अभिधर्मकोषभाष्य – वसुबन्धु
प्रथमं कोशस्थानम्
[००१।०३-००१।०७]
ओं नमो बुद्धाय
यः सर्वथासर्वहतान्धकारः संसारपङ्काज्जगदुज्जहार ।
तस्मै नमस्कृत्य यथार्थशास्त्रे शास्त्रं प्रवक्ष्याम्यभिधर्मकोशम् ॥ १.१ ॥
[००१।०८]
शास्त्रं प्रणेतुकामः स्वस्य शास्तुर्माहात्म्यज्ञापनार्थं गुणाख्यानपूर्वकं तस्मै नमस्कारमारभते य इति ।
[००१।०९-००१।१०]
बुद्धं भगवन्तमधिकृत्याह हतमस्यान्धकारमनेन वेति हतान्धकारः ।
[००१।१०]
सर्वेण प्रकारेण सर्वस्मिन् हतान्धकारः सर्वथासर्वहतान्धकारः ।
[००१।१०-००१।११]
अज्ञानं हि भूतार्थदर्शनप्रतिबन्धाधकारम् ।
[००१।११-००१।१२]
तच्च भगवतो बुद्धस्य प्रतिपक्षलाभेनात्यन्तं सर्वथा सर्वत्र ज्ञेये पुनरनुत्पत्तिधर्मत्वाद्धतम् ।
[००१।१२]
अतोऽसौ सर्वथासर्वहतान्धकारः ।
[००१।१३]
प्रत्यैकबुद्धश्रावका अपि कामं सर्वत्र हतान्धकाराः ।
क्लिष्टसंमोहात्यन्तविगमात् ।
[००१।१४]
न तु सर्वथा ।
[००१।१४-००१।१५]
तथ ह्येषां बुद्धधर्मेष्वतिविप्रकृष्टदेशकालेषु अर्थेषु चानन्तप्रभेदेषु भवत्येवाक्लिष्टमज्ञानम् ।
[००१।१५-००१।१६]
इत्यात्महितप्रतिपत्तिसंपदा संस्तुत्य पुनस्तमेव भगवन्तं परहितप्रतिपत्तिसंपदा संस्तौति संसारपङ्काज्जगदुज्जहारेति ।
[००१।१७]
संसारो हि जगदासङ्गस्थानत्वात्दुरुत्तरत्वाच्च पङ्कभूतः ।
[००१।१७-००१।२०]
तत्रावमग्नं जगदत्राणमनुकम्पमानो भगवान् सद्धर्मदेशनाहस्तप्रदानैर्यथाभव्यमभ्युद्धृतवानिति य एवमात्मपरहितप्रतिपत्तिसंपदा युक्तस्तस्मै नमस्कृत्येति शिरसा प्रणिपत्य ।
[००१।२०]
यथार्थमविपरीतं शास्तीति यथार्थशास्ता ।
[००१।२०-००१।२१]
अनेन परहितप्रतिपत्त्युपायमस्याविष्करोति ।
[००१।२१-००१।२२]
यथाभूतशासनाच्छास्ता भवन्न्तसौ संसारपङ्काज्जगदुज्जहार न त्वृद्धिवरप्रदानप्रभावेणेति ।
[००१।२२-००२।०१]
तस्मै नमस्कृत्य किं करिष्यामी त्याह शास्त्रं प्रवक्ष्यामि ।
[००२।०१]
शिष्यशासनाच्छास्त्रम् ।
[००२।०१-००२।०२]
कतमच्छास्त्रमित्याह अभिधर्मकोशम्
[००२।०२]
कोऽयमभिधर्मो नाम ।
[००२।०३]
प्रज्ञाऽमला सानुचराऽभिधर्मः (१-२ )
[००२।०४]
तत्र प्रज्ञा धर्मप्रविचयः।
अमलेति अनास्रवा ।
सानुचरेति सपरिवारा ।
[००२।०४-००२।०५]
एवमनास्रवः पञ्चस्कन्धकोऽभिधर्म इत्युक्तं भवति ।
[००२।०५]
एष तावत्पारमार्थिकोऽभिधर्मः ।
[००२।०६]
सांकेतिकस्तु
[००२।०७]
तत्प्राप्तये यापि च यच्च शास्त्रम् । (१-२ )
[००२।०८-००२।०९]
यापि च श्रुतचिन्ताभावनामयी सास्रवा प्रज्ञा उपपत्तिप्रतिलम्भिका च सानुचरा ।
[००२।०९-००२।१०]
यच्च शास्त्रमस्याः प्राप्त्यर्थमनास्रवायाः प्रज्ञायाः तदपि तत्संभारभावादभिधर्म इत्युच्यते ।
[००२।१०]
निर्वचनं तु स्वलक्षणधारणाद्धर्मः ।
[००२।१०-००२।११]
तदयं परमार्थधर्मं वा निर्वाणं धर्मलक्षणं वा प्रत्यभिमुखो धर्म इत्यभिधर्मः ।
[००२।१२]
उक्तोऽभिधर्मः ।
इदं तु शास्त्रं कथमभिधर्मकोशम् ।
[००२।१३-००२।१४]
तस्यार्थतोऽस्मिन् समनुप्रवेशात्
स चाश्रयो स्येत्यभिधर्मकोशम् (१-२ -२ ) ॥ १.२ ॥
[००२।१५-००२।१६]
स हि शास्त्रसंज्ञकोऽभिधर्म एतस्मिन्नर्थतो यथाप्रधानमन्तर्भूत इत्येतच्छास्त्रं तस्य कोशस्थानीयं भवति ।
[००२।१६]
अथवा सोऽभिधर्म एतस्याश्रयभूतः शास्त्रस्य ।
[००२।१७]
ततो ह्येतन्निराकृष्टम् ।
अतः स एवास्याभिधर्मः कोश इत्येतच्छास्त्रमभिधर्वर्मकोशम् ।
[००२।१८-००२।१९]
किमर्थं पुनरभिधर्मोपदेशः केन चायं प्रथमत उपदिष्टो यट आचार्योऽभिधर्मकोशं वक्तुमाद्रियत इति ॥
[००२।१९]
आह् ।
[००२।२०-००२।२३]
धर्माणां प्रविचयमन्तरेण नास्ति क्लेशानां यत उपशान्तयेऽभ्युपायः ।
क्लेशैश्च भ्रमति भवार्णवेऽत्र लोकस्तद्धेतोरत उदितः किलैष शास्त्रा ॥ १.३ ॥
[००२।२४]
यतो न विना धर्मप्रविचयेनास्ति क्लेशोपशमाभ्युपायः ।
[००२।२४-००३।०१]
क्लेशाश्च लोकं भ्रमयन्ति संसारमहार्णेवेऽस्मिनन् ।
[००३।०१-००३।०२]
अतस्तद्धेतोस्तस्य धर्मप्रविचयस्यार्थे शास्त्रा किल बुद्धेनाभिधर्म उक्तः ।
[००३।०२]
नहि विनाऽभिधर्मोपदेशेन शिष्यः शक्तो धर्मान् प्रविचेतुमिति ।
[००३।०३-००३।०४]
स तु प्रकीर्ण उक्तो भगवता भदन्तकात्यायनीपुत्र-प्रभृतिभिः पिण्डीकृत्य स्थपितोभदन्त धर्मत्रातो दानवर्गीयकरणवदित्याहुर्वैभाषिकाः ।
[००३।०५]
कतमे पुनस्ते धर्मा येषां प्रविचयार्थमभिधर्मोपदेश इत्याह
[००३।०६]
सास्रवाऽनास्रवा धर्माः (१-४ )
[००३।०७]
एष सर्वधर्माणां समासनिर्द्देशः ।
[००३।०७-००३।०८]
तत्र कतमे सास्रवा धर्मा इत्याह
[००३।०८-००३।०९]
संस्कृता मार्गवर्जिताः ।
सास्रवाः (१-४ -४ १)
[००३।१०]
मार्गसत्यं वर्जयित्वाऽन्ये संस्कृता धर्माः सास्रवाः ।
किं कारणम् ।
[००३।११]
आस्रवास्तेषु यस्मात्समनुशेरते (१-४ २-४ ) ॥ १.४ ॥
[००३।१२-००३।१३]
कामं निरोधमार्गसत्यालम्बना अपि आस्रवा उपजायन्ते न तिनुशेरते तत्रेति न तयोः सास्रवत्वप्रसञ्गः ।
[००३।१३-००३।१४]
यथाऽत्र नानुशेरते तत्पश्चादनुशयनिर्देश एव ज्ञापयिष्यामः ।
[००३।१४]
उक्ताः सास्रवाः ।
[००३।१५]
अनस्रवाः कतमे ।
[००३।१६]
अनास्रवा मार्गसत्यं त्रिविधं चाप्यसंस्कृतम् । (१-५ -५ )
[००३।१७]
कतमत्त्रि विधम् ।
[००३।१८]
आकाशं द्वौ निरोधौ च (१-५ )
[००३।१९]
कतमौ द्वौ ।
प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्च ।
[००३।१९-००३।२०]
इत्येतदाकाशादि त्रिविधमसंस्कृतं मार्गसत्यं चानास्रवा धर्माः ।
[००३।२०]
किं कारणम् ।
नहि तेष्वास्रवा अनुशेरत इति ।
[००३।२१]
यदेतत्त्रिविधमसंस्कृतमुद्दिष्टम्
[००३।२२]
तत्राकाशमनावृतिः (१-५ ) ॥ १.५ ॥
[००३।२३]
अनावरणस्वभावमाकाशं यत्र रूपस्य गतिः ॥
[००३।२४]
प्रतिसंख्यानिरोधो यो विसंयोगः (१-६ -६ १)
[००४।०१]
यः सास्रवैर्धर्मैर्विसंयोगः स प्रतिसंख्यानिरोधः ।
[००४।०१-००४।०२]
दुःखादीनामार्यसत्यानां प्रतिसंख्यानं प्रतिसंख्या प्रज्ञाविशेषस्तेन प्राप्यो निरोधः ।
[००४।०२]
प्रतिसंख्यानिरोधः ।
[००४।०२-००४।०३]
मध्यपदलोपात्गोरथवत् ।
[००४।०४]
किं पुनरेक एव सर्वेषां सास्रवाणां धर्माणां प्रतिसंख्यानिरोधः ।
नेत्याह ।
[००४।०५]
किं तर्हि ।
[००४।०६]
पृथक्पृथक् । (१-६ २)
[००४।०७]
यावन्ति हि संयोगद्रव्याणि तावन्ति विसंयोगद्रव्याणि ।
[००४।०७-००४।०८]
अन्यथा हि दुःखदर्शनहेयक्लेशनिरोधसाक्षात्क्करणात्सर्वक्लेशनिरोधसाक्षात्क्रिया प्रसज्येत ।
[००४।०८-००४।०९]
सति चैवं शेषप्रतिपक्षभावनावैयर्थ्यं स्यात् ।
[००४।०९-००४।१०]
यत्तर्ह्युक्तम् “असभागोनिरोध” इत्यस्य कोऽर्थः ।
[००४।१०-००४।११]
नास्य कश्चित्सभागहेतुरस्ति नासौ कस्यचिदित्ययमस्य वाक्यस्यार्थो न तु नास्य कशिचत्सभागोऽस्तीति ।
[००४।११]
उक्तः प्रतिसंख्यानिरोधः ॥
[००४।१२]
उत्पादात्यन्तविघ्नोऽन्यो निरोधोऽप्रतिसंख्यया (१-६ -६ ) ॥ १.६ ॥
[००४।१३-००४।१४]
अनागतानां धर्माणामुत्पादस्यात्यन्तं विघ्नभूतो विसंयोगाद्योऽन्यो निरोधः सोऽप्रतिसंख्यानिरोधः ।
[००४।१४]
न ह्यसौ प्रतिसंख्यया लभ्यते ।
किं तर्हि ।
प्रत्ययवैकल्यात् ।
[००४।१४-००४।१६]
यथैकरूपव्यासक्तचक्षुर्मनसो यानि रूपाणि शब्दगन्धरसस्प्रष्टव्यानि चात्ययन्ते तदालम्बनैः पञ्चभिर्विज्ञानकायैर्न शक्यं पुनरुत्पत्तुम् ।
[००४।१६-००४।१७]
न हि ते सत्या अतीतं विषयमालम्बयि तुल्मिति ।
[००४।१७]
अतः स तेषामप्रतिसंख्यानिरोधः प्रत्ययवैकल्यात्प्राप्यते ।
[००४।१८]
चतुष्कोटिकं चात्र भवति ।
सन्ति ते धर्मा येषां प्रतिसंख्यानिरोध एव लभ्यते ।
[००४।१९]
तद्यथा अतितप्रत्युत्पन्नोत्पत्तिधर्माणां सास्रवाणाम् ।
[००४।१९-००४।२०]
सन्ति येषामप्रतिसंख्यानिरोध एव ।
[००४।२०]
तद्यथाऽनुत्पत्तिधर्माणामनास्रवसंस्कृतानाम् ।
सन्ति ते येसामुभयम् ।
[००४।२१]
तद्यथा सास्रवाणामनुत्पस्त्तिधर्माणाम् ।
सन्ति येषां नोभयम् ।
[००४।२१-००४।२२]
तद्यथा अतीतप्रत्युत्पन्नोत्पत्तिधर्माणामणास्रवाणामिति ।
[००४।२२]
उक्तं त्रिविधमसंस्कृतम् ॥
[००४।२३]
यत्तूक्तं “संस्कृता मार्गवर्जिताः ।
[००४।२३-००४।२४]
सास्रवा” इति कतमे ते संस्कृताः ।
[००४।२५]
ते पुनः संस्कृता धार्मा रूपादिस्कन्धपञ्चकम् । (१-७ -७ )
[००४।२६]
रूपस्कन्धो वेदनास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेत्येते संस्कृता धर्माः ।
[००४।२७]
समेत्य संभूय प्रत्ययैः कृताः इति संस्कृताः ।
नह्येकप्रत्ययजनितं किञ्चिदस्तीति ।
[००४।२७-००५।०१]
तज्जातीयत्वादनागतेष्वविरोधो दुग्धेन्धनवत् ।
[००५।०२]
त एवाध्वा कथावस्तु सनिःसाराः सवस्तुकाः (१-७ -७ ) ॥ १.७ ॥
[००५।०३]
त एव संस्कृता गतगच्छद्गमिष्यद्भावादध्वानः अद्यन्तेऽनितयत्येति वा ।
[००५।०३-००५।०४]
कथा वावायं तस्या वस्तु नाम ।
[००५।०४]
सार्थकवस्तुग्रहणात्तु संस्कृन्तं कथावस्तूच्यते ।
[००५।०४-००५।०५]
अन्यथा हि उरकरणग्रन्थो विरुध्येत ।
[००५।०५]
“कथावस्तून्यष्टादशभिर्धतुभिः संगृहीतानि ।”
[००५।०५-००५।०६]
निःसरणं निःसारः सर्वस्य संस्कृतस्य निर्वाणम् ।
[००५।०६]
तदेषामस्तीति सनिःसाराः ।
[००५।०६-००५।०७]
सहेतुकत्वात्सवस्तुकाः ।
[००५।०७]
हेतुवचनः किल वस्तुशब्द इति वैभाषिचाः ।
[००५।०७-००५।०८]
इत्येते संस्कृतधर्मौअर्यायाः ।
[००५।०८]
त एव पुयः संस्कृता धरमाः ।
[००५।०९]
ये सास्रवा उपादानस्कन्धास्ते (१-८ -८ १)
[००५।१०]
अतः किं दिद्धम् ।
[००५।१०-००५।११]
य उपादानस्कन्धाः स्कन्धा अपि ते स्युः एव नोपादानस्कन्धाः ।
[००५।११]
अनास्रवाः संस्कारा इति
तत्र उपादानानि क्लेशाः ।
[००५।११-००५।१२]
तत्संभूतत्वादुपादानस्कन्धाः ॥
[००५।१२]
त्रुणतुपाग्निवत् ।
तद्धिधेयत्वाद्वा राजपुरूपवत् ।
[००५।१२-००५।१३]
उपादानानि वा तेभ्यः संभवन्तीति उपादानस्कन्धाः पुष्पफलवृक्षवत् ।
[००५।१३-००५।१४]
त एव सास्रवा धर्मा उच्यन्ते ।
[००५।१५]
सरणा अपि । (१-८ २)
[००५।१६]
रण्सा हि क्लेशाः ।
आत्मपारव्यावाधनात् ।
स्तदनुशयितत्वात्सरणाः ।
सास्रववत् ।
पुनः
[००५।१७]
दुःखं समुदयो लोको दृष्टिस्थानं भवश्च ते (१-८ -८ ) ॥ १.८ ॥
[००५।१८]
आर्याणां प्रतिकूलत्वाद्दुःखम् ।
समुदेत्यस्माद्दुःखमिति समुदयः ।
[००५।१८-००५।१९]
लक्ष्यत इति लोकः ।
[००५।१९]
दृष्टिरस्मिंस्तिष्ठत्यनुशयनादिति दृष्टिस्थानम् ।
भवतीति भवः
[००५।२०]
इत्येते सास्रवाणसं धर्माणामान्वर्थपर्यायाः
[००५।२१]
पञ्च रूपादयः स्कन्धा इत्युक्तम् ।
तत्र
[००५।२२]
रूपं पञ्चेन्द्रियाण्यर्थाः पञ्चाविज्ञप्तिरेव च । (१-९ -९ )
[००५।२३]
पञ्चेन्द्रियाणि चक्षुःश्त्रोत्रग्र्हाणजिह्वाकायेन्दरिया ण ।
[००५।२३-००५।२४]
पञ्चार्थास्तेषामेवचक्षुरादीनामिन्द्रियाणां यथास्वं ये पञ्च विषयाः रूपशब्दगन्धरसस्प्रष्टव्याख्याः ।
[००५।२५]
अविज्ञप्तिश्चेति ।
एतावान् रूपस्कन्धः
[००५।२६]
तत्र य एते पञ्च रूपादयोऽर्था उक्ताः ।
[००५।२७]
तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः (१-९ -९ ) ॥ १.९ ॥
[००६।०१-००६।०२]
रूपशब्दगन्धरसस्प्रष्टव्यविज्ञानानामाश्रयभूता ये पञ्च रूपात्मकाः प्रसादास्ते यथाक्रमं चक्षुःश्रोत्रघ्राणजिह्वाकाया वेदितव्याः ।
[००६।०२-००६।०३]
यथोक्तं भगवता “चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय” रूप प्रसाद इति विस्तरः ।
[००६।०३-००६।०४]
यान्येतानि चक्षुरादीन्युक्तनि तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादयः ।
[००६।०४-००६।०५]
चक्षुर्विज्ञानाद्याश्रया इत्यर्थः ।
[००६।०५]
एवं कृत्वा प्रकरणग्रण्थोऽप्यनुवृत्तो भवति ।
“चक्षुः कतमत् ।
[००६।०५-००६।०६]
चक्षुर्विज्ञानाश्रयो रूपप्रसाद” इति विस्तरः ।
[००६।०६]
निर्द्दिष्टानि पञ्चेन्द्रियाणि ।
[००६।०७]
अर्थाः पञ्चा निर्द्देश्याः ।
तत्र तावत्]
[००६।०८]
रूपं द्विधा
[००६।०९]
वर्णः संस्थानं च ।
तत्र वर्णश्चतुर्विधो नीलादिः ।
तद्भेदा अन्ये ।
[००६।०९-००६।१०]
सम्स्थानमष्टविधं दीर्घदि विसातान्तम् ।
[००६।१०]
तदेव रूपायतनं पुनरुच्यते ।
[००६।११]
विम्शतिधा
[००६।१२-००६।१३]
तद्यथा नीलं पीतं लोहितमवदातं दीर्घं ह्रस्वं वृत्तं परिमण्डलमुन्नतमवनतं सातं विसातमभ्रं धूमो रजो महिका च्छाया आतपः आलोकः अन्धकारमिति ।
[००६।१३-००६।१४]
केचिन्नभश्चैकवर्णमिति एकविंशतिं संपठन्ति ।
[००६।१४]
तत्र सातं समस्थानम् । विसातं विषम स्थानम्ल्महिका नीहारः । आतपः सूर्यप्रभा ।
[००६।१४-००६।१५]
आलोकः चन्द्रतारकाग्न्योषधिमणीनं प्रभा ।
[००६।१६]
छाया यत्र रूपाणां दर्शनम् ।
विपर्ययादन्धकारम् ।
[००६।१६-००६।१७]
शेषं सुगमत्वान्न विपञ्चितम् ।
[००६।१७]
अस्ति रूपायतनं वर्णतो विद्यते न संस्थानतः
[००६।१७-००६।१८]
नीलपीतलोहितवदातच्छायातपालोकान्धकाराख्यम् ।
[००६।१८]
अस्ति संस्थानतो न वर्णतः ।
[००६।१८-००६।१९]
घादीनां प्रदेषः कायविज्ञप्तिस्वभावः ।
[००६।१९]
अस्त्युभयथा ।
परिशिष्टं रूपायतनम् ।
[००६।१९-००६।२०]
आतपालोकावेव वर्णतो विद्येते इत्यपरे ।
[००६।२०]
“दृश्यते हि नीलादीनं दीर्घादिपरिच्छेद” इति ।
[००६।२१]
कथं पुनरेकं द्रव्यमुभयथा विद्यते ।
अस्त्युभयस्य तत्र प्रज्ञानात् ।
[००६।२१-००६।२२]
ज्ञानार्थो ह्येष विदिर्न सत्तार्थः ।
[००६।२२]
कायविज्ञप्तावपि तर्हि प्रसङ्गः ।
उक्तं रूपायतनम् ॥
[००६।२३]
शब्दस्त्वष्टविधः ।
[००६।२४]
उपात्तानुपात्तमहाभूतहेतुकः सत्त्वासत्त्वाख्यश्चेति चतुर्विधः ।
[००६।२४-००६।२५]
पुनर्मनोज्ञामनोज्ञभेदादष्टविधो भवति ।
[००६।२५-००६।२६]
तत्रोपात्तमहाभूतहेतुको यथा हस्तवाक्छब्दः ।
[००६।२६]
अनुपात्तमहाभुतहेतुको यथा वायुवनस्पतिनदीशब्दः ।
[००६।२६-००६।२७]
सत्त्वाख्यो वाग्विज्ञप्तिषब्दः ।
[००६।२७]
असत्त्वाख्योऽन्यः
[००६।२७-००६।२८]
उपात्तानुपात्तमहाभूतहेतुकोऽप्यस्ति शब्द इत्यपरे ।
[००६।२८]
तद्यथा हस्तमृदङ्गसंयोगज इति ।
[००६।२८-००७।०१]
स तु यथैकौ वर्णपरमाणुर्न भूतचतुष्कद्वयमुपादायेष्यते तथा नैवैष्टव्य इति ।
[००७।०१]
उक्तः शब्दः ॥
[००७।०२]
रसः ।
[००७।०३]
षोढ
[००७।०४]
मधुराम्ललवणकटुकतित्तकषायभेदात् ।
[००७।०५]
चतुर्विधो गन्धः
[००७।०६]
सुगन्धदुर्गन्धयोः समविषमगन्धत्वात् ।
त्रिविधस्तु शास्त्रे ।
[००७।०६-००७।०७]
“सुगन्धो दुर्गन्धः समगन्ध” इति ।
[००७।०८]
स्पृश्यमेकादशात्मद्कम् ॥ १.१० ॥
[००७।०९]
स्प्रष्टव्यमेकादशद्रव्यस्वभावम् ।
[००७।०९-००७।१०]
चत्वारि महाभूतानि श्लक्ष्णत्वं कर्कशत्वं गुरुत्वं लघुत्वं शीतं जिघत्सा पिपासा चेति ।
[००७।१०]
तत्र भूतानि पश्चाद्वक्ष्याम्ः ।
[००७।१०-००७।११]
श्लक्ष्णत्वं मृदुता ।
[००७।११]
कर्कशत्वं परुषता ।
गुरुत्वं येन भावास्तुल्यन्ते ।
लघुत्वं विपर्ययात् ।
[००७।११-००७।१२]
शीतमुष्णाभिलाषकृत् ।
[००७।१२]
जिघत्सा भोजनाभिलाषकृत् ।
कारणे कार्योपचारात् ।
यथा
[००७।१३-००७।१४]
“बुद्धानां सुख उत्पादः सुखा धर्मस्य देशना ।
सुखा सङ्घस्य सामग्री समग्राणां तपः सुखं” ॥ इति ।
[००७।१५]
तत्र रूपधातौ जिघत्सापिपासे न स्तः ।
शेषमस्ति
[००७।१५-००७।१६]
यद्यपि तत्र वस्त्राण्येकशो न तुल्यन्ते सञ्चितानि पुनस्तुल्यन्ते ।
[००७।१६]
शीतमुपघातकं नास्ति ।
[००७।१६-००७।१७]
अनुग्राहकं किलास्ति ।
[००७।१८-००७।१९]
यदेतद्बहुविधं रूपमुक्तं तत्र कदाचिदेकेन द्रव्येण चक्षुर्विज्ञानमुत्पद्यते यदा तत्प्रकारव्यवच्छेदो भवति ।
[००७।१९]
कदाचिद्बहुभिर्यदा न व्यवच्छेदः ।
[००७।१९-००७।२०]
तद्यथा सेनाव्यूहमनेकवर्णसंस्थानं मणिसमूहं च दूरात्पश्यतः ।
[००७।२०]
एवं श्रोत्रादिविज्ञानं वेदितव्यम् ।
[००७।२१]
कायविज्ञानं तु परं पञ्चभिः स्प्रष्टव्यैरुत्पद्यत इत्येके ।
[००७।२१-००७।२२]
चतुर्भिर्महाभूतैरेकेन च श्लक्ष्णत्वादिना ।
[००७।२२]
सर्वैरेकादशभिरित्यपरे ।
[००७।२२-००७।२३]
ननु चैवं समस्तालम्बनत्वात्सामान्यविषयाः पञ्च विज्ञानकायाः प्राप्नुवन्ति न स्वलक्षणविषयाः ।
[००७।२३-००७।२४]
आयतनस्वलक्षणं प्रत्येते स्वलक्षणविषया इष्यन्ते न द्रव्यस्वलक्षणमित्यदोषः ।
[००७।२५]
इदं विचार्यते ।
[००७।२५-००७।२६]
कायजिह्वेन्द्रिययोर्युगपद्विषयप्राप्तौ सत्यां कतरद्विज्ञानं पूर्वमुत्पद्यते ।
[००७।२६]
यस्य विषयः पटीयान् ।
[००७।२६-००७।२७]
समप्राप्ते तु विषये जिह्वाविज्ञानं पूर्वमुत्पद्यते ।
[००७।२७]
भोक्तुकामतावर्जितत्वात्सस्न्ततेः ।
[००७।२७-००७।२८]
उक्ताः पञाचेन्द्रियार्थाः यथा च तेषां ग्रहणम् ।
[००७।२९]
अविज्ञप्तिरिदानीं वक्तव्या ।
सेयमुच्यते
[००८।०१-००८।०२]
विक्षिप्ताचित्तकस्यापि योऽनुबण्धः शुभाशुभः ।
महाभूतान्युपादाय स ह्यविज्ञप्तिरुच्यते ॥ १.११ ॥
[००८।०३]
विक्षिप्तचित्तकस्येति तदन्यचित्तस्यापि ॥
[००८।०३-००८।०४]
अचित्तकस्यापीत्यसंज्ञिनिरोधसमापत्तिसमापन्नस्यापि ।
[००८।०४]
अपिशब्देनाविक्षिप्तसचित्तस्यापीति विज्ञायते ।
[००८।०५]
योऽनु बन्ध इति यः प्रवाहः ।
शुभाशुभ इति कुशलाकुशलः ।
[००८।०५-००८।०६]
कुशलाकुशले प्राप्तिवाहोऽप्यस्तीदृश इति तद्विशेषणार्थमुच्यते महाभूतान्युपादायेति ।
[००८।०७]
हेत्वर्थ उपादायार्थ इति वैभाषिकाः ।
जननादिहेतुभावात् ।
[००८।०७-००८।०८]
स ह्यविज्ञप्तिरिति हिशब्दस्तन्नामकरणविज्ञापनार्थः ।
[००८।०८-००८।०९]
रूपक्रियास्वभावापि सती विज्ञप्तिवत्परं न विज्ञापयतीत्यविज्ञप्तिः ।
[००८।०९-००८।०९
उच्यत इति आचार्यवचनं दर्शयति ।
[००८।०९-००८।१०]
समासतस्तु विज्ञप्तिसमाधिसंभूतं कुशलाकुशलं रूपमविज्ञप्तिः ।
[००८।११]
महाभूतान्युपादायेत्युक्तानि कतमानि भूतानि ।
[००८।१२]
भूतानि पृथिवीधातुरप्तेजोवायुधातवः
[००८।१३]
इत्येते चत्वारः स्वलक्षणोपादायरूपधारणाद्धातवश्चत्वारि महाभूतान्युच्यन्ते ।
[००८।१४]
महत्त्वमेषां सर्वान्यरूपाश्रयत्वेनौदारिकत्वात् ।
[००८।१४-००८।१५]
अथ वा तदुद्भूतवृत्तिषु पृथिव्यप्तेजोवायुस्कन्धेष्वेषां महास्ण्निवेशत्वात् ।
[००८।१५-००८।१६]
ते पुनहेते धातवः कस्मिन् कर्मणि संसिधाः किंस्वभावाश्चेत्याह
[००८।१७]
धृत्यादिकर्मसंसिद्धाः
[००८।१८]
धृतिसंग्रहपक्तिव्यूहनकर्मस्वेते यथाक्रमं संसिद्धाः पृथिव्यप्तेजोवायुधातवः ।
[००८।१८-००८।१९]
व्यूहनं पुनर्वृद्धिः प्रसर्पणं च वेदितव्यम् ।
[००८।१९]
इदमेषां कर्म ।
स्वभावस्तु यथाक्रमं
[००८।२०]
खरस्नेहोस्णतेरणाः ॥ १.१२ ॥
[००८।२१]
खरः पृथिवीधातुः ।
स्नेहोऽब्धातुः ।
उष्णता तेजोधातुः ।
[००८।२२]
ईरणा वायुधातुः ।
ईर्यतेऽनया भूतस्रोतो देशान्तरोत्पादनात्प्रदीपेरणवदितीरणा ।
[००८।२३]
“वायुधातुः कतमो लघुसमुदीरणत्वम्” इति प्रकारणेषु निर्दिष्टं सूत्रे च ।
[००८।२३-००८।२४]
तत्तु लघुत्वमुपादाय रूपमप्युक्तं प्रकरणेषु ।
[००८।२४-००८।२५]
अतो य ईरणास्वभावो धर्मः स वायुरिति कर्ंणाऽस्य स्वभावोऽभिव्यक्तः ।
[००८।२६]
कः पुनः पृथिव्यादिनां पृथिवीधात्वादीनां च विशेषः ।
[००९।०१]
पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया ।
[००९।०२]
तथा हि पृथिवीं दर्शयन्तो वर्णं संस्थानं च दर्शयन्ति ।
यथा पृथिवी एवं
[००९।०३]
आपस्तेजश्च
[००९।०४]
वर्णसंस्थानमेवोच्यते लोकसंज्ञया ।
[००९।०५]
वायुस्तु धातुरेव
[००९।०६]
य एव तु वायुधातुः स एव लोके वायुअरित्युच्यते ।
[००९।०७]
तथपि च ॥ १.१३ ॥
[००९।०८]
यथा पृथिवी वर्णसंस्थानमुच्यते लोकसंज्ञया तथ वायुअरपि ।
[००९।०८-००९।०९]
नीलिका वात्या मण्डलिका वात्येति ॥
[००९।१०]
कस्मात्पुनरयमविज्ञप्तिपर्यन्तो रूपस्कन्ध इत्युच्यते ।
रौपणात् ।
[००९।१०-००९।११]
उक्तं भगवता “रूप्यते रुप्यत इति भिक्षवस्तस्माद्रूपोपादानस्दन्ध इत्युच्यते ॥
[००९।११-००९।१२]
केन रुप्यते ।
[००९।१२]
पाणिस्पर्शेनापि स्पृष्टो रूप्यत” इति विस्तरः ।
रूप्यते बाध्यत इत्यर्थः ।
[००९।१३]
तथा ह्यर्थवर्गीयेषूक्तम्
[००९।१४-००९।१५]
“तस्य चेत्कामयानस्य च्छन्दजातस्य देहिनः ।
ते कामा न समृध्यन्ति शल्यविद्ध इव रूप्यते ॥”
[००९।१६]
रूपस्य पुनः का बधना ।
विपरिणामोत्पादना ।
[००९।१६-००९।१७]
प्रतिघातो रूपेणेत्यपरे ।
[००९।१७]
परमाणुरूपं तर्हि रूपं न प्राप्नोत्यरूपणात् ।
[००९।१७-००९।१८]
न वै परमाणुरूपमेकं पृथग्भूतमस्ति ।
[००९।१८]
सञ्घातस्थं तु तद्रूप्यत एव ।
[००९।१८-००९।१९]
अतीतानागतं तर्हि रूपं न प्राप्नोति ।
[००९।१९]
तदपि रूपितं रूपयिष्यमाणं तज्जातीयं चेति रूपमिन्धनवत् ।
[००९।१९-००९।२०]
अविज्ञप्तिस्तर्हि न प्राप्नोति ।
[००९।२०]
सापि विज्ञप्तिरूपणाद्रूपिता भवति ।
[००९।२०-००९।२१]
वृक्षप्रचलने च्छायाप्रचलनवत् ।
[००९।२१]
नाविकारात् ।
[००९।२१-००९।२२]
विज्ञप्तिनिवृत्तौ चाविज्ञप्तिनिवृत्तिः स्याद्वृक्षाभावे च्छायाऽभाववत् ।
[००९।२२-००९।२३]
आश्रयभूतरूपणादित्यपरे एवं तर्हि चक्षुर्विज्ञानादीनामप्याश्रयरूपणात्रूपत्वप्रसङ्गः ।
[००९।२३]
विषमोऽयमुपन्यासः ।
[००९।२३-००९।२४]
अविज्ञप्तिर्हि च्छायेव वृक्षं प्रभेव मणिं भूतान्याश्र्त्य वर्त्तते ।
[००९।२४-००९।२५]
न त्वेवं चक्षुरादीन्याश्रित्य वर्त्तन्ते चक्षुर्विज्ञानादीनि केवलं तूत्पत्तिनिमिक्तमात्रं तानि तेषां भवन्तीति ।
[००९।२५-००९।२६]
इदं तावदवैभाषिकीयं वृक्षमाश्रित्य च्छाया वर्त्तते मणिं चाश्रित्य प्रभेति ।
[००९।२६-०१०।०१]
च्छायादिवर्णपरमाणूनां प्रत्येकं स्वभूतचतुष्काश्रितत्वाभ्युपगमात् ।
[०१०।०१]
सत्यपि च तदाश्रितत्वे च्छायाप्रभयोर्नाविज्ञप्तिस्तथैवाश्रिता ।
युज्यते ।
[०१०।०२]
निरुद्धेष्वपि अविज्ञ प्त्याशयेषु महाभूतेषु तस्या अनिरोधोऽभ्युपगम्यते ।
[०१०।०२-०१०।०३]
अतो न भवत्येष परिहारः ।
[०१०।०३-०१०।०४]
अन्ये पुनरत्र परिहारमाहुः चक्षुर्विज्ञानादीनामाश्रयो भेदं गतः ।
[०१०।०४]
कष्चिद्रूप्यते चक्षुरादिः कश्चिन्न रूप्यते यथा मनः ।
[०१०।०५]
न त्वेवमविज्ञप्तिः ।
[०१०।०५-०१०।०६]
तस्मादसमानः प्रसङ्गः इत्यत उपपन्नमेतदाश्रय रूपणाद्रूपमिति ।
[०१०।०७]
य एव रूपस्कन्धस्वभावा उक्ताः
[०१०।०८]
इन्द्रियार्थस्त एवेष्टा अशायतनधातवः ।
[०१०।०९]
आयतनव्यवस्थायां दशायतनानि ।
[०१०।०९-०१०।१०]
चक्षुरायतनं रूपायतनं यावत्कायायतनं स्प्रष्टव्यायतनमिति ।
[०१०।१०-०१०।११]
धातुव्यवस्थायां त एव दशधातवश्चक्षुर्छातू रूपधातुर्यावत्कायधातुः स्प्रष्टव्यधातुरिति ।
[०१०।११]
उक्तो रूपस्कन्धस्तस्य चायतनव्यवस्थानम् ।
[०१०।१२=०१०१२]
वेदनादयो वक्तव्यः ।
[०१०।१२]
तत्र
[०१०।१३]
वेदनाऽनुभवः
[०१०।१४]
त्रिविधोऽनुभवो वेदनास्कन्धः ।
सुखो दुःखो , दुःखासुखश्च ।
[०१०।१४-०१०।१५]
स पुनर्भिद्यमानः षड्वेदनाकायाः चक्षुःसंस्पर्शजा वेदना यावम्वनःसंस्पर्शजा वेदनेति ।
[०१०।१६]
संज्ञा निमित्तोद्ग्रहणात्मिका ॥ १.१४ ॥
[०१०।१७-०१०।१८]
यावन्नीलपीतदीर्घह्रस्वस्त्रिपुरुषमित्रमित्रसुखदुःखादिनिमित्तोद्ग्रहणमसौ संज्ञास्कन्धः ।
[०१०।१८]
स पुनर्भिद्यमानः षट्संज्ञाकाया वेदनावत् ॥
[०१०।१९]
चतुर्भ्योऽन्ये तु संस्कारस्कन्धः
[०१०।२०]
रूपवेदनासंज्ञाविज्ञानेभ्यश्चतुब्ब्र्योऽन्ये तु संस्काराः संस्कारस्कन्धः।
[०१०।२०-०१०।२१]
भगवता तु सूत्रे षट्चेतनाकाया इत्युक्तं प्राधान्यात् ।
[०१०।२१-०१०।२२]
सा हि कर्मस्वरूपत्वादभिसंस्करणे प्रधाना ।
[०१०।२२-०१०।२३]
अत एवोक्तं भगवता “संस्कृतमभिसंस्करोति ।
[०१०।२३]
तस्मात्संस्कारा उपादानस्कन्ध इत्युच्यत” इति
[०१०।२३-०१०।२५]
अन्यथा हि शेषाणां चैतसिकानां विप्रयुक्तानां च संस्काराणां स्कन्धासंग्रहाद्दुःखसमुदयसत्यत्वं न स्यादिति परिज्ञापरिहाणे अपि न स्याताम्।
[०१०।२५-०१०।२६]
उक्तं च भगवता “नाहमेकधर्ममपि अनभिज्ञायापरिज्ञाय दुःखस्यान्तक्रियां वदामीति ।
[०१०।२६]
एवमप्रहाये” त्युक्तम् ।
[०११।०१]
तस्मादवश्यमेषां संस्कारस्कन्धसंग्रहो “भ्युपगन्तव्यः ।
[०११।०२]
एते पुनस्त्रयः ।
[०११।०३]
वेदनासंज्ञासंस्कारस्कन्धाः आयतनधातुव्यवस्थायां
[०११।०४]
धर्मायतनधात्वाख्याः सहाविज्ञप्त्यसंस्कृतैः ॥ १.१५ ॥
[०११।०५]
इत्येतानि सप्त द्रव्याणि धर्मायतनं धर्मधातुश्चेत्याख्यायन्ते ।
[०११।०६]
विज्ञानं प्रतिविज्ञप्तिः
[०११।०७]
विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते ।
[०११।०७-०११।०८]
स पुनः षड्विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति ।
[०११।०८-०११।०९]
य एष विज्ञानस्कन्ध उक्त आयतनव्यवस्थायां
[०११।१०]
मन आयतनं च तत् ।
[०११।११]
धातुव्यवस्थायां स एव
[०११।१२]
धातवः सस्प्त च मताः
[०११।१३]
कतमे सप्त ।
[०११।१४]
षड्विज्ञानान्यथो मनः ॥ १.१६ ॥
[०११।१५]
चक्षुर्विज्ञानधातुर्यावन्मनोविज्ञानधातुमनोधातुश्च ।
[०११।१५-०११।१६]
एवमत्र पञ्च स्कन्धा द्वादशायतनानि अष्टादश धातवो निर्द्दिष्टा भवण्ति ।
[०११।१६-०११।१७]
अविज्ञप्तिवर्ज्यो रूपस्कन्धो दशायतनानि दश धतवः ।
[०११।१७-०११।१८]
वेदना दयः स्कन्धास्त्रयो “विज्ञप्तिरसंस्कृतानि च धर्मायतनं धर्मधातुश्च विज्ञानस्कन्धो मन आयतनं षड्विज्ञानधातवो मनोधातुश्चेति ॥
[०११।१९]
ननु च षड्विज्ञानकाया विज्ञानस्कन्ध इत्युक्तम् ।
[०११।१९-०११।२०]
अथ को “यं पुनस्तेभ्यो “न्यो मनोधातुः न खलु कश्चिदन्यः ।
[०११।२०]
किं नर्हि ।
तेषामेव
[०११।२१]
षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः ।
[०११।२२]
यद्यत्समनन्तरनिरुद्धं विज्ञानं तन्मनोधातुरित्युच्येत ।
[०११।२२-०११।२३]
तद्यथा स एव पुत्रो “न्यस्य पिता भवति तदेव फलमन्यस्य बीजमिति ।
[०११।२३-०११।२५]
एवं तर्हि द्रव्यतः सप्तदश धातवो भवन्ति द्वादश वा षड्विज्ञानधातुमनोधातूनामितरेतरान्तर्भावादिति कस्मादष्टादाश व्यवस्थाप्यन्ते ।
[०११।२५]
यद्यप्येवं तथापि
[०११।२६]
षष्ठाश्रयप्रसिद्ध्यर्थ धातवो “षादश्स्मृताः ॥ १.१७ ॥
[०११।२७]
पञ्चानां विज्ञानधातूनां चक्षुर्धात्वायतनादयः पञ्चाश्रयाः ।
[०११।२८]
षष्ठस्य मनोविज्ञानधातोराश्रयो “न्यो नास्ति ।
[०११।२८-०११।२९]
अतस्तदाश्रयप्रसिद्धच्यर्थ मनोधातुरूपदिष्टः ।
[०११।२९-०१२।०१]
एवमाश्रयाश्रितालम्बनष्ट्कव्यवसथानादष्टादश धातवो भवन्तीति ।
[०१२।०१]
अर्हतस्तर्हि चरमं चित्तं न मनो भविष्यति ।
[०१२।०२]
नहि तदस्ति यस्य तत्सस्मनन्तरातीतं स्यादिति ।
न ।
[०१२।०२-०१२।०३]
तस्यापि मनोभावेनावस्थितत्वात् ।
[०१२।०३]
अन्यकारणवैकल्यात्तु नोत्तरविज्ञानसंभूतिः ॥
[०१२।०४]
तत्र स्कन्धैः सर्वसंस्कृतसंग्रहः ।
[०१२।०४-०१२।०५]
उपादानस्कन्धैः सर्वसास्रवाणामा यतनधातुभिः सर्वधर्माणाम् ।
[०१२।०५]
समासतस्तु ज्ञातव्यः
[०१२।०६-०१२।०७]
सर्वसंग्रह एकेन स्कन्देह्नायतनेन च
धातुना च
[०१२।०८]
रूपस्कन्धेन मन आयतनेन धर्मधातुना च सर्वधर्माणां संग्रहो बोद्धव्यः ।
[०१२।०८-०१२।०९]
स खल्वेष संग्रहो यत्र क्वचिदुच्यमानो वेदितव्यः ।
[०१२।१०]
स्वभावेन
[०१२।११]
न परभावेन ।
किं कारणम् ।
[०१२।१२]
परभाववियोगतः ॥ १.१८ ॥
[०१२।१३]
वियुक्तो हि परभवेन धर्मः ।
तस्मान्न येन वियुक्तस्तेनैव संगृहीतो युज्यते ।
[०१२।१३-०१२।१४]
तद्यथा चक्षुरिन्द्रियं रूपस्कन्धेन चक्षुरायतनधातुभ्यां च दुःखसमुदयसत्याभ्यां च संगृहीतम् ।
[०१२।१५]
तत्स्वभावत्वात् ।
नान्यैः स्कन्धादिभिस्तद्भाव वियुक्तत्वात् ।
[०१२।१५-०१२।१६]
यस्त्वन्येनान्यस्य संग्रह उच्यते यथा संग्रहवस्तुभिः पर्षदां स हि कादाचित्कत्वात्सांकेतिको वेदितव्यः ।
[०१२।१७]
ननु चैकविंशत्या धातुभिर्भवितव्यम् ।
चक्षुषो द्वित्वात्श्रोत्रघ्राणयोश्च ।
[०१२।१८]
न भवितव्यम् ।
यस्मात् ।
[०१२।१९-०१२।२०]
जातिगोचरविज्ञानसामान्यादेकधातुता
द्वित्वे “पि चक्षुरदीनं
[०१२।२१]
त्र जातिसामान्यमुभयोश्चक्षुःस्वभावत्वात् ।
[०१२।२१-०१२।२२]
गोचरसामान्यमुभयो रूपविषयत्वात् ।
[०१२।२२]
विज्ञानसामान्यमुभयोरेकचक्षुर्विज्ञानाश्रयत्वात् ।
तस्मदेक एव चक्षुर्धातुः ।
[०१२।२३]
एवं श्रोत्रघ्राणयोरपि योज्यम् ।
[०१२।२४]
शोभार्थं तु द्वयोद्भवः ॥ १.१९ ॥
[०१२।२५]
एकधातुत्वे “पि तु चक्षुरादीनं द्वयोः संभव आश्रयस्य शोभार्थम् ।
[०१२।२५-०१३।०१]
अन्य था ह्येकचक्षुःश्रोत्राधिष्ठानैकनासिकाविलसंभवात्महद्वैरुप्यं स्यादिति ।
[०१३।०२]
उक्ताः स्कन्धायतनधातवः
[०१३।०३]
इदं तु वक्तव्यं कः स्कन्धायतनधात्वर्थ इति ।
[०१३।०४]
राश्यायद्वारगोत्रार्थाः स्कन्धायतनधातवः ।
[०१३।०५-०१३।०७]
ऽयत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमाध्यात्मिबाह्यमौदारिकं वा सूक्ष्मं वा हीनं वा प्रणीतं वा यद्वा दूरे अन्तिके तत्सर्वमैकध्यमभिसंक्षिप्य रूपस्कन्ध इति संख्यां गच्छती ति वचनात्सूत्रे राश्यर्थः स्कन्धार्थ इति सिद्धम् ।
[०१३।०७-०१३।०८]
तत्रातीतं रूपमनित्यतानिरुद्धम् ।
[०१३।०८]
अनागतमनुत्पन्नम् ।
प्रत्युत्पन्नमुत्पन्नानिरुद्धम् ।
[०१३।०९]
आध्यात्मिकं स्वासान्तानिकं बाह्यमन्यदायतनतो वा
[०१३।०९-०१३।१०]
औदारिकं सप्रतिघं सूक्ष्ममप्रतिघमापेक्षिकं वा ।
[०१३।१०]
आपेक्षिकत्वादसिद्धमिति चेत् ।
न ।
[०१३।१०-०१३।११]
अपेक्षाभेदात् ।
[०१३।११]
यदपेक्ष्यौ दारिकं न जातु तदपेक्ष्य सूक्ष्मं पितापुत्रवत् ।
हीनं क्लिष्टम् ।
[०१३।१२]
प्रणितमक्लिष्टम् ।
दूरमतीतानागतम् ।
अन्तिकं प्रत्युत्पन्नम् ।
[०१३।१२-०१३।१३]
एवं यावत्विज्ञानम् ।
[०१३।१३]
अयं तु विशषः ।
औदारिकं पञ्चेन्द्रियाश्रयं सूक्ष्मं मानसम् ।
[०१३।१३-०१३।१४]
भूमितो वेति वैभाषिकाः ।
[०१३।१४]
भदन्त आह औदारिकरूपं पञचेन्द्रियग्राह्यं सूक्ष्ममन्यत् ।
[०१३।१५]
हीनममनापं प्रणीतं मनापम् ।
दूरमदृश्यदेशम् ।
अन्तिकं दृश्यदेशम् ।
[०१३।१५-०१३।१६]
अतीतादीनां स्वशब्देनाभि हितत्वात् ।
[०१३।१६]
एवं वेदनादयोऽपि वेदितव्याः ।
[०१३।१७]
दूरान्तिकत्वं तु तेषामाश्रयवशात् ।
औदारिकसूक्ष्मत्वं तु पूअर्ववदिति ॥
[०१३।१८]
चित्तचैत्तायद्वारार्थ आयतनार्थः ।
[०१३।१८-०१३।१९]
निर्वचनं तु चित्तचैत्तानामायं तन्वन्तीति आयतनानि ।
[०१३।१९]
विस्तृण्वन्तीत्यर्थः ।
गोत्रार्थो धात्वर्थः ।
[०१३।१९-०१३।२१]
यथैकस्मिन् पर्वते बहून्ययस्ताम्ररूप्यसुवर्णादिगोत्रानि धातव उच्यन्ते एवमेकस्मिन्नाश्रये सन्ताने वा अष्टादश गोत्राणि अष्टादश धातव उच्यन्ते ।
[०१३।२१]
आकरास्तत्र गोत्राण्युअच्यन्ते ।
[०१३।२१-०१३।२२]
त इमे चक्षुरादयः कस्याकराः ।
[०१३।२२]
स्वस्या जातेः ।
सभागहेतुत्वात् ।
[०१३।२२-०१३।२३]
असंस्कृतं तर्हि न धातुः स्यात् ।
[०१३।२३]
चित्तचित्तानां तर्हि जातिवाचको “यं धातुशब्द इत्यपरे ।
[०१३।२३-०१३।२४]
अष्टादश्धर्माणां जातयः स्वभावा अष्टादश धातव इति ।
[०१३।२४-०१३।२५]
यदि राश्यर्थः स्कन्धार्थः प्रज्ञप्तिसन्तः स्कन्धाः प्राप्नुवन्ति ।
[०१३।२५]
अनेकद्रव्यसमूहत्वात्राशिपुद्गलवत् ।
न ।
[०१३।२६]
एकस्यापि द्रव्यपरमाणोः स्कन्धत्वात् ।
न तर्हि राश्यर्थः स्कन्धार्थ इति वक्तव्यम् ।
[०१३।२७]
न ह्येकस्यास्ति राशित्वमिति ।
कार्यभारोद्वहनार्थः स्कन्धार्थ इत्यपरे ।
[०१३।२७-०१३।२८]
प्रच्छेदार्थो वा ।
[०१३।२८]
तथाहि वक्तारो भवन्ति त्रिभिः स्कन्धकैर्देयं दास्याम इति ।
तदेतदुत्सूत्रम् ।
[०१३।२९]
सूत्रं हि राश्यर्थमेव ब्रवीति “यत्किञ्चिद्रूपमतीतानागतप्रत्युत्पन्नमि”ति विस्तरः
[०१३।३०]
प्रत्येकमतीतादिरूपस्य स्कन्धत्वं तत्र विज्ञाप्यते ।
[०१३।३०-०१४।०१]
सर्वमेतदतीतादि रूपमेकशो रूपस्कन्ध इति ।
[०१४।०१]
न शक्यमेवं विज्ञातुम् ।
[०१४।०१-०१४।०२]
“तत्सर्वमैकध्यमभिसंक्षिप्ये”ति वचनात् । तस्माद्राशिवदेव स्कन्धाः प्रज्ञप्तिसन्तः
[०१४।०२-०१४।०३]
रूपोईन्यपि तर्ह्यायतनानि प्रज्ञप्तिसन्ति प्राप्नुवन्ति ।
[०१४।०३-०१४।०४]
बहुनां चक्षुरादिपरमाणूनामायद्वार भावात् ।
[०१४।०४]
न ।
[०१४।०४-०१४।०५]
एकशः समग्राणां कारणभावात्विषयसहकारित्वाद्वा नेन्द्रियं पृथगायतनं स्यात् ।
०१४०५-०१४०५]
विभाषायां तूच्यते “यद्याभिधर्मिकः स्कन्धप्रज्ञप्तिमपेक्षते ।
[०१४।०६]
स आह परमाणुरेकस्य धातोरेकस्यायतनस्यैकस्य स्कन्धस्य प्रदेशः ।
[०१४।०६-०१४।०७]
अथ नापेक्षते ।
[०१४।०७]
स आह ।
परमाणुरेको धातुरेकमायतनमेकः स्कन्ध” इति ।
[०१४।०७-०१४।०८]
भवति हि प्रदेशे “पि प्रदेशिवदुपचारो यथा पट्टैअकदेशे दग्धे पटो दग्ध इति ।
[०१४।०९]
किर्थं भगवान् स्कन्धादिमुधेन त्रिविधां देशनामारभते ।
आह ।
विनेयानां
[०१४।१०]
मोहेन्द्रियरुचित्रैधात्तिस्रः स्कन्धादिदेशनाः ॥ १.२० ॥
[०१४।११]
त्रयः प्रकारास्त्रैधम् ।
त्रिप्रकारः किल सत्त्वानां मोहः ।
[०१४।११-०१४।१२]
केचिच्चैत्तेषु संमूढाः पिण्डात्मग्रहणतः ।
[०१४।१२]
केचिद्रूप एव ।
केचिद्रूपचित्तयोः ।
इन्द्रियाण्यपि त्रिविधानि ।
[०१४।१३]
तीक्ष्णमध्यमृद्विन्द्रियत्वात् ।
रूचिरपि त्रिविधा ।
[०१४।१३-०१४।१४]
संक्षिप्तमध्यविस्तरग्रन्थरुचित्वात् ।
[०१४।१४]
तेषां यथाक्रमं तिस्रः स्कन्धायतनधातुदेशना इति ॥
[०१४।१५-०१४।१६]
किं पुनः कारणं चैतसिका एकत्र संस्कारस्कन्धनिक्षिप्ता वेदनासंज्ञे तु पृथक्स्कन्धीकृते इत्याह
[०१४।१७-०१४।१८]
विवादमूलसंसारहेतुत्वात्क्रमकारणात् ।
चैत्तेभ्यो वेदनासंज्ञे पृथकस्क्न्धौ निवेशितौ ॥ १.२१ ॥
[०१४।१९]
द्वे विवादमूले ।
कामाध्यवसानं दृष्ट्यध्यवसानं च ।
[०१४।१९-०१४।२०]
तयोर्वेदनासंज्ञे यथाक्रमं प्रधानहेतू ।
[०१४।२०-०१४।२१]
वेदनास्वादवशाद्धि कामानभिष्वजन्ते विपरीतसंज्ञावशाच्च दृष्टीरिति ।
[०१४।२१]
संसारस्यापि ते प्रधानहेतू ।
वेदनास्वादगृद्धो हि विषर्यस्तसंज्ञः संसरति ।
[०१४।२२-०१४।२३]
यच्च स्कन्धक्रमे कारणमुपदेक्ष्यमाणं ततोऽपि क्रमकारणादनयोः पृथक्स्कन्धीकरणं वेदितव्यम् ।
[०१४।२३]
एतच्च त्रेधो पपादयिष्यामः ।
[०१४।२४]
स्कन्धेष्व संस्कृतं नोक्तमर्थायोगात्
[०१४।२५]
तद्धि स्कन्धेषूच्यमानं न तावदेतेष्वेवान्तर्णेतुं शक्यते
अर्थायोगात् ।
[०१४।२५-०१५।०१]
नहि तद्रूपं नापि यावद्विज्ञानमिति ।
[०१५।०१]
नचापि षष्ठः स्कन्धो वक्तुं शक्यते ।
कुतः ।
अर्थायोगात् ।
[०१५।०२]
“राश्यर्थो हि स्कन्धार्थ” इत्युक्तम् ।
[०१५।०२-०१५।०३]
नचासंस्कृतमतीतादिभेदभिन्नं रूपादिवद्यतस्तत्सर्वमैकध्यमभिसंक्षिप्यासंस्कृतस्कन्ध इति संख्यां गच्छेत् ।
[०१५।०३-०१५।०४]
संक्लेशवस्तुज्ञापनार्थं खलूपादानस्कन्धवचनं संक्लेशव्यवदानवस्तुज्ञापनार्थं स्कन्धवचनम् ।
[०१५।०४-०१५।०५]
नचोभयथा “प्यसंस्कृतमित्यर्थायोगान्न तेशु व्यवस्थापितम् ।
[०१५।०५-०१५।०६]
यथा घटोपरमो न घट एवं स्कन्धोपरमो न स्कन्धो भवितुमर्हतीत्यपरे ।
[०१५।०६-०१५।०७]
तेषां धात्वायतनेष्वप्येष प्रसङ्गः ।
[०१५।०७]
उक्तः स्कन्धानामन्यः प्रकारः ॥
[०१५।०८]
क्रमः पुनः ।
[०१५।०९]
यथौदारिकसंक्लेशभाजनाद्यर्थधातुतः ॥ १.२२ ॥
[०१५।१०]
रूपं हि सप्रतिघत्वात्सर्वौदारिकम् ।
अरुपिणां वेदना प्रचारौदारिकतया ।
[०१५।१०-०१५।११]
तथा हि व्यपदिशन्ति हस्ते मे वेदना पादे मे वेदनेति ।
[०१५।११]
द्वाभ्यां चौ दारिकतरा संज्ञा ।
[०१५।११-०१५।१२]
विज्ञानात्संस्कारा इत्यतो यदौदारिकतरं तत्पूर्वमुक्तम् ।
[०१५।१२-०१५।१३]
अथवा अनादिमति संसारे स्त्रीपुरुषा अन्योन्यं रूपाभिरामास्ते च वेदनास्वादगर्द्धात् ।
[०१५।१३]
तद्गर्द्धः संज्ञाविपर्यासात् ।
[०१५।१४]
तद्विपर्यासः क्लेशैश्चित्तमच तत्संक्लिष्टमिति यथासंक्लेशं च क्रमः ।
[०१५।१४-०१५।१५]
भाजनाद्यर्थेन वा ।
[०१५।१५]
भजनभोजनव्यञ्जनकर्त्तृ भोक्तृभूता हि रूपादयः स्कन्धाः ।
धातुतो वा ।
[०१५।१६]
कामगुणरूपप्रभावितो हि कामधातुः ।
वेदनाप्रभावितानि ध्यानानि ।
[०१५।१६-०१५।१७]
संज्ञाप्रभाविताः त्रयः आरूप्याः ।
[०१५।१७]
संस्कारमात्रप्रभावितं भवाग्रम् ।
[०१५।१७-०१५।१८]
एता एव विज्ञानस्थितयः तासु च प्रतिष्ठितं विज्ञानमिति क्षेत्रबिजसंदर्शनार्थः स्कन्धानुक्रमः ।
[०१५।१८-०१५।१९]
अत एव पञ्चस्कन्धा नाल्पीयांसो न भूयांसः ।
[०१५।१९-०१५।२०]
अत एव च क्रमकारणाद्वेदनासंज्ञे संस्कारेभ्यः पृथक स्कन्धीकृते ।
[०१५।२०-०१५।२१]
यत एते औदारिकतरे संक्लेशानुक्रमहेतू भाजनव्यञ्जनभूते तत्प्रभावितं च धातुद्वयमिति ॥
[०१५।२२]
आयतनधातूनां षण्णां चक्षुरादीनामनुक्रमो वक्तव्यः ।
[०१५।२३]
तद्वशेनैव हि तद्विषयविज्ञानानां क्रमः ।
तेषां च पुनः षण्णाम् ।
[०१५।२४]
प्राक्पञ्च वार्त्तमार्थ्यात्
[०१५।२५]
चक्षुरादीनि पञ्च वर्त्तमानविषयत्वात्पूर्वमुक्तानि ।
मनस्त्वनियतविषयम्
[०१५।२५-०१६।०१]
किञ्चिद्वर्त्तमानविषयं किञ्चित्व्यध्वानध्रविषयम् ।
[०१६।०२]
भौतिकार्थ्याच्चतुष्टयम् ।
[०१६।०३]
प्रागिति वर्त्तते ।
पञ्चानां पुनश्च्त्वारि पूर्वमुक्तानि ।
भौतिकविषयत्वात् ।
[०१६।०३-०१६।०४]
कायस्य त्वनियतो विषयः
[०१६।०४]
कदाचिद्भूतानि कदाचिद्भौतिकं कदाचिदुभयम् ।
[०१६।०५]
दूराशुतरवृत्त्याऽन्यत्
[०१६।०६]
शेषं पुनरितस्माद्यथायोगं दूराशुतरवृत्त्या पूर्वमुक्तम् ।
चक्षुःश्रोत्रं हि दूरविषयम् ।
[०१६।०७]
तत्पूर्वमुक्तं द्वयात् ।
तयोरपि चक्षुषो दूरतरे वृत्तिः ।
[०१६।०७-०१६।०८]
पश्यतोऽपि दूरान्नदीं तच्छब्दाश्रवणादतस्तत्पूर्वमुक्तम् ।
[०१६।०८]
घ्राणस्य तु नास्ति दूरे वृत्तिः ।
जिह्वायाश्च ।
[०१६।०९]
तयोराशुतरवृत्तित्वात्घ्राणं पूर्वमुक्तमप्राप्तस्यैव जिह्वा भोज्यस्य गन्धग्रहणात् ।
[०१६।१०]
यथास्थानं क्रमोऽथवा ॥ १.२३ ॥
[०१६।११]
अथवा अस्मिन् शरीरे चक्षुषोऽधिष्ठानमुपारिष्टात्निविष्टम् ।
तस्मादधः श्रोत्रस्य ।
[०१६।१२]
तस्मादधो घ्राणस्य । तस्मात्जिह्वायाः
तक्याः स्यास्य बहुल्येन ।
[०१६।१२-०१६।१३]
मनः पुनस्तान्येव निश्रितमदेशस्थं चेति यथास्थानमेषां क्रमः स्यात् ।
[०१६।१४]
किं पुनः कारणं दशस्वायतनेषु रूपस्कन्धसंगृहीतेष्वेकं रूपायतनमुच्यते ।
[०१६।१४-०१६।१५]
सर्वेषु च धर्मस्वभवेष्वेकं धर्मायतनमित्याह
[०१६।१६-०१६।१७]
विशेषणार्थं प्राधान्याद्बहुधर्माग्रसंग्रहात् ।
एकमायतनं रूपमेकं धर्माख्यमुच्यते ॥ १.२४ ॥
[०१६।१८]
कथं विशेषणार्थम् ।
[०१६।१८-०१६।१९]
यथा गम्येत प्रत्येकमेषां दशानामायतनत्वं विषयविषयित्वेन व्यवस्थानं न समस्तानामिति ।
[०१६।१९-०१६।२०]
चक्षुरादिभिश्च विशेषितैर्यन्न चक्षुरादिसंज्ञकं रूपं च तद्रूपकयातनं ज्ञास्यत इत्यस्य पुनर्नामान्तरं नोच्यते ।
[०१६।२०-०१६।२१]
अथवा रूपायतनस्य प्राधान्यात् ।
[०१६।२१]
तद्धि सप्रतिघत्वाच्च ।
पाण्यादिसंस्पर्शैः स्पृष्टं रूप्यते ।
[०१६।२२]
सनिदर्शनत्वाच्च ।
[०१६।२२-०१६।२३]
इदमिहामुत्रेति निरूपणात्लोकेऽपि च तद्रूपमिति प्रतीतं नान्यानि ।
[०१६।२३]
विशेषणार्थमेव चैकं धर्मायतनमुक्तं न सर्वाणि ।
[०१६।२३-०१७।०१]
अपि चात्रबहूनां धर्माणां संग्रहो वेदनादीनाम् ।
[०१७।०१]
अतः सामान्येनाभिधानं क्रियते धर्मशब्देन ।
[०१७।०२]
अग्रस्य च निर्वाणधर्मस्यात्र संग्रहो नान्येष्विति ।
[०१७।०२-०१७।०३]
विंशतिप्रकारत्वेनौदारिकत्वान्मांस दिव्यार्यप्रज्ञाचक्षुस्त्रयगोचरत्वाच्चैकं रूपायतनमित्यपरे ॥
[०१७।०४-०१७।०५]
अन्यान्यपि स्कन्धायतनधातुसंशब्दितान्युपलभ्यन्ते सूत्रेषु तेषां किंेभिरेव संग्रहो वेदितव्य आहोस्विद्व्यतिरेकः
[०१७।०५]
एभिरेव संग्रहो न व्यतिरेकः ।
तत्र तावत्
[०१७।०६-०१७।०७]
धर्मस्कन्धसहस्राणि यान्यशीतिं जगौ मुनिः ।
तानि वाङ्नाम वेत्येषां रूपसंस्कारसंग्रहः ॥ १.२५ ॥
[०१७।०८]
येषां वाक्स्वभावं बुद्धवचनं तेषां तानि रूपस्कन्धसंगृहीतानि ।
[०१७।०९]
येषां नामस्वभावं तेषां संस्कारस्कन्धेन ॥
[०१७।१०]
किं पुनर्धर्मस्कन्धस्य प्रमाणम् ।
[०१७।११]
शास्त्रप्रमाण इत्येके
[०१७।१२]
एके तावताहुर्धर्मस्कन्धसंज्ञकस्यैवाभिधर्मशास्त्रस्यास्य ओप्रमणमिति ।
[०१७।१२-०१७।१३]
तच्च षट्सहस्राणि ।
[०१७।१३]
अपरे पुनराहुः
[०१७।१४]
स्कन्धादीनं कथैकशः ।
[०१७।१५-०१७।१७]
स्कन्धायतनधातुप्रतीत्यसमुत्पादसत्याहारध्यानाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनबोधिपाक्षिकाभिज्ञाप्रतिसंवित्प्रणिधिज्ञानारणादीनां कथा प्रात्येकं धर्मस्कन्ध इति ।
[०१७।१८]
चरितप्रतिपक्षस्तु धर्मस्कन्धोऽनुवर्णितः ॥ १.२६ ॥
[०१७।१९]
एवं तु वर्णयन्त्यशीतिश्चरितसहस्रणि सत्त्वानाम् ।
रागद्वेषमोहमानादिचरितभेदेन ।
[०१७।२०]
तेषां प्रतिपक्षेण भगवताऽशीतिर्धर्मस्कन्धसहस्राण्युक्तानि ।
[०१७।२०-०१७।२१]
यथैतान्यशीतिर्धर्मस्कन्धसहस्राण्येष्वेव पञ्चस्कन्धेषु ओप्रतिपादितानि ।
[०१७।२२-०१७।२३]
तथाऽन्येऽपि यथायोगं स्कन्धायतनधातवः ।
प्रतिपाद्या यथोक्तेषु संप्रधार्य स्वलक्षणम् ॥ १.२७ ॥
[०१७।२४-०१७।२६]
येऽप्यन्ये स्कन्धायतनधातवः सूत्रान्तरेषूक्तास्तेऽप्येष्वेव यथोक्तेषु स्कन्धादिषु प्रतिओपाद्याः स्वं स्वं लक्षणमेषां यथाविहितमस्मिंच्छास्त्रे संप्रधर्य ।
[०१७।२६-०१८।०२]
तत्र तावत्पञ्चानां शीलसमाधिप्रज्ञाविमुक्तिज्ञानदर्शनस्कन्धानां शीलस्कन्धो रूपस्कन्धेन संगृहीतः ।
[०१८।०२-०१७।०२]
शेषाः संस्कारस्कन्धेन ।
[०१८।०२-०१८।०३]
दशानां कृत्स्नायतनानामष्टावलोभस्वभावत्वाद्धर्मायतनेन ।
[०१८।०३]
सपरिवाराणि तु पञ्चस्कन्धस्वभावत्वान्मनोधर्मायतनाभ्याम् ।
[०१८।०४]
तथाऽभिभ्वायतनानि ।
[०१८।०४-०१८।०५]
आकाशविज्ञानानन्त्यायतनकृत्स्ने चत्वारि चाकाशानन्त्यायतनादीनि चतुःस्कन्धस्वभावत्वात्मनोधर्मायतनाभ्याम् ।
[०१८।०५-०१८।०६]
पञ्च विमुक्त्यायतनानि प्रज्ञास्वभावत्वाद्धर्मायतनेन ।
[०१८।०६]
सपरिवाराणि तु शब्दो मनोधर्मायतनैः ।
[०१८।०७]
द्वयोरायतनयोरसंज्ञिसत्त्वा दशभिरायतनैर्गन्धर्सायतनाभावात् ।
[०१८।०७-०१८।०८]
नैवसंज्ञानासंज्ञायतनोपगा मनोधर्मायतनाभ्याम् ।
[०१८।०८]
एवं बहुधातुकेऽपि द्वाषष्टिर्धातवो देशिताः ।
[०१८।०८-०१८।०९]
तेषां यथायोगं संग्रहो वेदितव्यः ॥
[०१८।१०-०१८।११]
य इमे तत्र षड्धातवः उक्ताः पृथिवीधातुरब्धातुस्तेजोधातुर्वायुधातुराकाशधातुर्विज्ञानधातुरित्येषां द्वयोर्लक्षणमनुक्तम् ।
[०१८।११-०१८।१२]
तत्किमाकाशमेवाकाशधातुर्वेदितव्यः सर्वमच विज्ञानं विज्ञानधातुः।
[०१८।१२]
नेत्याह ।
किं तर्हि ।
द्वारवातायनमुखनासिकादिषु
[०१८।१३]
छिद्रमाकाशधात्वाख्यम्
[०१८।१४]
छिद्रमित्युच्यमानं किं वेदितव्यम् ।
[०१८।१५]
आलोकतमसी किल ।
[०१८।१६]
नहि छिद्रमालोकतमोभ्यामन्यद्गृह्यते ।
[०१८।१६-०१८।१७]
तस्मात्किलाकाशधातुरालोकतमःस्वभावो रात्रिन्दिवस्वभावो वेदितव्यः ।
[०१८।१७-०१८।१८]
स एव चाघसामन्तकं रूपमित्युच्यते ।
[०१८।१८]
अघं किल चित्तस्थं रूपम् ।
अत्यर्थं घातात् ।
[०१८।१८-०१८।१९]
तस्य तत्सामन्तकमिति ।
[०१८।१९]
अघं च तदन्यस्य रूपस्य तत्राप्रतिघातात्सामन्तकं चान्यस्य रूपस्येत्यपरे ।
[०१८।२०]
विज्ञानधातुर्विज्ञानं सास्रवं
[०१८।२१]
कस्मादनास्रवं नोच्यते ।
यस्मादिमे षड्धातव इष्टाः ।
[०१८।२२]
जन्मनिश्रयाः ॥ १.२८ ॥
[०१८।२३]
एते हि जन्मनः प्रतिसन्धिचित्ताद्यावत्च्युतिचित्तसाधारणभूताः
[०१८।२३-०१८।२४]
अनास्रवास्तु धर्मा नैवमिति ।
[०१८।२४-०१८।२५]
तदेवं सत्येषां चत्वारो धातवः स्प्रष्टव्यधातावन्तर्भूताः पञ्चमो रूपधातौ षष्ठः सप्तसु विज्ञानधातुष्विति ।
[०१८।२६]
ये पुनरिमे अष्टादश धातव उक्तास्तेषां कति सनिदर्शनाः कत्यनिदर्शनाः ।
[०१९।०१]
सनिदर्शन एकोऽत्र रूपं
[०१९।०२]
स हि शक्यते निदर्शयितुमिदमिहामुत्रेति ।
उक्तं भवति अनिदर्शनाः शेषा इति ॥
[०१९।०३]
कति सप्रतिघाः कत्यप्रतिघाः ।
[०१९।०४]
सपरतिघा दश ।
[०१९।०५]
रूपिणः ।
[०१९।०६]
य एते रूपस्कन्धसंगृहीता दश धातव उक्तास्ते सप्रतिघाः ।
[०१९।०६-०१९।०७]
प्रतिघो नाम प्रतिघातः स च त्रिविधः ।
[०१९।०७]
आवरणविषयालम्बनप्रतिघातः ।
[०१९।०७-०१९।०८]
तत्रावरणप्रतिघातः स्वदेशे परस्योत्पत्तिपोरतिवन्धः ।
[०१९।०८]
यथा हस्तो हस्ते प्रतिहन्यते उपले वा ।
उपलोऽपि तयोः ।
[०१९।०९]
विषयप्रतिघातश्चक्षुरादीनां विषयिणां रूपादिषु विषयेषु ।
[०१९।०९-०१९।१०]
यथोक्तं प्रज्ञप्ता”वस्ति चक्षुर्जले प्रतिहन्यते न स्थले ।
[०१९।१०]
यथा मत्स्यानाम् ।
[०१९।१०-०१९।११]
अस्ति स्थले न जले ।
[०१९।११]
प्रायेण मनुष्याणाम् ।
अस्त्युभयत्र ।
[०१९।११-०१९।१२]
शिशुमारमण्डूकपिशाचकैवर्त्तादीनाम् ।
[०१९।१२]
अस्ति नोभयत्र ।
एतानाकारान् स्थापयित्वा ।
[०१९।१२-०१९।१३]
अस्ति चक्षुर्यद्रात्रौ प्रतिहन्यते न दिवा ।
[०१९।१३]
तद्यथा तितीलोलूकादीनाम् ।
दिवा न रात्रौ ।
[०१९।१३-०१९।१४]
प्रायेण मनुष्याणाम् ।
[०१९।१४]
रात्रौ दिवा च ।
श्वशृगालतुरगद्वीपिमार्जारादीनाम् ।
नोभयत्र ।
[०१९।१४-०१९।१५]
एतानाकारान् स्थापयित्वे”त्ययं विशयप्रतिघातः ।
[०१९।१५-०१९।१६]
आलम्बनप्रतिघातश्चित्तचैत्तानां स्वेष्बालम्वनेषु ।
[०१९।१६]
कः पुनर्विषयालम्बनयोर्विशेषः ।
[०१९।१६-०१९।१७]
यस्मिन् यस्य कारित्रं स तस्य विषयः ।
[०१९।१७]
यच्चित्तचैत्तैर्गृह्यते तदालम्बनम् ।
[०१९।१७-०१९।१८]
कः पुनः स्वस्मिन्विषये प्रवर्त्तमानमालम्वने वा प्रतिहन्यत इत्युच्यते ।
[०१९।१८]
तस्मात्परेणाप्रवृत्तेः ।
[०१९।१८-०१९।१९]
निपातो वाऽत्र प्रतिघातो या स्वविषये प्रवृत्तिः
[०१९।१९-०१९।२०]
तदिहावरणप्रतिघातेन दशानां सप्रतिघत्वं वेदितव्यमन्योन्यावरणात् ।
[०१९।२०-०१९।२१]
ये धर्मा विषयप्रतिघातेन सप्रतिघा आवरणप्रतिघातेनापि त इति चतुष्कोटिकः
[०१९।२१]
प्रथमा कोटिः सप्त चित्तधातवो धर्मधातुप्रदेशश्च यः संप्रयुक्तः ।
[०१९।२२]
द्वितीया पञ्च विषयाः ।
तृतीया पञ्चेन्द्रियाणि ।
[०१९।२२-०१९।२३]
चतुर्थी धर्मधातुप्रदेशः संप्रयुक्तकवर्ज्यः ।
[०१९।२३-०१९।२४]
ये धर्मा विशयप्रतिघातेन सप्रतिघा आलम्बन प्रतिघातेनापि त इति ।
[०१९।२४]
पश्चात्पादकः ।
ये तावदालम्बनप्रतिघातेनापि विषयप्रतिघातेनापि ते ।
[०१९।२५-०१०।२५]
स्युर्विषयप्रतिघतेनैव नालम्बनप्रतिघातेन ।
[०१९।२५]
पञ्चेन्द्रियाणि ।
[०२०।०१-०२०।०२]
“यत्रोत्पित्सोर्मनसः प्रतिघतः शक्यते परैः कर्त्तुम् ।
तत्सप्रतिघं ज्ञेयं विपर्ययादप्रतिघमिष्टमि”ति
[०२०।०३]
भदन्तकुमारलातः ।
उक्ताः सप्रतिघा अप्रतिघाश्च ॥
[०२०।०४]
एषामष्टादशधातूनां कति कुशलाः कत्यकुशलाः कत्यव्याकृता ।
[०२०।०५]
अव्याकृता अष्टौ
[०२०।०६]
कतमे अष्टौ ।
य एते सप्रतिघा दशोक्ताः ।
[०२०।०७]
त एवारूपशब्दकाः ॥ १.२९ ॥
[०२०।०८]
पञ्चेन्द्रियाणि गन्धरसस्प्रष्टव्या धातवश्च ।
[०२०।०८-०२०।०९]
एतेऽष्टौ कुशलाकुशलभावेनाव्याकरणादव्याकृताः ।
[०२०।०९]
विपाकं प्रत्यव्याकरणादित्यपरे ।
एवमनास्रवेऽपि प्रसङ्गः ॥
[०२०।१०]
त्रिधाऽन्ये
[०२०।११]
अन्ये दश धातवः कुशलाकुशलाव्याकृताः ।
[०२०।११-०२०।१२]
तत्र सप्त धातवोऽलोभादिसंप्रयुक्ता कुशलाः ।
[०२०।१२]
लोभादिसंप्रयुक्ता अकुशलाः ।
अन्ये अव्याकृताः ।
[०२०।१२-०२०।१३]
धर्मधातुरलोभादिस्वभावसंप्रयुक्तसमुत्थः प्रतिसंख्यानिरोधश्च कुशलः ।
[०२०।१३-०२०।१४]
लोभादिस्वभावसंप्रयुक्तसमुत्थोऽकुशलः
[०२०।१४]
अन्योऽव्याकृतः ।
[०२०।१४-०२०।१५]
रूपशब्दधातू कुशलाकुशलचित्तसमुट्थौ कुशलाकुशलौ कायवाग्विज्ञप्तिसंगृहीतौ ।
[०२०।१५]
तदन्याव्याकृतौ ।
उक्तः कुशलादिभावः ।
[०२०।१६]
एषामष्टादशधातूनां कति कामधात्वाप्ताः कति रूपधात्वाप्ताः ।
[०२०।१७]
कामधात्वाप्ताः सर्वे
[०२०।१८]
आप्ता अवियुक्ताः कामधातुप्रतिसंयुक्ता इत्यर्थः ।
[०२०।१९]
रुपे चतुर्दश ।
[०२०।२०]
रूपधातौ चतुर्दश धातवः ।
[०२०।२१]
विना गन्धरसघ्राणजिह्वाविज्ञानधातुभिः ॥ १.३० ॥
[०२०।२२]
तत्र हि गन्धरसौ न स्तः ।
[०२०।२२-०२०।२३]
तयोः कवडीकाराहारत्वात्तद्द्वीतरागाणां च तत्रोपपत्तेः ।
[०२०।२३]
ततो घ्राणजिह्वाविज्ञाने अपि न स्तः ।
[०२०।२३-०२०।२४]
आलम्बनाभावात् ।
[०२०।२४]
एवं तर्हि स्प्रष्टव्यधातोरपि तत्रभावप्रसङ्गः ।
कवडीकाराहारत्वात् ।
[०२०।२५]
यो नाहारस्वभावः स तत्रास्ति ।
गन्धरसयोरप्येष प्रसङ्गः ।
[०२०।२५-०२०।२६]
नास्ति विनाऽभ्यवहारेण गन्धरसयोः परिभोगः ।
[०२०।२६-०२१।०१]
अस्ति तु स्प्रष्टव्यस्येन्द्रियाश्रयाधारप्रावरणभावेन ।
[०२१।०१-०२१।०२]
तस्मादभ्यवहारवीतरागाणां गन्धरसौ तत्र निष्प्रयोजनौ न तु स्प्रष्टव्यम् ।
[०२१।०२]
अन्ये पुनराहुः ।
[०२१।०२-०२१।०३]
ध्यानसमापत्तिसनिश्रयेणेह रूपाणि संदृश्यन्ते शब्दाश्च श्रूयन्ते ।
[०२१।०३]
प्रस्रब्धिसहगतेन स्प्रष्टव्य विशेषेण च कायोऽनुगृह्यते ।
[०२१।०३-०२१।०४]
अत एषामेव त्रयाणां ध्यानोपपत्तौ संभवो न गन्धरसयोरिति ।
[०२१।०४]
एवं तर्हि घ्राणजिह्वेन्द्रिययोरभावप्रसङ्गो निष्प्रयोजनत्वात् ।
[०२१।०५]
अस्ति प्रयोजनम् ।
[०२१।०५-०२१।०६]
ताभ्यां हि विनाऽ श्रयशोभैव न स्यादिति व्यवहार्श्च ।
[०२१।०६-०२१।०७]
यद्येतत्प्रयोजनमधिष्ठानमेवास्तु शोभार्थं वचनार्थं च मा भूदिन्द्रियम् ।
[०२१।०७]
नानिन्द्रियमधिष्ठानं संभवति ।
पुरुषेन्द्रियाधिष्ठानवत् ।
[०२१।०७-०२१।०८]
युक्तस्तदसंभवो निष्प्रयोजनत्वात् ।
[०२१।०८-०२१।०९]
घ्राणजिह्वाधिष्ठानं तु सप्रयोजनम्
[०२१।०९]
अतोऽस्य विनाऽपीन्द्रियेण युक्तः संभवः ।
[०२१।०९-०२१।१०]
निःप्रयोजनाऽपीन्द्रियाभिनिर्वृत्तिर्भवति ।
[०२१।१०]
यथा गर्भे नियतमृत्यूनाम् ।
स्यान्नाम निःप्रयोजना न तु निर्हेतुका ।
[०२१।११]
कश्च हेतुरिन्द्रियोत्पत्तेः ।
इन्दरियसतृष्णस्य कर्मविशेषः ।
[०२१।११-०२१।१२]
यश्च विषयाद्वितृष्णः स नियतमिन्द्रियादपीति ।
[०२१।१२]
न तद्विषयवीतरागाणां घ्राणजिह्वेन्द्रिये संभवितुमर्हतः ।
[०२१।१३]
पुरुषेन्द्रैयमपि वा किं न निवर्त्तते ।
अशोभाकरत्वात् ।
[०२१।१३-०२१।१४]
कोशगतवस्तिगुह्यानां किं न शोभेत ।
[०२१।१४]
न च प्रयोजनवशादुत्पत्तिः ।
किं तर्हि ।
[०२१।१४-०२१।१५]
कारणवशादित्यशोभाकरस्यापि स्यादेव सति हेतावुत्पत्तिः ।
[०२१।१५]
सूत्रं तर्हि विरुध्यते ।
[०२१।१५-०२१।१६]
“अविकला अहीनेन्दरिया” इति ।
[०२१।१६]
यानि तत्रेन्द्रियाणि तैरविकला अहीनेन्द्रिया इति कोऽत्र विरोधः ।
[०२१।१६-०२१।१७]
इतरथा हि पुरुशेन्द्रियस्यापि स्यात्प्रसङ्गः ।
[०२१।१७]
एवं तुवर्णयन्ति ।
[०२१।१७-०२१।१८]
स्त एव तत्र घ्राणजिव्हेन्द्रिये न तु गन्धरसौ ।
[०२१।१८]
आत्मभावमुखेन हि षडायतने तृष्णासमुदाचारो न विषयमुखेन ।
[०२१।१९]
पुरुषेन्द्रिये तु मैथुनस्पर्शमुखेनेति ।
तस्मात्सिद्धमेतद्रूपधात्वाप्ताश्चतुर्दश धातव इति ।
[०२१।२०]
आरूप्याप्ता मनोधर्ममनोविज्ञानधातवः ।
[०२१।२१-०२१।२२]
रूपवीतरागाणां तत्रोपपत्तिरतोऽत्र दश रूपस्वभावा धातवस्तदाश्र्रयालम्बनाश्च पञ्च विज्ञानधातावो न संभवन्ति ॥
[०२१।२३]
कति सास्रवाः कत्यनास्रवाः ।
य एते मनोधर्ममनोविज्ञानधातव उक्ताः
[०२१।२४]
सास्रवानास्रवा एते त्रयः
[०२१।२५]
ये मार्गसत्यासंस्कृतसंघृहीतास्तेऽनास्रवा अन्ये सास्रवाः ।
[०२१।२६]
शेषास्तु सास्रवाः ॥ १.३१ ॥
[०२२।०१]
पञ्चदश धातवः शेषास्त्वेकान्तसास्रवाः ॥
[०२२।०२]
कति सवितर्काः सविचाराः कत्यवितर्का विचारमात्राः कत्यवितर्का अविचाराः ।
[०२२।०३]
सवितर्कविचारा हि पञ्च विज्ञानधातवः ।
[०२२।०४]
नित्यमेते वितर्कविचाराभ्यां संप्रयुक्ताः ।
अवधारणार्थो हिशब्दः ।
[०२२।०५]
अन्त्यास्त्रयस्त्रिप्रकाराः
[०२२।०६]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्चान्त्याः
एते त्रयस्त्रिप्रकाराः ।
[०२२।०६-०२२।०८]
तत्र मनोधातुर्मनोविज्ञानधातुः संप्रयुक्तश्च धरमधातुरन्यत्र वितर्कविचाराभ्यां कामधातौ प्रथमे च ध्याने सवितर्काः सविचाराः ।
[०२२।०८]
ध्यानान्तरेऽवितर्का विचारमात्राः ।
[०२२।०८-०२२।०९]
द्वितीयाद्ध्यानात्प्रभृत्याभवाग्रादवितर्का अविचाराः ।
[०२२।०९-०२२।१०]
सर्वश्चासंप्रयुक्तो धर्मधातुर्ध्यानातरे अच विचारः ।
[०२२।१०-०२२।११]
वितर्कस्तू नित्यमविअतर्को विचारमात्रो द्वितीयवितर्काभावात्विचारसंप्रयोगाच्च ।
[०२२।११]
कामधातौ प्रथमे ध्याने विचार एषु त्रिप्रकारेषु नान्तर्भवति ।
[०२२।११-०२२।१२]
स कथं वक्तव्यः ।
[०२२।१२]
अविचारो वितर्कमातरः ।
द्वितीयविचाराभावात्वितर्कसंप्रयोगाच्च ।
[०२२।१३]
अत एवोच्यते “स्युः सवितर्कसविचारायां भूमौ धर्माश्चतुःप्रकाराः ।
[०२२।१४]
सवितर्काः सविचारा विचारवितर्कवर्ज्याः संप्रयुक्ताः ।
[०२२।१४-०२२।१५]
अवितर्को विचारमात्रो वितर्कः ।
[०२२।१५]
अवितर्का अविचारा असंप्रयुक्ताः ।
अविचारो वितर्कमात्रो विचार” इति ।
[०२२।१६]
शेषा उभयवर्जिताः ॥ १.३२ ॥
[०२२।१७]
दश रुपिणो धातवः शेषा नित्यमवितर्का अविचारा असंप्रयोगित्वात् ॥
[०२२।१८]
यदि पञ्च विज्ञानकायाः सवितर्काः सविचाराः कथमविकल्पका इत्युच्यन्ते ।
[०२२।१९]
निरूपणानुस्मरणविकल्पेनाविकल्पकाः ।
[०२२।२०]
त्रिविधः किल विकल्पः ।
स्वभावाभिनिरूपणानुस्मरणविकल्पः ।
[०२२।२०-०२२।२१]
तदेषां स्वभावविकल्पोऽस्ति ।
[०२२।२१]
नेतरौ ।
तस्मादविकल्पका इत्युच्यन्ते ।
[०२२।२१-०२२।२२]
यथा एकपादकोऽश्वोऽपादक इति ।
[०२२।२२]
तत्र स्वभावविकल्पो वितर्कः ।
स चैत्तेषु पश्चान्निर्देक्ष्यते ।
[०२२।२२-०२२।२३]
इतरौ पुनः किंस्वभावौ ।
[०२२।२३]
यथाक्रमं
[०२२।२४]
तौ प्रज्ञा मानसी व्यग्रा स्मृतिः सर्वैव मानसी ॥ १.३३ ॥
[०२२।२५]
मनोविज्ञानसंप्रयुक्ता प्रज्ञा मानसीत्युच्यते ।
असमाहिता व्यग्रेत्युच्यते ।
[०२२।२५-०२२।२६]
सा ह्यभिनिरूपणाविकल्पः ।
[०२२।२६]
मानस्येव सर्वा स्मृतिः समाहिता चासमाहिता चानुस्मरणविकल्पः ।
[०२२।२७]
कति सालम्बनाः कत्यनालम्बनाः ।
[०२३।०१]
सप्त सालम्बनाश्चित्तधातवः
[०२३।०२-०२३।०३]
चक्षुःश्रोत्रघ्राणजिह्वाकायमनोविज्ञानधातवो मनोधातुश्च एते सप्त चित्तधातवः सालम्बना विषयग्रहणात् ।
[०२३।०४-०२१।०४]
अर्धं च धर्मतः ।
[०२३।०५]
सालम्बनं यच्चैतसिकस्वभावम् ।
[०२३।०५-०२३।०६]
शेषा दश रूपिणो धातवो धर्मधातुप्रदेशश्चासंप्रयुक्तकोऽनालम्बना इतिसिद्धम् ।
[०२३।०७]
कत्युपात्ताः कत्यनुपात्ताः ।
[०२३।०८]
नवानुपात्ताः ।
[०२३।०९]
कतमे नव ।
ये सप्त सालम्बना उक्ताः अष्टमष्यार्धेन सार्धम् ।
[०२३।१०]
ते चाष्टौ शब्दश्च
[०२३।११]
इमे ते नवानुपात्ताः ।
सप्त चित्तधातवो धर्मधातुः शब्दधातुश्च ।
[०२३।१२]
अन्ये नव द्विधा ॥ १.३४ ॥
[०२३।१३-०१३।१३]
उपात्ता अनुपात्ताश्च ।
[०२३।१३]
तत्र चक्षुःश्रोत्रघ्राणजिह्वाकायाः प्रत्युत्पन्ना उपात्ताः ।
[०२३।१४]
अतीतानागता अनुपात्ताः ।
[०२३।१४-०२३।१५]
रूपगन्धरसस्प्रष्टव्यधातवः प्रत्युत्पन्ना इन्द्रियाविनिर्भागिण उपात्ताः ।
[०२३।१५-०२३।१६]
अन्येऽनुपात्तास्तद्यथा मूलवर्जेषु केशरोमनखदन्तेषु विण्मूत्रखेटसिंघाणकशेणितादिषु भूम्युदकादिषु च ।
[०२३।१६]
उपात्तमिति कोऽर्थः ।
[०२३।१६-०२३।१७]
यच्चित्तचैत्तैरधिष्ठानभावेनोपिअगृहीतमनुग्रहोपघाताभ्यामन्योन्यानुविधानात् ।
[०२३।१७]
यल्लोके सचेतनमित्युच्यते ।
[०२३।१८]
कति धातवो भूतस्वभावाः कति भौतिकाः ।
[०२३।१९]
स्प्रष्टव्यं द्विविधं
[०२३।२०]
भूतानि भौतिकं च ।
तत्र भूतानि चत्वारि ।
भौतिकं श्लक्ष्णत्वादि सप्तविधम् ।
[०२३।२१]
भूतेषु भवत्वात् ।
[०२३।२२]
शेषा रूपिणो नव भौतिकाः ।
[०२३।२३]
पञ्चेन्द्रियधातवश्च चत्वारो विषयाः ।
एते नव धातवो भौतिका एव ।
[०२३।२४]
धर्मधात्वेकदेशश्च
[०२३।२५]
अविज्ञप्तिसंज्ञको भौतिकः ।
[०२३।२५-०२४।०१]
शेषाः चित्तधातवो धर्मधातुश्चाविज्ञप्तिवर्ज्यो नोभयथा ।
[०२४।०१-०२३।०१]
“भूतमात्रं दशायतनानी”ति भदन्त्ब्दुद्धदेवः ।
[०२४।०१-०२४।०२]
तच्च नैवं भूतानां चतुष्ट्व खक्खटादिलक्षणावधारणात्सूत्रे ।
[०२४।०२]
तेषां स्प्रष्टव्यत्वात् ।
[०२४।०२-०२४।०३]
न हि काठिन्यादीनि चक्षुरादिभिर्गृह्यन्ते नापि वर्णादयः कायेन्द्रियेण ।
[०२४।०३-०२४।०५]
उक्तं च सूत्रे “चक्षुर्भिक्षो आध्यात्मिकमायतनं चत्वारि महाभूतान्युपादाय रूपप्रसादो अरुप्यनिदर्शनं सप्रतैघमेवं यावत्कायः
[०२४।०५-०२४।०६]
रूपाणि भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादायरुपि सनिदर्शनं सप्रतिघम् ।
[०२४।०६-०२४।०७]
शब्दो भिक्षो बाह्यमायतनं चत्वारि महाभूतान्युपादाय रुप्यनिदर्शनं सप्रतिघम् ।
[०२४।०७]
एवं गन्धरसाः ।
[०२४।०७-०२४।०८]
स्प्रष्टव्यानि भिक्षो बाह्यमायतनं चत्वारि महाभूतानि चत्वारि महाभूतान्युपादाय रूप्यनिदर्शनं सप्रतिघमि”ति ।
[०२४।०९]
स्प्रष्ट्र्व्यायतनिकदेशेनैव भूतानां संग्रहाच्छेषं न भूतानीति स्पष्टमादर्शितम् ।
[०२४।०९-०२४।१०]
यत्तर्हि सूत्रे उक्तं “यच्चक्षुषि मंसपिण्डे खक्खटं खरगतमि”ति
[०२४।१०-०२४।११]
तेनाविनिर्भदिवर्त्तिनो मंसपिण्ड्स्यैष उपदेशः ।
[०२४।११-०२४।१२]
षड्धातुरयं भिक्षो पुरुष”इति गर्भवक्रान्तौ मौलसत्त्वद्रव्यसंदर्शनार्थम् ।
[०२४।१२]
पुनः षट्स्पर्श्यतनवचनाच्चैत्ताभावप्रसङ्गाच्च ।
[०२४।१२-०२४।१३]
न च युक्तं चित्तमेव चैत्ता इत्यभ्युपेतुम् ।
[०२४।१३-०२४।१४]
“संज्ञा च वेदना च चैतसिक एष धर्मश्चित्तान्वयाच्चित्तनिश्रितऽ इति सूत्रे वचनात्सरागचित्तादि वचनाच्च ।
[०२४।१५]
तस्माच्यथोक्तं धातूनं भूतभौतिकत्वम् ।
[०२४।१६]
कति संचिताः कत्यसंचिताः ।
[०२४।१७]
संचिता दश रूपिणः ॥ १.३५ ॥
[०२४।१८]
पञ्चेन्द्रियधातवः पञ्च विषयाः संचिताः ।
[०२४।१८-०२४।१९]
परमाणुसंघातत्वात्शेषा न संचिता इति सिद्धं भवति ॥
[०२४।२०-०२४।२१]
अष्टादशानं धातूनां कश्छीनत्ति कशिचिआद्यते को दहति को दह्यते कस्तुलयति कस्तुल्यते ।
[०२४।२२]
छिनत्ति च्छिद्यते चैव बाह्यं धातुए चतुष्टयम् ।
[०२४।२३]
रूपगन्धरसस्प्रष्टव्याख्यं परशुदार्वादिसंज्ञकम् ।
छेदो नाम क एष धर्मः ।
[०२४।२३-०२४।२४]
संबन्धोत्पादिनः संघातस्रोतसो विभक्तोत्पादनम् ।
[०२४।२४]
न कायेन्द्रियादीनि च्छिद्यन्ते ।
[०२४।२४-०२४।२५]
निरवशेषाङ्गच्छेदे तदद्वैधीकरणात् ।
[०२४।२५]
न हीन्द्रियाणि द्विधा भवन्ति ।
[०२४।२५-०२४।२६]
छिन्नस्याङ्गस्य निरिन्द्रियत्वात् ।
[०२४।२६]
न चापि च्छिन्दन्ति ।
मणिप्रभावदन्धत्वात् ।
[०२४।२६-०२४।२७]
यथा च्छिनत्ती च्छियते चैव बाह्यं धातुचतुष्टयम् ।
[०२५।०१]
दह्यते तुलयत्येवं
[०२५।०२]
तदेव दह्यते तदेव तुलयति ।
नेन्द्रियाण्यच्छत्वान्मणिप्रभावत् ।
न शब्द उछेदित्वात् ।
[०२५।०३]
विवादो दग्धृतुल्ययोः ॥ १.३६ ॥
[०२५।०४]
केचिदाहुः तदेव धातुचतुष्टयं दाहकं तुल्यं च
[०२५।०४-०२५।०५]
केचिदाहुस्तेजोधातुरेव दग्धा गुरुत्वमेव च तुल्यमिति ।
[०२५।०६-०२५।०७]
कति विपाकजाः धातवः कत्यौपचयिकाः कति नैह्ष्यन्दिकाः कति द्रवयुक्ताः कति क्षणिकाः ।
[०२५।०७]
आह ।
[०२५।०८]
विपाकजौपचयिकाः पञ्चाध्यात्मम् ।
[०२५।०९-०२५।१०]
अध्यात्मं तावत्पञ्च धातवः चक्षुरादयो विपाकजाश्चौपचयिकाश्च ।
[०२५।१०]
नैःष्यन्दिका न सन्ति ।
तद्व्यतिरिक्तनिष्यन्दाभावात् ।
[०२५।१०-०२५।११]
तत्र विपाकहेतोर्जाताः विपाकजाः ।
[०२५।११]
मध्यपदलोपात्गोरथवत् ।
[०२५।११-०२५।१२]
फलकालप्राप्तं वा कर्म विपाक इत्युच्यते ।
[०२५।१२]
विपच्यत इति कृत्वा ।
तस्माज्जाता विपाकजाः ।
[०२५।१२-०२५।१३]
फलं तु विपक्तिरेवेति विपाकः ।
[०२५।१३]
भवतु फलहेतौ फलोपचारो यथा फले हेतूपचारः ।
[०२५।१३-०२५।१४]
“षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यम्”इति ।
[०२५।१४-०२५।१५]
आहारसंस्कारस्वप्नसमाधिविशेषैरुपचिता औपचयिकाः ।
[०२५।१५]
ब्रह्ंचर्येण चेत्येके ।
अनुपघातमात्रं तु तेन स्यान्नोपचयः ।
[०२५।१५-०२५।१६]
विपाकसन्तानस्योपचयसन्तानः प्रतिप्राकार इवारक्षा ।
[०२५।१६-०२५।१७]
शब्द औपचयिको नैःष्यन्दिकश्चास्ति ।
[०२५।१८]
विपाकजः ।
[०२५।१९]
न शब्दः
[०२५।२०]
किं कारणम् ।
ईहातः प्रवृत्तेः ।
[०२५।२०-०२५।२१]
यत्तर्हि प्रज्ञप्तिशास्त्रे उक्तं “पारुष्यविरतेः सुभावितत्वाद्ब्रह्मस्वरता महापुरुषलक्षणं निर्वर्त्त इति ।
[०२५।२१]
तृतीयाऽसौ परंपरेत्येके ।
[०२५।२२]
कर्मभ्यो हि भूतानि भूतेभ्यः शब्दः इति ।
पञ्चम्यसौ परंपरेत्यपरे ।
[०२५।२२-०२५।२४]
कर्मभ्यो हि विपाकजानि महाभूतानि तेभ्यश्चौपचयिकानि तेभ्यो नैःष्यन्दिकानि तेभ्यः शब्द इति ।
[०२५।२४-०२५।२५]
एवं तर्हि शाही हिक्यपि वेदना कर्मजभूतसंभूतत्वान्न विपाकः प्रप्नोति ।
[०२५।२५]
यदि शब्दवद्युक्तिविरोधः स्यात् ।
[०२५।२६]
अप्रतिघा अष्टौ नैःष्यन्दिकविपोआकजाः ॥ १.३७ ॥
[०२५।२७]
कतमेऽष्टौ ।
सप्त चित्तधातवो धर्मधातुश्च ।
नैःष्यन्दिकाः सभागसर्वत्रगहेतुजनिताः ।
[०२६।०१]
विपाकजा विपाकहेतुजनिताः ।
औपचयिका न सन्त्यप्रतिघानां सञाभावात् ।
[०२६।०२]
त्रिधाऽन्ये
[०२६।०३]
अन्ये चत्वारः शेषा रूपरसगन्धस्प्रष्टव्यधातवः ।
[०२६।०३-०२६।०४]
ते विपाकजा अप्यौपचयिका अपि नैःष्यन्द्रिका अपि ।
[०२६।०५]
द्रव्यवानेकः
[०२६।०६]
असंस्कृतं हि सारत्वाद्द्रव्यम् ।
तच्च धर्मधातावस्त्यतो धर्मधातुरेको द्रव्ययुक्तः ।
[०२६।०७]
क्षणिकाः पश्चिमास्त्रयः ।
[०२६।०८]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च पाठक्रमेण पश्चिमाः ।
[०२६।०८-०२६।०९]
ते प्रथमानास्रवे दुःखे धर्मज्ञानक्षान्तिकलापे क्षणमेकमनैःष्यन्दिका भवन्त्यतः क्षणिका इत्युच्यन्ते ।
[०२६।०९-०२६।१०]
अन्यसंभूतसंस्कृतो नास्ति कश्चिदनैःष्यन्दिकः ।
[०२६।१०-०२६।११]
तत्र दुःखे धर्मज्ञानक्षान्तिसंप्रयुक्तं चित्तं मनोधातुर्मनोविज्ञानधातुश्च ।
[०२६।११]
शेषास्तत्सहभुवो धर्मधातुः ॥
[०२६।१२-०२५।१२]
इदं विचार्यते ।
[०२६।१२-०२६।१३]
यश्चक्षुर्धातुनाऽसमन्वागतः समन्वागमं प्रतिलभते चक्षुर्विज्ञानधातुनाऽपि सः ।
[०२६।१३]
यो वा चक्षुर्विज्ञानधातुना चक्षुर्धातुनाऽपि सः ।
आह ।
[०२६।१४]
चक्षुर्विज्ञानधात्वोः स्यात्पृथक्लाभः सहापि च ॥ १.३८ ॥
[०२६।१५]
पृथक्तावत्स्याच्चक्षुर्धातुना न चक्षुर्विज्ञानधातुना ।
[०२६।१५-०२६।१६]
कामधातौ क्रमेण चक्षुरिन्द्रियं प्रतिलभमानः ।
[०२६।१६]
आरुप्यधातुच्युतश्च द्वितीयादिषु ध्यानेषूपपद्यमानः ।
[०२६।१६-०२६।१७]
स्याच्चक्षुर्विज्ञानधातुना न चक्षुर्धातुना ।
[०२६।१७-०२६।१८]
द्वितीयादिध्यानोपपन्नश्चक्षुर्विज्ञान संमुखीकुर्वाणस्तत्प्रच्युतश्चाधस्तादुपपद्यमानः ।
[०२६।१८-०२६।१९]
सहापि स्यादुभयेन समन्वागमं प्रतिलभते ।
[०२६।१९]
आरूप्यधातुच्युतः कामधातौ ब्रह्मलोके चोपपद्यमानः ।
नोभयेन ।
[०२६।२०]
एतानाकारान् स्थापयित्वा ।
यश्चक्षुर्धातुना समन्वागतश्चक्षुर्विज्ञानधातुनाऽपि सः ।
[०२६।२१]
चतुष्कोटिकः ।
प्रथमा कोटिर्द्वितीयादिषु ध्यानेषूपपन्नश्चक्षुर्विज्ञानासंमुखीकुर्वाणः ।
[०२६।२२]
द्वितीया कामधातावलब्धविहीन चक्षुः ।
[०२६।२२-०२६।२३]
तृतीया कामधातौ लब्धाविहीनचक्षुः प्रथमध्यानोपपन्नो द्वितीयादिध्यानोपपन्नश्च पश्यन् ।
[०२६।२३-०२६।२४]
चतुऋथ्येतानाकारान् स्थापयित्वा ।
[०२६।२४-०२६।२५]
एवं चक्षुर्धातुरूपधात्वोश्चक्षुर्विज्ञानरूपधात्वोश्च प्रतिलम्भसमन्वागमौ यथायोगमभ्यूहितव्यौ ।
[०२६।२५]
एतस्य प्रसङ्गस्य समुच्चयार्थश्चशब्दः सहापि च इति ।
[०२७।०१]
कत्याध्यात्मिका धातवः कति बाह्याः ।
[०२७।०२]
द्वादशाध्यात्मिकाः
[०२७।०३]
कतमे द्वादश ।
[०२७।०४]
हित्वा रूपादन्
[०२७।०५]
षड्विज्ञानानि षडाश्रया इत्येते द्वादश धातव आध्यात्मकाः ।
[०२७।०५-०२७।०६]
रूपादयस्तु षड्विषयधातवो बाह्याः ।
[०२७।०६]
आत्मन्यसति कथमाध्यात्मिकं बाह्यं वा ।
[०२७।०६-०२७।०७]
अहङ्कारसन्निश्रयत्वाच्चित्तमात्मेत्युपचर्यते ।
[०२७।०८]
“आत्मना हि सुदान्तेन स्वर्गं प्राप्नोति पण्डितः”
[०२७।०९-०२६।०९]
इत्युक्तम् ।
[०२७।०९]
चित्तस्य चान्यत्र दमनमुक्तं भगवता ।
[०२७।१०]
“चित्तस्य दमनं साधु चित्तं दान्तं सुखावहम्” इति ।
[०२७।११]
अत आत्मभूतस्य चित्तस्याश्रयभावेन प्रत्यासन्नत्वात् ।
[०२७।११-०२७।१२]
चक्षुरादीनामाध्यात्मिकत्वं रूपादीनां विषयभावाद्बाह्यत्वम् ।
[०२७।१२-०२७।१३]
एवं तर्हि षड्विज्ञानधातव आध्यात्मिका न प्राप्नुवन्ति ।
[०२७।१३]
न ह्येते मनोधातुत्वमप्राप्ताश्चित्तस्याश्रयीभवन्ति ।
[०२७।१३-०२७।१४]
यदा तदा त एव ते भवन्तीति लक्षणं नातिबर्त्तन्ते ।
[०२७।१४-०२७।१५]
अन्यथा हि मनोधातुरतीत एव स्यान्नानागतप्रत्युत्पन्नः ।
[०२७।१५]
इष्यन्ते चाष्टादश धातवस्त्रैयध्विकाः ।
[०२७।१५-०२७।१६]
यदि चानागतप्रत्युत्पन्नस्य विज्ञानस्य मनोधातुलक्षणं न स्याततीतेऽप्यध्वनि मनोधातुर्न व्यवस्थाप्येत ।
[०२७।१७]
नहि लक्षणस्याध्वसु व्यभिचारोऽस्तीति ॥
[०२७।१८]
कति धातवः सभागाः कति तत्सभागाः ।
एकान्तेन तावत्
[०२७।१९]
धर्मसंज्ञकः ।
[०२७।२०]
सभागः
[०२७।२१-०२७।२२]
यो हि विषयो यस्य विज्ञानस्य नियतो यदि तत्र तद्विज्ञानमुत्पन्तं भवत्युत्पत्तिधर्मि वा एवं स विषयः सभाग इत्युच्यते ।
[०२७।२२-०२७।२३]
न च सोऽस्ति कश्चिद्धर्मधातुर्यत्र नानन्तं मनोविज्ञानमुत्पन्नमुत्पत्स्यते वा ।
[०२७।२३-०२७।२४]
तथा हि सर्वार्यपुद्गलानामिदं चित्तमवश्यमुत्पद्यते “सर्वधर्मा अनात्मान” इति ।
[०२७।१४-०२७।२५]
तस्य च स्वभावसहभूनिर्मुक्ताः सर्वधर्मा आलम्बनम् ।
[०२७।२५-०२७।२६]
स पुनश्चित्तक्षणोऽन्यस्य चित्तक्षणस्यालम्बनमिति द्वयोः क्षणयोः सर्वधर्मा ह्यालम्बनं भवन्ति ।
[०२७।२६]
तस्माद्धर्मधातुअर्नित्यं सभागः ।
[०२७।२७]
तत्सभागाश्च शेषाः
[०२७।२८]
सभागश्चेति चशब्दः ।
कोऽयं तत्सभागो नाम ।
[०२८।०१]
यो न स्वकर्मकृत् ॥ १.३९ ॥
[०२८।०२]
उक्तं भवति यः स्वकर्मकृत्स सभाग इति ।
[०२८।०२-०२८।०३]
तत्र येन चक्षुषा रूपाण्यपश्यत्पश्यति द्रक्ष्यति वा तदुच्यते सभागमचक्षुः ।
[०२८।०३-०२८।०४]
एवं यावन्मनः स्वेन विषयकारित्रेण वक्तव्यम् ।
[०२८।०४]
तत्सभागं चक्षुः काश्मीराणां चतुर्विधम् ।
[०२८।०४-०२८।०५]
यद्दृष्ट्वा रूपाणि निअरुद्धं निरुध्यते निरोत्स्यते वा यच्चानुत्पत्तिधर्मि ।
[०२८।०५-०२८।०६]
पाश्चात्त्यानां पुनः पञ्चविधम् ।
[०२८।०६]
तदेवानुत्पत्तिधर्मि द्विधा कृत्वा विज्ञानसमायुक्तं चासमायुस्क्तं च ।
[०२८।०७]
एवं यावत्कायो वेदितव्यः ।
मनस्त्वनुत्पत्तिधर्मकमेव तत्सभागम् ।
[०२८।०७-०२८।०८]
रूपाणि च यानि चक्षुषाऽपशायत्पश्यति द्रक्ष्यति वा तानि सभागानि ।
[०२८।०८]
तत्सभागानि चतुर्विधानि ।
[०२८।०९]
यान्यदृष्टान्येव निरुद्धानि निरुध्यन्ते निरुत्स्यन्ते वा यानि चानुत्पत्तिधर्मीणि ।
[०२८।०९-०२८।१०]
एवं यावत्स्प्रष्टव्यानि ।
[०२८।१०]
स्वेन्द्रियकारित्रेण सभागतत्सभागानि वेदितव्यानि ।
[०२८।१०-०२८।११]
यदेकस्य चक्षुः सभागं तत्सर्वेषाम् ।
[०२८।११]
एवं तत्सभागमपि ।
[०२८।११०-०२८११]
तथ यावन्मनः ।
[०२८।११-०२८।१२]
रूपं तु यः पश्यति तस्य सभागं यो न पश्यति तस्य तत्सभागम् ।
[०२८।१२]
किं कारणम् ।
[०२८।१२-०२८।१३]
अस्ति हि संभवो यद्रूपमेकः पश्यति तद्धवोऽपि पश्येयुर्यथा चन्द्रनट्मल्लप्रेक्षासु ।
[०२८।१३-०२८।१४]
नतु संभवोऽस्ति यदेकेन चक्षुषा द्वौ पश्येताम् ।
[०२८।१४]
अतोऽस्यासाधारणत्वादेकसन्तानवशेन व्यवस्थानम् ।
[०२८।१५]
रूपस्य तु साधारणत्वातनेकसन्तानवशेन ।
[०२८।१५-०२८।१६]
यथा रौपमेवं शब्दगन्धरसस्प्रष्टव्यधातवो वेदितव्याः ।
[०२८।१६]
भवतु शब्द एवम् ।
[०२८।१६-०२८।१८]
गन्धादयस्तु य एकेन गृह्यन्ते न तेऽन्येन प्राप्तगृहणादित्यसाधारणत्वादेषां चक्षुरादिवदतिदेशो न्याय्यः ।
[०२८।१८]
अस्त्येतदेवमपि त्वेशामपि संभवं प्रति साधारणत्वम् ।
[०२८।१८-०२८।१९]
अस्ति ह्येष संभवो य एव गन्धादय एकस्य घ्राणादिविज्ञानमुत्पादयेयुस्त एवान्येषामपि ।
[०२८।२०]
न त्वेवं चक्षुरादयः ।
तस्मान्देषां रूपादिवदतिदेशः ।
[०२८।२०-०२८।२१]
चक्षुर्विज्ञानादीनां सभागतत्सभागत्वमुत्पत्त्यनुत्पत्तिधर्मित्वाद्यथा मनोधातोः ।
[०२८।२२]
सभाग इति कोऽर्थः ।
[०२८।२२-०२८।२३]
इन्द्रियविषयविज्ञानानामन्योन्यभजनं कारित्रभजनं वा भागः ।
[०२८।२३]
स एषामस्तीति सभागः ।
स्पर्शसमानकार्यत्वाद्वा ।
[०२८।२३-०२८।२४]
ये पुनरसभागास्ते तेषा सभागानां जातिसामान्येन सभागत्वात्तत्सभागाः ।
[०२८।२५]
कति धातवो दर्शनहेयाः कति भावनाहेयाः कत्यहेयाः ।
रूपिणस्तावत्
[०२८।२६]
दश भावनया हेयाः पञ्च च
[०२८।२७]
विज्ञानधातवः ।
[०२८।२८]
अन्त्यास्त्रयस्त्रिधा ।
[०२८।२९]
मनोधातुर्धर्मधातुर्मनोविज्ञानधातुश्च ।
एते त्रयो धातवः पाठानुपूर्व्याऽन्त्यास्त्रिप्रकाराः ।
[०२९।०१]
अष्टाशीत्यनुशयाः तत्सहभुवस्तत्प्रप्तयशाच सानुचरा दऋशनहेयाः ।
[०२९।०१-०२९।०२]
शेषाः सास्रवा भावनाहेयाः ।
[०२९।०२]
अनास्रवा अहेयाः ।
[०२९।०२-०२९।०३]
ननु चान्यदपि दर्शनप्रहातव्यमस्ति पृथग्जनत्वमापायिकं च कायवाक्कर्म ।
[०२९।०३-०२९।०४]
आर्यमार्गविरोधित्वात्न तद्दऋशनप्रहातव्यम् ।
[०२९।०४]
एष हि संक्षेपः ।
[०२९।०५]
न दृष्टिहेयमक्लिष्टं न रूपं नाप्यडड्त्ःजं
[०२९।०६]
नास्ति किञ्चिदक्लिष्टं दर्शनप्रहातव्यं नापि रूपम् ।
[०२९।०६-०२९।०७]
अक्लिष्टव्याकृतं च पृथग्जनत्वम् ।
[०२९।०७]
समुच्छिन्नकुशलमूलवीतरागाणामपि तत्समन्वामत्रूपं कायवाक्कर्म ।
[०२९।०८]
तस्मान्न दर्शनप्रहातव्यम् ।
[०२९।०८-०२९।०९]
सत्येष्व विप्रतिपत्तेर्दुःखे धर्मज्ञानक्षान्तौ प्र्थग्जनत्वप्रसङ्गाच्च ।
[०२९।१०]
नाप्यषष्टजम् ॥ १.४० ॥
[०२९।११]
षष्ठमुच्यते मन आयतनम् ।
[०२९।११-०२९।१२]
तस्मादन्यत्र जातमषष्ठजं पञ्चेन्द्रियजं च यत्तदपि नास्ति दर्श्नप्रहातव्यम् ॥
[०२९।१३]
अष्टादशानां धातूनां कति दृष्टिः कति न दृष्टिः ।
[०२९।१४]
चक्षुश्च धर्मधातोश्च प्रदेशु दृष्टिः
[०२९।१५]
कतमः स इत्याह
[०२९।१६]
अष्टधा ।
[०२९।१७-०२९।१८]
पञ्च सत्कायदृष्ट्यादिका दृष्टयः लौकिकी सम्यग्दृष्टिः शैङ्क्षी दृष्टिरशैक्षी दृष्टिरित्ययमष्टप्रकारो धर्मधातुर्दृष्टि रव्रशिष्टो न दृष्टिः ।
तत्र सत्कायदृष्ट्यादीनामनुशायनिर्देशे निर्द्देशः प्राप्तकालो भविष्यति ।
[०२९।१९-०२९।२०]
लौकिकी पुनः सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्ता कुशलसास्रवा प्रज्ञा ।
[०२९।२०-०२९।२१]
शैक्षस्यनास्रवा दृष्टिः षैक्षी अशैक्षस्य अक्शैक्षी ।
[०२९।२१-०२९।२२]
समेघामेघरत्रिन्दिवरूपदर्शनवत्क्लिष्टाक्लिष्टलौकिकीशैक्ष्यशैक्षीभिर्दृष्टिभिर्धर्मदर्शनम् ।
[०२९।२२]
अथ कस्माल्लौदिकी सम्यग्दृष्टिर्मनोविज्ञानसंप्रयुक्तैवोच्यते ।
[०२९।२३]
यस्मात् ।
[०२९।२४]
पञ्चविज्ञानसहजा धीर्न दृष्टिरतीरणात् ॥ १.४१ ॥
[०२९।२५]
सन्तीरिका हि दृष्टिरुपध्यानप्रवृत्तत्त्वात् ।
न चैवं पञ्चविज्ञानसहाजा प्रज्ञा ।
[०३०।०१]
तस्माद्सौ न दृष्टिः ।
अत एव चान्याऽपि क्लिष्टाऽक्लिष्टा वा प्राज्ञा न दृष्टिः ।
[०३०।०२]
चक्षुरिदानीमसन्तीरकत्वे कथं दृष्टिः ।
रूपालोचनार्थेन ।
यस्मात्
[०३०।०३]
चक्षुः पश्यति रूपाणि
[०३०।०४]
यदि चक्षुः पश्येदन्यविज्ञानसमङ्गिनोऽपि पश्येत् ।
न वै सर्वं चक्षुः पश्यति ।
किं तर्हि ।
[०३०।०५]
सभागं
[०३०।०६]
सविज्ञानकं यदा भवति तदा पश्यत्यन्यदा नेति ।
[०३०।०६-०३०।०७]
एवं तर्हि तदेव चक्षुराश्रितं विज्ञानं पश्यतीत्यस्तु ।
[०३०।०८]
न तदाश्रितम् ।
[०३०।०९]
विज्ञानं
[०३०।१०]
पश्यतीति शस्यमविज्ञातुम् ।
किं कारणम् ।
[०३०।११]
दृश्यते रूपं न किलान्तरितं यतः ॥ १.४२ ॥
[०३०।१२]
यस्मात्किल रूपं कुड्यादिव्यवहितं न दृश्यते ।
[०३०।१२-०३०।१३]
यदि हि विज्ञानं पश्येत्तस्स्याप्रतिघत्वात्कुड्यादिषु प्रतिघातो नास्ति इत्य्वाऋतमपि रूपं पश्येत् ।
[०३०।१३-०३०।१४]
नैव हावृते चक्षुर्विज्ञानमुत्पद्यत इत्यनुत्पन्नं कथं द्रक्ष्यति ।
[०३०।१४]
किं खलु नोत्पद्यते ।
[०३०।१४-०३०।१६]
यस्य तु चक्षुः पश्यति तस्य चक्षुषः सपरतिघत्वाद्व्ययवहिते वृत्त्यभाव इति विज्ञानस्यानुत्पत्ति राश्रयेणैक विषयप्रवृत्तत्वात्युज्यते ।
[०३०।१६-०३०।१७]
किं नु वै चक्षुः प्राप्तविषयं कायेन्द्रियवत्यत आवृतं न पश्येत् ।
[०३०।१७]
सप्रतिघत्वात् ।
[०३०।१७-०३०।१८]
काचाभ्रपटलस्फटिकाम्बुभिश्चान्तरितं कथं दृश्यते ।
[०३०।१८]
सप्रतिघत्वाच्चक्षुष आवृतस्य रूपस्यादर्शनम् ।
[०३०।१९]
किं तर्हि ।
[०३०।१९-०३०।२०]
यत्रालोकस्याप्रतिबन्ध आवृतेऽपि रुपे तत्रोपपद्यत एव चक्षुर्विज्ञानम् ।
[०३०।२०-०३०।२१]
यत्र तु प्रतिबन्धस्तत्र नोत्पद्यत इत्यनुत्पन्नत्वादावृतं नेक्ष्यते ।
[०३०।२१]
यत्तर्हि सूत्र उक्तं “चक्षुषा रूपाणि दृष्ट्वे”ति ।
[०३०।२१-०३०।२२]
तेनाश्रयेणेत्ययमत्राभिसन्धिर्यथा “मनसा धर्मान् विज्ञाये” त्याह ।
[०३०।२२-०३०।२३]
न च मनो धर्मान् विजानाति ।
[०३०।२३]
अतीतत्वात् ।
किं तर्हि ।
मनोविज्ञानम् ।
[०३०।२३-०३०।२४]
आश्रितकर्म वा आश्रयस्योपचर्यते ।
[०३०।२४]
यथा मञ्चाः क्रोशन्तीति ।
[०३०।२४-०३०।२५]
यथा च सूत्र उक्तं “चक्षुर्विज्ञेयानि रूपाणीष्टानि कान्तानि”ति ।
[०३०।२५]
न च तानि चक्षुषा विज्ञायन्ते ।
[०३०।२५-०३०।२७]
उक्तं च सूत्रे “चक्षुर्ब्राह्मण द्वारं यावदेव रूपाणां दर्शनाय” इत्यतो गम्यते चक्षुषा द्वारेण विज्ञानं पश्यतीति ।
श्
[०३०।२७]
दर्शने तत्र द्वाराख्या ।
नह्येतद्युज्यते ।
चक्षुर्दार्शनमरूपाणां दर्श्नायेति ।
[०३१।०१]
यदि विज्ञानं क्पश्यति को विजानाति कश्चानयोर्विशेषः ।
[०३१।०१-०३१।०२]
यदेव हि रूपस्य विज्ञानं तदेवास्य दर्श्नमिति ।
[०३१।०२-०३१।०३]
तद्यथा काचित्प्रज्ञा पश्यतीत्यप्युच्यते प्रजानातीत्यप्येवं किञ्चिद्विज्ञानं पश्यतीत्यप्युच्याते विजानातीत्यपि ।
[०३१।०३]
अन्ये पुनराहुः ।
[०३१।०३-०३१।०४]
“यदि चक्षुः पश्यति कर्तृभूतस्य चक्षुषः काऽन्या दृशिक्रिये”ति वक्तव्यम् ।
[०३१।०४]
तदेतदचोद्यम् ।
[०३१।०४-०३१।०५]
यदि हि विज्ञानं विजानातीतीष्यते ।
[०३१।०५]
न च तत्र कर्तृक्रियाभेदः ।
एवमत्रापि ।
[०३१।०५-०३१।०६]
अपरे पुनर्ब्रुवते ।
[०३१।०६-०३१।०७]
“चक्षुर्विज्ञानं दर्शनं तस्याश्रयभावाच्चक्षुः पश्यतीत्युच्यते ।
[०३१।०७]
यथा नादस्याश्रयभावात्घण्टा नदतीत्युच्यते” इति ।
[०३१।०७-०३१।०८]
ननु चईवं विज्ञानस्याश्रयभावाचक्षुर्विजानातीति प्राप्नोति ।
[०३१।०८]
न प्राप्नोति ।
[०३१।०८-०३१।०९]
तद्विज्ञानं दर्शनमिति रुढं लोके ।
[०३१।०९]
तथा हि तस्मिन्नुत्पन्ने रूपं दृष्टमित्युच्यते न विज्ञातम् ।
[०३१।०९-०३१।१०]
विभाषायामप्युक्तं “चक्षुः संप्रप्तं चक्षुर्विज्ञानानुभूतं दृष्टमित्युच्यत” इति ।
[०३०।१०-०३१।११]
तस्माच्चक्षुः पश्यतीत्येवोच्यते न विजानातीति ।
[०३१।११]
विज्ञानं तु सान्निध्यमात्रेण रूपं विजानातीत्युच्यते ।
[०३१।१२]
यथा सूर्यो दिवसकर इति ।
अत्र सौत्रान्तिका आहुः ।
किमिदमाकाशं खाद्यते ।
[०३१।१३]
चक्षुर्हि प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानम् ।
तत्र कः पश्यति को वा दृश्यते ।
[०३१।१४]
निव्र्यापारं हीदं धर्ममात्रं हेतुफलमात्रं च ।
[०३१।१४-०३१।१५]
तत्र व्यवहारार्थं च्छन्दत उपचाराः क्रियन्ते ।
[०३१।१५]
चक्षुः पश्यति विज्ञानं विजानातीति नात्राभिनिवेष्टव्यम् ।
[०३१।१५-०३१।१६]
उक्तं हि भगवता “जनपदनिरुक्तिं नाभिनिविशेत संज्ञां च लोकस्य नाभिधावेदि”ति ।
[०३१।१६-०३१।१७]
एष तु काश्मीरवैभाषिकाणां सिद्धान्तः ।
[०३१।१७-०३१।१८]
चक्षुः पश्यति श्रोत्रं शृणोति घ्राणं जिघ्रति जिह्वा आस्वादयति कायः स्पृशति मनो विजानातीति ।
[०३१।१९]
तद्यदि चक्षुः पश्यति किमेकेन चक्षुषा रूपाणि पश्यत्याहोस्विदुभाभ्याम् ।
[०३१।२०]
नात्र नियमः ।
[०३१।२१]
उभाभ्यामपि चक्षुभुयां पश्यति व्यक्तदर्शनात् ।
[०३१।२२]
उभाभ्यामपि चक्षुर्भ्यां पश्यतीत्याभिधार्मिकाः ।
[०३१।२२-०३१।२३]
तथा हि द्वयोर्विवृतयोः परैशाउद्धतरं दराशनं भवति ।
[०३१।२३-०३१।२४]
एकस्मिंश्चीन्मीलिते चक्षुषि द्वितीये चार्धनिमीलिते द्विचन्द्रादिग्रहणं भवति ।
[०३१।२४]
नैकतरान्यथीभावात् ।
[०३१।२४-०३१।२५]
न चाश्रयविच्छेदाद्विच्छेदपरसङ्गो विज्ञानस्य देशाप्रतिष्ठितत्वाद्रौपवदिति ।
[०३१।२६-०३१।२७]
यदि चक्षुः पश्यति श्रोत्रं शृणोति यावन्मनो विजानाति किमेषां प्राप्तो विषय आहोस्विदप्राप्तः ।
[०३२।०१]
चक्षुःश्रोत्रमनोऽप्राप्तविषयं
[०३२।०२]
तथा हि दूराद्रूपं पश्यत्यक्षिस्थमञ्जनं न पश्यति ।
दूराच्छब्दं शृणोति ।
[०३२।०२-०३२।०३]
सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह ध्यायिनां नोपजायेत ।
[०३२।०३]
घ्राणादिवत् ।
[०३२।०३-०३२।०४]
यद्यप्राप्तविषयं चक्षुः कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च ।
[०३२।०४-०३२।०५]
कथं तावदय्स्कान्तो न सर्वमप्राप्तमयः कर्षति ।
[०३२।०५]
प्राप्तविषयत्वेऽपि चैतत्समानम् ।
[०३२।०५-०३२।०६]
कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनं शलाकां वा ।
[०३२।०६-०३२।०७]
यथा च घ्राणादीनं प्राप्तो विषयो न तु सर्वः ।
[०३२।७-०३२०७]
सहभूगन्धाद्यग्रहणात् ।
[०३२।०७]
एवं चक्षुषोऽप्यप्राप्तः स्यान्न तु सर्वः ।
[०३२।०७-०३२।०८]
मनस्त्वरूपित्वात्प्राप्तुमेवाशक्तम् ।
[०३२।०८]
केचित्पुनः श्रोत्रं प्रप्ताप्राप्तविषयं मन्ययन्ते ।
[०३२।०९]
कर्णभ्यन्तरेऽपि शब्दश्रवणात् ।
शेषं तु घ्राणजिह्वाकायाख्यम् ।
[०३२।१०]
त्रयमन्यथा ॥ १.४३ ॥
[०३२।११]
प्राप्तविषयमित्यर्थः ।
घ्राणं कथं प्राप्तविषयम् ।
निरुच्छ्वासस्य गन्धाग्रहणात् ।
[०३२।१२]
केयं प्राप्तिर्नाम ।
निरन्तरोत्पत्तिः ।
[०३२।१२-०३२।१३]
किं पुनः परमाणवः स्पृशन्त्यन्योन्यमाहोस्विन्न ।
[०३२।१३-०३१।१३]
न स्पृशन्तीति काश्मीरकाः ।
[०३२।१३]
किं कारणम् ।
[०३२।१३-०३२।१४]
यदि तावत्सर्वान्मना स्पृशेयुर्मिश्रीभवेयुर्द्रव्याणि ।
[०३२।१४]
अथैकदेशेन सावयवाः प्रसज्येरन् ।
[०३२।१५]
निरवयवाश्च परमाणवः ।
कथं शब्दाभिनिश्पत्तिर्भवति ।
[०३२।१५-०३२।१६]
अत एव यदि हि स्पृशेयुर्हस्तो हस्तेऽभ्याहतः सज्येतो पलश्चोपले ।
[०३२।१६-०३२।१७]
कथं चितं प्रत्याहतं न विशीर्यते ।
[०३२।१७]
वायुधातुसंधारितत्वात् ।
[०३२।१७-०३२।१८]
कश्चिद्वायुधातुर्विकिरणाय प्रवृत्तो यथा संवर्त्तन्यां कश्चित्संधारणाय यथा विवर्त्तन्यामिति ।
[०३२।१८-०३२।१९]
कथमिदानीं निरन्तर प्राप्त्या प्राप्तविषयं त्रयमुच्यते ।
[०३२।१९]
तदेवैषां निरुत्तरत्वं यन्मध्ये नास्ति किञ्चित् ।
[०३२।२०]
अपिख्लु संघाताः सावयवत्वात्स्पृशन्तीत्यद्वीषः ।
[०३२।२०-०३२।२१]
एवं च कृत्वाऽयमपि ग्रन्थ उपपन्नो भवति विभाषायाम् ।
[०३२।२१-०३२।२२]
किं नु स्पृष्टहेतुकं स्पृष्टमुत्पद्यते आहोस्विदस्पृष्टहेतुकमिति प्रश्नयित्वाह”कारणं प्रति ।
[०३२।२२-०३२।२३]
कदाचित्स्पृष्टहेतुकमस्पृष्टमुत्पधते यदा विशीर्यते ।
[०३२।२३]
कदाचिदस्पृष्टहेतुकं स्पृष्टं यदा चयं गच्छति ।
[०३३।०१]
कदाचित्स्पृष्टहेतुकं स्पृष्टं यदा चयवतां चयः ।
[०३३।०१-०३३।०२]
कदाचिदस्पृष्टहेतुकमस्पृष्टं यदा वातायनरज” इति ।
[०३३।०२]
यदि परमाणवः स्पृशेयुरुत्तरक्षणावस्थानं स्यादिति भदन्तवसुमित्रः ।
[०३३।०३]
न स्पृशन्ति ।
निरन्तरे तु स्पृष्टसंज्ञेति भदन्तः ।
भदन्तमतं चैष्टव्यम् ।
[०३३।०४]
अन्यथा हि सान्तराणां परमाणूनां शून्येष्वन्तरेषु गतिः केन प्रतिबध्येत ।
[०३३।०४-०३३।०५]
यतः सप्रतिघा इष्यन्ते ।
[०३३।०५]
नच परमाणुभ्योऽन्ये संघाता इति ।
[०३३।०५-०३३।०६]
त एव ते संघाताः परमाणवः स्पृश्यन्ते यथा रूप्यन्ते ।
[०३३।०६-०३३।०७]
यदि च परमाणोर्दिग्भागभेदः कल्प्यते स्पृष्टस्यास्पृष्टस्य वा सावयवत्वप्रसङ्गः ।
[०३३।०७]
नो चेत्स्पृष्टस्याप्यप्रसङ्गः ॥
[०३३।०८-०३३।०९]
किं पुनरेभिश्चक्षुरादिभिरात्मपरिमाणतुल्यस्यार्थस्य ग्रहणं भवत्याशुवृत्त्या च पर्वतादीनामलातक्रादिवदाहोस्वित्तुल्यातुल्यस्य ।
[०३३।०९-०३३।१०]
यानि तावदेतानि प्राप्तविषयाण्युक्तान्येभिः ।
[०३३।११]
त्रिभिर्घ्राणादिभिस्तुल्यविषयग्रहणं मतम् ।
[०३३।१२]
यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं जनयन्ति ।
[०३३।१३]
चक्षुःश्रोत्राभ्यां त्वनियमः ।
कदाचिदल्पीयांसो यदा वालाग्रं पश्यति ।
[०३३।१३-०३३।१४]
कदाचित्समा यदा द्राक्षाफतं पश्यति ।
[०३३।१४-०३३।१५]
कदाचित्भूयांसो यदा महान्तं पर्वतं पश्यत्युन्मिषितमात्रेण ।
[०३३।१५]
एवं श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् ।
[०३३।१५-०३३।१६]
मनस्त्वमूर्त्तिवदेवेति नास्य परिमाणपरिच्छेदः संप्रधार्यते ।
[०३३।१६]
कतहं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां संनिवेशः ।
[०३३।१७]
चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामजाजीपुष्पवदवस्थिताः ।
[०३३।१७-०३३।१८]
अच्छचर्मावच्छादितास्तु न विकीर्यन्ते ।
[०३३।१८-०३३।१९]
अधरौत्तर्येण पिण्डवदवस्थिता इत्यपरे ।
[०३३।१९]
न चान्योऽन्यमावृण्वन्ति स्फटिकवदच्छत्वात् ।
[०३३।१९-०३३।२०]
श्रोत्रेन्द्रियपरमाणवो भूर्जाभ्यन्तरावस्थिताः ।
[०३३।२०]
घ्राणेन्द्रियपरमाणवो घटाभ्यन्तरेण शलाकावत् ।
[०३३।२०-०३३।२१]
आद्यानि त्रीणीन्द्रियाणि मालावदवस्थितानि ।
[०३३।२१]
जिह्वेन्द्रियपरमाण्वोऽर्धचन्द्रवत् ।
[०३३।२१-०३३।२२]
वालाग्रमात्रं किल मध्यजिव्हायां जिह्वेन्द्रियपरमाणुभिरस्फुटम् ।
[०३३।२२-०३३।२३]
कायेन्द्रियपरमाणवः कायवदवस्थिताः ।
[०३३।२३]
स्त्रीन्द्रियपरमाणवो भेरीकटाहवत् ।
पुरुषेन्द्रियपरमाणवोऽङ्गुष्ठवत् ।
[०३३।२४]
तत्र चक्षुरिन्द्रियपरमाणवः कदाचित्सर्वे सभागा भवन्ति कदाचित्तत्सभागाः ।
[०३३।२४-०३३।२५]
कदाचिदेके सभागाः एके तत्सभागाः ।
[०३३।२५]
एवं यावज्जिह्वेन्द्रियपरमाणवः ।
[०३३।२५-०३३।२६]
कायेन्द्रियपरमाणवस्तु सर्वे सभागा न भवन्ति ।
[०३३।२६-०३३।२७]
प्रदीप्तनरकाभ्यन्तरावरुद्धानामपि ह्यपरिमाणाः कायेन्द्रियपरमाणवस्तत्सभागा भवन्ति ।
[०३३।२७-०३४।०१]
सर्वैः किल विज्ञानोत्पत्तावाश्रयो विशीर्येत ।
[०३४।०१]
न चैक इन्द्रियपरमाणुर्विषयपरमाणुर्वा विज्ञानं जनयति ।
[०३४।०१-०३४।०२]
संचिताश्रयालम्बनत्वात्पञ्चानां विज्ञानकायानाम् ।
[०३४।०२]
अत एवानिदर्शनः परमाणुरदृश्यत्वात् ॥
[०३४।०३-०३४।०४]
य इमे षड्विज्ञानधातव उक्ताश्चक्षुर्विज्ञानं यवन्मनोविज्ञानं किमेषां यथ विषयो वर्त्तमानः पञ्चानां चरमस्य त्रिकाल एवमाश्रयोऽपि ।
[०३४।०५]
नेत्याह ।
[०३४।०५-०३४।-५]
किं तर्हि ।
[०३४।०६]
चरमस्याश्रयोऽतीतः
[०३४।०७]
मनोविज्ञानधातोः समनन्तरनिरुद्धं मन आश्रयः ।
[०३४।०८-०३४।०७]
पञ्चानां सहजश्च तैः ॥ १.४४ ॥
[०३४।०९]
अतीतश्चेति चशब्दः ।
[०३४।०९-०३४।१०]
तत्र चक्षुर्विज्ञानस्य चक्षुः सहज आशारयो यावत्कायविज्ञानस्य कायः ।
[०३४।१०]
अतीतः पुनरेषामाश्रयो मन इत्यप्येते पञ्च विज्ञानकाया इन्द्रियद्वयाश्रयाः ।
[०३४।११]
अत एवोच्यते “यश्चक्षुर्विज्ञानस्याश्रयभावेन समनन्तरप्रत्ययभावेनापि स तस्ये”ति ।
[०३४।१२]
चतुष्कोतिकः ।
प्रथमा कोतिश्चक्षुः ।
द्वितीया समनन्तरातीतश्चैतसिको धर्मधातुः ।
[०३४।१३]
तृतीया समनन्तरातीतं मनः ।
चतुर्थी कोटिरुक्तनिर्मुक्ता धर्माः ।
[०३४।१३-०३४।१४]
एवं यावत्कायविज्ञानस्य स्वमिन्द्रियं वक्तव्यम् ।
[०३४।१४]
मनोविज्ञानस्य पूर्वपादकः ।
[०३४।१४-०३४।१५]
यस्तावदाश्रयभावेन समनन्तरप्रत्ययभावेनापि सः ।
[०३४।१५]
स्यात्समनन्तरप्रत्ययभावेन नाश्रयभावेन ।
[०३४।१५-०३४।१६]
समनन्तराभ्यतीतश्चेतसिको धर्मधातुरिति ।
[०३४।१७-०३४।१८]
किं पुनः कारणमुभयाधीनायां विज्ञानोत्पत्तौ चक्षुरादयः एवाश्रया उच्यन्ते न रूपादयः ।
[०३४।१९]
तद्विकारविकारित्वादाश्रयाश्चक्षुरादयः ।
[०३४।२०]
धातव इत्यधिकारः ।
[०३४।२०-०३४।२१]
चक्षुरादीनां हि विकारेण तद्विज्ञानानां विकारो भवत्यनुग्रहोपघातपटुमन्दतानुविधानात्न तु रूपादीनां विकारेण तद्विकारः ।
[०३४।२२]
तस्मात्साधीयस्तदधीनत्वत्त एवाश्रया न रूपादयः ।
[०३४।२३-०३४।२४]
किं पुनः कारणं रूपादयश्च तैर्विज्ञायन्ते चक्षुर्विज्ञानं चोच्यते यावन्मनोविज्ञानम् ।
[०३४।२४]
न पुना रूपविज्ञानं यावद्धर्मविज्ञानमिति ।
[०३४।२४-०३४।२५]
य एते चक्षुरादय आश्रया एषाम् ।
[०३४।२६]
अतोऽसाधारणत्वाद्धि विज्ञानं तैर्निरुच्यते ॥ १.४५ ॥
[०३४।२७]
कथमसाधारणत्वम् ।
न हि चक्षुरन्यस्य विज्ञानस्याश्रयीभवितुमुत्सहते ।
[०३४।२७-०३४।२८]
रूपं तु मनोविज्ञानस्यालम्बनीभवत्यन्यचक्षुर्विज्ञानस्यापीति ।
[०३४।२८]
एवं यावत्कायो वेदितव्यः ।
[०३४।२९]
तस्मादाश्रयभावादसाधारणत्वाच्च विज्ञानं तेनैव निर्दिश्यते न रूपादिभिः ।
[०३४।२९-०३४।३०]
यथा भेरीशब्दो यवाङ्कुर इति ।
[०३५।०१-०३५।०२]
अथ यत्र काये स्थितश्चक्षुषा रूपाणि पश्यति किं तानि कायचक्षूरूपविज्ञानान्येकभूमिकान्येव भवन्त्याहोस्विदन्यभूमिकान्यपि ।
[०३५।०२]
आह ।
सर्वेषां भेदः ।
[०३५।०३]
कामधातूपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकं भवति ।
[०३५।०४-०३५।०५]
तस्यैव स्वानि रूपाणि प्रथमध्यानभूमीनि पश्यनो रूपाणि त्रीणपि तद्भूमिकानि ।
[०३५।०६-०३५।०७]
द्वितीयध्यानचक्षुषा स्वानि रूपोआणि पश्यतः कायरूपे स्वभूमिके चक्षुस्तद्भूमिकं विज्ञानं प्रथमध्यान भूमिकम् ।
[०३५।०७-०३५।०६]
प्रथमध्यानभूमीनि पश्यतो विज्ञानरुपे तद्भूमिके कायः कामावचरश्चक्षुर्द्वितीयद्यानभूमिकम् ।
[०३५।०८-०३५।१०]
द्वितीयध्यानभूमीनि पश्यतश्चक्षूअरूपे तद्भूमिके कायः कामावचरो विज्ञानं प्रथमभूमीकम् ।
[०३५।१०-०३५।११]
एवं तृतीयचतुर्थध्यानभूमिकेन चक्षुषा तद्भूमिकाधरभुमिकानि रूपाणि पश्यतो योजयितव्यम् ।
[०३५।११-०३५।१२]
प्रथ्मध्यानोपपन्नस्य स्वेन चक्षुषा स्वानि रूपाणि पश्यतः सर्वं स्वभूमिकमधराणि पश्यतः त्रयं स्वभूमिकम् ।
[०३५।१२-०३५।१३]
द्वितीयध्यानचक्षुषा स्वानि रूपाणि पश्यतस्त्रयं स्वभूमिकं चक्षुस्तद्भूमिकम् ।
[०३५।१३-०३५।१४]
कामावचराणि पश्यतः कायविज्ञाने स्वभूमिके रूपाण्यधराणि चक्षुस्तद्भूमिकम् ।
[०३५।१४-०३५।१५]
द्वितीयध्यानभूमीनि पश्यतश्चक्षूरूपे तद्भूमिके शेषं स्वभूमिकम् ।
[०३५।१५]
एवं तृतीयध्यानचक्षुषा योज्यम् ।
[०३५।१६-०३५।१७]
द्वितीयादिध्यानोपपन्नस्य स्वपरचक्षुर्भ्यां स्वपरभूमिकानि रूपाणि पश्यतो यथायोगं योजयितव्यम् ।
[०३५।१७]
अयं तु नियमः ।
[०३५।१८]
न कायस्याधरं चक्षुः ।
[०३५।१९]
पञ्चभूमिकानि हि कायचक्षूरूपाणि कामावचराणि यावच्चतुर्थध्यानभूमिकानि ।
[०३५।२०]
द्विभूमिकं चक्षुर्विज्ञानं कामावचरं प्रथमध्यानभूमिकं च ।
[०३५।२०-०३५।२१]
तत्र यद्भूमिकः कायस्तद्भूमिकं चक्षुरूर्ध्वभूमिकं वा चक्षुर्भवति न त्वधरभूमिकम् ।
[०३५।२१-०३५।२२]
यद्भूमिकं चक्षुस्तद्भूमिकमधरभूमिकं वा रूपं विषयो भवति ।
[०३५।२३]
ऊध्र्वं रूपं न चक्षुषः ।
[०३५।२४]
न हि कदाचिदूर्ध्र्वभूमिकं रूपमधोभूमिकेन चक्षुषा द्रष्टुं शक्यते ।
[०३५।२५]
विज्ञानं च
[०३५।२६]
ऊर्ध्व न चक्षुषो रूपवत् ।
[०३६।०१]
अस्य रूपं तु कायस्योभे च सर्वतः ॥ १.४६ ॥
[०३६।०२]
अस्येत्यनन्तरोक्तस्य चक्षुर्विज्ञानस्य रूपं सर्वतो विषयः ऊर्ध्वमधः स्वभूमौ च ।
[०३६।०३]
कायस्य चोभे रूपविज्ञाने सर्वतो भवतः ।
यथा चेचं चक्षुरुत्तं विस्तरेण वेदितव्यम्
[०३६।०४]
तथा श्रोत्रं
[०३६।०५-०३६।०६]
“न कायस्याधरं श्रोत्रमूर्ध्वं शब्दो न च श्रुतेः ।
विज्ञानं चास्य शब्दस्तु कायस्योभे च सर्वतः ॥”इति
[०३६।०७]
विस्तरेण योज्यम् ।
[०३६।०८]
त्रयाणां तु सर्वमेव स्वभूमिकम् ।
[०३६।०९]
घ्राणजिह्वाकायधातूनां कायविषयविज्ञानानि स्वभूमिकान्येव ।
[०३६।०९-०३६।१०]
इत्युत्सर्गविशेषेण कृत्वा पुनर्विशेषणार्थमपवाद आरभ्यते ।
[०३६।११]
कायविज्ञानमधरस्वभूमि
[०३६।१२]
कायः कायधातुः स्प्रष्टव्यं च स्वभूमिकान्येव नित्यं भवन्ति ।
[०३६।१२-०३६।१३]
कायविज्ञानं तु केषाञ्चित्स्वभूमिकं यथाकामधातुप्रथमध्यानोपपन्नाम् ।
[०३६।१३-०३६।१४]
केषाञ्चिदधरभूमिकं यथा द्वितीयादिध्यानोपपन्नानामिति ।
[०३६।१५]
अनियतं मनः ॥ १.४७ ॥
[०३६।१६-०३६।१७]
कदाचित्कायमनोविज्ञानधर्मैः समानभूमिकं मनो भवति कदाचिदूर्ध्वाधोभूमिकम् ।
[०३६।१७-०३६।१९]
पञ्चभूमिकेऽपि हि काये सर्वभूमिकानि मन आदीनि भवन्ति समापत्त्युपपत्तिकाले यथायोगमिति विस्तरेण समापत्तिनिर्देशे कोशस्थान एतदाख्यायिष्यते ।
[०३६।१९-०३६।२०]
अतिहहुग्रन्थभारपरिहारार्थं तु नेदानीं पुनराख्यायते ।
[०३६।२०]
अल्पं च प्रयोजनं महांश्च श्रम इति समाप्त आनुषङ्गिकः प्रसङ्गः ।
[०३६।२१]
इदमिदानीं विचार्यते ।
[०३६।२१-०३६।२२]
अष्टादशानां च्दातूनां षण्णां च विज्ञानानां कः केन विज्ञेयः ।
[०३६।२२]
आह ।
[०३६।२३]
पञ्च बाह्या द्विविज्ञेयाः
[०३६।२४-०३६।२५]
रूपशबगन्धरसस्प्रष्टव्यधातवो यथासंख्यं चक्षुःश्रोत्रघ्राणजिह्वाकायविज्ञानैरनुभूता मनोविज्ञानेन विज्ञायन्ते ।
[०३६।२५]
एवमेते प्रत्येकं द्वाभ्यां विज्ञानाभ्यां विज्ञेया भवन्ति ।
[०३६।२६-०३६।२७]
शेषास्त्रयोदश धातवः पञ्चानां विज्ञानकायानामविषयत्वादेकेन मनोविज्ञानेन विज्ञेया इत्याख्यातं भवति ।
[०३७।०१]
एषामष्टादशानां धातूनां मध्ये कति नित्याः कत्यनित्याः ।
[०३७।०१-०३७।०२]
न कश्च्त्सकलोऽस्ति नित्यो धातुरपि तु
[०३७।०३]
नित्या धर्मा असंस्कृताः ।
[०३७।०४]
तेन धार्मधात्वेकदेशो नित्यः शेषा अनित्याः ।
[०३७।०५]
कतीन्द्रियं कति नेन्द्रियम् ।
[०३७।०६]
धर्मार्धमिन्द्रियं ये च द्वादशाध्यात्मिकाः स्मृताः ॥ १.४८ ॥
[०३७।०७]
द्वाविंशतिरिन्द्रियाण्युक्तानि सूत्रे ।
[०३७।०७-०३७।११]
चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियं मनैन्द्रियं स्त्रीन्द्रियं पुरुषेन्द्रियं जीवितेन्द्रियं सुखेन्द्रियं दुःखेन्द्रियं सौमनस्येन्द्रियं दौर्मनस्येन्द्रैयमुपेक्षेन्द्रियं श्रद्धेन्द्रियं वीर्येन्द्रियं स्मृतीन्द्रियं स्माधीन्द्रियं प्रज्ञेन्दरियमनाज्ञातमाज्ञास्यामीन्दरियमाज्ञेन्द्रियमाज्ञातावीन्द्रियमिति ।
[०३७।११-०३७।१२]
आभिधार्मिकास्तु षडायतनव्यवस्थानमादृत्य जीवितेन्द्रियानन्तरं मनैन्द्रियं पठन्ति ।
[०३७।१२]
सालम्बनत्वात् ।
[०३७।१२-०३७।१३]
तत्र धर्मार्धं जीवितेन्द्रियादीन्येकादशेन्द्रियाणि त्रयाणां च भागो धर्मधातुप्रदेशत्वात् ।
[०३७।१३-०३७।१४]
द्वादशानामाध्यात्मिकानां चक्षुरादयः पञ्च स्वनामोक्ताः ।
[०३७।१४-०३७।१५]
सप्त चित्तधातवो मनैन्द्रियं स्त्रिपुरुषेन्द्रिये कायधातुप्रदेशिति पश्चाद्वक्ष्यति ।
[०३७।१५-०३७।१६]
शेषाः पञ्च धातवो धर्मधातुप्रदेशश्च नेन्द्रियमिति सिद्धम् ॥
[०३७।१७]
अभिधर्मकोशभाष्ये धातुनिर्देशो नाम
[०३७।१८]
प्रथमं कोशस्थानं समाप्तमिति ।
[०३७।१९-०३७।२१]
ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निर्होध एवंवादीउ महाश्रमणः ॥
[०३७।२२]
लिखापितमिदं श्रीलामावाकेनेति ।
द्वितीयं कोशस्थानम्
=====================================================================
[०३८।०२]
ओं नमो बुद्धाय ।
=====================================================================
[०३८।०३]
उक्तानीन्द्रियाणि ।
कः पुनरिन्द्रियार्थः ।
“इदि परमैश्वर्ये” ।
[०३८।०३-०३८।०४]
तस्य इन्दन्तीति इन्द्रियाणि ।
[०३८।०४]
अत आधिपत्यार्थ इन्द्रियार्थः ।
कस्य चैषां क्वाधिपत्यम् ।
[०३८।०५]
चतुर्ष्वर्थेषु पञ्चानामाधिपत्यं
[०३८।०६]
चक्षुःश्रोत्रयोस्तावत्प्रत्येकं चतुर्ष्वर्थेवाधिपत्यम् ।
[०३८।०६-०३८।०७]
आत्मभावशोभायामन्धबधिरयोरकान्तरूपत्वात् ।
[०३८।०७]
आत्मभावपरिकर्षणे दृष्ट्वा श्रुत्वा च विषमपरिवर्जनात् ।
[०३८।०८]
चक्षुःश्रोत्रविज्ञानयोः ससंप्रयोगयोरुत्पत्तौ ।
[०३८।०८-०३८।०९]
रूपदर्शनशब्दशारवणयोश्चासाधारणकारणत्वे ।
[०३८।०९]
घ्राणजिह्वाकायानामात्मभावशोभायां पूर्ववत् ।
[०३८।०९-०३८।१०]
आत्मभावपरिकर्षणे तैः कवडीकाराहारपरिभोगात् ।
[०३८।१०]
घ्राणादिविज्ञानानां ससंप्रयोगाणामुत्पत्तौ ।
[०३८।११]
गन्धघ्राणरसास्वादनस्प्रष्टव्यस्पऋशनानां चासाधारणकारणत्व इति ।
[०३८।१२]
द्वयोः किल ।
[०३८।१३]
चतुर्णां
[०३८।१४]
स्त्रीपुरुषजीवितमनैन्द्रियाणाम् ।
द्वयोरर्थयोः प्रत्येकमाधिपत्यम् ।
[०३८।१४-०३८।१५]
स्त्री पुरुशेन्द्रियय्योस्तावत्सत्त्वभेदविकल्पयोः ।
[०३८।१५]
तत्र सत्त्वभेदः स्त्रि पुरुष इति ।
[०३८।१५-०३८।१६]
सत्त्वविकल्पः स्तनादिसंस्थानस्वराचारान्यथात्वम् ।
[०३८।१६]
संस्लेशव्यवदानयोरित्यपरे ।
[०३८।१७-०३८।१८]
तथा हि तद्विप्रयुक्तविकल्पानां षण्ढ पण्डकोभयव्यञ्जनानामसंवरानन्तार्यकुआशलमुलसमुच्छेदा न भवन्ति संवरफलप्राप्तिवैराग्याणि चेति ।
[०३८।१९]
जीवितेन्द्रियस्य निकायसभागसंबन्धसाधारणयोः ।
[०३८।१९-०३८।२०]
मनैन्द्रियस्य पुनर्भवसंबन्धवशिभावानुवर्त्तनयोः ।
[०३८।२०-०३८।२२]
तत्र पुन्र्भवसंबन्धे यथोक्तं “गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरचित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वे”ति ।
[०३८।२२]
वशिभावानुवर्त्तने यथोक्तं “चित्तेनायं लोको नीयत” इति विस्तरः ।
[०३८।२२-०३८।२३]
यत्पुनः सुखादीन्द्रियपञ्चकं यानि चाष्टौ श्रद्धादीनि तेषां
[०३८।२४]
पञ्चकाष्टानं संक्लेशव्यवदानयोः ॥ २.१ ॥
[०३८।२५]
आधिपत्यं यथाक्रमं पञ्चानां सुखादीनां संक्लेशे ।
रागादीनां तदनुशायित्वात् ।
[०३८।२५-०३९।०१]
श्रद्धादीनां व्यवदाने ।
[०३९।०१]
तै र्व्यवदायते ।
व्यवदानेऽपि सुखादीनामाधिपत्यमित्यपरे ।
[०३९।०१-०३९।०२]
“यस्मात्सुखितस्य चित्तं समाधीयते” ।
[०३९।०२-०३९।०३]
दुःधुपनिषच्छ्रद्धाषण्नैष्क्रम्याश्रिताः सौमनस्यादय इति वैभाषिकाः ।
[०३९।०३]
अपरे पुनराहुः ।
[०३९।०३-०३९।०४]
नैव चक्षुःश्रीत्राभ्यामात्मभावपरिकऋषणं विज्ञाय विषमपरिहारात् ।
[०३९।०४]
विज्ञाने तु तयोराधिपत्यम् ।
[०३९।०४-०३९।०५]
नापि विज्ञानादन्यद्रूपदर्शनं शब्दश्रवणं वाऽस्ति ।
[०३९।०५]
यतस्तयोरसाधारणकारणत्वे पृथगाधिपत्यं युज्येत ।
[०३९।०५-०३९।०६]
तस्मान्नैवमेषामिन्द्रियत्वम् ।
[०३९।०६]
कथं तर्हि ।
[०३९।०७]
स्वार्थोपलब्ध्याधिपत्यात्सर्वस्य च षडिन्द्रियम् ।
[०३९।०८]
चक्षुरादीनांपञ्चानां स्वस्यस्वस्यार्थस्योपलब्धाधिपत्यम् ।
[०३९।०८-०३९।०९]
मनसः पुनः सर्वार्थोपलब्धावाधिपत्यम् ।
[०३९।०९]
अत एतानि षट्प्रत्येकमिन्द्रियम् ।
[०३९।०९-०३९।१०]
ननु चार्थानामप्यत्राधिपत्यम् ।
[०३९।१०]
नाधिपत्यम् ।
अधिकं हि प्रभुत्वमाधिपत्यम् ।
[०३९।१०-०३९।११]
चक्षुषश्चक्षूरूपोपलब्धावधिकमैश्वर्यम् ।
[०३९।११-०३९।१२]
सर्वरूपोपलब्धौ सामान्यकारणत्वात्तत्पटुमन्दताद्यनुविधानाच्चोपलब्धेः ।
[०३९।१२]
न रूपस्य ।
तद्वि पर्ययात् ।
एवं यावत्मनसो धर्मेषु योज्यम् ।
[०३९।१३]
स्रीत्व पुंस्त्वाधिपत्यात्तु कायात्स्त्रीपुरुषेन्द्रिये ॥ २.२ ॥
[०३९।१४]
कायेन्द्रियादेव स्त्रीपुरुषेन्द्रिये पृथक्व्यवस्थाप्येते ।
नार्थन्तरभूते ।
[०३९।१४-०३९।१५]
कश्चिदसौ कायेन्द्रियभाग उपस्थ प्रदेशो यः स्त्रीपुरुषेन्द्रियाख्यां परतिलभते ।
[०३९।१५-०३९।१६]
यथाक्रमं स्त्रीत्वपुंस्त्वय्योराधिपत्यात् ।
[०३९।१६]
तत्र स्त्रीभावः स्त्रियाकृतिः स्वरचेष्टा अभिप्रायाः ।
[०३९।१६-०३९।१७]
एतद्धि स्त्रिया स्त्रीत्वम् ।
[०३९।१७]
पुंभावः पुरुषाकृतिः स्वरचेष्टा अभिप्रायाः ।
एतद्धि पुंसः पुंस्त्वम् ।
[०३९।१८-०३९।१९]
निकायस्थितिसंक्लेशव्यवदानाधिपत्यतः ।
जीवितं वेदनाः पञ्च श्रद्धाद्याश्चेन्द्रियं मताः ॥ २.३ ॥
[०३९।२०]
निकायसभागस्थितौ जीवितेन्द्रियस्याधिपत्यं संक्लेशे वेदनानाम् ।
[०३९।२०-०३९।२१]
तथाहि सुखायां वेदनायां रागोऽनुशेते दुःखायां प्रतिघोऽदुःखासुखायामविद्येत्युक्तं सूत्रे ।
[०३९।२१-०३९।२२]
व्यवदाने श्रद्धादीनां पञ्चानाम् ।
[०३९।२२]
तथाहि तैः क्लेशाश्च विष्कभ्यन्ते मार्गश्चावाह्यते ।
[०३९।२३]
अत एतेऽपि प्रत्येकमिन्द्रियमिष्टाः ।
[०४०।०१]
आज्ञास्या म्याख्यमाज्ञाख्यमाज्ञातावीन्द्रियं तथा ।
[०४०।०२]
उत्तरोत्तरसंप्राप्तिनिर्वाणाद्याधिपत्यतः ॥ २.४ ॥
[०४०।०३]
प्रत्येकमिन्द्रिमित्युपदर्शनार्थं तथाशब्दः ।
[०४०।०३-०४०।०४]
तत्राज्ञास्यामीन्द्रियस्याज्ञेन्द्रियस्य प्राप्तावाधिपत्यम् ।
[०४०।०४]
आज्ञेन्द्रैयस्याज्ञातावीन्द्रियप्राप्तौ आज्ञातावीन्द्रियस्य परिनिर्वाणे ।
[०४०।०५]
नह्यविमुक्तचित्तस्यास्ति परिनिर्वाणमिति ।
आदिशब्दोऽन्यपर्यायद्योतनार्थः ।
[०४०।०६]
कतमोऽन्यः पार्यायः ।
दर्श्नहेयक्लेशपरिहाणं प्रत्याज्ञास्यामीन्द्रियस्याधिपत्यम् ।
[०४०।०७]
भावनाहेयक्लेआशप्रहाणं प्रत्याज्ञेन्द्रियस्य ।
दृष्टधर्मसुखविहारं प्रत्याज्ञातावीन्द्रियस्य ।
[०४०।०८]
विमुक्तिप्रीतिसुखसंवेदनादिति ।
[०४०।०८-०४०।०९]
आधिपात्यादिन्द्रियत्वेऽविद्यादीनामुपसंख्यानं कर्त्तव्यम् ।
[०४०।०९-०४०।१०]
अविद्यादीनामपि हि संस्कारादिष्वाधिपत्यमत एषामपीन्द्रियत्वमुपसंख्यातव्यम् ।
[०४०।१०]
वागादीनां च ।
वाक्याणिपादपायूपस्थानामपि चेन्द्रियत्वमुपसंख्यातव्यम् ।
[०४०।११]
वचनादानविहरणोत्सर्गानन्देष्वाधिपत्यात् ।
न खलूपसंख्यातव्यम् ।
यस्मादिहेष्टम्
[०४०।१२-०४०।१३]
चित्ताश्रयस्तद्विकल्पः स्थितिः संक्लेश एव च ।
संभारो व्यवदानं च यावता तावदिन्द्रियम् ॥ २.५ ॥
[०४०।१४]
तत्र चित्ताश्रयः षडिन्द्रियाणि ।
एतच्च षडायतनं मौलं सट्त्वद्रव्यम् ।
[०४०।१४-०४०।१६]
तस्य स्त्रीपुरुषविकल्पः स्त्रीपुरुषेन्द्रैयाभ्यां स्थितिर्जीवितेन्द्रियेण संक्लेशो वेदना भिः ।
[०४०।१६]
व्यवदानसंभरणं पञ्चभिर्व्यवदानं त्रिभिः ।
[०४०।१६-०४०।१७]
अतो नाविद्यादीनामिन्द्रियत्वमिष्टम् ।
[०४०।१८-०४०।१९]
प्रवृत्तेराश्रयोत्पत्तिस्थितिप्रत्युपभोगतः ।
चतुर्दश तथाऽन्यानि निवृत्तेरिन्द्रियाणि वा ॥ २.६ ॥
[०४०।२०]
मतविकल्पार्थो वाशब्दः ।
अपरे पुनराहुः ।
प्रवृत्तेरश्रयः षडिन्द्रियाणि ।
[०४०।२०-०४०।२१]
उत्पत्तिः स्त्रीपुरुषेन्द्रिये ।
[०४०।२१]
तत उत्पत्तेः ।
स्थितिर्जीवितेन्द्रियम् ।
तेनावस्थानात् ।
[०४०।२१-०४०।२२]
उपभोगो वेदनाभिः ।
[०४०।२२]
अत एतानि चतुर्दशेन्द्रियाणि ।
तेनैव प्रकारेण निवृत्तेरन्यानि ।
[०४०।२२-०४०।२३]
श्रद्धदीनि हि निवृत्तेराश्रयाः ।
[०४०।२३-०४०।२४]
आज्ञास्यामीन्द्रियं प्रभवः स्थितिराज्ञेन्द्रियमुपभोग आज्ञातावीन्द्रियेणेत्यत एतावन्त्येवेन्द्रियाणि ।
[०४०।२४]
अत एव चईषामेषोऽनुक्रमः ।
[०४०।२५]
वाचस्तु नेन्द्रियत्वं वचने शिक्षाविशेषापेक्षत्वात् ।
[०४०।२५-०४०।२६]
पाणिपादस्य चादानविहरणादनन्यत्वात् ।
[०४०।२६-०४०।२७]
तदेव हि तदन्यथाऽन्यत्र चोत्पन्नमादानं विहरणं चोच्यते ।
[०४०।२७]
विनापि च पाणिपादेनादानविहरणादुरगप्रभृतीणाम् ।
[०४०।२७-०४०।२८]
पायोरपि नेन्द्रियत्वमुत्सर्गे गुरुद्रव्यस्याकाशे सर्वत्र पतनात् ।
[०४०।२८]
वायुना च तत्प्रेरणात् ।
[०४१।०१]
उपस्थस्यापि नेन्द्रियत्वमानन्दे स्त्रीपुरुषेन्द्रियकृतं हि तत्सौख्यमिति ।
[०४१।०१-०४१।०३]
कण्ठदन्ताक्षिवर्त्मपर्वणामपि चाभ्यवहरणचर्वणोन्मेषनिमेषाकुञ्चनविकाशन क्रियास्विन्द्रियत्वं प्रसज्येत ।
[०४१।०३-०४१।०४]
सर्वस्य वा कारणभूतस्य स्वस्यां करियायामित्ययुकतं वागादीनामिन्द्रियत्वम् ॥
[०४१।०५]
तत्र चक्षुरादीनां पुरुषेन्द्रियपर्यन्तानां कृतो निर्देशः ।
[०४१।०५-०४१।०६]
जीवितेन्द्रियस्य विप्रयुक्तत्वाद्विप्रयुक्तेष्वेव करिस्यते निर्देशः ।
[०४१।०६]
श्रद्धादीनां चैत्तेषु करिष्यते ।
[०४१।०६-०४१।०७]
सुखादीनामाज्ञास्यामीन्द्रियादीनां च कर्त्तव्यः ।
[०४१।०७]
सोऽयं क्रियते ।
[०४१।०८]
दुःखेन्द्रियमशाता या कायिकी वेदना
[०४१।०९]
अशातेत्युपधातिका दुःखेत्यर्थः ।
[०४१।१०]
सुखम् ।
[०४१।११]
शाता
[०४१।१२]
सुखेन्द्रियं कायिकी शात वेदना ।
शातेत्यनुग्राहिका सुखेत्यर्थः ।
[०४१।१३]
ध्याने तृतीये तु चैतसी सा सुखेन्द्रियम् ॥ २.७ ॥
[०४१।१४]
तृतीये तु ध्याने सैव शाता वेदना चैतसी सुखेन्द्रियम् ।
[०४१।१४-०४१।१५]
नहि तत्र कायिकी वेदनाऽस्ति ।
[०४१।१५]
पञ्चविज्ञानकायाभावात् ।
[०४१।१६]
अन्यत्र सा सौमनस्यं
[०४१।१७-०४१।१८]
तृतीयाद्ध्यानादन्यत्र कामधातौ प्रथमे द्वितीये च ध्याने सा चैअतसिकी शाता वेदना सौमनस्येन्द्रियम् ।
[०४१।१८-०४१।१९]
तृतीये तु ध्याने प्रीतिवीतरागत्वात्सुखेन्द्रियमेव सा न सौमनस्येन्द्रियम् ।
[०४१।१९]
प्रीतिर्हि सौमनस्यम् ।
[०४१।२०]
अशाता चैतसी पुनः ।
[०४१।२१]
दौर्मनस्यमुपेक्षा तु मध्या
[०४१।२२]
नैवशातानाशाता अदुःखासुखा वेदना मध्येत्युच्यते ।
सोपेक्षेन्द्रियम् ।
[०४१।२२-०४१।२३]
किं कायिकी चैतसिकीत्याह ।
[०४१।२४]
उभयी
[०४१।२५]
किं पुनः कारणमियमभिसमस्यै कमिन्द्रियं क्रियते ।
[०४२।०१]
अविकल्पनात् ॥ २.८ ॥
[०४२।०२]
चैतसिकं हि सुखदुःखं प्रायेण विकल्पनादुत्पद्यते न तु कायिकम् ।
[०४२।०२-०४१।०३]
विषयवशादर्हतामप्युत्पत्तेः ।
[०४२।०३]
अतस्तयोरिन्द्रियत्वेन भेदः ।
[०४२।०३-०४२।०४]
उपेक्षा तु स्वरसेनाविकल्पयत एवोत्पद्यते कायिकी चैतसिकी चे त्येकमिन्द्रियं क्रियते ।
[०४२।०४-०४२।०५]
अन्यथा च कायिकं सुखमनुगृह्णात्यन्यथा चैतसिकम् ।
[०४२।०५]
एवं दुःखमन्यथा कायिकमुपहन्त्यन्यथा चैतसिकम् ।
[०४२।०५-०४२।०६]
उपेक्षायां त्वेष विकल्पो नास्त्यत उपेक्षणं प्रत्यविकल्पनादभेदः ।
[०४२।०७]
दृग्भावनाऽसैक्षपथे नव त्रीणि
[०४२।०८]
मनः सुखसौमनस्योपेक्षाः स्रद्धादीनि च पञ्च ।
[०४२।०८-०४२।०९]
तानि नवेन्द्रियाणि त्रिषु मार्गेषु त्रीणीन्द्रियाण्युच्यन्ते ।
[०४२।०९-०४२।१०]
दर्शनमार्गे अनाज्ञातमाज्ञास्यामीन्द्रियं भावनामार्गे आज्ञेन्द्रियमशैक्षमार्गे आज्ञातावीन्द्रियमिति ।
[०४२।१०]
किं कारणम् ।
[०४२।१०-०४२।११]
दर्शनमार्गे ह्यनाज्ञातमाज्ञातुं प्रवृत्तः ।
[०४२।११-०४२।१२]
भावनामार्गे नास्त्यपूर्वमाज्ञेयं तदेव त्वाजानाति शेषानुशयप्रहाणार्थम् ।
[०४२।१२]
अशैक्षमार्गे त्वाज्ञात्मित्यवगम आज्ञातावः ।
[०४२।१२-०४२।१३]
सोऽस्यास्तीति आज्ञातावी ।
[०४२।१३]
आज्ञातमवितुं शीलमस्येति वा ।
क्षयानुत्पादिज्ञानलाभात् ।
[०४२।१४]
“दुःखं मे परिज्ञातं न पुनः परिज्ञातव्यमिति” तथाभूतस्येन्रियमाज्ञातावीन्रियम् ।
[०४२।१५-०४२।१६]
स्वभावनिर्देशां कृत्वा प्रकारभेदो वक्तव्य कति सास्रवाणि कत्यनास्रवाणि इन्रियाणित्येवमादि ।
[०४२।१६-०४२।१७]
तत्र तावद्यदेतदनन्तरोक्तमाज्ञास्यामीन्रियादिकमेतत् ।
[०४२।१८]
अमलं त्रयम् ।
[०४२।१९]
अनास्रवमित्यर्थः ।
मलानामास्रवपर्यायत्वात् ।
[०४२।२०]
रूपीणि जीवितं दुःखे सास्रवाणि
[०४२।२१]
रूपीणि सप्तेन्द्रियाणि जीवितेन्द्रियं दुखःदौर्मनस्येन्द्रिये चैकान्तसास्रवाणि ।
[०४२।२२]
रूपीणि पुनः सप्त चक्षुः
श्रोत्रघ्राणजिह्वाकायस्त्रिपुरुषेन्द्रियाणि रूपस्कन्धसंग्रहात् ।
[०४२।२३]
द्विधा नव ॥ २.९ ॥
[०४२।२४-०४२।२५]
मनःसुखसौमनस्योपेक्षाः श्रद्धादीनि च पञ्च एतानि नवेन्द्रियाणि सास्रवाण्यनास्रवाण्यपि ।
[०४२।२५]
अनास्रवाण्येव श्रद्धादीनीत्येके ।
[०४२।२५-०४२।२७]
उक्तं हि भगवता “यस्येमानि पञ्चेन्द्रियाणि सर्वेण स्र्वं न सन्ति तमहं बाह्यं पृथग्जनपक्षावस्थितं वदामी”ति ।
[०४२।२७]
नेदं ज्ञापकमनास्रवाण्यधिकृत्य वचनात् ।
[०४२।२७-०४२।२८]
तथा ह्यार्यपुद्गलव्यवस्थानं कृत्वा यस्येमानीत्याह ।
[०४२।२८]
पृथग्जनो वा द्विविधः ।
[०४३।०१]
आभ्यन्तरकश्चासमुच्छिन्न कुशलमूलो बाह्यकश्च समुच्छिन्नकुशलमूलः ।
[०४३।०२]
तमधिकाऋत्याह “बाह्यं पृथग्जनपक्षावस्थितं वदामी”ति ।
[०४३।०२-०३२।०४]
उक्तं च सूत्रे “सन्ति च सत्त्वा लोके जाता लोके वृद्धास्तीक्ष्णेन्द्रिया अपि मध्येन्द्रिया अपि मृद्विन्द्रिया अपी” त्यप्रवर्त्तित एव धर्मचक्रे ।
[०४३।०४]
तस्मात्सन्त्येव सास्रवाणि श्रद्धादीनि ।
[०४३।०५-०४३।०७]
पुनश्चोक्तं “यावच्छाहमेषां पञ्चानामिन्द्रियाणां समुदयं चास्तगमं च स्वादं चादीनवं च निःसरणं च यथाभूतं नाध्यज्ञासिषं न तावदहमस्मात्सदेवकाल्लोकादि”ति विस्तरः ।
[०४३।०७]
न चानास्रवाणां धर्माणामेष परीक्षाप्रकारः ॥
[०४३।०८]
कतीन्द्रियाणि विपाकः कति न विपाकः ।
एकान्तेन तावत्
[०४३।०९]
विपाको जीवितं
[०४३।१०]
अथ यदर्हन् भिक्षुरायुःसंस्कारान् स्थापयति तज्जीवितेन्द्रियं कस्य विपाकः ।
[०४३।११]
शास्त्र उक्थं “कथमायुःसंस्कारान् स्थापयति ।
[०४३।११-०४३।१३]
अर्हन् भिक्षुः ऋद्धिमांश्चेतोवशित्वं प्राप्तः संघाय व पुद्गलाय वा पात्रः वा चीवरं वा अन्यतमान्यतमं वा श्रामणकं जीवितपरिष्कारं वा दत्त्वा तत्प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यते ।
[०४३।१४-०४३।१५]
स तस्मात्व्युत्थाय चित्तमुत्पादयति वाचं च भाषते यन्मे भोगविपाकं तदायुर्विपाकं भवत्विति ।
[०४३।१५]
तस्य यत्भोगविपाकं तदायुर्विपाकं भवति ।
[०४३।१५-०४३।१६
येषां पुनरयमभिप्रायो विपाकोच्छेषं विपच्यत इति ।
[०४३।१६-०४३।१७]
त आहुः पूर्वजातिकृतस्य कर्मणो विपाकोच्छेषम् ।
[०४३।१७]
स भावनाबलेनाकृष्य प्रतिसंवेदयत” इति ।
[०४३।१७-०४३।१८]
कथमायुःसंस्कारा नुत्सृजति ।
[०४३।१८]
तथईव दानं दत्त्वा प्रणिधाय प्रन्तकोटिकं चतुर्थं ध्यानं समापद्यत्
[०४३।१९]
यन्मे आयुर्विपाकं तत्भोगविपाकं भवत्विति तस्य तथा भवति ।
[०४३।२०]
भदन्तघोषकस्त्वाह ।
[०४३।२०-०४३।२१]
तस्मिन्नेव आश्रये रूपावचराणि महाभूतानि ध्यानबलेन संमुधकरोत्यायुषोऽनुकूलानि वैहोधिकानि च ।
[०४३।२१-०४३।२२]
एवमायुःसंस्कारान् स्थापयत्येवमुत्सृजतीति ।
[०४३।२२]
एवं तु भवितव्यम् ।
[०४३।२२-०४३।२४]
समाधिप्रभाव एव स तेषां तदृशो येन पूर्वकर्मजं च स्थितिकालावेधमिन्द्रियमहाभूतानां व्याव्र्त्तयन्त्यपूर्वं च समाधिजमावेधमाक्षिपन्ति ।
[०४३।२४]
तस्मान्न तज्जीवितेन्द्रियं विपाकं ततोऽन्यत्तु विपाकः ।
[०४३।२५]
प्रश्नात्प्रश्नान्तरमुपजायते ।
किमर्थमायुःसंस्कारानधितिष्ठन्ति ।
[०४३।२५-०४३।२६]
परहितार्थं शासन्स्थित्यर्थं वा ।
[०४३।२६]
ते ह्यात्मनः क्षीणमायुः पश्यन्ति ।
[०४३।२७]
न च तत्रान्यं शक्तं पश्यन्ति ।
अथ किमर्थमुत्सृजन्ति ।
[०४४।०१]
अल्पं च परहितं जीविते पश्यन्ति रोगाभिभूतं चात्मभावम् ।
यथोक्तं
[०४४।०२-०४४।०३]
“सुचीर्णे ब्रह्मचर्येऽस्मिन्मार्गे चैव सुभाविते ।
तुष्ट आयुःक्षयात्भवति रोगस्यापगमे यथा ॥”
[०४४।०४]
इति ।
अथैतदायुः संस्काराणां स्थापनार्थमुत्सर्जनं वा क्व कस्य वा वेदितव्यम् ।
[०४४।०५]
मनुष्येष्वेवत्रिषु द्वीपेषु स्त्रीपुरुषयोरसमयविमुक्तस्यार्हतः प्रान्तकोटिकध्यानलाभिनः ।
[०४४।०६]
तस्य हि समाधौ वशित्वम् ।
क्लेशैश्चानुपस्तब्धा सन्ततिः ।
[०४४।०६-०४४।०७]
सूत्र उक्तम् “भगवान् जीवितसंस्कारानधिष्ठायायुःसंस्कारानुस्त्सृष्टवान्” ।
[०४४।०७-०४४।०८]
तेषां को विशेषः ।
[०४४।०८]
न कश्चिदित्येके ।
तथा ह्युक्तम् “जीवितेन्द्रियं कतमत् ।
[०४४।०८-०४४।०९]
त्रैधातुकमायुरि”ति ।
[०४४।०९]
पूर्वकर्मफलमायुःसंस्काराः प्रत्युत्पन्नकर्मफलं जीवितसंस्कारा इत्यपरे ।
[०४४।१०]
यैर्वा निकायसभागस्थितिस्त आयुःसंस्काराः ।
[०४४।१०-०४४।११]
यैस्तु कालान्तरं जीवति ते जीवितसंस्कारा इति ।
[०४४।११-०४४।१२]
बहुवचनं बहूनामायुर्जीवितसंस्कारक्षणानामुत्सर्जना धिष्ठानात् ।
[०४४।१२]
नह्येकस्य क्षणस्योत्सर्जनमधिष्ठनं चास्ति ।
[०४४।१२-०४४।१३]
न च कालान्तरस्थावरमेकमायुर्द्रव्यमिति द्योतनार्थमित्येके ।
[०४४।१३-०४४।१४]
बहुश्वेव संस्कारेष्वायुराख्या नास्त्येकमायुर्द्रव्यम् ।
[०४४।१४]
अन्यथा नैव संस्कारग्रहणमकरिष्यदित्यपरे ।
[०४४।१४-०४४।१५]
किमर्थं पुनर्भगवता आयुह्संस्कारा उत्सृष्टाश्चाधिष्टिताश्च ।
[०४४।१५-०४४।१६]
मरणवशित्वज्ञापनार्थमुत्सृष्टाजीवितवशित्वज्ञापनार्थमधिष्टिताः ।
[०४४।१६]
त्रैमास्यमेव नोध्र्वं विनेयकार्याभावात् ।
[०४४।१७-०४४।१८]
यच्चापि तत्प्रतिज्ञातम् “एवंभावितैरहं चतुर्भिरृद्धि पादैराकाङ्क्षन्कल्पमपि तिष्ठेयं कल्पावशेषमपी”ति ।
[०४४।१८]
तस्यापि संपादनार्थम् ।
[०४४।१८-०४४।१९]
स्कन्धमरणमारयोर्निर्जयार्थमिति वैभषिकाः ।
[०४४।१९]
बोधिमूले क्लेशदेवपुत्रमारौ निर्जिताविति ।
[०४४।१९-०४४।२०]
निष्ठितमानुषङ्गिकम् ॥
[०४४।२१]
प्रकृतमेवारभ्यते ।
[०४४।२२]
द्वेधा द्वादश
[०४४।२३]
कतमानि द्वादश ।
[०४४।२४]
अन्त्याष्टकादृते ।
[०४४।२५]
दौर्मनस्याच्च
[०४४।२६]
अन्त्यमष्टकं श्रद्धादीनि दौर्मनस्यं च वर्जयित्वा ।
[०४४।२७-०४५।०१]
जीवितेन्द्रियादन्यानि द्वादश द्विविधानि विपाकश्चाविपाकश्च ।
[०४५।०१]
तत्र चक्षुरादीनि सप्तौपचयिकानि अविपाकः ।
शेषाणि विपाकः ।
[०४५।०२]
मनोदुःखसुखसौमनस्योपेक्षेन्द्रियाणि कुशलक्लिष्टान्य विपाकः ।
[०४५।०२-०४५।०३]
ऐर्यापथिकशाइल्पस्थानिकनैर्माणिकानि च यथायोगम् ।
[०४५।०३]
शेषाणि विपाकः ।
[०४५।०३-०४५।०४]
जीवितेन्द्रियं चक्षुरादीनि द्वादश हित्वा शेषाण्यविपाक इति सिद्धम् ।
[०४५।०४-०४५।०५]
यदि दौअर्मनस्येन्द्रियं न विपाक इति सूत्रं कथं नीयते “त्रीणि कार्याणि ।
[०४५।०५-०४५।०६]
सौमनस्यवेदनीयं कर्म दौर्मनस्यवेदनीयं कर्म उपेक्षा वेदनीयं कर्मे”ति संप्रयोगवेदनीयतामधिकृत्योक्तम् ।
[०४५।०६-०४५।०७]
दौर्मस्येन संप्रयुक्तं कर्म दौर्मनस्यवेदनीयम् ।
[०४५।०७]
यथा सुखसंपरयुक्तः स्पर्शः सुखवेदनीयः ।
[०४५।०७-०४५।०८]
सौमनस्योपेक्षावेदनीये अपि तर्हि कर्मणी एवं भविष्यतः ।
[०४५।०८]
यथेच्छसि तथाऽस्तु ।
[०४५।०८-०४५।०९]
संप्रयोगेऽपि न दोषः विपाकेऽपि न दोषः ।
[०४५।०९]
अगत्या ह्येतदेवं गम्येत ।
[०४५।०९-०४५।१०]
का पुन्रत्र युक्तिर्दौर्मनस्यं न विपाक इति ।
[०४५।१०]
दौर्मनस्यं हि परिकल्पविशेषैरुत्पाद्यते च व्युपशाम्यते च ।
[०४५।१०-०४५।११]
नचैवं विपाकः ।
[०४५।११]
सौमनस्यमप्येवं न स्याद्विपाकः ।
[०४५।११-०४५।१२]
यदि तर्हि दौमनस्यं विपाकः स्यादानन्तर्यकारिणां तन्निमित्तं दौर्मनस्योत्पादात्तत्कर्म विपक्वं स्यात् ।
[०४५।१३]
सौमनस्यमप्येवम् ।
[०४५।१३-०४५।१४]
यदि सौमनस्यं विपाकः स्यात्पुण्यकारिणां तन्निमित्तं सौमनस्योत्पादात्तत्कर्म विपक्वं स्यात् ।
[०४५।१४]
वीतरागाणां तर्हि दौर्मनस्यासंभवात् ।
[०४५।१४-०४५।१५]
न चैवं विपाकः ।
[०४५।१५]
सौमनस्यमप्येषामव्याकृतं कोदृशं विपाकः स्यात् ।
यादृशं तादृशमस्तु ।
[०४५।१६]
सति तु संभवे सौमनस्यस्यास्ति विपाकावकाशी न दौअर्मनस्यस्य ।
[०४५।१६-०४५।१७]
सर्वथाऽसमुदाचारादिति नास्त्येवं दौर्मनस्यं विपाक इति वैभाषिकाः ।
[०४५।१७-०४५।१८]
तत्र जीवितेन्द्रियाष्टमानि सुगतौ कुशलस्य विपाको दुर्गतावकुशलस्य ।
[०४५।१८]
मनैन्द्रियमुभयोरुभयस्य ।
[०४५।१८-०४५।१९]
सुखसौमनस्योपेक्षेन्द्रियाणि कुशलस्य ।
[०४५।१९]
दुःखेन्द्रियमकुशलस्य ।
[०४५।१९-०४५।२०]
सुगताबुभयव्यञ्जनस्याकुशलेनतत्स्थानप्रतिलम्भः ।
[०४५।२०]
नत्विन्द्रियस्य कुशलाक्षेपात् ।
गतमेतद् ।
[०४५।२१]
इदं नु वक्तव्यम् ।
कतीन्द्रियाणि सविपाकानि कत्यविपाकानि ।
[०४५।२१-०४५।२२]
यदेतत्दौर्मनस्यमनन्तरोक्तं
[०४५।२३]
तत्त्वेकं सविपाकम् ।
[०४५।२४]
तदेकं सविपाकमेव ।
तुशब्द एवकारार्थो भिन्नक्रमश्च वेदितव्यः ।
[०४५।२४-०४५।२५]
नहि तदव्याकृतमस्ति नाप्यनास्रवमसमाहितत्वात् ।
[०४५।२५]
अतो नास्त्यविपाकं दौर्मनस्यम् ।
[०४५।२६]
दश द्विधा ॥ २.१० ॥
[०४५।२७]
सविपाकान्यविपाकानि च ।
कतमानि दश ।
[०४६।०१]
मनोऽन्यवित्तिश्रद्धादीनि
[०४६।०२]
अन्यवित्तिग्रहणात्दौर्मनस्यादन्यत्वेदितं गृह्यते ।
[०४६।०२-०४६।०३]
श्रद्धादीनि श्रद्धावीर्यस्मृतिसमाछिप्रज्ञाः ।
[०४६।०३-०४६।०४]
तत्र मनःसुखसौमनस्योपेक्षा अकुआशलाः कुशलाः सास्रवाश्च सविपाकाः ।
[०४६।०४]
अनास्रवा अव्याकृताश्चाविपाकाः ।
[०४६।०४-०४६।०५]
दुःखेन्द्रियं कुशलाकुआशलं सविपाकमव्याकृतमविपाकम् ।
[०४६।०५]
श्रद्धादीनि सस्रवाणि सविपाकान्यनास्रवाण्यविपाकानि ।
[०४६।०६]
अन्यदविपाकमिति सिद्धम् ।
[०४६।०७]
कति कुशलानि कत्यकुशलानि कत्यव्याकृतानि ।
एकान्तेन तावत् ।
[०४६।०८]
अष्टकं कुशलं
[०४६।०९]
पञ्चश्रद्धादीनि त्रीणि चाज्ञास्यामीन्द्रियादीनि ।
[०४६।१०]
द्विधा ।
[०४६।११]
दौर्मनस्यम् ।
[०४६।१२]
कुशलं चाकुशलं च ।
[०४६।१३]
मनोऽन्या च वित्तिस्त्रेधा
[०४६।१४]
कुशलाकुशलाव्याकृतानि ।
[०४६।१५]
अन्यदेकधा ॥ २.११ ॥
[०४६।१६]
किञ्चिदन्यत् ।
जीविताष्टमं चक्षुरादि ।
एतदव्याकृतमेव ॥
[०४६।१७]
कतमदिन्द्रियं कतमधात्वाप्तमेषामिन्द्रियाणाम् ।
[०४६।१८]
कामाप्तममलं हित्वा ।
[०४६।१९]
कामप्रतिसंयुक्तं तावदिन्द्रियं वेदितव्यम् ।
[०४६।१९-०४६।२०]
एकान्तानास्रवमाज्ञास्यामीन्द्रियादित्रयं हित्वा ।
[०४६।२०]
तद्ध्यप्रतिसंयुक्तमेव ।
[०४६।२१]
रूपाप्तं स्त्रीपुमिन्द्रिये ।
[०४६।२२]
दुःखे च हित्वा
[०४६।२३]
अमलं चेति वर्त्तते ।
दुःखे इति दुःखदौर्मनस्ये ।
[०४६।२३-०४६।२४]
तत्र मैथुनधर्मवैराग्यादशोभाकरत्वाच्च रूपधातौ स्त्रीपुरुषेन्द्रिये न स्तः ।
[०४६।२४]
कथमिदानीं पुरुषास्त उच्यन्ते ।
[०४६।२५]
क्वोच्यन्ते ।
सूत्रे ।
[०४६।२५-०४६।२६]
“अस्थानमनवकाशो यत्स्त्री ब्रह्मत्वं कारयिष्यति ।
[०४६।२६]
नेदं स्थानं विद्यते ।
स्थानमेतत्विद्यते यत्पुरुष” इति ।
[०४६।२६-०४६।२७]
अन्यः पुरुषभावो यः कामछातौ पुरुषाणां भवति ।
[०४६।२७-०४६।२८]
दुःखेन्द्रियं नास्त्याश्रयस्याच्छत्वादकुशला भावाच्छ ।
[०४६।२८]
दौर्मनस्येन्द्रियं नास्ति शमथस्निग्धसन्तानत्वादाघातवस्त्वभावाच्च ।
[०४७।०१-०४७।०१]
आरूप्याप्तं सुखे चापोह्य रूपि च ॥ २.१२ ॥
[०४७।०२]
स्त्रीपुरुषेन्द्रिये दुःखे चामलं हित्वेति वर्त्तते ।
किमवशाइष्यते ।
[०४७।०२-०४७।०३]
मनोजीवितोपेक्षेन्द्रियाणि श्रद्धादीनि च पञ्च ।
[०४७।०३]
एतान्यारूप्यप्रतिसंयुक्तानि सन्ति नान्यानि ।
[०४७।०४]
कतीन्द्रियाणि दर्शनप्रहातव्यानि कति भावनाप्रहातव्यानि कत्यप्रहातव्यानि ।
[०४७।०५]
मनोवित्तित्रयं त्रेधा
[०४७।०६]
कतमद्वित्तित्रयम् ।
सुखसौमनस्योपेक्षाः ।
[०४७।०७]
द्विहेया दुर्मनस्कता ।
[०४७।०८]
दौअर्मनस्यं द्वाभ्यां प्रहेयं दर्शनभावनाभ्याम् ।
[०४७।०९]
नव भावनया ।
[०४७।१०]
हेयानीत्यधिकारः ।
जीविताष्टमानि चक्षुरादीनि दुःखेन्द्रियं च भावनाहेयान्येव ।
[०४७।११]
पञ्च त्वहेयान्यपि
[०४७।१२]
श्रद्धादीनि पञ्च भावनाहेयान्यप्यहेयान्यपि ।
सास्रवानास्रवत्वात् ।
[०४७।१३]
न त्रयम् ॥ २.१३ ॥
[०४७।१४]
त्रयं नैव प्रहेयमाज्ञास्यामीन्द्रियादिकमनास्रवत्वात् ।
नहि निर्दोषं प्रहाणार्हम् ।
[०४७।१५]
उक्तः प्रकारभेदः ।
[०४७।१६]
लाभ इदानीं वक्तव्यः ।
[०४७।१६-०४७।१७]
कतीन्द्रियाणि कस्मिन्धातौ विपाकः प्रथमतो लभ्यन्ते ।
[०४७।१८]
कामेष्वादौ विपाको द्वे लभ्यते
[०४७।१९]
कायेन्द्रियं जीवितेन्द्रियं च ।
ते पुनः
[०४७।२०]
नोपपादुकैः ।
[०४७।२१]
उपपादुकप्रतिषेधादण्डजजरायुजसंस्वेदजईरिति वेदितव्यम् ।
कस्मान्न मनौपेक्षेन्द्रिये ।
[०४७।२२]
प्रतिसन्धिकाले तयोरवश्यं क्लिष्टत्वात् ।
अथोपपादुकैः कति लभ्यन्ते ।
[०४७।२३]
तैः षड वा
[०४७।२४]
यद्यव्यञ्जना भवन्ति ।
यथा प्राथमकल्पिकाः ।
कतमानि षट् ।
[०४७।२४-०४७।२५]
चक्षुःश्रोत्रघ्राणजिह्वाकायजीवितेन्द्रियाणि ।
[०४८।०१]
सप्त वा
[०४८।०२]
यद्येकव्यञ्जना भवन्ति ।
[०४८।०२-०४८।९२]
यथा देवादिषु ।
[०४८।०३]
अष्टौ वा
[०४८।०४]
यद्युभयव्यञ्जना भवन्ति ।
किं पुनरुभयव्यञ्जना अप्युपपादुका भवन्ति ।
[०४८।०४-०४८।०५]
भवन्त्यपायेषु
[०४८।०५]
एवं तावत्कामधातौ ।
अथ रूपधातावारूप्यधातौ च कथमित्याह ।
[०४८।०६]
षड्रूपेषु
[०४८।०७]
कामप्रधानत्वात्कामधातुः कामा इति निर्दिश्यते ।
[०४८।०७-०४८।०८]
रूपप्रधानत्वाद्रूपधातू रूपाणीति ।
[०४८।०८-०४८।०९]
सूत्रेऽप्युक्तं “येऽपि ते भिक्षवः शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्या” इति ।
[०४८।०९]
तत्र रूपधातौ षड्डिन्द्रियाणि विपाकः परथमतो लभ्यन्ते ।
[०४८।०९-०४८।१०]
यान्येव कामधातावव्यञ्जनैअरुपपादुकैः
[०४८।११]
एकमुत्तरे ॥ २.१४ ॥
[०४८।१२]
रूपधातोरारूप्यधातुरुत्तरः ।
समापत्तितश्च परत्वादुपपत्तितश्च प्रधानतरत्वात् ।
[०४८।१३]
तस्मिनेकमेव जीवितेन्द्रियं विपाकः प्रथमतो लभ्यते नान्यत् ।
[०४८।१४]
उक्तो लाभः ।
[०४८।१५]
त्याग इदानीं वक्तव्यः ।
कस्मिन्धातौ म्रियमाणः कतीन्द्रियाणि निरोधयतीति
[०४८।१६]
निरोधयत्युपरमान्नारूप्ये जीवितं मनः ।
[०४८।१७]
उपेक्षां चैव रूपेऽष्टौ
[०४८।१८]
रूपधातौ म्रियल्माणोऽष्टौ निरोधयति ।
तानि च त्रीणि चक्षुरादीनि पञ्च ।
[०४८।१८-०४८।१९]
सर्वे ह्युपपादुकाः समग्रेन्द्रिया उपपद्यन्ते म्रियन्ते च ।
[०४८।२०]
कामे दश नवाष्टौ वा ॥ २.१५ ॥
[०४८।२१]
कामधातौ म्रियमाण उभयव्यञ्जनी दशेन्द्रियाणि निरोधयति ।
[०४८।२१-०४८।२२]
तानि चाष्टौ स्त्री पुरुषेन्द्रिये च ।
[०४८।२२]
एकव्यञ्जनो नव ।
अव्यञ्जनोऽष्टौ ।
सकृन्मरण एष न्यायः ।
[०४८।२३]
क्रममृत्यौ तु चत्वारि ।
[०४८।२४]
क्रमेण तु म्रियमाणश्चत्वारीन्द्रियाणि निरोधयति ।
कायजीवितमनौपेक्षेन्द्रियाणि ।
[०४८।२५]
नह्येषां पृथग्निरोधः ।
एष च न्यायः क्लिष्टाव्याकृतचित्तस्य मरणे वेदितव्यः ।
[०४८।२६]
यदा तु कुशले चेतसि स्थितो म्रियते तदा
[०४९।०१]
षुभे सर्वत्र पञ्च च ।
[०४९।०२]
कुशले चेतसि म्रियमाणः सर्वत्र यथोक्तमिन्द्रियाणि निरोधयति ।
[०४९।०२-०४९।०३]
श्रद्धादीनि च पञ्चाधिकानि ।
[०४९।०३]
एषां कुशले चेतस्यवश्यंभावः ।
[०४९।०३-०४९।०४]
एवमारूप्येष्वष्टौ निरोधयति रूपेषु त्रयोदशाएति विस्तरेण गणनीयम् ।
[०४९।०५]
इन्द्रियप्रकरणे सर्व इन्द्रियधर्मा विचार्यन्ते ।
[०४९।०५-०४९।०६]
अथ कतमच्छ्रामण्यफलं कतिभिरिन्द्रियैः प्राप्यते ।
[०४९।०७]
नवाप्तिरन्त्य फलयोः
[०४९।०८]
नवभिरिन्द्रियैः प्रप्तिरन्त्यफलयोः ।
के पुनरन्त्ये ।
स्रोत आपत्तिफलमर्हत्त्वं च ।
[०४९।०९]
के मध्ये ।
सकृदागामिफलमनागामिफलं च ।
[०४९।०९-०४९।१०]
तत्र स्रोत आपत्तिफलस्य श्रद्धादिभिराज्ञातावीन्द्रियवर्ज्यैर्मनौपेक्षेन्द्रियाभ्यां चेति नवभिः ।
[०४९।१०-०४९।११]
आज्ञास्यामीन्द्रियमानन्तर्यमार्गे वेदितव्यमाज्ञेन्द्रियं च विमुक्तिमार्गे ।
[०४९।११-०४९।१२]
उभाभ्यां हि तस्य प्राप्तिर्विसंयिओगप्राप्तेरावाहकसन्निश्रयत्वाद्यथाक्रमम् ।
[०४९।१२-०४९।१३]
अर्हत्त्वमस्य पुनः श्रद्धादिभिराज्ञास्यामीन्द्रियवर्ज्यैर्मनैन्द्रियेण सुखसौमनस्योपेक्षेन्द्रियाणां चान्यतमेनेति नवभिः ।
[०४९।१४]
सप्ताष्ट्नवभिर्द्वयोः ॥ २.१६ ॥
[०४९।१५]
सकृदागाम्यनागामिफलयोः प्रत्येकं सप्तभिरष्टभिर्नवभिष्चेन्द्रियैः प्राप्तिः ।
[०४९।१५-०४९।१६]
कथं कृत्वा ।
[०४९।१६-०४९।१७]
सकृदागामिफलं तावद्यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः ।
[०४९।१७]
पञ्चभिः श्रद्धादिभिरुपेक्षामनैन्द्रियाभ्यां चेति ।
[०४९।१७-०४९।१८]
अथ लोकोत्तरेण मार्गेण तस्याष्टभिरिन्द्रियै प्रप्तिः ।
[०४९।१८]
आज्ञेन्द्रियमष्टमं भवति ।
[०४९।१८-०४९।१९]
अथ भूयोवीतरागः प्राप्नोति तस्य नवभिर्येनेव स्रोत आपत्तिफलस्य ।
[०४९।१९-०४९।२०]
अनागामिफलं यद्यानुपूर्विकः प्राप्नोति स च लौकिकेन मार्गेण तस्य सप्तभिरिन्द्रियैः प्राप्तिः ।
[०४९।२१]
यथा सकृदागामिफलस्य ।
[०४९।२१-०४९।२२]
अथ लोकोत्तरेण मार्गेण तस्याष्टभिस्तथैव ।
[०४९।२२]
अथ वीतरागः प्राप्नोति तस्य नवभिः ।
[०४९।२२-०४९।२३]
यथा स्रोत आपत्तिफलस्य ।
०४९२३-०४९२३]
अयं तु विशेषः ।
[०४९।२३-०४९।२४]
सुखसौमनस्योपेक्षेन्द्रियाणामन्यतमं भवति ।
[०४९।२४]
निश्रयविशेषात् ।
[०४९।२४-०४९।२६]
यदाप्ययमानुपूर्विको नवमे विमूक्तिमार्गे तीक्ष्णेन्रियत्वा द्ध्यानं प्रविशाति लौकिकेन मार्गेण तदाप्यष्टाभिरिन्द्रियैरनागामिफलं प्राप्नोति ।
[०४९।२६]
तत्रहि नवमे विमुक्तिमार्गे सौमनस्येन्द्रियमष्टमम् ।
[०४९।२६-०४९।२७]
भवत्यान
न्तर्यमार्गे तूपेक्षेन्द्रियमेव नित्यमुभाभ्यां च तस्य प्राप्तिः ।
[०४९।२७-०४९।२८]
अथ लोकोत्तरेण प्रविशाति तस्य नवभिरिन्द्रियैः प्राप्तिः ।
[०४९।२८]
आज्ञेन्रियं नवमं भवति ।
[०४९।२८-०५०।०१]
यत्तर्ह्यभिधर्म उक्तं “कतिभिरिन्द्रियैरर्हत्त्वं प्रप्नोतीत्याह एकादश्भ्हिरिति” ।
[०५०।०१-०५०।०२]
तत्कथं नवभिरित्युच्यते ।
[०५०।०२]
नवभिरेव तत्प्राप्नोति ।
[०५०।०३]
एकादशभिरर्हत्तवमुक्तं त्वेकस्य संभवात् ।
[०५०।०४-०५०।०५]
अस्ति संभवो यदेकः पुद्गलः परिहाय परिहाय सुखसौमनस्यीपेक्षाभिरर्हत्त्वं प्राप्नुयादत एकादशभिरित्युक्तम् ।
[०५०।०५-०५०।०६]
नतु खलु संभवोऽस्ति सुखादीनामेकस्मिन् काले ।
[०५०।०६]
कथमनागाभिनोऽप्येष प्रसङ्गो न भवति ।
[०५०।०६-०५०।०७]
नह्यसौ परिहीणः कदाचित्सुखेन्द्रियेण प्राप्न्नोति न च वीतरागपूर्वी परिहीयते ।
[०५०।०७-०५०।०८]
तद्वैराग्यस्य द्विमार्गप्रापणात् ।
[०५०।०९]
इदं विचार्यत्
कतमेनेन्द्रियेण समन्वागतः कतिभिः अवश्यं समन्वागतो भवति ।
[०५०।१०]
तत्र
[०५०।११]
उपेक्षाजीवितमनोयुक्तोऽवश्यं त्रयान्वितः ॥ २.१७ ॥
[०५०।१२-०५०।१३]
य एषामुपेक्षादीनामन्यतमेन समन्वागतः सोऽवश्यं त्रिभिरिन्द्रियैः समन्वागतो भवत्येभिरेव ।
[०५०।१३]
नह्येषामन्योऽय्नेन विना समन्वागमः ।
शेषैस्त्वनियमः ।
[०५०।१३-०५०।१४]
स्यात्समन्वागतः स्यादसमन्वागतः ।
[०५०।१४-०५०।१५]
तत्र तावच्चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियै रारूप्योपपन्नो न समन्वागतः ।
[०५०।१५]
कामधातौ च येनाप्रतिलब्धविहीनानि ।
[०५०।१५-०५०।१६]
कायेन्द्रियेणारूप्योपपन्नो न समन्वागतः ।
[०५०।१६]
स्त्रीन्द्रियेण रूपारूप्योपपन्नः ।
कामधतौ येनाप्रतिलब्धविहीनम् ।
[०५०।१६-०५०।१७]
एवं पुरुषेन्द्रियेण ।
[०५०।१७]
सुखेन्द्रियेण चतुर्ध्यानारूप्योपपन्नः पृथग्जनो न समन्वागतः ।
[०५०।१८]
सौमनस्येन्द्रियेण तृतीयचतुर्थध्यानारूप्योपपन्नः पृथग्जन एव ।
[०५०।१८-०५०।१९]
दुःखेन्द्रियेण रूपारूप्योपपन्नः ।
[०५०।१९]
दौर्मनस्येन कामवीतरागः ।
[०५०।१९-०५०।२०]
श्रद्धादिभिः समुच्छिन्नकुशलमूलः ।
[०५०।२०]
आज्ञास्यामीन्द्रियेण पृथग्जनफलथानसमन्वागताः ।
[०५०।२०-०५०।२१]
आज्ञेन्द्रियेण पृथग्जनदर्शनाशैक्षमार्गस्थाः ।
[०५०।२१]
आज्ञातावीन्द्रियेण पृथग्जनशैक्षैक्ष्या असमन्वागताः ।
[०५०।२२]
अप्रतिपिद्धास्ववस्थासु यथोक्तसमन्वागतो वेदितव्यः ।
[०५०।२३]
चतुर्भिः सुख कायाभ्यां
[०५०।२४-०५०।२५]
यः सुखेन्द्रियेण समन्वागतः सोऽवश्यं चतुर्भिरिन्द्रियैस्तैश्च त्रिभिरुपेक्षादिभिः सुखेन्द्रियेण च ।
[०५०।२५]
यः कायेन्द्रियेण सोऽपि चतुर्भिस्तैश्च त्रिभिः कायेन्द्रियेण च ।
[०५१।०१]
पञ्चभिश्चक्षुरादिमान् ।
[०५१।०२]
यश्चक्षुरिन्द्रियेण सोऽवश्यं पञ्चभिरुपेक्षाजीवितमनः कायेन्द्रियैस्तेन च्
[०५१।०२-०५१।०३]
एवं श्रोत्रघ्राणजिह्वेन्द्रियैर्वेदितव्यम् ।
[०५१।०४]
सौमनस्यी च
[०५१।०५]
यश्चापि सौमनस्येन्द्रियेण सोऽवश्यं पञ्चभिरुपेक्षाजीवितमनःसुखसौमनस्यैः ।
[०५१।०६]
द्वितीयध्यानजस्तृतीयध्यानालाभी कतमेन सुखेन्द्रियेण समन्वागतो भवति ।
[०५१।०७]
क्लिष्टेन तृतीयध्यानभूमिकेन ।
[०५१।०८]
दुःखी तु सप्तभिः ।
[०५१।०९]
यो दुःखेन्द्रियेण सोऽवश्यं सप्तभिः कायजीवितमनोभिश्चतुर्भिर्वेदनेन्द्रियैः ।
[०५१।१०]
स्त्रीन्द्रियादिमान् ॥ २.१८ ॥
[०५१।११]
अष्टाभिः
[०५१।१२]
यः स्त्रीन्द्रियेण समन्वागतः सोऽवश्यमष्टभिः तैश्च सप्तभिः स्त्रीन्द्रियेणच ।
[०५१।१३]
आदिशब्देन पुरुषेन्द्रियदौर्मनस्यशरद्धादीनां संग्रहः ।
[०५१।१३-०५१।१४]
तद्वानपि प्रत्येकमष्टाभिः समन्वागतो भवति ।
[०५१।१४]
तैश्च सप्तभिरष्टमेन च पुरुषेन्द्रियेण ।
एवं दौर्मनस्येन्द्रियेण ।
[०५१।१४-०५१।१५]
श्रद्धादिमांस्तु तैश्च पञ्चभिरुपेक्षाजीवितमनोभिश्च ।
[०५१।१६]
एकादशभिस्त्वाज्ञाज्ञातेन्द्रियान्वितः ।
[०५१।१७]
आज्ञात इन्द्रियमाज्ञातेन्द्रियम् ।
[०५१।१७-०५१।१८]
य आज्ञातेन्द्रियेण समन्वागतः सोऽवश्यमेकादशभिः सुखसौमनस्योपेक्षाजीवितमनश्रद्धादिबहिराज्ञेन्द्रियेण च ।
[०५१।१९]
एवमाज्ञा तावीन्द्रियेणापि ।
तैरेव दशभिराज्ञातावीन्द्रियेण च ।
[०५१।२०]
आज्ञास्यामीन्द्रियोपेतस्त्रयोदशभिरन्वितः ॥ २.१९ ॥
[०५१।२१]
कतमैस्त्रयोदशभिः ।
[०५१।२१-०५१।२२]
मनोजीवितकायेन्द्रियैः चतसृभिर्वेदनाभिः श्रद्धादिभिराज्ञास्यामीन्द्रियेण च ॥
[०५१।२३]
अथ यः स्र्वाल्पैः समन्वागतः स कियद्भिरिन्द्रियैः ।
[०५१।२४]
सर्वाल्पैर्निःशुभोऽष्टाभिर्विन्मनःकायजीवितैः ।
[०५१।२५]
युक्तः
[०५१।२६]
समुच्छिन्नकुशमूलो निःशुभः ।
स सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः ।
[०५१।२६-०५२।०१]
पञ्चभिर्वेदनादिभिः कायमनोजीवितैश्च ।
[०५२।०१]
वेदना हि वित्वेदयत इति कृत्वा ।
वेदनं वा वित् ।
[०५२।०२]
यथा संपदनं संपत् ।
यथा च निःशाउभः सर्वाल्पैरष्टाभिरिन्द्रियैर्युक्तः
[०५२।०३]
बालस्तथारूप्ये
[०५२।०४]
बाल इति पृथग्जनस्याख्या ।
कतमैरष्टाभिः ।
[०५२।०५]
उपेक्षायुर्मनःशुभैः ॥ २.२० ॥
[०५२।०६]
उपेक्षाजीवितमनोभिः श्रद्धादिभिश्च ॥
[०५२।०६-०५२।०७]
एकान्तकुशलत्वात्श्रद्धादीनि शुभग्रहणेन गृह्यन्ते ।
[०५२।०७]
आज्ञास्यामीन्द्रियादीनामपि ग्रहणप्रसङ्गः ।
न ।
[०५२।०७-०५२।०८]
अष्टाधिकाराद्द्वालाधिकाराच्च ॥
[०५२।०९]
अथ यः सर्वबहुभिरिन्द्रियैः समन्वागतः स कियद्भिः ।
[०५२।१०]
बहुभिर्युक्त एकान्नविंाशत्याऽमलवर्जितैः ।
[०५२।११]
अना स्रवणि त्रीणि वर्जयित्वा ।
स पुनः ।
[०५२।१२]
द्विलिङ्गः
[०५२।१३]
द्विव्यञ्जनो यः समग्रेन्द्रियः एकान्नविंशत्या समन्वागतः ।
कश्चापरः ।
[०५२।१४]
आर्यो रागी
[०५२।१५]
अवीतरागोऽपि शैक्षः सर्वबहुभिरेकान्नविंशत्या समन्वागतः ।
[०५२।१६]
एकलिङ्गद्वयमलवर्जितैः ॥ २.२१ ॥
[०५२।१७]
एकं व्यञ्जनं द्वे चानास्रवे वर्जयित्वा ।
आज्ञातावीन्द्रियं द्वयोशाचान्यतरत् ।
[०५२।१७-०५२।१८]
उक्त इन्द्रियाणां धातुप्रभेदप्रसङ्गेनागतानां विस्तरेण प्रभेदः ।
[०५२।१९]
इदमिदानीं विचार्यते ।
[०५२।१९-०५२।२०]
किमेते संस्कृता धर्मा यथा भिन्नलक्षणा एवं भिन्नोत्पादा उताहो नियतसहोत्पादा अपि केचित्सन्ति ।
[०५२।२०]
सन्तीत्याह ।
[०५२।२०-०५२।२१
सर्व इमे धर्माः पञ्च भवन्ति ।
[०५२।२१]
रूपं चित्तं चैतसिकाश्च्त्तविप्रयुक्ताः संस्कारा असंस्कृतं च ।
[०५२।२२]
तत्रासंस्कृतं नैवोत्पद्यते ।
रूपिणां तु धर्माणामयं नियमः ।
[०५२।२३]
कामेऽष्टद्रव्यकोऽशब्दः परमाणुरनिन्द्रियः ।
[०५२।२४]
सर्वसूक्ष्मो हि रूपसंघातः परमाणुरित्युच्याते ।
यतो नान्यतरो विज्ञायेत ।
[०५२।२४-०५२।२५]
स काम घातावशब्दकोऽनिन्द्रियश्चाष्टद्रव्यक उत्पद्यते नान्यतमेन हीनः।
[०५२।२५-०५३।०१]
अष्टो द्रव्याणिचत्वारि महाभूतानि चत्वारि चोपादायरूपाणि रूपगन्धरसस्प्रष्टव्यानि ।
[०५३।०१-०५३।०२]
सेन्द्रियस्तु परमाणुरशब्दको नवद्रव्यक उत्पद्यते दशद्रव्यको वा ।
[०५३।०२]
तत्र तावत्
[०५३।०३]
कायेन्द्रियी नवद्रव्यः
[०५३।०४]
कायेन्द्रियमत्रास्तीति सोऽयं कायेन्द्रियी ।
तत्र नवद्रव्याणि ।
तानि चाष्टौ कायेन्द्रियं च ।
[०५३।०५]
दशद्रव्योऽपरेन्द्रियः ॥ २.२२ ॥
[०५३।०६]
अपरमिन्द्रियं यत्र परमाणौ तत्र दश द्रव्याणि ।
[०५३।०६-०५३।०७]
तान्येव नव चक्षुःश्रोत्रघ्राणजिह्वेन्द्रियाणां चान्यतमम् ।
[०५३।०७-०५३।०८]
सशब्दा पुनरेते परमाणव उत्पद्यमाना यथाक्रमं नवदशैकादश द्रव्यका उत्पद्यन्ते ।
[०५३।०८-०५३।०९]
अस्ति हीन्द्रियाविनिर्भागी शब्दोऽपि य उपात्तमहाभूतहेतुकः ।
[०५३।०९-०५३।१०]
कथमिहाविनिर्भागे भूतानां कश्चिदेव संघातः कठिन उत्पद्यते कश्चिदेव द्रव उष्णो वा समुदीरणो वा ।
[०५३।१०-०५३।११]
यद्यत्र पटुतमं प्रभावत उद्भूतं तस्य तत्रोपलब्धिः ।
[०५३।११]
सूचीतूनी कलापस्पर्शवत्सक्तुलवणचूर्णरसवच्च ।
[०५३।११-०५३।१२]
कथं पुनस्तेषु शेषास्तित्वं गम्यते ।
[०५३।१२]
कर्मतः संग्रहघृतिपक्तिव्यूहनात् ।
[०५३।१२-०५३।१३]
प्रत्ययलाभे च सति कठिनादीनां द्रवणा दिभावातप्सु शैत्यातिशयादौष्ण्यं गम्यत इत्यपरे ।
[०५३।१३-०५३।१४]
अव्यति भेदेऽपि तु स्याच्छैत्यातिशयः ।
[०५३।१४]
शब्दवेदनातिशयवत् ।
[०५३।१४-०५३।१५]
बीजतस्तेषु तेषां भावो न स्वरूपत इत्यपरे ।
[०५३।१५]
“सन्त्यस्मिन् दारुस्कन्धे विविधा धातव”इति वचनात् ।
[०५३।१५-०५३।१६]
कथं वायौ वर्णसद्भावः ।
[०५३।१६]
श्रद्धानीय एषोऽर्थो नानुमानीयः ।
[०५३।१६-०५३।१७]
संस्पन्दतो गन्धग्रहणात्तस्य वर्णाव्यभिचारात् ।
[०५३।१७-०५३।१८]
रूपधातौ गन्धरसयोरभाव उक्तस्तेन तत्रत्याः परमाणवः षट्सप्ताष्टद्रव्यका इत्युक्तरूपत्वात्न पुनरुच्यन्ते ।
[०५३।१९]
किं पुनरत्र द्रव्यमेव द्रव्यं गृह्यते आहोस्विदायतनम् ।
किं चातः ।
[०५३।१९-०५३।२०]
यदि द्रव्यमेव द्रव्यं गृह्यते अत्यल्पमिदमुच्यते अष्टद्रव्यको नवदशाद्रव्यक इति ।
[०५३।२०-०५३।२१]
अवश्यं हि तद्द्रव्यसंस्थानेनापि भवितव्यम् ।
[०५३।२१]
तस्यापि परमाणुसंचितत्वात् ।
[०५३।२१-०५३।२२]
गुरुत्वलघुत्वयोश्चान्यतरेण श्लक्ष्णत्वकर्कशत्वयोश्च ।
[०५३।२२-०५३।२३]
शीतेनापि क्वचित्जिघत्सया पिपासया च ।
[०५३।२३]
अथाप्यायतनद्रव्यं गृह्यते अयिवह्णिदमुच्यते अष्टद्रव्यक इति ।
[०५३।२३-०५३।२४]
चतुर्द्रव्यको हि वक्तव्यो यावता भूतान्यपि स्प्रष्टव्यायतनम् ।
[०५३।२४-०५३।२५]
किञ्चिदत्र द्रव्यमेव द्रव्यं गृह्यते यदाश्रयभूतं किञ्चिदत्रायतनं द्रव्यं गृह्यते यदाश्रितभूतम् ।
[०५३।२५-०५३।२६]
एवमपि भूयांसि भूतद्रव्याणि भवन्त्युपादायरूपाणां प्रत्येकं भूतचतुष्काश्रितत्वात् ।
[०५४।०१]
अत्र पुनर्जातिद्रव्यं गृह्यते ।
भूतचतुष्कान्तराणां स्वजात्यनतिक्रमात् ।
[०५४।०१-०५४।०२]
कः पुनर्यत्स एवं विकल्पेन वक्तुम् ।
[०५४।०२]
च्छन्दतोऽपि हि वाचां प्रवृत्तिरर्थस्तु परीक्ष्यः ।
[०५४।०३]
उक्तो रूपिणां सहोत्पादनियमः ।
शेषाणां वक्तव्यस्तत्र तावत् ।
[०५४।०४]
चित्तं चैत्ताः सहवश्यम् ।
[०५४।०५]
नह्येते विनाऽन्योन्यं भवितुमुत्सहन्ते ।
[०५४।०६]
सर्वं संस्कृतलक्षणैः ।
[०५४।०७]
सहावश्यमिति वर्त्तते ।
[०५४।०७-०५४।०८]
यत्किं चिदुत्पद्यते रूपं चित्तं चैतसिका विप्रयुक्ता वा सर्वं संस्कृतलक्षणैः सार्धमुत्पद्यते ।
[०५४।०९]
प्राप्त्या वा ।
[०५४।१०-०५४।४१०]
प्राप्त्या सह सत्वाख्यमेवोत्पद्यते नान्यदिति विकल्पार्थो वाशब्दः ।
[०५४।११]
चैत्ता इत्युच्यन्ते ।
क इमे चैत्ताः ।
[०५४।१२]
पञ्चधा चैत्ता महाभूम्यादिभेदतः ॥ २.२३ ॥
[०५४।१३-०५४।१४]
पञ्च प्रकाराश्चैत्ता महाभूमिकाः कुशलमहाभूमिकाः क्लेशमहाभूमिकाः अकुशलमहाभूमिकाः परीत्तक्लेशमहाभूमिकाश्च ।
[०५४।१४]
भूमिर्नाम गतिविशयः ।
[०५४।१४-०५४।१५]
यो हि यस्य गतिविशयः स तस्य भूमिरित्युच्यते ।
[०५४।१५-०५४।१६
तत्र महती भूमिरेशामिति महाभूमिकाः ये सर्वत्र चेतसि भवन्ति ।
[०५४।१६]
के पुनः सर्वत्र चेतसि ।
[०५४।१७-०५४।१८]
वेदना चेतना संज्ञा च्छन्दः स्पर्शो मतिः स्मृतिः ।
मनस्कारोऽधिमोक्षश्च समाधिः सर्वचेतसि ॥ २.२४ ॥
[०५४।१९]
इमे किल दश धर्माः सर्वत्र चित्तक्षणे समग्रा भवन्ति ।
तत्र वेदना त्रिविधोऽनुभवः ।
[०५४।२०]
सुखो दुःखोऽदुःखा सुखश्च ।
चेतना चित्ताभिसंस्कारो मनस्कर्म ।
[०५४।२०-०५४।२१]
संज्ञा संज्ञानं विषयनिमित्तोद्रूह ।
[०५४।२१]
च्छन्दः कर्त्तृकामता ।
[०५४।२१-०५४।२२]
स्पर्श इन्द्रियविषयविज्ञानसन्निपातजा स्पृष्टिः ।
[०५४।२२]
मतिः प्रज्ञा धर्मप्रविचयः ।
[०५४।२२-०५४।२३]
स्मृतिरालम्बनासंप्रमोषः ।
[०५४।२३]
मनस्कारश्चेतस आभोगः ।
अधिमोक्षोऽधिमुक्तिः ।
[०५४।२३-०५४।२४]
समाधिश्चित्तस्यैकाग्रता ।
[०५४।२४]
सूक्ष्मो हि चित्तचैत्तानां विशेषः ।
[०५४।२४-०५४।२५]
स एव दुःपरिच्छेदः प्रवाहेष्वपि तावत्किं पुनः क्षणेषु ।
[०५४।२५-०५५।०२]
रूपिणीनामपि तावदोषधीनां बहुरसानां कासंचिदिन्द्रियग्राह्या रसविशेषा दुरवधारा भवन्ति किं पुनर्ये धर्मा अरूपिणो बुद्धिग्राह्याः ।
[०५५।०२-०५५।०३]
कुशला महाभूमिरेषां त इमे कुशल महाभूमिका ये सर्वदा कुशले चेतसिभवन्ति ।
[०५५।०३]
के पुनस्त इति ।
[०५५।०४-०५५।०५]
श्रद्धाऽप्रमादः प्रश्रब्धिरुपेक्षा ह्रीरपत्रपा ।
मूलद्वयमहिंसा च वीर्यं च कुशले सदा ॥ २.२५ ॥
[०५५।०६]
इमे दश धर्मा कुशले चेतसि नित्यं भवन्ति ।
तत्र श्रद्धा चेतसः प्रसादः ।
[०५५।०६-०५५।०७]
सत्यरत्न कर्मफलाभिसंप्रत्यय इत्यपरे ।
[०५५।०७]
अप्रमादः दुशलानां धर्माणां भावनाः ।
[०५५।०७-०५५।०८]
का पुनस्ते भ्योऽन्या भावना ।
[०५५।०८]
या तेष्ववहितता ।
[०५५।०८-०५५।०९]
चेतस आरक्षेति निकायान्तरीताः सूत्रे पठन्ति ।
[०५५।०९]
प्रश्रब्धिश्चित्तकर्मण्यता ।
ननु च सूत्रे कायप्रश्रब्धिरप्युक्ता ।
[०५५।०९-०५५।१०]
न खलु नोक्ता ।
[०५५।१०]
सा तु यथा कायिकी वेदना तथा वेदितव्या ।
[०५५।१०-०५५।११]
कथं सा बोध्यङ्गेषु योक्ष्यते ।
[०५५।११]
तत्र तर्हि कायकर्मण्यतैव कायिकी प्रश्रब्धिर्वेदितव्या ।
[०५५।११-०५५।१२]
कथं सा बोध्यङ्गमितयुच्यते ।
[०५५।१२]
बोध्यङ्गानुकूल्यात् ।
[०५५।१२-०५५।१३]
सा हि कायकर्मण्यता चित्तकर्मण्यता बोध्यङ्गमावहति ।
[०५५।१३]
अस्ति पुनः स्वचितन्यत्राप्येवं दृश्यते ।
अस्तीत्याह ।
[०५५।१३-०५५।१४]
तद्यथा प्रीतिः प्रीतिस्थानीयाश्च धर्माः प्रीतिसंबोध्यङ्गमुक्तं भगवता ।
[०५५।१४-०५५।१५]
प्रतिघः प्रतिघनिमित्तं च व्यापादनिवरणमुक्तम् ।
[०५५।१५-०५५।१६]
सम्यक्दृष्टिसंकल्पव्यायामाश्च प्रज्ञास्कन्ध उक्ताः ।
[०५५।१६-०५५।१७]
नच संकल्पव्यायामौ प्रज्ञास्वभावौ तस्यास्त्वनुगुणाविति तास्यात्वनुगुणाविति ताच्छय्द्यं लभेते ।
[०५५।१७-०५५।१८]
एवं कायप्रश्रब्धिरपि बोध्यङ्गानुगुण्याद्वोध्यङ्गशब्दं लभते ।
[०५५।१८]
उपेक्षा चित्तसमता चित्तानाभोगता ।
कथमिदानीमेतद्योक्ष्यते ।
[०५५।१८-०५५।१९]
“तत्रैव चित्ते आभोगात्मको मनस्कारोऽनाभोगात्मिका चोपेक्षे”ति ।
[०५५।१९-०५५।२०]
ननु चोक्तं “दुर्ज्ञान एषां विशेष” इति ।
[०५५।२०]
अस्ति हि नाम दुर्ज्ञानमपि ज्ञायते ।
[०५५।२०-०५५।२१]
इदं तु खल्वतिदुर्ज्ञानं यद्विरोधेऽप्यविरोध इति ।
[०५५।२१]
अन्यत्राभोगोऽन्यत्रानाभोग इति कोऽत्र विरोधः ।
[०५५।२१-०५५।२२]
न तर्हीदानीमेकालम्बनाः सर्वे संप्रयुक्ताः प्राप्नुवन्ति ।
[०५५।२२-०५५।२३]
एवञ्जातीयकमत्रान्यदप्यायास्यतीति यस्तस्य नयः सोऽस्यापि वेदितव्यः ।
[०५५।२३]
ह्रीरपत्राप्यं च पश्चाद्वक्ष्यते ।
[०५५।२३-०५५।२४]
मूलद्वयं द्वे कुशलमूले अलोभाद्वेषौ ।
[०५५।२४]
अमोहोऽप्यस्ति स तु प्रज्ञात्मकः ।
[०५५।२४-०५५।२५]
प्रज्ञा च महाभूमिकेति नासौ कुशलमहाभूमिक एवोच्यते ।
[०५५।२५]
अविहिंसा अविहेठना ।
वीर्यं चेतसोऽभ्युत्साहः ।
[०५६।०१]
उक्ताः कुशला महाभूमिकाः ।
[०५६।०२]
महती भूमिर्महाभूमिः ।
[०५६।०२-०५६।०३]
क्लेशा महाभूमिरेषां त इमे क्लेशमहाभूमिका ये धर्माः सदैव क्लिष्टे चेतसि भवन्ति ।
[०५६।०३]
के पुनस्ते सदैव क्लिष्टे चेतसि भवन्ति ।
[०५६।०४]
मोहः प्रमादः कौशीद्यमा श्रद्ध्यं स्त्यान्मुद्धवः ।
[०५६।०५]
क्लिष्टे सदैव
[०५६।०६]
तत्र मोहो नामाविद्याऽज्ञानमसंप्रख्यानम् ।
[०५६।०६-०५६।०७]
प्रमादः कुशलानां धर्माणामभावनाऽप्रमाद विपक्षो धर्मः ।
[०५६।०७]
कौशीद्यं चेतसो नाभ्युत्साह्हो वीर्यविपक्षः ।
[०५६।०७-०५६।०८]
आश्रद्ध्यं चेतसोऽप्रसादः श्रद्धाविपक्षः ।
[०५६।०८]
स्त्यानं कतमत् ।
[०५६।०८-०५६।०९]
या कायगुरुता चित्तगुरुता कायाकर्मण्यता चित्ताकर्मण्यता ।
[०५६।०९]
कायिकं सत्यानं चैतसिकं स्त्यानमित्युक्तमभिधर्मे ।
[०५६।१०]
कथं चैतसिको धर्मः कायिक इत्युच्यते ।
यथा कायिकी वेदना ।
[०५६।१०-०५६।११]
औद्धत्यं पुनश्चेतसोऽव्युपशमः ।
[०५६।११]
इतीमे षट्क्लेशमहाभूमिकाः ।
[०५६।११-०५६।१२]
ननु चाभिधर्मे दश क्लेशमहाभूमिकाः पठ्यन्ते ।
[०५६।१२-०५६।१३]
“आश्रद्ध्यं कौशीद्यं मुषितस्मृतिता चेतसो विक्षेपः अविद्या असंप्रजन्यमयोनिशोमनस्कारो मिथ्याधिमोक्ष औद्धत्यं प्रमादश्चे” ति ।
[०५६।१४]
प्रप्तिज्ञो देवानां प्रियो न त्विष्टिज्ञः ।
का पुनरत्रेष्टिः ।
[०५६।१४-०५६।१६]
मुषितस्मृतिविक्षेपासंप्रजन्यायोनिशोमनसिकारमिथ्याधिमोक्षा महाभूमिकत्वात्न क्लेशमहाभूमिका एवावधार्यन्ते ।
[०५६।१६]
यथिवामोहः कुशलमहाभूमिको नावधार्यते प्रज्ञास्वभावत्वात् ।
[०५६।१७]
स्मृतिरेव हि क्लिष्टा मुषितस्मृतिता ।
समाधिरेव क्लिष्टो विक्षेप इत्येवमादि ।
[०५६।१८-०५६।१९]
अत एवोच्यते “ये महाभूमिकाः क्लेशमहाभूमिका अपि त” इति ।
[०५६।१९]
चतुष्कोटिकः ।
प्रथमा कोटिर्वेदना चेतना संज्ञा च्छन्दः स्पर्शश्च ।
[०५६।१९-०५६।२०]
द्वितीयाऽश्राद्ध्यं कौशीद्यमविद्या औद्धत्यं प्रमादश्च ।
[०५६।२०-०५६।२१]
तृतीया मुषितस्मृत्यादयः पञ्च क्लिष्टा यठोक्ताः ।
[०५६।२१]
चतुर्थ्येतानाकारान् स्थापयित्वेति ।
[०५६।२१-०५६।२२]
केचित्तु मिथ्यासमाधेरन्यचेतसो विक्षेपमिच्छन्ति ।
[०५६।२२]
तेषामन्यथा चतुष्कोटिकः ।
[०५६।२२-०५६।२३]
स्त्यानं पुनरिष्यते सर्वक्लेशसंप्रयोगीति क्लेशमहाभूमिकेषु तस्यापाठे कस्यापराधः ।
[०५६।२३-०५६।२४]
एवं त्वाहुः पठितव्यं भवेत्समाध्यनुगुणत्वात्तु न पठितम् ।
[०५६।२४-०५६।२५]
क्षिप्रतरं किल स्त्यानचरितः समाधिमुत्पादयेन्नौद्धत्यचरित इति ।
[०५६।२५-०५६।२६]
कः पुनः स्त्यानचरितो यो नौद्धत्यचरितः को वा औद्धत्यचरितो यो न स्त्यानचरितः ।
[०५६।२६]
नह्येते जातु सहचरिष्णुतां जहीतः ।
[०५६।२६-०५६।२७]
तथापि यद्यस्याधिमात्रं स तच्चरितो ज्ञातव्यः ।
[०५६।२७]
अतः षडेव क्लेशमहाभूमिकाः सिद्ध्यन्ति ।
[०५६।२८]
एते हि सदा क्लेष्ट एव चेतसि भवन्ति नान्यत्र ॥
[०५७।०१]
अकुशले त्वाह्रीक्यमनपत्रपा ॥ २.२६ ॥
[०५७।०२-०५७।०३]
अकुशले तु चेतस्याह्रीक्यमनपत्राप्यं च नित्यं भवत इत्येतौ द्वौ धर्मावकुशलमहाभूमिकावुच्येते ।
[०५७।०३]
तयोश्च पश्चाल्लक्षणं वक्ष्यते ।
[०५७।०४-०५७।०५]
क्रोधोपनाहशाठ्येर्ष्याप्रदासम्रक्षमत्सराः ।
मायामद विहिंसाश्च परीत्तक्लेश्भूमिकाः ॥ २.२७ ॥
[०५७।०६-०५७।०७]
परीत्तक्लेशा भूमिरेषां त इमे परीत्तक्लेशभूमिका अविद्यामात्रेण भावनाहेयेन मनोभूमिकेनैव च संप्रयोगात् ।
[०५७।०७]
एषां तु निर्देक्श उपक्लेशेषु करिष्यते ।
[०५७।०८]
उक्ता इमे पञ्चप्रकाराश्चैत्ताः ।
[०५७।०८-०५७।०९]
अन्येऽपि चानियताः सन्ति वितर्कविचारकौकृत्यमिद्धादयः ।
[०५७।०९]
तत्र वक्तव्यं कस्मिंश्चित्ते कति चैत्ता अवश्यं भवन्तीति ।
[०५७।१०]
कामावचरं तावत्पञ्चविधं चित्तम् ।
कुशलमकुशलम् ।
[०५७।१०-०५७।११]
तत्राकुशलं द्विविधमावेणिकमन्यक्लेशसंप्रयुक्तं च ।
[०५७।११-०५७।१२]
अव्याकृतं द्विविधं निवृताव्याकृतमनिवृताव्याकृतं च ।
[०५७।१२]
तत्र तावत्कामावचरचित्तमवश्यं सवितर्कं सविचारम् ।
अतोऽत्र
[०५७।१३]
सवितर्कविचारत्वात्कुशले कामचेतसि ।
[०५७।१४]
द्वाविंशतिश्चैतसिकाः
[०५७।१५]
अवश्यं भवन्ति ।
दश महाभूमिका दश कुशलमहाभूमिका वितर्को विचारश्च ।
[०५७।१६]
कौकृत्यमधिकं क्वचित् ॥ २.२८ ॥
[०५७।१७]
नहि सर्वत्र कुशले चेतसि कौकृत्यमस्ति ।
[०५७।१७-०५७।१८]
यत्र त्वस्ति तत्र तदेवाधिकं कृत्वा त्रयोविंशतिश्चैत्ता भवन्ति ।
[०५७।१८]
किमिदं कौकृत्यं नाम ।
कुकृतस्य भावः कौकृत्यम् ।
[०५७।१९]
इह तु पुनः कौकृत्यालम्बनो धर्मः कौकृत्यमुच्यते चेतसो विप्रतिसारः ।
[०५७।१९-०५७।२१]
तद्यथा शून्यतालल्म्वनं विमोक्षमुख्ं शून्यतेत्युच्यते अशुभालम्बनश्चालोभोऽशुभ इति ।
[०५७।२१-०५७।२२]
लोकेऽपि च दृष्टः स्थानेन स्थानिनामतिदेशः सर्वो ग्राम आगतः सर्वो देश आगत इति ।
[०५७।२२]
स्थानभूतं च कौकृत्यं विप्रतिसारस्य ।
[०५७।२२-०५७।२३]
फले वा हेतूपचारोऽयम् ।
[०५७।२३-०५७।२४]
यथोक्तं “षडिमानि स्पर्शायतनानि पौराणं कर्म वेदितव्यमि”ति ।
[०५७।२४]
यत्तर्हि अकृतालम्बनं तत्कथं कौकृत्यम् ।
अकृतेऽपि कृताख्या भवति ।
[०५८।०१]
न मया साधु कृतं यन्न कृतमिति ।
कतमत्कौकृत्यं कुशलम् ।
[०५८।०१-०५८।०२]
यत्कुशलमकृत्वातप्यते अकुशलं च कृत्वा ।
[०५८।०२]
विपर्ययादकुशलं कौकृत्यम् ।
[०५८।०२-०५८।०३]
तदेतदुभयमप्युभयाधिष्टानम् ।
[०५८।०४]
आवेणिके त्वकुशले दृष्टियुक्ते च विंशातिः ।
[०५८।०५]
यदकुशलं चित्तमावेणिकं तत्र विंशतिश्चैत्ताः ।
[०५८।०५-०५८।०६]
दश महाभूमिकाः षट्क्लेआशमहाभूमिका द्वावकुशलमहाभूमिकौ वितर्कोविचारश्च ।
[०५८।०६-०५८।०७]
आवेणिकं नाम चित्तं यत्राविद्यैव केवला नान्यः क्लेशोऽस्ति रागादिः ।
[०५८।०७-०५८।०८]
दृष्टियुक्तेऽप्यकुशले विंशतिर्य एवावेणिके ।
[०५८।०८]
ननु च दृष्ट्यधिकत्वादेक विंशतिर्भवन्ति ।
न भवन्ति ।
[०५८।०८-०५८।०९]
यस्मान्महाभूमिक एव कश्चित्प्रज्ञाविशेषो दृष्टिरित्युच्यते ।
[०५८।०९-०५८।१०]
तत्राकुशलं दृष्टियुक्तं यत्र मिथ्यादृष्टिर्वा दृष्टिपरामर्शो वा शीलव्रतपरामर्शो वा ।
[०५८।११]
क्लेशैश्चतुर्भिः क्रोधाद्यैः कौकृत्येनैकविंशतिः ॥ २.२९ ॥
[०५८।१२-०५८।१३]
यत्र पुनश्चतुर्भिः क्लेशैः संप्रयुक्तमकुशलं चित्तं रागेण व प्रतिघेन वा मानेन वा विचिकित्सया वा तत्रैकविंशतिर्भवन्ति ।
[०५८।१३-०५८।१४]
स च क्लेशः आवेणिकोक्ताश्च विंशतिः ।
[०५८।१४-०५८।१५]
क्रोधादिभिरप्युपक्लेशैर्यथोक्तैः संप्रयुक्ते चित्ते एते च विंशतिः स चोपक्लेश इत्येकविंशतिर्भवन्ति ।
[०५८।१५]
कौकृत्येनाप्येकविंशतिः ।
[०५८।१५-०५८।१६]
तदेव कौकृत्यमेकविंशतितमं भवति ।
[०५८।१६]
समासत आवेणिके चेतस्यकुशले दृष्टियुक्ते च विंशतिः ।
[०५८।१६-०५८।१७]
अन्यक्लेशोपक्लेशसंप्रयुक्ते त्वेकविंशतिः ।
[०५८।१८]
निवृतेऽष्टदश
[०५८।१९-०५८।१८]
सत्कायान्तग्राहदृष्टिसंप्रयुक्तं चित्तं कामधातौ निवृताव्याकृतम् ।
[०५८।१९-०५८।२०]
तत्राष्टादश चैत्ताः ।
[०५८।२०]
दश महाभूमिकाः षट्क्लेशमहाभूमिकाः वितर्कविचारौ च ।
[०५८।२०-०५८।२१]
दृष्टिः पूर्ववदेव नाधिका भवति ।
[०५८।२२]
अय्नत्र द्वादशाव्याकृते मताः ।
[०५८।२३]
निवृतादन्यदव्याकृतमनिवृताव्याकृतम् ।
तत्र द्वादश चैत्ता इष्टाः ।
[०५८।२३-०५८।२४]
दश महाभूमिका वितर्कविचारौ च ।
[०५८।२४]
बहिर्देशका अव्याकृतमपि कौकृत्यमिच्छन्ति ।
[०५८।२४-०५८।२५]
तेषां तत्संप्रयुक्ते चेतसि त्रयोदश भवन्ति ।
[०५८।२६]
मिद्धं सर्वाविरोधित्वाद्यत्र स्यादधिकं हि तत् ॥ २.३० ॥
[०५८।२७]
सर्वैरेभिर्यथोक्तै श्चैतैर्मिद्धमविरुद्धं कुशलाकुशलाव्याकृतत्वात् ।
[०५८।२७-०५९।०१]
अतो तत्र तत्स्यात्तत्राधिकं तद्वेदितव्यम् ।
[०५९।०१-०५९।०२]
यत्र द्वाविंशतिस्तत्र त्रयोविंशतिर्यत्र त्रयोविंशतिस्तत्र चतुर्विंशतिरित्येवमादि ।
[०५९।०२]
य एव कामधातौ चैत्तानां नियम उक्तः
[०५९।०३]
कौकृत्यमिद्धाकुशलान्याद्ये ध्याने न सन्त्यतः ।
[०५९।०४]
अतो यथोक्तात्कौकृत्यं मिद्धं च सर्वथा नास्ति प्रथमे ध्याने यत्किञ्चिदकुशलम् ।
[०५९।०५]
प्रतिघः शाठ्यमदमायावर्ज्याश्च क्रोधादय आह्रीक्यानपत्राप्ये च ।
अन्यत्सर्व तथैव ।
[०५९।०६]
य एव प्रथमे ध्याने न सन्ति त एव
[०५९।०७]
ध्यानान्तरे वितर्कश्च
[०५९।०८]
नास्ति ।
शेषं तथैव ।
[०५९।०९]
विचारश्चाप्यतः परम् ॥ २.३१ ॥
[०५९।१०-०५९।११]
ध्यानान्तरात्परेण द्वितीयादिषु ध्यानेष्वारूप्येषु च यथाप्रतिषिद्धं नास्ति विचारश्च ।
[०५९।११]
माया शाठ्यं चेत्यपिशब्दात् ।
शेषं तथैव ।
[०५९।११-०५९।१२]
ब्रह्मणो हि यावच्छाठ्यं पठ्यते पर्षत्सम्बन्धत्वान्नोर्ध्वम् ।
[०५९।१२-०५९।१३]
स हि स्वस्यां पर्षद्यश्वजिता भिक्षुणा प्रश्नं पृष्टः “कुत्रेमानि ब्रह्मन् चतवारि महाभूतान्यपरिशेषं निरुध्यन्ते” इति ।
[०५९।१३-०५९।१४]
अप्रजानन् क्षेपमकार्षीत् ।
[०५९।१४-०५९।१५]
“अहमस्मिन् ब्रह्मा ईश्वरः कर्ता निर्माता स्रष्टा सृजः पितृभूतो भूतानामि”ति ।
[०५९।१५]
उक्तमेतद्यस्यां भूमौ यत्र चित्ते यावन्तश्चैत्ताः ॥
[०५९।१६]
इदानीं केषाञ्चिदेव चैत्तानां तन्त्रविहितं नानाकारणं वक्ष्यते ।
[०५९।१६-०५९।१७]
आह्रीक्यस्यानपत्राप्यस्य च किं नानाकारणम् ।
[०५९।१८]
अह्रीरगुरुता
[०५९।१९-०५९।२०]
गुणेषु गुणवत्सु चागौरवता अप्रतीशता अभयमवशवर्तिता आह्रीक्यं गौरवप्रतिद्वन्द्वो धर्मः ॥
[०५९।२१]
अवद्ये भयादर्शित्वमत्रपा ।
[०५९।२२]
अवद्यं नाम यद्विगर्हितं सद्भिः ।
तत्राभयदर्शिताऽनपत्राप्यम् ।
[०५९।२२-०५९।२३]
भयमत्रानिष्टं फलं भीयतेऽस्मादिति ।
[०५९।२३-०५९।२४]
कथमिदं विज्ञातव्यमभयस्य दर्शनमभयदर्शिता आहोस्वित्भयस्यादर्शनम् ।
[०५९।२४]
किं चातः ।
[०५९।२४-०५९।२५]
अभयस्य दर्शनं चेत्प्रज्ञा विज्ञास्यते भयस्यादर्शनं चेदविद्या विज्ञास्यते ।
[०५९।२५]
नैव हि दर्शनं दर्शिता नाप्यदर्शनमदर्शिता ।
किं तर्हि ।
[०५९।२५-०५९।२६]
यस्तयोर्निमित्तमुपक्लेशस्तच्चानपत्राप्यमिति ।
[०५९।२६]
अन्ये पुनराहुः ।
[०५९।२६-०६०।०१]
आत्मापेक्षया दोषैरलज्जन माह्रीक्यं परापेक्षयाऽनपत्राप्यमिति ।
[०६०।०१]
एवमपि द्वे अपेक्षे युगपत्कथं सेत्स्यतः ।
[०६०।०१-०६०।०३]
न खलूच्यते युगपदात्मानं परं चापेक्षत इत्यपि त्वस्त्यसौ कदाचिदलज्जा या आत्मानमपेक्षमाणस्यापि प्रवर्तते सा आह्रीक्यम् ।
[०६०।०३-०६०।०४]
अस्ति या परमपेक्षमाणस्य प्रवर्त्तते साऽनपत्राप्यम् ।
[०६०।०४]
विपर्ययेण ह्रीरपत्राप्यं च वेदितव्यम् ।
[०६०।०४-०६०।०५]
प्रतहमेन तावत्कल्पेन सगौरवता सप्रतीशता न भयवशव्र्तिता ह्रीः ।
[०६०।०५]
अवद्येष्वभयदर्शिअताऽपत्राप्यम् ।
[०६०।०६]
द्वितीयेन कल्पेनात्मपरापेक्षाभ्यां लज्जने ।
[०६०।०७]
प्रेम्णो गौरवस्य च किं नानाकारणम् ।
[०६०।०८]
प्रेम श्रद्धा ।
[०६०।०९]
द्विविधं हि प्रेम क्लिषाटमक्लिष्टं च ।
तत्र क्लिष्टं तृष्णा यथा पुत्रदारादिषु ।
[०६०।०९-०६०।१०]
अक्लिष्टं श्रद्धा शास्तृगुरुगुणान्वितेषु ।
[०६०।१०]
स्याच्छ्रद्धा नप्रेम ।
[०६०।१०-०६०।११]
दुःधसमुदयालम्बना श्रद्धा ।
[०६०।११]
स्यात्प्रेम न श्रद्धा ।
क्लिष्टं प्रेम ।
[०६०।११-०६०।१२]
उभयं निरोधमार्गालम्बना श्रद्धा ।
[०६०।१२]
नोभयमेतानाकारान् स्थापयित्वा ।
[०६०।१२-०६०।१३]
पुद्गलेषु तु प्रेम न गौरवं पुत्रदारसार्धं विहार्यन्तेवासिषु ।
[०६०।१३]
गौरवं न प्रेम अन्यगुरुषु ।
उभयं स्वगुरुषु ।
[०६०।१३-०६०।१४]
नोभयमेतानाकारान् स्थापयित्वा ।
[०६०।१४]
श्रद्धा हि नाम गुणसंभावना ।
तत्पूर्विका च प्रियता प्रेम ।
[०६०।१५]
तस्मान्न सैव प्रेमेत्यपरे ।
[०६०।१६]
गुरुत्वं ह्रीः ।
[०६०।१७]
गौरवं हि नाम सप्रतीशता ।
तत्पूर्विका च लज्जा ह्रीः ।
[०६०।१७-०६०।१८]
अतो न गौरवमेव ह्लीरित्यपरे ।
[०६०।१९]
ते पुनः कामरूपयोः ॥ २.३२ ॥
[०६०।२०]
आरूप्यधातौ प्रेमगौरवे न स्तः ।
[०६०।२०-०६०।२१]
ननु च श्रद्धा ह्रीश्च कुशलमहाभूमिकत्वात्तत्रापि विद्येते ।
[०६०।२१]
द्विविधा हि श्रद्धा धर्मेषु पुद्गलेषु च ।
एवं सप्रतीशताऽपि ।
[०६०।२१-०६०।२२]
तत्र ये पुद्गलालम्बने श्रद्धाह्रियौ ते तत्र न स्तः ।
[०६०।२२]
ते चेह प्रेमगौरवे अभिप्रेते ।
[०६०।२३]
वितर्कविचारयोः किं नानाकारणम् ।
[०६०।२४]
वितर्कचारा वौदार्यसूक्ष्मते ।
[०६०।२५]
कस्य ।
चेतस इति पश्चाद्वक्ष्यति ।
चित्तौदारिकता वितर्कः ।
चित्तसूक्ष्मता विचारः ।
[०६०।२५-०६०।२६]
कथं पुनः अनयोरेकत्र चित्ते योगः ।
[०६०।२६]
केचिदाहुः ।
[०६०।२६-०६१।०१]
यथाऽप्यसुनिष्ठ्यूतं सर्पिः सूर्यरश्मिभिरूपरिष्टात्स्पृष्टं नातिश्यायते नातिविलीयते एवंवितर्कविचारयोगाच्चित्तं नातिसूक्ष्मं भवति नात्योदारिक मित्युभयोरपि तत्रास्ति व्यापारः ।
[०६१।०१-०६१।०३]
एवं तर्हि निमिट्तभूतौ वितर्कविचारावौदारिक सूक्ष्मतयोः प्राप्नुतो यथा पयश्चा तपश्चसर्पिषः श्यानत्व विलीनत्वयोर्नतु पुनस्तत्स्वभावौ ।
[०६१।०३-०६१।०४]
आपेक्षिकी चौदारिकसूक्ष्मता भूमिप्रकारभेदादित्याभवाग्राद्वितर्कविचारौ स्याताम् ।
[०६१।०४-०६१।०५]
नचौदारिकसूक्ष्मातया जातिभेदो युकतः ॥
[०६१।०५]
अन्ये पुनराहुः ।
[०६१।०५-०६१।०६]
वाक्संस्कारा वित्र्कविचाराः सूत्र उक्ताः ।
[०६१।०६]
“वितर्क्य विचार्य वाचं भाषते नावितस्र्याविचार्ये”ति ।
[०६१।०६-०६१।०७]
तत्र ये औदारिकास्ते वितर्काः ये सूक्ष्मास्ते विचाराः ।
[०६१।०७-०६१।०८]
यदि चैकत्र चित्तेऽन्यो धर्म औदारिकोऽन्यः सूक्ष्मः कोऽत्र विरोध इति ।
[०६१।०८-०६१।०९]
न स्याद्विरोधो यदि जातिभेदः स्याद्वेदनासंज्ञावत् ।
[०६१।०९]
एकस्यां जातौ मृद्वधिमात्रता युगपन्न संभवति ।
[०६१।१०]
जातिभेदो ।प्यस्ति ।
स तर्हि वक्तव्यः ।
दुर्वचो ह्यसावतो मृद्वधिमात्रतया व्यज्यते ।
[०६१।११]
नैवं व्यक्तो भवति ।
प्रत्येकं जातीनां मृद्वधिमात्रतवात् ।
[०६१।११-०६१।१२]
नैव हि वितर्कविचारावेकत्र चित्ते भवत इत्यपरे ।
[०६१।१२]
कथमिदानीं प्रथमं ध्यानं पञ्चाङ्गयुक्तम् ।
[०६१।१३]
भूमितस्तत्पञ्चाङ्गयुकतं न क्षणतः ॥
[०६१।१४]
मानमदयोः किं नानाकारणम् ।
[०६१।१५-०६१।१६]
मान उन्नतिः ।
मदः स्वधर्मे रक्तस्य पर्यादानं तु चेतसः ॥ २.३३ ॥
[०६१।१७]
येन केनचित्परतो विशेषपरिकल्पेन चेतस उन्नतिः मानः ।
[०६१।१७-०६१।१८]
मदस्तु स्वधर्मेष्वेव रक्तस्य यच्चेतसः पर्यादानम् ।
[०६१।१८]
यथा मद्यज एवं रागजः ।
[०६१।१८-०६१।१९]
संप्रहऋशणविशेषो मद इत्यपरे ।
[०६१।२०]
उक्ताः सह चित्तेन चैत्ताः प्रकारश स्तेषां पुनरिमाः संज्ञाः परिभाष्यन्ते ।
[०६१।२१]
प्रवचन एताभिः सद्व्यवहारात् ।
[०६१।२२]
चित्तं मनोऽथ विज्ञानमेकार्थं
[०६१।२३]
चिनोतीति चित्तम् ।
मनुत इति मनः ।
विजानातीति विज्ञानम् ।
[०६१।२३-०६२।०१]
चित्तं शुभाशुभैर्धातुभिरिति चित्तम् ।
[०६२।०१]
तदेवाश्रयभुतं मनः ।
आश्रितभूतं विज्ञानमित्यपरे ।
[०६२।०१-०६२।०२]
यथा चित्तं मनो विज्ञानमित्येकोऽर्थः ।
[०६२।०२]
एवम् ।
[०६२।०३]
चित्तचैतसाः ।
[०६२।०४]
साश्रया लम्बनाकाराः संपरयुक्ताश्च ।
[०६२।०५]
एकोऽर्थः ।
त एव हि चित्तचैत्ताः साश्रया उच्यन्ते इन्द्रियाश्रितत्वात् ।
[०६२।०५-०६२।०६]
सालम्बना विषयग्रहणात् ।
[०६२।०६]
साकारास्तस्यैवालम्बनस्य प्रकारश आकरणात् ।
[०६२।०६-०६२।०७]
सम्प्रयुक्ताः समं प्रयुक्तत्वात् ।
[०६२।०७]
केन प्रकारेण समं परयुक्ता इत्याह
[०६२।०८]
पञ्चधा ॥ २.३४ ॥
[०६२।०९]
पञ्चभिः समताप्राकारैराश्रयालम्बनाकारकालद्रव्यसमताभिः ।
केयं समता ।
[०६२।०९-०६२।१०]
यथैव ह्येकं चित्तमेवं चैत्ता अप्येकैका इति ।
[०६२।१०]
निर्दिष्टाश्चित्तचैत्ताः सविस्तरप्रभेदाः ।
[०६२।११-०६२।१२]
विप्रयुक्तास्तु संस्काराः प्राप्त्यप्राप्ती सभागता ।
आसंज्ञिकं समापत्ती जीवितं लक्षणानि च ॥ २.३५ ॥
[०६२।१३]
नामकायादयश्चेति
[०६२।१४]
इमे संस्कारा न चित्तेन असंप्रयुक्ता नच रूपस्वभावा इति चित्तविप्रयुक्ताउच्यन्ते ।
[०६२।१५]
तत्र तावत्
[०६२।१६]
प्रप्तिर्लाभः समन्वयः ।
[०६२।१७]
द्विविधा हि प्राप्तिरप्राप्तविहीनस्य च लाभः प्रतिलब्धेन च समन्वागमः ।
[०६२।१८]
विपर्ययादप्राप्तिरिति सिद्धम् ।
कस्य पुनरिमे प्राप्त्यप्राप्ती ।
[०६२।१९]
प्राप्त्यप्राप्ती स्वसंतान पतितानां
[०६२।२०]
न परसंतानपतितानाम् ।
नहि परकीर्यैः कश्चित्समन्वागतः नाप्यसंततिपतितानाम् ।
[०६२।२१]
न ह्यसतत्वसंख्यातैः कश्चित्समन्वागतः ।
एष तावत्संस्कृतेषु नियमः ।
[०६२।२१-०६२।२२]
असंस्कृतेषु पुनः प्राप्त्यप्राप्ती
[०६२।२३]
निरोधयोः ॥ २.३६ ॥
[०६२।२४]
सर्वसत्त्वा अप्रतिसंख्यानिरोधेन समन्वागताः ।
[०६२।२४-०६२।२५]
अत एव हि चोत्तमभिधर्मे “अनास्रवैर्धर्मः कः समन्वागतः ।
[०६२।२५]
आह ।
[०६२।२५-०६२।२६]
सर्वसत्त्वा” इति ।
[०६२।२६-०६३।०१]
प्रतिसंख्यानिरोधेन सकलबन्धनादिक्षणस्थवर्ज्याः सर्व आर्याः पृथग्जनाश्च केचित्समन्वागताः ।
[०६३।०१-०६३।०२]
आकाशेन तु नास्ति कश्चित्समन्वागतः ।
[०६३।०२]
तस्मादस्य नासति प्राप्तिः ।
[०६३।०२-०६३।०३]
यस्य च नास्ति प्राप्तिस्तस्तस्याप्राप्तिरपि नास्तीति सिद्धान्तः ।
[०६३।०३]
प्राप्तिर्नामास्ति किञ्चित्भावान्तर्मिति ।
कुत एतत् ।
[०६३।०४]
आह सूत्रात् ।
[०६३।०४-०६३।०५]
सूत्रे ह्युस्तं “स एषां दशानामशैक्षाणां धर्मणामुत्पादात्प्रतिलम्भात्समन्वागमादर्यो भवति पञ्चाङ्गविप्रहीण” इति विस्तरः ।
[०६३।०६]
तेन तर्हि असत्त्वाख्यैरपि समन्वागमः प्राप्नोति परसत्त्वैश्च ।
किं कारणम् ।
[०६३।०७]
सूत्र वचनात् ।
“राजा भिक्षवश्चक्रवर्ति सप्तभी रत्नैः समन्वागत” इति विस्तरः ।
[०६३।०८]
वशित्वमत्र समन्वागमशब्देनोक्तम् ।
तस्य तेषु रत्नेषु वशित्वं कामचार इति ।
[०६३।०९]
अत्र वशित्वं समन्वागमोऽन्यत्र पुनर्द्रव्यान्तरमिति ।
कुत एतत्कः पुनरेवमयोगः ।
[०६३।१०-०६३।११]
अयमयोगः यदस्या नैव स्वभावः प्रज्ञायते रूपशब्दादिवद्रागद्वेषादिवद्वा न चापि कृत्यं चक्षुःश्रोत्रादिवत् ।
[०६३।११]
तस्मात्द्रव्यधर्मासंभवादयोगः ।
[०६३।११-०६३।१२]
उत्पत्तिहेतुर्धर्माणां प्राप्तिरिति चेत् ।
[०६३।१२]
असंस्कृतस्य न स्यात् ।
[०६३।१२-०६३।१३]
ये च धर्मा अप्राप्ता ये च त्यक्ता भूमिसंचारवैअराग्यतस्तेषां कथमुत्पत्तिः स्यात् ।
[०६३।१३]
सहजप्राप्तिहेतुका चेत् ।
[०६३।१३-०६३।१४]
जातिरिदानीं किङ्करी जातिजातिर्वा ।
[०६३।१४-०६३।१५]
सकलबन्धनानां खल्वपि मृदुमध्याधिमात्रक्लेशोत्पत्तिभेदो न स्यात्प्राप्त्यभेदात् ।
[०६३।१५]
यतो वा स भेदस्तत एवास्तु तदुत्पत्तिः ।
[०६३।१५-०६३।१६]
तस्मान्नोत्पत्तिहेतुः प्राप्तिः ।
[०६३।१६]
कश्चैवमाहोत्पत्तिहेतुः प्राप्तिरिति ।
किं तर्हि ।
[०६३।१६-०६३।१७]
व्यवस्था हेतुः ।
[०६३।१७-०६३।१८]
असत्यां हि प्राप्तौ लौकिकमानसानामार्यपृथग्जनानामार्या इमे पृथग्जना इम इति न स्याद्व्यवस्थानम् ।
[०६३।१८-०६३।१९]
प्रहीणाप्रहीण क्लेशताविशेषादेतत्भवितुमर्हति ।
[०६३।१९-०६३।२०]
एतच्चैव कथं भविष्यत्येषां प्रहीणः क्लेश एषामप्रहीण इति ।
[०६३।२०]
प्रप्तौ सत्यामेतत्सिध्यति तद्विगमाविगमात् ।
आश्रयविशेषादेतत्सिध्यति ।
[०६३।२१-०६३।२२]
आश्रयो हि स आर्याणां दर्शनभावनामार्गसामर्थ्यात्तथा परावृत्तो भवति यथा न पुनस्तत्प्रहेयाणां क्लेशानां प्ररोहसमर्थो भवति ।
[०६३।२२-०६३।२३]
अतोऽग्निदग्धव्रीहिवदवीजीभूते आश्रये क्लेशानां प्रहीणक्लेश इत्युच्यते ।
[०६३।२३]
उपहतवीजभावे वा लौकिकेन मार्गेण ।
[०६३।२४]
विपर्ययादप्रहीणक्लेशः ।
[०६३।२४-०६३।२५]
यश्चाप्रहीणस्तेन समन्वागतो यः प्रहीणस्तेना समन्वागत इति प्रज्ञप्यते ।
[०६३।२५-०६३।२६]
कुशला अपि धर्मा द्विप्रकारा अयत्नभाविनो यत्नभाविनश्च ये त उच्यन्ते उत्पत्तिप्रतिलम्भिकाः प्रायोगिकाश्चेति ।
[०६३।२६-०६३।२७]
तत्रायत्नभाविभिराश्रयस्य तद्वीजभावानुपघातात्समन्वागत उपघातादसमन्वागत उच्यते समुच्छिन्नकुआशलमूलः ।
[०६३।२७-०६४।०१]
तस्य तूपघातो मिथ्यादृष्ट्या वेदितव्यः ।
[०६४।०१-०६४।०२]
न तु खलु कुशलानां धर्माणां वीजभावस्यात्यन्तं सन्ततौ समुद्घातः ।
[०६४।०२-०६४।०३]
येपुनर्यत्नभाविनस्तैरुत्पन्नैस्तदुत्पत्तिर्वशित्वा विघातात्सन्ततेः समन्वागत उच्यते ।
[०६४।०३-०६४।०५]
तस्माद्वीजमेवात्रानपोद्धृतमनुपहतं परिपृष्टं च वाशिअत्वकाले समन्वागमाख्यां तभते नान्यद्द्रव्यम् ।
[०६४।०५]
किं पुनरिदं बीजं नाम ।
[०६४।०५-०६४।०६]
यन्नामरूपं फलोत्पत्तौ समर्थ साक्षात्पारंपर्येण वा ।
[०६४।०६]
सन्ततिपरिणामविशेषात् ।
कोऽयं परिणामो नाम ।
[०६४।०६-०६४।०७]
सन्ततेरन्यथात्वम् । का चेयं सन्ततिः।
[०६४।०७]
हेतुफलभूतस्त्रैयध्विकाः संस्काराः ।
[०६४।०७-०६४।०८]
यत्तूक्त “लोभेन समन्वागतोऽभव्यश्चत्वारि स्मृत्युपस्थानानि भावयितुमि”ति ।
[०६४।०८-०६४।०९]
तत्राधिवासनं लोभस्याविनोदनं वा समन्वागमः ।
[०६४।०९-०६४।१०]
यावद्धि तस्याधिवासकोऽविनोदको भवति तावत्भव्यस्तानि भावयितुम् ।
[०६४।१०-०६४।११]
एवमयं समन्वागमः सर्वाथा प्रज्ञप्तिधर्मो न तु द्रव्यधर्मः ।
[०६४।११]
तस्य च प्रतिषेधोऽसमन्वागम इति ।
[०६४।११-०६४।१२]
द्रव्यमेव तु वैभाषिकाः उभयं वर्णयन्ति ।
[०६४।१२]
किं कारणम् ।
एष हि नः सिद्धान्त इति ।
सा किलैषा प्रप्तिः
[०६४।१३]
त्रैयध्विकानां त्रिविधा
[०६४।१४]
अतीतानां धर्माणामतीताऽपि प्राप्तिरस्त्यनागत्याऽपि प्रत्युत्पन्नाऽपि ।
[०६४।१४-०६४।१५]
एवमनागतपरत्युत्पन्नानां प्रत्येकं त्रिविधा ।
[०६४।१६]
षुभादीनां षुभादिका ।
[०६४।१७]
कुशलाकुशलाव्याकृतानां कुआशलाकुशलाव्याकृतैव यथाक्रमं प्राप्तिः ।
[०६४।१८]
स्वधातुका तदाप्तानां
[०६४।१९]
ये धर्मास्तद्धात्वाप्तास्तेषां स्वधातुका प्राप्तिः ।
[०६४।१९-०६४।२०]
कामरूपारूप्यावचराणां कामरूपारूप्यावचरी यथाक्रमम् ।
[०६४।२१]
अनाप्ता नां चतुर्विधा ॥ २.३७ ॥
[०६४।२२]
अनास्रवाणां धर्माणां चतुर्विधा प्रप्तिः ।
समासेन त्रैधातुकी चानास्रवा च ।
[०६४।२३-०६४।२४]
तत्राप्रप्तिंसंङ्ख्यानिरोधस्य त्रैधातुकी प्रतिसंख्यानिरोधस्य रूपारूप्यावचरी चानास्रवा च ।
[०६४।२४]
मार्गसत्यस्यानास्रवैव ।
सेयं समस्य चतुर्विधा भवति ।
[०६४।२५]
शैक्षाणां धर्माणां शैक्षैव प्राप्तिः अक्षैक्षाणामशैक्षानाशैक्षाणान्तुभेदः ।
[०६५।०१]
स निर्दिश्यते
[०६५।०२]
त्रिधा नशैक्षाऽशैक्षाणां
[०६५।०३]
नैवशैक्षानाशैक्षा धर्मा उच्यन्ते सास्रवा धर्मा असंस्काऋतं च ।
[०६५।०३-०६५।०४]
तेषां शैक्षादिभेदेन त्रिविधा प्राप्तिः ।
[०६५।०४]
सास्रवाणां तावत्नैवशैक्षानाशैक्षी प्राप्तिः ।
[०६५।०४-०६५।०५]
अप्रतिसंख्यानिरोधस्य च प्रतिसंख्यानिरोधस्य चानार्येण प्रप्तस्य ।
[०६५।०५-०६५।०६]
तस्यैव शैक्षेण मार्गेण प्रप्तस्य शैक्षी अशैक्षेणाशैक्षी ।
[०६५।०६-०६५।०७]
दर्शनभावनाहेयानां यथाक्रमं दराशनभावनाहेयैव पराप्तिः ।
[०६५।०७]
अहेयानां तु भेदः ।
स निर्दिश्यते
[०६५।०८]
अहेयानां द्विधा मता ।
[०६५।०९-०६५।१०]
अप्रहेयाधर्मा अनास्रवाः ।
तेषामप्रतिसंख्यानिरोधस्य भावनाहेया प्राप्तिः अनार्यप्राप्तस्य च प्रतिसंख्यानिरोधस्य ।
[०६५।१०-०६५।११]
तस्यैवार्यमार्गप्राप्तस्यानास्रवाऽहेया मार्गसत्यस्य च ।
[०६५।१२]
यदुक्तं “त्रैयध्विकानां त्रिविधे” ति तस्योत्सर्गस्यायमपवादः
[०६५।१३]
अव्याकृताप्तिः सहजा
[०६५।१४]
अनिवृताव्याकृतानां सहजैव प्राप्तिर्नाग्रजा न पश्चात्कालजा ।
दुर्बलत्वात् ।
[०६५।१४-०६५।१५]
तेनतेषामतीतानामतीतैव यावत्प्रत्युत्पन्नानां प्रत्युत्पन्नैव ।
[०६५।१५-०६५।१६]
किं सर्वस्यैवानिवृताव्याकृतस्य ।
[०६५।१६]
न सर्वस्य ।
[०६५।१७]
अभिज्ञानैर्माणिकादृते ॥ २.३८ ॥
[०६५।१८]
द्वे अभिज्ञे अव्याकृते निर्माणचित्तं च वर्जयित्वा ।
[०६५।१८-०६५।१९]
तेषां हि बलवत्त्वात्प्रयोगविशेषनिष्पत्तेः पूर्व पश्चात्सहजा प्राप्तिः ।
[०६५।१९-०६५।२०]
शैल्पस्थानिकस्यापि कस्यचिदीर्यापथिकस्या
त्यर्थमभ्यस्तस्येच्छन्ति ।
[०६५।२१]
किमनिवृताव्याकृतस्यैव सहजा प्रप्तिरित्याह
[०६५।२२]
निवृतस्य च रूपस्य
[०६५।२३-०६५।२४]
निवृताव्याकृतस्यापि विज्ञप्तिरूपस्य सहर्जैव प्राप्तिरधिमात्रेणाप्यविज्ञप्त्यनुत्थापनादौर्बल्यसिद्धेः ।
[०६५।२५-०६५।२६]
यथाऽव्याकृतानां धर्माणामयं प्रप्तिभेदः किमेवं कुशलाकुशलानामपिकश्चित्प्राप्तिभेदोऽस्ति ।
[०६५।२६]
अस्तीत्याह ।
[०६५।२७]
कामे रूपस्य नाग्रजा ।
[०६५।२८]
कामावचरस्य विज्ञप्त्यविज्ञप्तिरूपस्याग्रजा प्रप्तिः सर्वथा नास्ति ।
[०६५।२८-०६५।२९]
सहजा चास्ति पश्चात्कालजा च ।
[०६५।३०]
किमप्राप्तेरपि प्राप्तिवत्प्रकारभेदः ।
नेत्याह ।
किं तर्हि ।
[०६६।०१]
अक्लिष्टाव्याकृताऽप्राप्तिः
[०६६।०२]
अप्राप्तिरनिवृताव्याकृतैव सर्वा ।
अध्वभेदेन पुनः
[०६६।०३]
साऽतीताजातयोस्त्रिधा ॥ २.३९ ॥
[०६६।०४]
प्रत्युत्पन्नस्य नारत्यप्राप्तिः प्रत्युत्पन्ना ।
[०६६।०४-०६६।०५]
अतीतानागतयोस्तु त्रैयध्विकी ।
[०६६।०६]
कामाद्याप्तामलानां च
[०६६।०७]
त्रिविधेति वर्त्तते ।
कामाप्तानां कामरूपारूप्यावचरी ।
[०६६।०७-०६६।०८]
एवं रूपारूप्याप्तानामनास्रवाणां च नास्त्यनास्रवा काचिदप्राप्तिः ।
[०६६।०८]
तथाहि ।
[०६६।०९]
मार्गस्याप्राप्तिरिष्यते ।
[०६६।१०]
पृथग्जनत्वम्
[०६६।११]
“पृथग्जनत्वं कतमत् ।
आर्यधर्माणामलाभ” इति शास्त्रपाठः ।
[०६६।११-०६६।१२]
अलाभश्च नामाप्राप्तिः ।
[०६६।१२]
नच पृथग्जनत्वमनास्रवं भवितुमर्हति ।
[०६६।१२-०६६।१३]
कतमेषामार्यधर्माणामलाभः ।
[०६६।१३]
सर्वेषामविशेषवचनात् ।
स तु यो विना लाभेनालाभः ।
[०६६।१३-०६६।१४]
अन्यथा हि चुद्धोऽपि श्रावकप्रत्येकबुद्धगोत्रकै रसमन्वागमादनार्यः स्यात् ।
[०६६।१४-०६६।१५]
एवशब्दस्तर्हि पठितव्यः ।
[०६६।१५]
न पठितव्यः ।
एकपदान्यपि ह्यवधारणानि भवन्ति ।
[०६६।१५-०६६।१६]
तद्यथा अब्भक्षो वायुभक्ष इति ।
[०६६।१६]
दुःखे धर्मज्ञानक्षान्तितत्सहभुवामलाभ इत्यपरे ।
[०६६।१६-०६६।१७]
न च तद्योगा दनार्यत्वप्रसङ्गः ।
[०६६।१७]
तदलाभस्यात्यन्तं हतत्वात् ।
[०६६।१७-०६६।१८]
ते तर्हि त्रिगोत्रा इति कतमेषामलाभः ।
[०६६।१८]
सर्वेषाम् ।
एवं तर्हि स एव दोषः ।
पुनः स एव परिहारः ।
[०६६।१८-०६६।१९]
यत्नस्तर्हि व्यर्थः ।
[०६६।१९]
एवं तु साधु यथा सौत्रान्तिकानाम् ।
कथं च सौत्रान्तिकानाम् ।
[०६६।२०]
“अनुत्पन्नार्यधर्मसन्ततिः पृथग्जनत्वमि”ति ।
[०६६।२१]
अथेयमप्राप्तिः कथं विहीयते ।
यस्य या धर्मस्य प्राप्तिरसौ
[०६६।२२]
तत्प्राप्तिभुसंचाराद्विहीयते ॥ २.४० ॥
[०६६।२३-०६६।२४]
यथा तावदार्यमार्गस्यालाभः पृथग्जनत्वं तस्य लाभात्तद्विहीयते भूमिसंचाराच्च ।
[०६६।२४]
एवमन्येषामपि योज्यम् ।
[०६६।२४-०६६।२५]
विहीयत इति तस्या अप्राप्तेरप्राप्तिरुत्पद्यते प्राप्तिश्छिद्यते ।
[०६६।२५-०६६।२६]
किं पुनरप्राप्तिप्राप्त्योरपि प्राप्त्यप्राप्ती भवतः ।
[०६६।२६]
उभयोरप्युभयं भव्तीत्याहुः ।
[०६६।२६-०६६।२७]
ननु चैवमनवस्था प्रसङ्गः प्रप्तीनाम् ।
[०६६।२७]
नानवस्थाप्रसङ्गः ।
परस्परसमन्वागमात् ।
[०६६।२७-०६७।०१]
आत्मना तृतीयो हि धर्म उत्पद्यते ।
[०६७।०१]
स च धर्मस्तस्य प्राप्तिः प्राप्तिप्राप्तिश्च ।
[०६७।०१-०६७।०२]
तत्र प्राप्त्युत्पादात्तेन धर्मेण समन्वागतो भवति प्राप्तिप्राप्त्या च ।
[०६७।०२-०६७।०३]
प्राप्तिप्राप्त्युत्पादात्पुनः प्राप्त्यैव समन्वागतो भवत्यतो नानव्स्था ।
[०६७।०३-०६७।०४]
एवं च कृत्व आत्मना तृतीयस्य धर्मस्य कुशलस्य क्लिष्टस्य क्लिष्टस्य वा द्वितीये क्षणे तिस्रः प्राप्तयो जायन्ते ।
[०६७।०४-०६७।०५]
तासां च पुनस्तिस्रोऽनुप्राप्तय इति षड्भवन्ति ।
[०६७।०५-०६७।०६]
तृतीये क्षणे प्रथमद्वितीयक्षणोत्पन्नानां द्रव्याणां नव प्राप्तयः सार्धमनुप्राप्तिभिरित्यष्टादाश भवन्ति ।
[०६७।०६-०६७।१०]
एवमुत्तरोत्तरवाऋद्धिप्रसण्ङ्गेनैताः प्रप्तयो विसर्पन्त्यः सर्वेषामतीतानागतानां क्लेशोपक्लेशक्षणानामुपपत्तिलाभिकानां च कुशलक्षणानां संप्रयोग सहभुवामनाद्यन्तसंसारपर्यापन्नानामनन्ता एकस्य प्राणिनः क्षणे क्षणे उपजायन्ते इत्यनन्तद्रव्याः प्रतिसन्तानमात्मभावक्षणाः सत्त्वानां भवन्ति ।
[०६७।१०]
अत्युत्सवो वतायं प्राप्तीनां वर्त्तते ।
[०६७।११]
केवलं तु अप्रतिघातिन्यो यतोऽवकाशमाकाशे लभन्ते ।
[०६७।११-०६७।१२]
इतरथा ह्याकाशेऽप्यव काशो न स्यात्द्वितीयस्य प्राणिनः ॥
[०६७।१३]
अथ केयं सभागता ।
[०६७।१४]
सभागता सत्त्वसाम्यं
[०६७।१५]
सभागता नाम द्रव्यम् ।
सत्त्वानां साकृश्यं निकायस भाग इत्यस्याः शास्त्रे संज्ञा ।
[०६७।१६]
सा पुनरभिन्ना भिन्ना च ।
अभिन्ना सर्वसत्त्वानां सत्त्वसभागता ।
[०६७।१६-०६७।१७]
प्रतिसत्त्वं सर्वेषु भावात् ।
[०६७।१७-०६७।१८]
भिन्ना पुनस्तेषामेव सत्त्वानां धातुभूमिगतियोनिजातिस्त्रीपुरुषोपासकभिक्षुशैक्षा शैक्ष्यादिभेदेन प्रतिनियता धर्मसभागता ।
[०६७।१८-०६७।२०]
पुनः स्क्न्धायतनधातुतः यदि सत्वसभागता द्रव्यमविशिष्तं न स्यातन्योन्यविशेषभिन्नेषु सत्त्वेषु सत्त्वस्त्त्व इत्यभेदेन बुद्धिर्न स्यात्प्रज्ञप्तिश्च ।
[०६७।२०-०६७।२१]
एवं स्कन्धादि बुद्धिप्रज्ञप्तय्योऽपि योज्याः ।
[०६७।२१]
स्याच्च्यवेतोपपद्येत न च सत्त्वसभागतां विजह्यान्न च प्रतिलभेतेति ।
[०६७।२२]
चतुष्कोटिकः ।
प्रथमा कोटिः यतश्च्यवते तत्रैवोपपद्यमानः ।
[०६७।२२-०६७।२३]
द्वितीया नियाममव्क्रामन् ।
[०६७।२३]
स हि पृथग्जनसभागतां विजह्यादार्यसभागतां प्रतिलभते ।
[०६७।२४]
तृतीया गतिसंचारात् ।
चतुर्थ्येतानाकारान् स्थापयित्वा ।
[०६७।२५]
यदि पृथग्जनसभागता नाम द्रव्यमस्ति किं पुनः पृथग्जनत्वेन ।
[०६७।२६]
नहि मनुष्यसभागताया अन्यन्मनुष्यत्वं कल्प्येते ।
[०६७।२६-०६८।०२]
नैव च लोकः सभागतां पश्यत्यरूपिणीत्वात्नचैनां प्रज्ञया परिच्छिनत्ति प्रतिपद्यते च सत्वानां जात्यभेदमिति सत्या अपि तस्याः कथं तत्र व्यापारः ।
[०६८।०२]
अपिचासत्त्वसभागताऽपि किं नेष्यते ।
[०६८।०३-०६८।०४]
शालियवमुद्गमासाम्रपनसलोहकाञ्चनादीनां स्वजातिसादृश्यात्तासां च सभागतानामन्योन्यभिन्नानां कथमभेदेन सभागता प्रज्ञप्तिः क्रियते ।
[०६८।०४-०६८।०५]
वैशेषिकाश्चैवं द्योतिता भवन्ति ।
[०६८।०५]
तेषामपि ह्येष सिद्धान्तः ।
[०६८।०५-०६८।०६]
सामान्यपदार्थो नामास्ति यतः समानप्रत्ययोत्पत्तिरतुल्यप्रकारेष्वपीति ।
[०६८।०६]
अयं तु तेषां विशेषः ।
[०६८।०६-०६८।०७]
स एकोऽप्यनेकस्मिन् वर्त्तते यदि द्योतिता यदि न द्योतिता ।
[०६८।०७-०६८।०८]
अस्त्येषा तु सभागता सूत्रे वचनादिति वैभाषिकाः ।
[०६८।०८-०६८।०९]
उस्तं हि भगवता “स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतामि”ति ।
[०६८।०९]
उक्तमेतन्नतूक्तं द्रव्यान्तरमिति ।
का तर्हि सा ।
[०६८।०९-०६८।१०]
त एव हि तथाभूताः संस्कारा येषु मनुष्यादिप्रज्ञप्तिः शाल्यादिषु सभागतावत् ।
[०६८।१०-०६८।११]
तत्त्वेतन्न वर्णयन्ति ।
[०६८।१२]
अथ किमिदमासंज्ञिकं नाम ।
[०६८।१३]
आसंज्ञिकमसंज्ञिषु ।
[०६८।१४]
निरोधश्चित्तचैत्तानां
[०६८।१५-०६८।१७]
असंज्ञिसत्त्वेषु देवेपूपपन्नानां यश्चित्तचैत्तानां निरोधस्तदासंज्ञिकंनाम द्रव्यं येन चित्तचैत्ता अनागतेऽध्वनि कालान्तरं संनिरुध्यन्ते नोत्पत्तुं लभन्ते ।
[६८१।७-०६८१७]
नदीतोयसंनिरोधवत् ।
[०६८।१७]
तत्पुनरेकान्तेन
[०६८।१८]
विपाकः
[०६८।१९]
कस्य विपाकः ।
असंज्ञिसमापत्तेः ।
कतमे ते सत्त्वा येष्वसंज्ञिसत्त्वाः ।
[०६८।२०]
ते बृहत्फलाः ॥ २.४१ ॥
[०६८।२१]
बृहत्फला नाम देवा येषां केचिदसंज्ञिसत्त्वाः प्रदेशे भवन्ति ध्यानान्तरिकावत् ।
[०६८।२२]
किं पुनस्तेनैव कदाचिअत्संशिनो भवन्ति ।
भवन्त्युपपत्तिकाले च्युतिकाले च ।
[०६८।२३-०६८।२४]
“प्रकृष्टमपि कालं स्थित्वा सह संज्ञोत्पादात्तेषां सत्त्वानां तत्स्थानात्च्युतिर्भवती”ति सूत्रे पाथः ।
[०६८।२४-०६८।२५]
ते च ततो दीर्घस्वप्नव्युत्थिता इव च्युत्वा कामधातावुपपद्यन्ते नान्यत्र ।
[०६८।२५-०६८।२६]
पूर्वसमापत्तिसंस्कारपरिक्षयातपूर्वानुपचयाच्च क्षिप्ता इव क्षीणवेगा इषवः पृथिवीं पतन्ति ।
[०६८।२६-०६८।२७]
येन च तत्रोपपत्तव्यं तस्यावश्यं कामावचरं कर्मापरपर्यायवेदनीयंभवति ।
[०६८।२७]
यथोत्तरकौरवाणां देवोपपात्तिवेदनीयम् ।
[०६८।२८]
अथ समापत्ती इति यदुक्तं कतमे ते समापत्ती ।
[०६८।२८-०६८।२९]
असंज्ञिसमापत्तिर्निरोधसमापत्तिश्च ।
[०६८।२९]
केयमसंज्ञिसमापत्तिः ।
[०६८।२९-०६८।३०]
यथैवासंज्ञिकमुक्तं “निअरोधश्चित्तचैत्तानामि”ति ।
[०६९।०१]
तथाऽसंज्ञिसमापत्तिः
[०६९।०२]
असंज्ञिनां समापत्तिरसंज्ञा वे त्यसंज्ञिसमापत्तिः ।
[०६९।०२-०६९।०३]
साऽपि चित्तचैत्तानां निरोधः ।
[०६९।०३]
एतावत्तथाशब्देनान्वाकृष्यते ।
सा तु समापत्तिः ।
[०६९।०४]
ध्यानेऽन्त्ये
[०६९।०५]
अन्त्यध्यानं चतुर्थं तत्पर्यापन्नाऽसौ नान्यभुमिका ।
किमर्थमेनां समापद्यन्ते ।
[०६९।०६]
निःसृतीच्छया ।
[०६९।०७]
निःसरणमेषां मन्यन्ते ।
अतो मोक्षकामतया समापद्यन्ते ।
[०६९।०७-०६९।०८]
आसंज्ञिकं विपाकत्वातव्याकृतमिति सिद्धम् ।
[०६९।०८]
इयं तु
[०६९।०९]
शुभा
[०६९।१०]
कुशलैवासंज्ञिसमापत्तिः ।
तस्या असंज्ञिसत्त्वेषु पञ्चस्कन्धको विपाकः ।
कुशला सती
[०६९।११]
उपपद्यवेद्यैव
[०६९।१२]
उपपद्यवेदनीयैव ।
न दृष्टधर्मपर्यायवेदनीया नापि अनियता ।
[०६९।१२-०६९।१३]
योऽप्येनामुत्पाद्य परिहीयते सोऽपि किलावश्यं पुनरुत्पाद्यासंज्ञिसत्त्वेषूपपद्यत इति ।
[०६९।१३-०६९।१४]
अत एव तल्लाभी नियामं नावक्रामति ।
[०६९।१४]
सेयं पृथग्जनस्यैवेष्यते ।
[०६९।१५]
नार्यस्य
[०६९।१६]
नह्यार्यामसंज्ञिसमापत्तिं समापद्यन्ते विनिपातस्थानमिवैतां पश्यन्तः।
[०६९।१६-०६९।१७]
निःसरणसंज्ञिनो हि तां समापद्यन्ते ।
[०६९।१७-०६९।१८]
अथ किमेनामार्याश्चतुर्थध्यानलाभादतीतानागतां प्रतिलभन्ते ध्यानवत् ।
[०६९।१८]
अन्येऽपि अतावन्न प्रतिलभन्ते ।
किं कारणम् ।
[०६९।१८-०६९।१९]
एषा ह्युचिताऽपि सती महाभिसंस्कारसाध्यत्वादचित्तकत्वाच्च ।
[०६९।२०]
एकाध्विकाप्यते ॥ २.४२ ॥
[०६९।२१]
एककालिकेत्यर्थः ।
वर्त्तमानकालिकैव लभ्यते
[०६९।२१-०६९।२२]
यथा प्रातिमोक्षसंवरः ।
[०६९।२२-०६९।२३]
लब्धया तु द्वितईयादिषु क्षणेष्वतीतयाऽपि समन्वागतो भवति यावन्न त्यजति ।
[०६९।२३]
अचित्तक त्वान्नानागता भाव्यते ।
[०६९।२४]
निरोधसमापत्तिरिदानिं कतमा ।
[०७०।०१]
निरोधाख्या तथैवेयं
[०७०।०२]
यथैवासंज्ञिमापत्थिः ।
तथाशब्देन कः प्रकारो गृह्यते ।
“निरोधश्चित्तचैत्तानामि”ति ।
[०७०।०३]
अयं त्वस्या विशेषः ।
इयं
[०७०।०४]
विहारार्थं
[०७०।०५]
शान्तविहारसंज्ञापूअर्वकेण मनसिकारेण एनां समापद्यन्ते ।
[०७०।०५-०७०।०६]
तां तु निःसरणसंज्ञा पूर्वकेण ।
[०७०।०६]
सा खल्वपि चतुर्थध्यानभूमिका ।
इयं तु
[०७०।०७]
भवाग्रजा ।
[०७०।०८]
नैवसंज्ञानासंज्ञायतनभूमिकैव ।
सा चेयं
[०७०।०९]
शुभा
[०७०।१०]
कुशलैव न क्लिल्ष्टा नाव्याकाऋता ।
कुशला सती
[०७०।११]
द्विवेद्याऽनियता च ।
[०७०।१२]
द्वयोः कालयोर्वेद्या उपपद्यवेदनीया चापरपर्यायवेदनीया च ।
[०७०।१२-०७०।१३]
अनियता च विपाकं प्रति कदाचिन्न विपच्यते ।
[०७०।१३-०७०।१४]
यदीह परिनिअर्वायात्तस्या हि भवाग्रे चतुःस्कन्धको विपाकः ।
[०७०।१४]
सा चेयमेकान्तेन
[०७०।१५]
आर्यस्य
[०७०।१६-०७०।१७]
नहि पृथग्जना निरोधसमापत्तिमुत्पादयितुं शक्नुवन्त्युच्छेदभीरुत्वादार्यमार्गबलेन चोत्पादनाद्दृष्टधर्मनिर्वाणस्य तदधिमुक्तितः ।
[०७०।१७]
आर्यस्यापि चेयं न वैराग्यलभ्या ।
[०७०।१८]
किं तर्हि ।
[०७०।१९]
आप्या प्रयोगतः ॥ २.४३ ॥
[०७०।२०]
प्रयोगलभ्यैवेयम् ।
न चातीता लभ्यते नाप्यनागत भाव्यते ।
[०७०।२०-०७०।२१]
चित्तबलेन तद्भावनात् ।
[०७०।२१]
किं भगवतोऽपि परायोगिकी ।
नेत्याह ।
[०७०।२२]
बोधिलभ्या मुनेः
[०७०।२३-०७०।२४]
क्षयज्ञानसमनं कालं बुद्धा भगवन्त एनां लभन्ते नास्ति किञ्चिद्बुद्धानां प्रायोगिकं नाम ।
[०७०।२४]
इच्छामात्रप्रतिबद्धो हि तेषां सर्वगुणसंपात्संमुखीभावः ।
[०७०।२५]
तस्मादेषां सर्ववैराग्यलाभिकम् ।
[०७०।२५-०७०।२६]
कथं खल्वि दानीमनुत्पादितायां निरोधसमापत्तौ क्षयज्ञानकाले भगवानुभयोतोभागविमुक्तः सिध्यति ।
[०७०।२७-०७१।०१]
सिध्यत्युत्पादितायामिव तस्यां वशित्वात्प्रागेव तां बोधिसत्त्वः शैक्ष्यावस्थायामुत्पादयतीति पाश्चत्त्याः ।
[०७१।०१]
अथ कस्मादेवं नेष्यते ।
[०७१।०१-०७१।०२]
एवं च स्थविरोपगुप्तस्यापीदं नेत्रीपदं प्रामाणिकं भविष्यति ।
[०७१।०२-०७१।०३]
“निरोधसमापत्तिमुत्पाद्य क्षयज्ञानमुत्पादयतीति वक्तव्यं तथागत”इति ।
[०७१।०४]
न प्राक्
[०७१।०५]
नहि पूर्वं तस्या उतपादनं युज्यत इति काश्मीरकाः ।
किं कारणम् ।
[०७१।०६]
चतुस्त्रिंशत्क्षणाप्तितः ।
[०७१।०७]
चतुस्रिंशता किल चित्तक्षणैर्बोधिसत्त्वो बोधिमनुप्राप्तः ।
[०७१।०७-०७१।०९]
सत्याभिसमये षोडशभिर्भवाग्रवैराग्ये चाष्टादशभिर्नवप्रकाराणां क्लेशानां प्रहाणाय नवानन्तर्यविमुक्तिमार्गोत्पादनात् ।
[०७१।०९]
त एते चतुस्त्रिंशत्भवन्ति ।
[०७१।०९-०७१।१०]
आकिञ्चन्यायतनवीतरागस्यास्यनियामावक्रमणादधोभूमिका न पुनःः प्रहेया भवन्ति ।
[०७१।१०-०७१।११]
अत एतस्मिन्नन्तरे विसभागचित्तासंभवान्निरोधसमापत्तेरयोग इति ।
[०७१।११-०७१।१२]
किं पुनः स्याद्यदि विसभागचित्तमन्तरा संमुखीक्कुर्यात् ।
[०७१।१२-०७१।१३]
व्युत्थानाशयः स्यादव्युत्थानाशयाश्च बोधिसत्त्वाः ।
[०७१।१३]
सत्यमव्युत्थानाशया नतु आस्रव मार्गाव्युत्थानात् ।
[०७१।१३-०७१।१४]
कथं तर्हि “न तावत्भेत्स्यामि पर्यङ्कमप्राप्ते आस्रवक्षय” इति ।
[०७१।१४-०७१।१५]
अस्याशयस्याव्युत्थाना देकायन एव सर्वार्थपरिसमाप्तेरिति बहिर्देशकाः ।
[०७१।१५-०७१।१६]
पूर्वमेव तु वर्णयन्ति काश्मीराः ।
[०७१।१६]
यद्यप्यनयोः समापत्त्योर्बहुप्रकारो विशेषः ।
[०७१।१७]
कामरूपाश्रये भूते
[०७१।१८]
उभे अपि त्वेते असंज्ञिनिरोधसमापत्ती कामधातौ रूपधातौ चोत्पत्स्येते ।
[०७१।१८-०७१।१९]
ये त्वसंज्ञिसमापत्तिं रूपधातौ नेच्छन्ति तेषामयं ग्रन्थो विरुध्यते ।
[०७१।१९-०७१।२०]
स्याद्रूपभवो न चासौ भवः पञ्चव्यवचारः ।
[०७१।२०-०७१।२२]
स्याद्रूपावचराणां सत्त्वानां संज्ञिनां देवानां विसभागे चित्ते स्थितानामसंज्ञिसमापत्तिं निरोधसमापर्त्तिं च समापन्नानामसंज्ञिनां च देवानामासंज्ञिके प्रतिलब्धे यो भव” इति ।
[०७१।२२]
अत उभे अप्येते कामरूपाश्रये ।
[०७१।२२-०७१।२३]
तत्रापि त्वयं विशेषः ।
[०७१।२४]
निरोधाख्यादितो नृषु ॥ २.४४ ॥
[०७१।२५]
निरोधसमापत्तिः प्रथमतो मनुष्येपूत्पाद्यते पश्चाद्रूपधातौ परिहीणपूर्वैः ।
[०७१।२६]
किमतोऽप्यस्ति परिहाणिः ।
अस्तीत्याह ।
[०७१।२६-०७२।०१]
अन्यथा हि न्दायि सूत्रं विरुध्येत ।
[०७२।०१-०७२।०२]
“इहायुष्मन्तो भिक्षुः शीलसंपन्नश्च भवति समाधिसंपन्नश्च प्रज्ञासंपन्नश्च ।
[०७२।०२-०७२।०५]
सोऽभीक्ष्णं संज्ञावेदयित निरोधं समापद्यते च व्युत्तिष्ठते चास्ति चैतत्स्थानमिति यथाभूतं प्रजानाति स न हैव दृष्ट एव धर्मे प्रतिपत्त्ये वाज्ञामारागयति नापि मरणकालसमये भेदाच्च कायस्यातिक्रम्य देवान् कवडीकाराहार भक्षानन्यतरस्मिन् दिव्ये मनोमये काय उपपद्यते ।
[०७२।०५-०७२।०६]
स तत्रोपपन्नोऽभीक्ष्णं संज्ञावेदितनिरोधं समापद्यते च व्युत्तिष्टहते चास्ति चैतत्स्थानमिति यथाभूतं प्रजानाती”ति ।
[०७२।०६-०७२।०७]
अत्र हि दिव्यो मनोमयः कायो रूपावचर उक्तो भगवता ।
[०७२।०७]
इयं च समापत्तिर्भावाग्रिकी ।
[०७२।०८]
तत्कथमपरिहीणस्य तल्लाभिनो रूपधातौ स्यादुपपत्तिः ।
[०७२।०८-०७२।०९]
चतुर्थध्यानभूमिकामपि निरोधसभापतिं निकायान्तरीया इच्छन्ति ।
[०७२।०९]
तेषां विनापि परिहाण्या सिध्यत्येतत् ।
[०७२।१०]
एतदेव तु न सिध्यति ।
चतुर्थध्यानभूमिकाऽप्यसावस्तीति ।
किं कारणम् ।
[०७२।११]
“नवानुपूर्वसमापत्तय” इति सूत्रे वचनात् ।
[०७२।११-०७२।१२]
यद्येष नियमः कथं व्युत्क्रान्तसमापत्तयो भवन्ति ।
[०७२।१२]
प्राथमकल्पिकं प्रत्येष नियमः ।
[०७२।१२-०७२।१३]
प्रप्तप्रकामवाशित्वास्तु सन्तो विलङ्घ्यापि समापद्यन्ते ।
[०७२।१३]
एवमनयोः समापत्त्योर्भूमितोऽपि विशेषः ।
[०७२।१४]
चतुर्थध्यानतयाऽग्राभूमिकत्वात् ।
[०७२।१४-०७२।१५]
प्रयोगतोऽपि निःसरणविहारसंज्ञापूर्वकमनसिकारप्रयोगात् ।
[०७२।१५]
संतानतोऽपि पृथग्जनार्यसंतानत्वात् ।
[०७२।१५-०७२।१६]
फलतोऽप्यासंज्ञिकभवाग्रफलत्वात् ।
[०७२।१६-०७२।१७]
वेदनीयतोऽपि नियतानियतोपपद्योभयथावेदनीयत्वात् ।
[०७२।१७]
प्रथमोत्पादनतोऽपि द्विधातुमनुष्योत्पादनात् ।
[०७२।१७-०७२।१८]
कस्मात्पुनरेते चित्ततचैत्तनिरोधस्वभावे सत्यावसंज्ञिसमापत्तिः संज्ञावेदितनिरोधसमापत्तिश्चोच्यते ।
[०७२।१८-०७२।१९]
तत्प्रातिकूल्येन तत्समापत्तिप्रयोगात् ।
[०७२।१९]
वेदनादिज्ञानेऽपि परचित्तज्ञानवचनवत् ।
[०७२।१९-०७२।२०]
कथमिदानीं बहुकालं निरुद्धाच्चित्तात्पुनरपि चित्तं जायते ।
[०७२।२०-०७२।२१]
अतीतस्याप्यस्तित्वातिष्यते वैभाषिकैः समनन्तरप्रत्ययत्वम् ।
[०७२।२१]
अपरे पुनराहुः ।
[०७२।२१-०७२।२२]
कथं तावद्रूपोपपन्नानां चिरनिरुद्धेऽपि रूपे पुनरपि रूपं जायते ।
[०७२।२२]
चित्तादेव हि तज्जायते न रूपात् ।
[०७२।२२-०७२।२३]
एवं चित्तमप्यस्मादेव सेन्द्रियात्कायाज्जायते न चित्तात् ।
[०७२।२३-०७२।२४]
अन्योन्यबीजकं ह्येतदुभयं यदुत चित्तं च सेन्द्रियश्च काय इति पूर्वाचार्याः ।
[०७२।२४-०७२।२५]
भदन्तवसुमित्रस्त्वाह परिपृच्छायां “यस्याचित्तिका निरोधसमापत्तिस्तस्यैष दोषो मम तु सचित्तिका समापत्तिरि”ति ।
[०७२।२६]
ति ।
भदन्तघोषक आह तदिदं नोपपद्यते ।
[०७२।२६-०७२।२७]
“सति हि विज्ञाने त्रयाणां संनिपातः स्पर्शः ।
[०७२।२७-०७२।२८]
स्पर्शप्रत्यया च वेदना संज्ञा चेतन्ऽऽएत्युक्तं भगवता ।
[०७२।२८]
अतः संज्ञावेदनयोरप्यत्र निरोधो न स्यात् ।
अथापि स्यात् ।
[०७३।०१]
यथा वेदनाप्रत्यया तृष्णे”त्युक्तम् ।
[०७३।०१-०७३।०२]
सत्यामपि तु वेदनायामर्हतो न तृष्णोत्पत्तिरेवं सत्यपि स्पर्शे वेदन्नादयो न स्युरिति ।
[०७३।०२]
तस्याविशेषितत्वात् ।
[०७३।०२-०७३।०३]
अविद्यासंस्पर्शजं हि वेदितं प्रतीत्योत्पन्ना तृष्णेत्युक्तं नतु वेदनोत्पत्तौ स्पर्शो विशेषित इत्यसमानमेतत् ।
[०७३।०४]
तस्मादचित्तिका निरोधसमापत्तिरिति वैभाषिकाः ।
[०७३।०४-०७३।०५]
कथमचित्तिकायाः समापत्तित्वम् ।
[०७३।०५]
महाभूतसमतापादनात् ।
[०७३।०५-०७३।०६]
समापत्तिचित्तेन च तां समापद्यन्ते समागच्छन्तीति समापत्तिः ।
[०७३।०६]
किं पुनरेते समापत्ती द्रव्यतः स्त उताहो प्रज्ञप्तितः ।
[०७३।०७]
द्रव्यत इत्याह ।
चित्तोत्पत्तिप्रतिबन्धनात् ।
न ।
समापत्तिचित्तेनैव तत्प्रतिबन्धनात् ।
[०७३।०८-०७३।०९]
समापत्तिचित्तमेव हि तच्चित्तान्तरविरुद्धमुत्पद्यते येन कालान्तरं चित्तस्या प्रवृत्तिमात्रं भवति ।
[०७३।०९]
तद्विरुद्धाश्रयापादनात् ।
[०७३।०९-०७३।११]
याऽसौ समापत्तिरिति प्रज्ञप्यते तच्चाप्रवृत्तिमात्रं न पूर्वमासीन्न पश्चात्भवति व्युत्थितस्येति संस्कृताऽसौ समापत्तिः प्रज्ञप्यते ।
[०७३।११]
अथवा आश्रयस्यैव तथा समापादनं समापत्तिः ।
[०७३।११-०७३।१२]
एवमासंज्ञिकमपि द्रष्टव्यम् ।
[०७३।१२-०७३।१३]
चित्तमेवासौ तत्र चित्तप्रवृत्तिविरुद्धं लभते तच्चाप्रवृत्तिमात्रमासंज्ञिकं प्रज्ञप्यत इति तदेतन्न वर्णयन्ति ।
[०७३।१३]
व्याख्याते समापत्ती ॥
[०७३।१४]
जीवितं कतमत् ।
[०७३।१५]
आयुर्जीवितम्
[०७३।१६]
एवं ह्युक्तमभिधर्मेऽजीवितेन्रियं कतमत् ।
त्रैधातुकमायुरि”ति ।
[०७३।१६-०७३।१७]
एतच्चैव न ज्ञायते आयुर्नाम क एष धर्म इति ।
[०७३।१८]
आधार ऊष्मविज्ञानयोर्हि यः ।
[०७३।१९]
इदमुक्तं भगवता
[०७३।२०-०७३।२१]
“आयुरूष्माथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतन” इति ॥
[०७३।२२]
तद्य ऊष्मणो विज्ञानस्य चाधारभूतो धर्मः स्थितिहेतुस्तदायुः ।
[०७३।२२-०७३।२३]
तस्येदानीमायुषः क आधारभूतः ।
[०७३।२३-०७३।२४]
एवं तर्हि परस्परापेक्ष्यवृत्तित्वादेषां कः पूर्वं निवर्तिष्यते ।
[०७३।२४]
यद्वशादिभवौ विवर्त्तिष्येते इति नित्यानिवृत्तिप्रसङ्गः ।
[०७३।२५]
आयुषस्तर्हि कर्माधारभूतं यावदाक्षिप्तं कर्मणा तावदनुवर्त्तनात् ।
[०७३।२५-०७३।२६]
ऊष्मविज्ञानयोरपि किमर्थं कर्मैवाधारभूतं नेष्यते ।
[०७३।२६]
मा भूत्सर्वं विज्ञानमामरणाद्विपाक इति ।
[०७३।२७]
ऊष्मणस्तर्हि कर्माधार्भूतं भविष्यति ऊष्मा च विज्ञानस्य ।
[०७३।२७-०७३।२८]
एवमप्यारूप्येष्वनाधारं विज्ञानं स्यादूष्माभावात् ।
[०७३।२८]
तस्य पुनः कर्माधारो भविष्यति ।
[०७३।२८-०७४।०१
न वै लभ्यते कामचारो यत्क्वचिदेवोष्मा विज्ञानस्याधारो भविष्यति क्वचिदेव कर्मेति ।
[०७४।०२]
उक्तं चात्र ।
किमुक्तम् ।
[०७४।०२-०७४।०३]
“मा भूत्सर्वं विज्ञानमामरणाद्विपाक” इति ।
[०७४।०३]
तस्मादस्त्येव तयोराधारभूतमायुः ।
[०७४।०३-०७४।०४]
नहि नास्तीति ब्रूमो नतु द्रव्यान्तरम् ।
[०७४।०४]
किं तर्हि ।
त्रैधातुकेन कर्मणा निकायसभागस्य स्थितिकालावेधः ।
[०७४।०५-०७४।०६]
यावद्धि कर्मणा निकायसभागस्यावेधः कृतो भवत्येतावन्तं कालमवस्थातव्यमिति तावत्सोऽवतिष्ठते तदायुरित्युच्यते ।
[०७४।०६-०७४।०७]
सस्यानां पाककालावेधवत्क्षिप्तेषुस्थितिकालावेधवच्च ।
[०७४।०७-०७४।०८]
यस्तु मन्यते संस्कारो नाम कश्चिन् गुणविशेष इषौ जायते यद्वशाद्गमनमापतनाद्भवतीति ।
[०७४।०८-०७४।०९]
तस्य तदेकत्वात्प्रतिपन्नाभावाच्च देशान्तरैः शीघ्र तरतमप्राप्तिकालभेदा नुपपत्तिः पतनानुपपत्तिश्च ।
[०७४।०९-०७४।१०]
वायुना तत्प्रतिबन्ध इति चेत् ।
[०७४।१०]
अर्वाक्पतनप्रसङ्गो न वा कदाचिद्वायोरविशेषात् ।
[०७४।१०-०७४।११]
एवं तु वर्णयन्ति द्रव्यान्तरमेवायुरस्तीति ।
[०७४।१२]
अथ किमायुःक्षयादेव मरणं भवत्याहोस्विदन्यथापि ।
[०७४।१२-०७४।१३]
प्रज्ञप्तावुक्तम् “आयुःक्षयान्मरणं न पुण्यक्षयादि”ति ।
[०७४।१३]
चतुष्कोटिः ।
[०७४।१३-०७४।१४]
प्रथमा कोटिरायुर्विपाकस्य कर्मणः पर्यादानात् ।
[०७४।१४]
द्वितीया भोगविपाकस्य ।
तृतीयोभयोः ।
[०७४।१४-०७४।१५]
चतुर्थी विषमापरिहारेण ।
[०७४।१५]
आयुरुत्सर्गाच्चेति वक्तव्यक्म् ।
न वक्तव्यम् ।
आयुःक्षयादेव तन्मरणम् ।
[०७४।१६]
प्रथमकोट्यन्तर्गमात् ।
[०७४।१६-०७४।१७]
क्षीणे त्वायुषि पुण्यक्षयस्य मरणे नास्ति सामर्थ्यम् ।
[०७४।१७]
तस्मादुभयक्षये सति मरणमायुःक्षयादित्युक्तम् ।
[०७४।१७-०७४।१८]
ज्ञानप्रस्थानेऽप्युक्तम् “आयुः सन्तत्युपनिबद्धं वर्तत इति वक्तव्यम् ।
[०७४।१८]
सकृदुत्पन्नं तिष्ठनीति वक्तव्यम् ।
[०७४।१९]
आह ।
[०७४।१९-०७४।२०]
कामावचराणां सत्त्वानामसंज्ञिसमापर्त्तिं निरोधसमापर्त्तिं च समापन्नानां सन्तत्युपनिबद्धं वर्त्तत इति वक्तव्यम् ।
[०७४।२०-०७४।२१]
समापन्नानां रूपारूप्यावचराणां च सत्त्वानां सक्र्दुत्पन्नं तिष्ठतीति वक्तव्यम्” ।
[०७४।२१]
कोऽस्य भाषितस्यार्थः ।
[०७४।२१-०७४।२२]
यस्याश्रयोपघातादुपाघतस्तत्सन्तत्यधीनत्वात्प्रथमम् ।
[०७४।२२-०७४।२३]
यस्य त्वाश्रयोपघात एव नास्ति तद्यथो त्पन्नावस्थानात्द्वितीयम् ।
[०७४।२३-०७४।२४]
सान्तरायं प्रथमं निरन्तरायं द्वितीयमिति काश्मीराः ।
[०७४।२४]
तस्मादस्त्यकालमृत्युः ।
[०७४।२४-०७४।२५]
सूत्र उक्तम् “चत्वार आत्मभावप्रतिलम्भाः ।
[०७४।२५]
अस्त्यात्मभावप्रतिलम्भो यत्रात्मसंचेतना क्रमते न परसंचेतने”ति ।
[०७४।२६]
चतुष्कोटिकः ।
[०७४।२६-०७४।२७]
आत्मसंचेतनैव क्रमते कामधातौ क्रीडाप्रमोष्काणां देवानां मनःप्रदूषकाणां च ।
[०७४।२७-०७४।२८]
तेषां हि प्रहर्षमनःोप्रदोषाभ्यां तस्मात्स्थानाच्च्युतिर्भवति नान्यथा।
[०७४।२८]
दुद्धानां चेति वक्तव्यम् ।
[०७५।०१]
स्वयंमृत्युत्वात् ।
परसंचेतनैव क्रमते गर्भाण्डगतानाम् ।
[०७५।०१-०७५।०२]
उभयमप्येषां कामावचराणां प्रायेण ।
[०७५।०२-०७५।०६]
नोभयं सर्वेषा मन्तराभविकाणां रूपारूप्यावचराणामनेकजातीयानां कामावचराणां तद्यथा नारकाणा मुत्तरकौरवाणां दर्शनमार्गमैत्रीनिरोधासंज्ञि समापत्तिसमापन्नानां राजर्षिजिनदूतजिनादिष्ट धर्मिलो त्तरगङ्गिल श्रेष्ठिपुत्रयशः दुमारजीवकादीनां सर्वेषा चरमभविकानांवोधिसत्त्व मातुस्तद्गर्भायाः चक्रवर्त्तिनश्चक्रवर्त्तिमातुश्च तद्गर्भायाः।
[०७५।०६-०७५।०७]
अथ कस्मात्सूत्र उक्तं कतमे ते भदन्त सत्त्वा येषां नात्मसंचेतना क्रमते न परसंचेतना ।
[०७५।०७-०७५।०८]
नैवसंज्ञानासंज्ञायतनोपगाः शारिपुत्रे”ति ।
[०७५।०८-०७५।०९]
अन्येषु किल ध्यानरूप्येध्वात्मसंचेतनास्वभूमिक आर्यमार्गः परसंचेतना उत्तरभूमिसामन्तकस्तत्र चोभयं नास्तीति ।
[०७५।०९-०७५।१०]
ननु चैवं तत्रापि परभूमिक आर्यमार्गः परसंचेतना प्राप्नोति ।
[०७५।१०]
पर्यन्तग्रहणात्तर्हि तदादिसंप्रत्ययः ।
[०७५।११]
क्वचिदादिसंप्रत्ययः क्वचिदादिना पर्यन्तोऽपि प्रतीयते ।
यदाह ।
[०७५।११-०७५।१२]
“तद्यथा देवा ब्रह्मकायिकाः ।
[०७५।१२]
इयं प्रथमा सुखोपपत्तिरिति ।
क्वचित्पर्यन्तेनादिरपि प्रतीयते ।
[०७५।१३]
यदाह ।
तद्यथा देवा आभास्वराः ।
इयं द्वितीया सुखोपपत्तिरि”ति
[०७५।१३-०७५।१४]
अयमत्र तद्यथाशब्दो दृष्टान्तवाचक इति युक्त एतस्माच्छेषसं प्रत्ययः ।
[०७५।१४-०७४।१५]
एष हि दृष्टान्तधर्मो यदेकमपि तज्जातीयकं दृश्यते ।
[०७५।१५-०७५।१६]
स चेह तद्यथाशब्दो नास्तीत्यनुपसंहार एषः ।
[०७५।१६]
यद्ययं तद्यथाशब्दो दृष्टान्तवाचकः स्यादिह न प्राप्नुयात् ।
[०७५।१६-०७५।१७]
सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथा मनुष्यस्तदेकत्याश्चदेवा इति ।
[०७५।१७-०७५।१८]
तस्मादुपदर्शनार्थ एवायं द्रष्टव्य इत्यलमतिप्रसङ्गेन ।
[०७५।१८]
उक्तं जीवितम् ॥
[०७५।१९]
लक्षणानि पुनर्जातिर्जरा स्थितिरनित्यता ॥ २.४५ ॥
[०७५।२०]
एतानि हि संस्कृतस्य चत्वारि लक्षणानि ।
[०७५।२०-०७५।२१]
यत्रैतानि भवन्ति स धर्मः संस्कृतो लक्ष्यते ।
[०७५।२१]
विपर्ययादसंस्कृतः ।
[०७५।२१-०७५।२२]
तत्र जातिस्तं धर्मं जनयति स्थितिः स्थपयति जरा जरयति अनित्यता विनाशयति ।
[०७५।२२-०७५।२३]
ननु “त्रीणिमानि संस्कृत लक्षणानी”ति सूत्र उक्तम् ।
[०७५।२३]
चतुर्थमप्यत्र वक्तव्यं स्यात् ।
किं चात्र नोक्तम् ।
आह ।
[०७५।२४]
स्थितिः ।
यत्तर्हि “इदं स्थित्यन्यथात्वमि”ति ।
[०७५।२४-०७५।२५]
जराया एष पर्यायस्तद्यथा जातेरुत्पाद इत्यनित्यतायाश्च व्यय इति ।
[०७५।२५-०७६।०१]
ये हि धर्माः संस्काराणामध्वसंचाराय प्रवृत्तास्त एव सूत्रे लक्षणान्युक्तान्युद्वेजनार्थम् ।
[०७६।०१-०७६।०२]
जातिर्हि या संस्काराननागतादध्वनः प्रत्युत्पन्नमध्वानं संचारयति ।
[०७६।०२-०७६।०३]
जराऽनित्यते पुनः प्रत्युत्पन्नादतीतं दुर्बलीकृत्य प्रतिघातात् ।
[०७६।०३]
तद्यथा किल गहनप्रविष्टस्य पुरुषस्य त्रयः शत्रवः ।
[०७६।०३-०७६।०४]
तत एक एनं गहनादाकर्षेत्द्वौ पुनर्जीविताद्वच्यपरोपयेतां तद्वदिति ।
[०७६।०४-०७६।०५]
स्थितिस्तु तान् संस्कारानुपगुह्य तिष्ठत्यवियोगमिवेच्छन्ती ।
[०७६।०५-०७६।०६]
अतोऽसौ संस्कृतलक्षणं न व्यवस्थापिता ।
[०७६।०६]
असंस्कृतस्यापि च स्वलक्षणे स्थितिभावात् ।
[०७६।०६-०७६।०७]
अन्ये पुनः कल्पयन्ति स्थितिं जरां चाभिसमस्य स्थित्यन्यथात्वमित्येकं लक्षणमुक्तं सूत्रे ।
[०७६।०७]
किं प्रयोजनम् ।
[०७६।०८-०७६।०९]
एषा ह्येषु सङ्गास्पदमतः श्रियमिवैनां कालकर्णीसहितां दर्शयामास तस्यामनासङ्गार्थमिति ।
[०७६।०९]
अतश्चत्वार्येव संस्कृत लक्षणानि ।
[०७६।०९-०७६।१०]
तेषामपि नाम जात्यादीनां संस्कृतत्वादन्यैर्जात्यादिभिर्भवितव्यम् ।
[०७६।१०]
भवन्त्येव ।
[०७६।११]
जातिजात्यादयस्तेषां
[०७६।१२]
तेषामपि चत्वार्यनुलक्षणानि भवन्ति ।
[०७६।१२-०७६।१३]
जातिजातिः स्थितिस्थितिः जराजरा अनित्यताऽनित्यता इति ।
[०७६।१३]
ननु चैकस्यैकस्य चतुर्लक्षणी प्राप्नोति अपर्यवसानदोषश्च ।
[०७६।१४]
तेषां पुनरन्यजात्यादिप्रसङ्गात् ।
न प्राप्नोति ।
यस्मात् ।
[०७६।१५]
तेऽष्टधर्मैकवृत्तयः ।
[०७६।१६]
तेषां जात्यादीनामष्टासु धर्मेषु वृत्तिः ।
किमिदं वृत्तिरिति ।
कारित्रं पुरुषकारः ।
[०७६।१७]
जातिजात्यादीनां चैकत्र धर्मे कथं कृत्वा आत्मना नवमो हि धर्म उत्पद्यते ।
[०७६।१८]
सार्धं लक्षणानुलक्षणैरष्टाभिः ।
[०७६।१८-०७६।१९]
तत्र जातिरात्मानं विरहय्यान्यानष्टौ धर्मान् जनयति ।
[०७६।१९]
जातिजातिः पुन स्तामेव जातिम् ।
[०७६।१९-०७६।२०]
तद्यथा किल काचित्कुक्कुटी बहून्य पत्यानि प्रजायते काचिदल्पानि ।
[०७६।२०-०७६।२१]
तद्वत्स्थितिरप्यात्मानं वर्जयित्वाऽन्यानष्टौ धर्मान् स्थापयति स्थितिस्थितिस्तु तामेव स्थितिम् ।
[०७६।२१-०७६।२२]
एवं जराऽनित्यते अपि यथायोग्यं यज्ये ।
[०७६।२२]
तस्माना भवत्यनवस्थाप्रसङ्गः ।
[०७६।२२-०७६।२३]
तदेतदाकाशं पाट्यत इति सौत्रान्तिकाः ।
[०७६।२३-०७६।२४]
नह्येते जात्यादयो धर्मा द्रव्यतः संविद्यन्ते यथाऽभिव्यज्यन्ते ।
[०७६।२४]
किं कारणम् ।
प्रमाणाभावात् ।
[०७६।२४-०७६।२५]
नह्येषां द्रव्यतोऽस्तित्वे किञ्चिदपि प्रमाणमस्ति प्रत्यक्षमनुमानमाप्तागमो वा यथा रूपादीनां धर्माणामिति ।
[०७६।२६-०७६।२७]
यत्तर्हि सूत्र उक्तं “संस्कृतस्योत्पादोऽपि प्रज्ञायते व्ययोऽपि स्थित्यन्यथात्वमपी” ति ।
[०७६।२७]
ग्रन्थज्ञो देवानां प्रियो नत्वर्थज्ञः ।
अर्थश्च प्रतिशरण मुक्तं भगवता ।
[०७६।२८]
कः पुनरस्यार्थः ।
[०७६।२८-०७६।२९]
अविद्यान्धा हि बालाः संस्कारप्रवाहमात्मात आत्मीयतश्चाधिमुक्ता अभिष्वजन्ते ।
[०७६।२९-०७७।०२]
तस्य मिथ्याधिमोक्षस्य व्यावर्त्तनार्थं भगवांस्तस्य संस्कारप्रवाहस्यसंस्कृतत्वं प्रतीत्यसमुत्पन्नतां द्योतयितुकाम इदमाह “त्रिणीमानि संस्कृतस्य संस्कृतलक्षणानि” ।
[०७७।०२]
न तु क्षणस्य ।
नहि क्षणस्योत्पादादयः प्रज्ञायन्ते ।
[०७७।०३]
नचाप्रज्ञायमाना एते लक्षणं भवितुमर्हन्ति ।
[०७७।०३-०७७।०४]
अथ एवात्र सूत्रे “संस्कृतस्योत्पादोऽपि प्रज्ञायत” इत्युक्तम् ।
[०७७।०४-०७७।०५]
पुनः संस्कृतग्रहणं संस्कृतत्वे लक्षणानीति यथा विज्ञाये त ।
[०७७।०५-०७७।०६]
मैवं विज्ञायि संस्कृतस्य वस्तुनोऽस्तित्वे लक्षणानि जलवलाकावत्साध्वसादुत्वे वा कन्यालक्षणवदिति ।
[०७७।०६-०७७।०७]
तत्र प्रवाहस्यादिरुत्पादो निवृत्तिर्व्ययः ।
[०७७।०७]
स एव प्रवाहोऽनुवर्त्तमानः स्थितिः ।
[०७७।०७-०७७।०८]
तस्य पूर्वापरविशेषः स्थित्यन्यथात्वम् ।
[०७७।०८-०७७।०९]
एवं च कृत्वोक्तं “विदिता एव नन्दस्य कुलपुत्रस्य वेदना उत्पद्यन्ते विदिता अव तिष्ठन्ते विदिता अस्तं परिक्षयं पर्यादानं गच्छन्ती”ति ।
[०७७।१०]
आह चात्र
[०७७।११-०७७।१२]
“जातिरादिः प्रवाहस्य व्ययश्छेदः स्थितिस्तु सः ।
स्थित्यन्यथात्वं तस्यैव पूर्वापरविशिष्टता ॥”
[०७७।१३-०७७।१४]
“जातिरपूर्वो भावं स्थितिः प्रबन्धो व्ययस्तदुच्छेदः ।
स्थित्यन्यथात्वमिष्टं प्रबन्धपूर्वापरविशेष” इति ॥
[०७७।१५-०७७।१६]
“क्षणिकस्य हि धर्मस्य विना स्थित्या व्ययो भवेत् ।
न च व्येत्येव तेनास्य वृथा तत्परिकल्पना ॥”
[०७७।१७]
तस्मात्प्रवाह एव स्थितिः ।
एवं च कृत्वाऽयमप्यभिधर्मनिर्देश उपपन्न्नो भवति ।
[०७७।१८]
“स्थितिः कतमा ।
उत्पन्नानां संस्काराणामविनाश” इति ।
[०७७।१८-०७७।१९]
नहि क्षणस्योत्पन्नस्याविनाशोऽस्तीति ।
[०७७।१९]
यदपि च ज्ञानप्रस्थान उक्तम् “एकस्मिंश्चित्ते क उत्पादः ।
[०७७।२०]
आह ।
जातिः ।
को व्ययो मरणम् ।
किं स्थित्यन्यथात्वं जरे”ति ।
[०७७।२०-०७७।२१]
तत्रापि निकायसभागचित्तं युज्यते ।
[०७७।२१-०७७।२२]
प्रतिक्षणं चापि संस्कृतस्यैतानि लक्षणानि युज्यन्ते विनाऽपि द्रव्यान्तरकल्पनया ।
[०७७।२२]
कथमिति ।
[०७७।२३]
प्रतिक्षणमभूत्वाभाव उत्पादः ।
भूत्वाऽभावो व्ययः ।
[०७७।२३-०७७।२४]
पूर्वस्य पूर्वस्योत्तरक्षणानुवन्धः स्थितिः ।
[०७७।२४]
तस्याविस्दृशत्वं स्थित्यन्यथात्वमिति ।
यदा तर्हि सदृशा उत्पद्यन्ते ।
[०७७।२४-०७७।२५]
न ते निर्विशेषा भवन्ति ।
[०७७।२५]
कथमिदं ज्ञायते ।
[०७७।२५-०७७।२६]
क्षिप्ताक्षिप्तबलिदुर्बलक्षिप्तस्य वज्रादेश्चिराशुतरपातकालभेदात्तन्महाभूतानां परिणामविशेषसिद्धेः ।
[०७७।२६-०७७।२७]
नातिवहुविशेषभिन्नास्तु संस्काराः सत्यप्यन्यथात्वे सदृशा एव दृश्यन्ते ।
[०७७।२७-०७७।२९]
अन्तिमस्य तर्हि शब्दार्चिःक्षणस्य परिनिर्वाणकाले च षडायतनस्योत्तरक्षणाभावात्स्थित्यह्न्यन्यथात्वं नास्तीत्यव्यापिनी लक्षणव्यवस्था प्राप्नोति ।
[०७७।२९]
न वै संस्कृतस्य स्थितिरेवोच्यते ।
[०७८।०१]
लक्षणमपि तु स्थित्यन्यथात्वम् ।
[०७८।०१-०७८।०२]
अतो यस्यास्ति स्थितिस्तस्यावश्यमन्यथात्वं भवतीति नास्ति लक्षणव्यवस्थाभेदः ।
[०७८।०२-०७८।०४]
समासतस्त्वत्र सूत्रे संस्कृतस्येदं लक्षणमिति द्योतितं भगवता “संस्कृतं नाम यद्भूतवा भवति भूत्वा च पुनर्न भवति यश्चास्य स्थितिसंज्ञकः प्रबन्धः सोऽन्यथा चान्यथा च भवती”ति ।
[०७८।०४-०७८।०५]
किमत्र द्रव्यान्तरैर्जात्यादिभिः कथमिदानीं स एव धर्मो लक्ष्यस्तस्यैव लक्षणं योक्ष्यते ।
[०७८।०५-०७८।०८]
कथं तावन्महापुरुषलक्षणानि महापुरुषान्नान्यानि सास्ना-लाङ्गूल-ककुद-शफ-विषाणादीनि च गोत्वलक्षणानि गोर्नान्यानि काठिन्यादीनि च पृथिवीधात्वादीनां लक्षणानि तेभ्यो नान्यानि ।
[०७८।०८-०७८।०९]
यथा चोध्र्वगमनेन दूराद्धूमस्य धूमत्वं लक्ष्यते नच तत्तस्मादन्यत् ।
[०७८।०९]
स एवात्र न्यायः स्यात् ।
[०७८।०९-०७८।१०]
नच संस्कृतानां रूपादीनां तावत्संस्कृतत्वं लक्ष्यते ।
[०७८।१०-०७८।११]
गृह्णतापि स्वभावं यावत्प्रागभावो न ज्ञायते पश्चाच्च सन्ततेश्च विशेषः ।
[०७८।११-०७८।१२]
तस्मान्न तेनैव तल्लक्षितं भवति नच तेभ्यो द्रव्यान्तराण्येव जात्यादीनि विद्यन्ते ।
[०७८।१२]
अथापि नाम द्रव्यान्तराण्येव जात्यादीनि भवेयुः ।
[०७८।१२-०७८।१३]
किमयुक्तं स्यात् ।
[०७८।१३-०७८।१४]
एको धर्मः एकस्मिन्नेव काले जातः स्थितो जीर्णो नष्टः स्यादेषां सहभूत्वात् ।
[०७८।१४]
कारित्रकालभेदात् ।
अनागता हि जातिः कारित्रं हि करोति ।
[०७८।१४-०७८।१६]
यस्मान्न जातं जन्यते जनिते तु धर्मे वर्त्तमानाः क्षित्यादयः कारित्रं कुर्वन्तीति न यदा जायते तदा तिष्टति जीर्यति विनश्यति वा ।
[०७८।१६]
इदं तावदिह संप्रधार्यं भवेत् ।
[०७८।१६-०७८।१७]
किमनागतं द्रव्यतोऽस्ति नास्तीति पश्चाज्जनयति वा नवेति सिध्येत् ।
[०७८।१७-०७८।१८]
सत्यपि तु तस्मिन् जातिः कारितरं कुर्वती कथमनागता सिध्यतीत्यनागत लक्षणं वक्तव्यम् ।
[०७८।१८-०७८।२०]
उपरतकारित्रा चोत्पन्ना कथं वर्त्तमाना सिध्यतीति वर्त्तमानलक्षाणं वक्तव्यम् ।
[०७८।२०-०७८।२१]
स्थित्यादयोऽपि च युगपत्कारित्रे वर्त्तमाना एकक्षण एव धर्मस्य स्थितजीर्णविनष्टतां प्रसञ्जेयुः ।
[०७८।२१-०७८।२२]
यदैव ह्येनं स्थितिः स्थापयति तदैव ज्रा जरयति अनित्यता विनाशयतीति ।
[०७८।२२-०७८।२४]
किमयं तत्र काले तिष्टत्वाहोस्विज्जीर्यतु विनश्यतु वा योऽपि हि ब्रूयात्स्थित्यादीनामपि कारित्रं क्रमेणेति तस्य क्षणिकत्वं बाध्यते ।
[०७८।२४]
अथाप्येवं ब्रूयातेष एव हि नः क्षणो यावतैतत्सर्वं समाप्यत इति ।
[०७८।२५-०७८।२६]
एवमपोइ ताभ्यां सहोत्पन्ना स्थितिस्तावत्स्थापयति न ज्रा जरयति अनित्यता वा विनाश्यतीति ।
[०७८।२६]
कुत एतत् ।
स्थितेर्बलीयस्त्वात् ।
पुनः केनावलीयस्त्वम् ।
[०७८।२६-०७८।२७]
यदैनां सह धर्मेणानित्यता हन्ति ।
[०७८।२७]
कृतकृत्या पुनः कर्त्तुं नोत्सहते जातिवत् ।
[०७८।२८]
स्थतुर्युक्तमनुत्सोढुम् ।
[०७८।२८-०७८।२९]
नहि शक्यं जात्यादिजन्यं वर्तमानतामानीतं पुनरानेतुम् ।
[०७८।२९]
शक्यं तु खलु स्थित्या स्थाप्यमत्यन्तमपि स्थापयितुम् ।
[०७८।२९-०७९।०१]
अतो न युक्तं यन्नोत्सहते ।
[०७९।०१]
को वाऽत्र प्रतिबन्धः ।
ते एव जराऽनित्यते ।
[०७९।०१-०७९।०२]
यदि हि ते बलीयस्यौ स्यातां पूर्वमेव स्याताम् ।
[०७९।०२-०७८।०४]
निवृत्तकारित्रायां खल्वपि स्थितौ त चापि न तिष्टतः स चापि धर्म इति कथं कुत्र वा कारित्रं कर्त्तुमुत्सहिष्येते किं वा पुनस्ताभ्यां कर्त्तव्यम् ।
[०७९।०४-०७९।०५]
स्थितिपरिग्रहाद्धि स धर्म उत्पन्नमात्रो न व्यनश्यत् ।
[०७९।०५-०७९।०६]
स तु तया व्युपेक्ष्यमाणो नियतं न स्थास्यत्ययमेवास्य विनाशः ।
[०७९।०६]
स्याच्च तावदेकस्य धर्मस्योत्पन्नस्याविनाशः स्थितिः विनाशोऽनित्यता ।
[०७९।०७]
जरा तु खलु सर्वथात्वेन न तथा ।
पूर्वापरविशेषात्विपरिणामाच्च ।
[०७९।०७-०७९।०८]
अतस्तदन्यथात्वेऽन्य एव ।
[०७९।०८]
उक्तं हि
[०७९।०९-०७९।१०]
“तथात्वेन जराऽसिद्धिरन्यथात्वेऽन्य एव सः ।
तस्मानैकस्य भावस्य जरा नामोपपद्यते”॥
[०७९।११-०७९।१२]
योऽप्याह निकायान्तरीयो “विनाश कारणं प्राप्यानित्यता विनाशायती”ति तस्य हरीतकीं प्राप्य देवता विरेचयतीत्यापन्नं भवति किं पुनस्तां कल्पयित्वा ।
[०७९।१२-०७९।१५]
ततेवास्तु विनाशकारणाद्विनाशः चित्तचैत्तानां च क्षणिकत्वाभ्युपगमात्तदनित्यताया विनाशकारणानपेक्षत्वात्स्थित्यनित्यते कारित्रमभिन्नकालं कुर्यातामित्येकस्यैकत्र काले स्थित विनष्टता संप्रसज्येत ।
[०७९।१५-०७०।१६]
तस्मात्प्रवाहं प्रत्येतानि संस्कृतलक्षणान्युक्तानीत्येवमेतत्सूत्रं सूनीतं भवति ।
[०७९।१७]
अपिच यद्यनागता जातिर्जन्यस्य जनिका किमर्थं सर्वमनागतं युगपन्नोत्पद्यते ।
यस्मात्
[०७९।१८]
जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्वेना ॥ २.४६ ॥
[०७९।१९]
नहि विना हेतुप्रत्ययसामग्रया जातिर्जनिका भवति ।
[०७९।१९-०७९।२०]
हेतुप्रत्ययानामेव तर्हि सामर्थ्यं पश्यामः ।
[०७९।२०-०७९।२१]
सति सामर्ग्य भावादसति चाभावान्न जातेरिति हेतुप्रत्यया एव जन काःसन्तः ।
[०७९।२१]
किं च भोः सर्वं विद्यमानमुपलभ्यते ।
[०७९।२२]
सूक्ष्मा अपि धर्मप्रकृतयः संविद्यन्ते ।
[०७९।२२-०७९।२३]
जातमित्येव तु न स्यादसत्यां जातौ षष्ठिवचनं च रूपस्योत्पादः इति यथा रूपस्य रूपमिति ।
[०७९।२३-०७९।२४]
एवं यावदनित्यता यथायोगं वक्तव्या ।
[०७९।२४]
तेन तर्ह्यनात्मत्वमप्येष्टव्यमनात्मबुद्धि-सिद्ध्यर्थम् ।
[०७९।२४-०७९।२६]
संख्या-परिमाण-पृथक्त्व-संयोग-विभाग-परत्वापरत्व-सत्तादयोऽपि तीर्थकर-परिकल्पिता अभ्युपगन्तव्या एक-द्वि-महदणु-पृथक्-संयुक्त-वियुक्त-परापर-सदादि-बुद्धि-सिद्ध्यर्थम् ।
[०७९।२६-०७९।२७]
षष्टीविधानार्थं च रूपस्य संयोग इति ।
[०७९।२७]
एषा च षष्टो कथं कल्प्यते ।
[०७९।२७-०७९।२८]
रूपस्य स्वभाव इति ।
[०७९।२८]
तस्मात्प्रज्ञप्तिमात्रमेवैतदभूत्वाभावज्ञापनार्थं क्रियते जातमिति ।
[०७९।२८-०८०।०१]
स चाभूत्वाभावलक्षाण उत्पादो बहुविकल्पः ।
[०८०।०१-०८०।०२]
तस्य विशेषणार्थं रूपस्योत्पाद इति षष्टीं कुर्वन्ति यथा रुपसंज्ञक एवोत्पादः प्रतीयेत माऽन्यः प्रत्यायीति ।
[०८०।०२-०८०।०३]
तद्यथा चन्दनस्य गन्धादयः शिलापुत्रकस्य शरीरमिति ।
[०८०।०३-०८०।०४]
एवं स्थित्यादयोऽपि यथायोगं वेदितव्याः ।
[०८०।०४]
यदि जात्या विना जायते कस्मादसंस्कृतमप्याकाशादिकं न जायते ।
[०८०।०५]
जायतित्यभूत्वा भवति ।
असंस्कृतं च नित्यमस्तीति न जायते ।
[०८०।०५-०८०।०६]
यथा च धर्मतया न सर्वं जातिमदिष्यते तथा न सर्वं जायत इत्येष्टव्यम् ।
[०८०।०६-०८०।०८]
यथा च तुल्ये जातिमत्त्वे तदन्ये प्रत्ययास्तदन्यस्योत्पादने न समर्था भवन्त्येवमेवासंस्कृतस्योत्पादने सर्वेऽप्यसमर्थाः स्युः ।
[०८०।०८]
सिद्धा एव तु द्रव्यभावेन जात्यादय इति वैभाषिकाः ।
[०८०।०९-०८०।१०]
नहि दूषकाः सन्तीत्यागमा अपास्यन्ते नहि मृगाः सन्तीति यवा नोष्यन्ते नहि मक्षिकाः पतन्तीति मोदका न भक्ष्यन्ते ।
[०८०।१०-०८०।११]
तस्माद्दोषेषु प्रतिविधातव्यं सिद्धान्तश्चानुवर्त्तितव्यः ।
[०८०।११]
उक्तानि लक्षणानि ॥
[०८०।१२]
नामकायादयः कतमे ।
[०८०।१३]
नामकायादयः संज्ञावाक्याक्षरसमुक्तयः ।
[०८०।१४]
आदिग्रहणेन पदव्यञ्जनकायग्रहणम् ।
तत्र संज्ञाकरणं नाम ।
[०८०।१४-०८०।१५]
तद्यथा रूपं शब्द इत्येवमादिः ।
[०८०।१५-०८०।१६]
वाक्यं पदं यावताऽर्थपरिसमाप्तिस्तद्यथा “अनित्या वत संस्कारा” इत्येवमादि येन क्रियागुणकालसंबन्धविशेषा गम्यन्ते ।
[०८०।१६-०८०।१७]
व्यञ्जनमक्षरं तद्यथा अ आ इत्येवमादि ।
[०८०।१७]
ननु चाक्षराण्यपि लिप्यवयवानां नामानि ।
[०८०।१७-०८०।१८]
न वै लिप्यवयवानां प्रत्यायनार्थमक्षाराणि प्रणीतान्यक्षराणामेव तु प्रत्यायनार्थं लिप्यवयवाः प्रणीताः ।
[०८०।१९]
कथमश्रूयमाणानि लेख्येन प्रतीयेरन्निति नाक्षराण्येषां नामानि ।
[०८०।१९-०८०।२०]
एषां च संज्ञादीनां समुक्तयो नामादिकायाः ।
[०८०।२०]
उच समवाये पठन्ति ।
तस्य समुक्तिरित्येतद्रूपं भवति ।
[०८०।२१]
योऽर्थः समवाय इति सोऽर्थः समुक्तिरिति ।
[०८०।२१-०८०।२२]
तत्र नामकायस्तद्यथा रूपशब्दगन्धरसस्प्रष्टव्यानीत्येवमादि ।
[०८०।२२-०८०।२३]
पदकायः तद्यथा “सर्वसंस्कारा अनित्याः सर्वधर्म अनात्मानः शान्तं निर्वाणमि” त्येवमादि ।
[०८०।२३-०८०।२४]
व्यञ्जनकायस्तद्यथा क ख ग घ ञेत्येवमादि ।
[०८०।२४-०८०।२५]
ननु चैते वाक्स्वभावत्वाच्छब्दात्मका इति रूपस्वभावा भवन्ति ।
[०८०।२५]
कस्माच्चित्तविप्रयुक्ता इत्युच्यन्ते ।
नैते वाक्स्वभावाः ।
[०८०।२५-०८०।२६]
घोषो हि वाक्नच घोषामात्रेनार्थाः प्रतीयन्ते ।
[०८०।२६]
किं तर्हि ।
[०८०।२६-०८०।२८]
वाङ्नाम्नि प्रव्र्त्तते नामार्थं द्योतयति नैव घोषमात्रं वाग्येन तु घोषेणार्थः प्रतीयते स घोषो वाक् ।
[०८०।२८]
केन पुनर्घोषेणार्थः प्रतीयते ।
[०८०।२८-०८१।०१]
योऽर्थेषु कृतावधिर्वक्तृभिस्तद्यथागौरित्येष शब्दो नवस्वर्थेषु कृतावधिः ।
[०८१।०२-०८१।०३]
“वाग्दिग्भूरश्मिवज्रेषु पश्वक्षिस्वर्गवारिषु ।
नवस्वर्थेषु मेधावी गोशब्दमुपधारयेदि”ति ॥
[०८१।०४-०८१।०५]
योऽपि हि मन्यते नामार्थं द्योतयतीति तेनाप्येतदवश्यमभ्युपगन्तव्यं यदि प्रतीपदार्थकं भवतीति ।
[०८१।०५-०८१।०६]
तच्चैत च्छब्दमात्रादेव प्रतीतपदार्थकात्सिध्यतीति किमर्थरं नाम कल्पयित्वा ।
[०८१।०६]
इदं चापि न ज्ञायते कथं वाङ्नाम्नि प्रवर्त्तत इति ।
[०८१।०६-०८१।०७]
किं तावदुत्पादयत्याहोस्वित्प्रकाशयति ।
[०८१।०७]
यद्युत्पाद यति ।
[०८१।०७-०८१।०९]
घोषस्ववत्वाद्वाचः सर्वं घोषमात्रं नामोत्पादयिष्यति यादृशो वा घोषविआशेष इष्यते नाम्न उत्पादकः स एवार्थस्य द्योतको भविष्यति ।
[०८१।०९]
अथ प्रकाशयति ।
[०८१।०९-०८१।११]
घोषस्वभावत्वाद्वाचः सर्वं घोषमात्रं नाम प्रकशयिष्यति यादृशो वा घोषविशेष इष्यते नाम्नः परकाशकः स एवार्थस्य द्योतको भविष्यति ।
[०८१।११]
न खल्वपि शब्दानां सामर्ग्यमस्ति क्षणैकमिलनम् ।
[०८१।१२]
न चैकस्य भागश उत्पादो युक्त इति कथमुत्पादयन्ती वाङ्नामोत्पादयेत् ।
[०८१।१२-०८१।१३]
कथं तावदतीतापेक्षः पश्चिमो विज्ञप्तिक्षण उत्पादयत्यविज्ञप्तिम् ।
[०८१।१३-०८१।१४]
एवं तर्हि पश्चिम एव दे नाम्न उत्पादाद्योऽपि तमेवैकं शृणोति सोऽप्यर्थं प्रतिपद्येत ।
[०८१।१४-०८१।१५]
अथाप्येवं कल्प्येत वाग्व्यञ्जनं जनयति व्यञ्जनं तु नामेति ।
[०८१।१५-०८१।१६]
अत्रापि स एव प्रसङ्गो व्यञ्जनां सामर्ग्याभावात् ।
[०८१।१६]
एष एव च प्रसङ्गो नाम्नः प्रकाशकत्वे वाचः ।
[०८१।१६-०८१।१८]
व्यञ्जनां पि वाग्विशिष्टप्रज्ञा अप्यवहितचेतस्का लक्षणतः परिच्छेत्तुं नोत्सहन्त इति व्यञ्जयापि वाक्नैवोत्पादिका न प्रकाशिका युज्यते ।
[०८१।१८-०८१।१९]
अथाप्यर्थसहजं नाम जात्यादिवदिष्यते ।
[०८१।१९]
एवं सत्यतीतानागतस्यार्थस्य वर्त्तमानं नाम न स्याद् ।
[०८१।१९-०८१।२१]
अपत्यानां पितृभिर्यथेष्टं नामानि कल्प्यन्त इति कतमन्नाम तत्सहजं स्यातसंस्कृतानां च धर्माणां केन सहजं नाम स्यादित्यनिष्टिरेवेयम् ।
[०८१।२१-०८१।२२]
यदप्युक्तं भगवता
[०८१।२३]
“नामसंनिशारिता गाथा गाथानां कविराश्रयः” इति
[०८१।२४-०८१।२५]
अत्रार्थेषु कृतावधिः शब्दो नाम नाम्ना च रचनाविशेषो गाथेति नामसंनिताभवति रचनाविशेषाश्च द्रव्यान्तरं नोपपद्यते ।
[०८१।२५]
पङ्क्तिवच्चित्तानुपूर्व्यवच्च ।
[०८१।२६]
अस्तु वा व्यञ्जनमात्रस्य द्रव्यान्तरभावपरिकल्पना ।
[०८१।२६-०८१।२७]
तत्समूहा एव नामकायादयो भविष्यन्तीत्यपार्थिका तत्प्रज्ञप्तिः ।
[०८१।२७-०८१।२८]
सन्त्येव तु विप्रयुक्तसंस्कारभावना नामकाया द्रव्यत इति वैभाषिकाः ।
[०८१।२८]
नहि सर्व धर्मास्तर्कगम्या भवन्तीति ।
[०८२।०१-०८२।०२]
अथ किंप्रतिसंयुक्ता एते नामकायादयः सत्त्वाख्या असत्त्वाख्या विपाकजा औपचयिका नैःष्यन्दिकाः कुशला अकुशला अव्याकृता इति वक्तव्यम् ।
[०८२।०२]
आह
[०८२।०३]
कामरूपाप्तसत्त्वाख्या निःष्यन्दाव्याकृताः ।
[०८२।०४]
कामाप्ता रूपाप्ताश्चेति ।
आरुप्याप्ता अपि सन्ति ते त्वनभिलाप्या इत्यपरे ।
[०८२।०५]
सत्त्वाख्या एते ।
यश्च द्योतयति स तैः समन्वागतो न यो द्योत्यते ।
[०८२।०५-०८२।०६]
नैःष्यन्दिका अनिवृताव्याकृताश्च ।
[०८२।०६-०८२।०७]
यथा चैते नामकायादयः सत्त्वाख्या नैःष्यन्दिका अनिवृताव्याकृताश्च ।
[०८२।०८]
तथा ॥ २.४७ ॥
[०८२।०९]
सभागता सा तु पुनर्विपाकोऽपि
[०८२।१०]
न केवलं नैःष्यन्दिकी कामरूपारूप्यावचरी ।
[०८२।११]
आप्तयो द्विधा ।
[०८२।१२]
प्राप्तयो नैःष्यन्दिक्यो विपाकजाश्च ।
[०८१।१३]
लक्षणानि च ।
[०८१।१४]
द्विधेति वर्त्तते प्राप्तिवत् ।
[०८२।१५]
निःष्यन्दाः समापत्त्य समन्वयाः ॥ २.४८ ॥
[०८२।१६]
द्वे अचित्तसमापत्ती असमन्वागमश्च नैःष्यन्दिका एव ।
शेषमेषां वक्तव्यमुक्तम् ।
[०८२।१७]
शेषयोश्चासंज्ञिकजीवितयोरतो न पुनर्ब्रुमः ।
कथं प्राप्त्यादीनां सत्त्वाख्यतोक्ता समन्वागमवचनात् ।
[०८२।१८]
कथं लक्षणानां सत्त्वासत्त्वाख्यतोक्ता ।
सर्वसंस्कृटसहभूत्वात् ॥
उक्ता विप्रयुक्ताः ॥
[०८२।१९-०८२।२०]
यक्तूक्तं “जन्यस्य जनिका जातिर्न हेतुप्रत्ययैर्विना” इति क इमे हेतवः केच प्रत्ययाः ।
[०८२।२१-०८२।२२]
कारणं सहभूश्चैव सभागः संप्रयुक्तकः ।
सर्वत्रगो विपाकाख्यः षड्विधो हेतुरिष्यते ॥ २.४९ ॥
[०८२।२३]
षडिमे हेतवः ।
[०८२।२३-०८२।२४]
कारणहेतुः सहभूहेतुः सभागहेतुः संप्रयुक्तकहेतुः सर्वत्रगहेतुः विपाकहेतुरिति ।
[०८२।२४]
तत्र
[०८२।२५]
स्वतोऽन्ये कारणं हेतुः
[०८२।२६]
संस्कृतस्य हि धर्मस्य स्वभावव्र्ज्याः सर्वधर्माः कारणहेतुरुत्पादयति ।
[०८२।२७]
अविघ्नभावावस्थानात् ।
[०८२।२७-०८३।०२]
ननु च येऽस्याजानत उदपत्स्यन्तास्रवा जानतोऽस्य ते नोत्पद्यन्त इति ज्ञानमेषां विघ्नमुअत्पत्तौ करोति सूर्यप्रभावज्ज्योतिषां दर्शनस्येति कथं स्वभाववर्ज्याः सर्वधर्माः संस्कृतस्य कारणहेतुर्भवन्ति ।
[०८३।०२]
उत्पद्यमानस्याविध्नभावेनावस्थानादिति ज्ञातव्यम् ।
[०८३।०३]
भवेत्तावदुत्पत्तौ विध्नकारणे समर्थानामविघ्नकारणाद्धेतुत्वम् ।
[०८३।०३-०८३।०४]
तद्यथा अनुपद्रोतारं भोजकमधिकृत्य ग्रामीणा भवन्ति वक्तारः स्वामिना स्मः सुखिता इति ।
[०८३।०४-०८३।०६]
यस्य पुनर्नास्त्येव शक्तिर्विघ्नयितुं तस्य कथं हेतुभावस्तद्यथा निर्वाणस्यानुत्पत्तिधर्मकाणां च सर्वोत्पत्तौ नारकादीनां चरूप्यसत्त्व स्कन्धोत्पत्तौ ।
[०८३।०६-०८३।०७]
असन्तोऽपि ह्येते तथैव विध्नं कर्त्तुमसमर्थः स्युः ।
[०८३।०७-०८३।०८]
असमर्थेऽपि हि भोजके तथा वक्तारो भवन्तीति स एवात्र दृष्टान्तः सामान्येनैव निर्देशः ।
[०८३।०८-०८३।०९]
यस्तु प्रधानः कारणहेतुः स उत्पादनेऽपि समर्थो यथा चक्षूरूपे चक्षुर्विज्ञानस्य आहारः शरीरस्य वीजादयोऽङ्कुरादीनामिति ।
[०८३।१०-०८३।११]
यस्त्वेवं चोदयति अनावरणभावेन चेत्सर्व धर्महेतवो भवन्ति कस्माना सर्वस्योत्पादो युगपद्भवति प्राणातिपातेन च घातकवत्सर्वे तद्भाजो भवन्तीति ।
[०८३।११-०८३।१२]
तस्येदमचोद्यम् ।
[०८३।१२]
यस्मादनावरणभावेन सर्वधर्माः हेतुः प्रतिज्ञायन्ते न कारकभावेनेति ।
[०८३।१३]
सर्वस्यैव कारणहेतोः सर्वोत्पत्तौ सामर्थ्यमित्यपरे ।
[०८३।१३-०८३।१४]
तद्यथा निर्वाणस्यापि चक्षुर्विज्ञानम् ।
[०८३।१४]
कथं कृत्वा ।
[०८३।१४-०८३।१६]
तेन ह्यालम्बनात्मनोविज्ञानमुत्पद्यते कुशलाकुशालं यतः क्रमेण पश्चाच्चक्षुर्विज्ञानमिति कारणपरपरया तस्यापि प्रत्ययीभावादस्ति सामर्थ्यम् ।
[०८३।१६]
एवमन्यस्यापि प्रतिपत्तव्यम् ।
एषा हि दिक् ।
[०८३।१६-०८३।१७]
उक्तः कारणहेतुः ।
[०८३।१८]
सहभूर्ये मिथःफलाः ।
[०८३।१९]
मिथः पारंपर्येण ये धर्माः परस्परफलास्ते परस्परः सहभूहेतुर्यथा ।
कथम् ।
[०८३।२०]
भूतवच्चित्तचित्तानुवर्तिलक्षणलक्ष्यवत् ॥ २.५० ॥
[०८३।२१]
चत्वारि महाभूतान्यन्योन्यं सहभूहेतुः ।
चित्तं चित्तानुवर्त्तिनां धर्माणां तेऽपि तस्य ।
[०८३।२२]
संस्कृतलक्षणानि लक्ष्यस्य सोऽपि तषाम् ।
[०८३।२२-०८३।२३]
एवं च कृत्वा सर्वमेव संस्कृतं सहभूहेतुर्यथायोगम् ।
[०८३।२३-०८३।२४]
विनापि चान्योन्यफलत्वेन धर्मोऽनुलक्षणानां सहभूहेतुर्न तानि तस्येत्युपसंख्यातव्यम् ॥
[०८३।२५]
के पुनरेते चित्तानुवर्त्तिनो धर्माः ।
[०८३।२६]
चैत्ता द्वौ संवरौ तेषां चेतसो लक्षणानि च ।
[०८३।२७]
चित्तानुवर्त्तिनः
[०८३।२८]
सर्वेचित्तसंप्रयुक्ताः ।
ध्यानसंवरोऽनास्रवसंवरस्तेषां च ये जात्यादयश्चित्तस्य च ।
[०८३।२८-०८४।०१]
एते धर्माश्चित्तानुवर्त्तिन उच्यन्ते ।
[०८४।०१]
कथमेते चित्तमनुपरिवर्त्तन्ते ।
समासतः
[०८४।०२]
कालफलादिशुभतादिभिः ॥ २.५१ ॥
[०८४।०३]
कालस्तावच्चितेनैकोत्पादस्थितिनिरोधतया एकाध्वपतितत्वेन च ।
[०८४।०३-०८४।०४]
फलादिभिरेकफलविपाकनिःष्यन्दतया ।
[०८४।०४]
पूर्वकस्त्वेकशब्दः सहार्थे वेदितव्यः ।
[०८४।०५]
शुभतादिभिः कुशलाकुशलाव्याकृतचित्ते कुशलाकुशलाव्याकृततया ।
[०८४।०५-०८४।०६]
एवं दशभिः कारणैश्चित्तानुपरिवर्त्तिन उच्यन्ते ।
[०८४।०६-०८४।०७]
तत्र सर्वाल्प चित्तमष्टपञ्चाशतो धर्माणां सहभूहेतुः ।
[०८४।०७-०८४।०८]
दशानां महाभूमिकानां चत्त्वारिंशतस्तल्लक्षणानामष्टानां च स्वलक्षणानुलक्षाणानाम् ।
[०८४।०८]
तस्य पुनश्चतुःपञ्चाशद्धर्माः सहभूहेतुः ।
[०८४।०८-०८४।०९]
स्वान्यनुलक्षणानि स्थापयित्वा ।
[०८४।०९]
चतुर्दशेत्यपरे ।
दश महभूमिकाः स्वान्येव च लक्षणानीति ।
[०८४।०९-०८४।१०]
तदेतन्न वर्णयन्ति ।
[०८४।१०]
प्रकरणग्रन्थो ह्येवं विरुध्येत ।
[०८४।१०-०८४।११]
“स्याद्दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः ।
[०८४।११-०८४।१३]
सत्कायदृष्टेस्तत्संप्रयुक्तानां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्यं सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुः ।
[०८४।१३]
सत्कायदृष्टेक्श्च हेतुर्यदेतत्स्थापितमि” ति ।
[०८४।१३-०८४।१५]
ये तर्हि “तत्संप्रयुक्तानां च धर्माणा मि” त्येतन्न पथन्ति तैरप्येतत्पथितव्यमर्थतो वैवं बोद्धव्यमिति काश्मीराः ।
[०८४।१५]
यक्तावत्सहभूहेतुना हेतुः सहभ्वपि तत् ।
[०८४।१५-०८४।१६]
स्यात्तु सहाभूर्न सहभूहेतुना हेतुः ।
[०८४।१६]
धर्मस्यानुलक्षणानि ।
तानि चान्योन्यम् ।
[०८४।१६-०८४।१९]
अनुपरिवर्त्त्यनुलक्षनानि चैवं चित्तस्य तानि चान्योन्यं सप्रतिघं चोपादायरूपमन्योन्यमप्रतिघं च किञ्चित्सर्वं च भूतैः प्राप्तयश्च सहजाः प्राप्तिमतः सहभुवो न सहभूहेतुरनेकफलविपाक निष्यन्दत्वात् ।
[०८४।१९-०८४।२०]
न चैताः सहचरिष्णवः पूर्वमप्युत्पत्तेः पश्चादपीति ।
[०८४।२०]
सर्वमप्येतत्स्यात् ।
[०८४।२०-०८४।२१]
किं तु प्रसिद्धहेतुफलभावानां बीजादीनामेष न्यायो न दृष्ट इति वक्तव्यमेतत्कथं सहोत्पन्नानां धर्माणां हेतुफलभाव इति ।
[०८४।२२]
तद्यथा प्रदीपप्रभयोरङ्कुरच्छाययोश्च ।
[०८४।२२-०८४।२४]
संप्रधार्यं तावदेतत्किं प्रभायाः प्रदीपो हेतुराहोस्वित्पूर्वोत्पन्नैव सामग्री सप्रभस्य प्रदीपस्य सच्छायस्याङ्दुरस्योत्पत्तौ हेतुरिति ।
[०८४।२४]
इतस्तर्हि भावाभावयोस्तद्वत्त्वात् ।
[०८४।२४-०८४।२५]
एतद्धि हेतुहेतुमतो लक्षणमाचक्षतेर्हेतुकाः ।
[०८४।२५-०८४।२६
यस्य भावाभावयोः यस्य भावाभावौ नियमतः स हेतुरितरो हेतुमानिति ।
[०८४।२६-०८५।०१]
सहभुवां च धर्माणामेकस्य भावे सर्वेषां भाव एकस्याभावे सर्वेषामभाव इति युक्तो हेतुफलभावः ।
[०८५।०१]
स्यात्तावत्सहोत्पन्नानां परस्परं तु कथम् ।
[०८५।०२-०८५।०३]
अथ एवाह एवं तर्ह्यविनिर्भाविणोऽप्युपादायरूपस्यान्योन्यमेष प्रसङ्गः भूतैश्च सार्धं चित्तानुलक्षणादीनां चे चित्तादिभिः ।
[०८५।०३-०८५।०४]
त्रिदण्डान्योन्यबलावस्थानवत्तर्हि सहभुवां हेतुफलभावः सिध्यति ।
[०८५।०४]
मीमांस्यं तावदेतत् ।
[०८५।०४-०८५।०६]
किमेषां सहोत्पन्नबलेनावस्थानमाहोस्वित्पूर्वसामग्रीवशात्तथैवोत्पाद इति अन्न्यदपि च तत्र किञ्चिद्भवति सूत्रकं शङ्कुको वा पृथिवी वा धारिका ।
[०८५।०६-०८५।०७]
एषामपि नामान्येऽपि सभागहेतुत्वादयो भवन्तीति सिद्धः सहभूहेतुः ।
[०८५।०८]
सभागहेतुः कतमः ।
[०८५।०९]
सभागहेतुः सदृशाः
[०८५।१०-०८५।११]
सदृशा धर्माः सदृशानां धर्माणां सभागहेतुस्तद्यथा कुशलाः पञ्च स्कन्धाः कुशलानामन्योय्यं क्लिष्टाः क्लिष्टानामव्याकृता अव्याकृतानां रूपमव्याकृतं पञ्चानाम् ।
[०८५।१२]
चत्वारस्तु न रूपस्येत्यपरे ।
न्यूनत्वात् ।
[०८५।१२-०८५।१३]
कललं कललादीनां दशानामवस्थानामर्वुदायोऽर्वुदादीनामेकैकापर्हासेनैकस्मिन्निकायसभागे ।
[०८५।१३-०८५।१४]
अन्येषु तु समानजातीयेषु दशाप्यवस्था दशानाम् ।
[०८५।१४-०८५।१५]
बाह्येष्वपि यवो यवस्य शालिः शालेरिति विस्तरेण योज्यम् ।
[०८५।१५-०८५।१६]
ये तु रूपं रूपस्य नेच्छन्ति सभागहेतुं तेषामेष ग्रन्थः इच्छाविघातायसंप्रवर्त्तते “अतीतानि महाभूतान्यनागतानां महाभूतानां हेतुरधिपति” रिति ।
[०८५।१७]
किं पुनः सर्वे सदृशानां सभागहेतः ।
नेत्याह ।
किं तर्हि ।
[०८५।१८]
स्वनिकायभुवः ।
[०८५।१९]
स्वो निकायो भूश्चैषां त इमे स्वनिकायभुवः ।
[०८५।१९-०८५।२०]
पञ्च निकायाः दुःखदर्शनप्रहातव्यो यावत्भावनाप्रहातव्यः ।
[०८५।२०]
नव भूमयः ।
[०८५।२०-०८५।२१]
कामधातुरष्टौ च ध्यानारूप्याः ।
[०८५।२१]
तत्र दुःखदर्शनहेयाः दुःखदर्शनहेयानां सभागहेतुर्नान्येषाम् ।
[०८५।२१-०८५।२२]
एवं यावत्भावनाहेया भावनाहेयानाम् ।
[०८५।२२-०८५।२४]
तेऽपि कामावचराः कामावचराणां प्रथमध्यानभूमिकाः प्रथमध्यानभूमिकानां यावत्भवाग्रभूमिकास्तद्भूमिकानामेवणान्यषाम् ।
[०८५।२४]
तेऽपि न सर्वे ।
किं तर्हि ।
[०८५।२५]
अग्रजाः ।
[०८५।२६]
पूर्वोत्पन्नाः पश्चिमानामुत्पन्नानुत्पन्नानां सभागहेतुः ।
अनागता नैव सभागहेतुः ।
[०८५।२७]
एवमतीते कुत एतताह ।
शास्त्रात् ।
“सभागहेतुः कतमः ।
[०८५।२७-०८६।०२]
पूर्वोत्पन्नानि कुशलमूलानिपश्चादुत्पन्नानां कुशलमूलानां तत्संप्रयुक्तानां च धर्माणां स्वधातौ सभागहेतुना हेतुः ।
[०८६।०२]
एवमतीतान्यतीतप्रत्युत्पन्नानाम् ।
[०८६।०२-०८६।०३]
अतीतप्रत्युत्पन्नान्यनागतानामिति वक्तव्यम्” ।
[०८६।०३-०८६।०४]
इदपि शास्त्रं “यो धर्मो यस्य धर्मस्य हेतुः कदाचित्स धर्मस्तस्य न हेतुः ।
[०८६।०४]
आह ।
[०८६।०४-०८६।०५]
न कदाचिदिति सहभूसंप्रयुक्तकविपाकहेत्वभिसन्धिवचनाददोषः एषः ।
[०८६।०५-०८६।०६]
यस्तु मन्यते अनागतोऽपि स धर्म उत्पद्यमानावस्थायां सभागहेतुत्वे नियतीभूतो भवत्यतस्तां चरमावस्थामभिसंधायोक्तं “न कदाचिन्न हेतुरि”ति ।
[०८६।०६-०८६।०८]
तस्या यमपरिहारो यस्मात्स धर्म उत्पद्यमानावस्थायाः पूर्वं सभागहेतुरभूत्वा पश्चात्भवति ।
[०८६।०८-०८६।१०]
इहपि च प्रश्ने यो धर्मो यस्य धर्मस्य समनन्तरः कदाचित्स धर्मस्तस्य धर्मस्य न समनन्तर इति शक्यमनया कल्पनया वक्तुं स्यान्न कदाचिदिति ।
[०८६।१०]
कस्मादेवमाह ।
[०८६।१०-०८६।११]
यदि स धर्मो नोत्पन्नो भवतीति द्विमुखसंदर्शनार्थं यथा तत्र तथेहापि कर्त्तव्यम् ।
[०८६।११]
यथा चेह तथा तत्रेति ।
[०८६।११-०८६।१२]
एवं सति को गुणो लभ्यत इत्यकौशल मेवात्र शास्त्रकारस्यैव संभाव्येत ।
[०८६।१२-०८६।१३]
तस्मात्पूर्वक एवात्र परिहारः साधुः ।
[०८६।१३-०८६।१५]
यत्तर्हीदमुक्तम् “अनागतानां सत्कायदृष्टिं तत्संप्रयुक्तं च दुःखसत्यं स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्यं तत्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुर्यत्तु स्थापितं तत्सत्कायदृष्टिहेतुकं सत्कायदृष्टेश्च हेतुरि”ति ।
[०८६।१५-०८६।१६]
अनागतसत्कायदृष्टिसंप्रयुक्तं दुःखसत्यं स्थापयित्वेत्येवमेतत्कर्त्तव्यमर्थतोऽपि चैवं बोद्धव्यमिति ।
[०८६।१६-०८६।१८]
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते “सर्वधर्माश्चतुष्के नियता हेतौफले आश्रये आलम्वने नियता” इति ।
[०८६।१८]
हेतुरत्र संप्रयुक्तकहेतुः सहभूहेतुश्च ।
[०८६।१८-०८६।१९]
फलं पुरुषकारफलमधिपतिफलं च ।
[०८६।१९]
आश्रयश्चक्षुरादिरालम्बनं रूपादिकमिति द्रष्टव्यम् ।
[०८६।१९-०८६।२०]
ननु चैवं सति सभाग हेतुरभूत्वा हेतुर्भवतीति प्राप्तम् ।
[०८६।२०-०८६।२१]
इष्यत एवावस्थां प्रति न द्रव्यम् ।
[०८६।२१]
अवस्थाफलल्ं हि सामर्ग्यं न द्रव्यफलम् ।
[०८६।२१-०८६।२२]
किं पुनः स्याद्यदि विपाकहेतुवदनागतोऽपि सभागहेतुः स्यात् ।
[०८६।२२]
शास्त्रे तस्य ग्रहणं स्यात् ।
[०८६।२२-०८६।२३]
स एव हि फलदानग्रहणक्रियासमर्थस्तस्यैव ग्रहणाददोषः ।
[०८६।२३]
नैतदस्ति ।
[०८६।२३-०८६।२४]
निःष्यन्दफलेन हि सफलः सभागहेतुः ।
[०८६।२४]
तच्चानागतस्यायुक्तं पूर्वपश्चिमताऽभावात् ।
[०८६।२४-०८६।२५]
न चोत्पन्नमनागतस्य निष्यन्दो युज्यते ।
[०८६।२५]
यथाऽतीतं वर्त्तमानस्य ।
मा भूद्धेतोः पूर्वं फलमिति ।
[०८६।२६]
नास्त्यनागतः सभागहेतुः ।
विपाकहेतुरपि एवमनागतो न प्रप्नोति ।
[०८६।२६-०८६।२७]
वीपाकफलस्य पूर्वं सह चायोगादनागते चाध्वति पूर्वपश्चिमताऽभावात् ।
[०८६।२७]
नैतदस्ति ।
[०८६।२८-०८६।२९]
सभागहेतोर्विना पौर्वापर्येण सदृशः सदृशस्य सभागहेतुरित्यन्योन्यहेतुत्वादन्योन्यनिःष्यन्दता संप्रसज्येत ।
[०८६।२९]
नचान्योन्यनिःष्यन्दता युक्तिमतीति ।
[०८७।०१]
नत्वेव विपाकहेतोर्विना पौर्वापर्येणान्योन्यहेतुफलता संप्रसज्यते ।
[०८७।०१-०८७।०२]
भिन्नलक्षणात्वाद्धेतुफलयोः ।
[०८७।०२-०८७।०३]
तस्मादवस्थाव्यव्स्थितमेव सभागहेतुर्लक्षणव्यवस्थितस्तुपाकहेतुरित्यनागतोऽपि न वार्यते ।
[०८७।०४]
यदुक्तं स्वभूमिकः सभागहेतुर्भवतीति किमेष नियमः सर्वस्य सास्रवस्यैष नियमः ।
[०८७।०५]
अन्योऽन्यं नवभूमिस्तु मार्गः
[०८७।०६]
सभागहेतुरित्यधिकारः ।
[०८७।०६-०८७।०७]
अनागम्ये ध्यानान्तरिकायां चतुर्षुरनेषु त्रिषु चारूप्येषु मार्गसत्यमन्योऽन्यं सभागहेतुः ।
[०८७।०७]
किं कारणम् ।
[०८७।०७-०८७।०८]
आगन्तुको ह्यसौ तासु भूमिषु न तद्धातुपतितस्तद्भमि काभिस्तृष्णाभिरस्वीकृतत्वात् ।
[०८७।०८-०८७।०९]
अतः मानजातीयस्यान्यभूमिकस्यापि सभागहेतुर्भवति ।
[०८७।०९]
स पुनः ।
[०८७।१०]
समविशिष्टयोः ॥ २.५२ ॥
[०८७।११]
न्यूनस्य हेतुर्भवति ।
[०८७।११-०८७।१२]
तद्यथा दुःखे धर्मज्ञानक्षान्तिस्तस्या एवानागतायाः सभागहेतुविशिष्टस्यच यावदनुत्पादज्ञानस्य ।
[०८७।१२-०८७।१३]
अनुत्पादज्ञानमनुत्पादज्ञानस्यैवान्यविशिष्टभावात् ।
[०८७।१३]
दर्शनभावनाऽशैक्ष्यमार्गास्त्रिध्येकेषाम् ।
[०८७।१३-०८७।१४]
तत्रापि मृद्विन्द्रियमार्गो मृदुतीक्ष्णेन्द्रियमार्गस्य हेतुः ।
[०८७।१४]
तीक्ष्णेन्द्रियमार्गस्तीक्ष्णेन्द्रियमार्गस्यैव ।
[०८७।१४-०८७।१५]
तद्यथा श्रद्धानुसारिश्रद्धाधिमुक्तसमयविमुक्त्तमार्गाः षण्णां चतुर्णां द्वयोश्च ।
[०८७।१५-०८७।१६]
धर्मानुसारिष्टप्राप्तासमयविमुक्तमार्गाः त्रयाणां द्वयोरेकस्य ।
[०८७।१६-०८७।१७]
कथं पुनरूर्ध्वंभूमिकस्याधोभूम्मिकोमार्गः समो वा भवति विशिष्टो वा ।
[०८७।१७]
इन्द्रियतो हेतूपचयतश्च ।
[०८७।१७-०८७।१८]
तत्र दर्शनादिमार्गाणां मृदुमृद्वादीनां चोत्तरोत्तर हेतूपचिततराः ।
[०८७।१८-०८७।१९]
यद्यप्येकसन्ताने श्रद्धार्नुसारिमार्गयोरसंभवः उत्पन्नस्त्वनागतस्य हेतुः ।
[०८७।२०]
किं पुनः मार्ग एव समविशिष्टयोः सभागहेतुर्भवति ।
नेत्याह ।
[०८७।२०-०८७।२१]
लौकिका अपि हि
[०८७।२२]
प्रयोगजास्तयोरेव
[०८७।२३]
समविशिष्टयोः सभागहेतुर्भवन्ति न न्यूनस्य ।
यथा कतमे इत्याह
[०८७।२४]
श्रुतचिन्तामयादिकाः ।
[०८७।२५-०८७।२६]
एते हि प्रायोगिकाः श्रुतचिन्ताभावनामया गुणाः समविशिष्टयोरेव हेतुर्नन्यूनानाम् ।
[०८७।२६-०८७।२७]
तद्यथा कामावचराः श्रुतमयाः श्रुतचिन्तामयानां चिन्तामयाचिन्तामयानाम् ।
[०८७।२७]
भावनामयाभावात् ।
[०८७।२७-०८७।२८]
रूपावचराः श्रुतमयाः श्रुतभावनामयानां चिन्तामयाभावात् ।
[०८७।२८]
भावनामया भावनामयानामेव ।
[०८७।२८-०८७।२९]
आरूप्यावचराभावनामया भावनामयानामेव ।
[०८७।२९-०८८।०१]
तेषामपि नवप्रकारभेदात्मृदुमृदवः सर्वेषां मृदुमध्या अष्टानामित्येषानीतिः ।
[०८८।०१-०८८।०२]
उपपत्तिप्रतिलम्भिकास्तु कुशला धर्माः सर्वे नवप्रकाराः परस्पर सभागहेतुः ।
[०८८।०२]
क्लिष्टा अप्येवम् ।
[०८८।०२-०८८।०३]
अनिवृताव्याकृतास्तु चतुर्विधाः ।
[०८८।०३]
विपाकजा ऐर्यपथिकाः शैल्पस्थानिकाः निर्माणचित्तसहजाश्च ।
[०८८।०३-०८८।०४]
ते यथाक्रमं चतुस्त्रीद्वेकेषां सभागहेतुः निर्माणचित्तमपोइ कामावचर चतुर्ध्यनफलम् ।
[०८८।०५]
तत्र नोत्तरध्यानफलमधरध्यानफलस्य ।
[०८८।०५-०८८।०६]
नह्याभिसंस्कारिकस्य सभागहेतोर्हीयमानं फलं भवति ।
[०८८।०६-०८८।०७]
तद्यथा शालिर्यवादीनां मा भून्निष्फलः प्रयत्न इति ।
[०८८।०७-०८८।०८]
अत एव चाहुः स्यादुत्पन्नोऽनास्रवोऽनुत्पन्नस्यास्रवस्य न हेतुः स्यात्तद्यथा दुःखे धर्मज्ञानमुत्पनामनुत्पन्नानां दुःखे धर्मज्ञानक्षान्तीनाम्।
[०८८।०८-०८८।०९]
सर्वं च विशिष्टं न्यूनस्य न हेतुः ।
[०८८।०९-०८८।१०]
स्यादेकसन्ताननियतः पूर्वप्रतिलब्धोऽनास्रवो धर्मः पश्चादुत्पन्नस्य नहेतुः ।
[०८८।१०-०८८।११]
स्यादनागताः दुःखे धर्मज्ञानक्षान्तयो दुःखे धर्मज्ञानस्ययस्मान्न पूर्वतरं फलमस्त्यनागतो वा सभागहेतुः ।
[०८८।११-०८८।१२]
स्यात्पूर्वोत्पन्नोऽनास्रवो धर्मः पश्चादुत्पन्नस्यानास्रवस्य न हेतुः ।
[०८८।१२]
स्यादविमात्रो न्यूनस्य ।
[०८८।१२-०८८।१४]
तद्यथोत्तरफलपरिहीणस्यावर फलसंमुखीभावे दुःखे धर्मज्ञानप्राप्तिश्चोत्तरोत्तर क्षण सहोत्पन्नानां दुःखे धर्मज्ञानक्षान्तिप्राप्तीनां न्यूनत्वादिति ।
[०८८।१४]
उक्तः सभागहेतुः ।
[०८८।१५]
संप्रयुक्तकहेतुस्तु चित्तचैत्ताः ।
[०८८।१६]
एवं सति भिन्नकालसन्तानजानाम प्यन्योन्यसंप्रयुक्तकहेतुत्वप्रसङ्गः ।
[०८८।१६-०८८।१७]
एकाकारा लम्बनास्तर्हि ।
[०८८।१७]
एवमपि स एव प्रसङ्गः ।
एककालास्तर्हि ।
[०८८।१७-०८८।१८]
एवं तर्हि सति भिन्नसन्तानजानामपि प्रसङ्गो नवचन्द्रादीनि पश्यताम् ।
[०८८।१८]
तस्मात्तर्हि
[०८८।१९]
समाश्रयाः ॥ २.५३ ॥
[०८८।२०]
समान आश्रयो येषां ते चित्तचैत्ताः अन्योन्यं संप्रयुक्तकहेतुः ।
[०८८।२०-०८८।२२]
समान इत्यभिन्नस्ततद्यथा य एव चक्षुरिन्द्रियक्षणश्चक्षुर्विज्ञानस्याश्रयः स एव तत्संप्रयुक्तानां वेदनादीनामेव यावन्मनः ।
[०८८।२२]
इन्द्रियक्षणो मनोविज्ञानत्संप्रयुक्टानां वेदितव्यः ।
[०८८।२२-०८८।२३]
यः संप्रयुक्तकहेतुः सहभूहेतुरपि सः ।
[०८८।२३]
अथ केनार्थेन सहभूहेतुः केन संप्रयुक्तकहेतुः ।
[०८८।२४]
अन्योन्यफलार्थेन सहभूहेतुः ।
सहसार्थिकान्योन्यबलमार्गप्रयाणवत् ।
[०८८।२४-०८८।२५]
पञ्चभिः समताभिः संप्रयोगार्थेन संप्रयुक्तकहेतुः ।
[०८८।२५-०८८।२६]
तेषामेव सार्थिकानां समानान्नपानादिपरिभोगक्रियाप्रयोगवत् ।
[०८८।२६-०८८।२७]
एकेनापि हि विना सर्वेण न संप्रयुज्यन्त इत्ययमेषां हेतुभावः ।
[०८८।२७]
उक्तः संप्रयुक्तकहेतुः ।
[०८९।०१]
सर्वत्रगहेतुः कतमः ।
[०८९।०२]
सर्वत्रगाख्यः क्लिल्ष्टानां स्वभूमौ पूर्वसर्वगाः ।
[०८९।०३]
स्वभूमिकाः पूर्वोत्पन्नाः सर्वत्रगा धर्माः पश्चिमानां क्लिष्टानां धर्माणां सर्वत्रगहेतुः ।
[०८९।०४]
तान् पुनः पश्चादनुशयनिर्देशकोशस्थान एव व्याख्यास्यामः ।
[०८९।०४-०८९।०५]
क्लिष्टधर्मसामान्यकारणत्वेनायं सभागहेतोः पृथक्व्यवस्थाप्यते ।
[०८९।०५-०८९।०६]
निकायान्तरीयाणामपि हेतुत्वादेषां हि प्रभावेणान्यनैकायिका अपि क्लेशा उपजायन्ते ।
[०८९।०६-०८९।०७]
किमार्यपुद्गलस्यापि क्लिष्टा धर्माः सर्वत्रगहेतुकाः ।
[०८९।०७-०८९।०८]
सर्व एव क्लिष्टा धर्मा दर्शनप्रहातव्यहेतुका इति काश्मीराः ।
[०८९।०८-०८९।०९]
तथा प्रकारणेषूक्तं “दर्शनप्रहातव्यहेतुकाः धर्माः कतमे ।
[०८९।०९]
क्लिष्टा धर्माः यश्च दर्शनप्रहातव्यानां धर्माणां विपाक इति ।
[०८९।०९-०८९।१०]
अव्याकृतहेतुका धर्माः कतमे ।
[०८९।१०]
अव्याकृताः संस्कृता धर्मा अकुशलाश्चेति ।
[०८९।१०-०८९।१३]
दुःखसत्यं स्यात्सत्कायदृष्टिहेतुकं न सत्कायदृष्टेर्हेतुरिति विस्तरो यावन्न सत्कायदृष्टेः तेषां च धर्माणां जातिं जरां स्थितिमनित्यतां च स्थापयित्वा यत्तदन्यत्क्लिष्टं दुःखसत्य”मिति ।
[०८९।१३]
इदं तर्हि प्रज्ञप्तिभाष्यं कथं नीयते “स्याद्धर्मोऽकुशलोऽकुशलहेतुक एव ।
[०८९।१४-०८९।१५]
स्यादार्यपुद्गलः कामवैराग्यात्परिहीयमाणो यां तत्प्रथमतः क्लिल्ष्टाञ्चेतनां संमुखीकरोती”ति ।
[०८९।१५]
अप्रहीणहेतुमेतत्संधायोक्तम् ।
[०८९।१५-०८९।१६]
दर्शनप्रहातव्यो हि तस्या हेतुः प्रहीणत्वान्नोक्तः ।
[०८९।१६]
उक्तः सर्वदगहेतुः ।
[०८९।१७]
विपाकहेतुः कतमः ।
[०८९।१८]
विपाकहेतुरशुभाः कुशलाश्चैव सास्रवाः ॥ २.५४ ॥
[०८९।१९]
अकुशलाः कुशलसास्रवाश्च धर्मा विपाकहेतुः ।
विपाकधर्मत्वात् ।
[०८९।१९-०८९।२०]
कस्मादव्याकृता धर्माः विपाकं न निर्वर्त्तयन्ति ।
[०८९।२०]
दुर्बलत्वात् ।
पूति बीजवत् ।
[०८९।२१]
कस्मान्नानास्रवाः ।
तृष्णानभिष्यन्दितत्वात् ।
अनभिष्यन्दितसारबीजवत् ।
[०८९।२१-०८९।२२]
अप्रतिसंयुक्ता हि किंप्रतिसंयुक्तं विपाकमभिनिर्वर्त्तयेयुः ।
[०८९।२२]
शेषास्तूभयविधत्वान्निर्वर्त्तयन्ति ।
[०८९।२३]
साराभिष्यन्दितबीजवत् ।
[०८९।२३-०८९।२४]
कथमिदं विज्ञातव्यं विपाकस्य हेतुर्विपाकहेतुराहोस्विद्विपाक एव हेतुर्विपाकहेतुः ।
[०८९।२४]
किं चातः ।
[०८९।२४-०८९।२५]
यदि विपाकस्य हेतुर्विपाकहेतुः “वीपाकजं चक्षुरि”ति एतन्न प्राप्नोति ।
[०८९।२५-०८९।२६]
अथ विपाक एव हेतुर्विपाकहेतुः “कर्मणो विपाक” इत्येतन्न प्राप्नोति ।
[०८९।२६]
नैष दोषः ।
“उभयथापि योग” इत्युक्तं प्राक् ॥
[०८९।२६-०८९।२७]
अथ विपाक इति कोऽर्थः ।
[०८९।२७]
विसदृशः पाको विपाकः ।
अन्येषां तु हेतूनां सदृशः पाकः ।
[०८९।२७-०९०।०१]
एकस्योभयथेति वैभाषिकाः ।
[०९०।०१]
नैव तु तेषां पाको युक्तः ।
[०९०।०१-०९०।०२]
पाको हि नाम सन्ततिपरिणामविशेषजः फलपर्यन्तः ।
[०९०।०२-०९०।०३]
न च सहाभूसंप्रयुक्तहेत्वोः सन्ततिपरिणामविशेषजं फलमस्ति ।
[०९०।०३]
न चापि सभागहेत्वादीनां फलपर्यन्तोऽस्ति ।
[०९०।०३-०९०।०४]
पुनः पुनः कुशलाद्यासंसारफलत्वात् ।
[०९०।०४]
कामधातावेकस्कन्धको विपाकहेतुरेकफलः प्रत्ययस्तज्जात्यादयश्च ।
[०९०।०५]
द्विस्कन्धक एकफलः कायवाक्कर्म तज्जात्यादयश्च ।
[०९०।०५-०९०।०६]
चतुस्कन्धक एकफलः कुशलाकुशलाश्चित्तचैत्ताः सह जात्यादिभिः ॥
[०९०।०६-०९०।०७]
रूपधातावेकस्कन्धको वीपाकहेतुरेकफलः प्राप्तिरसंज्ञिसमापत्तिश्च सह जात्यादिभिः ।
[०९०।०७-०९०।०८]
द्विस्कन्धक एकफलः प्रथमे ध्याने विज्ञप्तिः सह जात्यादिभिः ।
[०९०।०८-०९०।०९]
चतुस्कन्धक एकफलः कुशले चेतस्यसमाहिते ।
[०९०।०९]
पञ्चस्कन्धक एकफलः समाहिते ॥
[०९०।०९-०९०।१०]
आरूप्यधातावेकस्कन्धको विपाकहेतुरेकफलः प्राप्तिर्निरोधसमापतिश्च सह जात्यादिभिः ।
[०९०।१०-०९०।११]
चतुस्कन्धकः कुशलाश्चित्तचैत्ताः तज्जात्यादयश्च ।
[०९०।११-०९०।१२]
अस्ति कर्म यस्यैकमेव धर्मायतनं वीपाको विपच्यते जीवितेन्द्रियम् ।
[०९०।१२]
यस्य मन आयतनं तस्य द्वे मनोधर्मायतने ।
[०९०।१२-०९०।१३]
एवं यस्य स्प्रष्टव्यायतनं यस्य कायायतनं तस्य त्रीणि कायस्प्रष्टव्यधर्मायतनानि ।
[०९०।१३-०९०।१४]
एवं यस्य रूपगन्धरसायतनानि ।
[०९०।१४]
यस्य चक्षुरायतनं तस्य चत्वारि चक्षुःकायस्प्रष्टव्यधर्मायतनानि ।
[०९०।१५]
एवं यस्य श्रोत्रग्राणजिह्वायतनानि ।
[०९०।१५-०९०।१६]
अस्ति तत्कर्म यस्य पञ्च षट्सप्ताष्टौ नव दशैकादशायतनानि विपाको विपच्यते ।
[०९०।१६-०९०।१७]
विचित्राविचित्रफलत्वात्कर्मणो बाह्यबीजवत् ।
[०९०।१७]
तद्यथा बाह्यानि वीजानि कानिचिद्विचित्रफलानि भवन्ति ।
[०९०।१७-०९०।१८]
तद्यथा पद्मदाडिमन्यग्रोधादीनाम् ।
[०९०।१८]
कानिचिदविचित्रफालानि तद्यथा यवगोदूमादीनाम् ।
[०९०।१९]
एकाध्विकस्य कर्मणस्त्रैयध्विको विपाको विपच्यते ।
[०९०।१९-०९०।२०]
न तु द्वैयध्विकस्याप्येकाध्विको मा भूदतिन्यूनं हेतोः फलमिति ।
[०९०।२०-०९०।२१]
एकमेकक्षनिकस्य बहुक्षाणिको ननु विपर्ययात् ।
[०९०।२१-०९०।२२]
न च कर्मणा सह विपाको विपच्यते नाप्यनन्तरं समनन्तरप्रत्ययाकृष्टत्वात्समनन्तरक्षणस्य ।
[०९०।२२]
प्रवाहापेक्षो हि विपाकहेतुः ।
[०९०।२३]
अथ क एषां हेतूनामध्वनियमः ।
[०९०।२३-०९०।२४]
उक्त एषामर्थतोऽध्वनियमः नतु सूत्रित इत्यतः सूत्र्यते ।
[०९०।२५]
सर्वत्रगः सभागश्च द्वयध्वगौ
[०९०।२६]
अतीतप्रत्युत्पन्नावेव अनागतौ न स्तः ।
उक्तं चात्र कारणम् ।
[०९०।२७]
त्र्यध्वगा स्त्रयः ।
[०९०।२८]
सहभूसंप्रयुक्तकविपाकहेतव स्त्रिकालाः ।
कारणहेतुस्तु कालनियमानुपदर्शनात् ।
[०९०।२९]
सर्वाध्वक श्चाध्वविप्रयुक्तश्च वेदितव्यः ।
उक्ता हेतवः ।
[०९०।३०]
किं पुनस्तत्फलं यस्यैते हेतवः ।
[०९१।०१]
संस्कृतं सविसंयोग फलं
[०९१।०२]
फलं धर्माः ।
कतमे ।
“संस्कृता धर्माः प्रतिसंख्यानिरोधश्चे”ति शास्त्रम् ।
[०९१।०२-०९१।०४]
एवं तर्हि फलत्वादसंस्कृतस्य हेतुना भवितव्यं यस्य तत्फलं हेतुत्वाच्च फलेन भवितव्यं यस्य तद्धेतुः ।
[०९१।०४]
संस्कृतस्यैव धर्मस्य हेतुफले भवतः ।
[०९१।०५]
नासंस्कृतस्य ते ॥ २.५५ ॥
[०९१।०६]
किं कारणम् ।
षड्विधहेत्वसंभवात्पञ्चविधफलासंभवाच्च ।
[०९१।०६-०९१।०७]
कस्मात्मार्गो विसंयोगस्य कारणहेतुर्नेष्यते ।
[०९१।०७-०९१।०८]
यास्मात्स उत्पादाविघ्नभावेन व्यवस्थापितो न चासंस्कृतमुत्पत्तिमत् ।
[०९१।०८]
कस्येदानीं तत्फलं कथं वा मार्गस्य फलम् ।
[०९१।०९]
तद्बलेन प्राप्तेः ।
प्राप्तिरेव तर्हि मार्गस्य फलं प्राप्नोति ।
[०९१।०९-०९१।१०]
तस्यामेव तस्य सामर्थ्यान्न विसंयोगः ।
[०९१।१०]
अन्यथा ह्य्स्य प्राप्तौ सामर्थ्यमन्यथा विसंयोगे ।
[०९१।१०-०९१।११]
कथमस्य प्राप्तौ सामर्थ्यम् ।
[०९१।११]
उत्पादनात् ।
कथं विसंयोगे ।
प्रपणात् ।
[०९१।११-०९१।१२]
तस्मान्न तावदस्य मार्गः कथञ्चिदपि हेतुः ।
[०९१।१२]
फलं चास्य विसंयोगः ।
[०९१।१२-०९१।१३]
अथासत्यधिपतिफले कथमसंस्कृतं कारणहेतुः ।
[०९१।१३]
उत्पत्त्यनावरणभावेन कारणहेतुः ।
[०९१।१३-०९१।१४]
न चास्य फलमस्त्यध्वविनिर्मुक्तस्य फलप्रतिग्रहणदानासमर्थत्वात् ।
[०९१।१४]
नैव हि क्वचिदसंस्कृतं भगवता हेतुरित्युक्तम् ।
[०९१।१५]
उक्तं तु पर्यायेण हेतुरिति सौत्रान्तिकाः ।
कथमुक्तम् ।
[०९१।१६]
“ये हेतवो ये प्रत्यया रूपस्योत्पादाय तेऽप्यनित्याः ।
[०९१।१७]
अनित्यान् खलु हेतुप्रत्ययान् प्रतीत्योत्पन्नं रूपं कुतो नित्यं भविष्यति”
[०९१।१८]
एवं यावद्धि विज्ञानमिति ।
[०९१।१८-०९१।१९]
एवं तर्हि विज्ञानस्यालमबनप्रत्ययोऽप्यसंस्कृतं न प्राप्नोति ।
[०९१।१९]
उत्पादायेत्यवधारणात् ।
प्राप्नोति ।
[०९१।२०]
“ये हेतवो ये प्रत्यया विज्ञानस्योत्पादाय तेऽप्यनित्या”
[०९१।२१]
इत्युक्तं नतूक्तं ये विज्ञानस्य प्रत्ययाः तेप्यनित्या इति ।
[०९१।२१-०९१।२३]
ननु च हेतवोऽपि य उत्पादाय त एवानित्या इति वचनादसंस्कृतस्यानावरणभावमात्रेण कारणहेतुत्वाप्रतिषेधः ।
[०९१।२३-०९१।२४]
उक्त आलम्बनप्रत्ययः सूत्रे न त्वनावरणहेतुरिति न सूत्रे सिध्यत्यसंस्कृतस्य हेतुभावः ।
[०९१।२४]
यद्यपि नोक्तो नतु प्रतिषिद्धः ।
[०९१।२४-०९१।२५]
सूत्राणि च बहून्यन्तर्हितानीति कथमेतन्निर्धार्यते नोक्त इति ।
[०९१।२६]
अथ कोऽयं विसंयोगो नाम ।
ननु चोक्तं प्राक्”प्रतिसंख्यानिरोध” इति ।
[०९१।२७-०९२।०१]
तदानीं “प्रतिसंख्यानिरोधः कतमो यो विसंयोग” इत्युक्तमिदानीमिसंयोगःकथमः ।
[०९२।०१]
यः प्रतिसंख्यानिरोध इत्युच्यते ।
[०९२।०१-०९२।०२]
तदिदमितरेतराश्रयं व्याख्यानमसमर्थं तत्स्वभावद्योतने ।
[०९२।०२]
तस्मादन्यथा तत्स्वभावो यक्तव्यः ।
[०९२।०२-०९२।०३]
आर्यैरेव तत्स्वभावः प्रत्यात्मवेद्यः ।
[०९२।०३]
एतावक्तु शक्यते वक्तुं नित्यं कुशलं चास्ति द्रव्यान्तरम् ।
[०९२।०३-०९२।०४]
तद्विसंयोगश्चोच्यते प्रतिसंख्यानिरोधश्चेति ।
[०९२।०४]
सर्वमेवासंस्कृतमद्रव्यमिति सौत्रान्तिकाः ।
[०९२।०५]
नहि तद्रूपवेदनादियत्भावान्तरमस्ति ।
किं तर्हि ।
स्प्रष्टव्याभावमात्रमाकाशम् ।
[०९२।०६]
तद्यथा ह्यन्धकारे प्रतिधातमविन्दन्त आकाशमित्याहुः ।
[०९२।०६-०९२।०७]
उत्पन्नानुशयजन्मनिरोधः प्रतिसंख्यावलेनान्यस्यानुत्पादः प्रतिसंख्यानिरोधः ।
[०९२।०७-०९२।०८]
विनैव प्रतिसंख्यया प्रत्ययवैकलयादनुत्पादो यः सो ।प्रतिसंख्यानिरोधः ।
[०९२।०८-०९२।०९]
तद्यथा निकायसभागशेषस्यान्तरामरणे ।
[०९२।०९]
निकायान्तरीयाः पुनराहुः ।
[०९२।०९-०९२।१०]
अनुशयानामुत्पत्तौ प्रज्ञायाः सामर्थ्यमतोऽसौ प्रतिसंख्यानिरोधः ।
[०९२।१०-०९२।११]
यस्तु पुनः दुःखस्यानुत्पादः सः उत्पादकारणानुशयवैकल्यादेवेति न तस्मिन्प्रज्ञायाः सामर्थ्यमस्त्यतोऽसावप्रतिसंख्यानिरोध इति ।
[०९२।१२]
सोऽपि तु नान्तरेण प्रतिसंख्यां सिध्यतीति प्रतिसम्ख्यानिरोध एवासौ ।
[०९२।१२-०९२।१३]
य एवोत्पन्नस्य पश्चादभावः स एव स्वरस निरोधादप्रतिसंख्यानिरोध इत्यपरे ।
[०९२।१३-०९२।१४]
अस्यां तु कल्पनायामनित्योऽप्रतिसंख्यानिरोधः प्राप्नोत्यविनष्टे तदभावात् ।
[०९२।१४-०९२।१५]
ननु च प्रतिसंख्यानिरोधोऽप्यनित्यः प्राप्नोति ।
[०९२।१५]
प्रतिसंख्यापूर्वकत्वात् ।
[०९२।१५-०९२।१६]
न वै स प्रतिसंख्यापूर्वको नहि पोऊर्वं प्रतिसंख्या पश्चादनुत्पन्नानामनुत्पादः ।
[०९२।१६]
किं तर्हि ।
[०९२।१६-०९२।१७]
पूर्वमेव स तेषामनुत्पादोऽस्ति ।
[०९२।१७-०९२।१८]
विना तु प्रतिसंख्यया ये धर्मा उत्पत्स्यन्ते तदुत्पन्नायां प्रतिसंख्यायां पुनर्नोपपद्यन्त इति ।
[०९२।१८-०९२।१९]
एतदत्र प्रतिसंख्याया समर्थ्यं यदुताकृतोत्पत्तिप्रतिबन्धानामुत्पत्तिप्रतिबन्धभावः ।
[०९२।१९-०९२।२१]
यदि नर्हि अनुत्पाद एव निर्वाणमिदं सूत्रपदं कथं नीयते “पञ्चेमानीन्द्रियाणि आसेवितानि भावितानि बहुलीकृतान्यतीतानागतप्रत्यूत्पन्नस्य दुःखस्य प्रहाणाय संवर्त्तन्त” इति ।
[०९२।२१-०९२।२२]
प्रहाणं हि निर्वाणमनागतस्यैव चानुत्पादो नातीतप्रत्युत्पन्नस्येते ।
[०९२।२२]
अस्त्येतदेवम् ।
[०९२।२२-०९२।२४]
किं तु तदालम्बनक्लेशप्रहाणात्दुःखस्य प्रहाणमुक्तं भगवता “यो रूपे च्छन्दरागस्तं प्रजहीत ।
[०९२।२४-०९२।२५]
च्छन्दरागे प्रहीणे एवं वस्तद्रूपं प्रहीणं भविष्यति पारिज्ञातं विस्तरेण यावद्विज्ञानमि”ति ।
[०९२।२५]
एवं त्रैयध्विकस्यापि दुःखस्य प्रहाणं युज्यते ।
[०९२।२६]
अथाप्यतीतानागतप्रत्युत्पन्नस्य क्लेशस्य प्रहाणायेत्युच्येत ।
अत्राप्येष नयः ।
[०९२।२७-०९२।२९]
अथवाऽयमभिप्रायो भवेदतीतः क्लेशः पौर्वजन्मिकः प्रत्युत्पन्नः क्लेश ऐहजन्मिको यथा तृष्णा विचरितेष्वष्टादश तृष्णाविचरितान्यतीतमध्वानमुपादायेत्यतीतं जन्माधिकृत्योक्तमेवं यावत्प्रत्युत्पन्नम् ।
[०९२।२९-०९३।०१]
तेना च क्लेशद्वयेनास्यां सन्ततौ बीजभाव आहितोऽनागतस्योत्पत्तये ।
[०९३।०१]
तस्य प्रहाणात्तदपि प्रहीणं भवति ।
[०९३।०१-०९३।०२]
यथा विपाकक्षयात्कर्मं क्षीणं भवति ।
[०९३।०२-०९३।०३]
अनागतस्य पुनर्दुःखस्य क्लेशस्य वा बीजाभावातत्यन्तमनुत्पादः प्रहाणम् ।
[०९३।०३-०९३।०४]
अन्यथा ह्यतीतप्रत्युत्पन्नस्य किं प्रहातव्यम् ।
[०९३।०४]
नहि निरुद्धे निरोधाभिमुखे च यत्नः सार्थको भवतीति ।
[०९३।०४-०९३।०६]
यद्यसंस्कृटं नास्त्येव, यदुक्तं भगवता “ये केचिद्धर्माः संस्कृता वाऽसंस्कृता वा विरागस्तेषामग्र आख्यायते” इति कथमसतामसन्नग्रो भवितुमर्हति ।
[०९३।०६-०९३।०७]
न वै नास्त्येवासंस्कृतमिति ब्रूमः ।
[०९३।०७]
एतत्तु तदीदृशं यथाऽस्माभिरुक्तम् ।
[०९३।०७-०९३।०८]
तद्यथा अस्ति शब्दस्य प्रागभावोऽस्ति पश्चादभाव इत्युच्यते ।
[०९३।०८]
अथ च पुनर्नाभावो भावः सिध्यति ।
[०९३।०८-०९३।०९]
एवमसंस्कृतमपि द्रष्टव्यम् ।
[०९३।०९-०९३।१०]
अभावोऽपि च कश्चित्प्रशस्यतमो भवति यः सकलस्योपद्रवस्यात्यन्तमभाव इत्यन्येषां सोऽग्र इति प्रशंसां लब्धुमर्हति ।
[०९३।१०]
विनेयानां तस्मिन्नुपच्छन्दनार्थम् ।
[०९३।११]
यद्यप्यसंस्कृतमभावमात्रं स्यान्निरोध आर्यसत्यं न स्यात् ।
नहि ततु किञ्चिदस्तीति ।
[०९३।१२]
कस्तावदयं सत्यार्थः ।
ननु चाविपरीतार्थः ।
[०९३।१२-०९३।१४]
उभयमपि चैतदविपरीतं दृष्टमार्यैर्यदुत दुःखं च दुःखमेवेति दुःखाभावश्चाभाव एवेति कोऽस्यार्यसत्यत्वे विरोधः कथमभावश्च नाम तृतीयं चार्यसत्यं स्यात् ।
[०९३।१४-०९३।१५]
उस्तं यथार्यसत्यं द्वितीयस्यानन्तरं दृष्टमुद्दृष्टं चेति तृतीयं भवति ।
[०९३।१५-०९३।१६]
यद्यसंस्कृतमभावमात्रं स्यादाकाशनिर्वाणालम्बनविज्ञानमसदालम्बनं स्यात् ।
[०९३।१६-०९३।१७]
एतदतीतानागतस्यास्तित्वचिन्तायां चिन्तयिष्यामः ।
[०९३।१७]
यदि पुनर्द्रव्यमेवासंस्कृतमिष्येत किं स्यात् ।
[०९३।१७-०९३।१८]
किं च पुनः स्यात् ।
[०९३।१८]
वैभाषिकपक्षः पालितः स्यात् ।
[०९३।१८-०९३।१९]
देवता एनं पालयिष्यन्ति पालनीयं चेत्मंस्यते ।
[०९३।१९]
अभूतं तु परिकल्पितं स्यात् ।
किं कारणम् ।
[०९३।१९-०९३।२०]
नहि तस्य रूपवेदनादिवत्स्वभाव उपलभ्यते नचापि चक्षुरादिवत्कर्म ।
[०९३।२०-०९३।२१]
अमुष्य च वस्तुनोऽयं निरोघ इति षष्ठीव्यवस्था कथं प्रकल्प्यते ।
[०९३।२१-०९३।२२]
नहि तस्य तेन सार्धं कश्चित्संबन्धो हेतुफलादिभावासंभवात् ।
[०९३।२२]
प्रतिषेधमात्रं तु युज्यते अमुष्याभाव इति ।
[०९३।२२-०९३।२३]
भावान्तरत्वेऽपि यस्य क्लेशस्य प्राप्तिविच्छेदाय्द्यो निरोधः प्राप्यते स तस्येति व्यवदिश्यते ।
[०९३।२४]
तस्य तर्हि प्राप्तिनियमे को हेतुः ।
[०९३।२४-०९३।२५]
“दृष्टधर्मनिर्वाणप्राप्तो भिक्षुरि”त्युक्तं सूत्रे ।
[०९३।२५]
तत्र कथमभावस्य प्राप्तिः स्यात् ।
[०९३।२५-०९३।२६]
प्रतिपक्षलाभेन क्लेशपुनर्भवोत्पादात्यन्तविरुद्धाश्रय लाभात्प्राप्तं निर्वाणमित्युच्यते ।
[०९३।२६-०९३।२७]
आगमश्चाप्यभावमात्रं द्योतयति ।
[०९३।२७]
एवं ह्याह ।
[०९३।२७-०९४।०१]
“यत्स्वल्पस्य दुःखस्याशेषप्रहाणं प्रतिनिःसर्गो व्यन्तीभावः क्षयो विरागो निरोधो व्युपक्षमोऽस्तङ्गमः अन्यस्य च दुःखस्याप्रति सन्धिरनुत्पादोऽप्रादुर्भावः ।
[०९४।०१-०९४।०२]
एतत्कान्तमेतत्प्रणीतं यदुत स्र्वोपाधिप्रनिनिः सर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाण” मिति ।
[०९४।०२-०९४।०३]
किमेवं नेष्यते नास्मिन् प्रादुर्भव्बतीत्यतोऽप्रादुर्भाव इति ।
[०९४।०३]
असमर्थामेतां सप्तमीं पश्यामः ।
किमुक्तं भवति ।
[०९४।०४-०९४।०५]
नास्मिन्प्रादुर्भवतीति यदि सतीत्यभिसंबध्यते नित्यमेवाप्रादुर्भावप्रसङ्गो निर्वाणस्य नित्यत्वात् ।
[०९४।०५-०९४।०६]
अथ प्राप्त इत्यभिसंबध्यते यत एव तत्प्राप्तिः परिकल्प्यते तस्मिन्नेव संमुखीभूते प्राप्ते वा दुःखस्येष्यतामप्रादुर्भावः ।
[०९४।०६-०९४।०७]
अयं च दृष्टान्त एवं सूपनीतो भवति ।
[०९४।०८]
“प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतस” इति ।
[०९४।०९]
यथा प्रद्योतस्य निर्वाणमभाव एवं भगवतोऽपि चेतसो विमोक्ष इति ।
[०९४।०९-०९४।१०]
अभिधर्मेऽपि चोक्तम् “अवस्तुका धर्माः कतमे ।
[०९४।१०]
असंस्कृता धर्मा” इति ।
[०९४।१०-०९४।११]
अवस्तुका अशरीरा अस्वभावा इत्युक्तं भवति ।
[०९४।११]
नास्यायमर्थः ।
[०८९।४११-०९४११]
कस्तर्हि ।
[०९४।११]
पञ्चविधवस्तु ।
[०९४।११-०९४।१२]
स्वभाववस्तु यथोक्तं “यद्वस्तु प्रतिलब्धं समन्वागतः स तेन वस्तुने”ति ।
[०९४।१२]
आलम्बनवस्तु ।
[०९४।१२-०९४।१३]
यथोक्तं “सर्वधर्मज्ञेया ज्ञानेन यथावस्त्वे”ति ।
[०९४।१३]
संयोगवस्तु ।
[०९४।१३-०९४।१४]
यथोक्तं “यस्मिन् वस्तुनि अनुनयः संयोजनेन संप्रयुक्तः प्रतिघसंयोजनेनापि तस्मि
न्नि”ति ।
[०९४।१४-०९४।१५]
हेतुवस्तु यथोक्तं “सवस्तुका धर्माः कतमे ।
[०९४।१५]
संस्कृता धर्मा” इति ॥
परिग्रहवस्तु ।
[०९४।१५-०९४।१६]
यथोक्तं “क्षत्रवस्तु गृहवस्त्वि”ति ।
[०९४।१६-०९४।१७]
तदत्र हेतुर्वस्तुशब्देनोक्तस्तस्मादस्त्येवासंस्कृतं द्रव्यत इति वैभाषिकाः ।
[०९४।१७]
तस्य तु हेतुफले न विद्येते इति ।
गतं तावदेतत् ।
[०९४।१८]
अथैषां फलानां कतमत्फलं कस्य हेतोः ।
[०९४।१९]
विपाकफलमन्त्यस्य
[०९४।२०]
विपाकहेतुरन्त्येऽभिहितत्वातन्त्यः ।
तस्य विपाकफलम् ।
[०९४।२१]
पूर्वस्याधिपतं फलम् ।
[०९४।२२]
कारणहेतुः पूर्वमुक्तत्वात्पूर्वः ।
तस्याधिपजं फलम् ।
[०९४।२२-०९४।२३]
अनावरणभावमात्रेणावस्थितस्य किमाधिपत्यम् ।
[०९४।२३-०९४।२४]
एतदेव अङ्गीभावोऽपि चास्ति कारणहेतोस्तद्यथा “पञ्चसु विज्ञानकायेषुदशानामायतनानां भाजनलोके च कर्मणाम् ।
[०९४।२४-०९४।२५]
श्रोत्रादीनामप्यस्ति चक्षुर्विज्ञानोत्पत्तौ पारंपर्येणाधिपत्यम् ।
[०९४।२५-०९४।२६]
श्रुत्वा द्रष्टुकामतोत्पत्ते” रित्येवमादि योज्यम् ।
[०९४।२७]
सभाग सर्वत्रगयोर्निष्यन्दः
[०९४।२८]
सदृशफलत्वादनयोर्निःष्यन्दफलम् ।
[०९५।०१]
पौरुषं द्वयोः ॥ २.५६ ॥
[०९५।०२]
सहभूसंप्रयुक्तकहेत्वोः पुरुषकारफलम् ।
पुरुषभावव्यतिरेकात्पुरुषकारः पुरुषमेव ।
[०९५।०३]
तस्य फलं पौरुषम् ।
कोऽयं पुरुषकारो नाम ।
यस्य धर्मस्य यत्कारित्रम् ।
[०९५।०४]
पुरुषकार इव हि पुरुषकारः ।
तद्यथा काकजङ्घा ओषधिर्मत्तहस्ती मनुष्य इति ।
[०९५।०५]
किमन्येषामप्यस्ति पुरुषकारफामुताहो द्वयोरेव ।
[०९५।०५-०९५।०६]
अन्येषामप्यस्त्यन्यत्र विपाकहेतोः ।
[०९५।०६-०९५।०७]
यस्मात्सहोत्पन्नं वा समनन्तरोत्पन्नं वा पुरुषकारफलं भवति ।
[०९५।०७]
न चैवं विपाकः ।
तस्याप्यस्ति विप्रकृष्टपुरुषकारफलम् ।
[०९५।०७-०९५।०८]
यथा कर्षकाणां सस्यमित्यपरे ।
[०९५।०९]
किं पुनरिदं विपाकफलं नाम किं यावदधिपतिफलम् ।
[०९५।१०]
विपाकोऽव्याकृतो धर्मः ।
[०९५।११]
अनिवृताव्याकृतो हि धर्मः विपाकः ।
असत्त्वाख्योऽपि स्यादत आह ।
[०९५।१२]
सत्त्वाख्यः
[०९५।१३]
औपचयिकोऽपि स्यात्नैःष्यन्दिकोऽप्यताह ।
[०९५।१४]
व्याकृतोद्भवः ।
[०९५।१५]
कुशलाकुशलं हि विपाकं प्रति व्याकरणाद्व्याकृतम् ।
[०९५।१५-०९५।१६]
तस्माद्य उतरकालं भवति न सह नान्तरं स विपाकः ।
[०९५।१६]
एतद्विपाकस्य लक्षणम् ।
[०९५।१६-०९५।१७]
कस्मादसत्त्वाख्योऽर्थः कर्मजो न विपाकः ।
[०९५।१७]
साधारणत्वात् ।
अन्योऽपि हि तत्तथैव परिभोक्तुं समर्थः ।
[०९५।१८]
असाधारणस्तु विपाकः ।
नह्यन्यकृतस्य कर्मणोऽन्यो विपाकं प्रतिसंवेदयते ।
[०९५।१८-०९५।१९]
अधिपतिफलं कस्मात्प्रतिसंवेदयते ।
[०९५।१९]
साधारणकर्मसंभूतत्वात् ।
[०९५।२०]
निःष्यन्दो हेतुसदृशः ।
[०९५।२१]
हेतोर्यः सदृशो धर्मः स निष्यन्दफलम् ।
तद्यथा सभागसर्वत्रगहेत्वोः ।
[०९५।२१-०९५।२२]
यदि सर्वत्रगहेतोरपि समानं फलं कस्मान्न सभागहेतोरेवेष्यते ।
[०९५।२२-०९५।२३]
यस्मात्भूमितः क्लिष्टतया चास्य सादृश्यं नतु प्रकारतः ।
[०९५।२३-०९५।२४]
यस्य तु प्रकारतोऽपि सादृश्यं सोऽभ्युपगम्यत एव सभागहेतुः ।
[०९५।२४-०९५।२५]
अथ एव यो यस्य सभागहेतुः सर्वत्रगहेतुरपि स तस्येति चतुष्कोटिकः क्रियते ।
[०९५।२५]
प्रथमा कोटिरसर्वत्रगः सभागहेतुः ।
[०९५।२५-०९५।२६]
द्वितीयाऽन्यनैकायिकः सर्वत्रगहेतुः ।
[०९५।२६]
तृतीयैकनैकायिकः सर्वत्रगहेतुः ।
[०९५।२६-०९५।२७]
चतुर्थ्यतानाकारान्स्थापयित्वेति ।
[०९६।०१]
विसंयोगः क्षयो धिया ॥ २.५७ ॥
[०९६।०२]
क्षयो निरोधः ।
धीः प्रज्ञा ।
तेना प्रतिसंख्या निरोधो विसंयोगफलमित्युक्तं भवति ।
[०९६।०३]
यद्वलाज्जायते यत्तत्फलं पुरुषकारजम् ।
[०९६।०४-०९६।०५]
तद्यथा अधरभूमिकस्य प्रयोगचित्तस्योपरिभूमिकः समाधिः सास्रवस्यानास्रवो ध्यानचित्तस्य निर्माणचित्तमित्येवमादि ।
[०९६।०५-०९६।०६]
प्रतिसंख्यानिरोधस्तु यद्वलात्प्राप्यत इति वक्तव्यम् ।
[०९६।०७-०९५।६०७]
अपूर्वः संस्कृतस्यैव संस्कृतोऽधिपतेः फलम् ॥ २.५८ ॥
[०९६।०८]
पूर्वोत्पन्नादन्यः संस्कृतो धर्मः संस्कृतस्यैव सर्वस्याधिपतिफलम् ।
[०९६।०८-०९६।०९]
पुरुषाधिपतिफलयोः किं नाना कारणम् ।
[०९६।०९]
कर्तुः पुरुषकारफलम् ।
अकर्तुरप्यधिपतिफलम् ।
[०९६।१०]
तद्यथा शिल्पिनि शिल्पं पुरुषकारफलमधिपतिफलं च ।
अन्येषामधिपतिफलमेव ।
[०९६।११]
अथैषां हेतूनां कतम्मो हेतुः कस्मिन्काले फलं प्रतिगृह्णाति ददाति वा ।
[०९६।१२]
वर्तमानाः फलं पञ्च गृह्णन्ति
[०९६।१३]
नातीताःः प्रतिगृहीतत्वान्नाप्यनागता निष्पुरुषकारत्वात् ।
कारणहेतुरप्येवम् ।
[०९६।१३-०९६।१४]
स तु नावश्यं सफल इति नोच्यते ।
[०९६।१५]
द्वौ प्रयच्छतः ।
[०९६।१६]
सहभूसंप्रयुक्तकहेतू वर्त्तमानौ फलं प्रयच्छतः ।
[०९६।१६-०९६।१७]
समानकालमेव ह्यनयेः फलदानग्रहणम् ।
[०९६।१८]
वर्त्तमानाभ्यतीतौ द्वौ
[०९६।१९]
फलं प्रयच्छतः सभागसर्वत्रगहेतू ।
युक्तं तावद्यदतीताविति ।
[०९६।१९-०९६।२०]
अथ कथं वर्त्तमानौ निष्यन्दफलं प्रयच्छतः ।
[०९६।२०]
समनन्तरनिवर्त्तनात् ।
[०९६।२०-०९६।२१]
निवृत्ते तु फले तौ चाभ्यतीतौ भवतः ।
[०९६।२१]
फलं चापि दत्तं न पुनस्तदेव दत्तः ।
[०९६।२१-०९६।२२]
अस्ति कुशलः सभागहेतुः फलं प्रतिगृह्णाति न ददातीति चतुष्कोटिकः ।
[०९६।२२-०९६।२३]
प्रथमा कोटिः कुशलमूलानि समुच्छिन्दन् याः प्राप्तीः सर्वपश्चाद्विजहाति ।
[०९६।२३-०९६।२४]
द्वितीया कुशलमूलानि प्रतिसंदधानो याः सर्वप्रथमं प्रतिलभते ।
[०९६।२४]
एवं तु वक्तव्यम् ।
[०९६।२४-०९६।२५]
स्यात्ता एव प्रतिसंदधानस्य तृतीया असमुच्छिन्नकुशलमूलस्य शेषास्ववस्थासु ।
[०९६।२५]
चतुर्थ्यतानाकारान् स्थापयित्वा ।
[०९६।२६]
अकुशलस्य तु प्रथमा कोटिः ।
[०९६।२६-०९६।२८]
कामवैराग्यमनुप्राप्नुवन् याः प्राप्तीः सर्वपश्चाद्विजहाति द्वितीया कामवैराग्यात्परिहीयमाणो याः सर्वप्रथमं प्रतिलभते ।
[०९६।२८]
एवं तु वक्तव्यम् ।
[०९६।२८-०९६।२९]
स्यात्ता एव परिहीयमाणस्य ।
[०९६।२९]
तृतीया कामावीतरागस्य शेषास्ववस्थासु ।
[०९६।२९-०९७।०१]
चतुर्थ्यतानाकारान् स्थापयित्वा ।
[०९७।०१-०९७।०२]
एवं निवृताव्याकृतस्याप्यर्हत्त्वप्राप्तिपरिहाणितो यथायोगं योज्यम् ।
[०९७।०२]
अनिवृताव्याकृतस्य पश्चात्पादकः ।
[०९७।०२-०९७।०३]
यास्तावत्ददाति प्रतिगृह्णात्यपि सः ।
[०९७।०३]
स्यात्प्रतिगृह्णाति न ददात्यर्हतश्चरमाः स्क्न्धाः ।
[०९७।०३-०९७।०४]
सालम्बननियमेन तु क्षणशः ।
[०९७।०४]
कुशलः सभागहेतुः फलं प्रतिगृह्लाति न ददातीति ।
चतुष्कोक्टिकः ।
[०९७।०५]
प्रथमा कोटिः कुशलचित्तानन्तरं क्लिष्टमव्याकृतं वा चित्तं संमुखीकरोतीति ।
[०९७।०६]
द्वितीया विपर्ययात् ।
तृतीया कुशलचित्तानन्तरं कुशलमेव ।
[०९७।०६-०९७।०७]
चतुर्थ्यतानाकारान् स्थापयित्वा ।
[०९७।०७]
एवमकुशलादयोऽपि योज्याः ।
कथं पुनः फलं प्रतिगृहीतं भवति ।
[०९७।०८]
तस्य बीजभावोपगमात् ।
[०९७।०९]
एकोऽतीतः प्रयच्छति ॥ २.५९ ॥
[०९७।१०]
विपाकहेतुरतीत एव फलं प्रयच्छति ।
यस्मान्न सह वा समनन्तरो वाऽस्ति विपाकः ।
[०९७।११]
पुनरन्ये चतुर्विधं फलमाहुः ।
प्रतिष्ठाफलम् ।
[०९७।११-०९७।१२]
यथा जलमण्डलं वायुमण्डलस्य यावत्तृणादयः पृथिव्याः ।
[०९७।१२]
प्रयोगफलम् ।
यथाऽशुभाया यावदनुत्पादज्ञानम् ।
[०९७।१३]
सामग्रीफलम् ।
यथा चक्षुरादीनां चक्षुर्विज्ञानादीनि ।
भावनाफलम् ।
[०९७।१३-०९७।१४]
यथा रूपावचरस्य चित्तस्य निर्माणम् ।
[०९७।१४-०९७।१५]
एतत्तु पुरुषकाराधिपतिफलयोरन्तर्भूतम् ।
[०९७।१५]
उक्ता हेतवः फलानि च ॥
[०९७।१६-०९७।१७]
तत्र कतमे धर्माः कतिभिः हेतुभिरुत्पद्यन्त इत्याह समासत इमे चतुर्विधा धर्मास्तद्यथा क्लिष्टा धर्मा विपाकजाः प्रथमानास्रवास्तेभ्यश्च शेषाः ।
[०९७।१७-०९७।१८]
के पुनः शेषाः ।
[०९७।१८]
विपाकवर्ज्याः अव्याकृताः प्रथमानास्रवक्षणवर्ज्याश्च कुशला इति ।
[०९७।१८-०९७।१९]
एते चतुर्विधा धर्माः ।
[०९७।२०-०९७।२१]
क्लिष्टा विपाकजाः शेषाः प्रथमार्या यथाक्रमम् ।
विपाकं सर्वगं हित्वा तौ सभागं च शेषजाः ॥ २.६० ॥
[०९७।२२]
क्लिष्टा धर्मा विपाकहेतुं हित्वा शेषेभ्यः पञ्चभ्यो जायन्ते ।
[०९७।२२-०९७।२३]
विपाकजा सर्वत्रगहेतुं हेत्वा शेषेभ्यः पञ्चभ्य एव ।
[०९७।२३-०९७।२४]
शेषा धर्मास्तौ विपाकसर्वत्रगहेतू हित्वा शेषेभ्यश्चतुर्भ्र्यो जायन्ते ।
[०९७।२४-०९७।२५]
प्रथमानास्रवास्तौ च विपाकसर्वत्रगहेतू सभागहेतुं च हित्वा शेषेभ्यः त्रिभ्यो जायन्ते ।
[०९७।२६]
कतमे इमे धर्माश्चतुर्विधा निर्दिष्टा इत्याह
[०९७।२७]
चित्तचैत्ताः
[०९७।२८]
अथ ये चित्तविप्रयुक्ता रूपिणश्च धर्मास्ते कथमित्याह ।
[०९७।२९]
तथाऽन्येऽपि संप्रयुक्तकवर्जिताः ।
[०९७।३०-०९८।०१]
प्रयुक्तकहेतुनैकेन वर्जिताः अन्येऽपि क्लिष्टादयो धर्मास्तथैवोत्पद्यन्ते यथा चित्तचईत्ताः ।
[०९८।०१]
तत्र क्लिष्टाश्चतुभ्र्यो विपाकजाश्च ।
[०९८।०१-०९८।०२]
शेषास्त्रिभ्यः प्रथमानास्रवा द्वाभ्याम् ।
[०९८।०२]
एकहेतुसंभूतो नास्ति धर्मः ॥
समाप्तो हेतुविस्तरः ॥
[०९८।०३]
प्रत्ययाः कतमे ।
[०९८।०४]
चत्वारः प्रत्यया उक्ताः
[०९८।०५]
क्ववोक्ताः ।
सूत्रे ।
“चतस्रः प्रत्ययताः ।
[०९८।०५-०९८।०६]
हेतुप्रत्ययता समनन्तरप्रत्ययता आलम्बनप्रत्ययता अधिपतिप्रत्ययता चे”ति ।
[०९८।०६]
प्रत्ययजातिः प्रत्ययता ।
तत्र
[०९८।०७]
हेत्वाख्यः पञ्च हेतवः ॥ २.६१ ॥
[०९८।०८]
कारणहेतुवर्ज्याः पण्य्च हेतवो हेतुप्रत्ययः ।
[०९८।०९]
चित्तचैत्ता अचरमा उत्पन्नाः समनन्तरः ।
[०९८।१०]
अर्हतः पश्चिमानपास्योत्पन्नाश्चित्तचैत्ताः समनन्तरप्रत्ययः ।
[०९८।१०-०९८।११]
समश्चायमनन्तरश्च प्रत्यय इति समनन्तरप्रत्ययः ।
[०९८।११]
अत एव रूपं न समनन्तरप्रत्ययो विषमोत्पत्तेः ।
[०९८।१२-०९८।१३]
तथाहि कामावचरस्य रूपस्यानन्तरं कदाचित्कामावचरं रूपावचरं चाविज्ञप्तिरूपमुत्पद्यते कदाचित्कामावचरं चानास्रवं चेति व्याकुलो रूपसंमुखीभावः ।
[०९८।१४-०९८।१५]
अव्याकुलस्तु समनन्तरप्रत्ययः अनिरुद्ध एवैकस्मिन्नौप चयिकरूपसन्ताने द्वितीयोत्पत्तेरिति भदन्तवसुमित्रः ।
[०९८।१५]
अल्पबहुतरोत्पत्तेरिति भदन्तः ।
[०९८।१५-०९८।१६]
कदाचिद्धि महतो रूपादल्पमुत्पद्यते ।
[०९८।१६]
तद्यथा पलालराशेर्भस्म ।
कदाचिदल्पाद्वहूत्पद्यते ।
[०९८।१६-०९८।१७]
तद्यथा वटनिकायाः क्रमेण यावदनेकशाखावरोहो न्यग्रोध इति ।
[०९८।१७-०९८।१८]
ननु चास्ति चैत्ताना मप्यल्पबहुतरोत्पत्तिः ।
[०९८।१८-०९८।१९]
कुशलाकुशलाव्याकृतेषु चित्तेसु सवितर्कसविचारादौ च समाधित्रये ।
[०९८।१९]
अस्ति जात्यन्तरं प्रति न स्वजातिम् ।
[०९८।१९-०९८।२०]
नहि कदाचिद्वहुतरा वेदनोत्पद्यते संज्ञादयो वा ।
[०९८।२०-०९८।२१]
किं पुनः स्वजातेरेव समनन्तरप्रत्ययो भवति ।
[०९८।२१]
नैतदस्ति ।
[०९८।२१-०९८।२२]
सकल एव कलापः सकलस्य कलापान्तरस्य समनन्तरप्रत्ययो नत्वल्पकाद्वेदनादिद्रव्यात्प्रभूतं वेदनादि द्रव्यमुत्पद्यत इत्येतावदेवात्रोत्तम् ।
[०९८।२३]
सन्तानसभागिकास्तु मन्यन्ते “स्वजातेरेव समनन्तरप्रत्ययः ।
[०९८।२३-०९८।२४]
तद्यथा चित्तं चित्तस्यैव वेदना वेदनाया एवे”ति विस्तरः ।
[०९८।२४-०९८।२६]
यदा त्वक्लिष्टान्तरं क्लिष्टमुत्पद्यते तस्य क्लेशस्य पूर्वनिरुद्धः क्लेशः समनन्तरप्रत्ययस्तद्यथा निरोधसमापत्तिचित्तं व्युत्थानचित्तस्येति ।
[०९८।२६]
तदेतन्न वत्स्र्यते ।
[०९८।२६-०९८।२७]
प्रथमानास्रवचित्तानुत्पत्तिप्रसङ्गत्चित्तविप्रयुक्ता अपि संस्काराः ।
[०९८।२७-०९८।२९]
अत एव व्याकुलसंमुखीभावान्न समनन्तरप्रत्ययस्त्रैवातुकाप्रतिसंयुक्तानां युगपत्संमुखीभावात् ।
[०९८।२९]
कस्मादनागतो नेष्यते समनन्तरप्रत्ययः ।
[०९८।२९-०९९।०१]
व्याकुलत्वादनागतस्याध्वनः पूर्वोत्तरताऽभावात् ।
[०९९।०१-०९९।०२]
कथं तर्हि भगवान् जानाति अमुष्यानागतत्त्यानन्तरमिदमनागतं भावीति ।
[०९९।०२]
अतीतसांप्रतानुमानात् ।
[०९९।०२-०९९।०३]
अतीतं किलाध्वानं पश्यति भगवानेवञ्जातीयकात्कर्मणः एवञ्जातीयको वीपाकः उत्पन्नो धर्माद्वा धर्मः ।
[०९९।०४]
इदं चापि संप्रत्येवञ्जातीयकं कर्म ।
[०९९।०४-०९९।०५]
तस्मादतोऽप्येवञ्जातीयको विपाक उत्पत्स्यते धर्माद्वा धर्म इति जानाति ।
[०९९।०५]
नचान्यत्ज्ञानमानुमानिकं भवति ।
[०९९।०५-०९९।०७]
यस्मादतीतसांप्रतानुमानेन भगवान् विकीर्णान्यनागतानि द्रव्याणि प्रत्यक्षमीक्षित्वा जानात्यनेन पुद्गलेनैवंविधं कर्म कुर्वतेदमनागतं फलं परिगृहीतमिति ।
[०९९।०७-०९९।०८]
एवं तर्हि भगवान् पूर्वान्तमदृष्ट्वाऽपरान्तं न जानीयात् ।
[०९९।०८]
अन्ये पुनराहुः ।
[०९९।०८-०९९।१०]
फलचिह्नभूतः सत्त्वानां सन्ततौ चित्तविप्रयुक्तः संस्कारविशेषोऽस्ति यं व्यवलोक्य भगवाननागतं जानात्यसंमुखीकृत्वापि ध्यानमभिज्ञां चेति ।
[०९९।१०-०९९।११]
नैमिक्तिको हि नाम भगवान् स्यादेवं सति न पुनः साक्षात्कारी ।
[०९९।११]
तस्मात्सर्वमिच्छामात्रेण भगवान् जानातीति सौत्रान्तिकाः ।
[०९९।१२]
“अचिन्त्यो हि बुद्धानां बुद्धिविषय” इत्युक्तं भगवता ।
[०९९।१२-०९९।१३]
अथ असत्यनागतस्य क्रमनियमावस्थाने कस्मादग्रधर्मानन्तरं दुःखे धर्मज्ञानक्षान्तिरेवोत्पद्यते नान्यो धर्मः ।
[०९९।१४]
एवं यावद्वर्जो पमानन्तरं क्षयज्ञानमेवोत्पद्यते नान्यो धर्म इति ।
[०९९।१५]
यस्य यत्प्रतिबद्ध उत्पादः स तस्यानन्तरमुत्पद्यते ।
[०९९।१५-०९९।१६]
तद्यथा वीजादीनामङ्कुरादयो विनापि समनन्तरप्रत्ययेनेति ।
[०९९।१६]
कस्मादर्हतश्चरमाश्चित्तचैत्ता न समनन्तरप्रत्ययः ।
[०९९।१७]
अन्यचित्तासंबन्धनात् ।
[०९९।१७-०९९।१८]
ननु चैवं समनन्तरनिरुद्धं चित्तं मनो भवतीत्यनन्तर विज्ञानाभावात्मनोऽपि चरमं चित्तं न प्राप्नोति ।
[०९९।१८-०९९।१९]
आश्रयभावप्रतिभावितं मनो न कारित्रप्रभावितमित्यस्त्येवाश्रयभावः ।
[०९९।१९-०९९।२०]
कारणान्तरवैकल्यात्तु विज्ञानान्तरं नोत्पद्यत इति ।
[०९९।२०-०९९।२१]
कारित्रप्रभावितस्तु समनन्तरप्रत्ययस्तेन यो धर्मः फलं क्प्रतिगृहीतः स सर्वैरपि धर्मईः सर्वप्राणिभिर्वा न शक्यं प्रतिब्न्द्धुं यथा नोत्पद्यते ।
[०९९।२१-०९९।२२]
ये धर्माश्चित्तसमनन्तराश्चित्तनिरन्तरा अपि ते ।
[०९९।२२]
चतुष्कोटिकः ।
[०९९।२२-०९९।२३]
प्रथमा कोटिरचित्तकायाः समापत्तेर्व्युत्थान चित्तं द्वितीयादयश्च समापत्तिक्षणाः ।
[०९९।२३-०९९।२४]
द्वितीया कोटिः प्रथमस्य समापत्तिक्षणस्य सचित्तकायाश्चावस्थाया जात्यादयः ।
[०९९।२४-०९९।२५]
तृतीया कोटिः प्रथमः समापत्तिक्षणः सचित्तिका चावस्था ।
[०९९।२५-०९९।२६]
चतुर्थी कोटि द्वीर्तीयादीनां समापत्तिक्षणानां जात्यादयो व्युत्थानचित्तस्य च ।
[०९९।२६-०९९।२७]
ये धर्माश्चित्तसमनन्तराः समापत्तिनिरन्तरा अपि ते ।
[०९९।२७]
चतुष्कोटिकः ।
[०९९।२७-१००।०१]
ये तृतीयावतुर्थ्यौ ते प्रथमाद्वितीये ये प्रथमाद्वितीये ते तृतीयाचतुर्थ्यौ कर्त्तव्ये ।
[१००।०१-१००।०२]
कथमिदानीं दूरान्तरविच्छिन्नं व्युत्थानचित्तं समापत्तिचित्तस्य समनन्तरमित्युच्यते ।
[१००।०२]
चित्तान्तराव्यवहितत्वात् ॥
उक्तःः समनन्तरप्रत्ययः ॥
[१००।०३]
आलम्बनं सर्वधर्माः ।
[१००।०४]
यथायोगं चक्षुर्विज्ञानस्य ससंप्रयोगस्य रूपम् ।
श्रोत्रविज्ञानस्य शब्दः ।
[१००।०४-१००।०५]
ग्राणविज्ञानस्य गन्धः ।
[१००।०५]
जिह्वाविज्ञानस्य रसः ।
कायविज्ञानस्य स्प्रष्टव्यम् ।
[१००।०५-१००।०६]
मन्नोविज्ञानस्य सर्वधर्माः ।
[१००।०६]
यो धर्मो यस्य धर्मस्यालम्बनं न कदाचित्स धर्मस्तद्धर्मस्य नालम्बनम्।
[१००।०७]
अनालम्ब्यमानोऽपि तथालक्षणत्वाद् ।
[१००।०७-१००।०८]
यथाऽनिध्यमानमपीन्धनमुच्यते काष्ठादिकं तथालक्षाणत्वादिति ।
[१००।०८-१००।०९]
त एते चित्तचैता धर्मा आयतनद्रव्यलक्षणनियमेनालम्बने यथास्वं नियताः ।
[१००।०९]
किमाश्रयनियमेनापि नियताः ।
ओमित्याह ।
[१००।०९-१००।१०]
उत्पन्नास्त्वाश्रयसहिता अनुत्पन्ना ह्यतीता आश्रयविश्लिष्टाः ।
[१००।१०]
अतीता अप्याश्रयसहिता इत्यपरे ॥
[१००।११]
उक्त आलम्बनप्रत्ययः ॥
[१००।१२]
कारणाख्योऽधिपः स्मृतः ॥ २.६२ ॥
[१००।१३]
य एव कारणहेतुः स एवा धिपतिप्रत्ययः ।
[१००।१३-१००।१४]
अधिकोऽयं प्रत्यय इत्यधिपतिप्रत्ययः ।
[१००।१४-१००।१५]
आलम्बनप्रत्ययोऽपि सवन्धर्माः अधिपतिप्रत्ययोऽपीति किमस्त्याधिक्यम् ।
[१००।१५]
न जातु सहभुवो धर्मा आलम्बनं भवन्ति ।
[१००।१५-१००।१६]
भवन्ति त्वधिपति प्रत्यय इत्यस्यैवाधिक्यम् ।
[१००।१६]
अधिकस्य वा प्रत्ययः ।
[१००।१६-१००।१७]
सर्वः सर्वस्य संस्कृतस्य स्वभाववर्ज्यस्य ।
[१००।१७]
स्याद्धर्मो धर्मस्य चतुर्भिरपि प्रत्ययैर्न प्रत्ययः ।
[१००।१७-१००।१८]
स्यात्स्वभावः स्वभावस्य परभावोऽपि ।
[१००।१८]
स्यात्संस्कृतमसंस्कृतस्यासंस्कृतं चासंस्कृतस्य ।
[१००।१९-१००।१८]
अथैते प्रत्ययाः कारित्रं कुर्वन्तः किमवस्थे धर्मे कुर्वन्ति ।
[१००।१९-१००।२०]
हेतुप्रत्ययस्तावत्पञ्चविध उक्तः ।
[१००।२०]
तत्र
[१००।२१]
निरुध्यमाने कारित्रं द्वी हेतू कुरुतः ।
[१००।२२]
निरुध्यमानं नाम वर्क्तमानम् ।
निरोधाभिमुखत्वात् ।
[१००।२२-१००।२३]
तत्र सहभूसंप्रयुक्तकहेतु कारित्रं कुरुतः ।
[१००।२३]
सहोत्पन्नेऽपि फले तयोर्व्यापारः ।
[१००।२४]
त्रयः ।
[१००।२५]
जायमाने
[१००।२६]
जायमानं नामानागतमुत्पादाभिमुखम् ।
[१००।२६-१००।२७]
तत्र सभागसर्वत्रगविपाकहेतवः कारित्रं कुर्वन्ति ।
[१००।२७]
एवं तावद्धेतुप्रत्ययः ।
[१०१।०१]
ततोऽन्यौ तु प्रत्ययौ तद्विपर्ययात् ॥ २.६३ ॥
[१०१।०२-१०१।०३]
येन कारित्रन्यायेन हेतुप्रत्ययौ द्विधा कृत्वोक्तस्तद्विपर्ययात्समनतरप्रत्ययालम्बनप्रत्ययौ वेदितव्यौ ।
[१०१।०३-१०१।०४]
समन्तरप्रत्ययो जायमाने कारित्रं करोत्यवकाशदानात् ।
[१०१।०४]
आलम्बनप्रत्ययो निरुध्यमाने ।
वर्त्तमानैश्चित्तचैतैर्ग्रहणात् ।
[१०१।०४-१०१।०५]
अधिपतिप्रत्ययस्तु सर्वस्यामवस्थायामनावरणभावेनावस्थित इत्येतदेवास्य कारित्रम् ॥
[१०१।०६]
उक्ताः सकारित्राः प्रत्ययाः ॥
[१०१।०७]
अथ कतमो धर्मः कतिभिः प्रत्ययैरुत्पद्यते ।
[१०१।०८]
चतुर्भिश्चत्तचैत्ता हि
[१०१।०९]
तत्र हेतुप्रत्यय एषां सर्वे पञ्च हेतवः ।
[१०१।०९-१०१।१०]
समन्तरप्रत्ययः पूर्वकाश्चित्तचैत्ता अन्यैरव्यवहिताः ।
[१०१।१०]
आलम्बनप्रत्ययो यथायोगं पञ्च विषयाः सर्वे धर्माश्च ।
[१०१।१०-१०१।११]
अधिपतिप्रत्ययः स्वभावर्ज्याः सर्वधर्माः ।
[१०१।१२]
समापत्तिद्वयं त्रिभिः ।
[१०१।१३]
निरोधासंज्ञिसमापत्त्यो रालम्बनप्रत्ययो नास्ति ।
नहि ते आलम्बिके ।
[१०१।१३-१०१।१४]
हेतुप्रत्ययस्तुतयोर्द्विविधो हेतुः ।
[१०१।१४-१०१।१५]
सहभूहेतुश्च जात्यादयः सभागहेतुश्च पूर्वोत्पन्ना समानभूमिकाः कुशला धर्माः ।
[१०१।१५]
समनन्तरप्रत्ययः ससंप्रयोगं समापत्तिचित्तम् ।
[१०१।१५-१०१।१६]
अधिपतिप्रत्ययः पूर्ववत् ।
[१०१।१६]
चित्ताभिसंस्कारजत्वादेते समापत्ती चित्तसमनन्तरे ।
[१०१।१६-१०१।१७]
चित्तोत्पत्तिविबन्धकत्वात्न समनन्तरप्रत्ययः ।
[१०१।१८]
द्वाभ्यामन्ये तु जायन्ते
[१०१।१९-१०१।२०]
अन्ये तु विप्रयुक्ता रूपिणश्च धर्मा हेत्वधिपतिप्रत्ययाभ्यां जायन्ते यथाविहितमेव ।
[१०१।२०-१०१।२१]
आह तु “प्रत्ययेभ्यो भावा उपजायन्ते न पुनः सर्वस्यैव जगतः ईश्वरपुरुषप्रधानादिकं कारणमिति ।
[१०१।२१]
कोऽत्र हेतुः ।
यदि खलु हेतुकृतां सिद्धिं मन्यसे ।
[१०१।२२]
ननु च अथ एवास्य वादस्य व्युदासः प्राप्नोत्येकं कारणमीश्वरादिकं सर्वस्येति ।
[१०१।२३]
अपिच
[१०१।२४]
नेश्वरादेः क्रमादिभिः ॥ २.६४ ॥
[१०१।२५]
यदि ह्येकमेव कारणमीश्वरः स्यादन्यद्वा युगपत्सर्वेण जगता भवितव्यंस्यात् ।
[१०१।२६]
दृश्यते च भावानां क्रमसंभवः ।
[१०१।२६-१०१।२७]
स तर्हि च्छन्दवशा दीश्वरस्य स्यादयमिदानीमुत्पद्यतामयं निरुध्यतामयं पश्चादिति ।
[१०१।२७]
च्छन्दभेदात्तर्हि सिद्धमनेकं कारणं स्यात् ।
[१०१।२७-१०२।०१]
स चापि च्छन्दर्भेदो युगपत्स्यात्तद्धेतोरीश्वरस्याभिन्नत्वात् ।
[१०२।०१-१०२।०२]
कारणान्तरभेदापेक्षणे वा नेश्वर एव कारणं स्यात् ।
[१०२।०२-१०२।०४]
तेषामपि च क्रमोत्पत्तौ कारणान्तरभेदापेक्षणादनवस्थाप्रसङ्ग स्यादित्यनन्तरभेदायाः कारणपरंपराया अनादित्वाभ्युपगमादयमीश्वरकारणाधिमुक्तः शाक्ययूर्वीयमेव न्यायं नातिवृत्तः स्यात् ।
[१०२।०४-१०२।०५]
योगपद्येऽपीश्वरच्छन्दानां जगतो न यौगपद्यम् ।
[१०२।०५]
यथाच्छन्दमुत्पादनादि ति चेत् ।
न ।
[१०२।०५-१०२।०६]
तेषां पश्चाद्विशेषाभावात् ।
[१०२।०६]
कश्च तावदीश्वरस्येयता सर्गप्रयासेनार्थः ।
[१०२।०६-१०२।०८]
यदि प्रीतिस्तां तर्हि नान्तरेणोपाये शक्तः कर्तुमिति न तस्यामीश्वरः स्यात्तथैव चान्यस्मिन् ।
[१०२।०८-१०२।०९]
यदि चेश्वरो नरकादिषु प्रजां बहुभिश्चेतिभिरूपसृष्टां सृष्ट्वा तेन प्रीयते नमोऽस्तु तस्मै तादृशायेश्व्राय ।
[१०२।०९]
सुगीतश्चायं तमारभ्य श्लोको भवति ।
[१०२।१०]
“यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् ।
[१०२।११]
मांसशोणितमज्जादो यत्ततो रुद्र उच्यत” इति ।
[१०२।१२-१०२।१३]
एकं खल्वपि जगतः कारणं परिगृह्णताऽन्येषामर्थानां प्रत्यक्षः पुरुषकारो निह्गृह्ण्तः स्यात् ।
[१०२।१३]
सहापि च कारणैः कारक मीश्वरं कल्पयता केवलो भक्तिवादः स्यत् ।
[१०२।१४]
कारणेभ्योऽन्यस्य तदुत्पत्तौ व्यापारादर्शनात् ।
[१०२।१४-१०२।१५]
सहकारिषु चान्येषु कारणेष्वीश्वरो नेश्वरः स्यात् ।
[१०२।१५]
अथादिसर्ग ईश्वरहेतुकः ।
[१०२।१५-१०२।१६]
तस्याप्यन्यानपेक्षत्वादीश्वरवदनादित्वप्रसङ्ग ।
[१०२।१६]
एवं प्रधानेऽपि यथायोगं वाच्यम् ।
[१०२।१६-१०२।१७]
तस्मान्न लोकस्यैकं कारणमस्ति ।
[१०२।१७]
स्वान्येवैषां कर्माणि तस्यां तस्यां जातौ जनयन्ति ।
[१०२।१७-१०२।१८]
अकृतबुद्धयस्तु वराकाः स्वं स्वं विपाकफलं चानुभवन्त ईश्वरमपरं मिथ्या परिकल्पयन्ति ।
[१०२।१९]
गतमेतद्यत्तु खलु तदुक्तं “द्वाभ्यामन्ये तु जायन्त” इति ।
[१०२।२०]
अथ कथं भूतानि भूतानां हेतुप्रत्ययः ।
[१०२।२१]
द्विधा भूतानि तद्धेतुः
[१०२।२२]
भूतहेतुरित्यर्थः ।
सभागसहभूहेतुभ्यां
[१०२।२३]
भौतिकस्य तु पञ्चधा ।
[१०२।२४]
भौतिकस्य तु भूतानि पञ्चप्रकारो हेतुः ।
कथम् ।
[१०२।२५]
“जननान्निःश्रयात्स्थानादुपस्तम्भोगवृंहणात्”
[१०२।२६]
सोऽयं कारणहेतुरेव पुनः पण्य्चधा भिन्नः ।
[१०२।२६-१०२।२७]
जननहेतुस्तेभ्य उत्पत्तेः ।
[१०२।२७-१०२।२८]
निश्रयहेतुर्जातस्य भूतानुविधायित्वात्पुरुषकारफलादाचार्यादिनिःश्रयवत् ।
[१०२।२८]
प्रतिष्ठाहेतुराधारभावात् ।
चित्रकृत्यवत् ।
[१०३।०१]
उपस्तम्भहेतुरनुच्छेदहेतुत्वात् ।
[१०३।०१-१०३।०२]
एवमेषां जन्मविकाराधारस्थितिवृद्धिहेतुत्वमाख्यातं भवति ।
[१०३।०३]
त्रिधा भौतिकमन्योन्यम् ।
[१०३।०४]
हेतुसहभूसभागविपाकहेतुभिः कारणहेतुरविशेषयत्तित्वात्न सर्वदा गण्यते ।
[१०३।०४-१०३।०५]
तत्र सहभूहेतुरन्योन्यं चित्तानुपरिवर्त्ति कायवाक्कर्म ।
[१०३।०५]
नान्यदुपादायरूपम् ।
[१०३।०५-१०३।०६]
सभागहेतुः सर्वं पूर्वोत्पन्नं सभागस्य ।
[१०३।०६]
विपाकहेतुर्यस्य वाक्कर्मणश्चक्षुरादयो विपाकः ।
[१०३।०७]
भूतानामेकधैव तत् ॥ २.६५ ॥
[१०३।०८]
भूतानां तु तद्भूतिकं रूपं विपाकहेतुरेव यस्य कायवाक्कर्मणो भूतानि विपाकाः ।
[१०३।०९-१०३।१०]
अभेदेन चित्तचैत्ताः समनन्तरप्रत्यय उक्ता नियमस्तु नोक्तः कस्य चित्तस्यानन्तरं कस्योत्पक्तिरिति ।
[१०३।१०]
स इदानीं वक्तव्यः ।
[१०३।१०-१०३।११]
तत्र तावत्समासेन द्वादश चित्तानि ।
[१०३।११]
किमर्थमित्याह
[१०३।१२]
कुशलाकुशलं कामे निवृतानिवृतं मनः ।
[१०३।१३]
कामधातौ चत्वारि चित्तानि ।
[१०१।१३]
कुशलमकुशलं निवृताव्याकृतमनिवृताव्याकृतं च ।
[१०३।१४]
रूपारूप्येष्वकुशलादन्यत्र
[१०३।१५]
रूपधातावकुशलं नास्ति ।
त्रीणि सन्ति ।
एवमारूप्यधातौ ।
[१०३।१५-१०३।१६]
इत्येतानि सानुस्रवाणि दश चित्तानि भवन्ति ।
[१०३।१७]
अनास्रवं द्विधा ॥ २.६६ ॥
[१०३।१८]
शैक्षमशैक्षं च ।
एवमेतानि द्वादश चित्तानि भवन्ति ।
तत्र
[१०३।१९]
कामे नव शुभाच्चित्ताच्चित्तानि
[१०३।२०]
अनन्तरमिति पश्चाद्वक्ष्यति ।
[१०३।२०-१०३।२१]
कामधातौ यत्कुशलं चित्तं तस्मादनन्तरं नव चित्तान्युत्पद्यन्ते ।
[१०३।२१]
स्वभूमिकानि चत्वारि ।
रूपावचरे द्वे ।
[१०३।२१-१०३।२२]
समापत्तिकाले कुशलं प्रतिसन्धिकाले निवृतम् ।
[१०३।२२]
आरूप्यावचरं निवृतमेव प्रतिसन्धिकाले ।
[१०३।२२-१०३।२३]
अतिविप्रकृष्टत्वात्न कुशलम् ।
[१०३।२३]
आरूप्या हि कामधातोश्चतसृभिर्दूरताभिर्दूरे ।
[१०३।२३-१०३।२४]
आश्रयाकारालम्बनप्रतिपक्षदूरताभिः ।
[१०३।२४]
शैक्षमशैक्षं चेति ।
[१०३।२५]
अष्टाभ्य एव तत् ।
[१०३।२६]
तत्र पुनः कामावचरं कुशलं चित्तमष्टाभ्यः समनन्तरमुत्पद्यते ।
[१०३।२६-१०३।२७]
स्वभूमिकेभ्यश्चतुर्भ्यो रूपावचराभ्यां द्वाभ्याम् ।
[१०३।२७]
कुशलाच्च व्युत्थानकाले ।
[१०३।२७-१०३।२८]
निवृताच्च क्लिष्टसमापत्त्युत्पीडितस्याधारकुशलभूमिसंश्रयणात् ।
[१०३।२८]
शैक्षाशैक्षाभ्यां च व्युत्थानकाले ।
[१०४।०१]
दशभ्योऽकुशलं
[१०४।०२-१०४।०३]
शैक्षाशैक्षे हित्वा कामधातौ हि प्रतिसन्धिमुखतः सर्वेभ्यो रूपारूप्यचित्तेभ्यः समनन्तरमकुशलं चित्तमुत्पद्यते ।
[१०४।०४]
तस्माच्चत्वारि ।
[१०४।०५]
अकुशलाच्चित्तात्समनन्तरं चित्तान्युत्पद्यन्ते स्वभूमिकान्येव ।
[१०४।०५-१०४।०६]
यथाऽकुशलमुक्तं कामधातौ
[१०४।०७]
निवृतं तथा ॥ २.६७ ॥
[१०४।०८]
दशभ्य एव समनन्तरम् ।
तस्माच्च पुनश्चत्वार्येव ।
[१०४।०९]
पञ्चभ्योऽनिवृतं
[१०४।१०]
काम इति वर्त्तते ।
अनिवृताव्याकृतं चित्तं पञ्चभ्यः समनन्तरमुत्पद्यते ।
[१०४।१०-१०४।११]
स्वभूमिकेभ्य श्चतुर्भ्यो रूपावचराच्च कुशलान्निर्माणचित्तम् ।
[१०४।१२]
तस्मात्सप्त चित्तान्यनन्तरम् ।
[१०४।१३]
अनिवृताव्याकृटात्कामावचरात्स्वभूमिकानि चत्वारि ।
रूपावचरे द्वे ।
[१०४।१३-१०४।१४]
कुशलं निर्माणचित्तादनन्तरम् ।
[१०४।१४]
क्लिष्टं प्रतिसन्धिकाले ।
[१०४।१४-१०४।१५]
आरूप्यावचरं च क्लिष्टं प्रतिसन्धिकाल एव ।
[१०४।१६]
रूपे दशैकं च शुभात्
[१०४।१७]
रूपे धातौ यत्कुक्शलं चित्तं तस्मादनन्तरमेकादश चित्तान्युत्पद्यन्ते ।
[१०४।१७-१०४।१८]
आरुप्यावचरमनिवृताव्याकृतं वर्जयित्वा ।
[१०४।१९]
नवभ्यस्तदनन्तरम् ॥ २.६८ ॥
[१०४।२०]
रूपावचरं तु कुशलं चित्तं नवभ्यः समनन्तरमुत्पद्यते ।
[१०४।२०-१०४।२१]
कामावचरं क्लिष्टद्वयमारुप्यावचरं चानिवृताव्याकृतं हित्वा ।
[१०४।२२]
अष्टाभ्यो निवृतं
[१०४।२३]
निवृताव्याकृतं रूपावचरं चित्तमष्टभ्य उत्पद्यते ।
[१०४।२३-१०४।२४]
कामावचरं क्लिष्टद्वयं शैक्षाशैक्षे च स्थापयित्वा ।
[१०४।२५]
तस्मात्षट्
[१०४।२६]
रूपावचरान्निवृताव्याकृतादनन्तरं षट् ।
[१०४।२६-१०४।२७]
स्वभूमिकानि त्रीणि कामावचराणि चानिवृताव्याकृतं मुक्त्वा ।
[१०४।२८]
त्रिभ्योऽनिवृतं पुनः ।
[१०४।२९]
रूपावचरमनिवृताव्याकृतं त्रिभ्यः स्वभूमिकेभ्य एव ।
[१०५।०१]
तस्मात्षट्
[१०५।०२]
स्वभूमिकानि त्रीणि ।
कामावचरे च क्लिष्टे ।
आरूप्यावचरं च ।
[१०५।०२-१०५।०३]
यथा रूपधातावनिवृताव्याकृतमुक्तम् ।
[१०५।०४]
एवमारूप्ये तस्य नीतिः ।
[१०५।०५]
ततस्तदप्यनिवृताव्याकृतं त्रिभ्य एवोत्पद्यते स्वभूमिकेभ्यः ।
[१०५।०५-१०५।०६]
तस्मादपि च षडेवोत्पद्यन्ते ।
[१०५।०६]
स्वभूमिकानि त्रीणि अधरधातुकानि च क्लिष्टानि ।
[१०५।०७]
शुभात्पुनः ॥ २.६९ ॥
[१०५।०८]
नव चित्तानि
[१०५।०९]
आरूप्यावचरातृ कुक्शलान्नव चित्तान्युत्पद्यन्ते ।
[१०५।०९-१०५।१०]
कामावचरं कुक्शलं कामरूपावचरे चानिवृताव्याकृते हित्वा ।
[१०५।११]
तत्षण्णां
[१०५।१२]
आरूप्यावचरं कुक्शलं स्वेभ्यस्त्रिभ्यो रूपावचरात्कुक्शलाच्छैक्षाशैक्षाभ्यां च ।
[१०५।१३]
निवृतात्सप्त
[१०५।१४-१०५।१५]
आरूप्यावचरान्निवृतात्स्वभूमिकानि त्रीणि रूपावचरं कुशलं निवृतं च कामावचरं क्लिष्टद्वयम् ।
[१०५।१६]
तत्तथा ।
[१०५।१७]
तदपि सप्तभ्य एवोत्पद्यते ।
कामरूपावचराणि क्लिष्टानि शैक्षाशैक्षे च हित्वा ।
[१०५।१८]
चतुर्भ्यः शैक्षम् ।
[१०५।१९]
त्रैधातुकेभ्यः कुशलेभ्यः शैक्षाच्च ।
[१०५।२०]
अस्मात्तु पञ्च
[१०५।२१]
तान्येव चत्वार्यशैक्षं च ।
[१०५।२२]
अशैक्षं तु पञ्चकात् ॥ २.७० ॥
[१०५।२३]
अत एवानन्तरोक्तात् ।
[१०५।२४]
तस्माच्चत्वारि चित्तानि
[१०५।२५]
तस्मात्पुनरशैक्षाच्चित्तात्समनन्तरं चत्वारि चित्तान्युत्पद्यन्ते ।
[१०५।२५-१०५।२६]
त्रैधातुकानि कुशलान्यशैक्षं च ॥
[१०५।२६]
समाप्तानि द्वादश चित्तानि ॥
[१०५।२७]
पुनः क्रियन्ते
[१०६।०१]
द्वादशैतानि विंशतिः ।
[१०६।०२]
कथं कृत्वा ।
[१०६।०३]
प्रायोगिकोपपत्त्याप्तं शुभं भित्त्वा त्रिषु द्विधा ॥ २.७१ ॥
[१०६।०४]
त्रिषु धातुषु कुशलं चित्तं द्विधा भिद्यते ।
प्रायोगिकं चोपपत्तिलाभिकं च
[१०६।०५]
विपाकजैयपिथिकशैल्पस्थानिकनैर्मितम् ।
[१०६।०६]
चतुर्धाऽव्याकृतं कामे
[१०६।०७]
भित्त्वेति वर्त्तते ।
कामावचरमनिवृताव्याकृतं चतुर्धा भिद्यते ।
[१०६।०७-१०६।०८]
विपाकजमैर्यापथिकं शेल्पस्थानिकं निर्माणचित्तं च ।
[१०६।०९]
रूपे शिल्पविवर्जितम् ॥ २.७२ ॥
[१०६।१०]
रूपधातौ त्रिधा भिद्यते शैल्पस्थानिकं वर्जयित्वा ।
तत्र शिल्पाभावात् ।
[१०६।१०-१०६।११]
एवमेतानि द्वादश चित्तानि पुनर्विशर्तिर्भर्वन्ति ।
[१०६।११-१०६।१२]
षोढा कुशलमनिवृताव्याकृतं च सप्तधा भिद्यते ।
[१०६।१२]
ऐर्यापथिकादीनि चित्तानीर्यापथाद्यभावादारूप्यधातौ न सन्ति ।
[१०६।१३]
रूपगन्धरसस्प्रष्टव्यान्येषामालम्बनम् ।
शैल्पस्थानिकस्य तु शब्दोऽपि ।
[१०६।१३-१०६।१४]
एतानि मनोविज्ञानान्येव ।
[१०६।१४]
पञ्च तु विज्ञानकाया ऐर्यापथिकशैल्पस्थानिकयोः प्रायोगिकाः ।
[१०६।१५-१०६।१६]
ऐर्यापथिकाभिनिर्हृतं मनोविज्ञानमस्ति द्वादशायतनालम्बननित्यपरे ।
[१०६।१७]
एषां पुनर्विशतेक्श्चित्तानां कस्य कतमत्समनन्तरम् ।
[१०६।१७-१०६।१८]
कामावचराणां तावदष्टानां प्रायोगिकानन्तरं दश चित्तान्युत्पद्यन्ते ।
[१०६।१८-१०६।१९]
स्वभूमिकानि सप्ताऽन्यत्राभिज्ञाफलात् ।
[१०६।१९]
रूपावचरं प्रायोगिकं शैक्षल्मशैक्षं च ।
तत्पुनरष्टचित्तानन्तरम् ।
[१०६।१९-१०६।२०]
स्वेभ्यः कुशलक्लिष्टेभ्यः रूपावचराभ्यां प्रायोगिक क्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।
[१०६।२०-१०६।२१]
उपपत्तिप्रतिलम्भिकानन्तरं नव ।
[१०६।२१-१०६।२२]
स्वभूमिकानि सप्तऽन्यत्राभिज्ञाफलाद्रूपा रूपावचरे च क्लिष्टे ।
[१०६।२२]
तत्पुनरेकादशानन्तरम् ।
[१०६।२२-१०६।२३]
स्वेभ्यः सप्तभ्यः पूर्ववत्रूपावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।
[१०६।२३]
अकुशल निवृत्ताव्याकृतानन्तरं सप्त ।
[१०६।२४]
स्वान्येव पूर्ववत् ।
ते पुनश्चतुर्दशचित्तानन्तरम् ।
[१०६।२४-१०६।२५]
स्वेभ्यः सप्तभ्यः रूपावचरेभ्यश्चतुर्भ्योऽन्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् ।
[१०६।२५-१०६।२६]
आरुप्यावचरेभ्यस्त्रिभ्योऽन्यत्र प्रायोगिकात् ।
[१०६।२६]
ऐर्यापथिकविपाकजानन्तरमष्टौ ।
[१०६।२६-१०६।२७]
स्वभूमिकानि षडन्यत्र प्रायोगिकाभिज्ञाफलाभ्यां रूपारुप्यावचारे च क्लिष्टे ।
[१०६।२७-१०६।२८]
ते पुनः सप्तचित्तानन्तरं स्वेभ्य एव पूर्ववत् ।
[१०६।२८]
शैल्पस्थानिकानन्तरं षट् ।
स्वान्येवान्यत्र प्रायोगिकाभिज्ञाफलाभ्याम् ।
[१०६।२९]
तत्पुनः सप्तानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् ।
[१०७।०१]
अभिज्ञाफलानन्तरं द्वे ।
स्वं चाभिज्ञाफलमेव ।
रूपावचरं च प्रायोगिकम् ।
[१०७।०१-१०७।०२]
तदप्यस्मादेव द्वयात् ।
[१०७।०३]
रूपावचराणामिदानीं षण्णां वक्षामः ।
प्रायोगिकानन्तरं द्वादश ।
[१०७।०३-१०७।०५]
कामावचरे कुशले अभिज्ञाफलं च स्वानि षटारुप्यावचरं च प्रायोगिकंशैक्षमशैक्षं च ।
[१०७।०५]
तत्पुनर्दशचित्तानन्तरम् ।
[१०७।०५-१०७।०७]
कामावचराभ्यां प्रायोगिकाभिज्ञाफलाभ्यां स्वेभ्यश्चतुर्भ्योऽन्यत्रेर्यापथिकविपाकजाभ्यामारूप्यावचराभ्यां प्रायोगिकक्लिष्टाभ्यां शैक्षाशैक्षाभ्यां च ।
[१०७।०७]
उपपत्तिप्रतिलम्भिकानन्तरमष्टौ ।
[१०७।०७-१०७।०८]
कामावचरे क्लिष्टे स्वानि पञ्चान्यत्राभिज्ञाफलातारुप्यावचरं क्लिष्टम्।
[१०७।०८-१०७।०९]
तत्पुनः पञ्चभ्यः स्वेभ्यः एवान्यत्राभिज्ञाफलात् ।
[१०७।०९]
क्लिष्टानन्तरं नव ।
[१०७।०९-१०७।१०]
कामावचराणि चत्वारि कुशलक्लिष्टानि स्वानि पञ्चान्यत्राभिज्ञाफलात् ।
[१०७।१०]
तत्पुनरेकादशचित्तानन्तरम् ।
[१०७।११-१०७।१२]
कामावचरेभ्य उत्पत्तिप्रतिलम्भिकैर्यापथिक विपाकजेभ्यः स्वेभ्यः पञ्चभ्योऽन्यत्राभिज्ञाफलातारूप्यावचरेभ्यस्त्रिभ्योऽन्यत्र प्रायोगिकात् ।
[१०७।१२-१०७।१३]
ऐर्यापथिकानन्तरं सप्त ।
[१०७।१३-१०७।१४]
कामावचरे क्लिष्टे स्वानि चत्वार्यन्यत्र प्रायोगिकाभिज्ञाफलाभ्यामारूप्यावचरं च क्लिष्टम् ।
[१०७।१४-१०७।१५]
तत्पुनः पण्य्चानन्तरं स्वेभ्य एवान्यत्राभिज्ञाफलात् ।
[१०७।१५]
एवं विपाकजं वक्तव्यम् ।
अभिज्ञाफलानन्तरं द्वे ।
[१०७।१५-१०७।१६]
स्वे एव प्रायोगिकाभिज्ञाफले ।
[१०७।१६]
तदप्याभ्यामेव ।
[१०७।१७]
आरूप्यावचराणामिदानीं चतुर्णां वक्ष्यामः ।
प्रायोगिकानन्तरं सप्त ।
[१०७।१७-१०७।१८]
रूपावचरं प्रायोगिकं स्वानि चत्वारि शैक्षमशैक्षं च ।
[१०७।१८]
तत्पुनः षट्चित्तानन्तरम् ।
[१०७।१८-१०७।१९]
रूपावचरात्प्रायोगिकात्स्वेभ्यस्त्रिभ्योऽन्यत्र वीपाकजात्शैक्षाशैक्षाभ्यां च ।
[१०७।१९-१०७।२०]
उपपत्तिप्रातिलम्भिकानन्तरं सप्त ।
[१०७।२०]
स्वानि चत्वार्यधरभूमिकानि च क्लिष्टानि ।
[१०७।२०-१०७।२१]
तत्पुनश्चतुर्भ्यः स्वेभ्य एव ।
[१०७।२१]
क्लिष्टानन्तरम्ष्टौ ।
[१०७।२१-१०७।२२]
स्वानि चत्वारि रूपावचरे प्रायोगिकक्लिष्टे कामावचारे क्लिष्टे ।
[१०७।२२]
तत्पुनर्दशानन्तरम् ।
[१०७।२२-१०७।२३]
स्वेभ्यश्चतुर्भ्यः कामावचररूपावचरेभ्यश्चोपपत्तिप्रातिंलम्भिकैर्यापथिकविपाकजेभ्यः ।
[१०७।२३]
विपाकजानन्तरं षट् ।
[१०७।२४]
स्वानि त्रीण्यन्यत्र प्रायोगिकादधराणि त्रीणि क्लिष्टानि ।
[१०७।२४-१०७।२५]
तत्पुनश्चतुर्भ्यः स्वेभ्य एव ।
[१०७।२५]
शैक्षानन्तरं षट् ।
[१०७।२५-१०७।२६]
त्रैधातुकानि प्रायोगिकाणि कामावचरमुपपत्तिप्रतिलम्भिकं शैक्षमशैक्षं च ।
[१०७।२६]
तत्पुनश्चतुर्भ्यः ।
[१०७।२६-१०७।२७]
प्रायोगिकेभ्यः त्रिभ्यः शैक्षाच्च ।
[१०७।२७]
अशैक्षानन्तरं पञ्च ।
यथा शैक्षानन्तरं शैक्षमेकं हित्वा ।
[१०७।२७-१०७।२८]
तत्पुनः पञ्चभ्यः ।
[१०७।२८]
त्रिभ्यः प्रायोगिकेभ्यः शैक्षाशैक्षाभ्यां चेति ।
[१०८।०१-१०८।०२]
किं पुनः कारणं प्रायोगिकचित्तानन्तरं वीपाकजैयापथिकशैल्पस्थानिकानिचित्तान्युत्पद्यन्ते न पुन्रेभ्यः प्रायोगिकम् ।
[१०८।०२-१०८।०३]
ईर्यापथशिल्पाभिसंस्करणप्रवृत्तत्वात्दुर्बलानभिसंस्कारवाहित्वाच्चैत्तानि न प्रायोगिकानुकूलानि ।
[१०८।०३-१०८।०४]
निष्क्रमणचित्तं त्वनभिस्कारवाहीति युक्तोऽस्य प्रायोगिकचित्तानन्तरमुत्पादः ।
[१०८।०४-१०८।०५]
एवं तर्हि क्लिष्टेभ्योऽपि प्रायोगिकं नोत्पद्यते ।
[१०८।०५]
विगुणत्वात् ।
[१०८।०५-१०८।०६]
तथापि क्लेशसमुदाचारपरिखिन्नस्य तत्परिज्ञानद्युक्तः प्रायोगिकसंमुखीभावः ।
[१०८।०६-१०८।०७]
कामावचरमुपपत्तिप्रतिलम्भिकं पटुत्वात्शैक्षाशैक्षाभ्यां रूपावचरप्रायोगिकाच्चानन्तरमुत्पद्यते ।
[१०८।०७-१०८।०८]
अनभिसंस्कारवाहित्वात्तस्मादेतानि नोत्पद्यन्ते ।
[१०८।०८-१०८।०९]
रूपावचरकिलष्टानन्तरं कामावचरमुपपत्तिप्रतिलम्भिकमुत्पद्यते ।
[१०८।०९]
पटुत्वात् ।
[१०८।०९-१०८।१०]
आरूप्यावचरक्लिष्टानन्तरं तु रूपावचरमुपपत्तिप्रतिलम्भिकं नोत्पद्यतेऽपटुत्वादिति ॥
[१०८।११]
त्रयो मनस्काराः ॥
स्वलक्षणमनस्कारः ।
[१०८।११-१०८।१२]
तद्यथा “रूपणालक्षणं रूप”मित्येवमादि ।
[१०८।१२]
सामान्यलक्षणमनस्कारः ।
षोडशाकारसंप्रयुक्तः ।
[१०८।१२-१०८।१३]
अधिमुक्तिमनस्कारः ।
[१०८।१३-१०८।१४]
अशुभाप्रमाणारूप्यविमोक्षाभिभ्वायतनकृत्स्नायतनादिषु ।
[१०८।१४-१०८।१६]
त्रिविधमनस्कारानन्तरमार्यमार्गं संमुखीकरोति तस्मादपि त्रिविधं मास्कारमेवं सति युतमिदं भवति “अशुभासहगतं स्मृतिसंबोध्यङ्ग भावयती”ति ।
[१०८।१६]
सामान्यमनस्कारानन्तरमेवार्यमार्ग संमुखीकरोति ।
तस्मात्तु त्रिविधमित्यपरे ।
[१०८।१७]
अशुभया तु चित्तं दमयित्वा सामान्यमनस्कारानन्तरं मार्गं संमुखीकरोति ।
[१०८।१८]
अतः पारंपर्यमभिसंधायोक्तम् “अशुभासहगतं स्मृतिसंवोध्यङ्गं भावयती”ति ।
[१०८।१९]
आर्यमार्गानन्तरमपि सामान्यमनस्कारमेवेत्यपरे ।
[१०८।१९-१०८।२१]
स्यात्तावदनागम्यादित्रिभूमिसंनिःश्रयेण नियामावक्रान्तौ तन्मार्गानन्तरं कामावचरं सामान्यमनस्कारं संमुखीकुर्याद् ।
[१०८।२१]
अथ द्वितीयादिध्यानसंनिःश्रयेण नियामा वक्रान्तौ कथम् ।
[१०८।२१-१०८।२२]
नहि कामावचरः शक्योऽतिविप्रकृष्टत्वात् ।
[१०८।२२-१०८।२३]
नच तद्भूमिकः प्रतिलब्धोऽन्यत्र निर्वेधभागीयात् ।
[१०८।२३]
नचार्यो निर्वेधभागीयं पुनः संमुखीकरोति ।
[१०८।२३-१०८।२४]
नहि प्राप्तफलस्य तत्प्रयोगसंमुखीभावो युक्त इति अन्योऽप्यस्य तज्जातीयः सामान्यमनस्कारो भावनां गच्छति ।
[१०८।२५-१०८।२६]
तद्यथा “सर्वसंकारा अनित्याः सर्वधर्मा अनात्मानः शान्तं निर्वाण”मिति तत्संमुखी करिष्यति ।
[१०८।२६]
तदेतन्न वर्णयन्ति ।
[१०८।२६-१०८।२७]
अनागम्यं निश्रित्यार्हत्त्वं प्राप्नुवतः तद्भूमिकं कामावचरं वा व्युत्थानं चित्तम् ।
[१०८।२७-१०८।२८]
आकिञ्चन्यायतनं निश्रित्य तद्भूमिकं भावाग्रिकं वा ।
[१०८।२८]
शेषासु स्वभूमिकमेव ।
[१०८।२८-१०८।२९]
कामधातौ त्रयो मनस्काराः श्रुतचिन्तामयोपपत्तिप्रतिलम्भिकाः ।
[१०८।२९]
भावनामयो नास्ति ।
[१०८।३०]
रूपधातौ त्रयः श्रुतभावनामयोपपत्तिप्रतिलम्भिकाः ।
चिन्तामयो नास्ति ।
[१०८।३०-१०८।३१]
यदा चिन्तमितुमारभन्ते तदैषां समाधिरेवोपतिष्ठते ।
[१०८।३१-१०९।०१]
आरूप्यधातौ भावनामयोपपत्तिप्रतिलम्भिकौ ।
[१०९।०१-१०९।०२]
तत्र पञ्चविधमनस्कारानन्तरमार्यमार्गसंमुखीभावोऽन्यत्रोपपत्तिप्रतिलभ्भिकेभ्यः ।
[१०९।०२]
प्रयोगप्रतिबद्धत्वात् ।
[१०९।०२-१०९।०३]
मार्गानन्तरं तूपपत्तिप्रतिलम्भिकस्यापि कामावचरस्य संमुखीभावः ।
[१०९।०३]
पटुत्वादिति ॥
[१०९।०४]
यानि द्वादश चित्तानि उक्तान्येषां कतमस्मिंश्चित्ते कतीनां लाभः ।
[१०९।०५]
क्लिष्टे त्रैधातुके लाभः षण्णां षण्णां द्वयोः
[१०९।०६]
कामावचरे क्लिष्टे चित्ते संमुखीभूते षण्णां चित्तानां लाभः ।
[१०९।०६-१०९।०७]
तैर्समन्वागतस्य कामावचरस्य कुशलस्य विचिकित्सया कुशलमूलप्रतिसंधानाद्धातुप्रत्यागमनाच्च ।
[१०९।०८-१०९।०९]
अकुशलनिवृताव्याकृतयोः रूपावचरस्य च क्लिष्टस्य धातुप्रत्यागमनात्परिहाणितश्च ।
[१०९।०९]
आरूप्यावचरस्य क्लिष्टस्य परिहाणितः शेक्षस्य च ।
[१०९।१०]
रूपावचरेऽपि क्लिल्ष्टे षण्णां लाभः ।
[१०९।१०-१०९।११]
रूपावचराणां त्रयाणां कामावचरस्य चानिवृताव्याकृतस्य धातुप्रत्यागमनात् ।
[१०९।११-१०९।१२]
आरूप्यावचरस्य क्लिष्टस्य शैक्षस्य च परिहाणितः ।
[१०९।१२]
आरूप्यावचरे तु क्लिष्टे द्वयोर्लाभः ।
[१०९।१२-१०९।१३]
परिहाणितस्तस्यैव क्लिष्टस्य शैक्षस्य च ।
[१०९।१४]
शुभे ।
[१०९।१५]
त्रयाणां रूपजे
[१०९।१६-१०९।१७]
रूपावचरे कुशले त्रयाणां चित्तानां लाभस्तस्यैव कुशलस्य कामरूपावचरयोश्चानिवृताव्याकृतयोः ।
[१०९।१८]
शैक्षे चतुर्णां
[१०९।१९]
तस्यैव शैक्षस्य कामरूपावचरयोश्चानिवृताव्याकृतयोरारूप्यावचारस्य च कुशलस्य ।
[१०९।२०]
आर्यमार्गेण कामरूपधातुवैराग्ये ।
[१०९।२१]
तस्य शेषिते ॥ २.७३ ॥
[१०९।२२]
शेषं कृतं शेषितम् ।
[१०९।२२-१०९।२३]
यत्र चित्ते लाभ्हो न व्याख्यातस्तत्र तस्यैव लाभो द्रष्टव्यो नान्यस्य ।
[१०९।२३]
अन्ये पुनरभेदेनाहुः ।
[१०९।२४-१०९।२५]
“क्लिष्टे चित्ते नवानां हि लाभः इत्युच्यते बुधैः ।
षण्णां तु कुशले चित्ते तस्यैवा व्याकृटे खलु ॥”
[१०९।२६]
तत्र सप्तानां कुशले चित्त इति वक्तव्यम् ।
[१०९।२६-११०।०२]
कामावचरस्य कुशलस्य सम्यग्दृष्ट्या कुशलमूलप्रतिसंधानात्कामरूपावचरयोरनिवृताव्याकृतयोर्वैराग्यतः रूपारूप्यावचरयोः कुशलयोस्ततस्त्यसमाधिलाभतः शैक्षाशैक्षस्य च नियामावक्रान्त्यर्हत्त्वयोः शेषमत एवव्याख्यानादवधार्यम् ।
[११०।०२]
संग्रहश्लोकः ।
[११०।०३-११०।०४]
“उपपत्तिसमापत्तिवैराग्यपरिहाणिषु ।
कुशलप्रतिसंधौ च चित्तलाभो ह्यतद्वतः” ॥
[११०।०४]
इति ।
[११०।०५]
॥समाप्तः प्रत्ययप्रसङ्गः ॥
=====================================================================
[११०।०६]
अभिधर्मकोशभाष्ये इन्द्रियनिर्द्देशो नाम
[११०।०७]
द्वितीयं कोशस्थानं
[११०।०८]
समाप्तमिति ।
=====================================================================
[११०।०९]
श्रीलामावाकस्य
=====================================================================
तृतीयं कोशस्थानम्
=====================================================================
[१११।०२]
ओं नमो दुद्धाय ।
[१११।०३]
इदमिदानीं वक्तव्यम् ।
कामरूपारूप्यनैयम्येन चित्तादीनां कृतो निर्देशः ।
[१११।०३-१११।०४]
तत्र कतमे ते कामरूपारूप्यधातव इत्युच्यते
[१११।०५]
नरकप्रेततिर्यञ्चो मनुष्याः षड्दिवौकसः ।
[१११।०६]
कामधातुः
[१११।०७]
चतस्रो गतयः ।
[१११।०७-१११।०९]
षट्च देवनिकायास्तद्यथा चातुर्महाराजकायिका स्त्रायस्त्रिंशा यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्त्तिनश्चेत्येष कामधातुः सह भाजनलोकेन ।
[१११।०९]
स एष कति स्थानानीत्याह
[१११।१०]
स नरकद्वीपभेदेन विंशतिः ॥ ३.१ ॥
[१११।११]
स्थानानीति वाक्यशेषः संबध्यते ।
अष्टौ महानरकाः ।
[१११।११-१११।१२]
संजीवः कालसूत्रः संघातो रौरवो महारौरवस्तपनः प्रतापनोऽवीचिश्चेति ।
[१११।१२]
चत्वारो द्वीपाः ।
[१११।१२-१११।१३]
जम्बूद्वीपः पूर्वविदेहोऽवरगोदानीयः उत्तरकुरुश्च ।
[१११।१३-१११।१४]
षट्चानन्तरोक्ता देवनिकायाः तिर्यश्चः प्रेताश्च विंशतिः स्थानानि ।
[१११।१४-१११।१५]
कामधातुः परनिर्मितवशवर्तिभ्यो यावदवीचिः सभाजनग्रहणेन तु यावद्वायुमण्डलम् ।
[१११।१५]
एतस्माच्च कामधातोः
[१११।१६]
ऊर्ध्वं सप्तदशस्थानो रूपधातुः
[१११।१७]
कथमित्याह
[१११।१८]
पृथक्पृथक्
[१११।१९]
ध्यानं त्रिभूमिकं तत्र
[१११।२०]
प्रथमद्वितीयतृतीयध्यानानि प्रत्येकं त्रिभूमिकानि ।
[१११।२१]
चतुर्थं त्वष्टभूमिकम् ॥ ३.२ ॥
[१११।२२]
तत्र प्रथमध्यानं ब्रह्मकायिका ब्रह्मपुरोहिताः महाब्रह्माणः ।
[१११।२२-१११।२३]
द्वितीयं परीत्ताभा अप्रमाणाभा आभास्वराः ।
[१११।२३-१११।२४]
तृतीयं परीत्तशुभा अप्रमाणशुभाः शुभकृत्स्नाः ।
[१११।२४-१११।२५]
चतुर्थमनभ्रकाः पुण्यप्रसवाः बृहत्फला अबृहा अतपाः सुदृशाः सुदर्शना अकनिष्ठा इत्येतानि सप्तदश स्थानानि रूपधातुः ।
[१११।२५-१११।२६]
सह तन्निवासिभिः सत्त्वैः षोडशेति काश्मीराः ।
[१११।२६-१११।२७]
ब्रह्मपुरोहितेष्वेव किल स्थानमुत्कृष्टतरं महाब्रह्मणः परिगण इवाभिनिर्वृत्तमेकनायकं नतु भूम्यन्तरमिति ।
[११२।०१]
आरूप्यधातुरस्थानः
[११२।०२]
नह्यरूपिणां धर्मानां स्थानमस्ति ।
[११२।०२-११२।०३]
अतीतानागताविज्ञप्त्यरूपिणो हि धर्मा आदेशस्था इति नियमः ।
[११२।०३]
स तु
[११२।०४]
उपपत्त्या चतुर्विधः ।
[११२।०५]
उपपत्तिभेदेन चतुर्विध आरूप्यधातुः ।
[११२।०५-११२।०६]
यदुत आकाशानन्त्यायतनं विज्ञानानन्त्यायतनमाकिञ्चन्यायतनं नैवराञ्ज्ञानासंज्ञायतनमिति ।
[११२।०६]
नत्वेषां देशकृतमौत्तराधर्य भिद्यते ।
[११२।०७]
यत्रैव हि देशे तत्स्मापत्तिलाभिनश्च्यवन्ते तत्रैवोपपद्यन्ते इति ।
[११२।०७-११२।०८]
पुनश्च तस्माच्च्यवमानानां तत्रैवान्तराभवोऽभिनिर्वर्त्तते ।
[११२।०९-११२।१०]
यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते चित्तसंततिरेवमारूप्येषु किं निश्रित्य प्रव्र्त्तते ।
[११२।११]
निकायं जीवितं चात्र निश्रिता चित्तसन्ततिः ॥ ३.३ ॥
[११२।१२]
निकायसभागं जीवितेन्द्रियं च निश्रित्येत्याभिधार्मिकाः ।
[११२।१३]
रुपिणामपि तर्हि सत्त्वानां किमर्थ न तदेव द्वयं निश्रित्य प्रवर्त्तते चित्तसन्ततिः ।
[११२।१४]
दुर्बलत्वात् ।
तस्याः केन बलवत्त्वम् ।
समापत्तिविशेषजत्वात् ।
[११२।१४-११२।१५]
सा हि समापत्तिर्विभूतरूपसंज्ञा ।
[११२।१५]
तत एव तर्हि बलवत्त्वात्प्रवर्त्तिष्यते किं पुनर्निश्रयेण ।
[११२।१५-११२।१६]
इदं चापि वक्तव्यम् ।
[११२।१६-११२।१७]
यथा रूपिणां सत्त्वानां रूपं निश्रित्य प्रवर्त्तते निकायसभागो जीवितेन्द्रियं च एवमरूपिणां सत्त्वानां किं निश्रित्य प्रवर्त्तते ।
[११२।१७]
तदेव द्वयमन्योऽन्यम् ।
[११२।१८]
रूपिणामपि तर्हि किमर्थं न तदेव द्वयमन्योन्यम् ।
दुर्बलत्वात्तयोः ।
[११२।१८-११२।१९]
तत्रेदानीं केन बलवत्त्वाम् ।
[११२।१९]
समापत्तिविशेषजत्वात् ।
[११२।१९-११२।२०]
तदेतच्चित्तसन्ततौ समानं चित्तचैत्तेषु वा ।
[११२।२०-११२।२१]
तस्मान्नास्त्यरूपिणां सत्त्वानां चित्तसन्ततेरन्योन्यं निश्रय इति सौत्रान्तिकाः ।
[११२।२१-११२।२३]
अपि तु यस्याश्चित्तसन्ततेराक्षेपहेतुरवीततृष्णो रूपे तस्याः सह रूपेण संभवाद्रूपं निश्रित्य प्रवृत्तिर्यस्यास्तु हेतुर्वीततृष्णो रूपे तस्या अनपेक्ष्य रूपं प्रवृत्तिः ।
[११२।२३]
हेतोस्तद्विमुखत्वादिति ।
[११२।२४]
अथ कस्मादेते कामरूपारूप्यधातव इत्युच्यन्ते ।
स्वलक्षणधारणाद्धातुः ।
[११२।२५-११२।२६]
कामप्रतिसंयुक्तोधातुः कामधातुः रूपप्रतिसंयुक्तो धातू रूपधातुर्मध्यपदलोपाद्वज्रबालकवत्मरिचपानकवच्च ।
[११२।२६]
नात्र रूपमस्तित्यरूपः ।
[११२।२७]
अरूपस्य भाव आरुप्यम् ।
रूपणीयो वा रूप्यः ।
[११२।२७-११२।२८]
न रूप्योऽरूप्यस्तद्भाव आरूप्यम् ।
[११२।२८]
तत्प्रतिसंयुक्तो धातुरारूप्यधातुः ।
[११२।२८-११३।०१]
कामानां धातुः कामधातुः कामान् यो दधाति ।
[११३।०१]
एवं रूपारूप्यधातू वेदितव्यौ ।
कोऽयं कामो नाम ।
[११३।०१-११३।०२]
समासातः कवडीकाराहार मैथुनोपसंहितो रागः ।
[११३।०३-११३।०४]
“न ते कामा यानि चित्राणि लोके संकल्परागः पुरुषस्य कामः ।
तिष्ठन्ति चित्राणि तथैव लोके अठात्र धीरा विनयन्ति कामम्” ॥
इति
[११३।०५]
गाथाभिधानान् ।
अजीवक आर्यशारिपुत्रं प्रत्याह
[११३।०६-११३।०७]
“न ते कामा यानि चित्राणि लोके संकल्परागं वदसीह कामम् ।
भिक्षुर्भविष्यत्यपि कामभोगी संकल्पयन् सोऽकुशलान् वितर्कान्” ।
[११३।०८]
आर्यशारिपुत्र आह
[११३।०९-११३।१०]
ते चेत्कामा यानि चित्राणि लोके संकल्परागो यदि ते न कामः ।
शास्ताऽपि ते भविता कामभोगी दृष्ट्वैव रूपाणि मनोरमाणि”॥
[११३।११-११३।१२]
किं पुनर्ये केचन धर्माः कामरूपारुप्यधातुषु समुदाचरन्ति सर्वे ते कामरूपारूप्यप्रतिसंयुक्ताः ।
[११३।१२]
नेत्याह ।
किं तर्हि ।
येषु कामरूपारुप्यरागा अनुशेरते ।
[११३।१३]
के पुनरमी कामरूपारूप्यरागाः ।
[११३।१३-११३।१४]
ये कामरूपारूप्यधातुष्वनुशेरते ।
[११३।१४]
इदमिदानीं तदश्ववन्धीयम् ।
कस्यायमश्वबन्धो यस्यायमश्वः ।
[११३।१४-११३।१५]
कस्यायमश्वः ।
[११३।१५]
यस्यायमश्वबन्धः ।
इत्युभयमपि न ज्ञायते ।
नेदमश्वबन्धीयम् ।
[११३।१५-११३।१६]
कृतनिर्देशानि हि स्थानानि कामधातौ ।
[११३।१६]
तेष्ववीतरागस्य यो रागः स कामरागः ।
[११३।१७]
यत्रानुशेते सोऽपि धर्मः कामप्रतिसंयुक्तः ।
[११३।१७-११३।१८]
एवं रूपारूप्यरागावधोवीतरागस्य यथायोगं वेदितव्यौ ।
[११३।१८]
असमाहितभूमिको वा रागः कामरागः ।
[११३।१८-११३।१९]
ध्यानारूप्येषु रागो रूपारूप्यरागः ।
[११३।१९]
निर्माणचित्ते कथं कामरागः ।
[११३।१९-११३।२०]
श्रुत्वा परिहाय च तदास्वादनात् ।
[११३।२०]
निर्माणवशेन वा निर्मायक चित्तोऽपि रागः ।
गन्धरसनिर्माणाद्वा ।
[११३।२१]
तस्य कामवचरत्वम् ।
रूपावचरेण तयोरनिर्माणात् ।
किं पुनरेकमेव त्रैधातुकम् ।
[११३।२२]
त्रैधातुकानामन्तो नास्ति ।
यावदाकाशं तावन्तो धातवः ।
[११३।२२-११३।२३]
अथ एव च नास्त्यपूर्वसत्त्वप्रादुर्भावः ।
[११३।२३-११३।२४]
प्रतिबुद्धोत्पादं चासंख्येयसत्त्वपरिनिर्वाणेऽपि नास्ति सत्त्वानां परिक्षय आकाशवत् ।
[११३।२५]
कथमवस्थानं लोकधतूनाम् ।
[११३।२५-११३।२७]
तिर्यक्सूत्र उक्तं तद्यथा “ईषाधारे देवे वर्षति नास्ति वीचिर्वा अन्तरिका व अन्तरीक्षाद्वारिधाराणां प्रपतन्तीनाम् ।
[११३।२७-११३।२८]
एवं पूर्वस्यां दिशि नास्ति वीचिर्वा अन्तरिका वा लोकधातूनां संवर्त्तमानानां विवर्त्तमानां च ।
[११३।२८-११३।२९]
यथा पूर्वस्यां दिशि एवं दक्षिणास्यां पश्चिमायामुत्तरस्यामि”ति ।
[११३।२९]
नतूक्तमूर्ध्वमधश्चेति ।
[११४।०१]
ऊर्ध्वमप्यध्होऽपीत्यपरे ।
निकायान्तरपाठाद् ।
अकनिष्ठादूर्ध्वं पुनः कामधातुः ।
[११४।०२]
कामधातोश्चाधः पुनरकनिष्ठाः ।
यश्चैकस्मात्कामधातोर्वीतरागः स सर्वेभ्यः ।
[११४।०३]
एवं रूपारूप्येभ्यः ।
[११४।०३-११४।०४]
यश्च प्रथमध्यानसंनिश्रयाद्धि उत्पादयति स यत्र लोकधातौ जात उत्पादयति तत्रत्यमेव ब्रह्मलोकमुपागच्छति नान्यम् ।
[११४।०४-११४।०५]
य एते त्रयो धातव उक्ताः ।
[११४।०६]
नरकादिस्वनामोक्ता गतयः पञ्च तेषु
[११४।०७]
नरकास्तिर्यञ्चः प्रेता देवा मनुष्या इति ।
[११४।०७-११४।०८]
स्वैरेव नामभिस्तेषु पञ्च गतयः प्रोक्ताः ।
[११४।०८]
कामधातो चतस्रो गतयः पञ्चम्याश्च प्रदेशः ।
[११४।०८-११४।०९]
रूपारूप्यधात्वोरेकस्या देवगतेः प्रदेशः ।
[११४।०९]
किं पुनर्गतिनिर्मुक्ताः सन्ति धातवो यत धातुष्वित्युच्यन्ते ।
[११४।१०]
सन्ति कुशलक्लिष्टभाजनान्तराभवस्वभावा अपि धातवः ।
यास्तु पञ्च गतयः ।
[११४।११]
ताः ।
[११४।१२]
अक्लिष्टाव्याकृता एव सत्त्वाख्या नान्तराभवः ॥ ३.४ ॥
[११४।१३]
अनिवृताव्याकृता एव गतयः ।
अन्यथा हि गतिसंभेदः स्यात् ।
[११४।१३-११४।१४]
सत्त्वाख्या एव च नचान्तराभवस्वभावाः ।
[११४।१४-११४।१५]
प्रज्ञ्यप्तिपूक्तम् “चतसृभिर्योनिभिः पञ्च गतयः संगृहीता नतु पञ्चभिर्गतिभिश्चतस्रो योनयः ।
[११४।१५]
किमसंबृहीतम् ।
[११४।१६]
अन्तराभव” इति ।
धर्मस्कन्धेऽपि चोक्तम् “चक्षुर्धातुः कतमः ।
[११४।१६-११४।१८]
चत्वारि महाभूतान्युपादाय यो रूपप्रसादश्चक्षुश्चक्षुरिन्द्रियं चक्षुरायतनं चक्षुर्धातुनरिकस्तैर्यग्योनिकं पैतृविषयिको देव्यो मानुष्यको भावनामयोऽन्तराभविकश्चे”ति ।
[११४।१८-११४।१९]
सूत्रेऽपि च बहिष्कृतोऽन्तराभवो गतिभ्यः ।
[११४।१९]
कस्मिन् सूत्रे ।
[११४।१९-११४।२०]
“सप्त भवा नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवोऽन्तराभव” इति ।
[११४।२०-११४।२१]
अत्र हि पञ्च गतयः सहेतुकाः सहागमनाश्चोक्ताः ।
[११४।२१]
अथ एव चानिवृताव्याकृताः सिध्यन्ति ।
[११४।२२]
तद्धेतोः कर्मभवस्य ताभ्यो बहिष्करणात् ।
काश्मीराश्च सूत्रं पठन्ति ।
[११४।२२-११४।२४]
स्थविरशारिपुत्रेणोक्तं “नारकाणामायुष्मन्नास्रवाणां संमुखीभावान्नरकवेदनीयानि कर्माणि करोत्युपचिनोति ।
[११४।२४-११४।२५]
तेषामायुष्मन् कायवाङ्मनोवङ्कानां कायवाङ्मनोदोषकषायाणा नरकेषु रूपं संज्ञा वेदना संस्कारो विज्ञानं विपाको विपच्यते ।
[११४।२६-२२४।२६]
निर्वृत्ते विपाके नारक इति संख्यां गच्छति ।
[११४।२६-११४।२७]
तत्रायुष्मन्नारको नोपलभ्यतेऽन्यत्र तेभ्यो धर्मेभ्य” इति ।
[११४।२७]
अतोऽप्यनिवृताव्याकृता एव गतयः ।
[११४।२७-११५।०१]
प्रकरणाग्रन्थस्तर्हि परिहार्यो “गतिषु सर्वेऽनुशया अनुशेरत” इति ।
[११५।०१-११५।०२]
प्रतिसंधिचित्तानि हि गतीनां पञ्चप्रकाराणि सन्त्यतः सप्रवेशगतिग्रहणाददोष एव ।
[११५।०२-११५।०३]
ग्रामग्रहणे ग्रामोपचार ग्रहणवत् ।
[११५।०३]
कुशलक्लिष्टा अपीत्यपरे ।
[११५।०३-११५।०४]
यक्तूक्तम् “कर्मभवस्य ताभ्यो बहिष्करणा”दिति ।
[११५।०४]
नावश्यं पृथग्वचनाद्बहिष्कृतो भवति ।
[११५।०४-११५।०५]
तद्यथा पञ्चसु कषायेषु क्लेशदृष्टिकषायौ पृथगुक्तौ ।
[११५।०५]
न च दृष्टयो न क्लेशाः ।
[११५।०५-११५।०६]
एवं कर्मभवोऽपि गतिश्च स्यात् ।
[११५।०६]
पृथक्चास्य वचनं स्यात्गतिहेतुज्ञापनाऋथम् ।
[११५।०७]
अन्तराभवेऽप्येष प्रसङ्गः ।
नायोगात् ।
गच्छन्ति तामिति गतिः ।
[११५।०७-११५।०८]
नचान्तराभवो गन्तव्यश्च्युतिदेश एवोत्पादनात् ।
[११५।०८]
आरूप्या अपि गतिर्न भविष्यन्ति ।
[११५।०९-०१५।०९]
च्युतिदेश एवोत्पादात् ।
[११५।०९-११५।१०]
एवं तर्ह्यन्तराभवत्वादेवान्तराभवो न गतिर्गत्यन्तरालत्वात् ।
[११५।१०]
यदि हि गतिः स्यादन्तराभव इत्येव न स्यात् ।
[११५।१०-११५।११]
यतर्हि स्थविरशारिपुत्रेणोक्तं “निर्वृत्ते विपाके नारक इति संख्यां गच्छती”ति ।
[११५।११-११५।१२]
निर्वृत्ते वीपाक इत्युक्तः नतु विपाक एवेति ।
[११५।१२-११५।१३]
यत्तर्ह्यक्तं “तत्रायुष्मन्नारको नोपलभ्यतेऽन्यत्र तेभ्यो धर्मेभ्य” इति ।
[११५।१३-११५।१४]
गतिगामिनः पुद्गलद्रव्यस्य प्रतिषेधं करोति नान्यत्र स्कन्धेभ्य उपलभ्यते नारक इति न तु स्कन्धान्तरप्रतिषेधम् ।
[११५।१४-११५।१५]
अव्याकृता एव तु गतयो वर्ण्यन्ते वैभाषिकैः ।
[११५।१५]
ताश्च विपाकस्वभावा एवेत्येके ।
[११५।१५-११५।१६]
औपचयिकस्वभावा अपीत्यपरे ।
[११५।१७]
अत्रैव पञ्चगतिके धातुत्रये यथाक्रमं वेदितव्याः
[११५।१८]
नानात्वकायसंज्ञाश्च नानाकायैकसंज्ञिनः ।
[११५।१९]
विपर्ययाच्चैककायसंज्ञाश्चारूपिणस्रयः ॥ ३.५ ॥
[११५।२०]
विज्ञानस्थितयः सप्त
[११५।२१-११५।२२]
सूत्रे उक्तः “रुपिणः सन्ति सत्त्वा नानात्वकाया नानात्वसंज्ञिनस्तद्यथामनुष्यास्तदेकत्याश्च देवाः ।
[११५।२२]
इयं प्रथमा विज्ञानस्थितिः ।
कतमे पुनस्ते तदेकत्या देवाः ।
[११५।२३]
कामावचराः प्रथमघ्यानभूमिकाश्च प्रथमाभिनिर्वृत्तवर्ज्याः” ।
[११५।२३-११५।२४]
नानात्वेन काय एषामिति नानात्वकायाः ।
[११५।२४]
अनेकवर्णलिङ्गसंस्थानत्वात् ।
[११५।२४-११५।२५]
नानात्वेन संज्ञा नानात्वसंज्ञा ।
[११५।२५-११५।२४]
सैषामस्तीति नानात्वसंज्ञिनः ।
[११५।२५]
सुखदुःखादुःखासुखसंज्ञित्वात् ।
[११५।२५-११५।२७]
रूपिणः सन्ति नानात्वकाया एकत्वसंज्ञिनस्तद्यथा देवा ब्रह्मकायिका ये तत्प्रथमाभिनिर्वृत्ताः ।
[११५।२७]
इयं द्वितीया विज्ञानस्थितिः ।
[११५।२७-११५।२८]
ते हि प्रथमाभिनिर्वृत्ताः सर्व एकैकसंज्ञिनो भवन्ति अनेन वयं ब्रह्मणा सृष्टा इति ।
[११५।२८-११५।२९]
ब्रह्मणोऽप्येवं भवति मयैते सृष्टा इत्यभिन्नकारसंज्ञानादेकत्वसंज्ञिनः ।
[११५।२९-११५।३१]
अन्यथैव तु महाब्रह्मण आरोहपरिणाह आकृतिविग्रहो वाग्भाषा चीवरधारणं च अन्यथा तत्पर्षद इति नानात्वकायाः ।
[११५।३१-११६।०२]
यदिदमुक्तं सूत्रे “तेषामेवं भवति इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तं यावदहो वतान्येऽपि सत्त्वा इहोपपद्येरन्मम सभामतायामि”ति ।
[११६।०२]
अस्य च सत्त्वस्यैवञ्चेतसः प्रणिधिर्वयं चेहोपपन्ना इति ।
[११६।०२-११६।०३]
कथं तमद्राक्षुः ।
[११६।०३]
आभास्वरस्था इत्येके ।
[११६।०३-११६।०५]
ततो हि ते प्रच्युताः कथमिदानीमलब्धायां द्वितीयध्यानसमापत्तौ तद्भूमिकं पूर्वेनिवासमस्मार्षुः लब्धायां वा कथं महाब्रह्मालम्बनां शीलव्रतपरामर्शदृष्टिं निविष्टाः ।
[११६।०५]
अन्तराभवस्था अद्राक्षुरित्यपरे ।
[११६।०६]
तत्रापि न दीर्घमध्वानमवस्थातुं संभवः प्रतिबन्धाभावादिति ।
[११६।०६-११६।०७]
कथं तेषामेवं भवति स्म “इमं वयं सत्त्वमद्राक्ष्म दीर्घायुषं दीर्घमध्वानं तिष्ठन्तमि”ति ।
[११६।०८-११६।०९]
तस्मात्तत्रस्था एव ते तस्य पूर्ववृत्तान्तं समनुस्मरन्त एव दीर्घमध्वानं तिष्ठन्तं दृष्टवन्तो दृष्ट्वा च पश्चादद्राक्ष्मेत्येषां बभूव ।
[११६।०९-११६।१०]
रुपिणः सन्ति सत्त्वा एकत्वकाया नानात्वसंज्ञिनस्तद्यथा देवा आभास्वराः ।
[११६।१०]
इयं तृतीया विज्ञानस्थितिः ।
[११६।१०-११६।११]
अत्र पुनः पर्यन्तग्रहणात्सकलद्वितीयध्यानग्रहणं वेदितव्यम् ।
[११६।११-११६।१२]
अन्यथा हि परीत्ताभा अप्रमाणाभाश्च कस्यां विज्ञानस्थितौ व्यवस्थाप्येरन् ।
[११६।१२-११६।१३]
तत्राभिन्नवर्णलिङ्गसंस्थानत्वादेकत्वकायाः ।
[११६।१३]
सुखसंज्ञित्वाददुःखासुखसंज्ञित्वाच्च नानात्वसंज्ञिनः ।
[११६।१४-११६।१५]
ते किल मौल्यां भूमौ सौमनस्येन्द्रियपरिखिन्नाः सामन्तकादुपेक्षेन्द्रियं संमुखीभवन्ति ।
[११६।१५-११६।१६]
सामन्तके चोपेक्षेन्द्रियपरिखिन्नाः पुनमौल्या भुमेः सौमनस्येन्द्रियं संमुखीकुर्वन्ति ।
[११६।१६-११६।१७]
यथा कामरतिपरिखिन्ना ईश्वरा धर्मरतिं प्रत्यनुभवन्ति धर्मरतिपरिखिन्नाः कामरतिमिति ।
[११६।१७]
ननु च शुभकृत्स्नेष्वप्येष प्रस्ङ्गः ।
[११६।१७-११६।१८]
न तेषां तेन सुखेनास्ति परिखेदः ।
[११६।१८]
किं कारणम् ।
[११६।१८-११६।१९]
शान्तं हि तत्सुखमशान्तं च सौमनस्यं चेतस उत्प्लावकत्वादिति सौत्रान्तिका व्याचक्षते ।
[११६।१९-११६।२०]
सूत्र उक्तं “यथा ते नानात्वसंज्ञिनः ।
[११६।२०-११६।२२]
तत्र ये सत्त्वा आभास्वरे देवनिकायेऽचिरोपपन्ना भवन्ति नैव संवर्त्तनीकुशला न विवर्त्तनीकुशला अस्य लोकस्य ते तामर्चिषं दृष्ट्वा भीताः सन्त उद्विजन्ते संवेगमापद्यन्ते ।
[११६।२२]
सहैवैषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽर्वागागमिष्यतीति ।
[११६।२३-११६।२४]
तत्र ये सत्त्वा आभास्वरे देवनिकाये चिरोपपन्नाः संवर्त्तनीकुशला विवर्त्तनीकुशलाश्चास्य लोकस्य ते तान् सत्त्वान् भीतानाश्वासयन्ति ।
[११६।२४-११६।२५]
मा भैष्ट माऋषाः मा भैष्ट मार्षाः ।
[११६।२५]
पूर्वमप्येषाऽर्चिः शून्यं ब्राह्मं विमानं दग्ध्वाऽत्रैवान्तर्हिते”ति ।
[११६।२६-११६।२७]
अतोऽर्चिष आगमव्यपगमसंज्ञित्वात्भीता भीतसंज्ञित्वाच्च ते नानात्वसंज्ञिनो न सुखादुःखासुखसंज्ञित्वादिति ।
[११६।२७-११६।२८]
रूपिणः सन्ति सत्त्वा एकत्वकाया एकत्वसंज्ञिनस्तद्यथा देवाः शुभकृत्स्नाः ।
[११६।२८]
इयं चतुर्थी विज्ञानस्थितिः ।
[११६।२८-११७।०१]
तत्राभिन्नवर्णसंस्थानलिङ्गत्वादेकत्वकायाः ।
[११७।०१]
एकत्वसंज्ञिनः सुखसंज्ञित्वात् ।
[११७।०१-११७।०२]
तत्र प्रथमे ध्याने क्लिष्टया संज्ञया एकत्वसंज्ञिनः ।
[११७।०२-११७।०३]
द्वितीये कुशलया संज्ञया नानात्वसंज्ञिनस्तृतीये विपाकजया संज्ञयाएकत्वसंज्ञिनः ।
[११७।०३-११७।०४]
आरुप्यास्त्रयो यथासूत्रमित्येताः सप्त विज्ञानस्थितयः ।
[११७।०४]
काऽत्र विज्ञानस्थितिः ।
[११७।०४-११७।०५]
तत्प्रतिसंयुक्ताः पञ्च स्कन्धाश्चत्वारश्च यथायोगम् ।
[११७।०५]
शेषं कस्मान्ना विज्ञानस्थितिः ।
प्[११७०५]
यस्मात्
[११७।०६]
शेषं तत्परिभेदवत् ।
[११७।०७]
किं पुनः शेषम् ।
दुर्गतयश्चतुर्थ ध्यानं भवग्रं च ।
[११७।०७-११७।०८]
अत्र हि विज्ञानपरिभेदाः सन्त्यत एव न विज्ञानस्थितिः ।
[११७।०८]
कः पुनः परिभेदः येन विज्ञानं परिभिद्यते
[११७।०८-११७।०९]
तत्रापायेषु दुःखा वेदना परिभेद उपधातिदत्वात् ।
[११७।०९]
चतुतें ध्याने आसंज्ञिकमसंज्ञिसमापत्तिश्च ।
[११७।१०]
भवाग्रे निरोधसमापत्तिश्चित्तसन्ततिच्छेदात् ।
पुनराह ।
[११७।१०-११७।११]
यत्रेहस्थानां गन्तुकामता तत्रस्थानां चाव्युच्चलितुकामताऽसौ विज्ञानस्थितिरुक्ता ।
[११७।११-११७।१२]
अपायेषु चोभयं नास्हि ।
[११७।१२-११७।१३]
चतुर्थे ध्याने सत्त्वा उच्चलितमानसाः पृथग्जना आसंज्ञिकं प्रवेष्टुकामा आर्याः शुद्धावासान् भवाग्रानपटुप्रचारत्वान्न विज्ञानस्थितिरिति ।
[११७।१४]
एताश्च सप्त विज्ञानस्थितयो यथोक्ताः ।
[११७।१५]
भवाग्रासंज्ञिसत्त्वाश्च सत्त्वावासा नव स्मृताः ॥ ३.६ ॥
[११७।१६]
एषु हि सत्त्वा आवसन्ति स्वेच्छया ।
[११७।१७]
अनिच्छावसनान्नान्ये
[११७।१८]
के पुनरन्ये ।
अपायाः ।
तेषु हि सत्त्वा अकामकाः कर्मराक्षसैरावास्यन्ते ।
[११७।१९]
नत्विच्छया वसन्ति ।
अतस्तेन सत्त्वावासा बन्धनस्थानवत् ।
[११७।१९-११७।२०]
अन्यत्र सूत्रे सप्त विज्ञानस्थितय उक्ताः अन्यत्र
[११७।२१]
चतस्रः स्थितयः पुनः ।
[११७।२२]
कतमाश्चतस्रः ।
रूपोपगा विज्ञान स्थितिर्वेदनोपगा संज्ञोपगा संस्कारोपगा इति ।
[११७।२३]
तासां कः स्वभावः ।
ता हि यथाक्रमम् ।
[११७।२४]
चत्वारः सास्रवाः स्कन्धाः
[११७।२५]
ते पुनः
[११७।२६]
स्वभूमावेव
[११७।२७]
नान्यत्र भूमौ ।
किं कारणम् ।
प्रतिष्टा हि स्थितिः ।
[११७।२७-११७।२८]
न च विसभागभूमिकेषु स्कन्हेषु विज्ञानं तृष्णावशात्प्रतितिष्ठतीति ।
[११७।२८-११७।२९]
कस्मान्न विज्ञानं विज्ञानस्थितिरुच्यते यथा सप्तसु विज्ञानस्थितिषु पञ्च स्कन्धा इति ।
[११७।२९]
स्थातुः परिहारेण स्थितिविधानात् ।
[११८।०१]
नहि स्थातैव स्थितिरुच्यते ।
[११८।०१-१२८।०१]
यथा न राजैव राजासनमिति ।
[११८।०१-११८।०२]
यांश्च धर्मानभिरुह्य विज्ञानं वाहयति नौनाविकन्यायेन ते धर्मा विज्ञानस्थितय उक्ताः ।
[११८।०३]
नतु विज्ञानं विज्ञानमेवारुह्य वाहयत्यतो नोक्तमिति वैभाषिकाः ।
[११८।०३-११८।०४]
यत्तर्हि सूत्र उक्तं “विज्ञाने आहारे अस्ति नन्दी अस्ति राग इति ।
[११८।०४-११८।०५]
यत्रास्ति नन्दी अस्ति रागः प्रतिष्ठितं तत्र विज्ञानमधिरूढमि”ति ।
[११८।०५]
तत्कथम् ।
[११८।०५-११८।०६]
“सप्त च विज्ञानस्थितयः पञ्चस्कन्धसंगृहीता” इति तत्कथम् ।
[११८।०६-११८।०७]
एवं तर्ह्यभेदेनोपपत्त्यायतनसंगृहीतेषु स्कन्धेषु साभिरामायां विज्ञानप्रवृत्तौ विज्ञानं विज्ञानस्थितिः ।
[११८।०७-११८।०८]
प्रत्येकं तु यथा रूपादयो विज्ञानस्य संक्लेशाय भवन्ति ।
[११८।०८]
तस्माच्चतसृषु विज्ञानस्थितिषु
[११८।०९]
केवलम् ॥ ३.७ ॥
[११८।१०]
विज्ञानं न स्थितिः प्रोक्तं
[११८।११]
अपि च क्षेत्रभावेन भगवता चतस्रो विज्ञानस्थितयो देशिताः ।
[११८।११-११८।१३]
वीजभावेन च सोपादानं विज्ञानं कृत्स्नमेवेति न पुनर्बीजं बीजस्य क्षेत्रभावेन व्यवस्थापयांबभूवेत्यभिप्रायं परिकलपयामास ।
[११८।१३-११८।१४]
ये धर्माः सहवर्त्तिनो विज्ञानस्य तेऽस्य क्षेत्रभावेन साधीयांसो भवन्तीति त एवास्य स्थितय उक्ताः ।
[११८।१५-११८।१६]
अथ कथं सप्तभिर्विज्ञानस्थितिभिश्चतस्रो विज्ञानस्थितयः संगृहीताश्चातसृभिर्वा सप्त ।
[११८।१६]
नैव हि सप्तभिश्चतस्रो नापि चतसृभिः सप्त ।
[११८।१७]
चतुष्कोटि तु संग्रहे ।
[११८।१८]
संग्रहे विचार्यमाणे चतुष्कोटिकं वेदितव्यम् ।
[११८।१८-११८।१९]
स्यात्सप्तभिः संगृहीतं न चतसृभिरित्येवमादि ।
[११८।१९]
प्रथमाः कोटिः सप्तसु यद्धिज्ञानम् ।
[११८।१९-११८।२०]
द्वितीया अपायेषु चतुर्थे ध्याने भवाग्रे च विज्ञानवर्ज्याः स्कन्धाः ।
[११८।२०-११८।२१]
तृतीया सप्तसु चत्वारः स्कन्धाश्चतुर्थ्येतानाकारान् स्थापयित्वा ।
[११८।२२]
यच्चैतत्गत्यादिभेदभिन्नं त्रैधातुकमुक्तं वेदितव्याः ।
[११८।२३]
चतस्रो योनयस्तत्र सत्त्वानामण्डजादयः ॥ ३.८ ॥
[११८।२४]
अण्डजा योनिर्जरायुजा संस्वेदजा उपपादुका योनिः ।
योनिर्नाम जातिः ।
[११८।२५]
युवान्त्यस्यां सत्त्वा मिश्रीभवन्ति प्रसवसाम्यादिति योनिः ।
अण्डजा योनिः कतमा ।
[११८।२६]
ये सत्त्वा अण्डेभ्यो जायन्ते ।
तद्यथा हंसक्रोञ्चचक्रवाकमयूरशूकशारिकादयः ।
[११८।२७]
जरायुजा योइः कतमा ।
ये सत्त्वा जरायोर्जायन्ते ।
[११८।२७-११८।२८]
तद्यथा हस्त्यश्वगोमहिषखरवराहादयः ।
[११८।२८]
संस्वेदजा योनिः कतमा ।
[११८।२८-११८।२९]
ये सत्त्वा भूसंस्वेदाज्जायन्ते ।
[११८।२९]
तद्यथा कृमिकीटपतङ्गमशकादयः ।
उपपादुका योनिः कतमा ।
[११९।०१]
ये सत्त्वा अविकला अहीनेन्द्रियाः सर्वाङ्गप्रत्यङ्गोपेताः सकृदुपजायन्ते ।
[११९।०१-११९।०२]
अत एव उपपदने (रेअद्: उपपादने) साधुकारित्वादुपपादुका इत्युच्यन्ते ।
[११९।०२]
तद्यथा देवनारकान्तराभविकादयः ।
[११९।०३]
अथ कस्यां गतौ कति योनयः संविद्यन्त इत्याह
[११९।०४]
चतुर्धा नर तिर्यञ्चः
[११९।०५]
मनुष्याश्चतुर्विधाः ।
[११९।०५-११९।०७]
अण्डजास्तावद्यथा क्रोञ्चीनिर्यातौ शैलोपशैलौ स्थविरौ मृगारमातुश्च द्वात्रिंशत्पुत्राः पञ्चालराजस्य च पञ्च पुत्रशतानि ।
[११९।०७]
जरायुजा यथेदानीम् ।
[११९।०७-११९।०८]
संस्वेदजास्तद्यथा मान्धातुचारुश्पचारूपचारुकपोतमालिन्याम्रपाल्यादयः ।
[११९।०८]
उपपादुकाः पुनः प्राथमकल्पिकाः ।
[११९।०८-११९।०९]
एवं तिर्यञ्चोऽपि चतुर्विधाः ।
[११९।०९]
त्रिविधा दृश्यन्त एव ।
उपपादुकास्तु नागसुपर्णि प्रभृतयः ।
[११९।१०]
नारका उपपादुकाः ।
[११९।११]
अन्तराभवदेवाश्च
[११९।१२]
सर्वे नारका अन्तराभविकाः देवाश्चोपपादुका एव ।
[११९।१३]
प्रेता अपि जरायुजाः ॥ ३.९ ॥
[११९।१४]
अपिशब्दादप्युपपादुका इति ।
आयुष्मते महामौद्गल्यायनाय प्रेती निवेदयते
[११९।१५]
“पञ्च पुत्रानहं रात्रौ दिवा पञ तथा परान् ।
[११९।१६]
भक्षयामि जनित्वा तान्नास्ति तृप्तिस्तथापि मे ॥”
[११९।१७]
कतमा योनिः सर्वसाध्वी ।
उपपादुका ।
[११९।१७-११९।१८]
अथ किमर्थं चरमभविको बोधिसत्त्वः प्राप्तोपपत्तिवशित्वेऽपि जरायुर्जां योर्नि भजते ।
[११९।१८-११९।१९]
एवं हि क्रियमाणे महान्तमर्थं पश्यति ।
[११९।१९-११९।२१]
ज्ञातिसंबन्धेन महतः शाक्यवंशस्य धर्मेऽवतरणार्थं चक्रवर्त्तिवंश्योऽयमिति चान्येषां बहुमानादरावर्जनार्थं मनुष्यभूता अपि चैनां सिद्धिं गच्छन्तीति विनेयाना मुत्साहार्थम् ।
[११९।२१-११९।२३]
इतरथा ह्यप्रज्ञायमानकुलगोत्रः कोऽप्ययं मायापुरुष इत्येवं परिकल्पयेयुर्देवः पिशाच इति वा यथाऽन्यतीर्थ्या अपभाषन्ते कल्पशतस्यात्ययादेवंविधो मायावी लोके प्रादुर्भूय मायया लोकं भक्षयतीति ।
[११९।२४]
अपरे त्वाहुः ।
[११९।२४-११९।२६]
शरीरधातूनामवस्थापनार्थं येषुमनुष्या अन्ये च प्रजां विज्ञाय सहस्रशः स्वर्गं च प्राप्ता अपवर्गं चेति उपपादुकानां हि सत्त्वानां बाह्यबीजाभावान्मृतानां कायो नावतिष्ठते निशान्त इव तैलप्रद्योतोऽन्तर्धीयते ।
[११९।२६-११९।२७]
आधिष्ठानिकीमृद्धिं भगवत इच्छतां न युक्त एक्ष परिहारः ।
[११९।२७]
प्रश्नात्प्रश्नान्तरमुपजायते ।
[११९।२७-१२०।०२]
यद्यप्युपपादुकानां कायनिधनं न प्रज्ञयते कथमुक्तं सूत्रे “उपपादुकः सुपर्णी उपपादुकं नागमुद्धरति भक्षार्थमि”ति ।
[१२०।०२]
नोक्तं भक्षयतीत्यपि तूद्धरति भक्षार्थमज्ञत्वादित्यदोषः ।
[१२०।०२-१२०।०३]
भक्षयति वा यावन्न मृतो भवति न पोउन्र्मृतस्यास्य तृष्यतीति ।
[१२०।०४]
कतमा योनिः सर्ववह्वी ।
उपपादुकैव ।
[१२०।०४-१२०।०५]
सा हि द्विगती तिसृणां च प्रदेशः सर्वे चान्तराभाविका इति ।
[१२०।०६]
कोऽयमस्तराभावो नाम ।
[१२०।०७]
मृत्यूपपत्तिभवयोरन्तरा भवतीह वः ।
[१२०।०८-१२०।०९]
मरणभवस्योपपत्तिभवस्य चान्तरा य आत्मभावोऽभिनिर्वर्त्तते देशान्तरोपपत्तिसम्प्राप्तये सोऽन्तराभव इत्युच्यते ।
[१२०।०९]
गत्यन्तरालत्वात् ।
[१२०।०९-१२०।१०]
कथमयं जातश्च नाम नचोपपन्नो भवति ।
[१२०।११]
गम्यदेशानुपेतत्वान्नोपपन्नोऽन्तराभवः ॥ ३.१० ॥
[१२०।१२]
उपपत्तिगतो ह्युपपन्न इत्युच्यते ।
पदेर्गत्यर्थत्वात् ।
[१२०।१२-१२०।१३]
नचायं गम्यदेशमुपगतोन्तराभवस्तस्मान्नोपपन्नः ।
[१२०।१३]
कः पुनरसौ देशो गन्तव्यः ।
[१२०।१३-१२०।१४]
यत्राक्षिप्तस्य वीपाकस्याभिव्यक्तिः समाप्तिश्च ।
[१२०।१४-१२०।१५]
विच्छिन्न एवोपपत्तिभवो मरणभवात्संभवतीति निकायान्तरीयाः ।
[१२०।१५]
तदेतन्नेष्यते ।
किं कारणम् ।
युक्तितश्च आगमतश्च ।
[१२०।१५-१२०।१६]
तत्र तावत्युक्तिं निश्रित्योच्यते ।
[१२०।१७]
व्रीहिसन्तानसाधर्म्वादविच्छिन्नभवोद्भवः ।
[१२०।१८-१२०।१९]
सन्तानवर्त्तिनां हि धर्माणामविच्छेदेन देशान्तरेषु प्रादुर्भावो दृष्टस्तद्यथा व्रीहिसन्तानस्य ।
[१२०।१९-१२०।९२०]
तस्मादस्यापि सत्त्वसन्तानस्याविच्छेदेन देशान्तरेषु प्रादुर्भावो भविष्णुः ।
[१२०।२०-१२०।२१]
विच्छिन्नोऽपि दृष्टः प्रादुर्भावस्तद्यथा आदर्शादिषु बिम्बात्प्रतिबिम्बस्य ।
[१२०।२१]
एवं मरणभवादुपपत्तिभवस्य स्यात् ।
[१२०।२२]
प्रतिबिम्बमसिद्धत्वादसाम्याच्छानिदर्शनम् ॥ ३.११ ॥
[१२०।२३]
प्रतिबिम्बं नामान्यदेवोत्पद्यते धर्माह्न्तरमित्यसिद्धमेतत् ।
[१२०।२३-१२०।२४]
सिद्धावपि च सत्यामसाम्यादनिदर्शनं भवति ।
[१२०।२४]
कथं तावदसिद्धम् ।
[१२०।२५]
सहैकत्र द्वयाभावात्
[१२०।२६]
तत्रैव हि देशे आदर्शरूपं दृश्यते प्रतिबिम्बं च ।
[१२०।२६-१२०।२७]
न चैकत्र देशे रूपद्वयस्यास्ति सहभाव आश्रयभूतभेदात् ।
[१२०।२७-१२०।३०]
तथा दिग्भेदव्यवस्थितेरेकस्मिन्वाप्यम्बुदेशे स्वाभिमुखदेशस्थानां रूपाणामन्योऽन्यं प्रतिबिम्बकमुपलभ्यते नत्वेकत्र रूपे द्वयोः पश्यतोः सहदर्शनं न भवतीति न तत्र रूपान्तरोपपत्तिर्युक्ता ।
[१२०।३०-१२१।०१]
छायातपयोश्च द्वयोः सहैकत्रभावो न दृष्टः ।
[१२१।०१-१२१।०२]
उपलभ्यते च छायास्थ आदर्शे सूर्यस्य प्रतिविम्बकमिति न युक्तोऽस्य तत्र प्रादुर्भावः ।
[१२१।०२]
अथवा “सहैकत्र द्वयाभावादि”ति कतमस्य द्वयस्य ।
[१२१।०२-१२१।०३]
आदर्शतलस्येन्दुप्रतिबिम्बकस्य च ।
[१२१।०३-१२१।०४]
अन्यत्रैव हि देशे आदर्शतलं भवत्यन्यत्रैवान्तर्गतं चन्द्रप्रतिबिम्बकं दृश्यते कूप इवोदकम् ।
[१२१।०४-१२१।०५]
तच्च तत्रोपपद्यमानं नान्यत्रोपलभ्यते ।
[१२१।०५]
अतो नास्त्येव तत्किञ्चित् ।
[१२१।०५-१२१।०६]
सामग्र्यास्तु स तस्यास्तादृशः प्रभावो यत्तथा दर्शनं भवति ॥
[१२१।०६]
अचिन्त्यो हि धर्माणां हि धर्माणां शक्तिभेदः ।
[१२१।०६-१२१।०७]
एवं तावन्दसिद्धत्वात् ।
[१२१।०७]
कथमसाम्यादनिदर्शनं भवति ।
[१२१।०८]
असन्तानाद्
[१२१।०९]
नहि विम्वस्य प्रतिबिम्बकं सन्तानभूतमादर्शसन्तानसंवद्धत्वात्सहभावाच्च ।
[१२१।१०]
यथा मरणस्योपपत्तिभवः ।
[१२१।१०-१२१।११]
सन्तानं च प्रत्यविच्छेदेन देशान्तरेषु प्रादुर्भाव उदाहृअतो नासन्तानमित्यसाम्यं दृष्टान्तस्य प्रतिबिम्बस्य च ।
[१२१।१२]
द्वयोदयात् ।
[१२१।१३]
द्वाभ्यां हि कारणाभ्यां प्रतिबिम्बस्योदयो भवति ।
[१२१।१३-१२१।१४]
बिम्बाच्चादर्शा च्चेति यत्प्राधानं कारणं तदाश्रित्योत्पद्यते ।
[१२१।१४-१२१।१६]
नचैवमुपपत्तिभवस्यापि द्वाभ्यां कारणाभ्यां संभवो मरणभवाच्चान्यतश्च प्रधानभूतादित्यतोऽप्ययमसमानो दृष्टान्तः ।
[१२१।१६]
न च युक्तमुक्तं बाह्यमेव चेतनं शुक्रशोणितं प्रधानकारणमिति ।
[१२१।१६-१२१।१७]
यत्र चान्धकाण एव प्रादुर्भाव उपपादुकानां तत्र किं परिकल्प्यते ।
[१२१।१७-१२१।१८]
एवं तावद्युक्तितो नेष्यते ।
[१२१।१८]
न मराणभवाद्विच्छिन्न उपपत्तिभवप्रादुर्भावः ।
तस्मादस्त्येवान्तराभवः ।
[१२१।१९]
कण्ठोक्तेश्चास्ति
[१२१।२०]
सूत्र उक्तं “सप्त भवाः ।
[१२१।२०-१२१।२१]
नरकभवस्तिर्यग्भवः प्रेतभवो देवभवो मनुष्यभवः कर्मभवोऽन्तराभव इति ।
[१२१।२१]
नैतत्सूत्रं तैराम्नायते ।
इतस्तर्हि
[१२१।२२]
गन्धर्वात्
[१२१।२३]
“त्रयाणां स्थानानां संमुखीभावात्मातुः कुक्षौ गर्भस्यावक्रान्तिर्भवति ।
[१२१।२३-१२१।२४]
माता कल्या स्पि भवति ऋतुमती च ।
[१२१।२४]
मातापितरौ रक्तौ भवतः सनिपतितौ च ।
[१२१।२५]
गन्धर्वश्च प्रत्युपस्थितो भाती”ति ।
अन्तराभवं हित्वा कोऽन्यो गन्धर्वः ।
[१२१।२६]
एतदपि नैव तैराम्नायते ।
कथं तर्हि ।
“स्क्न्धभेदश्च प्रत्युपस्थितो भवती”ति ।
[१२१।२७]
यद्येवमाश्वलायनसूत्रं कथं नीयते ।
[१२१।२७-१२१।२८]
“जानन्त भवन्तो योऽसौ गन्धर्वः प्रत्युपस्थितः ।
[१२१।२८]
क्षत्रियो वाऽसौ ब्राह्मणो वा वैश्यो वा शूद्रो वा ।
[१२१।२८-१२२।०१]
यदि वा पूर्वस्या दिश आगतो यदि वा दक्षिणस्या पश्चिमाया उत्त्रस्या” इति ।
[१२२।०२]
नहि स्कन्धभेदस्यागमनं युज्यते ।
अथैतदपि न पठच्यते ।
इतस्तर्हि ।
[१२२।०३]
पञ्चोक्तेः ।
[१२२।०४]
“पञ्चानागामिन” इत्युक्तं भगवता ।
[१२२।०४-१२२।०५]
अन्तरापरिनिर्वायी उपपद्यपरिनिर्वायी अनभिसंस्कारपरिनिर्वायी साभिसंस्कारपरिनिर्वायी ऊर्ध्वस्त्रोताश्चेति ।
[१२२।०५-१२२।०६]
असत्यन्तराभवे कथमन्तरापरिनिर्वायी नाम स्यात् ।
[१२२।०६]
अन्तरा नाम देवाः सन्तीत्येके ।
[१२२।०७]
उपपद्यादयोऽपि हि नाम देवा एवं सति प्रसज्यते ।
तस्मान्येयं कल्पना साध्वी ।
[१२२।०८]
इतश्च
[१२२।०९]
गतिसूत्रतः ॥ ३.१२ ॥
[१२२।१०]
“सप्त सत्पुरुषगतयः” इत्यत्र सूत्रे ।
अन्तरापरिनिर्वायिणस्त्रय उक्ताः ।
[१२२।१०-१२२।११]
कालदेशप्रकर्षभेदेन ।
[१२२।११-१२२।१२]
तद्यथा परीत्तः सकलिकाग्निरभिनिवर्त्तमान एव परिनिर्वायादेवं प्रथमः ।
[१२२।१२]
तद्यथाऽयः प्रपाटिका उत्पतन्त्येव निर्वायादेवं द्वितीयः ।
[१२२।१२-१२२।१३]
तद्यथाऽयःप्रपातिका उत्प्लुत्य पृथिव्यामपतितैव निर्वायादेवं तृतीयः ।
[१२२।१३-१२२।१४]
नचैवमन्तरा नाम देवास्त्रिप्रकाराः कालदेशप्रकर्षभिन्नाः सन्तीति कल्पनैवेयं केवला ॥
[१२२।१४]
अन्ये पुनराहुः ।
[१२२।१५-१२२।१६]
आयुप्रमाणान्तरे वा देवसमीपान्तरे वा यः क्लेशान् प्रजहाति सोऽन्तरापरिनिर्वायी ।
[१२२।१६-१२२।१७]
स पुनर्धातुगतो वा परिनिर्वाति संज्ञागतो वा वितर्कगतो वा ।
[१२२।१७]
तेन त्रिविधो भवतीति ।
[१२२।१७-१२२।१८]
प्रथमो वा रूपधातौ निकायसभागपरिग्रहं कृत्वा परिनिर्वाति ।
[१२२।१८]
द्वितीयो देवसमृद्धिं चानुभूय ।
[१२२।१८-१२२।१९]
तृतीयो देवानां धर्मसंगीतिमनुप्रविश्य ।
[१२२।१९-१२२।२१]
उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां संगीतिमनुप्रविश्य परिनिर्वाति भूयसा वा आयुरूपहत्य नोपपन्नमात्र एवेति त एते सर्वेऽपि शकलिकादिदृष्टान्तैर्न संवध्यन्ते ।
[१२२।२१]
देशगतिविशेषाभावात् ।
[१२२।२१-१२२।२२]
आरुप्येष्वपि चान्तरापरिनिर्वायी पठ्येतायुःप्रमाणान्तरे परिनिर्वाणात् ।
[१२२।२२]
न च पठ्यते ।
[१२२।२३-१२२।२४]
“ध्यानैश्चतस्रो दशिका आरुप्यैः सप्तिकात्रयम् ।
संज्ञया षट्टिकां कृत्वा वर्गो भवति समुदितः ॥
[१२२।२५]
इत्येतस्यायुर्दानगाथायाम् ।
तस्मादेतदपि सर्वं कल्पनामात्रम् ।
[१२२।२६]
अथैतान्यपि सूत्राणि तैर्नाम्नायन्ते ।
[१२२।२६-१२३।०१]
किमिदानीं कुर्मो यच्छास्ता च परिनिर्वृतः शासनं चेदमनायकं बहुधा भिन्नं भिद्यते चाद्यापि यथेच्छं ग्रन्थतश्चार्थतश्च ।
[१२३।०१-१२३।०२]
येषां तु तावदयमागमः प्रमाणं तेषामागमतोऽपि सिद्धोऽन्तराभवः ।
[१२३।०२-१२३।०३]
यत्तर्हि सूत्र उत्तम् “अथ च पुनर्दूषी मारः स्वशरीरेणाविचौ महानरके प्रपतित” इति ।
[१२३।०३]
तत्कथमिति ।
[१२३।०४]
स हि जीवन्नेव नारकीभिर्ज्वालाभिरालिङ्गितः ।
[१२३।०४-१२३।०५]
कालल्ं कृत्वाऽन्तराभवेनावीचिं प्राप्त इत्ययं तत्राभिप्रयः ।
[१२३।०५-१२३।०६]
अत्युदीर्णपरिपूर्णानि हि कर्माणि कायस्य निक्षेपं न प्रतीक्षन्ते ।
[१२३।०६]
अतोऽस्य दृष्टधर्मवेदनीयं कर्म पूर्वं वीपक्वं पश्चादुपपद्यवेदनीयमिति ।
[१२३।०७-१२३।०८]
इदमिदानीं कथं नीयते “पञ्चानन्तर्याणि कर्माणि यानि कृत्वोपचित्य समनन्तरं नरकेषूपपद्यत” इति ।
[१२३।०८]
अन्यां गतिमगत्वेत्यभिप्रायः ।
[१२३।०८-१२३।०९]
उपपद्यवेदनीयत्वं तत्र कर्मणो द्योतितम् ।
[१२३।०९]
अथ यथारुतं कल्प्यते ।
पञ्चैव कृत्वा नैकमिति प्राप्नोति ।
[१२३।०९-१२३।१०]
क्रियानन्तरं च ।
[१२३।१०]
न कालान्तरं जीवित्वा को वाऽन्तराभवस्योपपद्यमानत्वं नेच्छति ।
[१२३।१०-१२३।११]
अन्तरा भवेनैव ह्यसौ मरणान्तरं नरकेषूपपद्यते ।
[१२३।११]
अभिमुखत्वात् ।
[१२३।११-१२३।१२]
न च ब्रूम उपपन्नो भवतीति ।
[१२३।१२]
इयं तर्हि गाथा कथं नीयते
[१२३।१३-१२३।१४]
“उपनीततया जरातुरः संप्राप्तो हि ममान्तिकं द्विज ।
वासोऽपि हि नास्ति तेऽन्तरा पाथेयं च न विद्यते तवे” ति ॥
[१२३।१५]
अत्रापि मनुष्येष्वन्तरावासो नास्तीत्यभिप्रायः ।
[१२३।१५-१२३।१६]
अथवाऽन्तराभवेऽप्यस्य वासो नास्त्युपपत्तिदेशसंप्राप्तिप्रति गमनाधिष्ठानादिति ।
[१२३।१६-१२३।१७]
अयमत्राभिप्रायो नायमभिप्राय इति दुत एवैतत् ।
[१२३।१७]
तुल्य एष भवतोऽप्यनुयोगः ।
[१२३।१७-१२३।१८]
तस्मादुभयस्मिन्नपि पक्षे यथ्होत्तसूत्राविरोधान्न भवत्येतदन्तराभवस्याभावे ज्ञापकम् ।
[१२३।१८-१२३।१९]
ज्ञापकं हि नामागतिका गतिरिति ।
[१२३।२०]
अथ कां गतिं गमिष्यतः किमाकृतिरन्तराभवोऽभिनिवर्त्तते ।
[१२३।२१]
एकाक्षेपादसावैष्यत्पूर्वकालभवाकृतिः ।
[१२३।२२]
येनैव कर्मणा गतिराक्षिप्यते तेनैवान्तराभवस्तत्प्राप्तये ।
[१२३।२२-१२३।२३]
अतो यां गतिं गन्ता भवति तस्यां गतौ य आगमिष्यत्पूर्वकालभवस्तस्यैवास्याकृतिर्भवति ।
[१२३।२३-१२३।२५]
एवं तर्हि शुनीप्रबृतीनामेकस्मिन् कुक्षौ पाञ्चगतिकोऽन्तराभवोऽभिनिर्वर्त्तते इति नारकोऽन्तराभवः कुक्षिं निर्दहेत् ।
[१२३।२५-१२३।२६]
पूर्वकालभवेऽपि तावन्नारका न नित्यं प्रज्वलिता भवन्त्युत्सदेषु भ्रमन्तः किं पुनरन्तराभविकाः ।
[१२३।२६]
अस्तु वा प्रज्वलितः ।
[१२३।२६-१२३।२७]
स तु यथा न द्रष्टुं शस्यते तथा न स्प्रष्टुमप्यच्छत्वादात्मभावस्येत्यचोद्यमेतत् ।
[१२३।२७-१२३।२८]
अन्तराभवानामप्यन्योन्यं कुक्षावसंश्लेषात्कर्मप्रतिबन्धाच्च न दाहः ।
[१२३।२८-१२४।०१]
प्रमाणं तु यथा पञ्चषड्वर्षस्य दारकस्य स तु षटिन्द्रियो भवति बोधिसत्त्वस्य पुनर्यथा संपूर्णयूनः सलक्षणानुव्यञ्जनश्च ।
[१२४।०१-१२४।०२]
अत एवान्तराभवस्थेन मातुः कुक्षिं प्रविशता कोटीशतश्चातुर्द्वीपिकानामवभासितः ।
[१२४।०३]
यत्तर्हि माता बोधिसत्वस्य स्वप्ने गजपोतं पाण्डरं कुक्षिं प्रविशन्तमद्राक्षीत् ।
[१२४।०३-१२४।०४]
निमित्तमात्रं तत्तिर्यग्योनेश्चिरव्यावृत्तत्वात् ।
[१२४।०४]
तद्यथा कृकी राजा दश स्वप्नानद्राक्षीदिति ।
[१२४।०५-१२४।०६]
“करिकूपसक्तु चन्दनकलभारामास्त था कपेरभिषेकः ।
अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः” ॥
[१२४।०७]
नैव चान्तराभविकः कुक्षिं भित्त्वा प्रविशत्यपि तु मातुर्योनिद्वारेण ।
[१२४।०७-१२४।०८]
अत एव यमलयोर्यः पश्चात्प्रजायते स ज्यायानुच्यते यः पूर्वं स कनीयानिति ।
[१२४।०८]
धर्मसूत्रविभाष्यं कथं नीयते ।
[१२४।०९-१२४।१०]
“वारण त्वमुपगम्य पाण्डरं षड्विषाणरुचिरं चतुष्क्रमम् ।
मातृगर्भशयनं विशेषसंप्रजाननृषिराश्रमं यथेति” ॥
[१२४।११]
नैतदवश्यनेतव्यम् ।
नह्येतत्सूत्रं न विनयः नाभिधर्मः ।
काव्यमेतत् ।
[१२४।११-१२४।१२]
कवीनां च काव्यं समायोजयतां केचित्भावाः समारोपिता गच्छन्ति ।
[१२४।१२]
अथवा नेतव्यमेव ।
[१२४।१२-१२४।१३]
यथाऽस्य माता स्वप्ने तं प्रविशन्तमद्राक्षित्तथा सोऽपि गाथामकार्षीदिति ।
[१२४।१३-१२४।१४]
रूपावचरोऽप्यन्तराभवः संपूर्णप्रमाणः सवस्त्रश्च प्रादुर्भवति ।
[१२४।१४]
अपत्राप्योत्सदत्वात् ।
[१२४।१४-१२४।१५]
बोधिसत्त्वस्य सवस्त्रः शुक्लायाश्च भिक्षुण्याः प्रणिधानवशाध्यावन्तमेव परिवेष्टिता निर्दग्धा ।
[१२४।१५]
अन्यो नग्नः ।
[१२४।१५-१२४।१६]
कामधातोरनपत्राप्योत्सदत्वात् ।
[१२४।१७]
अथ कोऽयं पूर्वकालभवो नाम ।
[१२४।१८]
स पुनर्मरणात्पूर्व उपपत्तिक्षणात्परः ॥ ३.१३ ॥
[१२४।१९]
भवो हि नामाविशेषेण पञ्चोपादानस्कन्धाः ।
स एव चतुर्धा भिद्यते ।
अन्तराभवो यथोक्तः ।
[१२४।२०]
उपपत्तिभबो गतीषु प्रतिसन्धिक्षणः ।
[१२४।२०-१२४।२१]
तस्मात्परेण मरणक्षणं पर्युदस्यान्यः सर्वो भवः पूर्वकालभवः ।
[१२४।२१]
चरमक्षणो मरणभबो यत ऊर्ध्वमन्तराभवो भवति रूपिषु चेत्सत्त्वेषूपपद्यते ।
[१२४।२२]
स चायमन्तराभवः ।
[१२४।२३]
सजातिशुद्धदिव्याक्षिदृश्यः
[१२४।२४]
समानजातीयैरेवान्तराभविकैर्दृश्यते ।
[१२४।२४-१२५।०१]
येषां च दिव्यं चक्षुः सुविशुद्धमभिज्ञामयं त एनं पश्यन्ति ।
[१२५।०१]
उपपत्तिक्षुषा तु न दृश्यते ।
जात्यर्थमच्छत्वात् ।
[१२५।०१-१२५।०२]
देवान्तराभविकः सर्वान् पश्यति ।
[१२५।०२]
मनुष्यप्रेततिर्यग्नारकान्तराभविकाः पूर्व पूर्वमपात्येत्यपरे ।
[१२५।०३]
कर्मर्द्धिवेगवान् ।
[१२५।०४]
ऋद्धिराकाशगमनम् ।
कर्मणा ऋद्धिः कर्मर्द्धिः ।
तस्या वेगः कर्मर्द्धिवेगः शीग्रता ।
[१२५।०५]
सोऽस्यास्तीति कर्मर्द्धिवेगवान् ।
येनासौ न शक्यो बुद्धैरपि प्रतिबन्द्धुम् ।
[१२५।०५-१२५।०६]
कर्मणोऽस्य बलीयस्त्वात् ।
[१२५।०७]
सकलाक्षः
[१२५।०८]
समग्रपञ्चेन्द्रियः ।
[१२५।०९]
अप्रतिघवान्
[१२५।१०]
प्रतिघातः प्रतिघः ।
सोऽस्यास्तीति प्रतिघवान् ।
न प्रतिघवानप्रतिघवान् ।
[१२५।१०-१२५।११]
वज्रादिभिरप्यनिवार्यत्वात् ।
[१२५।११-१२५।१२]
तथा हि प्रदीप्तायःपिण्दभेदे तन्मध्यसंभूतः क्रिमिरूपलब्धः श्रूयते ।
[१२५।१२]
यस्यां च गतौ स उत्पत्स्यमानस्तस्याः सर्वथा ।
[१२५।१३]
अनिवर्त्यः
[१२५।१४]
नहि कदाचिन्मनुष्यान्तराभवोऽन्तर्धाय देवान्तराभवो भवत्यन्यो वा ।
[१२५।१४-१२५।१५]
नियतमनेन यामेव गतिमधिकृत्याभिनिर्वृत्तस्तस्यामेवोपपत्तव्यं नान्यस्यामिति ।
[१२५।१६]
किं पुनरन्तराभवोऽपि कामावचरः कवडीकारमाहारं भुङ्क्ते ।
ओमित्याह ।
न त्वौदारिकम् ।
[१२५।१७]
किं तर्हि ।
[१२५।१८]
स गन्धभुक् ॥ ३.१४ ॥
[१२५।१९]
अत एव गन्धर्व इत्युच्यते ।
धातूनामनेकार्थत्वात् ।
ह्रस्वत्वं शकन्धुकर्कन्धुवत् ।
[१२५।१९-१२५।२०]
अल्पेशाख्यस्तु दुर्गन्धाहरो महेशख्यः सुगन्धाहारः ।
[१२५।२०]
कियन्तं कालमवतिष्ठते ।
नास्ति नियम इति भदन्तः ।
[१२५।२१]
यावदुपपत्तिसामग्रीं न लभते नहि तस्यायुषः पृथगेवाक्षेपः ।
एकनिकायसभागत्वात् ।
[१२५।२१-१२५।२२]
इतरथा हि तस्यायुषः क्षयान्मरणभवः प्रसज्येत ।
[१२५।२२-१२६।०१]
यद्यासुमेरोः स्थलं मांसस्य स्यात्तत्सर्व वर्षासु क्रिमीणां पूर्येत ।
[१२६।०१-१२६।०२]
किमिदानीं तत्प्रतीक्षा एव तेषामन्तराभवा आसन् कुतो या तदा तेभ्यो गता इति वक्तव्यम् ।
[१२६।०२]
नैतदागतं सूत्रे शास्त्रे वा ।
[१२६।०२-१२६।०३]
एवं तु युज्यते ।
[१२६।०३]
गन्धरसाभिगृद्धानामल्पायुषां जन्तूनामन्तो नास्ति ।
[१२६।०३-१२६।०५]
ते तं गन्धं घ्रात्वा गन्धरसाभिगृद्धाः कालं कुर्वन्तः क्रिमिभावसंवर्त्तनीयं कर्म प्रवोध्य तया तृष्णया क्रिमिषूपपद्यन्त इति ।
[१२६।०५-१२६।०७]
अथवा नूनं तत्प्रत्ययप्रचूर एव काले तत्संवर्त्तनीयानि कर्माणि वीपाकाभिनिर्वृत्तौ वृत्तिं लभ्न्ते नान्यत्र ।
[१२६।०७-१२६।०८]
तथाहि चक्रवर्त्तिसंवर्त्तनीयानि कर्मणि अशीतिवर्षसहस्रायुषि प्रजायां वहुतरायुषि वा चक्रवर्त्तिनो जायन्ते नान्यस्याम् ।
[१२६।०८-१२६।०९]
अत एव चोक्तं भगवता “अचिन्त्यः सत्त्वानां कर्मविपाक” इति ।
[१२६।०९]
सप्ताहं तिष्ठतीति भदन्तवसुमित्रः ।
[१२६।०९-१२६।१०]
यदि तावता सामग्रीं न लभते तत्रैव पुनश्च्युत्या जायन्ते ।
[१२६।१०]
सप्त सप्ताहानीत्यपरे ।
[१२६।१०-१२६।११]
अल्पं कालमिति वंभाषिकाः ।
[१२६।११-१२६।१२]
स हि संभवैषित्वात्सम्धावगत्वा सम्धिं बध्नातीति यथात्वसमग्राः प्रत्यया भवन्ति ।
[१२६।१२]
नियतं चानेन तस्मिन् देशे तस्यां जातौ जनितव्यं भवति ।
[१२६।१२-१२६।१३]
तदा कर्माण्येव प्रत्ययानां सामग्रीमावहन्ति ।
[१२६।१३-१२६।१४]
अथानियातं ततोऽन्यत्र देशे तस्यां जातौ जायते सदृश्या मित्यपरे ।
[१२६।१४-१२६।१५]
तद्यथा गवामूष्मसु मैथुनस्य प्राचुर्यं शरदि शुनामृक्षानां हेमन्ते चाक्ष्वानाम् ।
[१२६।१५-१२६।१७]
गवयशृगालखरतरक्षाणां पुनः कालो नास्तीति येनान्यत्र काले गोषूपपत्तव्यं स गवयेषूपपद्यते येन श्वस्स शृगालेषु येनाश्वेसु स गर्दभेषु येन ऋक्षेषु स तरक्षेषूपपद्यते इति ।
[१२६।१७-१२६।१८]
न त्वस्य निकायसभागान्तराभवो नान्यत्र निकायसभागे शक्यमुत्पत्तुमेककामाक्षेपादिति वक्तव्यमेतत् ।
[१२६।१९]
स खल्वेष गतिदेशसंप्राप्त्यर्थं प्रादुर्भूतोऽन्तराभवः
[१२६।२०]
विपर्यस्तमतिर्याति गतिदेशं रिरंसया ।
[१२६।२१]
स हि कर्मप्रभावसंभूतेन चक्षुषा सुदूरस्थोऽपि स्वमुपपत्तिदेशं प्रेक्षते ।
[१२६।२१-१२६।२२]
तत्रास्य मातापित्रोस्तां विप्रतिपत्तिं दृष्ट्वा पुंसः सतः पौंस्नो राग उत्पद्यते मातरि स्त्र्या सत्या स्त्रैणो रागाः उद्पद्यते पितरि ।
[१२६।२२-१२६।२३]
विपर्ययात्प्रतिघः ।
[१२६।२३-१२६।२४]
एवं पठच्यते प्रज्ञप्तौ “गन्धर्वस्य तस्मिन् समये द्वयोश्चित्तयोरन्यतरान्यतरच्चित्तं संमुखीभूतं भवत्यनुनयसहगतं वा प्रतिघसहगतं वेति ।
[१२६।२४-१२६।२५]
स ताभ्यां विपर्यस्तो रन्तुकामतया तं देशमाश्लिष्य तामवस्थामात्मन्यधिमुच्यते ।
[१२६।२५-१२६।२६]
तस्मिंश्चाशुचौ गर्भस्थानसंप्राप्ते जातहर्षोऽभिनिविशते ।
[१२६।२६-१२६।२७]
ततोऽस्य स्कन्धा घनीभवन्त्यन्तराभवस्कन्धाश्चान्तर्धीयन्ते इत्युपपन्नो भवति ।
[१२६।२७-१२६।२८]
स चेत्पुमान् भवति मातुर्दक्षिणकुक्षिमाश्रित्य पृष्ठाभिमुख उत्केटुकः संभवत्यथ स्त्री ततो वामकुक्षिमाश्रित्योदराभिमुखी ।
[१२७।०१]
अथेदानीं नपुंसकं तद्येन रागेणाश्लिष्टं तथा तिष्ठति ।
[१२७।०१-१२७।०२]
न चास्त्यन्तराभवो व्यन्तरः सकलेन्द्रियत्वात् ।
[१२७।०२-१२७।०३]
अथः स्त्रीभूतः पुरुषभूतो वाऽनुप्रविश्य यथास्थानं तिष्ठति पश्चात्गर्भ आप्यायमानो नपुंसकं भवतीति” ।
[१२७।०३]
इदं विचार्यते ।
[१२७।०३-१२७।०५]
किमस्य शुक्रक्शोणितमहाभूतान्येवेन्द्रियाश्रयभावमापद्यन्ते कर्मवशादाहोस्वित्भूतान्तराण्येव कर्मभिर्जायन्ते ।
[१२७।०५]
तान्युपश्रित्येति ।
तान्येवेत्येके ।
[१२७।०५-१२७।०६]
अनिन्द्रियं हि शुक्रशोणितमन्तराभवेन सार्धं निरुध्यते सेन्द्रियं प्रादुर्भवति ।
[१२७।०६-१२७।०७]
वीजाङ्दुरनिरोधोत्पादन्यायेन यत्तत्कालमित्याख्यायते ।
[१२७।०७-१२७।०८]
एवं च कृत्वेदं सूत्रपदं सूत्रे सूनीतं भवति “मातापित्रशुचिकललसंभुतस्ये”ति ।
[१२७।०८-१२७।०९]
तथा “दीर्घरात्रं युष्माभिर्भिक्षिवः कतसिः संवर्द्धिता रुधिरविन्दुरूपात्त” इति ।
[१२७।०९]
भूतान्तराण्येवेत्यपरे ।
तद्यथापर्णक्रिमेः ।
[१२७।०९-१२७।१०]
अशुचिसंनिश्रयोत्पत्त्यभिसंबन्धिवचनात्तु कललस्य सूत्राविरोध इति ।
[१२७।१०-१२७।११]
एवं तावदण्डजां जरायुजां च योर्नि प्रतिपद्यते ।
[१२७।११]
अन्यत्र तु यथायोगं वक्तव्यमित्याहुः ।
[१२७।११-१२७।१२]
तत्र चायं योगो दृश्यते
[१२७।१३]
गन्धस्थानाभिकामोऽन्यः
[१२७।१४-१२७।१५]
संस्वेदजां योनिं प्रतिपद्यमान उपपत्तिस्थानं गत्वाभिलाषात्गच्छत्यमेध्यं मेध्यं वा यथाक्रमम् ।
[१२७।१५]
उपपादुकां तु योनिं प्रपद्यमानः स्थानाभिलाषात् ।
[१२७।१५-१२७।१६]
कथं नरकेषु स्थानाभिलाषः ।
[१२७।१६]
विपर्यस्तबुद्धित्वात् ।
[१२७।१६-१२७।१७]
स हि शीतवातवर्षाभिषेकैरात्मानं बाध्यमानं पश्यति नरकेषु चाग्निं दीप्यमानम् ।
[१२७।१७-१२७।१८]
तत्र उष्णाभिलाषाद्धावति ।
[१२७।१८-१२७।१९]
पुनस्तप्तवातातपाग्निसंतापैरात्मानं बाध्यमानमनुपश्यन् शैत्यं च नरकेषु शीताभिलाषाद्धावति ।
[१२७।१९-१२७।२०]
यदवस्थस्तदुपपत्तिसंवर्त्तनीयं कर्माकार्षीत्तदवस्थात्मानं ताश्च सत्त्वान् पश्यन् धावतीति पूर्वाचार्याः ।
[१२७।२०-१२७।२१]
तत्र पुनर्देवान्तराभव ऊर्ध्वं गच्छत्या सनादिवोत्तिष्ठन्मनुष्यतिर्यक्प्रेतानां मनुष्यादिवत् ।
[१२७।२२]
ऊर्ध्वपादस्तु नारकः ॥ ३.१५ ॥
[१२७।२३-१२७।२४]
“ते वै पतन्ति नरकादूर्ध्वपादा अवाङ्मुखाः ।
ऋषीणामभिवक्तारः संयतानां तपस्विनाम्” इति ॥
[१२७।२५]
गाथाभिधानात् ।
[१२७।२६]
यदुक्तं “विपर्यस्तमतिर्याती”ति ।
[१२७।२६-१२७।२७]
किमवश्यं सर्वोऽन्तराभवस्तथा मातुः कुक्षिमवक्रामति ।
[१२७।२७]
नित्याह ।
किं तर्हि ।
चतस्रो गर्भावक्रान्तयः सूत्र उक्ताः ।
कतमाश्चतस्रः ।
[१२८।०१]
संप्रजानन् विशत्येकः
[१२८।०२]
तिष्ठति निष्क्रामति सा संप्रजानन् ।
[१२८।०३]
तिष्ठत्यप्यपरः ।
[१२८।०४]
संप्रजानन्निति वर्त्तते ।
प्रविशत्यपीत्यपिक्षब्दात् ।
[१२८।०५]
अपरः ।
[१२८।०६]
निष्क्रामत्यपि
[१२८।०७]
संप्राजानन् प्रविशति तिष्ठत्यपि ।
[१२८।०८]
सर्वाणि मूढोऽन्यः
[१२८।०९-१२८।१०]
कश्चित्पुनः सर्वाण्येवासंप्रजानन् करोति प्रविशत्यसंप्रजानन् तिष्ठति निष्क्रामत्यपि ।
[१२८।१०]
एताश्चतस्रो गर्भावक्रान्तयः प्रतिलोमं निर्दिष्टाः ।
[१२८।११]
श्लोकबन्धानुगुण्यतः ।
[१२८।१२]
नित्यमण्डजः ॥ ३.१६ ॥
[१२८।१३]
अण्डजः सत्त्वो नित्यं मूढ एव सर्वाणि करोति ।
कथमण्डाज्जातो गर्भं प्रविशति ।
[१२८।१४]
योऽपि जनिष्यते सोऽप्यण्दजः ।
अथवा भाविन्यापि संज्ञया निर्देशाः क्रियन्ते ।
[१२८।१५]
तद्यथा “संकृतमभिसंस्करोती”ति सूत्रे ओदनं पचतीति सक्तुं पिनष्टीति लोके ।
[१२८।१६]
तस्मान्नैष दोषः ।
[१२८।१७]
कथं पुनरसंप्रजानन्मातुः कुक्षिं प्रविशति यावन्निष्क्रामति कथं वा संप्रजानन् ।
[१२८।१८-१२८।१९]
अल्पेशाख्यस्य तावत्सत्त्वस्य मातुः कुक्षिं प्रविशतः एवं वीपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते ।
[१२८।१९]
वातो वाति देवो वर्षति ।
[१२८।१९-१२८।२१]
शीतं दुर्दिनं महतो वा जनकायस्य कोलाहलं ह्न्त तृणगहनं वा प्रविशामि वनगहनं वा तृणकुटीं वा पर्णकुटीं वा वृक्षमूलं वा सर्पामि कुण्डयमूलं वेति ।
[१२८।२१-१२८।२२]
तिष्ठतोऽप्येषु तिष्ठामिति निष्क्रामतो स्प्येभ्यो निर्यामीति ।
[१२८।२२-१२८।२३]
महेशाख्यस्य तु सत्त्वस्यारामं वा प्रविशाम्युद्यानं वाप्रासादं वाऽभिरोहामि कूटागारं वा पर्यङ्क वेति ।
[१२८।२३]
तथा तिष्ठामि निर्यामीति ।
[१२८।२३-१२८।२४]
एवं तावदसंप्रजानन् प्रविशति यावन्निष्क्रामति ।
[१२८।२४-१२८।२५]
संप्रजानंस्तु सम्यक्प्रजानाति मातुः कुक्षिं प्रविशाम्यत्रैव तिष्ठामि अत एव निर्यामिति ।
[१२८।२५-१२८।२६]
नास्य विपरीतौ संज्ञाधिमोक्षौ प्रवर्त्तेते ।
[१२८।२६]
अत्र पुनरपदिश्यते ।
[१२८।२७]
गर्भावक्रान्तयस्तिस्रश्चक्रवर्त्तिस्वयंभुवाम् ।
[१२८।२८]
चक्रवर्त्तिनश्च स्वयंभुवोश्च प्रत्येकबुद्धसंबुद्धयोश्च ।
यथाक्रममित्यन्ते वक्ष्यति ।
[१२८।२८-१२८।२९]
तत्र प्रथमा चक्रवर्त्तिनः ।
[१२८।२९]
स हि प्रविशत्येव संप्रजानन्न तिष्ठति नापि निष्क्रामति ।
[१२८।३०]
प्रत्येकबुद्धस्तिष्ठत्यपि ।
बुद्धो निष्क्रामत्यपि ।
अत्रापि भाविन्या संज्ञया निर्देशः ।
[१२९।०१]
कर्मज्ञानोभयेषां वा विशदत्वाद्यथाक्रमम् ॥ ३.१७ ॥
[१२९।०२]
विशदकर्मणाम्दारपुण्यक्रियाणां प्रथमा ।
[१२९।०२-१२९।०३]
विशदज्ञानानां बाहुश्रुत्यकृतप्रविचयानां द्वितीया ।
[१२९।०३]
विशद पुण्यकर्मज्ञानानां तृतीया ।
[१२९।०३-१२९।०४]
त एव त्वेते चक्रवर्त्त्यादय एवंभूता युज्यन्ते यथाक्रमम् ।
[१२९।०४]
शेषाणां चतुर्थीति सिद्धं भवति ।
[१२९।०५]
अत्रेदानीं बाह्यका आत्मवादं परिगृह्योत्तिष्ठन्ते ।
[१२९।०५-१२९।०६]
यदि सत्त्वो लोकान्तरं संचरतीति प्रतिज्ञायते सिद्ध आत्मा भवतीति ।
[१२९।०६]
स एष प्रतिषिध्यते
[१२९।०७]
नात्मास्ति
[१२९।०८]
कीदृश आत्मा य इमान्निक्षिपत्यन्याश्च स्क्न्धान् प्रतिसंदधातीति परिकल्प्यते ।
[१२९।०९]
स तदृशो नास्त्यन्तर्व्यापारपुरुषः ।
[१२९।०९-१२९।११]
एवं तूक्तं भगवता “अस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतात् ।
[१२९।११-१२९।१२]
तत्रायं धर्मसंकेतो यदुतास्मिन् सतीदं भवतीति विस्तरेण प्रतीत्यसमुत्पादः “।
[१२९।१२]
कीदृशस्तर्ह्यात्मा न प्रतिषिध्यते ।
[१२९।१३]
स्कन्धमात्रं तु
[१२९।१४]
यदि तु स्कन्धमात्रमेवात्मेति उपचर्यते तस्याप्रतिषेधः ।
[१२९।१४-१२९।१५]
एवं तर्हि स्कन्धा एव लोकान्तरं संचरन्तीति प्राप्तं स्कन्धमात्रं तु नात्र संचरतीति ।
[१२९।१६]
क्लेशकर्माभिसंस्कृतम् ।
[१२९।१७]
अन्तराभवसंतत्या कुक्षिमेति प्रदीपवत् ॥ ३.१८ ॥
[१२९।१८]
क्षणिका हि स्कन्धास्तेषां संचरितुं नास्ति शक्तिः ।
[१२९।१८-१२९।१९]
क्लेशैस्तु परिभावितं कर्मभिश्च क्लेशमात्रमन्तराभासंज्ञिकया संतत्या मातुः कुक्षिमायाति ।
[१२९।१९-१२९।२०]
तद्यथा प्रदीपः क्षणिकोऽपि संतत्या देशान्तरमिति नास्त्येष दोषः ।
[१२९।२०-१२९।२१]
तस्मात्सिद्धमेतदसत्यप्यात्मनि क्लेशकर्माभिसंस्कृटः स्कन्धानां संतानो मातुः कुक्षिमापद्यत इति ।
[१२९।२१]
स पुनः
[१२९।२२]
यथाक्षेपं क्रमाद्वृद्धः सन्तानः क्लेशकर्मभिः ।
[१२९।२३]
परलोकं पुनर्याति
[१२९।२४]
नहि सर्वस्य स्कन्धसन्तानस्याक्षेपस्तुल्यो भवत्यायुप्यस्य कर्मणो भेदात् ।
[१२९।२४-१२९।२५]
अतो यस्य यावानाक्ष्पस्तस्य तावती वृद्धिः क्रमेण भवति ।
[१२९।२५]
केन क्रमेण ।
[१३०।०१-१३०।०२]
“कललं प्रथमं धवति कललाज्जायतेऽर्बुदः ।
अर्बुदाज्जायते पेशी पेशीतो जायते घनः ॥
[१३०।०३-१३०।०४]
घनात्प्रशाखा जायन्ते केशरोमनखादयः ।
इन्द्रियाणि च रूपीणि व्यञ्जनान्यनुपूर्वशः ॥
[१३०।०५]
इत्यार्याः ।
[१३०।०५-१३०।०६]
एताः पञ्च गर्भावस्थाः कललार्बुदपेशीघनप्रशाखावस्थाः ।
[१३०।०६-१३०।०८]
तस्य खलु कालान्तरेण परिपाकप्राप्तस्य गर्भशत्लस्याभ्यन्तरात्मातुः कुक्षौ कर्मविपाकजा वायवो वान्ति ये तं गर्भशल्यं संपरिवर्त्त्य मातुः कायावक्षरद्वाराभिमुखमवस्थापयन्ति ।
[१३०।०८-१३०।०९]
सक्रूरपुरीषपिण्ड इवातिमात्रं स्थानात्प्रच्युतो दुःखं संपरिवर्त्त्यते ।
[१३०।०९-१३०।१५]
यदि पुनः कदाचिन्मातुराहारविहारक्रियापचारेण च पूर्वकर्मापराधेन गर्भ एव व्यापादं प्राप्नोति तत एनं तज्ज्ञास्त्रियः कुमारभृत्यका वा सुखोष्णेन सर्पिस्तैलेन सुपिष्टेन शाल्मलीकल्केनान्येन वा हस्तमभ्यज्य तीक्ष्णं तनुकं चात्र शस्त्रकमुपनिवध्य तस्मिन्वर्चस्कूप इवोग्रदुर्गन्धान्धकारसमलपल्वले सुवहुक्रिमिकुलसहस्रावासे नित्यस्राविणि सततप्रतिक्रिये शुक्रश्रोणितलसिकामलसंक्लिन्नविक्लिन्नक्वथितपिच्छिले परमवीभत्सदर्शने छिद्रतनुचर्मावच्छादिते पूर्वकर्मवीपाकर्जे महति कामनाडीर्वणे हस्तं प्रवेश्या ङ्गमङ्गं निकृत्याध्याहरन्ति ।
[१३०।१६]
स चाप्यपरपर्यायवेदनीयेन कर्मणा पूर्वकेण कामपि गतिं नीयते ।
[१३०।१६-१३०।२०]
अथ पुनः स्वस्ति प्रजायते तत एनं माता पुत्राभिलाषिणी तत्परिका वा स्त्रियः सद्योजातकं तरुणव्र्णायमानात्मानं शस्त्रक्षारा यमाणसंस्पर्शाभ्यां पाणिभ्यां परिगृह्य स्नापयन्ति स्तन्येन सर्पिपा वाप्याययन्ति औदारिकं चाहारमाहर्तुं क्रमेणाभ्यासयन्ति ।
[१३०।२०-१३०।२१]
तस्य वृद्धेरन्वयादिन्द्रियाणां परिपाकान्पुनरपि क्लेशाः समुदाचरन्ति कर्मणि चोपचयं गच्छन्ति ।
[१३०।२१-१३०।२२]
सः तैः कायस्य भेदादन्तराभवसंतत्या पूर्ववत्परलोकं पुनर्याति ।
[१३०।२३]
इत्यनदिभवचक्रकम् ॥ ३.१९ ॥
[१३०।२४-१३०।२५]
एतेन प्रकारेण क्लेशकर्महेतुकं जन्म तद्धेतुकानि पुनः क्लेशकर्माणि तेभ्यः पुनर्जन्मेत्यनादिभवचक्रकं वेदितव्यम् ।
[१३०।२५-१३०।२६]
आदौ हि परिकल्प्यमाने त्स्याहेतुकत्वमेतेषु सज्येत सति चाहेतुकत्वे सर्वमेवेदमहेतुकं प्रादुःस्यात् ।
[१३०।२७-१३०।२८]
दृष्टं चाङ्कुरादीषु वीजादीनां सामर्थ्यं देशकालप्रतिनियमादग्न्यादीनां च पाकजादिष्विति नास्ति निर्हेतुकः प्रादुर्भावः ।
[१३०।२८-१३१।०१]
नित्यकारणास्तित्ववादश्च प्रागेव पर्युदस्तः ।
[१३१।०१]
तस्मान्नास्त्येव संसारस्यादिः ।
अन्तस्तु हेतुक्षयात्युक्तः ।
[१३१।०१-१३१।०२]
हेत्वधीनत्वाज्जन्मनो वीजक्षयादिवङ्कुरस्येति ।
[१३१।०३]
य एष स्कन्धसंतानो जन्मत्रयावस्थ ऊपदिष्टः
[१३१।०४]
स प्रतीत्यसमुत्पादो द्वादशाङ्गस्त्रिकाण्डकः ।
[१३१।०५-१३१।०६]
तत्र द्वादशाङ्गानि अविद्या संस्कारा विज्ञानं नामरूपं षडायतनं स्पर्शो वेदना तृष्णा उपादानं भवो जातिर्जरामरणं च ।
[१३१।०६-१३१।०७]
त्रीणि काण्डानि पूर्वापरान्तमध्यान्यतीतानागतप्रत्युत्पन्नानि जन्मानि ।
[१३१।०७-१३१।०८]
कथमेषु त्रिकाण्डेषु द्वादशाङ्गानि व्यवस्थाप्यन्ते ।
[१३१।०९]
पूर्वापरान्तयोर्द्वे द्वे मध्येऽष्टौ
[१३१।१०]
अविद्या संस्काराश्च पूर्वान्ते जातिर्जरामरणं चापरान्ते ।
[१३१।१०-१३१।११]
शेषाण्यष्टौ मध्ये ।
[१३१।११]
किं पुनरेतान्यष्टाङ्गानि सर्वस्यां जातौ भवन्ति ।
नेत्याह ।
कस्य तर्हि ।
[१३१।१२]
परिपूरिणः ॥ ३.२० ॥
[१३१।१३-१३१।१४]
परीपूरोऽस्यास्तीति परिपूरो य एतानि सर्वाण्येवावस्थान्तराणि स्पृशति सोऽत्र पुद्गलोऽभिप्रेतो न तु योऽन्तराल एव म्रियते ।
[१३१।१४]
नापि रूपारुप्यावचरः ।
[१३१।१४-१३१।१५]
तथा हि महानिदानपर्याये कामावचर एव पुद्गलो निर्दिष्टः ।
[१३१।१५-१३१।१६]
“विज्ञानं चेदानन्द मातुः कुक्षिं नावक्रामेदि”ति वचनात् ।
[१३१।१६-१३१।१८]
यदा तु द्विविधः प्रतीत्यसमुत्पाद उच्यते पौर्वान्तिकश्चापरान्तिकश्चेति तदा सप्ताङ्गानि पौर्वान्तिको यावद्वेदनान्तः पञ्चापरान्तिकः ।
[१३१।१८]
सफलहेतुकयोः पूर्वापरान्तयोर्ग्रहणात् ।
[१३१।१९]
अथ क इमेऽविद्यादयः ।
[१३१।२०]
पूर्वक्लेशा दशाऽविद्या
[१३१।२१]
या पूर्वके जन्मनि क्लेशावस्था सेहाविद्येत्युच्यते ।
[१३१।२१-१३१।२२]
साहचर्यात्तद्वशेन तेषां समुदाचाराच्च ।
[१३१।२२]
राजागमनवचने तदनुयात्रिका गमनसिद्धवत् ।
[१३१।२३]
संस्काराः पूर्वकर्मणः ।
[१३१।२४]
दशेति वर्त्तते ।
[१३१।२४-१३१।२५]
पूर्वजन्मन्येव या पुण्यादिकर्मावस्था सेह संस्कारा इत्युच्यन्ते यस्य कर्मण इह विपाकः ।
[१३१।२६]
संधिस्कन्धास्तु विज्ञानं
[१३१।२७]
मातुः कुक्षी प्रतिसंधिक्षणे पञ्च स्कन्धा विज्ञानम् ।
[१३२।०१]
नामरूपमतः परम् ॥ ३.२१ ॥
[१३२।०२]
प्राक्षडायतनोत्पादात्
[१३२।०३-१३२।०४]
संधिचित्तात्परेण यावत्षडायतनं नोत्पद्यते साऽवस्था नामरूपं तावत्षडायतनमित्युच्यते ।
[१३२।०४-१३२।०५]
प्रक्चतुरायतनोत्पादादिनि वक्तव्ये षडायतनवचनं तदा तद्व्यवस्थापनात् ।
[१३२।०६]
तत्पूर्वं त्रिकसंगमात् ।
[१३२।०७-१३२।०८]
उत्पन्ने षडायतने सावस्था तावत्षडायतनमित्युच्यते यावदिन्द्रियविषयविज्ञानत्रिकसंनिपातः ।
[१३२।०९]
स्पर्शः प्राक्सुखदुःखादिकारणज्ञानशक्तितः ॥ ३.२२ ॥
[१३२।१०]
त्रयाणां संनिपातात्स्पर्शो भवति ।
[१३२।१०-१३२।११]
स यावद्वेदनात्रयकारणपरिच्छेदेन समर्थो भवति साऽवस्था स्पर्श इत्युच्यते ।
[१३२।११]
परिच्छेदसामर्थ्ये सति
[१३२।१२]
वित्तिः प्राक्मैथुनात्
[१३२।१३]
वेदनावस्था यावन्मैथुनरागो न समुदाचरति ।
[१३२।१४]
तृष्णा भोगमैथुनरागिणः ।
[१३२।१५]
कामगुणमैथुनरागसमुदाचारावस्था तृष्णेत्युच्यते यावन्न तद्विषयपर्येष्टिमापद्यते ।
[१३२।१६]
उपादानं तु भोगानां प्राप्तये परिधावतः ॥ ३.२३ ॥
[१३२।१७-१३२।१८]
यस्यामवस्थायां विषयप्राप्तये पर्येष्टिमापन्नः सर्वतो धावत्यसाववस्था उपादानमित्युच्यते ।
[१३२।१८]
तथा च परिधावन्
[१३२।१९]
स भविष्यत्भवफलं कुरुते कर्म तत्भवः ।
[१३२।२०]
स विषयाणां प्राप्तिहेतोः परिधावन् पौनर्भविकं कर्मोपचिनोति सोऽस्य भवः ।
[१३२।२१]
तेन हि कर्मणा पुनरितः प्रच्युतस्यायत्यां प्रतिसंधिर्भवति ।
योऽसौ
[१३२।२२]
प्रतिसंधिः पुनर्जातिः
[१३२।२३]
यदेवेह विज्ञानाङ्गं तदेवास्यान्यत्र जन्मनि जातिः ।
ततूर्ध्वं
[१३२।२४]
जरामरणमा विदः ॥ ३.२४ ॥
[१३२।२५]
जातेः परेण यावदेदनावस्था जरामरणम् ।
[१३२।२५-१३२।२७]
यान्येवेह चत्वार्यङ्गानि नामरूपषडायतनस्पर्शवेदनास्तान्येवान्यत्र जरामरणमित्येतानि द्वादशाङ्गानि ।
[१३२।२७]
स चैष प्रतीत्यसमुत्पादश्चतुर्विध उच्यते ।
[१३३।०१]
क्षणिकः प्रकर्षिकः सांबन्धिकः आवस्थिकश्च ।
कथं क्षणिकः ।
[१३३।०१-१३३।०२]
एकस्मिन् खल्वपि क्षणे द्वादशाङ्गानि भवन्ति ।
[१३३।०२-१३३।०३]
तद्यथा लोभवशेन प्राणिनं जीविताद्व्यपरोपयेत् ।
[१३३।०३]
यो मोहः साऽविद्या ।
या चेतना ते संस्काराः ।
वस्तुप्रतिविज्ञप्तिर्विज्ञानम् ।
[१३३।०४]
विज्ञानसहभुवश्चत्वारः स्कन्धा नामरूपम् ।
[१३३।०४-१३३।०५]
नामरूपे व्यवस्थापितानि इन्द्रियाणि षडायतनम् ।
[१३३।०५]
षड्डायतनाभिनिपातः स्पर्शः ।
स्पर्शानुभवनं वेदना ।
[१३३।०५-१३३।०६]
यो लोभः स तृष्णा ।
[१३३।०६]
तत्संप्रयुक्तानि पर्यवस्थानानि उपादानम् ।
[१३३।०६-१३३।०७]
तत्समुत्थितं कायवाक्कर्म भवः ।
[१३३।०७-१३३।०८]
तेषां धर्माणामुत्सर्जनं जातिः परीपाको जरा भङ्गो मरणमिति ।
[१३३।०८]
पुनराहुः ।
[१३३।०८-१३३।०९]
क्षणिकः सांबन्धिकश्च यथा प्रकरणेषु “प्रतीत्यसमुत्पादः कतमः ।
[१३३।०९]
सर्वे संस्कृता धर्मा” इति ।
[१३३।०९-१३३।१०]
आवस्थिको द्वादश पञ्चस्कन्धिका अवस्था निरन्तरजन्मत्रयसंबद्धाः ।
[१३३।१०]
स एव प्राकर्षिकः ।
एषां कतमोऽयमभिप्रेतो भगवतः ।
[१३३।११]
आवस्थिकः किलेष्टोऽयं
[१३३।१२]
यद्यङ्गमङ्गं पञ्च स्कन्धाः किं कारणमविद्यादीनेव धर्मान् कीर्त्तयति स्म ।
[१३३।१३]
प्राधान्यत्त्वङ्गकीर्तनम् ।
[१३३।१४-१३३।१५]
अविद्याप्रधानामवस्थामविद्यां जगाद संस्कारप्रधानां संस्कारान्यावज्जरामरणमित्यदोषः ।
[१३३।१५-१३३।१६]
किं पुनः कारणं सूत्रे द्वादशाङ्ग उक्तः प्रकरणेष्वन्यथा “प्रतीत्यसमुत्पादः कतमः ।
[१३३।१६]
सर्वे संस्कृता धर्मा” इति ।
[१३३।१६-१३३।१७]
अभिप्रायिकः सूत्रे लाक्षणिकोऽभिधर्मः ।
[१३३।१७-१३३।१८]
तथावस्थिकः क्षणिकः प्राकर्षिकः सांबन्धिकः सत्त्वाख्योऽसत्त्वाख्यश्चेति भेदः ।
[१३३।१८]
किमर्थं पुनः सूत्रे सत्त्वाख्य एव ।
[१३३।१९]
पूर्वापरान्तमध्येषु संमोहविनिवृत्तये ॥ ३.२५ ॥
[१३३।२०]
अत एव च त्रिकाण्डः ।
[१३३।२०-१३३।२१]
तत्र पूर्वान्तसंमोहो यत इयं विचिकित्सा किं न्व हमभूवमतीतेऽध्वनि आहोस्विन्नाभूवं को न्वहमभूवं कथं न्वहमभूवमिति ।
[१३३।२२]
अपरान्तसंमोहो यत इयं विचिचित्सा किं नु भविष्याम्यनागतेऽध्वनीति विस्तरः ।
[१३३।२३]
मध्यसंमोहो यत इयं विचिकित्सा किम्स्विदिदं के सन्तः के भविष्याम इति ।
[१३३।२४-१३३।२६]
एतस्य त्रिविधस्य संमोहस्य व्यावर्त्तनार्थं सत्त्वाख्य एव त्रिकाण्डश्च प्रतीत्यसमुत्पाद उपदिष्टः सूत्रे यथाक्रममविद्या संस्काराश्च जातिर्जरामरणं च विज्ञानं यावत्भवश्च ।
[१३३।२६-१३४।०२]
तथाहि सूत्र एवोक्तं “यतश्च भिक्षवो भिक्षुणा प्रतीत्यसमुत्पादश्च प्रतीत्यसमुत्पन्नाश्च धर्मा एवं यथाभूतं सम्यक्प्रज्ञया दृष्टा भवन्ति ।
[१३४।०२]
स न पूर्वान्तं प्रतिसरति किं न्वहमभूवमतीतेऽध्वनी”ति विस्तरः ।
[१३४।०३]
तृष्णोपादानभवा अप्यपरान्तसंमोहव्यावर्तनार्थमित्यपरे ।
[१३४।०३-१३४।०४]
तस्यैव ह्येते हेतव इति स पुनरेष द्वादशाङ्गः प्रतीत्यसमुत्पादस्त्रिस्वभावो वेदितव्यः ।
[१३४।०५]
क्लेशकर्मवस्तूनि ।
तत्र
[१३४।०६]
क्लेशास्त्रीणि
[१३४।०७]
त्रीण्यङ्गानि क्लेशस्वभावान्यविद्यातृष्णेपादानानि ।
[१३४।०८]
द्वयं कर्म
[१३४।०९]
अङ्गद्वयं कर्मस्वभावं संस्कारा भवश्च ।
[१३४।१०]
सप्त वस्तु
[१३४।११]
सप्ताङ्गानि वस्तुस्वभावानि विज्ञाननामरूपषडायतनस्पर्शवेदनाजातिजरामरणानि ।
[१३४।१२]
क्लेशकर्माश्रयत्वात् ।
यथा च वस्तु सप्ताङ्गानि
[१३४।१३]
फलं तथा ।
[१३४।१४]
सप्तैवाङ्गानि फाभूतानि ।
शेषाणि पञ्च हेतुभूतानि ।
[१३४।१४-१३४।१५]
कर्मक्लेशस्वभावभूतत्वात् ।
[१३४।१५]
किं पुनः कारणं मध्ये फलहेतू विशालितौ ।
[१३४।१५-१३४।१६]
वस्तुनः पञ्चधा भेदात् ।
[१३४।१६]
क्लेशस्य द्विधा ।
अनागतेऽध्वनि फलं संक्षिप्तं द्विधा भेदात् ।
[१३४।१७]
अतीतेऽध्वनि हेतुरेकमुखक्लेशोपदेशादिति ।
[१३४।१८]
फलहेत्वभिसंक्षेपो द्वयोर्मध्यानुमानतः ॥ ३.२६ ॥
[१३४।१९]
मध्येनैव हि पूर्वान्तापरान्तयोरपि हेतुफलविस्तरः शक्योऽनुमानुमिति नोक्तः ।
[१३४।२०]
पुनरपरात्मकं हि यत्नं मा कार्यमिति ।
[१३४।२०-१३४।२२]
यदि खलु द्वादशाङ्ग एव प्रतीत्यसमुत्पाद एवं सत्यविद्याया अनुपदिष्टहेतुकत्वादादिमान् संसारः प्राप्नोति जरामरणस्य चानुपदिष्टफलत्वादन्तवान् ।
[१३४।२२-१३४।२३]
अङ्गान्तरं वा पुनरुपसंख्यातव्यं तस्याप्यन्यस्मादित्य नवस्थाप्रसङ्गः ।
[१३४।२३]
नोपसंख्यातव्यम् ।
यस्मादुपदर्शितोऽत्र भगवता
[१३४।२४-१३४।२५]
क्लेशात्क्लेशः क्रिया चैव ततो वस्तु ततः पुनः ।
वस्तुक्लेशाश्च जायन्ते भवाङ्गनामयं नयः ॥ ३.२७ ॥
[१३४।२६]
क्लेशात्क्लेशो जायते तृष्णाया उपादानम् ।
क्लेशात्कर्म ।
[१३४।२६-१३५।०१]
उपादानात्भवोऽविद्यायाश्च संस्कारा ।
[१३५।०१]
कर्मवस्तुसंस्कारेभ्यो विज्ञानं भवाच्च जातिः ।
[१३५।०१-१३५।०२]
वस्तुनो वस्तुविज्ञानानामरूपं यावत्स्पर्शाद्वेदना जातेश्च जरामरणम् ।
[१३५।०२-१३५।०३]
वस्तुनः क्लेशो वेदनाया स्तृष्णेति ।
[१३५।०३-१३५।०४]
यस्मादेष नयो व्यवस्थितो भवाङ्गानां तस्मादविद्याऽपि क्लेशस्वभावा वस्तुनः क्लेशाद्वेति ज्ञापितं भवति ।
[१३५।०४-१३५।०५]
वेदनावशाच्च जरामरणवस्तुनः पुनः क्लेशो भावीति नात्र पुनः किञ्चिदुपसंख्येयम् ।
[१३५।०५-१३५।०६]
“एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवती”ति वचनात् ।
[१३५।०६]
अन्यथा हि किमस्य सामर्थ्यं स्यात् ।
[१३५।०७]
अयोनिशोमनस्कारहेतुकाऽविद्योक्ता सूत्रान्तरे ।
अविद्याहेतुकश्चायोनिशोमनस्कारः ।
[१३५।०८]
स चेहाप्युपादानान्तर्भूतत्वादुक्तो भवतीति अपरे ।
[१३५।०८-१३५।०९]
कथमयोनिशोमनस्कारस्योपादानेऽन्तर्भावः ।
[१३५।०९]
यदि संप्रयोगतः ।
तृष्णाऽविद्ययोरपि तस्यान्तर्भावप्रसङ्गः ।
[१३५।१०]
सत्यपि चान्तर्भावे कथमत्रेदं ज्ञापितं भवत्ययोनिशोमनस्कारहेतुका अविद्येति ।
[१३५।११-१३५।१२]
यदि तर्ह्यन्तर्भावेनैव हेतुफलभावो विज्ञायते तृष्णाऽविद्ययोरपि तर्हि तत्रान्तर्भावा दङ्गन्तरत्वं शक्यमकर्त्तुम् ।
[१३५।१२]
अन्यः पुनराह ।
[१३५।१२-१३५।१३]
अयोनिशो मनस्कारो हेतुरविद्याया उक्तः सूत्रान्तरे ।
[१३५।१३]
स चापि स्पर्शकाले निर्दिष्टः ।
[१३५।१३-१३५।१४]
“चक्षुः प्रतीत्य रूपाणि चोत्पद्यते आविलो मनस्कारो मोहज” इति ।
[१३५।१४]
वेदनाकाले चावश्यमविद्यया भवितव्यम् ।
[१३५।१५]
“अविद्यासंस्पर्शजं वेदितं प्रतीत्योत्पन्ना तृष्णे”ति सूत्रान्तरात् ।
[१३५।१६-१३५।१७]
अतः स्पर्शकाले भवन्नयोनिशोमनस्कारो वेदनासहवर्त्तिन्या अविद्यायाः प्रत्ययभावेन सिद्ध इति नास्त्यहेतुकत्वमविद्याया न चाङ्गान्तरमुपसंख्येयम् ।
[१३५।१७-१३५।१८]
नचाप्यनवस्थाप्रसङ्गः ।
[१३५।१८-१३५।१९]
तस्याप्ययोनिशोमनस्कारस्य पुनर्मोहजवचनादाविलो मनस्कारो मोहज इति ।
[१३५।१९]
तत्तर्ह्येतदन्त्यत्रोक्तमिह पुनर्वक्तव्यम् ।
न वक्तव्यम् ।
कथमनुच्यमानं गम्यते ।
[१३५।२०]
युक्तितः ।
कया युक्त्या ।
[१३५।२०-१३५।२१]
नहि निरवद्या वेदना तृष्णायाः प्रत्ययीभवत्यर्हतां न चावीपरीतः स्पर्शः क्लिष्टाया वेदनायाः ।
[१३५।२१-१३५।२२]
नच पुनर्निरवद्यस्यार्हतः स्पर्शो विपरीत इत्यनया युक्त्या ।
[१३५।२२]
अतिप्रसङ्ग एवं प्राप्नोति ।
[१३५।२२-१३५।२३]
यौवत्युक्त्या संभवति तावदनुक्तं गम्यत इति ।
[१३५।२३-१३५।२४]
तस्मान्न भवत्ययं परिहारः ।
[१३५।२४]
अचोद्यमेव त्वेतद् ।
[१३५।२४-१३५।२५]
अविद्याजरामरणयोः परेणाङ्गन्तरानभिधानात्संसारस्याद्यन्तवत्त्वप्रसङ्गः ।
[१३५।२५]
नचापरिपूर्णो निर्देश इति ।
किं कारणम् ।
[१३५।२६-१३५।२७]
प्रवृत्तिसंमूडेभ्यो विनेयेभ्यः कथं परलोकादिहलोक इहलोकाच्च पुनः परलोकः संबध्यत इत्येतावतोऽत्रार्थस्य विवक्षितत्वात् ।
[१३५।२७]
एतस्य च पूर्वमेवोत्तत्वात् ।
[१३६।०१]
पूर्वापरान्तमध्येषु संमोह विनिवृत्तये” ।
[१३६।०२-१३६।०३]
उक्तं भगवता “प्रतीत्यसमुत्पादं वो भिक्षवो देशयिष्यामि प्रतीत्यसमुत्पन्नांश्च धर्मानित्यथक एषां विशेषः ।
[१३६।०३]
शास्त्रतस्तावन्न कश्चित् ।
[१३६।०३-१३६।०४]
उभ्यं हि सर्वे संस्कृता धर्मा इति ।
[१३६।०४]
कथमिदानीमनुत्पन्ना एवानागताः प्रतीत्यसमुत्पन्ना इत्युच्यन्ते ।
[१३६।०४-१३६।०५]
कथं तावदकृता एवानागताः संस्कृता उच्यन्ते ।
[१३६।०५]
आभिसम्स्कारिकया चेतनया चेतितत्वात् ।
[१३६।०५-१३६।०६]
अनास्रवाः कथम् ।
[१३६।०६]
तेऽपि चेतिताः कुशलया चेतनया प्राप्तिं प्रति ।
निर्वाणेऽपि प्रसङ्गः ।
[१३६।०७-१३६।०८]
तज्जातीयत्वात्तत्तत्रैवातिदेशो यथा नच तावद्रूप्यते रूपं चोच्यते तज्जातीयत्वादित्यदोषः ।
[१३६।०८]
सूत्राभिप्रायस्त्वयमुच्यते ।
[१३६।०९]
हेतुरत्र समुत्पादः समुत्पन्नं फलं मतम् ।
[१३६।१०-१३६।११]
हेतुभूतमङ्गप्रतीत्यसमुत्पादः समुत्पद्यतेऽस्मादिति दृत्वा फलभूतमङ्ग प्रतीत्यसमुत्पन्नम् ।
[१३६।११]
एवं सर्वाण्यङ्गान्युभययथा सिध्यन्ति ।
हेतुफलभवात् ।
[१३६।११-१३६।१२]
न चैवं सत्यव्यवस्था भवन्त्यपेक्षाभेदात् ।
[१३६।१२-१३६।१३]
यदपक्षय प्रतीत्यसमुत्पादो न तदेवापेक्ष्य प्रतीत्यसमुत्पन्नं हेतुफलवत्पितृपुत्रवच्च ।
[१३६।१३-१३६।१४]
स्थविरपूर्णाशः किलाह स्यात्प्रतीयसमुत्पादो न प्रतीत्यसमुत्पन्ना धर्मा इति ।
[१३६।१४]
चतुष्कोटिकः ।
[१३६।१५]
प्रथमा कोटिरनागता धर्माः ।
द्वितीयाऽर्हतश्चरमाः ।
[१३६।१५-१३६।१६]
तृतीया तदन्येऽतीतप्रत्युपन्ना धर्माः ।
[१३६।१६]
चतुर्थ्य संस्कृता धर्मा इति ।
अत्र तु सौत्रान्तिका विज्ञापयन्ति ।
[१३६।१६-१३६।१७]
किं खल्वेता इष्टय उच्यन्ते या यस्येष्टिराहोस्वित्सूत्रार्थः ।
[१३६।१७]
सूत्रार्थ इत्याह ।
[१३६।१७-१३६।१८]
यदि सूत्रार्थो नैष सूत्रार्थः ।
[१३६।१८]
कथं कृत्वा ।
[१३६।१८-१३६।१९]
यत्तावदुक्तमा “वस्थिक एष प्रतीत्यसमुत्पादो द्वादश पञ्चस्कन्धिका अवस्था द्वादशङ्गानी” त्येतदुत्सूत्रम् ।
[१३६।१९]
सूत्रेऽन्यथा निर्देशाद् ।
[१३६।२०]
“अविद्या कतमा ।
यत्तत्पूर्वान्तेऽज्ञानमि”ति विस्तरेण ।
[१३६।२०-१३६।२१]
यच्च नीतार्थं न तत्पुनर्नेयं भवतीति नैष सूत्रार्थः ।
[१३६।२१]
न वै सर्वं निर्देशतो नीतार्थं भवति ।
[१३६।२१-१३६।२२]
यथाप्रधानं चापि निर्देशाः क्रियन्ते ।
[१३६।२२-१३६।२३]
तद्यथा हस्तिपदोपमे “पृथिवीधातुः कतमः” इत्यधिकृत्याह “केशा रोमाणी”ति ।
[१३६।२३]
सन्ति च तत्रान्येऽपि रूपादयः ।
एवमत्रापि यथाप्रधानं निर्देशः स्यात् ।
[१३६।२४]
औपसंहार एषः ।
नहि तत्र केशादयः पृथिवीधातुना निर्दिश्यन्ते ।
[१३६।२४-१३६।२५]
यत एषामपरिपूर्णो निर्देशः स्यादपि तु केशादिभिरेव पृथिवीधातुः तत्र निर्देश्यते ।
[१३६।२५-१३६।२६]
न च केशादीनभ्यतीत्याप्यस्ति पृथिवीधातुरिति संपूर्ण एवास्य निर्देशः ।
[१३६।२६-१३७।०१]
एवमिहाप्यविद्यादीनां परिपूर्ण एव निर्देशो न सावशेषः ।
[१३७।०१-१३७।०२]
ननु चाभ्यतीत्यापि केशादीनश्रुखेट शिङ्घाणका दिष्वस्ति पृथिवीधातुः ।
[१३७।०२]
सोऽपि निर्दिष्ट एवेति ।
[१३७।०२-१३७।०४]
यद्व “पुनरन्यदप्यस्मिन् काये खकूखटं खरगतमिति वचनात्भवतु वा तथैवाविद्यावशेषो यदि शक्यते दर्शयितुम् ।
[१३७।०४]
जात्यन्तरस्य त्वविद्यायां किङ्कृतः प्रक्षेपः ।
[१३७।०५-१३७।०६]
यद्यपि च तास्ववस्थासु पञ्च स्कन्धा विद्यन्ते यस्य तु भावाभावयोर्यस्य भावाभावनियमः तदेवाङ्गं व्यवस्थापयितुम् ।
[१३७।०६-१३७।०७]
सत्यपि च पञ्चस्कन्धकेऽर्हतः संस्कारा न भवन्ति पञ्चस्कन्धहेतुकाः ।
[१३७।०७]
किं तर्हि
अविद्याहेतुका एव ।
[१३७।०७-१३७।०८]
तथा पुण्यापुण्यानेञ्ज्योपगं च विज्ञानं तृष्णा दयश्चेति ।
[१३७।०८]
यथानिर्देशमेव सूत्रार्थः ।
[१३७।०९]
यदप्युक्तं “हेतुरत्र समुत्पादः समुत्पन्नं फलं यावच्चतुष्कोटिक” इति ।
[१३७।१०]
एतदप्युत्सूत्रम् ।
सूत्रेऽन्यथा निर्देशात् ।
“प्रतीत्यसमुत्पादः कतमः ।
[१३७।१०-१३७।१२]
यदुतास्मिन् सतीदं भवतीति विस्तरेणोक्त्वा इति याऽत्र धर्मता धर्मस्थितिता यावदविपर्यस्तता अयमुच्यते प्रतीत्यसमुत्पाद” इति ।
[१३७।१२]
ध्र्मता च नाम धर्मजातिः धर्माणां शैलिः ।
[१३७।१३]
अतो येयं धर्मता य एष नियमः ।
अविद्यायामेवसत्यां संस्कारा भवन्ति नोन्यथा ।
[१३७।१४]
एष प्रतीत्यसमुत्पादो न हेतुरेव ।
[१३७।१४-१३७।१५]
यदपि चतुष्कोटिकमुक्तं तत्र यद्यनागताः धर्मा न प्रतीत्यसमुत्पन्नाः सूत्रं विरुध्यते ।
[१३७।१५-१३७।१६]
प्रतीत्यसमुत्पन्ना धर्माः कतमे ।
[१३७।१६]
अविद्या यावज्जातिः जरामरणम् ।”
[१३७।१६-१३७।१७]
तयो रनागताध्वव्यवस्थानं नैष्टव्यमिति त्रिकाण्डव्यवस्था भिद्यते ।
[१३७।१७]
असंस्कृतः प्रतीत्यसमुत्पाद इति निकायान्तरीयाः ।
[१३७।१८]
“उत्पादाद्वा तथागतानामनुत्पादाद्वा स्थितैवेयं धर्मते”ति वचनात् ।
[१३७।१८-१३७।१९]
तदेतदभिप्रायवशादेवं च न चैवम् ।
[१३७।१९]
कथं तावदेवं कथं वा नैवम् ।
[१३७।१९-१३७।२१]
यद्ययमभिप्राय उत्पादद्वा तथागतानामनुत्पादाद्वा नित्यमविद्यादीन् प्रतीत्य संस्कारादीनामनुत्पादो न कदाचिदप्रतीत्यान्यद्वा प्रतीत्यातो नित्य इति एवमेतदिति प्रतिग्राह्यम् ।
[१३७।२१-१३७।२२]
अथायमभिप्रायः प्रतीत्यसमुत्पादो नाम किञ्चित्भावान्तरं नित्यमस्तीति ।
[१३७।२२-१३७।२३]
नैतदेवमिति प्रतिषेद्धव्यम् ।
[१३७।२३]
किं कारणम् ।
उत्पादस्य संस्कृतलक्षणत्वात् ।
[१३७।२३-१३७।२४]
न च नित्यं भावान्तरमनित्यस्य लक्षणं युज्यते ।
[१३७।२४-१३७।२५]
उत्पादश्च नामोत्पत्तुर्भवतीति कोऽस्याविद्यादिभिरभिसम्बन्धो यतस्तेषां प्रतीत्यसमुत्पाद इत्युच्येत ।
[१३७।२५-१३७।२६]
पदार्थश्चासमर्थो भवतीति नित्यश नाम प्रतीत्यसमुत्पादश्चेति ।
[१३८।०१]
अथ प्रतीत्यसमुत्पाद इति कः पदार्थः ।
[१३८।०१-१३८।०२]
प्रतिः प्राप्त्यर्थ एति गत्यर्थः ।
[१३८।०२]
उपसर्गवशेन धात्वर्थपरिणामात्प्राप्येति योऽर्थः सोऽर्थः प्रतीत्येति ।
[१३८।०३]
पदिः सत्तार्थं समुत्पूर्वः प्रादुर्भावार्थः ।
[१३८।०३-१३८।०४]
तेन प्रात्ययं प्राप्य समुद्भवः प्रतीत्यसमुत्पादः ।
[१३८।०४]
न युक्त एष पदार्थः ।
किं कारणम् ।
[१३८।०४-१३८।०५]
एकस्य हि कर्त्तुर्द्वयोः क्रिययोः पूर्वकालायां क्रियायां क्त्वाविधिर्भवति ।
[१३८।०५]
तद्यथा स्नात्वा भुङ्क्त इति ।
[१३८।०५-१३८।०६]
नचासौ पूर्वमुत्पादात्कश्चिदस्ति यः पूर्वं प्रतीत्योत्तरकालमुत्पद्यते ।
[१३८।०६-१३८।०७]
नचाप्यकर्तु कास्ति क्रियेति ।
[१३८।०७]
आह चात्र
[१३८।०८-१३८।०९]
“प्रत्येति पूर्वमुत्पादाद्यद्यसत्त्वान्न युज्यते ।
सह चेत्क्त्वा न सिद्धोऽत्र पूर्वकालविधानत” इति ॥
[१३८।१०]
नैष दोषः ।
इदं तावद्यं प्रष्टव्यः शाब्दिकः ।
[१३८।१०-१३८।११]
किमवस्थो धर्मः उत्पद्यते वर्त्तमान उताहोऽनागते इति ।
[१३८।११]
किं चातः ।
यदि वर्त्तमान उत्पद्यते ।
[१३८।११-१३८।१२]
कथं वर्त्तमानो यदि नोत्पन्नः ।
[१३८।१२]
उत्पन्नस्य वा पुनरुत्पत्तावनवस्थाप्रसङ्गः ।
[१३८।१२-१३८।१३]
अथानागत उत्पद्यते कथमसतः कर्तृत्वं सिद्धत्यकर्तृका वा क्रियेति ।
[१३८।१३-१३८।१४]
अतो यदवस्थ उत्पद्यते तदवस्थ एव प्रत्येति ।
[१३८।१४]
किमवस्थश्चोत्पद्यते ।
उत्पादाभिमुखोऽनागतः ।
[१३८।१४-१३८।१५]
तदवस्थ एव प्रत्ययं प्रत्येतीत्युच्यते ।
[१३८।१५-१३८।१६]
अनिष्पन्नं चेदं यदुत शाब्दिकीयं कर्तृक्रियाव्यवस्थानं भवतीत्येष कर्त्ता भूतिरित्येषा क्रिया ।
[१३८।१६-१३८।१७]
न चात्र भवितुरर्थात्भूतिमन्यां क्रियां पश्यामः ।
[१३८।१७]
तस्मादच्छलं व्यवहारेषु ।
एष तु वाक्यार्थः ।
[१३८।१७-१३८।१८]
अस्मिन् सत्यस्य भावः अस्योत्पादादिदमुत्पद्यत इति योऽर्थः सोऽर्थः प्रतीत्यसमुत्पाद इति ।
[१३८।१९]
आह चात्र
[१३८।२०-१३८।२३]
“असन्नुत्पद्यते यद्वत्प्रत्येत्यपि तथाऽथ सन् ।
उत्पन्न उत्पद्यत इत्यनिष्ठाऽसन् पुराऽपि वा ॥
सहकालेऽपि च क्त्वाऽस्ति दीपं प्राप्य तमो गतम् ।
आस्यं व्यादाय शेते च पश्चाच्चेत्किं न संवृते ॥”
[१३८।२४]
अन्ये पुनरस्य चोद्यस्य परिहारार्थमन्यथा परिकल्पयन्ति ।
[१३८।२४-१३८।२५]
प्रतिर्वीप्सार्थः ।
[१३८।२५]
इतौ साधव इत्या अनवस्थायिनः ।
उत्पूर्वः पदिः प्रादुर्भावार्थः ।
[१३८।२६-१३८।२७]
तां तां कारण सामग्रीं प्रति इत्यानां समवायेनोत्पादः प्रतीत्यसमुत्पाद इति ।
[१३८।२७]
एषा तु कल्पनाऽत्रैव कल्प्यते ।
[१३८।२७-१३८।२८]
इह कथं भविष्यति “चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानमिति”ति ।
[१३८।२८-१३९।०१]
किमर्थं पुनर्भगवान् पर्यायद्वयमाह “अस्मिन् सतीदं भवति अस्योत्पादादिदमुत्पद्यते” इति ।
[१३९।०१-१३९।०२]
अवधारणार्थम् ।
[१३९।०२-१३९।०३]
यथाऽन्यत्राह “अविद्यायां सत्यां संस्कारा भवन्ति नान्यत्राविद्यायाः संस्कारा” इति ।
[१३९।०३]
अङ्गपरंपरां वा दर्शयितुम् ।
[१३९।०३-१३९।०४]
अस्मिन्नङ्गे सतीदं भवति अस्य पुनरङ्गस्योत्पादादिदमुत्पद्यत इति ।
[१३९।०४]
जन्मपरंपरां वा ।
[१३९।०४-१३९।०५]
पूर्वान्ते सति मध्यान्तो भवति मध्यान्तस्योत्पादादपरान्त उत्पद्यत इति ।
[१३९।०५-१३९।०६]
साक्षात्पारंपर्येण प्रत्ययभावं दर्शयति ।
[१३९।०६]
कदाचिद्धि समनन्तरमविद्यायाः संस्कारा भवन्ति कदाचित्पारंपर्येणेति ।
[१३९।०७]
अहेतुनित्यहेतुवादप्रतिषेधार्थमित्यपरे ।
[१३९।०७-१३९।०८]
नासति हेतो भावो भवति न चानुत्पत्तिमतो नित्यात्प्रकृतिपुरुषादिकात्किञ्चिदुत्पद्यत इति ।
[१३९।०८-१३९।०९]
अस्यां तु कल्पनायां पूर्वपदस्य ग्रहणमनर्थकं प्राप्नोति ।
[१३९।०९]
अस्योत्पादादिमुत्पद्यत इत्यनेनैवोभयवादप्रतिषेधसिद्धेः ।
[१३९।१०-१३९।११]
सन्ति तर्हि केचिद्य आत्मनि सत्याश्रयभूते संस्कारादीनां भावं परिकल्पयन्ति अविद्यादीनां चोत्पादात्तदुत्पत्तिम् ।
[१३९।११-१३९।१२]
अतस्तां कल्पनां पर्युदासयितुमिदं निर्धारयांवभूव यस्यैवोत्पादाद्यदुत्पद्यते तस्मिन्नेव सति तत्भवति नान्यस्मिन् ।
[१३९।१२-१३९।१३]
यदुता “विद्याप्रत्ययाः संस्काराः यावदेवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति”ति ।
[१३९।१४]
अप्रहीणोत्पत्तिज्ञापनार्थमित्याचार्याः ।
अविद्यायामप्रहीणायां संस्कारा न प्रहीयन्ते ।
[१३९।१५]
तस्या एवोत्पादादुत्पद्यन्त इति विस्तरः ।
[१३९।१५-१३९।१६]
स्थित्युत्पत्तिसंदर्शनार्थमित्यपरे ।
[१३९।१६]
यावत्कारणस्रोतस्तावत्कार्यस्रोतो भवति ।
[१३९।१६-१३९।१७]
कारणस्यैवचोत्पादात्कार्यमुत्पद्यत इति ।
[१३९।१७-१३९।१८]
उत्पादे त्वधिकृते कः प्रसङ्गः स्थितिवचनस्य भिन्नक्रमं च भगवान् किमर्थमाचक्षित प्राक्स्थितिं पश्चादुत्पोआदम् ।
[१३९।१८-१३९।१९]
पुनराह “अस्मिन् सतीदं भवती”ति “कार्ये सति कारणस्य विनाशो भवती”ति ।
[१३९।१९-१३९।२०]
स्यान्मत महेतुकं तर्हि कार्यमुत्पद्यत इत्यत आह नाहेतुकम् ।
[१३९।२०-१३९।२१]
यस्मादस्योत्पादादिदमुत्पद्यत इति ।
[१३९।२१]
एष चेत्सूत्रार्थोऽभविष्यदस्मिन् सतीदं न भवतीत्येवाचक्षत ।
[१३९।२१-१३९।२२]
पूर्वं च तावत्कार्यस्योत्पादाने वाचक्षत पश्चादस्मिन् सतीदं न भवतीति ।
[१३९।२२-१३९।२३]
एवं हि साधुः क्रमो भवति ।
[१३९।२३-१३९।२४]
इतरथा तु प्रतीत्यसमुत्पादः कतम इत्यादेरर्थे कः प्रक्रमो विनाशवचनस्य ।
[१३९।२४]
तस्मान्नैष सूत्रार्थः ।
[१३९।२४-१३९।२५]
कथं पुन “र्विद्याप्रत्ययाः संस्कारा यावत्जातिप्रत्ययं जरामरणामि”ति ।
[१३९।२५]
आभिसंबन्धमात्रं दर्शयिष्यामः ।
[१३९।२५-१४०।०२]
बालो हि प्रतीत्यसमुत्पन्नं संस्कारमात्रमिदमित्यप्रजाननात्मदृष्ट्यस्मिमानाभिनिविष्ट आत्मनः सुखार्थमदुःखार्थं वा कायादिभिस्त्रिविधं कर्मारभते आयति सुखार्थं पुण्यं सुखादुःखासुखार्थमानैज्जमैहिकसुखार्थमपुण्यं तस्याविद्याप्रत्ययाः संस्काराः कर्माक्षेपवशाच्च विज्ञानसंततिस्तां तां गतिं गच्छति ।
[१४०।०२-१४०।०३]
ज्वालागमनयोगेनान्तराभवसंबन्धात् ।
[१४०।०३]
तदन्यसंस्काराप्रत्ययं विज्ञानम् ।
[१४०।०३-१४०।०४]
एवं च कृत्वा तदुपपन्नं भवति विज्ञानाङ्गनिर्देशे “विज्ञानं कतमत् ।
[१४०।०४]
षड्विज्ञानकाया” इति ।
[१४०।०५-१४०।०६]
विज्ञानपूर्वकं पुनस्तस्यां तस्यां गतौ नामरूपं जायते पञ्चस्कन्धकं कृत्स्नजन्मानुगतम् ।
[१४०।०६]
विभङ्गे महानिदानपर्याये चैवं निर्देशात् ।
[१४०।०६-१४०।०७]
“तथा नामरूपपरिपाकात्क्रमेण षडायतनम् ।
[१४०।०७]
ततो विषयसंप्राप्तौ सत्यां विज्ञानसंभव” इति ।
[१४०।०७-१४०।०८]
त्रयाणां संनिपातः स्पर्शः सुखादिवेदनीयः ।
[१४०।०८]
ततस्त्रिविधा वेदना ।
तत्स्तृष्णा ।
[१४०।०८-१४०।०९]
दुःखोत्पीडितस्य सुखायां वेदनायां कामतृष्णा ।
[१४०।०९]
सुखायामदुःखासुखायां च रूपतृष्णा ।
[१४०।०९-१४०।१०]
अदुःखासुखायामारुप्यतृष्णा ।
[१४०।१०]
तत इष्टवेदनातृष्णायाः कामादीनामुत्पादनम् ।
[१४०।१०-१४०।११]
तत्र कामाः पञ्च कामगुणाः ।
[१४०।११]
दृष्टयो द्वाषष्टिर्यथा ब्रह्मजालसूत्रे ।
शीलं दौःशील्यविरतिः ।
[१४०।१२]
व्रतं कुक्कुरगोव्रतादीनि ।
यथा च निर्ग्रन्थादीनां नग्नो घवत्यचेलक इति विस्तरः ।
[१४०।१३-१४०।१४]
ब्राह्मणप
ाशुपतपरिब्राजकादीनां च दण्डाजिनभस्मजटात्रिदण्डमौण्ड्यादिसमादानम् ।
[१४०।१४]
आत्मवादः पुनरात्मभावः ।
[१४०।१४-१४०।१५]
आत्मेति वादोऽस्मिन्नित्यात्मवादः ।
[१४०।१५]
आत्मदृष्ट्यस्मिमानावित्यपरे ।
कथमनयोरात्मवादत्वम् ।
[१४०।१५-१४०।१६]
“आभ्यामात्मे”ति वचनात् ।
[१४०।१६]
आत्मनो ह्यसत्त्वादात्मवादोपादानमित्युच्यते ।
[१४०।१६-१४०।१७]
प्रज्ञप्तिमात्रकस्योपादानात् ।
[१४०।१७-१४०।१८]
यथोक्त “मात्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो नत्वत्रात्मा वा आत्मीयं वा” इति ।
[१४०।१८-१४०।१९]
तेषामुपादानं तेषु यश्छन्दरागः ।
[१४०।१९]
एवं हि भगवता सर्वत्राख्यातम् “उपादानं कतमत् ।
[१४०।१९-१४०।२०]
योऽत्रच्छन्दरागं” इति ।
[१४०।२०]
उपादानप्रत्ययं पुनः पौनर्भविकं कर्मोपचीयते ।
तद्भवः ।
[१४०।२०-१४०।२१]
“यदप्यानन्द कर्मायत्यां पुनर्भावाभिनिवर्तम्कमिदमत्र भवस्ये”ति सूत्रात् ।
[१४०।२१-१४०।२२]
भवप्रत्ययं पुनर्विज्ञानावक्रान्तियोगेन ।
[१४०।२२]
अनागतं जन्म जातिः पञ्चस्कन्धिका ।
[१४०।२२-१४०।२३]
जातौ सत्यां जरामरणं यथा निरिष्टं सूत्रे ।
[१४०।२३]
“एवमस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो घवती”ति ।
[१४०।२४]
केवलस्येत्यात्मीयरहितस्य ।
महतो दुःखस्कन्धस्येत्यनाद्यनन्तस्य दुःखसमूहस्य ।
[१४०।२५]
समुदयो भवतीति प्रदुर्भावः ।
स एव तु वैभाषिकन्यायो यः पूर्वमुक्तः ।
[१४०।२६]
अथाविद्येति कोऽर्थः ।
या न विद्या ।
चक्षुरादिष्वपि प्रसङ्गः ।
[१४०।२६-१४०।२७]
विद्याया अभावस्तर्हि ।
[१४०।२७]
एवं सति न किञ्चित्स्यात् ।
[१४०।२७-१४०।२८]
न चैतत्युक्तम् ।
[१४०।२८]
तस्मात्
[१४१।०१]
विद्याविपक्षो धर्मोऽन्योऽविद्याऽमित्रानृतादिवत् ॥ ३.२८ ॥
[१४१।०२-१४१।०३]
यथा मित्रविपर्ययेण तद्विपक्षभूतः कश्चिदमित्रो भवति न तु यः कश्चिदन्यो मित्रान्नापि मित्राभावः ।
[१४१।०३]
ऋतं चोच्यते सत्यम् ।
[१४१।०३-१४१।०४]
तद्विपक्षभूतं वाक्यमनृतं भवति ।
[१४१।०४]
अधर्मानर्थाकार्यादयश्च धर्मादिप्रतिद्वन्द्वभूताः ।
[१४१।०४-१४१।०५]
एवमविद्याऽपि विद्यायाः प्रतिद्वन्द्वभूतधर्मान्तरमिति द्रष्टव्यम् ।
[१४१।०५]
कुत एतत् ।
प्रत्ययभावेनोपदेशात् ।
अपि च
[१४१।०६]
संयोजनादिवचनात्
[१४१।०७]
संयोजनं बन्धनमनुशय ओघो योगश्चाविद्योच्यते सूत्रेषु ।
[१४१।०७-१४१।०८]
न चाभावमात्रं तथा भवितुमर्हति ।
[१४१।०८]
न चापि चक्षुरादयः ।
तस्माद्धर्मान्तरमेवाविद्या ।
[१४१।०८-१४१।०९]
यथा तर्हि कुभार्या अभार्येत्युच्यते कुपुत्रश्चापुत्रः ।
[१४१।०९]
एवमविद्याऽप्यस्तु ।
[१४१।१०]
कुप्रज्ञा चेन्न दर्शनात् ।
[१४१।११]
कुत्सिता हि प्रज्ञ क्लिष्टा ।
सा च दृष्टिस्वभावा इति नाविद्या युज्यते ।
[१४१।११-१४१।१२]
या तर्हि न दृष्टिः सा भविष्यति ।
[१४१।१२]
साऽपि भवितुं नार्हति ।
किं कारणम् ।
[१४१।१३]
दृष्टेस्तत्संप्रयुक्तत्वात्
[१४१।१४]
अविद्या चेत्प्रज्ञाऽभविष्यन्न दृष्टिस्तया युज्यते संप्रायोक्ष्यत ।
[१४१।१४-१४१।१५]
द्वयोः प्रज्ञाद्रव्ययोरसंप्रयोगात् ।
[१४१।१५]
इतश्च
[१४१।१६]
प्रज्ञोपक्लेशदेशनात् ॥ ३.२९ ॥
[१४१।१७]
“रागोपक्लिष्टं चित्तं नावमुच्यते अविद्योपक्लिष्टा प्रज्ञा न विशुध्यती”त्युक्तं सूत्रे ।
[१४१।१८]
न च सैव प्रज्ञा तस्याः प्रज्ञाया उपक्लेशो युक्त इति ।
[१४१।१८-१४१।१९]
यथा चित्तस्यान्यो भिन्नजातीय उपक्लेशो राग एवं प्रज्ञाया अविद्या ।
[१४१।१९]
किं पुनरेवं नेष्यते ।
[१४१।२०]
क्लिष्टया प्रज्ञया कुशला प्रज्ञा व्यव्कीर्यमाणा न विशुध्यति ।
[१४१।२०-१४१।२१]
अतोऽसौ तस्या उपक्लेश इति ।
[१४१।२१]
यद्वापि रागोपक्लिष्टं चित्तं न विमुच्यते ।
[१४१।२१-१४१।२२]
किं तदवश्यं रागपर्यवस्थितं भवति ।
[१४१।२२]
उअपहतं तु तत्तथा रागेण भवति यन्न विमुच्यते ।
[१४१।२२-१४१।२३]
तां पुन्र्भावनां व्यावर्तयतो विमुच्यते ।
[१४१।२३-१४१।२४]
एवमविद्योपक्लिष्टा प्रज्ञा न विशुध्यतीत्यविद्योपहतां परिक्ल्पयामः ।
[१४१।२४]
को हि परिकल्पयन् वार्यते ।
जात्यन्तरमेव त्वविद्यां वर्णयन्ति ।
[१४१।२५]
योऽपि मन्यते “सर्वक्लेशा अविद्ये”ति तस्याप्यत एव व्युदासः ।
[१४१।२५-१४२।०१]
सर्वक्लेशस्वभावाऽपि सती संयोजनादिषु पृथग्नोच्येत दृष्ट्या च न संप्रयुज्येत ।
[१४२।०१-१४२।०२]
अन्येन वा क्लेशेन दृष्ट्यादीनां परंपरासंप्रयोगात्चित्तमपि चाविद्योपक्लेष्टमेवोक्तं भवेत् ।
[१४२।०२-१४२।०३]
अथ मतं विशेषणार्थं तथोक्तमिति ।
[१४२।०३]
प्रज्ञायामप्यविद्याविशेषणं कर्त्तव्यं भवेत् ।
[१४२।०३-१४२।०४]
भवत्वविद्या धर्मान्तरं कस्तु तस्याः स्वभावः ।
[१४२।०४]
सत्यवन्न कर्मफलानामसंप्रख्यानम् ।
[१४२।०४-१४२।०५]
एतच्चैव न ज्ञायते किमिदमसंप्रख्यानं नामेति ।
[१४२।०५-१४२।०६]
यदि यन्न संप्रख्यानं संप्रख्यानाभावेऽपि तथैव दोषो यथा अविद्यायाम् ।
[१४२।०६-१४२।०७]
अथ संप्रख्यानविपक्षभूतं धर्मान्तरम् ।
[१४२।०७]
तदिदं तथैव न ज्ञायते किं तदिति ।
[१४२।०७-१४२।०८]
एवञ्जातीयकोऽपि धर्माणां निर्देशो भवति ।
[१४२।०८]
तद्यथा “चक्षुः कतमत् ।
यो रूपप्रसादश्चक्षुर्विज्ञानस्याश्रय” इति ।
[१४२।०९]
अस्मीति सत्त्वमयताऽविद्येते भदन्तधर्मत्रातः ।
का पुनरस्मिमानादन्या मयता ।
[१४२।१०-१४२।१२]
याऽसौ सूत्र उक्ता “सोऽहमेवं ज्ञात्वा एवं दृष्ट्वा सर्वासां तृष्णानां सर्वासां दृष्टीनां सर्वासां मयतानां सर्वेषामहङ्कारममकारास्मिमानाभिनिवेशानुशयानां प्रहाणात्परिज्ञानान्निश्छायो निवृत” इति ।
[१४२।१२]
अस्त्येषा मयता ।
सा त्वियमविद्येति कुत एतत् ।
[१४२।१३]
यत एषा नान्यः क्लेशः शक्यते वक्तुम् ।
ननु चान्यो मान एव स्यात् ।
[१४२।१३-१४२।१४]
अत्र पुनर्विचार्यमाणे बहु वक्तव्यं जायते ।
[१४२।१४]
तस्मात्तिष्ठत्वेतत् ।
[१४२।१५]
अथ नामरूपमिति कोऽर्थः ।
रूपं विस्तरेण यथोक्तम् ।
[१४२।१६]
नाम त्वरूपिणः स्कन्धाः
[१४२।१७]
किं कारणम् ।
नामेन्द्रियार्थवशेनार्थेषु नमतीति नाम ।
कतमस्य नाम्नो वशेन ।
[१४२।१८]
यदिदं लोके प्रतीतं तेषां तेषामर्थानां प्रत्यायकं गौरश्वो रूपं रस इत्येवमादि ।
[१४२।१९]
एतस्य पुनः केन नामत्वम् ।
तेषु तेष्वर्थेषु तस्य नाम्नो नमनात् ।
[१४२।१९-१४२।२०]
इह निक्षिप्ते काय उपपत्त्यन्तरे नमनान्नामरुपिणः स्कन्धा इत्यपरे ॥
[१४२।२१]
षडायतनमुक्तम् ।
[१४२।२२]
स्पर्शो वक्तव्यः ।
[१४२।२३]
ष्पर्शाः षट्
[१४२।२४]
चक्षुःसंस्पर्शो यावन्मनःसंस्पर्श इति ।
ते पुनः
[१४३।०१]
संनिपातजाः ।
[१४३।०२]
त्रयाणां संनिपाताज्जाता इन्द्रियार्थविज्ञानानाम् ।
[१४३।०२-१४३।०३]
युक्तं तावत्पञ्चानामिन्द्रियाणामर्थविज्ञानाभ्यां संनिपातः ।
[१४३।०३]
सहजत्वात् ।
[१४३।०३-१४३।०४]
मनैन्द्रियस्य पुनर्निरुद्धस्यानागतवर्त्तमानाभ्यां धर्ममनोविज्ञानाभ्यां कथं संनिपातः ।
[१४३।०४-१४३।०५]
अयमेव तेषां संनिपातो यः कार्यकारणभावः ।
[१४३।०५]
एककार्यार्थो वा संनिपातार्थः ।
[१४३।०५-१४३।०६]
सर्वे च ते त्रयोऽपि स्पर्शोत्पत्तौ प्रगुणा भवन्तीति ।
[१४३।०६]
अत्र पुनराचार्याणां भेदं गता बुद्धयः ।
[१४३।०६-१४३।०८]
केचिद्धि सकृन्निपातमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति “इति य एषां त्रयाणां धर्माणां संगतिः संनिपातः समवायः स स्पर्शः” इति ।
[१४३।०८-१४३।०९]
केचित्पुनश्चित्तसंप्रयुक्तं धर्मान्तरमेव स्पर्श व्याचक्षते सूत्रं चात्र ज्ञापकमानयन्ति “षट्षट्को धर्मपर्यायः कतमः ।
[१४३।१०]
षडाध्यात्मिकान्यायतनानि ।
षट्बाह्यान्यायतनानि ।
षट्विज्ञानकायाः ।
[१४३।१०-१४३।११]
षट्स्पर्शकायाः ।
[१४३।११]
षट्वेदनाकायाः ।
षट्तृष्णाकाया” इति ।
[१४३।११-१४३।१२]
अत्र हीन्द्रियार्थविज्ञानेभ्यः स्पर्शकायाः पृथग्देशिताः ।
[१४३।१२-१४३।१३]
तत्र ये संनिपातमेव स्पर्शमाहुस्त एवं क्परिहारमाहुः ।
[१४३।१३]
न वै पृथिग्निर्देशात्पृथग्भावो भवति ।
[१४३।१३-१४३।१४]
मा भूद्धर्मायतनाद्वेदनातृष्णयोः पृथग्भाव इति ।
[१४३।१४-१४३।१५]
नैष दोषस्तद्व्यतिरिक्तस्यापि धर्मायतनस्य भावात् ॥
[१४३।१५-१४३।१६]
न चैवं स्पर्शभूतात्त्रयादन्यत्त्रयमस्ति यस्य शेषस्यात्र ग्रहणं स्यात् ।
[१४३।१६-१४३।१७]
यद्यपि हीन्द्रियार्थौ स्यातामविज्ञानकौ न तु पुन्र्विज्ञानमनिन्द्रियार्थकम् ।
[१४३।१७]
तस्मात्त्रिषु निर्दिष्टेषु पुनः स्पर्शस्य ग्रहणमनर्थकं प्राप्नोति ।
[१४३।१८-१४३।१९]
न खलु सर्वे चक्षुरूपे सर्वस्य चक्षुर्विज्ञानस्य कारणं नापि सर्वं चक्षुर्विज्ञानं सर्वयोश्चक्षुरूपयोः कार्यम् ।
[१४३।१९-१४३।२०]
अतो येषां कार्यकारणाभावस्ते स्पर्शभावे व्यवस्थापिता इत्येके ।
[१४३।२०-१४३।२१]
ये पुनः संनिपातादन्यं स्पर्शमाहुस्त एतत्सूत्र कथं परिहरन्ति “इति य एषां त्रयाणां संगतिः संनिपातः समवायः स स्पर्श” इति ।
[१४३।२१]
न वा एवं पठन्ति ।
[१४३।२१-१४३।२२]
किं तर्हि ।
[१४३।२२-१४३।२३]
संगतेः संनिपातात्समवायादिति पठन्ति कारणे व कार्योपचारोऽयमिति ब्रुवन्ति ।
[१४३।२३]
अतिवहुविस्तरप्रसारिणी त्वेषा कथेत्यलं प्रसङ्गेन ।
[१४३।२३-१४३।२४]
अन्यमेव स्पर्शं वर्णयन्त्याभिधार्मिकाः ।
[१४३।२४]
तेषां प्न्नां षण्णां स्पर्शानां
[१४३।२५]
पञ्चप्रतिघसंस्पर्शः षष्ठोऽधिवचनाह्वय ॥ ३.३० ॥
[१४३।२६]
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शाः पञ्च प्रतिघ संस्पर्श इत्युच्यते ।
[१४३।२६-१४४।०१]
सप्रतिघेन्द्रियाश्रयत्वात् ।
[१४४।०१]
मनः संस्पर्शः षष्ठः सोऽधिवचनस्पर्श इत्युच्यते ।
[१४४।०१-१४४।०२]
किं कारणमधिवचनमुच्यते नाम ।
[१४४।०२]
तत्किलास्याधिकमालम्बनमतोऽधिवचनसंस्पर्श इति ।
[१४४।०२-१४४।०४]
यथोक्तं “चक्षुर्विज्ञानेन नीलं विजानाति नो तु नीलं मनोविज्ञानेन नीलं विजानाति नीलमिति च विजानाती”ति ।
[१४४।०४]
एक आश्रयिअप्रभाइतो द्वितीय आलम्बनप्रभावितः ।
[१४४।०५]
अपरे पुनराहुः ।
वचनमधिकृत्यार्थेषु मनोविज्ञानस्य प्रवृत्ति र्न पञ्चानाम् ।
[१४४।०६]
अतस्तदेवाधिवचनम् ।
[१४४।०६-१४४।०७]
तेन संप्रयुक्तः स्पर्शोऽधिवचनसंस्पर्श इत्येक आश्रयप्रभावितो द्वितीयः संप्रयोगप्रभावितः ।
[१४४।०७]
पुनस्त एव षट्स्पर्शास्त्रयो भवन्ति ।
[१४४।०८]
विद्याविद्येतरस्पर्शाः
[१४४।०९]
विद्यासंस्पर्शोऽविद्यासंस्पर्शः ।
ताभ्यां चान्यो नैवविद्यानाविद्यासंस्पर्श इति ।
[१४४।०९-१४४।१०]
एते पुनर्यथाक्रमं वेदितव्याः ।
[१४४।११]
अमलक्लिष्टशेषिताः ।
[१४४।१२-१४४।१३]
अनास्रवः स्पर्शो विद्यासंस्पर्शः क्लिष्टोऽविद्यासंस्पर्शो विद्याऽविद्याभ्यां संप्रयुक्तत्वात् ।
[१४४।१३]
शेषो नैवविद्यानाविद्यासंस्पर्श उभाभ्यामसंप्रयोगात् ।
कः पुन शेषः ।
[१४४।१४]
कुशलसास्रवोऽनिवृताव्याकृतश्च ।
[१४४।१४-१४४।१५]
पुनरविद्यासंस्पर्शस्याभीक्ष्णसमुदाचारिण एकदेशस्य ग्रहणात्द्वौ सोपर्शौ भवतः ।
[१४४।१६]
व्यापादानुनयस्पर्शौ
[१४४।१७]
व्यापादानुनयाभ्यां संप्रयोगात् ।
पुनः सर्वसंग्रहेण
[१४४।१८]
सुखवेद्यादयस्त्रयः ॥ ३.३१ ॥
[१४४।१९]
सुखवेदनीयः स्पर्शो दुःखवेदनीयोऽदुःखासुखवेदनीयश्च ।
सुखवेदनादिहितत्वात् ।
[१४४।२०]
अथवा वेद्यते तद्वेदयितुं वा शक्यमिति वेदनीयम् ।
किं तत् ।
वेदितम् ।
[१४४।२०-१४४।२१]
सुखं वेदनीयमस्मिन्निति सुखवेदनीयः स्पर्शो यत्र सुखं वेदितमस्ति
[१४४।२१-१४४।२२]
एवं दुःखादुःखासुखवेदनीयावपि योज्यौ ।
[१४४।२२]
त एते षोडश स्पर्शा भवन्ति ।
उक्तः स्पर्शः ॥
[१४४।२३]
वेदना वक्तव्या ।
तत्र यः पूर्वं षड्विधः स्पर्श उक्तः
[१४४।२४]
तज्जाः षड्वेदनाः
[१४४।२५]
चक्षुःसंस्पर्शजा वेदना श्रोत्रघ्राणजिह्वाकायमनःसंस्पर्शजा वेदनाः ।
तासां पुनः
[१४५।०१]
पञ्च कायिकी चैतसी परा ।
[१४५।०२]
चक्षुःश्रोत्रघ्राणजिह्वाकायसंस्पर्शजाः पञ्च्चवेदनाः कायिकी वेदनेत्युच्यते ।
[१४५।०२-१४५।०३]
रूपीन्द्रियाश्रितत्वात् ।
[१४५।०३]
मनःसंस्पर्शजा पुनर्वेदना चैतसिकीत्युच्यते ।
चित्तमात्राश्रितत्वात् ।
[१४५।०३-१४५।०४]
अथ किं स्पर्शादुत्तरकालं वेदना भवत्याहोस्वित्समानकालम् ।
[१४५।०४-१४५।०५]
समानकालमिति वैभाषिकाः ।
[१४५।०५]
अन्योन्यं सहभूहेतुत्वात् ।
[१४५।०५-१४५।०६]
कथं सहोत्पन्नयोर्जन्यजनकभावः सिध्यति ।
[१४५।०६]
कथं च न सिध्यति ।
असामर्थ्यात् ।
[१४५।०६-१४५।०७]
जाते धर्मे धर्मस्यनास्ति सामर्थयं प्रतिज्ञाऽविशिष्टम् ।
[१४५।०७-१४५।०८]
यदेव हीदं सहोत्पन्नयोर्जन्यजनकभावो नास्तीति तदेवेदं जाते धर्मे धर्मस्य नास्तीति ।
[१४५।०८]
अन्योन्यजनकप्रसङ्गत्तर्हि ।
इष्टत्वाददोषः ।
[१४५।०९]
इष्टमेव हि सहभूहेतोरन्योन्यफलत्वम् ।
[१४५।०९-१४५।१०]
इष्टमिदं सूत्रे त्वनिष्टं स्पर्शवेदनयोरन्योन्यफलत्वम् ।
[१४५।१०-१४५।११]
“चक्षुःसंस्पर्श प्रतीत्य उत्पद्यते चक्षुःसंस्पर्शजा वेदना न तु चक्षुःपंस्पर्शजां वेदनां प्रतीत्योत्पद्यते चक्षुःसंस्पर्श” इति वचनात् ।
[१४५।११-१४५।१२]
जनकधर्मातिक्रमाव्चायुक्तम् ।
[१४५।१२-१४५।१३]
यो हि धर्मो यस्य धर्मस्य जनकः प्रसिद्धः स तस्मात्भिन्नकालः प्रसिद्धः ।
[१४५।१३-१५३।१४]
तद्यथा पूर्वं वीजं पश्चादङ्कुरः पूर्वं क्षीरं पश्चाद्दधि पूर्वमभिघातः पश्चाच्छन्दः पूर्वं मनः पश्चात्मनोविज्ञानमित्येवमादि ।
[१४५।१४-१४५।१५]
अन्यथा परंपरापेक्षत्वात्कार्यकारणयोः सर्वं वा युगपदुत्पद्यते न वा कदाचित्पश्चाद्विशेषाभावात् ।
[१४५।१५-१४५।१६]
नहि न सिद्धः कार्यकारणयोः पूर्वापराभावः ।
[१४५।१६]
सहभावोऽपि तु सिद्धः ।
[१४५।१६-१४५।१८]
तद्यथा चक्षुर्वज्ञानादीनां चक्षुरूपादिभिर्भूतभौतिकानां च तत्रापि पूर्वमिन्द्रियार्थौ पश्चाद्विज्ञानम् ।
[१४५।१८-१४५।१९]
पूर्वकाच्च भूतभौतिकसमुदायादुत्तर उत्पद्यत इतीष्यमाणे कः प्रतिषेधः ॥
[१४५।१९]
यथा तर्हि च्छायाङ्कुरयोरेवं स्पर्शवेदनयो रिति वैभाषिकाः ।
[१४५।२०]
स्पर्शादुत्तरकालं वेदनेत्यपरे ।
इन्द्रियार्थौ हि पूर्वान्तो विज्ञानम् ।
[१४५।२०-१४५।२१]
सोऽसौ त्रयाणां संनिपातः स्पर्शः स्पर्शप्रत्ययात्पश्चाद्वेदना तृतीयक्षण इति ।
[१४५।२१-१४५।२२]
एवं तर्हि न सर्वन्त्रवज्ञाने वेदना प्राप्नोति न च सर्वं विज्ञानं स्पर्शः ।
[१४५।२२]
नैष दोषः ।
[१४५।२२-१४५।२३]
पूर्वस्पर्शहेतुका ह्युत्तरत्र स्पर्शे वेदना सर्वे च स्पर्शाः सर्ववेदनकाः सर्वं च विज्ञानं स्पर्श इति ।
[१४५।२४]
इदमयुक्तं वर्त्तते ।
किमत्रायुक्तम् ।
[१४५।२४-१४५।२५]
यदुत भिन्नालम्बनयोरपि स्पर्शयोः पूर्वस्पर्शैतुकोत्तरस्य वेदनेति ।
[१४५।२५-१४५।२६]
कथं नामान्यजातीयालम्बनस्पर्शसंभूता वेदनाऽन्यालम्बना भविष्यति येन वा चित्तेन संप्रयुक्ता ततो भिन्नालम्बनेति ।
[१४५।२६-१४६।०१]
अस्तु तर्हि तस्मिन्काले स्पर्शभूतं विज्ञानमवेदनकम् ।
[१४६।०१-१४६।०२]
तस्माच्च यत्पूर्वं विज्ञानं सवेदनकं तन्न स्पर्शः ।
[१४६।०२]
प्रत्ययवैधुर्यादित्येवं सति को दोषः ।
महाभूमिकनियमो भिद्यते ।
[१४६।०३]
“सर्वत्र चित्ते दशमहाभूमिका” इति ।
क्व चैष नियमः सिद्धः ।
शास्त्रे ।
[१४६।०३-१४६।०४]
सूत्रप्रमाणका वयं न शास्त्रप्रमाणकाः ।
[१४६।०४-१४६।०५]
उक्तं हि भगवता “सूत्रान्तप्रतिशरणैर्भवितव्यमि” ति ।
[१४६।०५-१४६।०६]
न वा एष महाभूमिकार्थः सर्वत्र चित्ते दश महाभूमिकाः संभवन्तीति ।
[१४६।०६]
कस्तर्हि महाभूमिकार्थः ।
तिस्रो भूमयः ।
[१४६।०६-१४६।०७]
सवितर्का सविचारा भुमिः अवितर्का विचारमात्रा अवितर्का विचारा भूमिः
पुनश्तिस्र कुसला भूमिः अकुशलाऽव्याकृता भुमिः ।
[१४६।०७-१४६।०८]
पुनस्तिस्रः ।
[१४६।०८]
शैक्षी भूमिरशैक्षी नैवशैक्षी भुमिः ।
[१४६।०८-१४६।०९]
तद्य एतस्यां सर्वस्यां भूमौ भवन्ति ते महाभूमिकाः ।
[१४६।०९-१४६।१०]
ये कुक्शलायामेव ते कुक्शलमहाभूमिकाः ।
[१४६।१०]
ये क्लिष्टायामेव ते क्लेशमहाभूमिकाः ।
[१४६।१०-१४६।११]
ते पुनर्यथासंभवं पर्यायेणनतु सर्वे युगपदित्यपरे ।
[१४६।११]
अकुशलमहाभूमिकास्तु पाठप्रसङ्गे नासञ्जिताः ।
[१४६।११-१४६।१२]
इदानीं पूर्वं न पठ्यन्ते स्म ।
[१४६।१२-१४६।१४]
यदि तर्हि स्पर्शादुत्तरकालल्ं वेदना सूत्रं परिहार्यं “चक्षुः प्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः सहजाता वेदना संज्ञा चेतने”ति ।
[१४६।१४-१४६।१५]
सहजाता इत्युच्यते न स्पर्शसहजाता इति किमत्र परिहार्यम् ।
[१४६।१५-१४६।१६]
समनन्तरेऽपि चायं सहशब्दो दृष्टस्तद्यथा “मैत्रीसहगतं स्मृतिसंवोध्यङ्गं भावयती” त्यज्ञापकमेतत् ।
[१४६।१६-१४६।१८]
यत्तर्हि सूत्र उक्तं “या च वेदना या च संज्ञा या च चेतना यच्च विज्ञानं संसृष्टा इमे धर्मा नासंसृष्टा” इत्यतो नास्ति वेदनाभिरसंसृष्टं विज्ञानम् ।
[१४६।१८]
संप्रधार्यं तावदेतत्क एष सम्सृष्टार्थः ।
[१४६।१८-१४६।२०]
तत्र हि सूत्र एवमुक्तं “यद्वेदयते तच्चेतयते यच्चेतयते तस्त्संप्रजानीते यत्संप्रजानीते तद्विजानाती”ति ।
[१४६।२०-१४६।२१]
तन्न विज्ञायते किं तावदयमेषामालम्बननियम उक्त उताहो क्षणनियम इति ।
[१४६।२१]
आयुरुष्मणोः साहभाव्ये संसृष्टवचनात्सिद्धः क्षणनियमः ।
[१४६।२२]
यच्चापि सूत्र उक्तं “त्रयाणां संनिपातः स्पर्शः” इति ।
[१४६।२२-१४६।२३]
तत्कथं विज्ञानं चास्ति न च त्रयाणां संनिपातो न च स्पर्श इति ।
[१४६।२३-१४६।२४]
तस्मादवश्यं सर्वत्र विज्ञाने स्पर्शः स्पर्शसहजा च वेदनैष्टव्या ।
[१४६।२४]
अलमतिप्रसङ्गिया कथया ।
प्रकृतमेवानुक्रम्यताम् ॥
[१४६।२५]
उक्ता समासेन चैतसिकी वेदना ॥
[१४६।२६]
पुनश्चाष्टादशविधा सा मनोपविचारतः ॥ ३.३२ ॥
[१४६।२७]
सैव चैतसिकी वेदना पुनराष्टदश मनोपविचारव्यवस्थानादष्टादधा भिद्यते ।
[१४६।२७-१४६।२८]
पुनः संधिकरणं चात्र द्रष्टव्यम् ।
[१४६।२८]
अष्टादशमनो पविचाराः कतमे ।
[१४६।२८-१४७।०१]
षट्सौमनस्योपचिराः षट्दौर्मनस्योपविचाराः षडुपेक्षोपविचाराः ।
[१४७।०१]
कथमेषां व्यवस्थानम् ।
यदि स्वभावतः ।
[१४७।०२]
त्रयो भविष्यन्ति ।
सौमनस्यदौर्मनस्योपेक्षाविचाराः ।
[१४७।०२-१४७।०३]
अथ संप्रयोगतः ।
[१४७।०३]
एको भविष्यति ।
सर्वेषां मनः संप्रयुक्तत्वात् ।
अथालम्बनतः ।
[१४७।०३-१४७।०४]
षट्भविष्यन्ति ।
[१४७।०४]
रूपादिषड्विषयालम्बनत्वत् ।
त्रिभिरपि स्थापना ।
[१४७।०४-१४७।०५]
तेषां पञ्चदश रूपाद्युपविचारा असंभिन्नालम्बनाः प्रतिनियतरूपाद्यालम्बनत्वात् ।
[१४७।०५-१४७।०६]
त्रयो धर्मोपविचारा उभयथा ।
[१४७।०६]
मनोपविचारा इति कोऽर्थः ।
[१४७।०६-१४७।०७]
मनः किल प्रतीत्यैते सौमनस्यदयो विषयानुपविचरन्तीति ।
[१४७।०७]
विषयेषु वा मन उपविचारयन्तीत्यपरे ।
[१४७।०८]
वेदनावशेन मनसो विषयेषु पुनः पुनर्विचरणात् ।
[१४७।०८-१४७।०९]
कस्मात्कायिकी वेदना न मनोपविचारः ।
[१४७।०९-१४७।१०]
नैव ह्यसौ मन एवाश्रिता नाप्युपविचारिकाऽविकल्पकत्वादित्ययोगः ।
[१४७।१०]
तृतीयध्यानसुखस्य कस्मान्मनोपविचारेष्वग्रहणम् ।
[१४७।१०-१४७।११]
आदितः किल कामधातौ मनोभूमिकसुखेन्द्रियाभावात्तत्प्रतिद्वन्द्वेन कुःखोपविचाराभावाच्चेति ।
[१४७।१२]
यदि मनोभूमिका एवैते ।
[१४७।१२-१४७।१३]
यत्तर्हि सूत्र उक्तं “चक्षुषा रूपाणि दृष्ट्वा सौमनस्यस्थानीयानि रूपाण्युपविचरन्तीत्येवमादिः ।
[१४७।१३]
कथम् ।
[१४७।१३-१४७।१४]
पञ्चविज्ञानकायाभिनिर्हृतत्वमभिसंधायैतदुक्तं “मनोभूमिका ह्येते ।
[१४७।१४-१४७।१५]
तद्यथाऽशुभा चक्षुर्विज्ञानाभिनिर्हृता च मनोभूमिका चे”ति ।
[१४७।१५-१४७।१६]
अपि तु “दृष्ट्वा यावत्स्पृष्ट्वे”ति वचनात् ।
[१४७।१६-१४७।१७]
अचोद्यमेवैतत् ।
येऽप्य दृष्ट्वा यावदस्पृष्ट्वोपविचर्न्ति तेऽपि मनोपविचाराः ।
[१४७।१७-१४७।१८]
इत्रथा हि कामधातौ रूपधात्वालम्बना रूपाद्युपविचारा न स्युः कामधात्बलम्वनाश्च रूपधातौ गन्धरसस्प्रष्टव्योपविचाराः ।
[१४७।१८-१४७।१९]
यथा तु यक्ततरं तथोक्तं योऽपि रूपाणि दृष्ट्वा शब्दानुपविचरति सोऽपि मनोपविचारः ।
[१४७।२०]
यथा त्वनाकुलं तथोक्तमिन्द्रियार्थस्य व्यवच्छेदतः ।
[१४७।२०-१४७।२१]
किमस्ति रूपं यत्सौमनस्यस्थानीयमेव स्यात्यावदुपेक्षास्थानीयमेव ।
[१४७।२१-१४७।२२]
अस्ति संतानं नियमय्य न त्व्बालम्बनम् ॥
[१४७।२३-१४७।२४]
अथैषां मनोपविचाराणां कति कामप्रतिसंयुक्तास्तेषां च कति किमालम्बना एवं यावदारूप्यप्रतिसंयुक्ता वक्तव्याः ।
[१४७।२४]
आह
[१४७।२५]
कामे स्वालम्बनाः सर्वे
[१४७।२६]
आमधातौ सर्वेऽष्टादश सन्ति स च तेषां सर्वेषामालम्बनम् ।
तेषामेव
[१४८।०१]
रूपी द्वादशगोचरः ।
[१४८।०२]
रूपधातुर्द्वादशानामालम्बनं षट्गन्धरसोपविचारानपास्य ।
तत्र तयोरभावात् ।
[१४८।०३]
त्रयाणामुत्तरः
[१४८।०४]
गोचर इति वर्तते ।
आरुप्यधातुस्त्रयाणां धर्मोपविचाराणामालम्बनम् ।
[१४८।०४-१४८।०५]
तत्र रूपाद्यभावात् ॥
[१४८।०५]
उक्ताः कामप्रतिसंयुकताः ।
[१४८।०६]
रूपप्रतिसंयुक्ता वक्तव्याः ।
तत्र तावत्
[१४८।०७]
ध्यानद्वये द्वादश
[१४८।०८]
दौर्मनस्योपविचारानपास्य ।
ते च द्वादश
[१४८।०९]
कामगाः ॥ ३.३३ ॥
[१४८।१०]
कामान् गच्छन्तीति कामगाः ।
कामधातुमालबन्त इत्यर्थः ।
[१४८।१०-१४८।११]
दृष्टो हि विषयाणां ग्रहणार्थे गमिप्रयोगः ।
[१४८।११]
कथमेतत्गम्यते ।
एवमेतत्गम्यत इति ।
[१४८।१२]
स्वोऽष्टालम्बनम्
[१४८।१३]
स एव रूपधातुस्तेषं स्वः ।
स एव रूपधातुस्तेषां स्वः ।
[१४८।१३-१४८।१४]
स्वोऽष्टानां मनोपविचाराणामालम्बनं गन्धरसोपविचारांश्चतुरो हित्वा ।
[१४८।१५]
आरूप्यो द्वयोः
[१४८।१६]
धर्मोपविचारयोरालम्बनम् ।
[१४८।१७]
ध्यानद्वये तु षट् ।
[१४८।१८]
तृतीयचतुर्थयोर्ध्यान्योः षडुपेक्षोपविचारा एव सन्ति नान्ये ।
तेषां पुनरालम्बनं
[१४८।१९]
कामाः षण्णां
[१४८।२०]
कामधातुः षण्णामप्यालम्बनम् ।
[१४८।२१]
चतुर्णां स्वः
[१४८।२२]
रूपधातुश्चतुर्णां तत्र गन्धरसाभावात् ।
[१४८।२३]
एकस्यालम्बनं परः ॥ ३.३४ ॥
[१४८।२४]
आरुप्यधातुरेकस्यैव धर्मोपविचारस्यालम्बनम् ।
उक्ता रूपप्रतिसंयुक्ताः ।
[१४९।०१]
आरूप्यप्रतिसंयुक्ता इदानीमुच्यन्ते ।
[१४९।०२]
चत्वारोऽरूपिसामन्ते
[१४९।०३]
आकाशानन्त्यायतनसामन्तकमत्रारूपिसामन्तकम् ।
[१४९।०३-१४९।०४]
तत्र चत्वारो रूपशब्दस्प्रष्टव्यधर्मोपविचाराः ।
[१४९।०४]
ते च
[१४९।०५]
रूपगाः
[१४९।०६]
चतुर्थं हि ध्यानमेषामालम्बनम् ।
[१४९।०६-१४९।०८]
येषां तत्व्यवच्छिन्नालम्बनमस्ति येषां पुनः परिपिण्डितालम्बनं तेषां तत्रैक एव संभिन्नालम्बनो धर्मोपविचारः ।
[१४९।०९]
एक ऊर्ध्वगः ।
[१४९।१०]
एक एव धर्मोपविचारस्तत्रारूप्यधात्वालम्बनः ।
[१४९।११]
एको मौले
[१४९।१२]
मौले पुनरारूप्ये धर्मोपविचार एवैकोऽस्ति नान्यः ।
स चापि
[१४९।१३]
स्वविषयः
[१४९।१४]
आरुप्यधात्वालम्बन एव ।
[१४९।१४-१४९।१५]
नहि मौलानामारुप्याणामधरो धातुरालम्बनमिति पश्चात्प्रतिवेदविष्यामः ।
[१४९।१५]
एते च मनोपविचाराः
[१४९।१६]
सर्वेऽष्टादश सास्रवाः ॥ ३.३५ ॥
[१४९।१७]
नास्ति कश्चिदनास्रवः ।
कः कतिभिः समन्वागतः ।
[१४९।१७-१४९।२१]
कामधातूपपन्नो रूपावचरस्य कुशलस्य चित्तस्यालाभी कामावचरैः सर्वैः प्रथमद्वितीयध्यानभूमिकैरष्टाभिः तृतीयचतुर्थध्यानभूमिकैश्चतुर्भिः क्लिष्टैर्गन्धरसालम्बनान् पर्युदस्य आरूप्यावचरेणैकेन क्लिष्टेनैवालाभी रूपावचरस्य कुशलस्य चित्तस्या वितरागः सर्वैः कामावचरैः प्रथमध्यानभुमिकैर्दशभिः ।
[१४९।२१-१४९।२२]
चतुर्भिः सौमनस्योपविचारैः क्लिष्टैर्गन्धरसालम्बनौ व्युदस्य षड्भिरूपेक्षोपविचारैरनागम्यभूमिकैः ।
[१४९।२२]
द्वितीयध्यानभूमिकैरष्टाभिः ।
[१४९।२३]
तृतीयचतुर्थध्यानारूप्यभूमिकैः पूर्ववत् ।
अनया वर्त्तन्या शेषमनुगन्तव्यम् ।
[१४९।२४-१४९।२५]
ध्यानोपपन्नस्तु कामावचरेणैकेनोपेक्षाधर्मोपविचारेण निर्माणचित्तसंप्रयुक्तेन समन्वागतो वेदितव्यः ।
[१४९।२५]
अपर आह ।
[१४९।२५-१५०।०१]
अस्त्येवं मनोपविचाराणां वैभाषिकीयोऽर्थः ।
[१५०।०१]
सूत्रार्थस्त्वन्यथा दृश्यते ।
[१५०।०१-१५०।०२]
नहि यो यस्माद्वीतरागः स तदालम्बनमुपविचरतीति युक्तम् ।
[१५०।०२-१५०।०३]
अतः सास्रवा अपि न सर्वे सौमनस्यादयो मनोपविचाराः ।
[१५०।०३]
किं तर्हि ।
सांक्लेशिका यैर्मनो विषयानुपविचरतीति ।
[१५०।०३-१५०।०४]
कथं चोपविचरति ।
[१५०।०४-१५०।०५]
अनुनीयते च प्रतिहन्यते चाप्रतिस्ङ्ख्याय चोपेक्षते येषां प्रतिपक्षेण षट्सातता विहारा भवन्ति ।
[१५०।०५-१५०।०७]
चक्षुषा रूपाणि दृष्ट्वा नैव सुमना भवति न दुर्मना उपेक्षको विहरति स्मृतिमान् संप्रजाननेवं यावन्मनसा धर्मान् विज्ञायेति ।
[१५०।०७-१५०।०८]
नह्यर्हतो लौकिकं नास्ति कुशलं धर्मालम्बनं सौमनस्यं यत्तु तत्सांक्लेशिकं मनस उपविचारभुतं तस्यैव प्रतिषेधो लक्ष्यत इति ।
[१५०।०८-१५०।०९]
पुनस्त एव सौमनस्यादयः षट्त्रिंशच्छास्तृपदानि भवन्ति ।
[१५०।०९]
गर्धनैष्क्रम्याश्रितभेदेन ।
[१५०।१०]
तद्भेदस्य शास्त्रा गमितत्वात् ।
[१५०।१०-१५०।११]
तत्र गर्धाश्रिताः क्लिष्टा नैष्क्रम्याश्रिताः कुशलाः ।
[१५०।११]
एवमेतद्वेदनाख्यं भवाङ्गमनेकप्रकारभेदं वेदितव्यम् ।
[१५०।११-१५०।१२]
शेषाण्यङ्गानि पुनर्नोच्यन्ते ।
[१५०।१२]
किं कारणम् ।
यस्मात्
[१५०।१३]
उक्तं च वक्ष्यते चान्यत्
[१५०।१४]
किञ्चिदत्राङ्गमुक्तं किञ्चित्पश्चद्वक्ष्यते ।
तत्र विज्ञानं तावदुक्तं
[१५०।१५]
“विज्ञानं प्रतिविज्ञप्तिर्मन आयतनं च तदि”ति ।
[१५०।१६]
षडायतनमप्युक्तं
[१५०।१७]
“तद्विज्ञानाश्रया रूपप्रसादाश्चक्षुरादय” इति ।
[१५०।१८]
संस्कारा भवश्च कर्मकोशस्थाने व्याख्यास्यन्ते ।
तृष्णोपादानानि क्लेशकोशस्थाने ।
[१५०।१९]
स चैष प्रतीत्यसमुत्पादः समासतः क्लेशकर्मवस्तूनीति प्राक्ज्ञापितम् ।
[१५०।२०]
अत्र तु क्लेश इष्यते ।
[१५०।२१]
बीजवन्नागवन्मूलवृक्षवत्तुषवत्तथा ॥ ३.३६ ॥
[१५०।२२]
किमस्य वीजादिभिः साधर्म्यम् ।
[१५०।२२-१५०।२३]
तद्यथा वीजादङ्कुरकाण्डपत्रादीनां प्रभवो भवत्येवं क्लेशात्क्लेशकर्मवस्तूनाम् ।
[१५०।२३-१५१।०१]
यथा नागाधिष्टितं सरो न शुष्यत्येवं क्लेशनागाधिष्ठितं जन्मसरः ।
[१५१।०१-१५१।०२]
यथा चानपोद्धृतमूला वनस्पतयश्छिन्नाश्छिन्नाः पुनरपि प्ररोहन्त्येवमनपोद्धृतक्लेशमूला गतयः ।
[१५१।०२-१५१।०३]
यथा च वृक्षाः कालेन कालल्ं पुष्पफलानां प्रसोतारो भवन्त्येवं क्लेशा अप्यसकृत्क्लेशकर्मवस्तूनां हेतुर्भवन्ति ।
[१५१।०३-१५१।०६]
यथा च तुषावनद्धास्तण्डुलाः प्ररोहणसमर्था भवन्ति न केवला एवं क्लेशप्राप्ततुषावनद्धं कर्म जन्मान्तरविरोहणे समर्थं भवति न केवलमित्येवं तावत्क्लेशो बीजादिवद्वेदितव्यः ।
[१५१।०७]
तुषितण्डुलवत्कर्म तथैवौषधिपुष्पवत् ।
[१५१।०८]
तुषौऽस्यास्तीति तुषी ।
तुषस्थानीयः क्लेश उक्तः ।
[१५१।०८-१५१।०९]
इदानीं तुषितण्डुलस्थानीयं कर्म्मोच्यते ।
[१५१।०९-१५१।१०]
सन्त्योषधयः फलपाकान्ता एवं कर्माणि विपच्य पुनर्विपाकानभिनिर्वर्त्तयन्ते ।
[१५१।१०-१५१।११]
यथा च पुष्पं फलोत्पत्तवासन्नं कारणमेवं कर्माणि विपाकोत्पत्तो वेदितव्यानि ।
[१५१।१२]
सिद्धान्नपानवद्वस्तु
[१५१।१३-१५१।१४]
पथा सिद्धमन्नं पानं च केवलं परिभोगाय कल्प्यते न पुनर्विरोहाय एवं विपाकाख्यं वस्तु ।
[१५१।१४]
नहि पुनर्विपाकाद्विपाकान्तरं जन्मान्तरेषु प्रवर्हते ।
[१५१।१४-१५१।१५]
यदि हि प्रवर्धेत मोक्षो न स्यात् ।
[१५१।१५-१५१।१६]
न खल्वेष जन्मसंतान एवं प्रतीत्यसमुत्पद्यमानो भवचतुष्टयं नातिक्रामति ।
[१५१।१६]
यदुतान्तराभवमुपपत्तिभवं पूर्वकालभवं मरणभवं च ।
[१५१।१६-१५१।१७]
ते च व्याख्याताः ।
[१५१।१८]
तस्मिन् भवचतुष्टये ॥ ३.३७ ॥
[१५१।१९]
उपपत्तिभवः क्लिष्टः
[१५१।२०]
एकान्तेन ।
कतमेन क्लेशेन ।
[१५१।२१]
सर्वक्लेशै स्वभूमिकैः ।
[१५१।२२]
यद्भमिक उपपत्तिभवस्तद्भूमिकईरेव सर्वक्लेशैः ।
[१५१।२२-१५१।२३]
नहि स क्लेशोऽस्ति येन प्रतिसम्धिबन्धः प्रतिविद्यते इत्याभिधर्मिकाः ।
[१५१।२३-१५१।२४]
क्लेशैरेव तु न पर्यवस्थानैः स्वतन्त्रईः ।
[१५१।२४-१५१।२५]
यद्यपि साऽवस्था मन्दिका यस्तु यत्राभीक्ष्णं चरित आसन्नश्च तस्य तदानीं स एव क्लेश उपतिष्ठते ।
[१५१।२५]
पूर्वावेधात् ।
[१५१।२५-१५१।२६]
अन्तरभवप्रतिसंधिरप्येवमवश्यं क्लिष्टो वेदितव्यः ।
[१५१।२७]
त्रिधाऽन्ये
[१५१।२८]
अन्ये त्रयो भवास्त्रिप्रकाराः अन्तरभवादयः कुशलक्लिष्टाव्याकृताः ।
[१५२।०१]
अथैषां भवानां कतमः किंप्रतिसंयुक्तः ।
[१५२।०२]
त्रय आरूप्ये
[१५२।०३]
अन्तराभवं वर्जयित्वा ।
[१५२।०३-१५२।०४]
नह्यारूप्यधातुः स्थानान्तरपरिच्छिन्नो यस्य प्राप्त्यर्थमन्तराभवोऽभिनिर्वर्तेत ।
[१५२।०४-१५२।०५]
कामरूपधात्वोरपरिसंख्यानात्सर्व एव चत्वारो भवाः सन्तीत्यनुज्ञापितं भवति ।
[१५२।०५-१५२।०६]
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो विस्तरेण ।
[१५२।०७]
अथ कथं सत्त्वानां स्थितिभवतीत्याह
[१५२।०८]
आहारस्थितिकं जगत् ॥ ३.३८ ॥
[१५२।०९-१५२।१०]
एको धर्मो भगवता स्वयमभिज्ञायाभिसंबध्याख्यातो “यदुत सर्वस्त्त्वा आहारस्थितिका” इति सूत्रपदम् ।
[१५२।१०]
के पुनराहाराः ।
चत्वार आहाराः ।
[१५२।१०-१५२।११]
कवडीकाराहारः प्रथमः ।
[१५२।११]
औदारिकः सूक्ष्मश्च ।
[१५२।११-१५२।१२]
सूक्ष्मोऽन्तराभविकानां गन्धाहारत्वात् ।
[१५२।१२]
देवानां प्राथमकल्पिकानां च निःष्यन्दाभावात् ।
[१५२।१२-१५२।१३]
तैलस्येव सिकतास्वङ्गेष्वनुप्रवेशात् ।
[१५२।१३]
सूक्ष्माणां वा सूक्ष्मो बालकसंस्वेदजन्तुकादीनाम् ।
[१५२।१३-१५२।१४]
स्पर्शो द्वितीयः ।
[१५२।१४]
मनःसंचेतना तृतीयः ।
विज्ञानमाहारश्चतुर्थः ।
[१५२।१५]
तत्र पुनः
[१५२।१६]
कवडीकार आहारः कामे
[१५२।१७]
न रूपारूप्यधात्वोस्तद्वीतरागस्य तत्रोपपत्तेः ।
स च
[१५२।१८]
त्र्यायतनात्मकः ।
[१५२।१९]
कामावचराणि गन्धरसस्प्रष्टव्यायतनानि सर्वाण्येव कवडीकार आहारः ।
[१५२।१९-१५२।२०]
कवडीकृत्याभ्यवहरणात् ।
[१५२।२०]
मुखनासिकाग्रासव्यवच्छेदतः ।
[१५२।२०-१५२।२१]
च्छायातपज्वालाप्रभासु तेषां कथमाहारत्वम् ।
[१५२।२१]
बाहुल्येन किलैष निर्देशः ।
[१५२।२१-१५२।२२]
यान्यपि तु नाभ्यवह्नियन्ते स्थितिं चाहरन्ति तान्यपि सूक्ष्म आहारः ।
[१५२।२२]
स्नानाभ्यङ्गवदिति ।
[१५२।२२-१५२।२३]
कस्मान्न रूपायतनमाहारः ।
[१५२।२३]
तदपि कवडीकृत्याभ्यवह्रियते ।
[१५२।२४]
न रूपायतनं तेन स्वाक्षमुक्ताननुग्रहात् ॥ ३.३९ ॥
[१५२।२५]
आहारो हि नाम य इन्द्रियमहाभूतानामनुग्रहाय संवर्त्तते ।
[१५२।२५-१५२।२६]
रूपायतनं चाभ्यवहरणकाले स्वमिन्द्रियं तन्महाभूतानि वा नानुगृह्णाति ।
[१५२।२६]
कुत एवान्यान्यविषत्वात् ।
[१५३।०१-१५३।०२]
यदापि च दृश्यमाने सुखसौमनस्ये आदधाति तदापि तदालम्बनः सुखवेदनीयः स्पर्श आहारो भवति न रूपम् ।
[१५३।०२-१५३।०३]
मुक्तानामनागाम्यर्हेतां सुमनोज्ञमप्याहारं पश्यतामनुग्रहाभावात् ।
[१५३।०४]
स्पर्शसंचेतनाविज्ञा आहाराः सास्रवास्त्रिषु ।
[१५३।०५]
स्पर्शस्त्रिकसंनिपातजः ।
[१५३।०५-१५३।०६]
चेतना मनस्कर्म विज्ञानं च सास्रवाण्येवाहाराः त्रिष्वपि धातुषु संविद्यन्ते ।
[१५३।०६]
किमर्थं नानास्रवाणि ।
[१५३।०६-१५३।०७]
यस्मात्भवापोषणार्थ आहारार्थः ।
[१५३।०७]
तानि च भावक्षयायोत्थितानीति वैभाषिकाः ।
[१५३।०७-१५३।०९]
अपि तु सूत्र उक्तं “चत्वार इमे आहारा भूतानां सत्त्वानां स्थितये यापनायै संभवैषिणां चानुग्रहाये”ति ।
[१५३।०९]
न चैवमनास्रवा धर्मा इति नाहाराः ।
[१५३।१०]
भूता हि तावत्सत्त्वा उपपन्ना इति विज्ञायन्ते ।
अथ संभवैषिणः कतमे ।
[१५३।११]
मनोमयः संभवैषी गन्धर्वश्चान्तराभवः ॥ ३.४० ॥
[१५३।१२]
निर्वृत्तिश्च
[१५३।१३]
अन्तराभवो ह्येभिरभिधानैरुक्तो भगवता ।
[१५३।१३-१५३।१४]
स एव मनोनिर्जातत्वात्मनोमय उक्तः ।
[१५३।१४]
शुक्रशोणितादिकं किञ्चिद्बाह्यमनुपादाय भावात् ।
[१५३।१४-१५३।१५]
संभवैषणशीलत्वात्संभवैषी ।
[१५३।१५]
गन्धर्वणात्गन्धर्वः ।
उपपत्त्यद्भिमुखत्वादभिनिर्वृत्तिः ।
[१५३।१५-१५३।१६]
“अव्याबाधमात्मभावमभिनिर्वर्त्य सव्याबाधे लोके उपपद्यत” इति सूत्रपदात् ।
[१५३।१६-१५३।१८]
“तथास्ति पुद्गलो यस्याभिनिर्वृत्तिसंयोजनं प्रहीणं नोपपत्तिसंयोजनम्” इति सूत्र चतुःकोटिकात् ।
[१५३।१८]
प्रथमा कोटिर्द्विधातुवीतरागस्योर्ध्वंस्रोतसोऽनागामिनः ।
[१५३।१८-१५३।१९]
द्वितीयान्तरापरिनिर्वायिणः ।
[१५३।१९]
तृतीयाऽर्हताम् ।
चतुर्थ्येतानाकारान् स्थापयित्वा ।
[१५३।१९-१५३।२०]
भूतावाऽर्हन्तः संभवैषिणः सतृष्णाः ।
[१५३।२१]
अथ कत्याहाराः सत्त्वानां स्थितये कति संभवैषिणामनुग्रहाय ।
[१५३।२१-१५३।२२]
सर्वेऽप्युभयथेति वैभाषिकाः ।
[१५३।२२]
कवडीकाराहारोऽपि हि तद्रागिणां पुनर्भवाय संवर्तते ।
उक्तं हि ।
[१५३।२३-१५३।२४]
भगवता “अत्वार इमे आहारा रोगस्य मूलल्ं गण्डस्य शल्यस्य जरामरणस्य प्रत्यय” इति ।
[१५३।२४]
मनःसंचेतनाऽपि चेह स्थितये दृश्यते ।
[१५३।२४-१५३।२६]
एवं हि वर्णयन्ति दुर्भिक्षाभ्याहतेन कील पित्रा पुत्रकौ सक्तव इति भस्मना भस्त्रां परिपूर्य कीलके आसज्याश्वासितौ ।
[१५३।२६-१५३।२७]
तौ च तां परिकल्पयन्तौ चिरमप्यासितौ केनापि चोद्घाटितायां भस्मेति नैराश्यमापन्नौ व्यापन्नाविति ।
[१५३।२७-१५४।०२]
पुनश्च महासमुद्रे भग्नयानपात्राः पुरुषाः स्थलमिति महान्तं फेनपिण्डं प्रद्रुताः आमृश्य चैनं निराशा उपरेमुरिति ।
[१५४।०२-१५४।०४]
संगीतिपर्याये चोक्तं महासमुद्रादौदारिकाः प्राणिनो जलात्स्थलमभिरुह्य सिकतास्थलेऽण्डानि स्थापयित्वा सिकताभिरवष्टभ्य पुनरपि महासमुद्रेऽवतरन्ति ।
[१५४।०४-१५४।०५]
तत्र यासां मातृणामण्डान्यारभ्य स्मृतिर्न मुष्यते तान्यण्डानि न पूतीभवन्ति यासां तु मुष्यते तानि पूतीभवन्ति ।
[१५४।०५]
तदेतन्न वर्णयन्ति सौत्रान्तिकाः ।
[१५४।०५-१५४।०६]
मा भूत्परकीयेणाहारेणाहार इति ।
[१५४।०६]
एवं तु वर्णयन्ति ।
[१५४।०६-१५४।०७]
येषामण्डानां मातरमारभ्य स्मृतिर्न मुष्यते तानि न पूतीभवन्ति ।
[१५४।०७-१५४।०८]
येषां तु मुष्यते तानि पूतीभवन्ति ।
[१५४।०८]
तस्याः स्पर्शावस्थायाः स्मरन्तीति ।
[१५४।०९]
अथ कस्माच्चत्वार एवाहाराः ।
[१५४।०९-१५४।१०]
ननु च सर्व एव सास्रवा धर्मा भवानां पोषकाः ।
[१५४।१०]
यद्यप्येतदेवं तथापि प्रधान्येनोक्तम्
[१५४।११]
इह पुष्ट्यर्थमाश्रयाश्रितयोर्द्वयम् ।
[१५४।१२]
द्वयमन्यभवाक्ष्पनिवृत्त्यर्थं यथाक्रमम् ॥ ३.४१ ॥
[१५४।१३]
आश्रयो हि सेन्द्रियः कायः ।
तस्य पुष्टये कवडीकाराहाराः ।
[१५४।१३-१५४।१४]
आश्रिताश्चित्तचैत्तास्तेषां पुष्टये स्पर्शः ।
[१५४।१४]
अनयोस्तावदिहोत्पन्नस्य भवस्य पोषणे प्राधान्यम् ।
[१५४।१४-१५४।१६]
मनःसंचेतनया पुनर्भवस्याक्षेपः आक्षिप्तस्य पुनः कर्मपरिभाविताद्विज्ञानवीजादभिनिर्वृत्तिरित्यनयोरनुत्पन्नस्य भवस्याकरणे प्राधान्यम् ।
[१५४।१६]
अतश्चत्वार उक्ताः ।
[१५४।१६-१५४।१७]
पूर्वकौ हि द्वौ धात्रीस्थानीयौ जातस्य पोषकत्वात् ।
[१५४।१७]
उत्तरौ मातृस्थानीयौ जनकत्वादिति ।
[१५४।१८]
यः कश्चित्कवडीकारः सर्वः स आहारः ।
[१५४।१८-१५४।१९]
स्यात्कवडीकारो नाहार इति चतुष्कोटिकम् ।
[१५४।१९-१५४।२०]
प्रथमा कोटिर्यं कवडीकारं प्रतीत्येन्द्रियाणामपचयो भवति महाभूतानां च परिभेदः ।
[१५४।२०]
द्वितीया कोटिस्त्रय आहाराः ।
[१५४।२०-१५४।२१]
तृतीया यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभूतानां च वृद्धिः ।
[१५४।२१-१५४।२२]
चतुर्थ्येतानाकारान् स्थापयित्वा ।
[१५४।२२-१५४।२३]
एवं स्पर्शदिभिरपि यथायोगं चतुःकोटिकानि कर्त्तव्यानि ।
[१५४।२३-१५४।२४]
स्यात्स्पर्शादीन् प्रतीत्येन्द्रियाणामुपचयो महाभूतानां च वृद्धिर्न च त आहाराः ।
[१५४।२४]
स्यादन्यभूमिकाननास्रवांश्च ।
[१५४।२४-१५४।२५]
योऽपि हि परिभुक्तो भोक्तुर्बाधामादधाति सोऽप्याहार एव ।
[१५४।२५]
आपातेऽनुग्रहात् ।
[१५४।२५-१५४।२६]
द्वयोर्हि कालयोराहार आहारकृत्यं करोति परिभुज्यमानो जीर्यंश्चेति वैभाषिकाः ।
[१५४।२६]
अथ कस्यां गतौ कत्याहाराः ।
[१५४।२७]
सर्वासु सर्वे ।
एवं योनिष्वपि ।
कथं नरकेषु कवडीकार आहारः ।
[१५४।२७-१५४।२८]
प्रदीप्तायस्पिण्डाः स्वथितं च ताम्राम् ।
[१५४।२८-१५५।०१]
यद्यूपघातकोऽप्याहारो भवति चतुःकोटिकं बाध्यते प्रकरणग्रन्थश्च “कवडीकार आहारः कतमः ।
[१५५।०१-१५५।०३]
यं कवडीकारं प्रतीत्येन्द्रियाणामुपचयो भवति महाभुतानां च वृद्धिर्यापनाऽनुयापनेति विस्तरेण यावद्विज्ञानम् ।”
[१५५।०३]
उपचयाहाराभिसंधिवचनादविरोधः ।
[१५५।०३-१५५।०४]
अपचयाहारस्तु नरकेक्षु लक्षणप्राप्तत्वात् ।
[१५५।०४]
सोऽपि हि जिघत्सां पिपासां हन्तुं समर्थ इति ।
[१५५।०४-१५५।०५]
अपितु प्रत्येकनरकेषु मनुष्यवत्कवडीकाराहारसद्भावाद्युक्तं पाञ्चगतिकत्वम् ।
[१५५।०५-१५५।०७]
उक्तं भगवता “यश्च बाह्यकानामृषीणां कामेभ्यो वीतरागाणां शतं भोजयेद्यश्चैकं जम्बूषण्डगतं पृथगजनम् ।
[१५५।०७]
अतो दानादिदं दानं महाफलतरमि”ति ।
[१५५।०७-१५५।०८]
कोऽयं जम्बूषण्डगतो नाम पृथग्जनः ।
[१५५।०८]
जम्बूद्वीपनिवासिनः कुक्षिमन्त इत्येके ।
[१५५।०८-१५५।०९]
तदेतन्न युक्तमेकमिति वचनात् ।
[१५५।०९]
कश्चात्र विशेषः ।
[१५५।०९-१५५।१०]
स्याद्यदि भूयसः पृथग्जनान् भोजयित्वा भूयः पुण्यं स्यात्नाल्पीयसो वीतरागानिति ।
[१५५।१०]
संनिकृष्टो बोधिसत्त्व इत्यपरे ।
[१५५।११]
तदेतन्न वर्णयन्ति “बहुतरं हि तस्मै दत्वा पुण्यं नार्हत्कोटिभ्य” इति ।
[१५५।११-१५५।१२]
अतो निर्वेधभागीयलाभी पृथग्जन एषोऽभिप्रेतः इति वैभाषिकाः ।
[१५५।१२-१५५।१३]
नत्वियमन्वर्था संज्ञा नापिक्वचित्परिभाषिता सूत्रे शास्त्रे वा ।
[१५५।१३-१५५।१४]
जम्बूषण्डगतो निर्वेधभागीयलाभीति परिकल्प एवायं केवलः ।
[१५५।१४]
बोधिसत्त्व एव त्वेषु जम्बूद्वीपषण्डेषु निषण्णो युज्यते ।
[१५५।१४-१५५।१५]
स हि पृथग्जन कामवैराग्यसंबन्धेन तदानीं तेभ्यो विशिष्यमाण उक्त इति ।
[१५५।१५-१५५।१६]
अनन्तेभ्योऽपि हि स तेभ्यो विशिष्यमाणः ।
[१५५।१६]
शतग्रहणं तु पूर्वाधिकारात् ।
[१५५।१६-१५५।१७]
इत्थं चैतदेवं यदेवं पर्युदस्य बाह्यकेभ्य एव स्रोतापत्ति फलप्रतिपन्नकं विशेषयांबभूव ।
[१५५।१७-१५५।१८]
अन्यथा हि जम्बूषण्डगतादेव व्यशेषयिष्यत् ।
[१५५।१८-१५५।१९]
उक्तो यथा सत्त्वानां प्रतीत्यसमुत्पादो यथावस्थितिश्च्युतिरप्युक्ता यथायुःक्षयादिभिः ।
[१५५।२०]
इदमिदानीं वक्तव्यम् ।
कतमस्मिन् विज्ञाने वर्तमाने च्युत्युपपत्ती भवत इत्याह
[१५५।२१]
छेदसंधान वैराग्यहानिच्युत्युपपत्त्यः ।
[१५५।२२]
मनोविज्ञान एवेष्टाः
[१५५।२३-१५५।२४]
कुशलल्मूलसमुच्छेदः कुशलमूलप्रतिसंधानं धातुभूमिवैराग्यं परिहाणिश्च्युतिरुपपत्तिश्च ।
[१५५।२४]
एते षट्धर्मा मनोविज्ञान एवेष्यन्ते नान्यत्र ।
[१५५।२४-१५५।२५]
उपपत्तिवचनादन्तराभवप्रतिसंधिरप्युक्तरूपो वेदितव्यः ।
[१५५।२५]
वेदनायां तु
[१५६।०१]
उपेक्षायां च्युतोद्भवौ ॥ ३.४२ ॥
[१५६।०२]
च्युतिरेव च्युतमुपपत्तिरुद्भवः ।
[१५६।०२-१५६।०३]
एतावदुःखासुखायां वेदनायां भवतस्तस्या अपटुत्वात् ।
[१५६।०३]
इतरे हि वेदने पट्व्यौ ।
न च पटुविज्ञाने च्युत्युपपत्ती युज्येते ।
[१५६।०३-१५६।०४]
तत्रापि च मनोविज्ञानेऽपि
[१५६।०५]
नैकाग्राचित्तयोरेतौ
[१५६।०६]
च्युतोद्भवाविति वर्तते ।
नहि समाहितचित्तस्यास्ति च्युतिरुपपत्तिर्वा ।
[१५६।०६-१५६।०७]
विसभागभूमिकत्वादभिसंस्कारिकत्वादनुग्राहकत्वाच्च ।
[१५६।०७-१५६।०८]
नाप्यचित्तस्य सा नह्यचित्तक उपक्रमितुं शस्येत ।
[१५६।०८-१५६।०९]
यदा चास्याश्रयो विपरिणन्तुमारभते तदावश्यमस्य तदाश्रयप्रतिबद्धं चित्तं संमुखीभूय पश्चात्प्रच्यवेत नान्यथा ।
[१५६।०९-१५६।१०]
उपपत्तौ च चित्तच्छेदहेत्वभावाद्विना च क्लेशेनानुपपत्तेरयुक्तमचित्तकत्वम् ।
[१५६।११]
मरणभवस्त्रिप्रकार इत्युक्तम् ।
अर्हस्तु
[१५६।१२]
निर्वात्यव्याकृतद्वये ।
[१५६।१३]
ऐर्यापथिके विपाकचित्ते वा ।
अस्ति चेत्कामधातौ विपाक उपेक्षा ।
[१५६।१३-१५६।१४]
नास्ति चेदैर्यापथिक एव ।
[१५६।१४]
किमर्थमव्याकृट एव नान्यस्मिन् ।
[१५६।१४-१५६।१५]
तद्वि चित्तच्छेदानुकूलं दुर्बलत्वात् ।
[१५६।१६]
अथ म्रियमाणस्य कस्मिन् शरीरप्रदेशे विज्ञानं निरुध्यते ।
[१५६।१६-१५६।१७]
सकृन्मरणे समनस्कं कायेन्द्रियं सहसाऽन्तर्दीयते ।
[१५६।१७]
यदि तु क्रमेण च्यवते ततः
[१५६।१८]
क्रमच्युतौ पादनाभिहृदयेषु मनश्च्युतिः ॥ ३.४३ ॥
[१५६।१९]
अधोनृसुरगाजानां
[१५६।२०]
अधो गच्छन्तीत्यधोगा अपायगामिनः ।
नृन् गच्छन्तीति नृगा मनुष्यगामिनः ।
[१५६।२०-१५६।२१]
सुरान् गच्छन्तीति सुरगा देवगामिनः ।
[१५६।२१-१५६।२२]
तेषां यथासंख्यं पादयोर्नाभ्यां हृदये च विज्ञानं संनिरुध्यते ।
[१५६।२२]
न पुनर्जायन्त इत्यजा अर्हन्तः ।
तेषामपि हृदये विज्ञानं निरुध्यते ।
[१५६।२३]
मूर्ध्नीत्यपरे ।
[१५६।२३-१५६।२४]
कायेन्द्रियस्य तेषु निरोधात्कायेन्द्रियं हि म्रियमाणस्य तप्त इवोपले जलं निष्ठ्यूतं संकोचमापद्यमानं पादादिष्वन्तर्धीयत इति ।
[१५६।२४-१५६।२५]
एवं च पुनः क्रमेण मरणम् ।
[१५६।२५]
प्राणिनां प्रायेण मर्मच्छेदवेदनाभ्यां हतानां जायते ।
[१५६।२६]
मर्मच्छेदस्त्वबादिभिः ।
[१५६।२७]
शरीरप्रदेशाः केचिदुपहन्यमाना मरणमानयन्ति ।
[१५६।२७-१५७।०१]
ते ह्येतदुच्यन्ते मर्माणीति ।
[१५७।०१-१५७।०३]
तानि चाप्तेजोवायुधातूनामन्यतमेनातिप्रायं गतेन निशितशस्त्रसंपातस्यर्धिनाडीतीब्राभिर्वेदनाभिः छिद्यन्त इव न च पुनस्तानि काष्ठादिवच्छिद्यन्ते छिन्नबद्वा पुनर्न चेष्टन्त इति च्छिन्नान्युच्यन्ते ।
[१५७।०३-१५७।०४]
कस्मान्न पृथिवीधातुना ।
[१५७।०४]
चतुर्थदोषाभावात् ।
वातपित्तश्लेष्माणो हि त्रयो दोषाः ।
[१५७।०४-१५७।०५]
ते चाप्तेजोवायुधातुप्रधाना यथायोगमिति ।
[१५७।०५]
भाजनलोकसंवर्त्तनीसाधर्म्येणेत्यपरे ।
[१५७।०५-१५७।०६]
देवेषु नास्ति मर्मच्छेदः ।
[१५७।०६]
किं तु च्यवनधर्मणो देवपुत्रस्य पञ्चोपनिमित्तानि प्रादुर्भवन्ति ।
[१५७।०७-१५७।०९]
वस्त्राणामाभरणानां च मनोज्ञः शब्दो निश्चरति शरीरप्रभा मन्दीभवति स्नातस्योदबिन्दवः काये संतिष्ठन्ते चपलात्मनाऽप्येकत्र विषये बुद्धिरवतिष्ठते उन्मेषनिमेषौ चाक्ष्णोः संभवतः ।
[१५७।०९]
एतानि तु व्यभिचारीणि ।
[१५७।०९-१५७।१०]
पञ्च पुनर्निमित्तानि मरणं नातिवर्त्तन्ते ।
[१५७।१०-१५७।११]
वासांसि क्लिश्यन्ति माला म्लायन्ति कक्षाभ्यां स्वेदो मुच्यते दौर्गन्ध्यं कायेऽवक्रामति स्वे चासने देवपुत्रो नाभिरमते ।
[१५७।११-१५७।१२]
सोऽयं सत्त्वलोक एवमुत्पद्यमानस्तिष्ठन् च्यवमनश्च त्रिषु राशिषु स्थापितो भगवता ।
[१५७।१२-१५७।१३]
त्रयो राशयः ।
[१५७।१३-१५७।१४]
सम्यक्त्वनियतो राशिर्मिथ्यात्वनियतो राशिरनियतो राशिरिति ।
[१५७।१४]
तत्र पुनः
[१५७।१५]
सम्यङ्मिथ्यात्वनियता आर्यानन्तर्यकारिणः ॥ ३.४४ ॥
[१५७।१६]
“सम्यक्त्वं कतमत् ।
[१५७।१६-१५७।१७]
यत्तत्पर्यादाय रागप्रहाणं पर्यादाय द्वेषप्रहाणं पर्यादाय मोहप्रहाणं पर्यादाय सर्वक्लेशप्रहाणमिदमुच्यते सम्यक्त्व”मिति सूत्रम् ।
[१५७।१७]
आर्याः कतमे ।
[१५७।१८]
येषामनास्रवो मार्ग उत्पन्नः ।
आराद्याताः पापकेभ्यो धर्मेभ्य इत्यार्याः ।
[१५७।१८-१५७।१९]
आत्यन्तिकविसंयोगप्राप्तिलाभात् ।
[१५७।१९-१५७।२०]
एते हि क्लेशक्षये नियतत्वात्सम्यक्त्वनियताः मोक्षभागीयलाभिनोऽप्यवश्यं परिनिर्वाणधर्माण इति ।
[१५७।२०]
कस्मान्न सम्यक्त्वे नियताः ।
[१५७।२१]
ते हि मिथ्यात्वेऽपि नियता भवेयुः ।
[१५७।२१-१५७।२२]
न च ते कालनियमेन सम्यक्त्वे नियता यथा सप्तकृत्वः परमादयः ।
[१५७।२२]
मिथ्यात्वं कतमत् ।
[१५७।२२-१५७।२३]
नरकाः प्रेतास्तिर्यञ्च इदमुच्यते मिथ्यात्वम् ।
[१५७।२३]
तत्रानन्तर्यकारिणो नरके नियतत्वान्मिथ्यात्वनियताः ।
[१५७।२३-१५७।२४]
नियतेभ्योऽन्येऽनियता इति सिद्धम् ।
[१५७।२४]
प्रत्ययापेक्षं हि तेषामुभयभाक्त्वमनुभयभाक्त्वं च ।
[१५७।२५]
उक्तः सत्त्वलोको भाजनलोक इदानीं वक्तव्यः ।
[१५७।२६-१५७।२७]
तत्र भाजनलोकस्य संनिवेशमुशन्त्यधः ।
लक्षषोडशकोद्वेधमसंख्यं वायुमण्डलम् ॥ ३.४५ ॥
[१५८।०१]
त्रिसाहस्रमहासाहस्रलोकधातोरेवं संनिवेशमिच्छन्ति ।
[१५८।०१-१५८।०२]
यदुताकाशष्प्रतिष्ठमधस्ताद्वायुमण्डलमभिनिर्वृत्तं सर्वसत्त्वानाम् ।
[१५८।०२-१५८।०४]
कर्माधिपत्येन तस्य योजनलक्षाणां षोडशकमुद्वेधः परिणाहेनासंख्यं तथा च दृढंं यन्महालग्नोऽपि वज्रेण भेत्तुमशक्तः ।
[१५८।०४]
तस्योपरिष्टात्
[१५८।०५]
अपामेकादशोद्वेधं सहस्राणि च विंशतिः ॥
[१५८।०६]
मण्डलमिति वर्त्तते ।
[१५८।०६-१५८।०७]
तस्मिन् वायुमण्दले सत्त्वानां कर्मभिर्मेघाः संभूयाक्षमात्राभिर्धाराभिरभिवर्षन्ति ।
[१५८।०७]
तत्भवत्यषां मण्डलम् ।
[१५८।०७-१५८।०८]
तस्य योजनानामेकादशलक्षाण्यूर्ध्वेऽधो विंशतिश्च सहस्राणि ।
[१५८।०८]
कथं ता आपो न तिर्यङ्ग्विस्रवन्ति ।
[१५८।०८-१५८।०९]
सत्त्वानां कर्माधिपत्येन ।
[१५८।०९-१५८।१०]
यथा हि भुक्तं पीतमन्नं पानं च नापक्वं पक्वाशयमापतती त्येके ।
[१५८।१०]
कुसूलन्यायेन वायुना संधार्यन्त इति निकायान्तरीयाः ।
[१५८।१०-१५८।१२]
ताश्च पुनरापः सत्त्वानां कर्मप्रभावसंभूतैर्वायुभिरावर्त्यमाना उपरिष्टात्काञ्चनीभवन्ति पक्वक्षीरीशरीभावयोगेन ।
[१५८।१२]
तत्भवत्यषां मण्डलम् ।
[१५८।१३]
अष्टलक्षोच्छ्रयं पश्चाच्छेषं भवति काञ्चनम् ॥ ३.४६ ॥
[१५८।१४]
किं च शेषम् ।
त्रयो लक्ल्षाः सहस्राणि च विंशतिः ।
[१५८।१४-१५८।१५]
सा काञ्चनमयी मही भवत्यपामुपरिष्टातुक्तो जलकाञ्चनमण्डलोच्छ्रायः ।
[१५८।१६-१५८।१७]
तिर्यक्त्रीणि सहस्राणि सार्धं शतचतुष्टयम् ।
लक्षद्वादशकं चैव जलकाञ्चनमण्डलम् ॥ ३.४७ ॥
[१५८।१८]
समानं ह्येतदुभयं विस्तारतः ।
[१५८।१९]
समन्ततस्तु त्रिगुणं
[१५८।२०-१५८।२१]
समन्ततः परिक्षेपेण तु परिगण्यमानं त्रिगुणं जायते षट्त्रिंशल्लक्षा दशसहस्राणि सार्धानि च त्रीणि शतानि योजनानाम् ।
[१५८।२१-१५८।२२]
यच्च तत्काञ्चनमयं महीमण्डलमपामुपरिष्टात्संनिविष्टं
[१५८।२३-१५८।२४]
तत्र मेरुर्युगन्धरः ।
ईशाधारः खदिरकः सुदर्शनगिरिस्तथा ॥ ३.४८ ॥
[१५९।०१]
अश्वकर्णो विनितको निमिन्धरगिरिः
[१५९।०२]
इतीमे काञ्चनमण्डलप्रतिष्ठा अष्टौ महापर्वताः ।
मध्ये सुमेरुः ।
[१५९।०२-१५९।०३]
शेषाः सुमेरुपरिचायावस्थिताः ।
[१५९।०३-१५९।०४]
तस्यान्यसप्तपर्वतप्राकारपरिक्षिप्तस्य यो बाह्यः पर्वते निमिन्धरगिरिः ।
[१५९।०५]
ततः ।
[१५९।०६]
द्वीपाः
[१५९।०७]
ततो बहिश्चत्वारो द्वीपाः ।
तेभ्यः पुनः
[१५९।०८]
बहिश्चक्रवाडः
[१५९।०९]
तेन चातुर्द्विपकश्चक्रीकृतः ।
तेषां तु
[१५९।१०]
सप्त हैमाः स आयसः ॥ ३.४९ ॥
[१५९।११]
युगन्धरादयः सप्त पर्वताः सौवऋणाश्चक्रवाडः शस्त्रकः ।
[१५९।१२]
चतूरत्नमयो मेरुः
[१५९।१३]
सुवर्णमयो रूप्यमयो वैदूर्यमयः स्फटिकमयश्च यथासंख्यं चतुर्षु पार्श्वेषु ।
[१५९।१३-१५९।१४]
यच्च यन्मयं पार्श्वं सुमेरोस्तस्यानुभावेन तद्वर्ण तस्यां दिशि नभो दृश्यते ।
[१५९।१४-१५९।१५]
जाम्बूद्वीपकमस्य पार्श्वं वैदूर्यमयं वर्णयन्ति ।
[१५९।१५-१५९।१६]
तस्येह प्रभानुरागेण वैदूर्यमयं नभो दृश्यत इति ।
[१५९।१७]
अथ कथं तेषां संभवः ।
[१५९।१७-१५९।१८]
काञ्चनमय्यां पृथिव्यां पुनर्वारिधारा अतिपतन्ति ।
[१५९।१८-१५९।१९]
ता ह्यापो नानाविधबीजगर्भा बहुविधप्रभावभिन्नैर्वायुभिर्मथ्यमानास्तां तां जातिं परिणमयन्ति ।
[१५९।१९-१५९।२०]
एवं च पुनः परिणमयन्ति यद्भिन्नजातीयस्य कार्यविशेषोत्पत्तावसमवधानेन प्रत्ययीभवन्ति ।
[१५९।२०-१५९।२१]
न तु खलु यथा सांख्यानां परिणामः ।
[१५९।२१]
कथं च सांख्यानां परिणामः ।
[१५९।२१-१५९।२२]
अवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरप्रादुर्भाव इति ।
[१५९।२२]
कश्चात्र दोषः ।
[१५९।२२-१५९।२३]
स एव हि धर्मी न संविद्यते यस्यावस्थितस्य धर्माणां परिणामः कस्प्येत ।
[१५९।२३-१५९।२४]
कश्चैंवमाह धर्मेभ्योऽन्यो धर्मीति ।
[१५९।२४]
तस्यैव तु द्रव्यस्यान्यथीभावमात्रं परिणामः ।
[१५९।२४-१५९।२५]
एवमप्ययुक्तम् ।
[१५९।२५]
किमत्रायुक्तम् ।
तदेव चेदं न चेदं तथेति अपूर्वैषा वायो युक्तिः ।
[१५९।२५-१५९।२६]
एवं च पुनः संभूताः सुवर्णादयः कर्मप्रभावात्प्रेरितैर्वायुभिः समाहृत्य राशीक्रियन्ते ।
[१५९।२६-१५९।२७]
त एते पर्वताश्च भवन्ति द्वीपाश्च ।
[१५९।२७]
ते पुनः सुमेवदयश्चक्रवाडपर्यन्ताः पर्वताः
[१६०।०१]
जलेऽशीतिसहस्रके ।
[१६०।०२]
मग्नाः
[१६०।०३]
काञ्चनमय्याः पृथिव्या उपर्यशीतिय्योजनसहस्राण्युदकं तत्र ते मग्नाः ।
[१६०।०४]
ऊर्ध्वं जलात्मेरुर्भूयोऽशीतिसहस्रकः ॥ ३.५० ॥
[१६०।०५]
इति हि मेरोः षष्टि योजनशतसहस्रं समुच्छ्रयः ।
[१६०।०६]
अर्धार्धहानिरष्टासु
[१६०।०७]
जलादूर्ध्वं यावान्सुमेरुस्ततोऽर्धेन युगन्धरश्चत्वारिंशद्योजनसहस्राणि ।
[१६०।०७-१६०।०९]
ततोऽर्धेन ईशाधर इत्येवमन्येष्वप्यर्धार्धहानिर्वेदितव्या यावन्निमिन्धरार्धेनार्धत्रयोदशोत्तराणि त्रीणि योजनशतानि चक्रवाडः ।
[१६०।१०]
समोच्छ्रायघनाश्च ते ।
[१६०।११]
यावानेव चैषां जलादूर्ध्वं समुच्छ्रायस्तावानेव घनो विस्तार इत्यर्थः ।
[१६०।१२]
शीताः सप्तान्तराण्येषां
[१६०।१३-१६०।१४]
एषां च निमिन्धरान्तनां पर्वतानां सप्तान्तराणि सप्त शीता उच्यन्ते पूर्णा अष्टाङ्गोपेतस्य पानीयस्य ।
[१६०।१४-१६०।१५]
तद्धि पानीयं शीतलं च स्वादु च लघु च मृदु चाच्छं च निष्प्रतिकं च पिबतश्च कण्ठं न क्षिणोति पीतं च कुक्षिं न व्याबाधते ।
[१६०।१६]
तासां च पुनः
[१६०।१७]
आद्याशीतिसहस्रिका ॥ ३.५१ ॥
[१६०।१८]
सुमेरुयुगन्धरान्तरं प्रथमा शीता ।
अशीतिर्योजनसहस्राणि वैपुल्येन ।
[१६०।१९]
आभ्यन्तरः समुद्रोऽसौ
[१६०।२०]
द्वौ हि समुद्रावाभ्यन्तरो बाह्यश्च ।
तदाऽसौ शीताऽभ्यन्तरः समुद्रः
[१६०।२१]
त्रिगुणः स तु पार्श्वतः ।
[१६०।२२]
अशीतिर्योजनसहस्राण्यस्य वैपुल्यमुक्तम् ।
[१६०।२२-१६०।२३]
पार्श्वतस्रिगुणो भवति युगन्धरतीरेण गण्यमानः चत्वारिंशत्सहस्राणि लक्षद्वयं च ।
[१६१।०१]
अर्धार्धेनापराः शीताः
[१६१।०२-१६१।०३]
युगन्धरस्येषाधारस्य चान्तरं द्वितीया शीता अर्धेन प्रथमायाश्चत्वारिंशत्योजनसहस्राणि ।
[१६१।०३-१६१।०४]
ततोऽर्धेन पुनस्तृतीयेत्येवमर्धार्धेनापराः शीताः भवन्ति ।
[१६१।०४]
यावदर्धत्रयोदशशतानि सप्तमी शीता ।
[१६१।०४-१६१।०५]
दैर्ध्यं तु तासां न परिसंख्यातमतिबहुप्रकर्षविसर्पणात् ।
[१६१।०६]
शेषं बाह्यो महोदधेः ॥ ३.५२ ॥
[१६१।०७]
किं शेषम् ।
निमिन्धरचक्रवाडयोरन्तरम् ।
[१६१।०७-१६१।०८]
तद्धि बाह्यो महासमुद्रो लवणं पूर्णः ह्षारोदकस्य ।
[१६१।०८]
स खलु विस्तारेण योजनानां
[१६१।०९]
लक्षत्रयं सहस्राणि विंशतिर्द्वे च
[१६१।१०]
तत्र चत्वारो द्वीपाश्चतुर्षु सुमेरुपार्श्वेषु ।
[१६१।११]
तत्र तु ।
[१६१।१२]
जम्बूद्वीपो द्विसाहस्रस्त्रिपार्श्वः शकटाकृतिः ॥ ३.५३ ॥
[१६१।१३]
साहस्राणि त्रीणि पार्श्वान्यस्य शकटस्येवाकृतिः ।
[१६१।१३-१६१।१५]
तस्य च मध्ये काञ्चनमय्यां पृथिव्यां वज्रासनमभिनिर्वृत्तं यस्मिन्निषद्य सर्वे बोधिसत्त्वा वज्रोपमं समाधिमुत्पादयन्ति ॥
[१६१।१५]
नहि तमन्य आश्रयः प्रदेशो वा सोढुं समर्थः ।
[१६१।१६]
सार्धत्रियोजनं त्वेकं
[१६१।१७]
च्तुर्थमस्य पार्श्वं सार्धानि त्रीणि योजनानि ।
अत एव ह्यसौ शकटाकृतिः ।
[१६१।१८]
प्राग्विदेहोऽर्धचन्द्रवत् ।
[१६१।१९]
इतः पूर्वेण सुमेरुपार्श्वे पूर्वं विदेहो द्वीपः ।
सोऽर्धचन्द्र इवाभिनिर्वृत्तः ।
[१६१।१९-१६१।२०]
परिमाणतस्तु
[१६१।२१]
पार्श्वत्रयं तथाऽस्य
[१६१।२२]
यथा जम्बूद्वीपस्य द्वे द्वे योजनसहस्रे ।
[१६१।२३]
एकं सार्धं त्रिशतयोजनम् ॥ ३.५४ ॥
[१६१।२४]
चतुर्थं पार्श्वं सार्धानि त्रीणि योजनशतानि ।
[१६१।२५]
गोदानीयः सहस्राणि सप्त सार्धानि मण्डलः ।
[१६२।०१-१६२।०२]
इतः पश्चिमेन सुमेरुपार्श्वेऽपरगोदानीयो द्वीपः सार्धानि सप्त योजनसहस्राणि साकल्येन ।
[१६२।०२]
मण्डलश्चासौ पूर्णचन्द्रवत् ।
[१६२।०३]
सार्धे द्वे मध्यमस्य
[१६२।०४]
मध्यमस्यार्धतृतीये योजनसहस्रे ।
[१६२।०५]
अष्टौ चतुरस्रः कुरुः समः ॥ ३.५५ ॥
[१६२।०६]
इह उत्तरेण सुमेरुपार्श्वे उत्तरकुरुद्वीपः ।
[१६२।०६-१६२।०७]
सोऽष्टौ योजनसहस्राणि साकल्येन चतुरस्रः ।
[१६२।०७]
कृत्यापीठिकावत् ।
[१६२।०७-१६२।०८]
सर्वेषु च पार्श्वेषु समो यथैकं पार्श्वं द्वियोजनसहस्रे ।
[१६२।०८]
तथाऽन्यानि स्तोकमपि नाधिकम् ।
[१६२।०८-१६२।०९]
यश्च द्वीपो यदाकृतिस्तदाकृतीन्येव तत्र मनुष्याणां मुखानि ।
[१६२।१०]
तेषां खलु द्वीपानामन्तरालेऽन्तरद्वीपा अभिनिर्वृत्ताः ।
[१६२।१०-१६२।११]
के पुनस्ते कति चेत्याह
[१६२।१२-१६२।१३]
देहा विदेहाः कुरवः कौरवाश्चामरावराः ।
अष्टौ तदन्तरद्ब्वीपा गाठा उत्तरमन्त्रिणः ॥ ३.५६ ॥
[१६२।१४]
तत्र देहविदेहौ पूर्वविदेहपरिवारौ ।
कुरुकौरवौ उत्तरकुरोः ।
[१६२।१४-१६२।१५]
गाठोत्तरमन्त्रिणावपरगोदानीयस्य ।
[१६२।१५]
चामरावरौ जम्बूद्वीपस्य ।
सर्वे मनुष्यैरावासिताः ।
[१६२।१५-१६२।१६]
एको राक्षसैरित्यपरे ।
[१६२।१७]
इहोत्तरेण कीटाद्रिनवकाद्धिमवान्
[१६२।१८-१६२।१९]
इहैव जम्बूद्वीपे उत्तरेणास्य जम्बूद्वीपस्य कृष्णपर्वतास्त्रयस्तानतिक्रम्यापरे त्रयः पुनश्च त्रय इति नवभ्यः कीटपर्वतेभ्यः परेण हिमवान् पर्वतः ।
[१६२।२०]
ततः ।
[१६२।२१]
पञ्चाशद्विस्तृतायामं सरोऽर्वाग्गन्धमादनात् ॥ ३.५७ ॥
[१६२।२२-१६२।२३]
तस्माद्धिमवतः परेणानवतप्तं नाम सरो गन्धमादनादर्वाक्यतश्चतस्रो नद्यः स्रव्न्ति गङ्ग सिन्धुः शीता वक्षुश्च ।
[१६२।२३-१६२।२४]
तस्य पञ्चाशद्योजनानि विस्तारः पञ्चाशदायामः ।
[१६२।२४]
पूर्णमष्टाङ्गस्याङ्गोपेतस्याम्भसः ।
[१६२।२४-१६२।२५]
दुर्गमं च मनुअष्याणामनृद्धिमताम् ।
[१६२।२५-१६२।२६]
तस्यैव चान्तिके जम्बूरभिनिर्वृत्ता मधुरस्वादूनि यस्याः फलानि तस्या अधिकारेणायं जम्बूद्वीप इति ख्यातः ।
[१६२।२६-१६२।२७]
तत्फलाधिकारेण वा जम्बूद्वीप इति ।
[१६२।२८]
नरकाः कस्मिन्नवकाशे कियत्प्रमाणाश्च ।
[१६३।०१]
अधः सहस्रैविंशत्या तन्मात्रोऽवीचिरस्य हि ।
[१६३।०२-१६३।०३]
अस्यैव जम्बूद्वीपस्याधो विंशत्या योजनसहस्रैरवीचिर्महानरको विंशतिसहस्रप्रमाण एवोद्वेधविस्ताराभ्यामेवमस्याधरतलमितश्चत्वारिंशता योजनसहस्रैर्भवति ।
[१६३।०३-१६३।०४]
दुःखनिरन्तरत्वादवीचिः ।
[१६३।०४-१६३।०५]
अन्येषु सान्तरं दुःखं तद्द्यथा संजीवे च्छिन्नावभिन्नसंपिष्टशरीराणां शीतला वायवो वान्ति पुनरपि तान् सत्त्वान् संजीवयन्ति ।
[१६३।०५-१६३।०६]
अत एव संजीवः ।
[१६३।०६]
नास्मिन् सुखवीचिरस्तीत्यवीचिरित्यपरे ।
[१६३।०६-१६३।०७]
अन्येष्वपि सुखा वेदना विपाको नास्ति ।
[१६३।०७]
नैः ष्यन्दिकी न वार्यते ।
[१६३।०८]
तदूर्ध्वं सप्त नरकाः
[१६३।०९]
तस्मादवीचेरूर्ध्वं सप्त नरकाः उपर्युपरि संनिविष्टाः ।
[१६३।०९-१६३।१०]
प्रतापनस्तापनो महारौरवो रौरवः संघातः कालसूत्रः संजीवश्च ।
[१६३।१०]
अवीचिपार्श्वेष्वित्यपरे ।
ते पुनः
[१६३।११]
सर्वेऽष्टौ षोडशोत्सदाः ॥ ३.५८ ॥
[१६३।१२]
उक्तं हि भगवता
[१६३।१३-१६३।१४]
“इत्येते नरका अष्टावाख्याता दुरतिक्रमाः ।
रौद्रकर्मभिराकीर्णाः प्रत्येकं षोडशोत्सदाः ॥
[१६३।१५-१६३।१६]
चतुस्कन्धाश्चतुर्द्वारा विभक्ता भागशोऽसिताः ।
अयःप्राकारपर्यन्ता अयसा प्रतिवर्जिताः ॥
[१६३।१७-१६३।१८]
तप्ता चैवायसी भुमिर्ज्वलिता तेजसा युता ।
अनेकयोजनशता स्फुटा तिष्ठति अर्च्चिषे”ति ।
[१६३।१९]
षोडशोत्सदाः कतमे ।
[१६३।२०]
कुकूलं कुणपं चाथ क्षुरमार्गादिकं नदी ।
[१६३।२१]
तेषां चतुर्दिशम् ।
[१६३।२२]
द्वारे द्वारे तेषां चत्वार उत्सदाः ।
कुकूलं जानुमात्रम् ।
[१६३।२२-१६३।२३]
यत्र तेषां सत्त्वानां निक्षिप्ते संशीर्यते त्वङ्मांसशोणितमुत्क्षिप्ते पादे पुनरपि संजायते त्वङ्मांसशोणितम् ।
[१६३।२४-१६३।२५]
कुणपं गूथमृत्तिका यत्र न्यङ्कुटा नाम प्राणिनः प्रतिवसन्ति सर्वश्वेताः कृष्णशिरसः सूचिमुखास्तेषां सत्त्वानां यावदस्थीनि भिन्दन्ति ।
[१६३।२५-१६४।०१]
क्षुरधाराचितो महापथः यत्र तेषां सत्त्वाना मन्वाक्रामतां निक्षिप्ते पादे संछिद्यते त्वङ्मांसशोणितमिति पूर्ववत् ।
[१६४।०१-१६४।०२]
असिपत्रवनं यत्र तेषां सत्त्वानां तीक्ष्णा असयः संनिपतन्ति अङ्गप्रत्यङ्गान्यवकृन्तन्ति श्यामशबलाश्च श्वानो भक्षयन्ति ।
[१६४।०२-१६४।०३]
अयःशाल्मलीवनं तीक्ष्णषोड्शाङ्गुलकण्टकम् ।
[१६४।०३-१६४।०४]
तेषां सत्त्वानामभिरोहतां कण्टका अवाङ्मुखीभवन्तः कायं भिन्दन्ति अवतरतां चोर्ध्वीभवन्तः ।
[१६४।०४-१६४।०५]
अयस्तुण्डाश्च वायसा अक्षीण्युत्पाट्योत्पाट्य भक्षयन्ति ।
[१६४।०५-१६४।०६]
तदेतत्क्षुरमार्गादिक त्रयं शस्त्राभिनिपातं सामान्यादेकीक्रियन्ते ।
[१६४।०६-१६४।०८]
चतुर्थ उत्सदो नदी वैतरणि पूर्ण तप्तस्य क्षारोदकस्य यस्यां ते सत्त्वा असिशक्तिप्रासहस्तैः पुरुषैरुभाभ्यां तीराभ्यां प्रतिवार्यमाणा ऊर्ध्वमपि गच्छन्तः स्विद्यन्ते पच्यन्ते अधस्तिर्यगपि गच्छन्तः स्विद्यन्ते पच्यन्ते ।
[१६४।०९]
तद्यथा बहूदकायां स्थाल्यामग्नावधिश्रितायां तिलतण्डुइलादयः ।
[१६४।०९-१६४।१०]
सा हि महानरकस्य परिखेवोत्पन्ना ।
[१६४।१०]
त एते चत्वार उत्सदा दिग्भेदेन षोडशोच्यन्ते ।
[१६४।११]
अधिकयातनास्थानित्वादुत्सदाः इत्युच्यन्ते ।
नरकेषु हि पतिता एतेषु पुनर्यात्यन्ते ।
[१६४।१२]
नरका वरोधादुर्ध्वमेतेषु सीदन्त्युत्सदा इत्यपरे ।
[१६४।१३]
प्रश्नात्प्रश्नान्तरमुपजायते ।
[१६४।१३-१६४।१४]
किं ते नरकपालाः सत्त्वसंख्याता उताहो नेति ।
[१६४।१४]
नेत्येके ।
कथमिदानीं चेष्टन्ते ।
[१६४।१४-१६४।१५]
सत्त्वानां कर्मभिर्विवर्त्तनीवायुबीजवत् ।
[१६४।१५]
यत्त्र्हि भदन्तधर्मसुभूतिनोक्तं
[१६४।१६-१६४।१७]
“क्रोधनाः क्रूरकर्माणः पापाभिरुचयश्च ये ।
दुःखितेषु च नन्दन्ति जायन्ते यमराक्षसा” इति ॥
[१६४।१८-१६४।१९]
ये ते यमेनानुशिष्टाः सत्त्वान्नरकेषु प्रक्षिपन्ति त एते यमराक्षसा उक्ता न तु ये कारणाः कारयन्तीति ।
[१६४।१९]
सत्त्वसंख्याता इत्येके ।
तस्येदानीं कर्मणः क्व विपाकः ।
[१६४।२०-१६४।२१]
तेष्वेव नरकेषु हि आनन्तर्यकारिणां विपाकावकाशस्तत्र तेषां को विप्रतिबन्धः ।
[१६४।२१]
कथमग्निना न दह्यन्ते ।
अग्नेर्नूनं कर्मभिः कृतावधित्वात् ।
[१६४।२१-१६४।२२]
भूतविशेषनिर्वृत्तेर्वा ।
[१६४।२३]
इमे तावदुष्णा अष्टौ महानरका उच्यन्ते ।
[१६४।२४]
शीता अन्येऽष्टावर्वुदादयः ॥ ३.५९ ॥
[१६४।२५]
अन्ये शीतनरका अष्टौ ।
[१६४।२५-१६५।०१]
तद्यथा अर्वुदो निरर्वुदः अटतो हहवः हुहुवः उत्पलः पद्मो महापद्मश्च ।
[१६५।०१-१६५।०२]
तेषां सत्त्वानां तीर्वशीताभिहतानां कायशब्दविकारानुरूपाण्येतानि नामानि ।
[१६५।०२]
तेऽप्यस्यैव जम्बूद्वीपस्याधस्तात्महानरकाणां तिर्यक् ।
[१६५।०२-१६५।०३]
कुत इयतो जम्बूद्वीपस्याधस्तादवीच्यादीनामवकाशः ।
[१६५।०३-१६५।०४]
धान्यराशिवदधो विशाला हि द्वीपाः ।
[१६५।०४]
अत एव महासमुद्रोऽनुपूर्वनिम्नः ।
[१६५।०४-१६५।०५]
इतीमे षोडश नरकाः सर्वे सत्त्वकर्माधिपत्यनिर्वृत्ताः ।
[१६५।०५-१६५।०६]
प्रत्येकं नरकास्तु स्वैः स्वैः कर्मभिरभिनिर्वृत्ताः ।
[१६५।०६]
बहूनां सत्त्वानां द्वयोरेकस्य वा ।
[१६५।०६-१६५।०७]
तेषामनेकप्रकल्पो भेदः स्थानं चानियतं नदीपर्वतमरुप्रदेशेष्वन्येषु वाऽधश्च भावात् ।
[१६५।०७-१६५।०८]
एष तावन्नरकभाजनानां संनिवेशः ।
[१६५।०८]
तिर्यञ्चः स्थलजलाकाशगोचराः ।
[१६५।०८-१६५।०९]
तेषां किल मूलं स्थानं महासमुद्रस्ततोऽन्यत्र विसृता इति ।
[१६५।०९]
प्रेतानां यमो राजा ।
[१६५।०९-१६५।१०]
तस्य जम्बूद्वीपस्याधस्तात्पञ्चयोजनशतान्तरपरिच्छिन्ना राजधानी तेषां मूलस्थानं ततोऽन्यत्र विसृताः ।
[१६५।११]
केचित्प्रेता महर्द्धिका दैवीमिव श्रियमुद्वहन्ति ।
शेषा यथा प्रेतावदाने ।
[१६५।१२]
अथेमौ चन्द्रार्कौ कस्मिन् प्रतिष्ठितौ ।
वायौ ।
[१६५।१२-१६५।१३]
वायवोऽन्तरीक्षे सर्वसत्त्वसाधारणकर्माधिपत्यनिर्वृत्ता आवर्तवत्सुमेरुं परिवर्तन्ते ।
[१६५।१३-१६५।१४]
चन्द्रार्कताराणां वोर्ध्वचारः ।
[१६५।१४]
कियद्वीप्रकृष्टावितश्चन्द्रार्कौ ।
[१६५।१५]
अर्धेन मेरोश्चन्द्रार्कौ ।
[१६५।१६]
युगन्धरगिरेर्मूर्ध्ना समं वहतः ।
किं प्रमाणौ ।
यथाक्रमं
[१६५।१७]
पण्चाशत्सैकयोजनौ ।
[१६५।१८]
पञ्चाशत्योजनानि चन्द्रमण्डलस्य प्रमाणम् ।
[१६५।१८-१६५।१९]
सैकानि पञ्चाशत्सूर्यमण्दलस्य प्रमाणम् ।
[१६५।१९]
एकपञ्चाशदित्यर्थः ।
[१६५।१९-१६५।२०]
तारकाविमानानां यस्याल्पप्रमाणं प्रमाणं तस्य क्रोशः ।
[१६५।२०-१६५।२१]
सूर्यविमानस्याधस्तात्वहिः स्फटिकमण्डलं तैजसमभिनिर्वृत्तं तापनं प्रकाशनं च ।
[१६५।२१-१६५।२२]
चन्द्रविमानस्याधस्तादाप्यं शीतलं भास्वरं च ।
[१६५।२२-१६५।२३]
प्रणीनां कर्मभिर्दृष्टिशरीरफलपुष्पसस्योषधीनामनुग्रहार्थमुपघातकार्थं यथासंभवम् ।
[१६५।२३]
चतुर्द्वीपके एकश्चन्द्रमाः कृत्यं करोत्येकः सूर्यः ।
[१६५।२३-१६५।२४]
किं पुनश्चतुर्द्वीपेषु सूर्यो युगपत्कृत्यं करोति ।
[१६५।२४]
नेत्याह ।
किं तर्हि ।
तेषु ।
[१६५।२५]
अर्धरात्रोऽस्तङ्गमनं मध्याह्न उदयः सकृत् ॥ ३.६० ॥
[१६५।२६-१६५।२७]
यदोत्तरकुरावर्धरात्रं तदा पूर्वविदेहे सूर्यस्यास्तङ्गमनं जम्बूद्वीपे मध्याह्नो गोदानीये उदयः ।
[१६५।२७]
एवमन्येष्वपि योज्यम् ।
सूर्यस्येह गतिभेदेन रात्रिदिवानां वृद्धिह्रासौ ।
[१६५।२८]
तत्र पुनः
[१६६।०१]
प्रावृण्मासे द्वितीयेऽन्त्यनवम्यां वर्धते निशा ।
[१६६।०२]
वर्षाणां द्वितीये मासे भाद्रपदे द्वितीयस्य पक्षस्य नवम्यां वर्धते रात्रिः ।
[१६६।०३]
हेमन्तानां चतुर्थे तु हीयते
[१६६।०४]
सैव हेमन्तानां चतुर्थे मासे पुनर्हीयते ।
अन्त्यनवम्यामिति वर्त्तते ।
[१६६।०४-१६६।०५]
फाल्गुनमासस्य द्वितीयपक्षनवम्याम् ।
[१६६।०६]
अहर्विपर्ययात् ॥ ३.६१ ॥
[१६६।०७]
यदा रात्रिर्वर्धते तदा दिवसो हीयते ।
यदा रात्रिर्हीयते तदा दिवसो वर्धते ।
[१६६।०८]
कियत्या मात्रया वर्धते ।
[१६६।०९]
लवशो रात्र्यहर्वृद्धी
[१६६।१०]
लवं लवं रात्रिर्वर्धते दिवसो वा ।
ते च हानिवृद्धी यथाक्रमं
[१६६।११]
दक्षिणोत्तरगे रवौ ।
[१६६।१२]
जम्बूद्विपस्य दक्षिणं पार्श्वं गच्छति भास्करे रात्रिवृद्धिः उत्तरं गच्छत्यहर्वृद्धिः ।
[१६६।१३]
शुक्लपक्षस्यादौ चन्द्रमसो विकलं मण्डलं दृश्यते ।
किं तत्र कारणम् ।
[१६६।१४]
स्वच्छाययाऽर्कसामीप्याद्विकलेन्दुसमीक्षणम् ॥ ३.६२ ॥
[१६६।१५-१६६।१६]
यदा हि सौरस्य विमानस्यासन्ने चान्द्रमसं विमानं वहति तदा किल सौर्यो भासस्तस्मिन् विमाने पतन्ति ।
[१६६।१६-१६६।१७]
ततोऽपरपार्श्वे छाया पतन्ती विकलं मण्डलं दर्शयतीति प्राज्ञप्तिको निर्देशः ।
[१६६।१७-१६६।१८]
वाहयोगः स तादृशो भवति यत्कदाचिद्विमानस्यार्धं दृश्यत इति पूर्वाचार्याः ।
[१६६।१८-१६६।१९]
अथैतानि सूर्यादिविमानानि कतमे सत्त्वा अध्यावसन्ति ।
[१६६।१९]
देवाश्चातुर्महाराजकायिकाः ।
किमेतान्येव तेषां स्थानानि ।
[१६६।२०]
विमानवासिनामेतानि ।
भूमिनिवासिनां पुनः सुमेरूपरिषण्डादीनि ।
[१६६।२०-१६६।२१]
कति चास्य परिषण्डाः कियत्यो वा ।
[१६६।२२]
परिषण्डाश्चतस्रोऽस्य दशसाहस्रिकान्तराः ।
[१६६।२३]।
दशयोजनसहस्राण्युद्गम्यैका ।
एवं यावच्चतुर्थी ।
ताभिः सुमेरोरर्धमाक्षिप्तम् ।
[१६६।२४]
ताश्च ततो यथासंख्यं
[१६७।०१]
षोडशाष्टौ सहस्राणि चत्वारि द्वे च निर्गताः ॥ ३.६३ ॥
[१६७।०२]
प्रथमा परिषण्डा षोडश सहस्राणि योजनानां सुमेरोर्निर्गता ।
[१६७।०३]
द्वितीयाऽष्टौ तृतीया चत्वारि चतुर्थी द्वे ।
[१६७।०४]
करोटपाणयस्तासु मालाधारास्सदामदाः ।
[१६७।०५]
महाराजिकदेवाश्च
[१६७।०६]
प्रथमायां परिषण्डायां करोटपाणयो नाम यक्षाः प्रतिवसन्ति ।
[१६७।०६-१६७।०७]
द्वितीयायां मालाधारास्तृतीयायां सदामदाः सदामत्ताः ।
[१६७।०७]
सर्व एते चतुर्महाराजकायिकाः ।
[१६७।०७-१६७।०८]
चतुर्थ्यां तु चत्वारो महाराजाः स्वयं प्रतिवसन्ति तत्परिचाराश्च ।
[१६७।०८-१६७।०९]
अतस्तस्यां महाराजकायिका देवा इत्युक्तम् ।
[१६७।०९]
यथा परिषण्डासु चतुर्महाराजकायिका देवा एवं
[१६७।१०]
पर्वतेष्वपि सप्तसु ॥ ३.६४ ॥
[१६७।११]
युगन्धरादिषु पर्वतेषु तेषां ग्रामनिगमाः ।
अत एवैष देवनिकायः सर्वेषां महिष्ठः ।
[१६७।१२]
मेरुमूर्ध्नि त्रयस्त्रिंशाः
[१६७।१३]
अथ कियान्मेरुमूर्धा ।
[१६७।१४]
स चाशीतिसहस्रदिक् ।
[१६५।१५]
एकैकपार्श्वमशीतिसहस्राणि यथैवाधस्तात् ।
[१६७।१५]
अन्ये पुनराहुः ।
[१६७।१५-१६७।१६]
स विंशतिसहस्रदिक् ।
[१६७।१६]
चत्वारि पार्श्वन्यस्य चतस्रो दिशः ।
[१६७।१६-१६७।१७]
एकैकं पार्श्वं विंशतिर्योजनसहस्राणि समन्तात्परिक्षेपेणाशीतिरिति ॥
[१६७।१७]
तस्य च
[१६७।१८]
विदिक्षु कूटाश्चत्वार उषिता वज्रपाणिभिः ॥ ३.६५ ॥
[१६७।१९]
सूमेरुमूर्ध्नो विदिशः कोणाः ।
[१६७।१९-१६७।२०]
तासु पञ्चयोजनशतप्रमाणाश्चत्वारः कूटा अभ्युद्गता येषु वज्रपाणयो नाम यक्षाः प्रतिवसन्ति ।
[१६७।२०]
तस्य च मेरुमूर्ध्नः
[१६७।२१-१६७।२२]
मध्ये सार्धद्विसाहस्रपार्श्वमध्यर्धयोजनम् ।
पुरं सुदर्शनं नाम हैमं चित्रतलं मृदु ॥ ३.६६ ॥
[१६७।२३-१६७।२४]
सुमेरुतलस्य मध्ये सुदर्शनं नाम नगरं दैर्ध्ये सार्धतृतीययोजनसहस्रे एकैकं पर्श्वमुच्छ्रायेणाध्यर्धयोजनम् ।
[१६७।२४-१६७।२५]
प्राकारः सौवर्ण एकोत्तरेण धातुशतेनास्य भुमिश्चित्रिता ।
[१६७।२५-१६७।२६]
तच्च भूमितलं तूलपिचुवत्मृदुसंस्पर्शं पादक्षेपोत्क्षेपाभ्यां नतोन्नतं शक्रस्य देवानामिन्द्रस्य राजधानी ।
[१६८।०१]
सार्धद्विशतपाश्र्वोऽत्र वैजयन्तः
[१६८।०२-१६८।०४]
शक्रस्य देवानामिन्द्रस्य वैजयन्तो नाम प्रासादो नगरस्य मध्ये नानारत्नस्थानविधानसंपदा सर्वान्यभवनश्रीमहिम्ना ह्रेपणो दैर्ध्येणार्धतृतीये योजनशते पार्श्वं पार्श्वम् ।
[१६८।०४]
इयं तावन्नगरस्याभिरामता ।
[१६८।०५]
बहिः पुनः ।
[१६८।०६]
तच्चैत्ररथपारुष्यमिश्रनन्दनभूषितम् ॥ ३.६७ ॥
[१६८।०७]
तस्य हि नगरस्य बहिश्चतुर्षु पार्श्वेषु चत्वार्युद्यानादीनि देवानां क्रिडाभूमयः ।
[१६८।०८]
चैत्ररथमुद्यानं पारुष्यकं मिश्रकावणं नन्दनवनं च ।
तैस्तन्नगरं बहिरलङ्कृतम् ।
[१६८।०९]
विंशत्यन्तरितान्येषां सुभूमीनि चतुर्दिशम् ।
[१६८।१०-१६८।११]
एषां चोद्यानानां चतुर्दिशं चत्वारि सुमूमीनि विंशतियोजनान्तरितानि क्रीडास्थानान्येव देवानां परस्परस्पर्धयैव शोभां वितन्वन्ति ।
[१६८।१२]
वहिरेव नगरस्य पार्श्वे
[१६८।१३]
पूर्वोत्तरे पारिजातः सुधर्मा दक्षिणावरे ॥ ३.६८ ॥
[१६८।१४]
पारिजातो नाम कोविदारस्त्रायस्त्रिंशानां देवानां कामरतिप्रकर्षाश्रयः ।
[१६८।१४-१६८।१५]
तस्य पञ्च योजनानि मूलाहिनिवेशो योजनशतमुच्छ्रायः।
[१६८।१५-१६८।१६]
पञ्चाशत्योजनानि शाखापत्रपलाशं स्करित्वा तिष्ठति ।
[१६८।१६-१६८।१७]
तस्य खलु सर्वपरिफुल्लस्य योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजन योजनानि प्रतिवातम् ।
[१६८।१७]
युक्तं तावदनुवातम् ।
[१६८।१७-१६८।१८]
प्रतिवातं तु कथम् ।
[१६८।१८]
वृक्षानतिक्रमं संधायोक्तमित्येके ।
[१६८।१८-१६८।१९]
नहि नाम स्प्रतिवातं वातो वाति ।
[१६८।१९-१६८।२०]
तस्यैव तु सा गन्धस्य तादृशो प्रभावसंपदेष्टव्या यात्प्रतिबध्यमानोऽपि दिव्यैर्मृदुमारुतैर्गन्धान्तरं संतनोति ।
[१६८।२०-१६८।२१]
मन्दतरतमसमारम्भात्तु संतान आश्वेव समुच्छिद्यते यतो न तथा विप्रकृष्टमध्वानं प्रसर्पति ।
[१६८।२१-१६८।२२]
किं पुनः स्वभूताश्रित एवमपुष्पगन्धसंतानो वर्तते उताहो वायुरधिवासितो जायते ।
[१६८।२२]
नात्र नियमः ।
[१६८।२३]
उभयथापि ह्याचार्येष्टिः ।
यत्तर्हि भगवतोक्तं
[१६८।२४-१६८।२५]
“न पुष्पगन्धः प्रतिवातमेति न मौलिकस्तागरश्चान्दनो वा ।
सतां तु गन्धः प्रतिवातमेति सर्वा दिशः सत्पुरुषः प्रवाती”ति ।
[१६९।०१]
मानुष्यकं पुष्पगन्धं संधायोक्तम् ।
तद्धि प्रतीतं लोके ।
[१६९।०१-१६९।०३]
न च तस्य तादृशी शक्तिः महीसासकास्तु पथन्ति “योजनशतमनुवातं गन्धो वाति पञ्चाशद्योजनानि प्रतिवातमिति ।
[१६९।०३-१६९।०४]
सुधर्मा नाम देवसभा दक्षिणपश्चिमे दिग्भागे यस्यां निषद्य देवाः कृत्याकृत्यं समर्थयन्ति ।
[१६९।०४]
एष तावत्त्रिदशानां भाजनसंनिवेशः ।
[१६९।०५]
ततऊर्ध्वं विमानेषु देवाः
[१६९।०६]
त्रिदशेभ्य ऊर्ध्वं देवा विमानेषु प्रतिष्ठिताः ।
[१६९।०६-१६९।०७]
ते पुनर्यामास्तुषिता निर्माणरतयः परनिर्मितवशवर्तिनश्च ब्रह्मकायिकादयश्च पूर्वोक्ताः षोडशस्थानान्तरगताः ।
[१६९।०८]
इत्येते द्वाविंशतिदेवनिकायाः समासेन येषां भाजनं प्रज्ञायते ।
[१६९।०९]
कामभुजस्तु षट् ।
[१६९।१०]
तेषां तु षट्कामावचरा देवनिकायाः कामान् परिभुञ्जते न शेषाः ।
[१६९।१०-१६९।११]
तद्यथा चतुर्महाराजकायिका यावत्परनिर्मितवशवर्तिनः ।
[१६९।११]
ते पुनः
[१६९।१२]
द्वन्द्वालिङ्गनपाण्याप्तिहसितेक्षितमैथुनाः ॥ ३.६९ ॥
[१६९।१३]
द्वन्द्वेन मैथुनं भूमिसम्बद्धवासिनाम् ।
[१६९।१३-१६९।१४]
चातुर्महाराजकायिकानां त्रायस्त्रिङ्क्शानां यथा मनुष्याणाम् ।
[१६९।१४]
तेषां तु वायुनिर्मोक्षात्दाहविगमः शुक्राभावात् ।
[१६९।१४-१६९।१५]
आलिङ्गनेन मैथुनं यामानामालिङ्गनमात्रेण दाहविगमात् ।
[१६९।१५-१६९।१६]
पाणिसंप्राप्त्या तुषितानां हसितेन निर्माणरतीनां प्रेक्षितेन परनिर्मितवशवर्तिनाम् ।
[१६९।१६-१६९।१७]
स्ववर्तिनां सर्वेषां द्वन्द्वसमापत्त्या ।
[१६९।१७]
कालपरिमानं तु प्रज्ञप्तावुक्तमिति वैभाषिकाः ।
[१६९।१७-१६९।१८]
यावद्यावद्विषयाणां तीव्रतरता तावत्तावद्रागोऽपि तीव्रतरः ।
[१६९।१८-१६९।१९]
यस्य देवस्य देव्या वा उत्सङ्गे देवकुमारो देवकन्या वा जायते स तयोः पुत्रो भवति सा च दुहिता ।
[१६९।१९-१६९।२०]
कियत्प्रमाणो जायते ।
[१६९।२१]
पञ्चवर्षोपमो यावत्दशवर्षोपमः शिशुः ।
[१६९।२२]
संभवत्येषु
[१६९।२३]
यथासंख्यं षट्सु देवनिकायेषु ।
ते तु क्षिप्रमेवाभिवर्धन्ते ।
[१६९।२४]
संपूर्णाः सवस्त्राश्चैव रूपिणः ॥ ३.७० ॥
[१७०।०१]
रूपावचरा देवाः संपूर्णकायाः वस्त्रेण संवीता उपपद्यन्ते ।
[१७०।०१-१७०।०२]
सर्वे देवा आर्यभाषाभाषिणः ।
[१७०।०२]
तदत्र कामधातौ वेदितव्याः
[१७०।०३]
कामोपपत्तयस्तिस्रः कामदेवाः समानुषाः ।
[१७०।०४]
कथं कृत्वा ।
[१७०।०४-१७०।०५]
सन्ति सत्त्वाः प्रत्युपस्थितकामाः प्रत्युपस्थितेषु कामेष्वैश्वर्यं वशे वर्तयन्ति ।
[१७०।०५]
तद्यथा मनुष्यास्तदेकत्याश्च देवाः ।
ते पुनश्चत्वारो देवनिकायाः ।
[१७०।०६]
सन्ति सत्त्वा निर्मितकामा निर्माय कामानैश्वर्य वशे वर्तयन्ति ।
[१७०।०६-१७०।०७]
तद्यथा देवा निर्माणरतयः ।
[१७०।०७-१७०।०८]
सन्ति सत्त्वाः परनिर्मितकामाः परनिर्मितेषु कामेष्वैश्वर्य वशे वर्त्तयन्ति ।
[१७०।०८]
तद्यथा देवाः परनिर्मितवशवर्त्तिनः ।
[१७०।०८-१७०।१०]
ता एता यथोत्पन्नपरिभोगित्वात्यथेच्छात्मनिर्मितपरिभोगित्वाद्यथेच्छात्मपर निर्मितपरिभोगित्वाच्च तिस्रः कामोपपत्तय इत्युच्यन्ते ।
[१७०।१०]
रूपधातौ तु
[१७०।११]
सुखोपपत्तयस्त्रिसो नवत्रिध्यानभूमयः ॥ ३.७१ ॥
[१७०।१२]
त्रिषु ध्यानेषु या नव भूमयः तास्तिस्रः सुखोपपत्तयः ।
[१७०।१२-१७०।१४]
ते हि देवा विवेकजेन समाधिजेन च प्रीतिसुखेन च निष्प्रीतिकेन च सुखेन सुखं विहरन्तो दीर्घमध्वानं तिष्ठन्ति ।
[१७०।१४]
अत एता निर्दुःखदीर्घसुखत्वात्सुखा उपपत्तयः सुखोपपत्तयः ।
[१७०।१४-१७०।१५]
ध्यानान्तरोत्पत्तौ तु प्रीतिसुखाभावात्सुखोपपत्तित्वं विचार्यम् ।
[१७०।१६-१७०।१७]
यान्येतानि देवानां द्वाविंशतिस्थानान्युक्तानि तेषामधरादुत्तरं कियद्विप्रकृष्टम् ।
[१७०।१७]
नैतत्सर्वं योजनपरिसंख्यया सुकरं परिसंख्यातुम् ।
अपि तु
[१७०।१८]
स्थानात्स्थानादधो यावत्तावदूर्ध्वं ततस्ततः ।
[१७०।१९-१७०।२०]
जम्बूद्वीपात्प्रभृति यदुत्तरं स्थानं तस्माद्यावदधो जम्बूद्वीपस्तावत्पुनस्तस्मादूर्ध्वं स्थानान्तरम् ।
[१७०।२०-१७०।२१]
तद्यथा चतुर्थी परिषण्डा चतुर्णां महाराजानां मूलस्थानमितश्चत्वारिंशद्योजनसहस्राणि ।
[१७०।२१-१७०।२२]
तस्माद्यावदधोजम्बूद्वीपस्तावदूर्ध्वं त्रिदशानां स्थानं तस्मादपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं यामानां स्थानम् ।
[१७०।२३]
ततोऽपि यावदधो जम्बूद्वीपस्तावदूर्ध्वं तुषितानां स्थानमिति ।
[१७०।२३-१७०।२४]
एवं विस्तरेण सर्वमनुक्रम्य सुदर्शनेभ्यो यावदधो जम्बूद्वीपस्तावदूर्ध्वंमकनिष्ठानां स्थानम् ।
[१७०।२५]
तस्मादूर्ध्वं न पुनः स्थानमस्ति ।
अत एव ज्येष्ठभूत्वादकनिष्ठा उच्यन्ते ।
[१७०।२५-१७०।२६]
अघनिष्ठा इत्यपरे ।
[१७०।२६]
अघं किल चित्तस्थं रूपं तन्मात्रनिष्ठेति ।
[१७०।२७]
किं पुनरधरस्थानोपपन्ना उर्ध्वानि विमानानि गत्वा पश्यन्ति
[१७१।०१]
नोर्ध्वं दर्शनमस्त्येषामन्यत्रर्द्धिपराश्रयात् ॥ ३.७२ ॥
[१७१।०२]
ऋद्ध्या वा त्रायस्त्रिंशा यामान् ।
गच्छेयुः ।
[१७१।०२-१७१।०३]
पराश्रयेण वा यद्वृद्धिमता नीयेरन् देवेन वा तत्रत्येन ।
[१७१।०३]
एवं शेषाः ।
[१७१।०३-१७१।०४]
आगतं तूर्ध्वोपपन्नं पश्येन्नतूर्ध्वधातुकं नोर्ध्वभूमिकम् ।
[१७१।०४]
यिअथा स्प्रष्टव्यं न स्पृशेदविषयत्वात् ।
[१७१।०४-१७१।०५]
अत एव तेनास्वेन कायेनागच्छन्ति ।
[१७१।०५-१७१।०६]
किं तर्हि निर्मितेनाधरभूमिकेन तदिच्छया पश्येदिहत्यमिवेति निकायान्तरीयाः ।
[१७१।०७]
अथैषां यामादिविमानानां कियत्प्रमाणम् ।
[१७१।०७-१७१।०८]
चतुर्णां तावद्यावत्सुमेरुमूर्ध्नः इत्येके ।
[१७१।०८]
द्विगुणोत्तरमित्यपरे ।
प्रथमं तु ध्यानं यावांश्चातुर्द्वीपकः ।
[१७१।०८-१७१।०९]
द्वितीयं यावान् साहस्रश्चूडिको लोकधातुः ।
[१७१।०९]
तृतीयं यावान् द्विसाहस्रः ।
[१७१।०९-१७१।१०]
चतुर्थं यावांस्रिसाहस्र इत्येके ।
[१७१।१०]
प्रथमादीनि साहस्रादिपरिमाणानि ।
[१७१।१०-१७१।११]
चतुर्थं त्वपरिमाणमित्यपरे ।
[१७१।१२]
अथ कोऽयं साहस्रश्चूडिको लोकधातुः को द्विसाहस्रस्त्रिसाहस्रो वा ।
[१७१।१३-१७१।१४]
चतुर्द्वीपकचन्द्रार्कमेरुकामदिवौकसाम् ।
ब्रह्मलोकसहस्रं च साहस्रश्चूडिको मतः ॥ ३.७३ ॥
[१७१।१५-१७१।१७]
सहस्रञ्जंबूद्वीपानां पूर्वविदेहानामपरगोदानीयानामुत्तरकुरुणां सहस्रं सूर्याणां चन्द्राणां सुमेरूणां सहस्रं चातुर्महाराजकायिकानां देवानां यावत्परनिर्मितवशवर्तिनां सहस्रं ब्रह्मलोकानामयमुच्यते साहस्रश्चूडिको लोकधातुः ।
[१७१।१८]
तत्सहस्रं द्विसाहस्रो लोकधातुस्तु मध्यमः ।
[१७१।१९]
तेषां चूडिकानां लोकधातूनां सहस्रं द्विसाहस्रो मध्यमो लोकधातुः ।
[१७१।२०]
तत्सहस्रं त्रिसाहस्रः
[१७१।२१]
तेषां द्विसाहस्राणां लोकधातूनां सहस्रं त्रिसाहस्रमहासाहस्रो लोकधातुः ।
[१७१।२१-१७१।२२]
एष हि कृत्स्नः
[१७१।२३]
समसंवर्तसंभवः ॥ ३.७४ ॥
[१७१।२४]
समं संवर्तते समं विवर्तते ।
संभवो हि विवर्तः इत्युत्तरत्र व्याख्यास्यते ।
[१७१।२५-१७१।२६]
किं खलु यथा भाजनानां प्रमाणभेद एवं तद्वासिनामपि सत्त्वानां प्रमाणभेदोऽस्ति ।
[१७१।२६]
अस्तीत्याह ।
तत्र तावत्
[१७१।२७]
जाम्बूद्वीपाः प्रमाणेन चतुःसार्धत्रिहस्तकाः ।
[१७१।२८]
जम्बूद्वीपका मनुष्याः प्रमाणार्धचतुर्हस्तकाः केचित्तु चतुर्हस्तकाः
[१७२।०१]
द्विगुणोत्तरवृद्ध्या तु पूर्वगोदोत्तराह्वयाः ॥ ३.७५ ॥
[१७२।०२-१७२।०३]
पूर्वविदेहका गोदानीका उत्तरकौरवाश्च मनुष्या अष्टषोडशद्वात्रिंशद्धस्तका यथाक्रमम् ।
[१७२।०४]
पादवृद्ध्या तनुर्यावत्सार्धक्रोशो दिवौकसाम् ।
[१७२।०५]
कामिनां
[१७२।०६]
पादः क्रोशस्य चतुर्थो भगः ।
[१७२।०६-१७२।०८]
तन्मात्रं शरीरं चातुर्महाराजकायिकानां द्वौ पादौ त्रायस्त्रिंशानां त्रयो यामानां चत्वारस्तुषितानां पञ्च निर्माणरतीनामध्यर्धः क्रोशः परनिर्मितवशवर्तिनाम् ।
[१७२।०९]
रुपिणां त्वादौ योजनार्धं
[१७२।१०]
रूपिणां देवानां प्रथमे स्थाने ब्रह्मकायिकानामर्धयोजनमात्रं शरीरम् ।
[१७२।११]
ततः परम् ॥ ३.७६ ॥
[१७२।१२]
अर्धार्धवृद्धिः
[१७२।१३]
त्रिषु स्थानेसु ब्रह्मपुरोहितानां योजनं महाब्रह्मणोऽध्यर्धं परीत्ताभानां द्वे योजने ।
[१७२।१४-१७२।१५]
उर्ध्वं तु परीत्ताभेभ्य आश्रयः ।
द्विगुणद्विगुणा हित्वाऽनभ्रकेभ्यऽस्त्रियोजनम् ॥ ३.७७ ॥
[१७२।१६]
अप्रमाणाभानां चत्वारि योजनानि ।
आभास्वराणामष्टौ ।
[१७२।१६-१७२।१७]
एवं द्विगुणवृद्ध्या यावच्छुभकृत्स्नानां चतुःषष्टिः ।
[१७२।१७-१७२।१८]
अनभ्रकाणां ततो योजनत्रयेण हीनं द्विगुणं पञ्चविंशतियोजन शतम् ।
[१७२।१८-१७२।१९]
तस्मात्परेण पुनः पुण्यप्रसवानां द्विगुणं द्विगुणं यावदकनिष्ठानां षोडशयोजनसहस्राणि शरीरम् ।
[१७२।२०]
एवं प्रमाणभिन्नानां किमायुषोऽप्यस्ति भेदः ।
अस्तीत्याह ।
[१७२।२१]
सहस्रमायुः कुरुषु
[१७२।२२]
वर्षाणाम् ।
[१७२।२३]
द्वयोरर्धार्धवर्जितम् ।
[१७२।२४]
द्वयोर्द्विपयोरर्धार्धं वर्जयित्वा पञ्च वर्षशतानि गोदानीयानाम् ।
[१७२।२४-१७२।२५]
अर्धतृतीये वर्षशते पूर्वविदेहानाम् ।
[१७३।०१]
इहानियतम्
[१७३।०२]
जम्बूद्वीपे नास्त्यायुषो नियमः कदाचित्भूयो भवति कदाचिदल्पीयः ।
[१७३।०३]
अन्ते तु दशाब्दाः
[१७३।०४]
अब्दः संवत्सरः ।
अन्ते हीयमानं दश वर्षाण्यायुर्भवति ।
[१७३।०५]
आदितोऽमितम् ॥ ३.७८ ॥
[१७३।०६]
आदितः प्राथमकल्पिकानं मनुष्याणामपरिमाणमायुर्भवति ।
[१७३।०६-१७३।०७]
सहस्रादिसंख्यया परिमातुं न शक्यते ।
[१७३।०८]
उक्तं मनुष्याणां देवानां वक्तव्यम् ।
[१७३।०८-१७३।०९]
तच्चाहोरात्रं व्यवस्थाप्य शक्यं वक्तुमिति स एव चैषां व्यवस्थाप्यते ।
[१७३।१०-१७३।११]
नृणां वर्षाणि पञ्चाशदहोरात्रो दिवौकसाम् ।
कामेऽधराणां
[१७३।१२-१७३।१३]
यानि मनुष्याणां पञ्चाशद्वर्षाणि तानि कामधातावधराणां देवानां चातुर्महाराजकायिकानामेकं रात्रिन्दिवम् ।
[१७३।१४]
तेनायुः पञ्चवर्षशतानि तु ॥ ३.७९ ॥
[१७३।१५-१७३।१६]
तेन ततस्तेनाहोरात्रेण तेषां त्रिंशद्रात्रकेण मासेन द्वादशमासकेन संवत्सरेण दिव्यानि पञ्चवर्षशतान्यायुः प्रमाणम् ।
[१७३।१७]
द्विगुणोत्तरमूर्ध्वानामुभयं
[१७३।१८]
ऊर्ध्वानां देवानामुभय द्विगुणोत्तरमहोरात्रश्चायुश्च ।
कथं कृत्वा ।
[१७३।१८-१७३।१९]
यन्मनुष्याणां वर्षशतं तत्त्रायस्त्रिंशानां देवानामेकं रात्रिन्दिवम् ।
[१७३।१९-१७३।२०]
तेन रात्रिन्दिवेन दिव्यं वर्षसहस्रमायुः ।
[१७३।२०]
एवं यामादीनां यथाक्रमम् ।
[१७३।२०-१७३।२१]
मानुष्यकाणि द्वे चत्वार्यष्टौ षोडश वर्षशतान्येकं रात्रिन्दिवम् ।
[१७३।२१-१७३।२२]
तेन रात्रिन्देवेन द्वे चत्वार्यष्टौ षोडश दिव्यानि वर्षसहस्राण्यायुषः प्रमाणम् ।
[१७३।२२]
युगन्धरादूर्वं सूर्याचन्द्रमसोरभावात् ॥
[१७३।२२-१७३।२३]
कथं देवानामहोरात्रव्यवस्थानमालोककृत्यं वा ।
[१७३।२३-१७३।२४]
पुष्पाणां संकोचविकासात्कुमुदबन्धु वत्शकुनीनां कूजनाकूजनात्मिद्धापगमागमाच्च आलोककृत्यं स्वयंप्रभत्वात् ।
[१७३।२५]
उक्तमायुः कामिनाम् ।
[१७४।०१]
रूपिणां पुनः ।
[१७४।०२]
नास्त्यहोरात्रमायुस्तु कल्पैः स्वाश्रयसंमितैः ॥ ३.८० ॥
[१७४।०३]
येषां रूपिणामर्धयोजनमाश्रयः तेषामर्धकल्पमायुः ।
येषां योजनं तेषां कल्पम् ।
[१७४।०३-१७४।०५]
एवं यस्य यावद्योजनमाश्रयस्तस्य तावत्कल्पमायुर्यवदकनिष्ठानां षोडशकल्पसहस्राण्यायुः प्रमाणम् ।
[१७४।०६]
आरूप्ये विंशतिः कल्पसहस्राण्य धिकाधिकम् ।
[१७४।०७]
आकाशानन्त्यायतने विंशतिकल्पसहस्राण्यायुषः प्रमाणम् ।
[१७४।०८]
विज्ञानानन्त्यायतने तस्मादधिकं विंशतिः सहस्राणि ।
[१७४।०८-१७४।०९]
आकिञ्चन्यायतने तस्मादधिकं विंशतिः ।
[१७४।०९]
भवाग्रे तस्मादधिकं विंशतिः ।
[१७४।०९-१७४।१०]
एवं तेषां यथाक्रमं विंशतिश्चत्वारिंशत्षष्टिरशीतिः कल्पसहस्राण्यायुःप्रमाणम् ।
[१७४।११-१७४।१२]
कतमोऽत्र कल्पो वेदितव्यः किमन्तरकल्पोऽथ संवर्तकल्पोऽथ विवर्त्तकल्पोऽथ महाकल्पः ।
[१७४।१३]
महाकल्पः परीत्ताभात्प्रभृत्यर्धमधस्ततः ॥ ३.८१ ॥
[१७४।१४]
परीत्ताभादेव निकायात्प्रभृति महाकल्पेनायुः वेदितव्यम् ।
[१७४।१४-१७४।१५]
तस्मादधो महाकल्पस्यार्ध कल्पीकृत्य महाब्रह्मादीनामायुर्व्यवस्थापितम् ।
[१७४।१५]
कथं कृत्वा ।
[१७४।१५-१७४।१७]
यच्च लोको विंशतिमन्तरकल्पान् विवर्तते यच्च लोको विंशतिमन्तरकल्पान्विवर्त आस्ते यच्च विंशतिमन्तरकल्पान्संवर्तते इमे षष्टिरन्तरकल्पा महाब्रह्मणोऽध्यर्धः कल्पः उक्तः ।
[१७४।१७-१७४।१८]
एवं च कृत्वा महाकल्पस्यार्धं चत्वारिंशदन्तरकल्पान् कल्पीकृत्य तेषामायुः प्रमाणमुक्तम् ।
[१७४।१९]
उक्तं सुगतावायुः प्रमाणम् ।
[१७४।२०]
दुर्गताविदानीं वक्तव्यम् ।
तत्र तावत्
[१७४।२१-१७४।२२]
कामदेवायुषा तुल्या अहोरात्रा यथाक्रमम् ।
संजीवादिषु षट्सु
[१७४।२३-१७४।२४]
यावत्षण्णां कामावचराणां देवनिकायानामायुरुक्तं तेन तुल्या अहोरात्राः षट्षु नरकेषु यथाक्रमं वेदितव्याः ।
[१७४।२४-१७४।२५]
संजीवे कालसूत्रे संघाते रौरवे महारौरवे तापने च ।
[१७४।२६]
आयुस्तैस्तेषां कामदेववत् ॥ ३.८२ ॥
[१७४।२७-१७४।२८]
तैरिदानीं स्वैरहोरात्रैस्तेषां यथा षण्णां कामावचराणां देवानामायुस्तथैव यथाक्रमं वेदितव्यम् ।
[१७४।२८]
कथं कृत्वा ।
[१७४।२८-१७४।२९]
यद्धि चातुर्महाराजकायिकानामायुः प्रमाणं तत्संजीवने महानरके एकं रात्रिन्दिवम् ।
[१७४।२९-१७५।०१]
तेन यावत्द्वादशमासकेन संवत्सरेण तत्रत्यानि पञ्चवर्षशतान्यायुः ।
[१७५।०१-१७५।०२]
यत्त्रायस्त्रिंशानामायुः प्रमाणं तत्कालसूत्रे महानरके एकं रात्रिन्दिवम् ।
[१७५।०२-१७५।०३]
तेन रात्रिन्दिवेन तस्मिन्वर्षसहस्राण्यायुःप्रमाणम् ।
[१७५।०३-१७५।०४]
एवमन्येष्वपि यथायोगं योज्यं यावत्परनिर्मितवशवर्तिनामायुःप्रमाणं तत्तुल्येनाहोरात्रेण तापने षोडश वर्षसहस्राण्यायुःप्रमाणम् ।
[१७५।०५]
अर्धं प्रतापने
[१७५।०६]
प्रतापने महानरकेऽन्तरकल्पस्यार्धमायुः प्रमाणम् ।
[१७५।०७]
अवीचावन्तःकल्पं
[१७५।०८]
तिरश्चां तु नियमो नास्ति ।
[१७५।०९]
परं पुनः ।
[१७५।१०]
कल्पं तिरश्चां
[१७५।११]
परमायुस्तिरश्चामन्तरकल्पं तत्पुनर्नागानां नन्दोपनन्दाश्वतलीप्रभृतीनाम् ।
[१७५।११-१७५।१३]
उक्तं हि भगवता “अष्टाविमे भिक्षवो नागा महानागाः कल्पस्था धरणिधरा” इति विस्तरः ।
[१७५।१४]
प्रेतानां मासाह्ना शतपञ्चकम् ॥ ३.८३ ॥
[१७५।१५]
यो मनुष्याणां मासः स प्रेतानामहोरात्रः ।
[१७५।१५-१७५।१६]
तेनाहोरात्रेण पञ्च वर्षशतान्यायुः ।
[१७५।१६]
शीतनरकेष्वायुषः किं प्रमाणम् ।
[१७५।१७-१७५।१८]
वाहाद्वर्षशतेनैकतिलोद्धारक्षयायुषः ।
अर्वुदाद्विंशतिगुणप्रतिवृद्ध्यायुषः परे ॥ ३.८४ ॥
[१७५।१९-१७५।२०]
उपमानमात्रेण तेष्वायुराख्यातं भगवता “तद्यथा भिक्षवः इह स्याद्विंशतिखारीको मागधकस्तिलवाहः पूर्णस्तिलानां चूडिकावद्धः ।
[१७५।२०-१७५।२२]
ततः कश्चिदेव वर्षशतस्यात्ययादेकं तिलमपनयते क्षिप्रतरं भिक्षवः सविंशतिखारीको मागधस्तिलवाहोऽनेनोपक्रमेण परिक्षयं पर्यादानं गच्छेत् ।
[१७५।२२]
न त्वेवाहमर्वुदोपपन्नानामायुषः पर्यन्तं वदामि ।
[१७५।२२-१७५।२४]
यथा खलु भिक्षवो विंशतिर्वुदा एवमेको निरर्वुदो विस्तरेण यथा खलु भिक्षवो विंशतिः पद्या एवमेको महापद्म” इति ।
[१७५।२५]
एवमेषामायुष्मतां सत्त्वानां किमस्त्यपरिपूर्णायुषामन्तरा मृत्युराहोस्विन्न ।
[१७५।२६]
सर्वत्रास्ति
[१७६।०१]
कुरुबाह्योऽन्तरामृत्युः
[१७६।०२]
उत्तरकुरुषु नियतायुषः सत्त्वा अवश्यं कृत्स्नमायुर्जीवन्ति ।
अन्येषु नावश्यम् ।
[१७६।०३]
पुद्गलानां तु बहूनां नास्त्यन्तरेण कालक्रियया ।
[१७६।०३-१७६।०५]
तुषितस्थर्स्यकजातिबद्धस्य बोधिसत्त्वस्य चरमभविकसत्त्वस्य जिनादिष्टस्य जिनभुतस्य श्रद्धाधर्मानुसारिणो बोधिसत्त्वचक्रवर्त्तिमात्रोश्च तद्गर्भयोरित्येवमादिनाम् ।
[१७६।०६-१७६।०७]
योजनप्रमणेन स्थानानि शरीराणि चोत्कानि वर्षप्रमाणेनायुरुक्तं तयोश्च प्रमाणं नोक्तमिति वक्तव्यं नाना च सर्वेषां ववस्थानमतस्तस्यापि पर्यन्तो वक्तव्यः ।
[१७६।०८]
तेषां समानाख्यानार्थमादिप्रक्रम आरभ्यते ।
[१७६।०९]
परमाण्वक्षरक्षणाः ।
[१७६।१०]
रूपनामाध्वपर्यन्ताः
[१७६।११]
रूपस्यापचीयमानस्य पर्यन्तः परमाणुः ।
[१७६।११-१७६।१२]
कालस्य पर्यन्तः क्षणो नाम्नः पर्यन्तोऽक्षरं तद्यथा गौरिति ।
[१७६।१२]
क्षणस्य पुनः किं प्रमाणम् ।
[१७६।१२-१७६।१३]
समग्रेषु प्रत्ययेषु यावता धर्मस्यात्मलाभः गच्छन्वा धर्मो यावता परमाणोः परमाण्वन्तरं गच्छति ।
[१७६।१३-१७६।१४]
बलवत्पुरुषाद्धट्मात्रेण पञ्चषष्टिः क्षणा अतिक्रामन्तीत्याभिधार्मिकाः ।
[१७६।१५]
परमाणुरणुस्तथा ॥ ३.८५ ॥
[१७६।१६-१७६।१७]
लोहापशशाविगोच्छिद्ररजोलिक्षास्तदुद्भवाः ।
यवस्तथाङ्गुलीपर्व ज्ञेयं सप्तगुणोत्तरम् ॥ ३.८६ ॥
[१७६।१८]
एतत्परमाण्वादिकं सप्तगुणोत्तरं वेदितव्यम् ।
सप्त परमाणवोऽणुः ।
[१७६।१८-१७६।१९]
सप्ताणवो लोहरजः ।
[१७६।१९]
तानि सप्ताव्रजस्तानि सप्त दाशरजस्तानि सप्तैडकरजः ।
[१७६।१९-१७६।२०]
तानि सप्त गोरजः तानि सप्त वातायनच्छिद्ररजः ।
[१७६।२०]
तानि सप्त लिक्षास्तदुद्भवा यूकेत्यर्थः ।
[१७६।२०-१७६।२१]
सप्त यूका यवः ।
[१७६।२१-१७६।२२]
सप्त यवा अङ्गुलीपर्व त्रीणि पर्वाण्यङ्गुरीति प्रसिद्धमेवेति नोक्तम् ।
[१७६।२२]
पार्श्वाकृतास्तु ।
[१७७।०१]
चतुर्विंशतिरङ्गुल्यो हस्तो हस्तचतुष्टयम् ।
[१७७।०२]
धनुः
[१७७।०३]
व्यासेनेत्यर्थः ।
[१७७।०४]
पञ्चशतान्येषां क्रोशो रण्यं च तन्मतम् ॥ ३.८७ ॥
[१७७।०५]
मनुषां पञ्च शतानि क्रोशः ।
क्रोशमात्रं च ग्रामादि रण्यमिष्टम् ।
[१७७।०६]
तेऽष्टौ योजनमित्याहुः ।
[१७७।०७]
उक्तं योजनस्य प्रमाणम् ।
वर्षस्येदानीमुच्यते ।
[१७७।०८]
विंशं क्षणशतं पुनः ।
[१७७।०९]
तत्क्षणः
[१७७।१०]
क्षणानां विंशं शतमेकस्तत्क्षणः ।
[१७७।११]
ते पुनः षष्टिर्लवः ।
[१७७।१२]
तत्क्षणाः षष्टिर्लव इत्युच्यते ।
[१७७।१३]
त्रिंशद्गुणोत्तराः ॥ ३.८८ ॥
[१७७।१४]
त्रयो मुहूर्त्ताहोरात्रमासाः
[१७७।१५]
त्रिंशल्लवा मुहूर्त्तस्त्रिशन्मुहूर्त्ता अहोरात्रः ।
[१७७।१५-१७७।१६]
कदाचित्तु रात्रिरधिका भवति कदाचिदूना कदाचित्समा ।
[१७७।१६]
त्रिदशाहोरात्रा मासः ।
[१७७।१७]
द्वादशमासकः ।
[१७७।१८]
संवत्सरः सोनरात्रः
[१७७।१९-१७७।२०]
चत्वारो मासा हेमन्तानां चत्वारो ग्रीष्माणां चत्वारो वर्षाणामित्येते द्वादश मासा संवत्सरः सार्धमूनरात्रैः ।
[१७७।२०]
संवत्सरेण हि षडूनरात्रा निपात्यन्ते ।
कथं कृत्वा ।
[१७७।२१]
“हेमन्तग्रीष्मवर्षाणामध्यर्धे मासि निर्गते ।
शेषेऽर्धमासे विद्वद्भिरूनरात्रो निपात्यते ॥”
[१७७।२३]
उक्तं वर्षप्रमाणम् ।
[१७८।०१]
कल्पस्येदानीं वक्तव्यम् ।
[१७८।०२]
कल्पो बहुविधः स्मृतः ॥ ३.८९ ॥
[१७८।०३]
अन्तरकल्पो संवर्त्तकल्पो विवर्तकल्पो महाकल्पश्चेति ।
तत्र तावत्
[१७८।०४]
संवर्त्तकल्पो नरकासंभवात्भाजनक्षयः ।
[१७८।०५]
नरकेषु हि सत्त्वासंभवात्प्रभृति यावत्भाजनसंक्षयः ।
द्वे हि संवर्त्तन्यौ ।
[१७८।०५-१७८।०६]
गतिसंवर्तनी धातुसंवर्तनी च ।
[१७८।०६]
पुनर्द्वे संवर्तन्यौ ।
सत्त्वसंवर्तनी भाजनसंवर्तनी च ।
[१७८।०७]
भवति स कालो यन्नरकेषु सत्त्वाश्च्यवन्ते नोपपद्यन्ते ।
स आरम्भः संवर्तकल्पस्य ।
[१७८।०८]
यदयं लोको विंशत्यन्तरकल्पान् विवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् ।
[१७८।०८-१७८।०९]
यद्विंशतिमन्तरकल्पान् संवर्तिष्यते तत्प्रतिपन्नं वक्तव्यम् ।
[१७८।०९-१७८।१०]
यदा नरकेष्वेकसत्त्वो नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति ।
[१७८।१०-१७८।११]
यदुत नरकसंवर्त्तन्या यस्य तदानीं नियतं नरकवेदनीयं कर्म घ्रियते स लोकधात्वन्तरनरकेषु क्षिप्यते ।
[१७८।११-१७८।१२]
एवं तिर्यक्संवर्त्तनी प्रेतसंवर्त्तनी च वक्तव्या ।
[१७८।१२]
महासमुद्रगतास्तिर्यञ्चः पूर्वं संवर्तन्ते ।
[१७८।१२-१७८।१३]
मनुष्यसहचरिष्णवस्तु तैरेव सार्धं भवन्ति ।
[१७८।१३-१७८।१६]
स कालो यन्मनुष्येष्वन्यतमः सत्त्वः स्वयमनाचार्यकं धर्मताप्रातिलम्भिकं प्रथमं ध्यानं समापद्यते स तस्मात्व्युत्थाय वाचं भाषते सुखं वत विवेकजं प्रीतिसुखं शान्तं वत विवेकजं प्रीतिसुखमिति ।
[१७८।१६-१७८।१७]
तं च शब्दं श्रुत्वा अन्येऽपि सत्त्वाः समापद्यन्ते ।
[१७८।१७]
कालं कृत्वा ब्रह्मलोक उपपद्यन्ते ।
[१७८।१७-१७८।१८]
यदा जम्बूद्वीप एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत जम्बूद्वीपसंवर्तन्या ।
[१७८।१८-१७८।१९]
एवं पूर्वविदेहगोदानीयोत्तरकुरुसंवर्तन्यो वक्तव्याः ।
[१७८।१९-१७८।२०]
यदा मनुष्येष्वेकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत मनुष्यगतिसंवर्त्तन्या ।
[१७८।२०-१७८।२१]
औत्तरकौरवास्तु कालं कृत्वा कामावचरेषु देवेषूपपद्यन्ते ।
[१७८।२१]
तत्र वैराग्याभावात् ।
[१७८।२१-१७८।२२]
एवं चातुर्महाराजकायिकेष्वपि देवेषु प्रथमं ध्यानं समापद्य ब्रह्मलोक उपपद्यन्ते ।
[१७८।२२-१७८।२४]
यदा तत्रैकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत चातुर्महाराजकायिकसंवर्तन्या ।
[१७८।२४-१७८।२५]
एवं यावत्परनिर्मितवशवर्तिसंवर्त्त्न्यो वक्तव्याः ।
[१७८।२५-१७८।२६]
यदैकसत्त्वोऽपि कामावचरेषु देवेषु नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत कामधातुसंवर्तन्या ।
[१७८।२६-१७८।२८]
ब्रह्मलोकेऽप्यन्यतमः सत्त्वो धर्मताप्रातिलम्भिकं द्वितीयं ध्यानं समापद्योत्थाय वाचं भाषते सुखं वत समाधिजं प्रीतिसुखं शान्तं वत समाधिजं प्रीतिसुखमिति ।
[१७८।२८-१७९।०१]
तं शब्दं श्रुत्वाऽन्येऽपि सत्त्वाः समापद्यन्ते कालं च कृत्वा आभास्वरेषु देवेषूपपद्यन्ते ।
[१७९।०१-१७९।०२]
यदा ब्रह्मलोक एकसत्त्वोऽपि नावशिष्टो भवति इयताऽयं लोकः संवृत्तो भवति यदुत सत्त्वसंवर्तन्या ।
[१७९।०२-१७९।०४]
ततः शून्ये भाजने इत एव सामन्तकात्सत्त्वानां तदाक्षेपके कर्मणि परिक्षीणे सप्त सूर्याः प्रादुर्भूय क्रमेण यावत्पृथिवीं सुमेरुं च निःशेषं दहन्ति ।
[१७९।०४-१७९।०५]
तस्मादेवं प्रज्वलितादर्चिर्वायुना क्षिप्तं शून्यं ब्राह्मं विमानं निर्दहत्परैति ।
[१७९।०५]
तच्च तद्भूमिकमेवार्चिर्वेदितव्यम् ।
[१७९।०५-१७९।०६]
नहि विसभागा अपक्षालाः क्रमन्ते ।
[१७९।०६]
तत्संबद्धसंभूतत्वात्तस्मात्तदित्युक्तम् ।
[१७९।०६-१७९।०७]
कामावचरो ह्यग्नी रूपावचरमग्निं संबध्नातीति ।
[१७९।०७-१७९।०८]
एवमन्यस्यामपि संवर्तन्यां यथायोगं वेदितव्यमिति ।
[१७९।०८-१७९।०९]
नरकेषु सत्त्वानां च्युत्यनुत्पादात्प्रभृति यावत्भाजनानां संक्षय एष कालः ।
[१७९।१०]
विवर्तकल्पः प्राग्वायोर्यावन्नरकसंभवः ॥ ३.९० ॥
[१७९।११]
थमाद्वायोः प्रभृति यावन्नरकेषु सत्त्वसम्भवः एष कालो विवर्तकल्प इत्युच्यते ।
[१७९।१२-१७९।१४]
तथा संवृते हि लोक आकाशमात्रावशेषश्चिर कालं तिष्ठति यावत्पुनरपि सत्त्वानां कर्माधिपत्येन भाजनानां पूर्वनिमित्तभूता आकाशे मन्दमन्दा वायवः स्यन्दन्ते ।
[१७९।१४-१७९।१५]
तदा यदयं लोको विंशतिमन्तरकल्पान् संवृत्तोऽस्थात्तन्निर्यातं वक्तव्यम् ।
[१७९।१५]
यद्विंशतिमन्तरकल्पान् विवर्त्तिष्यते तदुपयातं वक्तव्यम् ।
[१७९।१६]
ततस्ते वायवो वर्धमाना यथोक्तं वायुमण्डलं जायते ।
[१७९।१६-१७९।१७]
ततः शनैर्यथोक्तक्रमविधानं सर्वं जायते अप्मण्डलं काञ्चनमयी महापृथिवी द्वीपाः सुमेर्वादयश्च ।
[१७९।१७-१७९।१८]
प्रथमं तु ब्राह्म विमानमुत्पद्यते ।
[१७९।१८]
ततो यावत्यामीयं ततो वायुमण्डलादीनि ।
[१७९।१८-१७९।१९]
इयताऽयं लोको विवृत्तो भवति यदुत भाजनविवर्तन्या ।
[१७९।१९-१७९।२०]
अथान्यतरः सत्त्व आभास्वरेभ्यश्च्युत्वा शून्ये ब्राह्मे विमान उत्पद्यते ।
[१७९।२०-१७९।२१]
अन्येऽपि सत्त्वास्ततश्च्युत्वा ब्रह्मपुरोहितेषूपपद्यन्ते ।
[१७९।२१]
ततो ब्रह्मकायिकेषु परनिर्मितवशवर्तिषु ।
[१७९।२१-१७९।२२]
क्रमेण यावदुत्तरकुरौ गोदानीये पूर्वविदेहे जम्बूद्वीपे प्रेतेषु तिर्यक्षु नरकेषूपपद्यन्ते ।
[१७९।२२-१७९।२३]
धर्मता ह्येषा यत्पश्चात्संवर्तते तत्पूर्वं विवर्त्तते ।
[१७९।२३-१७९।२४]
यदा नरकेष्वेकः सत्त्वोऽपि प्रादुर्भूतो भवति तदा यदयं लोको विंशतिमन्तरकल्पान् विवर्तते तन्निर्यातं भवति ।
[१७९।२४-१७९।२५]
यद्विंशतिमन्तरल्पान् विवर्त्तः स्थास्यति तदुपयातं भवति ।
[१७९।२६]
अन्तःकल्पोऽमितात्यावद्दशवर्षायुषः
[१७९।२७-१८०।०१]
विवर्तमाने लोके एकान्न विंशतिरन्तरकल्पा अपरिमितायुषां मनुष्याणामतिक्रामन्ति ।
[१८०।०१-१८०।०२]
अपरिमितायुषामेव क्रमतां यावद्दशवर्षायुषो भवन्ति ।
[१८०।०२]
सोऽसौ विवृत्तानां तिष्ठतां प्रथमोऽन्तरकल्पः ।
[१८०।०३]
ततः ।
[१८०।०४]
उत्कर्षा अपकर्षाश्च कल्पा अष्टादशापरे ॥ ३.९१ ॥
[१८०।०५]
तस्मादपरेऽष्टादशोत्कर्षा अपकर्षाश्चाष्टादशान्तरकल्पा भवन्ति ।
कथं कृत्वा ।
[१८०।०६]
तेभ्यो हि दशवर्षायुष्केभ्य उत्कर्षं गच्छन्तः क्रमेणाशीतिवर्षसहस्रायुषो भवन्ति ।
[१८०।०७]
पुनश्चापकर्षं गच्छन्तो दशवर्षायुषो भवन्ति ॥
एवं द्वितीयोऽन्तरकल्पः ।
[१८०।०७-१८०।०८]
एवं यावदष्टादश ।
[१८०।०९]
उत्कर्ष एकः
[१८०।१०]
एकान्तरकल्पो विंशतितम उत्कर्ष एवमपकर्षः ।
[१८०।१०-१८०।११]
दशवर्षायुष्केभ्यो यावदशीतिवर्षायुषां मनुष्याणामिति वर्त्तते ।
[१८०।११]
अथैते उत्कर्षाः कियन्तं प्रकर्षं गच्छन्ति ।
[१८०।१२]
तेऽशीतिसहस्राद्यावदायुषः ।
[१८०।१३-१८०।१४]
नातः परेण वर्धन्ते यावानेव चान्येषामन्तरकल्पानामुत्कर्षापकर्षकालस्तावानेव प्रथमस्यापकर्षकालः पश्चिमस्य चोत्कर्षकाल इति समानकालाः सर्वे भवन्ति ।
[१८०।१५]
इति लोको विवृत्तोऽयं कल्पांस्तिष्ठति विंशतिम् ॥ ३.९२ ॥
[१८०।१६]
इत्यनेनान्तरकल्पन्यायेनायं विंशतिमन्तरकल्पान्विवृत्तस्तिष्ठति ।
[१८०।१६-१८०।१७]
यावन्तं कालं विवृत्तस्तिष्ठति तावन्तमेव कालं
[१८०।१८]
विवर्ततेऽथ संवृत्त आस्ते सम्वर्तते समम् ।
[१८०।१९]
विंशतिमेवान्तरकल्पान् विवर्तते विंशतिं संवर्तते विंशतिं संवृत्त आस्ते ।
[१८०।१९-१८०।२०]
यद्यपि तदानीमुत्कर्षा अपकर्षाश्च न प्रवर्तन्ते कालस्तु समानः परिसंख्यायते ।
[१८०।२०-१८०।२२]
तत्रैकेनान्तर कल्पेन भाजनान्यभिनिवर्तन्ते एकान्नविंशत्याऽन्तरकल्पैरावास्यन्ते एकेनान्तरकल्पेन भाजनानि विध्वस्यन्ते एकान्नविंशत्या शून्यी भवन्ति ।
[१८०।२२-१८०।२३]
ता एता अन्तरकल्पानां चतस्रो विंशत्योऽशीतिर्भवन्ति ।
[१८०।२४]
ते ह्यशीतिर्महाकल्पः
[१८०।२५]
एतन्महाकल्पस्य प्रमाणम् ।
कल्पः किंस्वभावः ।
पञ्चस्कन्धस्वभावः ।
[१८०।२५-१८१।०१]
यदुच्यते त्रिभिरसंख्येयैः कल्पानां बुधत्वं प्राप्यत” इति ।
[१८१।०१]
तत्कतमेषां कल्पानाम् ।
[१८१।०१-१८१।०२]
य एव महाकल्पो निर्दिष्टः ।
[१८१।०३]
तदसंख्यत्रयोद्भवम् ॥ ३.९३ ॥
[१८१।०४]
बुद्धत्वम्
[१८१।०५]
संख्येयानां कल्पानां त्रयेण ।
[१८१।०५-१८१।०६]
कथमसंख्येयस्यासति संख्येयावसाने पुनस्त्रित्वमुच्यते ।
[१८१।०६]
नैअदेवं वेदितव्यम् । किं तर्हि ।
[१८१।०६-१८१।०७]
“षष्टिः स्थानान्तराण्यसंख्येयमि”ति मुक्तकसूत्रं पठ्यते ।
[१८१।०७]
कतमानि षष्टिः ।
एको ह्यद्वितीयः प्रथमं स्थानान्तरम् ।
[१८१।०८]
एककानां दशको द्वितीयम् ।
दश दशकानि शतं तृतीयम् ।
दश शतानि सहस्रम् ।
[१८१।०९]
दश सहस्राणि प्रभेदः ।
दश प्रभेदा लक्षम् ।
[१८१।०९-१८१।१०]
दश लक्षा अतिलक्षः ।
[१८१।१०]
दशातिलक्षाः कौटिः ।
दश कौट्यो मध्यः।
दश मध्या अयुतम् ।
[१८१।११]
शायुता महायुतम् ।
दश महायुता नियुतम् ।
दश नियुता महानियुतम् ।
[१८१।११-१८१।१२]
दश महानियुताः प्रयुतम् ।
[१८१।१२]
दश प्रयुता महाप्रयुतः ।
दश महाप्रयुताः कङ्करः ।
[१८१।१२-१८१।१३]
दश कङ्करा महाकङ्करः ।
[१८१।१३]
दश महाकङ्करा विस्वरः ।
दश विस्वरा महाविस्वरः ।
[१८१।१३-१८१।१४]
दश महाविस्वरा अक्षोभ्यः ।
[१८१।१४]
दशाक्षोभ्या महाक्षोभ्यः ।
दश महाक्षोभ्या विवाहः ।
[१८१।१५]
दश विवाहा महाविवाहः ।
दश महाविवाहा उत्सङ्गः ।
दशोत्सङ्गा महोत्सङ्गः ।
[१८१।१६]
दश महोत्सङ्गा वाहनः ।
दश वाहनानि महावाहनम् ।
[१८१।१६-१८१।१७]
दश महावाहनानि तटिभः ।
[१८१।१७]
दश तिटिभा महातिटिभः ।
दश महातिटिभा हेतुः ।
[१८१।१७-१८१।१८]
दश हेतवो महाहेतुः ।
[१८१।१८]
दश महाहेतवः करभः ।
दश करभा महाकरभः ।
[१८१।१८-१८१।१९]
दश महाकरभा इन्द्रः ।
[१८१।१९]
दशेन्द्रा महेन्द्रः ।
दश महेन्द्राः समाप्तम् ।
दश समाप्तानि महासमाप्तम् ।
[१८१।२०]
दश महासमाप्तानि गतिः ।
दश गतयो महागतिः ।
दश महागतयो निम्बरजः ।
[१८१।२०-१८१।२१]
दश निम्बरजांसि महानिम्बरजः ।
[१८१।२१]
दश महानिम्बरजांसि मुद्रा ।
दश मुद्रा महामुद्रा ।
[१८१।२१-१८१।२२]
दश महामुद्राः बलम् ।
[१८१।२२]
दश बलानि महाबलम् ।
[१८१।२२-१८१।२३]
दश महाबलानि सज्ञा ।
[१८१।२३]
दश संज्ञा महासंज्ञा ।
दश महासंज्ञा विभूतः ।
दश विभूता महाविभूतः ।
[१८१।२३-१८१।२४]
दश महाविभूता बलाक्षम् ।
[१८१।२४]
दश बलाक्षा महाबलाक्षम् ।
दश महाबलाक्षाण्यसम्ख्यम् ।
[१८१।२५]
अष्टकं मध्याद्विस्तृतम् ।
[१८१।२५-१८२।०१]
इत्येतेषां षष्टिस्थानान्तरगतां संख्यामनुप्राप्ताः कल्पा असंख्येयानित्युच्यन्ते ।
[१८२।०१]
ततो व्यावृत्य पुनर्गण्यन्ते ।
[१८२।०१-१८२।०२]
एवं त्रीणि असंख्येयानीत्युच्यन्ते ।
[१८२।०२]
न तु नैव परिसंख्यातुं शक्यन्त इति ।
[१८२।०३]
किन्तु खलु कालप्रकर्षेणैव कृतप्रणिधाना बोधिसत्त्वा बोधिमभिसंबुध्यन्ते ।
[१८२।०४]
किमेतदेव भविष्यति ।
[१८२।०४-१८२।०५]
महतां हि पुण्यज्ञानसंभारेण षड्भिः पारमिताभिः बहुभिर्दुष्करशतसहस्रैस्त्रिभिः कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसंबुध्यन्ते बोधिसत्त्वाः ।
[१८२।०६]
यद्यप्यन्यथाऽप्यस्ति मोक्षावकाशः किमर्थं त इयन्तं यत्नमारभन्ते ।
[१८२।०६-१८२।०७]
परार्थं त इयन्तं यत्नमारभन्ते कथं परानपि महतो दुःखौघात्परित्रातुं शक्नुयामिति ।
[१८२।०७-१८२।०८]
क एषां परार्थेन स्वार्थः ।
[१८२।०८]
एष एव तेषां स्वार्थो यः परार्थस्तस्याभिमतत्वात् ।
[१८२।०८-१८२।०९]
इदानीमेतच्छ्राद्धास्यते ।
[१८२।०९]
सत्यं दुःश्रद्धानमेतदात्मंभरिभिर्निष्करुणैः ।
[१८२।०९-१८२।११]
कारुणिकैस्तु श्रद्धितमेवैतत्यथा चेह केचिदभ्यस्तनैर्धृण्या असत्यपि स्वार्थे परव्यसनाभिरता उपलभ्यन्ते ।
[१८२।११-१८२।१२]
तथा पुनरभ्यस्तकारुण्या असत्यपि स्वार्थे परहितक्रियाभिरामाः सन्तीति संभाव्यम् ।
[१८२।१२-१८२।१५]
यथैव चाभ्यासवशादनात्मभूतेषु संस्कारेषु संस्कृतलक्षणानभिज्ञा आत्मस्नेहं निवेश्य तद्धेतोर्दुःखान्युद्वहन्ति एवं पुनरभ्यासवशादात्मस्नेहं तेभ्यो निर्वर्त्य परेष्वपेक्षां वर्धयित्वा तद्धेतोर्दुःखान्युद्वहन्तीति संभाव्यम् ।
[१८२।१५-१८२।१६]
गोत्रान्तरमेव हि तत्तथाजातीयं निर्वर्तते यत्परेषां दुःखेन दुःखायते सुखेन सुखायते नात्मन इति ।
[१८२।१६]
न ते पुनः स्वार्थमन्यं पश्यन्ति ।
आह चात्र
[१८२।१७-१८२।२०]
“हीनः प्रार्थयते स्वसंततिगतं यैस्तैरूपायः सुखं
मध्यो दुःखनिवृत्तिमेव न सुखं दुःखास्पदं तद्यतः ।
श्रेष्ठः प्रार्थयते स्वसंततिगतैर्दुःखैः परेषां सुखं
दुःखात्यन्तनिवृत्तिमेव च यतस्तद्दुःखदुःख्येव सः ॥”
[१८२।२१]
किं पुनरुत्कर्षा बुद्धा उत्पयन्ते आहोस्विदपकर्षाः ।
[१८२।२२]
अपकर्षे हि शताद्यावत्तदुद्भवः ।
[१८२।२३-१८२।२४]
अशीतिवर्षशतायुपि प्रजायामपकर्षे आरब्धे यावद्वर्षशतायुषो मनुष्या भवन्त्येतस्मिन्नन्तरे बुद्धा उत्पद्यन्ते ।
[१८२।२४]
कस्मान्नोत्कर्षकाले ।
तदा हि दुःसमुद्वेजाः सत्त्वा भवन्ति ।
[१८३।०१]
कस्मान्न शतात् ।
[१८३।०१-१८३।०२]
तदा हि पञ्च कषाया अभ्युत्सदा भवन्ति ।
[१८३।०२-१८३।०३]
तद्यथाऽयुष्कषायः कल्पकषायः क्लेशकषायः दृष्टिकषायः सत्त्वकषायश्च ।
[१८३।०३]
अपकर्षस्याधस्तात्प्रत्यवरा आयुरादयः किटभूतत्वात्कषाया उच्यन्ते ।
[१८३।०४]
द्वाभ्यां हि जीवितोपकरणविपत्ती यथाक्रमम् ।
द्वाभ्यां कुशलपक्षवीपत्तिः ।
[१८३।०४-१८३।०५]
कामसुखल्लिकाऽत्मक्लमथानुयोगाधिकारात्गृहिप्रव्रजितपक्षयोर्वा ।
[१८३।०५-१८३।०६]
एकेनात्मभाववीपत्तिः ।
[१८३।०६]
प्रमाणरूपारोग्यबलवृद्धिस्मृतिवीर्यधैर्यभ्रंसात् ।
[१८३।०७]
अथ प्रत्येकबुद्धानां कस्मिन् काले उत्पादः ।
[१८३।०८]
द्वयोः प्रत्येकबुद्धानाम् ।
[१८३।०९]
उत्कर्षेऽयपकर्षेऽपि ।
द्विविधा हि प्रत्येकबुद्धा वर्गचारिणः खड्गविषाणकल्पाश्च ।
[१८३।१०]
तत्र वर्गचारिणः श्रावकपूर्विणः प्रत्येकजिना उच्यन्ते ।
[१८३।१०-१८३।११]
पृथग्जनपूर्विणोऽपि सन्तीत्यपरे ।
[१८३।११]
येऽन्यत्रोत्पादितनिर्वेधभागीया इह स्वयं मार्गमभिसंबुध्यन्ते ।
[१८३।११-१८३।१४]
तथाहि पूर्वयोगं पठन्ति “पर्वते किल पञ्चशतानि तापसानां कष्टानि तपांसि तप्यन्ते स्म यावत्प्रत्येकबुद्धसहोषितेन मर्कटेनागम्य तदीर्यापथसंदर्शनात्प्रत्येकबोधिमभिसंबन्द्धा” इति ।
[१८३।१४]
नचार्याः सन्तः कष्टानि तपांसि तप्येरन् ।
[१८३।१४-१८३।१५]
खड्गविषाणकल्पाः पुनरेकविहारिणः ।
[१८३।१५]
तेषां प्रत्येकबुद्धानां
[१८३।१६]
खड्गः कल्पशतान्वयः ॥ ३.९४ ॥
[१८३।१७-१८३।१८]
महाकल्पानां शतं बोधिसंभारेषु चरितः खड्गं विषाणकल्पो भवति ।
[१८३।१८]
विनोपदेशेनात्मानमेकं प्रतिबुधा इति प्रत्येकबुद्धाः ।
[१८३।१८-१८३।१९]
ते ह्येकमात्मानं दमयन्ति नान्यान् ।
[१८३।१९]
किं पुनरत्र कारणम् ।
[१८३।१९-१८३।२०]
नहि तावदशक्ता धर्मं देशयितुं प्रतिसंवित्प्राप्तत्वात् ।
[१८३।२०]
शक्यं च तैः पूर्वबुद्धानां शासनमनुस्मृत्यापि धर्मं देशयितुम् ।
[१८३।२१]
नापि निष्करुणाः ।
सत्त्वानुग्रहार्थमृद्धेराविष्करणात् ।
[१८३।२१-१८३।२२]
नापि सत्त्वानामभव्यत्वात् ।
[१८३।२२]
तथा हि लौकिकमार्ग वीतरागाः संविद्यन्ते ।
किं तर्हि ।
[१८३।२२-१८३।२३]
पूर्वाभ्यासवशेनाल्पोत्सुकताऽधिमुक्तत्वात्नोत्सहन्ते गम्भीरधर्मग्रहणाय परेषां व्यापर्तुम् ।
[१८३।२४]
अनुस्रोतो गामिनीनां हि प्रजानां दुष्करं प्रतिस्रोतो नयनम् ।
[१८३।२४-१८३।२५]
गणपरिकर्षणप्रसङ्गपरिहारार्थं च व्याक्षेपसंसर्गभीरुत्वात् ।
[१८४।०१]
अथ चक्रवर्त्तिनः कदोत्पद्यन्ते ।
[१८४।०२]
चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् ।
[१८४।०३]
अमिते चायुषि मनुष्याणां यावदशीतिसहस्रके चोत्पत्तिश्चक्रवर्त्तिनां नाधः ।
[१८४।०३-१८४।०४]
तस्याः सस्यसंपदस्तदूनायुषामभाजनत्वात् ।
[१८४।०४-१८४।०५]
राज्यं चक्रेण वर्तयितुं शीलमेषामिति चक्रवर्त्तिनः ।
[१८४।०५]
ते पुनश्चतुर्विधाः ।
[१८४।०६]
सुवर्णरूप्यताम्रायश्चक्रिणः
[१८४।०७]
सुवर्णरूप्यताम्रायश्चक्र्काणि येषां सन्ति ।
[१८४।०७-१८४।०८]
प्रथम एषामुत्तमो द्वितीय उपोत्तमः तृतीयो मध्यमश्चतुर्थोऽधमः ।
[१८४।०९]
तेऽधरक्रमात् ॥ ३.९५ ॥
[१८४।१०]
एकद्वित्रिचतुर्द्वीपाः
[१८४।११]
यस्यायसं चक्रं स एकद्वीपाधिपतिः ।
यस्य ताम्रमयं स द्वयोः ।
[१८४।११-१८४।१२]
यस्य रूप्यमयं स त्रयाणाम् ।
[१८४।१२]
यस्य सुवर्ण्मयं स चतुर्द्वीपाधिपतिः ।
एष प्राज्ञप्तिको निर्देशः ।
[१८४।१३]
सूत्रे तु प्रधानग्रहणादेकमेव सौवर्णं चक्रम् ।
[१८४।१३-१८४।१६]
“यस्य राज्ञः क्षत्रियस्य मूर्धाभिषिक्तस्य तदईव पोषधे पञ्चदश्यां शिरःस्नातस्योपोषधो पोषितस्योपरिप्रासादतलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सनाभिकं सनेमिकं सर्वाकारपरिपूर्णं शुभकर्मारकृतं दिव्यं सर्वसौवर्णं स राजा भवति चक्रवर्ती”ति ।
[१८४।१७]
एवं चैते चक्रवर्तिन उत्पद्यन्ते ।
[१८४।१८]
न च द्वौ सह बुद्धवत् ।
[१८४।१९-१८४।२०]
सूत्र उक्त” मस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतावर्हन्तौ सम्यक्संबुद्धौ लोक उत्पद्येयातां नेदं स्थानं विद्यते स्थानमेतद्विद्यते यदैकस्तथागतः ।
[१८४।२०-१८४।२१]
यथा तथागत एवं चक्रवर्त्तिनावि”ति ।
[१८४।२१]
इदमत्र संप्रधार्यम् ।
[१८४।२१-१८४।२२]
किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्ट उताहो सर्वलोकधातव इति ।
[१८४।२२-१८४।२३]
नान्यत्र बुद्धा उत्पद्यन्ते इत्येके ।
[१८४।२३]
किं कारणम् ।
[१८४।२३-१८४।२४]
मा भूत्भगवतः शक्तिव्याघातः इति ।
[१८४।२४]
एक एव हि भगवान् सर्वत्र शक्तः ।
[१८४।२४-१८४।२५]
यत्र बुद्ध एको न शक्तः स्याद्विनेयान् विनेतुं तत्राऽन्योऽपि न शक्त इति ।
[१८४।२५-१८४।२७]
उक्तं च सूत्रे “स चेत्त्वां शारिपुत्र कश्चिदुपसंक्रम्यैवं पृच्छेतस्ति कश्चिदेतर्हि श्रमणो वा ब्राह्मणो वा समसमः श्रमणेन गोतमेन यदुताभिसंबोधाय ।
[१८४।२७-१८४।२८]
एवं च पृष्टः किं व्याकुर्याः ।
[१८४।२८-१८५।०१]
स चेन्मां भदन्त कश्चिदुपसंक्रम्येवं पृच्छेत्तस्याहं पृष्ट एवं व्याकुर्या नास्ति कश्चिदेतर्ह्हि शृअमणो वा ब्राह्मणो वा समसमो भगवता यदुताभिसंबोधाय ।
[१८५।०१]
तत्कस्य हेतोः ।
[१८५।०१-१८५।०३]
संमुखं मे भगवतोऽन्तिकाच्छ्रुतं संमुखमुद्गृहीतमस्थानमनवकासो यदपूर्वाचरमौ तथागतौ लोक उत्पद्येयातां नेदं स्थानं विद्यत” इति ।
[१८५।०३-१८५।०४]
यत्तर्हि भगवतोक्तं ब्रह्मसूत्रे “यावत्त्रिसाहस्रमहासाहस्रको लोको वशे मेऽत्र वर्तत” इति ।
[१८५।०४]
आभिप्रायिक एष निर्देशः ।
[१८५।०४-१८५।०५]
कोऽत्राभिप्रायः तावतोऽनभिसंस्कारेण व्यवलोकनात् ।
[१८५।०५-१८५।०६]
अभिसंस्कारेन त्वनन्तो बुद्धानां चक्षुर्विषयः ।
[१८५।०६]
सन्त्येवान्यलोकधातुषु बुद्धा इति निकायान्तरीयाः ।
किं कारणम् ।
[१८५।०७]
बहवो हि समं संभारेषु प्रवर्तमाना दृश्यन्ते ।
[१८५।०७-१८५।०९]
न चैकत्र बहूनां बुद्धानां युगपत्योग उत्पत्तुं न चास्ति तदुत्पत्तौ कक्श्चित्प्रतिबन्धः इति नियतं लोकधात्वन्तरेषूत्पद्यन्ते ।
[१८५।०९-१८५।१०]
अनन्ता लोकधातव इति न शक्यं भगवता कल्पमप्यायुर्विर्भ्रता यिथेह तथाऽन्येष्वपि अनन्तेषु लोकधातुषु व्यापर्तुं किं पुनः पुरुषायुषम् ।
[१८५।१०-१८५।११]
कथं चेह बुद्धो व्याप्रियते ।
[१८५।११-१८५।१३]
अस्य पुद्गलस्येदमिन्द्रियमियता कालेलामुष्मिन् देशे अमुं पुद्गलमागम्यास्य दोषस्य परिहारादस्याङ्गस्योपसंहारादनेन प्रयोगेणानुत्पन्नं वोत्पत्स्यते अपरिपूर्णं वा परिपूरयिष्यतीति ।
[१८५।१३-१८५।१५]
यत्त्विदं सूत्रमत्रोपनीत “मस्थानमनवकाशो यद्पूर्वाचरमौ द्वी तथागतावेकत्र लोक उत्पद्येयातामि”ति तदेवेदं संप्रधार्यते किमिदमेकं लोकधातुमधिकृत्योक्तमाहोस्वित्सर्वानिति ।
[१८५।१५-१८५।१६]
चक्रवर्तिनोऽपि चास्य लोकद्धातौ न स्यादुत्पादः ।
[१८५।१६]
सहोत्पत्तिप्रतिषेधात्बुद्धवत् ।
[१८५।१६-१८५।१७]
अथैतत्क्षम्यते इदं तु कस्मान्न क्षम्यते “पुण्यस्तु बुद्धानां लोक उत्पाद” इति ।
[१८५।१७-१८५।१८]
यदि बहूनां बहुषु स्यान्न दोषः स्यात् ।
[१८५।१८]
भूयसां लोकानामभ्युदयेन योगः स्यान्निःश्रेयसेन च ।
[१८५।१८-१८५।१९]
अथैङ्कस्मिन्नपि कस्मात्द्वौ तथागतौ न सहोत्पद्येते ।
[१८५।१९]
प्रयोजनाभावात्प्रणिधानवशाच्च ।
[१८५।१९-१८५।२१]
एवं हि बोधिसत्त्वाः प्रणिधानं कुर्वन्ति अहो वताहमन्धे लोकेऽपरिणायके बुद्धो लोक उत्पद्येयमनाथानां नाथ इति ।
[१८५।२१]
आदराभित्वरार्थं च ।
[१८५।२२-१८५।२३]
एकस्मिन्हि बुद्धे सुतरामाद्रियन्ते दुर्लभ ईदृशोऽन्य इति मन्यमानाः सुतरां चाभित्वरन्ते शासनप्रतिपत्तौ माऽस्मिन् गते परिनिर्वृते वाऽनाथा भूमेति ।
[१८५।२४]
अथैते चक्रवर्तिनः सुवर्णादिमयैश्चक्रैः पृथिवीं जयन्तः कथं जयन्ति ।
यथाक्रमं
[१८५।२५]
प्रत्युद्यानस्वयंयान कलहास्त्रजितः
[१८५।२६]
यस्य सौवर्ण चक्रं भवति तं कोटराजानः स्वयं प्रत्युद्गच्छन्ति ।
[१८५।२६-१८६।०१]
इमे देवस्य जनपदाः ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च ।
[१८६।०१-१८६।०२]
तान् देवः समनुशास्तु ।
[१८६।०२]
वयं देवस्यानुयात्रिका भविष्याम इति ।
[१८६।०२-१८६।०३]
यस्य रूप्यमयं स स्वयमेव तेषामन्तिकं याति पश्चादस्य प्रह्वीभवन्ति ।
[१८६।०३-१८६।०४]
यस्य ताम्रमयं स तेषामन्तिकं गत्वा कलहायते पश्चात्प्रह्वीभवन्ति ।
[१८६।०४-१८६।०५]
यस्य शस्त्रमयं स तेषामन्तिकं गच्छति अन्योन्यं शस्त्राण्यावहन्ति पश्चान्नमन्ति ।
[१८६।०५]
सर्वे तु चक्रवर्तिनः
[१८६।०६]
अवधाः ॥ ३.९६ ॥
[१८६।०७-१८६।०८]
शस्त्रेणापि जयतां बधो न प्रवर्तते निर्जित्य च सत्त्वान् दशसु कुशलेषु कर्मपथेषु प्रतिष्ठापयन्ति ।
[१८६।०८]
अत एव ते नियतं देवेषूत्पद्यन्ते ।
[१८६।०८-१८६।०९]
सूत्र उक्तं “राज्ञश्चक्रवर्तिनो लोके प्रादुर्भावात्सप्तानां रत्नानां लोके प्रादुर्भावो भवति ।
[१८६।१०-१८६।११]
तद्यथा चक्ररत्नस्य हस्तिरत्नस्याश्वरत्नस्य मणिरत्नस्य स्त्रीरत्नस्य गृहपतिरत्नस्य परिणायकरत्नस्ये”ति ।
[१८६।११]
कथं सत्त्वसंख्याता हस्त्यादयः परकीयेण कर्मणोत्पद्यन्ते ।
[१८६।१२]
न वै कश्चित्परकीयेणोत्पद्यते ।
[१८६।१२-१८६।१३]
येन तु सत्त्वेन तत्संबन्ध संवर्तनीयं कर्मोपचितं तस्मिन्नुत्पन्ने स्वान्येवैनं कर्माण्युत्पादयन्ति ।
[१८६।१३-१८६।१४]
किमेष एवान्यराजभ्यश्चक्रवर्तिनां विशेषः ।
[१८६।१४]
अन्योऽपि विशेषोऽस्ति ।
[१८६।१४-१८६।१५]
तद्यथा द्वात्रिंशन्महापुरुषलक्षणान्येषां भवन्ति तद्यथा बुद्धानाम् ।
[१८६।१५]
तत्र तु
[१८६।१६]
देशस्थोत्तप्तपूर्णत्वैर्लक्षणातिशयो मुनेः ।
[१८६।१७]
देशस्थतराणि बुद्धानां लक्षणानि ।
[१८६।१७-१८६।१८]
उत्तप्ततराणि संपूर्णतराणि चेत्येष तेषां विशेषः ।
[१८६।१९]
किं खलु प्राथमकल्पिका अपि मनुष्याः सराजका आसन् ।
नेत्याह ।
[१८६।२०]
किं तर्हि ।
[१८६।२१]
प्रागासन्नुपिवत्सत्त्वाः
[१८६।२२]
प्रथमकल्पिका मनुष्या रूपावचरा इवासन् ।
[१८६।२२-१८६।२४]
सूत्र उक्तं “ते भवन्ति रूपिणो मनोमयाः सर्वाङ्गप्रत्यङ्गोपेता आविकला अहीनेन्द्रियाः शुभा वर्णस्थायिनः स्वयं प्रभा विहायसंगमाः प्रीतिभक्षः प्रीत्याहारा दीर्घायुषो दीर्घमध्वानं तिष्ठन्ती”ति ।
[१८६।२५]
रसरागात्ततः शनैः ॥ ३.९७ ॥
[१८६।२६]
आलस्यात्सन्निधिं कृत्वा साग्रहैः क्षेत्रपो भृतः ।
[१८६।२७]
तेषां तथाभूतानां भूमिरसः प्रादुर्भूतो मधुस्वादुरसः ।
[१८६।२७-१८७।०१]
तस्यान्यतमो लोलुपजातीयः सत्त्वो गन्धं घ्रात्वा रसं स्वादितवान् भक्षितवांश्च ।
[१८७।०१-१८७।०२]
तथाऽन्येऽपि सत्त्वास्तथैवाकार्षुः ।
[१८७।०२]
स आरम्भः कवडीकाराहारस्य ।
[१८७।०२-१८७।०३]
तेषां तदाहाराभ्यासात्खरत्वं गुरुत्वं च कायेऽवक्रान्तं प्रभावा अन्तर्हिताः ।
[१८७।०३-१८७।०४]
ततोऽन्धकार उत्पन्ने सूर्याचन्द्रमसौ प्रादुर्भूतौ ।
[१८७।०४-१८७।०५]
सोऽप्येषां भूमिरस आस्वादगृद्धानां क्रमेणान्तर्हितो भूमिपर्पटकं प्रादुर्भूतम् ।
[१८७।०५]
तत्रापि गृद्धास्तदप्यन्तर्हितम् ।
वनलता प्रादुर्भूता ।
[१८७।०५-१८७।०६]
तत्रापि गृद्धाः साऽप्यन्तर्हिता ।
[१८७।०६]
अकृष्टोप्तः शालिरुत्पन्नस्तं प्रभुक्ताः ।
[१८७।०६-१८७।०८]
तस्येदानीमौदारिकत्वान्निःस्यन्दनिर्वाहार्थं सत्त्वानां मूत्रपुरीषमार्गौ सह स्त्रीपुरुषेन्द्रियाभ्यां प्रादुर्भूतौ संस्थानं च भिन्नम् ।
[१८७।०८-१८७।०९]
तेषामन्योन्यं पश्यतां पूर्वाभ्यासवशादयोनिशोमनस्कारग्राहग्रासतां गतानां कामराग उदीर्णो यतो विप्रतिपन्नाः ।
[१८७।०९-१८७।१०]
एष आरम्भः कामिनां कामभूतग्रहावेशस्य ।
[१८७।१०-१८७।११]
ते च खलु तं शालिं सायं च सायमाशार्थं प्रातश्च प्रातराशार्थं प्रवेशयन्ति स्म ।
[१८७।११]
अथान्यतमः सत्त्वोऽलसजातीयः संनिधिकारमकार्षीत् ।
[१८७।१२]
अन्येऽपि च सत्त्वाः संनिधिकारमकार्षुः ।
[१८७।१२-१८७।१३]
तेषां तत्र ममकार उत्पन्ने स शालिर्लूनो लूनो न पुनर्जायते स्म ।
[१८७।१३-१८७।१४]
ततः क्षेत्राणि प्रविभज्य स्वेष्वाग्रहं कृत्वा परकीयं हर्तुमारब्धाः ।
[१८७।१४]
प्रथम आरम्भश्चौर्यस्य ।
[१८७।१४-१८७।१५]
तैस्तेषामङ्कुशार्थं समेत्यान्यतमः पुरुषविशेषः क्षेत्राणि पालयितुं षष्ठभागेन भृतः ।
[१८७।१५-१८७।१६]
तस्य क्षेत्राणामधिपतिः क्षत्रियः क्षत्रिय इति संज्ञोत्पन्ना ।
[१८७।१६-१८७।१७]
महाजनकायस्य संमतः प्रजां च रञ्जयतीति महासंमतो राजेति सम्ज्ञोत्पन्ना ।
[१८७।१७]
एष आरम्भो राजपरंपरायाः ।
[१८७।१७-१८७।१८]
तत्र ये गृहेभ्यो वहिर्मनसः संवृत्तास्तेषां ब्राह्मणा इति संज्ञोत्पन्ना ।
[१८७।१८-१८७।१९]
अथान्यतमस्य राज्ञो लोभात्सम्विभागमकुर्वन्तः सत्त्वानां तास्कर्यं प्राचुर्यमापन्नं स तान् शस्त्रेणोपसंक्रमते स्म ।
[१८७।२०]
ततोऽन्ये नैवङ्कारकाः स्म इति मृषा वाचं वक्तुमारब्धाः इति
[१८७।२१]
ततः कर्मपथाधिक्यादपह्रासे दशायुषः ॥ ३.९८ ॥
[१८७।२२-१८७।२३]
तत एवं कर्मपथानां वृद्धौ सत्यां क्रमेण ह्रसतां मनुस्याणां दशवर्षायुषो मनुष्याः संभवन्ति ।
[१८७।२३]
अतोऽस्य कृत्स्नस्यानर्थौघस्य द्वौ धर्मौ मूलयोनिः रसराग आलस्यं च ।
[१८७।२४]
दशवऋषायुषां मनुष्याणामन्तरकल्पस्य निर्यणं भवति ।
कथं भवतीत्याह
[१८७।२५]
कल्पस्य शस्त्ररोगाभ्यां दुर्भिक्षेण च निर्गमः ।
[१८७।२६]
त्रिभिरन्तरकल्पस्य निर्याणं भवति ।
शस्त्रेण रोगेण दुर्भिक्षेण च ।
[१८७।२६-१८८।०२]
अन्तरकल्पस्य निर्याणकाले दशवर्षायुषो मनुष्याः अधर्मरागरक्ता भवन्ति विषमलोभाविभूता मिथ्याधर्मपरीताः ।
[१८८।०२-१८८।०३]
तेषां व्यापाद उत्कर्ष गतोऽन्योन्यं सत्त्वं दृष्ट्वा तीव्रमाघातचित्तं वधकचित्तं च प्रत्युपस्थितं भवति ।
[१८८।०३-१८८।०५]
तद्यथेदानीं मृगलुब्धकस्यारण्यकं मृगं दृष्ट्वा ते यद्यदेव गृह्णन्ति काष्ठं वा लोष्टं वा तत्तेषां तीक्ष्णं शस्त्रं प्रादुर्भवति ।
[१८८।०५]
तेऽन्योन्यं सत्त्वं जीविताद्व्यपरोपयन्ति ।
[१८८।०५-१८८।०६]
पुनः कल्पस्य निर्याणकाले दशवर्षायुषां मनुष्याणां तैरेव दोषैरमनुष्या ईति मुत्सृजन्ति ।
[१८८।०६-१८८।०७]
तेषामसाध्या व्याध्यादयः प्रादुर्भवन्ति यतो म्रियन्ते ।
[१८८।०७-१८८।०८]
पुनर्दशवर्षायुषां तैरेव दोषैर्देवा वर्षं नोत्सृजन्ति यतो दुर्भिक्षं जायते चञ्चः श्वेतास्थि शलाकावृत्तिः ।
[१८८।०८]
कथं च चञ्चः ।
[१८८।०९]
द्वाभ्यां कारणाभ्याम् ।
य इदानीं समवायः स तदानीं चञ्च इत्युच्यते ।
[१८८।०९-१८८।१०]
समुद्गोऽपि चञ्चः ।
[१८८।१०-१८८।११]
ते च मनुष्या जिघत्सादौर्बल्यपरीताः समेत्य कालं कुर्वन्ति समुद्रेषु चानागतजनताऽनुग्रहार्थं बीजान्यवस्थापयन्ति ।
[१८८।११]
अतस्तद्दुर्भिक्षं चञ्चमित्युच्यते ।
[१८८।१२]
कथं श्वेतास्थि ।
द्वाभ्यां कारणाभ्याम् ।
[१८८।१२-१८८।१४]
तेषां हि शुष्करुक्षकायानां कालं कुर्वतामाश्वेवास्थीनि श्वेतानि भवन्ति बुभुक्षाहताश्च श्वेतान्यस्थीनि संहृत्य क्वाथयित्वा पिवन्ति ।
[१८८।१४]
कथं शलाकावृत्तिः ।
द्वाभ्यां कारणाभ्याम् ।
[१८८।१४-१८८।१७]
ते हि सत्त्वाः शलाकोद्देशिकया गृहेष्वामिर्षं सम्विभजन्ते अद्य गृहस्वामी भोक्ष्यते श्वो गृहस्वामिनीत्येवमादि धान्यस्थानविवरेभ्यश्च शलाकया धान्यफलानि निष्कृष्य बहुलोदकेन क्वाथयित्वा पिवन्ति ।
[१८८।१७]
एवं वर्णयन्ति ।
[१८८।१७-१८८।१९]
येनैकाहमपि प्राणातीपातविरतिः सम्रक्षिता भवति एकहरीतकी वा संघायैकपिण्डपातो वा सत्कृत्यानुप्रदत्तो भवति स तेषु शस्त्ररोगदुर्भिक्षान्तरकल्पेषु नोत्पद्यत इति ।
[१८८।२०]
अथ कियन्तं कालमेतानि शस्त्राघातरोगदुर्भिक्षाणि तेषां सत्त्वानां भवन्ति
[१८८।२१]
दिवसान् सप्त मासांश्च वर्षाणि च य्थाक्रमम् ॥ ३.९९ ॥
[१८८।२२]
शस्त्रकः प्राणातिपातः सप्त दिवसान् भवति ।
रोगः सप्त मासांश्च दिवसांश्च ।
[१८८।२३]
दुर्भिक्षं सप्तवर्षाणि च मासांश्च दिवसाम्श्चेति समुच्चयार्थश्चकारः ।
[१८८।२३-१८८।२४]
तदा च द्वयोर्द्वीपयोस्तेषां प्रतिरूपकाणि भवन्ति ।
[१८८।२४-१८८।२५]
व्यापाद उद्रेकप्राप्तो भवति वैवस्त्र्यदौर्बल्ये जिघत्सापिपासे च ।
[१८८।२५]
यदुक्तमेवमन्यस्यामपि संवर्तन्यां वेदितव्यं यथायोगमिति ।
[१८८।२६]
अथ कतीमाः संवर्तन्यः ।
[१८९।०१]
संवर्तन्यः पुनस्तिस्रो भवन्त्यग्न्यम्बुवायुभिः ।
[१८९।०२]
एकत्र ध्याने सत्त्वाः समं संवर्तन्ते एतस्यामिति संवर्तनी ।
[१८९।०२-१८९।०३]
सप्तभिः सूर्यैस्तेजः संवर्तनी भवति वर्षोदकेनाप्संवर्तनी वायुप्रकोपाद्वायुसंवर्तनी ।
[१८९।०४]
ताभिश्च भाजनानां सुक्ष्मोऽप्यवयवो नावशिष्यते ।
[१८९।०४-१८९।०५]
अत्र तु केचितीर्थङ्करा इच्छन्ति ।
[१८९।०५]
परमाणवो नित्यास्ते तदानीं शिष्यन्त इति ।
कस्मात्त एवमिच्छन्ति ।
[१८९।०६]
मा भूदबीजकः स्थूलानां प्रादुर्भाव इति ।
[१८९।०६-१८९।०७]
ननु च सत्त्वानां कर्मजः प्रभावविशिष्टो वायुर्बीजमुक्तम् ।
[१८९।०७]
सर्वर्तनीशीर्षवायुर्वातस्य निमित्तं भविष्यति ।
[१८९।०७-१८९।०८]
“वायुना लोकान्तरेभ्यो बीजान्याह्रियन्त” इति महीशासकाः सूत्रे पठन्ति ।
[१८९।०८-१८९।०९]
एवमपि न ते बीजादिभ्योऽङ्कुरादीनामुत्पत्तिमिच्छन्ति ।
[१८९।०९]
किं तर्हि ॥
[१८९।०९-१८९।१०]
स्वेभ्य एवावयवेभ्यस्तेषामपि स्वेभ्यः ।
[१८९।१०]
एवं यावत्परमाणुभ्यः ।
[१८९।१०-१८९।११]
किमिदं बीजादीनामङ्कुरादिषु सामर्थ्यम् ।
[१८९।११]
न किञ्चिदन्यत्र तत्परमाणूपसर्पणात् ।
[१८९।११-१८९।१२]
किं पुनः कारणं त एवमिच्छन्ति ।
[१८९।१२]
नहि विजातीयात्संभवो युक्त इति ।
कस्मान्न युक्तः ।
[१८९।१२-१८९।१३]
अनियमो हि स्यात् ।
[१८९।१३]
शक्तिनियमान्नैवं भविष्यति ।
शब्दपाकजोत्पत्तिवत् ।
[१८९।१३-१८९।१४]
चित्रो हि गुणधर्मो द्रव्यं तु नैवम् ।
[१८९।१४-१८९।१५]
समानजातीयेभ्यः एव हि द्रव्येभ्यः समानजातीयानां दृष्ट उत्पादस्तद्यथा वीरणेभ्यः कटस्य तन्तुभ्यः पटस्येति ।
[१८९।१५]
इदमयुक्तं वर्तते ।
[१८९।१५-१८९।१६]
किमत्रायुक्तं यदसिद्धं साधनायोदाह्रियते ।
[१८९।१६]
किमत्रासिद्धम् ।
[१८९।१७]
अन्यो वीरणेभ्यः कटोऽन्यश्च तन्तुभ्यः पट इति ।
[१८९।१७-१८९।१८]
त एव हि ते यथासंनिविष्टास्तां तां संज्ञां लभ्न्ते ।
[१८९।१८]
पिपीलिकापङ्क्तिवत् ।
कथं गम्येत ।
[१८९।१८-१८९।१९]
एकतन्तुसंयोगे पटस्यानुपलम्भात् ।
[१८९।१९]
को हि तदा सतः पटस्योपलब्धौ प्रतिबन्धः ।
[१८९।१९-१८९।२०]
अकृत्स्नवृत्तौ पटभागोऽत्र स्यान्न पटः ।
[१८९।२०]
समूहमात्रं च पटः स्यात् ।
कश्च तन्तुभ्योऽन्यः पटभागः ।
[१८९।२०-१८९।२१]
अनेका श्रयसंयोगापेक्षणे दशामात्रसंयोगे पटोपलब्धिः स्यान्न वा कदाचित् ।
[१८९।२१-१८९।२२]
मध्यपरभागानामिन्द्रियेणासंनिकर्षात् ।
[१८९।२२-१८९।२३]
क्रमसंनिकर्षे चावयवानां चक्षुःस्पर्शनाभ्यामवयवविज्ञानं न स्यात् ।
[१८९।२३-१८९।२४]
तस्मात्क्रमेण संनिकर्षादवयविव्यवसायादवयवेष्वेव तद्बुद्धिरलातचक्रवत् ।
[१८९।२४]
भिन्नरूपजातिक्रियेषु तन्तुषु पटस्य रूपाद्यसंभवात् ।
[१८९।२४-१८९।२६]
चित्ररूपादित्वे विजातीयारम्भोऽपि स्यातचित्रे च पार्श्वान्तरे पटस्यादर्शनं चित्रदर्शनं वा ।
[१८९।२६]
क्रियाऽपि चित्रेत्यतिचित्रम् ।
[१८९।२६-१८९।२७]
तापप्रकाशभेदे वाऽग्निप्रभाया आदिमध्यान्ते तद्रूपस्पर्शयोरनुपपत्तिः ।
[१८९।२७-१९०।०२]
परमाण्वतीन्द्रियत्वेऽपि समस्तानां प्रत्यक्षत्वं यथा तेषां कार्यारम्भकत्वं चक्षुरादीनां च तैमिरिकाणां च विकीर्णकेशोपलब्धिः ।
[१९०।०२]
तेषां परमाणुवदेकः देशोऽतीन्द्रियः ।
[१९०।०२-१९०।०३]
रूपादिष्वेव च परमाणुसंज्ञानिवेशा त्तद्विनाशे सिद्धः परमाणुविनाशः ।
[१९०।०३-१९०।०४]
द्रव्यं हि परमाणुरन्यच्च रूपादिभ्यो द्रव्यमिति न तेषं विनाशे तद्विनाशः सिद्ध्यति ।
[१९०।०४-१९०।०५]
अयुक्तमस्यान्यत्वं यावता न निर्धार्यते केनचितिमानि पृथिव्यप्तेजांसि इम एषां रूपादय इति ।
[१९०।०६-१९०।०७]
चक्षुःस्पर्शनग्राह्याणि च प्रज्ञायन्ते दग्धेषु चोर्णाकर्पासकुसुम्भकुङ्कुमादिषु तद्बुद्ध्यभावाद्रूपादिभेदेष्वेव तद्बुद्धिः ।
[१९०।०७-१९०।०८]
पाकजोत्पत्तौ घटपरि
ज्ञनं संस्थानसामान्यात्पङ्क्तिवत् ।
[१९०।०८]
चिह्नमपश्यतः परिज्ञानाभावात् ।
[१९०।०८-१९०।०९]
को वा बालप्रलापेष्वादरः इति तिष्ठतु तावदेवाप्रतिषेधः ।
[१९०।१०]
अथ कस्याः संवर्तन्याः कतमच्छीर्ष भवति ।
[१९०।११]
ध्यानत्रयं द्वितीयादि शीर्ष तासां यथाक्रमम् ॥ ३.१०० ॥
[१९०।१२]
त्रीणि संवर्तनीशीर्षाणि ।
तेजःसंवर्तन्या द्वितीयं ध्यानं शीर्षं भवत्यधो दह्यते ।
[१९०।१३]
अप्संवर्तन्यास्तृतीयं ध्यानं शीर्ष भवत्यधः क्लिद्यते ।
[१९०।१३-१९०।१४]
वायुसंवर्त्तन्याश्चतुर्थं ध्यानं शीर्षं भवत्यधो विकीर्यते ।
[१९०।१४]
यद्धि संवर्तन्या उपरिष्टात्तच्छीर्षमित्युच्यते ।
[१९०।१४-१९०।१६]
किं पुनः कारणं प्रथमद्वितीयतृतीयध्यानानि तेजोजलवायुभिर्ध्वस्यन्ते ।
[१९०।१७]
तदपक्षालसाधम्र्यात्
[१९०।१८]
प्रथेमे हि ध्याने वितर्कविचारा अपक्षालाः ।
[१९०।१८-१९०।१९]
ते च मनसः परिदाहकत्वादग्निकल्पाः ।
[१९०।१९]
द्वितीये प्रीतिरपक्षालः सा च प्रस्रब्धियोगेनश्रयमृदूकरणादप्कल्पाः ।
[१९०।२०]
अत एवतस्मिन् कृत्स्नकायक्रौर्यापगमात्दुःखेन्द्रियस्य निरोध उक्तः सूत्रे ।
[१९०।२१]
तृतीये ध्याने आश्वासप्रश्वासाः ।
ते च वायव एव ।
[१९०।२१-१९०।२२]
इति यस्यां ध्यानसमापत्तौ यथाभुत आध्यात्मिकोऽपक्षालस्तस्यां ध्यानोपपत्तौ तथाभूतो बाह्य इति ।
[१९०।२२-१९०।२३]
कस्मात्पृथिवीसंवर्तनी न भवति ।
[१९०।२३-१९०।२४]
पृथिव्येव हि भाजनाख्या तस्यां तेजोजलवायुभिर्विरोधो न पृथ्हिव्येति ।
[१९०।२४]
अथ चतुर्थध्याने कथं न संवर्तनी ।
[१९०।२५]
न चतुर्थेऽस्त्यनिञ्जनात् ।
[१९०।२६]
चतुर्थं ध्यानमाध्यात्मिकापक्षालरहितत्वादानेञ्ज मुक्तं भगवता ।
[१९०।२६-१९०।२७]
अतोऽत्र बाह्योऽपक्षालो न प्रवर्तत इति नास्त्यत्र संवर्तनी ।
[१९०।२७]
शुद्धावासप्रभावादित्यपरे ।
[१९०।२७-१९१।०१]
नहि तैः शक्यमारुप्यान् प्रवेष्टुं नाप्यन्यत्र गन्तुमिति ।
[१९१।०१-१९१।०२]
नित्यं तर्हि चतुर्थध्यानभाजनं प्राप्न्नोति ।
[१९१।०३]
न नित्यं सह सत्त्वेन तद्विमानोदयव्ययात् ॥ ३.१०१ ॥
[१९१।०४]
नहि चतुर्थं ध्यानमेकभूमिसंबद्धम् ।
किं तर्हि ।
[१९१।०४-१९१।०५]
विच्छिन्नस्थानान्तरं तारकावत् ।
[१९१।०५]
तत्राप्ययं सत्त्व उपपद्येत च्यवेत वा ।
[१९१।०५-१९१।०६]
स सार्धं विमानेनेति नास्त्यस्य नित्यत्वम् ।
[१९१।०६]
केन पुनः क्रमेणैताः संवर्तन्यो भवन्ति ।
निरन्तरं तावत्
[१९१।०७]
सप्ताग्निना
[१९१।०८]
सप्त संवर्तन्यस्तेजसा भवन्ति ।
ततः ।
[१९१।०९]
अद्भिरेका
[१९१।१०]
सप्तानां तेजःसंवर्तनीनामनन्तरमद्भिः संवर्तनी भवति ।
[१९१।११]
एवं गतेऽद्भिः सप्तके पुनः ।
[१९१।१२]
तेजसा सप्तकः
[१९१।१३]
एतेन क्रमेणाप्संवर्तनीनां गते सप्तके पुनः तेजःसंवर्तनीनां सप्तको भवति ।
[१९१।१४]
पश्चाद्वायुसंवर्तनी ततः ॥ ३.१०२ ॥
[१९१।१५]
पश्चादेकावायुसंवर्तनी भवति ।
किं कारणम् ।
[१९१।१५-१९१।१७]
यथिव हि तेषां सत्त्वानां समापत्तिविशेषादात्मभावानां स्थितिविशेषस्तथा भाजनानामपामिति ता एता भवन्ति षट्पञ्चाशत्तेजः संवर्तन्यः सप्ताप्संवर्त्तन्यः एका वायुसंवर्त्तनी ।
[१९१।१७-१९१।१८]
एवं च प्रज्ञप्तिभाष्यं सुनीतं भवति “चतुःषष्टि कल्पाः शुभकृत्स्नानां देवानामायुःप्रमाणमि”ति ।
[१९१।१९-१९१।२०]
“ये धर्मा हेतुप्रभवा हेतुं तेषां तथागतोह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमण” ॥ इति ।
[१९१।२१]
अभिधर्मकोशभाष्ये लोकनिर्देशो नाम
[१९१।२२-१९१।२३]
तृतीयं कोशस्थानं समाप्तमिति ।
चतुर्थं कोशस्थानम्
=====================================================================
[१९२।०२]
ओं नमो बुद्धाय ।
[१९२।०३]
अथ यदेतत्सत्त्वभाजनलोकस्य बहुधा वैचित्र्यमुक्त तत्केन कृतम् ।
[१९२।०३-१९२।०४]
न खलु केनचिद्बुद्धिपूर्वकं कृतम् ।
[१९२।०४]
किं तर्हि ।
सत्त्वानां
[१९२।०५]
कर्मजं लोकवैचित्र्यं
[१९२।०६-१९२।०७]
यदि कर्मजं कस्मात्सत्त्वानां कर्मभिः कुङ्कुमचन्दनादयो रम्यतरा जायन्ते न तेषां शरीराणि ।
[१९२।०७-१९२।०८]
कर्माण्येव तान्येवञ्जातीयाति व्याभिश्रकारिणां सत्त्वानां यदाश्रयाश्च व्रणभूता जायन्ते भोगाश्च रम्यास्तत्प्रतीकारभूताः ।
[१९२।०८-१९२।०९]
अव्यामिश्रकारिणां तु देवानामुभयेऽपि रम्याः ।
[१९२।०९]
किं पुनस्तत्कर्मेत्याह
[१९२।१०]
चेतना तत्कृतं च तत् ।
[१९२।११]
सूत्र उक्तं “द्वे कर्मणी चेतना कर्म चेतयित्वा चे”ति ।
[१९२।११-१९२।१२]
यत्तच्चेतयित्वा चेतनाकृटं च तत् ।
[१९२।१२]
ते एते द्वे कर्मणी त्रीणि भवन्ति ।
कायवाङ्मनस्कर्माणि ।
[१९२।१२-१९२।१३]
कथमेषां कर्मणां व्यवस्थानम् ।
[१९२।१३]
किमाश्रयतः आहोस्वित्स्वभावतः समुत्थानतो वा ।
[१९२।१३-१९२।१४]
आश्रयतश्चेदेकं कायकर्म प्राप्नोति ।
[१९२।१४]
सर्वेषां कायाश्रितत्वात्स्वभावतश्चेद्वाक्कर्मैकं प्राप्नोति ।
[१९२।१५]
वचसः कर्मस्वभावत्वात् ।
समुत्थानतश्चेन्मनस्कर्मैकं प्राप्नोति ।
[१९२।१५-१९२।१६]
सर्वेषां मनः समुत्थितत्वात् ।
[१९२।१६]
यथाक्रमं त्रिभिः कारणैस्त्रयाणामिति वैभाषिकाः ।
तत्र पुनः
[१९२।१७]
चेतना मानसं कर्म
[१९२।१८]
चेतना मनस्कर्मे ति वेदितव्यम् ।
[१९२।१९]
तज्जं वाक्कायकर्मणी ॥ ४.१ ॥
[१९२।२०]
यत्तच्चेतनाजनितं चेतयित्वा कर्मेत्युक्तं कायवाक्कर्मणी ते वेदितव्ये ।
[१९२।२१]
ते तु विज्ञप्त्यविज्ञप्ती
[१९२।२२]
ते तु कायवाक्कर्मणी प्रत्येकं विज्ञप्त्यविज्ञप्तिस्वभावे वेदितव्ये ।
तत्र तु
[१९२।२३]
कायविज्ञप्तिरिष्यते ।
[१९२।२४]
संस्थानं
[१९२।२५]
चित्तवशेन कायस्य तथा तथा संस्थानं कायविज्ञप्तिः ।
गतिरित्यपरे ।
[१९२।२५-१९२।२६]
प्रस्यन्दमानस्य हि कायकर्म नोऽप्रस्यन्दमानस्येति ।
[१९२।२६]
त उच्यन्ते
[१९३।०१]
न गतिर्यस्मात्संस्कृतं क्षणिकं
[१९३।०२]
कोऽयं क्षणो नाम ।
आत्मलाभोऽनन्त्रविनाशी ।
सोऽस्यास्तीति क्षणिकम् ।
[१९३।०३]
दण्डकवत् ।
सर्व हि संस्कृतमात्मलाभा दूर्ध्वं न भवतीति यत्रैव जातं तत्रैव ध्वस्यते ।
[१९३।०४]
तस्यायुक्ता देशान्तरसंक्रान्तिः ।
तस्मान्न गतिः कायकर्म ।
[१९३।०४-१९३।०५]
स्यादेतदेव यदि सर्वस्य ष्क्णिकत्वं सिध्येत् ।
[१९३।०५]
सिद्धमेवैतत्विद्धि ।
कुतः ।
संस्कृतस्यावश्यम् ।
[१९३।०६]
व्ययात् ॥ ४.२ ॥
[१९३।०७]
अकस्मिको हि भावानां विनाशः ।
किं कारणम् ।
कार्यस्य हि कारणं भवति ।
[१९३।०८]
वनाशश्चाभावः ।
यश्चाभावस्तस्य किं कर्तव्यम् ।
[१९३।०८-१९३।०९]
सोऽसावाकस्मिकोक्विनाशो यदि भावस्योत्पन्नमात्रस्य न स्यात्पश्चादपि न स्याद्भावस्य तुल्यत्वात् ।
[१९३।०९-१९३।१०]
तथान्यथीभूतः ।
[१९३।१०]
न युक्तं तस्यैव ।
न्यथात्वम् ।
न हि स एव तस्माद्विलक्षणो युज्यते ।
[१९३।१०-१९३।११]
दृष्टो वै काष्ठादीनामग्न्यादिसंयोगाद्विनाशः ।
[१९३।११-१९३।१२]
न च दृष्टाद्गरिष्ठं प्रमाणमस्तीति ।
[१९३।१२-१९३।१३]
न च सर्वस्याकस्मिको विनाशः कथं तावत्भवान् काष्ठादीनामग्न्यादिसंयोगाद्विनाशं पश्यामीति मन्यते ।
[१९३।१३]
तेषां पुनरदर्शनात् ।
[१९३।१३-१९३।१४]
संप्रधार्यं तावदेतत् ।
[१९३।१४-१९३।१५]
किमग्निसंयोगात्काष्ठादयो विनष्टा अतो न दृश्यन्ते उताहो स्वयं विनष्टा अन्ये च पुनर्नोत्पन्ना अतो न दृश्यन्ते ।
[१९३।१५-१९३।१६]
यथा वायुसंयोगात्प्रदीपः पाणिसंयोगाद्घण्टाशब्द इति ।
[१९३।१६]
तस्मादनुमानसाध्योऽयमर्थः ।
किं पुनरत्रानुमानम् ।
[१९३।१६-१९३।१७]
उक्तं तावतकार्यत्वादभावस्येति ।
[१९३।१७]
पुनः
[१९३।१८]
न कस्यचिदहेतोः स्यात्
[१९३।१९]
यदि विनाशो हेतुसामान्यान्न कस्यचिदहेतुकः स्यादुत्पादवत् ।
[१९३।१९-१९३।२०]
क्षणिकानां च बुद्धिशब्दार्चिषां दृष्ट आकस्मिको विनाश इति नायं हेतुमपेक्षते ।
[१९३।२०-१९३।२१]
यस्तु मन्यते बुद्ध्यन्तराद्बुद्धेर्विनाशः शब्दान्तराच्छब्दस्येति ।
[१९३।२१]
तदयुक्तम् ।
बुद्ध्योरसमवधानात् ।
[१९३।२१-१९३।२२]
न हि शंसयनिश्चयज्ञानयोर्युक्तं समवधानं सुखदुःखयो रागद्वेषयोर्वा ।
[१९३।२२-१९३।२४]
यदा च पटुबुद्धिशब्दानन्तरमपटुबुद्धिशब्दावुत्पद्येते तदा कथमपटुः समानजातीयो धर्मः पटीयांसं हिंस्यात् ।
[१९३।२४-१९३।२५]
अन्त्ययोश्च कथं योऽप्यर्चिषामवस्थानहेत्वभावाद्धर्माधर्मवशाद्वा विनाशं मन्यते तदप्ययुक्तम् ।
[१९३।२५]
न ह्यभावः कारणं भवितुमर्हति ।
[१९३।२५-१९३।२६]
न चाप्युत्पादविनाशहेत्वोर्धर्मार्धर्मयोः क्षणे क्षणे वृत्तिलाभप्रतिबन्धौ भवितुमर्हतः ।
[१९३।२७]
सक्यष्चैष कारण परिकल्पः सर्वत्र सम्स्कृते कर्तुमित्यलं विवादेन ।
[१९४।०१-१९४।०२]
यदि च काष्ठादीनामग्न्यादिसंयोगहेतुको विनाशः स्यादेवं सति पाकजानां गुणानां पक्वतरतमोत्पत्तौ
[१९४।०३]
हेतुः स्याच्च विनाशकः ।
[१९४।०४]
हेतुरेव च विनाशकः स्यात् ।
कथं कृत्वा ।
[१९४।०४-१९४।०६]
घासाद्यग्निसंबन्धा गुणाः पाकजा उत्पन्नास्तत एव तादृशाद्वा पुनः पक्वतरतमोत्पत्तौ तेषां विनाश इति हेतुरेव तेषां विनाशकः स्याद्धेत्वविशिष्टो वा ।
[१९४।०६-१९४।०७]
न च युक्तं यत एव तादृशाद्द्वा तेषां भावस्तत एव तादृशाच्च तेषां पुनरभाव इति ।
[१९४।०७-१९४।०८]
ज्वालान्तरेषु तावद्धेतुभेदकल्पनां परिकल्पेयुः ।
[१९४।०८-१९४।०९]
क्षरहिमशुक्तसूर्योदकभूमिसंबन्धात्तु पाकजविशेषोत्पत्तौ कां कल्पनां कल्पयेयुः ।
[१९४।०९-१९४।१०]
यत्तर्ह्यापः क्वाथ्यमानाः क्षीयन्ते किं तत्राग्निसंयोगाः कुर्वन्ति ।
[१९४।१०-१९४।११]
तेजोधातुं प्रभावतो वर्धयन्ति यस्य प्राभावादपां संघातः क्षामक्षामो जायते यावदतिक्षामतां गतोऽन्ते न पुनः संतानं संतनोति ।
[१९४।११-१९४।१२]
इदमत्राग्निसंयोगाः कुर्वन्ति ।
[१९४।१२-१९४।१४]
तस्मान्नास्ति भावानां विनाशहेतुः स्वयमेव तु भङ्गुरत्वाद्विनश्यन्त उत्पन्नमात्रा विनश्यन्तीति सिद्ध एषां क्षणभङ्गः क्षणभङ्गाच्च गत्यभावः ।
[१९४।१४]
गत्यभिमानस्तु देशान्तरेषु निरन्तरोत्पत्तौ तृणज्वालावत् ।
[१९४।१५]
गत्यभावे च “संस्थानं कायविज्ञप्ति”रिति सिद्धम् ।
[१९४।१५-१९४।१६]
नास्ति संस्थानं द्रव्यत इति सौत्रान्तिकाः ।
[१९४।१६]
एकदिङ्मुखे हि भूयसि वर्ण उत्पन्ने दीर्घं रूपमिति प्रज्ञप्यते ।
[१९४।१६-१९४।१७]
तमेवापेक्ष्याल्पीयसि ह्रस्वमिति ।
[१९४।१७]
चतुर्दिशं भूयसि चतुरस्रमिति ।
[१९४।१७-१९४।२७]
सर्वत्र समे वृत्तमिति ।
[१९४।१८]
एवं सर्वम् ।
[१९४।१८-१९४।१९]
तद्यथाऽलातमेकस्यां दिशि देशान्तरेष्वनन्तरेषु निरन्तरमाशु दृश्यमानं दीर्घमिति प्रतीयते सर्वतो दृश्यमानं मण्डलमिति ।
[१९४।१९-१९४।२०]
न तु खलु जात्यन्तरमस्ति संस्थानम् ।
[१९४।२०]
यदि हि स्यात्
[१९४।२१]
द्विग्राह्यं स्यात्
[१९४।२२-१९४।२३]
चक्षुषा हि दृष्ट्वा दीर्घमित्यवसीयते कायेन्द्रियेणापि स्पृष्ट्वेति द्वाभ्यामस्य ग्रहणं प्राप्नुयात् ।
[१९४।२३]
न च रूपायतनस्य द्वाभ्यां ग्रहणमस्ति ।
[१९४।२३-१९४।२४]
यथा वा स्प्रष्टव्ये दीर्घादिग्रहणं तथा वर्णे संभाव्यताम् ।
[१९४।२४]
स्मृतिमात्रं तत्र स्प्रष्टव्यसाहचर्यात्भवति ।
[१९४।२४-१९४।२५]
स तु साहचर्यात्भवति न तु साक्षात्ग्रहणम् ।
[१९४।२५-१९४।२६]
यथाऽग्निरूपं दृष्ट्वा तस्योष्णतायां स्मृतिर्भवति पुष्पगन्धं च घ्रात्वा तद्वर्ण इति ।
[१९४।२६-१९५।०१]
युक्तमत्राव्यभिचारत्वादन्येनान्यस्य स्मरणं नतु किञ्चित्स्प्रष्टव्यं क्वचित्संस्थाने नियतं यतस्तत्र स्मरणं नियमेन स्यात् ।
[१९५।०१-१९५।०२]
अथासत्यपि साहचर्यनियमे संस्थानस्मरणं नियमेन स्यात् ।
[१९५।०२]
वर्णेऽपि स्यात्वर्णवद्धा संस्थानेऽप्यनियमेन स्यात् ।
[१९५।०२-१९५।०३]
नचैवं भवति ।
[१९५।०३]
अयुक्तमस्य स्प्रष्टव्यात्स्मरणम् ।
[१९५।०३-१९५।०४]
चित्रास्तरणेवाऽनेकवर्णसंस्थाने दर्शनाद्बहूनामैकदेश्यं प्राप्नुयात् ।
[१९५।०४]
तच्चायीउक्तं वर्णवत् ।
[१९५।०४-१९५।०५]
तस्मान्नास्ति द्रव्यतः संस्थानम् ।
[१९४।०६]
यच्चापि किञ्चित्सप्रतिघं रूपमस्ति तदवश्यं परमाणौ विद्यते ।
[१९५।०७]
न चाणौ तत्
[१९५।०८]
न च संस्थानं परमाणौ विद्यते दीर्घादि ।
[१९५।०८-१९५।०९]
तस्माद्बहुष्वेव तथा संनिविष्टेषु दीर्घादिप्रज्ञप्तिः ।
[१९५।०९-१९५।१०]
अथ मत्तं संस्थानपरमाणव एव तथा संनिविष्टा दीर्घादिसंज्ञां लभन्त इति ।
[१९५।१०]
सोऽयं केवलः पक्षपातस्तेषामसिद्धत्वात् ।
[१९५।१०-१९५।११]
सिद्धस्वलक्षाणानां हि तेषां संचयो युज्यते ।
[१९५।११]
न च संस्थानावयवानां वर्णादिवत्स्वभावः सिद्ध इति कुत एषां संचयः ।
[१९५।१२]
यत्तर्हि वर्णश्चाभिन्नो भवति संस्थानं च भिन्नं दृश्यते मृद्भाजनानाम् ।
[१९५।१२-१९५।१४]
ननु चोक्तं यथा कृत्वा वर्णे दीर्घादिसंज्ञा प्रज्ञप्यते तथा च पिपीलिकादीनामभेदे पङ्क्तिचक्रादीनां भेदः प्रज्ञायते तथा संस्थानस्यापि ।
[१९५।१४-१९५।१६]
यत्तर्हि तमपि दूराद्वा वर्णमपश्यन्तः स्थाण्वादीनां दैर्घ्यादीनि पश्यन्ति वर्णमेव ते तत्राव्यक्तं दृष्ट्वा दीर्घादिपरिकल्पं कुर्वन्ति ।
[१९५।१६]
पङ्क्तिसेनापरिकल्पवत् ।
इत्थं चैतदेवम् ।
[१९५।१७]
यत्कदाचिदनिर्धार्यमाणपरिच्छेदं संघातमात्रमव्यक्तं दृश्यते किमप्येतदिति ।
[१९५।१८-१९५।१९]
अथेदानीं कायस्य गतिं निराकृट्य सम्स्थानं च तत्र भवन्तः सौत्रान्तिकाः कां कायविज्ञर्प्तिं प्रज्ञपयन्ति ।
[१९५।१९]
संस्थानमेव हि ते कायविज्ञर्प्ति प्रज्ञपयन्ति ।
नतु पुनर्द्रव्यतः ।
[१९५।२०]
तां च प्रज्ञपयन्तः कथं कायकर्म प्रज्ञपयन्ति ।
[१९५।२०-१९५।२१]
कायाधिष्ठानं कर्म कायकर्म या चेतना कायस्य तत्र तत्र प्रणेत्री ।
[१९५।२१]
एवं वाङ्मनस्कर्मणी अपि यथायोगं वेदितव्ये ।
[१९५।२२-१९५।२३]
यत्तर्हि “चेतना कर्म चेतयित्वा चे”त्युक्तं संकल्पचेतना पूर्वं भवत्येवं संकल्पचेतना पूर्वं भवत्येवं चैवं च करिष्यामीति ।
[१९५।२३]
तथा चेतयित्वा पश्चात्क्रिया चेतनोत्पद्यते ।
[१९५।२३-१९५।२४]
यया कायः प्रेर्यते साऽसौ चेतयित्वा कर्मेत्युच्यते ।
[१९५।२४-१९५।२५]
एवं तर्हि विज्ञप्त्यभावादविज्ञप्तिरपि कामावचरी नास्तीति महान्तो दोषा अनुषज्यन्ते ।
[१९५।२५-१९५।२६]
अनुषङ्गानां पुनः प्रत्यनुषङ्गा भविष्यन्ति ।
[१९५।२६-१९५।२७]
यदि तस्मादेव कायकर्मसंशब्दिताच्चेतनाविशेषादविज्ञप्तिः स्यात् ।
[१९५।२७-१९५।२८]
चित्तानुपरिवर्तिनी स्यात्समाहितविज्ञप्तिवत्नै वं भविष्यति ।
[१९५।२८]
चेतनाविशेषेण तदाक्ष्पविशेषात् ।
[१९५।२८-१९६।०१]
साऽपि च विज्ञप्तिः सती तदाक्षेपे चेतनाया बलं निभालयते ।
[१९६।०१]
जडत्वात् ।
[१९६।०१-१९६।०२]
द्रव्यमेव तु संस्थानं वैभाषिका वर्णयन्ति संस्थानात्मिकां तु कायविज्ञप्तिम् ।
[१९६।०३]
वाग्विज्ञप्तिस्तु वाग्ध्वनिः ॥ ४.३ ॥
[१९६।०४]
वाक्स्वभावो यः शब्दः सैव वाग्विज्ञप्तिः ।
अविज्ञप्तिः पूर्वमेवोक्ता ।
[१९६।०४-१९६।०५]
साऽपि द्रव्यतो नास्तीति सौत्रान्तिकाः ।
[१९६।०५]
अभ्युपेत्याकरणमात्रत्वात् ।
[१९६।०५-१९६।०६]
अतीतान्यपि महाभूतान्युपादाय प्रज्ञप्तेस्तेषां चाविद्यमानस्वभावत्वाद्रूपलक्षणाभावाच्च ।
[१९६।०६-१९६।०७]
अस्तीति वैभांषिकाः ।
[१९६।०७]
कथं ज्ञायते ।
[१९६।०८]
त्रिविधामलरूपोक्तिवृद्ध्यकुर्वत्पथादिभिः ।
[१९६।०९]
त्रिविधं रूपमुक्तं सूत्रे ।
“त्रिभिः स्थानै रूपस्य रूपसंग्रहो भवति ।
[१९६।०९-१९६।१०]
अस्ति रूपं सनिदर्शनं सप्रतिघम् ।
[१९६।१०]
अस्ति रूपमनिदर्शनं सप्रतिघम् ।
[१९६।१०-१९६।११]
अस्ति रूपमनिदर्शनमप्रतिघमि”ति ।
[१९६।११]
अनास्रवं च भगवता रूपमुक्तम् ।
“अनास्रवाः धर्माः कतमे ।
[१९६।१२-१९६।१३]
यस्मिन् रूपेऽतीतानागतप्रत्युत्पन्नो नोत्पद्यतेऽनुनयो वा प्रतिघो वा यावद्यस्मिन्विज्ञाने ।
[१९६।१३]
इम उच्यन्तेऽनास्रवा धर्मा” इति ।
[१९६।१३-१९६।१४]
न चा विज्ञप्तिं विरहय्यास्ति रूपमनिदर्शनमप्रतिघं नाप्यना स्रवम् ।
[१९६।१४]
वृद्धिरपि चोक्ता ।
[१९६।१४-१९६।१७]
“एभिः सप्तभिरौपधिकैः पुण्यक्रियावस्तुभिः समन्वागतस्य श्राद्धस्य कुलपुत्रस्य कुलदुहितुर्वा चरतो वा स्वपतो वा तिष्ठतो वा जाग्रतो वा सततसमितमभिवर्धत एव पुण्यमुपजायत एव पुण्यम् ।
[१९६।१७]
एवं निरौपधिकैरि”ति ॥
[१९६।१७-१९६।१८]
न चाविज्ञप्तिमन्तरेणान्यमनसोऽप्ति पुण्यस्याभिवृद्धिर्युज्यते ।
[१९६।१८-१९६।१९]
अकुर्वतश्च स्वयं परैः कारयतः कर्मपथा न सिध्येयुरसत्यामविज्ञप्तौ ।
[१९६।१९]
नह्याज्ञापनविज्ञप्तिः मौलः कर्मपथो युज्यते ।
[१९६।२०]
तस्य कर्यणोऽकृतत्वात् ।
कृतेऽपि च तस्याः स्वभावविशेषादिति ।
[१९६।२०-१९६।२२]
उक्तं च भगवता “धर्मा भिक्षवो बाह्यमायतनमेकादशभिरायतनैरसंगृहीतमनिदर्शनमप्रतिघमि”ति ।
[१९६।२२]
न त्वरूपीत्युक्तम् ।
[१९६।२२-१९६।२३]
तत्र किं प्रयोजनं स्याद्यदि धर्मायतनान्तर्गतमविज्ञप्तिरूपं नश्येत ।
[१९६।२३]
अष्टाङ्गश्च मार्गो न स्यादविज्ञप्तिमन्तरेण ।
[१९६।२३-१९६।२४]
समापन्नस्य सम्यग्वाक्कर्मान्ताजीवानामयोगात् ।
[१९६।२४-१९६।२६]
यत्तर्हीदमुक्तं “तस्यैवं जानत एवं पश्यतः सम्यग्दृष्टिर्भावनापरिपूरिं गच्छति सम्यक्संकल्पः सम्यक्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिः ।
[१९६।२६-१९६।२७]
पूर्वमेव चास्य सम्यक्वावक्र्मान्ताजीवाः परिशुद्धा भवन्ति पर्यवदाता” इति ।
[१९६।२७-१९६।२८]
लौकिकमार्गवैराग्यं पूर्वकृतमभिसंधायैतदुक्तम् ।
[१९६।२८-१९७।०१]
प्रातिमोक्षसंवरश्चपि न स्यादसत्यामविज्ञप्तौ ।
[१९७।०१-१९७।०२]
न हि समादानादुर्ध्वं तदस्ति येनान्यमनस्कोऽप्ययं भिक्षुः स्यात्भिक्षुणी वेति ।
[१९७।०२]
सेतुश्च सूत्रे विरक्तिरुक्ता ।
दौःशील्यविवन्धत्वात् ।
[१९७।०२-१९७।०३]
न वा भवन्ती सेतुर्भवितुमर्हतीत्यस्त्येवाविज्ञप्तिः ।
[१९७।०३-१९७।०४]
अत्र सौत्रान्तिका आहुः बह्वप्येतच्चित्रमप्येतत् ।
[१९७।०४]
नैवं त्वेतत् ।
किं कारणम् ।
यत्तावदुक्तं “त्रिविधरूपोक्तेरि” ति ।
[१९७।०४-१९७।०५]
तत्र योगाचारा उपदिशन्ति ।
[१९७।०५]
ध्यायिनां समाधिविषयो रूपं समाधिप्रभावादुत्पद्यते ।
[१९७।०६]
चक्षुरिन्द्रियाविषयत्वातनिदर्शनम् ।
देशानावरणत्वादप्रतिघमिति ।
अथ मतम् ।
[१९७।०७]
कथमिदानीं तत्रूपमिति ।
एतदविज्ञप्तौ समानम् ।
[१९७।०७-१९७।०८]
यदप्युक्तमनास्रवरूपोक्तेरिति तदेव समाधिप्रभावसंभूतं रूपमनास्रवे समाधावनास्रवं वर्णयन्ति योगाचाराः ।
[१९७।०९]
अर्हतो यद्रूपं बाह्यं चेत्यपरे ।
आस्रवाणामनिश्रयत्वात् ।
[१९७।०९-१९७।१०]
यत्तर्हि सूत्र उक्तं “सास्रवा धर्माः कतमे ।
[१९७।१०]
यावदेव चक्षुर्यवदेव रूपाणी”ति विस्तरः ।
[१९७।१०-१९७।११]
तत्र पुनरास्रवाणामप्रतिपक्षत्वात्सास्रवमुक्तम् ।
[१९७।११]
पर्यायेण तर्हि तदेव सास्रवं चानास्रवं च स्यात् ।
किं स्यात् ।
[१९७।१२]
लक्षणसंकरः स्यात् ।
[१९७।१२-१९७।१३]
यथा तत्सास्रवं तथा न कदाचिदनास्रवमिति कोऽत्र संकरः ।
[१९७।१३-१९७।१५]
यदि च रूपायतनादीनि एकान्तेन सास्रवाणि स्युरिह सूत्रे किमर्थ विशेषितानि स्यु”र्यानि रूपाणि सास्रवाणि सोपादानीयानि चेतःखिलम्रक्षवस्त्वि”ति विस्तरः ।
[१९७।१५-१९७।१९]
यदप्युक्तं “पुण्याभिवृद्धिवचनादिति तत्रापि पूर्वाचार्या निर्दिशन्ति “धर्मता ह्येषा यथा दातॄणां दायाः परिभुज्यन्ते तथा तथा भोक्तॄणां गुणविशेषादनुग्रहविशेषाच्चान्यमनसामपि दातॄणां तदालम्बनदानचेतना भाविताः संततयः सूक्ष्मं परिणामविशेषं प्राप्नुवन्ति येनायत्यां बहुतरफलाभिनिष्पत्तये समर्था भवन्ति ।”
[१९७।१९-१९७।२०]
“इदमभिसंधायोक्तं” भवेदभिवर्धत एव पुण्यमुपजायत एव पुण्यमिति ।
[१९७।२०-१९७।२१]
अथ मतं कथमिदानीं संतानान्तरविशेषादन्यमनसोऽपि संतानान्तरस्य परिणामः सेत्स्यतीति ।
[१९७।२१]
एतदविज्ञप्तौ स्मानम् ।
[१९७।२१-१९७।२३]
कथमिदानीं संतानान्तरविशेषात्संतानान्तरे धर्मान्तरमविज्ञप्तिः सेत्स्यतीति निरूपधिकेष्विदानीं पुण्यक्रियावस्तुषु कथं भविष्यतीति ।
[१९७।२३-१९७।२४]
अभिक्ष्णं तदालम्बनचेतनाभ्यासात्स्वप्नेष्वपि ता अनुषङ्गिन्यो भवन्ति ।
[१९७।२४-१९७।२५]
अविज्ञप्तिवादिनस्तु निरौपधिके यत्र विज्ञप्तिर्नास्ति तत्र कथामविज्ञप्तिः स्यात् ।
[१९७।२५-१९७।२६]
औपधिकेऽप्यभीक्षणं तदालम्बनेचेतनाभ्यासादित्यपरे ।
[१९७।२६-१९८।०१]
यत्तर्हि सूत्र उक्तं “यस्योग्रभिक्षुः शीलवान् कल्याणधर्मा पिण्डकं परिभुज्याप्रमाणं चेतःसमार्धिं कायेन साक्षात्कृत्वोपसंपद्य विहरत्यप्रमाणस्तन्निदानदायकस्य दानपतेः पुण्याभिष्यन्दः कुशलाभिष्यन्दः सुखास्वादधारः प्रतिकाङ्क्षितव्य” इत्यत्र तदानीं दातुः कश्चेतनाविशेषः ।
[१९८।०१-१९८।०२]
तस्मात्संततिपरिणामविशेष एव न्याय्यः ।
[१९८।०२-१९८।०३]
यदप्युक्तं “कारयतः कथं कर्मपथाः सेत्स्यन्ती”ति तत्राप्येवं वर्णयन्ति ।
[१९८।०३-१९८।०५]
तत्प्रयोगेण परेषामुपघातविशेषात्प्रयोक्तुः सूक्ष्मः संततिपरिणाम विशेषो जायते यत आयत्यां समन्तेऽपि बहुतरफलाभिनिर्वर्त्तनसमर्था भवतीति स्वयमपि च कुर्वतः क्रियाफलपरिसमाप्तावेष एव न्यायो वेदितव्यः ।
[१९८।०५-१९८।०६]
सोऽसौ संततिपरिणामविशेषः कर्मपथ इत्याख्यायते ।
[१९८।०६]
कार्ये कारणोपचारात् ।
[१९८।०६-१९८।०७]
कायिकवाचिकत्वं तु तत्क्रियाफलत्वाद्यथा विज्ञप्तिवादिनामविज्ञप्तेरिति ।
[१९८।०७-१९८।०८]
उपात्तेषु स्कन्धेषु त्रिकालया चेतनया प्राणातिपातावध्वेन स्पृश्यत इति भदन्तः ।
[१९८।०८-१९८।०९]
हनिष्यामि हन्मि हतमिति चास्य यदा भवतीति ।
[१९८।०९]
न त्वियता कर्मपथः परिसमाप्यते ।
[१९८।१०]
मा भूदहतेऽपि मात्रादौ हताभिमानिनामानन्तर्यं कर्मेति ।
[१९८।११]
स्वयं तु घ्नत एतावांश्चेतनासमुदाचार इत्ययमत्राभिप्रायो युक्तरूपः स्यात् ।
[१९८।११-१९८।१३]
क इदानीमेष प्रद्वेषो यदविज्ञप्तिः प्रक्षिप्यते संततिपरिणामविशेषश्चाभ्युपगम्यते तथैवाप्रज्ञायमानः ।
[१९८।१३]
न खलु कश्चित्प्रद्वेषः ।
[१९८।१३-१९८।१४]
किन्तु चित्तान्वयकायप्रयोगेण क्रियापरिसमाप्तौ ताभ्यां पृथग्भूतं धर्मान्तरं प्रयोजयितुरुत्पद्यत इति नोत्पद्यते परितोषः ।
[१९८।१५-१९८।१६]
यत्कृतप्रयोगसंभूता तु क्रियापरिसमाप्तिस्तस्यैव तन्निमित्तः संततिपरिणामो भवतीति भवति परितोषः ।
[१९८।१६]
चित्तचैतसंतानाच्चायत्यां फलोत्पत्तेः ।
उक्तं चात्र ।
[१९८।१७]
किमुक्तम् ।
“विज्ञप्त्यभावादि”त्येवमादि ।
तदभावादविज्ञप्तेरभावः ।
[१९८।१७-१९८।१८]
यदप्युक्तं “धर्मायतनस्यारूपित्वं यस्मान्नोक्तमि”ति ।
[१९८।१८-१९८।१९]
तद्यदेवात्र रूपमनिदर्शनमप्रतिघं चोक्तं तदेवास्तु धर्मायतनपर्यापन्नम् ।
[१९८।१९]
यदप्युक्तमष्टाङ्ग आर्यमार्गो न स्यादिति ।
[१९८।१९-१९८।२०]
अङ्गं तावदाचक्ष्व ।
[१९८।२०]
कथं मार्गसमापन्नस्य सम्यग्वाक्कर्मान्ताजीवा भवन्तीति ।
[१९८।२०-१९८।२१]
किमसौ वाचं भाष्यते क्रियां वा करोति चीवरादीन् वा पर्येषते ।
[१९८।२१]
नेत्याह ।
किं तर्हि ।
[१९८।२२]
तद्रूपामनास्रवामविज्ञप्तिं प्रतिलभते ।
[१९८।२२-१९८।२३]
यस्याः प्रतिलम्भाद्व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते ।
[१९८।२३-१९८।२४]
अतो निमित्ते नैमित्तिकोपचारादविज्ञप्तौ तदाख्या क्रियते ।
[१९८।२४-१९८।२७]
यद्येवमिहाप्येवं किं न गृह्यते मार्गसमापन्नो विनाप्यविज्ञप्त्या तद्रूपमाशयं च आश्रयं च प्रतिलभते यस्य प्रतिलम्भात्व्युत्थितोऽपि न पुनर्मिथ्यावागादिषु प्रवर्तते सम्यग्वागादिषु च प्रवर्तते ।
[१९८।२७-१९९।०१]
अतो निमित्ते नैमित्तिकोपचारं कृत्वा अष्टौ मार्गाङ्गानि व्यवस्थाप्यन्त इति ।
[१९९।०१]
अपरस्त्वाह ।
तदक्रियामात्रमत्राङ्गमुक्तं स्यात् ।
[१९९।०१-१९९।०२]
यदसावार्यमार्गसामर्थ्यादक्रियानियमं प्रतिलभते तच्चानास्रवमार्गसंनिश्रयलाभादनास्रवं स्यात् ।
[१९९।०२-१९९।०३]
नहि सर्वत्र द्रव्यमन्तो धर्माः परिसंख्यायन्ते ।
[१९९।०३-१९९।०४]
तद्याथाऽष्टौ लोकधर्माः लाभोऽलाभः यशोऽयशः निन्दा प्रशंसा सुखं दुःखमिति ।
[१९९।०४]
नचात्र चीवरादीनामलाभो नामास्ति द्रव्यान्तरम् ।
[१९९।०५-१९९।०६]
प्रातिमोक्षसंवरोऽपि स्यात्यया चेतनया विधिपूर्वं कृत्वाऽभ्युपगमः प्रतिषिद्धात्कर्मणः कायवाचौ संवृणोति ।
[१९९।०६]
अन्यचित्तोन संवृतः स्यादिति चेत् ।
न ।
[१९९।०७-१९९।०९]
तद्भावनया क्रियाकाले स्मरतः तत्प्रत्युपस्थानात्सेतुभावोऽपि स्यादक्रियां प्रतिज्ञां संस्मृत्य संस्मृत्य लज्जितो दौःशील्याकरणातित्यर्थमेव च तस्याः समादानम् ।
[१९९।०९-१९९।१०]
यदि पुनरविज्ञप्तेरेव दौःसील्यं प्रतिबध्नीयात्न कश्चित्मुषितस्मृतिः शिक्षां भिन्द्यात् ।
[१९९।१०-१९९।११]
अलं विस्तरेणास्त्येव द्रव्यान्तरमविज्ञप्तिरूपति वैभाषिकाः ।
[१९९।१२-१९९।१३]
यद्यस्ति तच्च महाभूतान्युपादायेत्युक्तं तत्किं विज्ञप्तिमहाभूतान्येवोपादायाविज्ञप्तिरुत्पद्यते अथान्यानि ।
[१९९।१३]
अन्यान्येव सा महाभूतान्युपादायोत्पद्यते ।
[१९९।१४]
न हि सैव सामग्री सुक्ष्मफला चौदारिकफाला च युज्यते ।
[१९९।१४-१९९।१५]
किं खलु यदातनी विज्ञप्तिस्तदातनान्येव सा महाभूतान्युपादाय वर्तते ।
[१९९।१५-१९९।१६]
सर्वमुपादायरूपं प्रायेणैवं किञ्चित्तु वर्तमानमनागतं चातीतानि महाभूतान्युपादाय ।
[१९९।१६]
किं पुनस्तदिति ।
[१९९।१७]
क्षणादूर्ध्वमविज्ञप्तिः कामाप्तातीतभूतजा ॥ ४.४ ॥
[१९९।१८]
प्रथमात्क्षणादूर्ध्वमविज्ञप्तिः कामावचरी अतीतानि महाभूतान्युपादायोत्पद्यते ।
[१९९।१९]
तान्यस्या आश्रयार्थेन भवन्ति ।
प्रत्युत्पन्नानि शरीरमहाभूतानि संनिश्रयार्थेन ।
[१९९।२०]
प्रवृत्यनुवृत्तिकारणत्वाद्यथाक्रमम् ।
[१९९।२०-१९९।२१]
चक्रस्येव भूमौ सपरिवर्तमानस्य पाण्यावेधभूमिप्रदेशौ ।
[१९९।२२]
अथ कुतस्त्यानि महाभूतान्युपादाय कुतस्त्यं कायवाक्कर्म ।
[१९९।२३]
स्वानि भूतान्युपादाय कायवाक्कर्म सास्रवम् ।
[१९९।२४-१९९।२५]
कामावचरं कायवाक्कर्मं कामावचराण्येव महाभूतान्युपादाय एवं यावच्चतुर्थध्यानभूमिकं तद्भूमिकान्येवोपादाय ।
[१९९।२६]
अनास्रवं यत्र जातः
[१९९।२७-२००।०१]
अस्रवं तु कायवाक्कर्म यस्यां भूमौ जातस्तदुत्पादयति तद्भूमिकान्युपादाय तद्वेदितव्यम् ।
[२००।०१]
धात्वपतितत्वादनास्रवाणां च भूतानामभावात्तद्वलेन चोत्पत्तेः ।
[२००।०२]
तत्र विज्ञप्त्यविज्ञप्त्याख्यकर्मणी वेदितव्ये ।
[२००।०३]
अविज्ञप्तिरनुपात्तिका ॥ ४.५ ॥
[२००।०४]
नैःष्यन्दिकी च सत्त्वाख्या
[२००।०५]
किञ्च
[२००।०६]
निष्यन्दोपात्तभूतजा ।
[२००।०७]
नैःष्यन्दिकान्येव भूतान्युपादाय चित्तचैत्तानि चोपादायाविज्ञप्तिर्भवति ।
[२००।०७-२००।०८]
असमाहितभूमिकाया एष प्रकारः ।
[२००।०९]
समाधिजौपचयिकानुपाताभिन्नभूतजा ॥ ४.६ ॥
[२००।१०]
ध्यानानास्रवसंवराविज्ञप्तिः समाधिजा ।
[२००।१०-२००।१२]
सा समाधिसंभूतान्यौपचयिकान्यनुपातानि च महाभूतान्युपादायोत्पद्यते अभिन्नानि च यान्येव च भूतान्युपादाय प्राणातिपाताद्विरतिरुत्पद्यते तान्येव यावत्संभिन्नप्रलापात् ।
[२००।१२]
किं कारणम् ।
[२००।१३]
चित्तवत्भूताभेदात् ।
[२००।१३-२००।१४]
प्रातिमोक्षसंवरे त्वन्यान्यानि महाभूतान्युपादाय सप्ताविज्ञप्तयो भवन्ति ।
[२००।१४]
विज्ञप्तिस्तु नैःष्यन्दिकी ।
उपात्ता तु कायिकी ।
[२००।१४-२००।१६]
किं पुनरियं विज्ञप्तिरुत्पद्यमाना पूर्वकस्य संस्थानस्य संतानं बाधित्वोत्पद्यते उताहो न ।
[२००।१६]
किञ्चातः यदि बाधित्वोत्पद्यते ।
न ।
[२००।१६-२००।१७]
विपाकरूपस्योच्छिन्नस्य पुनः प्रवन्धादवैभाषिकीयं प्राप्नोति ।
[२००।१७]
अथाबाधित्वा ।
[२००।१७-२००।१८]
कथमेकस्मिन्भूतसंघाते संस्थानद्वयं सिध्यति ।
[२००।१८-२००।१९]
अन्यान्येव तानि नैःष्यन्दिकानि तदानीमुपजायन्ते यान्युपादाय विज्ञप्तिर्भवति ।
[२००।१९-२००।२०]
एवं तर्हि यद्यदेवाङ्गं निश्रित्योत्पद्यते विज्ञप्तिस्तेन तेनाङ्गेन महीयसा भवितव्यम् ।
[२००।२०]
तन्महाभूतैरभिव्यापनात् ।
[२००।२०-२००।२१]
अनभिव्यापने च पुनः कथं कृत्स्नाङ्गेन विज्ञपयेत् ।
[२००।२१]
शुषिरत्वात्कायस्यास्ति तेषामवकाशः ।
[२००।२२]
तत्खल्वेतत्कर्म पर्यायेण द्विविधं त्रिविधं पञ्चविधं चोत्तम् ।
[२००।२२-२००।२३]
चेतना चेतयित्वा चेति ।
[२००।२३]
चेतयित्वा पुनर्द्विधा ।
कायवाक्कर्म चेतना च ।
[२००।२३-२००।२४]
कायकर्म पुनः द्विविधं विज्ञप्त्याख्यमविज्ञप्त्याख्यं च ।
[२००।२४-२००।२५]
एवं वाक्कर्म चेतना चेति पञ्चविधं भवति ।
[२००।२५]
तत्र पुनरविज्ञप्तिर्द्विधा ।
कुशलाऽकुशला च ।
[२००।२६]
नाव्याकृतास्त्यविज्ञप्तिः
[२००।२७]
किं कारणम् ।
[२००।२७-२००।२८]
अव्याकृतं हि चित्तं दुर्बलमतो न शक्तं बलवत्कर्माक्षेप्तुं यन्निरुद्धेऽपि तस्मिन्ननुवध्नीयात् ।
[२०१।०१]
त्रिधाऽन्यत्
[२०१।०२]
अन्यत्कर्म त्रिविधम् ।
कुशलाकुशलाव्याकृतम् ।
किं तदन्यत् ।
विज्ञप्तिश्चेतना च ।
[२०१।०३]
अशुभं पुनः ।
[२०१।०४]
कामे
[२०१।०५]
अकुशलं वस्तु कर्म कामहातौ वेदितव्यम् ।
नान्यत्र ।
[२०१।०५-२०१।०६]
अकुशलमूलानां प्रहीणत्वादाह्रीक्यानपत्राप्ययोश्च ।
[२०१।०६-२०१।०७]
कुशलाव्याकृतं तु सर्वत्रा प्रतिवेधात् ।
[२०१।०७]
तत्र
[२०१।०८]
रूपेऽप्यविज्ञप्तिः
[२०१।०९]
कामेऽपीत्यपिशब्दात् ।
आरूप्येषु नास्ति भूताभावात् ।
[२०१।०९-२०१।१०]
यत्र हि कायवाचोः प्रवृत्तिस्तत्र कायवाक्संवरौ ।
[२०१।१०]
इह तर्हि समापन्नस्य स्यादनास्रवा विज्ञप्तिवत् ।
[२०१।११]
न ।
तस्या धात्वपतितत्वात् ।
[२०१।११-२०१।१२]
आरूप्यावचरी त्वविज्ञप्तिनांर्हति विसभागानि भूतान्युपादाय भवितुम् ।
[२०१।१२]
सर्वरूपवैमुख्याच्चारूप्यसमापत्तुनार्लं रूपोत्पत्तये ।
[२०१।१३]
विभूतरूपसंज्ञत्वात् ।
दौःशील्यप्रतिपक्षेण शीलम् ।
तच्च दौःशील्यं कामावचरम् ।
[२०१।१४]
आरूप्याश्च कामधातोराश्रया कारालम्बनप्रतिपक्षदूरताभिर्दूरे ।
[२०१।१४-२०१।१५]
अत एष्वविज्ञप्तिर्नास्तीति वैभाषिकाः
[२०१।१६]
विज्ञप्तिः सविचारयोः ॥ ४.७ ॥
[२०१।१७]
विज्ञप्तिस्तु सविचारयोरेव भूम्योः ।
कामधातौ प्रथमे च ध्याने न तत ऊर्ध्वम् ।
[२०१।१८]
कामेऽपि निवृता नास्ति
[२०१।१९]
निवृता तु विज्ञप्तिः कामधातावपि नास्ति ।
ब्रह्मलोक एवास्ति ।
[२०१।१९-२०१।२०]
महाब्राह्मणो हि शाठ्यसमुत्थितं कायकर्म श्रूयते ।
[२०१।२०-२०१।२१]
स हि स्वपर्षन्मध्ये आयुष्मतोऽश्वजितः क्षेपार्थमात्मानं क्षिप्तवात् ।
[२०१।२१-२०१।२२]
तत ऊर्ध्वमसत्यां वाग्विज्ञप्तौ कथं तत्र शब्दायतनं बाह्यमहाभूतहेतुकम् ।
[२०१।२२]
अन्ये पुनराहुः ।
[२०१।२२-२०१।२३]
द्वितीयादिष्वपि ध्यानेषु विज्ञप्तिरस्त्यनिवृताव्याकृता ।
[२०१।२३]
न कुशला न क्लिष्टा ।
किं कारणम् ।
[२०१।२४-२०१।२५]
न हि तेषूपपन्नस्तज्जातीयमधोभूमिकं चित्तं संमुखीकरोति येन तां विज्ञप्तिं समुत्थापयेत् ।
[२०१।२५]
न्यूनत्वात्प्रहीणत्वच्च ।
पूर्वमेव तु वर्णयन्ति ।
[२०१।२५-२०१।२६]
किं पुनः कारणमूर्ध्वं ब्रह्मलोकान्नास्ति विज्ञप्तिः कामधातौ च निवृक्ताव्याकृता नास्ति ।
[२०२।०१]
समुत्थानमसद्यतः ।
[२०२।०२]
सवितर्कविचारेण हि चित्तेन विज्ञप्तिः समुत्थाप्यते ।
[२०२।०२-२०२।०३]
तच्च द्वितीयादिषु ध्यानेषु नास्ति भावनाप्रहातव्येन चोत्थाप्यते ।
[२०२।०३]
दर्शनप्रहातव्यस्यान्तर्मुखप्रवृत्तत्वात् ।
[२०२।०४]
तच्च कामधातौ निवृतव्याकृतं नास्ति ।
[२०२।०५]
किं खलु समुत्थानवशादेवं धर्माणां कुशलाकुशलत्वं वेदितव्यम् ।
नेत्याह ।
[२०२।०६]
किं तर्हि ।
चतुर्भिः प्रकारैः परमार्थतः स्वभावतः संप्रयोगतः समुत्थानतश्च ।
[२०२।०७]
तत्र तावत् ।
[२०२।०८]
परमार्थशुभो मोक्षः
[२०२।०९]
निर्वाणं हि सर्वदुःखव्युपशमः ।
ततः परमक्षेमत्वात्परमार्थेन कुशलमारोग्यवत् ।
[२०२।१०]
स्वतो मूलह्यर्पत्रपाः ॥ ४.८ ॥
[२०२।११]
त्रीणि कुशलमूलानि ।
[२०२।११-२०२।१२]
ह्रिश्चापत्रप्यं च स्वभाएव्न कुशलानि अन्यसंप्रयोगसमुत्थनानपेक्षत्वात् ।
[२०२।१२]
पथ्यौषधवत् ।
[२०२।१३]
संप्रयोगेण तद्युक्ताः
[२०२।१४-२०२।१५]
तैरेव कुशलमूलह्यर्पत्राप्यैः संप्रयुक्ता धर्माः संप्रयोगेण कुशलास्तैरसंप्रयुक्तानां कुशलत्वाभावादौषधमिश्रपानीयवत् ।
[२०२।१६]
समुत्था नात्क्रियादयः ।
[२०२।१७-२०२।१८]
कायवावक्कर्मणि चित्तविप्रयुक्ताश्च संस्कारजात्यादयः प्राप्तिनिरोधासंज्ञिसमापत्तयस्तैरेव कुशलमूलादिसंप्रयुक्तै धर्मः समुपस्थापिताः समुत्थानेन कुशलाः ।
[२०२।१९]
औषधपानीयसंभूतधात्रीक्षीरवत् ।
[२०२।१९-२०२।२०]
प्राप्तीनां तु विसभागचित्तसमुत्थापितानां कथं कुशलत्वमिति वक्तव्यम् ।
[२०२।२०-२०२।२१]
तद्यथा विचिकित्सया कुशलमूलप्रतिसंधानं धातुप्रत्यागमपरिहाणिभ्यां च ।
[२०२।२१]
यथा च कुशलमुक्तं ततो
[२०२।२२]
विपर्ययेणाकुशलं
[२०२।२३]
कथं कृत्वा ।
संसारः परमार्थेनाकुशलः ।
सर्वदुःखप्रवृत्त्यात्मकत्वेन परमाक्षेमत्वात् ।
[२०२।२४]
अकुशलमूलाह्रीक्यानपत्राप्याणि स्वभावतः ।
तत्संप्रयुक्ता धर्माः संप्रयोगतः ।
[२०२।२४-२०२।२५]
तत्समुत्थापिताः कायवाक्कर्मजात्यादिप्राप्तयः समुत्थानतः व्याध्यपथ्यौषधादिभिरूपमेयाः ।
[२०३।०१]
एवं तर्हि न किञ्चित्सास्रवमव्याकृतं भविष्यति कुशलं वा ।
संसाराभ्यन्तरत्वात् ।
[२०३।०२]
परमार्थत एवमुक्तं विपाकं तु प्रति यत्सास्रवं न व्याक्रियते तदव्याकृतमित्युच्यते ।
[२०३।०३]
इष्टविपाकं च कुक्शलमित्युच्यते ।
यदि तु परमार्थेनाव्याकृतं मृग्यते तत् ।
[२०३।०४]
परमाव्याकृते ध्रुवे ॥ ४.९ ॥
[२०३।०५]
द्वे असंस्कृते निष्पर्यायेणानिवृताव्याकृते ।
आकाशमप्रतिसंख्यानिरोधश्च ।
[२०३।०५-२०३।०६]
इदं विचार्यते ।
[२०३।०६-२०३।०७]
यदि समुत्थानवशात्कुशलाकुशलत्वं कायवाक्कर्मणः किं न महाभूतानाम् ।
[२०३।०७]
कर्मणि हि कर्त्तुरभिप्रायो न महाभूतेषु ।
[२०३।०७-२०३।०९]
समाहितस्याविज्ञप्तौ नास्त्यभिप्रायो न चासमाहितं चित्तं तस्याः समुत्थापकं विसभागभूमिकत्वादिति कथं तस्याः कुशलत्वम् ।
[२०३।०९-२०३।१०]
दिव्ययोरपि वा चक्षुःश्रोत्रयोः कुक्शलत्वप्रसङ्गः ।
[२०३।१०]
कर्त्तव्योऽत्र यत्नः ।
यदुक्तं दर्शनप्रहातव्यं चित्तं विज्ञप्तेरसमुत्थापकमिति ।
[२०३।११-२०३।१२]
किं तर्हि भगवतोक्तं “ततोऽपि मिथ्यादृष्टेर्मिथ्यासंकल्पः प्रभवति मिथ्या वाग्मिथ्याकर्मान्त” मित्येवमादि ।
[२०३।१२]
अविरुद्धमेतत् ।
[२०३।१३]
समुत्थानं द्विधा हेतुतत्क्षणोत्थानसंज्ञितम् ।
[२०३।१४]
द्विविधं समुत्थानं हेतुसमुत्थानं तत्क्षणसमुत्थानं च ।
तत्रैव क्षणे तद्भावात् ।
[२०३।१५]
प्रवर्तकं तयोराद्यं द्वितीयमनुवर्तकम् ॥ ४.१० ॥
[२०३।१६]
हेतुसमुत्थानं प्रवर्तकमाक्षेपकत्वात् ।
तत्क्षणसमुत्थानमनुवर्तकं क्रियाकालानुवर्तनात् ।
[२०३।१७]
किमिदानीं तस्य तस्यां क्रियायां सामर्थ्यम् ।
[२०३।१७-२०३।१८]
तेन हि विनाऽसौ मृतस्येव न स्यादा क्षिप्ताऽपि सती ।
[२०३।१८]
अचित्तकस्य तर्हि संवरोत्पत्तौ कथं भवति ।
[२०३।१८-२०३।१९]
स्फुटतरा तर्हि सचित्तकस्य भवतीत्येतत्सामर्थ्यम् ।
[२०३।१९]
तत्र च
[२०३।२०]
प्रवर्तकं दृष्टिहेयं विज्ञानम्
[२०३।२१]
दर्शनप्रहातव्यं चित्तं विज्ञप्तेः प्रवर्तकम् ।
[२०३।२१-२०३।२२]
तत्समुत्थापकयोर्वितर्कविचारयोर्निदानभूतत्वात् ।
[२०३।२२]
न त्वनुवर्तकम् ।
[२०३।२२-२०३।२३]
बहिर्मुखचित्तस्य क्रियाकाले तदभावात् ।
[२०३।२३]
तत्समुत्थापितं च रूपं दर्शनप्रहातव्यं स्यात् ।
किं स्यात् ।
[२०३।२३-२०३।२४]
अभिधर्मोबाधितः स्यात् ।
[२०३।२४]
विद्याऽविद्याभ्यां चाविरोधान्नास्ति रूपं दर्शनप्रहातव्यम् ।
[२०३।२४-२०३।२५]
साध्य एष पक्षः ।
[२०३।२५]
भूतान्यपि तर्हि दर्शनप्रहातव्यानि स्युः ।
समानचित्तोत्थापितत्वात् ।
[२०४।०१]
नैवं भविष्यति यथा न कुशलाकुशलानि भवन्ति ।
अथवा पुनर्भवन्तु ।
नैवं शक्यम् ।
[२०४।०२]
नहि तानि दर्शनप्रहातव्यानि युज्यन्ते नाप्यप्रहातव्यानि ।
किं कारणम् ।
[२०४।०२-२०४।०३]
अक्लिष्टस्य धर्मस्य विद्याऽविद्याभ्यामविरोधात् ।
[२०४।०३-२०४।०४]
अतो हेतुसमुत्थानमधिकृत्य सूत्रे पठनान्नास्ति विरोधः ।
[२०४।०५]
उभयं पुनः ॥
[२०४।०६]
मानसं भावनाहेयम् ।
[२०४।०७]
भावनाहेयं पुनर्मनोविज्ञानमुभयं भवति ।
प्रवर्त्तकं चानुवर्तकं च ।
[२०४।०८]
पञ्चकं त्वनुवर्तकम् ॥ ४.११ ॥
[२०४।०९]
पञ्च विज्ञानकाया अनुवर्तका एव ।
तदिदं चतुष्कोटिकं भवति ।
[२०४।०९-२०४।१०]
प्रवर्तकमेव दर्शनप्रहातव्यं चित्तम् ।
[२०४।१०]
अनुवर्तका एव पञ्च विज्ञानकायाः ।
[२०४।१०-२०४।११]
उभयं भावनाहेयं मनोविज्ञानम् ।
[२०४।११]
नोभयमनास्रवम् ।
किं खलु यथा प्रवर्तकं तथैवानुवर्तकं भवति ।
[२०४।१२]
नायमेकान्तम् ।
[२०४।१३]
प्रवर्तके शुभादौ हि स्यात्त्रिधाऽप्यनुवर्तकम् ।
[२०४।१४]
कुशले प्रवर्तके कुशलाकुशलाव्याकृतमनुवर्तकं स्यात् ।
[२०४।१५]
एवमकुशले चाव्याकृते च ।
[२०४।१६]
तुल्यं मुनेः
[२०४।१७]
बुद्धस्य तु भगवतस्तुल्यं प्रवर्तकेनानुवर्तकम् ।
कुशले कुशलमव्याकृते चाव्याकृतम् ।
[२०४।१८]
शुभं यावत्
[२०४।१९]
कुशलं वा भवत्यनुवर्तकमव्याकृतेऽपि प्रवर्तके ।
[२०४।१९-२०४।२०]
न तु कदाचित्कुश्लं प्रवर्तकमनुवर्तकं चाव्याकृतं भवति ।
[२०४।२०]
आम्नायमाना हि बुद्धानां देशनेति ।
[२०४।२०-२०४।२१]
नास्ति बुद्धानामव्याकृतं चित्तमिति निकायान्तरीयाः ।
[२०४।२१-२०४।२२]
कुशलैकताना हि बुद्धानां संततयो नित्यं समाहितत्वात् ।
[२०४।२२]
उक्तं हि सूत्रे
[२०४।२३-२०४।२४]
“चरन् समाहितो नागस्तिष्ठन्नागः समाहितः ।
स्वपन् समाहितो नागो निषण्णोऽपि समाहित” इति ।
[२०४।२५-२०४।२६]
अनिच्छयाऽस्य चित्तस्याविसरणादेवमुक्तं न तु न सन्त्यव्याकृतानि विपाकजैर्या पथिकनिर्माणचित्तानि बुद्धानामिति वैभाषिकाः ।
[२०४।२६-२०४।२७]
मानसं भावनाहेयं प्रवर्तकं चानुवर्तकं चेत्युक्तम् ।
[२०४।२७]
तत्कुशलाकुशलाव्याकृतं सर्वं वेदितव्यम् ।
[२०५।०१]
नोभयं तु विपाप्कजम् ॥ ४.१२ ॥
[२०५।०२]
विपाकजं तु चित्तं नैव प्रवर्तकं नानुवर्तकं निरभिसंस्कारवाहित्वात् ।
[२०५।०२-२०५।०३]
किमिदानीं यथा प्रवर्तकं तथा विज्ञप्तिराहोस्विद्यथाऽनुवर्तकम् ।
[२०५।०३]
किं चातः ।
[२०५।०३-२०५।०४]
यथा प्रवर्तकं चेत् ।
[२०५।०४]
इहापि निवृताव्याकृता विज्ञप्तिः प्राप्नोति ।
[२०५।०५]
सत्कायान्तग्राहदृष्टिप्रवर्तितत्वात् ।
[२०५।०५-२०५।०६]
न वा सर्वं दर्शनप्रहातव्यं प्रवर्तकमिति विशेषणं वक्तव्यम् ।
[२०५।०६-२०५।०७]
यथानुवर्तकं चेतकुक्शलाव्याकृतचित्तस्य प्रातिमोक्षविज्ञप्तिः कुशला न प्राप्नोति ।
[२०५।०७]
यथा प्रवर्तकं तथा विज्ञप्तिर्नतु यथा दर्शनप्रहातव्यम् ।
[२०५।०७-२०५।०८]
भावना हेयान्तरितत्वात् ।
[२०५।०८]
यदि नानुवर्तकवशाद्विज्ञप्तेः कुशलादित्वं न तर्हीदं वक्तव्यम् ।
[२०५।०९]
हेतुसमुत्थानं संधायोक्तं सूत्रे न तत्क्षणसमुत्थानम् ।
[२०५।०९-२०५।१०]
अतो नास्तीह निवृताव्याकृता विज्ञप्तिरिति ।
[२०५।१०]
एवं वक्तव्यम् ।
अन्यव्यवहितं हेतुसमुत्थानं संधायोक्तमिति ।
[२०५।११]
अवसितः प्रसङ्गः ।
[२०५।१२]
सा तु पूर्वोक्ता ।
[२०५।१३]
अविज्ञप्तिस्त्रिधा ज्ञेया संवरासंवरेतरा ।
[२०५।१४]
संवरश्चासंवरश्च ।
ताभ्यां चेतरो नैवसंवरो नासंवरः ।
[२०५।१४-२०५।१५]
दौःशील्यप्रसरस्य संवरणं संरोधः संवरः ।
[२०५।१५]
तत्र पुनः
[२०५।१६]
संवरः प्रातिमोक्षाख्यो ध्यानजोऽनास्रवस्तथा ॥ ४.१३ ॥
[२०५।१७]
त्रिविधः संवरः ।
प्रातिमोक्षसंवर इहत्यानां कामावचरं शीलम् ।
[२०५।१७-२०५।१८]
ध्यानसंवरो रूपावचरं शीलम् ।
[२०५।१८]
अनास्रवसंवरोऽनास्रवं शीलम् ।
तत्र पुनः
[२०५।१९]
अष्टधा प्रातिमोक्षाख्यः
[२०५।२०-२०५।२१]
भिक्षुसंवरो भिक्षुणीसंवरः शिक्षमाणासंवर श्रामणेरसंवरः श्रामणेरीसंवरः उपासकसंवर उपासिकासंवर उपवाससंवरश्च ।
[२०५।२१-२०५।२२]
एषोऽष्टविधसंवरः प्रातिमोक्षसंवर इत्याख्यायते ।
[२०५।२२]
नामत एषोऽष्टविधः ।
[२०५।२३]
द्रव्यतस्तु चतुर्विधः ।
[२०५।२४]
भिक्षुसंवरः श्रमणेरसंवर उपासकसंवर उपवाससंवरश्च ।
[२०५।२४-२०५।२५]
इत्येष चतुर्विधः प्रातिमोक्षसंवरस्तु द्रव्यतः ।
[२०५।२५]
प्रतिनियतलक्षणत्वात् ।
[२०५।२५-२०५।२६]
भिक्षुसंवराद्भिक्षुणीसंवरो नान्यः श्रामणेरसंवराच्च शिक्षमाणाश्रामणेरीसंवरौ ।
[२०५।२६-२०५।२७]
उपासकसंवरादुपासिकासंवरो नान्यः ।
[२०५।२७]
कथं ज्ञायते ।
[२०६।०१]
लिङ्गतो नामसंचारात्
[२०६।०२]
लिङ्गमिति व्यञ्जनस्याख्या येन स्त्रीपुरुषौ लिङ्ग्येते ।
[२०६।०२-२०६।०३]
लिङ्गतो हि भिक्षुभिक्षुण्यादीनां नामसंचारो भवति ।
[२०६।०३]
कथं कृत्वा ।
[२०६।०३-२०६।०४]
परिवृत्ते हि व्यञ्जने भिक्षुर्भिक्षुणीत्युच्यते भिक्षुणी च पुनर्भिक्षुः ।
[२०६।०४-२०६।०५]
श्रामणेरीत्युच्यते श्रामणेरी च पुनः शिक्षमाणा च श्रामणेरः ।
[२०६।०५]
उपासक उपासिकेत्युच्यते उपासिका च पुनरूपासक इति ।
[२०६।०५-२०६।०६]
न च व्यञ्जनपरिवृत्तौ पूर्वसंवरत्यागे कारणमस्ति नाप्यपूर्वसंवरप्रतिलम्भे ।
[२०६।०६-२०६।०७]
तस्मादभिन्न एषां चतुर्णा संवराणां त्रिभ्यः स्वभावः ।
[२०६।०८-२०६।१०]
य उपासकसंवराच्छ्रामणेरसंवरं समादत्ते तस्माच्च पुनर्भिक्षुसंवरं किं ते संवरा विरतिवृद्धियोगादन्योऽन्य उच्यन्ते पञ्चदश विंशतिवत्दीनारशतेरवच्च आहोस्वित्पृथगेव ते सकला जायन्ते ।
[२०६।१०]
आह ।
[२०६।११]
पृथक्
[२०६।१२]
अव्यामिश्रा एव ते पृथग्लक्षणा उपजायन्ते ।
[२०६।१२-२०६।१३]
त्रिषु संवरेषु तिस्रः प्राणातिपातविरतयो यावन्मद्यपानविरतयः ।
[२०६।१३]
एवं शेषाः ।
को नु तासां विशेषः ।
[२०६।१३-२०६।१४]
निदानविशेषाद्विशेषः ।
[२०६।१४]
कथं कृत्वा ।
[२०६।१४-२०६।१७]
यथा यथा हि वहुतराणि शिक्षापदानि समादित्सते तथा तथा बहुतरेभ्यो मद्दप्रमादपदेभ्यो निवर्तमानो बहुतरेभ्यः प्राणातिपातादीनां निदानेभ्यो निवर्तते विरतीनां च निदानेषु प्रवर्तत इति निदानविशेषाद्विरतीनां विशेषः ।
[२०६।१७-२०६।१८]
एवं चासति भिक्षुसंवरं प्रत्याचक्षाणस्त्रीनपि संवरान्विजह्याद्दयोरपि तत्रान्तर्भावात् ।
[२०६।१८]
न चैतदिष्टम् ।
तस्मात्पृथगेव ते संवराः ।
[२०६।१९]
ते चाविरोधिनः ॥ ४.१४ ॥
[२०६।२०]
ते च त्रयोऽपि सह वर्तन्ते ।
नोत्तरसंवरसमादानात्पुर्वकस्य त्यागः ।
[२०६।२०-२०६।२१]
मा भूत्भिक्षुसंवरपरित्यागादनुपासक एवेति ।
[२०६।२२]
कथं चायमुपासको भवति कथमुपवासस्थो यावत्भिक्षुः ।
[२०६।२३-२०६।२४]
पञ्चाष्टदशसर्वेभ्यो वर्ज्येभ्यो विरतिग्रहात् ।
उपासकोपवासस्थश्रमणोद्देशभिक्षुता ॥ ४.१५ ॥
[२०६।२५]
यथासंख्यमनुदेशो वेदितव्यः ।
[२०६।२५-२०७।०१]
पञ्च्चभ्यो वर्जनीयेभ्यो धर्मेभ्यो विरतिसमादानादुपासकसंवरस्थो भवति ।
[२०७।०१-२०७।०२]
प्राणातिपाताददत्तादानात्काममिथ्याचारात्मृषावादात्सुरामैरेयमद्यपानाच्च ।
[२०७।०२-२०७।०३]
अष्टाभ्यो विरतिसमादानादुपवासस्थः ।
[२०७।०३-२०७।०४]
प्राणातिपातादत्तादानाब्रह्मचर्यमृषावादमद्यपानेभ्यो गन्धमाल्यविलेपननृत्यगीतवादित्रादुच्चशयनमहाशयनादकालभोजनाच्च ।
[२०७।०४-२०७।०५]
दशभ्यो विरतिसमादानाच्छ्रामणेरो भवति ।
[२०७।०५]
एभ्य एव जातरूपरजतप्रतिग्रहाच्च ।
[२०७।०५-२०७।०६]
नृत्यगितवादित्रगन्धमाल्यविलेपनं चात्र द्वयीकृत्य दश भवन्ति ।
[२०७।०६-२०७।०७]
सर्वेभ्य एव वर्जनीयेभ्यः कायवाक्कर्मभ्यः विरतिसमादानात्भिक्षुरित्युच्यते ।
[२०७।०७]
स एष प्रातिमोक्षसंवरः ।
[२०७।०८]
शीलं सुचरितं कर्म संवरश्चोच्यते
[२०७।०९]
विषमकर्मणां विरतिसमादानाच्छीलम् ।
शीतलत्वादिति निरुक्तिः ।
[२०७।१०]
“सुखशीलसमादानं कायो न परिदह्यत” इति
[२०७।११]
गाथावचनात् ।
विद्वत्प्रशस्तत्वात्सुचरितम् ।
क्रियास्वभावत्वात्कर्म ।
[२०७।११-२०७।१२]
ननु चाविज्ञप्तिरक्रियेत्युच्यते ।
[२०७।१२]
सा कथं क्रिया भाति ।
[२०७।१२-२०७।१३]
न कुर्वन्ति तया समात्तया लज्जिनः पापमित्यक्रियेत्युच्यते ।
[२०७।१३]
सापि तु विज्ञप्तिचित्ताभ्यां क्रियत इति क्रिया भवति ।
[२०७।१४]
क्रियाहेतुत्वात्क्रियाफलत्वाच्चेत्यपरे ।
संवर इति कायवाचोः संवरणात् ।
[२०७।१४-२०७।१५]
एवं तावदविशेषेण प्रातिमोक्षसंवरः संशब्द्यते ।
[२०७।१६]
पुनः ।
[२०७।१७]
आद्ये विज्ञप्त्यविज्ञप्ती प्रातिमोक्षकियापथः ॥ ४.१६ ॥
[२०७।१८]
संवरसमादानस्य प्रथमे विज्ञप्त्यविज्ञप्ती प्रातिमोक्ष इत्युच्यते ।
[२०७।१८-२०७।१९]
पापस्य तेन प्रातिमोक्षणादुत्सर्जनादित्यर्थः ।
[२०७।१९]
स्वार्थे वृद्धिविधानाद्वैकृतवैशसवत् ।
[२०७।१९-२०७।२०]
प्रातिमोक्षसंवर इत्यपि कायवाक्संवरणात्कर्मपथ इत्युच्यते ।
[२०७।२०]
मौलसंगृहीतत्वात् ।
[२०७।२०-२०७।२१]
द्वितीयादिषु क्षणेषुइ प्रातिमोक्षसंवर एव न प्रातिमोक्षः ।
[२०७।२१]
पृष्ठं च न मौलः कर्मपथः ।
[२०७।२२]
अथैषां संवराणां केन कः समन्वागतः ।
[२०७।२३]
प्रातिमोक्षान्विता अष्टौ
[२०७।२४]
प्रातिमोक्षसंवरेणाष्टौ निकायाः समन्वागता भिक्षुर्भिक्षुणी यावदुपवासस्थोऽष्टमः ।
[२०८।०१]
किं खलु बाह्यकानां समादानशीलं नास्ति ।
अस्ति नतु प्रातिमोक्षसंवरः ।
[२०८।०१-२०८।०२]
किं कारणम् ।
[२०८।०२]
नहि तदत्यन्तं पापस्य प्रतिमोक्षणाय संवर्तते ।
भवसंनिश्रितत्वात् ।
[२०८।०३]
ध्यानजेन तदन्वितः ।
[२०८।०४]
ध्यानाद्ध्याने वा जातो ध्यानजः ।
यो ध्यानेन समन्वागतः सोऽवश्यं ध्यानसंवरेण ।
[२०८।०५]
सामन्तकमप्यत्र ध्यानं कृत्वोच्यते ।
यथा ग्रामसामन्तकमपि ग्राम इत्युच्यते ।
[२०८।०६]
अस्त्यस्मिन् ग्रामे शालेयं क्षेत्रमस्ति व्रैहेयमिति ।
[२०८।०७]
अनास्रवेणार्यसत्त्वाः
[२०८।०८]
आर्यपुद्गला अनास्रवेण संवरेण समन्वागताः ।
ते पुनः शैक्षाशैक्षाः ।
[२०८।०८-२०८।०९]
यदुक्तं “सहभूहेतावुच्यमाने द्वौ संवरौ चित्तानुवर्तिनावि”ति ।
[२०८।१०]
कतमो तौ ।
एषामेव त्रयाणाम्
[२०८।११]
अन्त्यौ चित्तानुवर्तिनौ ॥ ४.१७ ॥
[२०८।१२]
ध्यानसंवरोऽनास्रवसंवरश्च ।
न प्रातिमोक्षसंवरः ।
किं कारणम् ।
[२०८।१२-२०८।१३]
अन्यचित्ताचित्तकस्याप्यनुवृत्तेः ।
[२०८।१३]
पुनस्तावेव ध्यानानास्रवसंवरौ प्रहाणसंवराख्यां लभेते ।
[२०८।१४]
कस्यामवस्थायामित्याह
[२०८।१५]
अनागम्ये प्रहाणाख्यौ तावानन्तर्यमार्गजौ ।
[२०८।१६]
अनागम्ये तौ ध्यानानास्रवसंवरौ नवस्वानन्तर्यमार्गेषु प्रहाणसंवरावित्युच्येते ।
[२०८।१७]
ताभ्यां दौःशील्यस्य तत्समुत्थापकानां च क्लेशानां प्रहाणात् ।
[२०८।१७-२०८।१८]
अत एव स्याद्ध्यानसंवरो न प्रहाणसंवर इति चतुष्कोटिकं क्रियते ॥
[२०८।१८-२०८।१९]
प्रथमा कोटिरनागम्यानन्तर्यमार्गवर्ज्यः सास्रवो ध्यानसंवरः ।
[२०८।१९]
द्वितीया अनागम्यानन्तर्यमार्गेष्वनास्रवः ।
[२०८।२०]
तृतीया अनागम्यानन्तर्यमार्गेषु सास्रवः ।
[२०८।२०-२०८।२१]
चतुर्थी अनागम्यानन्तर्यमार्गवर्ज्योऽनास्रवसंवरः ।
[२०८।२१-२०८।२२]
एवं स्यादनास्रवसंवरो न प्रहाणसंवर इति चतुष्कोटिकं यथायोगं वेदितव्यम् ।
[२०८।२२]
यत्तर्हि भगवतोक्तं
[२०८।२३-२०८।२४]
“कायेन संवरः साधु साधु वाचाऽथ संवरः ।
मनसा संवरः साधु साधु सर्वत्र संवरः । इति ।
[२०८।२५]
यच्चोक्तं “चक्षुरिन्द्रियेण संवरसंवृतो विहरती”ति ।
[२०८।२५-२०८।२६]
एतौ मनैन्द्रियसंवरौ किंस्वभावौ ।
[२०८।२६]
नैतावविज्ञप्तिशीलस्वभावौ ।
किं तर्हि ।
[२०९।०१]
संप्रज्ञानस्मृती द्वे तु मनैन्द्रियसंवरौ ॥ ४.१८ ॥
[२०९।०२-२०९।०३]
प्रत्येकं द्विस्वभावज्ञपनार्थं पुनर्द्विग्रहणं मा यथासंख्यं विज्ञायीति मनःसंवरोऽपि स्मृतिसंप्रज्ञानस्वभाव इति ।
[२०९।०३]
इन्द्रियसंवरोऽपि ।
[२०९।०४]
इदं विचार्यते ।
[२०९।०४-२०९।०५]
कः कतमया विज्ञप्त्याऽविज्ञप्त्या वा कियन्तं कालं समन्वागत इति ।
[२०९।०५]
तत्र
[२०९।०६]
प्रातिम्मोक्षस्थितो नित्यमत्यागाद्वर्तमानया ।
[२०९।०७]
अविज्ञप्त्याऽन्वितः
[२०९।०८-२०९।०९]
यः प्रातिमोक्षासंवरस्थः पुद्गल उक्तः स यावत्तामविज्ञप्तिर्न त्यजति तावत्तया वर्तमानया नित्यं समन्वागतः ।
[२०९।१०]
पूर्वात्क्षणादूर्ध्वमतीतया ॥ ४.१९ ॥
[२०९।११][
प्रथमात्क्षणादूर्ध्वमतीतयाऽपि समन्वागतः ।
[२०९।११-२०९।१२]
अत्यागादिति सर्वत्राधिकृतं वेदितव्यम् ।
[२०९।१२]
यथा प्रातिमोक्षसंवरस्थ उक्तः
[२०९।१३]
तथैवासंवरस्थोऽपि
[२०९।१४-२०९।१५]
असंवरस्थोऽपि यावदसंवरं न त्यजति तावन्नित्यमविज्ञप्त्या वर्तमानया समन्वागतः ।
[२०९।१५]
क्षणादूर्ध्वमतीतयाऽपि ।
[२०९।१६]
ध्यानसंवरवान् सदा ।
[२०९।१७]
अतीताजातया
[२०९।१८-२०९।१९]
ध्यानसंवरस्य लाभी नित्यमतीतानागताभ्यामविज्ञप्तिभ्यां समन्वागतः आत्यागात् ।
[२०९।१९]
प्रथमे हि क्षणे स जन्मान्तरत्यक्तं ध्यानसंवरमतीतं लभते ।
[२०९।२०]
आर्यस्तु प्रथमे नाभ्यतीतया ॥ ४.२० ॥
[२०९।२१]
आर्यस्तु पुद्गलोऽप्येवमनास्रव्या ।
अयं तु विशेषः ।
[२०९।२१-२०९।२२]
स प्रथमे क्षणे नातीतया समन्वागतो मार्गस्य पूर्वमनुत्पादितत्वात् ।
[२१०।०१]
समाहितार्यमार्गस्थौ तौ युक्तौ वर्तमानया ।
[२१०।०२-२१०।०३]
तौ ध्यानानास्रवसंवरान्वितौ समाहितर्यमार्गसमापन्नौ वर्तमानया अविज्ञप्त्या समन्वागतौ यथाक्रमं न तु व्युत्थितौ ।
[२१०।०३-२१०।०४]
संवरासंवरस्थानां तावदेष वृत्तान्तः ।
[२१०।०५]
अथेदानीं मध्यस्थस्य ।
[२१०।०६]
मध्यस्थस्यास्ति चेदादौ मध्यया
[२१०।०७]
यो नैव संवरे नासंवरे स्थितः स मध्यस्थः ।
[२१०।०७-२१०।०८]
तस्य नावश्यमविज्ञप्तिरस्ति ।
[२१०।०८]
यस्य त्वस्ति दौःशील्यशीलाङ्गादिसंगृहीता स आदौ मध्यया समन्वागतः ।
[२१०।०९]
वर्तमाना ह्यविज्ञप्तिरतीतानागतयोर्मध्याद्
[२१०।१०]
ऊर्ध्वं द्विकालया ॥ ४.२१ ॥
[२१०।११]
प्रथमात्क्षणादूर्ध्वमतीतया वर्तमानया च ।
आत्यागादिति वर्तते ।
[२१०।११-२१०।१२]
किमसंवरस्थः कदाचित्कुशलया विज्ञप्त्या समन्वागतो भवति संवरस्थो वा पुनरकुशलया भवति ।
[२१०।१३]
भवन् कदा कियन्तं वा कालमित्याह
[२१०।१४-२१०।१५]
असंवरस्थः शुभयाऽशुभया संवरे स्थितः ।
अविज्ञप्त्यान्वितो यावत्प्रसादक्लेशवेगवान् ॥ ४.२२ ॥
[२१०।१६-२१०।१८]
येन प्रसादवेगेनासंवरस्थस्य कुशलाऽविज्ञप्तिरुत्पद्यते स्तववन्दनादिक्रियां कुर्वतः येन च क्लेशवेगेन संवरस्थस्याकुशलाऽविज्ञप्तिरुत्पद्यते वधबन्धनताडनादिक्रियां कुर्वतः तौ यावदनुवर्तेते तावत्ते अप्यविज्ञप्ती ।
[२१०।१८-२१०।१९]
स आद्ये क्षणे वर्तमानयैवाविज्ञप्त्या समन्वागतो भवत्यन्येष्वतीतयाऽपि ।
[२१०।१९]
अविज्ञप्त्यधिकारः समाप्तः ।
[२१०।२०]
विज्ञप्त्या तु पुनः सर्वे कुर्वन्तो मध्ययान्विताः ।
[२१०।२१]
सर्वे संवरासंवरमध्यस्था यावदिज्ञप्तिं कुर्वन्ति तावत्तया वर्तमानया समन्वागताः ।
[२१०।२२]
अतीतया क्षणादूर्ध्वमात्यागात्
[२१०।२३]
प्रथमात्क्षणादूर्ध्वमात्यागादतीतया विज्ञप्त्या समन्वागतो भवति ।
[२१०।२४]
नास्त्यजातया ॥ ४.२३ ॥
[२११।०१]
अनागतया तु विज्ञप्त्या न कश्चित्समन्वागतः ।
[२११।०२]
निवृतानिवृताभ्यां च नातीताभ्यां समन्वितः ।
[२११।०३]
अतीताभ्यामपि निवृतानिवृताव्याकृताभ्यां विज्ञप्तिभ्यां न कश्चित्समन्वागतः ।
[२११।०४]
दुर्बलस्य हि धर्मस्य प्राप्तिरपि दुर्बला नानुबन्धीभवति ।
किङ्कृतं तस्या दौर्बल्यम् ।
[२११।०५]
चित्तकृतम् ।
चित्तस्यापि तर्हि निवृताव्याकृतस्य मा भूत् ।
नैतदेवम् ।
[२११।०५-२११।०६]
जडा हि विज्ञप्तिः परतन्त्रा च ।
[२११।०६]
न चैवं चित्तम् ।
[२११।०६-२११।०७]
सा हि विज्ञप्तिर्दुर्बलेनोत्थापिता दुर्बलतरा भवति ।
[२११।०८]
असंवरस्थ इत्युक्तम् ।
कोऽयमसंवरो नाम ।
[२११।०९]
असंवरो दुश्चरितं दौःशील्यं कर्मं तत्पथः ॥ ४.२४ ॥
[२११।१०]
असंवरस्येमे पर्यायशब्दाः ।
तत्र कायवाचोरसंवरणादसंवरः ।
[२११।१०-२११।११]
सद्भिः कुत्सितत्वादनिष्टफलत्वाद्दुश्चरितम् ।
[२११।११]
शीलविपक्षाद्दौःशील्यम् ।
कायवाक्कर्मत्वात्कर्म ।
[२११।१२]
मौलसंगृहीतत्वात्कर्मपथः ।
स्याद्विज्ञप्त्या समन्वागतो नाविज्ञप्त्येति चतुष्कोटिकम् ।
[२११।१३]
तत्र तावत् ।
[२११।१४]
विज्ञप्त्यैवान्वितः कुर्वन्मध्यस्थो मृदुचेतनः ।
[२११।१५-२११।१७]
मृद्व्या चेतनया कुशलमकुक्शलं वा कुर्वन्नैवसंवरनासंवरस्थितो विज्ञप्त्यैव समन्वागतो भवति नाविज्ञप्त्या प्रागेवाव्याकृते अन्यत्रौपधिकपुण्यक्रियावस्तुकर्मपथेभ्यः ।
[२११।१८]
त्यक्तानुत्पन्नविज्ञप्तिरविज्ञप्त्यार्यपुद्गलः ॥ ४.२५ ॥
[२११।१९-२११।२०]
अविज्ञप्त्यैव समन्वागतो न विज्ञप्त्या येनार्यपुद्गलेन जन्मान्तरपरिवृत्तौ न तावद्विज्ञप्तं वा पुनर्विहीनम् ।
[२११।२०-२११।२१]
उक्तं संवरासंवरमध्यस्थानां विज्ञप्त्यविज्ञप्तिसमन्वागमनव्यवस्थानम् ।
[२११।२२]
अथैते संवराः कथं लभ्यन्ते ।
[२११।२३]
ध्यानजो ध्यनभूम्यैव लभ्यते
[२११।२४-२११।२५]
यदा ध्यानभूमिकं चित्तं प्रतिलभ्यते मौलीयं सामन्तकीयं वा सास्रवं तदा ध्यानसंवरोऽपि सहभूतत्वात् ।
[२११।२६]
अनास्रवस्तया ।
[२११।२७]
आर्यया
[२११।२८]
तयैव ध्यानभूम्याऽनास्रवया लभ्यमानयाऽनास्रवः संवरो लभ्यते ।
[२११।२८-२११।३०]
तत्र षट्ध्यानभूमयोऽनास्रवा भवन्ति चत्वारि ध्यानानि अनागम्यस्यानन्तरं चेति पश्चात्प्रवेदयिष्यामः ।
[२१२।०१]
प्रातिमोक्षाख्यः परविज्ञपनादिभिः ॥ ४.२६ ॥
[२१२।०२]
प्रातिमोक्षसंवरस्तु परविज्ञप्तितो लभ्यते ।
यद्येनं परो विज्ञपयति असौ च परम् ।
[२१२।०३]
स पुनः संघाद्वा पुद्गलाद्वा ।
संधाद्भीक्षुभिक्षुणीशिक्षमाणासंवराः पुद्गलाद्दन्ये ।
[२१२।०४]
दशविधा उपसंपदिति विनयविभाषिकाः ।
तस्य ऊपसंग्रहणार्थमादिशब्दः ।
[२१२।०४-२१२।०९]
स्वयंभूत्वेन बुद्धानां प्रत्येकबुद्धानां च नियामावक्रान्त्या पञ्चकानामेहिभिक्षुकया यशःप्रभृतीनां शास्तुरभ्युपगमान्महाकाश्यपस्य प्रश्नाराधनेन सोदायिनः गुरुधर्माभ्युपगमेन महाप्रजापत्याः दूतेन धर्मदिन्नायाः विनयद्धरपञ्चमेन प्रत्यन्तिमेषु जनपदेषु दशवर्गेण मध्येषु जनपदेषु शरणगमनं त्रैवाचिकेन षष्टिभद्रवर्गपूगोपसंपादितानामिति तेषां नावश्यं विज्ञप्त्यधीनः प्रातिमोक्षसंवरः ।
[२१२।०९-२१२।१०]
स पुनरेष प्रातिमोक्षासंवरः समादीयमानः कियन्तं कालं समादातव्यः ।
[२१२।११]
यावज्जीवं समादानमहोरात्रं च संवृतेः ।
[२१२।१२-२१२।१३]
सप्तनैकायिकस्य प्रातिमोक्षसंवरस्य यावज्जीवं समादानमुपवाससंवरस्याहोरात्रमित्येष नियमः ।
[२१२।१३]
किं कारणम् ।
द्वौ हि कालपर्यन्तौ ।
[२१२।१३-२१२।१४]
अहोरात्रपर्यन्तो जीवितपर्यन्तश्च ।
[२१२।१४]
अहारोत्राणां पौनरुक्त्येन पक्षादयः ।
कालो नाम क एष धर्मः ।
[२१२।१५]
संस्कारपरिदीपनाधिवचनमेतत् ।
आलोकावस्था हि द्वीपेषु दिवस इत्युच्यते ।
[२१२।१६]
तमोऽवस्था रात्रिः ।
युक्तं तावज्जीवितादूर्ध्वं सत्यपि समादाने संवरस्यानुत्पत्तिः ।
[२१२।१७]
विसभागत्वादाश्रयस्य तेन च तत्राप्रयोगादस्मरणाच्च ।
[२१२।१७-२१२।१९]
अथाहोरात्रादूर्ध्वं पञ्चरात्रं दशरात्रं वा उपवाससमादानस्य कः प्रतिबन्धो बहूनामुपवाससंवराणामुत्पत्तौ ।
[२१२।१९-२१२।२०]
इत्थमस्ति प्रतिबन्धो यद्भगवानहोरात्रिकमेवोपवासं सूत्रे शास्तिस्म ।
[२१२।२०]
इदमिदानीं संप्रधार्यम् ।
[२१२।२०-२१२।२२]
किं तावदहोरात्रादूर्ध्वं संवरस्यानुत्पर्त्ति पश्यता तथागतेनाहोरात्रिक उपवासो देशित उताहो दुर्बलेन्द्रियाणामहोरात्रकेऽपि संवरसमादानेन संनियोजनार्थमिति ।
[२१२।२२]
कुतस्त्वेतदेवं तर्क्यते ।
[२१२।२२-२१२।२३]
अहोरात्रात्परेणापि संवरोत्पत्तौ युक्त्यविरोधात् ।
[२१२।२३-२१२।२४]
तदेतत्कस्यचिदप्यहोरात्रादूर्ध्वमदेशनां नेच्छन्ति वैभाषिकाः ।
[२१२।२४]
असंवरस्येदानीं कः कालनियमः ।
[२१२।२५]
नासंवरोऽस्त्यहोरात्रं
[२१२।२६]
यावज्जीवं पापकर्माभ्युपगमादसंवर उपजायते नाहोरात्रं यथोपवासः ।
किं कारणम् ।
[२१३।०१]
न किलैवं प्रगृह्यते ॥ ४.२७ ॥
[२१३।०२-२१३।०३]
न किल कश्चिदेवमसंवरं समादत्ते यथोपवासं कच्चिदहमहोरात्रमसंवृतः स्यामिति ।
[२१३।०३]
कुत्सितत्वात्कर्मणः ।
[२१३।०३-२१३।०४]
एवं चैव न कश्चिदादत्ते कच्चिदहं यावजीवमसंवृतः स्यामिति ।
[२१३।०४]
यावज्जीवमप्यस्य लाभो न स्यात् ।
[२१३।०४-२१३।०६]
यद्यपि नैवमादत्ते तथाप्यत्यन्तविपन्नेनाशयेन तां क्रियां प्रकुर्वन्नसंवरं प्रतिलभते न कालान्तरविपन्नेन ।
[२१३।०६]
उपवाससंवरस्तु समादानबलाधानादनात्यन्तिकेऽप्याशये लभ्यत एव ।
[२१३।०७]
संवरार्थित्वात् ।
[२१३।०७-२१३।०८]
यदि पुनः कश्चिदसंवरेणाप्यर्थी कालान्तरमसंवरं समाददीत सोऽवश्यं लभेत ।
[२१३।०८]
न त्वेददृष्टमिति नैवं व्यवस्थाप्यते ।
[२१३।०९]
अविज्ञप्तिवदसंवरोऽपि नास्ति द्रव्यत इति सौत्रान्तिकाः ।
[२१३।०९-२१३।१०]
स एव तु पापक्रियाभिसंधिरसंवरः ।
[२१३।१०]
सानुबन्धो यतः कुशलचित्तोऽपि तद्वानुच्यते ।
[२१३।१०-२१३।११]
तस्यानिराकृतत्वात् ।
[२१३।१२]
अथाहोरात्रं गृह्यमाण उपवासः कथं ग्रहीतव्यः ।
[२१३।१३-२१३।१४]
काल्यं ग्राह्योऽन्यतो नीचैः स्थितेनोक्तानुवादिता ।
उपवासः समग्राङ्गो निर्भुषेणानिशाक्षयात् ॥ ४.२८ ॥
[२१३।१५]
काल्यं तावत्सूर्योदयकाले अहोरात्रिकत्वात्संवरस्य ।
[२१३।१५-२१३।१६]
यस्तु पूर्वकृतसमादानो नित्यमष्टभ्यामुपचेष्यामीति स भुक्त्वापि गृह्णीयात् ।
[२१३।१६-२१३।१७]
अन्यतश्च ग्रहीतव्यो न स्वयमेवापरापेक्षया सत्स्वपि प्रत्ययेष्वनतिक्रमार्थम् ।
[२१३।१७-२१३।१८]
नीचैः स्थितेनोत्कुट्टकेन वा जानुपातेन वा कपोतकमञ्जलिं कृत्वाऽन्यत्र स्थास्यात् ।
[२१३।१८-२१३।१९]
अगौरवस्य हि संवरो नोत्पद्यते ।
[२१३।१९]
दातुश्च वचनमनुब्रुवीत ।
न पूर्वं न युगपत् ।
[२१३।१९-२१३।२०]
एवं ह्यसौ परस्मात्गृहीतो भवति ।
[२१३।२०]
अन्यथा हि दानग्रहणं न सिध्येत् ।
[२१३।२०-२१३।२१]
समग्राङ्गश्चाष्टाङ्ग एव ग्रहीतव्यो न विकलाङ्गः ।
[२१३।२१]
निर्भूषेण च ।
आजस्रिकमभ्यलङ्कारं मुक्त्वा ।
[२१३।२२]
आजस्रिको ह्यलङ्कारो नात्यर्थं मदमादधाति ।
[२१३।२२-२१३।२३]
आरात्रिपरिक्षयाच्च ग्रहीतव्यो यावत्पुनः सूर्योदयात् ।
[२१३।२३-२१३।२४]
अतोऽन्यथा गृह्णतः सुचरितमात्रं स्यान्नतूपवाससंवरः ।
[२१३।२४-२१३।२५]
एवं च कृत्वा औरभ्रिकपारदारिकयो रात्रिदिवसोपवासकयोः साफल्यं प्रयुज्यते ।
[२१३।२५]
अर्हतां समीपे वसन्त्यनेनेत्युपवासस्तेषामनुशिक्षणात् ।
[२१३।२५-२१३।२६]
यावज्जीविकसंवरसमीपे वसन्त्यनेने त्यपरे ।
[२१३।२६-२१३।२७]
अल्पकुशलमूलानां कुशलमूलपोषणात्पोषध इति वा ।
[२१४।०१-२१४।०२]
“पोषं दधाति मनसः कुशलस्य यस्मादुक्तस्ततो भगवता किल पोषधोऽयमि”ति ।
[२१४।०३]
किमर्थं पुनरष्टाङ्गन्युपादीयन्ते ।
यस्मात्
[२१४।०४]
शीलाङ्गान्यप्रमादाङ्गं व्रताङ्गानि यथाक्रमम् ।
[२१४।०५]
चत्वार्येकं तथा त्रीणि
[२१४।०६]
चत्वारि तावच्छीलाङ्गानि यावन्मृषावादविरतिः ।
प्रकृतिसावद्यविरतित्वात् ।
[२१४।०७]
एकमप्रमादाङ्ग मद्यपानाद्विरतिः ।
समात्तशीलोऽपि मद्यपः प्रमाद्येत ।
[२१४।०७-२१४।०८]
त्रीणि वृताङ्गानि यावदकालभोजनाद्विरतिः ।
[२१४।०८]
संवेगानुगुणत्वात् ।
[२१४।०८-२१४।०९]
किं पुनरेभिरप्रमादाङ्गवृताङ्गैरनुपात्तैः स्यात् ।
[२१४।१०]
स्मृतिनाशो मदश्च तैः ॥ ४.२९ ॥
[२१४।११]
मद्यं हि पिवतः कार्या कार्यस्मृतिरेव नश्येत् ।
[२१४।११-२१४।१२]
उच्चशयनमहाशयननृत्तगीतादिकं प्रतिसेवमानस्य मदः संभवेत् ।
[२१४।१२]
मत्तस्य च दौःशील्यमदूरं भवेत् ।
[२१४।१२-२१४।१४]
काले पुनर्भुञ्जानस्योचितभक्तकालपरिहारादुपवासस्मृतिः संवेगश्चोपतिष्ठेत् ।
[२१४।१४]
तदभावादुभयं न स्यादिति ।
[२१४।१४-२१४।१५]
केचित्तु खल्वकालभोजनात्प्रतिविरतिमेवोपवासं मन्यन्ते ।
[२१४।१५]
तस्य शेषाण्यष्टाङ्गानीति ।
[२१४।१५-२१४।१६]
नृत्यगोतवादित्रं गन्धमाल्यविलेपनं च द्वयं कृत्वा ।
[२१४।१६]
एवं तु सति सूत्रपाठो न युज्येत ।
[२१४।१६-२१४।१८]
अकालभोजनाद्विरति मुक्त्वा “अनेनाहमष्टमाङ्गेन तेषामार्याणामर्हतां शिक्षायामनुशिक्षे अनुविधीय” इति ।
[२१४।१८]
कस्तर्हि सोऽन्य उपवासो यस्येमान्यङ्गानि ।
समुदायस्यावयवा अङ्गानि ।
[२१४।१९-२१४।२०]
यथा स्थस्याङ्गानि चतुरङ्गो बलकायः पञ्चाङ्गं तूर्यं तथाऽष्टाङ्ग उपवासो द्रष्टव्यः ।
[२१४।२०-२१४।२१]
अकालभोजनात्प्रतिविरतिरूपवास उपवासाङ्गं च यथा सम्यग्दृष्टिर्मार्गो मार्गाङ्गं च ।
[२१४।२१-२१४।२२]
धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं समाधिर्ध्यानं ध्यानाङ्गं चेति वैभाषिकाः ।
[२१४।२२-२१४।२३]
नतु तेषामेव सम्यग्दृष्ट्यादीनां त एवाङ्गत्वाय कल्पन्त इति ।
[२१४।२३-२१४।२४]
पूर्वकाः सम्यग्दृष्ट्यादय उत्तरेषामङ्गं यदि स्युः प्रथमक्षणोत्पन्न आर्यमार्गो नाष्टाङ्गः स्यात् ।
[२१४।२५]
किं खल्वयमुपवासकस्यैवोपवास आहोस्विदन्यस्यापि ।
[२१४।२६]
अन्यस्याप्युपवासोऽस्ति शरणं त्वगतस्य न ।
[२१४।२७-२१५।०१]
अनुपवासकोऽपि यस्तमहोरात्रं बुद्धधर्मसंघान् शरणं गत्वोपवासं गृह्णाति तस्योत्पद्यते उपवाससंवरो नान्यथा ।
[२१५।०१]
अन्यत्राज्ञानात् ।
[२१५।०१-२१५।०४]
सूत्र उक्तं “यतश्च महानामन् गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति धर्मं संघं शरणं गच्छति वाचं च भाषते उपवासकं च मां धरय ।
[२१५।०४]
इयता उपावासको भवती”ति ।
तत्किं शरणगमनादेवोपवासको भवति ।
[२१५।०५]
भवतीति बहिर्देशकाः ।
न विना संवरेणेति काश्मीराः ।
यत्तर्हि सूत्र उक्तम् ।
[२१५।०६]
नास्त्यत्र विरोधः ।
यस्मादस्योत्पद्यते तत एव
[२१५।०७]
उपासकत्वोपगमात्संवृत्
[२१५।०८]
उपासकत्वाभ्युपगमादेवास्योपासकसंवरो जायते ।
[२१५।०८-२१५।०९]
“यदेवाभ्युपगच्छत्युपासकं मां धारयेत्याद्यग्रेण यावज्जीवं प्राणापेतमि”ति ।
[२१५।०९-२१५।१०]
प्राणातिपाताद्यपेतमित्यर्थो मध्यपदलोपात् ।
[२१५।१०]
लघुसंवरस्यापि व्युत्पादनार्थं शिक्षापदानाम्
[२१५।११]
उक्तिस्तु भिक्षुवत् ॥ ४.३० ॥
[२१५।१२-२१५।१३]
यथैवं भिक्षुर्लब्धसंवरोऽपि पुनः शिक्षापदानि ग्राह्यते श्रामणेरश्च व्युत्पादनार्थमित श्चामुतश्च ते संवर इति तथोपवासकोऽपि न तु विना संवरेणोपासकोऽस्ति ।
[२१५।१४]
सर्वे चेत्संवृता एकदेशकार्यादयः कथम् ।
[२१५।१५-२१५।१६]
यदि सर्व एवोपासका उपासकसंवरस्थाः कथं भगवता एकदेशकारी प्रदेशकारी यद्भूयःकारी पूरिपूर्णकारी चोपासक उक्तः ।
[२१५।१७]
तत्पालनात्किल प्रोक्ताः
[२१५।१८]
यो हि यच्छिक्षापदं पालयति स तत्कारीत्युक्तः ।
सर्वे तु समं संवरस्थाः ।
[२१५।१९]
इदमुत्सूत्रं वर्तते ।
किमत्रोत्सूत्रम् ।
[२१५।१९-२१५।२०]
उपासकत्वाभ्युपगमादेव संवरलाभो यस्मात्प्राणतिपातमित्याहेति ।
[२१५।२०]
न ह्येवं सूत्रपाठः उक्तो यथा महानामसूत्रे पाठः ।
[२१५।२१]
तत्रैव चोपासकलक्षणोपदेशो नान्यत्र ।
[२१५।२१-२१५।२२]
यत्र त्वेष पाठो “यावज्जीवं प्राणापेतं शरणगतमभिप्रसन्नमि”ति ।
[२१५।२२-२१५।२३]
तत्र ते दृष्टसत्या “अवेत्यप्रसादान्वयं प्राणैरपि सद्धर्मोपगमनं दर्शयन्ति स्म ।
[२१५।२३]
जीवितहेतो रप्यभव्या वयमेनं धर्मं परित्यक्तु”मिति ।
[२१५।२३-२१५।२४]
न त्वेष लक्षणोपदेशः संवरस्य ।
[२१५।२४]
प्राणापेतं तु न क्वचित्पठ्यते ।
[२१५।२४-२१६।०१]
कश्चैतदपरिस्फुटार्थं पठेत् ।
[२१६।०१]
एकदेशकार्यादींस्तु खण्डितशिक्षानधिकृत्य प्रश्न एव न युज्यते ।
[२१६।०२]
कुतो विसर्जनमावेणिकधर्माणाम् ।
[२१६।०२-२१६।०३]
को ह्यपासकसंवरं जाननेतन्न ज्ञास्यते यो हि यच्छिक्षापदं न खण्डयति स तत्कारी भवतीति ।
[२१६।०३-२१६।०४]
उपासकसंवरस्य तु परिमाणानभिज्ञांस्तन्मात्रशिक्षाक्षमान् प्रत्येष प्रश्नो युज्यते ।
[२१६।०४-२१६।०५]
“कियता भदन्तोपासक एकदेशकारी भवति यावत्परिपूर्णकारी भवति ।”
[२१६।०५-२१६।०६]
यदि तर्हि विना संवरेणोपासकः स्याद्विकलेन वा भिक्षुश्रामणेरावपि स्याताम् ।
[२१६।०६-२१६।०७]
कथं तावदेषामुपासकसंवरादीनामङ्गप्रतिनियमो भवति ।
[२१६।०७]
शास्तृप्रज्ञप्तिवशात् ।
[२१६।०८]
उपासकत्वादिप्रतिनियमोऽपि शास्तृप्रज्ञप्तिवशादिष्यताम् ।
[२१६।०८-२१६।०९]
विनापि हि संवरेणोपासकः प्रज्ञप्तितो न तु भिक्षुश्रामणेराविति ते त्वेतन्नेच्छन्ति काश्मीराः ।
[२१६।०९-२१६।१०]
सर्वेषां तु संवराणाम् ।
[२१६।११]
मृद्वादित्वं यथा मनः ॥ ४.३१ ॥
[२१६।१२]
मृदुमध्याधिमात्रत्वं ससंतानचित्तवशात् ।
[२१६।१२-२१६।१३]
एवं च कृत्वाऽर्हतोऽपि मृदुः प्रातिमोक्षसंवरः स्यात्पृथग्जनस्याधिमात्रः ।
[२१६।१३-२१६।१४]
किं पुनः संवरग्रहणादेवोपासकः स्याद्विना शरणगमनैः ।
[२१६।१४]
न स्यादन्यत्राज्ञानात् ।
[२१६।१५]
यो बुद्धधर्मसंघाञ्छरणं गच्छति किमसौ शरणं गच्छति ।
[२१६।१६-२१६।१७]
बुद्धसंघकरान्धर्मानशैक्षानुभयांश्च सः ।
निर्वाणं चेति शरणं यो याति शारणत्रयम् ॥ ४.३२ ॥
[२१६।१८-२१६।२०]
यो बुद्धं शरणं गच्छति अशैक्षानसौ बुधकरकान्धर्माञ्छरणं गच्छति येषां प्राधान्येन स आत्मभावो बुधा इत्युच्यते येषां वा लाभेन सर्वावबोधसामर्थ्याद्बुद्धो भवति ।
[२१६।२०]
के पुनस्ते ।
क्षयज्ञानादयः सपरिवाराः ।
[२१६।२०-२१६।२१]
रूपकायस्य पूर्वं पश्चाच्चाविशेषात् ।
[२१६।२१]
किं सर्वबुद्धानथैकम् ।
लक्षणतः सर्वबुधान् ।
[२१६।२१-२१६।२२]
मार्गस्याविलक्षाणत्वात् ।
[२१६।२२-२१६।२३]
यः संघं शरणं गच्छति शैक्षाशैक्षानसौसंघकरकान्हर्मान् गच्छति येषां लाभेनाष्टौ पुद्गलाः संघीभवन्ति ।
[२१६।२३]
अभेदत्वात् ।
[२१६।२४]
किं सर्वसंघानथैकम् ।
लक्षणतः सर्वसंघान्मार्गस्याविलक्षणत्वात् ।
[२१६।२४-२१६।२६]
यत्तु सूत्र उक्तं “योऽप्यसौ भविष्यत्यनागतेऽध्वनि संघो नाम तमपि शरणं गच्छतमि “ति ।
[२१६।२६]
तत्प्रत्यक्षभाविनः संवरत्वस्योद्भावनार्थम् ।
[२१६।२६-२१६।२७]
यो धर्मं शरणं गच्छति असौ निर्वाणं शरणं गच्छति प्रतिसंख्यानिरोधम् ।
[२१६।२७-२१६।२८]
स्वपरसंतानक्लेल्शानां दुःखस्य च शान्त्येकलक्षणात्वात् ।
[२१६।२८-२१६।२९]
यद्यशैक्षा धर्मा एव बुद्धः कथं तथागतस्यान्तिके दुक्ष्टचित्तरुधिरोत्पादनादानन्तर्यं भवति ।
[२१६।२९-२१७।०१]
आश्रयविपादनात्तेऽपि विपादिता भवन्तीति वैभाषिकाः ।
[२१७।०१]
शास्त्रं तु नैवं वाचकमशैक्षा धर्मा एव बुद्ध इति ।
[२१७।०१-२१७।०२]
किं तर्हि ।
[२१७।०२]
बुद्धकरका इति ।
अत आश्रयस्य बुद्धत्वाप्रतिषेधादचोद्यमेवैतत् ।
[२१७।०२-२१७।०३]
अन्यथा हि लौकिकचित्तस्थो न बुद्धः स्यान्न संघः शीलमेव च भिक्षुकरकं भिक्षुः स्यात् ।
[२१७।०४]
यथा तु यो भिक्षून् पूजयति भिक्षुकरकमसौ शीलं पूजयति ।
[२१७।०४-२१७।०५]
एवं यो बुद्धं शरणं गच्छत्यशैक्षानसौ बुद्धकरकान्धर्मान् शरणं गच्छति ।
[२१७।०५-२१७।०६]
यो बुद्धं शरणं गच्छति सोऽष्टादशावेणिकान्बुद्धर्मानित्यपरे ।
[२१७।०६-२१७।०७]
किंस्वभावानि शरणगमनानि ।
[२१७।०७]
वाग्विज्ञप्तिस्वभावानि ।
कः पुनः शरणार्थः ।
[२१७।०७-२१७।०८]
त्राणार्थः शरणार्थः ।
[२१७।०८]
तदाश्रयेण सर्वदुःखात्यन्तनिर्मोक्षात् ।
उक्तं हि भगवता
[२१७।०९-२१७।१०]
“बहवः शरणं यान्ति पर्वतांश्च वनानि च
आरामान्वृक्षांश्चैत्यांश्च मनुष्या भयवर्जिताः ॥
[२१७।११-२१७।१२]
न त्वेतच्छरणं श्रेष्ठं नैतच्छरणमुत्तमम् ।
नैतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥
[२१७।१३-२१७।१४]
यस्तु बुद्धं च धर्मं च संघं च शरणं गतः ।
चत्वारि चार्यसत्यानि पश्यति प्रज्ञया यदा ॥
[२१७।१५-२१७।१६]
दुःखं दुःखसमुत्पादं दुःखस्य समतिक्रमम् ।
आर्यं चाष्टाङ्गिकं मार्गं क्षेमं निर्वाणगामिनम् ॥
[२१७।१७-२१७।१८]
एतद्धि शरणं श्रेष्ठमेतच्छरणमुत्तमम् ।
एतच्छरणमागम्य सर्वदुःखात्प्रमुच्यते ॥”इति ।
[२१७।१९]
एत एव शरणगमनानि सर्वसंवरसमादानेषु द्वारभूतानि ।
[२१७।२०-२१७।२१]
किं पुनः कारणमन्येषु संवरेष्वब्रह्मचर्याद्विरतिः शिक्षापदं व्यवस्थापितमुपासकस्य तु काममिथ्याचारात् ।
[२१७।२२]
मिथ्याचारातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः ।
[२१७।२३]
काममिथ्याचारो हि लोकेऽत्यन्तं गर्हितः ।
परेषां दारोपघातादापायिकत्वाच्च ।
[२१७।२४]
न तथाऽब्रह्मचर्यम् ।
[२१७।२४-२१७।२५]
सुकरा च काममिथ्याचाराद्विरतिर्गृहानध्यावसतां दुष्करात्वब्रह्मचर्यादिति दुष्करं कर्त्तुं नोत्सहेरन् ।
[२१७।२५-२१७।२६]
आर्याश्चाकरणसंवरं काममिथ्याचारात्प्रतिलभन्ते ।
[२१७।२६-२१८।०१]
जन्मान्तरेष्वप्यनध्याचरणान्नत्वब्रह्मच्र्यादित्युपासकस्यापि तस्मादेव विरतिः शिक्षापदं व्यवस्थापितं मा भूत्परिवृत्तजन्मान्तरः शैक्ष उपासकसंवराङ्गेष्वसंवृत इति ।
[२१८।०१-२१८।०२]
अक्रियानियमो ह्यकरणसंवरः ।
[२१८।०२-२१८।०३]
य उपासकाः सन्तो भार्याः परिणयन्ति किं तैस्ताभ्योऽपि संवरः प्रतिलब्धोऽथ न ।
[२१८।०३]
प्रतिलब्धो मा भूत्प्रादेशिकसंवरलाभ इति ।
[२१८।०३-२१८।०४]
कथं संवरक्षोभो न भवति ।
[२१८।०४]
यस्मात्
[२१८।०५]
यथाभ्युपगमं लाभः संवरस्य न संततेः ॥ ४.३३ ॥
[२१८।०६]
यथा ह्येषामभ्युपगमस्तथा संवरलाभः ।
कथं चैषामभ्युपगमः ।
[२१८।०६-२१८।०७]
काममिथ्याचाराद्विरमामीति ।
[२१८।०७-२१८।०८]
न त्वत्र संताने मया ब्रह्मचर्यं न कर्तव्यमित्यत एवैषां तदधिष्ठात्काममिथ्याचाराङ्गादेव संवरलाभो नाब्रह्मचर्यादिति नास्ति भार्यीभूतायां संवरक्षोभः ।
[२१८।०९-२१८।१०]
अथ कस्मात्मृषावादाद्विरतिरेवोपासकसंवरशिक्षापदं न पैशुन्यादिविरतिः ।
[२१८।१०]
एभिरेव च त्रिभिः कारणैः ।
[२१८।११]
“मृषावादातिगर्ह्यत्वात्सौकर्यादक्रियाप्तितः ।”
[२१८।१२]
मृषावादप्रसङ्गाच्च सर्वशिक्षाव्यतिक्रमे ।
[२१८।१३-२१८।१५]
सर्वत्र हि शिक्षातिक्रमे समनुयुज्यमानस्योपस्थितमिदं भवति नाहमेवमहार्षमिति मृषावादस्य प्रसङ्गो भवत्यतो मृषावादाद्विरतिर्विधीयते कथं कृतातिक्रमोऽप्यात्मनि माविष्कुर्यादिति ।
[२१८।१५-२१८।१६]
किं पुनः कारणं प्रतिक्षेपणसावद्याच्छिक्षापदस्य न व्यवस्थापितम् ।
[२१८।१७]
प्रतिक्षेपणसावद्यान्मद्यादेव
[२१८।१८]
किं कारणं मद्यादेव नान्यस्मात् ।
[२१८।१९]
अन्यगुप्तये ॥ ४.३४ ॥
[२१८।२०]
मद्यं पिवतोऽन्यान्यप्यङ्गान्यगुप्तानि स्युः ।
[२१८।२०-२१८।२१]
कथं पुनर्मद्यपानं प्रतिक्षेपणसावद्यं गम्यते ।
[२१८।२१]
प्रकृतिसावद्यलक्षणाभावात् ।
[२१८।२१-२१८।२२]
प्रकृतिसावद्यं हि क्लिष्टेनैव चित्तेनाध्याचर्यते ।
[२१८।२२]
शक्यं तु मद्यं प्रतीकारबुद्ध्यैव पातुं यावन्न मदयेत् ।
[२१८।२२-२१८।२३]
क्लिष्टमेव तच्चित्तं यन्मदनीयं ज्ञात्वा पिबति ।
[२१८।२३-२१८।२४]
न तत्क्लिष्टं यदमदनीयमात्रां विदित्वा पिबति ।
[२१८।२४]
प्रकृतिसावद्यं मद्यमिति विनयधराः ।
[२१८।२४-२१८।२५]
“कथं भदन्त ग्लान उपस्थातव्यः ।
[२१८।२५-२१८।२६]
प्रकृतिसावद्यमुपालिन् स्थापयित्वा” इत्युक्तं भगवता ।
[२१८।२६]
शाक्येषु च ग्लानेषु मद्यपानं नाभ्यनुज्ञातम् ।
[२१८।२७-२१८।२८]
इदं चोक्तं मां भिक्षवः शास्तारमुद्दिशद्भिः कुशाग्रेणापि मद्यं न पातव्यमि” त्यतः प्रकृतिसावद्यमिति ज्ञायते ।
[२१८।२८]
आर्यैश्च जन्मान्तरगतैरप्यनध्याचारात् ।
[२१८।२९]
प्राणिवधादिवत् ।
कायदुश्चरितवचनाद्दुर्गतिगमनाच्चेति ।
नेत्याभिधार्मिकाः ।
[२१९।०१-२१९।०२]
उत्सर्गविहितस्यापि ग्लानेषु प्रज्ञप्तिसावद्यस्य पुनर्मद्यस्यापवादः प्रसङ्गपरिहारार्थं मद्नीयमात्रानीयमनात् ।
[२१९।०२]
अत एव कुशाग्रपानप्रतिषेधः ।
[२१९।०३]
आर्यैरनध्याचरणं ह्रीमत्त्वात्तेन च स्मृतिनाशात् ।
[२१९।०३-२१९।०४]
अल्पकस्याप्यपानमनियमाद्विषवत् ।
[२१९।०४]
दुश्चरितवचनं प्रमादस्थानत्वात् ।
[२१९।०४-२१९।०५]
अत एवात्र प्रमादस्थानग्रहणं नान्येषु तेषां प्रकृतिसावद्यत्वात् ।
[२१९।०५]
अत्यासेवितेन दुर्गतिगमनाभिधानम् ।
[२१९।०५-२१९।०६]
तत्प्रसङ्गेनाभीक्ष्णमकुशलसंततिप्रवृत्तेरापायिकस्य कर्मण आक्षेपाद्वृत्तिलाभाद्वा ।
[२१९।०६-२१९।०७]
सुरामैरेयमद्यप्रमादस्थानमिति कोऽर्थः ।
[२१९।०७]
सुरा अनासवः ।
मैरेयं द्रवासवः ।
[२१९।०७-२१९।०८]
ते च कदाचिदप्राप्तच्युतमद्यभावे भवतः इत्यतो मद्यग्रहणम् ।
[२१९।०८-२१९।०९]
पूगफलकोद्रवादयोऽपि मदयन्तीति सुरामैरेयग्रहणम् ।
[२१९।०९-२१९।१०]
प्रज्ञप्तिसावद्यस्याप्यादरेण प्रहेयत्वे कारणज्ञापनार्थं प्रमादस्थानवचनम् ।
[२१९।१०]
सर्वप्रमादास्पदत्वादिति ।
[२१९।११-२१९।१२]
य इमे त्रयः प्रातिमोक्षध्यानानास्रवसंवराः किमेषां यत एको लभ्यते ततः शेषौ ।
[२१९।१२]
नेत्याह ।
किं तर्हि ।
[२१९।१३]
सर्वोभयेभ्यः कामाप्तो वर्तमानेभ्य आप्यते ।
[२१९।१४]
वर्तमानेभ्य एव स्कन्धायतन धातुभ्यः कामाप्त इति प्रातिमोक्षसंवरः ।
[२१९।१५]
सर्वेभ्य इति मौलप्रयोगपृष्ठेभ्यः ।
[२१९।१५-२१९।१७]
उभयेभ्य इति सत्त्वासत्त्वाख्येभ्यः प्रकृतिप्रतिक्षेपणसावद्येभ्यश्च वर्तमानेभ्य एव स्कन्धायतनधातुभ्यो लभ्यते ।
[२१९।१७]
सत्त्वाधिष्टानप्रवृत्तत्वात्नातीतानागतेभ्यः ।
तेषामसत्त्वसंख्यातत्वात् ।
[२१९।१८]
मौलेभ्यः सर्वकालेभ्यो ध्यानानास्रवसंवरौ ॥ ४.३५ ॥
[२१९।१९-२१९।२१]
मौलेभ्य एव कर्मपथेभ्यो ध्यानानास्रवसंवरौ लभ्येते न प्रयोगपृष्ठेभ्यः कुत एव प्रज्ञप्तिसावद्येभ्यः सर्वकालेभ्यश्च स्कन्धायतनधातुभ्यो लभ्येते अतीतानागतेभ्योऽपि ।
[२१९।२१]
अत एव चतुष्कोटिकं क्रियते ।
[२१९।२१-२१९।२२]
सन्ति तानि स्कन्ध धात्वायतनाति येभ्यः प्रातिमोक्षसंवरः एव लभ्यते न ध्यानानास्रवसंवराविति विस्तरः ।
[२१९।२२-२१९।२३]
प्रथमा कोटिः प्रत्युत्पन्नेभ्यः सामन्तकपृष्ठेभ्यः प्रतिक्षेपणसावद्याच्च ।
[२१९।२३-२१९।२४]
द्वितीयाऽतीतानागतेभ्यो मौलेभ्यः कर्मपथेभ्यः ।
[२१९।२४]
तृतीया प्रत्युत्पन्नेभ्यो मौलेभ्यः कर्मपथेभ्यः ।
[२२०।०१]
चतुर्थ्यतीतानागतेभ्यः सामन्तकपृष्ठेम्यः इति ।
[२२०।०१-२२०।०२]
नतु संवरकाले वर्तमानाः कर्मपथाः सन्तीति वर्तमानाधिष्ठानेभ्यः इति वक्तव्यम् ।
[२२०।०२-२२०।०३]
अनागतानामेव संवरणं युज्यते नातीतवर्तमानानाम् ।
[२२०।०४-२२०।०५]
अथ किं संवरासंवरौ सर्वसत्त्वेभ्य एव लभ्येते सर्वाङ्गेभ्यः सर्वकारणैश्च आहोस्विदस्ति भेदः ।
[२२०।०५]
नियतं तावत्लभ्यते ।
[२२०।०६]
संवरः सर्वसत्त्वेभ्यो विभाषा त्वङ्गकारणैः ।
[२२०।०७]
सर्वसत्त्वेभ्य एव संवरो लभ्यते केभ्यश्चितङ्गेभ्यस्तु विभाषा ।
[२२०।०७-२२०।०८]
कश्चित्सर्वेभ्यो लभ्यते ।
[२२०।०८]
भिक्षुसंवरः ।
कश्चिच्चतुर्भ्यः ।
ततोऽन्यः ।
[२२०।०८-२२०।०९]
कर्मपथा हि संवरस्याङ्गानि ।
[२२०।०९]
कारणैरपि केनचित्पर्यायेण सर्वैः केनचिदेकेन ।
केन तावत्सर्वैः ।
[२२०।१०]
यद्यलोभाद्वेषामोहाः कारणानीष्यन्ते ।
केनै केन ।
[२२०।१०-२२०।११]
यदि म्कृदुमध्याधिमात्राणि चित्तानि कारणानीष्यन्ते ।
[२२०।११-२२०।१२]
पश्चिमं पर्यायं नियमय्योच्यते अस्ति संवरस्थायी सर्वसत्त्वेषु संवृतो न सर्वाङ्गैः न सर्वकारणैः ।
[२२०।१२-२२०।१३]
यो मृदुना चित्तेन मध्येनाधिमात्रेण वा उपासकोवास श्रामणेरसंवरं समादत्ते ।
[२२०।१३-२२०।१४]
अस्ति सर्वसत्त्वेषु संवृतः सर्वङ्गैश्च न तु सरकारणैः ।
[२२०।१४]
यो मृदुना चित्तेन मध्येनाधिमात्रेण वा भिक्षुसंवरं समादत्ते ।
[२२०।१५]
अस्ति सर्वसत्त्वेषु सर्वङ्गैः सर्वकारणैश्च ।
[२२०।१५-२२०।१६]
यस्त्रिविधेन चित्तेन त्रीन् संवरान् समादत्ते ।
[२२०।१६]
अस्ति सर्वसत्त्वेषु सर्वकारणैश्च न तु सर्वाङ्गैः ।
[२२०।१६-२२०।१७]
य उपासकोपवासश्रामणेरसंवरान्मृदुमध्याधिमात्रैः समादत्ते ।
[२२०।१७-२२०।१८]
यस्तु न सर्वसत्त्वेषु स्यादीदृशो नास्ति ।
[२२०।१८-२२०।१९]
यस्मात्सर्वसत्त्वानुगते कल्याणाशये स्थितः संवरं प्रतिलभते नान्यथा पापाशयस्यानुपरतत्वात् ।
[२२०।१९-२२०।२०]
पञ्च नियमान् कुर्वन् प्रातिमोक्षसम्वरं प्रतिलभते ।
[२२०।२०]
सत्त्वाङ्गदेशकालसमयनियमात् ।
[२२०।२०-२२०।२१]
अमुष्मात्सत्त्वाद्विरमामीति सत्त्वनियमः ।
[२२०।२१]
अमुष्मादङ्गादित्यङनियमः ।
अमुस्मिन देश इति देशनियमः ।
[२२०।२२]
मासाद्यावदिति कालनियमः ।
अन्यत्र युद्धादिति समयनियमः ।
[२२०।२२-२२०।२३]
सुचरितमात्रं तु स्यात्तथा गृह्णतः ।
[२२०।२३]
कथमशक्येभ्यः संवरलाभः ।
[२२०।२३-२२०।२४]
सर्वसत्त्वजीवितानुपघाताध्याशयेनाभ्युपगमात् ।
[२२०।२४-२२०।२५]
यदि पुनः शक्येभ्य एव संवरो लभ्यते चयापचययुक्तः स्यात् ।
[२२०।२५]
शक्याशक्यानामितरेतरसंचारात् ।
[२२०।२५-२२०।२६]
एवं च सति विनापि लाभत्यागकारणाभ्यां संवरस्य लाभत्यागौ स्यातामिति वैभाषिकाः ।
[२२०।२६]
नैवं भविस्यति ।
[२२०।२६-२२१।०१]
यथा ह्यपूर्वतृणाद्युत्पत्तौ शोषे वा संवरस्य वृद्धिह्लासौ न भवतस्तथा शक्याशक्यसंचारेऽपि न स्याताम् ।
[२२१।०१]
न सत्त्वानां पूर्वं पश्चाच्च भावात्तृणादीनां त्वभावात् ।
[२२१।०१-२२१।०२]
को न्वत्र विशेषो न वा भवेदसत्सु तृणादिषु संवरस्तद्वदशक्यो वा भवेत् ।
[२२१।०२-२२१।०४]
यदा च परिनिर्वृता न भवन्त्येव तदा कथं संवरह्लासो न स्यादिति नैष युक्तः परिहारः ।
[२२१।०४]
तस्मात्पूर्वक एव परिहारः साधुः ।
[२२१।०४-२२१।०६]
एवं तर्हि पूर्वबुद्धपरिनिर्वृतेभ्य उत्तरेषां बुद्धानां प्रतिमोक्षसंवरस्या लाभात्कथं शीलन्यूनता न प्रसज्येत ।
[२२१।०६]
सर्वेषां सत्त्वेभ्यो लाभात् ।
[२२१।०६-२२१।०७]
यदि हि तेऽप्यभविष्यं स्तेभ्योऽपि तेऽलप्स्यन्त ।
[२२१।०७]
उक्तं यतः संवरो लभ्यते ।
[२२१।०८]
असम्वरस्तु सर्वेभ्यः सर्वाङ्गेभ्यो न कारणैः ॥ ४.३६ ॥
[२२१।०९]
असंवरस्तु सर्वसत्त्वेभ्यो लभ्यते सर्वकर्मपथेभ्यश्च ।
[२२१।०९-२२१।१०]
नास्ति हि विकलेनासंवरेणासंवरिकः ।
[२२१।१०]
न तु सर्वकारणैर्युगपत्मृद्वादिचित्तासंभवात् ।
[२२१।१०-२२१।१२]
यो मृदुना चित्तेनासंवरं प्रतिलभते सोऽधिमात्रेणापि चित्तेन प्राणिनं जीविताद्व्यपरोपयन्मृदुनैवा संवरेण समन्वागतो भवत्यधिमात्रया तु प्राणातिपातविज्ञप्त्या ।
[२२१।१२-२२१।१३]
एवं मध्याधिमात्रेण योज्यम् ।
[२२१।१३-२२१।१५]
तत्रेमे आसंवरिकास्तद्यथा औरभ्रिकाः कौक्कुटिकाः सौकरिकाः शाकुनिका मात्सिका मृगलुब्धकाश्चौरा वध्यघातका बन्धनपालका नागबन्धकाः श्वपाका वागुरिकाश्च ।
[२२१।१५-२२१।१६]
राजानो दण्डनेतारो व्यावहारिकाश्चार्थत आसंवरिकाः असंवरे भवत्वात्तत्रस्हतया असंवर एषामस्तीति आसंवरिका वा ।
[२२१।१६-२२१।१७]
उरभ्रान् घ्नन्तीति औरभ्रिकाः ।
[२२१।१७]
एवमन्येऽपि योज्याः ।
[२२१।१७-२२१।१८]
युक्तस्तावत्संवरस्य सर्वसत्त्वेभ्यो लाभः ।
[२२१।१८]
सर्वसत्त्वहिताध्याशयेन ग्रहणात् ।
[२२१।१८-२२१।२०]
औरभ्रिकादीनां तु मातापितृपुत्रदारादिष्वविपन्नाशयानां जीवितहेतोरप्यहन्तुकामानां कथमसंवरः सर्वसत्त्वेभ्यो युज्यते ।
[२२१।२०]
मात्रादीनपि हि त उरभ्रीभूतान् हन्युः ।
[२२१।२०-२२१।२१]
न हि तावत्ते त एव इति विद्वांसो हन्युः ।
[२२१।२१-२१२।२२]
आर्यीभूतानां च पुनः पशु भवितुं नास्त्यवकाश इति तेभ्यः कथं स्यात् ।
[२२१।२२-२२१।२३]
यदि चा नागतात्मभावापेक्षया वर्त्तमानादसंवृतः स्यादुरभ्रादीनपि ते पुत्रीभूतात्सर्वथा न हन्युरिति इन स्यात्तेभ्य्योऽसंवरः ।
[२२१।२३-२२२।०१]
कथं हि नाम जिघांसतामेव तेभ्यो न स्यादसंवरः ।
[२२२।०१]
एतन्मात्रादिषु समानम् ।
[२२२।०१-२२२।०२]
कथं हि नामाजिघांसतामेव तेभ्यः स्यादसंवर इति ।
[२२२।०२]
यश्चौरभ्रिको जन्मनाप्यादत्ते स्वदारपरितुष्टो मूकश्च ।
[२२२।०३]
कथमस्य पूर्वङ्गेभ्योऽसंवरः स्यात् ।
आशयस्याविपन्नत्वात् ।
[२२२।०३-२२२।०४]
मूकोऽपि च वाक्प्रापणीयमर्थं कायेन प्रापयितुं शक्त इति ।
[२२२।०४-२२२।०५]
यस्तर्हि द्वे त्रीणि वा शिक्षापदानि समादत्ते ।
[२२२।०५]
सर्वथा नास्ति विकलः प्रादेशिकश्चासंवरिक इति वैभाषिकाः ।
[२२२।०५-२२२।०७]
यथा भ्युपगमं विकलोऽपि स्यात्प्रादेशिकोऽप्यसंवरः संवरश्चान्यत्राष्टविधादिति सौत्रान्तिकाः ।
[२२२।०७]
तन्मात्रशील दौःश्लील्यप्रतिबन्धात् ।
[२२२।०८]
उक्तमिदमसंवरस्य येभ्यो लाभः ।
कथं तु लाभ इति नोक्तम् ।
तत इदमुच्यते ।
[२२२।०९]
असंवरस्य क्रियया लाभोऽभ्युपगमेन वा ।
[२२२।१०]
द्वाभ्यां कारणाभ्यामसंवरो लभ्यते ।
[२२२।१०-२२२।११]
वधप्रयोगक्रियया तत्कुलीनैः तत्कर्माभ्युपगमाच्चान्यत्र कुलीनैः ।
[२२२।११]
वयमप्यनया जीविकया जीविष्याम इति ।
[२२२।१२]
शेषाविज्ञप्तिलाभस्तु क्षेत्रादानादरेहनात् ॥ ४.३७ ॥
[२२२।१३]
क्षेत्रं वा तद्रूपं भवति यत्रारामादिप्रदानमात्रेणाविज्ञप्तिरुत्पद्यते ।
[२२२।१३-२२२।१४]
यथौपधिकेषु पुण्यक्रियावस्तुषु ।
[२२२।१४-२२२।१५]
अथवा समादानमादत्ते बुद्धमवन्दित्वा न भोक्ष्ये तिथिमासार्धमासभक्तानि वा नित्यं करिष्यामीत्यादि ।
[२२२।१५-२२२।१६]
आदरेण तद्रूपेण क्रियामीहते कुशलामकुशलां वा यतोऽस्याविज्ञप्तिरुत्पद्यते ।
[२२२।१६-२२२।१७]
उक्तमेतद्यथा संवरासंवरेतराणां प्रतिलम्भः ।
[२२२।१८]
त्याग इदानीं वक्तव्यः ।
तत्र तावत्
[२२२।१९-२२२।२०]
प्रातिमोक्षदमत्यागः शिक्षानिक्षेपणाच्च्युतेः ।
उभयव्यञ्जनोत्पत्तेर्मूलच्छेदान्निशात्ययात् ॥ ४.३८ ॥
[२२२।२१]
दाम्यन्त्यनेनेति दमः संवरोऽभिप्रेतस्तेनेन्द्रियदमनात् ।
[२२२।२१-२२२।२२]
चतुर्भिः कारणैः प्रातिमोक्षसंवरस्य त्यागः ।
[२२२।२२]
स्थापयित्वोपवासम् ।
[२२२।२२-२२२।२४]
शिक्षापदानां विज्ञपुरुषस्यान्तिके प्रत्याख्यानदाशयतः निकायसभागत्यागात्युगपदु भयव्यञ्जनप्रादुर्भावात्कुशलमूलसमुच्छेदाच्च ।
[२२२।२४]
उपवाससंवरस्य त्वेभिश्चतुर्भिरारात्रिक्षयाच्च ।
[२२२।२४-२२२।२५]
तान्येतान्यभिसमस्य पञ्च त्यागकारणानि भवन्ति ।
[२२२।२५-२२२।२६]
किं पुनः कारणमेभिः कारणैस्त्यागो भवति ।
[२२२।२६-२२२।२७]
समादानविरुद्धविज्ञप्त्युत्पादादाश्रयत्यागादाश्रयविकोपनान्निदानच्छेदात्तावदेवाक्षेपाच्च ।
[२२३।०१]
पतनीयेन चेत्येके
[२२३।०२]
अन्ये पुनराहुश्चतुर्णां पतनीयानामन्यतमेन भिक्षुश्रामणेरसंवरत्याग इति ।
[२२३।०३]
सद्धमन्तिर्धितोऽपरे ।
[२२३।०४]
सद्धर्मस्यान्तर्धानादित्यपरे ।
[२२३।०४-२२३।०५]
यस्मादन्तर्हिते सद्धर्मे सर्वशिक्षासीमाकर्मान्ताः प्रतिप्रस्रभ्यन्त इति ।
[२२३।०६]
धनर्णवत्तु काद्मीरैरापन्नस्येष्यते द्वयम् ॥ ४.३९ ॥
[२२३।०७]
काश्मीरास्तु खलु वैभाषिकाः एवमिच्छन्ति ।
[२२३।०७-२२३।०८]
न मौलीमध्यापत्तिमा पन्नस्यास्ति भिक्षुसंवरत्यागः ।
[२२३।०८]
किं कारणम् ।
न ह्येकदेशक्षोभात्कृत्स्न संवरत्यागो युक्त इति ।
[२२३।०९]
नैव चान्यामप्यापत्ति मापन्नस्यास्ति शीलच्छेदः ।
किं तर्हि ।
[२२३।०९-२२३।१०]
द्वयमस्य भवति शीलं दौःशील्यं च ।
[२२३।१०]
यथा कस्यचिद्धनं स्यादृणं च ।
[२२३।१०-२२३।११]
आविष्कृतायां तु तस्यामापत्तौ शीलवान्भवति न दुःशीलो यथा ऋणं शोधयित्वा धनवान्भवति न त्वृणवानिति ।
[२२३।१२]
यत्तर्हि भगवतोक्तम् “भिक्षुर्भवत्यश्रमणोऽशाक्यपुत्रीयो ध्वस्यते भिक्षुभावात् ।”
[२२३।१३]
कतमस्य भवति श्रामण्यं ध्वस्तं पतितं पराजितमिति ।
[२२३।१३-२२३।१४]
परमार्थभिक्षुत्वं संधायैतदुक्तम् ।
[२२३।१४]
इदमभिसाहसं वर्तते ।
किमत्राभिसाहसम् ।
[२२३।१४-२२३।१५]
यत्भगवता नीतार्थं पुनरन्यथा नीयते ।
[२२३।१५]
दौःशील्याय च बहुक्लेशेभ्यः प्रत्यया दीयन्ते ।
[२२३।१५-२२३।१६]
कथमेत नीतार्थम् ।
[२२३।१६]
एष हि विनये निर्देषः ।
“चतुर्विधो भिक्षुः ।
[२२३।१७]
संज्ञाभिक्षुः प्रतिज्ञाभिक्षुर्भिक्षत इति भिक्षुर्भिन्नक्लेशत्वात्भिक्षुः ।
[२२३।१७-२२३।१८]
अस्मिंस्त्वर्थे ज्ञप्तिचतुर्थकर्मोपसंपन्नो भिक्षुरि”ति ।
[२२३।१८-२२३।२१]
न चासौ पूर्वं परमार्थभिक्षुरासीद्यतः पश्चादभिक्षुर्भवेत्यच्चोक्तमेकदेशक्षोभादिति अत्र शास्त्रैव दत्तोऽनुयोग “स्तद्यथा तालो मस्तकाच्छिन्नोऽभव्योऽङ्कुरितत्वाय अभव्यो विरुढिं वृद्धिं विपुलतामाप्तु” मित्युपमां कुर्वता ।
[२२३।२१]
कः पुनरूपमार्थः ।
[२२३।२१-२२३।२२]
एवमेकदेश स्यापि मूलभूतस्य च्छेदादभव्यः संवरशेषो विरोडुमिति ।
[२२३।२२-२२३।२४]
स च गुर्वीं भिक्षुभावमर्यादाभेदिनीं मौलीमापत्तिमापद्यमानस्तीव्रानपत्राप्ययोगात्संवरस्य मूलं च्छिनत्तीति युक्तः कृत्स्नसंवरत्यागः ।
[२२३।२३-२२४।०२]
यस्य चैकग्रासपरिभोगोऽप्येकपाद पार्ष्णिर्प्रदेशपरिभोगोऽपि च नाभ्यनुज्ञायते सांघिकयोराहारविहारयोः सर्वभिक्षुसंभोगबहिष्कृतश्च शास्त्रा यं चाधिकृत्योक्तम् ।
[२२४।०३-२२४।०४]
“नाशयत कारण्डवकं कशम्बकमपकर्षत ।
अथोत्प्लाविनं वाहयत अभिक्षुं भिक्षुवादिनम्”इति ॥
[२२४।०५]
तस्य कीदृशो भिक्षुभावः ।
यादृशस्तादृशोऽस्तु ।
अस्ति तु भिक्षुभावः ।
[२२४।०५-२२४।०६]
तथाहि “चत्वारः श्रमणा न पञ्चमोऽस्ति चुन्दे”ति
[२२४।०७]
भगवानवोचत्
[२२४।०८-२२४।०९]
“मार्गजिनो मार्गदेशिको मार्गे जीवति यश्च मार्गदूषी” अस्त्येतदुक्तम् ।
[२२४।०९-२२४।१०]
स त्वेष आकृतिमात्रावशेषत्वाच्छमण उक्तो दग्धकाष्ठशुष्कह्लदशुकनाशा पूतिवीजालातचक्रमृतसत्त्ववत् ।
[२२४।१०-२२४।११]
यदि हि दौःशील्यादभिक्षुः स्यात्शिक्षादत्तको न स्यात् ।
[२२४।११]
न वयं ब्रूमः सहाध्यापत्त्या सर्वः पाराजिकः इति ।
[२२४।११-२२४।१२]
यस्तु पाराजिकः सोऽवश्यमभिक्षुः ।
[२२४।१२-२२४।१३]
कश्चित्तु संतानविशेषान्न पाराजिक एकचित्तेनाप्यप्रतिच्छादनादिति व्यवस्थापितं धर्मस्वामिना ।
[२२४।१३-२२४।१४]
यदि तर्हि पाराजिको न भिक्षुः किं पुनर्न प्रव्राज्यते ।
[२२४।१४-२२४।१५]
तीव्रानपत्राप्यविपादितत्वात्संततेः संवराभव्यत्वान्न तु खलु भिक्षुभावापेक्षया ।
[२२४।१५]
तथा ह्यसौ निक्षिप्तशिक्षोऽपि न प्रव्राज्यते ।
[२२४।१५-२२४।१६]
कश्चायमनर्थे निर्बन्धो यद्यसौ तथाभूतोऽपि भिक्षुर्नमोऽस्तु तस्मै तादृशाय भिक्षुत्वाय ।
[२२४।१७]
सद्धर्मान्तर्धाने बु विनयकर्माभावादपूर्वसंवरलाभो नास्ति ।
[२२४।१७-२२४।१८]
लब्धस्य तु नास्ति त्यागः ।
[२२४।१९]
अथ ध्यानानास्रवसंवरयोः कथं त्यागः ।
[२२४।२०]
भूमिसंचारहानिभ्यां ध्यानाप्तं त्यज्यते शुभम् ।
[२२४।२१]
सर्वमेव ध्यानाप्तं कुशलं द्वाभ्यां कारणाभ्यां परित्यज्यते ।
[२२४।२१-२२४।२२]
उपपत्तितो वा भूमिसंचारादूर्ध्वं चावश्यं परिहाणितो वा समापत्तेर्निकायसभागत्वाच्च किञ्चित् ।
[२२४।२३]
यथा च रूपाप्तं कुशलं भूमिसंचारहानिभ्यां त्यज्यते
[२२४।२४]
तथारूप्याप्तमार्यं तु फलाप्त्युत्तप्तिहानिभिः ॥ ४.४० ॥
[२२४।२५]
अनास्रवं तु कुशलं त्रिभिः कारणैः परित्यक्ष्यते ।
[२२४।२५-२२५।०१]
फलप्राप्तितः पूर्वको मार्गः परित्यक्ष्यते ।
[२२५।०१]
इन्द्रियोत्तापनेन मृद्धिन्द्रियमार्गः ।
परिहाणित उत्तरो मार्गः ।
[२२५।०१-२२५।०२]
फलं फलविशिष्टो वा ।
[२२५।०२]
एवं तावत्संवरास्त्यज्यन्ते ।
[२२५।०३]
असंवरः संवराप्तिमृत्युद्विव्यञ्जनोदयैः ।
[२२५।०४]
त्रिभिः कारणैरसंवरच्छेदः ।
संवरप्राप्तितः ।
[२२५।०४-२२५।०५]
यदि संवरं समादत्ते ध्यानसंवरं वा लभते ।
[२२५।०५]
हेतुप्रत्ययबलेन समाधिलाभात् ।
तेनासंवश्छिद्यते ।
[२२५।०५-२२५।०६]
प्रतिद्वन्द्वबलीयस्त्वात् ।
[२२५।०६]
मरणेनाश्रयत्यागात् ।
द्विव्यञ्जनोत्पादेनाश्रयविकोपनादिति ।
[२२५।०६-२२५।०७]
शस्त्रजालत्यागेऽप्यकरणाशयतः ।
[२२५।०७]
संवरमन्तरेणासंवरच्छेदो नास्ति ।
[२२५।०७-२२५।०८]
निदानपरिवर्जनेऽप्यौषधमन्तरेण प्रवृद्धरोगाविनिवृत्तिवत् ।
[२२५।०९-२२५।१०]
य आसंवरिक उपवासं गृह्णाति किमसौ तस्मात्संवरात्पुनरसंवरं गच्छत्याहोस्विन्नैवसंवरं नासंवरम् ।
[२२५।१०]
असंवरमित्येके ।
त्यागाशयस्यानात्यन्तिकत्वात् ।
[२२५।१०-२२५।११]
प्रदीप्तैवायःपिण्डः पुनः श्यामतां नाप्रयुज्यमानो गच्छतीत्यपरे ।
[२२५।११-२२५।१२]
तल्लाभस्य विज्ञप्त्यधीनत्वात् ।
[२२५।१३]
अथ संवरासंवरविनिर्मुक्ता कथमविज्ञप्तिस्त्यज्यते ।
[२२५।१४]
वेगादानक्रियार्थायुर्मूलच्छेदैस्तु मध्यमा ॥ ४.४१ ॥
[२२५।१५-२२५।१६]
येन ह्यसौ प्रसादक्लेशवेगेनाविज्ञप्तिराक्षिप्ता भवति तस्य च्छेदात्साऽपि च्छिद्यते ।
[२२५।१६]
कुम्भकारचक्रेषुगतिवत् ।
आदानत्यागादपि च्छिद्यते ।
[२२५।१७]
यदि समादानं त्यजत्यलं समादानेनेति ।
[२२५।१७-२२५।१८]
क्रियाविच्छेदादपि विच्छिद्यते यथासमात्तमकुर्वतः ।
[२२५।१८]
अर्थविच्छेदादपि विच्छिद्यते ।
कतमस्यार्थस्य ।
[२२५।१८-२२५।१९]
चैत्यारामविहारशयनासन यन्त्रजालादिनो वस्तुनः ।
[२२५।१९-२२५।२०]
आयुषोऽपि कुशलल्मूलानामपि च्छेदाद्विच्छिद्यते ।
[२२५।२०-२२५।२१]
यदा कुशलमूलानि समुच्छेत्तुमारभत इत्येभिः षद्भिः कारणैरविज्ञप्तिर्मध्यमा त्यज्यते ।
[२२५।२२]
कामाप्तं कुशलारूपं मूलच्छेदोर्ध्वजन्मतः ।
[२२५।२३]
कामावचरं कुशलमरूपस्वभावं द्वाभ्यां कारणाभ्यां परित्यज्यते ।
[२२५।२३-२२५।२४]
कुशलमूलसमुच्छेदाद्रूपारूप्यधातूपपत्तितो वा ।
[२२५।२५]
प्रतिपक्षोदयात्क्लिष्टमरूपं तु विहीयते ॥ ४.४२ ॥
[२२६।०१]
क्लिष्टं त्वरूपस्वभावं सर्वमेव प्रतिपक्षोदयाद्विहीयते ।
[२२६।०१-२२६।०२]
यस्योपक्लेशप्रकारस्य यः प्रहाणमार्गस्तेनासौ सपरिवारः परित्यज्यते नान्यथा ।
[२२६।०३]
अथ केषां सत्त्वानामसंवरो भवति केषां संवरः ।
[२२६।०४]
नृणामसंवरो हित्वा शण्डपण्डद्विधाकृतीन् ।
[२२६।०५]
कुरुंश्च
[२२६।०६]
मनुष्यगतावेवासंवरो नान्यत्र ।
[२२६।०६-२२६।०७]
तत्रापि शण्ढपण्डकोभयव्यञ्जनानुतरकौरवांश्च हित्वा ।
[२२६।०८]
संवरोऽप्येवं देवानां च
[२२६।०९]
संवरो हि मनुष्याणामेव यथोक्तं हित्वा देवानां चेति गतिद्वये संवरः ।
[२२६।०९-२२६।१०]
शण्ढादीनां संवरो नास्तीति कथं गम्यते ।
[२२६।१०]
सूत्राद्विनयाच्च ।
[२२६।१०-२२६।१२]
सूत्र उक्तं यतश्च महानाम गृही अवदातवसनः पुरुषः पुरुषेन्द्रियेण समन्वागतो बुद्धं शरणं गच्छति यावद्वाचं भाषते उपासकं मां धारय इयता चोपासको भवती”ति ।
[२२६।१२-२२६।१३]
विनयेऽपि तद्रूपो नाशयितव्य उक्तः ।
[२२६।१३]
किं पुनः कारणमेषां संवरो नास्ति ।
[२२६।१३-२२६।१४]
उभयाश्रयक्लेशाधिमात्रतया प्रतिसंख्यानाक्षमत्वात्तीव्रह्रीव्यपत्राप्याभावाच्च ।
[२२६।१४]
असंवरस्तर्हि कस्मान्नास्ति ।
[२२६।१४-२२६।१५]
पापेऽप्यस्थिराशयत्वात् ।
[२२६।१५]
यत्रैअव च संवरस्तत्रासंवरोऽपि प्रतिद्वन्द्वभावात् ।
[२२६।१५-२२६।१६]
उत्तरकोरवाणां समादानसमाध्यभावात्पापक्रियाशयाभावाच्च संवरासंवराभावः ।
[२२६।१६-२२६।१७]
आपायिकानामपि तीव्रं ह्रीव्यपत्राप्यं नास्ति यद्योगाद्यद्विपादनाच्च संवरासंवरौ स्याताम् ।
[२२६।१८-२२६।२०]
अपि खल्वाश्रय एव स तेषां तादृश ऊषरक्षेत्रभूतः शण्डपण्डकोभयव्यञ्जनोत्तरकौरवापायिकानां यत्राश्रये संवरो पि न विरोहत्यसंवरोऽप्यूषर इव क्षेत्रे सस्यमप्यतिमात्रं कक्वमपीति ।
[२२६।२०-२२६।२१]
यत्तर्हि सूत्र उक्तम् “अण्डजो भिक्षवो नागोऽष्टम्यां पक्षस्य भावनादभ्युद्गम्याष्टाङ्गसमन्वागतमुपवासमुपवसती”ति ।
[२२६।२२]
सुचरितमात्रं तत्तेषां न संवरः ।
तस्मादेवमनुष्याणामेव संवरः ।
तत्र पुनः
[२२६।२३]
नृणां त्रयः ॥ ४.४३ ॥
[२२६।२४]
मनुष्याणां सर्वे त्रयः प्रातिमोक्षादिसंवराः संविद्यन्ते ।
[२२६।२५]
कामरूपजदेवानां ध्यानजः
[२२६।२६]
ध्यानसंवरः कामरूपधातूपपन्नानां देवानामुर्ध्वं नास्ति ।
[२२६।२७]
अनास्रवः पुनः ।
[२२७।०१]
ध्यानान्तरासंज्ञिसत्त्ववर्ज्यानामप्यरूपिणाम् ॥ ४.४४ ॥
[२२७।०२-२२७।०३]
अनास्रवसंवरस्तु कामरूपधातूपपन्नानामप्यस्ति ध्यानान्तरिकासंज्ञिसत्वोपपन्नान्वर्जयित्वा ।
[२२७।०३]
आरूप्योपपन्नानामपि तेषां तु समन्वागमतोऽस्ति न संमुखीभावतः ।
[२२७।०४]
अतः परमिदानीं कर्मनिर्देशाधिकारात्सूत्रीद्दिष्टानां कर्मणां निर्देष आरप्स्यते ।
[२२७।०५]
त्रीणि कर्माणि ।
कुशलं कर्माकुशलमव्याकृतं कमेति ।
तत्र
[२२७।०६]
क्षेमाक्षेमेतरत्कर्म कुशलाकुशलेतरत् ।
[२२७।०७]
इदं कुशलादीनां लक्षणम् ।
[२२७।०७-२२७।०८]
क्षेमं कर्म कुशलं यदिष्टविपाकं निर्वाणप्रापकं च दुःखपरित्राणात् ।
[२२७।०८-२२७।०९]
तत्कालमत्यन्तं च अक्षेममकुशलं क्षेमप्रतिद्वन्द्वभावेन यस्यानिष्टो विपाकः ।
[२२७।०९-२२७।१०]
ताभ्यामितरत्कर्म नैव क्षेमं नाक्षेमं यत्तत्कुशलाकुशलाभ्यामितरत्वेदितव्यम् ।
[२२७।१०]
अव्याकृतमित्यर्थः ।
पुनः
[२२७।११]
पुण्यापुण्यमविञ्जं च सुखवेद्यादि च त्रयम् ॥ ४.४५ ॥
[२२७।१२]
त्रीणी कर्माणि पुण्यमपुण्यमानेञ्जं च ।
पुनः त्रीणि ।
[२२७।१२-२२७।१३]
सुखवेदनीयं कर्म दुःखवेदनीयमदुःखासुखवेदनीयं च ।
[२२७।१३]
तत्र तावत्
[२२७।१४]
कामधातौ शुभं कर्म पुण्यमानेञ्जमूर्ध्वजम् ।
[२२७।१५]
शुभमिति वर्तते ।
रूपारूप्यावचरं कुशलं कर्मानेञ्जम् ।
[२२७।१५-२२७।१६]
ननु च त्रीणि ध्यानानि सेञ्जितान्युक्तानि भगवता ।
[२२७।१६-२२७।१७]
“यदत्र वितर्कितं विचारितमिदमत्रार्या इञ्जितमित्याहुरित्येवमादि ।
[२२७।१७]
समादौ सापक्षालतां तेषामधिकृत्यैवमुक्तम् ।
[२२७।१८]
आनिञ्जान्यपि तु तान्युक्तान्यानिञ्जसूत्रे ।
[२२७।१८-२२७।१९]
आनिञ्जसंप्रेयगामिनीं प्रतिपदमारभ्य ।
[२२७।१९]
किं पुनः कारणं सेञ्जितमेवान्यत्रानिञ्जमुक्तम् ।
[२२७।२०]
तद्भूमिषु यतः कर्मविपाकं प्रति नेञ्जति ॥ ४.४६ ॥
[२२७।२१]
कामावचरं हि विपाकं प्रति कम्पते ।
कथं कम्पते ।
अव्यवस्थानात् ।
[२२७।२१-२२७।२२]
अन्यगति कमपि ह्यन्यस्यां गतौ विपच्यते ।
[२२७।२२]
अन्यदेवनैकायिकं चान्य देवनिकाये ।
[२२७।२२-२२७।२४]
यदेव हि प्रमाणबलवर्णकर्मान्यभूमिक सुखभोगादि संवर्तनीयं कर्म देवेषु विपच्यते तदेव कदाचिदन्यप्रत्ययवशान्मनुष्यतिर्यकप्रेतेषु विपच्यते ।
[२२७।२४-२२७।२५]
रूपारूप्यावचरं तु कर्मान्यभूमिकमन्यस्यां भूमौ विपक्तुं न जातूत्सहते ।
[२२७।२५-२२८।०१]
तस्माद्व्यवस्थितविपाकत्वादानेञ्जमित्युच्यते ।
[२२८।०१]
अपुण्यं तु कर्माकुशलमिति प्रसिद्धं लोके ।
[२२८।०२]
यश्च लोकतोऽर्थः प्रसिद्धः किं तत्र यत्नेन ।
कृतः पुण्यादीनां कर्मणां निर्देशः ।
[२२८।०३]
सुखवेदनीयादीनां कर्तव्यः ।
स एष क्रियते ।
[२२८।०४]
सुखवेद्यं शुभं ध्यानादातृतीयात्
[२२८।०५]
कुशलं कर्म सुखवेदनीयं यावत्तृतीयाद्ध्यानात् ।
[२२८।०५-२२८।०६]
एषा हि भूमिः सुखाया वेदनाया यदुत कामधातुस्त्रीणि च ध्यानानि ।
[२२८।०७]
अतः परम्
[२२८।०८]
अदुःखासुखवेद्यं तु
[२२८।०९]
शुभमिति वर्तते ।
[२२८।०९-२२८।१०]
तृतीयध्यानात्परेण कुशलं कर्मादुःखासुखवेदनीयं सुखदुःखवेदनाऽभावात् ।
[२२८।११]
दुःखवेद्यमिहाशुभम् ॥ ४.४७ ॥
[२२८।१२]
अकुशलं कर्म दुःखवेदनीयम् ।
इहग्रहणं कामधातावेव तद्भावज्ञापनार्थम् ।
[२२८।१२-२२८।१३]
न चैषां वेदनैव फलम् ।
[२२८।१३]
किं तर्हि ।
ससंभारा ।
[२२८।१४]
अधोऽपि मध्यमस्त्येके ।
[२२८।१५]
अन्ये पुनराहुः तदेतन्मध्यमदुःखासुखवेदनीयं कर्मोक्तमेतच्चतुर्थध्यानादधोऽप्यस्ति ।
[२२८।१६]
किं कारणम् ।
[२२८।१७]
ध्यानान्तरविपाकतः ।
[२२८।१८]
इतरथा हि ध्यानान्तरकर्मणो विपाको न स्याद्ध्यानान्तरं वा कस्यचित्कर्मणः ।
[२२८।१८-२२८।१९]
तत्र सुखदुःखयोरभावात् ।
[२२८।१९]
ध्यानान्तरकर्मणो ध्यान एव सुखेन्द्रीयं विपाक इत्येके ।
[२२८।१९-२२८।२०]
नैव तस्य वेदना विपाक इत्यपरे ।
[२२८।२०]
तदेतदुच्छास्त्रम् ।
[२२८।२०-२२८।२१]
शास्त्रे हि पठितं “स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत ।
[२२८।२१]
स्यात्कुशलस्यावितर्कस्य कर्मण” इति ।
[२२८।२२]
अपुर्वाचरमः पाकस्त्रयाणां चेष्यते यतः ॥ ४.४८ ॥
[२२८।२३]
यतश्चोक्तं सूत्रे “स्यात्त्रयाणां कर्मणामपूर्वाचरमो विपाको विपच्येत ।
[२२८।२३-२२८।२४]
स्यात्सुखवेदनीयस्य रूपं दुःखवेदनीयस्य चित्तचैत्ता धर्माः ।
[२२८।२४-२२८।२५]
अदुःखासुखवेदनीयस्य चित्तविप्रयुक्ता” इत्यतोऽप्यस्त्यदुःखासुखवेदनीयं कर्माधस्तात् ।
[२२८।२५-२२९।०१]
नहि कामधातोरन्यत्रास्ति युगपत्कर्मत्रयस्य विपाके संयोगः ।
[२२९।०१]
किमिदानीं तत्कुक्शलमाहोस्विदकुशलम् ।
[२२९।०१-२२९।०२]
दुर्बलं तु तत् ।
[२२९।०२-२२९।०३]
एवं तर्हि “सुखवेद्यं शुभं ध्यानादातृतीया” “दिष्ट-विपाकं च कुशल” मित्यस्य विरोधः ।
[२२९।०३]
बाहुलिक एष निर्देशो द्रष्टव्यः ।
[२२९।०३-२२९।०४]
कथं पुनरवेदनास्वभावं कर्म सुखादिवेदिनीयमित्युच्यते ।
[२२९।०४-२२९।०५]
सुखवेदनायै हितं सुखवेदनोयं सुखोऽस्य वेदनीय इति वा ।
[२२९।०५]
कश्च वेदनीयः ।
यो विपाकः ।
[२२९।०५-२२९।०६]
स ह्यसौ विद्यते सुखस्य वा वेदनीयं येन सुखं वेदयते ।
[२२९।०६]
स्नानीयकपायवत् ।
[२२९।०६-२२९।०७]
एवं दुःखवेदनीयमदुःखासुखवेदनीयं च द्रष्टव्यम् ।
[२२९।०७]
अपि च ।
[२२९।०८-२२९।०९]
स्वभावसंप्रयोगाभ्यामालम्बनविपाकतः ।
संमुखीभावतश्चेति पञ्चधा वेदनीयता ॥ ४.४९ ॥
[२२९।१०]
स्वभाववेदनीयता वेदनानाम् ।
स्वभावेनैव वेदनीयत्वात् ।
[२२९।१०-२२९।११]
संप्रयोगवेदनीयता स्पर्शस्य ।
[२२९।११]
“सुखवेदनीयः स्पर्शः” इति ।
आलम्बनवेदनीयता विषयाणाम् ।
[२२९।११-२२९।१३]
यथोक्तं “चक्षुषा रूपाणि दृष्ट्वा रूपप्रतिसंवेदी भवति नोतु रूपरागप्रतिसंवेदी”त्येवमादि ।
[२२९।१३]
वेदनया हि तामालम्बमानः प्रतिसंवेदयते ।
[२२९।१३-२२९।१४]
विपाकवेदनीयता कर्मणः ।
[२२९।१४]
“दृष्टधर्मवेदनीयं कर्मे”ति विस्तरः ।
संमुखीभाववेदनीयता ।
[२२९।१५-२२९।१६]
यथोक्तं “यस्मिन् समये सुखां वेदनां वेदयते द्वे अस्य वेदने तस्मिन्समये निरुद्धे भवत” इति ।
[२२९।१६-२२९।१७]
नहि यस्मिन्समये सुखा वेदना वर्तते तस्मिन्पुनरन्या वेदनाऽस्ति स यां तां वेदयते ।
[२२९।१७]
संमुखीकुर्वस्तु तां वेदयत इत्युच्यते ।
[२२९।१७-२२९।१८]
अतो विपाकस्य वेदनीयत्वात्कर्माप्युच्यते सुखवेदनीयमित्येवमादि ।
[२२९।१९]
नियतानियतं तच्च
[२२९।२०]
तच्चैतत्सुखवेदनीयादि त्रिविधं कर्म नियतं चानियतं च वेदितव्यम् ।
[२२९।२०-२२९।२१]
नावश्यवेदनीयमनियतम् ।
[२२९।२२]
नियतं त्रिविधं पुनः ।
[२२९।२३]
दृष्टधर्मादिवेद्यत्वात्
[२२९।२४-२२९।२५]
दृष्टधर्मवेदनीयमुपपद्यवेदनीयमपरपर्यायवेदनीयं चेत्येतत्त्रिविधं कर्म नियतमित्येतच्चतुर्विधं कर्म भवति सहानियतवेदनीयेन ।
[२२९।२६]
पञ्चधा कर्म केचन ॥ ४.५० ॥
[२२९।२७]
अपरे पुनः पञ्चविधं कर्मेच्छन्ति ।
अनियतवेदनीयं द्विधा कृत्वा ।
[२२९।२७-२३०।०१]
विपाकेन नियतमनियतं चेति ।
[२३०।०१]
तत्र दृष्टधर्मवेदनीयं यत्र जन्मनि कृतं तत्रैव विपच्यते ।
[२३०।०१-२३०।०२]
उपपद्यवेदनीयं द्वितीये जन्मनि ।
[२३०।०२]
अपरपर्यायवेदनीयं तस्मात्परेण ।
[२३०।०२-२३०।०४]
जन्मान्तरेऽप्यस्ति दृष्टधर्मवेदनीयस्य कर्मणो विपाक आरम्भवशात्तन्नामव्यवस्थानमित्यपरे ।
[२३०।०४]
मा भूद्यदेवमिष्टकर्म तस्याल्पिष्ठो विपाकः इति ।
[२३०।०४-२३०।०५]
तदेवं नेच्छन्ति वैभाषिकाः ।
[२३०।०५-२३०।०६]
अस्ति हि कर्म संनिकृष्टफलं न विप्रकृष्टफलमस्ति विपर्ययाद्बाह्यबीजवत् ।
[२३०।०६-२३०।०७]
यथा त्रिपक्षा सुवर्चला त्रिभिः पक्षैः फलं दधाति यवगोधूमादयः षड्भिर्मासैरिति ।
[२३०।०८]
चतुष्कोटिकमित्यन्ये
[२३०।०९]
दार्ष्टान्तिकास्तु चतुष्कोटिकं कुर्वन्ति ।
अस्ति कर्मावस्थानियतं न विपाके नियतम् ।
[२३०।१०]
यत्कर्म दृष्टधर्मादिवेदनीयं विपाकेऽनीयतम् ।
अस्ति विपाके नियतं नावस्थायाम् ।
[२३०।११]
यत्कर्मानियतवेदनीयं विपाके नियतम् ।
[२३०।११-२३०।१२]
अस्त्युभयनियतं यदृष्टधर्मादिवेदनीयं विपाके नियतम् ।
[२३०।१२]
अस्ति नोभयनियतं यत्कर्मानियतवेदनीयं विपाके अनियतम् ।
[२३०।१३]
तेषां तत्कर्माष्टविधं दृष्टधर्मवेदनीयं नियतमनियतं च ।
एवं यावदनियतवेदनीयम् ।
[२३०।१४]
नियतमेव तु दृष्टधर्मादिवेदनीयमनियतं चतुर्थमिति वर्णयन्ति ।
[२३०।१४-२३०।१५]
स्यादेकस्मिन् क्षणे चतुर्विधं कर्माक्षिपेत् ।
[२३०।१५-२३०।१६]
स्यात्त्रिषु परं प्रयोज्य काममिथ्याचारे स्वयं प्रयुक्तस्तेषां युगपत्समाप्तौ ।
[२३०।१६]
एषां च पुनश्चतुर्णां कर्मणाम् ।
[२३०।१७]
निकायाक्षेपणं त्रिभिः ।
[२३०।१८]
नहि दृष्टधर्मवेदनीयेन कर्मणा निकायसभाग आक्षिप्यते ।
[२३०।१९]
कतमस्मिन्धातौ कतिविधं कर्माक्षिप्यते कस्यां वा गतौ ।
[२३०।२०]
सर्वत्र चतुराक्षेपः ।
[२३०।२१-२३०।२२]
सर्वेषु त्रिषु धातुषु सर्वासु च गतिषु चतुर्णां कर्मणामाक्षेपः कुशलानामकुशलानां च यथासंभवम् ।
[२३०।२२]
अस्योत्सर्गस्यायमपवादः ।
[२३०।२३]
शुभस्य नरके त्रिधा ॥ ४.५१ ॥
[२३०।२४]
नरकेषु कुशलस्य कर्मणस्त्रिविधस्या क्षेपो न दृष्टधर्मवेदनीयस्य ।
[२३०।२४-२३०।२५]
तत्रेष्टविपाकाभावात् ।
[२३०।२६]
यद्विरक्तः स्थिरो बालस्तत्र नोत्पद्यवेद्यकृत् ।
[२३०।२७-२३०।२८]
यतो भूमेः वीतरागपृथग्जनो भवत्यसौ च स्थिरो भवत्यपरिहाणधर्मा स तत्रोपपद्यवेदनीयं कर्म न करोति ।
[२३०।२८]
किमन्यत्करोति ।
[२३१।०१]
नान्यवेद्यकृदप्यार्यः
[२३१।०२]
थर इति वर्तते ।
[२३१।०२-२३१।०३]
आर्यपुद्गलस्तु यतो वीतरागो न च परिहाणधर्मा स तत्रोपपद्यदनीयं चापरपर्यायवेदनीयं च कर्म न करोति ।
[२३१।०३-२३१।०४]
न ह्यसौ भव्यः पुनराधस्तनीं भूमिमायातुमनियतं कुर्याद्दृष्टधर्मवेदनीयं चात्रोपपन्नः ।
[२३१।०५]
कामेऽग्रे वाऽस्थिरोऽपि न ॥ ४.५२ ॥
[२३१।०६-२३१।०७]
परिहाणधर्मापि त्वार्यपुद्गलः कामधातोर्भवाग्रा द्वीतरागः तयोरूपपद्यापरपर्यायवेदनीयं कर्माभव्यः कर्त्तुम् ।
[२३१।०७]
किं कारणम् ।
फलाद्धि स परिहीणो भवति ।
[२३१।०७-२३१।०८]
न चास्ति लपरिहीणस्य कालक्रियेति पश्चात्प्रवेदयिष्यामः ।
[२३१।०९]
किमन्तराभवेऽप्यस्ति कर्मण आक्षेपः ।
अस्तीत्याह ।
[२३१।१०]
द्वाविंशतिविधं कामेष्वाक्षिपत्यन्तराभवः ।
[२३१।११]
गामावचरो ह्यन्तराभवो द्वाविंशतिविधं कर्माक्षिपति ।
कथं कृत्वा ।
[२३१।११-२३१।१२]
पञ्च हि गर्भावस्थाः ।
[२३१।१२]
कललार्वुदपेशीघनप्रशाखावस्थाः ।
पञ्च जातावस्थाः ।
[२३१।१२-२३१।१३]
बालकुमारवमध्यवृद्धावस्थाः ।
[२३१।१३]
तत्रान्तराभवः कललवेदनीयं कर्माक्षिपत्यनियतं नियतं च ।
[२३१।१४]
एवं यावद्वृद्धवेदनीयमन्तराभववेदनीयं च ।
[२३१।१५]
दृष्टधर्म फलं तच्च
[२३१।१६]
तच्चैतदन्तराभविकं कर्म यन्नियतमेकादशविधमुक्तं दृष्टधर्मवेदनीयं तद्वेदितव्यम् ।
[२३१।१७]
किं कारणम् ।
[२३१।१८]
निकायो ह्येक एव सः ॥ ४.५३ ॥
[२३१।१९-२३१।२०]
एक एव ह्यसौ निकायसभाग एककर्माक्षिप्तो यश्चान्तराभवो याश्च तदन्वया दशावस्थाः ।
[२३१।२०]
अत एवान्यदन्तराभववेदनीयं कर्म नोक्तम् ।
[२३१।२०-२३१।२१]
उपपद्यवेदनीयेन च तस्याक्षेपात् ।
[२३१।२२]
कीदृशं कर्म नियतं वेदितव्यम् ।
[२३१।२३-२३१।२४]
तीव्रक्लेशप्रसादेन सातत्येन च यत्कृतम् ।
गुणक्षेत्रे च नियतं तत्पित्रोर्घातकं च यत् ॥ ४.५४ ॥
[२३१।२५-२३२।०१]
यद्धि कर्म तीव्रेण क्लेशेन कृतं यच्च तीव्रेण प्रसादेन यच्च सातत्येन गुनक्षेत्रे च तन्नियतं वेदितव्यम् ।
[२३२।०१]
तत्र गुणक्षेत्रं त्रीणि रत्नानि ।
[२३२।०१-२३२।०२]
पुद्गलविशेषो वा कश्चित्फलसमापत्तिविशेषप्राप्तः ।
[२३२।०२-२३२।०३]
तत्र ह्यन्तरेणापि तीव्रक्लेशप्रसादानां सातत्यं च कुशलमकुशलं च कर्म नियतं संपद्यते ।
[२३२।०३]
पितरौ पुनर्माता च पिता च ।
[२३२।०४]
तयोश्चापि यत्र घातिकं कर्म यथा तथा वा तन्नियतं संपद्यते नान्यत् ।
[२३२।०५]
अथ दृष्टधर्मवेदनीयं कर्म कीदृशं वेदितव्यम् ।
[२३२।०६]
दृष्टधर्मफलं कर्म क्षेत्राशयविशेषतः ।
[२३२।०७]
दृष्टधर्मवेदनीयं कर्म क्षेत्रविशेषाद्वा भवति ।
[२३२।०७-२३२।०८]
यथा संघस्त्रीवादसमुदाचाराद्व्यञ्जनपरिवृत्तिः श्रूयते ।
[२३२।०८]
आशयविशेषाद्वा ।
[२३२।०८-२३२।०९]
यथा शण्ढस्य गवामपुंस्त्वप्रतिमोक्षणात्पुम्भावः ।
[२३२।०९]
अथवा
[२३२।१०]
तद्भूम्यत्यन्तवैराग्यात्
[२३२।११-२३२।१२]
तस्य वा कर्मणो या भूमिः कुशलस्याकुशलस्य वा ततोऽत्यन्तवैराग्यात्तत्कर्म दृष्टधर्मवेदनीयं कर्म संपद्यते ।
[२३२।१२]
तस्यां भूमौ जातस्य कीदृशं कर्मेत्याह
[२३२।१३]
विपाके नियतं हि यत् ॥ ४.५५ ॥
[२३२।१४]
यद्धि कर्म नियतं विपाके न त्ववस्थायां नाप्यनियतं तत्यैष नियमः ।
[२३२।१४-२३२।१५]
यत्पुनरवस्थान्तरनियतं तस्य तत्रैव नियतो विपाकस्तद्वतोऽत्यन्तवैराग्यासंभवात् ।
[२३२।१५-२३२।१६]
यच्चानियतं तस्याविपाक एवात्यन्तवैराग्यात् ।
[२३२।१७]
कीदृशं पुनः क्षेत्रं यत्रावश्यं दृष्टधर्मवेदनीयं कर्म संपद्यते ।
आह ।
[२३२।१७-२३२।१८]
बुद्धप्रमुखो भिक्षुसंघः पुद्गलास्तु पञ्च ।
[२३२।१९-२३२।२०]
ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः ।
तेषु कारापकारस्य फलं सद्योऽनुभूयते ॥ ४.५६ ॥
[२३२।२१]
निरोधसमापत्तिव्युत्थितः परां चित्तशान्तिं लभते ।
निर्वाणसदृशत्वात्समापत्तेः ।
[२३२।२२]
स हि गतप्रत्यागत एव निर्वाणाद्भवति ।
[२३२।२२-२३२।२३]
अरणाव्युत्थितस्याप्रमाणसत्त्वारणाहिताध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिर्वर्तते ।
[२३२।२३-२३२।२५]
मैत्रीव्युत्थितस्याप्रमाणसत्त्वसुखाध्याशयानुगतात्युदग्राप्रमाणपुण्यपरिभावनानुगता च संततिवर्तते ।
[२३२।२५-२३२।२६]
दर्शनमार्गव्युत्थितस्याशेषदर्शनप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिनिर्मला संततिर्वर्तते ।
[२३२।२६-२३२।२७]
अर्हत्फलव्युत्थितस्याशेषभावनाप्रहातव्यप्रहाणात्प्रत्यग्राश्रयपरिवृत्तिशुद्धा संततिर्वर्तते ।
[२३२।२७-२३३।०१]
अत एतेषु कृतानां कारापकाराणां फलं दृष्ट एव धर्मे नियतं प्राप्यते ।
[२३३।०१-२३३।०३]
शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्व्युत्थितानां न तथा प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसंततिर्वर्तत इति न ते तथा पुण्यक्षेत्रं भवति ।
[२३३।०४]
विपाकः पुनर्वेदनाप्रधानः ।
तदिदानीं विचार्यते ।
[२३३।०४-२३३।०५]
स्यात्कर्मणश्चैतसिक्येव वेदना विपाको विपच्येत न कायिकी ।
[२३३।०५-२३३।०६]
स्यात्कायिक्येव न चैतसिकी स्यादित्याह
[२३३।०७-२३३।०८]
कुक्शलस्यावितर्कस्य कर्मणो वेदना मता ।
विपाकश्चैतसिक्येव
[२३३।०९]
अवितर्कं कर्म ध्यानान्तरात्प्रभृति यावत्भवाग्रे ।
[२३३।०९-२३३।१०]
तस्यावितर्कस्य कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः ।
[२३३।१०]
कस्मान्न कायिकी ।
[२३३।१०-२३३।११]
तस्या अवश्यं सवितर्कविचारत्वात् ।
[२३३।१२]
कायिक्येवाशुभस्य तु ॥ ४.५७ ॥
[२३३।१३]
अकुशलस्य कर्मणः कायिक्येव वेदना विपाकः ।
कस्मान्न चैतसिकी ।
[२३३।१३-२३३।१५]
तस्य हि दुःखा वेदना विपाकश्चैतसिकी च दुःखा वेदना दौर्मनस्यं न च दौर्मनस्यं विपाक इति व्याख्यातमेतत् ।
[२३३।१६]
यत्तर्हि सत्त्वानां चित्तक्षेपो भवति ।
कतमस्मिन्नसौ चित्ते भवति केन वा कारणेन ।
[२३३।१७]
चित्तक्षेपो मनश्चित्ते ।
[२३३।१८]
मनोविज्ञान इत्यर्थः ।
नहि पञ्चसु विज्ञानकायेषु चित्तं क्षिप्यते ।
अविकल्पकत्वात् ।
[२३३।१९]
स च कर्मविपाकजः ।
[२३३।२०]
स चैष चित्तक्षेपः सत्त्वानां कर्मजः ।
[२३३।२०-२३३।२३]
ये हि द्रव्यमन्त्रप्रयोगेण वा परेषां चित्तं क्षेपयन्ति अकामकं वा विषं मद्यं वा पाययन्ति त्रासयन्ति वा मृगयादिष्वग्निं वा दावेषुत्सृजन्ति प्रपाताद्वा पातयन्त्यन्येन वा केनचित्परेषां स्मृतिं भ्रंशयन्ति तेषां तस्य कर्मणो विपाकेनायत्यां चित्तं क्षिप्यते ।
[२३३।२४]
भयोपघातवैषम्यशोकैश्च
[२३३।२५]
कथं तावद्भयेन ।
[२३३।२५-२३३।२६]
अमनुष्यादयो मनुष्यान्विरूपेण रूपेणोपसंक्रामन्ति ।
[२३३।२६]
तेभ्यो भीतानां चित्तं क्षीप्यते ।
कथमुपघातेन ।
[२३३।२६-२३४।०१]
अमनुष्या एव कुपिता मनुष्याणां मर्मसु प्रहरन्ति ।
[२३४।०१]
कथं महाभूतवैषम्येण ।
[२३४।०१-२३४।०२]
वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते ।
[२३४।०२]
कथं शोकेन ।
यथा वासिष्ठीप्रभृतीनाम् ।
[२३४।०२-२३४।०३]
यदि मनो विक्षिप्यते कर्मविपाकजश्च चित्तक्षेपः ।
[२३४।०३]
कथं न चैतसिकी वेदना विपाकः प्राप्नोति ।
[२३४।०३-२३४।०४]
नहि ब्रूमस्तदेव चित्तविपाक इत्यपि तु यो महाभूतानां प्रकोपः स विपाकः ।
[२३४।०४-२३४।०५]
तस्माज्जातमतो विपाकजम् ।
[२३४।०५-२३४।०६]
कर्मजेन हि धातुना वैषम्येण व्याकुलमवशं भ्रष्टस्मृतिकं चित्तं वर्तत इति क्षिप्तमित्युच्यते ।
[२३४।०६]
एवं चेदं चतुष्कोटिकं युज्यते ।
[२३४।०६-२३४।०७]
अस्ति चित्तं क्षिप्तं न विक्षिप्तमिति विस्तरः ।
[२३४।०७]
क्षिप्तं तावन्न क्षिप्तं विक्षिप्तचित्तस्य ।
[२३४।०७-२३४।०८]
क्लिष्टं चित्तं विक्षिप्तं न क्षिप्तं स्वस्थचित्तस्य क्लिष्टम् ।
[२३४।०८]
उभयं क्षिप्तचित्तस्य क्लिष्टम् ।
[२३४।०९]
नोभयं स्वस्थचित्तस्याक्लिष्टम् ।
[२३४।१०]
कतमेषां पुनः सत्त्वानां चित्तं क्षिप्यते ।
[२३४।११]
अकुरुकामिनाम् ॥ ४.५८ ॥
[२३४।१२]
अकुरुणां कामिनाम् ।
देवेष्वपि हि देव ।
उन्मत्ताः सन्ति प्रागेव मनुष्यतिर्यक्प्रेतेषु ।
[२३४।१३]
नारकास्तु नित्यं क्षिप्तचित्ता एव ।
[२३४।१३-२३४।१५]
ते हि विविधयातनासहस्रव्यतिभिन्नमर्माणस्तीर्वाभिर्वेदनाभिरभितुन्ना आत्मानमपि तावन्नाभिचेतयन्ति किं पुनः कार्यमकार्यं वा ।
[२३४।१५]
हाचित्तपरिदेवकश्चात्र नारक उदाहार्यः ।
[२३४।१५-२३४।१६]
आर्याणामपि चित्तं क्षिप्यते भूतवैषम्येणान्यत्र बुद्धात् ।
[२३४।१६-२३४।१७]
न कर्मणा नियतस्य पूर्वं विपाकादनियतस्याविपाकात् ।
[२३४।१७]
न भयेन ।
पञ्चभयसमतिक्रमात् ।
नोपघातेन ।
[२३४।१७-२३४।१८]
मनुष्यप्रकोपकारणस्याप्रासादिकस्याकरणात् ।
[२३४।१८]
न शोकेन ।
धर्मताभिज्ञत्वात् ।
[२३४।१९]
पुनस्त्रयो वङ्का उक्ताः सूत्रे ।
कायवङ्कोक्वाग्वङ्को मनोवङ्कः ।
त्रयो दोषाः ।
[२३४।२०]
कायदोषो वाग्दोषो मनोदोषः ।
त्रयः कषायाः ।
[२३४।२०-२३४।२१]
कायकषायो वाक्कषायो मनः कषायः इति ।
[२३४।२१]
तत्र यथाक्रमं वेदितव्याः ।
[२३४।२२]
वङ्कदोषकषायोक्तिः शाठ्यद्वेषजरागजे ।
[२३४।२३]
शठ्यजं कायकर्म कायवङ्क इत्युक्तम् ।
कुटिलान्वयत्वात् ।
एवं वाङ्मनोवङ्कौ ।
[२३४।२४]
द्वेषजं कायकर्म कायदोष इत्युक्तम् ।
चित्तप्रदोषान्वयत्वात् ।
एवं वाङ्मनोदोषौ ।
[२३४।२५]
रागजं कायकर्म कायकषाय इत्युक्तम् ।
राञ्जनान्वयत्वात् ।
एवं वाङ्मनःकषायौ ।
[२३४।२६]
कृष्णशुक्लादिभेदेन पुनःः कर्म चतुर्विधम् ॥ ४.५९ ॥
[२३५।०१]
“अस्ति कर्म कृष्णं कृष्णविपाकम् ।
अस्ति कर्म शुक्लं शुक्लविपाकम् ।
[२३५।०१-२३५।०२]
अस्ति कर्म कृष्णशुक्लं कृष्णशुक्लविपाकम् ।
[२३५।०२-२३५।०३]
अस्ति कर्माकृष्णमशुक्लमविपाकम् ।
[२३५।०३]
यत्तत्कर्म कर्मक्षयाय संवर्तत” इति ।
तत्र
[२३५।०४-२३५।०५]
अशुभं रूपकामाप्तं शुभं चैव यथाक्रमम् ।
कृष्णशुक्लोभयं कर्म तत्क्षयाय निरास्रवम् ॥ ४.६० ॥
[२३५।०६]
अशुभं कर्म एकान्तेन कृष्णं क्लिष्टत्वात्कृष्णविपाकं चामनोज्ञविपाकत्वात् ।
[२३५।०७]
रूपाप्तं शुभमेकान्तेन शुक्लमकुशलेनाव्यतिभेदात् ।
[२३५।०७-२३५।०८]
शुक्लविपाकं च मनोज्ञविपाकत्वात् ।
[२३५।०८]
आरुप्याप्तं कस्मान्नोच्यते ।
[२३५।०८-२३५।०९]
यत्र किल द्विविधोऽस्ति विपाक आन्तराभविक औपपत्तिभविकश्च ।
[२३५।०९-२३५।१०]
त्रिविधस्य कायवाङ्मनस्कर्मणो यत्रैव संभवस्तत्रैवोक्तमिति ।
[२३५।१०]
तदपि तूक्तं सूत्रान्तरे ।
[२३५।१०-२३५।११]
“कामाप्तं शुभं कर्म कृष्णशुक्लमकुशलव्यवकीर्णत्वत्कृष्णशुक्लविपाकं व्यवकीर्णविपाकत्वात्” ।
[२३५।११-२३५।१२]
संतानत एतद्व्यवस्थापितं न स्वभावतः ।
[२३५।१२-२३५।१३]
न ह्येवञ्जातीयकमेकं कर्मास्ति विपाको वा यत्कृष्णं च स्यात्शुक्लं चान्योन्यविरोधात् ।
[२३५।१३-२३५।१४]
ननु चैवमकुशलस्यापि कर्मणः कुशलव्यवकीर्णत्वात्कृष्णशुक्लत्वं प्राप्नोति ।
[२३५।१४]
नावश्यमकुशलं कुशलेन व्यवकीर्यते ।
[२३५।१५]
कामधातौ तस्य बलवत्त्वात् ।
कुक्शलं तु व्यवकीर्यते ।
दुर्बलत्वादिति ।
[२३५।१६]
अनस्रवं कर्मैषां त्रयाणां कर्मणां क्षयाय प्रहाणाय संवर्तते ।
[२३५।१६-२३५।१७]
तद्ध्यकृष्णमक्लिष्टत्वादशुक्लं विपाकशुक्लताऽभावात् ।
[२३५।१७-२३५।१८]
आभिप्रायिको ह्येषोऽशुक्ल शब्दः ।
[२३५।१८-२३५।१९]
उक्तं तु भगवता महत्यां शुन्यताया मशैक्षान् धर्मानारभ्य “इमे ते आनन्द धर्मा एकान्तकुशला एकान्तानवद्या” इति ।
[२३५।१९]
शास्त्रे च ।
[२३५।१९-२३५।२०]
“शुक्ला धर्माः कतमे ।
[२३५।२०]
कुशला धर्मा अनिवृताव्याकृताश्चे”ति ।
[२३५।२०-२३५।२१]
अविपाकं धात्वपतितत्वात्प्रवृत्तिविरोधाच्च ।
[२३५।२२]
किं पुनः सर्वमनास्रवं कर्म सर्वस्यास्य त्रिविधस्य कर्मणः क्षयाय संवर्तते ।
[२३५।२३]
नेत्युच्यते ।
किं तर्हि ।
[२३६।०१-२३६।०२]
धर्मक्षान्तिषु वैराग्ये चानन्तर्यपथाष्टके ।
या चेतना द्वादशधा कर्म कृष्णक्षयाय तत् ॥ ४.६१ ॥
[२३६।०३-२३६।०४]
दर्शनमार्गे चतसृषु धर्मज्ञानक्षान्तिषु कामवैराग्ये चाष्टास्वानन्तर्यमार्गेषु या चेतना सेयं द्वादशविधा चेतना कृष्णस्य कर्मणः प्रहाणाय कर्म ।
[२३६।०५]
नवमे चेतना या सा कृष्णशुक्लक्षयाय च ।
[२३६।०६-२३६।०७]
नवमे कामवैराग्यानन्तर्यमार्गे या चेतना सा कृष्णशुक्लस्य कुशलस्य कर्मणः कृष्णस्य चाकुशलस्य नवमस्य प्रकारस्य प्रहाणाय ।
[२३६।०८]
शुक्लस्य ध्यानवैराग्येष्वन्त्यानन्तर्यमार्गजा ॥ ४.६२ ॥
[२३६।०९-२३६।१०]
ध्यानाद्व्यानाद्वैराग्यं कुर्वतो योऽन्त्यो नवम आनन्तर्यमार्गस्तत्र या चेतना इयं चतुर्विधा चेतना शुक्लस्य कर्मणः प्रहाणाय ।
[२३६।१०-२३६।११]
किं पुनः कारणमन्त्येनैवानन्तर्यमार्गेण कुशलस्य कर्मणः प्रहाणं नान्येन ।
[२३६।११-२३६।१२]
नह्हि तस्य स्वभावप्रहाणं प्रहीणस्यापि संमुखीभावात् ।
[२३६।१२]
किं तर्हि ।
तदालम्बनक्लेशप्रहाणात् ।
[२३६।१२-२३६।१३]
अतो यावदेकोऽपि तदालम्बनक्लेशप्रकार आस्ते तावदस्य प्रहाणं नोपपद्यते ।
[२३६।१४]
अन्ये नरकवेद्यान्यकामवेद्यं द्वयं विदुः ।
[२३६।१५-२३६।१६]
अन्ये पुनराचार्याः पश्यन्ति नरकवेदनीयं नरकाच्चान्यकामधातुवेदनीयं कर्म यथाक्रम कृष्णं कृष्णशुक्लं चेति ।
[२३६।१६-२३६।१८]
नरके ह्यकुशलस्यैव कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णमित्युच्यते अतोऽन्य कामधातौ कुशलाकुशलस्य कर्मणो विपाकस्तेन तद्वेदनीयं कृष्णशुक्लमित्युक्तम् ।
[२३६।१९]
दृग्धेयं कृष्णमन्ये
[२३६।२०]
अन्ये पुनराहुर्दर्शनप्रहातव्यं कर्म कृष्ण कुशलेनामिश्रत्वात् ।
[२३६।२१]
अन्यत्कृष्णशुक्लं तु कामजम् ॥ ४.६३ ॥
[२३६।२२]
अन्यत्तु कामावचरं कर्म कृष्णशुक्लम् ।
किं तदन्यत् ।
भावनाप्रहातव्यम् ।
[२३६।२२-२३६।२३]
तद्धि कुशलं चाकुशलं चेति ।
[२३६।२३-२३६।२४]
सूत्र उक्तं त्रीणि मौनेयानि कायमौनेयं वाङ्मौनेयं मनोमौनेयं च ।
[२३६।२४]
तत्र
[२३७।०१-२३७।०२]
अशैक्षं कायवाक्कर्म मनश्चैव यथाक्रमम् ।
मौनत्रयम्
[२३७।०३]
अशैक्षे कायवाक्कर्मणी कायवाङ्मौनेये ।
[२३७।०३-२३७।०४]
अशैक्षं तु मन एव मनोमौनेयं न मनस्कर्मेति ।
[२३७।०४]
किं कारणम् ।
चित्तं हि परमार्थमुनिः ।
[२३७।०४-२३७।०५]
तत्किल कायवाक्कर्मभ्यामनुमीयत इति ।
[२३७।०५]
अपि खलु कायवाक्कर्मणी विरतिस्वभावेन न मनस्कर्म ।
[२३७।०५-२३७।०६]
चित्ता विज्ञप्त्यभावात् ।
[२३७।०६]
विरमार्थेन च मौनम् ।
अतो मन एव विरतं मौनमित्युच्यते ।
[२३७।०७]
कस्मादशैक्षमेव नान्यत् ।
अर्हतः पर्मार्थमुनित्वात् ।
[२३७।०७-२३७।०८]
सर्वक्लेशजल्पोपरतेः ।
[२३७।०८]
त्रीणि शौचेयानि उक्तानि सूत्रे ।
कायशौचेयं वाक्शौचेयं मनःसौचेयं च ।
[२३७।०९]
तदेतत् ।
[२३७।१०]
त्रिधा शौचं सर्वं सुचरितत्रयम् ॥ ४.६४ ॥
[२३७।११]
सर्वं कायसुचरितं कायशौचम् ।
सर्वं वाङ्मनः सुचरितं वाङ्मनः शौचम् ।
[२३७।११-२३७।१२]
दुश्चरितमलापकर्षणात्तावत्कालमत्यन्तं वा ।
[२३७।१२-२३७।१३]
एषा च देशना मिथ्यामौन शौचाधिमुक्तिकानां विवेचानार्थम् ।
[२३७।१३]
त्रीणि दुश्चरितान्युक्तानि ।
तत्र
[२३७।१४]
अशुभं कायकर्मादि मतं दुश्चरित त्रयम् ।
[२३७।१५]
अकुशलं कायवाङ्मनस्कर्म यथाक्रमं कायवाङ्मनोदुश्चरितम् ।
[२३७।१६]
अकर्मापि त्वभिध्यादिमनोदुश्चरितं त्रिधा ॥ ४.६५ ॥
[२३७।१७-२३७।१८]
अकर्मस्वभावमप्यस्ति त्रिविधं मनोदुश्चरितं चेतनार्थान्तरभूतमभिध्या व्यापादो मिथ्यादृष्टिश्च ।
[२३७।१८]
अभिध्यादय एव मनस्कर्मेति दार्ष्टान्तिकाः ।
[२३७।१८-२३७।१९]
संचेतनीयसूत्रे वचनात् ।
[२३७।१९]
एवं तु सति कर्मक्लेशयोरैक्यं स्यात् ।
[२३७।१९-२३७।२०]
किं स्याद्यदि कश्चित्क्लेशोऽपि कर्म स्यात् ।
[२३७।२०]
नैतदस्ति ।
सूत्रं विरुद्धं स्यात् ।
[२३७।२०-२३७।२१]
सूत्रे तु चेतनायास्तन्मुखेन प्रवृत्तेस्तैस्तां दर्शयतीति वैभाषिकाः ।
[२३७।२१-२३७।२२]
अनिष्टफलत्वात्कुट्सितः कायवाङ्मनश्चारो दुश्चरितम् ।
[२३७।२३]
विपर्ययात्सुचरितम्
[२३७।२४]
इष्टं कुशलं कायवाङ्मनस्कर्मानभिध्याऽव्यापादसम्यग्दृष्टयश्च ।
[२३७।२४-२३८।०२]
परानुग्रहोपघाताभिसंध्यभावे कथं सम्यग्दृष्टिमिथ्यादृष्टव्योः कुशलाकुशलत्वम् ।
[२३८।०२]
तन्मूलत्वात् ।
यानि चैतानि दुश्चरितसुचरितान्युक्तानि
[२३८।०३-२३८।०४]
तदौदारिकसंग्रहात् ।
दश कर्मपथा उक्ता यथायोगं शुभाशुभाः ॥ ४.६६ ॥
[२३८।०५-२३८।०६]
तेषामेव सुचरितदुश्चरितानां चौदारिकसंग्रहेण दश कर्मपथाः सूत्र उक्ताः यथायोगं कुशलाः सुचरितेभ्योऽकुशला दुश्चरितेभ्यः ।
[२३८।०६-२३८।०७]
किमत्र दुश्चरितमसंगृहीतं किं वा सुचरितम् ।
[२३८।०७-२३८।०८]
अकुक्शलेषु तत्कर्मपथेसु कायदुश्चरितस्य प्रदेशो न संगृहीतः प्रयोगपृष्ठभूतः क्लिष्टश्चान्योऽपि बन्धानादिः ।
[२३८।०८]
तस्य नात्यौदारिकत्वात् ।
[२३८।०८-२३८।०९]
यद्धि कायदुश्चरितं परेषां जीवितभोगदारेभ्यश्च्यावकं तत्कर्मपथ उक्तं ततो विवेचनार्थम् ।
[२३८।१०]
वाग्दुश्चरितमपि यदेव प्रशादं तत्कर्मपथ उक्तं तदर्थमेव ।
[२३८।१०-२३८।११]
मनोदुश्चरितस्य च प्रदेशचेतना ।
[२३८।११-२३८।१२]
कुशलेष्वपि कायसुचरितस्य प्रदेशः प्रयोगपृष्ठमद्यादिविरतिदानेज्यादिको वाक्सुचरितस्य प्रियवचनादिको मनः सुचरितस्य चेतना ।
[२३८।१३]
एषां च कर्मपथानाम्
[२३८।१४]
अशुभाः षडविज्ञप्तिः
[२३८।१५-२३८।१६]
अकुशलाः षट्कर्मपथा अवश्यमविज्ञप्तिस्वभावाः प्राणातिपातादत्तादानमृषावादपैशुन्यपारुप्यसंभिन्नप्रलापाः ।
[२३८।१६]
परेण कारयतो मौलविज्ञप्त्यभावात् ।
[२३८।१७]
द्विधैकः
[२३८।१८-२३८।१९]
काममिथ्याचारो नित्यं विज्ञप्त्यविज्ञप्तिस्वभावस्तस्य स्वयेव निष्ठापनात् ।
[२३८।१९]
नहि तं परेण कारयतस्तादृशी प्रीतिर्भवतीति ।
[२३८।२०]
तेऽपि कुर्वतः ।
[२३८।२१-२३८।२२]
तेऽपि षट्कर्मपथाः स्वयं कुर्वतो द्विविधा भवन्ति विज्ञप्तिरविज्ञप्तिश्च तत्कालमरणे पश्चात्मरणे त्वविज्ञप्तिरेव ।
[२३८।२३]
कुशलानां पुनः कर्मपथानां
[२३८।२४]
द्विविधाः सप्त कुशलाः
[२३८।२५]
कुशलाः सप्त रूपिणः कर्मपथा अवश्यं द्विप्रकारा विज्ञप्तिरविज्ञप्तिश्च ।
[२३८।२५-२३८।२६]
विज्ञप्त्यधीनत्वात्समादानशीलस्य ।
[२३९।०१]
अविज्ञप्तिः समाधिजाः ॥ ४.६७ ॥
[२३९।०२]
ध्यानानास्रवसंवरसंगृहीताः समाधिजाः उच्यन्ते ।
[२३९।०२-२३९।०३]
ते ह्यविज्ञप्तिरेव चित्तमात्राधीनत्वात् ।
[२३९।०४]
सामन्तकास्तु विज्ञप्तिः
[२३९।०५]
कर्मपथसामन्तकास्तु विज्ञप्तिस्वभावा अवश्यम् ।
[२३९।०६]
अविज्ञप्तिर्भवेन्न वा ।
[२३९।०७-२३९।०८]
यदि तीव्रेण पर्यवस्थानेन प्रमादेन वा घनरसेन प्रयोगमारभेत स्यादविज्ञप्तिरन्यथा न स्यात् ।
[२३९।०९]
विपर्ययेण पृष्ठानि
[२३९।१०]
सामन्तकेभ्यो विपर्ययेण कर्मपथानां पृष्ठानि वेदितव्याति ।
[२३९।१०-२३९।११]
तानि अवश्यमविज्ञप्तिस्वभावानि ।
[२३९।११]
विज्ञप्तिस्तु भवेन्न वा ।
[२३९।११-२३९।१२]
यदि कर्मपथं कृट्वा पुनस्तस्यानुधर्मं चेष्टेत तस्य स्यात्विज्ञप्तिरन्यथा न स्यात् ।
[२३९।१२-२३९।१३]
अथ कुतो यावदेषां प्रयोगमौलपृष्ठानां व्यवस्थानम् ।
[२३९।१३-२३९।१६]
यदा तावदिह कश्चित्पशुं हन्तुकामो मञ्चकादुत्तिष्ठति मूल्यं गृह्लाति गच्छत्यामृशति पशुं क्रीणात्यानयति पुष्णाति प्रवेशयति निहन्तुं शास्त्रमादत्ते प्रहारमेकं ददाति द्वौ वा यावन्न जीविता द्वच्यपरोपयति तावत्प्रयोगः ।
[२३९।१६-२३९।१७]
येन तु प्रहारेण जीविताद्व्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वाऽविज्ञप्तिरयं मौलः कर्मपथः ।
[२३९।१७-२३९।१८]
द्वाभ्यां हि कारणाभ्यां प्राणातिपातावद्येन स्पृश्यते प्रयोगतः मृते सति फलपरिपूरितश्च ।
[२३९।१८-२३९।१९]
तत ऊर्ध्वमविज्ञप्तिक्षणाः पृष्ठं भवन्ति ।
[
२३९।१९-२३९।२१]
यावच्च तं पशुं कुष्णाति शोधयति विक्रीणीते पचति खादयत्यनुकीर्तयति वा तावदस्य विज्ञप्तिक्षणा अपि पृष्ठं भवन्ति ।
[२३९।२१]
एवमन्येष्वपि यथासंभवं योज्यम् ।
[२३९।२१-२३९।२२]
अभिध्यादीनां नास्ति प्रयोगो न पृष्ठं संमुखीभावमात्रात्कर्मपथः ।
[२३९।२३]
इदमत्र वक्तव्यम् ।
[२३९।२३-२३९।२४]
किं तावत्मरणभवस्थे तस्मिन् प्राणिनि ये विज्ञप्त्यविज्ञप्ती ते कर्मपथ आहोस्विन्मृते ।
[२३९।२४]
किं चातः ।
[२३९।२४-२३९।२५]
यदि तावन्मरणभवस्थे सहमृटस्यापिओ अन्तुर्घातयितुर्वा प्राणातिपातावद्येन योगः प्राप्नोति ।
[२३९।२५-२४०।०१]
न चेष सिद्धान्तः ।
[२४०।०१]
अथ मृते ।
[२४०।०१-२४०।०२]
यदुक्तं “येन तु प्रहारेण जीविताद्वच्यपरोपयति तत्र या विज्ञप्तिस्तत्क्षणिका वाऽविज्ञप्तिरयं मौलः कर्मपथ” इति तना वक्तव्यम् ।
[२४०।०३]
यच्चापीदं शास्त्र उक्तं “स्यात्प्राणी हतः प्राणातिपातश्चानिरुद्धः ।
[२४०।०३-२४०।०६]
स्याद्यथा हि तत्प्राणी जीविताद्व्यपरोपितो भवति प्रयोगश्चाप्रतिप्रस्रग्ध” इत्यत्र पृष्ठं प्रयोगशब्देनोक्तमिति वैभाषिकीयोऽर्थविरोधो मौलस्यैव तदानीमनिरुद्धत्वात् ।
[२४०।०६]
यथा न दोषस्तथाऽस्तु ।
कथं च न दोषः ।
[२४०।०६-२४०।०७]
मौल एवात्र प्रयोगशब्देनोक्त इति ।
[२४०।०७]
विज्ञप्तिस्तर्हि तदा कथं मौलः कर्मपथो भवति ।
[२४०।०७-२४०।०८]
कथं च न भवितव्यम् ।
[२४०।०८]
असामर्थ्यत् ।
अविज्ञप्तिरिदानीं कथं भवति ।
[२४०।०८-२४०।१०]
तस्मात्प्रयोगफलपरिपूरिकाले तदुभयं कर्मपथः स्यात्कर्मत्पथोऽप्यन्यस्य प्रयोगः पृष्ठं च भवति ।
[२४०।१०]
प्राणातिपातस्य दशापि कर्मपथाः प्रयोगः ।
[२४०।१०-२४०।१४]
यथा च शत्रोर्वधार्थं कृत्यं समुपस्थापयन् पशुना वलिं कुर्यात्परकीयं कृत्वा दारेषु चास्य विप्रतिपद्येत तैरेव तद्घातनार्थमनृतपिशुनपरुषसान्तवैश्चास्य मित्रभेदं कुर्याद्यान्यस्य परित्राणाय कल्पेरनभिध्यां च तत्स्व कुर्यात्तत्रैव च व्यापादं तद्वधार्थं च मिथ्यादृष्टिं वृंहयेदिति ।
[२४०।१४]
एवमन्येष्वपि यथायोगं योज्यम् ।
[२४०।१४-२४०।१५]
न त्वभिध्यादयः प्रयोगा युज्यन्ते ।
[२४०।१५]
नहि चित्तोत्पादमात्रेण प्रयुक्तो भवति ।
क्रियानारम्भात् ।
[२४०।१६-२४०।१७]
सूत्र उक्तं “प्राणातिपातो भिक्षवस्त्रिविधो लोभजो द्वेषजो मोहजो यावन्मिथ्यादृष्टि”रिति ।
[२४०।१७-२४०।१८]
तत्र कीदृशः प्राणातिपातो लोभज इत्येवमादि वक्तव्यम् ।
[२४०।१८]
नात्र सर्वेषां कर्मपथानां लोभादिभिर्निष्ठा ।
[२४०।१९]
प्रयोगस्तु त्रिमूलजः ॥ ४.६८ ॥
[२४०।२०]
प्रयोगस्तेषामकुशलमूलत्रयाज्जात इत्यादिसमुत्थानवचनादेवमुक्तः ।
[२४०।२०-२४०।२२]
तत्र लोभजप्रणातिपातो यथा तच्छरीरावयवार्थमर्थार्थं क्रीतार्थं च प्राणिनं जीविताद्व्यपरोपयति आत्मसुहृत्परित्राणाय ।
[२४०।२२]
द्वेषजो यथा वैरनिपीडनार्थम् ।
[२४०।२२-२४०।२३]
मोहजो यथा याज्ञिकानां धर्मबुद्ध्या राज्ञां च धर्मपाठकप्रामाण्याद्धिंसताम् ।
[२४०।२३-२४०।२४]
दुष्टानां किल निग्रहं कुर्वन्तो राजानः पुण्यभाजो भवन्तीति ।
[२४०।२४]
पारसीकानां च ।
ते ह्येवमाहुः ।
[२४०।२५]
“मातापितरौ जीर्णौ वा ग्लानौ वा हन्तव्या”विति ।
[२४०।२५-२४१।०१]
ये चान्येऽप्येवमाहुरहिवृश्चिकत्र्यम्वुकादयो मनुष्याणामुपघातापका हन्तव्याः मृगपशुपक्षिमहिषादयश्चोपभोगार्थत्वादिति ।
[२४१।०१-२४१।०२]
यश्च मिथ्यादृष्टिप्रवर्तितः प्राणातिपातः ।
[२४१।०२-२४१।०३]
लोभजमदत्तादानं यो येनार्थि स तद्वरति अन्यलाभसत्कारयशोऽर्थं वा आत्मसुकृतपरित्राणाय वा ।
[२४१।०३]
द्वेषजं यद्वैरनिपीडनार्थम् ।
[२४१।०३-२४१।०४]
मोहजं यथा राज्ञां धर्मपाठकप्रामाण्यात् ।
[२४१।०४-२४१।०५]
दुष्टनिग्रहार्थं यथा ब्राह्मणा आहुः “सर्वमिदं ब्रह्मणा ब्राह्मणेभ्यो दत्तं ब्राह्मणानां दौर्बल्याद्वृष्लाः परिभुञ्जते ।
[२४१।०५-२४१।०६]
तस्मादपहरन् ब्राह्मणः सुमादत्ते स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति चे” ति ।
[२४१।०७]
न चैशामपरस्वसंज्ञा भवति ।
यच्च मिथ्यादृष्टिप्रवर्त्तितम् ।
[२४१।०७-२४१।०८]
लोभजः काममिथ्याचारः दारादिषु तत्संरागादब्रह्मचर्यं लाभसत्कारार्थमात्मसुहृत्परित्राणाय ।
[२४१।०८-२४१।०९]
द्वेषजो वैरनिपीडनार्थम् ।
[२४१।०९]
मोहजो यथा पारसीकानां मात्रादिगमनं गोसवे च यज्ञे ।
[२४१।१०]
योथोक्तं “ब्राह्मणो गोसवेनेष्ट्या संवत्सरगोव्रती भवति ।
[२४१।१०-२४१।११]
उपहा उदकं चूषति तृणानि च्छिनत्ति उपैति मातरमुपस्वसारमुप सगोत्रा”मिति ।
[२४१।११-२४१।१२]
ये चाहु “रुदूखलपुण्यफलपक्वान्नतीर्थमार्गप्रख्यो मातृग्राम” इति ।
[२४१।१२-२४१।१३]
मृषावादादयो लोभजा द्वेषजाश्चपूर्ववत् ।
[२४१।१३]
मोहजो मृषावादो यथाह ।
[२४१।१४-२४१।१७]
“न नर्मयुक्तमनृतं हि नास्ति
न स्त्रीषु राजन्न विवाहकाले ।
प्राणात्यये सर्वधनापहारे
पञ्चानृतान्याहुरपातकानी”ति ।
[२४१।१८]
यष्च मिथ्यादृष्टिप्रवर्तितो मृषावादः ।
पैशुन्यादयस्तु मिथ्यादृष्टिप्रवर्तिता मोहजाः ।
[२४१।१९]
यष्चच वेदाद्यसच्छास्त्रप्रलापः ।
[२४१।२०]
अभिध्यादयः कथं लोभजाः ।
[२४१।२१]
तदनन्तरसंभूतेरभिध्याद्यास्त्रिमूलजाः ।
[२४१।२२]
लोभादनन्तरमुत्पन्ना लोभजाः द्वेषादनन्तरं द्वेषजा मोहादनन्तरं मोहजाः ।
[२४१।२२-२४१।२३]
उक्ता कुशलाः कर्मपथाः ।
[२४१।२४]
कुशलाः कथमित्याह
[२४१।२५]
कुशलाः सप्रयोगान्ता अलोभद्वेषमोहजाः ॥ ४.६९ ॥
[२४१।२६]
सप्रयोगपृष्ठाः कुशलाः कर्मपथा अलोभद्वेषमोहजाः ।
[२४१।२६-२४१।२७]
कुषलचित्तसमुत्थितत्वात् ।
[२४१।२७-२४२।०१]
तस्य च अवश्य मलोभादिभिः संप्रयोगात्तत्राकुशल कर्मपथप्रयोगाद्विरतिः कुशलकर्मपथप्रयोगः ।
[२४२।०१]
मौलाद्विरतिः मौलः ।
[२४२।०१-२४२।०२]
पृष्ठाद्विरतिः पृष्ठः ।
[२४२।०२-२४२।०३]
तद्यथा श्रामणेर उपसंपाद्यमानो नानावासं प्रविशति भिक्षून्वन्दते उपाध्यायं याचते यावदेकं कर्मवाचनं क्रियते द्वितीयं च ।
[२४२।०३]
अयं प्रयोगः ।
[२४२।०३-२४२।०४]
तृतीय कर्मवाचने या विज्ञप्तिस्तत्क्षणिका चाविज्ञप्तिरयं मौलः कर्मपथः ।
[२४२।०४-२४२।०५]
तत ऊर्ध्वं यावन्निश्रया आरोच्यन्ते तदधिष्ठानं च विज्ञपयति अविज्ञप्तिच यावदतुवर्तते इदं पृष्ठम् ।
[२४२।०६]
यदुक्तं “न सर्वेषां कर्मपथानां लोभादिभिर्निष्ठे”त्यथ कस्य केन निष्ठा ।
[२४२।०७]
वधव्यापादपारुष्यनिष्ठा द्वेषेण
[२४२।०८]
एषां प्राणातिपातव्यापादपारुष्पाणां द्वेषेण समाप्तिः ।
[२४२।०८-२४२।०९]
परित्यागपरुषचित्तसंमुखी भावात् ।
[२४२।१०]
लोभतः ।
[२४२।११]
परस्त्रीगमनाभिध्याऽदत्तादानसमापनम् ॥ ४.७० ॥
[२४२।१२]
लोभेन काममिथ्याचाराभिध्याऽदत्तादानानां समाप्तिः ।
[२४२।१३]
मिथ्यादृष्टेस्तु मोहेन
[२४२।१४]
अधिमात्रभूतो हि तां निष्ठापयति ।
[२४२।१५]
शेषाणां त्रिभिरिष्यते ।
[२४२।१६]
के पुनः शेषाः ।
मृषावादपैशुन्यसंभिन्नप्रलापाः ।
[२४२।१६-२४२।१७]
एषां त्रिभिरपि निष्ठा लोभेन द्वेषेण मोहेन वा
[२४२।१८-२४२।१९]
य एते कर्मपथाश्चतुर्भिः काण्डैरुक्तास्त्रयस्त्रय एकस्त्रयश्च एषां यथाक्रमं
[२४२।२०]
सत्त्वभोगावधिष्ठानं नामरूपं च नाम च ॥ ४.७१ ॥
[२४२।२१]
सत्त्वाधिष्ठाना वधादयः ।
भोगाधिष्ठानां परस्त्रीगमनादयः ।
[२४२।२१-२४२।२२]
नामरूपाधिष्ठामिथ्यादृष्टिः ।
[२४२।२२]
नामकायाधिष्ठाना मृषावादादयः ।
[२४२।२३-२४२।२४]
यः परं मरणान्नियमय्य समं तेन पूर्वं वा म्रियते किमस्य मौलः कर्मपथो भवत्युताहो न ।
[२४२।२५]
समं प्राक्च मृतस्यास्ति न मौलः
[२४२।२६-२४२।२७]
अत एवोच्यते “स्यात्प्रयोगं कुर्यात्फलं च परिपूरयेन्न च प्राणातिपातावद्येन स्पृश्यते ।
[२४२।२७]
आह ।
[२४२।२७-२४३।०२]
स्यात्यथापि तद्व्यपरोपवः पूर्वं सह वा कालं कुर्या”दिति किं पुनस्तत्कारणं नहि वध्ये जीवति हन्तुः प्राणातिपातावद्येनास्ति योगो नापि सहमृतस्य हन्तुः ।
[२४३।०३]
अन्याश्रयोदयात् ।
[२४३।०४]
थेनाश्रयेण तत्प्रयोगः कृतः स उच्छिन्नोऽन्य एवाश्रयो निकायसभागभिन्न उत्पन्नः ।
[२४३।०५]
तस्य प्रयोक्तृत्वात्कर्मपथेन योगो न युक्तः ।
[२४३।०५-२४३।०६]
यत्सेनापातमृगयावस्कन्धेषु परेषां वधार्थं बहवः समग्राः पतन्त्येकश्च प्राणातिपातं करोति कस्तेन समन्वागतो भवति ।
[२४३।०७]
सेनादिष्वेककार्यत्वात्सर्वे कत्तृवदन्विताः ॥ ४.७२ ॥
[२४३।०८]
यथैव हि कर्त्ता तथा सर्वे समन्वागता भवन्त्येककार्यत्वात् ।
[२४३।०८-२४३।०९]
अर्थतो हि तेऽयोन्यं पयोक्तारो भवन्ति ।
[२४३।०९-२४३।११]
यस्तर्हि बलान्नीयते सोऽपि समन्वागतो भवत्यन्यत्र य एवं नश्चित्य यायात्यावज्जीवितहेतोरपि प्राणिनं न हनिष्यामीति ।
[२४३।१२-२४३।१३]
कियता पुनः प्राणातिपातं स्वयं कुर्वतः कर्मपथो भवति कियता यावन्मिथ्यादृष्टिः कर्मपथः इति लक्षणं वक्तव्यं तदुच्यते ।
[२४३।१४]
प्राणातिपातः संचिन्त्य परस्याभ्रान्तिमारणम् ।
[२४३।१५]
यदि मारयिष्याम्येनमिति संज्ञाय परं मारयति तमेव च मारयति नान्यं भ्रमित्वा ।
[२४३।१६]
इयता प्राणातिपातो भवति ।
[२४३।१६-२४३।१७]
यस्तर्हि संदिग्धो मारयति किमयं प्राणी न प्राणीति स एवान्यो वेति सोऽप्यवश्यमेतं निश्चयं लब्ध्वा तत्र प्रहरति ।
[२४३।१७-२४३।१८]
योऽस्तु सोऽस्त्विति कृतमेवानेन त्यागचित्तं भवति ।
[२४३।१८]
कथं क्षणिकेषु स्कन्धेषु प्राणातिपातो भवति ।
[२४३।१९]
प्राणो नाम वायुः कायचित्तसंनिश्रितो वर्तते ।
तमभिपातयति ।
[२४३।१९-२४३।२०]
यथा प्रदीपं निरोधयति घण्टास्वनं वा ।
[२४३।२०]
जीवितेन्द्रियं वा प्राणास्तन्निरोधयति ।
[२४३।२०-२४३।२१]
यद्येकस्यापि जीवितक्षणस्योत्पद्यमानस्यान्तरायं करोति प्राणातिपातावद्येन स्पृश्यते नान्यथा ।
[२४३।२२]
कस्य तज्जीवितं यस्तदभावान्मृतो भवति ।
[२४३।२२-२४३।२३]
कस्येति षष्ठीं पुद्गलवादे विचारयिष्यामः ।
[२४३।२३]
उक्तं तु भगवता
[२४३।२४-२४३।२५]
“आयुरुष्माऽथ विज्ञानं यदा कायं जहत्यमी ।
अपविद्धस्तदा शेते यथा काष्ठमचेतन” ॥ इति ।
[२४३।२६]
तस्मात्सेन्द्रियः कायो जीवतीत्युच्यते अनिन्द्रियो मृत इति ।
[२४३।२६-२४३।२७]
अबुद्धिपूर्वादपि प्राणिवधात्कर्तुरधर्मो यथाऽग्निसंयोगाद्दाह इति निर्ग्रन्थाः ।
[२४३।२७-२४४।०१]
तेषां परदारदर्शनेऽप्येष प्रसङ्गः ।
[२४४।०१-२४४।०३]
निर्ग्रन्थशिरोलुञ्चने च कष्टतपोदेशने च शास्तुः तद्विसूचिकामरणे च दातुर्वैद्यानां चातुरपीडने मरणे च मातृगभस्थयोश्चान्योन्यं दुःखनिमित्तत्वात् ।
[२४४।०३]
वध्यस्यापि च तत्क्रियासंबन्धादग्निस्वाश्रयदाहवत् ।
[२४४।०३-२४४।०४]
कार्यतश्चाप्रसङ्गस्तदसम्बन्धात् ।
[२४४।०४]
परेणाग्निं स्पर्शयतस्तेनादाहवत् ।
[२४४।०४-२४४।०५]
अचेतनानां च काष्ठादीनां गृहपाते प्राणिवधात्पापप्रसङ्गो न वा दृष्टान्तमात्रात्सिद्धिरिति ।
[२४४।०६]
उक्तः प्राणातिपातः ।
[२४४।०७]
अदत्तादानमन्यस्वस्वीक्रिया बलचौर्यतः ॥ ४.७३ ॥
[२४४।०८]
अभ्रान्त्येति वर्तते ।
[२४४।०८-२४४।०९]
यदि बलाद्वा चौर्येण वा परस्वं स्वीकरोति यत्रैव च बलचौर्याभिप्रायेणान्यत्र संज्ञाविभ्रमातियताऽदत्तादानं भवति ।
[२४४।०९-२४४।१०]
स्तूपादपहरतो बुद्धाद दत्तादानम् ।
[२४४।१०]
सर्वं हि तद्भगवता परिनिर्वाणकाले परिगृथीतमिति ।
[२४४।१०-२४४।११]
येषां सम्रक्ष्यमित्यपरे ।
[२४४।११-२४४।१२]
अस्वामिकं च निधिमुद्धरतो विषयस्वामिकात्परिवर्तकं हरतः कृते कर्मणि सीमाप्राप्तेभ्यः अकृते सर्वबुद्धशैक्ष्येभ्यः ।
[२४४।१३]
अगम्यगमनं काममिथ्याचारश्चतुर्विधः ।
[२४४।१४]
चतुष्प्रकारमगम्यगमनं काममिथ्याचारः ।
[२४४।१४-२४४।१५]
अगम्यां गच्छति परपरिगृहीतां वा मातरं दुहितरं वा मातृपितृसंबन्धिनीं वा ।
[२४४।१५-२४४।१६]
अनङ्गे वा गच्छति स्वामपि भार्यामपाने मुखे वा ।
[२४४।१६]
अदेशे वा गच्छति प्रकाशे चैत्ये विहारे वा ।
[२४४।१७]
अकाले वा गच्छति ।
कः पुनः अकालः ।
[२४४।१७-२४४।१८]
गर्भिणीं वा गच्छति पाययन्तीं वा सनियमां वा ।
[२४४।१८]
यदि भर्तुरनुज्ञया सनियमा भवतीत्येके ।
अभ्रान्त्येति वर्तते ।
[२४४।१८-२४४।१९]
यदि स्वसंज्ञी परस्त्रियं यायात्न स्यात्कर्मपथः ।
[२४४।१९-२४४।२०]
यद्यन्यः परस्त्रीसंज्ञयाऽन्यामभिगच्छेत्परदारप्रयोगाद्वस्तुपरिभोगाच्च स्यादित्येके ।
[२४४।२०-२४४।२१]
अन्यत्र प्रयोगान्न स्यात्प्राणाति पातवदित्यपरे ।
[२४४।२१]
भिक्षुणीं गच्छतः कस्यान्तिकात्काममिथ्याचारः ।
[२४४।२१-२४४।२२]
विषयस्वामिनः ।
[२४४।२२]
तस्य हि तन्न मर्षणीयम् ।
तस्यापि सनियमा स्वभार्येव तु सा न गम्या ।
[२४४।२३]
कुमारीं गच्छतो यस्य निसृष्टा नो चेद्यस्य रक्षाऽन्ततो राज्ञः ।
[२४४।२४]
अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृषावचः ॥ ४.७४ ॥
[२४४।२५-२४५।०१]
यदि यमर्थं ब्रवीति तस्मिन्नन्यथासम्ज्ञी भवति यं चाधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो भवति तद्वाक्यं मृषावादः ।
[२४५।०१]
अनभिज्ञे किं स्यात् ।
[२४५।०१-२४५।०२]
संभिन्नप्रलापः स्यात् ।
[२४५।०२]
वाक्यमित्युच्यते ।
[२४५।०२-२४५।०३]
कदाचिच्च बहवो वर्णा वाक्यं भवन्तीति कतमः तत्र कर्मपथः ।
[२४५।०३]
पश्चिमः सहाविज्ञप्त्या यत्र चार्थाभिज्ञो भवति ।
पूर्वे तु वर्णाः प्रयोगः ।
[२४५।०४]
अर्थाभिज्ञ इत्युच्यते ।
[२४५।०४-२४५।०५]
कि तावदभिज्ञातार्थे श्रोतरि आहोस्वितभिज्ञातुं समर्थे ।
[२४५।०५]
किं चातः ।
[२४५।०५-२४५।०६]
यद्यभिज्ञातार्थे मनोविज्ञानविषयत्वाद्वाक्यार्थस्य श्रोत्रविज्ञानेन सह निरोधाच्च वाग्विज्ञप्तेरविज्ञप्तिरेव स्यात्कर्मपथः ।
[२४५।०६-२४५।०७]
अथाभिज्ञातुं समर्थे ।
[२४५।०७]
एवं दोषो न भवति ।
[२४५।०७-२४५।०८]
कथं चाभिज्ञातुं समर्थोऽप्युत्पन्नभाव उत्पन्ने श्रोत्रविज्ञाने ।
[२४५।०८]
यथा न दोषस्तथाऽस्तु ।
[२४५।०९]
षोदश व्यवहाराः सूत्र उक्ताः ।
[२४५।०९-२४५।११]
“अदृष्टे दृष्टवादिता अश्रुतेऽमतेऽविज्ञाते विज्ञातवादिता दृष्टे अदृष्टवादिता यावद्विज्ञातेऽविज्ञातवादिता इतीमेऽनार्या अष्टौ व्यवहाराः ।
[२४५।११-२४५।१२]
दृष्टे दृष्टवादिता यावद्विज्ञाते विज्ञातवादिता अदृष्ट्ऽदृष्टवादिता यावदविज्ञाते अविज्ञातवादिता इतीमे आर्या अष्टौ व्यवहाराः ।
[२४५।१२-२४५।१३]
तत्रैषां दृष्टश्रुतमतविज्ञातानां किं लक्षणम् ।
[२४५।१४-२४५।१५]
चक्षुः श्रोत्रमनश्चित्तैरनुभूतं त्रिभिश्च यत् ।
तद्दृष्टश्रुतविज्ञातं मतं चोक्तं यथाक्रमम् ॥ ४.७५ ॥
[२४५।१६]
यच्चक्षुर्विज्ञानेनानुभूतं तद्दृष्टमित्युक्तम् ।
यच्छ्रोत्रविज्ञानेन तच्छ्रुतम् ।
[२४५।१६-२४५।१७]
यन्मनो विज्ञानेन तत्विज्ञातम् ।
[२४५।१७]
यत्घ्राणजिह्वाकायविज्ञानैस्तन्मतम् ।
किं कारणम् ।
[२४५।१८]
गन्धरसस्प्रष्टव्यान्यव्याकृतत्वान्मृतकल्पानि ।
अत एतेषु मताख्येति वैभाषिकाः ।
[२४५।१९]
किमत्र ज्ञापकम् ।
सूत्रं युक्तिश्च ।
[२४५।१९-२४५।२१]
सूत्रं तावत्”तत्किं मन्यसे माहकीमातः यानि त्वया चक्षुषा रूपाणि न दृष्टानि न दृष्टपूर्वाणि न पश्यसि नापि ते एवं भवति पश्येयमिति ।
[२४५।२१-२४५।२२]
अपि नु ते तन्निदानमुत्पन्नश्छन्दो वा रागो वा स्नेहो वा येन वा आलयो वा नीयतिरध्यवसानं वा ।
[२४५।२२]
नो भदन्त ।
[२४५।२२-२४५।२४]
ये त्वया श्रोत्रेण शब्दा न श्रुता न श्रुतपूर्वा विस्तरेण यावन्मनसा धर्मा न विज्ञाता विस्तरेण यावन्नो भदन्त ।
[२४५।२४-२४५।२५]
अत्र च ते माहकीमातर्दृष्टे दृष्टमात्रं भविष्यति श्रुते मते विज्ञाते विज्ञातपात्रमित्यु”क्तम् ।
[२४५।२५-२४५।२६]
अतस्त्रिषु विषयेषु दृष्टश्रुतविज्ञातशब्दापदेशाद्गन्धादिषु मताख्या अम्यते ।
[२४५।२६-२४५।२७]
अत एवं चानिष्यमाणे दृष्टादिभावबाह्यत्वात्गन्धादिषु व्यवहारो न स्यादित्येषा युक्तिः ।
[२४५।२७]
सूत्रं तावज्ज्ञापकमन्यार्थत्वात् ।
[२४५।२७-२४५।२८]
न ह्यत्र सूत्रे भगवान् व्यवहारानां लक्षाणं शास्ति स्म ।
[२४५।२८]
किं तर्हि ।
[२४५।२८-२४६।०१]
अत्र च ते षड्विधे विषये चतुर्षु व्यवहारेषु दृष्टादिव्यवहारमात्रं भविष्यति न प्रियाप्रियनिमित्ताध्यारोप इत्ययमत्र सूत्रार्थो दृश्यते ।
[२४६।०१]
किं पुनर्डृष्टं किं च यावद्विज्ञातम् ।
केचित्तावदाहुः ।
[२४६।०१-२४६।०२]
“यत्पञ्चभिरिन्द्रियैः प्रत्यक्षं तद्दृष्टम् ।
[२४६।०२]
यत्परत आगमितं तच्छ्रुतम् ।
[२४६।०२-२४६।०३]
यत्स्वयं युक्त्यनुमानतो रुचितं तन्मतम् ।
[२४६।०३-२४६।०४]
यन्मनःप्रत्यक्षभावेनाधिष्टितं प्रत्यात्मवेद्यं तद्विज्ञातमि”ति ।
[२४६।०४]
एते च पञ्च विषयाः प्रत्येकं दृष्टा इति वा कृत्वा व्यवह्रिल्यन्ते ।
[२४६।०५]
श्रुता मता विज्ञाता इति वा ।
[२४६।०५-२४६।०६]
षष्ठोऽन्यत्र दृष्टादिति नास्ति गन्धादिषु व्यवहाराभावप्रसङ्गः ।
[२४६।०६]
तस्माद्युक्तिंरप्येषा युक्तिर्न भवति ।
[२४६।०६-२४६।०७]
पूर्वाचार्या एवमाहुः ।
[२४६।०७]
यद्दृष्टं यत्प्रत्यक्षीकृतं चक्षुषा ।
श्रुतं यच्छ्रोत्रेण परतश्चाखरितम् ।
[२४६।०८]
मतं यत्स्वयं चिन्तितम् ।
विज्ञातं यत्प्रत्यात्मप्रतिसंवेदितमधिगतं चोत्पन्नम् ।
[२४६।०९]
प्रसङ्गेन शास्त्रं प्रवर्तयताम् ।
यः कायेनान्यथात्वं प्राप्येत्स्यान्मृषावादः ।
[२४६।१०]
स्यात् ।
अत एवोच्यते ।
“स्यिआन्न कायेन पराक्रमेत प्राणातिपातावद्येन च स्पृश्येत ।
[२४६।११]
स्याद्वाचा पराक्रमेत स्यान्न वाचा पराक्रमेत मृषावादावद्येन च स्पृश्येत ।
[२४६।११-२४६।१२]
स्यात्कायेन पराक्रमेत स्यान्न कायेन न वाचा पराक्रक्मेत उभयावद्येन च स्पृश्येत ।
[२४६।१३]
स्यातृशीणां मनःप्रदोषेण पोषधनिदर्शनं चात्रे”ति ।
[२४६।१३-२४६।१४]
यद्युभयथाऽपि न पराक्रमेत न चाविज्ञप्तिकास्त्यविज्ञप्तिः कामावचरी कथं तयोः कर्मपथः सिद्ध्यति ।
[२४६।१५]
कर्तव्योऽत्र यत्नः ।
गतो मृषावादः ।
[२४६।१६]
पैशुन्यं क्लिष्टचित्तस्य वचनं परभेदने ।
[२४६।१७]
यत्क्लिष्टचित्तस्य परेषां भेदाय वचनमप्रीतये तत्पैशुन्यम् ।
[२४६।१७-२४६।१८]
अर्थभिज्ञ इति वर्तते अभ्रान्त्येति च ।
[२४६।१९]
पारुष्यमप्रियं
[२४६।२०]
वचनत् ।
क्लिष्टचित्तस्येति वर्तते ।
अर्थाभिज्ञे अभ्रान्त्येति च ।
[२४६।२०-२४६।२२]
यत्क्लिष्टचित्तस्य परेषामप्रियवचनमर्थाभिज्ञे तत्रैव च यत्विवक्षितं तत्पारुष्यम् ।
[२४६।२३]
सर्वं क्लिष्टं भिन्न प्रलापिता ॥ ४.७६ ॥
[२४६।२४]
वाक्यमित्यधिकारो वर्तते ।
सर्वं क्लिष्टं वचनं संभिन्नप्रलापः ।
[२४६।२४-२४६।२५]
सैव संभिन्नप्रलापिता ।
[२४६।२५]
तद्योगेन हि संभिन्नप्रलापी भवति ।
[२४७।०१]
अतोऽन्यत्क्लिष्टमित्यन्ये
[२४७।०२]
अतो मृषावादादिकाद्वाक्कर्मणो यदन्यत्क्लिष्टं वचनं तत्संभिन्नप्रलाप इत्यपरे ।
[२४७।०३]
लपनागीतनाट्यवत् ।
[२४७।०४]
कुशास्त्रवच्च
[२४७।०५-२४७।०६]
तद्यथा भिक्षुर्मिथ्याजीवी लपनां करोति रक्ताश्च केचित्गायन्ति नाटच्ये च नटाः परेषां रञ्जनार्थं प्रलपन्ति ।
[२४७।०६]
कुक्शास्त्राणि च तद्दृष्टयोऽपि गदन्ति ।
[२४७।०६-२४७।०७]
एवं परिदेवसंगणिकादिकमपि यदन्यन्मृषावादादिभ्यः क्लिष्टं वाक्कर्म तत्संभिन्नप्रलापः ।
[२४७।०७-२४७।०८]
कथं चक्रवर्तिकाले गीतं चास्ति न च संभिन्नप्रलापः ।
[२४७।०८-२४७।०९]
नैष्क्रम्योपसंहितानि हि तदानीं गियन्ते स्म न ग्राम्यरसोपसंहितानि ।
[२४७।०९-२४७।१०]
तदाप्यावाहविवाहद्यभिलापसद्भावादस्ति संभिन्नप्रलापो न कर्मपथ इत्यपरे ।
[२४७।११]
अभिध्या तु परस्वविषमस्पृहा ॥ ४.७७ ॥
[२४७।१२-२४७।१३]
अहो वत यत्परेषां तन्मम स्यादिति परस्वेभ्यो या विषमेणान्यायेन स्पृहा स्वीकरनेच्छा बलाद्वा चोपायाद्वा साऽभिध्या कर्मपथः ।
[२४७।१३-२४७।१४]
सर्वैव कामावचरी तृष्णाभिध्येत्यपरे ।
[२४७।१४-२४७।१५]
तथा हि निवरणाधिकारे कामच्छन्दमधिकृत्योक्तं सूत्रे “सोऽभिध्यां लोके प्रहाये” त्येवमादि ।
[२४७।१५-२४७।१६]
यद्यपि सर्वाभिध्या नतु सर्वा कर्मपथ औदारिकदुष्चरितसंग्रहादित्यपरे ।
[२४७।१६-२४७।१७
मा भूच्चक्रवर्तिनामप्युत्तरकौरवानां पाभिध्या कर्मपथ इति ।
[२४७।१८]
व्यापादः सत्त्वविद्वेषः
[२४७।१९]
सत्त्वेषु विद्वेषो व्यापादः परपीडाकारप्रवृत्तः ।
[२४७।२०]
नास्तिदृष्टिः शुभाशुभे ।
[२४७।२१]
मिथ्यादृष्टिः
[२४७।२२]
शुभे चाशुभे च कर्मणि या नास्तीति दृष्टिः सा मिथ्यादृष्टिः ।
[२४७।२२-२४७।२४]
तद्यथा “नास्ति दत्तं नास्तीष्टं नास्ति हुतं नास्ति सुचरितं नास्ति दुश्चरितमित्येवमादि यावन्न सन्ति लोकेऽहन्त” इति ।
[२४७।२४-२४७।२५]
सैषा साकल्येन कर्मफलार्यापवादिका मिथ्यादृष्टिर्भवति ।
[२४७।२५]
आदिमात्रं तु श्लोके दर्शितम् ।
एवंलक्षणा एते दश कर्मपथाः ।
[२४८।०१]
कर्मपथा इति कोऽर्थः ।
[२४८।०२]
त्रयो ह्यत्र पन्थानः सप्त कर्म च ॥ ४.७८ ॥
[२४८।०३]
अभिध्यादयो हि त्रयः कर्मणः पन्थान इति कर्मपथाः ।
[२४८।०३-२४८।०४]
तत्संप्रयोगिणी हि चेतना तेषां वाहेन वहति तेषां गत्या गच्छति ।
[२४८।०४]
तद्वशेन तथाभिसंस्करणात् ।
[२४८।०४-२४८।०६]
सप्त तु प्राणातिपातादयः कर्म च कायवाक्कर्मत्वात्कर्मणश्च पन्थान इति कर्मपथास्तत्समुत्थानचेतनायास्तानधिष्ठाय प्रवृत्तेरिति ।
[२४८।०६]
कर्मपथाश्चकर्म च कर्मपथाश्चेति कर्मपथाः ।
[२४८।०७]
असरूपाणामप्येकशेषसिद्धेः ।
[२४८।०७-२४८।०८]
एवमनभिध्यादयः प्राणातिपातविरत्यादयश्च ज्ञेयाः ।
[२४८।०८-२४८।०९]
प्रयोगपृष्टानि कर्माणि कर्मपथाः यस्मात्तदर्थं तन्मूलिका च तेषां प्रवृत्तिः ।
[२४८।०९-२४८।०९-]
यथौदारिकं च ग्रहणादित्युक्तं प्राक् ।
[२४८।०९-२४८।१०]
येषां चोत्कर्षापकर्षेणाध्यात्मिकबाह्यानां भावानामुत्कर्षापकर्षौ लोके भवतः ।
[२४८।१०-२४८।११]
ये तर्हि दार्ष्टान्तिका अभिध्यादीनेव मनस्कर्मेच्छन्ति तेषां ते कथं कर्मपथाः ।
[२४८।११]
त एव हि प्रष्टव्याः ।
[२४८।१२]
अपि तु शक्यं वक्तुं कर्म च ते पन्थानश्च सुगतिदुर्गतीनामिति कर्मपथाः ।
[२४८।१२-२४८।१३]
इतरेतरावाहनाद्वा ।
[२४८।१३-२४८।१४]
य एते दशाकुशलाः कर्मपथाः सर्वे एते कुशलानां कर्मणां समुदाचारविरोधिनः ।
[२४८।१५]
मूलच्छेदस्त्वसद्दृष्ट्या
[२४८।१६]
कुशलमूलच्छेदस्तु मिथ्यादृष्ट्या भवत्यधिमात्रपरिपूर्णया ।
[२४८।१६-२४८।१७]
यत्तर्हि शास्त्र उक्तं “कतमान्यधिमात्राण्यकुशलमूलानि ।
[२४८।१७-२४८।१८]
यैरकुशलमूलैः कुशलमूलानि समुच्छिनत्ति कामवैराग्यं चानुप्राप्नुवन् यानि तत्प्रथमत उपलिखती”ति ।
[२४८।१८-२४८।२०]
अकुशलमूलाध्याहृतत्वात्मिथ्यादृष्टेस्तेष्वेव तत्कर्मापदेश एष क्रियते तद्यथाग्निरेव ग्रामं दहनि चौरास्तु तस्याध्याहारका इति चौरैर्ग्रामो दग्ध इत्युच्यते ।
[२४८।२१]
कतमेषां कुशलमूलानां समुच्छेदो भवति ।
[२४८।२२]
कामाप्तोत्पत्तिलाभिनाम् ।
[२४८।२३]
कामावचराणि कुशलमूलानि समुछिद्यन्ते ।
[२४८।२३-२४८।२४]
रूपारूप्यावचरैरसमन्वागतत्वात् ।
[२४८।२४]
प्रज्ञप्तिभाष्यं तर्हि कथं नीयते ।
[२४८।२४-२४८।२५]
“इयताऽनेन पुद्गलेन त्रैधातुकानि कुशलमूलालि समुच्छिन्नानि भवन्ती”ति ।
[२४८।२५-२४९।०१]
तत्प्राप्तिदूरीकरणमभिसंधायैतदुक्तम् ।
[२४९।०१]
संततेस्तदभाजनत्वापादनात् ।
[२४९।०१-२४९।०२]
उपपत्तिप्रतिलाभिकान्येव च समुच्छिद्यन्ते ।
[२४९।०२]
प्रायोगिकेभ्यः पूर्वं परिहीणत्वात् ।
[२४९।०२-२४९।०३]
किमालम्बनया मिथ्यादृष्ट्या समुच्छिद्यन्ते
[२४९।०४]
फलहेत्वपवादिन्या
[२४९।०५-२४९।०६]
या च हेतुमपवदते नास्ति सुचरितं नास्ति दुश्चरितमिति या च फलं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाक इति ।
[२४९।०६-२४९।०७]
आनन्तर्यविमुक्तिमार्गस्थानीये एते इत्यपरे ।
[२४९।०७-२४९।०८]
सास्रवालम्बनयैव नानास्रवालम्बनया सभागधात्वालम्बनयैव च न विसभागधात्वालम्बनया ।
[२४९।०८]
संप्रयोगमात्रानुशायित्वेन दुर्बलत्वादित्येके ।
[२४९।०८-२४९।०९]
एवं तु वर्णयन्ति ।
[२४९।१०]
सर्वथा
[२४९।११]
नवप्रकाराण्यपि कुशलमूलानि सकृत्समुच्छिद्यन्ते ।
दर्शनप्रहातव्यवदित्येके ।
[२४९।११-२४९।१२]
एवं तु वर्णयन्ति ।
[२४९।१३]
क्रमशः
[२४९।१४]
नवप्रकारया मिथ्यादृष्ट्या नवप्रकाराणि कुशलमूलानि समुच्छिद्यन्ते ।
[२४९।१४-२४९।१५]
भावना हेयक्लेशवत्यावदधिमात्राधिमात्रया मृदुमृदूनीति ।
[२४९।१५-२४९।१६]
एवमयं ग्रन्थः पालितो भवति ।
[२४९।१६]
“कतमान्यणुसहगतानि कुशलमूलानि ।
आह ।
[२४९।१६-२४९।१८]
यैरकुशलमूलैः कुशलानि समुच्छिन्नानि सर्वपश्चात्विजहाति यैः विकीर्णैः समुच्छिन्न कुशलमूल इति संख्यां गच्छती”ति ।
[२४९।१८]
अस्य तर्हि ग्रन्थस्य को नयः ।
[२४९।१८-२४९।१९]
“कतमान्यधिंमात्राधिमात्राण्यकुशलमूलानि ।
[२४९।१९-२४९।२०]
यैरकुक्शलमूलैः कुशलमूलानि समुच्छिनत्ती”ति ।
[२४९।२०]
समाप्तिमेतत्संधायोक्तम् ।
तैनिरवशेषच्छेदात् ।
[२४९।२०-२४९।२१]
एकोऽपि हि प्रकार स्तेषामसमुच्छिन्नः सर्वेषां पुनरुत्पत्तौ हेतुः स्यादिति ।
[२४९।२१-२४९।२२]
दर्शनमार्गवदभ्युत्थानेन च्छिनत्तीत्येके ।
[२४९।२२]
एवं तु वर्णयन्त्युभयथेति ।
[२४९।२२-२४९।२३]
पूर्वं संवरं विजहाति पश्चात्कुशलमूलानि समुच्छिनत्तीत्येके ।
[२४९।२३]
एवं तु वर्णयन्ति ।
[२४९।२३-२४९।२४]
यस्य चित्तस्य फलसंवरस्तत्त्यागात्तस्य त्याग इति ।
[२४९।२४]
अथ कुशलमूलानि समुच्छिद्यन्ते
[२४९।२५]
नृषु ॥ ४.७९ ॥
[२४९।२६]
मनुष्येष्वेव नापायेषु ।
क्लिष्टाक्लिष्टयोः प्रज्ञयोरदृढत्वात् ।
[२४९।२६-२४९।२७]
न देवेषु कर्मफल प्रत्यक्षत्वात् ।
[२४९।२७]
त्रिषु द्वीपेषु नोत्तरकुरौ ।
अपापाशयत्वात्जम्बूद्वीप एवेत्यपरे ।
[२४९।२८]
तेषामयं ग्रन्थो विरुध्यते ।
“जाम्बूद्वीपकः सर्वाल्पैरष्टाभिरिन्द्रियैः समन्वागतः ।
[२५०।०१]
एवं पूर्वविदेहको गोदानीयक” इति ।
तानि पुनः
[२५०।०२]
छिनत्ति स्त्री पुमान्
[२५०।०३]
स्त्रि च समुच्छिनत्ति पुरुषश्च मन्दच्छन्दवीर्यप्रज्ञत्वात्
न स्त्रीत्यपरे
[२५०।०३-२५०।०४]
अयं ग्रन्थो विरुध्येत
[२५०।०४-२५०।०५]
“यः स्त्रीन्द्रियेण समन्वागतो नियतमसावष्टाभिरिन्द्रियैः समन्वागत” इति
[२५०।०५]
तेषामपि तृष्णाचरितो न समुच्छिनत्ति
[२५०।०५-२५०।०६]
चलाशयत्वात्
[२५०।०६]
कस्तर्हि
[२५०।०७]
दृष्टिचरितः
[२५०।०८]
दृढगूढपापाशयत्वात्
अत एव न शण्डादयस्तृष्णाचरिते पक्ष्यत्वात्
[२५०।०८-२५०।०९]
आपायिकवच्च
[२५०।०९]
किंस्वभावः कुशलमूलसमुच्छेदः
[२५०।१०]
सोऽसमन्वयः
[२५०।११]
यदा हि कुशलमूलानां प्राप्तिर्न पुनरुत्पद्यते अप्राप्तिरप्युत्पद्यते ।
[२५०।११-२५०।१२]
तस्मिन्नसमन्वागम उत्पन्ने समुच्छिन्नानि कुशलमूलान्युच्यन्ते ।
[२५०।१२-२५०।१३]
तेषां समुच्छिन्नानां कथं पुनः प्रतिसंधिः
[२५०।१४]
संधिः काङ्क्षास्तिदृष्टिभ्याम् ।
[२५०।१५]
यदाऽस्य हेतुफले विचिकित्सा चोत्पद्यते ।
अष्टिदृष्टिर्वा सम्यक्दृष्टिरित्यर्थः ।
[२५०।१६]
तदा पुनः तत्प्राप्तिसमुत्पादात्प्रतिसंधितानि कुशलमूलान्युच्यन्ते ।
[२५०।१६-२५०।१७]
नवप्रकाराणां युगपत्प्रतिसंधानं क्रमेण तु संमुखीभाव आरोग्यबललाभवत् ।
[२५०।१७-२५०।१८]
स पुनस्तेषां प्रतिसंधिः
[२५०।१९]
नेहानन्तर्यकारिणः ॥ ४.८० ॥
[२५०।२०]
अन्यस्यैवेह स्यादानन्तर्यकारिणस्तु नेह स्यात् ।
[२५०।२०-२५०।२२]
तमेव संधायोक्तम् “अभव्योऽयं पुद्गलो दृष्ट एव धर्मे कुशलमूलानि प्रतिसंधातुं नियतमयं नवकेभ्यश्च्यवमानो वा उपपद्यमानो वा कुशलमूलानि प्रतिसंधास्यति” इति ।
[२५०।२२-२५०।२४]
उपपद्यमानोऽन्तराभवस्थश्च्यवमानश्च्युत्यभिमुखस्तत्र पुनर्यो हेतुबलेन समुच्छिनत्ति स च्यवमानः प्रतिसंदधाति यः प्रत्ययबलेन स उपपद्यमानः ।
[२५०।२४-२५०।२५]
एवं यः स्वबलेन परबलेन ।
[२५०।२५]
पुनराह ।
[२५०।२५-२५०।२६]
य आशयविपन्नः समुच्छिनत्ति स दृष्टे धर्मे प्रतिसंदधाति ।
[२५०।२६]
य आशयप्रयोगविपन्नः स भेदात्कायस्येति ।
[२५०।२६-२५१।०१]
एवं यो दृष्टिविपन्नो दृष्टि शीलविपन्न इति ।
[२५१।०१]
स्यात्समुच्छिन्न कुशलमूलो न मिथ्यात्वनियत इति ।
[२५१।०२]
चतुष्कोटिकम् ।
प्रथमा कोटिः पूरणादयः ।
द्वितीयाऽजातशत्रुः ।
तृतीया देवदत्तः ।
[२५१।०३]
चतुर्थ्येतानाकारान् स्थापयित्वा ।
[२५१।०३-२५१।०४]
कुशलमूलसमुच्छेदिकाया मिथ्यादृष्टेरवीचौ विपाकः ।
[२५१।०४]
आनन्तर्यकारिणां तु तत्र वाऽन्यत्र वा नरके ।
[२५१।०५]
कर्मपथप्रसङ्ग एवायं वर्तते ।
[२५१।०५-२५१।०६]
तत्र वक्तव्यं कतिभिः कर्मपथैः सह चेतना युगपदुत्पन्ना वर्तत इति ।
[२५१।०७]
युगपद्यावदष्टाभिरशुभैः सह वर्तते ।
[२५१।०८]
चेतना
[२५१।०९]
एकेन तावत्सह वर्तते ।
[२५१।०९-२५१।१०]
विनाऽन्येनाभिध्यादिसंमुखीभावे अक्लिष्टचेतसो वा तत्प्रयोगेण रूपिणामन्यतमनिष्ठागमने ।
[२५१।१०]
द्वभ्यां सह वर्तते ।
[२५१।१०-२५१।११]
व्यापन्नचित्तस्य प्राणिवधे अभिध्याविष्टस्य वाऽदत्तादाने काममिथ्याचारे संभिन्नप्रलापे वा ।
[२५१।१२]
त्रिभिः सह वर्तते ।
व्यापन्नचित्तस्य परकीय प्राणिमारणापहरणे युगपत् ।
[२५१।१२-२५१।१३]
न तर्हीदानीमदत्तादानस्य लोभेनैव निष्टा सिध्यति ।
[२५१।१३-२५१।१४]
अनन्यचित्तस्य तत्समाप्तौ स नियमो ज्ञेयः ।
[२५१।१४-२५१।१५]
अभिध्याद्याविष्टस्य च तत्प्रयोगेण रूपिद्वयनिष्ठागमने त्रिभिरेव ।
[२५१।१५]
चतुर्भिः सह वर्तते ।
[२५१।१५-२५१।१६]
भेदाभिप्रायस्यानृत वचने परुषवचने वा ।
[२५१।१६]
तत्र हिमानस एको भवति वाचिकास्त्रयः ।
[२५१।१६-२५१।१७]
अभिध्यादिगतस्य वा तत्प्रयोगेणा न्यरूपित्रय निष्ठागमने ।
[२५१।१७]
एवं पण्चषट्सप्तभिर्यो जयितव्या ।
[२५१।१७-२५१।१८]
अष्टाभिः सह वर्तते ।
[२५१।१८]
षट्सु प्रयोग्गं कृत्वा स्वयं कामभिथ्याचारं कुर्वतः समं निष्ठागमने ।
[२५१।१९]
एवं तावदकुशलैः ।
[२५१।२०]
दशभिर्यावच्छुभैः
[२५१।२१]
कुशलैः पुनः कर्मपथर्यावत्दशभिः सह चेतना वर्तत इत्युत्सर्गं कृत्वाऽपवादं करोति
[२५१।२२]
नैकाष्टपञ्चभिः ॥ ४.८१ ॥
[२५१।२३]
एकेनाष्टाभि पञ्चभिश्च कर्मपथैः सह न वर्तते ।
तत्र द्वाभ्यां सह वर्तते ।
[२५१।२३-२५२।०१]
कुशलेषु पञ्चसु विज्ञानेषु ।
[२५२।०१]
आरूप्यसमापत्तौ च क्षयानुत्पादज्ञानयोः ।
[२५२।०१-२५२।०२]
त्रिभिः सम्यग्दृष्टिसंप्रयुक्ते मनोविज्ञाने ।
[२५२।०२-२५२।०३]
चतुर्भिरकुशलाव्याकृतचित्तस्यो पासकश्रामणेरसंवरसमादाने ।
[२५२।०३]
षड्भिः कुशलेषु पञ्चषु विज्ञानकायेषु तत्समादाने ।
[२५२।०३-२५२।०४]
सप्तभिः कुशले मनोविज्ञाने तत्समादान एव अकुशलाव्याकृतचित्तस्य च भिक्षुसंवरसमादाने ।
[२५२।०५]
नवभिः कुशलेषु पञ्चषु विज्ञानेषु ।
[२५२।०५-२५२।०६]
तत्समादाने क्षयानुत्पादज्ञानसंप्रयुक्ते च मनोविज्ञाने तस्मिन्नेव च ध्यानसंगृहीते ।
[२५२।०६-२५२।०७]
दशभिस्ततोऽन्यत्र कुशले मनोविज्ञाने भिक्षुसंवरसमादान एव ।
[२५२।०७-२५२।०९]
सर्वा च ध्यानानास्रव संवरसहवर्तिनी चेतनाऽन्यत्र क्षयानुत्पादज्ञानाभ्यां संवरनिर्मुक्तेन त्वेकेनापि सह स्यादन्य चित्तस्यैकाङ्गविरतिसमादाने ।
[२५२।०९-२५२।१०]
पञ्चाष्टाभिरपि स्यात्कुशले मनोविज्ञाने द्विपञ्चाङ्गसमादाने युगपत् ।
[२५२।११-२५२।१२]
कस्यां गतौ कति कर्मपथा अकुशला कुशला वा संमुखीभावतः समन्वागमतो वा ।
[२५२।१३]
भिन्नप्रलापपारुष्यव्यापादा नरके द्विधा ।
[२५२।१४]
इत्येते त्रयः कर्मपथा नरके द्वाभ्यां सप्रकाराभ्यां सन्ति ।
[२५२।१४-२५२।१५]
संमुखीभावतः समन्वागमभावतश्च ।
[२५२।१५]
परिदेवनात्संभिन्नप्रलापः ।
परस्परपरितापनात्पारुष्यं रुक्षसंतानतया ।
[२५२।१६]
परस्परद्वेषाद्व्यापादः ।
[२५२।१७]
समन्वागमतोऽभिध्यामिथ्यादृष्टी ।
[२५२।१८]
न संमुखीभावतः ।
रञ्जनीयवस्त्वभावात्कर्मफलप्रत्यक्षत्वाच्च ।
[२५२।१८-२५२।१९]
कर्मक्षयेण मरणान्न प्राणातिपातः ।
[२५२।१९-२५२।२०]
द्रव्यस्त्रीपरिग्रहाभावान्नदत्तादानकाममिथ्याचारौ प्रयोजनाभावान्न मृषावादः ।
[२५२।२०]
अत एव न पैशुन्यं नित्यभिन्नत्वाच्च ।
[२५२।२१]
कुरौ त्रयः ॥ ४.८२ ॥
[२५२।२२]
समन्वागमत इति वर्तते ।
अभिध्याव्यापादमिथ्यादृष्टयो न संमुखीभावतः ।
[२५२।२३-२५२।२४]
अममापरिग्रहत्वात्स्निग्ध संतानत्वादाघातवस्त्वभावादपापाशयत्वाच्च ।
[२५२।२५]
सप्तमः स्वयमप्यत्र
[२५२।२६]
असंभिन्नप्रलापः संमुखीभावतोऽप्यस्ति ।
ते हि क्लिष्टचित्ताः कदाचित्गायन्ति ।
[२५३।०१]
अपापाशयत्वात्न प्राणतिपातादयः ।
[२५३।०१-२५३।०२]
नियतायुष्कत्वाद्द्रव्यस्त्रीपरिग्रहाभावात्प्रयोजनाभावाच्च ।
[२५३।०२]
कथमेषामब्रह्मचर्यम् ।
[२५३।०२-२५३।०३]
ते खलु यया स्त्रिया सार्धं रन्तुकामा भवन्ति तां बाहौ गृहीत्वा वृक्षमूलमुपसर्पन्ति ।
[२५३।०३-२५३।०४]
गम्या चेत्वृक्षश्छादयति तां ते गच्छन्ति ।
[२५३।०४]
अगम्या चेन्न छादयति तां ते न गच्छन्ति ।
[२५३।०५]
कामेऽन्यत्र दशाशुभाः ।
[२५३।०६]
स्वयमपीति वर्तते ।
[२५३।०६-२५३।०७]
नरकोत्तरकुरुभ्यामन्यत्र कामधातौ दशाकुशलाः कर्मपथाः संमुखीभावतोऽपि विद्यन्ते ।
[२५३।०७]
तिर्यक्प्रेतदेवेष्वसंवरनिर्मुक्ताः ।
[२५३।०७-२५३।०८]
मनुष्येष्वसंवरसंगृहीता अपि ।
[२५३।०८]
यद्यपि देवो देवं न मारयति अन्यगतिस्थं तु मारयति ।
[२५३।०८-२५३।०९]
देवा अपि शिरोमध्यच्छेदात्भ्रियन्त इत्यपरे ।
[२५३।०९]
उक्ता अशुभाः ।
[२५३।१०]
शुभास्त्रयस्तु सर्वत्र संमुखीभाव लाभतः ॥ ४.८३ ॥
[२५३।११-२५३।१२]
पञ्चसु गतिषु त्रैधातुके सर्वत्रानभिध्याऽव्यापादसम्यग्दृष्ट्यः संमुखीभावतः समन्वागमतश्च विद्यन्ते ।
[२५३।१३]
आरुप्यासंज्ञिसत्त्वेषु लाभतः सप्त
[२५३।१४]
कायिकवाचिकाः सप्त कुशला आरूप्येष्वसंज्ञिसत्त्वेषु समन्वागमत एव ।
[२५३।१४-२५३।१६]
आरूप्योओपपन्नानामार्याणामतीतानागतानास्रवसंवरसमन्वागमात् ।
[२५३।१६]
असंज्ञिसत्त्वानां च ध्यानसंवरसमन्वागमात् ।
[२५३।१६-२५३।१७]
यद्भूम्या श्रयमार्येणानास्रवं शीलमुत्पादितं निरोधितं भवति तेनारूप्येष्वतीतेन समन्वागतो भवति ।
[२५३।१८]
पञ्च भूम्याश्रयेण त्वनागतेन ।
[२५३।१९]
शेषिते ।
[२५३।२०]
संमुखीभावतश्चापि हित्वा सनरकान् कुरुन् ॥ ४.८४ ॥
[२५३।२१]
शेसः कृतः शेषितः ।
योऽन्यो धातुः शेषितो गतिर्वा ।
[२५३।२१-२५३।२२]
तत्रैते सप्त कुशलाः कर्मपथाः संमुखीभावतोऽपि संविद्यन्तेऽन्यत्र नरकोत्तरकुरुभ्यः ।
[२५३।२२-२५३।२३]
ते पुनस्तिर्यक्प्रेतेषु संवरनिर्मुक्ता रूपधातौ तु संवरसंगृहीता अन्यत्रोभयथा ।
[२५३।२३-२५३।२४]
त एते दशाकुशलाः कर्मपथाः कुशलाश्च
[२५३।२५]
सर्वेऽधिपतिनिष्यन्दविपाकफलदा मताः ।
[२५३।२६]
अकुशलैस्तावत्सर्वैरेवासेवितभावितबहुलीकृतैः नरकेष्रपपद्यते ।
तदेषां विपाकफलम् ।
[२५४।०१-२५४।०५]
स चेदित्थं त्वमागच्छति मनुष्याणां सभागतां प्रणातिपातेनाल्पायुर्भवति अदत्तादानेन भोगव्यसनी भवतिकाममिथ्याचारेन स संपन्नदारः मृषावादेनाभ्याख्यानबहुलः पैशुन्येन मित्रभेदोऽस्य भवति पारुष्येणामनोज्ञशब्दश्रवणं संभिन्नप्रलापेनानादेयवाक्यः अभिध्यया तीव्ररागः व्यापादेन तीव्रद्वेषः मिथ्यादृष्ट्या तीव्रमोहः ।
[२५४।०५]
तस्या मोहभूयस्त्वात् ।
इदमेषां निःष्यन्दफलम् ।
[२५४।०५-२५४।०६]
अल्पमप्यायुर्मनुष्येषु कुशलफलम् ।
[२५४।०६]
तत्कथं प्राणातिपातस्य निःष्यन्दफलं भवति ।
[२५४।०६-२५४।०७]
नोच्यते तदेवायुस्तस्य फलम्
[२५४।०७]
किं तर्हि ।
तेनाल्पायुर्भवतीति ।
[२५४।०७-२५४।०८]
अतोऽन्तरायहेतुः प्राणाति पातस्तस्यायुषो भवतीति वेदितव्यम् ।
[२५४।०८-२५४।०९]
प्राणातीपातेनात्यासेवितेन बाह्या भावा अल्पौजसो भवन्तीति ।
[२५४।०९-२५४।१२]
अदत्तादानेनाशनिरजोबहुलाः काममिथ्याचारेण रजोऽवकीर्णाः मृषावादेन दुर्गन्धाः पैशुन्येनोत्कूलनिकूलाः पारुष्येणोपरजाङ्गला प्रतिकुष्टाः पापभूमयः संभिन्नप्रलापेन विषमर्तुपरिणामाः अभिध्यया शुष्कफलाः व्यापादेन कटुकफला मिथ्यादृष्ट्याऽल्पफला अफला वा ।
[२५४।१२]
इदमेषामधिपतिफलम् ।
[२५४।१३]
किं तेनैव कर्मणाऽयमिहाल्पायुर्भवत्यथान्येन ।
तेनेवेत्येके ।
[२५४।१३-२५४।१४]
तद्विपाकफलमिदं निष्यन्दफलमिति ।
[२५४।१४]
तत्र प्रयोगेणेह मौलेल्नेत्येके ।
[२५४।१४-२५४।१५]
परे सपरिवारग्रहणात्तु प्राणातिपातेनेत्युक्तमिति ।
[२५४।१५]
यदप्येतन्निःष्यन्दफलमुक्तं नैतद्द्वयमतिवर्तते विपाकफलमधिपतिफलं च ।
[२५४।१६]
सादृश्यविशेषात्तु तथोक्तम् ।
[२५४।१६-२५४।१७]
किं पुनः कारणमेषां कर्मपथानामेतत्त्रिविधफलमभिनिवर्तते ।
[२५४।१७-२५४।१८]
प्राणातिपातं हि तावत्कुर्वता मार्यमाणस्य दुःखमुत्पादितं मारितमोजो नाशिमतोऽस्य
[२५४।१९]
दुःखनान्मारणादोजोनाशनात्त्रिविधं फलम् ॥ ४.८५ ॥
[२५४।२०]
परस्य दुःखनाद्विपाकफलेन नरके दुःखितो भवति ।
[२५४।२०-२५४।२१]
मारणन्निःष्यन्दफलेनाल्पायुर्भवति ।
[२५४।२१]
ओजोनाशनादधिपति फलेनाल्पौजसो बाह्या औषधयो भवन्ति ।
[२५४।२३]
एवमन्येष्वपि योज्यम् ।
[२५४।२३-२५४।२४]
एवं कुशलानामपि कर्मपथानां फलत्रयं वेदितव्यं प्राणातिपातविरत्या आसेवितया भावितया बहुलीकृतया देवेषुपपद्यते ।
[२५४।२४-२५४।२५]
स चेदित्थन्त्वमागच्छति मनुष्याणां सभागतां दीर्घायुर्भवतीत्यकुशलविपर्ययेण सर्वं योजयितव्यम् ।
[२५४।२५-२५४।२६]
यद्भगवता “मिथ्यावांिमथ्याकर्मान्तो मिथ्याजीव” इत्युक्तं कोऽयमन्यस्ताभ्यां मिथ्याजीवः ।
[२५४।२६]
नायमन्योऽस्ति ।
तदेव तु
[२५५।०१]
लोभजं कायवाक्कर्म मिथ्याजीवः
[२५५।०२]
द्वेषमोहजौ तु कायवाक्कर्मान्तौ ।
स चैष ताभ्यां
[२५५।०३]
पृथक्कृतः ।
[२५५।०४]
दुःशोधत्वात्
[२५५।०५]
हारी हि लोभधर्मः ।
तत्समुत्थात्कर्मणश्चित्तं न सुरक्ष्यम् ।
[२५५।०५-२५५।०६]
अत आजीवो दुःखशोध इत्यादरोत्पादनार्थं तत्रासौ पृथग्निर्दिष्टः ।
[२५५।०६]
आह चात्र
[२५५।०७-२५५।०८]
“दुःशोधा गृहिणां दृष्टिर्नित्यं विविधदृष्टिना ।
आजीवो भिक्षुणा चैव परेष्वायत्तदृष्टिने”ति ॥
[२५५।०९]
परिष्कारलोभोत्थं चेत्
[२५५।१०]
यो मन्यते जीवित्परिष्कारलोभोत्थमेव कायवाक्कर्म मिथ्याजीवोनान्यत् ।
[२५५।१०-२५५।११]
नह्यात्मरतिनिमित्तं नृत्तगीतादि आजीवयोग इति तत्
[२५५।१२]
न सूत्रतः ॥ ४.८६ ॥
[२५५।१३]
शीलस्कन्धिकायां हि भगवता हस्तियुद्ध दर्शनादीन्यपि मिथ्याजीवे न्यस्तानि ।
[२५५।१४]
किं कारणम् ।
मिथ्यविषयपरिभोगात् ।
गतमेतत् ।
[२५४।१५]
यानि पूर्वं पञ्च फलान्युक्तानि तेषां कतमत्कर्म कतिभिः फलैः प्रहाणम् ।
[२५५।१६]
प्रहाणमार्गे समले सफलं कर्म पञ्चभिः ।
[२५५।१७]
प्रहाणार्थं मार्गः प्रहीयन्ते वाऽनेन क्लेशा इति प्रहाणमार्गः आनन्तर्यमार्गः ।
[२५५।१८]
तस्मिन्सास्रवे यत्कर्म तत्पञ्चभिः फलैः सफलम् ।
[२५५।१८-२५५।१९]
तस्य हि विपाकफलं स्वभूमाविष्टो विपाकः ।
[२५५।१९]
निःष्यन्दफलं समाधिजा उत्तरे सदृशा धर्माः ।
[२५५।१९-२५५।२०]
विसंयोगफलं विसंयोग एव ।
[२५५।२०]
यत्तत्प्रहाणम् ।
[२५५।२०-२५५।२१]
पुरुषकारफलं तदाकृष्टा धर्मस्तद्यथाऽधिमुक्तिमार्गस्तत्सहभुवश्च ।
[२५५।२१]
यच्चानागतं भाव्यते तच्च प्रहाणम् ।
[२५५।२१-२५५।२२]
अधिपतिफलं स्वभावादन्ये सर्वसंस्काराः पूर्वोत्पन्नवर्ज्याः ।
[२५५।२३]
चतुर्भिरमले
[२५५।२४]
अनास्रवे प्रहाणमार्गे यत्कर्म तच्चतुर्भिः फलैः सफलं विपाकफलं हित्वा ।
[२५५।२५]
अन्यच्च सास्रवं यच्छुभाशुभम् ॥ ४.८७ ॥
[२५६।०१-२५६।०२]
यच्चान्यत्प्रहाणमार्गात्सास्रवं कुशलं कर्मं यच्चाकुशलं तदपि चतुर्भिर्विसंयोगफलं हित्वा ।
[२५६।०३]
अनास्रवं पुनः शेषां त्रिभिरव्याकृतं च यत् ।
[२५६।०४]
प्रहाणमार्गादन्यदनास्रवं कर्म अव्याकृतं च कर्म त्रिभिर्विपाकविसंयोगफले हित्वा ।
[२५६।०५]
चत्वारि द्वे तथा त्रीणि कुशलस्य शुभादयः ॥ ४.८८ ॥
[२५६।०६]
अनुक्रममिति पश्चाद्वक्ष्यति ।
[२५६।०६-२५६।०७]
कुशल्स्य कर्मणः कुशला धर्माश्चत्वारि फलानि विपाकफलं हित्वा ।
[२५६।०७]
अकुशला द्वे पुरुषकाराधिपतिफले ।
[२५६।०७-२५६।०८]
अव्याकृता स्त्रीणि निःष्यन्दविसंयोगफले हित्वा ।
[२५६।०८]
अशुभस्य शुभाद्या द्वे त्रीणि चत्वार्यनुक्रमम् ।
[२५६।१०]
यथाक्रममित्यर्थः ।
अकुशलस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफले ।
[२५६।११]
अकुशलास्त्रीणि विपाकविसंयोगफले हित्वा ।
[२५६।११-२५६।१२]
अव्याकृताश्चत्वारि विसंयोगफलं हित्वा ।
[२५६।१२-२५६।१३]
अव्याकृते हि सत्कायान्तग्राहदृष्टी अकुशलानां सर्वत्रगाणां दुःखदर्शन हेयानां च निःष्यन्दफलम् ।
[२५६।१४]
अव्याकृतस्य द्वे त्रीणि त्रीणि चैते शुभादयः ॥ ४.८९ ॥
[२५६।१५]
अव्याकृतस्य कर्मणः कुशला धर्मा द्वे पुरुषकाराधिपतिफलेल् ।
[२५६।१५-२५६।१६]
अकुशलाः त्रीणि विपाकविसंयोगफले हित्वा ।
[२५६।१६-२५६।१७]
अकुशला हि दुःखदर्शनादिहेया अव्याकृतयोर्दृष्ट्योनिःर्ष्यन्दफलम् ।
[२५६।१७]
अव्याकृता धर्मा एतान्येव त्रीणि ।
[२५६।१८]
सर्वेऽतीतस्य चत्वारि
[२५६।१९]
सर्व इति त्रैयध्विकाः ।
[२५६।१९-२५६।२०]
अतीतस्य कर्मणस्त्रैयद्विकाः धर्माश्चत्वारि फलानि ।
[२५६।२०]
विसंयोगफलल्ं हित्वा ।
[२५६।२१]
मध्यमस्याप्यनागताः ।
[२५६।२२]
प्रत्युत्पन्नस्यापि कर्मणोऽनागता धर्माश्चत्वाति फलान्येतान्येव ।
[२५६।२३]
मध्यमा द्वे
[२५६।२४]
प्रत्युत्पन्ना धर्माः प्रत्युपन्नस्य द्वे पुरुषकाराधिपतिफले ।
[२५६।२५]
अजातस्य फलानि त्रिण्यनागताः ॥ ४.९० ॥
[२५७।०१]
अनागतस्यानागतानि त्रीणि फलानि ।
निःष्यन्दविसंयोगफले हित्वा ।
[२५७।०२]
स्वभूमिधर्माश्चत्वारि
[२५७।०३]
स्वभूमिकस्य कर्मणः स्वभूमिका धर्माश्चत्वारि फलानि विसंयोगफलं हित्वा ।
[२५७।०४]
त्रीणि द्वे वाऽन्यभूमिकाः ।
[२५७।०५]
अन्यभूमिका धर्मा अनास्रवाश्चेत्त्रीणि फलानि ।
विपाकविसंयोगफले हित्वा ।
[२५७।०६]
धात्वपतितत्वात् ।
सास्रवाश्चेत्द्वे पुरुषकाराधिपतिफले ।
[२५७।०७]
शैक्षस्य त्रीणि शैक्षाद्याः
[२५७।०८]
शैक्षस्य कर्मणः शैक्षा धर्मास्त्रीणि फलानि विपाकविसंयोगफले हित्वा ।
[२५७।०८-२५७।०९]
अशैक्षा अप्येवम् ।
[२५७।०९]
नैवशैक्षानाशैक्षा अपि विपाकनिःष्यन्दफले हित्वा ।
[२५७।१०]
अशैक्षस्य तु कर्मणः ॥ ४.९१ ॥
[२५७।११]
धर्माः शैक्षादिका एकं फलं त्रीण्यपि च द्वयम् ।
[२५७।१२]
अशैक्षस्य कर्मणः शैक्षा धर्माः एकमधिपतिफलम् ।
[२५७।१२-२५७।१३]
अशैक्षास्त्रीणि विपाकविसंयोगफले हित्वा ।
[२५७।१३]
नैवशैक्षानाशैक्षा द्वे पुरुषकाराधिपतिफले ।
[२५७।१४]
ताभ्यामन्यस्य शैक्षाद्या द्वे द्वे पञ्च फलानि च ॥ ४.९२ ॥
[२५७।१५-२५७।१६]
शैक्षाशैक्षाभ्यामन्यस्य कर्मणो नैवशैक्षानाशैक्षस्य शैक्षा धर्मा द्वे पुरुषकाराधिपतिफले ।
[२५७।१६]
अशैक्षा अप्येवम् ।
नैवशैक्षानाशैक्षाः पञ्च फलानि ।
[२५७।१७]
त्रीणि चत्वारि चैकं च दृग्धेयस्य तदादयः ।
[२५७।१८]
दर्शनहेयस्य कर्मणोदर्शनहेया धर्मास्त्रीणि फलानि विपाकविसंयोगफलेहित्वा ।
[२५७।१९]
भावनाहेयाश्चत्वारि विसंयोगफलं हित्वा ।
अप्रहेया एकमधिपतिफलम् ।
[२५७।२०]
ते द्वे चत्वार्यथ त्रीणि भावनाहेयकर्मणः ॥ ४.९३ ॥
[२५७।२१]
भावनाहेयस्य कर्मणो दर्शनहेया धर्मा द्वे पुरुषकाराधिपतिफले ।
[२५७।२१-२५७।२२]
भावनाहेयाश्चत्वारि विसंयोगफलं मुक्त्वा ।
[२५७।२२]
अप्रहेयास्त्रीणि विपाकनिःष्यन्दफले मुक्त्वा ।
[२५७।२३]
अप्रहेयस्य ते त्वेकं द्वे चत्वारि यथाक्रमम् ।
[२५७।२४]
अप्रहेयस्य कर्मणो दर्शनहेया धर्मा एकमधिपतिफलम् ।
[२५७।२४-२५८।०१]
भावनाहेया द्वे पुरुषकाराधिपतिफले ।
[२५८।०१]
अप्रहेयाश्चत्वारि विपाकफलं मुक्त्वा ।
[२५८।०१-२५८।०२]
पुनर्यथाक्रमग्रहणमाद्यन्तवन्मध्येऽपि ज्ञापनार्थम् ।
[२५८।०२]
एष हि पेयालधर्मः ।
[२५८।०३]
कर्मनिर्देशप्रसङ्गेनेदमपि परिप्रश्न्यते ।
[२५८।०३-२५८।०४]
शास्त्रेषु अयोगविहितं योगविहितम्, नैवयोगविहितं नायोगविहितं च कर्मोक्तम् ।
[२५८।०४]
तस्य किं लक्षणम् ।
[२५८।०५]
अयोगविहितं क्लिष्टं विधिभ्रष्टं च केचन ॥ ४.९४ ॥
[२५८।०६]
क्लिष्टं कर्मायोगविहितमयोनिशोमनस्कारसंभूतत्वादित्येके ।
[२५८।०७]
विधिभ्रष्टमपीत्यपरे ।
[२५८।०७-२५८।०८]
येन यथा गन्तव्यं स्थातव्यं भोक्तव्यं प्रविचरितव्यमित्येवमादि ।
[२५८।०८]
तच्चान्यथा विदधाति ।
तदयुक्तविधानादयोगविहितमिति ।
[२५८।०८-२५८।०९]
कुशलं कर्मं योगविहितमविधिभ्रष्टं चेत्यपरे ।
[२५८।०९]
उभाभ्यामन्यन्नोभयथा ।
[२५८।०९-२५८।१०]
नैवयोगविहितं नायोगविहितम् ।
[२५८।११]
किमेकं कर्म एकमेव जन्माक्षिपति अथ नैकमपि ।
[२५८।११-२५८।१२]
तथा किमेकमपि कर्मैकं जन्माक्षिपत्यथानेकम् ।
[२५८।१२]
एष हि सिद्धान्तः ।
[२५८।१३]
एकं जन्माक्षीपत्येकम्
[२५८।१४]
एकमेव जन्माक्षिपत्येकमेव च कर्म नानेकं जन्मेति निकायसभागस्याख्या ।
[२५८।१४-२५८।१५]
तत्र हि लब्धे जात इत्युच्यते ।
[२५८।१५-२५८।१६]
यत्तर्हि स्थविरानिरुद्धेनोक्तं “सोऽहं तस्यैकपिण्डपातस्य विपाकेन सप्तकृत्वस्त्रयस्त्रिंशेषु देवेषूपपन्नो यावदेतह्य्राद्ये शाक्यकुले जात” इति ।
[२५८।१७]
तेन ह्यसौ समृद्विं लब्द्वा जातिस्मरः पुनरन्यत्पुण्यं कृतवान् ।
[२५८।१७-२५८।१८]
तत उत्थानं दर्शयति स्म ।
[२५८।१८-२५८।१९]
यथा मनुष्यो दीनारोत्थोऽनेन सहस्रं निर्विश्याह एकेन दीनारेणाहमैत दीश्वर्यं प्राप्त इति ।
[२५८।१९]
अपरे त्वाहुः ।
[२५८।१९-२५८।२०]
तस्य तं पिण्डपातमधिष्ठानं कृत्वा दानचेतनानां प्रवाहो महानुत्पन्नः कयाचित्किञ्चित्फलं परिगृहीतमिति ।
[२५८।२०-२५८।२१]
अनेकेनाप्येकमाक्षिप्यते मा भूत्खण्डशो निकायसभागस्याक्षेप इति ।
[२५८।२२]
एकेन तु कर्मणा क्लिष्टस्य निकायसभागस्येष्यते कर्म ।
[२५८।२३]
अनेकं परिपूरकम् ।
[२५८।२४]
यथा चित्रकर एकया वर्त्या रूपमालिख्य वह्वीभिः परिपूरयति ।
[२५८।२४-२५८।२६]
तथा हि तुल्ये मानुष्ये कश्चित्सकलेन्द्रियाङ्गप्रत्यङ्गो भवतिवर्णकृतिप्रमाणबलसंपदा विभ्राजमानः कश्चिदेषां केनचिद्विकलः ।
[२५८।२६]
न च केवलं कर्मैवाक्षेपकं जन्मनः ।
किं तर्हि ।
[२५८।२७]
अन्यदपि सविपाकम् ।
सर्वथा तु
[२५९।०१]
नाक्षेपिके समापत्ती अचित्ते प्राप्तयो न च ॥ ४.९५ ॥
[२५९।०२]
अविपाकाभ्यामप्यचित्तसमापत्तिभ्यां निकायसभागो नाक्षिप्यते ।
[२५९।०२-२५९।०३]
कर्मासहभूतत्वात् ।
[२५९।०३]
प्राप्तिभिश्च कर्मणोऽनेकफलत्वात् ।
[२५९।०४]
त्रिण्यावरणान्युक्तानि भगवता ।
कर्मावरणं क्लेशावरणं विपाकावरणं च ।
[२५९।०४-२५९।०५]
तेषां कः स्वभावः ।
[२५९।०६-२५९।०७]
आनन्तर्याणि कर्माणि तीव्रक्लेशोऽथ दुर्गतिः ।
कौरवासंज्ञिसत्त्वाश्च मतमावरणत्रयम् ॥ ४.९६ ॥
[२५९।०८]
पञ्चानन्तर्याणि कर्मावरणम् ।
[२५९।०८-२५९।०९]
तद्यथा मातृवधः पितृवधोऽर्हद्वधः संघभेदः तथागतश्रीरे दुष्टचित्तरुधिरोत्पादनम् ।
[२५९।०९]
तीव्रक्लेशता क्लेशावरणम् ।
द्विविधो हि क्लेशः ।
[२५९।१०]
तिव्रश्च य अभिक्ष्णिकः तीक्ष्णश्च योऽधिमात्रः ।
तत्र यस्तीव्रः स आवरणम् ।
[२५९।११]
यथा शण्ठादीनाम् ।
[२५९।११-२५९।१२]
शक्तो ह्यधिमत्रवेगोऽपि क्लेशः कादाचित्को निहन्तुं नतु समूहोऽप्याजस्रिकः ।
[२५९।१२-२५९।१३]
आजस्रिके हे क्लेशे तन्निर्घाताय पराक्रमकालं न लभते ।
[२५९।१३]
तस्य मृदुं प्रतीत्य मध्य उपजायते ।
मध्यं प्रतीत्याधिमात्रः ।
[२५९।१४-२५९।१५]
तस्मातेवावरणं त्रिविधा दुर्गतिः विपाकावरणं सुगतेश्च प्रदेशः औत्तरकौरवा असंज्ञिसत्त्वाश्च ।
[२५९।१५]
कस्यैतान्यावरणानि ।
[२५९।१५-२५९।१७]
आर्यमार्गस्यार्यमार्गप्रायोगिकाणां च कुशलमूलानामन्यान्यपि ह्यपायादिनियतानि अण्डजसंस्वेदजस्त्रीत्वाष्टमभवयतानि कर्माणि वक्तव्यानि स्युः ।
[२५९।१७-२५९।१९]
यान्येव तु पञ्चभिःकारणैः सुदर्शकानि पज्ञकानि अधिष्ठानतः फलतो गतितः उपपत्तितः पुद्गलतश्च तान्येवोक्तानि नान्यानि ।
[२५९।१९]
क्लेशावरणं चैषां सर्वजघन्यम् ।
ततः कर्मावरणम् ।
[२५९।१९-२५९।२०]
ताम्यां हि द्वितीयेऽपि जन्मन्यचिकित्सो भवत्युत्तरोत्तरावाहनादिति वैभाषिकाः ।
[२५९।२१]
आनन्तर्याणीति कोऽर्थः ।
[२५९।२१-२५९।२२]
नान्तरायितुं शक्यानि विपाकं प्रति जन्मान्तरफलेन कर्मान्तरेणेत्यानन्तर्याणि ।
[२५९।२२]
न तिरस्कर्तुमित्यर्थः ।
[२५९।२२-२५९।२३]
न वा तत्कारिणः पुद्गलस्येतश्च्युतस्यान्तरमस्ति नरकोपपत्तिगमनं प्रतीत्यनन्तरः ।
[२५९।२३]
तद्भाव आनन्तर्यम् ।
[२५९।२४]
यस्य धर्मस्य योगात्सोऽनन्तरो भवति ।
श्रामण्यवत् ।
[२५९।२५]
अथैषामावरणानां कतमत्कस्यां गतौ वेदितव्यम् ।
एकान्तेन तावत्
[२६०।०१]
त्रिषु द्वीपेष्वानन्तर्य
[२६०।०२]
नोत्तरकुरौ नान्यासु गतिषु ।
कुत एवान्यत्र धातौ ।
तेत्ष्वपि स्त्रिपुरुषाणामेव ।
[२६०।०३]
शण्डा दीनां तु नेष्यते ।
[२६०।०४]
किं कारणम् ।
तदेवासंवराभावे कारणमुद्दिष्टम् ।
अपि च
[२६०।०५]
अल्पोपकारालज्जित्वात्
[२६०।०६]
यथाक्रमं मातापित्रोस्तेषां च ।
अल्पोपकारौ किलैषां मातापितरौ ।
[२६०।०६-२६०।०७]
विकलात्मभावाधिपतित्वादल्पस्नेहत्वाच्च ।
[२६०।०७-२६०।०८]
तेषामपि न तीव्रं ह्यपत्राप्यं मातापित्रोरन्तिके प्रत्युपस्थितं यद्विपादनादानन्तर्येण स्पृश्येरन् ।
[२६०।०८]
अत एव तिर्यवप्रेतानामपि नेष्यते ।
[२६०।०९]
पटुबुद्धीनां स्यादश्वाजानेयवदिति भदन्तः ।
[२६०।०९-२६०।१०]
मनुष्यस्याप्यमानुषौ मातापितरौ मारयतो न स्यादानन्तर्यम् ॥
[२६०।१०]
उक्तं कर्मावरणम् ॥
[२६०।११]
शेषे गतिषु पञ्चसु ॥ ४.९७ ॥
[२६०।१२]
के पुनः शेषे ।
क्लेशविपाकावरणे ।
मनुष्येषु विपाकावरणम् ।
[२६०।१२-२६०।१३]
कौरवा देवेष्वसंज्ञिसत्त्वाः ।
[२६०।१३]
किंस्वभावान्यानन्तर्याणि ।
[२६०।१३-२६०।१४]
चत्वारि कायकर्म एकं वाक्कर्म त्रीणि प्राणातिपात एकं मृषावादः एकं प्राणातिपातप्रयोगः ।
[२६०।१४-२६०।१५]
अनुपक्रमधर्माणो हि तथागताः ।
[२६०।१५]
हेतौ फलोपचारात्संघभेद आनन्तर्यमुक्तम् ।
[२६०।१५-२६०।१६]
भिद्यते वाऽनेनेति कृत्वा ।
[२६०।१७]
संघभेदस्त्वसामग्रीस्वभावो विप्रयुक्तकः ।
[२६०।१८]
अक्लिष्टाव्याकृतो धर्मः
[२६०।१९]
असामग्री नान चित्तविप्रयुक्तः संस्कारोऽनिवृताव्याकृतः संघभेदः ।
[२६०।१९-२६०।२०]
स किमानन्तर्यं भविष्यति नैव च तेन भेत्ता समन्वागतः ।
[२६०।२०]
किं तर्हि ।
[२६०।२१]
संघस्तेन समन्वितः ॥ ४.९८ ॥
[२६०।२२]
यो हि भिन्नस्तस्य भेदो न भेत्तुः ।
अथ भेत्ता केन समन्वागतः ।
[२६०।२३]
सदवद्यमृषावादस्तेन भेत्ता समन्वितः ।
[२६०।२४]
संघभेदावद्येन भेत्ता समन्वागतः ।
तत्पुनर्मृषावादः ।
[२६०।२४-२६०।२५]
स पुनः संघभेदसहजे वाग्विज्ञप्त्यविज्ञप्ती ।
[२६०।२५]
स च तेनावद्येन समन्वागतो भेत्ता ।
[२६१।०१]
अवीचौ पच्यते कल्पन्
[२६१।०२]
अन्तरकल्पमवीचौ महानरके विपच्यते ।
अन्यैस्तु नावश्यमवीचौ ।
[२६१।०२-२६१।०३]
अथ येन बहुन्यानन्तर्याणि कृतानि भवन्ति अनन्तरमेव तानि विपच्यन्ते ।
[२६१।०३-२६१।०४]
किं तु तैस्तस्य भवति ।
[२६१।०५]
अध्हिकैरधिका रुजः ॥ ४.९९ ॥
[२६१।०६-२६१।०७]
सहि भूयोभिरानन्तर्यैस्तस्मिन्नवीचौ घनतरं सुकुमारतरं चाश्रयं लभते कारणाश्च बहुतरास्तीव्रतराश्च येन द्वित्रिचतुष्पञ्चगुणां वेदनां वेदयते ।
[२६१।०७-२६१।०८]
कः पुनरेष संघं भनत्ति ।
[२६१।०९]
भिक्षुर्दु क्वचरितो वृत्ती भिनत्ति ।
[२६१।१०]
भिक्षुर्भिनत्ति न गृही न भिक्षुण्यादयः ।
स च दृष्टिचरित एव न तृष्णाचरितः ।
[२६१।११]
ऋतस्थो न भिन्नवृत्तस्तस्यानादेयवाक्यत्वात् ।
क्व भिनत्ति ।
[२६१।१२]
अत्र भगवान् संनिहितस्ततः ।
[२६१।१३]
अन्यत्र
[२६१।१४]
नहि शास्तुरेव संनिधौ शक्यो भेत्तुम् ।
तथागतानां दुष्प्रसहत्वादादेयवाक्यत्वाच्च ।
[२६१।१५]
कान् भिनत्ति ।
[२६१।१६]
बालिशान् ।
[२६१।१७]
पृथग्जनानेव नार्यान् प्रत्यक्षधर्मत्वात् ।
तानपि न क्षान्तिलाभिन इत्यपरे ।
[२६१।१७-२६१।१८]
कियता भिन्नः संघो भवति ।
[२६१।१९]
शास्तृमार्गान्तरक्षान्तौ भिन्नः
[२६१।२०-२६१।२१]
यदा तेभ्यस्तथागतादन्यः शास्ता क्षमते तदुपदिष्टाच्च मार्गादन्यो मार्ग इयता भिन्नः संघो वक्तव्यः ।
[२६१।२१]
कियन्तं कालं भिन्न आस्ते ।
तामेव रात्रिं
[२६१।२२]
न विवसत्यसौ ॥ ४.१०० ॥
[२६१।२३]
अपर्युषित एव हि संघभेदे संघोऽवश्यं प्रतिसंधीयते ।
योऽयं संघभेद उक्तः
[२६१।२४]
चक्रभेदः स च मतः
[२६१।२५]
धर्मचक्रं हि तदा भगवतो भिन्नं भवति ।
मार्गप्रवृत्तिविष्ठापनात् ।
[२६१।२५-२६१।२६]
अत एव चक्रादश्चोच्यते संघभेदश्च ।
[२६१।२६]
क्व पुनश्चक्रभेदो भवति ।
[२६२।०१]
जम्बूद्वीपे
[२६२।०२]
नान्येषु द्वीपेषु ।
कतिभिर्भिक्षुभिः ।
[२६२।०३]
नवादिभिः ।
[२६२।०४]
नवादिं कृत्वा ।
परेणानियमः ।
अष्टौ भिक्षयः संघो भवति ।
नवमो भेत्ता ।
[२६२।०४-२६२।०५]
अवश्यं हि संघेन द्वयोःपक्षयोः स्थातव्यम् ।
[२६२।०५]
एवं भिन्नो भवति ।
[२६२।०५-२६२।०६]
अन्यस्तु संघभेदः कर्मभेदाद्भवति ।
[२६२।०६]
यद्येकसीमायां व्यग्राः कर्म कुर्वन्ति ।
स चैष
[२६२।०७]
कर्मभेदस्त्रिषु द्वीपेषु
[२६२।०८]
येष्वेव शासनम् ।
कतिभिर्भिक्षुभिः
[२६२।०९]
अष्टाभिरधिकैश्च सः ॥ ४.१०१ ॥
[२६२।१०]
चक्रभेदस्तु षट्सु कालेषु न भवति ।
कतमेषु ।
[२६२।११-२६२।१२]
आदावन्तेऽर्बुदात्पूर्वं युगाच्चोपरते मुनौ ।
सीमायां चाप्यबद्धायां चक्रभेदो न जायते ॥ ४.१०२ ॥
[२६२।१३]
आदावचिरप्रवर्तिते धर्मचक्रे ।
अन्ते परिनिर्वाणकाले भगवतः ।
[२६२।१३-२६२।१४]
एतयोर्हि द्वयोरवस्थयोः संघ एकरसो भवति ।
[२६२।१४-२६२।१५]
मध्येऽप्यर्बुदात्पूर्वं न भिद्यते यावच्छासने शीलार्बुदं दृष्ट्यर्बुदं च नोत्पन्नं भवति ।
[२६२।१५-२६२।१६]
युगाच्च पूर्वं न भिद्यते यावच्छ्रावकाग्रयुगं नोत्पन्नं भवति ।
[२६२।१६]
भिन्नन्यायपरिवासात्तेन च प्रतिसंधानीयत्वात् ।
[२६२।१६-२६२।१७]
उपरते मुनौ शास्तरि परिनिर्वृते प्रतिद्वन्द्वाभावात् ।
[२६२।१७-२६२।१८]
सीमायामबद्धायां यावत्सीमा न बद्धा भवति ।
[२६२।१८-२६२।१९]
एकसीमायां हि पक्षद्वयावस्थानात्संघभेद इत्येषु कालेसु चक्रभेदोन भवति ।
[२६२।१९]
न च पुनः सर्वेषां बद्धानां चक्रभेदः ।
कर्माधीनत्वात् ।
[२६२।२०]
कस्मात्मातृवधादिष्वानन्तर्यं नान्यत्र ।
[२६२।२१]
उपकारियुणक्षेत्रनिराकृतिविपादनात् ।
[२६२।२२]
मातापितृवधे तावदुपकारिणो निराकरणात् ।
कथं तावुपकारिणौ ।
[२६२।२२-२६२।२३]
आत्मभावस्य तत्प्रभवत्वात् ।
[२६२।२३]
किं तयोर्निराकरणम् ।
परित्यागः ।
गुणक्षेत्रत्वादर्हद्वधादानन्तर्यम् ।
[२६२।२४-२६२।२५]
यदि पुनर्मातुर्व्यञ्जनं परिवृत्तं स्यात्पितुर्वा तत्रैकस्मिन्नाम्नायो
[२६३।०१]
व्यञ्जनान्तरितोऽपि स्यात्
[२६३।०२]
अत एवोच्यते “स्यात्पुरुषं जीविताद्वच्यपरोपयेन्न पितरं नार्हन्तम् ।
[२६३।०२-२६३।०३]
आनन्तर्यावद्येन च स्पृश्येत ।
[२६३।०३]
स्यान्मातुर्व्यञ्जनं परिवृत्तं स्यादिति ।
[२६३।०३-२६३।०४]
स्यात्स्त्रीं जीविताद्व्यपरोपयेन्न मातरं नार्हन्तीमानन्तर्यावद्येन च स्पृश्येत ।
[२६३।०४-२६३।०५]
स्यात्पितुर्व्यञ्जनं परिवृत्तं स्यादि”ति ।
[२६३।०५]
अन्यस्याः स्त्रियाः कललं प्रस्रुतमन्यया योन्या पीतम् ।
[२६३।०५-२६३।०६]
कतरा तस्य माता यां घ्नतः स्यादानन्तर्यम् ।
[२६३।०७]
माता यच्छोणितोद्भवः ॥ ४.१०३ ॥
[२६३।०८]
यस्याः शोणितादसावुद्भूतः सत्त्वः साऽस्य माता द्वितीया तु सर्वकृत्येष्ववलोक्या ।
[२६३।०९]
सा ह्यापायिका पोषिका संवर्धिका च ।
[२६३।०९-२६३।१०]
यदि मातरि प्रयोगं कृत्वाऽन्यां मारयेन्न स्यादानन्तर्यम् ।
[२६३।१०]
अमातृप्रयोगेण मारयेत्तथापि न स्यात् ।
[२६३।१०-२६३।११]
मञ्चतलावलीनमातृमारणं चात्रोदाहार्य धावकस्य च पुत्रेण मसक प्रयोगेण पितुर्मारणं च ।
[२६३।११-२६३।१२]
एकेन प्रहारेण मातरमन्यां च मारयतो द्वे अविज्ञप्ती भवतः ।
[२६३।१२]
विज्ञप्तिस्त्वानन्तर्यमेव ।
[२६३।१३]
तस्य कर्मणो बलीयस्त्वात् ।
परमाणुसंचितत्वाद्विज्ञप्तिरपि द्विधेति भदन्तघोषकः ।
[२६३।१४-२६३।१५]
अनर्हत्संज्ञयाऽपि अर्हद्घाते भवत्यानन्तर्यमहं हन्मीत्याश्रयावधारणात् ।
[२६३।१५]
यः पितरमर्हन्तं हिंस्यात्तस्याप्येकमेव स्यादानन्तर्यमाश्रयैकत्वात् ।
[२६३।१६]
इदमवदानं कथं नीयते “गच्छ शिखण्डिनं ब्रूहि द्वे आनन्तर्ये भवता कृते ।
[२६३।१६-२६३।१७]
यच्च पिता जीविताद्व्यपरोपितो यच्चार्हन्नि”ति ।
[२६३।१७]
द्वाभ्यां कारणाभ्यामिति वक्तव्यम् ।
[२६३।१८]
द्वाभ्यां वा मुखाभ्यां परिभाषितः ।
[२६३।१८-२६३।१९]
किमवश्यं तथागतस्यास्ति कुटुष्टचित्तरुधिरोत्पादनादानन्तर्यम् ।
[२६३।१९]
वधाभिप्रायस्य स्यात् ।
[२६३।२०]
बुद्धे न ताडनेच्छस्य
[२६३।२१]
यदि ताडनाभित्राय उत्पादयेन्न स्यात् ।
यद्यनर्हति प्रहरेत्स च प्रहारादूर्ध्वमर्हन् स्यात्
[२६३।२२]
प्रहारान्नोर्ध्वमर्हति ।
[२६३।२३]
स्यादानन्तर्यमिति वर्तते ।
नहि तेन तत्र प्रयोगः कृतः ।
[२६३।२३-२६३।२४]
किमानन्तर्ये प्रयोगं कृत्वा तस्मिन्नव्यावर्तिते वैराग्यं फलं वा न प्राप्नुयात् ।
[२६३।२५]
नानन्तर्यप्रयुक्तस्य वैराग्यफलसंभवः ॥ ४.१०४ ॥
[२६४।०१-२६४।०२]
अन्यकर्मफलपथप्रयोगं तु कृत्वार्यमार्गोत्पत्तौ न पुनः कर्मपथोत्पत्तिराश्रयस्यात्यन्तं तद्विरुद्धत्वात् ।
[२६४।०३]
एषामानन्तर्याणां कतमत्महासावद्यम् ।
[२६४।०४]
संघमेदे मृषावादो महावद्यतमो मतः ।
[२६४।०५-२६४।०६]
यः संघभेदनिमित्तं मृषावादो धर्माधर्मज्ञस्य विपर्ययद्योतनात्स सर्वेषां दुश्चरितानां महावद्यतमः ।
[२६४।०६]
किं कारणम् ।
[२६४।०६-२६४।०७]
तथागतधर्मशरीरप्रहारितत्वात्लोकानां च स्वर्गापवर्गमार्गान्तरायकत्वात् ।
[२६४।०७-२६४।१०]
संघे हि भिन्ने लोकस्य नियामावक्रन्तिफलप्राप्तिवैराग्यास्रवक्षयाः प्रतिबध्यन्ते ध्यानाध्ययनस्वाध्यायचिन्ताकर्माण्यपि न प्रवर्तन्ते सदेवनागमनुष्यं जगच्चाकुलं विमनस्कं वर्तते यावत्पुनर्न प्रतिसंधितो भवतियस्माच्चाविचौ कल्पं विपाकः ।
[२६४।१०-२६४।११]
शेषाणामानन्तर्याणां यथाक्रमं पञ्चमतृतीयप्रथमानि गुरुतराणि सर्वलघुः पितृवधः ।
[२६४।११-२६४।१३]
यत्तर्हि भगवता त्रयाणां दण्डानां मनोदण्डो महासावद्य उक्तः पुनर्मिथ्यादृष्टिः परमवद्यानामित्युक्तमानन्तर्याणि नियमस्य संघभेदो महासावद्य उक्तः ।
[२६४।१३-२६४।१४]
त्रीणि कर्माणि नियमय्य मनोदण्दः दृष्टीर्नियमय्य मिथ्यादृष्टिः ।
[२६४।१४-२६४।१५]
अथवा विपाकविस्तरं महाजनव्यापादनं कुशलमूलसमुच्छेदं चाधिकृत्य यथाक्रमम् ।
[२६४।१६]
सुचरितानां पुनः कतमत्महाफलतमम् ।
[२६४।१७]
भवाग्रचेतना लोके महाफलतमा शुभे ॥ ४.१०५ ॥
[२६४।१८]
कुशले पुनः कर्मणि भवाग्रचेतना सर्वेषां महाफलतमा ।
[२६४।१८-२६४।१९]
तस्या अशीतिकल्पसहस्राण्यतिप्रशान्तो विपाकः ।
[२६४।१९]
विपाकफलं चाधिकृत्यैतदुक्तम् ।
[२६४।१९-२६४।२१]
विसंयोगफलं त्वधिकृत्य वज्रोपमसमाधिचेतना सर्वेषां महाफला सर्वसम्योजनपर्यादानफलत्वात् ।
[२६४।२१]
अत एव लोक इत्युक्तम् ।
[२६४।२२]
किमानन्तर्यैरेवावश्यं नरकेषूपपद्यते ।
आनन्तर्यसभागैरप्यवश्यमुपपद्यते ।
[२६४।२३]
नत्वनन्तरमेवेत्यपरे ।
कतमानि तानीत्याह
[२६४।२४-२६४।२५]
दूषणं मातुरर्हन्त्या नियतिस्थस्य मारणम् ।
बोधिसत्त्वस्य शैक्षस्य संघायद्वारहारिका ॥ ४.१०६ ॥
[२६५।०१]
आनन्तर्यसभागानि पञ्चमं स्तूपभेदनम् ।
[२६५।०२]
एतानि पञ्च पञ्चानामानत्नर्याणां यथाक्रमं सभागानि ।
[२६५।०२-२६५।०४]
यदि मातरमर्हन्तीं दूषयत्यब्रह्मचर्यकरणात्नियतिपतीतं बोधिसत्त्वं मारयति शैक्षं मारयति संघस्य सुखायद्वारिकं हरति स्तूपभेदं करोति ।
[२६५।०४-२६५।०५]
अन्यदपि तु कर्म सविपाकं त्रिषु कालेष्वत्यर्थं विघ्नयति ।
[२६५।०५]
कतमेषु त्रिसु ।
[२६५।०६]
क्षान्त्यनागामितार्हत्त्वप्राप्तौ कर्मातिविघ्नकृत् ॥ ४.१०७ ॥
[२६५।०७]
मूर्धभ्यः क्षान्तिमाकिरत आपायिकानि कर्माणि विघ्नायोपतिष्ठन्ते ।
[२६५।०७-२६५।०८]
तद्विपाकभूम्यतिक्रमात् ।
[२६५।०८]
यथा पुरुषस्य देशत्यागं कुर्वतो धनिका उपतिष्ठन्ते ।
[२६५।०८-२६५।१०]
अनागामिफलं प्राप्नुवतः कामावचराणि विघ्नायोपतिष्ठन्ते तथैव स्थापयित्वा दृष्टधर्मवेदनीयं कर्म ।
[२६५।१०]
अर्हत्त्वं प्राप्नुवतो रूपारूप्यावचराणि तथैव ।
[२६५।१०-२६५।११]
यदुक्तं “बोधिसत्त्वस्य मारण”मिति
[२६५।१२]
बोधिसत्त्वः कुतो यावत्
[२६५।१३]
कुत उपादाय बोधिसत्त्वोवक्तव्यः ।
[२६५।१४]
यतो लक्षण कर्मकृत् ।
[२६५।१५-२६५।१६]
यतः प्रभृति लक्षणविपाकानि कर्माण्यारभते कर्तुं स हि तदानीं नियतिपतितो भवति ।
[२६५।१६]
कथं कृत्वा ।
स हि तस्मात्कालात्प्रभृति नित्यं भवति ।
[२६५।१७]
सुगतिः कुलजोऽव्यक्षः पुमान् जातिस्मरोऽनिवृत् ॥ ४.१०८ ॥
[२६५।१८]
प्रशस्ता गतिरस्येति सुगतिर्देवमनुष्योपपत्तेः ।
[२६५।१८-२६५।१९]
तस्यां च सुगतौ क्षत्रियब्राह्मणगृहपतिमहाशालकुलजो भवति नान्यः कुलीनः ।
[२६५।१९]
विकलान्यक्षाण्यस्येति व्यक्षः ।
[२६५।२०]
न व्यक्षोऽव्यक्षः अविकलेन्द्रियः इत्यर्थः ।
पुरुष एव न स्त्री कुत एव शण्ढादिः ।
[२६५।२१]
जातिस्मरश्च भवति ।
सर्वस्यां जातौ निवर्तत इति निवृत् ।
न निवृदनिवृत् ।
[२६५।२२]
अनिवर्तक इत्यर्थः ।
[२६५।२२-२६५।२३]
सत्त्वहितार्थं सर्वदुःखप्रकारैः सर्वसत्त्वविप्रतिपत्तिभिश्चाखेदितत्वात् ।
[२६५।२३]
यत्तल्लोक उच्यते “अपणक्रीतो दास” इति ।
[२६५।२३-२६५।२६]
बोधिसत्त्वास्ते ते हि महात्मानः सर्वसंपत्प्रकर्षविशेषप्राप्ता अपि सन्तो निष्कारणकरुणापारतन्त्र्यात्सर्वसत्त्वेषु चण्डालकुमारकसदृशमात्मानं निर्मानतया व्यवस्थाप्य सत्त्वेभ्यः सर्वकदर्थानां सोढारो भवन्ति सर्वश्रमयन्त्रणानां चोद्वोढारः ।
[२६५।२६-२६५।२७]
यच्चैतल्लक्षणविपाकं कर्मेत्युक्तम् ।
[२६६।०१-२६६।०२]
जम्बूद्वीपे पुमानेव संमुखं बुद्धचेतनः ।
चिन्तामयं कल्पशते शेष आक्षिपते हि तत् ॥ ४.१०९ ॥
[२६६।०३]
जम्बूद्वीप एव बोधिसत्त्वो लक्षणविपाकं कर्माक्षिपति ।
नान्यत्र ।
[२६६।०३-२६६।०४]
जाम्बूद्वीपकानां तीक्ष्णबुद्धित्वात् ।
[२६६।०४]
पुरुष एव न स्त्री ।
[२६६।०४-२६६।०५]
संमुखीभूत एव शास्तरि बुद्धालम्बनयैव चेतनया चिन्तामयं तत्कर्म न श्रुतमयं न भावनामयम् ।
[२६६।०५-२६६।०६]
कल्पशते च शेष आक्षिपति न बहुभवेसु ।
[२६६।०६-२६६।०७]
भगवता तु शाक्यमुनिनोत्तप्तवीर्यतया नव कल्पा अपावर्तिता एकनवत्या कल्पैराक्षिप्तम् ।
[२६६।०७-२६६।०९]
अत एव चोक्त “मितोऽहं ग्रामणीरेकनवतं कल्पमुपादाय न समनुस्मरामि नाभिजानामि यदेककुलमपि पक्षभिक्षाप्रदानहेतोः क्षतं वा स्यादुपहतं वे”ति ।
[२६६।०९-२६६।११]
ततः प्रभृति प्रकृतिजातिस्मरत्वात्प्रथमकल्पासंख्येयनिर्यात एव बोधिसत्त्व एतांश्चतुरो दोषान् व्यावर्तयति द्वौ च गुणो प्रतिलभत इति पूर्वाचार्याः ।
[२६६।११]
तेषां च लक्षणानाम्
[२६६।१२]
एकैकं पुण्यशतजम्
[२६६।१३]
किं पुण्यस्य परिमाणम् ।
[२६६।१३-२६६।१४]
संनिकृष्टबोधिसत्त्वं स्थापयित्वा यावत्सर्वसत्त्वानां भोगफलमित्येके ।
[२६६।१४-२६६।१५]
यावत्सर्वसत्त्वानां कर्माधिपत्येन त्रिसाहस्रमहासाहस्रको लोकोऽभिनिवर्तत इत्यपरे ।
[२६६।१५]
बुद्धा एव च तत्परिमाणज्ञा इत्यपरे ।
[२६६।१५-२६६।१६]
अथ बोधिसत्त्वभूतो भगवान् कियतो बुद्धान् पर्युपासयामास ।
[२६६।१६-२६६।१७]
प्रथेमे कल्पासंख्येये पञ्चसप्ततिसहस्राणि द्वितीये षट्सप्ततिं तृतीये सप्तसप्ततिम् ।
[२६६।१८]
अथ कस्य कल्पासंख्येयस्यान्ते कतमो बुद्ध आसीत् ।
[२६६।१८-२६६।१९]
प्रतिलोमानुक्रमेण यथाक्रमम् ।
[२६६।२०]
असंख्येयत्रयान्त्यजाः ।
[२६६।२१]
विपश्यी दीपकृद्रत्नशिखी
[२६६।२२]
रत्नशिखिनि सम्यक्संबुद्धे प्रथमोऽसंख्येयः समाप्तः ।
दीपङ्करे भगवति द्वितीयः ।
[२६६।२३]
विपश्यिनि तथागते तृतीयः ।
सर्वेषां तु तेषां
[२६६।२४]
शास्यमुनिः पुरा ॥ ४.११० ॥
[२६६।२५]
शाक्यमुनिर्नाम सम्यक्संबुद्धः पूर्वं वभूव ।
[२६६।२५-२६७।०२]
यत्र भगवता बोधिसत्त्वभूतेनाद्यं प्रणिधानं कृतमेवंप्रकार एवाहं बुद्धो भवेयमिति नोऽप्येवं कलियुग एवोत्पन्नवानार्यवत्तस्याप्येवं वर्ष सहस्रान्तं शासनं बभूव ।
[२६७।०३]
अथ कस्यामवस्थावां बोधिसत्त्वः कां पारमितां परिपूरयते ।
[२६७।०४]
सर्वत्र सर्वं ददतः कारुण्याद्दानपूरणम् ।
[२६७।०५-२६७।०६]
यदा सर्वस्मै सर्वं ददाति आ अक्ष्णः आ मज्जायाः कारुण्यान्नाभ्युदयविशेषं लिप्समानः इयता दानपारमिता परिपूर्णा भवति ।
[२६७।०७]
अङ्गच्छेदेऽप्यकोपात्तु रागिणः क्षान्तिशीलयोः ॥ ४.१११ ॥
[२६७।०८-२६७।०९]
यदाऽयमवीतरागोऽपि च्छिद्यमानेष्वङ्गेषु नाल्पमपि कुप्यति तदाऽस्य क्षान्तिशीलपारमिते परिपूर्णे भवतः ।
[२६७।१०]
तिष्यस्तोत्रेण वीर्यस्य
[२६७।११-२६७।१२]
तिष्यं तथागतरत्नगुहायां तेजोधातुसमापन्नदृष्ट्या भगवान् बोधिसत्त्वभूत एकेन पादेन स्थित्वा सप्त दिवसान् स्तुतवानेकगाथया
[२६७।१३-२६७।१६]
“न दिवि भुवि वा नास्मिन् लोके न वैश्रवणालये ।
न मरुभवने दिव्ये स्थाने न दिक्षु विदिक्षु वा ॥
चरतु वसुधां स्फीतां कृत्स्नां सपर्वतकाननाम् ।
पुरुषवृषभस्त्वत्तुल्योऽन्यो महाश्रमणः कुत” इति ॥
[२६७।१७]
तदा किल वीर्यपारमिता परिपूर्णा नव च कल्पाः प्रत्युदावर्तिताः ।
[२६७।१८]
धीसमाध्योरनन्तरम् ।
[२६७।१९-२६७।२०]
बोधेः पूर्वसमनन्तरं ध्यानप्रज्ञापारमितयोः परिपूरिर्वज्रोपमसमाधौ स्वस्याः संपदः पारगमनात्पारमिताः ।
[२६७।२१]
सूत्र उक्तं “त्रीणि पुण्यक्रियावस्तूनि ।
[२६७।२१-२६७।२२]
दानमयं पुण्यक्रियावस्तु शीलमयं भावनामयमि”ति ।
[२६७।२२]
कथमेतत्त्रयं पुण्यक्रियावस्तु ।
[२६७।२३]
पुण्यं क्रियाऽथ तद्वस्तु त्रयं कर्मपथा यथा ॥ ४.११२ ॥
[२६७।२४]
पुण्यमप्येतत्त्रयं क्रियाऽपि वस्त्वपि यथायोगमिति पुण्यक्रियावस्तु ।
[२६७।२४-२६८।०१]
तद्यथा कर्म च ते पन्थानश्च पन्थान एव च कर्मण इति कर्मंपथा उक्ताः ।
[२६८।०१-२६८।०२]
तत्र दानमये तावत्पुण्यक्रियावस्तुनि कायवाक्कर्म त्रिधा भवति ।
[२६८।०२-२६८।०३]
तत्समुत्थापिका चेतना पुण्यं च क्रिया च ।
[२६८।०३]
तत्सहभुवो धर्माः पुण्यमेव ।
शीलमयं तु कायवाक्कर्मैवेति त्रिधा भवति ।
[२६८।०४]
भावनामयो मैत्री पुण्यं च पुण्यक्रियायाश्च वस्तु ।
[२६८।०४-२६८।०६]
तत्संप्रयुक्तायाश्चेतनाया मैत्रीमुखेनाभिसंस्करणात्तत्सहभुवश्चेतना शीलं च पुण्यं च क्रिया च ।
[२६८।०६-२६८।०७]
अन्ये तत्सहभुवः पुण्यमेव पुण्यस्य वा कारणं पुण्यक्रिया पुण्यप्रयोगस्तस्या एतानि त्रीणि वस्तूनि ।
[२६८।०७]
एषां संपादनार्थं पुण्यप्रयोगारम्भादिति ।
[२६८।०७-२६८।०८]
कुशलचेतनापरमार्थेन पुण्यक्रिया ।
[२६८।०८]
तस्या एतानि वस्तूनीत्यपरे ।
[२६८।०९]
किमिदं दानं नाम ।
यदपि दीयते दद्दानम् ।
इह तु
[२६८।१०]
दीयते येन दद्दानं
[२६८।११]
भवति स्म ।
रागादिभिरपि दीयते ।
न चात्र तदिष्टम् ।
अतो विशेषणार्थमाह
[२६८।१२]
पूजानुग्रहकाम्यया ।
[२६८।१३]
परेषां पूजानुग्रहकामताभ्यां येन दीयते ।
किं पुनस्तत्स्याद्येन दीयते ।
[२६८।१४]
कायवाक्कर्म सोत्थानं
[२६८।१५]
किं पुनस्तदुत्थानम् ।
येन कलापेन तदुत्थाप्यते ।
आह चात्र
[२६८।१६-२६८।१७]
शुभेन मनसा द्रव्यं स्वं ददाति यदा पुमान् ।
तत्क्षणं कुशलाः स्कन्धाः दानमित्यभिधीयते ॥” इति ।
[२६८।१८]
महाभोग्यफलं च तत् ॥ ४.११३ ॥
[२६८।१९]
तच्चैतद्दानमयं पुण्यक्रियावस्तु महाभोग्यफलम् ।
स्वभावे चैष मयड्वेदितव्यः ।
[२६८।२०]
तद्यथा तृणमयं गृहं पर्णमयं भाजनमिति ।
तत्खल्वेतद्दानं
[२६८।२१]
स्वपरार्थोभयार्थाय नोभयार्थाय दीयते ।
[२६८।२२-२६८।२३]
तत्र यदवीतरागः आर्यः पृथग्जनो वा वीतरागश्चैत्ये दानं ददाति तदस्यात्मन एवार्थाय ।
[२६८।२३]
परेषां तेनानुग्रहाभावात् ।
[२६८।२३-२६९।०१]
यदार्यो वीतरागः परसत्त्वेभ्यो दानं ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तत्र दानं परेषामर्थाय ।
[२६९।०१-२६९।०२]
तेन तेषामनुग्रहात् ।
[२६९।०२]
नात्मनोऽर्थाय ।
तद्विपाकभूमेरत्यन्तसमतिक्रान्तत्वात् ।
[२६९।०२-२६९।०३]
यदवीतरागः पृथग्जनो वा वीतरागः परसत्त्वेभ्यो ददाति तद्दानमुभयेषामर्थाय ।
[२६९।०३-२६९।०४]
यदार्यो वीतरागश्चैत्ये ददाति स्थापयित्वा दृष्टधर्मवेदनीयं तद्दानमुभयेषां नार्थाय ।
[२६९।०४-२६९।०५]
तद्धि केवलं गौरवं कृत्ज्ञाभ्यां दीयते ।
[२६९।०५]
सामान्येन दानं महाभोग्यफलमुक्तम् ।
[२६९।०६]
तद्विशेषः पुनर्दातृवस्तुक्षेत्रविशेषतः ॥ ४.११४ ॥
[२६९।०७]
तत्र तावत्
[२६९।०८]
दाता विशिष्टः श्रद्धाद्यैः
[२६९।०९]
श्रद्धाशीलश्रुतादिगुणयुक्तो दाता विशिष्टो भवति ।
[२६९।०९-२६९।१०]
तस्य तद्दानदातृविशेषेण फलदानं प्रतिविशिष्यते ।
[२६९।१०]
स च तादृशो दाता
[२६९।११]
सत्कृत्यादि ददाति
[२६९।१२]
सत्कृत्य स्वहस्तं काले परानुपहत्य ददाति ।
[२६९।१३]
अतः ।
[२६९।१४]
सत्कारोदाररुचिता कालानाच्छेद्यलाभिता ॥ ४.११५ ॥
[२६९।१५]
अतोऽस्य दातुस्तत्तादृशं दानं दत्त्वा यथाक्रमं चत्वारो विशेषा भवन्ति ।
[२६९।१५-२६९।१६]
सत्कारलाभी भवति ।
[२६९।१६]
उदारेषु च भोगेषु रुचिं लभते ।
[२६९।१६-२६९।१७]
कालेल्न च भोगान् लभते नातिक्रान्तिकालेन ।
[२६९।१७]
अनाच्छेद्यांश्च भोगान् लभते ।
[२६९।१७-२६९।१८]
नास्य भोगाः परैराच्छाद्यन्ते नाप्यग्न्यादिभिर्विनाश्यन्ते ।
[२६९।१८-२६९।१९]
उक्तं यथा दाता विशिष्यते तद्विशेषाच्च दानविशेषः ।
[२६९।२०]
अथ वस्तु कथं विशिष्यते ।
[२६९।२१]
वर्णादिसम्पदा वस्तु
[२६९।२२]
विशिष्टमिति वर्तते ।
[२६९।२२-२६९।२३]
यदि यद्दीयते दद्वर्णगन्धरसस्पर्शानामन्यतमेनापि संपन्नं भवति ।
[२६९।२३]
एवं वस्तु विशिष्यते ।
तादृशं वस्तु दत्त्वा किं भवति ।
यथाक्रमम्
[२६९।२४-२६९।२५]
सुरूप्त्वं यशस्वि वा ।
प्रियता सुकुमारर्तुसुखस्पर्शाङ्ता ततः ॥ ४.११६ ॥
[२६९।२६]
वर्णसम्पन्नं दत्त्वा सुरूपो भवति ।
गन्धसंपन्नं दत्त्वा यशस्वी भवति ।
[२६९।२६-२७०।०१]
गन्धवद्यशसो दिक्षु विधारणात् ।
[२७०।०१]
रससंपन्नं दत्त्वा प्रियो भवति ।
रस इव स्वादुः ।
[२७०।०१-२७०।०३]
स्पर्शसंपन्नं दत्त्वा सुकुमाराङ्गाश्च भवति ऋतुसुखस्पर्शानि चास्याङ्गानि भवन्ति यथा स्त्रीरत्नस्य ।
[२७०।०४]
अथ क्षेत्रं कथं विशिप्यते ।
[२७०।०५]
गतिदुःखोपकारित्वगुणैः क्षेत्रं विशिष्यते ।
[२७०।०६]
गतिविशेषातावद्विशिष्यते ।
[२७०।०६-२७०।०७]
तथा ह्युक्तं भगवता “तिर्यग्योनिगताय दानं दत्त्वा शतगुणो विपाकः प्रतिकाङ्क्षितव्यः ।
[२७०।०७-२७०।०८]
दुःशीलाय मनुष्यभूताय दानं दत्त्वा सहस्रगुण” इति ।
[२७०।०८]
दुःखविशेषा द्विशिष्यते ।
तथा ह्यौपधिकेषु पुण्यक्रियावस्तुषु ।
[२७०।०९]
ग्लाने दानं ग्लानोपस्थापके दानम् ।
[२७०।०९-२७०।११]
शीतलिकादिषु च दानमुक्त्वोक्तमे” भिः सप्तभिः औषधिकैः पुण्यक्रियावस्तुभिःसमन्वागतस्य श्राद्धस्य कुलपुत्रस्य वा कुलदुहितुर्वा न लभ्यं पुण्यानां प्रमाणमुद्ग्रहीतुमि”ति ।
[२७०।१२-२७०।१३]
उपकारित्वविशेषाद्यथा मातापित्रोरन्येषां चोपकारिणामृष्यमृगजातकाद्युदाहरणात् ।
[२७०।१३]
गुणविशेषाद्यथा” शीलवते दत्त्वा शतसहस्रगुणो विपाक” इत्येवमादि ।
[२७०।१४]
सर्वेषां तु दानानाम्
[२७०।१५]
अग्रं मुक्तस्य मुक्ताय
[२७०।१६]
“यद्वीतरागो वीतरागाय दत्त्वाऽतिदानमिदं श्रेष्ठमामिषदानेषु दानमित्युक्तं भगवता ।
[२७०।१७]
बोधिसत्त्वस्य च
[२७०।१८]
यद्वा दानं बोधिसत्त्वे ददाति सर्वसत्त्वहितहेतोस्तदमुक्तस्याप्यमुक्तेऽभ्यादानमग्रम् ।
[२७०।१९]
तत्स्थापयित्वा यानि भगवतोऽन्यान्यष्टौ दानान्युक्तानि तेषाम्
[२७०।२०]
अष्टमम् ॥ ४.११७ ॥
[२७०।२१]
अग्रमिति वर्तते ।
कतमान्यष्टौ ।
[२७०।२१-२७०।२४]
आसाद्य दानं भयदानमदान्मे दानं दास्यति मे दानं दत्त्पूर्वं मे दानं पितृभिश्च पितामहैश्चेति दानं ददाति स्वर्गार्थं दानं कीर्त्यर्थं दानं चित्तालङ्कारार्थं दानं चित्तपरिष्कारार्थं यिओगसंभारार्थमुत्तमार्थस्य प्राप्तये दानं ददाति ।
[२७०।२४]
तत्रासाद्य दानं यतासन्नेभ्य उपगतेभ्यो दानं ददातीति पौराणाः ।
[२७०।२५]
भयदानं यद्विनाशाभिमुखं दृष्ट्वा वरं ददामीति ददाति ।
[२७०।२५-२७०।२६]
शेषं सुगमत्वान्न विभक्तम् ।
[२७०।२६]
स्रोत आपत्तिफलप्रतिपन्नकाय दानं दत्त्वाऽप्रमेयविपाकः ।
[२७०।२७]
ततोऽप्रमेयतरः स्रोत आपन्नायेति विस्तरेणोक्तं सूत्रे ।
अपितु
[२७१।०१-२७१।०२]
मातृपितृग्लानधार्मकथिकेभ्योऽन्त्यजन्मने ।
बोधिसत्त्वाय चामेया अनार्येभ्योऽपि दक्षिणा ॥ ४.११८ ॥
[२७१।०३]
एभ्यः पञ्चभ्यः पृथग्जनभूतेभ्योऽप्यप्रमेया फलतो दक्षिणा भवति ।
[२७१।०३-२७१।०४]
तत्रान्त्यजन्मा बोधिसत्त्वश्चरमभविकः ।
[२७१।०४-२७१।०५]
धर्मकथिकश्चतुर्विधे क्षेत्रविशेषे कतमस्मिन् पक्षे दिक्षेप्तव्यः ।
[२७१।०५]
उपकारिपक्षे ।
[२७१।०५-२७१।०७]
स हि महाकल्याणमित्रमविद्यान्धायां प्रजायां प्रज्ञाचक्षुषो दाता समविषमस्य प्रकाशयिता अनास्रवस्य धर्मकायस्यातिनिवर्तयिता समासतो बुद्धकृत्यस्य कर्ता ।
[२७१।०८]
कर्मणां तु गुरुलघुत्वं ज्ञातुकामेन समासतः षट्कारणानि ज्ञेयानि ।
तद्यथा
[२७१।०९-२७१।१०]
पृष्ठं क्षेत्रमधिष्ठानं प्रयिओगश्चेतनाशयः ।
एषां मृद्वधिमात्रत्वात्कर्ममृद्वधिमात्रता ॥ ४.११९ ॥
[२७१।११]
पृष्ठं नाम यत्कृतस्य पुनरनुक्रिया ।
क्षेत्रं नाम यत्र कारापकाराः क्रियन्ते ।
[२७१।१२]
अधिष्ठानं कर्मपथः ।
प्रयोगस्तदर्थं कायवाक्कर्म ।
[२७१।१२-२७१।१३]
चेतना यया कर्मपथं निष्ठापयति ।
[२७१।१३-२७१।१४]
आशयस्तदभिप्राय एवं चैवं च कुर्यामेवं चैवं च न करिष्यामीति ।
[२७१।१४]
कस्यचित्पृष्ठपरिग्रहेणैव तत्कर्म गुरु संपद्यते ।
[२७१।१४-२७१।१५]
विपाकनैयम्येनावस्थानात् ।
[२७१।१५]
कस्यचित्क्षेत्रवशेनैव ।
[२७१।१५-२७१।१६]
तत्रैव क्षेत्रे पुनरधिष्ठानवशात्गुरु संपद्यते नान्यथा ।
[२७१।१६]
यथा माताइत्रोः प्राणातिपातात्न त्वेवमदत्तादानादिकात् ।
[२७१।१६-२७१।१७]
एवमन्यदपि योज्यम् ।
[२७१।१७-२७१।१८]
यस्य तु सर्वाण्यधिमात्राणि भवन्ति तस्यात्यर्थमधिमात्रं गुरु कर्म वेदितव्यम् ।
[२७१।१८]
यस्य मृदूनि तस्यात्यर्थं मृदु वेदितव्यम् ॥
[२७१।१९]
कृतं चोपचितं च कर्मोच्यते ।
कथं कर्मोपचितं भवति ।
पञ्चभिः करणैः ।
[२७१।२०-२७१।२१]
संचेतनसमाप्तिभ्यां निष्कौकृत्य विपक्षतः ।
परिवाराद्विपाकाच्च कर्मोपचितमुच्यते ॥ ४.१२० ॥
[२७१।२२]
कथं संचेनतः ।
संचिन्त्य कृतं भवति नाबुद्धिपूर्वं न सहसा कृतम् ।
[२७१।२२-२७१।२३]
कथं समापत्तितः ।
[२७१।२३]
कश्चिदेकेन दुश्चरितेनापायान्यातिकश्चिद्यावत्त्रिभिः ।
[२७१।२३-२७१।२४]
कश्चिदेकेन कर्मपथेन कश्चिद्यावद्दशभिः ।
[२७१।२४-२७१।२५]
तत्र यो यावता गच्छति तस्मिन्नसमाप्ते कृतं तत्कर्म नोपचितं समाप्ते तूपचितम् ।
[२७१।२५]
कथं निष्कौकृत्यविपक्षतः ।
[२७१।२५-२७२।०१]
निर्विप्रतिसारं च तत्कर्म भवति निष्प्रतिपक्षं च ।
[२७२।०१]
कथं परिवारतः ।
[२७२।०१-२७२।०२]
अकुशलं चाकुशलपरिवारं च भवति ।
[२७२।०२]
कथं विपाकतः ।
विपाकदान नियतं भवति ।
[२७२।०३]
एवं कुशलमपि योज्यम् ।
अतोऽन्यथा कर्म कृतं भवति नोपचितम् ।
[२७२।०४]
चैत्ये सरागस्यात्मार्थं दानमित्युक्तम् ।
[२७२।०४-२७२।०५]
तत्रासत्युपभोक्तरि कथं पुण्यं भवति ।
[२७२।०५-२७२।०६]
द्विविधं हि पुण्यं त्यागान्वयं त्यागादेव यदुपपद्यते परिभोगान्वयं च देयधर्मपरिभोगाद्यदुत्पद्यते ।
[२७२।०७]
चैत्ये त्यागान्वयं पुण्यं
[२७२।०८]
परिभोगान्व्यं पुण्यं नास्ति ।
कथं तत्राप्रतिगृह्णति कस्मिंश्चित्पुण्यम् ।
[२७२।०८-२७२।०९]
किं पुनः कारणं सति प्रतिग्रहीतरि भवितव्यं नासतीति ।
[२७२।०९]
कस्यचिदप्यनुग्रहाभावात् ।
इदमकारणम् ।
[२७२।१०]
यदि हि पुण्यं परानुग्रहादेव स्यात्मैत्र्याद्यप्रमाणसम्यग्दृष्टिभावनायां न स्यात् ।
[२७२।११]
तस्मादेष्टव्यं चैत्यैऽपि पुण्यम् ।
[२७२।१२]
मैत्र्यादिवदगृह्णति ।
[२७२।१३-२७२।१४]
यथा मैत्र्यादिष्वन्तरेणापि प्रतिग्राहकं परानुग्रहं वा पुण्यं भवति स्वचित्तप्रभवं तथाभ्यतीतेऽपि गुणवति तद्भक्तिकृतं स्वचित्तात्पुण्यं भवति ।
[२७२।१४-२७२।१५]
दानमानक्रिया तर्हि व्यर्था प्राप्नोति ।
[२७२।१५]
न ।
तत्कर्मसमुत्थापिकाया भक्तेः प्रकृष्टतरत्वात् ।
[२७२।१५-२७२।१६]
यथा हि शत्रुवधाभिप्रायस्य तत्समुत्थापितं कायवाक्कर्म ।
[२७२।१६-२७२।१७]
शत्रुसंज्ञया तस्मिन्मृतेऽपि कुर्वतो बहुतरमपुण्यं जायते ।
[२७२।१७]
नाभिप्रायमात्रेण ।
[२७२।१७-२७२।१८]
तथाभ्यतीते शास्तरि तद्भक्तिसमुत्थां दानमानक्रियां कुर्वतो बहुतरं पुण्यं जायते ।
[२७२।१९]
न भक्तिमात्रेण ।
[२७२।१९-२७२।२०]
यदि स्वक्षेत्रे दानक्रियावीजमिष्टफलं भवति तत्क्षेत्रे तर्ह्यनिष्टफलं भविष्यति ।
[२७२।२१]
कुक्षेत्रेऽपीष्टफलता फलबीजाविपर्ययात् ॥ ४.१२१ ॥
[२७२।२२-२७२।२३]
कुक्षेत्रेऽपि फलस्य बीजादविपर्ययो दृष्टो मृद्वीकाबीजान्मृद्वीकाफलमेवोत्पद्यते मधुरं निम्बवीजान्निम्बमेव तिक्तम् ।
[२७२।२३-२७२।२४]
एवं कुक्षेत्रेऽपि परहिताध्याशयप्रवृत्तस्य दानबीजस्येष्टमेव फलं निर्वर्तते नानिष्टम् ।
[२७२।२४-२७३।०१]
क्षेत्रदोषात्तु तद्वीजमल्पफलं वा भवत्यफलं वा ।
[२७३।०१]
गतं दानमयपुण्यक्रियावस्तु सप्रसङ्गम् ॥
[२७३।०२]
शीलमयं वक्तव्यम् ।
तदुच्यते
[२७३।०३]
दौःशीत्लमशुभं रूपं शीलं तद्विरतिः
[२७३।०४]
अकुशलं हि रूपं दौःशील्यमुच्यते ।
तस्माद्विरतिः शीलम् ।
सा पुनर्विरतिः
[२७३।०५]
द्विधा ।
[२७३।०६]
यया च विरम्यते विज्ञप्त्या यच्च तद्विरमणमविज्ञप्तिः ।
[२७३।०६-२७३।०७]
न च केवलं दौःशील्याद्विरतिः शीलम् ।
[२७३।०७]
किं तर्हि ।
[२७३।०८]
प्रतिक्षिप्ताच्च बुद्धेन
[२७३।०९-२७३।१०]
यदपि न प्रकृत्या दौःशीलयं भगवता च बुद्धेन प्रतिक्षिप्तमकालभोजनादिकं तस्मादपि द्विधा विरतिः शीलम् ।
[२७३।१०]
समात्तशिक्षस्य तु तदध्याचाराद्दौःशील्यं जायते ॥
[२७३।१०-२७३।११]
उक्तं तमासेन शीलम् ॥
[२७३।१२]
विशुद्धं तु चतुर्गुणम् ॥ ४.१२२ ॥
[२७३।१३]
तत्तु शीलं चतुर्गुणं भवति ।
विपर्ययादविशुद्धम् ।
अथ कथं चतुर्गुणमित्याह
[२७३।१४]
दौःशील्यतद्धेत्वहतं तद्विपक्षशमाश्रितम् ।
[२७३।१५]
दौःशीत्येन तावदनुपहतं भवति यथोक्तेन दौःशील्येन ।
हेतुनाऽप्यनुपहतं भवति ।
[२७३।१६]
लोभादिभिः क्लेशोपक्लेशैः दौःशील्यविपक्षाश्रितं च भवति ।
[२७३।१६-२७३।१७]
स्मृत्युपस्थानसंनिश्रितत्वात्समाश्रितं च भवति ।
[२७३।१७]
नोपपत्तिविशेषाश्रितम् ।
[२७३।१७-२७३।१८]
निर्वाणपरिणामितवात् ।
[२७३।१८]
पञ्चभिः कारणैः इत्यपरे ।
[२७३।१८-२७३।१९]
मौलैः कर्मपथैर्विशुद्धं भवति सामन्तकैर्विशुद्धं वितर्कैरनुपहतं स्मृत्याऽनुपरिगहीतं निर्वाणपरिणामितं चेति ।
[२७३।१९-२७३।२०]
चतुर्विधं शीलमित्यपरे ।
[२७३।२०]
भयशीलं यदा जीविकाश्लोकदण्डदुर्गतिभयात्पाल्यते ।
[२७३।२०-२७३।२१]
आशास्तिशीलं यद्भवभोगसत्कारतृष्णाकृतम् ।
[२७३।२१-२७३।२२]
बोध्यङ्गानुलोमं शीलं यन्मोक्षार्थं सम्यग्दृष्टिकाणाम् ।
[२७३।२२]
परिशुद्धं शीलमनास्रवशीलं निर्मलत्वादिति ॥
गतं शीलम् ॥
[२७३।२३]
समाहितं तु कुशलं भावना
[२७३।२४]
किमिदं समाहितं नाम ।
समाधिस्वभावं सहभू यत् ।
किमर्थमेतत्भावनेत्युच्यते ।
[२७४।०१]
चित्तवासनात् ॥ ४.१२३ ॥
[२७४।०२]
तद्धि समाहितं कुशलमत्यर्थं चित्तं वासयति ।
गुणैस्तन्मयीकरणात्संततेः ।
[२७४।०२-२७४।०३]
पुष्पैस्तिलभावनावत् ।
[२७४।०३]
दानं तावन्महाभोगतायै संवर्तत इत्युक्तम् ।
[२७४।०३-२७४।०४]
अथ शीलं भावना च
[२७४।०५]
स्वर्गाय शीलं प्राधान्यात्विसंयोगाय भावना ।
[२७४।०६]
दानमपि स्वर्गाय शीलं प्राधान्यात् ।
शीलमपि विसंयोगाय ।
भावना तु प्राधान्यात् ।
[२७४।०७]
सुत्र उक्तं “चत्वारः पुद्गला ब्राह्मण्यं पुण्यं प्रसवन्ती”ति ।
[२७४।०७-२७४।०८]
कतमत्तद्ब्राह्मपुण्यम् ।
[२७४।०८]
यत्तल्लक्षणविपाकस्य कर्मणः परिमाणज्ञापनायोक्तमिति वैभाषिकाः ।
[२७४।०९]
पूर्वाचार्यास्तु व्याचक्षते ।
[२७४।१०]
चतुर्णां ब्राह्मपुण्यत्वं कल्पं स्वर्गेषु मोदनात् ॥ ४.१२४ ॥
[२७४।११]
यावता पुण्येन कल्पं स्वर्गेषु मोदते इदं ब्राह्मं पुण्यम् ।
[२७४।११-२७४।१२]
ब्रह्मपुरोहितानां कल्पायुष्कत्वात् ।
[२७४।१२]
निकायान्तरे गाथां पठन्ति
[२७४।१३]
“ब्राह्मं पुण्यं प्रसवति कल्पं स्वर्गेषु मोदत” इति ।
[२७४।१४]
आमिषदानमुक्तम् ।
धर्मदानं वक्तव्यम् ।
तदिदमुच्यते ।
[२७४।१५]
धर्मदानं यथाभूत सूत्राद्यक्लिष्टदेशना ।
[२७४।१६]
सूत्रादीनां यथाभूतमक्लिष्टदेशना धर्मदानम् ।
[२७४।१६-२७४।१७]
अतो महतीं त आत्मनः पुण्यज्यानिं कुर्वन्ति ये विपरीतधर्मं देशयन्ति ।
[२७४।१७-२७४।१८]
क्लिष्टचित्ता वा लाभसत्कार यशांसि वाञ्छन्तः ।
[२७४।१८]
उक्तं पुण्यक्रियावस्तुभेदेन त्रिविधं कुशलं पुनः
[२७४।१९]
पुण्यनिर्वाणनिर्वेधभागीयं कुशलं त्रिधा ॥ ४.१२५ ॥
[२७४।२०-२७४।२१]
पुण्यभागीयं यदिष्टविपाकं मोक्षभागीयं यस्मिन्नुत्पन्ने नियतं परिनिर्वाणधर्मा भवति ।
[२७४।२१-२७४।२३]
यस्य संसारादीनवनैरात्म्यनिर्वाणगुणद्योतिकां कथां श्रुत्वा रोमहर्षाश्रूपातौ भवतस्तस्यास्ति मोक्षभागीयं कुशलमूलमित्यवसेयं प्रवृषीवाङ्कुरप्ररोहात्खलविलेषु बीजास्तित्वम् ।
[२७४।२३-२७४।२४]
निर्वेधभागीयमुष्मादि चतुर्विधं पश्चाद्व्याख्यास्यामः ।
[२७५।०१]
यदिदं लोक उच्यते लिपिमुद्रागणना काव्यं संख्येति क एषां स्वभावः ।
[२७५।०२-२७५।०३]
योगप्रवर्तितं कर्म ससमुत्थापकं त्रिधा ।
लिपिमुद्रे सगणनं काव्यं संख्या यथाक्रमम् ॥ ४.१२६ ॥
[२७५।०४]
योगप्रवर्तितमिति उपायविशेषप्रवर्तितम् ।
त्रिधा कर्मेति कायवाङ्मनस्कर्म ।
[२७५।०४-२७५।०५]
तत्र लिपिमुद्रे तावद्योगप्रवर्तितं कायकर्म समुत्थापनम् ।
[२७५।०५]
गणना काव्यं च वाक्कर्म ।
[२७५।०६]
इत्येतानि पञ्चस्कन्धस्वभावानि ।
संख्या मनस्कर्म ।
यन्मनसा संकलनं धर्माणाम् ।
[२७५।०७]
धर्माणामिदानीं केचित्पर्याया उच्यन्ते ।
[२७५।०८]
सावद्या निवृता हीनाः क्लिष्टा धर्माः
[२७५।०९]
क्लिष्टानां धर्माणां सावद्या निवृता हीना इति पर्यायाः ।
[२७५।१०]
शुभामलाः ।
[२७५।११]
प्रणीताः
[२७५।१२]
कुशलानास्रवाणां प्रणीता इति पर्यायः ।
[२७५।१२-२७५।१३]
हीनप्रणीतेभ्योऽन्ये मध्या इति सिद्धं भवति ।
[२७५।१४]
संस्कृतशुभाः सेव्याः
[२७५।१५]
कुसलसंस्कृतानां सेवितव्या इति पर्यायः ।
शेषा असेवितव्या इति सिद्धं भवति ।
[२७५।१६]
कस्मादसंस्कृतं न सेव्यम् ।
अनभ्यसनीयत्वादफलत्वाच्च ।
फलर्थं हि सेवा भवति ।
[२७५।१७]
सोत्तरा अन्ये सर्वधर्माः ।
[२७५।१८]
मोक्षस्त्वनुत्तरः ॥ ४.१२७ ॥
[२७५।१९]
नहि निर्वाणाद्विशिष्टतरमस्ति ।
तच्च सर्वेभ्यो विशिष्टं कुशलनित्यत्वात् ।
=====================================================================
[२७५।२०-२७५।२१]
अभिधर्मकोशभाष्ये कर्मनिर्द्देशो नाम चतुर्थं कोशस्थानमिति ॥
पञ्चमं कोशस्थानम्
=====================================================================
ओं नमो बुद्धाय
=====================================================================
[२७७।०३]
“कर्मजं लोकवैचित्र्य” मित्युक्तम् ।
[२७७।०३-२७७।०४]
तानि कर्माण्यनुशयवशादुपचयं गच्छन्ति अन्तरेण चानुशयान् भवाभिनिर्वर्त्तने न समर्थानि भवन्ति ।
[२७७।०४]
अतो वेदितव्याः
[२७७।०५]
मूलं भवस्यानुशयाः
[२७७।०६]
क्लेशो हि प्रवर्तमानो दश कृत्यानि करोति ।
[२७७।०६-२७७।०९]
मूलं च दृढीकरोति संततिमवस्थापयति क्षेत्रमापादयति निःष्यन्दं निर्वर्तयति कर्मभवमभिनिर्हरति स्वसंभारमरिगृह्णाति आलम्बने संमोहयति विज्ञानस्रोतो नमयति कुशलपक्षाद्व्युत्क्रामति पन्धनार्थं च स्फरति धात्वनतिक्रमयोगेनेति ।
[२७७।१०]
कति चेमेऽनुशयाः ।
समासेन षट् ।
कतमे
[२७७।११]
षड्रागः प्रतिघस्तथा ।
[२७७।१२]
मानोऽविद्या च दृष्टिश्च विचिकित्सा च
[२७७।१३]
अथाग्रहणं रागवशेनान्येषामालम्बनानुशायितज्ञापनार्थम् ।
[२७७।१३-२७७।१४]
एतच्च पश्चात्प्रवेदयिष्यामः ।
[२७७।१५]
ते पुनः ॥ ५.१ ॥
[२७७।१६]
षड्रागभेदात्सप्तोक्ताः
[२७७।१७]
त एते षड्नुशयाः सूत्रे रागस्य द्विधा भेदं कृत्वा सप्तोक्ताः ।
[२७७।१७-२७७।१९]
कामरागानुशयः प्रतिघानुशयो भवरागानुशयो मानानुश्यः अविद्यानुशयो दृष्ट्यनुशयो विचिकित्सानुशय इति ।
[२७७।१९-२७८।०१]
कथमिदं ज्ञातव्यं कामराग एवानुशयः कामरागानुशयः आहोस्वित्कामरागस्यानुशयः कामरागनुशयः ।
[२७८।०१]
किं चातः ।
[२७८।०१-२७८।०२]
कामराग एवानुशयश्चेत्सूत्रविरोधः ।
[२७८।०२]
“इहैकत्यो न कामरागपर्यवस्थितेन चेतसा बहुलं विहरति ।
[२७८।०२-२७८।०३]
उत्पन्नस्य कामरागपर्यवस्थानस्योत्तरि निःसरणं यथाभूतं प्रजानाति ।
[२७८।०३-२७८।०४]
तस्य तत्कामरागपर्यवस्थानं स्थामशः सम्यक्त्वसमवहतं सानुशयं प्रहीयत”इति ।
[२७८।०४-२७८।०६]
कामरागस्यानुशयश्चेद्विप्रयुक्तानुशयप्रसङ्गादभिधर्मविरोधः “कामरागानुशयस्त्रिभिरिन्द्रियैः संप्रयुक्त” इति ।
[२७८।०६]
कामराग एवानुश्य इति वैभाषिकाः ।
[२७८।०६-२७८।०७]
एवं यावद्विचिकित्सैवानुशय इति ।
[२७८।०७]
ननु चोक्तमेवं सूत्रविरोध इति ।
नास्ति विरोधः ।
सानुशयं सानुबन्धमित्यर्थः ।
[२७८।०८]
औपचारिको वा सूत्रेऽनुशयशब्दः प्राप्तौ ।
यथा दुःखोऽग्निरिति ।
[२७८।०८-२७८।०९]
लाक्षणिकस्त्वभिधर्मे क्लेश एवानुशयशब्दः ।
[२७८।०९]
तस्मात्संयुक्ता एवानुशयाः ।
कथमिदं गम्यते ।
[२७८।१०]
अनुशयानां
[२७८।११]
“चित्तक्लेशकरत्वादावरणत्वाच्छुभैर्विरुद्धत्वात्” ।
[२७८।१२-२७८।१३]
यस्मादनुशयैः क्लिष्टं चित्तं भवत्यपूर्वं कुशलं नोत्पद्यते उत्पन्नाच्च परिहीयते तस्मान्न विप्रयुक्ताः ।
[२७८।१३]
अथ विप्रयुक्तैरप्येवं स्यात् ।
[२७८।१३-२७८।१४]
कुशलं न कदाचिदुपलभ्येत ।
[२७८।१४]
तेषां नित्यं संनिहितत्वात् ।
उपलभ्यते च ।
अतः
[२७८।१५-२७८।१६]
“कुशलस्य चोपलम्भादविप्रयुक्ताः अथ इहानुशयाः” इति ।
[२७८।१७-२७८।१८]
तदिदमज्ञापकं यस्माद्यो विप्रयुक्तमनुशयमिच्छति स एतत्सर्वमनुशयकृतं नेच्छति ।
[२७८।१८]
क्लेशकृतमेवेच्छति ।
एवं तु साधु यथा सौत्रान्तिकानाम् ।
[२७८।१९]
कथं च सौत्रान्तिकानाम् ।
कामरागस्यानुशयः कामरागानुशय इति ।
[२७८।१९-२७८।२०]
न चानुशयः संप्रयुक्तो न विप्रयुक्तस्तस्याद्रव्यान्तरत्वात् ।
[२७८।२०]
प्रसुप्तो हि क्लेशोऽनुशय उच्यते ।
[२७८।२१]
प्रबुद्धः पर्यवस्थानम् ।
का च तस्य प्रसुप्तिः ।
असंमुखीभूतस्य बीजभावानुबन्धः ।
[२७८।२२]
कः प्रबोधः ।
संमुखीभावः ।
कोऽयं वीजभावो नाम ।
[२७८।२२-२७८।२३]
आत्मभावस्य क्लेशजा क्लेशोत्पादनशक्तिः ।
[२७८।२३-२७८।२४]
यथानुभवज्ञानजा स्मृत्युत्पादनशक्तिर्यथा चाङ्कुरादीनां शालिफलजा शालिफलोत्पादनशक्तिरिति ।
[२७८।२४-२७९।०१]
यस्तु क्लेशानां बीजार्थमर्थान्तरं वीप्रयुक्तमनुशयं कल्पयति तेन स्मृतिबीजमप्यर्थान्तरं कल्पयितव्यं जायते ।
[२७९।०१-२७९।०३]
यत्तर्हि सूत्रे क्लेश एवानुशय उक्तः षट्षट्के “सोऽस्य भवति सुखायां वेदनायां रागानुशय” इति ।
[२७९।०३]
भवतीति वचनान्नासौ तदैवानुशयः ।
कदा तर्हि भवति ।
[२७९।०३-२७९।०४]
यदा प्रसुप्तो भवति ।
[२७९।०४]
हेतौ वा तदुपचार एष द्रष्टव्यः ।
तिष्ठतु प्रसङ्गः ।
शास्त्रं प्रवर्त्तताम् ।
[२७९।०५]
य एष सूत्रे रागस्य भेदः कृतः कामरागो भवराग इति ।
[२७९।०६]
कोऽयं भवरागः ।
[२७९।०७]
भवरागो द्विधातुजः ।
[२७९।०८]
रूपारूप्यधातुजो रागो भवरागः कृटः ।
किं कारणमेवं कृतः ।
[२७९।०९]
अन्तर्मुखत्वात्तन्मोक्षसंज्ञाव्यावृत्तये कृतः ॥ ५.२ ॥
[२७९।१०]
समापत्तिरागो हि तेषां प्रायेण ।
स चान्तर्मुखप्रवृत्तस्तस्मात्भवरागः ।
[२७९।११]
उक्तस्तयोः किल धात्वोर्मोक्षसंज्ञाव्याव्यवर्त्तनार्थमेकेषामिति ।
[२७९।११-२७९।१२]
आत्मभाव एव तु भवः ।
[२७९।१२-२७९।१३]
ते च सत्त्वाः समापत्तिं साश्रया मास्वादयन्त आत्मभावमेवास्वादयन्ति कामवीतरागत्वात् ।
[२७९।१३]
अतः स रागो भवराग इत्युक्तः ।
[२७९।१३-२७९।१४]
पुनरेते षडनुशया अभिधर्मे दश क्रियन्ते ।
[२७९।१४]
कथं कृत्वा ।
[२७९।१५-२७९।१६]
दृष्टयः पञ्च सत्कायमिथ्यान्तग्राहदृष्टयः ।
दृष्टिशीलवृतपरामर्शाविति पुनर्दश ॥ ५.३ ॥
[२७९।१७]
षण्णामनुशयानां दृष्टिं पञ्चधा कृत्वा दश भवन्ति ।
[२७९।१७-२७९।१८]
पञ्च दृष्टिस्वभावाः सत्कायदृष्टिरन्तग्रहदृष्टिर्मिथ्यादृष्टिर्दृष्टिपरामर्शः शीलवृतपरामर्शश्च ।
[२७८।१८-२७८।१९]
यथा दृष्टिस्वभावाः रागह्प्रतिध्हो मानोऽविद्या विचिकित्सा ।
[२७९।१९-२७९।२०]
एते पुनरेते दशानुशया अभिधर्मेऽष्टानवतिः क्रियन्ते ।
[२७९।२०-२७९।२१]
कामावचराः षट्त्रिंशद्रूपावचरा एकत्रिंशतारूप्यावचरा एकत्रिंशत् ।
[२७९।२१]
कथं कृत्वा ।
[२७९।२१-२७९।२२]
समासतो ह्येतेऽनुशयास्त्रैधातुका दर्शनप्रहातव्या भावनाप्रहातव्याश्च ।
[२७९।२२-२७९।२३]
तत्र तावत्कामावचरा दर्शनप्रहातव्या द्वात्रिंशत् ।
[२७९।२३]
कतमे त इत्याह
[२८०।०१-२८०।०२]
दशैते सप्तसप्ताष्टौ त्रिद्विदृष्टिविवर्जिताः ।
यथाक्रमं प्रहीयन्ते कामे दुःखादिदर्शनैः ॥ ५.४ ॥
[२८०।०३]
य एते दशानुशया उक्ता एते कामधातौ दशापि दुःखदर्शनहेयाः सन्ति ।
[२८०।०४]
एभ्य एव सप्त समुदयदर्शनप्रहेयाः ।
[२८०।०४-२८०।०५]
सप्त निरोधदर्शनहेयाः सत्कायदृष्टिमन्तग्राहदृष्टिं शीलव्रतपरामर्शं च वर्जयित्वा ।
[२८०।०५]
अष्टौ मार्गदर्शनहेयाः ।
[२८०।०५-२८०।०६]
सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वा ।
[२८०।०६]
इत्येते कामावचरा द्वात्रिंशदनुशया दर्शनप्रहातव्याः ।
[२८०।०७]
सत्यानां दर्शनमात्रेण प्रहाणात् ।
[२८०।०८]
चत्वारो भावनाहेयाः
[२८०।०९]
तद्यथा रागः प्रतिघो मानोऽविद्या च ।
[२८०।०९-२८०।१०]
दृष्टसत्यस्य पश्चात्मार्गाभ्यासेन प्रहाणात् ।
[२८०।१०]
तदेवं सत्कायदृष्टिरेकप्रकारा भवति दुःखदर्शनहेया ।
[२८०।१०-२८०।११]
एवमन्तग्राहदृष्टिः मिथ्यादृष्टिश्चतुष्प्रकारा भवति ।
[२८०।११]
दुःखसमुदयनिरोधमार्गदर्शनहेया ।
[२८०।११-२८०।१२]
एवं दृष्टिपरामर्शो विचिकित्सा च ।
[२८०।१२]
शीलव्रतपरामऋशो द्विप्रकारः दुःखमार्गदर्शनहेयः ।
[२८०।१३-२८०।१४]
रागप्रतिघमानाविद्याः पञ्चप्रकाराश्चतुःसत्यदर्शनहेया भावनाहेयाश्च ।
[२८०।१४]
कीदृशा एते दुःखदर्शनहेयाः कीदृशा यावद्भावनाहेयाः ।
[२८०।१४-२८०।१५]
ये यद्दर्शनहेयालम्बनास्ते तद्दर्शनहेया अवशिष्टा भावनाहेयाः ।
[२८०।१५-२८०।१७]
ता एव द्वादश दृष्टयो भवन्ति चतस्रो विचिकित्साः पञ्च रागाः पञ्च प्रतिघाः पञ्च मानां पञ्चाविद्या इत्येते कामावचराः षट्त्रिंशदनुशया भवन्ति ।
[२८०।१८]
त एवाप्रतिघाः पुनः ।
[२८०।१९]
रूपधातौ
[२८०।२०]
पञ्चप्रकारं प्रतिघमपहाय त एव रूपावचरा एकत्रिंशदनुशया भवन्ति ।
[२८०।२१]
यथा रूपधातौ
[२८०।२२]
तथारूप्ये
[२८०।२३]
एकत्रिंशदनुशया भवन्ति ।
[२८०।२४]
इत्यष्टानवतिर्मताः ॥ ५.५ ॥
[२८०।२४-२८०।२५]
त एवमेते षडनुशया आकारप्रकारधातुभेदैरष्टानवतिर्मताः आमिधार्मिकाणाम् ।
[२८१।०१]
य इमे दर्शनप्रहातव्यानुशया उक्ताः किमेते नियतं दर्शनेनैव प्रहीयन्ते ।
[२८१।०२]
नेत्याह ।
किं तर्हि ।
[२८१।०३]
भवाग्रजाः क्षान्तिवध्या दृग्घेया एव
[२८१।०४]
ये भवाग्रभूमिजा अन्वयज्ञानक्षान्तिहेया अनुशयास्ते दर्शनहेया एव न भावनाहेयाः ।
[२८१।०५]
शेषजाः ।
[२८१।०६]
दृग्भावनाभ्याम्
[२८१।०७]
क्षान्तिवध्या इति वर्तते ।
[प्२८।१०७-२८१०८]
शेषासु भूमिषु यथायोगं धर्मान्वयज्ञानक्षान्तिहेया अनुशया आर्याणां दर्शनहेयाः पृथग्जनानां भावनाहेयाः ।
[२८१।०९]
अक्षान्तिवध्या भावनयैव तु ॥ ५.६ ॥
[२८१।१०]
सर्वासु भूमिषु येऽनुशया ज्ञानवध्यास्ते उभयेषां नित्यं भावनाहेयाः ।
[२८१।१०-२८१।११]
नैव हि बाह्यकानां दर्शनप्रहातव्याः प्रहीयन्त इत्यपरे ।
[२८१।१२-२८१।१४]
तथाहि महाकर्मविभागसूत्रे पूर्वान्तकल्पकानां च शाश्वतवादिनामेकत्यशाश्वतिकानामहेतुसमुत्पत्तिकानां च वीतरागाणां च कामधात्वालम्बनानां दृष्टीनां समुदाचार उक्तः ।
[२८१।१३-२८१।१४]
न च रूपावचराणां क्लेशानां कामधातुरालम्बनं वीतरागत्वात् ।
[२८१।१४-२८१।१५]
तस्मात्कामप्रतिसंयुक्ता एव ता अप्रहीणा इति ।
[२८१।१५-२८१।१६]
दृष्ट्युत्पादसमकालं ते परिहीणा देवदत्त इवेति वैभाषिकाः ।
[२८१।१७]
दृष्टयः पण्च नामतो निर्दिष्टा न तु स्वभावतस्तत्कस्तासां स्वभावः ।
[२८१।१८-२८१।१९]
आत्मात्मीयद्रुवोच्छेदनास्तिहीना ग्रदृष्टयः ।
अहेत्वमार्गे तद्दृष्टिरेतास्ताः पञ्च दृष्टयः ॥ ५.७ ॥
[२८१।२०]
आत्मदृष्टिरात्मीयदृष्टिर्वा सत्कायदृष्टिः ।
सीदतीति सत् ।
[२८१।२०-२८१।२१]
चयः कायः संघातः स्कन्ध इत्यर्थः ।
[२८१।२१]
सच्चायं कायश्चेति सत्कायः पञ्चोपादानस्कन्धाः ।
[२८१।२२]
नित्यसंज्ञां पिण्डसंज्ञां च त्याजयितुमेवं द्योतिता ।
एतत्पूर्वको हि तेष्वात्मग्रहः ।
[२८१।२३]
सत्काये दृष्टिः सत्कायदृष्टिः ।
[२८१।२३-२८१।२४]
सर्वैव सास्रवालम्बना दृष्टिः सत्काये ।
[२८१।२४]
आत्मात्मीयदृष्टिरेव तु सत्कायदृष्टिरुक्ता ।
[२८१।२४-२८२।०१]
यथा गम्येत सत्कायदृष्टिरियं नात्मनि नात्मीये वेति ।
[२८२।०१-२८२।०३]
यथोक्तं “ये केचिद्भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि”ति ।
[२८२।०३]
तस्यैवात्माभिमतस्य वस्तुनो ध्रुवदृष्टिरुच्छेददृष्टिर्वाऽन्तग्राहदृष्टिः ।
[२८२।०४]
शाश्वतोच्छेदान्तग्रहणात् ।
सति दुःखादिसत्ये नास्तीति दृष्टिर्मिथ्यादृष्टिः ।
[२८२।०४-२८२।०५]
सर्वैव हि विपरीतस्वभावप्रवृट्ता दृष्टिर्मिथ्यादृष्टिः एकैव तूक्ता ।
[२८२।०५-२८२।०६]
अतिशयवत्त्वात्दुर्गन्धक्षतवत् ।
[२८२।०६]
एषा ह्यपवादिका अन्यास्तु समारोपिकाः ।
हीने अग्रदृष्टिर्दृष्टिपरामर्शः ।
[२८२।०७]
किं हीनम् ।
सर्वं सास्रवम् ।
आर्यैः प्रहीणत्वात् ।
तस्याग्रतो ग्रहणं दृष्टिपरामर्शः ।
[२८२।०८]
दृष्ट्यादिपरामर्श इति वक्तव्ये आदिशब्दलोपः कृतः ।
[२८२।०८-२८२।०९]
अहेतौ हेतुदृष्टिरमार्गे मार्गदृष्टिः शीलवृतपरामर्शः ।
[२८२।०९]
तद्यथा महेश्वरो न हेतुर्लोकानाम् ।
[२८२।०९-२८२।१०]
तं च हेतुं पश्यति प्रजापतिमन्यं वा ।
[२८२।१०-२८२।११]
अग्निजलप्रवेशादयश्च न हेतुः स्वर्गस्य तांश्च हेतुं पश्यति ।
[२८२।११-२८२।१२]
शीलव्रतमात्रकं सांख्ययोगज्ञानादयश्च न मार्गो मोक्षास्य तांश्च मार्गं पश्यति ।
[२८२।१२-२८२।१३]
अत्रापि किलादिशब्दलोपः कृत इत्येतास्ताः पञ्च दृष्टयो वेदितव्याः ।
[२८२।१३]
सत्यकारणे कारणदृष्टिः शिलव्रतपरामर्शः ।
[२८२।१३-२८२।१४]
कस्मादयं न समुदयदर्शनप्रहातव्यः ।
[२८२।१४-२८२।१५]
यो हि कश्चिदीश्वरः प्रजापतिमन्यं वा कारणं पश्यति स तन्नित्यमेकं चात्मानं कर्तारमभिनिविश्य ।
[२८२।१५]
तद्यस्मात्स
[२८२।१६-२८२।१७]
ईश्वरादिषु नित्यात्मविपर्यासात्प्रवर्तते ।
कारणाभिनिवेशोऽतो दुःखदृग्घेय एव सः ॥ ५.८ ॥
[२८२।१८]
दुःखदर्शनादेव हि तेषु तौ नित्यात्मग्राहौ प्रहीयेते ।
[२८२।१८-२८२।१९]
तस्मात्तत्कृतोऽपि कारणाभिनिवेशस्तत एव प्रहीयते ।
[२८२।१९-२८२।२०]
यस्तर्हि जलाग्निप्रवेशादिभिः स्वर्गोपपत्तिं पश्यति शीलवृतेन वा शुद्धिं सोऽपि दुःखदर्शनप्रहातव्य एव ।
[२८२।२०]
एष हि शास्त्रपाठः ।
[२८२।२०-२८२।२२]
“ये चैवं दृष्टय एवंवादिनो यदयं पुरुषपुद्गलो गोशीलं समादाय वर्तते मृगशीलं कुक्कुरशीलं, स तेन शुध्यति मुच्यते सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति ।
[२८२।२२-२८२।२३]
अकारणं कारणतः प्रत्येति शीलव्रतपरामर्शो दुःखदर्शनप्रहातव्यः” इति विस्तरः ।
[२८२।२३-२८२।२४]
किं पुनः कारणमसौ दुःखदर्शनप्रहातव्यः ।
[२८२।२४]
दुःखे विप्रतिपन्नत्वात् ।
[२८२।२४-२८२।२५]
सर्वेषां सास्रवालम्बनानां दुःखे विप्रतिपन्नत्वात् ।
[२८२।२५-२८२।२६]
कीदृशो वाऽन्यः शीलवृतपरामर्शो मार्गेदर्शनप्रहात्व्यः ।
[२८२।२६]
यो मार्गदर्शनप्रहातव्यालम्बनः ।
[२८२।२६-२८२।२७]
सोऽपि हि नाम दुःखे विप्रतिपन्नः ।
[२८२।२७-२८२।२८]
यस्य च मार्गालम्बना मिथ्यादृष्टिर्विचिकित्सा वाऽस्ति स नास्ति मोक्षमार्ग इति पश्यन् विचिकित्सन् वा कथं तया शुद्धिं प्रत्येष्यति ।
[२८३।०१]
अथान्यं मोक्षमार्गं परामृश्य एष मोक्षमार्गो नास्तीत्याह ।
[२८३।०१-२८३।०२]
सोऽपि तेनैवान्येन शुद्धिं प्रत्येति न तया मिथ्यादृष्ट्येति ।
[२८३।०२-२८३।०३]
तस्याप्यसौ मार्गदर्शनप्रहातव्यालम्बनो न सिध्यति ।
[२८३।०३-२८३।०४]
यश्चापि समुदयनिरोधदर्शनप्रहातव्यालम्बनया मिथ्यादृष्ट्या शुद्धिं प्रत्येति स कस्मान्न तद्दर्शनहेयः ।
[२८३।०४]
तस्मात्परीक्ष्य एषोऽर्थः ।
[२८३।०५]
यदुक्तं “नित्यात्मविपर्यासादि”ति ।
किमेतावेव द्वौ विपर्यासौ ।
[२८३।०५-२८३।०६]
चत्वारो विपर्यासाः ।
[२८३।०६]
अनित्ये नित्यमिति ।
दुःखे सुखमिति ।
अशुचौ शुचीति ।
[२८३।०६-२८३।०७]
अनात्मन्यात्मेति ।
[२८३।०७]
अथैतद्विपर्यासचतुष्कं किंस्वभावम् ।
[२८३।०८]
दृष्टित्रयाद्विपर्यासचतुष्कं
[२८३।०९]
अन्तग्राहदृष्टेः शाश्वतदृष्टिर्नित्यविपर्यासः ।
[२८३।०९-२८३।१०]
दृष्टिपरामर्शात्सुखशुचिविपर्यासौ ।
[२८३।१०]
सत्कायदृष्टेरात्मदृष्टिरात्मविपर्यासः ।
सकलेत्यपरे ।
[२८३।१०-२८३।११]
कथमात्मीयदृष्टिर्विपर्यासः ।
[२८३।११]
कथं च न विपर्यासः ।
विपर्याससूत्राद् ।
[२८३।११-२८३।१३]
आत्मानमेव तत्र वशिनं पश्येन्नात्मीयं पश्यतीत्यात्मदृष्टिरेवासौ द्विमुखी अथाहमित्येतस्मात्ममेति दृष्ट्यन्तरं स्यात् ।
[२८३।१३]
मया मह्यमित्येतदपि स्यात् ।
[२८३।१४]
कस्मादन्ये क्लेशा न विपर्यासाः ।
[२८३।१४-२८३।१५]
यस्मात्त्रिभिः कारणैर्विपर्यासानां व्यवस्थानं कतमैस्त्रिभिः ।
[२८३।१६]
वीपरीततः ।
[२८३।१७]
नितीरणात्समारोपात्
[२८३।१८]
एकान्तविपर्यस्तत्वादालम्बने नितीरकत्वात्समारोपणाच्च ।
[२८३।१८-२८३।१९]
उच्छेददृष्टिर्मिथ्यादृष्टिश्च न समारोपिके ।
[२८३।१९]
अभावमुखप्रवृत्तत्वात् ।
[२८३।१९-२८३।२०]
शीलव्रतपरामर्शो नैकान्तविपर्यस्तस्तन्मात्रशुद्ध्यालम्बनत्वात् ।
[२८३।२०-२८३।२१]
अन्ये क्लेशा न सन्तीरका अतो न विपर्यासाः ।
[२८३।२१-२८३।२२]
यत्तर्हि सूत्रे उक्त “मनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिविपर्यास” इति ।
[२८३।२२]
दृष्टिरेवात्र विपर्यासः ।
[२८४।०१]
संज्ञाचित्ते तु तद्वशात् ॥ ५.९ ॥
[२८४।०२]
दृष्टिविपर्यासवशादेव तत्संप्रयुक्ते संज्ञाचित्ते विपर्यासावुक्तौ ।
[२८४।०२-२८४।०३]
वेदनादयोऽपि कस्मान्नोक्ताः ।
[२८४।०३]
लोकप्रसिद्ध्या ।
[२८४।०३-२८४।०४]
लोके हि विपर्यस्तसंज्ञो विपर्यस्तचित्त इति प्रसिद्धं न पुनर्विपर्यस्तवेदन इति ।
[२८४।०४-२८४।०५]
त एते विपर्यासाः सर्वेऽपि स्रोत आपन्नस्य प्रहीणा भवन्ति ।
[२८४।०५]
दर्शनप्रहेयत्वात्दृष्टीनां ससंप्रयोगाणाम् ।
द्वादश विपर्यासाः ।
[२८४।०५-२८४।०६]
अनित्ये नित्यमिति संज्ञादृष्टिचित्तविपर्यासास्त्रयः ।
[२८४।०६]
एवं यावदनात्मन्यात्मेति ।
[२८४।०६-२८४।०७]
तत्राष्टौ दर्शनप्रहातव्याश्चत्वारो भावनाप्रहातव्याः ।
[२८४।०७-२८४।०८]
दुःखे च संज्ञा चित्तविपर्यासावशुचौ चेति निकायान्तरीयाः ।
[२८४।०८-२८४।०९]
इतरथा हि कथमन्तरेण सुखशुचिसंज्ञामवीतरागस्यार्यस्य कामरागः संभवेदिति ।
[२८४।०९]
तदेतन्नेच्छन्ति वैभाषिकाः ।
[२८४।१०]
यदि हि सुखशुचिसंज्ञाचित्तसमुदाचारादार्यस्य तद्विपर्यासावीक्ष्येते ।
[२८४।१०-२८४।११]
सत्त्वसंज्ञाचित्तसमुदाचारात्तद्विपर्यासावपि किं नेष्येते ।
[२८४।११-२८४।१२]
न हि स्त्रियामात्मनि च विना सत्त्वसंज्ञाया कामरागो युक्त इति ।
[२८४।१२-२८४।१३]
सूत्रेऽपि चोक्तं “यतश्च श्रुतवानार्यश्रावक इदं दुःखमार्यसत्यमिति यथाभूतं प्रजानाति ।
[२८४।१३-२८४।१४]
यावत्तस्य तस्मिन् समये योऽनित्ये नित्यमिति संज्ञाविपर्यासः चित्तविपर्यासो दृष्टिवीपर्यासः स प्रहीयत” इति विस्तरः ।
[२८४।१४-२८४।१६]
तस्माद्दृष्टिसमुत्ये एव संज्ञाचित्ते विपर्यासौ नान्ये तत्काल भ्रान्तिमात्रत्वादलातचक्रचित्र यक्षभ्रान्तिवत् ।
[२८४।१६]
यत्तर्हि स्थविरानन्देनार्थं वागीशमधिकृत्योक्तं
[२८४।१७-२८४।१८]
“विपर्यासे च संज्ञानां चित्तं ते परिदह्यते” ।
निमित्तं वर्ज्यतां तस्माच्छुभं रागोपसंहितम् ॥
[२८४।१९]
तस्मात्सर्व एवाष्टौ संज्ञाचित्तविपर्यासाः शैक्षस्याप्रहीणा इत्यपरे ।
[२८४।१९-२८४।२०]
तेऽपि चार्यसत्यानां यथाभूतपरिज्ञानात्प्रहीयन्ते ।
[२८४।२०-२८४।२१]
न विना तेनेत्युपायसमा ख्यानान्नास्ति सूत्रविरोधः ।
[२८४।२२]
अथ किं दृष्ट्यनुशयस्य एव भेदो नान्यस्य ।
मानस्याप्यस्ति ।
कथमित्याह
[२८४।२३]
सप्त मानाः
[२८४।२४]
मानोऽतिमानो मानातिमानोऽस्मिमानोऽभिमान ऊनमानो मिथ्यामानश्च ।
[२८४।२५]
अभेदेन चित्तस्योन्नतिर्मान उक्ताः ।
स प्रवृत्तिभेदात्सप्तधा भवति ।
[२८४।२५-२८५।०१]
हीनाद्विशिष्टः समेन वा समोऽस्मीति मन्यमानस्योन्नतिर्मानः ।
[२८५।०१]
समाद्विशिष्टोऽस्मीत्यभिमानः ।
[२८५।०२]
विशिष्टाद्विशिष्टोऽस्मीति मानातिमानः ।
[२८५।०२-२८५।०३]
पञ्चोपादानस्कन्धानात्मत आत्मीयतो वा मन्यमानस्यास्मिमानः ।
[२८५।०३]
अप्राप्ते विशेषाधिगमे प्राप्तो मयेत्यभिमानः ।
[२८५।०३-२८५।०४]
बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीत्यूनमानः ।
[२८५।०४]
अगुणवतो गुणवानस्मीति मिथ्यामानः ।
[२८५।०५]
यत्तर्हि शास्त्रे नव मानविधा उक्ताः ।
“श्रेयानस्मीति मानविधा ।
[२८५।०५-२८५।०६]
सदृशोऽस्मीति मानविधा ।
[२८५।०६]
हीनोऽस्मीति मानविधा ।
[२८५।०६-२८५।०७]
अस्ति मे श्रेयानस्ति मे सदृशोऽस्ति मे हीनः ।
[२८५।०७]
नास्ति मे श्रेयान्नास्ति मे सदृशो नास्ति मे हीन” इति ।
[२८५।०७-२८५।०८]
एभ्य एव मानेभ्य एताः ।
[२८५।०९]
नवविधास्त्रिभ्यः
[२८५।१०]
कतमेभ्यस्त्रिभ्यः मानातिमानोनमानेभ्यः ।
[२८५।१०-२८५।११]
तत्र प्रथमं त्रयं दृष्टिसंनिश्रितास्त्रयो मानाः ।
[२८५।११]
अतिमानमानोनमानाः ।
द्वितीयं त्रयमूनमानमानातिमानाः ।
[२८५।११-२८५।१२]
तृतीयं त्रयं मानातिमानोनमानाः ।
[२८५।१२-२८५।१३]
युक्तस्तावद्बह्वन्तरविशिष्टादल्पान्तरहीनोऽस्मीत्यूनमान उन्नतिस्थानत्वात् ।
[२८५।१३-२८५।१४]
नास्ति मे हीन इत्यत्र किमुन्नति स्थानम् ।
[२८५।१४]
अस्ति सदृशो योऽभिप्रेते वरे सत्त्वराशौ निहीनमप्यात्मानं बहु मन्यते ।
[२८५।१५]
अपि चास्त्येव ज्ञानप्रस्थानविहितो विधिः ।
[२८५।१५-२८५।१७]
प्राकरणं तु निर्देशं परिगृह्य श्रेयानस्मीत्येकेषु मानोऽपि स्यादति मानोऽपि मानातिमानोऽपि हीनसमविशिष्टापेक्षया ।
[२८५।१८]
अथैते सप्त मानाः किंप्रहातव्या इत्याह
[२८५।१९]
दृग्भावनाक्ष्याः ।
[२८५।२०]
दृग्भावनाभ्यामेषां क्षयः ।
[२८५।२०-२८५।२१]
एतदुक्तं भवति सर्वे दर्शनभावनाप्रहातव्या इति यद्भावनाहेयमप्रहीणं किमवश्यं तदार्याणां समुदाचरति ।
[२८५।२१]
नावश्यं तद्यथा
[२८५।२२]
वधादिपर्यवस्थानं हेयं भावनया
[२८५।२३-२८५।२४]
येन क्लेशपर्यवस्थानेन संचिन्त्य प्राणिवधं कुर्याद्यावन्मृषावादं तद्भावनाहेयं भावनाहेयधर्मालम्बनत्वात् ।
[२८५।२५]
तथा ॥ ५.१० ॥
[२८६।०१]
विभवेच्छा
[२८६।०२]
विभवतृष्णाऽपि भावनाहेया ।
विभवो नाम क एष धर्मः ।
त्रैधातुकी अनित्यता ।
[२८६।०३]
तत्र प्रर्थना विभवतृष्णा ।
तथाशब्देन भवतृष्णायाः प्रदेशो गृह्यते ।
[२८६।०३-२८६।०४]
“अहो वताहमैरावणः स्यां नागराज” इत्येवमादि ।
[२८६।०४-२८६।०५]
मानविधा अपि भावनाप्रहातव्याः सन्तीत्युक्तमस्मिममानश्च ।
[२८६।०६]
न चार्यस्य संभवन्ति विधादयः ।
[२८६।०७]
नास्मिता
[२८६।०८]
आदिग्रहणेन यावद्विभवतृष्णाया ग्रहणम् ।
[२८६।०८-२८६।०९]
किं कारणमप्रहीणा अप्येते न समुदाचरन्ति ।
[२८६।१०]
दृष्टिपुष्टत्वात्
[२८६।११]
सत्कायदृष्टिपुष्टा हि मानविधा अस्मिमानश्च ।
[२८६।११-२८६।१२]
अतो भग्नपृष्ठत्वात्नोत्थातुं पुनरुत्सहन्ते ।
[२८६।१२]
वधादिपर्यवस्थानं मिथ्यादृष्टिपुष्टत्वात् ।
[२८६।१२-२८६।१३]
विभवतृष्णा उच्छेद्दृष्टिपुष्टत्वात् ।
[२८६।१३]
भवतृष्णायाः प्रदेशः शाश्वतदृष्टिपुष्टत्वात् ।
[२८६।१४]
कौकृत्यं नापि चाशुभम् ॥ ५.११ ॥
[२८६।१५]
अकुक्शलं चापि कौकृत्यं भावनाप्रहातव्यम् ।
[२८६।१५-२८६।१६]
न चार्यस्य तत्संभवति विचिकित्सा समुत्थितत्वात् ।
[२८६।१७]
अथैषामष्टानवतेरनुशयानां कति सर्वत्रगाः कत्यसर्वत्रगाः ।
[२८६।१८-२८६।१९]
सर्वत्रगा दुःखहेतुदृग्घेया दृष्टयस्तथा ।
विमतिः सह ताभिश्च याऽविद्याऽवेणिकी च या ॥ ५.१२ ॥
[२८६।२०-२८६।२१]
दुःखसमुदयदर्शनप्रहातव्या दृष्टयो विचिकित्सा च ताभिश्च संप्रयुक्ता अविद्या आवेणिकी च दुःखसमुदयप्रहातव्ये चाविद्या ।
[२८६।२०-२८७।०१]
इतीमे एकादशानुशयाः सभागधातुसर्वत्रगाः ।
[२८७।०१]
सप्त दृष्टयो द्वे विचिकित्से द्वे अविद्ये सकलस्वधात्वालम्बनत्वात् ।
[२८७।०२]
किमेभिर्युगपदालम्बते आहोस्वित्क्रमेण ।
यदि क्रमेण अन्येषामपि प्रसङ्ग ।
[२८७।०२-२८७।०४]
अथ युगपत्कः सकलेन कामधातुना शुद्धिं प्रत्येत्यकारणं वा कारणतः ।
[२८७।०४]
सकलं नोच्यते सकलं युगपदालम्बन्त इति ।
[२८७।०४-२८७।०५]
अपि तु पञ्चप्रकारमपि सर्वं युगपत् ।
[२८७।०५-२८७।०६]
एवमपि यत्रात्मदृष्टिस्तत्रात्मतृष्णा यत्राग्रशुद्धिदृष्टी तत्र तत्प्रार्थना तेन च मान इति तृष्णामानयोरपि सर्वत्रगत्वं प्राप्नोति ।
[२८७।०६-२८७।०७]
एवं सति दर्शनभावनाहेयालम्बनत्वादेतदुभयं किंप्रहातव्यं स्यात् ।
[२८७।०७-२८७।०८]
भावनाप्रहातव्यं व्यामिश्रालम्बनत्वात् ।
[२८७।०८]
अथवा पुनरस्तु दर्शनप्रहातव्यं दृष्टिबलाधानवर्तित्वात् ।
[२८७।०८-२८७।०९]
स्वलक्षणक्लेशावेतौ न सामान्यक्लेशौ ।
[२८७।०९]
तस्मान्न सर्वत्रगाविति वैभाषिकाः ।
[२८७।१०]
व एते सभागधातुसर्वत्रगा एकादशानुशया उक्ताः
[२८७।११]
नवोध्र्वालम्बना एषां दृष्टिद्वयविवर्जिताः ।
[२८७।१२]
सत्कायदृष्टिमन्तग्राहदृष्टिं च वर्जयित्वाऽन्ये नवानुशया विसभागधातुसर्वत्रगाः ।
[२८७।१३]
कदाचित्तु विसभागमेकं धातुमालम्बन्ते कदाचित्द्वौ ।
[२८७।१३-२८७।१४]
“येऽनुशयाः कामप्रतिसंयुक्ता रूपप्रतिसंयुक्तालम्बनाः ।
[२८७।१४-२८७।१५]
कामप्रतिसंयुक्ता आरूप्यप्रतिसंयुक्तालम्बनाः कामप्रतिसंयुक्ता रूपारूप्यप्रतिसंयुक्तालम्बना” इति वचनात् ।
[२८७।१५-२८७।१७]
यदा कामधातौ स्थितो ब्रह्मणि सत्त्वदृष्टिं नित्यदृष्टिं चोज्त्पादयति तदा कथं सत्कायान्त ग्राहदृष्टी विसभागधात्वालम्बने न भवतः ।
[२८७।१७-२८७।१८]
आत्मात्मीयत्वेनाग्रहणादन्तग्राहदृष्टिश्च तत्समुत्थितत्वात् ।
[२८७।१८]
का तर्हीयं दृष्टिः ।
[२८७।१८-२८७।१९]
नेयं दृष्टिर्मिथ्याज्ञानं पुनः एतदित्याभिधार्मिकाः ।
[२८७।१९-२८७।२०]
कुतो नु खल्वेतदन्या तदालम्बना दृष्टिरेषा न दृष्टिरिति सिद्धान्तस्तु प्रमाणयितयः ।
[२८७।२१]
किं खल्वनुशयाः एव सर्वत्रगाः ।
नेत्याह ।
[२८७।२२]
प्राप्तिवर्ज्याः सहभुवो येऽप्येभिस्तेऽपि सर्वगाः ॥ ५.१३ ॥
[२८७।२३]
सर्वत्रगैरनुशयैः सहभुवो येऽप्यन्ये धर्मास्तेऽपि सर्वत्रगाः प्राप्तयस्तु नैवम् ।
[२८७।२३-२८८।०१]
अनेक फलत्वात् ।
[२८८।०१-२८८।०२]
अत एव स्युः सर्वत्रगानुशया न सर्वत्रहेतुना हेतुरिति चतुष्कोटिकं क्रियते ।
[२८८।०२]
प्रथमा कोटिरनागताः सर्वत्रगा अनुशयाः ।
[२८८।०२-२८८।०३]
द्वितीयाऽतीतप्रत्युपन्नास्तत्सहभुवः ।
[२८८।०३]
तृतीयाचतुथौ योज्ये ।
[२८८।०४]
एषामष्टानवतेरनुशयानां कति सास्रवालम्बनाः कत्यनास्रवालम्बनाः ।
[२८८।०५-२८८।०६]
मिथ्यादृग्विमती ताभ्यां युक्ताऽविद्याऽथ केवला ।
निरोधमार्गदृग्घेयाः षडनास्रवगोचराः ॥ ५.१४ ॥
[२८८।०७-२८८।०८]
निरोधदर्शनप्रहातव्यास्त्रयोऽनुशया मिथ्यादृष्टिर्विचिकित्साऽविद्या च ताभ्यां संप्रयुक्ताऽऽवेणिकी च ।
[२८८।०८]
मार्गदर्शनप्रहातव्या अप्येत एव त्रयः ।
[२८८।०८-२८८।०९]
इत्येते षडनास्रवालम्बनाः ।
[२८८।०९]
शेषां सास्रवालम्बना इति सिद्धम् ।
तत्र पुनः
[२८८।१०-२८८।११]
स्वभूम्युपरमो मार्गः षड्भूमिनवभूमिकः ।
तद्गोचराणां विषयो मार्गो ह्यन्योऽन्यहेतुकः ॥ ५.१५ ॥
[२८८।१२-२८८।१३]
निरोधालम्बनानां मिथ्यादृष्ट्यादीनां स्वभूमिनिरोध एवालम्बनं कामावचराणां कामधातोरेव यावत्भवाग्रभूमिकानां भवाग्रस्यैव ।
[२८८।१३-२८८।१४]
मार्गालम्बनानां कामावचराणां षड्भूमिको धर्मज्ञानपक्षो मार्गः सर्व एवालम्बनम् ।
[२८८।१४-२८८।१५]
योऽपि रूपारूप्यप्रतिपक्षः रूपारुप्यावचराणामप्यदृष्टभूमिकानां नवभूमिकः ।
[२८८।१५-२८८।१६]
स एवान्वयज्ञानपक्ष्यो मार्ग आलम्बनं मार्गस्यान्योऽन्यहेतुकत्वात् ।
[२८८।१६-२८८।१७]
यद्यपि धर्मज्ञानान्वयज्ञाने अप्यन्योन्यहेतुके नत्वन्वयज्ञानं कामधातुप्रतिपक्ष इति ।
[२८८।१७-२८८।१८]
न कामावचरा मार्गालम्बना अन्वयज्ञानपक्षानालम्बन्ते ।
[२८८।१८-२८८।१९]
धर्मज्ञानं तर्हि रूपारूप्यप्रतिपक्षत्वात्तद्भूमिकानां मार्गलम्बनानामालम्बनं भविष्यति ।
[२८८।१९-२८८।२०]
न तत्सकलं प्रतिपक्षो दुःखसमुदयधर्मज्ञानयोरतत्प्रतिपक्षत्वात् ।
[२८८।२०-२८८।२१]
नापि सकलयो रूपारूप्यय्योर्दर्शनप्रहातव्यानामप्रतिपक्षत्वादित्याद्याभावान्न भवत्यालम्बनम् ।
[२८८।२२]
अथ कस्माद्रागप्रतिघमाना दृष्टिशीलवृअतपरामर्शौ चानास्रवालम्बना नेष्यन्ते ।
[२८८।२३]
न रागस्तस्य वर्ज्यत्वात्
[२८९।०१-२८९।०२]
वर्जनीयो हि रागः यदि चानास्रवालम्बनः स्यान्न वर्जनीयः स्यात्कुशलधर्मच्छन्दवत् ।
[२८९।०३]
न द्वेषोऽनपकारतः ।
[२८९।०४]
अपकारवस्तुनि हि प्रतिघ उत्पद्यते ।
न चैवं निरोधमागौम् ।
[२८९।०५]
न मानो न परामर्शौ शान्तशुद्धयग्रभावतः ॥ ५.१६ ॥
[२८९।०६]
निरोधमार्गयोः शान्तत्वान्न ताभ्यामुन्नतिर्भवितुमर्हति ।
[२८९।०६-२८९।०७]
भूतार्थशुद्धित्वान्न तयोः शुद्धिग्राहः शीलव्रतपरामर्शः ।
[२८९।०७]
अग्रौ च तौ ।
हीने चाग्रग्राहो दृष्टिपरामर्शः ।
[२८९।०८]
तस्मादयुक्तमेषामनास्रवालम्बनत्वम् ।
[२८९।०९]
एषामष्टानवतेरनुशयानां कत्यालम्बनतोऽनुशेरते कति संप्रयोगत एव ।
[२८९।१०-२८९।११]
सर्वत्रगा अनुशयाः सकलामनुशेरते ।
स्वभूमिमालम्बनतः स्वनिकायमसर्वगाः ॥ ५.१७ ॥
[२८९।१२-२८९।१३]
ये सर्वत्रगा अनुशयास्ते सकलां पञ्चप्रकारामपि स्वां भूमिमालम्बनतोऽनुशेरते ।
[२८९।१३]
असर्वत्रगास्तु स्वस्यां भूमौ स्वमेव निकायमालम्बनतोऽनुशेरते नान्यम् ।
[२८९।१४]
तद्यथा दुःखदर्शनप्रहातव्या दुःखदर्शनप्रहातव्यमेव निकायम् ।
[२८९।१४-२८९।१५]
एवं यावद्भावनाप्रहातव्या भावनाप्रहातव्यमेव नान्यम् ।
[२८९।१५]
उत्सर्गं कृत्वाऽपवादं करोति
[२८९।१६]
नानास्रवोर्ध्वविषयाः
[२८९।१७]
अनास्रवालम्बना अनुशया नैवालम्बनतोऽनुशेरते ।
नाप्यूर्ध्वभूम्यालम्बनाः ।
[२८९।१७-२८९।१८]
किं कारणम् ।
[२८९।१८]
तदालम्बनस्य वस्तुनः
[२८९।१९]
अस्वीकाराद्विपक्षतः ।
[२८९।२०-२८९।२१]
यद्धि वस्त्वात्मदृष्टितृष्णाभ्यां स्वीकृतं भवति तत्रान्येऽप्यनुशया अनुगमयितुमुत्सहन्ते ।
[२८९।२१]
आर्द्र इव पटे रजांसि संस्थातुम् ।
[२८९।२१-२८९।२२]
न चैवमनास्रवा नाप्येवमूर्ध्वा भूमिः ।
[२८९।२२]
अतो न तदालम्बनास्तेष्वनुशेरते ।
यस्त्विहस्थस्तां भूमिं प्रार्थयते ।
[२८९।२३-२९०।०१]
कुशलोऽसौ धर्म्मच्छन्दः विपक्षभूतौ च निर्वाणमार्गौ तदालम्बनानां क्लेशानामूर्ध्वा च भूमिरधराणाम् ।
[२९०।०१]
अतो न तेषु प्रतिष्ठां लभन्ते ।
[२९०।०१-२९०।०२]
तप्त इवोपले तलानि पादानाम् ।
[२९०।०२]
आनुगुण्यार्थोऽत्रानुशयार्थः ।
न च ते तदनुगुणा इत्यपरे ।
[२९०।०२-२९०।०३]
वातिकस्य रुक्षाननुशयनवत् ।
[२९०।०३]
अत उक्ता आलम्बनतोऽनुशेरते ।
[२९०।०४]
येन यः संप्रयुक्तस्तु स तस्मिन् संप्रयोगतः ॥ ५.१८ ॥
[२९०।०५]
अनुशरेत इति वर्तते ।
[२९०।०५-२९०।०६]
योऽनुशयो येन धर्मेण संप्रयुक्तस्तस्मिन् संप्रयोगतोऽनुशेते ।
[२९०।०६]
यावदप्रहीण इति विशेषणार्थस्तुशब्दः ।
[२९०।०६-२९०।०७]
स्युरनुशया नानास्रवालम्बना न विसभागधातुसर्वत्रगाः ।
[२९०।०७-२९०।०८]
ते चानुशयाः संप्रयोगतोऽनुशयीरन्नालम्बनतः न स्युर्विसभागभूमिसर्वत्रगा अनुशयाः ।
[२९०।०९]
एषामष्टानवतेरनुशयानां कत्यकुशलाः कत्यव्याकृताः ।
[२९०।१०]
ऊर्ध्वमव्याकृताः सर्वे
[२९०।११]
रूपारुप्यावचरास्तावत्सर्व एवाव्याकृताः ।
किं कारणम् ।
[२९०।१२]
क्लिष्टानां धर्माणां दुःखविपाकः स्यात् ।
तच्च तयोइर्नास्ति परव्याबाधहेत्वभावात् ।
[२९०।१३]
कामे सत्कायदर्शनम् ।
[२९०।१४]
अन्तग्राहः सहाभ्यां च मोहः
[२९०।१५]
कामधातौ सत्कायान्तग्राहदृष्टी तत्संप्रयुक्ता चाविद्या अव्याकृताः ।
[२९०।१५-२९०।१६]
किं कारणम् ।
[२९०।१६]
दानादिभिरविरुद्धत्वात् ।
[२९०।१६-२९०।१७]
अहं प्रेत्य सुखी भविष्यामीति दानं ददाति शीलं रक्षति ।
[२९०।१७]
उच्छेददृष्टिरपि मोक्षानुकूला ।
[२९०।१७-२९०।१९]
अत एवोक्तं भगवता “एतदग्रं बाह्यकानां दृष्टिगतानां यदुत नो च स्यां नो च मे स्यात्न भविष्यामि न मे भविष्यती”ति ।
[२९०।१९]
अपि चानयोर्दृष्ट्योः स्वद्रव्यसंमूढत्वादपरपीडाप्रवृत्तत्वाच्च ।
[२९०।१९-२९०।२०]
स्वर्गतृष्णाऽस्मिमानयोरप्येवं प्रसङ्गः ।
[२९०।२०]
सहजा सत्कायदृष्टिरव्याकृता ।
[२९०।२०-२९०।२१]
या मृगपक्षिणामपि वर्त्तते ।
[२९०।२१]
विकल्पिता त्वकुशलेति पूर्वाचार्याः ।
[२९१।०१]
शेषस्त्विहाशुभाः ॥ ५.१९ ॥
[२९१।०२]
शेषास्त्वशुभा अनुशयाः कामधातावकुशलाः ।
[२९१।०३]
कत्यकुशलमूलानि कति न ।
[२९१।०४]
कामेऽकुशलमूलानि रागप्रतिघमूढयः ।
[२९१।०५-२९१।०६]
कामधातौ सर्वरागः सर्वप्रतिघः सर्वो मोहोऽन्यत्र सत्कायान्तग्राहदृष्टिसंप्रयुक्ताद्यथाक्रमम् ।
[२९१।०७]
त्रीण्यकुशलमूलानि
[२९१।०८]
लोभोऽकुशलमूलं द्वेषो मोहोऽकुशलमूलम् ।
[२९१।०८-२९१।०९]
यद्ध्यकुशलं चाकुशलस्य च मूलं तदेवाकुशलमूलमिष्टम् ।
[२९१।०९-२९१।१०]
शेषा अनुशया नाकुशलमूलानीति सिद्धम् ।
[२९१।११]
कत्यव्याकृतमूलानि कति न ।
त्रीण्यव्याकृत मूलानि ।
कतमानि त्रीणि ।
[२९१।१२]
तृष्णाऽविद्या मतिश्च सा ॥ ५.२० ॥
[२९१।१३-२९१।१४]
सेत्यव्याकृततां दर्शयति या काचिदव्याकृता तृष्णा अविद्या प्रज्ञा चान्ततो विपाकजा अपि सर्वाऽसावव्याकृतमूलमिति काश्मीराः ।
[२९१।१५]
द्वैधोर्ध्ववृत्तेर्नातोऽन्यौ
[२९१।१६]
विचिकित्सा किल द्वैधवृत्तेर्न मूलं भवितुमर्हति ।
चलत्वात् ।
[२९१।१६-२९१।१७]
उन्नतिलक्षणेनोर्ध्ववृत्तेर्न मानो मूलम् ।
[२९१।१७-२९१।१८]
विविधस्मृतिमूलानि हि स्थिराण्यधोवृत्तीनि च लोके दृष्टान्नीति ।
[२९२।०१]
चत्वार्येवेति बाह्यकाः ।
[२९२।०२]
बाह्यका श्चत्वार्यव्याकृतमूलानीच्छन्ति ।
[२९२।०३]
तृष्णादृङ्मानमोहास्ते
[२९२।०४]
स इत्यव्याकृता इति दर्शयति ।
अव्याकृता तृष्णा दृष्टिर्मानोऽविद्या च ।
[२९२।०४-२९२।०५]
किं कारणमेतान्यव्याकृतमूलानीच्छन्ति ।
[२९२।०६]
ध्यायित्रित्वादविद्यया ॥ ५.२१ ॥
[२९२।०७]
यस्मात्त्रयो ध्यायिनः ।
तृष्णादृष्टिमानोत्तरध्यायिनः ।
ते चाविद्यावशाद्भवन्तीति ।
[२९२।०८]
यानि सूत्रे चतुर्दशाव्याकृतवस्तूनि किं तानि अव्याकृतत्वात् ।
नेत्याह ।
[२९२।०९]
किं तर्हि ।
स्थापनीयः प्रश्नोऽव्याकृत इत्युक्तम् ।
चतुर्विधो हि प्रश्नः ।
[२९२।०९-२९२।१०]
एकांशव्याकरणीयो विभज्यव्याकरणीयः परिपृच्छय्य व्याकरणीयः स्थापनीयश्च ।
[२९२।१०-२९२।११]
तत्र यथाक्रमं वेदितव्यम् ।
[२९२।१२-२९२।१४]
एकांशतो व्याकरणं विभज्य परिपृच्छय च ।
स्थाप्यं च मरणोत्पत्ति विशिष्टात्माऽन्यतादिवत् ॥ ५.२२ ॥
[२९२।१५]
किं सर्वसत्त्वा मरिष्यन्तीत्येकांशेन व्याकर्त्तव्यं मरिष्यन्तीति ।
[२९२।१५-२९२।१६]
किं सर्वे जनिष्यन्त इति विभज्य व्याकर्त्तव्यं संक्लेशा जनिष्यन्ते न निःक्लेशा इति ।
[२९२।१६-२९२।१७]
किं मनुष्यो विशिष्टो हीन इति परिपृच्छय्य व्याकत्तेव्यम् ।
[२९२।१७]
कानधिकृत्य प्रश्नयसीति ।
[२९२।१७-२९२।१८]
यदि ब्रूयाद्देवानिति ।
[२९२।१८]
हीन इति व्याकर्त्तव्यम् ।
अथ ब्रूयादपायानिति ।
[२९२।१८-२९२।१९]
विशिष्ट इति व्याकर्त्तव्यम् ।
[२९२।१९]
किमन्यः स्कन्धेभ्यः सत्त्वोऽनन्य इति स्थापनीयः ।
[२९२।१९-२९२।२०]
सत्त्वद्रव्यस्याभावात्वन्ध्यापुत्रश्यामगौरतादिवत् ।
[२९२।२१]
कथमेतद्व्याकरणं भवति अव्याकृतमेतदिति ।
एवं व्याकरणात् ।
[२९२।२२]
अपर आह ।
इदमप्येकांशव्याकरणं यन्न सर्वे जनिष्यन्त इति ।
[२९२।२३-२९२।२४]
यस्तु पृच्छेद्ये मरिष्यन्ति किं ते जनिष्यन्त इत्येतद्विभज्यव्याकरणीयं स्यात् ।
[२९२।२४-२९३।०१]
मनुष्येषु चोभयमस्ति हीनत्वं विशिष्टत्वं चापेक्षिकमित्युभयमेकांशेन व्याकर्त्तव्यम् ।
[२९३।०१-२९३।०२]
तद्यथा विज्ञानं कार्यं कारणं चेति एकान्तेन तु पृच्छतो नैकान्तव्याकरणात्विभज्यव्याकरणं युज्यते ।
[२९३।०२-२९३।०३]
स्कन्धेभ्योऽन्यः सत्त्व इत्येतदव्याकृतमेव ।
[२९३।०३]
न चाव्याकरणमेव व्याकरणं युज्यत इति ।
[२९३।०३-२९३।०४]
यस्तु स्थापनीयः प्रश्नः स्थापनीयत्वेन व्याक्रियते ।
[२९३।०४]
कथं न व्याकृतो भवति ।
[२९३।०५]
आभिधर्मिका आहुः ।
[२९३।०५-२९३।०७]
“तथागतो भगवानर्हन् सम्यक्संबुद्धः स्वाख्यातोऽस्य धर्मः सुप्रतिपन्नः श्रावकसंघः रूपमनित्यं यावद्विज्ञान दुःखप्रज्ञप्तिर्यावन्मार्गप्रज्ञप्तिरेकांशेन व्याकर्त्तव्यमर्थोपसंहितत्वात् ।
[२९३।०७-२९३।०८]
विभज्जव्याकरणं नाम यदि कश्चिद्ब्रूयाद्धर्मान् वदेति स वक्तव्यो बहवो धर्मा अतीता अनागताः प्रत्युत्पन्नाः कतमान् वदामीति ।
[२९३।०९]
यदि ब्रू यादतीतानिति ।
स व्यक्तव्योऽतीता अपि बहवो रूपं यावद्विज्ञानमिति ।
[२९३।१०]
अथं ब्रूयाद्रूपमिति ।
स वक्तव्यो रूपमपि त्रिविधं कुशलमकुशलमव्याकृतं च ।
[२९३।११]
यद्याह कुशलमिति ।
[२९३।११-२९३।१२]
तदपि सप्तप्रकारं प्राणातिपाताद्विरतिर्यावत्संभिन्नप्रलापादिति ।
[२९३।१२]
यद्याह प्राणातिपाताद्विरतिमिति ।
[२९३।१२-२९३।१३]
साऽपि त्रिप्रकारा अलोभजाऽद्वेषजाऽमोहजा ।
[२९३।१३]
यद्याहालोभजामिति ।
[२९३।१३-२९३।१४]
अलोभजाऽपि द्विविधा विज्ञाप्त्यविज्ञप्तिभेदादित्येवं विभज्य वक्तव्यमिति ।
[२९३।१४]
एतदेव च शठस्य परिपृच्छ्य व्याकरणम् ।
[२९३।१४-२९३।१५]
तस्य वक्तव्यं धर्मा बहव इति ।
[२९३।१५]
न तु विभक्तव्या यावत्तूष्णिं वा तिष्ठति स्वयं वा व्याकरोतीति ।
[२९३।१६-२९३।१७]
यदा तौ न किञ्चित्पृच्छतः केवलमध्येषयतः तयोश्च न किञ्चित्व्याक्रियते केवलं परिप्रश्न्येते तत्कथमनयोः प्रश्नो भवति कथं वा व्याकरणम् ।
[२९३।१८]
यो ह्हि पन्थानं ब्रूहीत्याह किं तेन पन्था न पृष्टो भवति ।
[२९३।१८-२९३।१९]
परिपृच्छयैव व्याकरणात्कथं न परिपृच्छाव्याकरणं भवति ।
[२९३।१९-२९३।२०]
स्थापनीयस्तु यथा अन्तवान् लोकोऽनन्तवानित्येवमादि सूत्रान्तादेव तु प्रश्नव्याकरणानां लक्षणं द्रष्टव्यम् ।
[२९३।२०-२९३।२१]
भदन्तमहासाङ्घिकाः सूत्रं पठन्ति ।
[२९३।२१]
“चत्वारीमानि भिक्षवः प्रश्नव्याकरणानीति ।
[२९३।२१-२९३।२२]
कतमानि चत्वारि ।
[२९३।२२]
अस्ति भिक्षव एकांशव्याकरणीयः प्रश्नः ।
अस्ति यावत्स्थापनीयः ।
[२९३।२३]
कतमश्च भिक्षवः एकांशव्याकरणीयः प्रश्नः ।
[२९३।२३-२९३।२४]
सर्वे संस्कारा अनित्या इत्ययं भिक्षव एकांशव्याकरणीयः प्रश्नः ।
[२९३।२४]
कतमश्च भिक्षवो विभज्यव्याकरणीयः प्रश्नः ।
[२९३।२४-२९३।२५]
संचेतनीयं कर्म कृत्वा किं प्रतिवेदयत इत्ययं विभज्यव्याकरणीयः प्रश्नः ।
[२९३।२५-२९३।२६]
कतमश्च भिक्षवः परिपृच्छ्यव्याकरणीयः प्रश्नः ।
[२९३।२६-२९३।२७]
संज्ञासु पुरुषस्यात्मा उताहोऽन्यासंज्ञा अन्य आत्मेति पृष्टेन सता परिप्रष्टव्यः कतमं पुनरायुष्मानात्मानं प्रत्येति ।
[२९३।२७-२९३।२८]
स चेदेवं वदेदौ दारिकं खल्वहयायुष्मन्नात्मानं प्रत्येमि ।
[२९३।२८-२९३।२९]
एवं सत्यन्या संज्ञा अन्य आत्मेत्येवं वचनीयः ।
[२९३।२९]
अयं हि परिपृच्छ्य व्याकरणीयः प्रश्नः ।
[२९३।२९-२९४।०१]
कतमश्च भिक्षवः स्थापनीयः प्रश्नः ।
[२९४।०१]
तद्यथा शाश्वतो लोकोऽशाश्वतः ।
[२९४।०१-२९४।०२]
शाश्वतश्चाशाश्वतश्च ।
[२९४।०२]
नैव शाश्वतो नाशाश्वतः ।
अन्तवानन्ततः ।
अन्तवांश्चानन्तश्च ।
[२९४।०२-२९४।०३]
नैवान्तवान्नानन्तवान् ।
[२९४।०३-२९४।०४]
भवति तथागतः परं मरणान्न भवति तथागतः परं मरणात्यावदन्यो जीवोऽन्यच्छरीरमित्ययं भिक्षवः स्थापनीयः प्रश्न” इति ।
[२९४।०४-२९४।०५]
यस्य पुद्गलस्य योऽनुशयो यस्मिन्नालम्बनेऽनुशेते स तेन तस्मिन् संप्रयुक्तः ।
[२९४।०५-२९४।०६]
इदं तु
वक्तव्यमतीते न कस्मिन् यावत्प्रत्युपन्ने न कस्मिन्निति ।
[२९४।०७]
समासत इमे द्विविधाः क्लेशाः ।
स्वलक्षणक्लेशाश्च रागप्रतिवमानाः ।
[२९४।०८]
सामान्यक्लेशाश्च दृष्टिविचिकित्सादऽविद्याः ।
तत्र तावत् ।
[२९४।०९-२९४।१०]
रागप्रतिघमानैः स्यादतीतप्रत्युपस्थितैः ।
यत्रोत्पन्नाऽप्रहीणास्ते तस्मिन् वस्तुनि संयुतः ॥ ५.२३ ॥
[२९४।११-२९४।१२]
अतीताः प्रत्युत्पन्नाश्च रागप्रतिघमाना यस्मिन् वस्तुन्युत्पन्ना न च प्रहीणास्तस्मिन् वस्तुनि तैः संयुक्तः ।
[२९४।१२]
एते हि स्वलक्षणक्लेशत्वान्न सर्वस्यावश्यं सर्वत्रोत्पद्यन्ते ।
[२९४।१३]
सर्वत्रानागतैरेभिर्मानसैः
[२९४।१४]
यत्राप्रहीणास्ते इति वर्त्तते ।
[२९४।१४-२९४।१५]
अनागतैरेभिरेव रागप्रतिघमानैर्मनोभूमिकैः सर्वत्र वस्तुनि संयुतस्त्रैयध्विके ।
[२९४।१५]
मानसानां त्र्यध्वविषयत्वात्
[२९४।१६]
स्वाध्विके परैः ।
[२९४।१७]
अन्यै रागप्रतिघैरनागतैरनागत एव वस्तुनि संयुक्तः ।
के पुनरन्ये ।
[२९४।१७-२९४।१८]
ये पञ्च विज्ञानकायिका रागाश्च प्रतिघाश्च ।
[२९४।१८]
उत्पत्तिधर्मभिरेव ।
तैरेव तु
[२९४।१९]
अजैः सर्वत्र
[२९४।२०]
अनुत्पत्तिधर्मभिः पञ्चविज्ञानकायिकैरपि सर्वत्र वस्तुनि संयुक्तः ।
त्रैयध्विकेऽपि
[२९४।२१]
शेषैस्तु सर्वैः सर्वत्र संयुतः ॥ ५.२४ ॥
[२९५।०१]
के पुनः शेषाः ।
दृष्टिविचिकित्साऽविद्यास्त्रैयध्विकाः ।
[२९५।०१-२९५।०२]
तैः सर्वैरपि सर्वस्मिन्वस्तुनि संयुक्तः ।
[२९५।०२]
सामान्यक्लेशत्वात् ।
यावदप्रहीणा इत्यधिकारोऽनुवर्त्तत एव ।
[२९५।०२-२९५।०३]
किं पुनरिदमतीतानागतमुच्यतेऽस्त्यथ न ।
[२९५।०३-२९५।०४]
यद्यस्ति सर्वकालास्तित्वात्संस्काराणां शाश्वतत्वं प्राप्नोति ।
[२९५।०४]
अथ नास्ति ।
कथं तत्र तेन वा संयुक्तो भवति विसंयुक्तो वा ।
[२९५।०४-२९५।०५]
न संस्काराणां शाश्वतत्वं प्रतिज्ञायते वैभाषिकैः संस्कृतलक्षणयोगात् ।
[२९५।०५-२९५।०६]
प्रतिज्ञायते तु विशदं
[२९५।०७]
सर्वकालास्तिता
[२९५।०८]
किं कारणम् ।
[२९५।०९]
उक्तत्वात्
[२९५।१०-२९५।११]
उक्तं हि भगवताऽ”तीतं चेद्भिक्षवो रूपं नाभविष्यन्न श्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षोऽभविष्यत् ।
[२९५।११-२९५।१२]
यस्मात्तर्ह्यस्त्यतीतं रूपं तस्माच्छ्रुतवानार्यश्रावकोऽतीते रूपेऽनपेक्षो भवति ।
[२९५।१२-२९५।१३]
अनागतं चेद्रूपं नाभविष्यत्न श्रुतवानार्यश्रावकोऽनागतं रूपं नाभ्यनन्दिष्यत् ।
[२९५।१३-२९५।१४]
यस्मात्तर्ह्यस्त्यनागतं रूपमिति” विस्तरः ।
[२९५।१५]
द्वयात्
[२९५।१६]
“द्वयं प्रतीत्य विज्ञानस्योत्पाद” इत्युक्तम् ।
द्वयं कतमत् ।
[२९५।१६-२९५।१७]
चक्षू रूपाणि यावत्मनो धर्मा इति ।
[२९५।१७]
असति वाऽतीतानागते तदालम्बनं विज्ञानं द्वयं प्रतीत्य न स्यात् ।
[२९५।१८]
एवं तावदागमतोऽस्त्यतीतानागतं युक्तितोऽपि ।
[२९५।१९]
सद्विषयात्
[२९५।२०]
सति विषये विज्ञानं प्रवर्तते नासति ।
[२९५।२०-२९५।२१]
यदि चातीतानागतं न स्यादसदालम्बनं विज्ञानं स्यात् ।
[२९५।२१]
ततो विज्ञानमेव न स्यादालम्बनाभावात् ।
[२९५।२२]
फलात् ।
[२९५।२३]
यदि चातीतं न स्यात्शुभाशुभस्य कर्मणः फलमायत्यां कथं स्यात् ।
[२९५।२३-२९६।०१]
न हि फलोत्पत्तिकाले वर्त्तमानो विपाकहेतुरस्तीति ।
[२९६।०१-२९६।०२]
तस्मादस्त्येवातीतानागतमिति वैभाषिकाः ।
[२९६।०२]
अवश्यं च किलैतत्सर्वास्तिवादेन सताऽभ्युपगन्तव्यम् ।
यस्मात्
[२९६।०३]
तदस्तिवादात्सर्वास्तिवादा इष्टाः
[२९६।०४]
ये हे सर्वमस्तीति वदन्ति अतीतमनामतं प्रत्युत्पन्नं च ते सर्वास्तिवादाः ।
[२९६।०४-२९६।०६]
ये तु केचिदस्ति यत्प्रत्युत्पन्नमदत्तफलं चातीतं कर्म किञ्चिन्नास्ति यद्दत्तफलमतीतमनागतं चेति विभज्य वदन्ति ते विभज्यवादिनः ।
[२९६।०६-२९६।०७]
कति चैते सर्वास्तिवादा इत्याह
[२९६।०८]
चतुर्विधाः ॥ ५.२५ ॥
[२९६।०९]
ते भावलक्षणावस्थाऽन्यथाऽन्यथिकसंज्ञिताः ।
[२९६।१०]
भावान्यथिको भदन्तधर्मत्रातः ।
स किलाह ।
[२९६।१०-२९६।११]
धर्मस्याध्वसु, प्रवर्तमानस्य भावान्यथात्वं भवति न द्रव्यान्यथात्वम् ।
[२९६।११-२९६।१२]
यथा सुवर्णभाजनस्य भित्त्वाऽन्यथा क्रियमाणस्य संस्थानान्यथात्वं भवति न वर्णान्यथात्वम् ।
[२९६।१२-२९६।१३]
यथा च क्षीरं दधित्वेन परिणमद्रसवीर्यविपाकान् परित्यजति न वर्णम् ।
[२९६।१३-२९६।१४]
एवं धर्मोऽप्यनागतादध्वनः प्रत्युत्पन्नमध्वानमागच्छन्ननागतभावं जहाति न द्रव्यभावम् ।
[२९६।१४-२९६।१५]
एवं प्रत्युत्पन्नादतीतमध्वानं गच्छन् प्रत्युत्पन्नभावं जहाति न द्रव्यभावमिति ।
[२९६।१६]
लक्षाणान्यथिको भदन्तघोषकः ।
स किलाह ।
[२९६।१६-२९६।१७]
धर्मोऽध्वसु प्रवर्त्तमानोऽतीतोऽतीतलक्षणयुक्तोऽनागतप्रत्युत्पन्नाभ्यां लक्षणाभ्यामवियुक्तः ।
[२९६।१७-२९६।१८]
अनागतोऽनागतलक्षणयुक्तोऽतीतप्रत्युत्पन्नाभ्यामवियुक्तः ।
[२९६।१८-२९६।१९]
एवं प्रत्युत्पन्नोऽप्यतीतानागताभ्यामवियुक्तः ।
[२९६।१९]
तद्यथा पुरुष एकस्यां स्त्रियां रक्तः शेषास्वविरक्त इति ।
[२९६।२०]
अवस्थाऽन्यथिको भदन्तवसुमित्रः ।
स किलाह ।
[२९६।२०-२९६।२१]
धर्मोऽध्वसु प्रवर्तमानोऽवस्थामवस्थां प्राप्यान्योऽन्यो निदिश्यते अवस्थान्तरतो न द्रव्यान्तरतः ।
[२९६।२१-२९६।२३]
यथैका वर्तिका एकाङ्के निक्षिप्ता एकमित्युच्यते शताङ्के शतं सहस्राङ्के सहस्रमिति ।
[२९७।०१]
अन्यथान्यथिको भदन्तबुद्धदेवः ।
स किलाह ।
[२९७।०१-२९७।०२]
धर्मोऽध्वसु प्रवर्तमानः पूर्वापरमपेक्ष्यान्योऽन्य उच्यते अवस्थान्तरतो न द्रव्यान्तरतः ।
[२९७।०२-२९७।०३]
यथैका स्त्री माता वोच्यते दुहिता वेति ।
[२९७।०३]
इत्येते चत्वारः सर्वास्तिवादाः ।
[२९७।०४]
एषां तु प्रथमः परिणामवादित्वात्सांख्यपक्षे निक्षेप्तव्यः ।
[२९७।०४-२९७।०५]
द्वितीयस्याध्वसंकरः प्राप्नोति ।
[२९७।०५]
सर्वस्य सर्वक्षणयोगात् ।
[२९७।०५-२९७।०६]
पुरुषस्य तु कस्याञ्चित्स्त्रियां रागः समुदाचरति कस्याञ्चित्केवलं समन्वागम इति किमत्र साम्यम् ।
[२९७।०६-२९७।०७]
चतुर्थस्याप्येकस्मिन्नेवाध्वनि त्रयोऽध्वानः प्राप्नुवन्ति ।
[२९७।०७-२९७।०८]
अतीतेऽध्वनि पूर्वपश्चिमौ क्षणावतीतानागतौ मध्यमः क्षणः प्रत्युत्पन्न इति ।
[२९७।०८]
एवमनागतेऽपि ।
अत एषां सर्वेषां
[२९७।०९]
तृतीयः शोभनः
[२९७।१०]
योऽयमवस्थाऽन्यथिकः ।
तस्य किल
[२९७।११]
अध्वानः कारित्रेण व्यवस्थिताः ॥ ५.२६ ॥
[२९७।१२]
यदा स धर्मः कारित्रं न करोति तदाऽनागतः ।
यदा करोति तदा प्रत्युत्पन्नः ।
[२९७।१३]
यदा कृत्वा निरुद्धस्तदाऽतीत इति ।
परिगतमेतत्सर्वम् ।
इदं तु वक्तव्यम् ।
[२९७।१३-२९७।१४]
यद्यतीतमपि द्रव्यतोऽस्त्यनागतमिति ।
[२९७।१४]
कस्मात्तदतीतमित्युच्यतेऽनागतमिति वा ।
[२९७।१४-२९७।१५]
ननु चोक्तमध्वानः कारित्रेण व्यवस्थिता इति ।
[२९७।१५-२९७।१६]
यद्येवं प्रत्युत्पन्नस्य तत्सभागस्य चक्षुषः किं कारित्रम् ।
[२९७।१६]
फलदानप्रतिग्रहणम् ।
[२९७।१६-२९७।१७]
अतीतानामपि तर्हि सभागहेत्वादीनां फलदानात्कारित्रप्रसङ्गोऽर्धकारित्रस्य वेति लक्षणसंकरः ।
[२९७।१८]
इदं च वक्तव्यम् ।
तेनैवात्मना सतो धर्मस्य नित्यं कारित्रकरणे
[२९७।१९]
किं विघ्नं
[२९७।२०]
येन कदाचित्कारित्रं करोति कदाचिन्नेति ।
प्रत्ययानामसामग्रयमिति चेत् ।
न ।
[२९७।२१]
नित्यमास्तित्वाभ्युपगमात् ।
यच्च तत्कारित्रमतीतानागतं प्रत्युत्पन्नं चोच्यते
[२९७।२२]
तत्कथं
[२९८।०१]
किं कारित्रस्याप्यन्यदस्ति कारित्रम् ।
[२९८।०१-२९८।०२]
अथ तन्नैवातीतं नाप्यनागतं न प्रत्युत्पन्नमस्ति च ।
[२९८।०२]
तेनासंस्कृतत्वान्नित्यमस्तीति प्राप्तम् ।
[२९८।०२-२९८।०३]
अतो न वक्तव्यं यदा करित्रं न करोति धर्मस्तदाऽनागत इति ।
[२९८।०४]
स्यादेष दोषो यदि धर्मात्कारित्रमन्यत्स्यात् ।
तत्तु खलु
[२९८।०५]
नान्यत्
[२९८।०६]
अतो न भवत्येष दोषः ।
एवं तहि स एव
[२९८।०७]
अध्वायोगः
[२९८।०८-२९८।०९]
यदि धर्म एव कारित्रं कस्मात्स एव धर्मस्तेनैवात्मना विद्यमानः कदाचिदतीत इत्युच्यते कदाचिदनागत इत्यध्वनां व्यवस्था न सिध्यति ।
[२९८।०९]
किमत्र न सिध्यति ।
[२९८।१०]
यो ह्यजातो धर्मः सोऽनागतः ।
यो जातो भवति न च विनष्टः स वर्त्तमानः ।
[२९८।११]
यो विनष्टः सोऽतीतः इति ।
एतदेवात्र वक्तव्यम् ।
[२९८।११-२९८।१२]
यदि यथा वर्त्तमानं द्रव्यतोऽस्ति तथाऽतीतमनागतं चास्ति ।
[२९८।१२]
तस्य
[२९८।१३]
तथा सतः ।
[२९८।१४]
अजातनष्टता केन
[२९८।१५]
तेनैव स्वभावेन सतो धर्मस्य कथमिदं सिध्यत्यजात इति यो विनष्टः इति वेति ।
[२९८।१६]
किमस्य पूर्वं नासीद्यस्याभावादजात इत्युच्यते ।
[२९८।१६-२९८।१७]
किं च पश्चान्नास्ति यस्याभावा द्विनष्ट इत्युच्यते ।
[२९८।१७]
तस्मान्न सिध्यति सर्वथाऽप्यत्राध्वत्रयम् ।
[२९८।१७-२९८।१८]
यद्यभुत्वा भवतीति नेष्यते भूत्वा च पुनर्न भवतीति ।
[२९८।१८-२९८।१९]
यदप्युक्तं “संस्कृतलक्षणयोगान्न शाश्वतत्वप्रसङ्ग” इति ।
[२९८।१९]
तदिदं केवलं वाङ्मात्रमुत्पादविनाशयोरयोगात् ।
[२९८।१९-२९८।२०]
नित्यं च नामास्ति स धर्मो न च नित्य इत्यपूर्वैषा वाचो युक्तिः ।
[२९८।२०]
आह खल्वपि
[२९८।२१-२९८।२२]
“स्वभावः सर्वदा चास्ति भावो नित्यश्च नेष्यते ।
न च स्वभावाद्भावोऽन्यो व्यक्तमीश्वरचेष्टितम् ।”
[२९९।०१]
यत्तूक्तमुक्तत्वादिति ।
वयमपि ब्रूमोऽस्त्यतीतानागतमिति ।
[२९९।०१-२९९।०२]
अतीतं तु यद्भूतपूर्वम् ।
[२९९।०२]
अनागतं यत्सति हेतौ भविष्यति ।
[२९९।०२-२९९।०३]
एवं च कृत्वाऽस्तीत्युच्यते न तु पुनर्द्रव्यतः ।
[२९९।०३]
कश्चैवमाह ।
वर्तमानवत्तदस्तीति ।
कथमन्यथाऽस्ति ।
[२९९।०३-२९९।०४]
अतीता नागतात्मना ।
[२९९।०४]
इदं पुनस्तवोपस्थितम् ।
[२९९।०४-२९९।०५]
कथं तदतीतमनागतं चोच्यते यदि नित्यमस्तीति ।
[२९९।०५-२९९।०७]
तस्मात्भूतपूर्वस्य च हेतोर्भाविनश्च फलस्य भूतपूरतां भावितां च ज्ञापयितुं हेतुफलापवाददृष्टिप्रतिषेधार्थमुक्तं भगवता “अस्त्यतीतमस्त्यनागतमि”ति ।
[२९९।०७]
अस्तिशब्दस्य निपातत्वात् ।
[२९९।०७-२९९।०९]
यथाऽस्ति दीपस्य प्रागभावोऽस्ति पश्चादभाव इति वक्तारो भवन्ति यथा चास्ति निरुद्धः स दीपो न तु मया निरोधित इति ।
[२९९।०९]
एवमतीतानागतमप्यस्तीत्युक्तम् ।
[२९९।०९-२९९।१०]
अन्यथा ह्यतीतानागतभाव एव न सिध्येत् ।
[२९९।१०-२९९।११]
यत्तर्हि लगुडशिखीयकान्परिव्राजकानधिकृट्योक्तं भगवता “यत्कर्माभ्यतीतं क्षीणं निरुद्धं विगतं विपरिणतं तदस्ती”ति ।
[२९९।११-२९९।१२]
किं ते तस्य तस्य कर्मणो भूतपूर्वत्वं नेच्छन्ति स्म ।
[२९९।१२-२९९।१३]
तत्र पुनस्तदाहितं तस्यां संततौ फलदानसामर्थ्यं संधायोक्तम् ।
[२९९।१३]
अन्यथा हि स्वेन भावेन विद्यमानमतीतं न सिध्येत् ।
[२९९।१३-२९९।१५]
इत्थं चैतदेवं यत्परमार्थशून्यतयामुक्तं भगवता “चक्षुरुत्पद्यमानं न कुतश्चिदागच्छति निरुध्यमानं न क्वचित्संनिचयं गच्छति ।
[२९९।१५-२९९।१६]
इति हि भिक्षवश्चक्षुरभूत्वा भवति भूत्वा च प्रतिगच्छती”ति
[२९९।१६-२९९।१७]
यदि चानागतं चक्षुः स्यान्नोक्तं स्याद्भूत्वा न भवतीति ।
[२९९।१७]
वर्त्तमानेऽध्वन्यभूत्वा भवतीति चेत्न ।
[२९९।१७-२९९।१८]
अध्वनो भावादनर्थान्तरत्वात् ।
[२९९।१८]
अथ स्वात्मन्यभूत्वा भवति ।
सिद्धमिदमनागतं चक्षुर्नास्तीति ।
[२९९।१८-२९९।१९]
यदप्युक्तं “द्वयं प्रतीत्य विज्ञानस्योत्पादादिति इदं तावदिह संप्रधार्यम् ।
[२९९।२०-२९९।२१]
यन्मनः प्रतीत्य धर्मश्चोत्पद्यते मनोविज्ञानं किं तस्य यथा मनोजनकः प्रत्यय एवं धर्मा आहोस्विदालम्बनमात्रं धर्मा इति ।
[२९९।२१-२९९।२२]
यदि तावत्जनकः प्रत्ययो धर्माः कथं यदनागतं कल्पसहस्रेण भविष्यति वा न वा तदिदानीं विज्ञानं जनयिष्यति ।
[२९९।२३]
निर्वाणं च सर्वप्रवृत्तिनिरोधाज्जनकं नोपपद्यते ।
अथालम्बनमात्रं धर्मा भवन्ति ।
[२९९।२४]
अतीतानागतमप्यालम्बनं भवतीति ब्रूमः ।
यदि नास्ति कथमालम्बनम् ।
[२९९।२४-२९९।२५]
अत्रेदानीं ब्रूमः ।
[२९९।२५]
यदा तदालम्बनं तथास्ति कथं तदालम्बनमभूत्भविष्यति चेति ।
[२९९।२५-२९९।२६]
न हि कश्चिदतीतं रूपं वेदनां वा स्मरन्नस्तीति पश्यति ।
[२९९।२६]
किं तर्हि ।
अभूदिति ।
[२९९।२६-२९९।२७]
यथा खल्वपि वर्त्तमानं रूपमनुभूतं तथा तदतीतं स्मर्यते ।
[२९९।२७-२९९।२८]
यथा चानागतं वर्त्तमानं भविष्यति तथा बुद्ध्या गृह्यते ।
[२९९।२८]
यदि च तत्तथैवास्ति वर्तमानं प्राप्नोति ।
[२९९।२८-२९९।२९]
अथ नास्ति ।
[२९९।२९]
असदप्यालम्बनं भवतीति सिद्धम् ।
तदेव तद्विकीर्णमिति चेत् ।
न ।
[३००।०१]
विकीर्णस्याग्रहणात् ।
यदि च तत्तदेव रूपं केवलं परमाणुशो विभक्तम् ।
[३००।०१-३००।०२]
एवं सति परमाणवो नित्याः प्राप्नुवन्ति ।
[३००।०२-३००।०३]
परमाणुसंचर्यावभागमात्रं चैवं सति प्राप्नोति ।
[३००।०३-३००।०४]
न तु किञ्चिदुत्पद्यते नापि निरुध्यत इत्याजीविकवाद आलम्बितो भवति ।
[३००।०४-३००।०५]
सूत्रं चापविद्धं भवति “चक्षुरुत्पद्यमानं न कुतश्चिदागच्छती”ति विस्तरः ।
[३००।०५]
अपरमाणुसंचितानां वेदनादीनां कथं विकीर्णत्वम् ।
[३००।०५-३००।०६]
तेऽपि च यथोत्पन्नानुभूताः स्मर्यन्ते ।
[३००।०६]
यदि च ते तथैव सन्ति नित्याः प्राप्नुवन्ति ।
[३००।०६-३००।०७]
अथ न सन्ति ।
[३००।०७]
असदप्यालम्बनमिति सिद्धम् ।
[३००।०७-३००।०८]
यद्यसदप्यालम्बनं स्यात्त्रयोदशमप्यायतनं स्यात् ।
[३००।०८]
अथ त्रयोदशमायतनं नास्तीत्यस्य विज्ञानस्य किमालम्बनम् ।
[३००।०९]
एतदेव नामलम्बनम् ।
एवं तर्हि नाम एव नास्तीति प्रतीयेत ।
[३००।०९-३००।१०]
यश्च शब्दस्य प्रागभावमालम्बते किं तस्यालम्बनम् ।
[३००।१०]
शब्द एव ।
[३००।१०-३००।११]
एवं तर्हि यः शब्दाभावं प्रार्थयते तस्य शब्द एव कर्तव्यः स्यात् ।
[३००।११]
अनागतावस्य इति चेत् ।
[३००।११-३००।१२]
सति कथं नास्तिबुद्धिः ।
[३००।१२]
वर्तमानो नास्तीति चेत् ।
न ।
एकत्वात् ।
[३००।१२-३००।१३]
यावता तस्य विशेषस्तस्याभूत्वाभावसिद्धिः ।
[३००।१३]
तस्मादुभयं विज्ञानस्यालम्बनं भावश्चाभावश्च ।
[३००।१४-३००।१५]
यत्तर्हि बोधिसत्त्वेनोक्तम् “यत्तत्लोके नास्तितदहं ज्ञास्यामि वा द्रक्ष्यामि वा नेदं स्थानं विद्यत” इति ।
[३००।१५-३००।१६]
अपरे आभिमानिका भवन्त्यसन्तमप्यवभासं सन्तं पश्यन्ति ।
[३००।१६]
अहं तु सन्तमेवार्स्तीति पश्यामीत्ययं तत्राभिप्रायः ।
[३००।१६-३००।१८]
इतरथा हि सर्वबुद्धीनां सदालम्बनत्वे कुतोऽस्य विमर्शः स्यात्को वा विशेषः ।
[३००।१८]
इत्थं चैतदेवम् ।
[३००।१८-३००।१९]
यदन्यत्र भगवतोक्तम् “एतत्भिक्षुर्मम श्रावको यावत्स मया कल्पमवोदितः सायं विशेषाय परैष्यति ।
[३००।१९-३००।२०]
सायमवोदितः कल्पं विशेषाय परैष्यति ।
[३००।२०-३००।२१]
सच्च सतो ज्ञास्यति असच्चासतः सोत्तरञ्च सोत्तरतः अनुत्तरं चानुरत्तरत” इति ।
[३००।२१]
तस्मादयमप्यहेतुः ।
सदालम्बनत्वाद्विज्ञानस्येति ।
[३००।२१-३००।२२]
यदष्युक्तं फलादिति ।
[३००।२२]
नैव हि सौत्रान्तिका अतीतात्कर्मणः फलोत्पत्ति वर्णयन्ति ।
[३००।२३]
किं तर्हि ।
तत्पूर्वकात्संतानविशेषादित्यात्मवादप्रतिषेधे संप्रवेदयिष्यामः ।
[३००।२४-३००।२५]
यस्य त्वतीतानागतं द्रव्यतोऽस्ति तस्य फलं नित्यमेवास्तीति किं तत्र कर्मणः सामर्थ्यम् ।
[३००।२५]
उत्पादने सामर्थ्यम् ।
उत्पादस्तर्ह्यभूत्वा भवतीति सिद्धम् ।
[३०१।०१]
अथ सर्वमेव चास्ति ।
कस्येदानीं क्व सामर्थ्यम् ।
[३०१।०१-३०१।०२]
वार्षगण्यवादश्चैवं द्योतितो भवति ।
[३०१।०२]
“यदस्त्यस्त्येव तत् ।
यन्नास्ति नास्त्येव तत् ।
असतो नास्ति संभवः ।
[३०१।०३]
सतो नास्ति विनाश” इति ।
वर्तमानीकरणे तर्हि सामर्थ्यम् ।
[३०१।०३-३०१।०४]
किमिदं वर्त्तमानीकरणं नाम ।
[३०१।०४]
देशान्तराकर्षणं चेत् ।
नित्यं प्रसक्तम् ।
अरूपिणां च कथं तत् ।
[३०१।०४-३०१।०५]
यच्च तदाकर्षणं तदभूत्वा भूतम् ।
[३०१।०५-३०१।०६]
स्वभावविशेषणं चेत्सिद्धमभूत्वा भवनम् ।
[३०१।०६]
तस्मान्नैवं सर्वास्तिवादः शासने साधुर्भवति ।
[३०१।०६-३०१।०७]
यदतीतानागतं द्रव्यतोऽस्तीति वदति ।
[३०१।०७]
एवं तु साधुर्भवति ।
यथा सूत्रे सर्वमस्तीत्युक्तं तथा वदति ।
[३०१।०८]
कथं च सूत्रे सर्वमस्तीत्युक्तम् ।
“सर्वमस्तीति ब्राह्मण यावदेव द्वादशायतनानी”ति ।
[३०१।०९]
अध्वत्रयं वा ।
[३०१।०९-३०१।१०]
यथा तु तदस्ति तथोक्तमथासत्यतीतातानागते कथं तेन तस्मिन्वा संयुक्तो भवति ।
[३०१।१०-३०१।११]
तज्जतद्धेत्वनुशयभावात्क्लेशेन तदालम्बने क्लेशानुशयभावाद्वस्तुनि संयुक्तो भवति ।
[३०१।११]
अस्त्येव त्वतीतानागतमिति वैभाषिकाः ।
[३०१।११-३०१।१२]
यत्र नेतुं शक्यते तत्रात्मकात्मनैवं वेदितव्यम् ।
[३०१।१३]
गम्भीरा खलुधर्मता ॥ ५.२७ ॥
[३०१।१४]
नावश्यं तर्ह्यसाध्या भवतीति ।
अस्ति पर्यायो यदुत्पद्यते तन्निरुध्यते ।
[३०१।१५]
रूपमुत्पद्यते रूपं निरुध्यते ।
अस्ति पर्यायोऽन्यदुत्पद्यतेऽन्यन्निरुध्यते ।
[३०१।१५-३०१।१६]
अनागतमुत्पद्यते वर्त्तमानं निरुध्यते ।
[३०१।१६]
अध्वाऽप्युत्पद्यते ।
उत्पद्यमानस्याध्वसंगृहीतत्वात् ।
[३०१।१७]
अध्वनोऽप्युत्पद्यते ।
अनेकक्षणिकत्वादनागतस्याध्वनः ।
[३०१।१७-३०१।१८]
गतमेतत्यत्प्रसङ्गेनागतम् ।
[३०१।१९]
इदानीमिदं विचार्यते ।
यद्वस्तु प्रहीणं विसंयुक्तः स तस्मिन्वस्तुनि ।
[३०१।१९-३०१।२०]
यत्र वा विसं युक्तः प्रहीणं तस्य तद्वस्त्विति ।
[३०१।२०-३०१।२१]
यत्र तावद्विसंयुक्तः प्रहीणं तस्य तद्वस्तु ।
[३०१।२१]
स्यातु प्रहीणं न च तत्र विसंयुक्तस्तद्यथा
[३०१।२२-३०१।२३]
प्रहीणे दुःखदृग्घेये संयुक्तः शेषसर्वगैः ।
प्राक्प्रहीणे प्रकारे च शेषैस्तद्विषयैर्मलैः ॥ ५.२८ ॥
[३०१।२४-३०२।०१]
दुःखज्ञाने समुत्पन्ने समुदयज्ञानेऽनुत्पन्ने दुःखदर्शनप्रहातव्यो निकायः प्रहीणो भवति ।
[३०२।०१]
तस्मिन् प्रहीणे तदालम्बनैः समुदयदर्शनप्रहातव्यैः सर्वत्रगैः संयुक्तः ।
[३०२।०२-३०२।०३]
भावनाप्रहातव्येऽपि निकाये नवानां प्रकाराणां यः प्रकारः प्राक्प्रहीणस्तस्मिन् प्रहीणेऽपि शेषैस्तदालम्बनैः क्लेशैः संयुक्तो वेदितव्यः ।
[३०२।०४-३०२।०५]
कस्मिन्वस्तुनि कत्यनुशया अनुशेरत इति एतत्प्रतिपदमभिधीयमानं बहुतरं वक्तव्यं जायते ।
[३०२।०५]
तस्मात्पिण्डविभाषां कुर्वन्ति ।
[३०२।०५-३०२।०६]
कथमल्पेनाल्पेन यत्नेन महतो महतः प्रश्नौघान् प्रतिपाद्येमहीति ।
[३०२।०६-३०२।०७]
समासत इमे षोडश धर्माः कामरूपारुप्यावचराः पञ्चप्रकाराः अनास्रवाश्च ।
[३०२।०७]
चित्तान्यपि षोडश एतान्येव ।
[३०२।०७-३०२।०९]
तत्र कतमो धर्मः कस्य चित्तस्यालम्बनमिति ज्ञात्वा अमुष्मिन्नियन्तोऽनुशया अनुशेरत इत्येतदभ्यूहितव्यम् ।
[३०२।०९]
तत्र तावत्
[३०२।१०-३०२।११]
दुःखहेतुदृगभ्यासप्रहेयाः कामधातुजाः ।
स्वकत्रयैकरूपाप्तामलविज्ञानगोचराः ॥ ५.२९ ॥
[३०२।१२]
स्वकं च तत्त्रयं च स्वकत्रयम् ।
[३०२।१२-३०२।१३]
एकं च तद्रूप्राप्तं च एकरूपाप्तम् ।
[३०२।१३]
एषा विग्रहजातिः ।
[३०२।१३-३०२।१४]
कामावचरास्तावद्दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः पञ्चानां चित्तानामालम्बनम् ।
[३०२।१४-३०२।१५]
स्वधातुकानां त्रयाणां तेषामेव ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव अनास्रवस्य चेति ।
[३०२।१६]
स्वदाधरत्रयोर्ध्वैकामलानां रूपधातुजाः ।
[३०२।१७]
रूपावचरास्त एव त्रिप्रकारा धर्मा अष्टानां चित्तानामालम्बनम् ।
[३०२।१७-३०२।१८]
स्वधातुकानां त्रयाणां तेषामेव ।
[३०२।१८]
अधरधातुकानां त्रयाणां तेषामेव ।
[३०२।१८-३०२।१९]
ऊर्ध्वधातुकस्यैकस्य भावनाहेयस्यैव ।
[३०२।१९]
अनास्रवस्य चेति ।
[३०२।२०]
आरुप्यजास्त्रिधात्वाप्तत्रयानास्रवगोचराः ॥ ५.३० ॥
[३०२।२१]
आरूप्यावचरास्त एव त्रिप्रकारा धर्मा दशानां चित्तानामालम्बनम् ।
[३०२।२१-३०२।२२]
त्रैधातुकानां त्रिप्रकाराणां तेषामेव ।
[३०२।२२]
अनास्रवस्य चेति ।
[३०२।२२-३०२।२३]
उक्तास्त्रैधातुका दुःखसमुदयदर्शनहेया भावनाहेयाश्च धर्माः ।
[३०२।२४]
निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः ।
[३०३।०१]
निरोधमार्गदर्शनहेयानां स्वं चित्तं निरोधमार्गदर्शनहेयमेव ।
[३०३।०१-३०३।०२]
तस्याधिकस्य ते धर्मा आलम्बनं ज्ञेयाः ।
[३०३।०२]
कथं कृत्वा ।
[३०३।०२-३०३।०३]
कामावचरा हि निरोधदर्शनहेया धर्माः षण्णां विज्ञानानामालम्बनम् ।
[३०३।०३-३०३।०४]
पूर्वोक्तानां पञ्चानां तस्यैव च निरोधदर्शनप्रहातव्यस्याधिकस्य ।
[३०३।०४]
मार्गदर्शनहेया अप्येवम् ।
[३०३।०४-३०३।०५]
पञ्चानां पूर्वोक्तानां तस्यैव च मार्गदर्शनप्रहातव्यस्याधिकस्य ।
[३०३।०५]
एवं रूपारूप्यावचराणि ।
[३०३।०५-३०३।०७]
निरोधमार्गदर्शनप्रहातव्यास्तस्यैव निरोधमार्गदर्शनप्रहातव्यस्याधिकस्य चित्तस्यालम्बनमिति नवानामेकादशानां च चित्तानामालम्बनं भवन्ति ।
[३०३।०७-३०३।०८]
उक्तास्त्रैधातुकाः पञ्चप्रकाराः धर्माः ।
[३०३।०९]
अनास्रवास्त्रिधात्वन्त्यत्रयानास्रवगोचराः ॥ ५.३१ ॥
[३०३।१०]
अनास्रवा धर्मा दशानां चित्तानामालम्बनम् ।
[३०३।१०-३०३।११]
त्रैधातुकानामन्त्यानां त्रिप्रकाराणां निरोधमार्गदर्शनभावनाहेयानामनास्रवस्येति ।
[३०३।११-३०३।१२]
पुनरस्यैवार्थस्याध्यर्धेन श्लोकेन संग्रहो भवति ।
[३०३।१३-३०३।१५]
“दुःखहेतुदृगभ्यासहेया धातुत्रयेऽमलाः
पञ्चाष्टदशविज्ञानदशविज्ञानगोचराः
निरोधमार्गदृग्घेयाः सर्वे स्वाधिकगोचराः” । इति ।
[३०३।१६-३०३।१७]
एवमेषां षोडशानां चित्तानां षोडशधर्मालम्बनव्यवस्थां विदित्वा कथमनुशयकार्यां योजयितव्यम् ।
[३०३।१७]
दिङमात्रं दर्शयिष्यामः ।
[३०३।१८-३०३।१९]
सुखेन्द्रियालम्बने विज्ञाने कत्यनुशयाः अनुशेरत इति प्रश्न आगते विचारयितव्यम् ।
[३०३।१९-३०३।२०]
सुखेन्द्रियं सप्तविधं कामावचरं भावनाप्रहातव्यं रूपावचरं च पञ्चप्रकारमनास्रवं चेति ।
[३०३।२०-३०३।२१]
तदेतत्समासतो द्वादशधर्मस्य विज्ञानस्यालम्बनं भवति ।
[३०३।२१]
कामावचरस्य चतुष्प्रकारस्यान्यत्र निरोधदर्शनहेयात् ।
[३०३।२२-३०३।२३]
रूपावचरस्य पञ्चप्रकारस्यारूप्यावचरस्य द्विप्रकारस्य मार्गदर्शनभावनाहेयस्यानास्रवस्य च ।
[३०३।२३]
इदं द्वादशविधं सुखेन्द्रियालम्बनं विज्ञानम् ।
[३०३।२३-३०३।२५]
तत्र यथासंभवं कामावचराश्चत्वारो निकाया रूपावचराश्च संस्कृतालम्बना आरूप्यावचरौ च द्वौ निकायौ सर्वत्रगाश्चानुशया अनुशेरत इति ज्ञातव्यम् ।
[३०३।२५-३०३।२६]
सुखेन्द्रियालम्बनालम्बने विज्ञाने कत्यनुशया अनुशेरते ।
[३०३।२६-३०४।०१]
तत्पुनः सुखेन्द्रियालम्बनालम्बनं द्वादशविधं विज्ञानं कतमस्य विज्ञानस्यालम्बनम् ।
[३०४।०१-३०४।०२]
तस्यैव द्वादशविधास्यारूप्यावचरस्य च भूयो द्विप्रकारस्य दुःखसमुदयदर्शनप्रहातव्यस्य ।
[३०४।०२-३०४।०५]
इदं चतुर्दशविधं सुखेन्द्रियालम्बनालम्बनं विज्ञानं तत्रारूप्यावचरौ द्वौ दुःखसमुदयदर्शनहेयौ वर्धयित्वा कामावचरा आरूप्यावचराश्चत्वारो निकाया रूपावचराः संस्कृतालम्बना अनुशया अनुशेरत इति ज्ञातव्यम् ।
[३०४।०५]
अनया वर्तन्याऽन्यदप्यनुगन्तव्यम् ।
[३०४।०५-३०४।०६]
यैरनुशयैर्यच्चित्तं सानुशयं तेऽनुशयास्तस्मिश्चित्तेऽनुशेरते ।
[३०४।०६]
स्युरनुशेरते ।
[३०४।०६-३०४।०७]
येऽनुशयास्तेन चित्तेन संप्रयुक्ता अप्रहीणास्तदालम्बनाश्चाप्रहीणाम् ।
[३०४।०७]
स्युर्नानुशेरते ।
[३०४।०७-३०४।०८]
येऽनुशयास्तेन चित्तेन संप्रयुक्ताः प्रहीणास्तदालम्बनाश्च ।
[३०४।०८]
तदेवं कृत्वा भवति ।
[३०४।०९]
द्विधा सानुशयं क्लिष्टमक्लिष्टमनुशायकैः ।
[३०४।१०-३०४।११]
क्लिष्टं चित्तमनुशयानैश्चानुशयैः सानुशयं तत्संप्रयुक्ततदालम्बनैरप्रहीणैरननुशयानैश्च तत्संप्रयुक्तैः प्रहीणैस्तत्सहितत्वात् ।
[३०४।११-३०४।१२]
अक्लिष्टं तु चित्तमनुशयानैरेव तदालम्बनैरप्रहीणैरिति ।
[३०४।१३]
अथैषां दशानामनुशयानां कथं प्रवृत्तिरिति ।
[३०४।१३-३०४।१४]
आदित एव तावदविद्याय्योगात्सत्येषु स मुह्यति ।
[३०४।१४]
दुःखमस्मै न रोचते यावत्मार्गस्ततः
[३०४।१५]
मोहाकाङ्क्षा
[३०४।१६]
मूढस्य पक्षद्वयं श्रुत्वा विचिकित्सोत्पद्यते ।
दुःखं न्विदं नत्विदं दुःखमित्येवमादि ।
[३०४।१७]
ततो मिथ्यादृष्टिः
[३०४।१८]
विचिकित्साया मिथ्यादृष्टिः प्रवर्तते ।
[३०४।१८-३०४।१९]
संशयितस्य मिथ्याश्रमणचित्तानां मिथ्यानिश्चयोत्पत्तेः ।
[३०४।१९]
नास्ति दुःखमित्येव्मादि ।
[३०४।२०]
सत्कायदृक्ततः ॥ ५.३२ ॥
[३०४।२१]
मिथ्यादृष्टेः किल सत्कायदृष्टिः प्रवर्तते ।
दुःखतः स्कन्धानपोह्यात्मतोऽभिनिवेशात् ।
[३०४।२२]
ततोऽन्तग्रहणं
[३०५।०१]
सत्कायदृष्टेरन्तग्राहदृष्टिः प्रवर्तते ।
आत्मनः शाश्वतोच्छेदान्तग्रहणात् ।
[३०५।०२]
तस्माच्छ्हीलामर्शः
[३०५।०३]
अन्तग्रहाच्छीलव्रतपरामर्शः ।
[३०५।०३-३०५।०४]
यमेवान्तं गृह्णाति तेन शुद्धिप्रत्यागमनात् ।
[३०५।०५]
ततो दृशः ।
[३०५।०६]
आमर्श इति वर्तते ।
शीलव्रतपरामर्शाद्दृष्टिपरामर्शः प्रवर्तते ।
[३०५।०६-३०५।०७]
येन शुद्धिं प्रत्येति तस्याग्रतो ग्रहणात् ।
[३०५।०७]
ततो ।
[३०५।०८]
रागः स्वदृष्टौ मानश्च
[३०५।०९]
तस्यामभिष्वङ्गात्तया चोन्नतिगमनात् ।
[३०५।१०]
द्वेषोऽन्यत्र
[३०५।११]
स्वदृष्ट्यध्यवसितस्य तत्प्रत्यनीकभूतायां परदृष्टौ द्वेषः प्रवर्तते ।
[३०५।११-३०५।१३]
अपरे स्वदृष्टावेवान्यत्र गृहीते त्यक्तायां द्वेषमिच्छन्ति दर्शनहेयानां रागादीनां स्वासान्तानिकदृष्ट्यालम्बनत्वात् ।
[३०५।१४]
इत्यनुक्रमः ॥ ५.३३ ॥
[३०५।१५]
एष एषां दशानां क्लेशानां प्रवृत्तिक्रमः ।
[३०५।१६]
उत्पद्यमानस्तु त्रिभिः कारणैरुत्पद्यते ।
[३०५।१७-३०५।१८]
अप्रहीणादनुशयाद्विषयात्प्रत्युपस्थितात्
अयोनिशो मनस्कारात्क्लेशः
[३०५।१९-३०५।२०]
तद्यथा रागानुशयोऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार एवं कामराग उत्पद्यते ।
[३०५।२०-३०५।२१]
तान्येतानि यथाक्रमं हेतुविषयप्रयोगबलानि ।
[३०५।२१]
एवमन्योऽपि क्लेश उत्पद्यत इति वेदितव्यो यः
[३०५।२२]
संपूर्णकारणः ॥ ५.३४ ॥
[३०६।०१]
कदाचित्किअल्विषयबलेनैवोत्पद्यन्ते ।
न हेतुबलेन ।
[३०६।०१-३०६।०२]
यथा परिहाणधर्मकस्यार्हत इति ।
[३०६।०२-३०६।०३]
एत एवानुशयाः सूत्रे भगवता त्रय आस्रवा उक्ताः कामस्रवो भवास्रवोऽविद्यास्रव इति ।
[३०६।०३-३०६।०४]
चत्वार ओघाः कामौघो भवौघो दृष्ट्योभोऽविद्यौघश्च ।
[३०६।०४]
चत्वारो योगा एत एव ।
[३०६।०४-३०६।०५]
चत्वार्युपादानानि कामोपादानं दृष्ट्युपादानं शीलवृतोपादानमात्मवादोपादानमिति ।
[३०६।०५]
तत्र तावत्
[३०६।०६]
कामे सपर्यवस्थानाः क्लेशाः कामास्रवो विना ।
[३०६।०७]
मोहेन
[३०६।०८-३०६।०९]
अविद्यां वर्जयित्वाऽन्ये कामावचराः क्लेशाः सह पर्यवस्थानैः कामास्रवो वेदितव्य एकचत्वारिंशद्द्रव्याणि ।
[३०६।०९-३०६।१०]
एकत्रिंशदनुशयाः पञ्चप्रकारामविद्यां हित्वा दश पर्यवस्थानानि ।
[३०६।११]
अनुशया एव रूपारूप्ये भवास्रवः ॥ ५.३५ ॥
[३०६।१२]
विना मोहेनेति वर्तते ।
[३०६।१२-३०६।१३]
रूपारूप्यावचरा अविद्यावर्ज्या अनुशया भवास्रवो द्वापञ्चाशद्द्रव्याणि ।
[३०६।१३]
रूपावचराः षड्विंशतिरनुशयाः पञ्चप्रकारामविद्यां हित्वा ।
[३०६।१४]
आरूप्यावचराः षड्विंशतिः ।
ननु च तत्राप्यस्ति पर्यवस्थानद्वयं स्त्यानमौद्धत्यं च ।
[३०६।१५]
प्रकरणेषु चोक्तं “भवास्रवः कतमः ।
[३०६।१५-३०६।१६]
अविद्यां स्थापयित्वा यानि तदन्यानि रूपारूप्यप्रतिसंयुक्तानि ।
[३०६।१६]
संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानानी”ति ।
[३०६।१६-३०६।१७]
कस्मा दिह तस्याग्रहणम् ।
[३०६।१७]
अस्वातन्त्र्यादिति काश्मीराः ।
[३०६।१८]
किं पुनः कारणं रूपारूप्यावचरा अनुशयाः समस्यैको भवाग्र उक्तः ।
[३०६।१९]
अव्याकृतान्तर्मुखा हि ते समाहितभूमिकाः ।
[३०६।२०]
अत एकीकृताः ।
[३०६।२१-३०६।२२]
ते ह्यूभयेऽप्यव्याकृता अन्तर्मुखप्रवृत्ताः समाहितभूमिकाश्चेति त्रिविधेन साधम्येर्णैकताः ।
[३०६।२२-३०६।२३]
येनैव च कारणेन भवराग उक्तस्तेनैव भवास्रवः इत्यविद्येदानीं त्रैधातुक्यविद्यास्रव इति सिद्धम् ।
[३०६।२३]
तानि पञ्चदश द्रव्याणि ।
[३०६।२३-३०६।२४]
किं कारणमसौ पृथग्व्यवस्थाप्यते ।
[३०६।२४]
सर्वेषां हि तेषां
[३०७।०१]
मूलमविद्येत्यास्रवः पृथक् ॥ ५.३६ ॥
[३०७।०२]
यथा चैते आस्रवा उक्ता वेदितव्याः
[३०७।०३]
तथौघयोगा दृष्टीनां पृथग्भावस्तु पाटवात् ।
[३०७।०४]
कामास्रव एव कामौघः कामयोगश्च ।
[३०७।०४-३०७।०५]
एवं भवास्रव एव भवौघो भवयोगश्चान्यत्र दृष्टिभ्यः ।
[३०७।०५]
ताः किल पटुत्वादोघयोगेषु पृथक्स्थापिताः ।
[३०७।०६]
नास्रवेष्वसहायानां न किलास्यानुकूलता ॥ ५.३७ ॥
[३०७।०७]
आसयन्तीत्यास्रवाणां निर्वचनं पश्चाद्वक्ष्यते ।
[३०७।०७-३०७।०८]
न च किल केवला दृष्ट्य आस्यानुकूलाः पटुत्वात् ।
[३०७।०८]
अत आस्रवेषु न पृठक्स्थापिताः ।
[३०७।०८-३०७।०९]
मिश्रीकृत्य स्थापिता इति तदेवं कामौघ एकान्नत्रिंशद्द्रव्याणि ।
[३०७।०९-३०७।१०]
रागप्रतिघमानाः पञ्चदश विचिकित्साश्चतस्रो दश पर्यवस्थानानीति ।
[३०७।१०]
भवौघोऽष्टाविंसतिद्रव्याणि ।
[३०७।१०-३०७।११]
रागमाना विंशतिर्विचिकित्साऽष्टौ ।
[३०७।११]
दृष्ट्योघः षट्त्रिंशद्द्रव्याणि ।
[३०७।११-३०७।१२]
अविद्यौघः पञ्चदश द्रव्याणि ।
[३०७।१२]
ओघवद्योगा वेदितव्याः ।
[३०७।१३]
यथोक्ता एव साऽविद्या द्विधा दृष्टिविवेचनात् ।
[३०७।१४]
उपादानानि
[३०७।१५]
कामयोग एवसहाविद्यया कामोपादानं चतुस्त्रिंशद्द्रव्याणि ।
[३०७।१५-३०७।१६]
रागप्रतिघमानाऽविद्याविंशतिर्विचिकित्साश्चतस्रो दश पर्यवस्थानानि ।
[३०७।१६-३०७।१७]
भवयोग एव सहाविद्यया आत्मवादोपादानमष्टत्रिंशद्द्रव्याणि ।
[३०७।१७]
रागमानाविद्यास्त्रिंशद्विचिकित्सा अष्टौ ।
[३०७।१८]
दृष्टियोगाच्छीलव्रतं निष्कृष्य दृष्ट्यु पादानं त्रिंशद्द्रव्याणि ।
[३०७।१८-३०७।१९]
शीलव्रतोपादानं षड्द्रव्याणि कर्मदृष्टिभ्यो निष्कृष्टम् ।
[३०७।१९]
मार्गप्रतिद्वन्द्वित्वा दुभयपक्षविप्रलम्भनाच्च ।
[३०७।२०-३०७।२१]
गृहिणोऽप्यनेन विप्रलब्धा अनशनादिभिः स्वर्गमार्गसंज्ञया प्रव्रजिता अपीष्टविषयपरिवर्जनेन शुद्धिप्रत्यागमनादिति ।
[३०७।२१-३०७।२२]
किं कारणमविद्यां मिश्रयित्वोपादानमुक्तं न पृथक् ।
[३०७।२२]
भवग्रहणादुपादानानि ।
[३०७।२३]
अविद्या तु ग्राहिका नेति मिश्रिता ॥ ५.३८ ॥
[३०८।०१]
असंप्रख्यानलक्षणतयाऽपटुत्वादविद्या न ग्राहिका भवत्यतः किल मिश्रिता ।
[३०८।०१-३०८।०२]
सूत्रे तु भगवतोक्तं “कामयोगः कतमः ।
[३०८।०२-३०८।०४]
विस्तरेण यावद्योऽस्य भवति कामेषु कामरागः कामच्छन्दः कामस्नेहः कामप्रेम कामेच्छा काममूर्च्छा कामगृद्धः कामपरिगर्द्धः कामनन्दी कामनियन्तिः कामाध्यवसानं तदन्यचित्तं पर्यादाय तिष्ठति ।
[३०८।०४-३०८।०५]
अयमुच्यते कामयोगः ।
[३०८।०५]
एवं यावद्भवयोगः” ।
[३०८।०५-३०८।०६]
च्छन्दरागश्चोपादानमुक्तं सुत्रान्तरेष्वतो विज्ञायते काम ह्युपादानमपि कामादिषु च्छन्दराग इति ।
[३०८।०७]
उक्तमिदमनुशया एवास्रवौघयोगोपादानसंशब्दिताः सूत्रेष्विति ।
[३०८।०८]
अथ कोऽयमनुशयार्थः कश्च यावदुपादानार्थः ।
[३०८।०९-३०८।१०]
अणवोऽनुगताश्चैते द्विधा चाप्यनुशेरते ।
अनुबध्नन्ति यस्माच्च तस्मादनुशयाः स्मृताः ॥ ५.३९ ॥
[३०८।११]
तत्राणवः सूक्ष्मप्रचारत्वात्दुर्विज्ञानतया ।
अनुगताः प्राप्त्यनुषङ्गतः ।
[३०८।११-३०८।१२]
अनुशेरते द्वाभ्यां प्रकाराभ्यामालम्बनतः संप्रयोगतश्च ।
[३०८।१२-३०८।१३]
अनुबध्नन्त्यप्रयोगेण प्रतिवारयतोऽपि पुनः पुनः संमुखीभावात् ।
[३०८।१३]
एभिः कारणैरनुशया उच्यन्ते ।
[३०८।१४-३०८।१५]
आसयन्त्यास्रवन्त्येते हरन्ति श्लेषयन्त्यथ ।
उपगृह्णन्ति चेत्येषामास्रवादिनिरुक्तयः ॥ ५.४० ॥
[३०८।१६]
आसयन्ति संसारे आस्रवन्ति भवाग्राद्यावदवीचिं षङ्भिरायतनव्रणैरित्यास्रवाः ।
[३०८।१७]
हरन्तीत्योघाः ।
श्लेषयन्तीति योगाः ।
उपगृह्णन्तीति उपदानानि ।
[३०८।१७-३०८।१८]
एवं तु साधीयः स्याद् ।
[३०८।१८]
आस्रवत्येभिः संततिर्विषयेष्वित्यास्रवाः ।
[३०८।१८-३०८।१९]
“तद्यथा आयुष्मन्तो नौर्महद्भिरभिसंस्कारैः प्रतिस्रोतो नीयते ।
[३०८।१९-३०८।२०]
सा तेषामेव संस्काराणां ग्रतिप्रस्रव्ध्याऽल्पकृच्छ्रेणानुस्रोत उह्यत”इति सूत्रवादानुसारात् ।
[३०८।२१]
अधिमात्रवेगत्वादोघाः ।
तर्हि तद्वानुह्यते तदनुविधानात् ।
[३०८।२१-३०८।२२]
नातिमात्रसमुदाचारिणोऽपि योगा विविधदुःखसंयोजनात् ।
[३०८।२२-३०८।२३]
आभीक्ष्ण्यानुषङ्गतो वा कामाद्युपादानादुपादानानीति ।
[३०८।२४]
संयोजनादिभेदेन पुनस्ते पञ्चधोदिताः ।
[३०९।०१-३०९।०२]
त एवानुशयाः पुनः संयोजनबन्धनानुशयोपक्लेशपर्यवस्थानभेदेन पञ्चधा भित्त्वोक्ताः ।
[३०९।०२-३०९।०३]
तत्र नव संयोजनान्यनुन्वयप्रतिघमानाविद्यादृष्टिपरामर्शविचिकित्सेर्ष्या मात्सर्यसंयोजनानि ।
[३०९।०३]
तत्रानुनयसंयोजनं त्रैधातुको रागः ।
[३०९।०३-३०९।०४]
एवमन्यानि यथासंभवं योज्यानि ।
[३०९।०४]
दृष्टिसंयोजनं तिस्रो दृष्टयः ।
परामर्शसंयोजनं द्वे दृष्टी ।
[३०९।०५-३०९।०६]
अत एवोच्यते स्यात्द्ष्टिसंप्रयुक्तेषु धर्मेष्वनुनयसंयोजनेन संयुक्तो न दृष्टिसंयोजनेन न च तत्र दृष्ट्यनुशयो नानुशयीत ।
[३०९।०६-३०९।०७]
आह स्यात्समुदयज्ञाने उत्पन्ने निरोधज्ञानेऽनुत्पन्ने निरोधमार्गदर्शानप्रहातव्येषु दृष्टिशीलव्रतपरामर्शसंप्रयुक्तेषु धर्मेषु ।
[३०९।०८]
तेष्वनुनयसंयोजनेन संयुक्तस्तदालम्बनेन दृष्टिसंयोजनेनासंयुक्तः ।
[३०९।०९-३०९।१०]
सर्वत्रगस्य प्रहीणत्वादसर्वत्रगस्य च तदालम्बनसंप्रयोगिणो दृष्टिसंयोजनस्याभावात् ।
[३०९।१०]
दृष्ट्यनुशयश्च तेष्वनुशेते ।
[३०९।१०-३०९।११]
ते एव परामर्शडृष्टी संप्रयोगतः ।
[३०९।१२-३०९।१३]
किं पुनः कारणं संयोजनेषु तिस्रो दृष्टयो दृष्टिसंप्रयोजनं पृथगुक्तं द्वे पुनर्दृष्टी परामर्शासंयोजनं पृथक् ।
[३०९।१४]
द्रव्यामर्शन सामान्याद्दृष्टी संयोजनान्तरम् ॥ ५.४१ ॥
[३०९।१५]
अष्टादश द्रव्याणि तिस्रो दृष्टयः ।
अष्टादशैव द्वे परामर्शदृष्टी ।
[३०९।१५-३०९।१६]
अतः किल द्रव्य सामान्यादेते संयोजनान्तरं कृते ।
[३०९।१६-३०९।१७]
एते च द्वे परामर्शस्वभावेन शेषाइति परामर्शनसामान्यादप्येते पृथग्विहिते ग्राह्यग्राहकभेदात् ।
[३०९।१८-३०९।१९]
अथ कस्मादीष्र्यामात्सर्ये संयोजने पृथक्संयोजनद्वयमुक्तं नान्यत्पर्यवस्थानम् ।
[३०९।२०-३०९।२१]
एकान्ताकुशलं यस्मात्स्वतन्त्रं चोभयं यतः ।
ईष्र्यामात्सर्यमेषूक्तं पृथक्संयोजनद्वयम् ॥ ५.४२ ॥
[३०९।२२-३०९।२३]
नह्यन्यत्पर्यवस्थानमेवञ्जातीयकमस्ति यत्रैतदुभयं स्यादेकान्ताकुशलत्वं स्वतन्त्रत्वं चेति ।
[३०९।२३]
यस्याष्टौ पर्यवस्थानानि तस्येवं स्यात् ।
[३०९।२३-३०९।२४]
यस्य पुनर्दश तस्य क्रोधम्रक्षावप्युभयप्रकारौ ।
[३०९।२४]
तस्मान्न भवत्ययं परिहार इत्यपरे ।
[३०९।२४-३०९।२५]
पुनरन्यत्र भगवता संयोजनमुक्तम्
[३१०।०१]
पञ्चधाऽवरभागीयं
[३१०।०२]
तद्यथा सत्कायदृष्टिः शीलव्रतपरामर्शो विचिकित्सा कामच्छन्दो व्यापाद इति ।
[३१०।०३]
कस्मादेतान्ववरभागीयान्युच्यन्ते ।
अवरभागहितत्वात् ।
[३१०।०३-३१०।०४]
अवरो हि भागः कामधातुरेतानि च तस्यानुगुणानि ।
[३१०।०४]
यस्मात् ।
[३१०।०५]
द्वाभ्यां कामानतिक्रमः ।
[३१०।०६]
त्रिभिस्तु पुनरावृत्तिः
[३१०।०७]
कामच्छन्दव्यापादाभ्यां कामधातुं नातिक्रामति ।
[३१०।०७-३१०।०८]
सत्कायदृष्ट्यादिभिरतिक्रान्तोऽपि पुनरावर्त्यते दौवारिकानुचरसाधर्म्यात् ।
[३१०।०८-३१०।०९]
त्रिभिः सत्त्वावरतां नातिक्रामति पृथग्जनत्वं द्वाभ्यां धात्ववरतां कामधातुम् ।
[३१०।०९-३१०।१०]
अत एव तान्यवरभागीयानीत्यपरे ।
[३१०।१०-३१०।१२]
यदा स्रोत आपन्नस्य पर्यादाय त्रिसंयोजनप्रहाणात्षट्क्लेशाः प्रहीणाः किमर्थं तिस्रो दृष्टीरपहाय त्रयमेवाह सत्कायदृष्टिं शीलव्रतपरामर्शं विचिकित्सां च ।
[३१०।१२]
सर्वमेतद्वक्तव्यं स्यात् ।
किं तूक्तं
[३१०।१३]
मुखमूलग्रहात्त्रयम् ॥ ५.४३ ॥
[३१०।१४]
त्रिप्रकाराः किल क्लेशा एकप्रकारा द्विप्रकाराक्श्चतुप्रकाराक्श्च ।
[३१०।१४-३१०।१५]
तेषामेभिस्त्रिभिर्मुखं गृहीतमिति ।
[३१०।१५]
अपिचान्तग्राहदृष्टिः सत्कायदृष्टिप्रवर्तिता ।
[३१०।१५-३१०।१६]
दृष्टिपरामर्शः शीलव्रतपरामर्शप्रवर्तितः मिथ्यादृष्टिर्विचिकित्साप्रवतिता ।
[३१०।१६]
मूलं गृहीतमिति ।
[३१०।१७]
अपरे पुनराहुः ।
[३१०।१८-३१०।१९]
अगन्तुकामतामार्गविभ्रमो मार्गसंशयः ।
इत्यन्तराया मोक्षस्य गमनेऽतस्त्रिदेशना ॥ ५.४४ ॥
[३११।०१]
त्रयोऽन्तराया देशान्तरगमने भवन्ति ।
[३११।०१-३११।०२]
अगन्तुकामता मार्गविभ्रमोऽन्यमार्गसंश्रयणात्मार्गसंशयश्च ।
[३११।०२]
एवं मोक्षगमनेऽप्येत एव त्रयोन्तरायाः ।
[३११।०२-३११।०३]
तत्र सत्कायदृष्ट्या मोक्षादुत्रासमापन्नस्यागन्तुकामता भवति ।
[३११।०३-३११।०४]
शीलव्रतपरामर्शेनान्यमार्गसंश्रयणान्मोक्षविभ्रमः ।
[३११।०४]
विचिकित्सया मार्गसंशयः ।
[३११।०४-३११।०६]
एषां मोक्षगमनान्तरायाणां प्रहाणं द्योतयन् भगवान् क्लेशत्रयस्यैव प्रहाणं देशितवान् ।
[३११।०६]
यथा भगवता पञ्चविधमवरभागीयं संयोजनमुक्तम् ।
एवं पुनः
[३११।०७]
पञ्चधैवोर्ध्वभागीयं
[३११।०८]
कथमित्याह
[३११।०९]
द्वौ रागौ रूप्यरूपिजौ
[३११।१०]
तौ
[३११।११]
औद्धत्यमानमोहाश्च
[३११।१२]
इत्येतानि पञ्चोर्ध्वभागीयानि संयोजनानि ।
[३११।१२-३११।१३]
तद्यथा रूपराग आरूप्यराग औद्धत्यं मानोऽविद्या च ।
[३११।१३]
एषामप्रहाणेनोर्ध्वधात्वनतिक्रमात् ।
समाप्तः संयोजनप्रसङ्गः ।
[३११।१४]
बन्धनानि कतमानि ।
त्रीणि बन्धनानि ।
[३११।१४-३११।१५]
रागो बन्धनं सर्वः द्वेषो बन्धनं सर्वः मोहो बन्धनं सर्वः ।
[३११।१५]
कस्मादेतदेव त्रयं बन्धनमुक्तं भगवता ।
[३११।१६]
विद्वशाद्बन्धनत्रयम् ॥ ५.४५ ॥
[३१२।०१]
त्रिवेदनावशार्त्तीणि बन्धनानि ।
[३१२।०१-३१२।०२]
सुखायां हि वेदनायां रागोऽनुशेते आलम्बनसंप्रयोगाभ्याम् ।
[३१२।०२]
दुःखायां द्वेषः ।
अदुःखासुखायां मोहो न तथा रागद्वेषौ ।
[३१२।०२-३१२।०३]
स्वासांतनिकालम्बनतो वा नियमः ।
[३१२।०३]
अनुशयाः पूर्वमेवोक्ताः ।
[३१२।०४]
उपक्लेशाः वक्तव्याः ।
तत्र ये यावत्क्लेशा उपक्लेशा अपि ते ।
[३१२।०४-३१२।०५]
चित्तोपक्लेशनात् ।
[३१२।०६-३१२।०७]
येऽप्यन्ये चैतसाः क्लिष्टाः संस्कारस्कन्धसंज्ञिताः ।
क्लेशेभ्यस्तेऽप्युपक्लेशास्ते तु न क्लेशसंज्ञिताः ॥ ५.४६ ॥
[३१२।०८-३१२।०९]
येऽप्यन्ये क्लेशेभ्यः क्लिष्टा धर्माः संस्कारस्कन्धसंगृहीताश्चैतसिकास्त उपक्लेशास्ते पुनर्ये क्षुद्रवस्तुके पठिताः ।
[३१२।०९-३१२।१०]
इह तु पर्यस्थानक्लेशमलसंगृहीतानेव निर्देक्ष्यामः ।
[३१२।१०]
कानि पुनः पर्यवस्थानानीत्याह ।
[३१२।१०-३१२।११]
क्लेशा अपीहिपर्यवस्थानं कामरागपर्यवस्थानप्रत्ययदुःखमिति सूत्रे वचनात् ।
[३१२।११]
प्रकरणशास्त्रे तु
[३१२।१२-३१२।१३]
आह्लीक्यमनपत्राप्यमीर्ष्यामात्सर्यमुद्धवः ।
कौकृत्यं स्त्यानमिद्धं च पर्यवस्थानमष्टधा ॥ ५.४७ ॥
[३१२।१४]
वैभाषिकन्यायेन पुनर्दश पर्यवस्थानान्येतानि चाष्टौ
[३१२।१५]
क्रोधभ्रक्षौ च
[३१२।१६]
तत्राह्लीक्यानपत्राप्ये व्याख्याते ।
परसंपत्तौ चेतसो व्यारोष ईर्ष्या ।
[३१२।१६-३१२।१७]
धर्मामिषकौशलप्रदानविरोधी चित्ताग्रहो मात्सर्यम् ।
[३१२।१७]
औद्धत्यं चेतसोऽव्युपशमः ।
[३१२।१७-३१२।१८]
कौकृत्यं स्त्यानं च व्याख्याते ।
[३१२।१८]
कायसंधारणासमर्थश्चित्ताभिसंक्षेपो मिद्धम् ।
[३१२।१८-३१२।१९]
तत्तु क्लिष्टमेव पर्यवस्थानम् ।
[३१२।१९]
कौकृत्यं च व्यापाद विहिंसावर्जितः सत्त्वासत्त्वयोराघातः क्रोधः ।
[३१२।२०]
अवद्यप्रच्छादनं भ्रक्षः ।
एषां च दशानां पर्यवस्थानानां
[३१२।२१]
रागोत्था आह्लीक्यौद्धत्यमत्सराः ।
[३१२।२२]
एते त्रय उपक्लेशा रागनिःष्यन्दाः ।
[३१३।०१]
भ्रक्षे विवादः
[३१३।०२]
तृष्णानिःष्यनद इत्येके ।
अविद्यानिःष्यन्द इत्यपरे ।
उभयोरित्यन्ये ।
[३१३।०२-३१३।०३]
यथा क्रमं ज्ञाताज्ञातानामिति ।
[३१३।०४]
अविद्यातः स्त्यानमिद्धानपत्रपाः ॥ ५.४८ ॥
[३१३।०५]
एते त्रयोऽविद्यानिःष्यन्दाः ।
[३१३।०६-३१३।०७]
कौकृत्यं विचिकित्सातः कोधेर्ष्ये प्रतिघान्वये ।
[३१३।०८]
प्रतिघसमुत्थे इत्येते च दश क्लेशनिःष्यन्दा उपक्लेशाः ।
[३१३।०९]
अन्ये च षट्क्लेशमलाः
[३१३।१०]
तद्यथा
[३१३।११]
माया शाठ्यं मदस्तथा ॥ ५.४९ ॥
[३१३।१२]
प्रदाश उपनाहश्च विहिंसा चेति
[३१३।१३]
तत्र परवञ्चना माया ।
[३१३।१३-३१३।१४]
चित्तकौटिल्यं शाठ्यं येन यथाभूतं नाविष्करोति विक्षिपत्य परिस्फुटं वा प्रतिपद्यते ।
[३१३।१४]
मदः पूर्वोक्तः ।
[३१३।१४-३१३।१५]
सावद्यवस्तुदृढग्राहिता प्रदाशो येन न्यायसंज्ञप्तिं न गृह्णाति ।
[३१३।१५]
आघातवस्तुवहुलीकार उपनाहः ।
[३१३।१६]
विहेठ्नं विहिंसा येन प्रहारपारुष्यादिभिः परान् विहेठ्यते ।
[३१३।१६-३१३।१७]
एषां पुनः षण्णां क्लेशमलानां
[३१३।१८]
रागजौ
[३१३।१९]
मायामदौ प्रतिघजे उपनाहविहिंसने ॥ ५.५० ॥
[३१४।०१]
दृष्ट्यामर्शात्प्रदाशस्तु शाठ्यं दृष्टिसमुत्थितम् ।
[३१४।०२]
“किं कुटिलं पापिका दृष्टिरिति” गाथावचनाद्युज्यते ।
[३१४।०२-३१४।०३]
शाठ्यं दृष्टिनिःष्यन्दः ।
[३१४।०४]
क एषां किंप्रहातव्यः ।
यानि तावत्दश पर्यवस्थानान्युक्तानि
[३१४।०५]
तत्राह्लीक्यानपत्राप्यस्त्यानमिद्धोद्धवा द्विधा ॥ ५.५१ ॥
[३१४।०६]
एते पञ्च धर्मा द्विविधा दर्शनभावनाप्रहातव्या उभयप्रकारक्लेशसंप्रयोगात् ।
[३१४।०६-३१४।०७]
यश्च यद्दर्शनहेयसंप्रयुक्तः स तद्दर्शनप्रहातव्यः ।
[३१४।०८]
तदन्ये भावनाहेयाः
[३१४।०९]
तेभ्योऽन्ये पर्यवस्थानसंगृहीता उपक्लेशा भावनाहेया एव ।
[३१४।०९-३१४।१०]
इर्ष्यामात्सर्यकौकृत्यक्रोधभ्रक्षाः स्वतन्त्राश्च ।
[३१४।१०-३१४।११]
स्वतन्त्राश्चैते पञ्चोपक्लेशा अधिमात्रसंप्रयोगित्वात् ।
[३१४।११]
यथैते ईर्ष्यादयः पञ्चोपक्लेशा भावनाहेयाः
[३१४।१२]
स्वतन्त्राश्च तथा मलाः ।
[३१४।१३]
षट्क्लेशमलास्तथैव ।
एते पुनर्यथोक्ता उपक्लेशाः
[३१४।१४]
कामेऽशुभाः
[३१४।१५]
कामधातावकुशलाः ।
तत्रापि
[३१४।१६]
त्रयो द्विधा
[३१४।१७]
स्त्यानौद्धत्यमिद्धान्यकुशलाव्याकृतानि ।
[३१४।१८]
परेणाव्याकृतास्ततः ॥ ५.५२ ॥
[३१४।१९]
कामधातोरुर्ध्वमव्याकृताः उपक्लेशा यथासंभवम् ।
[३१५।०१]
कति पुनरेषां कुतस्त्या वेदितव्याः ।
[३१५।०२]
माया शाठ्यं च कामाद्यध्यानयोः
[३१५।०३]
एतौ द्वौ कामधातौ प्रथमे च ध्याने ।
कथं ब्रह्मलोके मायाः ।
[३१५।०४]
ब्रह्मवञ्चनात् ।
[३१५।०५-३१५।०६]
स हि तत्र महाब्रह्मा वितथात्मसंदर्शनतया आयुष्मन्तमश्वजितं वञ्चयितुं प्रवृत्तः ।
[३१५।०६]
उक्तमपि शाठ्यं प्रसङ्गागतं पुनरेवोक्तम् ।
[३१५।०७]
स्त्यानौद्धत्यमदा धातुत्रये
[३१५।०८]
एते त्रयस्त्रैधातुकाः ।
[३१५।०९]
अन्ये कामधातुजाः ॥ ५.५३ ॥
[३१५।१०]
षोडशभ्यः पञ्चापनीयान्य एकादशोपक्लेशाः कामावचरा एव ।
[३१५।१०-३१५।११]
उक्ता क्लेशाः उपक्लेशाश्च ।
[३१५।१२]
अथैषामनुशयानां कति मनोभूमिकाः कति षड्विज्ञानकायिकाः ।
संक्षेपतः
[३१५।१३]
समानसिद्धा दृग्घेया मनोविज्ञानभूमिकाः ।
[३१५।१४-३१५।१५]
दर्शनप्रहातव्याः सर्वे मनोभूमिकाः सह मानसिद्धाभ्यां भावनाहेयाभ्यामपि ।
[३१५।१५]
ते हि सकले मनोभूमिके ।
[३१५।१६]
उपक्लेशाः स्वतन्त्राश्च
[३१५।१७-३१५।१८]
ये च केचिदुपक्लेशाः स्वतन्त्रास्ते भावनाहेया अपि सन्तो मनोभूमिका एव द्रष्टव्याः ।
[३१५।१९]
षड्विज्ञानाश्रयाः परे ॥ ५.५४ ॥
[३१५।२०]
अन्ये क्लेशोपक्लेशाः षड्विज्ञानभूमिकाः वेदितव्याः ।
के पुनरन्ये ।
[३१६।०१]
भावनाप्रहातव्या रागप्रतिघाविद्या उपक्लेशाश्च तत्संप्रयुक्ताः ।
[३१६।०१-३१६।०२]
आह्लीक्यानपत्राप्यस्त्यानौद्धत्यानि ।
[३१६।०२]
ये च क्लेशमहाभूमिकेषूक्ताः ।
[३१६।०३-३१६।०४]
यानीमानि सुखादीनि पञ्चेन्द्रियाणि एषां कतमेनेन्द्रियेण कतमः क्लेश उपक्लेशो वा संप्रयुक्तः ।
[३१६।०५]
सुखभ्यां संप्रयुक्तो हि रागः
[३१६।०६]
सुखसौमनस्याभ्यां रागः संप्रयुक्तः ।
[३१६।०७]
द्वेषो विपर्ययात् ।
[३१६।०८]
दुःखाभ्यामित्यर्थः ।
दुःखेन दौर्मनस्येन च ।
[३१६।०८-३१६।०९]
हर्षदैन्याकारवर्तित्वात्षङ्विज्ञानभूमिकत्वाच्च रागद्वेषयोः ।
[३१६।१०]
मोहः सर्वैः
[३१६।११]
अविद्यायाः सर्वक्लेशसंप्रयोगित्वात्पञ्चभिरपीन्द्रियैः संप्रयोगः ।
[३१६।१२]
असद्दृष्टिर्मनोदुःखसुखेन तु ॥ ५.५५ ॥
[३१६।१३]
मनोदुःखं दौर्मनस्यं मनःसुखं सौमनस्यं च ।
[३१६।१३-३१६।१४]
ताभ्यं मिथ्यादृष्टिः संप्रयुक्ता पुण्यकर्मणां पापकर्मणां च यथाक्रमम् ।
[३१६।१५]
दौर्मनस्येन काङ्क्षा
[३१६।१६]
संशयितो हि निश्चयेनार्थी दुर्मनायते ।
[३१६।१७]
अन्ये सौमनस्येन
[३१६।१८]
अन्येऽनुशयाः सौमनस्येनैव संप्रयुक्ताः ।
के पुनरन्ये ।
चतस्रो दृष्टनो मानश्च ।
[३१६।१९]
हर्षाकारवर्तित्वात् ।
किंप्रतिसंयुक्ता इमेऽनुशया निर्दिष्टाः ।
आह ।
[३१६।२०]
कामजाः ।
[३१७।०१]
एवं प्रतिनियतं संप्रयोगमुक्त्वा सामान्येनाह
[३१७।०२]
सर्वेऽप्युपेक्षया
[३१७।०३]
सर्वेऽप्येतेऽनुशया उपेक्षेन्द्रियेण संप्रयुक्ताः ।
[३१७।०३-३१७।०४]
प्रवाहच्छेदकाले किल क्लेशानामवश्यमुपेक्षा संतिष्ठते ।
[३१७।०४]
अधोभूमिकाः कथमित्याह
[३१७।०५]
स्वैः स्वैर्यथाभुम्यूर्ध्वभूमिकाः ॥ ५.५६ ॥
[३१७।०६]
स्वैः स्वैरिन्द्रियैरुर्ध्वभूमिका अनुशयाः संप्रयुज्यन्ते ।
यस्यां भूमौ यावन्तीन्द्रियाणि ।
[३१७।०७-३१७।०८]
तत्रापि चातुर्विज्ञानकायिकाश्चातुर्विज्ञानकायिकैर्मनोभूमिका मनोभूमिकैरेव यथासंभवम् ।
[३१७।०८]
उक्तः क्लेशानामिन्द्रियसंप्रयोगः ।
[३१७।०९]
उपक्लेशानां पुनः
[३१७।१०]
दौर्मनस्येन कौकृत्यमीर्ष्या क्रोधो विहिंसनम् ।
[३१७।११]
उपनाहं प्रदाशश्च
[३१७।१२]
संप्रयुक्तानीति वर्तते ।
दैन्याकारवर्तित्वादेषां मनोभूमिकत्वाच्च ।
[३१७।१३]
मात्सर्यं तु विपर्ययात् ॥ ५.५७ ॥
[३१७।१४]
सौमनस्येनेत्यर्थः ।
लोभान्वयत्वेन हर्षाकारवर्तित्वात् ।
[३१७।१५]
माया शाठ्यमथी भ्रक्षो मिद्धं चोभयथा
[३१७।१६]
सौमनस्यदौर्मनस्याभ्यां संप्रयुज्यन्ते ।
कदाचिद्धि सुमनाः परं वञ्चयते ।
[३१७।१६-३१७।१७]
कदाचिद्दुर्मनाः ।
[३१७।१७]
एवं यावत्स्वपिति ।
[३१७।१८]
मदः ।
[३१७।१९]
सुखाभ्याम्
[३१८।०१]
तृतीये ध्याने सुखेनाधस्तात्सौमनस्येन ऊर्ध्वमुपेक्षया ।
यस्मात्
[३१८।०२]
सर्वगोपेक्षा
[३१८।०३]
अतस्तया सर्वेऽनुशयाः संप्रयुज्यन्ते ।
[३१८।०३-३१८।०४]
न हि तस्याः क्वचित्प्रतिषेधो यथाऽविद्यायाः ।
[३१८।०५]
चात्वार्यन्यानि पञ्चभिः ॥ ५.५८ ॥
[३१८।०६-३१८।०७]
आह्लीक्यमनपत्राप्यं स्त्यानमौद्धत्यं चैतानिचत्वारि पर्यवस्थानानि पञ्चभिरपीन्द्रियैः संप्रयुज्यन्ते ।
[३१८।०७]
अकुशलमहाभूमिकत्वात्क्लेशमहाभूमिकत्वाच्च ।
[३१८।०८-३१८।०९]
यानि सूत्रे पञ्च निवरणानि उक्तानि कामच्छन्दो व्यापादः स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च ।
[३१८।०९-३१८।१०]
तत्र किं त्रैधातुक्यः स्त्यानौद्धत्यविचिकित्सा गृह्यन्ते ।
[३१८।१०]
अथ कामप्रतिसंयुक्ता एव ।
[३१८।१०-३१८।११]
“केवलोऽयं परिपूर्णोऽकुशल राशिर्यदुत पञ्च निवरणानी”त्येकान्ताकुशलत्ववचनात्सूत्रे ।
[३१८।१२]
कामे निवरणानि
[३१८।१३]
नान्यत्र धातौ ।
[३१८।१३-३१८।१४]
किं पुनः कारणं द्वे स्त्यानमिद्धे एकं निवरणमुक्तं द्वे चौद्धत्यकौकृत्ये एकम् ।
[३१८।१५]
एकविपक्षाहारकृत्यतः ।
[३१८।१६]
द्व्येकता
[३१८।१७]
द्वयोरेकता द्व्येकता ।
विपक्षः प्रतिपक्षोऽनाहार इत्येकोऽर्थः ।
[३१८।१७-३१८।१८]
स्त्यानमिद्धयोरेक आहारः सूत्रेऽनाहारश्च ।
[३१८।१८]
कः स्त्यानमिद्धनिवरणस्याहारः ।
पञ्च धर्माः ।
[३१८।१९]
तन्द्रा अरतिर्विजृम्भिका भक्तेऽसमता चेतसो लीनत्वमिति ।
[३१८।१९-३१८।२०]
अथ स्त्यानमिद्धनिवरणस्यानाहारः आलोकसंज्ञेति ।
[३१८।२०]
कृत्यमनयोरप्येकम् ।
[३१८।२०-३१९।०१]
उभे अपि ह्येते चित्तं लयं चोदयतः ।
[३१९।०१]
औद्धत्यकौकृत्ययोरप्येक आहार उक्तः एकोनाहारः ।
[३१९।०२]
कश्चौद्धत्यकौकृत्यनिवरणस्याहारः ।
चत्वारो धर्माः ।
[३१९।०२-३१९।०३]
ज्ञातिवितर्को जनपदवितर्कोऽमरवितर्कः पौराणस्य च हसितक्रिडितरमितपरिभावितस्यानुस्मर्ता भवतीति ।
[३१९।०४]
कश्चौद्धत्यकौकृत्यनिवरणस्यानाहारः ।
शमथ इति ।
कृत्यमप्यनयोरेकम् ।
[३१९।०४-३१९।०५]
उभे अपि ह्येते चित्तमव्युपशान्तं वर्तयतः ।
[३१९।०५-३१९।०६]
अत एकविपक्षाहारकृत्यत्वात्द्वयोरप्येकत्वमुक्तम् ।
[३१९।०६]
यदि सर्वक्लेशा निवरणं कस्मात्पञ्चैवोक्तानि ।
[३१९।०७]
पञ्चता स्कन्धविधातविचिकित्सनात् ॥ ५.५९ ॥
[३१९।०८]
कामच्छन्दव्यापादाभ्यां शीलस्कन्धविधातः ।
[३१९।०८-३१९।१०]
स्त्यानमिद्धेन प्रज्ञास्कन्धस्यौद्धत्यकौकृत्येन समाधिस्कन्धस्य समाधिप्रज्ञयोरभावे सत्येषु विचिकित्सको भवतीत्यतः पञ्चोक्तानि ।
[३१९।१०-३१९।११]
एतस्यां तु कल्पनायां समाधिस्कन्धविरोधिन औद्धत्यकौकृत्यनिवरणस्य पूर्व ग्रहणं प्राप्नोति ।
[३१९।११]
अतो यथासंख्यमेताभ्यां समाधिप्रज्ञास्कन्धोपघात इत्यपरे ।
[३१९।१२]
समाधिप्रयुक्तस्य हि स्त्यानमिद्धाद्भयम् ।
धर्मप्रविचयप्रयुक्तस्यौद्धत्यकौकृत्यादिति ।
[३१९।१३]
अन्ये त्वन्यथा वर्णयन्ति ।
कथं वर्णयन्ति ।
[३१९।१३-३१९।१५]
चारगतस्य प्रियाप्रियरूपेषु विषयेषु निमित्तग्राहाद्विहारगतस्य तत्पूर्वकौ कामच्छन्दव्यापादौ समाधिप्रवेशस्यादितोऽन्तरायं कुरुतः ।
[३१९।१५-३१९।१७]
ततः समाधिप्रविष्टस्याप्रयोगेण शमथविपश्यना सेवनात्स्त्यानमिद्धमौद्धत्यकौकृत्यं विचिकित्सा च यथाक्रमं शमथविपश्यनयोरन्तरायं कुरुतः ।
[३१९।१७]
व्युत्थितस्यापि धर्मनिध्यानकाले विचिकित्सान्तरायं करोति ।
[३१९।१८]
अतः पञ्च निवरणान्युक्तानि ।
[३१९।१९]
इदं विचार्यते ।
[३१९।१९-३१९।२०]
विसभागधातुसर्वत्रगाणां निरोधमार्गदर्शनप्रहातव्यानां च सास्रवालम्बनानां यदालम्बनं परिज्ञायते तदा न प्रहीयन्ते ।
[३१९।२०-३१९।२१]
यदा प्रहीयन्ते तदालम्बनं न परिज्ञायते इति कथमेषां प्रहाणम् ।
[३१९।२१-३१९।२२]
नावश्यमालम्बनपरिज्ञानात्क्लेशानां क्षयो भवति ।
[३१९।२२]
किं तर्हि ।
चतुर्भिः प्रकारैः ।
कतमैश्चतुर्भिः ।
[३१९।२२-३१९।२३]
दर्शनहेयानां तावत्
[३१९।२४]
आलम्बनपरिज्ञानात्तदालम्बनसंक्षयात् ।
[३१९।२५]
आलम्बनग्रहाणाच्च
[३१९।२६-३१९।२७]
तत्रालम्बनपरिज्ञानाद्दुःखसमुदयदर्शनहेयानां स्वभूम्यालम्बनानामनास्रवालम्बनानां च ।
[३१९।२७]
तदालम्बनसंक्षयाद्विसभागधातुसर्वत्रगाणाम् ।
[३१९।२७-३२०।०१]
तदालम्बना हि सभागधातुसर्वत्रगाः ।
[३२०।०१]
तेषु प्रहीणेषु तेऽपि प्रहीणा भवन्ति ।
[३२०।०१-३२०।०२]
आलम्बनप्रहाणान्निरोधमार्गहेयानां सास्रवालम्बनानाम् ।
[३२०।०२-३२०।०३]
ते ह्यनास्रवालम्बनास्तेषामालम्बनम् ।
[३२०।०३]
अतस्तेषु प्रहीणेषु तेऽपिप्रहीणा भवन्ति ।
भावनाहेयानां पुनः
[३२०।०४]
प्रतिपक्षोदयात्क्षयः ॥ ५.६० ॥
[३२०।०५]
यस्य हि क्लेशप्रकारस्य प्रतिपक्षो मार्ग उत्पद्यते स प्रहीयते ।
[३२०।०५-३२०।०६]
कस्य पुनः कः प्रतिपक्षः ।
[३२०।०६]
अधिमात्राधिमात्रस्य मृदुमृदुरिति विस्तारेण पश्चात्प्रवेदयिष्यामः ।
[३२०।०७]
कतिविधश्च प्रतिपक्ष इत्याह
[३२०।०८]
प्रहाणाधारभूतत्वदूषणारुयश्चतुर्विधः ।
[३२०।०९]
प्रतिपक्षः
[३२०।१०]
प्रहाणप्रतिपक्षः आनन्तर्यमार्गः ।
[३२०।१०-३२०।११]
आधारप्रतिपक्षस्तस्मात्परेणार्यो मार्गो येन तत्प्रापितं प्रहाणमाधार्यते ।
[३२०।११-३२०।१२]
दूरीभावप्रतिपक्षो विमुक्तिमार्गात्परेण यो मार्गश्छिन्नप्राप्तिदूरीकरणात् ।
[३२०।१२]
विमुक्तिमार्गोऽपीत्यपरे ।
सोऽपि हि तां प्राप्ति दूरीकरोति ।
[३२०।१३]
विदूषणाप्रतिपक्षो येन मार्गेण तं धातुं दोषतो दर्शनाद्विदूषयति ।
[३२०।१३-३२०।१४]
अपि त्वेषामियमातुपूर्वीं साध्वी भवेत् ।
[३२०।१४]
विदूषणाप्रतिपक्षो दुःखसमुदयालम्बनः प्रयोगमार्गः ।
[३२०।१५]
प्रहाणप्रतिपक्षः सर्व आनन्तर्यमार्गः ।
आधारप्रतिपक्षो विमुक्तिमार्गः ।
[३२०।१५-३२०।१६]
दूरीभावप्रतिपक्षो विशेषमार्ग इति ।
[३२०।१७]
प्रहीयमाणः क्लेशः कुतः प्रहातव्यः ।
[३२०।१८]
प्रहातव्यः क्लेश आलम्बनात्मतः ॥ ५.६१ ॥
[३२०।१९]
न हि संप्रयोगात्क्लेशो विवेचयितुं शक्यते आलम्बनाच्च शक्यते ।
[३२०।१९-३२०।२०]
यस्मान्न पुनस्तदालम्ब्योत्पद्यते ।
[३२०।२०-३२०।२१]
अनागतस्तावच्छक्येतालम्बनाद्विवेचयितुम् ।
[३२०।२१]
अतीतस्तु कथम् ।
अथालम्बन परिज्ञानात्प्रहातव्य इत्ययमस्यार्थः ।
[३२१।०१]
एषोऽपि नैकान्तः ।
तस्माद्वक्तव्यमेतत् ।
कियता क्लेशः प्रहीणो वक्तव्यः ।
[३२१।०१-३२१।०२]
स्वासंतानिकः प्राप्तिच्छेदात् ।
[३२१।०२-३२१।०३]
पारसांतानिकस्तु क्लेशः सर्वं च रूपमक्लिष्टश्च धर्मस्तदालम्बनस्वासांतानिकक्लेशप्रहाणात् ।
[३२१।०४]
दूरीभाव इत्युच्यते ।
कतिविध्हो दूरीभावः ।
चतुर्विधा किल दूरता ।
[३२१।०५-३२१।०६]
वैलक्षण्याद्विपक्षत्वाद्देशविच्छेदकालतः ।
भूतशीलप्रदेशाध्वद्वयानामिव दूरता ॥ ५.६२ ॥
[३२१।०७]
विलक्षणदूरता यथा महाभूतानाम् ।
वैलक्षण्यात्सहजानामपि दूरता ।
[३२१।०७-३२१।०८]
विपक्षदूरता यथा शीलस्य दौःशील्यम् ।
[३२१।०८-३२१।०९]
देशविच्छेददूरता यथा विप्रकृष्टदेशानां देशविच्छेदात्पूर्वपश्चिमसमुद्रवत् ।
[३२१।०९]
कालदूरता यथा अतीतानागतदूरमुच्यते ।
दुतस्तद्दूरम् ।
[३२१।१०]
वर्तमानात् ।
यदनन्तरातमुत्पद्यमानं वा तत्कथं दूरम् ।
[३२१।१०-३२१।११]
अध्वनानात्वेन तद्दूरं न चिरभूतभावित्वेन ।
[३२१।११]
वर्तमानमप्येवं दूरं प्राप्नोति ।
अकारित्रा त्तर्हि तद्दूरम् ।
[३२१।१२]
असंस्कृतस्य कथमन्तिकत्वं सिध्यति ।
सर्वत्र तत्प्राप्तेः ।
[३२१।१२-३२१।१३]
अतीतानागतेऽपि तत्प्रसङ्गः ।
[३२१।१३]
आकाशं च कथम् ।
[३२१।१३-३२१।१४]
एवं तर्ह्यतीतानागतमन्योऽन्यं वर्त्तमानव्यवहितत्वाद्दूरम् ।
[३२१।१४]
वर्त्तमानमुभयो रासन्नत्वादन्तिकम् ।
[३२१।१४-३२१।१५]
असंस्कृतं चाप्यव्यवहितत्वादिति ।
[३२१।१५]
एवमप्यतीतानागतं वर्त्तमानस्यान्तिकत्वादुभयं प्राप्नोति ।
[३२१।१५-३२१।१६]
एवं तु युक्तं स्यात् ।
[३२१।१६]
धर्मस्वलक्षणादनागतं दूरमसंप्राप्तत्वात् ।
अतीतं च प्रच्युतत्वादिति ।
[३२१।१७]
किं मार्गविशेषगमनात्क्लेशानां पुनः प्रहाणविशेषो भवति ।
नैतदस्ति ।
[३२१।१८]
सर्वेषां हि क्लेशानां
[३२१।१९]
सकृत्क्षयः
[३२१।२०]
यस्य यः प्रहाणमार्गस्तेनैव तस्य क्षयः ।
[३२१।२१]
विसंयोगलाभस्तेषां पुनः पुनः ।
[३२२।०१]
कतिषु कालेष्वित्याह षट्सु कालेषु ।
[३२२।०२]
प्रतिपक्षोदयफलप्राप्तीन्द्रियविवृद्धिषु ॥ ५.६३ ॥
[३२२।०३]
प्रतिपक्षो विमुक्तिमार्ग एतस्मिन्नभिप्रेतः ।
फलानि चत्वारि श्रामण्यफलानि ।
[३२२।०४]
इन्द्रियविवृद्धिरिन्द्रियसंचारः ।
एतेषु कालेषु क्लेशस्य विसंयोगलाभः ।
[३२२।०४-३२२।०५]
स पुनरेष यथायोगं द्रष्टव्यः ।
[३२२।०५]
केषाञ्चित्षट्सु कालेषु केषाञ्चिद्यावद्द्वयोः ।
[३२२।०६]
स एव विसंयोगस्तासु तास्ववस्थासु परिज्ञासंज्ञां लभते ।
[३२२।०६-३२२।०७]
द्वे हि परिज्ञे ज्ञानपरिज्ञा प्रहाणपरिज्ञा च ।
[३२२।०७]
तत्र ज्ञानपरिज्ञा सास्रवं ज्ञानम् ।
[३२२।०७-३२२।०८]
प्रहाणपरिज्ञा तु प्रहाणमेव ।
[३२२।०८]
फले हेतूपचारात् ।
किमेकैव परिज्ञा सर्वप्रहाणम् ।
नेत्याह ।
किं तर्हि ।
[३२२।०९]
परिज्ञा नव
[३२२।१०]
तत्र तावत्
[३२२।११]
कामाद्यप्रकारद्वयसंक्षयः ।
[३२२।१२]
एका
[३२२।१३-३२२।१४]
कामधातावाद्यस्य प्रकारद्वयस्य दुःखसमुदयदर्शनहेयस्य प्रहाणमेका परिज्ञा ।
[३२२।१५]
द्वयोः क्षये द्वे ते
[३२२।१६]
कामधातावेव निरोधदर्शनहेयस्य प्रकारस्यप्रहाणमेका परिज्ञा ।
[३२२।१६-३२२।१७]
मार्गदर्शनहेयस्यैका ।
[३२२।१७]
यथा कामावचराणां दर्शनप्रहातव्यानां प्रहाणं तिस्रः परिज्ञाः
[३२२।१८]
तथोर्ध्वं निस्र एव ताः ॥ ५.६४ ॥
[३२२।१९]
रूपारूप्यावचराणां दर्शनप्रहातव्यानां प्रहाणं तथैव तिस्रः परिज्ञा भवन्ति ।
[३२२।१९-३२२।२१]
दुःखसमुदयदर्शनप्रहातव्यानां प्रहाणमेका निरोधदर्शनहेयानां प्रहाणं द्वितीया मार्गदर्शनहेयानां प्रहाणं तृतीयेति त्रैधातुकानां दर्शनहेयानां प्रहाणं षट्परिज्ञा भवन्ति ।
[३२३।०१]
अन्या अवरभागीयरूपसर्वास्रवक्षयाः ।
[३२३।०२]
तिस्रः परिज्ञाः
[३२३।०३]
अवरभागीयप्रहाणमेका परिज्ञा ।
रूपास्रवप्रहाणमेका रूपरागक्षयपरिज्ञा ।
[३२३।०४]
आरूप्याप्तानां सर्वास्रवप्रहाणमेका सर्वसंयोजनपर्यादान परिज्ञा ।
[३२३।०४-३२३।०५]
कस्माद्रूपारूप्यावचराणां भावनाहेयानां प्रहाणं पृथक्परिज्ञा न दर्शनहेयानाम् ।
[३२३।०५-३२३।०६]
भावनाहेयानामतुल्यप्रतिपक्षत्वात् ।
[३२३।०६]
इत्येता नव परिज्ञाः ।
आसां पूर्विकाः
[३२३।०७]
षट्क्षान्तिफलं
[३२३।०८]
या एव दर्शनहेयप्रहाणस्वभावाः ।
[३२३।०९]
ज्ञानस्य शेषिताः ॥ ५.६५ ॥
[३२३।१०]
अवरभागीयप्रहाणादिपरिज्ञा भावनामार्गफलत्वात् ।
[३२३।११]
कथं क्षान्तिफलं परिज्ञा भवन्ति ।
क्षान्तीनां ज्ञानपरिवारत्वात् ।
[३२३।११-३२३।१२]
राजपरिवारे राजोपचारवत् ।
[३२३।१२]
ज्ञानैकफलत्वाच्च ।
[३२३।१३]
अनागम्यफलं सर्वा ध्यानानां पञ्च वाथवा ।
[३२३।१४]
अष्टौ
[३२३।१५-३२३।१६]
वैभाषिकमतेन मौलध्यानफलं पञ्च परिज्ञा या रूपारूप्यावचरक्लेशप्रहाण स्वभावाः ।
[३२३।१६]
कामावचरक्लेशप्रहाणस्यानागम्यफलत्वात्भदन्तघोषकस्य मतेनाष्टौ ।
[३२३।१७]
स हि वीतरागस्यापि कामावचराणां दर्शनहेयानां प्रहाणं दर्शनमार्गफलमिच्छन्ति ।
[३२३।१८]
अनास्रवविसंयोगप्राप्तिलाभात् ।
अवरभागीयप्रहाणपरिज्ञा त्वनागम्यफलमेव ।
[३२३।१९]
ध्यानान्तरं ध्यानवद्द्रष्टव्यम् ।
आरुप्याणां तु
[३२३।२०]
सामन्तकस्यैका
[३२३।२१]
आकाशानन्त्यायतनसामन्तकस्यैका रूपरागक्षयपरिज्ञा फलम् ।
[३२४।०१]
मौलारूप्यत्रयस्य च ॥ ५.६६ ॥
[३२४।०२]
मौलानां च त्रयाणामारूप्याणामेकैव सर्वसंयोजनपर्यादानपरिज्ञा फलम् ।
[३२४।०३]
आर्यमार्गस्य सर्वाः
[३२४।०४]
नव परिज्ञाः फलम् ।
[३२४।०५]
द्वे लौकिकस्य
[३२४।०६]
लौकिस्य मार्गस्य द्वे अवरभागीयरूपरागक्षयपरिज्ञे फलम् ।
[३२४।०७]
अन्वयस्य च ।
[३२४।०८]
अन्वयज्ञानस्यापि द्वेपरिज्ञे फलं पश्चिमे ।
[३२४।०९]
धर्मज्ञानस्य तिस्रस्तु
[३२४।१०]
पश्चिमा एव त्रिधातुकभावनाहेय प्रतिपक्षत्वात् ।
[३२४।११]
षट्तत्पक्षस्य पञ्च च ॥ ५.६७ ॥
[३२४।१२]
धर्मज्ञानपक्षस्य षट्परिज्ञाः फलं या एव धर्मज्ञान क्षन्तिज्ञानानाम् ।
[३२४।१२-३२४।१३]
अन्वयज्ञानपक्षस्य पञ्च या एवान्वयक्षान्तिज्ञानानाम् ।
[३२४।१३]
पक्षग्रहणेन हि क्षान्तिज्ञानानि गृह्यन्ते ।
[३२४।१४]
कस्मान्नैकैकं प्रहाणं परिज्ञा व्यवस्थाप्यते ।
[३२४।१४-३२४।१५]
यस्मात्क्षान्तिफलं तावत्प्रहाणं व्यवस्थाप्यते ।
[३२४।१६]
अनास्रववियोगाप्तेर्भवाग्रविकलीकृतेः ।
[३२४।१७]
हेतुद्वयसमुद्घातात्परिज्ञा
[३२४।१८]
यत्रैतानि त्रीणि कारणानि भवन्ति तत्प्रहाणं परिज्ञोच्यते ।
[३२४।१८-३२५।०१]
पृथग्जनस्य तावदनास्रवा विसंयोगप्राप्तिर्नास्ति भवाग्रविकलीकरणं चेति नास्य प्रहाणं परिज्ञाख्यां लभते ।
[३२५।०१]
आर्यस्यापि यत्क्षान्तिफलं तावत्प्रहाणम् ।
[३२५।०१-३२५।०२]
तत्र यावत्दुःखेऽन्वयज्ञानक्षान्तावनास्रवा विसंयोगप्राप्तिरस्ति न तु भवाग्रविकलीकृटम् ।
[३२५।०२-३२५।०३]
दुःखेऽन्वयज्ञाने उभयमस्ति न तु हेतुद्वयसमुद्घातः ।
[३२५।०३-३२५।०४]
समुदयदर्शनप्रहातव्यस्य सर्वत्रगहेतोरप्रहीणत्वात् ।
[३२५।०४]
अन्येषु धर्मान्वयज्ञानेषु सर्वं त्रयमस्ति ।
[३२५।०४-३२५।०५]
अतस्तास्ववस्थासु प्रहाणं परिज्ञाख्यां लभते ।
[३२५।०५]
ज्ञानफलं तु प्रहाणम् ।
अतश्च कारणत्रयात्परिज्ञाख्यां लभते ।
[३२५।०६]
चतुर्थाच्च
[३२५।०७]
धात्वतिक्रमात् ॥ ५.६८ ॥
[३२५।०८]
यदा धातुं समतिक्रामति ।
[३२५।०८-३२५।०९]
कृत्स्नधातुवेराग्यातुभयसंयोगवियोगं पञ्चमं कारणमाहुरपरे ।
[३२५।०९-३२५।१०]
यः प्रकारः प्रहीणो यदि तत्रान्येन तदालम्बनेन क्लेशेन विसंयुक्तो भवतीति ।
[३२५।१०-३२५।११]
स तु नास्य उभयहेतुसमुद्घातात्धातुसमतिक्रमाच्चेति न ब्रूमः ।
[३२५।१२]
कः कतिभिः परिज्ञाभिः समन्वागतः ।
[३२५।१३]
नैकया पञ्चभिर्यावद्दर्शनस्थः समन्वितः ।
[३२५।१४]
पृथग्जनस्तावन्नैव समन्वागतः ।
[३२५।१४-३२५।१५]
आर्योऽपि दर्शनमार्गस्थो यावत्समुदयधर्मज्ञानक्षान्तिं नैव समन्वागतः ।
[३२५।१५]
समुदये धर्मज्ञान एकया समन्वागतः ।
[३२५।१५-३२५।१६]
समुदयेऽन्वयज्ञाने द्वाभ्याम् ।
[३२५।१६-३२५।१७]
निरोधे धर्मज्ञाने तिसृभ्हिर्निरोधान्वयज्ञाने चतसृभिर्मार्गधर्मज्ञाने पञ्चभिः ।
[३२५।१८]
भवनास्थः पुनः षङ्भिरेकया वा द्वयेन वा ॥ ५.६९ ॥
[३२५।१९-३२५।२०]
भावनामार्गस्थः पुनरार्यपुद्गलो मार्गान्वयज्ञाने षडिभिः परिज्ञाभिः समन्वागतो यावत्कामवैराग्यं न प्राप्तः ।
[३२५।२०-३२५।२१]
परिहीणो वा ततः कामवैराग्यं प्राप्तः पूर्वं पश्चाद्वा एकयाऽवरभागीयप्रहाणपरिज्ञया ।
[३२५।२१-३२५।२२]
अर्हत्त्वं प्राप्त एकयैव सर्वसंयोजनपर्यादानपरिज्ञया ।
[३२५।२२-३२५।२३]
परिहीणोऽपि रूपावचरेण पर्यवस्थानेनैकयाऽवरभागीयप्रहाणपरिज्ञया ।
[३२५।२३-३२५।२४]
रूपवैराग्यं प्राप्तो द्वभ्यामवरभागीयप्रहाणरूपरागक्षयपरिज्ञाभ्याम् ।
[३२५।२४]
प्रहीणोऽप्यारूप्यावचरेण पर्यवस्थानेनाभ्यामेव ।
[३२५।२४-३२५।२५]
किं पुनः कारणमनागाम्यर्हतोरेकैव परिज्ञा व्यवस्थाप्यते न भूयस्यः ।
[३२५।२५-३२५।०१]
यस्मात्
[३२६।०१]
तासां संकलनं धातुवैराग्यफललाभतः ।
[३२६।०२-३२६।०३]
द्वाभ्यां कारणाभ्यां परिज्ञानां संकलनं भवत्येकत्वेन व्यवस्थापनं धातुवैराग्यात्फलप्राप्तितश्च ।
[३२६।०३]
तयोश्चावस्थयोरेतदुभयं भवति ।
[३२६।०३-३२६।०४]
अतः सर्वं प्रहाणं संकलय्यैका परिज्ञोच्यते ।
[३२६।०५]
अथ कः कति परिज्ञास्त्यजति लभते वा ।
[३२६।०६]
एकां द्वे पञ्च षट्कश्चिज्जहात्याप्नोति पञ्च न ॥ ५.७० ॥
[३२६।०७]
एकां त्यजति अर्हत्त्वात्कामवैराग्याद्वा परिहीयमाणः ।
[३२६।०७-३२६।०८]
द्वे परिज्ञे त्यजत्यनागामी रूपवीतरागः कामवैराग्यात्परिहीयमाणः ।
[३२६।०८-३२६।०९]
पञ्च त्यजति वीतरागपूर्वी मार्गान्वयज्ञाने ।
[३२६।०९-३२६।१०]
स ह्यवरभागीयप्रहाणपरिज्ञालाभे पूर्विकाः पञ्च परिज्ञास्त्यजति ।
[३२६।१०]
षट्परिज्ञास्त्यजत्यानुपोऊर्विकः कामवैराग्यात् ।
लाभेऽप्येवमेव ।
[३२६।१०-३२६।११]
कश्चिदेकां परिज्ञां लभते ।
[३२६।११]
यः कश्चिदपूर्वा लभते ।
[३२६।११-३२६।१२]
कश्चिद्द्वे यः केवलादारूप्यधातुवैराग्यात्परिहीयते ।
[३२६।१२]
कश्चित्षट्योऽनागामिफलात्परिहीयते ।
[३२६।१२-३२६।१३]
पञ्च तु नै कश्चिल्लभते ।
[३२६।१४]
समाप्तः परिज्ञाप्रसङ्गः ॥
=====================================================================
[३२६।१५-३२६।१६]
अभिधर्मकोशभाष्येऽनुशयनिर्द्देशो नाम
पञ्चमं कोशस्थानं समाप्त्मिति ॥
[३२६।१७]
श्रीलामावाकस्य यदत्र पुण्यम् ।
षष्ठं कोशस्थानम्
=====================================================================
नमो बुद्धाय
=====================================================================
[३२७।०३]
उक्तं यथा प्रहाणं परिज्ञाख्यां लभते ।
तदपि च
[३२७।०४]
क्लेशप्रहाणमाख्यातं सत्यदर्शनभावनात् ।
[३२७।०५]
दर्शनहेया भावनाहेयाश्च क्लेशा इति विस्तरेणाख्यातम् ।
[३२७।०५-३२७।०६]
ताविदानीं दर्शनभावनामार्गौ किमनास्रवौ सास्रवाविति वक्तव्यम् ।
[३२७।०६]
अत इदमुच्यते
[३२७।०७]
द्विविधो भावनामार्गो दर्शनख्यस्त्वनास्रवः ॥ ६.१ ॥
[३२७।०८]
द्विधो भवनामार्गो लौकिकोक्लोकोत्तरश्च ।
[३२७।०८-३२७।०९]
दर्शनमार्गस्तु लोकोत्तर एव त्रैधातुकप्रतिपक्षत्वात् ।
[३२७।०९]
नवप्रकाराणां दर्शन हेयानां सकृत्प्रहाणाच्च ।
[३२७।०९-३२७।१०]
न हि लौकिकस्य एषा शक्तिरस्ति ।
[३२७।११]
सत्यदर्शनादित्युक्तम् ।
कानीमानि सत्यानि कति च ।
[३२७।१२]
सत्यान्युक्तानि चत्वारि
[३२७।१३]
ववोक्तानि ।
सास्रवानास्रवधर्मनिर्देशे ।
[३२७।१३-३२७।१५]
“अनास्रवा मार्गसत्यमि”ति स्वशब्देन “प्रतिसंख्यानिरोधो यो विसंयोग” इति निरोधसत्यं “दुःखं समुदयो लोक” इत्यत्र दुःखसमुदयसत्ये ।
[३२७।१५]
किमेष एवैषामनुक्रमः ।
नेत्याह ।
किं तर्हि ।
[३२७।१६]
दुःखं समुदयस्तथा ।
[३२७।१७]
निरोधमार्ग इति
[३२७।१८]
एष एषामनुक्रमः ।
स्वभावस्तु यथा पूर्वमुक्तस्तयैवेतिप्रदर्शनार्थस्तथाशब्दः ।
[३२७।१८-३२७।१९]
स पुनरयम्
[३२७।२०]
एषां यथाऽभिसमयं क्रमः ॥ ६.२ ॥
[३२८।०१]
यस्य हि सत्यस्याभिसमयः पूर्वस्य पूर्वनिर्देशः ।
[३२८।०१-३२८।०२]
इतरथा हि पूर्वं हेतुनिर्देशोऽभविष्यत्पश्चात्फलनिर्देशः ।
[३२८।०२]
केषाञ्चिदुत्पत्त्यनुकूला देशनाः ।
[३२८।०३]
यथा स्मृत्युपस्थानध्यानादीनाम् ।
[३२८।०३-३२८।०४]
देषाञ्चित्प्ररूपणानुकूला देशना यथा सम्यक्प्रहाणानाम् ।
[३२८।०४]
न ह्येष नियमो यत्पूर्वमुत्पन्नानां प्रहाणाय च्छन्दं जनयति ।
[३२८।०४-३२८।०५]
पश्चादनुत्पन्नानामनुत्पादायेति ।
[३२८।०५]
सत्यानां त्वभिसमयानुकूला देशना ।
[३२८।०५-३२८।०६]
किं पुनः कारणमेवमेषां सत्यानामभिसमयः ।
[३२८।०६-३२८।०७]
यत्र हि सत्तो येन च वाध्यते यतश्च मोक्षं प्रर्थयते तदेवादौ व्यवचारणावस्थायां दुःखसत्यं परीक्ष्यते ।
[३२८।०७-३२८।०८]
पश्चात्कोऽस्य हेतुरिति समुदयसत्यं कोऽस्य निरोध इति निरोधसत्यं कोऽस्य मार्ग इति मार्गसत्यम् ।
[३२८।०८-३२८।०९]
व्याधिं दृष्ट्वा तन्निदानक्षयमेषजान्वेषाणवत् ।
[३२८।०९]
सूत्रेऽप्येष एव सत्यानां दृष्टान्तो दर्शितः ।
[३२८।१०]
कतमस्मिन् सूत्रे ।
“चतुर्भिरङ्गैः समन्वागतो भिषक्तल्पसर्त्ते”त्यत्र ।
[३२८।१०-३२८।११]
यथा च व्यवचारणावस्थायां सत्यपरीक्षा तथाभिसमयावस्थायां सत्याभिसमयः ।
[३२८।११-३२८।१२]
पूर्ववेधात् ।
[३२८।१२]
दृष्टभूमिनिःसंगाश्वधावनवत् ।
अभिसमय इति कोऽर्थः ।
[३२८।१२-३२८।१३]
अभिसंबोध इणो बोधनार्थत्वात् ।
[३२८।१३]
करमादनास्रव एव न सास्रवः ।
स हि निर्वाणाभिमुखः सम्यक्बोधः ।
[३२८।१४]
सम्यगिति तत्त्वेन ।
तत्र फलभूता उपादानस्कन्धा दुःखसत्यम् ।
[३२८।१५]
हेतुभूताः समुदयसत्यम् ।
समुदेत्यस्मादिति कृत्वा ।
[३२८।१५-३२८।१६]
अत एव तयोः फलहेतुभावान्नामतो भेदो न द्रव्यतः ।
[३२८।१६]
निरोधमार्गयोस्तु द्रव्यतोऽपि ।
[३२८।१६-३२८।१७]
आर्यसत्यानीति सूत्र उच्यन्ते ।
[३२८।१७]
कोऽस्यार्थः ।
[३२८।१७-३२८।१८]
आर्याणामेतानिसत्यानि तस्मादार्यसत्यानीति सूत्र एवोक्तम् ।
[३२८।१८]
किमन्येषामेतानि मृषा ।
सर्वेषामेतानि सत्यान्यविपरीतत्वात् ।
[३२८।१८-३२८।१९]
आर्यैस्तु यथैतानि तथा दृष्टानि नान्यैः ।
[३२८।१९-३२८।२०]
अत आर्याणामेतानि सत्यान्युच्यन्ते न त्वनार्याणां वीपरीतदर्शनात् ।
[३२८।२१-३२८।२२]
“यदार्याः सुखतः प्राहुस्तत्परे दुःखतो बिदुः ।
यत्परे सुखत्ः प्राहुस्तदार्या दुःखतो बिदुः ॥”
[३२८।२३]
इति गाथा ।
द्वे आर्याणां सत्ये द्वे आर्ये चार्याणां च सत्ये इत्यपरे ।
[३२८।२३-३२८।२४]
यथा वेदनैकदेशो दुःखस्वभावः ।
[३२८।२४]
कथं सर्वे सास्रवाः संस्कारा दुःखमित्युच्यन्ते ।
[३२८।२५-३२८।२६]
दुःखास्त्रिदुःखतायोगाद्यथायोगमशेषतः ।
मनाषा अमनापाश्च तदन्ये चैव सास्रवाः ॥ ६.३ ॥
[३२९।०१]
तिस्रो हि दुःखता दुःखदुःखता संस्कारदुःखता विपरिणामदुःखता च ।
[३२९।०१-३२९।०२]
ताभिर्यथायोगमशेषतः सर्व सास्रवाः संस्कारा दुःखाः ।
[३२९।०२]
तत्र मनाषा विपरिणामदुःखतया ।
[३२९।०३]
अमनाषा दुःखदुःखतया ।
तेभ्योऽन्ये संस्कारदुःखतया ।
[३२९।०३-३२९।०४]
के पुनर्मनापाः केऽमनाषाः के क्नोभयथा ।
[३२९।०४-३२९।०५]
तिस्रो वेदना यथाक्रमं तद्वशेन सुखवेदनीयादयोऽपि संस्कारा मनापादिसंज्ञां लभन्ते ।
[३२९।०५-३२९।०६]
सुखाया हि वेदनाया विपरिणामेन दुःखता ।
[३२९।०६-३२९।०७]
सूत्र उक्तं “सुखा वेदना उत्पादमुखा स्थितिसुखा विपरिणामदुःख्”ति ।
[३२९।०७]
दुःखायाः दुःखस्वभावेनैव दुःखता ।
[३२९।०७-३२९।०८]
“दुःखा वेदना उत्पाददुःखा स्थितिदुःखा” इति सूत्रे ।
[३२९।०८]
अदुःखासुखावेदनायाः संस्कारेणैव दुःखता ।
[३२९।०९]
“प्रत्ययाभिसंस्करणाद्यदनित्यं तद्दुःखमि”ति ।
[३२९।०९-३२९।१०]
वेदनावत्तद्वेदनीया अपि संस्कारा उच्यन्ते ।
[३२९।१०]
दुःखमेव दुःखता दुःखदुःखता ।
एवं यावत्संस्कारा एव दुःखतेत्यपरे ।
[३२९।११]
असाधारणत्वात्मनाषाऽमनापानां विपरिणामदुःखदुःखते उक्ते ।
[३२९।११-३२९।१२]
सर्वे तुसंस्काराः संस्कारदुःखतया दुःखाः ।
[३२९।१२]
तांस्त्वार्या एव पश्यन्ति ॥
आह चात्र ।
[३२९।१३-३२९।१६]
“ऊर्णापक्ष्म यथैव हि करतलसंस्थं न वेद्यते पुम्भिः
अक्षिगतं तु तथैव हि जनयत्यरतिं च पीडं च ।
करतलसदृशो बालो न वेत्ति संस्कारदुःखतापक्ष्म
अक्षिसदृशस्तु विद्वांस्तेनैवोद्विज्यते गाढमि”ति ॥
[३२९।१७-३२९।१८]
न हि बालानामावीचिकेष्वपि स्कन्धेषु तथा दुःखबुद्धिः प्रवर्तते यथार्याणां भावाग्रिकेष्वपीति ।
[३२९।१८]
एवं तर्हि मार्गस्यापि संस्कारदुःखताप्रसङ्गः ।
[३२९।१९]
संस्कृतत्वात् ।
प्रतिकूलं हि दुःखमिति लक्षणान्न मार्गो दुःखम् ।
[३२९।१९-३२९।२०]
न हि तस्योत्पाद आर्याणां प्रतिकूलः सर्वदुःखक्षयावाहनात् ।
[३२९।२०-३२९।२१]
यदापि ते निर्वाणं शान्ततः पश्यन्ति तदापि यदेव दुःखतो दृष्टं तस्यैव निरोधं शान्ततः पश्यन्तिन मार्गस्य ।
[३२९।२१-३२९।२२]
यदापि दुःखमप्यत्रास्ति तस्मात्दुःखमेवार्यसत्यमुच्यते ।
[३२९।२२-३२९।२३]
सुखस्याल्पत्वात्मूद्गादिभावेऽपि माषराश्यपदेशवदित्येके ।
[३२९।२३-३२९।२४]
को हि विद्वान् परिषेकसुखाणुकेन गण्डसुखमिति व्यवस्येत् ।
[३२९।२४]
आह खल्वपि
[३२९।२५-३२९।२६]
“दुःखस्य च हेतुत्वात्दुःखैश्चानल्पकैः समुदितत्वात् ।
दुःखे च सति तदिष्टेर्दुःखं सुखमिति व्यवस्यन्ति” इति ॥
[३३०।०१]
सहैव तु सुखेन सर्वं भवमार्या दुःखतः पश्यन्ति ।
संस्कारदुःखतैकरसत्वात् ।
[३३०।०१-३३०।०२]
अतो दुःखमेवार्यासत्यं व्यवस्थाप्यते न सुखम् ।
[३३०।०२-३३०।०३]
कथमिदानीं सुखस्वभावां वेदनां दुःखतः पश्यन्ति ।
[३३०।०३]
अनित्यतया प्रतिकूलत्वात् ।
यथा रूपसंज्ञादीन्यपि दुःखतः पश्यन्ति ।
[३३०।०४]
न चतान्येवं दुःखानि यथा दुःखवेदनेति ।
यस्तु मन्यते दुःखहेतुत्वादिति ।
[३३०।०५]
तस्यासौ समुदयाकारः स्यान्न दुःखकारः ।
[३३०।०५-३३०।०६]
आर्याणां चरूपारुप्योपपत्तौ कथं दुःखसंज्ञा प्रवर्तेत ।
[३३०।०६-३३०।०७]
न हि पुनस्तेषां दुःखवेदनाहेतुः स्कन्धा भवन्ति ।
[३३०।०७]
संस्कारदुःखता च सूत्रे किमर्थं पृथगुक्ता भवेत् ।
[३३०।०७-३३०।०८]
यदि तर्ह्यनित्यत्वात्दुःखतःपश्यन्ति ।
[३३०।०८]
अनित्यदुःखाकारयोः कः प्रतिविशेषः ।
[३३०।०८-३३०।०९]
उदयव्ययधर्मित्वादनित्यं पश्यन्ति ।
[३३०।०९]
प्रतिकूलत्वात्दुःखम् ।
[३३०।०९-३३०।१०]
अनित्यं तु दृश्यमानं प्रतिकूलं भवतीत्यनित्याकारो दुःखाकारमाकर्षति ।
[३३०।१०-३३०।११]
नास्त्येव सुख वेदनेत्येकीया दुःखैव तु सर्वा ।
[३३०।११]
कथमिदं गम्यते ।
सूत्राद्युक्तितश्च ।
कथं तावत्सूत्रात् ।
[३३०।११-३३०।१२]
उक्तं हि भगवता “यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये”ति ।
[३३०।१२-३३०।१३]
“दुःखा वेदना दुःखतो द्रष्टव्ये”ति ।
[३३०।१३]
“दुःखे सुखमिति संज्ञाविपर्यास” इति ।
एवं तावत्सूत्रात् ।
कथं युक्तितः ।
[३३०।१४]
सुखहेत्वव्यवस्थानात् ।
[३३०।१४-३३०।१५]
य एव हि केचित्पानभोजनशीतोष्णादय इष्यन्ते सुखहेतवस्त एवात्युपयुक्ता अकालोपयुक्ताश्च पुनर्दुःखहेतवः संपद्यन्ते ।
[३३०।१५-३३०।१७]
न च युक्ता सुखहेतुबृद्धच्या समेन वाऽन्यस्मिन्काले दुःखोत्पत्तिरित्यादित एव ते दुःखहेतवो न सुखस्य ।
[३३०।१७]
अन्ते तु तद्दुःखं वृद्धिमापन्नं व्यक्तिमापद्यत इति ।
[३३०।१७-३३०।१८]
एवमीर्यापथविकल्पेऽपि वक्तव्यम् ।
[३३०।१८]
दुःखप्रतिकारे च सुखबुद्धेर्दुःखविकल्पे च ।
[३३०।१८-३३०।२०]
न हि तावत्सुखमिति वेद्यते किञ्चिद्यावन्न दुःखान्तरेणोपद्रुतो भवति क्षुत्पिपासाशीतोष्णश्रमकामरागप्रभवेण ।
[३३०।२०-३३०।२१]
तस्मात्प्रतीकार एवाविदुषां सुखबुद्धिर्नसुखे दुःखविकल्पे च वालः सुखबुद्धिमुत्पादय्न्ति यथांशादंशं भारं संचारयन्तः ।
[३३०।२२]
तस्मान्नास्त्येव सुखमिति ।
अस्त्येवेत्याभिवार्मिकाः ।
एष एव चन्यायः ।
[३३०।२२-३३०।२३]
कथं कृत्वा ।
[३३०।२३]
इदं हि तावदयं प्रष्टव्यः सुखापवादी ।
किमिदं दुःखं नाम ।
[३३०।२३-३३०।२४]
यद्वाधनात्मकं चेत् ।
[३३०।२४]
कथमिति वक्तव्यम् ।
उपघातकं चेत् ।
अनुग्राहकं सुखमिति सिद्धम् ।
[३३०।२४-३३०।२५]
अनभिप्रेतं चेत् ।
[३३०।२५]
अभिप्रेतं सुखमिति सिद्धम् ।
[३३०।२५-३३०।२६]
तदेव ह्यभिप्रेतं पुनरनभिप्रेतं भवत्यार्याणां नैवाल्पकाले ।
[३३०।२६]
तस्मादनिष्पनमभिप्रेतत्वं चेत् ।
न ।
अन्यथाऽनभिप्रेतत्वात् ।
[३३०।२७]
या हि वेदना स्वेन लक्षणेनाभिप्रेता नासौ पोउओनस्तेनैव जात्वनभिप्रेता भवति ।
[३३०।२७-३३१।०२]
तथा ह्येनामाकारान्तरेण विदूषयन्त्यार्याः प्रमादपदं चैनां पश्यन्ति महाभिसंस्कारसाध्यां च विपरिणामिनीं चानित्यां चयेनानभिप्रेता भवति ।
[३३१।०२]
न तु खलु स्वलक्षणाकारेण ।
[३३१।०३-३३१।०४]
यदि चासौ स्वेनात्मनानभिप्रेता भवेन्नैव तस्यां कस्यचिद्रागो भवेद्यतो वैराग्यार्थं प्रकारान्तरेणापि दोषवतीं पश्येयुः ।
[३३१।०४]
तस्मादस्त्येव स्वलक्षणतः सुख वेदना ॥
[३३१।०५-३३१।०७]
यत्तु भगवतोक्तं “यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये”ति तद्भगवतैव नीतार्थं “संस्कारानित्यतामानन्द मया संघाय भाषितं संस्कारविओपरिणामतां च यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये”ति ।
[३३१।०७-३३१।०८]
अतो न दुःख-दुखतां संधायैतदुक्तमिति सिद्धं भवति ।
[३३१।०८-३३१।०९]
यदिच स्वभावत एव सर्वं वेदितव्यं दुःखमभविष्यत्किमर्थमार्यानन्द एवं भगवन्तमप्रक्ष्यत् ।
[३३१।०९]
तिस्र इमे वेदना उक्ता भगवता सुखा दुःखाऽदुःखासुखा च ।
[३३१।१०]
उक्तं चेदं भगवता “यत्किञ्चिद्वेदितमिदमत्र दुःखस्ये”ति ।
[३३१।१०-३३१।११]
किं नु संधाय भगवता भाषितं यत्किञ्चिद्वेदितमिदमत्र दुःखस्येति ।
[३३१।११-३३१।१२]
एवं हि सोऽप्रक्ष्यत्किं नु संधाय भाषितं तिस्रो वेदना इति ।
[३३१।१२]
भगवानष्येव व्याकरिष्यत् ।
[३३१।१२-३३१।१३]
इदं मया संधाय भाषितं तिस्रो वेदना इति ।
[३३१।१३]
न त्वेवमाह ।
तस्मात्सन्त्येव स्वभावतस्तिस्रो वेदनाः ।
[३३१।१४-३३१।१५]
इदं तु संधाय मया भाषितं यत्किम्चिद्वेदितमिदमत्र दुःखस्येत्याभीप्रायिकमेतद्वाक्यं दर्शयति ।
[३३१।१५]
यदष्युक्तं “सुखा वेदना दुःखेति द्रष्टव्ये”ति ।
उभयं तस्यामस्ति ।
[३३१।१५-३३१।१६]
सुखत्वं च स्वभावतोमनापत्वाद्दुःखत्वं च पर्यायतो विपरिणामानित्यधर्मत्वात् ।
[३३१।१६-३३१।१७]
सा तु सुखतो दृश्यमाना बन्धाय कल्पते तदास्वादनात् ।
[३३१।१७-३३१।१८]
दुःखतो दृश्यमाना मोक्षाय कल्पते ।
[३३१।१८]
तद्वैराग्यादिति ।
[३३१।१८-३३१।१९]
यथा दृश्यमाना मोक्षाय कल्पते तथैनां द्रष्टुमाज्ञापयन्ति बुद्धाः ।
[३३१।१९]
कथमिदं गम्यते स्वभावतः सा सुखेति ।
य दाह
[३३१।२०-३३१।२१]
“संस्कारानित्यतां ज्ञात्वा अथो विपरिणामताम् ।
वेदना दुःखतः प्रोक्ता संबुद्धेन प्रजाननेति” ॥
[३३१।२२]
यदपि चोक्तं “दुःखे सुखमिति संज्ञाविपर्यास” इति ।
आभिप्रायिक एष निर्देशः ।
[३३१।२३]
लोकस्य हि सुखसंज्ञा वेदनायां कामगुणेषूपपत्तौ च ।
[३३१।२३-३३१।२४]
तत्र सूखं वेदनां पर्यायेण दुःखं सतीमेकान्तसुखां पश्यतो विपर्यासः ।
[३३१।२४]
एवमुपपत्तिम् ।
[३३१।२५]
तस्मान्नातः सुखवेदनाऽभावसिद्धिः ।
[३३१।२५-३३१।२६]
यदि तु स्वभावत एव सर्वं वेदितं दुःखमभविष्यत्तिस्रो वेदना इति वचने कोगुणोऽभविष्यत् ।
[३३१।२६-३३२।०१]
लोकानुवृत्त्येति चेत्न ।
[३३२।०१-३३२।०२]
सर्ववेदितदुःखत्वस्य संस्कारविपरिणामानित्यतां संधाय भाषितवचनात्यथाभूतवचनाच्च ।
[३३२।०२-३३२।०४]
“यच्च सुखेन्द्रियं यच्च सौमनस्येन्द्रियं सुखैषा वेदना द्रष्टव्ये” ति विस्तरेणोक्त्वा “येनेमानि पञ्चेन्द्रियाण्येवं यथाभूतं सम्यक्प्रज्ञया दृष्टानि त्रीणि चास्य संयोजनानि प्रहीणानि भवन्ती” त्येवमादि ।
[३३२।०४-३३२।०५]
लोकोऽपि च कथं दुःखां वेदनां त्रिविधां व्यवस्येत् ।
[३३२।०५]
मृद्वधिमात्रमध्यासु यथाक्रमं सुखादिबुद्धिरिति चेत् ।
न ।
[३३२।०६]
सुखस्यापि त्रिविधत्वात्मृद्वादिषु दुःखेष्वधिमात्रा दिसुखबुद्धिः स्यात् ।
[३३२।०६-३३२।०८]
यदा च गन्धरसस्प्रष्टव्यविशेषजं सुखं वेदयते तदा कतमत्दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवति ।
[३३२।०८-३३२।०९]
अनुत्पन्नविनष्टे चतस्मिन्मृदुनि दुःखे सुतरां सुकबुद्धिः स्यात् ।
[३३२।०९]
अशेषदुःखापगमात् ।
एवं कामसुखसंमुखीभावेऽपि वक्तव्यम् ।
[३३२।१०-३३२।११]
कथं च नामेदं योज्यते यन्मृदुनिवेदिते सुव्यक्तस्तीव्रोऽनुभवो गृह्यते मध्ये पुनरव्यक्त इति ।
[३३२।११]
त्रिषु च ध्यानेषु सुखवचनात्मृदु दुःखं स्यात् ।
[३३२।११-३३२।१२]
ऊर्ध्वमदुःखसुखवचनान्मध्यं दुःखमिति न युज्यते मृद्वादिषु दुःखेषु दुःखेषु सुखादिवेदनाव्यवस्थानम् ।
[३३२।१२-३३२।१४]
उक्तं च भगवता “रूपं चेन्महानामन्नेकान्तदुःखमभविष्यन्न सुखं न सुखानुगतमि”त्येवमादि ।
[३३२।१४]
तस्मादप्यस्ति किञ्चित्सुखम् ।
[३३२।१४-३३२।१५]
एवं तावन्न सूत्रात्सुखवेदनाऽभावः सिध्यति ।
[३३२।१५]
यत्पुनः सुखहेत्वव्यवस्थानादित्युक्तम् ।
हेत्वपरिज्ञानादिदमुच्यते ।
[३३२।१६]
आश्रयविशेषापेक्षो हि विषयः सुखहेतुर्वा भवति दुःखहेतुर्वा ।
न केवलो विषयः ।
[३३२।१७-३३२।१८]
स यां कामवस्थां प्राप्य सुखहेतुर्भवति न तां पुनः प्राप्य कदाचिन्न भवतीति व्यवस्थित एव सुखहेतुः ।
[३३२।१८-३३२।२०]
तद्यथा स एवाग्निः पाक्यभूतविशेषापेक्षः स्वादुपाकहेतुर्भवति स एवास्वादपाकहेतुः न तु यां पाक्यभूतावस्थां प्राप्य स्वदुपाकहेतुस्तां पुनः प्राप्य न हेतुरित्येष दृष्टान्तः ।
[३३२।२०-३३२।२१]
ध्यानेषु च कथं न व्यवस्थितः सुखहेतुः ।
[३३२।२१-३३२।२२]
यत्तु पुनः दुःखप्रतिकारे सुखबुद्धिरित्युक्तं तत्र विहितः प्रतीकारः ।
[३३२।२२-३३२।२३]
यदा गन्धादिविशेषजं सुखं वेदयते तदा कस्य प्रतीकारेषु सुखबुद्धिर्भवत्यनुत्पन्नविनष्टे च तस्मिन् दुःखे सुतरां सुखबुद्धिः स्यात् ।
[३३२।२३-३३२।२४]
ध्यानजे सुखे कः कस्य प्रतीकार इत्येवमादि ।
[३३२।२४-३३२।२५]
भावसंचारेऽपि चावस्थान्तरजं सुखमेवोत्पद्यते ।
[३३२।२५]
यावदसौ तादृशी कायावस्थाऽन्तर्घीयते ।
[३३२।२५-३३२।२६]
अन्यथा हि पश्चाद्भूयसी सुखबुद्धिः स्यात् ।
[३३२।२६]
एवं श्रान्तस्येर्यापथविकल्पेषु वेदितव्यम् ।
[३३२।२७]
“अन्ते कुतो दुःखबुद्धिरारम्भो यदि नादित” इति
[३३३।०१]
चेत् ।
कायपरिणामविशेषान्मद्यादीनामन्ते माधुर्यशुक्ततावत् ।
[३३३।०१-३३३।०२]
तस्मादस्त्येव सुखा वेदनेति सिद्धम् ।
[३३३।०२]
त्रिदुःखतायोगाद्वा सर्वं सास्रवं दुःखमिति ।
[३३३।०२-३३३।०३]
यत्तु समुदयसत्यं तदेवोच्यते ।
[३३३।०३]
इदमुत्सूत्रं सूत्रे हि तृष्णैवोक्ता ।
प्रधान्यादसौ सूत्र उक्ता ।
[३३३।०३-३३३।०४]
अन्येऽपि तु समुदयः ।
[३३३।०४]
कथमिदं प्रत्येतव्यम् ।
अन्यत्रान्यस्यापि वचनात् ।
उक्तं हि भगवता ।
[३३३।०५]
“कर्म च तृष्णा च अथो अविद्या संस्काराणां हेतुरभिसंपराय” इति ।
[३३३।०६]
पुनश्चोक्तं “पञ्च बीजजातानीति सोपादानस्य विज्ञानस्यैतदधिवचनम् ।
[३३३।०७]
पृथिवीधातुरिति चतसृणां विज्ञानस्थितीनामेतदधिवचनमि”ति ।
[३३३।०७-३३३।०८]
तस्मादाभिप्रायिकः सूत्रेषु निर्देशो लाक्षणिकस्त्वभिधर्मे ।
[३३३।०८-३३३।०९]
अपि त्वभिनिर्वृत्तिहेतुं ब्रूवता समुदयसत्यं तृष्णैवोक्ता ।
[३३३।०९-३३३।१०]
उपपत्त्यभिनिर्वृत्तिहेतुं सहेतुकं ब्रूवता गाथायां कर्म च तृष्णा चाविद्योक्ता ।
[३३३।१०-३३३।११]
“कर्महेतुरूपपत्तये तृष्णाहेतुरभिनिर्वृत्तय” इति सूत्रे वचनात् ।
[३३३।११-३३३।१२]
सहेतुसप्रत्ययसनिदानसूत्रक्रमेण वा बीजक्षेत्रभावं प्रतिपादयता विज्ञानादयोऽष्युक्ताः ।
[३३३।१२]
का पुनरुषपत्तिः का चाभिनिर्वृत्तिः ।
[३३३।१२-३३३।१३]
धातुगतियोन्यादिप्रकारभेदेनात्मभावस्योषपदनमुपपत्तिः ।
[३३३।१३]
अभेदेन पुनर्भवप्रतिसंधानमभिनिर्वृत्तिः ।
[३३३।१४]
तयोर्यथाक्रमं कर्म च भवतृष्णा च हेतुः ।
[३३३।१४-३३३।१५]
तद्यथा बीजं शालिवादिजातिप्रकारभेदेनाङ्कुरोओपपदनस्य हेतुः ।
[३३३।१५]
आपः पुनरभेदेन सर्वङ्कुरप्ररोहमात्रस्येत्येव दृष्टान्तः ।
[३३३।१६]
तृष्णाऽभिनिर्वृत्तिहेतुरिति काऽत्र युक्तिः ।
वीततृष्णस्य जन्माभावात् ।
[३३३।१६-३३३।१७]
उभयेऽपि ब्रियन्ते ।
[३३३।१७]
सतृष्णा वीततृष्णाश्च ।
सतृष्णा एव जाता दृश्यन्ते न वीततृष्णा इति ।
[३३३।१८]
विना तृष्णया जन्माभावात् ।
भवस्याभिनिर्वृत्तौ तृष्णाहेतुं प्रतीमः ।
[३३३।१८-३३३।१९]
संततिनमनाच्च ।
[३३३।१९]
यत्र च सतृष्णा तत्राभीक्ष्णं चित्तसंततिं नमन्तीं पश्यामः ।
[३३३।१९-३३३।२०]
तस्मात्पुनर्भवेऽष्येवमिति व्यवस्यामः ।
[३३३।२०-३३३।२१]
न चात्मभाव एवं केनचिदागृहीतो यथा तृष्णया ।
[३३३।२१]
शुष्कमसूरोपस्नानलेपाङ्गवत् ।
[३३३।२१-३३३।२२]
न चान्यो हेतुरेवमनुषत्तो यथात्मस्नेह इत्येषा युक्तिः ।
[३३३।२३]
चत्वार्यपि सत्यान्युक्तानि भगवता ।
[३३३।२३-३३३।२४]
द्वे अपि सत्ये संवृतिसत्यं परमार्थसत्यं च ।
[३३३।२४]
तयोः किं लक्षणम् ।
[३३४।०१-३३४।०२]
यत्र भिन्नेन तद्बुद्धिरन्यापोहे धिया च तत् ।
घटार्थवत्संवृतिसत्परमार्थसदन्यथा ॥ ६.४ ॥
[३३४।०३]
यस्मिन्नवयवशो भिन्ने न तद्बुद्धिर्भवति तत्संवृतिसत् ।
तद्यथा घटः ।
[३३४।०४]
तत्र हि कपालशो भिन्ने घटबुद्धिर्न भवति ।
[३३४।०४-३३४।०५]
तत्र चान्यानपोह्य धर्मान् बुद्धच्या तद्बुद्धिर्न भवति तच्चापि संवृतिसद्वेदितव्यम् ।
[३३४।०५]
तद्यथाम्बु ।
[३३४।०५-३३४।०६]
तत्र हि बुद्धच्या रूपादीन्धर्मानषोह्याम्बुबुद्धिर्न भवति ।
[३३४।०६-३३४।०७]
तेष्वेव तु संवृतिसंज्ञा कृतेति संवृतिवशात्घटश्चाम्बु चास्तीति ब्रूबन्तः सत्यमेवाहुर्न मृषेत्येतत्संवृतिसत्यम् ।
[३३४।०७-३३४।०८]
अतोन्यथा परमार्थ सत्यम् ।
[३३४।०८]
तत्र भिन्नेऽपोइ तद्बुधिर्भवत्येव ।
[३३४।०८-३३४।०९]
अन्यधर्मापोहेऽपि बुद्धच्या तत्परमार्थसत् ।
[३३४।०९]
तद्यथा रूपम् ।
[३३४।०९-३३४।१०]
तत्र हि परमाणुशो भिन्ने वस्तुनि रसार्हानपि च धर्मानपोह्य बुद्धच्या रूपस्य स्वभावबुद्धिर्भवत्येव ।
[३३४।१०]
एवं वेदनादयोऽपि द्रष्टव्याः ।
[३३४।१०-३३४।११]
एतत्परमार्थेन भावात्परमार्थसत्यमिति ।
[३३४।११-३३४।१२]
यथा लोकोत्तरेन ज्ञानेन गृह्यते तत्पृष्ठलब्धेन वा लौकिकेन तथा परमार्थसत्यम् ।
[३३४।१२-३३४।१३]
यथान्येन तथा संवृतिसत्यमिति पूर्वाचार्याः ।
[३३४।१३]
उक्तानि सत्यानि ।
[३३४।१४]
कथं पुनस्तेषां दर्शनं भवति ।
वक्तव्यम् ।
अत आदिप्राथानमारभ्योच्यते ।
[३३४।१५]
वृत्तस्थः श्रुतचिन्तावान्भावनायां प्रयुज्यते ।
[३३४।१६]
सत्यानि ह द्रष्टुकाम आदित एव शीलं पालयति ।
[३३४।१६-३३४।१७]
ततः सत्यदर्शनस्यानुलोमं श्रुतमुद्गृह्लात्यर्थं वा श्रुणेनि ।
[३३४।१७-३३४।१८]
श्रुत्वा चिन्तयति अविपरीतं चिन्तयित्वा भावनायां प्रयुज्यते ।
[३३४।१८]
समाधौ तस्य श्रुतमयीं प्रज्ञां निश्रित्य चिन्तामयी जायते ।
[३३४।१८-३३४।१९]
चिन्तामयीं निश्रित्य भावनामयी जायते ।
[३३४।२०]
किं पुनरासां प्रज्ञानां लक्षणम् ।
[३३४।२१]
नामोभयार्थविषया श्रुतमय्यादिका धियः ॥ ६.५ ॥
[३३४।२२]
नामालम्बना किल श्रुतमयी प्रज्ञा ।
नामार्थालम्बना चिन्तामयी ।
[३३४।२२-३३४।२३]
कदाचिद्वच्यञ्जनेनार्थमाकर्षति कदाचिदर्थेन व्यञ्जनम् ।
[३३४।२३]
अर्थलम्वनैव भावनामयी ।
[३३४।२४]
सा हि व्यञ्जननिरपेक्षा अर्थे प्रवर्तते ।
[३३४।२४-३३५।०१]
तद्यथाऽम्भसि प्लोतुमशिक्षितः प्लवन्नेव मुञ्चति ।
[३३५।०१]
कियच्छिक्षितः कदाचित्मुञ्चेत्कदाचिदालम्वते ।
[३३५।०१-३३५।०२]
सुशिक्षिता प्लवन्निरपेक्षस्तरतीत्येष दृष्टान्तः इति वैभाषिकाः ।
[३३५।०२-३३५।०३]
अस्यां तु कल्पनायां चिन्तामयी प्रज्ञा न सिद्धच्यतीत्यपरे ।
[३३५।०३-३३५।०४]
याहि नामालम्बना श्रुतमयी प्राप्नोति याऽर्थालम्बना भावनामयीति ।
[३३५।०४-३३५।०५]
इदं तु लक्षणं नानिरवद्यं विद्यते ।
[३३५।०५]
आप्तवचनप्रामाण्यजातनिश्चयः श्रुतमयी ।
युक्तिनिध्यानजश्चिन्तामयी ।
[३३५।०६]
समाधिज्जो भावनामयीति ।
हेतौ मयट्विधानात् ।
[३३५।०६-३३५।०७]
यद्यथाऽन्नमयाः प्राणाः तृणमय्यो गायः इति ।
[३३५।०८]
तस्य पुनरेवं भावनायां प्रयुक्तस्य कथं भावना संपद्यत इत्याह ।
[३३५।०९]
व्यपकर्षद्वयवतः
[३३५।१०]
यदि हि कायचित्ताभ्यां व्यपकृष्टो भवति ।
संसर्गाकुशलवितर्कदूरीकरणात् ।
[३३५।११]
तत्तर्हि व्यपकर्षद्वयं कस्य सुकरं भवति ।
योऽल्पेच्छः संतुष्टश्च ।
[३३५।१२]
नासंतुष्टमहेच्छयोः ।
[३३५।१३]
का पुनरियमसंतुष्टिः ।
का च महेच्छता ।
[३३५।१४]
लब्धे भूयःस्पृहाऽतुष्टिरलब्धेच्छा महेच्छाता ॥ ६.६ ॥
[३३५।१५]
लब्धेषु किल प्रणीतेषु चीवरादिषु भूयस्कामतऽसंतुष्टिः ।
[३३५।१५-३३५।१६]
अलब्धेषु तत्कामता महेच्छतेत्याभिधार्मिकाः ।
[३३५।१६-३३५।१७]
ननु च साऽतिभूयस्कामताऽलब्ध एव न लब्धे भवतीति कोऽनयोर्विशेष इति वक्तव्यमेतद् ।
[३३५।१७]
एवं तु युज्यते ।
[३३५।१७-३३५।१८]
लब्धेनाप्रणीतेनाप्रभूतेन परितापोऽसंतुष्टिः ।
[३३५।१८]
अलब्धप्रणीतप्रभूतेच्छा महेच्छता ।
[३३५।१९]
विपर्यासात्तद्विपक्षौ
[३३५।२०]
असंतुष्टिमहेच्छताविपर्ययेण तत्प्रतिपक्षौ वेदितव्यौ ।
[३३५।२०-३३५।२१]
संतुष्टिश्चाल्पेच्छता चेति ।
[३३६।०१]
त्रिधात्वाप्तामलौ च तौ ।
[३३६।०२]
तद्विपक्षाविति वर्तते ।
त्रिधातुकौ च पोरतिसंयुक्तौ च ।
सास्रवानास्रवत्वात् ।
[३३६।०३]
असंतुष्टिमहेच्छते च कामावचर्यावेव ।
[३३६।०४]
कः पुनरनयोरल्पेच्छतासंतुष्टच्योः स्वभाव इत्याह ।
[३३६।०५]
अलोभः
[३३६।०६]
अलोभस्वभावे ह्येते ।
[३३६।०७]
आर्यवंशाश्च
[३३६।०८]
अलोभ इति वर्तते ।
आर्याणामेभ्यः प्रसवादार्यवंशाश्चत्वारः ।
[३३६।०८-३३६।०९]
तेऽप्यलोभस्वभावाः ।
[३३६।१०]
तेषां तुष्टच्यात्मकास्त्रयः ॥ ६.७ ॥
[३३६।११]
ज्संतुष्टिस्वभावाः ।
चीवरपिण्डपातशयनासनसंतुष्टयः ।
[३३६।११-३३६।१२]
प्रहाणभावनारामता चतुर्थ आर्यवंशः कथमलोभस्वभावः ।
[३३६।१२]
भवकामरागवैमुख्यात् ।
[३३६।१३]
अथ चतुर्भिरार्यवंशैः किं दर्शितं भगवता ।
[३३६।१४]
कर्मान्तेन त्रिभिर्वृत्तिः
[३३६।१५-३३६।१६]
धर्मस्वामिना हि भगवता परित्यक्तस्ववृत्तिकर्मान्तेभ्यः शिष्येभ्यो मोक्षार्थमभ्युपगतेभ्यो द्वयं प्रज्ञप्तं वृत्तिश्च कर्म च ।
[३३६।१६]
त्रिभिरार्यवंशैर्वृत्तिश्चतुर्येन कर्म ।
[३३६।१७]
अनया वृत्त्येदं कर्म कुर्वाणा भवन्ती न चिरान्मोक्षं प्राप्स्यन्तीति ।
[३३६।१७-३३६।१८]
कस्मात्पुनरियमीदृशी वृत्तिरिदं च कर्म प्रज्ञप्तम् ।
[३३६।१९]
तृष्णोत्पादविपक्षतः ।
[३३६।२०]
चत्वारस्तृष्णोत्पादाः सूत्र उक्ताः ।
[३३६।२०-३३६।२१]
“चीवरहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यते प्रतितिष्ठन्ति प्रतितिष्ठति अभिनिविशमानाऽभिनिविशते ।
[३३६।२१-३३६।२२]
पिण्डपातहेतोः शय्यासनहेतोरिति ।
[३३६।२२]
भवविभवहेतोर्भिक्षोस्तृष्णोत्पद्यमाना उत्पद्यत” इति विस्तरः ।
[३३७।०१]
एषां प्रतिपक्षेण चत्वार आर्यवंशा देशिताः ।
[३३७।०२]
ममाह कारवस्त्विच्छातत्कालात्यन्तशान्तये ॥ ६.८ ॥
[३३७।०३]
स एवार्थः पुनः परिशेषेणोच्यते ।
[३३७।०३-३३७।०४]
ममकारवस्तु चीवरादयोऽहं कारवस्त्वात्मभावः ।
[३३७।०४]
तत्रेच्छा तृष्णा ।
[३३७।०४-३३७।०५]
तत्र ममकारवस्त्विच्छायास्तत्कालशान्तये त्रय आर्यवंशा भवन्ति ।
[३३७।०५]
उभयेच्छात्यन्तशान्तये चतुर्थ इति ।
[३३७।०५-३३७।०६]
उक्तामिदं यथा भूतस्य भावना संपद्यते ।
[३३७।०७]
तस्य त्वेवं पात्रोभूतस्य कथं तस्यां भावनायामवतारो भवति ।
[३३७।०८]
तत्रावतारोऽशुभया चानापानस्मृतेन च ।
[३३७।०९]
स्मृतिरेव स्मृतम् ।
केषां पुनरशुभया केषामानापानस्मृत्या ।
यथाक्रमम्
[३३७।१०]
अधिरागवितर्काणाम्
[३३७।११]
अधिको रागो वितर्कश्चैषां त इमे अधिरागवितर्काः ।
[३३७।११-३३७।१२]
यो हि प्रत्यासन्नमत्यर्थं रागचरितस्तस्याशुभया ।
[३३७।१२]
यो हि वितर्कचरितस्तस्यानापानस्मृत्येति ।
[३३७।१२-३३७।१३]
अविचित्रालम्बनत्वादेषां वितर्कोपच्छेदाय संवर्तत इत्येके ।
[३३७।१३-३३७।१४]
अशुभा तु यत्र संस्थानविशेषालम्बनत्वाद्वितर्कमावहतीति ।
[३३७।१४]
अवहिमुखत्वादित्यपरे ।
[३३७।१४-३३७।१५]
अशुभा हि चक्षुर्विज्ञानवद्बहिर्मुखी ।
[३३७।१५]
तद्विषयोपनिध्यानात् ।
[३३७।१५-३३७।१६]
तत्र पुनश्चतुर्विधो रागः वर्णरागः संस्थानरागः स्पर्शराग उपचाररागश्च ।
[३३७।१६-३३७।१७]
प्रथमस्य प्रतिपक्षेण विनोलकाद्यालम्बनामशुभां वर्जयन्ति ।
[३३७।१७-३३७।१९]
द्वितियस्य विखादितकविक्षिप्तालम्बनां तृतीयस्य विपटुम्ना पूयनिबद्धास्थ्यालम्बनां चतुर्थस्य निश्चेष्टमृत्कायालम्बनाम् ।
[३३७।१९]
अभदेन तु शस्यते
[३३७।२०]
शङ्कला सर्वरागिणाम् ॥ ६.९ ॥
[३३८।०१-३३८।०२]
अस्थिसंकक्लायां हि सर्वमेतच्चतुर्विधं रागस्तु नास्तीति अधिमुक्तिप्रादेशिकमनस्कारत्वादशुभया न क्लेशप्रहाणं विष्कम्भणं तु ।
[३३८।०२-३३८।०३]
स पुनरयमशुभां भावयन् योगाचारस्त्रिविध उच्यते ।
[३३८।०३]
आदिकार्मिकः कृतपरिजयोऽतिक्रान्तमनस्कारश्च ।
तत्र
[३३८।०४]
आसमुद्रास्थिविस्तारसंक्षेपादादिकर्मिकः ।(६-१० ब्)
[३३८।०५]
अशुभां भावयितुकाम आदितो योगाचारः ।
[३३८।०५-३३८।०६]
स्वाङ्गावयवे चित्तं निबध्नाति पादाङ्गुष्ठे ललाटे यत्र चास्याभिरतिः ।
[३३८।०६-३३८।०७]
स तत्र मांसक्लेदपीता धिमोक्षक्रमेणास्थिविशोधयन् सकलामस्थिसंकलां पश्यति ।
[३३८।०७-३३८।०९]
तथैव च पुनर्द्वितीयामधिमुच्यते यावद्विहारारामक्षेत्रक्रमेण समुद्रपर्यन्तां पृथिवीमस्थिसंकलां पूर्णामधिमुच्यतेऽधिमोक्षाभिवर्धनार्थम् ।
[३३८।०९-३३८।१०]
पुनश्च संक्षिपन्यावदेकामेव स्वमस्थिसंकलामधिमुच्यते चित्तसंक्षेपार्थम् ।
[३३८।१०]
इयता किल कालेनाशुभा ओपरिनिष्पन्ना भवति ।
[३३८।१०-३३८।११]
अयमादिकर्मिको योगाचारः ।
[३३८।१२]
पादास्थ्न आकपालार्थत्यागात्कृतजयः स्मृतः ॥ ६.१० ॥
[३३८।१३-३३८।१४]
स पुनः चित्तसंक्षेपविशेषार्थ तस्यामस्थिशङ्कलायां पादास्थीनि हित्वा शेषं मनसि करोति ।
[३३८।१४-३३८।१५]
एवं क्रमेण यावत्कपालस्यार्धं हित्वाऽर्धं मनसि करोति क्षयकृतपरिजयः ।
[३३८।१६]
अतिक्रान्तमनस्कारो ब्रूमध्ये चित्तधारणात् ।(६-११ ब्)
[३३८।१७]
सोऽर्धमपि कपालस्य मुक्त्वा ब्रूवोर्मध्ये चित्तं धारयति ।
[३३८।१७-३३८।१८]
अयं किलाशुभायामतिक्रान्तमनस्कारो योगाचारः ।
[३३८।१८-३३८।१९]
अस्त्यशुभा आलल्म्बनपरीत्ततया परीत्ता न वशितापरीत्ततया परीत्तेति चतुष्कोटिकम् ।
[३३८।१९-३३८।२०]
जिताजितमनस्कारयोरजितजितमनस्कारयोश्च स्वकायसमुद्रपर्यन्तालम्बनात् ।
[३३८।२१]
अथ किंस्वभावेयमशुभा कतिभूमिका किमालम्बना क्व चोत्पद्यते ।
[३३८।२२]
यथाक्रमम् ।
[३३८।२३]
अलोभो दशभूः कामदृश्यालम्बा नृजाऽशुभा ॥ ६.११ ॥
[३३८।२४-३३८।२६]
अलोभस्वभावा दशभूमिका ससामन्तकध्यानान्तरेषु चतुर्षु ध्यानेषुइ कामधातौ च कामावचर दृष्यालम्बना किं पोओउन्र्दृश्यवस्तुसंस्थाने ।
[३३८।२५-३३८।२६]
अथ एवार्थालम्वनेति सिद्धम् ।
[३३८।२६]
मनुष्येष्वेवोत्पद्यते ।
नान्यस्यां गतौ ।
कुत एव धातौ ।
[३३९।०१]
तत्रापि नोत्तरकुरौ ।
नाम्नैव सिद्धमशुभाकारेति ।
यदध्विका तदध्वालम्बना ।
[३३९।०२]
अनुत्पत्तिधर्मिणी तु व्यध्वालम्बना ।
अधिमुक्तिमनस्कारत्वात्सास्रवा ।
[३३९।०२-३३९।०३]
वैराग्यलाभिकी च प्रायोगिकी च ।
[३३९।०३]
उचितानुचितत्वात् ।
[३३९।०३-३३९।०४]
उक्तमशुभायाः सप्रभेदं लक्षणम् ।
[३३९।०५]
आनापानस्मृतिः प्रज्ञा पञ्चभूर्वायुर्गीचरा ।
[३३९।०६]
कामाश्रया
[३३९।०७]
आननमान आश्वासो यो वायुः प्रविशति ।
[३३९।०७-३३९।०८]
अपाननमपानः प्रश्वासो यो वायुः निष्क्रामति ।
[३३९।०८]
तयोः स्मृतिरानापानस्मृतिः ।
सैव प्रज्ञास्वभावा ।
[३३९।०८-३३९।०९]
स्मृतिवचनं तु स्मृत्युपस्थानवत्तद्वलाधानवृत्तित्वात् ।
[३३९।०९-३३९।१०]
पञ्चसु भूमिसु त्रिषु सामन्तकेषु ध्यानान्तरे कामधातौ चोपेक्षासंप्रयोगित्वात् ।
[३३९।१०-३३९।११]
वितर्कानुगुणत्वात्किल ल्सुखदुःखयोस्तत्प्रतिपक्षस्य ताभ्यामसंप्रयोगः ।
[३३९।११-३३९।१२]
सुखसौमनस्ययोश्चावधानपरिपन्थित्वात्तस्याश्चावधाने साध्यत्वादिति ।
[३३९।१२-३३९।१३]
ये तु मौलेष्वपि ध्यानेषु समापन्नस्योपेक्षामिच्छन्ति नेषामष्टभूमिका ।
[३३९।१३]
परेणाश्वासप्रश्वासानमभूमित्वात् ।
[३३९।१३-३३९।१४]
वाय्वालम्बना चैषा कामधात्वाश्रया ।
[३३९।१४]
देवमनुष्येषु प्रायोगिकी वैराग्यलाभिको च ।
[३३९।१४-३३९।१५]
तत्वमनस्कारश्चैषा ।
[३३९।१५]
इदं धर्माणामेव ।
[३३९।१६]
न बाह्यानाम्
[३३९।१७]
उपदेशाभावात् ।
स्वयं च सूक्ष्मधर्मानभिसंबोधात् ।
सा चेयं
[३३९।१८]
षड्विधा गणनादिभिः ॥ ६.१२ ॥
[३३९।१९]
षट्कारणयुक्ता चैषा परिपूर्णा भवति ।
[३३९।१९-३३९।२०]
गणनयाऽनुगमेन स्थापनया उपलक्षणया विवर्त्तेन परिशूद्धच्या च ।
[३३९।२०-३३९।२२]
तत्र च गणना नाम आश्वासप्रश्वासेषु चित्तं दत्त्वाऽनभिसम्स्कारेण कायं चित्तं चाध्युपेक्ष्य स्मृतिमात्रेण गणयत्येकं द्वौ यावद्दश ।
[३३९।२२]
चित्ताभिसंक्षेप विक्षेपभयान्नाल्पवहुतरा ।
[३३९।२२-३३९।२३]
तस्यां तु त्रयो दोषाः ।
[३३९।२३]
ऊनगणना यदि द्वावेकं गृह्लाति ।
[३३९।२३-३३९।२४]
अधिकगणना यद्येकं द्वाविति ।
[३३९।२४]
संकरो यद्याश्वासं प्रश्वासतो गृह्लाति विपर्ययाद्वा ।
[३३९।२४-३४०।०१]
अतोऽन्यथा सम्यग्गणना ।
[३४०।०१]
अन्तरविक्षेपे पुनरादितो गणयितव्यं तावद्यावत्समाधि लभते ।
[३४०।०२]
अनुगमो नाम अनभिसंस्कारेणाश्वासप्रश्वासानां गतिमनुगच्छति ।
[३४०।०२-३४०।०३]
कियद्दूरमेते प्रविशन्ति वा निष्क्रामन्ति वा किमेते सर्वशरीरव्याओपिन एकदेशचारिण इति ।
[३४०।०४]
तान् प्रविशतः कण्ठहृदयनाभिकट्युरुजङ्घाप्रवेशक्रम्४ण यावत्पादावनुगच्छति ।
[३४०।०५]
निष्क्रामतो वितस्तिव्यामान्तरं यावद्वायुमण्डलं वैरम्भाश्च वायव इत्यपरे ।
[३४०।०६]
तदेतत्तत्वमनसिकारत्वान्न युक्तम् ।
[३४०।०६-३४०।०७]
स्थापना नाम नासिकाग्रे यावत्पादन्ङ्गुष्ठे स्थितां पश्यति ।
[३४०।०७]
मणिसूत्रवत् ।
[३४०।०७-३४०।०८]
किमनुग्राहका एते उपधातकाः शीता उष्णा इति ।
[३४०।०८]
उपलक्षणा नाम नैते केवला वायव एव ।
[३४०।०८-३४०।१०]
चत्वार्येतानि महाभूतानि महाभूताभिनिर्वृत्तमुपादायरूपं तदाश्रिताश्चित्तचैत्ता इति पञ्चस्कन्धानुपलक्षयति ।
[३४०।१०-३४०।११]
विवर्तो नाम वाय्वालम्बनां वृद्धिं विवर्त्त्योत्तरेषु कुशलमूलेषु संनियोजनं यावदग्रधर्मेषु ।
[३४०।११]
परिशुद्धिर्दर्शनमार्गादिष्ववतारः ।
[३४०।१२]
स्मृत्युपस्थानादिवज्रोपमसमाध्यन्ता विवर्त इत्यपरे ।
क्षयज्ञानादिशुद्धिरिति ।
[३४०।१३-३४०।१४]
“गणनानुगमः स्थानं लक्षणार्थविवर्त्त्ना
परिशुद्धिश्च षोढेयमानापानस्मृतिर्मता” इति संग्रहश्लोकाः ।
[३४०।१५]
तत्र पुनर्वेदितव्यौ
[३४०।१६]
आनापातौ यतः कायः ।
[३४०।१७]
यद्भूमिको हि कायः तद्भूमिकावेतै ।
कायैकदेशत्वात् ।
[३४०।१७-३४०।१८]
कायचित्तविशेषसंनिश्रिता आश्वासप्रश्वासा वर्तन्ते ।
[३४०।१८-३४०।१९]
आरुप्यकललादिगतानामभावातचित्तचतुर्थध्यानसमापन्नानां च ।
[३४०।१९-३४०।२०]
यदि हि कायः शुषिरो भवति आश्वासप्रश्वासभूमिकं च चित्तं संमुखीभूतमेवं ते वर्त्तन्ते ।
[३४०।२०-३४०।२१]
जायमानस्य चतुर्थध्यानाद्व्युत्तिष्ठमानस्य च प्रविशन्ति भियमाणस्य चतुