधातवित्यष्टविधं समासतो निर्माणम् ।

[४२६।०६-४२६।०७]
कथं रूपधातूपपन्नस्य कामावचरनिर्माणे गन्धरसाभ्यां न समन्वागमो भवति ।

[४२६।०७]
वस्त्राभरणवन्न समन्वागमः ।

[४२६।०७-४२६।०८]
द्वच्यायातनं निर्मिणोतीत्यपरे ।

[४२६।०८]
किं खल्वभिज्ञयैव निर्माणं निर्मीयते ।
नेत्युच्यते ।
किं तर्हि ।

[४२६।०९]
अभिज्ञाफलैः ।

[४२६।१०]
निर्माणचित्तैस्तानि चतुर्दश ॥ ७.४९ ॥

[४२६।११]
तानि पुनश्चतुर्दश निर्माणचित्तानि

[४२६।१२]
यथाक्रमं ध्यानफलं द्वे यावत्पञ्च ।

[४२६।१३]
प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते ।

[४२६।१३-४२६।१४]
द्वितीयध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि ।

[४२६।१४-४२६।१५]
एवं तृतीयचतुर्थध्यानभूमिकानि चत्वारि पञ्च च योज्यानि ।

[४२६।१५]
स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् ।

[४२६।१६]
नोर्ध्वजम् ।

[४२६।१७]
नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति ।

[४२६।१७-४२६।१८]
द्वितीयादिध्यानफलं कामावचरं निर्माणं प्रथमध्यानभूमिकाद्गतितो विशिष्यते ।

[४२६।१९]
तल्लभो ध्यानवत्

[४२६।२०]
तेषां च निर्माणचित्तानां ध्यानवल्लाभः ।
[४२६।२०-४२६।२१]
कि खलु निर्माणचित्तादेव स्यात्व्युत्थानम् ।

[४२६।२१]
नास्त्येतत् ।
यस्मादुत्पद्यते ।

[४२७।०१]
शुद्धात्तत्स्वतश्च

[४२७।०२]
शुद्धकाद्धच्यानादन्तरं निर्माणचित्तमुत्पद्यते निर्माणचित्तद्वा नान्यतः ।

[४२७।०३]
ततोऽपि ते ॥ ७.५० ॥

[४२७।०४]
निर्माणचित्तादपि शुद्धकं ध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् ।

[४२७।०४-४२७।०५]
न हि समाधिफलस्थितस्वाप्रविश्य पुनः समाधिं तस्मात्व्युत्थानमस्ति ।

[४२७।०५-४२७।०६]
सर्वस्य च निर्मितस्य

[४२७।०७]
स्वभूमिकेन निर्माणं

[४२७।०८]
नान्यभूमिकेन निर्माणचित्तेनान्यभूमिकं निर्माणं निर्मीयते ।

[४२७।०९]
भाषणं त्वधरेण च ।

[४२७।१०]
स्वभूमिकेन चेति च-शब्दः ।

[४२७।१०-४२७।११]
कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्यते ।

[४२७।११]
ऊर्ध्वभूमिकस्तु प्रथमध्यानभूमिकेन ।

[४२७।११-४२७।१२]
ऊर्ध्वं विज्ञप्तिसमुत्थापकाभावात् ।

[४२७।१२]
वहूनां निर्मितानां भाषणं

[४२७।१३]
निर्मात्रैव सहाशास्तुः

[४२७।१४]
बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते ।

[४२७।१४-४२७।१५]
यदा च वहवो निर्मिता भवन्ति तदा युगपत्भाषन्ते ।

[४२७।१६]
एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः ।

[४२७।१७]
एकस्य तूष्णींभूतस्य सर्वेतूष्णीं भवन्ति त” इति गाथा ।

[४२७।१८]
बुद्धस्य पूर्व पश्चाद्वा यथेच्छं निर्मिता भाषन्ते ।

[४२७।१८-४२७।१९]
यदा भाषणचित्तं तदा निर्माणचित्ताभावो निर्माणचित्ताभावान्निर्मिताभाव इति कथमेनं भाषयन्ति ।

[४२७।२०]
अधिष्ठायान्यवर्त्तनात् ॥ ७.५१ ॥

[४२८।०१]
निर्माणमधिष्ठायावस्थानकामतयाऽन्येन मनसा वाचं प्रवर्तयन्ति ।

[४२८।०१-४२८।०२]
किं जीवित एवाधिष्ठानमनुवर्तते अथ मृतश्चापि ।

[४२८।०३]
मृतस्याप्यस्त्यधिष्ठानं

[४२८।०४]
आर्यमहाकश्यपाधिष्ठानेन तदस्थिसंकलावस्थानात् ।
तत्तु

[४२८।०५]
नास्थिरस्य

[४२८।०६]
अस्थिरस्य तु भावस्य नास्त्यधिष्ठानम् ।
आर्यकाश्यपेन मांसादीनामध्हिष्ठानात् ।

[४२८।०७]
अपरे तु न ।

[४२८।०८]
अपरे पुनराहुर्नास्ति मृतस्याधिष्ठानम् ।

[४२८।०८-४२८।०९]
अस्थिशङ्कलावस्थानं तु देवतानुभावादिति ।

[४२८।०९]
किमेकेन चित्तेनैकमेव निर्मित निर्मिणोति ।

[४२८।१०]
आदावेकमनेकेन जितायां तु विपर्ययात् ॥ ७.५२ ॥

[४२८।११]
आदित एकं निर्मितमनेकेन निर्माणचित्तेन निर्मिणोति ।

[४२८।११-४२८।१२]
जितायां त्वभिज्ञायामेकेन चित्तेनानेकं निर्मिणोति यावन्निर्मातुमिष्टं भवति ।

[४२८।१२-४२८।१३]
अथ किं सर्वनिर्माणचित्तमव्याकृतं भवति ।

[४२८।१४]
अव्याकृतं भावनाजं

[४२८।१५]
यद्भावनाफलं तदवश्यमव्याकृतं भवति ।

[४२८।१६]
त्रिविधं तूपपतीजम् ।

[४२८।१७-४२८।१८]
उपपत्तिप्रतिलम्भिकं तु निर्माणचित्तं कुशलाकुशलमव्याकृतं भवति देवनागपिशाचादीनाम् ।

[४२८।१८-४२८।१९]
तत्कृतं च स्वपरशरीरनिर्माणं नवायतनिकं भवत्यशब्दरुप्यायतनत्वादिन्द्रियाविनिर्भूतत्वात् ।

[४२८।१९]
न त्विन्द्रियं निर्मीयते ।

[४२८।१९-४२८।२०]
किमेषैव द्विविधर्द्धिभावनामयी चोपपत्तिलाभिका च ।

[४२८।२०]
एषा च द्विविधा

[४२९।०१]
ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ ७.५३ ॥

[४२९।०२]
समास्तः पञ्चविधामृद्ध्हिं वर्णयन्ति ।

[४२९।०२-४२९।०३]
भावनाफलमुपपत्तिलाभिकं मन्त्रजामौषधजां कर्मजां च ।

[४२९।०३]
यथा मान्धातुरन्तराभविकानां च ।

[४२९।०४]
यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च ।

[४२९।०४-४२९।०५]
किमेते दिव्ये एव आहोस्वित्दिव्ये एव दिव्ये ।

[४२९।०५]
यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् ।

[४२९।०६]
दिव्यश्रोत्राक्षिणी

[४२९।०७]
यस्मात्ते

[४२९।०८]
रूपप्रसादौ ध्यानभूमिकौ ।

[४२९।०९-४२९।११]
ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्युपादाय रूपप्रसादौ निर्वर्तेते चक्षुःश्रोत्रसामन्तके रूपशब्द्योर्दर्शनश्रवणहेतू इति ध्यानभूमिकत्वात्दिव्ये एव ते चक्षुःश्रोत्रे ।

[४२९।११]
ते च पुनः

[४२९।१२]
सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे ॥ ७.५४ ॥

[४२९।१३-४२९।१४]
नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात्नापि विकलं काणविब्रान्ताभावात् ।

[४२९।१४]
रूपावचरसत्त्ववत् ।

[४२९।१४-४२९।१५]
दूरसूक्ष्मवतान्यपि रूपाणि शब्धाश्च तयिओर्विष्यः ।

[४२९।१५]
आह चात्र

[४२९।१६-४२९।१७]
दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति ।
मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते ॥

[४२९।१८]
कियद्दूरं पुनर्दिव्येन चक्षुषा पश्यति ।
यस्य यादृशं चक्षुर्भवति ।

[४२९।१८-४२९।२०]
श्रावकप्रत्येकबुद्धबुद्धास्त्वनभ्हिसंस्कारेण साहस्रद्विसाहस्रत्रिसाहस्रकान् लोकधातून् यथासंख्यं पश्यन्ति ।

[४२९।२०]
अभिसंस्कारेण तु

[४३०।०१]
द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्खङ्गवैशिकाः ।

[४३०।०२]
सर्वाभ्हिसंस्कारेण सह श्रावकोऽपि द्विसाहस्र लोकधातुं दिव्येन चक्षुषा पश्यति ।

[४३०।०३]
त्रिसाहस्रं खङ्गविषाणकल्पः ।

[४३०।०३-४३०।०४]
बुद्धस्तु भगवानसंख्येयान् लोकहातून् पश्यति यावदेवेच्छति ।

[४३०।०५]
किमृद्धिरेवोपपत्तिलाभिका भवत्यर्हान्यदपि ।

[४३०।०६]
अन्यदप्युपपत्त्याप्तं

[४३०।०७]
दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलभ्यमस्ति ।

[४३०।०७-४३०।०८]
न तूपपत्त्याप्तं किञ्चिदभिज्ञाख्यां लभते ।

[४३०।०८]
यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः

[४३०।०९]
तद्दृश्यो नान्तरीभवः ॥ ७.५५ ॥

[४३०।१०]
अभिज्ञाचक्षुषैव ह्यन्तराभवो दृश्यते ।
नोपपत्तिप्रतिलब्धेन ।

[४३०।११]
चेतोज्ञानं तु तत्त्रेधा

[४३०।१२]
उपपत्त्याप्तमिति वर्तते ।

[४३०।१२-४३०।१३]
परचित्तज्ञानं तूपपत्तिप्रतिलब्धं त्रिविधं वेदितव्यं कुशलाकुशलाव्याकृतम् ।

[४३०।१४]
तर्कविद्याकृतं च यत् ।

[४३०।१५-४३०।१६]
यच्चापि तार्किकं परचित्तज्ञानं नैमित्तिकानां यच्च विद्याकृतं तदपि त्रिविधं वेदितव्यम् ।

[४३०।१६]
न यथा भावनाफलं कुशलमेव ।

[४३०।१६-४३०।१७]
उपपत्तिप्रतिलम्भिकाभ्यां तु परचित्तज्ञानपूर्वनिवासानुस्मृतिभ्यां

[४३०।१८]
जानते नारका आदौ

[४३०।१९]
यावन्न दुःखवेदनाभ्याहता भवन्ति ।
अन्यगतिस्था नित्यं जानते ।

[४३०।२०]
नृणां नोत्पत्तिलाभिकम् ॥ ७.५६ ॥

[४३१।०१]
मानुष्याणामेतद्यथोक्तमृद्धच्यादिकं नास्त्युपपत्तिप्रातिलम्भिकम् ।

[४३१।०१-४३१।०२]
यत्तर्हि प्रकृतिजातिस्मरा भवन्ति ।

[४३१।०२]
कर्मविशेषजाऽसौ तेषाम् ।

[४३१।०२-४३१।०३]
त्रिविधा हि पूर्वनिवासानुस्मृतिर्भावनाफलमुपपत्तिलब्धा कर्मजा चेति ॥

=====================================================================

[४३१।०४]
॥॥ अभिधर्मकोशभाष्ये ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् ॥॥

[४३१।०५]
स्थविरश्रीलामावाकस्य यदत्र पुण्यम् ।
अष्टमं कोशस्थानम्

=====================================================================

ओं नमो बुद्धाय

=====================================================================

[४३२।०२-४३२।०३]
ज्ञानाधिकारेण ज्ञानमयानां गुणानां कृतो निर्देशः ।

[४३२।०३-४३२।०४]
अस्य स्वभावानां तु कर्तव्य इत्यादित एव ध्यानान्यारभ्यन्ते सर्वगुणाश्रयत्वात् ।

[४३२।०५]
द्विधा ध्यानानि

[४३२।०६]
समासतो द्विविधानि ध्यानान्युपपत्तिसमापत्तिध्यानभेदात् ।
तानि पुनः

[४३२।०७]
चत्वारि

[४३२।०८]
प्रथमं ध्यानं यावच्चतुर्थम् ।
तत्र ध्यानोपपत्तयः पुनर्न वक्तव्याः ।

[४३२।०८-४३२।०९]
लोकनिर्देशकोशस्थाने हि

[४३२।१०]
प्रोक्तास्तदुपपत्तयः ।

[४३२।११]
कथं प्रोक्ताः ।

[४३२।१२]
“पृथक्पृथक् ।

[४३२।१३]
ध्यानं त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकमि”ति ।

[४३२।१४]
समापत्तिध्यानं तु वक्तव्यम् ।
अत उच्यते

[४३२।१५]
समापत्तिः शुभैकाग्य्रं

[४३२।१६]
अभेदेन कुशलचित्तैकाग्रता ध्यानम् ।
समाधिस्वभावत्वात् ।

[४३२।१७]
पञ्चस्कन्धास्तु सानुगम् ॥ ८.१ ॥

[४३२।१८]
सपरिवारं तु पञ्चस्कन्धस्वभावं वेदितव्यम् ।
केयमेकाग्रता नाम ।
एकालम्बनता ।

[४३२।१९]
एवं तर्हि चित्तान्येवैकालम्बनानि समाधिर्न चैतसिकं धर्मान्तरमिति प्राप्नोति ।

[४३३।०१]
न चित्तान्येव समाधिः ।
येन तु तान्येकाग्राणि वर्तन्ते स धर्मः समाधिः ।

[४३३।०१-४३३।०२]
सैव चित्तैकाग्रता ।

[४३३।०२-४३३।०३]
ननु च क्षणिकत्वात्सर्वं चित्तमेकाग्रं द्वितीयस्य तस्मादविक्षेप इति चेत् ।

[४३३।०३]
संप्रयुक्ते समाधिवैयर्थ्यम् ।

[४३३।०३-४३३।०४]
यत एव च स्माधिस्तत एव चित्तानामेकालम्बनत्वं किं नेष्यते ।

[४३३।०४-४३३।०५]
महाभूमिकत्वाच्च समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः ।

[४३३।०५]
न दुर्बलत्वात्समाधेः ।
चित्तान्येवैकाग्राणि समाधिः ।

[४३३।०६-४३३।०७]
तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धिप्रधानं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे ।

[४३३।०८]
ध्यानमिति कोऽर्थः ।
ध्यायन्त्यनेनेति ।
प्रजानन्तीत्यर्थः ।

[४३३।०८-४३३।०९]
समाहितचित्तस्य यथाभूतप्रज्ञानात् ।

[४३३।०९]
चिन्तनार्थो ह्येष धातुः ।
चिन्तनं च प्रज्ञेति सिद्धान्तः ।

[४३३।०९-४३३।१०]
एवं तर्हि सर्वसमाधिध्यानप्रसङ्गः ।

[४३३।१०]
न ।
प्रकर्षयुक्ते तन्नामविधानाद्भास्करवत् ।

[४३३।१०-४३३।११]
कश्च प्रकर्षयुक्तः ।

[४३३।११]
योऽङ्गसमायुक्तः समाधिः ।

[४३३।११-४३३।१२]
स हि शमथविपश्यनाभ्यां युगन्द्धवाहित्वाद्दृष्टधर्मसुखविहार उक्तः सुखा च प्रतिपदिति ।

[४३३।१२]
सुतरां तेन ध्यायन्ति ।

[४३३।१३]
क्लिष्टस्य कथं ध्यानत्वम् ।
मिथ्योपनिध्यानात् ।
अतिप्रसङ्गः ।

[४३३।१३-४३३।१४]
न । तत्प्रतिरूप एव तत्संज्ञाविनेवेशात्पूतिबीजवत् ।

[४३३।१४]
उक्तानि चाकुशलानि ध्यानान्यपि भगवता ।

[४३३।१५]
कीदृशं पुनः कुशलमैकाग्य्रं प्रथमं ध्यानं कीदृशं यावच्चतुर्थम् ।

[४३३।१५-४३३।१६]
प्रथमं तावत्

[४३३।१७]
विचारप्रीतिसुखवत्

[४३३।१८]
विचारप्रीतिसुखसंयुक्तं कुशलमैकाग्य्रं तत्प्रथमं ध्यानम् ।

[४३३।१८-४३३।१९]
विचारवचनाद्वितर्कोऽप्युक्तो भवति ।

[४३३।१९]
साहचर्याद्धूमाग्निवत् ।

[४३३।१९-४३३।२०]
न हि प्रीतिसुखवान्विचारो विना वितर्केणास्ति ।

[४३३।२०]
शेषं पुन्र्ध्यानत्रयं

[४३३।२१]
पूर्वपूर्वाङ्गवर्जितम् ।

[४३३।२२]
शुभैकाग्र्यमिति वर्तते ।

[४३३।२२-४३३।२३]
विचारविवर्जितं प्रीतिसुखवत्द्वितीयं विचारप्रीतिवर्जितं तृतीयं विचारप्रीतिसुखवर्जितं चतुर्थमिति ।

[४३३।२३-४३३।२४]
यथा ध्यानानि

[४३३।२५]
तथारूप्याः

[४३४।०१]
केन प्रकारेण ।
एतेऽपि हि द्विधा उपपत्तिसमापत्तितः ।

[४३४।०१-४३४।०२]
चत्वारश्च एषामपि चोपपत्तय उक्ताः ।

[४३४।०२-४३४।०३]
समापत्त्यारुप्यास्वभेदेन कुशलैकाग्रतास्वभावा इत्यनेन प्रकारेण सपरिवाराः

[४३४।०४]
चतुस्कन्धाः

[४३४।०५]
अनुपरिवर्तिरूपाभावात्

[४३४।०६]
अधोभूमिविवेकजाः ॥ ८.२ ॥

[४३४।०७]
चतुर्थध्यानविवेकजं ह्याकाशानन्त्यायतनम् ।

[४३४।०७-४३४।०८]
तद्विवेकजं विज्ञानानन्त्यायतनम् ।

[४३४।०८]
तद्विवेकजमाकिञ्चन्यायतनम् ।

[४३४।०८-४३४।०९]
तद्विवेकजं नैवसंज्ञानासम्ज्ञायतनमित्येवं चत्वार आरुप्याः ।

[४३४।०९]
कोऽयं विवेको नाम ।
येन मार्गेणाधस्ताद्विमुच्यते ।

[४३४।०९-४३४।१०]
वैराग्यगमनात् ।

[४३४।१०]
त एव चारुप्याः

[४३४।११]
विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः ।

[४३४।१२]
आकाशानन्त्यायतनसामन्तकं चतुर्थध्यानालम्बनत्वाद्विभूतरूपसंज्ञाख्यां न लभते ।

[४३४।१३]
न हि तत्र रूपसंज्ञा विभूता न विगतेत्यर्थः ।

[४३४।१३-४३४।१४]
यदुक्तं “चतुस्कन्धा” इति साध्यं तावदेतदारुप्येषु रूपं नास्तीति ।

[४३४।१४]
यदि हि स्यात्कथमारुप्या उच्येरन् ।

[४३४।१४-४३४।१५]
ईषद्रूपत्वा दापिङ्गलवत् ।

[४३४।१५]
कीदृशं तावदीषद्रूपं तत्रेष्यते ।

[४३४।१५-४३४।१६]
यदि कायवाक्संवरमात्रं कथं तदभावे तत्संवरौ भविष्यतः ।

[४३४।१६]
न चासति भूते भौतिकं युज्यते ।

[४३४।१७]
अनास्रवसंवरवच्चेत् ।
सास्रवभूतसद्भावात् ।
स्मापत्तावपि तत्प्रतिषेध उक्तः ।

[४३४।१८]
अथ कायोऽप्यस्तीन्द्रियाण्यपि रूपीणि ।
कथं तदीषद्रूपा इष्यन्ते ।

[४३४।१८-४३४।१९]
परिमाणाल्पत्वाच्चेत् ।

[४३४।१९]
उदकजन्तुकेष्वप्यदृश्यरुपेषु प्रसङ्गः ।
अच्छत्वाच्चेत् ।

[४३४।१९-४३४।२०]
अन्तराभवरूपावचरेष्वपि प्रसङ्गः ।

[४३४।२०]
यतो नाच्छतरं चेत् ।
भवाग्रमेवारुप्यं स्यात् ।

[४३४।२०-४३४।२१]
समापत्तिवत्तदुपपत्तिविशेषात् ।

[४३४।२१-४३४।२२]
ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेन्द्रियाग्रहणात्कस्तत्र विशेषः ।

[४३४।२२]
द्वयोरन्वर्था संज्ञा नारुप्यधातोरिति चेत् ।
काऽत्र युक्तिः ।

[४३४।२२-४३४।२५]
आयुरुष्मणोः संसृष्टवचनान्नडकलापीद्वयवन्नामरूपयोरन्योन्यनिश्रितवचना “द्विज्ञानप्रत्ययं नामरूपमि”ति वचनातन्यत्ररूपाद्यावत्संस्कारेभ्यो विज्ञानस्यागतिगतिप्रतिषेधाच्चारूप्येषु रूपास्तित्वसिद्धिरिति चेत् ।

[४३४।२५]
न ।

[४३४।२५-४३४।२६]
संप्रधार्यं तावदेतद्यदिदमायुरुष्मणोः संसृष्टत्वमुक्तम् ।

[४३४।२६]
किमिदं कामावचरमायुः संधायोक्तमाहोस्वित्सर्वमिति ।

[४३४।२६-४३५।०१]
यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं किमिदं कामरूपावचरं नाम संधायोक्तमाहोस्वित्सर्वमिति ।

[४३५।०१-४३५।०२]
यच्च विज्ञानप्रत्ययं नामरूपमुक्तं किमत्र सर्व विज्ञानं नामरूपस्य प्रत्ययमुक्तमाहोस्वित्सर्वे नामरूपं विज्ञानप्रत्ययमिति ।

[४३५।०३]
यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिप्रतिषेधः ।

[४३५।०३-४३५।०४]
किमत्र सर्वैरेव तैर्विना तत्प्रतिषेध आहोस्वितेकेनापीति ।

[४३५।०४]
अविशेषवचनान्न संप्रधार्यमिति चेत् ।

[४३५।०४-४३५।०५]
अतिप्रसङ्गः ।

[४३५।०५]
बाह्यस्यापि ह्यष्मण आयुषा बिना भावो न प्राप्नोति ।

[४३५।०५-४३५।०६]
बाह्यस्यापि च रूपस्य नामाश्रितत्वमविशेषवचनात् ।

[४३५।०६-४३५।०७]
चतुर्विज्ञानस्थितिवच्चाहारचतुष्कवचनाद्रूपारुप्यधात्वोरपि कवडीकाराहारप्रसङ्गः ।

[४३५।०७-४३५।०८]
“अतिक्रम्य देवान् कवडीकारा हारभक्षानि”ति वचनात्प्रीत्याहारवचनाच्चाप्रसङ्ग इति चेत् ।

[४३५।०८-४३५।०९]
आरुप्येष्वपि रूपस्याप्रसङ्गः ।

[४३५।०९]
“रूपाणां निःसरणमारुप्याः” ।

[४३५।०९-४३५।१०]
“ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्याः” ।

[४३५।१०-४३५।११]
“अरुपिणः सन्ति सत्त्वाः सर्वशो रूपसंज्ञानां समतिक्रमादि”ति वचनात् ।

[४३५।११]
सति हि रुपे स्वं रूपमवश्यं संजानीरन्निति ।

[४३५।११-४३५।१२]
औदारिकमधोभूमिकं रूपमभिसंधायोक्तमिति चेत् ।

[४३५।१२]
कवडीकारेऽपि तुल्यम् ।

[४३५।१२-४३५।१३]
ध्यानानामपि चाधोभूमिनिःसरणत्वादारुप्य प्रसङ्गः ।

[४३५।१३]
वेदनादिनिःसरणं च किं नोक्ताः ।

[४३५।१४]
अधोभूमिकवेदनानिःसरणात् ।
रूपजातिं तु कुत्स्नामतिक्रान्ता न वेदनादिजातिम् ।

[४३५।१५]
अतो रूपाणां निःसरणमुक्ताः ।

[४३५।१५-४३५।१६]
भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणादसर्वानत्यन्त निःसरणाच्च ।

[४३५।१६-४३५।१७]
ध्यानेसु चोक्तं भगवता “यत्तत्र भवति रूपगतं वा यावद्विज्ञानगतं वेति ।

[४३५।१७-४३५।१८]
आरुप्येषु तूक्तं “यत्तत्र भवति वेदनागतं वा यावद्विज्ञानगतं वे”ति ।

[४३५।१८-४३५।१९]
सत्यां तेसु रूपजातौ कस्माद्रूपगतं वेति नावक्ष्यत् ।

[४३५।१९]
तस्मात्

[४३५।२०]
नारुप्ये रूपसद्भावः

[४३५।२१]
कथमिदानीमनल्पकल्पोच्छिन्नाद्रूपात्पुनरपि रुपोत्पत्तिस्ततः प्रच्युतानाम् ।

[४३५।२२]
रुपोत्पत्तिस्तु चित्ततः ॥ ८.३ ॥

[४३५।२३]
रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः ।

[४३५।२३-४३५।२४]
कथमनाश्रित्य रूपं चित्तं वर्तते ।

[४३५।२४]
कस्मान्न वर्तितव्यम् ।
इहैवमदर्शनात् ।

[४३५।२४-४३५।२५]
कवडीकारान्तरेणाऽपि विना रूपधातौ न वर्तितव्यम् ।

[४३५।२५]
किं कारणम् ।
इहैवमदर्शनात् ।

[४३५।२५-४३५।२६]
उक्तं च पूर्वं यथा वर्तते ।

[४३५।२६]
गतमेतदिदं वक्तव्यम् ।

[४३६।०१-४३६।०२]
किमेपामाकाशानन्त्यायतनादीनामाकाशादय एवालम्बनं यत एवं समाख्यायते ।

[४३६।०२]
न हि ।
कथं तर्हि ।
त्रयस्तावत् ।

[४३६।०३]
आकाशानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः ।

[४३६।०४]
तथाप्रयोगात्

[४३६।०५-४३६।०६]
अनन्तमाकाशमनन्तं विज्ञानं नास्ति किञ्चिदित्येव मनसिकुर्वाणस्तेषु प्रयुज्यन्ते यथासंख्यम् ।

[४३६।०६]
अत एषामेताः संज्ञा इति ।

[४३६।०७]
मान्द्याक्तु नसंज्ञनाप्यसंज्ञकः ॥ ८.४ ॥

[४३६।०८]
मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् ।

[४३६।०८-४३६।०९]
न हि सा पट्वी संज्ञा न च पुनर्नैव संज्ञेति ।

[४३६।०९-४३६।१०]
“यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्दः संज्ञाशल्यः आसंज्ञिकसंमोहः एतच्छान्तमेतत्प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनमिति ।

[४३६।११]
कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते ।
मृदुत्वात्संज्ञामित्येतदेवोक्तम् ।

[४३६।१२]
इति मौलं समापत्तिद्रव्यमष्टविधं

[४३६।१३-४३६।१४]
इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि चत्वार आरुप्या इति ।

[४३६।१४]
तेषां पुनः

[४३६।१५]
त्रिधा ।

[४३६।१६]
सप्त

[४३६।१७]
भवाग्रादन्यानि सप्त त्रिविधानि ।

[४३६।१८]
आस्वादनावच्छूद्धानास्रवाणि

[४३६।१९]
आस्वादनासंप्रयुक्तानि शुद्धकान्यनास्रवाणि च ।

[४३७।०१]
अष्टमं द्विधा ॥ ८.५ ॥

[४३७।०२]
भवाग्रमास्वादनासंप्रयुक्तं शुद्धकं च ।
अनास्रव नास्ति ।
तत्र पुनः

[४३७।०३]
आस्वादनासंप्रयुक्तं सतृष्णं

[४३७।०४]
तृष्णा ह्यास्वादना ।

[४३७।०५]
लौकिकं शुभम् ।

[४३७।०६]
शुद्धकं

[४३७।०७-४३७।०८]
लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्चयतेऽलोभादि शुद्धधर्मयोगात् ।

[४३७।०८]
किं पुनस्तेनास्वादनासंप्रयुक्तेनास्वाद्यते ।

[४३७।०९]
तत्तदास्वाद्यं

[४३७।१०]
तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् ।

[४३७।१०-४३७।११]
यदास्वादयति तस्माद्व्युत्थितो येनास्वादयति तत्समापन्नः ।

[४३७।१२]
लोकत्तरमनास्रवम् ॥ ८.६ ॥

[४३७।१३]
यल्लोकोत्तरं समापत्तिद्रव्यं तदनास्रवम् ।

[४३७।१३-४३७।१४]
एषां च समापत्तिद्रव्याणां ध्यानान्येव भवन्ति नारुप्याः ।

[४३७।१४]
तत्र

[४३७।१५]
पञ्चाद्ये

[४३७।१६]
प्रथमे भागे पञ्चाङ्गानि ।

[४३७।१७]
तर्कचारौ च प्रीतिसौख्यसमाधयः ।

[४३७।१८-४३७।१९]
वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता चेत्येतानि पञ्चाङ्गानि समाधिः किलाङ्गं ध्यानं च ।

[४३७।१९]
शेषाण्यङ्गानीति ।

[४३७।१९-४३७।२०]
यथा चतुरङ्गा सेना एवं पञ्चाङ्गं ध्यानम् ।

[४३८।०१]
प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम् ॥ ८.७ ॥

[४३८।०२]
द्वितीये ध्याने चत्वार्यङ्गानि ।

[४३८।०२-४३८।०३]
अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तेकाग्रता च ।

[४३८।०४]
तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः ।

[४३८।०५]
तृतीये तु ध्याने पञ्चाङ्गानि ।
उपेक्षा स्मृतिः संप्रज्ञानं सुखं स्माधिश्च ।

[४३८।०६]
समाधिपर्यायो हि स्थितिः ।
“सम्यक्समाधिः कतमः ।

[४३८।०६-४३८।०७]
या चित्तस्य स्थिति”रिति सूत्रे वचनात् ।

[४३८।०८]
चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः ॥ ८.८ ॥

[४३८।०९]
चतुर्थं ध्यानमन्त्यम् ।
तत्र चत्वार्यङ्गानि ।

[४३८।०९-४३८।१०]
अदुःखासुखा वेदना उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः समाधिश्च ।

[४३८।१०-४३८।११]
तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति ।

[४३८।११]
प्रथमतृतीययोः पञ्चाङ्गत्वात् ।
द्वितीयचतुर्थयोश्चतुरङ्गत्वात् ।

[४३८।१२]
नामत एवम् ।

[४३८।१३]
द्रव्यतो दश चैकं च

[४३८।१४]
द्रव्यत एतान्येकादश भवन्ति ।
प्राथमध्यानिकानि पञ्च ।

[४३८।१४-४३८।१५]
द्वितीयेऽध्यात्मसंप्रसादो वर्धते ।

[४३८।१५]
तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानि ।
चतुर्थेऽदुःखासुखा वेदनेति ।

[४३८।१६]
अत एवोच्यते यान्यङ्गानि प्रथमे ध्याने द्वितीयेऽपि तानीति चतुष्कोटिकम् ।

[४३८।१६-४३८।९१७]
प्रथमा कोटिर्वितर्कविचारौ ।

[४३८।१७]
द्वितीया अध्यात्मसंप्रसादः ।

[४३८।१७-४३८।१८]
तृतीया प्रीतिः सुखं चित्तैकाग्रता च ।

[४३८।१८]
चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा इति ।

[४३८।१८-४३८।१९]
एवं सर्वाणि ध्यानाङ्गानि परस्परं योज्यानि ।

[४३८।१९]
कस्मात् ।
तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते ।

[४३८।१९-४३८।२०]
यस्मात्तद्वेदनासुखं ध्यानयोस्तु

[४३८।२१]
प्रस्रब्धिसुखमाद्ययोः ।

[४३८।२२]
प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् ।

[४३८।२२-४३८।२३]
इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् ।

[४३८।२३]
द्वयोर्ध्यानसमापत्त्योः सुखेन्द्रियायोगात् ।

[४३८।२४]
न हि तत्तयोः कायिकं युज्यते ।
समापन्नस्य विज्ञानकायाभावात् ।

[४३८।२४-४३८।२५]
नापि चैतसिकं प्रीतिवचनात् ।

[४३८।२५]
प्रीतिर्हि सौमनस्यम् ।

[४३८।२५-४३८।२६]
न च सुखसौमनस्ययोर्यौगपद्यमस्ति ।

[४३८।२६]
न चापि तयोः पर्यायेण ध्याने वृत्तिर्युक्ता पञ्चाङ्गवचनादिति ।

[४३९।०१]
अपरे पुनराहुः ।

[४३९।०१-४३९।०२]
नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु ।

[४३९।०२]
कायिकमेव सुखमङ्गं व्यवस्थापितमिति ।

[४३९।०२-४३९।०३]
यत्तर्हि सुत्र उक्तं “सुखेन्द्रियं कतमत् ।

[४३९।०३-४३९।०४]
यत्सुखवेदनीयेन स्पर्शेन स्पृष्टस्योत्पद्यते कायिकं चैतसिकं सातं वेदितं वेदनागतमिदमुच्यते सुखेन्द्रियमि”ति ।

[४३९।०४]
अध्यारोपित एष पाठः ।

[४३९।०५]
केनापि सर्वनिकायान्तरेषु कायिकमित्येव पाठात् ।

[४३९।०५-४३९।०६]
“सुखं च कायेन प्रतिसंवेदयत” इति स्वशब्देन वचनाच्च ।

[४३९।०६]
मनस्कायेनेतिचेत् ।
एवमुक्त्वा को गुणः ।

[४३९।०६-४३९।०७]
चतुर्थे ध्याने प्रस्रब्धिभूयस्त्वेऽपि सुखावचनाच्च ।

[४३९।०७-४३९।०८]
सुखवेदनानुकूला प्रस्रब्धिः सुखमिति चेत् ।

[४३९।०८]
तृतीये प्रस्रब्धिसुखावचनं कस्मात् ।
उपेक्षोपहतत्वादिति चेत् ।

[४३९।०८-४३९।०९]
न उपेक्षयैव तद्वृद्धिः ।

[४३९।०९]
पूर्विकाभ्यस्ताद्विशेषात् ।

[४३९।०९-४३९।११]
“यस्मिन्समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरती”त्यत्र सूत्रे प्रस्रब्धिसुखयोः पृथग्वचनान्न प्रस्रब्धिरेव सुखम् ।

[४३९।११]
समापन्नस्य कथं कायविज्ञानमिति चेत् ।

[४३९।१२]
समाधिविशेषजेन प्रस्रब्धिसंज्ञकेन सुखवेदनीयेन वायुना कायस्फुरणात् ।

[४३९।१२-४३९।१३]
बहिर्विक्षेपास्समाधिब्रंश इति चेत् ।

[४३९।१३]
न ।

[४३९।१३-४३९।१४]
समाधिजस्यान्तःकायसंभूतस्य कायसुखस्य समाध्यनुकूलत्वात् ।

[४३९।१४-४३९।१५]
कायविज्ञा नकाले व्युत्थितः स्यादिति चेत् ।

[४३९।१५]
न ।
अत एव ।

[४३९।१५-४३९।१६]
कामावचरेण कायेन्द्रियेण रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् ।

[४३९।१६]
न ।
प्रस्रब्धिविज्ञानस्योत्पत्तेः ।

[४३९।१६-४३९।१७]
अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् ।

[४३९।१७]
मा भूत्किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् ।

[४३९।१८]
कायिकप्रस्रब्धिवोध्यङ्ग वचनात् ।
इष्टे बोध्यङ्गानुकूलत्वादिति चेत् ।

[४३९।१९]
अनास्रवत्वमप्येवम् ।
“सास्रवा धर्माः कतमे ।

[४३९।१९-४३९।२०]
चक्षुर्यावदेव स्प्रष्टव्यमि”त्यस्य सूत्रस्य विरोधादिति चेत् ।

[४३९।२०]
न ।
अन्यस्प्रष्टव्य कायविज्ञानाभिसंधिवचनात् ।

[४३९।२१]
न चानास्रवे किञ्चिदङ्गं सास्रवं किचिदनास्रवं स्यादिति चेत् ।

[४३९।२१-४३९।२२]
अयौगपद्यात्को दोषः सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत् ।

[४३९।२२-४३९।२३]
न संभवं प्रत्युपदेशान्द्वितर्कविचारवत् ।

[४३९।२३]
साध्यमिति चेत् ।

[४३९।२३-४३९।२४]
सिद्धं चित्तस्यौदारिकसूक्ष्मतयोर्विरोधात्दोषावचनाच्च ।

[४३९।२४-४३९।२५]
तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि तेषां द्वित्रिचतुरङ्गापकर्षेण द्वितीयादिध्यानव्यवस्थानम् ।

[४३९।२५-४४०।०१]
अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम् ।

[४४०।०१]
तदपकर्षेणोत्तरध्यानव्यवस्थापनात् ।
न तु संज्ञादीनामङ्गत्वमुक्तम् ।

[४४०।०२]
किमर्थ वा पञ्चानामेवाङ्गत्वमुक्तम् ।
उपकारकत्वादिति चेत् ।
न ।

[४४०।०२-४४०।०३]
वितर्कविचाराभ्यां स्मृतिप्रज्ञयोरपकारकतरत्वात् ।

[४४०।०३]
अस्त्येष एकेषां वादः ।

[४४०।०३-४४०।०४]
नैव तु पूर्वाचार्या एवं निर्दिशन्ति स्म यावन्तः प्रज्ञान्तम् ।

[४४०।०४]
तस्माद्विचार्यमेतत् ।

[४४०।०४-४४०।०५]
अध्यात्मसंप्रसादो नाम क एष धर्मः ।

[४४०।०५-४४०।०६]
वितर्क-विचार-क्षोभ-विरहात्प्रशान्तवाहिता संततेरध्यात्मसंप्रसादः ।

[४४०।०६-४४०।०७]
सोर्मिकेव हि नदी वितर्कविचारक्षोभिता संततिरप्रसन्ना वर्तते इति ।

[४४०।०७-४४०।०८]
न तर्हि स द्रव्यान्तरमिति कथं द्रव्यत एकादशाङ्गानि भवन्ति ।

[४४०।०८]
तस्मात्तर्हि

[४४०।०९]
श्रद्धा प्रसादः

[४४०।१०]
तस्य हि द्वितीयध्यानलात्समाहिभूमिनिह्सरणे संप्रत्यय उत्पद्यत्

[४४०।१०-४४०।११]
सोऽत्रध्यात्मसंप्रसाद इति ।

[४४०।११]
नैव हि वितर्कविचारसमाधयो नाप्यधात्मसंप्रसादो द्रव्यान्तराणीत्यपर्

[४४०।११-४४०।१२]
कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिद्ध्यति ।

[४४०।१२]
अवस्थाविसेसो हि नाम चेतसश्चेतसिको भवति ।

[४४०।१३]
नत्वेष शस्त्रसिद्धान्तः । यदुक्तं “प्रीतिर्हि सौमनस्यम्” इति ।

[४४०।१३-४४०।१४]
कथमिदं गम्यते ।
किमन्यत्भवतु ।

[४४०।१४]
यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः

[४४०।१४-४४०।१५]
सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति ।

[४४०।१५]
[४४०।१४-४४०।१५]
यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः सौमनस्यं तु त्रिष्वपि ध्यानेसु सुखमिति ।

[४४०।१५-४४०।१६]
न वै सुखं ध्यानेषु सौमनस्यं युज्यते ।

[४४०।१७]
प्रीतिस्तु सौमनस्यं द्विधागमात् ॥ ८.९ ॥

[४४०।१८-४४०।१९]
उक्तं हि भगवता अविपरीतकसूत्रे तृतीयं ध्यानमुक्त्वा “अत्रास्योत्पन्नं सौमनस्येन्द्रियमपरिशेषं निरुध्यत इति ।

[४४०।१९-४४०।२०]
चतुर्थे च ध्याने सुखेन्द्रियं निरुध्यत” इत्युक्तम् ।

[४४०।२०-४४०।२१]
पुनश्चोक्तं “सुखस्य च प्रहाणात्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तङ्गमादि”त्यतोऽपि न तृतीये ध्याने सौमनस्येन्द्रियमस्ति ।

[४४०।२२]
तस्मात्प्रीतिरेव सौमन्स्यं न सुखम् ।

[४४१।०१-४४१।०२]
किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति ।

[४४१।०२]
न हि किं तेषु न विद्यते ।

[४४१।०३]
क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः संप्रधीः स्मृटिः ।

[४४१।०४]
उपेक्षास्मृतिशुद्धिश्च

[४४१।०५]
प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति ।
क्लेशाविविक्तत्वात् ।

[४४१।०५-४४१।०६]
द्वितीये ध्यानेऽध्यात्मसंप्रसादो नास्ति ।

[४४१।०६]
क्लेशाविलत्वात् ।
तृतीये स्मृतिसंप्रजन्यं नास्ति ।

[४४१।०७]
क्लिष्टसुखसंब्र्हमितत्वात् ।
च्चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति ।
क्लेशमलिनत्वात् ।

[४४१।०८]
एवं तावत्केचिदाहुः ।

[४४१।०९]
केचित्प्रस्रब्ध्युपेक्षणे ॥ ८.१० ॥

[४४१।१०]
केचित्पुनः प्रथमद्वितीययोः क्लिष्टयोः प्रस्रब्धिर्नास्ति ।

[४४१।१०-४४१।११]
तृतीयचतुर्थयोरुपेक्षा नास्ति ।

[४४१।११]
कुशलल्महाभूमिकत्वादनयोरिति ।

[४४१।११-४४१।१२]
त्रीणि च ध्यानानि सेञ्जितानि उक्तानि भगवता ।

[४४१।१२]
सापक्षालत्वात् ।

[४४१।१३]
अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् ।

[४४१।१४]
के पुनस्तेऽपक्षालाः ।

[४४१।१५]
वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् ॥ ८.११ ॥

[४४१।१६]
वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च ।

[४४१।१६-४४१।१७]
एषामष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्त्यतस्तदानेञ्ज्यमुक्तम् ।

[४४१।१७-४४१।१८]
वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानं सूत्रे निर्वात प्रदीपनिदर्शनादित्यपरे ।

[४४१।१९]
द्वयोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् ।
तृतीये सुखं चतुर्थे उपेक्षा ।

[४४१।२०]
तस्किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु ।

[४४१।२१]
नेत्याह ।
किं तर्हि ।

[४४२।०१-४४२।०२]
सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते ।
सुख्होपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु ॥ ८.१२ ॥

[४४२।०३]
प्रथमध्यानोत्पत्तो तिस्रो वेदनाः ।

[४४२।०३-४४२।०४]
सुखं त्रिविज्ञानकायिकं सौमनस्यं मनोभूमिकम् ।

[४४२।०४]
उपेक्षा चतुर्विज्ञानकायिकी ।

[४४२।०४-४४२।०५]
द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके ।

[४४२।०५]
सुखं नास्त्यस्य विज्ञानकायाभावात् ।

[४४२।०५-४४२।०६]
तृतीयध्यानोपपत्ती द्वे वेदने ।

[४४२।०६]
सुखोपेक्षे मनोभूमिके ।
चतुर्थध्यानोपपत्तावुपेक्षैव ।

[४४२।०७-४४२।०८]
यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्कविचारौ च कथं ते पश्यन्ति यावत्स्पृशन्ति कथं चाविज्ञप्ति समुत्थापयन्ति ।

[४४२।०८-४४२।०९]
न वे केषूपपन्नानां चक्षुर्विज्ञानादयोन सन्ति ।

[४४२।०९]
न तु स्वभूमिकाः ।
किं तर्हि ।

[४४२।१०]
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।

[४४२।११]
द्वितीयादौ तदाद्याप्तं

[४४२।१२-४४२।१३]
प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च द्वितीयादिषु च ध्यानेषु संमुखीकुर्वन्ति ।

[४४२।१३-४४२।१४]
निर्माणचित्तवद्येन ते पश्यन्ति यावद्विज्ञप्ति समुत्थापयन्ति ।

[४४२।१५]
अक्लिष्टाव्याकृतं च तत् ॥ ८.१३ ॥

[४४२।१६-४४२।१७]
अनिवृताव्याकृतं च तत्प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते संमुखीकुर्वन्ति ।

[४४२।१७]
न क्लिष्टं वीतरागत्वान्न कुशलं हीनत्वादिति ।

[४४२।१८]
अवसितं ध्यानकार्यम् ।

[४४२।१९]
अथ शुद्धकादीनां ध्यानारुप्याणां कथं लाभः ।

[४४२।२०]
अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः ।

[४४२।२१]
असमन्वागतस्तेन शुद्धकं धयनमारुप्यं वा प्रतिलभते ।
अधोभूमिवैराग्याद्वा ।

[४४२।२२]
अधोभूम्युपपत्तितो वा ।
अन्यत्र भवाग्रात् ।
न हि तस्योपपत्तितो लाभः ।

[४४२।२३]
अतद्वानिति किमर्थ समन्वागतः ।

[४४२।२३-४४२।२४]
शुद्धकेन प्रयोगतोऽपि निर्वेधभागीयं शुद्धकं प्रतिलभते परिहाणितो वा हानभागीयम् ।

[४४२।२४-४४३।०१]
अत एवोच्यते “स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत वैराग्येण विजह्यात् ।

[४४३।०१]
एवं परिहाण्या चोपपत्त्या च ।

[४४३।०२]
स्याद्धानभागीयं प्रथमं धयानम् ।
तद्धि कामवैराग्येण लभ्यते ।

[४४३।०२-४४३।०३]
ब्रह्मलोकवैराग्येण त्यज्यते ।

[४४३।०३]
ब्रह्मलोकवैराग्यपरिहाण्या लभ्यते ।
कामवैराग्यप्रहाण्या त्यज्यते ।

[४४३।०४]
उपरिष्टाद्ब्रह्मलोक उत्पद्यमानो लभते ।

[४४३।०४-४४३।०५]
तस्मात्पुनः कामधातावुपपपद्यमानो विजहातीति ।

[४४३।०६]
अनास्रवं तु वैराग्यात्

[४४३।०७]
अतद्वान् लभते इति वर्तते ।

[४४३।०७-४४३।०८]
तद्वांस्तु क्षयज्ञानतोऽप्यशैक्षं लभते इन्द्रियसंचारतोऽपि शैक्षशैक्षम् ।

[४४३।०८]
ननु च नियामा वक्रान्तितोऽप्यनास्रवं प्रथमतो लभते ।

[४४३।०९]
नावश्यमानुपूर्विकेणालाभात् ।
यथा त्ववश्यं लभते तथोक्तम् ।

[४४३।१०]
क्लिष्टं हान्युपपत्तितः ॥ ८.१४ ॥

[४४३।११]
अतद्वान् लभत इत्येवानुवर्तते ।

[४४३।११-४४३।१२]
परिहाणितो यदि तद्वैराग्यात्परिहीयते ।

[४४३।१२]
उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते ।

[४४३।१३]
कतमस्मात्समापत्तिद्रव्यादनन्तरं कत्युपपद्यन्ते ।

[४४३।१३-४४३।१४]
अनास्रवप्रथमध्यानान्तरं षडुत्पद्यन्ते ।

[४४३।१४]
स्वभूमिके शुद्धकानास्रवे द्वितीयतृतीयध्यानभूमिके च ।

[४४३।१४-४४३।१५]
आकिञ्चन्यायतनानन्तरं सप्त ।

[४४३।१५-४४३।१६]
स्वभूमिके शुद्धकानास्रवे विज्ञानाकाशानन्त्यायतनभूमिके च ।

[४४३।१६]
भवाग्रं शुद्धकमेवानास्रवाभावात् ।
द्वितीयध्यानान्तरमष्टौ ।

[४४३।१६-४४३।१७]
स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च ।

[४४३।१७]
विज्ञानानन्त्यायतनानन्तरं नव ।

[४४३।१८-४४३।१९]
स्वभूमिके द्वे आकाशानन्त्यायतनचतुर्थध्यानभूमिकानि चत्वारि आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति ।

[४४३।१९]
एवमन्यध्यानारुप्यानन्तरं दश द्रव्याणि योज्यानि ।

[४४३।२०]
एष तु संक्षेपः ।

[४४३।२१]
तृतीयाद्यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् ।

[४४३।२२]
उत्पद्यते

[४४४।०१-४४४।०२]
शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वातनास्रवस्य समापत्ति द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते ।

[४४४।०२]
ऊर्ध्वाधोभूमिके च तृतीवाद्यावत् ।

[४४४।०३]
व्युत्क्रान्तकसमापत्तारो हि तृतीयात्परेण लङ्घयितुं नोत्सहन्ते ।

[४४४।०३-४४४।०४]
अन्वयज्ञानानन्तरं चारुप्यान् समापद्यन्ते न धर्मज्ञानानन्तरम् ।

[४४४।०४-४४४।०५]
तस्याधराश्रयालम्बनत्वादिति ।

[४४४।०५]
यथा चानास्रवादनन्तरमुक्तं वेदितव्यम् ।

[४४४।०६]
तथा शुद्धात्क्लिटं चापि स्वभूमिकम् ॥ ८.१५ ॥

[४४४।०७]
स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते ।
शेषं यथैवानास्रवात् ।

[४४४।०७-४४४।०८]
अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति ।

[४४४।०९]
क्लिष्टात्स्वं शुद्धकं क्लिष्टं

[४४४।१०]
क्लिष्टात्समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते ।

[४४४।११]
एवं चाधरशुद्धकम् ।

[४४४।१२]
क्लेशोत्पीडितो ह्यधरमपि समापत्तिं शुद्धकं बहु मन्यते ।

[४४४।१२-४४४।१३]
यदि क्लिष्टं परिच्छिद्याधः संचरति ।

[४४४।१३]
कुशलात्संचरितो भवति न क्लिष्टात् ।
अथापरिच्छिद्य कथं संचरति ।

[४४४।१४-४४४।१५]
पूर्वावेधात्पूर्वं हि स एवङ्कामो भवति वरमधस्तात्शुद्धकं नोपरिष्टात्क्लिष्टमिति ।

[४४४।१५]
पूर्वाभिप्रायं च संततिरनुवर्तते सत्त्वानाम् ।

[४४४।१५-४४४।१६]
प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् ।

[४४४।१६]
अनास्रवं तु क्लिष्टादनन्तरं सर्वथा नोत्पद्यते ।

[४४४।१६-४४४।१७]
समापत्तिकालं प्रत्येतदुक्तम् ।

[४४४।१७-४४४।१८]
शुद्धकात्क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते नान्यभूमिकमिति ।

[४४४।१९]
च्युतौ तु शुद्धकात्क्लिष्टं सर्वं

[४४४।२०]
च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्टमुत्पद्यते ।

[४४४।२१]
क्लिष्टात्तु नोत्तरम् ॥ ८.१६ ॥

[४४५।०१]
क्लिष्टात्तु ध्यानारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्टमुत्पद्यते ।

[४४५।०१-४४५।०२]
नोर्ध्वभूमिकम् ।

[४४५।०२-४४५।०३]
न च सर्वस्माच्छुद्धकादनाश्रवं समापत्तिद्रव्यमुत्पद्यते ।

[४४५।०३]
किं तर्हि ।

[४४५।०४]
चतुर्धा शुद्धकं हानभागीयादि

[४४५।०५]
हानभागीयं विशेषभागीयं स्थितिभागीयं निर्वेधभागीयमिति चतुर्विधं शुद्धकम् ।

[४४५।०६]
भवाग्रं तु त्रिविधमन्यत्र विशेषभागीयात् ।
किमस्य लक्षणम् ।

[४४५।०७-४४५।०८]
यथाक्रमम् ।
क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ ८.१७ ॥

[४४५।०९-४४५।१०]
क्लेशोत्पत्त्यनुगुणं हानभागीयं स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् ।

[४४५।१०]
तस्मादनास्रवमुत्पद्यते ।

[४४५।११]
अथैषां चतुर्णा कति कस्मादनन्तरमुत्पद्यन्ते ।

[४४५।१२]
द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् ।

[४४५।१३]
हानभागीयं हानभाक् ।
तस्मादनन्तरं द्वे उत्पद्येते ।
हानिस्थितिभागीये ।

[४४५।१३-४४५।१४]
स्थितिभागीयानन्तरं त्रीण्यन्यत्र निर्वेधभागीयात् ।

[४४५।१४-४४५।१५]
विशेषभागीयादनन्तरं त्रीण्यन्यत्र हानभागीयात्निर्वेधभागीयादनन्तरं तदेवैकमिति ।

[४४५।१६]
कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते ।

[४४५।१७]
गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टैकलङ्घिताः ॥ ८.१८ ॥

[४४५।१८]
व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा ।

[४४५।१९]
गत्वेत्यनुलोमं समापद्य ।
आगम्येति प्रतिलोमं समापद्य ।

[४४५।१९-४४६।०१]
द्विधेति सास्रवानास्रवा भूमीः ।

[४४६।०१]
अष्टाविति ध्यानारुप्यसमापत्तीः ।
श्लिष्टा इत्यनुक्रमेण ।

[४४६।०१-४४६।०२]
एकलङ्घिता इत्येकामेकामुत्क्रम्य ।

[४४६।०२-४४६।०३]
सास्रवा अष्टौ भूमिरनुलोमप्रतिलोमसमापत्तितो निर्जित्य अनास्रवाश्च सप्त ।

[४४६।०३-४४६।०४]
पश्चात्सास्रवात्प्रथमाद्ध्यानात्सास्रवं तृतीयं समापद्यते ।

[४४६।०४]
तस्मादाकाशानन्त्यायतनं तस्मादाक्ंिचन्यावतनम् ।

[४४६।०४-४४६।०५]
एवं पुनः प्रतिलोमं निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यते ।

[४४६।०६]
अयं प्रयोगो व्युत्क्रान्तकसमापत्तेः ।

[४४६।०६-४४६।०७]
यदा तु प्रथमात्सास्रवात्तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवमाकिञ्चन्यायतनम् ।

[४४६।०८]
एवं पुनः प्रतिलोमम् ।
तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति ।

[४४६।०८-४४६।०९]
अतिविप्रकृष्टत्वान्न चतुर्थी समापद्यते ।

[४४६।०९-४४६।१०]
तां च त्रिषु द्वीपेषु असमयविमुक्त एवार्हन्नुत्पादयति ।

[४४६।१०]
निःक्लेशत्वात्समाधिवशित्वाच्च ।

[४४६।१०-४४६।११]
दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशः ।

[४४६।११-४४६।१२]
समयविमुक्तो यद्यपि निःक्लेशो नत्वस्य समाधौ वशित्वमिति ।

[४४६।१३]
केनाश्रयेण कति ध्यानारुप्याः संमुखीक्रियन्ते ।

[४४६।१४]
स्वाधोभूम्याश्रया एव

[४४६।१५]
ध्यानाश्रया एव

[४४६।१६]
ध्यानारूप्याः

[४४६।१७]
भवाग्रं भवाग्रे च संमुखीक्रियते अधश्च यावत्कामधातौ ।

[४४६।१७-४४६।१८]
शेषाणि स्वस्यां भूमावधश्चेति ।

[४४६।१८-४४६।१९]
किं कारणमूर्ध्वोपपन्नो नाधरां समापत्ति संमुखीकरोति ।

[४४६।१९]
तस्मात्तस्य

[४४६।२०]
वृथाऽधरम् ॥ ८.१९ ॥

[४४६।२१]
नहि तस्याधरेण समापत्तिद्रव्येण किञ्चित्प्रयोजनं विधीयते ।
[४४५।२१-४४६।२१]
निहीनत्वात् ।

[४४६।२२]
उत्सर्ग कृत्वाऽपवादं करोति

[४४६।२३]
आर्याकिञ्चन्यसांमुख्यात्भवाग्रे त्वास्रवक्षयः ।

[४४६।२४]
भवाग्रे तूपपन्नस्यानास्रवाकिञ्चन्यायतनसंमुखीभावादास्रवक्षयो भवति ।

[४४६।२४-४४६।२५]
कथं तत्रोपपन्नस्य तत्संमुखीभावः ।

[४४६।२५]
स्वस्याभावात्तस्य चाभ्यासात् ।

[४४७।०१]
अथैषां ध्यानारूप्याणां किमालम्बनम् ।

[४४७।०२]
सतृष्णाः स्वभवालम्बाः

[४४७।०३]
आस्वादनासंप्रयुक्ताः स्वभूमिकं भवमालम्बन्ते ।
भवग्रहणेन सास्रवं वस्तु गृह्यते ।

[४४७।०४]
नाधरमालम्बन्ते वीतरागत्वान्नोत्तरं तृष्णापरिछिन्नत्वात्भूमीनाम् ।

[४४७।०४-४४७।०५]
नानास्रवं कुशलत्वप्रसङ्गादिति ।

[४४७।०६]
ध्यानं सद्विषयं शुभम् ॥ ८.२० ॥

[४४७।०७]
कुशलं ध्यानं शुभकमनास्रवं च ।
तत्सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा ।

[४४७।०८]
न मौलाः कुशलारूप्याः सास्रवाधरगोचराः ।

[४४७।०९-४४७।१०]
मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनं स्वोर्ध्वभूम्यालम्बनत्वात् ।

[४४७।१०]
अनास्रवं त्वालम्बनम् ।

[४४७।१०-४४७।११]
सर्वान्वयज्ञानपक्ष्यो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः ।

[४४७।११]
सामन्तकानन्तर्यमार्गाणां त्वधरा भूमिरालम्बनम् ।

[४४७।११-४४७।१२]
एषां च पुनस्त्रिविधानां ध्यानानां रूप्यारूप्याणाम्

[४४७।१३]
अनास्रवेण हीयन्ते क्लेशाः

[४४७।१४]
न शुद्धकेन ।
कुत एव क्लिष्टेन ।
वीतरागत्वान्नाधः ।

[४४७।१४-४४७।१५]
तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ ।

[४४७।१५]
विशिष्टतरत्वान्नोर्ध्वमिति ।

[४४७।१६]
समन्तकेन च ॥ ८.२१ ॥

[४४७।१७]
ध्यानारूप्यसामन्तकेन च क्लेशाः प्रहीयन्ते शुद्धकेनापि ।
अधोभूमिप्रतिपक्षत्वात् ।

[४४७।१८]
कति पुनः सामन्तकानि ।

[४४७।१९]
अष्टौ सामन्तकान्येषां

[४४७।२०]
एकैकस्यैकैकं येन तत्प्रवेशः ।
किं तान्यपि त्रिविधानि तथैव च तेषु वेदना ।

[४४७।२१]
नेत्युच्यते ।

[४४७।२२]
शुद्धादुःखासुखानि हि ।

[४४८।०१-४४८।०२]
शुद्धकानि च तान्युपेक्षेन्द्रियसंप्रयुक्तानि च यन्तबाह्यत्वादधोभूम्युद्वेगानपगमात्वैराग्यपथत्वाच्च नास्वादनासंप्रयुक्तानि ।

[४४८।०३]
आर्यं चाद्यं

[४४८।०४-४४८।०५]
आद्यं सामन्तकमनागम्यं तच्छुद्धकं चानास्रवं च यद्यपि सामन्तकचित्तेन प्रतिसंधिबन्धः क्लिष्टो भवति ।

[४४८।०५]
समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते ।

[४४८।०६]
त्रिधा केचित्

[४४८।०७]
केचित्पुनरिच्छन्ति ।

[४४८।०७-४४८।०८]
आस्वादनासंप्रयुक्तमप्यनागम्यं सामन्तकं चोच्यते ध्यानान्तरं च ।

[४४८।०८]
किमिदमेकार्थमाहोस्विन्नानार्थम् ।
सामन्तकं हि वैराग्यमार्गः ।

[४४८।०९]
अतर्क ध्यानमन्तरम् ॥ ८.२२ ॥

[४४८।१०]
ध्यानमेव हि वितर्कासंप्रयुक्तं ध्यानान्तरं ध्यानविशेषत्वात् ।

[४४८।१०-४४८।११]
अत एव द्वितीयादिषु ध्यानेषु न व्ययस्थाप्यते विशेषाभावादिति ।

[४४८।११]
तत्पुनर्ध्यानान्तरं

[४४८।१२]
त्रिधा

[४४८।१३]
आस्वादनासंप्रयुक्तं शुद्धकमनास्रवं च ।

[४४८।१४]
अदुःखासुखं तच्च

[४४८।१५]
नात्र सुखं दुःखमित्यदुःखासुखमुपेक्षेन्द्रियसंप्रयुक्तमित्यर्थः ।

[४४८।१५-४४८।१६]
न प्रीतिसंप्रयुक्तं साभिसंस्कारवाहित्वात् ।

[४४८।१६]
अत एव दुःखा प्रतिपत् ।

[४४८।१६-४४८।१७]
तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः ।

[४४८।१७]
तद्धि

[४४८।१८]
महाब्रह्मफलं च तत् ।

[४४८।१९]
तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति ।

[४४८।१९-४४८।२०]
पुनः सर्वसमाधीन् संकलय्य त्रयः समाधयः उक्ताः सूत्रे ।

[४४८।२०]
सवितर्कः सविचारः समाधिः ।
अवितर्को विचारमात्रः ।

[४४९।०१]
अवितर्कोऽविचार इति ।

[४४९।०१-४४९।०२]
तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाध्हिरिति ज्ञापितम् ।

[४४९।०२]
वितर्कमात्रप्रतिषेधात् ।
ततः

[४४९।०३]
सवितर्कविचारोऽधःसमाधिः

[४४९।०४]
तस्माद्ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः ।
प्रथमं ध्यानमनागम्यं च ।

[४४९।०५]
परतोऽद्वयः ॥ ८.२३ ॥

[४४९।०६]
नात्र द्वयमस्तीत्यद्वयः ।
परेण तु ध्यानान्तरात्समाधिरवितर्कोऽविचारः ।

[४४९।०६-४४९।०७]
द्वितीयध्यानसामन्तकाद्यावत्भवाग्रम् ।

[४४९।०७]
पुनस्त्रयः उक्ताः ।

[४४९।०७-४४९।०८]
शून्यतासमाधिरप्रणिहित आनिमित्तश्च ।

[४४९।०८]
तत्र

[४४९।०९]
आनिमित्तः समाकारैः

[४४९।१०]
निरोधसत्याकारैः संप्रयुक्तः समाधिरानिमित्तश्चतुराकारः ।

[४४९।१०-४४९।११]
निर्वाणं हि दशनिमित्तापगतत्वादनिमित्तम् ।

[४४९।११]
तदालम्बनः समाधिरानिमित्तः ।

[४४९।११-४४९।१२]
पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश ।

[४४९।१३]
शून्यतानात्मशुन्यतः ।

[४४९।१४]
प्रवर्तते

[४४९।१५]
अनात्मशून्यताकाराभ्यां संप्रयुक्तः शून्यतासमाधिद्वर्च्याकारः ।

[४४९।१६]
अप्रणिहितः सत्याकारैरतः परैः ॥ ८.२४ ॥

[४४९।१७]
परैः शेषैः सत्याकारैः संप्रयुक्तः समाधिप्रणिहितो दशाकारः ।

[४४९।१७-४४९।१८]
अनित्यदुःखतद्धेतुभ्य उद्वेगात्मार्गस्य च कोलोपमतयाऽवश्यत्याज्यत्वात्तदाकारः समाधिरप्रणिहितः ।

[४५०।०१]
तदतिक्रमाभिमुखत्वात्शून्यतानात्मताभ्यां तु नोद्वेगो निर्वाणसामान्यात् ।

[४५०।०१-४५०।०२]
त एते त्रयः समाधयो द्विविधाः ।

[४५०।०३]
शुद्धामलाः

[४५०।०४]
शुद्धकाश्चानास्रवाश्च ।
लौकिकलोकोत्तरत्वात् ।
लौकिका एकादशसु भूमिषु ।

[४५०।०५]
लोकोत्तरा यत्र मार्गः ।

[४५०।०६]
निर्मलास्तु ते विमोक्षमुखत्रयम् ।

[४५०।०७]
अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते ।

[४५०।०७-४५०।०८]
शून्यता विमोक्षमुखमप्रणिहितमानिमित्तं विमोक्षमुखमिति ।

[४५०।०८]
मोक्षद्वारत्वात् ।
पुनश्चोच्यन्ते ।

[४५०।०९]
शून्यताशून्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ ८.२५ ॥

[४५०।१०]
शून्यताशून्यता अप्रणिहिताप्रणिहितः आनिमित्तानिमित्तश्च ।

[४५०।१०-४५०।११]
शून्यताद्यालम्बनत्वात्तन्नाम ।

[४५०।११]
तेषां पुनः

[४५०।१२]
आलम्बेते अक्षैक्षं द्वौ शून्यतश्चाप्यनित्यतः ।

[४५०।१३]
अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते ।

[४५०।१३-४५०।१४]
शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्यताकारेण ।

[४५०।१४-४५०।१५]
अप्रणिहिताप्रणिहितोऽप्यशैक्षमप्रणिहितमनित्याकारेण ।

[४५०।१५-४५०।१६]
न दुःखतो न हेत्वादितोऽनास्रवस्यातल्लक्षणत्वान्न मार्गाकारैः दूषणीयत्वात् ।

[४५०।१७]
आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् ॥ ८.२६ ॥

[४५०।१८-४५०।१९]
आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते ।

[४५०।१९]
शान्ताकारेण ।
अनास्रवस्य प्रतिसंखयानिरोधाभावात् ।

[४५०।१९-४५०।२०]
न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वा
दविसंयोगाच्च ।

[४५०।२०-४५०।२१]
एकान्तेन चैते परसमाधयः

[४५०।२२]
सास्रवाः

[४५१।०१]
आर्यमार्गद्वेषित्वात्नह्येवमनास्रवा इति ।
कुत्रोत्पद्यन्ते ।

[४५१।०२]
नृषु

[४५१।०३]
मनुष्येष्वेव न देवेषु ।
कस्योत्पद्यन्ते ।

[४५१।०४]
अकोप्यस्य

[४५१।०५]
नान्यस्यार्हतः ।
कतिभूमिकाः ।

[४५१।०६]
सप्तसामन्तवर्जिताः ।

[४५१।०७]
सप्त सामन्तकानि हित्वान्यास्वेकादशसु भूमिषु ।

[४५१।०७-४५१।०८]
कामधात्वनागम्यध्यानान्तरध्यानारुप्येषु ।

[४५१।०८]
पुनश्चतस्रः समाधिभावना उच्यन्ते ।

[४५१।०८-४५१।०९]
अस्ति समाधिभावना आसेविता भाविता वहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते” इति विस्तरः ।

[४५१।०९]
तत्र

[४५१।१०]
समाधिभावना ध्यानं शुभमाद्यं सुखाय हि ॥ ८.२७ ॥

[४५१।११]
कुशलं प्रथमं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना ।

[४५१।११-४५१।१२]
तदादिकत्वादन्यान्यपि ज्ञेयानि ।

[४५१।१२-४५१।१३]
नावश्यं संपरायसुखविहारायापरिहिणोर्ध्वोपपन्नपरिनिर्वृतानां तदभावात् ।

[४५१।१४]
दर्शनायाक्ष्यभिज्ञेष्टा

[४५१।१५]
दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना ।

[४५१।१६]
धीभेदाय प्रयोगजाः ।

[४५१।१७]
प्रयोगजाः सर्वे गुणास्त्रैधातुका अनास्रवाः प्रज्ञाप्रभेदाय समाधिभावना ।

[४५१।१८]
वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना ॥ ८.२८ ॥

[४५२।०१]
यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना ।

[४५२।०१-४५२।०२]
आत्मोपनायिकी किलैषा भगवतो धर्मदेशना ।

[४५२।०२]
अतश्चतुर्भ्य एवाह ।

[४५२।०२-४५२।०३]
कृतः समाधीनां कालगतो निर्देशः ।

[४५२।०४]
इदानीं समाधिसंनिश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते

[४५२।०५]
अप्रमाणानि चत्वारि

[४५२।०६]
मैत्री करुणा मुदितोपेक्षा च ।
अप्रमाणसत्त्वालम्बनत्वात् ।
किमर्थं चत्वार्येव ।

[४५२।०७]
व्यापादादिविपक्षतः ।

[४५२।०८]
व्यापादविंहिसाऽरतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि यथासंख्यम् ।

[४५२।०९]
अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः ।

[४५२।०९-४५२।१०]
वर्णरागस्याशुभा मैथुनरागस्योपेक्षेति वैभाषिकाः ।

[४५२।१०]
एवं तु युज्यते ।

[४५२।१०-४५२।११]
मैथूनरागस्याशुभा मातापितृपुत्रज्ञातिरागस्योपेक्षेति ।

[४५२।११]
तत्र

[४५२।१२]
मैत्र्यद्वेषः

[४५२।१३]
अद्वेषस्वभावा मैत्री

[४५२।१४]
अपि करुणा

[४५२।१५]
करुणाप्येवम् ।

[४५२।१६]
मुदिता सुमनस्कता ॥ ८.२९ ॥

[४५२।१७]
सौमनस्यस्वभावा मुदिता ।

[४५२।१८]
उपेक्षाऽलोभः

[४५२।१९]
अलोभात्मिकोपेक्षा ।
कथं व्यापादप्रतिपक्षः ।
तस्य लोभाकृष्टत्वात् ।

[४५२।१९-४५२।२०]
उभयस्वभावा त्वसौ युज्यते ।

[४५२।२०]
एषां तु मैत्र्यादीनां

[४५३।०१]
आकारः सुखिता दुःखिता वत ।

[४५३।०२]
मोदन्तामिति सत्त्वाश्च

[४५३।०३]
सुखिता वत सत्त्वा इति मनसिकुर्वन्मैत्रीं समापद्यते ।

[४५३।०३-४५३।०५]
दुःखिता वत सत्त्वा इति करुणां मोदन्तां वत सत्त्वा इति मुदितां सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते ।

[४५३।०५]
माध्यस्थ्यात् ।
अतद्वतां सुखाधिमोक्षत्वात्कथं न विपरीतत्वं भवति ।

[४५३।०६]
सन्त्वित्यभिप्रायात् ।
आशयस्याविपरीतत्वाद्वाऽधिमुक्तिसंज्ञानात् ।

[४५३।०६-४५३।०७]
अथवा क एवं विपरीतत्वे दोषः ।

[४५३।०७]
अकुशलत्वमिति चेत् ।

[४५३।०७-४५३।०८]
न कुशलमूलत्वाद्व्यापादादिप्रतिपक्षत्वाच्च ।

[४५३।०८]
उक्त एषामाकारः ।

[४५३।०९]
कामसत्त्वास्तु गोचरः ॥ ८.३० ॥

[४५३।१०]
कामावचराः सत्त्वा एषामालम्बनम् ।
तदालम्बनानां व्यापादादीनां प्रतिपक्षत्वात् ।

[४५३।११]
यत्तूक्तमेकां दिशमधिमुच्येतेति तद्भाजनेन भाजनगतं दर्शितम् ।

[४५३।११-४५३।१२]
कतिभूमिकान्येतानि ।

[४५३।१३]
ध्यानयोर्मुदिता

[४५३।१४]
प्रथमद्वितीयध्यानयोर्मुदिता ।
सौमनस्यत्वात् ।

[४५३।१५]
अन्यानि षट्सु

[४५३।१६]
अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु ।

[४५३।१६-४५३।१७]
अनागम्ये ध्यानान्तरेध्यानेषु च ।

[४५३।१७]
सप्रयोगमौलग्रहणात् ।

[४५३।१८]
केचित्तु पञ्चसु ।

[४५३।१९]
केचित्पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति ।
दशस्वित्यपरे ।

[४५३।१९-४५३।२०]
कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहितमौलल्प्रयोगग्रहणात् ।

[४५३।२०-४५३।२१]
यदुक्तं “व्यापादादिविपक्षत” इति किमप्रमाणैरपि क्लेशग्रहणं भवति ।

[४५३।२२]
न तैः प्रहाणं

[४५४।०१]
मौलध्यानभूमिकत्वादधिमुक्तिमनस्कारत्वात्सत्त्वालम्बनत्वाच्च ।

[४५४।०१-४५४।०२]
तत्प्रयोगेण तु व्यापादादिविष्कम्भणात्तत्प्रतिपक्षत्वमुक्तम् ।

[४५४।०२]
प्रहाण दूरीकरणाच्च ।

[४५४।०२-४५४।०३]
कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाणसदृशानि संविद्यन्ते ।

[४५४।०३-४५४।०४]
तैस्तान्विष्कम्भ्य प्रहाणमार्गैः प्रजहाति ।

[४५४।०४]
ततो वीतरागावस्थायां मौलाप्रमाणलाभात् ।

[४५४।०४-४५४।०५]
बलवत्प्रत्ययलाभेऽपि तैरनाधृष्यो भवति ।

[४५४।०५]
कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते ।

[४५४।०५-४५४।०७]
यथा सुखितमात्मानं मन्यते परान्वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते एवं सुखिता वत सन्तु सत्त्वा इति ।

[४५४।०७-४५४।०८]
न चेच्छक्नोति क्लेशस्योद्भतवृत्तित्वात्स मित्रपक्षं त्रिधा भित्त्वाऽधिमात्रे तत्सुखमधिमुच्यते ।

[४५४।०८-४५४।०९]
ततो मध्ये मृदौ च ।

[४५४।०९]
तेषु चेत्समां मैत्रीं लभते तत उदासीनपक्षे ।

[४५४।०९-४५४।१०]
ततः शत्रूपक्षं त्रिधा भित्त्वा मृदौ तत्सुखमधिमुच्यते ।

[४५४।१०]
ततो मध्येऽधिमात्रे च ।

[४५४।१०-४५४।११]
ततश्चेदधिमात्र इव मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते ।

[४५४।११-४५४।१२]
ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो यावदेकां दिशं यावत्सर्व लोकं मैत्र्या स्फुरति ।

[४५४।१२-४५४।१३]
यस्तु सर्वगुणग्राही समैत्रीं क्षिप्रमुत्पादयति ।

[४५४।१३-४५४।१४]
शक्यं हि समुच्छिन्न कुशलमूलेऽपि गुणग्राहिणा भवितुं प्रत्येकबुद्धे च दोष ग्राहिणा पूर्वं पुण्यापुण्यफलसंदर्शनात् ।

[४५४।१४-४५४।१६]
एवं करुणायां मुदितायां च प्रयुज्यते अमी सत्त्वा बहुविधव्यसनीधनिमग्ना अप्येवं दुःखाद्विमुच्येरनप्येवातिप्रमोदेरन्नित्यधिमुच्यमान उपेक्षां तूदासीनपक्षादारभते ।

[४५४।१६-४५४।१७]
एतानि चाप्रमाणानि

[४५४।१८]
नृष्वेव जन्यन्ते

[४५४।१९]
मनुष्येषूत्पाद्यन्ते ।
नान्यत्र ।

[४५४।२०]
किं पुनर्य एकेनाप्रमाणेन समन्वागतः सोऽवश्यं सर्वैः ।
किन्तु

[४५४।२१]
त्र्यन्वितो ध्रुवम् ॥ ८.३१ ॥

[४५४।२२]
तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वागतो भवति ।

[४५४।२२-४५४।२३]
त्रिभिस्त्वप्रमाणलाभी नित्यं समन्वागतो भवति ।

[४५४।२४]
अष्टौ विमोक्षाः

[४५५।०१]
रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः ।

[४५५।०१-४५५।०२]
अध्यात्मरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयः ।

[४५५।०२-४५५।०३]
शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति तृतीयः ।

[४५५।०३]
चत्वार आरुप्याः ।
संज्ञावेदितनिरोधश्चाष्टमः ।
तेषां

[४५५।०४]
प्रथमावशुभा

[४५५।०५]
प्रथमौ द्वौ विमोक्षावशुभास्वभावौ ।

[४५५।०५-४५५।०६]
विनीलकाद्याकारत्वात् ।

[४५५।०६]
अत एतयोरशुभावन्नयो वेदितव्यः ।
एतौ च

[४५५।०७]
ध्यानयोर्द्वयोः ।

[४५५।०८]
प्रथमद्वितीययोर्ध्यानयोर्नान्यस्यां भूमौ ।

[४५५।०८-४५५।०९]
कामावचरप्रथमध्यानभूमिकयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम् ।

[४५५।१०]
तृतीयोऽन्त्ये

[४५५।११]
शुभो विमोक्षश्चतुर्थध्याने ।

[४५५।१२]
स चालोभः

[४५५।१३]
सोऽप्यलोभस्वभावो नत्वशूभास्वभावः ।
शुभाकारत्वात् ।

[४५५।१३-४५५।१४]
सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः ।

[४५५।१४]
आरुप्यविमोक्षास्तु

[४५५।१५]
शुभारुप्याः समाहिताः ॥ ८.३२ ॥

[४५५।१६-४५५।१७]
कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते न क्लिष्टा नाप्यसमाहितास्तद्यथामरणभवे ।

[४५५।१७]
अन्यदाप्यसमाहिताः सन्तीत्यपरे ।

[४५५।१७-४५५।१८]
सामन्तकविमुक्ति मार्गा अपि विमोक्षाख्यां लभन्ते ।

[४५५।१८]
नानन्तर्यमार्गा अधरालम्बनत्वात् ।

[४५५।१८-४५५।१९]
वैमुख्यार्थो हि विमोक्षार्थ इति ।

[४५५।२०]
निरोधस्तु समापत्तिः

[४५६।०१]
संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः ।
सा च पूर्व निर्दिष्टा ।

[४५६।०२]
संज्ञावेदितवैमुख्यात्सर्वसंस्कृताद्वा ।
समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे ।

[४५६।०३]
तां तु समापद्यन्ते ।

[४५६।०४]
सूक्ष्मसूक्ष्मादनन्तरम् ।

[४५६।०५]
भवाग्रं हि संज्ञा सूक्ष्मं तत्पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते ।
समापन्नानां तु

[४५६।०६]
स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः ॥ ८.३३ ॥

[४५६।०७-४५६।०८]
भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन भूमिकेन वा सास्रवेण ।

[४५६।०८-४५६।०९]
तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति सास्रवानान्तर्य तु व्युत्थानचित्तमिति ।

[४५६।०९]
एषां च विमोक्षाणां

[४५६।१०]
कामाप्तदृश्यविषयाः प्रथमाः

[४५६।११]
कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम् ।

[४५६।१२-४५६।१३]
ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ८.३४ ॥

[४५६।१४-४५६।१५]
आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चालम्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः ।

[४५६।१५]
अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं चैकस्येति ।

[४५६।१६]
कस्मान्न तृतीये ध्याने विमोक्षः ।

[४५६।१६-४५६।१७]
द्वितीयध्यानभूमिकवर्णरागाभावात्सुखमण्डेञ्जितत्वाच्च ।

[४५६।१७]
तस्माच्छुभं विमोक्षमुत्पादयति ।

[४५६।१७-४५६।१८]
अशुभया लीनं संततिं प्रमोदयितुं जिज्ञासनार्थं वा ।

[४५६।१८]
कच्चिदशुभाविमोक्षौ निष्पन्नाविति ।

[४५६।१८-४५६।१९]
एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतोऽपि मनसि कुर्वतः क्लेशो नोत्पद्यत इति ।

[४५६।२०]
द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पादयन्ति ।

[४५६।२०-४५६।२१]
क्लेशदूरीकरणार्थं समापत्तिवशित्वार्थं च ।

[४५६।२१]
अरणादिगुणाभिनिर्हाराय आर्यायाश्चर्द्धेः ।

[४५६।२१-४५६।२२]
सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनि क्रियन्ते ।

[४५६।२२-४५६।२३]
कस्मात्तृतीयाष्टमयोरेव साक्षात्करणमुक्तं नान्येषाम् ।

[४५६।२३-४५६।२४]
प्रधानत्वाद्धातुभूमिपर्यन्तावस्थितत्वाच्च ।

[४५७।०१]
अभिभ्वायतनान्यष्टौ

[४५७।०२-४५७।०३]
अध्यात्मं रूपसंज्ञी वहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि दुर्वर्णानि तानि खलु रूपाण्यभिभूयजानात्यभिभूय पश्यतीत्येवंसंज्ञी भवतीदं प्रथममभिभ्वायतनम् ।

[४५७।०४]
एवमधिमात्राणि ।
अध्यात्ममरूपसंज्ञ्येवमेव । इत्येतानि चत्वारि ।

[४५७।०४-४५७।०५]
अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ भवन्ति ।

[४५७।०५]
तेषां

[४५७।०६]
द्वयमाद्यविमोक्षवत् ।

[४५७।०७]
यथा प्रथमो विमोक्ष एवं द्वे अभिभ्वायतने प्रथमद्वितीये ।

[४५७।०८]
द्वे द्वितीयवत्

[४५७।०९]
यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे ।

[४५७।१०]
अन्यानि पुनः शुभविमोक्षवत् ॥ ८.३५ ॥

[४५७।११]
यथा शुभो विमोक्ष एवमन्यानि चत्वारि ।
अयं तु विशेषः तैर्वैमुख्यमात्रम् ।

[४५७।१२]
एभिस्त्वालम्बनाभिभवनं यथेच्छमधिमोक्षात्क्लेशानुत्पादाच्च ।

[४५७।१३]
दश कृत्स्नानि

[४५७।१४]
दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फरणात् ।

[४५७।१४-४५७।१५]
पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नानि ।

[४५७।१५]
आकाशविज्ञानानन्त्यायतनकृत्स्ने च ।
तेषाम्

[४५७।१६]
अलोभाष्टौ

[४५७।१७]
प्रथमान्यष्टावलोभस्वभावानि

[४५७।१८]
ध्यानेऽन्त्ये

[४५७।१९]
चतुर्थ एव ध्याने ।

[४५८।०१]
गोचरः पुनः ।

[४५८।०२]
कामाः

[४५८।०३]
कामावचररूपायतनमेषा मालम्बनम् ।
वायोः स्प्रष्टव्यायतन मित्येके ।

[४५८।०४]
द्वे शुद्धकारुप्ये

[४५८।०५]
द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे ।

[४५८।०६]
स्वचतुःस्कन्धगोचरे ॥ ८.३६ ॥

[४५८।०७]
स्वभूमिकाश्चत्वारः स्कन्धा अन्योरालम्बनम् ।

[४५८।०७-४५८।०८]
विमोक्षप्रावेशिकान्यभिभ्वायतनानि ।

[४५८।०८]
अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि ।
उत्तरोत्तरविशिष्टत्वात् ।

[४५८।०९-४५८।१०]
सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसांतानिकानि स्थापयित्वा निरोधविमोक्षम् ।

[४५८।११]
निरोध उक्तः

[४५८।१२]
निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः ।

[४५८।१३]
वैराग्यप्रयोगाप्तं तु शेषितम् ।

[४५८।१४]
निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकाणि च ।

[४५८।१४-४५८।१५]
उचितानुचितत्वात् ।

[४५८।१६]
त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम् ॥ ८.३७ ॥

[४५८।१७]
आरुप्यविमोक्षा आरुप्यकृत्स्ने च त्रैधातुकाश्रयाणि शेषं मनुष्याश्रयमेव ।

[४५८।१८]
उपदेशसामर्थ्येनोत्पादनात् ।
कथं रूपारुप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् ।

[४५८।१९]
त्रिभिः कारणैर्ध्यानारूप्यसमापत्तीनामुपपत्तिर्हेतुकर्मधर्मताबलैः ।
तत्र

[४५८।२०]
हेतुकर्मबलाद्धात्वोरारूप्योत्पादनं द्वयोः ।

[४५९।०१]
द्वयो रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् ।

[४५९।०१-४५९।०३]
हेतुबलादासन्नाभीक्ष्णाभ्यासात्कर्मबलाच्चोर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् ।

[४५९।०३]
नह्यधस्तादवीत रागेणोर्ध्व शक्यमुत्पत्तुमिति ।

[४५९।०४]
ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च ॥ ८.३८ ॥

[४५९।०५-४५९।०६]
रूपधातौ ध्यानोत्पादनमेताभ्यां हेतुकर्मबलाभ्यां धर्मतया च संवर्तनीकाले ।

[४५९।०६]
तदानीं हि सर्वस्त्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति ।

[४५९।०६-४५९।०७]
कृत्स्नानां धर्माणामुद्भूतवृत्तित्वात् ।

[४५९।०७]
कियच्चिरं पुनरयं सद्धर्मः स्थास्यति ।

[४५९।०७-४५९।०८]
यत्रेमे ईदृशानां धर्माणां प्रकाराः प्रज्ञायन्ते ।

[४५९।०९]
सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः ।

[४५९।१०]
तत्रागमः सूत्रविनयाभिधर्मा अधिगमो बोधिपक्ष्या इत्येष द्विविधः सद्धर्मः ।

[४५९।११]
धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ८.३९ ॥

[४५९।१२]
आगमस्य हि धारयितारो वक्तारः ।
अधिगमस्य प्रतिपत्तारः ।

[४५९।१२-४५९।१३]
अतो यावदेते स्थास्यन्ति तावत्सद्धर्म इति वेदितव्यम् ।

[४५९।१३]
तेषां तु वर्षसहस्र मवस्थानमाहुः ।

[४५९।१४]
अधिगमस्यैवम् ।
आगमस्य तु भूयांसं कालमित्यपरे ।

[४५९।१५]
योऽयमिह शास्त्रेऽभिधर्म उक्तः किमेष एव शास्त्राभिधर्मो देशितः ।

[४५९।१६-४५९।१९]
काश्मीरवैभाषिकनीतिसिद्धः प्रायो मयाऽयं कथितोऽभिधर्मः ।
यद्दुर्गृहीतं तदिहास्मदागः सद्धर्मनीतौ मनयः प्रमाणम् ॥ ८.४० ॥

[४६०।०१-४६०।०२]
प्रायेण हि काश्मीरवैभाषिकाणां नीत्यादिसिद्ध एषोऽस्माभिरबिधर्म आख्यातः ।

[४६०।०२]
यदत्रास्माभिर्दुर्गृहीतं सोऽस्माकमपराधः ।

[४६०।०२-४६०।०३]
सद्धर्मनीतौ तु पुनर्बुद्धा एव प्रमाणं बुद्धपुत्राश्च ।

[४६०।०४-४६०।०७]
निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा ।
अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम् ॥ ८.४१ ॥

[४६०।०७-४६०।११]
गतेऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधुर्धरेषु च ।
जगत्यनाथे गुनघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते ॥ ८.४२ ॥

[४६०।१२-४६०।१३]
इति कण्ठगतप्राणं विदित्वा शासनं मुनेः ।
बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः ॥ ८.४३ ॥

=====================================================================

[४६०।१४]
॥ अभिधर्मकोशभाष्ये समापत्तीनिर्देशो नामाष्टमकोशस्थानमिति ॥
नवमं कोशस्थानम्

=====================================================================

नमो बुद्धाय

=====================================================================

[४६१।०२]
किं खल्वतोऽन्यत्र मोक्षो नास्ति ।
नास्ति ।

[४६१।०२-४६१।०३]
किं कारणम् ।

[४६१।०३]
वितथात्मदृष्टिनिविष्टत्वात् ।

[४६१।०३-४६१।०४]
नहि ते स्कन्धसंतान एवात्मप्रज्ञप्तिं व्यवस्यन्ति ।

[४६१।०४]
किं तर्हि ।

[४६१।०४-४६१।०५]
द्रव्यान्तरमेवात्मानं परिकल्पयन्ति आत्मग्राहप्रभवाश्च सर्वक्लेशा इति ।

[४६१।०५-४६१।०६]
कथं पुनरिदं गम्यते स्कन्धसंतान एवेदमात्माभिधानं वर्तते नान्यस्मिन्नभिधेय इति ।

[४६१।०६]
प्रत्यक्षानुमानाभावात् ।

[४६१।०६-४६१।०७]
ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये ।

[४६१।०७]
तद्यथा षण्णां विषयाणां मनसश्च ।
अनुमानं च ।

[४६१।०८]
तद्यथा पञ्चानामिन्द्रियाणाम् ।
तत्रेदमनुमानम् ।

[४६१।०८-४६१।०९]
सति कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भाविस्तद्यथाङ्कुरस्य ।

[४६१।०९-४६१।११]
सत्येव चाभासप्राप्ते विषये मनस्कारे च कारणे विषयग्रहणस्याभावो दृष्टः पुनश्च भावोऽन्धवधिरादीनामनन्धावधिरादीनां च ।

[४६१।११-४६१।१२]
अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते ।

[४६१।१२]
यच्च तत्कारणान्तरं तदिन्द्रियमित्येतदनुमानम् ।

[४६१।१२-४६१।१३]
न चैवमात्मनोऽस्तीति नास्त्यात्मा ।

[४६१।१४]
यत्त्र्हि वात्सीपुत्रियाः पुद्गलं सन्तिमिच्छन्ति ।
विचार्यं तावदेतत् ।

[४६१।१४-४६१।१५]
किं ते द्रव्यत इच्छन्त्याहोस्वित्प्रज्ञप्तितः ।

[४६१।१५]
किं चेदं द्रव्यत इति किं वा प्रज्ञप्तितः ।

[४६१।१६]
रूपादिवत्भावान्तरं चेत्द्रव्यतः ।

[४६१।१६-४६१।१७]
क्षीरादिवत्समुदायश्चेत्प्रज्ञप्तितः ।

[४६१।१७]
किं चातः ।
यदि तावत्द्रव्यतः ।

[४६१।१७-४६१।१८]
संभिन्न स्वभावत्वात्स्कन्धेभ्योऽन्यो वक्तव्य इतरेतरस्कन्धवत् ।

[४६१।१८]
कारणं चास्य वक्तव्यम् ।
असंस्कृतो वा ।

[४६१।१९]
अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च ।
अथ प्रज्ञप्तितः ।
वयमप्येवं त्रूमः ।

[४६१।२०]
नैव हि द्रव्यतोऽस्ति नापि प्रज्ञप्तितः ।
किं तर्हि ।

[४६१।२०-४६१।२१]
आध्यात्मिकानुपात्तान्वर्त्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते ।

[४६१।२१-४६१।२२]
तदिदमन्धवचनमनुन्मीलितार्थं न बुध्यामहे ।

[४६१।२२]
किमिदमुपादायेति ।

[४६१।२२-४६१।२३]
यद्ययमर्ह्तः स्कन्धानां लक्ष्यते तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति ।

[४६१।२३]
यथा रूपादीनालम्व्य तेष्वेव क्षीरप्रज्ञप्तिः ।

[४६१।२३-४६१।२४]
अथायमर्थः स्कन्धान् प्रतीयेति ।

[४६१।२४]
स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् ।
स एव दोषः ।

[प्४६।१२४-४६१२५]
न स एवं प्रज्ञप्यते ।

[४६१।२५]
कथं तर्हि यथेन्धनमुपादायाग्निः ।

[४६१।२५-४६२।०१]
कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते ।

[४६२।०१-४६२।०२]
न हि विनेन्धनेनाग्निः प्रज्ञप्यते न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुं नाप्यनन्यः ।

[४६२।०२]
यदि हान्यः स्यादनुष्णमिन्धनं स्यात् ।

[४६२।०२-४६२।०३]
अथानन्यः स्याद्दाह्यमेव दाहकं स्यात् ।

[४६२।०३]
एवं न च विना स्कन्वैः पुद्गलः प्रज्ञप्यते ।

[४६२।०३-४६२।०४]
न चान्यः स्कन्धेभ्यः शक्यते प्रतिज्ञातुं शाश्वतप्रसङ्गात् ।

[४६२।०४]
नाप्यनन्य उच्छेदप्रसङ्गदिति ।

[४६२।०५]
अङ्ग तावद्ब्रूहि किगिन्धनं कोऽन्निरिति ।

[४६२।०५-४६२।०६]
ततो ज्ञास्यामः कथमिन्धनमुपादायाग्निः प्रज्ञप्यत इति ।

[४६२।०६-४६२।०७]
किमत्र वक्तव्यं दाह्यमिन्धनं दाहकोऽग्निः ।

[४६२।०७]
एतदेवात्र वक्तव्यं किं दाह्यं कोक्दाहक इति ।

[४६२।०७-४६२।०८]
लोके हि तावदप्रदीप्तं काष्ट्ःादिकमिन्धनमुच्यते दाह्यं च ।

[४६२।०८]
प्रदीप्तमग्निर्दाहकश्च ।

[४६२।०८-४६२।०९]
यच्च भस्वरं चोष्णं च भृशं च तेन हि तदिध्यते ध्यते च ।

[४६२।०९]
संततिविकारापादानात् ।

[४६२।०९-४६२।१०]
तच्चोभयमष्टद्रव्यकं तच्चेग्धनं प्रतीत्याग्निरुत्पद्यते ।

[४६२।१०-४६२।११]
यथा क्षीरं प्रतीत्य दधि मधु प्रतीत्यशुक्तम् ।

[४६२।११]
तस्माधिग्धनमुपादायेत्युच्यते ।
अन्यश्च स तस्माद्भिन्नकालत्वात् ।

[४६२।११-४६२।१२]
यदि चैयं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते स तेभ्योऽन्यश्चानित्यश्च प्राप्नोति ।

[४६२।१२-४६२।१४]
अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदीष्ण्यं तदग्निस्तत्सहजातानि त्रीणि भूतानीन्धनमिष्यन्ते ।

[४६२।१४]
तयोरपि सिद्धमन्यत्वं लक्षणभेदात् ।

[४६२।१५]
उपादायार्थस्तु वक्तव्यः ।
कथं तदिन्धनमुपादाय सोऽग्निः प्रज्ञप्यत इति ।

[४६२।१६]
न हि तत्तस्य कारणं नापि तत्प्रज्ञप्तेः ।
अग्निरेव हि तत्प्रज्ञप्तेः कारणम् ।

[४६२।१७]
यद्याश्रयार्थ उपादायार्थः सहभावार्थो वा ।

[४६२।१७-४६२।१८]
स्कन्धा अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति विस्पष्टमन्यत्वं प्रतिज्ञायते ।

[४६२।१८-४६२।१९]
तदभावे च पुद्गलाभावः प्राप्नोति ।

[४६२।१९]
इन्धनभाव इवाग्न्यभावः ।

[४६२।२०]
यत्तु तदुक्तं यदीन्धनादन्योऽग्निः स्यादनुष्णमिन्धनं स्यादिति ।

[४६२।२०-४६२।२१]
किमिदमुष्णं नाम ।

[४६२।२१-४६२।२२]
यदि तावादीष्ण्यमनुष्णमेवेन्धनमन्यभूतस्वभावत्वात् ।

[४६२।२२]
अथ यदौष्ण्यवत् ।

[४६२।२२-४६२।२३]
अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यत्यीष्ण्ययोगादिति ।

[४६२।२३]
नास्त्यन्यत्वे दोषः ।

[४६२।२३-४६२।२४]
अथ पुनः सर्वमेव तत्प्रदीप्तं काष्ठादिकमिन्धनं चाग्निश्चेष्यते ।

[४६२।२५]
तदुपादायार्थश्च वक्तव्यः ।
स्कन्धा एव च पुद्गला इत्यनन्यत्वमनिवार्यं प्राप्नोति ।

[४६२।२६]
तस्मान्न सिध्यत्येतत् ।

[४६२।२६-४६३।०१]
यथेन्धनमुपादायाग्निः प्रज्ञप्यते एवं स्कधानुपादाय पुद्गलः इति ।

[४६३।०१-४६३।०२]
यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः “पञ्चविधं ज्ञेयमतीतानागतं प्रत्युपन्नमसंस्कृतमवक्तव्यमि”ति न वक्तव्यं प्राप्नोति ।

[४६३।०२-४६३।०३]
नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् ।

[४६३।०३-४६३।०४]
यदा च पुद्गलः प्रज्ञप्यते कि तावत्स्कन्धानुपलभ्य प्रज्ञप्यते आहोस्वित्पुद्गलम् ।

[४६३।०४-४६३।०५]
यदि तावत्स्कन्धांस्तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति ।

[४६३।०५]
पुद्गलस्यानुपलम्भात् ।

[४६३।०५-४६३।०६]
अथ पुद्गलं कथमस्य स्कन्धानुपादाय प्रज्ञप्तिर्भवति ।

[४६३।०६]
पुद्गल एव हि तस्या उपादानं प्राप्नोति ।

[४६३।०६-४६३।०७]
अथ मतं सत्सु स्कन्धेषु पुद्गल उपलभ्यते ततः स्कन्धानुपादायास्य प्रज्ञप्तिरुच्यत इति ।

[४६३।०७-४६३।०८]
तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूपलम्भात्तानुपादाय प्रज्ञप्तिर्बक्तव्या ।

[४६३।०८-४६३।०९]
रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् ।

[४६३।१०]
इदं तावद्वक्तव्यम् ।

[४६३।१०-४६३।११]
षण्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः ।

[४६३।११]
षड्भिरपीत्युच्यते ।
कथं कृत्वा ।

[४६३।११-४६३।१३]
चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्यपुद्गलं प्रतिभावयति चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः नो तु वक्तव्यो रूपाणि वानो वा ।

[४६३।१३-४६३।१४]
एवं यावत्मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभावयति मनोविज्ञेयः पुद्गलो वक्तव्यो नो तु वक्तव्यो धर्मा वा नो वा ।

[४६३।१४-४६३।१५]
एवं तर्हि क्षीरादिभिः समानः प्राप्नोति ।

[४६३।१५-४६३।१७]
चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य क्षीरं विभावयत्युदकं वा चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यं नो तु वक्तव्यं रूपाणि वा नो वा ।

[४६३।१७]
एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यं नो तु वक्तव्यं स्प्रष्टव्यानि वा नो वा ।

[४६३।१८]
माभूत्क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग इति ।

[४६३।१८-४६३।१९]
अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तान्येवं स्कन्धाः पुद्गल इति सिद्धम् ।

[४६३।२०]
यच्चोच्यते चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभावयतीति ।

[४६३।२१]
कोऽस्य वाक्यस्यार्थः ।

[४६३।२१-४६३।२२]
किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं भवतिति आहोस्विद्रूपाण्युपलभमानः पुद्गलमुपलभत इति ।

[४६३।२२-४६३।२३]
यदि रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न वक्तव्यः ।

[४६३।२३-४६३।२४]
एवं तर्हि रूपमप्यालोकचक्षुर्मनस्कारेभ्योऽन्यन्न वक्तव्यम् ।

[४६३।२४-४६३।२५]
तेषां तदुपलब्धिकारणत्वात् ।

[४६३।२५]
अथ रूपाण्युपलभमानः पुद्गलमुपलभते ।

[४६३।२५-४६३।२६]
किं तयैवोपलब्ध्योपलभते आहोस्विदन्यया ।

[४६३।२६]
यदि तयैव ।

[४६३।२६-४६३।२७]
रूपादभिन्नस्वभावः पुद्गलः प्राप्नोति रूप एव वा तत्प्रज्ञाप्तिः ।

[४६३।२७]
इदं च रूपमयं पुद्गलः कथमिदं गम्यते ।
अथैवं न परिच्छिद्यते ।

[४६४।०१]
कथमिदं प्रतिज्ञायते रूपमप्यस्ति पुद्गलोऽप्यस्तीति ।

[४६४।०१-४६४।०२]
उपलब्धिवशेन हि तस्यास्तित्वं प्रतिज्ञायते ।

[४६४।०२]
एवं यावद्धर्मेभ्यो वक्तव्यम् ।

[४६४।०२-४६४।०३]
अथान्यया भिन्नकालो पलम्भादन्यो रूपात्प्राप्नोति ।

[४६४।०३]
नीलादिय पीतं क्षणादिव च क्षणान्तरम् ।

[४६४।०३-४६४।०४]
एवं यावद्धर्मेभ्यो वक्तव्यम् ।

[४६४।०४]
अथ रूपपुद्गलवक्तदुपलब्ध्योरप्यन्यानन्यत्वमवक्तव्यम् ।

[४६४।०५]
तेन तर्हि संस्कृतेऽप्यवक्तव्यं भवतीति सिद्धान्तभेदः ।

[४६४।०५-४६४।०६]
यदि चायमस्ति नो तु वक्तव्यो रूपाणि वा तो वा ।

[४६४।०६-४६४।०७]
किं तर्हि भगवतोक्तं “रूपमनात्मा यावद्विज्ञानमनात्मे”ति ।

[४६४।०८]
येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते ।

[४६४।०८-४६४।०९]
किं तद्रूपाणि प्रतीत्योत्पद्यते आहोस्वित्पुद्गलमुभयं वा ।

[४६४।०९]
यदि रूपाणि प्रतीत्योत्पद्यते ।

[४६४।०९-४६४।१०]
नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादिवत् ।

[४६४।१०-४६४।११]
यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्यालम्बनप्रत्ययः ।

[४६४।११-४६४।१२]
अथ पुद्गलं प्रतीत्योत्पद्यते उभयं वा ।

[४६४।१२]
इदमुत्सूत्रम् ।

[४६४।१२-४६४।१३]
सूत्रे हि निर्धारितं द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति ।

[४६४।१३]
“तथा चक्षुर्भिक्षो हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय ।

[४६४।१३-४६४।१४]
तत्कस्य हेतोः ।

[४६४।१४]
यत्किञ्चित्भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि चेति ।

[४६४।१५]
अनित्यश्च पुद्गल एवं प्राप्नोति ।

[४६४।१५-४६४।१६]
“ये हि हेतयो ये प्रत्यया विज्ञानस्योत्पादाय तेऽप्यनित्या” इति सूत्रे वचनात् ।

[४६४।१६-४६४।१७]
अथ पुद्गलो न तस्यालम्बनं न तर्हि तेन विज्ञेयः ।

[४६४।१८]
यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते ।

[४६४।१८-४६४।१९]
स श्रोत्रविज्ञानविज्ञेयत्वाद्रूपादन्यः प्राप्नोति शब्धवत् ।

[४६४।१९-४६४।२०]
चतुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः प्राप्नोति रूपवत् ।

[४६४।२०]
एवमन्येभ्योऽपि योज्यम् ।
इदं च सूत्रपदं वाधितं भवति ।

[४६४।२०-४६४।२२]
“यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविष्यं प्रत्यनुभवन्ति ।

[४६४।२२]
नान्यदन्यस्य गोचरविष्यं प्रत्यनुभवति ।

[४६४।२२-४६४।२३]
तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियम् ।

[४६४।२३-४६४।२४]
मन एषं पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति मनश्चैषां प्रतिसरणमि”ति ।

[४६४।२४]
न वा पुद्गलो विषयः ।

[४६४।२४-४६४।२५]
न चेद्विषयो न तर्हि विज्ञेयः ।

[४६४।२५-४६४।२६]
यद्येवं मनैन्द्रियस्याप्यव्यभिचारः प्राप्नोति ।

[४६४।२६-४६४।२७]
षडिमानीन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविषयमाकाङ्क्षन्ती त्युक्तं षट्प्राणकोपमे ।

[४६४।२७]
न त्त्रेन्द्रियमेम्वेन्द्रियं कृत्वोक्तम् ।

[४६४।२७-४६५।०१]
पञ्चानां दर्शनाद्या काङ्क्षणासंभवात्तद्विज्ञानानां च ।

[४६५।०१-४६५।०२]
अतस्तदाधिपत्याध्याकृतमत्र मनोविज्ञानेन्द्रियं कृत्वोक्तम् ।

[४६५।०२-४६५।०३]
यच्च तत्केवलं मन आधिपत्याध्याकृतं मनोविज्ञानं नैवं तदन्येषां विषयमाकाङ्क्षत्यतो नास्त्येष दोषः ।

[४६५।०३-४६५।०६]
उक्तं च भगवता “सर्वाभिज्ञेयं वो भिक्षवो धर्मपर्यायं देशयिष्यामी”त्युक्त्वा चक्षुरभिज्ञेयं रूपाणि चक्षुर्विज्ञानं चक्षुःसंस्पर्शो यदपि तच्चक्षुःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्यते वेदितं सुःखं वा अदुःखासुखं वा यावत्मनःसंस्पर्शप्रत्ययम् ।

[४६५।०६-४६५।०७]
अयमुच्यते सर्वाभिज्ञेयपरिज्ञेयो धर्मपर्यायः इति ।

[४६५।०७]
अत एतावदेवाभिज्ञेयं प्रतिज्ञेयं चेत्यवर्धार्यते न पुद्गलः ।

[४६५।०७-४६५।०८]
तस्माद्विज्ञेयोऽप्यसौ न भवति ।

[४६५।०८]
प्रज्ञाविज्ञानयोः समानविषयत्वात् ।

[४६५।०८-४६५।०९]
चक्षुष च पुद्गलं पश्यामिति पश्यन्त पौद्गलिका अनात्मना आत्मानं पश्याम इति दृष्टिस्थानमापन्ना भवन्ति ।

[४६५।१०]
सूत्रे च भगवता नीतमेतत् ।
“स्कन्धेष्वेव पुद्गलाध्ये”ति मानुष्यकसूत्रम् ।

[४६५।११-४६५।१३]
“चक्षुःप्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रुपिणः स्कन्धाश्वक्षुरिन्द्रियं च रूपमेतावन्मनुष्यत्वमुच्यते ।

[४६५।१३-४६५।१४]
अत्रेयं संज्ञा सत्त्वो नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति ।

[४६५।१४-४६५।१५]
अत्रेयं प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामीति ।

[४६५।१५-४६५।१६]
अत्रायं व्यवहार इत्यपि स आयुष्मानेवंनामा एवञ्जात्य एवङ्गोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवन्दीर्घायुरेवञ्चिरस्थितिक एवमायुःपर्यन्त इति ।

[४६५।१६-४६५।१७]
इति हि भिक्षवः संज्ञामात्रकमेवैत द्व्यवहारमात्रकमेवैतत् ।

[४६५।१७-४६५।१८]
सर्व इमे धर्माः अनित्याः संस्कृताश्चेति ताः प्रतीत्यसमुत्पन्ना इति ।

[४६५।१८]
नीतार्थं च सूत्रं प्रतिसरणमुक्तं भगवता ।

[४६५।१९]
तस्मान्न पुनः परीक्ष्यते ।

[४६५।१९-४६५।२०]
तथा चोक्तं “सर्वमस्तीति ब्राह्मण यावदेव द्वादशायनानी”ति ।

[४६५।२०]
यदि चायं पुद्गलो नायतनं न सोस्तीति सिद्धम् ।

[४६५।२०-४६५।२१]
अथायतनं न तर्ह्यवक्तव्यः ।

[४६५।२१-४६५।२२]
तेषामपि चैवं पश्यतो “यावता भिक्षो चक्षुर्यावता रूपाणि विस्तरेण एतावता भिक्षो तथागतः सर्वं च प्रज्ञापयति सर्वप्रज्ञप्तिं चे”ति ।

[४६५।२२-४६५।२५]
बिम्बिसारसूत्रे चोक्तम् “आत्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो न त्वात्रा त्मा वा आत्मीयं वा दुःखमिदमुत्पद्य मानमुत्पद्यते” इति विस्तरः ।

[४६५।२५]
शैलयाप्यर्हन्त्या मारमारभ्योक्तम् ।

[४६६।०१-४६६।०४]
“मन्यसे कि नु सत्त्वेति मारदृष्टिगतं हि ते ।
शून्यः संस्कारपुञ्जोऽयं नहि सत्त्व्जोत्र विद्यते ॥
यथैव ह्यङ्गसंभारात्संज्ञा रथ इति स्मृता ।
एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते” ॥ इति ।

[४६६।०५]
क्षद्रकेऽपि चागमे दारिद्रब्राह्मणमथिकृत्योक्तं

[४६६।०६-४६६।०७]
शृणु त्वं स्वादरे धर्मः सर्वग्रन्थिप्रमोचनम् ।
यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति ॥

[४६६।०८-४६६।०९]
आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते ।
नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः ॥

[४६६।१०-४६६।११]
द्वादशैव भवाङ्गानि स्कन्धायतनधातवः ।
विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥

[४६६।१२-४६६।१३]
शून्यमध्यात्मकं पश्य शून्यं पश्य बहिर्गतम् ।
न लभ्यते सोऽपि कश्चिद्यो भावयति शून्यतामि”ति ।

[४६६।१४]
तथोक्तं “पञ्चादीनवा आत्मोपलम्भे ।
आत्मदृष्टिर्भवति सत्त्वदृष्टिः ।

[४६६।१५]
निर्विशेषो भवति तीर्थिकैः सार्धम् ।
उन्मार्गप्रतिपन्नो भवति ।

[४६६।१५-४६६।१६]
शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते न विमुच्यते ।

[४६६।१६-४६६।१७]
आर्यधर्मा अस्य न व्यवदायन्त” इति ।

[४६६।१७]
न वैत एवं ग्रन्धं प्रमाणं कुर्वन्ति ।
किं कारणम् ।

[४६६।१७-४६६।१८]
नास्माकमयं निकाये पठच्यत इति ।

[४६६।१८-४६६।१९]
किं पुनस्तेषां निकाय एव प्रमाणमाहोस्विद्बुद्धवचनम् ।

[४६६।१९]
यदि निकाय एव प्रमाणं न तर्हि तेषां बुधः शास्ता ।

[४६६।१९-४६६।२०]
न च ते शाक्यपुत्रीया भवन्ति ।

[४६६।२०]
अथ बुद्धवचनं प्रमाणम् ।
अयं ग्रन्थः कस्मान्न प्रमाणम् ।

[४६६।२१]
नहि किलैतत्बुद्धवचनमिति ।
किं कारणम् ।
नास्माकं निकाये पठच्यत इति ।

[४६६।२२]
अयमन्यायो वर्तते ।
कोऽत्रान्यायः ।

[४६६।२२-४६६।२४]
यो हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते न च सूत्रं धर्मतां वा बाधते सोऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् ।

[४६६।२४]
किं चेदमपि तेषां सूत्रं नास्ति “सर्वधर्मा अनातान” इति ।

[४६७।०१]
स्यात्मतम् ।
नैव हि पुद्गलो धर्म उच्यते नाप्यन्यो धर्मादिति ।

[४६७।०१-४६७।०२]
एवं तर्हि न मनोविज्ञेयः सिध्यति ।

[४६७।०२]
द्वयं प्रतीत्य विज्ञानस्योत्पादः इत्यवधारणात् ।

[४६७।०२-४६७।०३]
इह चैवं विकल्प्यते “अनात्मन्यातेति संज्ञाविपर्यास श्चित्तविपर्यासो दृष्टिविपर्यास” इति ।

[४६७।०४]
अनात्मन्यात्मेति विपर्यासो न त्वात्मनि किं च पुनः ।

[४६७।०४-४६७।०५]
“नात्मा स्कन्धायतनधातवः” यत्तावदुक्तं प्राक्”नो तु वक्तव्यं रूपाणि वा नो वे”ति तत्तावदशोचम् ।

[४६७।०५-४६७।०७]
उक्तं च सूत्रान्तरे “ये केचित्भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि”ति ।

[४६७।०८]
तस्मात्सर्व एवानात्मन्यात्मग्राहः ।

[४६७।०८-४६७।१०]
तथोक्तं “ये केचिदनेकविधं पूर्वनिवासं समनुस्मरन्तः समनुस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा पुनः सर्वे त इमानेव ओपञ्चोपादनस्कन्धानि”ति ।

[४६७।१०-४६७।११]
यद्येवमिदं कस्मादाह “रूपवानहमभूवमतीते अध्वनी”ति ।

[४६७।११]
एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति ।

[४६७।११-४६७।१२]
यदि तु रूपवन्तं पुद्गलं पश्येत्सत्कायदृष्टिप्रसङ्गः स्यात् ।

[४६७।१२]
अपाठ एव त्वन्न शरणं स्यात् ।

[४६७।१२-४६७।१३]
तस्मात्प्रज्ञाप्तिसत्पुद्गलो राशिधारावत् ।

[४६७।१४]
यद्येवं तर्हि न बुद्धः सर्वज्ञः प्रप्नोति ।

[४६७।१४-४६७।१५]
न हि किञ्चिच्त्रित्तमस्ति चैत्ता वा यत्सर्वं जानीयात् ।

[४६७।१५]
क्षणिकत्वात् ।
पुद्गलस्तु जानीयात् ।

[४६७।१५-४६७।१६]
एवं तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात्नित्यत्वमस्याभ्युपेतं भवति ।

[४६७।१६-४६७।१७]
नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद्बुद्धं सर्वज्ञमाचक्ष्महे ।

[४६७।१७]
किं तर्हि ।
सामर्थ्यात्

[४६७।१७-४६७।१९]
या ह्यसौ बुद्धाख्या संततिस्तस्या इदमस्ति सामर्थ्यं यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् ।

[४६७।१९]
आह चात्र ।

[४६७।२०-४६७।२१]
संतानेन समर्थत्वाद्यथाग्निः सर्वभुङ्मतः
तथा सर्वविदेष्टव्योऽसकृत्सर्वस्य वेदनात् ।

[४६७।२२]
कथमिदं गम्यते ।
अतीतादिवचनात् ।

[४६७।२३-४६७।२४]
“ये चाभ्यतीताः संबुद्धा ये च बुद्धा अनागताः ।
यश्च एतर्ह्हि संबुद्धो बहूनां शोकनाशन” इति ।

[४६८।०१]
स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः ।

[४६८।०१-४६८।०२]
यदि स्कन्धा एव पुद्गलाः कस्मादिदमाह ।

[४६८।०२-४६८।०३]
“भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं चे”ति ।

[४६८।०३]
कस्मादिदं न वक्तव्यं स्यात् ।

[४६८।०३-४६८।०४]
न हि भार एव भारहारो युक्तः ।

[४६८।०४]
किं कारणम् ।
नह्येवं दृश्यत इति ।
अवक्तव्योऽपि न युक्तः ।

[४६८।०५]
किं कारणम् ।
न ह्येवं दृश्यते ।
भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च ।

[४६८।०६]
इत्यर्थमेव भारहारं निर्दिदेश भगवान् ।

[४६८।०६-४६८।०७]
“योऽसावायुप्मानेवंनामा यावदेवञ्चिरस्थितिक एवमायुःपर्यन्तः” स एष यथा विज्ञायेत ।

[४६८।०७-४६८।०८]
मान्यथा विज्ञायि नित्यो वा अवक्तव्यं वेति ।

[४६८।०८-४६८।०९]
स्कन्धा एव च स्कन्धानामुपधाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च भारहारं च कृत्वोक्ताः ।

[४६८।०९]
उपघातार्थो हि भार इति ।

[४६८।१०]
अस्त्येव पुद्गलो यस्मादुक्तं “नास्ति सत्त्व उपपादुक इति मिथ्यादृष्टिः” ।

[४६८।११]
कश्चैवमाह नास्ति सत्त्व उपपादुक इति ।

[४६८।११-४६८।१२]
सत्त्वस्तु यथाऽस्ति तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे ।

[४६८।१२-४६८।१३]
तस्माद्यः परत्रोपपादुकसत्त्वाख्यस्कन्धसंतानापवादं करोति तस्यैषा मिथ्यादृष्टिर्नास्ति सत्त्व उपपादुक इति ।

[४६८।१४]
स्कन्धानामुपपादुकत्वात् ।

[४६८।१४-४६८।१५]
अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किंप्रहातव्या भवेत् ।

[४६८।१५]
नह्येषा दर्शनभावनाप्रहातव्या युज्यते ।
पुद्गलस्य सत्त्वेष्वन्तर्भावात् ।

[४६८।१६]
“एकः पुद्गलो लोक उत्पद्यमान उत्पद्यते” इति वचनात्न स्कन्धा इति चेत् ।

[४६८।१७]
न ।
समुदायेऽप्येकोपचारादेकतिलैकतण्डुलवतेकराश्येकवचनवच्च ।

[४६८।१८]
संस्कृत इति वा पुद्गलो वक्तव्य उत्पतीमत्त्वाभ्युपगमात् ।

[४६८।१८-४६८।१९]
न स एवमुत्पद्यते यथा स्कन्धा अपूर्वप्रादुर्भावात् ।

[४६८।१९]
किं तर्हि ।
स्कन्धान्तरोपादानात् ।

[४६८।१९-४६८।२०]
यथा याज्ञिको जातो वैयाकरणो जात इत्युच्यते विद्योपादानात् ।

[४६८।२०-४६८।२१]
भिक्षुर्जातः परिव्राजको जात इति लिङ्गोपादानात् ।

[४६८।२१]
बुद्धोजातो व्याधितो जात इत्यवस्थान्तरोपादानादिति ।

[४६८।२२]
न प्रतिक्षेपात्सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम् ।

[४६८।२२-४६८।२३]
“इति हिभिक्षवोऽस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते ।

[४६८।२३-४६८।२४]
य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतादिति ।

[४६८।२४-४६८।२५]
फल्गुसूत्रे चोक्तम् “उपादत्त इति फल्गु न वदामीति ।

[४६८।२५-४६८।२६]
तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता नापि निक्षिप्ता ।

[४६८।२६-४६९।०१]
कं च तावद्भवान्याज्ञिकं यावद्वच्या धित मधिमुच्यते ।

[४६९।०१]
दृष्टातं करोति पुद्गलं यदि ।
सोऽसिद्धः ।
अथ चित्तचैत्ताः ।
न ।

[४६९।०२]
तेषां प्रतिक्षणमपूर्वोत्पत्तिरेव ।
अथ शरीरम् ।
तस्यापि तथा ।

[४६९।०२-४६९।०३]
शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते ।

[४६९।०३]
जीर्ण शरीरान्तरमेव ज्याधितं च ।

[४६९।०३-४६९।०४]
प्रतिषिद्धो हि सांख्यीयः परिणामवादः ।

[४६९।०४]
तस्माददृष्टान्ता एते ।

[४६९।०५-४६९।०६]
यदि च स्कन्धानामपूर्वोत्पादो न पुद्गलस्येष्यते सोऽन्यश्च तेभ्यो नित्यश्च स्फुटं दीपितो भवति ।

[४६९।०६]
पञ्च स्कन्धा एकः पुद्गल इति ब्रूवता कथमन्यत्वं नोच्यते ।

[४६९।०७]
कथं तावत्भूतानि चत्वारि रूपं त्वेकं न च भूतेभ्य्योऽन्यद्रूपम् ।
पाक्षिक एष दोषः ।

[४६९।०८]
कतमस्मिन्पक्ष ।
भूतमात्रिकपक्षे ।

[४६९।०८-४६९।०९]
तथापि तु यथा भूतमात्रं रूपमेवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति ।

[४६९।०९-४६९।१०]
यदि स्कन्धमात्रं पुद्गलः कस्मात्भगवता स जीवस्तच्छरीरकन्यो वेति नव्याकृतम् ।

[४६९।१०]
प्रष्टुराशयापेक्षया ।

[४६९।१०-४६९।११]
स हि जीवद्रव्यमेकमन्तर्व्यापार पुरुषमधिकृत्य पृष्टवान् ।

[४६९।११-४६९।१२]
स च कस्मिश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं वा व्याक्रियताम् ।

[४६९।१२]
कौर्मस्येव रोम्णोऽन्तःखरता मृदुता वा ।

[४६९।१३]
एष च ग्रन्थः पूर्वकैरेव निर्मोचितः ।

[४६९।१३-४६९।१४]
स्थाविरो हि नागसेनःकलिङ्गेन राज्ञोपसंक्रम्योक्तः ।

[४६९।१४-४६९।१५]
“पृच्छेयमहं भदन्तं बहुवोल्लकाश्च श्रवणा भवन्ति ।

[४६९।१५]
यदि यदेव पृच्छेयं तदेव व्याकुर्या इति ।
पृच्छेत्युक्तः पृष्टवान् ।

[४६९।१५-४६९।१६]
किं नु स जीवस्तच्छरीरमन्यिओ जीवोऽन्यच्छरीरमिति ।

[४६९।१६]
अव्याकृतमेतदित्यवोचत्स्थविरः ।

[४६९।१७]
स आह ।
ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितो नाऽन्यद्वच्याकर्तव्यमिति ।

[४६९।१७-४६९।१८]
किमिदमन्यदेवोक्तमव्याकृतमेतदिति ।

[४६९।१८]
स्थविर आह ।

[४६९।१८-४६९।१९]
अहमपि महाराजं पृच्छेयं बहुवोल्लकाश्च राजानो भवन्ति ।

[४६९।१९]
यदि यदेव पृच्छेयं तदेव व्याकुर्या इति ।

[४६९।१९-४६९।२०]
पृच्छेत्युक्तः पृष्टवान् ।

[४६९।२०-४६९।२१]
यस्तेऽन्तःपुरे आभ्रवृक्षस्तस्य किमम्लानि फलानि आहोस्वित्मधुराणीति ।

[४६९।२१]
नैव ममान्तःपुरे कश्चिदाभ्रवृक्षोऽस्तीत्याह ।

[४६९।२१-४६९।२२]
ननु मया पूर्वमेव महाराजः प्रतिज्ञां कारितो नान्यद्वच्याकर्तव्यमिति ।

[४६९।२२]
किमिदमन्यदेवोक्तमाभ्र एव नास्तीति ।

[४६९।२३]
स आह कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा व्याकरोमीति ।

[४६९।२३-४६९।२४]
एवमेव महाराज स एव जीवो नास्ति कुतोऽस्य शरीरादन्यतामनन्यतां वा व्याकरोमीति ।

[४६९।२५]
कस्मात्भगवताऽपि नोक्तं नास्त्येवेति ।
प्रष्टुराशयापेक्षया ।

[४६९।२५-४६९।२७]
स हि यस्यापि स्कन्धसंतानस्य जीव इत्याख्या तस्याप्यभावं प्रतीयादिति मिथ्यादृष्टिं पातितः स्यात् ।

[४६९।२७]
प्रतोत्य समुत्पादस्याज्ञानात् ।

[४६९।२७-४७०।०१]
स चतद्देशनाया अक्षमः ।

[४७०।०१]
इतश्चैतदेवं निश्चीयते ।

[४७०।०१-४७०।०३]
यत्भगवतोक्तम् “अस्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वकल्पं स्याद्वचनाय सर्वधर्मा अनात्मान इति ।

[४७०।०३-४७०।०५]
नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या मात्रया संमोहमापद्येत अभूत्मे आत्मास मे एतर्हि नास्तीति ।

[४७०।०५-४७०।०६]
अस्त्यात्मेत्यानन्द शाश्वताय परेति ।

[४७०।०६]
नास्त्यात्मेत्यानन्दोच्छेदाय परेतीति विस्तरः ।
आह चान्न

[४७०।०७-४७०।०८]
दृष्टिदंष्ट्रावभदं च ब्रंशं चापेक्ष्य कर्मणाम् ।
देशयन्ति जिना धर्म व्याग्रीपीतापहारवत् ॥

[४७०।०९-४७०।१०]
आत्मास्तित्वं ह्युपगतो भिन्नः स्याद्दृष्टिदंष्ट्रया
भ्रंशं कुक्शलपोतस्य कुर्यादप्राप्य संवृतिमि”ति ।

[४७०।११-४७०।१२]
पुनराह
असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत् ।
नास्तीत्यपि च नावोचन्माभूत्प्राज्ञप्तिकोप्यसन् ॥

[४७०।१३-४७०।१४]
यत्र हि स्कन्धसंताने शुभाशुभफलास्तिता ।
जीवाख्या तत्र सा न स्यात्जीवनास्तित्वदेशनात् ॥

[४७०।१५-४७०।१६]
प्रज्ञप्तिमात्रं स्कन्धेसु जीव इत्यपिनावदत् ।
अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः ॥

[४७०।१७-४७०।१८]
तथा ह्यात्मास्ति नास्तीति पृष्टो वास्त्येव नावदत् ।
आशयापेक्षाया प्रष्टुः सति त्वस्तीति नाह किम् ॥

[४७०।१९]
शाश्वतलोकादीनामप्यवयाकरणं प्रष्टुराशयापेक्षया ।

[४७०।१९-४७०।२०]
यदि हि तावदात्मा लोक इष्टः स्यात्तस्याभावादयुक्तं चतुर्धा व्याकरणम् ।

[४७०।२०-४७१।०१]
अथ सर्व एव संसारो लोकस्तस्याप्ययुक्तम् ।

[४७१।०१]
शाश्वते लोके न कस्यचित्परिनिर्वाणं प्राप्नुयात् ।
शाश्वते लोके न कस्यचित्परिनिर्वाणं प्राप्नुयात् ।

[४७१।०२]
अशाश्वते सर्वेपामुच्छेदः प्राप्नुयात् ।

[४७१।०२-४७१।०३]
उभयथात्वे नियमत एकेषां परिनिर्वाणं प्राप्नुयातेकेषां न ।

[४७१।०३]
अनुभयथात्वे नैव परिनिर्वाणं नापरिनिर्वाणं प्राप्नुयात् ।

[४७१।०४-४७१।०५]
अतो मार्गधीनत्वात्परिनिर्वाणस्य चतुर्धापि नियमो न व्याक्रियते निर्ग्रन्थ४ आवकचटकवत् ।

[४७१।०५]
अत एवान्तवान् लोक इति चतुष्काव्याकरणम् ।
तुल्यार्थो ह्येष चतुष्कः ।

[४७१।०६-४७१।०७]
तथाहि मुक्तिकः परिव्राजक एव चतुष्कं पृष्ट्वा पुनः पृष्टवान् किं नु सर्वो लोकोऽनेन मार्गेण निर्यात्याहोस्विदेकदेशो लोकस्ये”ति ।

[४७१।०७-४७१।०९]
स्थविर आनन्द आह “यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं प्रश्नं पृष्टवांस्तमे वैतर्हि पृच्छस्यनेन पर्यायेणे”ति सर्वम् ।

[४७१।०९-४७१।१०]
भवति तथागतः परं मरनादित्यपि चतुष्कः प्रष्टुराशयापेक्षया न व्याकृतः ।

[४७१।१०]
स हि मुक्त्वामानं तथागतं कृत्वा पृष्टवान् ।

[४७१।११-४७१।१२]
पौद्गलिकस्तु पर्यनुयोज्यः किं कारणं भगवान् जीवन्तं पुद्गलमस्तीति व्याकरोति परं मरणान्न व्याकरोतीति ।

[४७१।१२]
शाश्वत दोषप्रसङ्गः ।

[४७१।१३-४७१।१४]
इदं तर्हि कस्माद्वच्याकरोति “भविष्यसि त्वं मैत्रेयानागतेऽध्वनि तथागतोऽर्हन् संयक्संबुद्ध” इति ।

[४७१।१४-४७१।१५]
कस्माच्च श्रावकमभ्यतीतं कालगतमुपपत्तौ व्याकरोत्यमुकोऽमुत्रोपपन्न इति ।

[४७१।१५]
एवमपि हि शाश्वतत्वप्रसङ्गः ।

[४७१।१५-४७१।१७]
यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न पश्यत्यज्ञानान्न व्यकरोतीति सर्वज्ञत्वं शास्तुरुत्पादितं भवति न वा सोऽस्तीत्यभ्युपगन्तव्यम् ।

[४७१।१७-४७१।१८]
अथ पश्यत्यनुच्यमानोऽप्यसावस्ति शाश्वतश्चेति सिद्धं भवति ।

[४७१।१८]
अर्थतदपि न वक्तव्यं पश्यति वा नवेति ।

[४७१।१८-४७१।१९]
एवं तर्हि इदमपि शनैः शनैरवक्तव्यं क्रियतां सर्वज्ञो वा न वा भगवान्न वेति ।

[४७१।१९-४७१।२०]
अस्त्येव पुद्गलो यस्मात्सत्यतः स्थितितो नास्ति मे आत्मेति दृष्टिस्थानमुक्तम् ।

[४७१।२०-४७१।२१]
अस्तीत्यपि दृष्टिस्थानमुक्तम् ।

[४७१।२१]
तस्मादज्ञापकमेतत् ।

[४७१।२१-४७१।२२]
उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभिधर्मिकाः ।

[४७१।२२]
तथैव च युक्तम् ।

[४७१।२२-४७१।२३]
“अस्त्यात्मेत्यानन्द शाश्वताय परैति नास्त्यात्मेत्यानन्दोच्छेदाय परैती”ति वात्स्यसूत्रे वचनात् ।

[४७१।२४]
यदि तर्हि पुद्गलो नास्ति क एष संसरति ।

[४७१।२४-४७१।२५]
नहि संसार एष संसरतीति युक्तम् ।

[४७१।२५-४७२।०१]
उक्तं च भगवता “अविद्यानिवरणानां सत्त्वनां संधावतां संसरतामि”ति ।

[४७२।०१]
अथ पुद्गलः कथं संसरति ।

[४७२।०१-४७२।०२]
स्कन्धान्तरत्यागोपादानात् ।

[४७२।०२]
उक्तोत्तर एष पक्षः ।

[४७२।०२-४७२।०३]
यथातु क्षणिकोऽग्निः संतत्या संसरतीत्युच्यते तथा सत्त्वाख्यः स्क्न्धसमुदायस्तृष्णोपादानः संसरतीत्युच्यते ।

[४७२।०३-४७२।०५]
यदि स्कन्धामात्रमिदं कस्मादाह भगवान् “ग्रहमेव स तेन कालेन तेन समयेन सुनेत्रो नाम शास्ताऽभूवमि”ति ।

[४७२।०५]
कस्मान्न वक्तव्यं स्यात् ।
अन्यत्वात्स्कन्धानाम् ।

[४७२।०५-४७२।०६]
अथ किं पुद्गलः ।

[४७२।०६]
स एवासौ ।
शाश्वतो हि स्यात् ।

[४७२।०६-४७२।०७]
तस्मादहमेव स इत्येकसंतानतां दर्शयति ।

[४७२।०७]
यथा स एवाग्निर्दहन्नागत इति ।

[४७२।०७-४७२।०८]
यदि चात्मा भवेत्त्थागता एव सुव्यक्तं पश्येयुः ।

[४७२।०८]
पश्यतां चात्मग्राहो दृढतरः स्यादात्मस्नेहश्च ।

[४७२।०८-४७२।०९]
“आत्मनि च सत्यात्मीयं भवती”ति सूत्रे वचनादात्मग्राहोऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत ।

[४७२।०९-४७२।१०]
सैषा स्यात्सत्कायदृष्टि ।

[४७२।१०]
आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः ।

[४७२।१०-४७२।११]
एवमेषां दृढतरात्मात्मीयस्नेहपरिसादितवन्धनानां मोक्षो दूरतरीभवेत् ।

[४७२।११-४७२।१२]
अथ मतं नैवात्मनि प्रवर्तते स्नेह इति ।

[४७२।१२-४७२।१३]
तत्क इदानीमेष योगो यदनात्मन्यात्मधिमोक्षात्स्नेह उत्पद्यते आत्मन्येव तु नोत्पद्यते ।

[४७२।१३-४७२।१४]
तस्मात्दृष्टच्यर्वुदमेतस्मिन् शासने उत्पन्नं य एष एकेषां पुद्गलग्राह एकेषां सर्वनास्तिताग्राहः ।

[४७२।१४-४७२।१५]
येऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकारास्तेपामेव मोक्षाभावदोषो निष्कम्पः ।

[४७२।१६-४७२।१७]
यदि तर्हि सर्वथापि नास्त्यात्मा कथं क्षणिकेषु चित्तेषु चिरानुभूतस्यार्थस्य स्मरणं भवति प्रत्यभिज्ञानं वा ।

[४७२।१७-४७२।१८]
स्मृतिविषयसंज्ञान्वयाच्चित्तविशेषात् ।

[४७२।१८]
कीदृशाच्चित्तविशेषात्यतोऽनन्तरं स्मृतिर्भवति ।

[४७२।१८-४७२।१९]
तदाभोगसदृशसम्वन्धिसंज्ञादिमतोऽनुपहत प्रभावादाश्रयविशेषशोकव्याक्षेपादिभिः ।

[४७२।२०-४७२।२१]
तादृशोऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थः तां स्मृतिं भवयितुं तदन्वयोऽपि चान्यादृशो न समर्थस्तां स्मृतिं भवयितुम् ।

[४७२।२१-४७२।२२]
लभयथा तु समर्थ इत्येवं स्मृतिर्भवत्यन्यस्यां सामर्थ्यादर्शनात् ।

[४७२।२२]
कथमिदानीमन्येन चेतसा दृष्टमन्यत्स्मरति ।

[४७२।२२-४७२।२३]
एवं हि देवदत्तचेतसा दृष्टं यज्ञदत्तचेतः स्मरेत् ।

[४७२।२३]
नासम्बन्धात् ।

[४७२।२३-४७२।२४]
न हि तयोः संबन्धोऽस्ति अकार्य कारणभावाद्यथैकसंतानिकयोः ।

[४७२।२४-४७२।२५]
न च ब्रूमोऽन्येन चेतसा दृष्टमन्यत्स्मरतीति ।

[४७२।२५]
अपि तु दर्शनचित्तात्स्मृतिचित्तमन्यदुत्पद्यते ।

[४७२।२५-४७२।२६]
संततिपरिणत्या यथोक्तमिति क एवं सति दोषः ।

[४७२।२६]
स्मरणादेव च प्रत्यभिज्ञानं भवति ।

[४७२।२७]
असत्यात्मनिक एष स्मरति ।
स्मरतीति कोऽर्थः ।
स्मृत्या विषयं गृह्लाति ।

[४७२।२८]
किं तद्ग्रहणमन्यत्स्मरणात् ।
स्मृतिं तर्हि कः करोति ।

[४७२।२८-४७३।०१]
उक्तः स यस्तां करोति स्मृतिहेतुचित्तविशेषः ।

[४७३।०१]
यत्तर्हि चैत्रः स्मरतीत्युच्यते ।

[४७३।०१-४७३।०२]
ततो चैत्राख्यात्संतानात्तां भवन्तीं दृष्ट्वोच्यते चैत्रः स्मरतीति ।

[४७३।०२-४७३।०३]
असत्यात्मनि कस्येवं स्मृतिः ।

[४७३।०३]
किंर्थैषा षष्ठी ।
स्वाम्यर्था ।
यथा कस्य कः स्वामी ।
यथा गोश्चैत्रः ।

[४७३।०४]
कथमसौ तस्याः स्वामी ।
तदाधीनो हि तस्या वाहदोहादिषु विनियोगः ।

[४७३।०४-४७३।०५]
क्व च पुनः स्मृतिर्विनियोक्तव्या व एवं तस्याः स्वामी मृग्यते ।

[४७३।०५]
स्मर्तव्येऽर्थे ।

[४७३।०५-४७३।०६]
किमर्थ विनियोक्तव्या ।

[४७३।०६]
स्मरणार्थम् ।
अहो सूक्तानि सुखैधितानाम् ।

[४७३।०६-४७३।०७]
सैव हि नाम तदर्थं विनियोक्तव्येति ।

[४७३।०७]
कथं च विनियोक्तव्या ।
उत्पादनत अहोस्वित्संप्रेषणतः ।

[४७३।०८]
स्मृतिगत्ययोगादुत्पादनतः ।
हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् ।

[४७३।०९]
यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति ।

[४७३।०९-४७३।१०]
यो ह्येव हेतुः स्मृतेस्तस्यैवासौ ।

[४७३।१०-४७३।१२]
यश्चापि स चैत्राभिधानः संस्कारसमूहसंतान एकतो गृहीत्वा गवाख्यस्वामीत्युच्यते स चापि तस्य देशान्तरविकारोत्पत्तौ कारणभावं चेतसि कृत्वा न तु खलु कश्चिदेकश्चैत्रो नामास्ति न चापि गौः ।

[४७३।१२-४७३।१३]
तस्मात्तत्रापि न हेतुभावं व्यतीत्यास्ति स्वामिह्बावः ।

[४७३।१३]
एवं को विजानाति कस्य विज्ञानमित्येवमादिषु वक्तव्यम् ।

[४७३।१४]
तस्य हेतुरिन्द्रियार्थमनस्कारा यथायोगमित्येष विशेषः ।

[४७३।१५]
योऽप्याह भावस्य भवित्रपेक्षत्वात्सर्वो हि भावो भवितारमपेक्षते ।

[४७३।१५-४७३।१६]
यथा देवदत्तो गच्छतीत्यत्र गतिर्भावो गन्तारं देवदत्तमपेक्षते ।

[४७३।१६]
तथा विज्ञानं भावः ।

[४७३।१७]
तस्माद्यो विजानाति तेन भवितव्यमिति ।
स वक्तव्यः ।

[४७३।१८]
कोऽयं देवदत्त इति ।
यद्यात्मा स एव साध्यः ।
अथ व्यवहारपुरुषः ।

[४७३।१८-४७३।१९]
सोऽपि न कश्चिदेकः संस्कारा हि त एवंनामानः ।

[४७३।१९-४७३।२०]
तत्र यथा देवदत्तो गच्छति यथा विजानाति ।

[४७३।२०]
कथं च देवदत्तो गच्छति ।

[४७३।२०-४७३।२२]
क्षणिका हिसंस्कारा अभिन्नसंताना देवदत्त इति बालैरेकसत्त्वपिण्डग्रहेणाधिमुक्ताः स्वस्य संतानस्य देशान्तरे कारणं भवन्त उच्यन्ते गच्छति देवदत्त इति ।

[४७३।२२]
सा च देशान्तरोपत्तिर्गतिरित ।

[४७३।२२-४७३।२३]
ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् ।

[४७३।२३-४७३।२४]
त एव च पुनर्विज्ञानस्य कारणं भवन्त उच्यन्ते जानाति देवदत्त इति ।

[४७३।२४]
आर्यैरपि तेषां संज्ञया तथोच्यन्ते व्यवहारार्थम् ।

[४७३।२५]
यत्तर्हि “विज्ञानं विजानाती”ति सूत्र उक्तं किं तत्र विज्ञानं करोति ।

[४७३।२५-४७३।२६]
न किञ्चित्करोति ।

[४७३।२६]
यथा तु कार्यं कारणमनुविधीयत इत्युच्यते ।

[४७३।२६-४७३।२७]
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् ।

[४७३।२७]
एवं विज्ञानमपि विजानातीत्युच्यते ।

[४७३।२७-४७४।०१]
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् ।

[४७४।०१]
किं पुनरस्य सादृश्यम् ।
तदाकारता ।

[४७४।०१-४७४।०२]
अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते नेन्द्रियम् ।

[४७४।०२-४७४।०३]
अथवा तथाऽत्रापि विज्ञानसंतानस्य विज्ञाने कारणभावाद्विज्ञानं विजानातीति वचनान्निर्दोषं कारणे दर्तृशब्दनिर्देशात् ।

[४७४।०४]
घण्टा रौतीति यद्वत् ।

[४७४।०४-४७४।०५]
अपि खलु यथा प्रदीपो गच्छति तथा विज्ञानं विजानातीति ।

[४७४।०५]
कथं च प्रदीपो गच्छति ।

[४७४।०५-४७४।०६]
प्रदीप इत्यर्चिषां संतान उपचर्यते ।

[४७४।०६]
स देशान्तरेषूत्पद्यमानस्तं देशं गच्छतीत्युच्यते ।

[४७४।०६-४७४।०७]
एवं विज्ञानमपि चित्तानां संतान उपचर्यते ।

[४७४।०७]
तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते ।

[४७४।०८-४७४।०९]
यथा चाभिजायते तिष्ठति रूपमित्यत्र भवितुर्भावादनर्थन्तरत्वमेवं विज्ञानस्यापि स्यात् ।

[४७४।०९-४७४।१०]
यदि विज्ञानाद्विज्ञानमुत्पद्यते नात्मानः कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रदिवत् ।

[४७४।१०]
स्थित्यन्यथात्वस्य संस्कृत्लक्षणत्वात् ।

[४७४।११]
एष हि संस्कृतस्य स्वभावो यदवश्यं प्रबन्धस्यान्यथात्वं भवति ।

[४७४।११-४७४।१३]
अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ प्रथमक्षणनिंर्विशेषत्वात्पश्चादपि न स्यात्स्वयं व्युत्थानम् ।

[४७४।१३]
क्रमोऽपि हि चित्तानां नियत एव ।

[४७४।१३-४७४।१४]
यतो नूत्पत्तव्यं तत एव तस्योत्पादात् ।

[४७४।१४]
तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति ।

[४७४।१४-४७४।१५]
गोत्रविशेषात् ।

[४७४।१५-४७४।१७]
यद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात्संततिपरिणत्या स्त्रीचित्तमुत्पद्यते तत्समर्थ भवति तत्कायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा ।

[४७४।१७]
तद्गोत्रत्वात् ।

[४७४।१८]
अन्यथा न समर्थम् ।

[४७४।१८-४७४।१९]
अथ पुनः पर्यायेण स्त्रीचित्ताद्वहुविधं चित्तमुत्पन्नं वहुतर मासन्नतरं वा तदेवोत्पद्यते ।

[४७४।१९]
तद्भावनाया वलीयस्त्वात् ।

[४७४।२०]
अन्यत्र तत्कालिकात्कायबाह्यप्रत्ययविशेषात् ।

[४७४।२०-४७४।२१]
सैव बलीयसी भावना कस्मान्नित्यं न फलति ।

[४७४।२१-४७४।२२]
स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात्तस्य चान्यथात्वस्यान्यभावनाफलोत्पत्तावानुगुण्यात् ।

[४७४।२२]
एतद्धि सर्वचित्तप्रकारेषु दिङ्मात्रम् ।

[४७४।२२-४७४।२३]
निरन्तरकारणज्ञाने तु बुद्धानां प्रभुत्वम् ॥

[४७४।२३]
एवं ह्याहुः ।

[४७४।२४-४७४।२५]
सर्वाकारकारणमेकस्य मयूरचन्द्रकस्यापि ।
नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानमि”ति ॥

[४७४।२६]
प्रागेवारुपिणां चित्तभेदानाम् ।

[४७५।०१-४७५।०३]
य एव त्वयमेकीयस्तीर्थिक आत्मप्रभवां चित्तोत्पत्तिं मन्यते तस्यैवेदं स्फुटं चोद्यमापद्यते कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवदिति ।

[४७५।०३]
मनःसंयोगविशेषापेक्षत्वादिति चेत् ।
न ।
अन्यसंयोगासिद्धेः ।

[४७५।०४-४७५।०५]
संयोगिनोस्तु परिच्छिन्नत्वादप्राप्तिपूर्विका प्राप्तिः सम्योग इति लक्षणव्याख्यानाच्चात्मानः परिच्छेदप्रसङ्गः ।

[४७५।०५-४७५।०६]
ततो मनःसम्चारादात्मनः संचारप्रसङ्गो विरागस्य वा ।

[४७५।०६]
प्रदेशसंयोग इति चेत् ।
न ।
तस्यैव तत्प्रदेशत्वायोगात् ।

[४७५।०६-४७५।०८]
अस्तु वा संयोगस्तथापि नित्यमविशिष्टे मनसि कथं संयोगविशेषः ।

[४७५।०८]
बुद्धिविशेषापेक्ष इति चेत् ।

[४७५।०८-४७५।०९]
स एव परिचोद्यते कथं बुद्धिविशेष इति ।

[४७५।०९]
संस्कारविशेषापेक्षादात्ममनः संयोगादिति चेत् ।

[४७५।०९-४७५।१०]
चित्तादेवास्तु संस्कारविशेषापेक्षत्वात् ।
[४७५।१०-४७५।११]
नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्मौषध कार्यसिद्धाविव कुहकवैद्यफुःस्वाहानाम् ।

[४७५।११]
सत्यात्मनि तयोः संयोग इति चेत् ।

[४७५।१२]
वाङ्मात्रम् ।
आश्रयः स इति चेत् ।
यथा कः कस्याश्रयः ।

[४७५।१२-४७५।१३]
न हि ते चित्रवदरादिवदाधार्ये नापि स कुडच्यकुण्डादिवदाधारो युक्तः ।

[४७५।१३-४७५।१४]
प्रतिघातियुतदोषात्नैव स एवमाश्रयः ।

[४७५।१४]
कथं तर्हि ।
यथा गन्धादीनां पृथिवीति चेत् ।

[४७५।१४-४७५।१५]
अतिपरितोषिताः स्मः ।

[४७५।१५]
इदमेव हि नः प्रत्यायकं नास्त्यात्मेति ।

[४७५।१५-४७५।१६]
यथा न गन्धादिभ्योऽन्या पृथिवीति ।

[४७५।१६]
को हि स गन्धादिभ्योऽन्यां पृथिवीं निर्धारयति ।

[४७५।१६-४७५।१७]
व्यपदेशस्तु पृथिव्या गन्धादय इति विशेषणार्थम् ।

[४७५।१७-४७५।१८]
ते ह्येव तदाख्या गन्धादयो यथा प्रतीयेरन्नान्य इति ।

[४७५।१८]
काष्ठप्रतिमायां शरीरव्यपदेशवत् ।

[४७५।१८-४७५।१९]
सत्यपि च संस्कारविशेषापेक्षत्वे कस्मान्न युगपत्सर्वज्ञानोत्पत्तिः ।

[४७५।१९]
यो हि बलिष्ठस्तेनान्येषां प्रतिवन्धः ।

[४७५।२०]
स एव वलिष्ठः कस्मान्नित्यं न फलति ।
योऽस्य न्यायः सोऽस्तु भावनायाः ।

[४७५।२१]
आत्मा तु निरर्थकः कल्प्यते ।

[४७५।२२]
अवश्यमात्माभ्युपगन्तव्यः ।

[४७५।२२-४७५।२३]
स्मृत्यादीनां गुणपदार्थत्वात्तस्य चार्थादवश्यं द्रव्याश्रितत्वात्तेषां चान्याश्रयायोगादिति चेत् ।

[४७६।०१]
न ।
न ह्येषां गुणपदार्थत्वं सिद्धम् ।
सर्वमेव नो विद्यमानं द्रव्य ।

[४७६।०१-४७६।०२]
“षट्द्रव्याणि श्रामण्यफलानी”ति वचनात् ।

[४७६।०२]
नाप्येषां द्रव्याश्रितत्वं सिद्धम् ।

[४७६।०२-४७६।०३]
परीक्षितो ह्याश्रयार्थः ।

[४७६।०३]
तस्माद्यत्किञ्चिदेव तत् ।

[४७६।०४]
आत्मन्यसति किमर्थः कर्मारम्भः ।

[४७६।०४-४७६।०५]
अहं सुखी स्यामहं दुःखी न स्यामित्येवमर्थः ।

[४७६।०५]
कोऽसावहं नाम यद्विषयिओऽयमहङ्कारः ।
स्कन्धविषयः ।
कथं ज्ञायते ।

[४७६।०६]
तेषु स्नेहात् ।
गौरादिबुद्धिभिः सामानाधिकरण्यात्तु ।

[४७६।०६-४७६।०८]
गौरोऽहमहं श्यामः स्थूलोऽहमहं कृशः जीर्णोऽहमहं युवेति गौरादिबुद्धिभिः सामानाधिकरणोऽयमहङ्कारो दृश्यते ।

[४७६।०८]
न चात्मन एते प्रकारा दृश्यन्ते ।
तस्मादपि स्कन्धेष्वयमिति गम्यते ।

[४७६।०९-४७६।१०]
आत्मन उपकारकेऽपि शरीर आत्मोपचारो यथा य एवायं स एवाहं स एवायं मे बृत्य इति भवत्युपकारकेऽपि आत्मोपचारो नत्वहङ्कारः ।

[४७६।१०-४७६।११]
सति शरीरालम्बनत्वे परशरीरालम्वनोऽपि कस्मान्न भवति ।

[४७६।११]
असंवन्धात् ।

[४७६।११-४७६।१२]
येनैव हि सहास्य संवन्धः कायेन चित्तेन वा यत्रैवायमहङ्कार उत्पद्यते नान्वत्र ।

[४७६।१२-४७६।१३]
अनादौ संसार्र एवमभ्यासात् ।

[४७६।१३]
कश्च संबन्धः ।
कार्यकारणभावः ।

[४७६।१३-४७६।१४]
यद्यात्मा नास्ति कस्यायमहङ्कारः ।

[४७६।१४]
इदं पुनस्तदेआयातं “किमर्थैषा षष्ठीति ।

[४७६।१४-४७६।१५]
यावद्य एवास्य हेतुस्तस्यैवायमि”ति ।

[४७६।१५]
कश्चान्यो हेतुः ।

[४७६।१५-४७६।१६]
पूर्वाहङ्कारपरिभावितं स्वसंततिविषयं सावद्यं चित्तम् ।

[४७६।१६]
असत्यात्मनि क एष सुखितो दुःखितो वा ।

[४७६।१६-४७६।१७]
यस्मिन्नाश्रये सुखमुत्पन्नं दुःखं वा ।

[४७६।१७]
यथा पुष्पितो वृक्षः फलितं वनमिति ।

[४७६।१७-४७६।१८]
कः पुनरनयोराश्रयः ।

[४७६।१८]
षडायतनम् ।
यथा कृत्वा तथोक्तम् ।

[४७६।१९]
असत्यात्मनि क एषां कर्मणां कर्ता कश्च फलानां भोक्ता भवति ।

[४७६।१९-४७६।२०]
कर्तेति क एष वाह्यर्थः ।

[४७६।२०]
करोतीति कर्ता ।
भुङ्क्त इति भोक्ता ।
पर्याय उच्यते नार्थः ।

[४७६।२१]
“स्वतन्त्रः कर्ते”ति कर्तृ लक्षणमाचक्षते लाक्षणिकाः ।

[४७६।२१-४७६।२२]
अस्ति पुनः क्वचिदेव कार्ये कस्यचित्स्वातन्त्र्यम् ।

[४७६।२२]
लोके दृष्टं देवदत्तस्य स्नानासनगमनादौ ।

[४७६।२२-४७६।२३]
कः पुनर्भवान् देवदत्तमुदाहरति ।

[४७६।२३]
यद्यात्मानं स एव साध्यः ।
अथ पञ्चस्कन्धकं स एव्कर्ता ।

[४७६।२४]
त्रिविधं चेदं कर्म कायवाङ्मनस्कर्म ।

[४७६।२४-४७६।२५]
तत्र कायकर्मणि तावत्कायस्य चित्तपरतन्त्रा वृत्तिः ।

[४७६।२५-४७६।२६]
चित्तस्यापि काये स्वकारणपरतन्त्रा वृत्तिस्तस्याप्येवमिति नास्ति कस्यचित्स्वातन्त्र्यम् ।

[४७६।२६]
प्रत्ययपरतन्त्रा हि सर्वे भावाः प्रवर्तन्ते ।

[४७६।२६-४७६।२७]
आत्मनोऽपि च निरपेक्षस्याकारणत्वाभ्युपगमात्र स्वातन्त्र्यं सिध्यति ।

[४७६।२८]
तस्मान्नैवंलक्षणमुपलभ्यते कश्चित्कर्ता ।

[४७६।२८-४७७।०१]
यत्तु यस्य प्रधानं कारणं तत्त्स्य कर्तेत्युच्यते ।

[४७७।०१]
न च आत्मनः क्वचिदपि कारणत्वं दृश्यते ।

[४७७।०१-४७७।०२]
तस्मात्स एवमपि न कर्ता युज्यते ।

[४७७।०२-४७७।०३]
स्मृतिजो हि च्छन्दः च्छन्दजो वितर्को वितर्कात्प्रयत्नः प्रयत्नाद्वायुस्ततः कर्मेति किमत्रात्मा कुरुते ।

[४७७।०३-४७७।०४]
फलस्यापिच क उपभोगो यमयमात्मा कुर्वन्नुपभोक्ता कल्प्यते ।

[४७७।०४]
उपलभिरिति चेत् ।
नात्मनः उपलब्धौ सामर्थ्यं विज्ञाने प्रतिपेधात् ।

[४७७।०५]
असत्यात्मनि कस्मादसत्त्वाधिष्ठानः पापपुण्योपचयो न भवति ।

[४७७।०५-४७७।०६]
वेदनाद्यनाश्रयत्वात्तदाश्रयश्च षडायतनं नात्मा यथा तथोक्तम् ।

[४७७।०७]
कथमसत्यात्मनि वेनष्टात्कर्मण आयत्यां फलोत्पत्तिः ।

[४७७।०७-४७७।०८]
आत्मन्यपि सति कथं विनष्टात्कर्मण आयत्यां फलोत्पत्तिः ।

[४७७।०८]
तदाश्रिताद्धर्माधर्मात् ।

[४७७।०८-४७७।०९]
यथा कःकिमाश्रित इत्युक्तोत्तरैषा वाचो युक्तिः ।

[४७७।०९]
तस्मादनाश्रितादेव धर्माधर्मात्भवतु ।

[४७७।०९-४७७।१०]
नैव तु वयं विनष्टात्कर्मण आयत्यां फलोत्पत्तिं ब्रूमः ।

[४७७।१०]
किं तर्हि ।

[४७७।१०-४७७।११]
तत्संततिपरिणामविशेषाद्वीजफलवत् ।

[४७७।११]
यथा वीजात्फलमुत्पद्यत इत्युच्यते ।

[४७७।११-४७७।१२]
न च तद्विनष्टाद्वीजादुत्पद्यते ।

[४७७।१२]
नाप्यनन्तरमेव ।
किं तर्हि ।

[४७७।१२-४७७।१३]
तत्संततिपरिणामविशेषादङ्कुरकाण्डपत्रादिक्रमनिष्पन्नात्पुष्पावसानात् ।

[४७७।१३-४७७।१४]
तत्पुनः पुष्पान्निष्पन्नं कस्मात्तस्य वीजस्य फलमित्युच्यते ।

[४७७।१४]
तदाहितं हि तत्परयापुष्पे सामर्थ्यम् ।

[४७७।१४-४७७।१५]
यदि हि तत्पूर्विकान्नभविष्यत्तत्तादृशस्य फलस्योतोपत्तौ न समर्थमभविष्यत् ।

[४७७।१५-४७७।१६]
एवं कर्मणः फलमुत्पद्यत इत्युच्यते ।

[४७७।१६]
न च तद्विनिष्टात्कर्मण उत्पद्यते नाप्यनन्तरमेव ।

[४७७।१७]
किं तर्हि ।
तत्संततिपरिणामविशेषात् ।

[४७७।१७-४७७।१८]
का पुनः संततिः कः परिणामः को विशेषः ।

[४७७।१८-४७७।१९]
यः कर्मपूर्व उत्तरोत्तरचित्तप्रवसः सा संततिस्तस्या अन्यथोत्पत्तिः परिणामः ।

[४७७।१९-४७७।२०]
स पुनर्थोऽन्तरं फलोत्पादनसमर्थः सोऽन्तपरिणामविशिष्टत्वात्परिणमविशेषः ।

[४७७।२०]
तद्याथा सोपादानं मरणचित्तं पुनर्भवस्य ।

[४७७।२०-४७७।२१]
त्रिविधकर्मपूर्वकत्वेऽपि यत्कर्म गुरु वा भवत्यासन्नमभ्यस्तं वा यत्कृतं सामर्थ्यं द्योत्यते नत्वन्यस्य ।

[४७७।२२]
आह च

[४७७।२३-४७७।२४]
“यत्गुरु यच्चासन्नं यच्चाभ्यस्तं कृतं च यत् ।
पूर्वं पूर्वं पूर्वं वीपच्यते कर्मसंसारे” ॥

[४७७।२५]
तत्र विपाकहेत्वाहितं तु विपाकफलदानसामर्थ्यं विपाकं दत्त्वा विनिवर्तते ।

[४७७।२५-४७७।२६]
सभागहेत्वाहितं तु निष्यन्दफलदानसामर्थ्यं क्लिष्टानां प्रतिपक्षोदयाद्विनिवर्तते ।

[४७७।२७]
अक्लिष्टानां चित्तसंतानात्यन्तविनिवृत्तेर्यदा परिनिर्वाति ।

[४७८।०१]
अथ कस्माद्विपाकाद्विपाकान्तरं नोत्पद्यते वीजफलादिव फलान्तरम् ।

[४७८।०१-४७८।०२]
न तावत्दृष्टान्तेन सर्वं समानं भवति ।

[४७८।०२]
तत्रापि तु न फलादेव पुनः फलान्तरमुत्पद्यते ।

[४७८।०२-४७८।०३]
किं तर्हि ।

[४७८।०३]
विक्लित्तिविशेषजाद्विकारविशेषात् ।

[४७८।०३-४७८।०४]
यो हि तत्र भूतप्रकाराङ्कुरं निर्वर्तयति स तस्य वीजं नान्यः ।

[४७८।०४-४७८।०५]
भाविन्या तु संज्ञाया सादृश्याद्वा पूर्वकोऽपि संतानो बीजमित्याख्यायते ।

[४७८।०५-४७८।०७]
एवमिहापि तस्माद्विपाकाद्यदि सदसद्धर्मश्रवणा दिप्रत्ययविशेषजः कुशलसास्रवोऽकुशलो वा चित्तविकार उत्पद्यते तस्मात्पुनर्विकारान्तरमुत्पद्यते नान्यथेति समानमेतत् ।

[४७८।०७]
अथवा पुनरेतदेवं विज्ञातव्यम् ।

[४७८।०७-४७८।०९]
यथा लाक्षारसरञ्जितात्मातुलुङ्गपुष्पात्संततिपरिणामविशेषजः फले रक्तः केशर उपजायते न च तस्मात्पुनरन्यः एवं कर्मजाद्विपाकात्न पुनर्विपाकान्तरमिति ।

[४७८।०९-४७८।१०]
यथास्थूलमिदमस्मद्बुद्धिगम्यं दर्शितम् ।

[४७८।१०-४७८।११]
नानाविधशक्तिभिन्नैस्तु कर्मभिरधिवासिताः संततय एतामवस्थां गता ईदृशं फलमभिनिवर्तयन्तीति बुद्धानामेव विषयः ।

[४७८।११]
आह खल्वपि

[४७८।१२-४७८।१३]
“कर्म तद्भावनां तस्या वृत्तिलाभं ततः फलम् ।
नियमेन प्रजानाति बुद्धादन्यिओ न सर्वथा ॥

[४७८।१४-४७८।१७]
इत्येतां सुविहितहेतुमार्गशुद्धां
बुद्धानां प्रवचनधर्मतां निशम्य ।
अन्धानां विविधकुदृष्टिचेष्टितानां
तीर्थ्यानां मतमपविध्य यान्त्यनन्धाः ॥

[४७८।१८-४७८।२१]
इमं हि निर्वाणपुरैकवर्तिनीं
तथागतादित्यवचोंऽशुभास्वतीम् ।
निरात्मतामार्यसहस्रवाहितां
न मन्दचक्षुर्विवृतामपीक्षते ॥

[४७८।२२-४७८।२३]
इति दिङ्मात्रमेवेदमुपदिष्टं सुमेधसाम् ।
ब्रणदेशोविषस्येव स्वसामर्थ्यविसर्पण इति ।

[४७९।०१-४७९।०२]
पुद्गलकोशमभिधर्मकोशभाष्यं समाप्तमिति ।
कृतिरियमाचार्यवसुबन्धुपादानामिति ॥

[४७९।०३-४७९।०४]
ये धर्महेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥


[४७९।०५-४७९।०६]
देवधर्मोऽयं प्रवरमहायान सकलतथागतशासनधूर्द्धरस्य उत्तरापथिकपण्डितस्थविरश्रीलामावाकस्य यदत्र पुण्यमित्यादि ।

[४७९।०७]
॥ शुभमस्तु ॥

 







 

Tags: Buddhist Library

Post navigation

Previous: अभिधर्मकोश-वसुबन्धु -Abhi dharma kosha-VASUBANDHU
Next: अभिधर्मसमुच्चय- Abhidharmasamuccaya by Asanga
Sarvarthapedia
Sarvarthapedia

Research Methodology and Investigation: Concepts, Frameworks, and Emerging Trends

Surupa Guha Murder Case
Sarvarthapedia

Surupa Guha Murder Case 1976 : w/o Indranath Guha (ex-Principal of South Point School & Friend of Aparna Sen)

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

West Bengal Court-Fees Act, 1970: Fees, Schedules, and Procedures

WB Land Reforms Tribunal Act 1997: History, Features, Provisions, Structure, Powers and Functions

Civil Procedure Law of the Democratic People’s Republic of Korea (1976)

Knowledge Management in the Modern Era: From History to Digital Transformation

Vedic Interpretation Methodical Style: History, Principles, and Evolution  From Yaska to Aurobindo

Research on English Law: Courts, Legislation, and Case Reporting System

Vedic Etymology of Krishna Yajurveda: Nirvacana, Yajña Concepts, and Word Origins

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger20/12/2025
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)28/10/2025
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)06/10/2025
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife05/10/2025
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
  • Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views
  • Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)
  • Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation
  • Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates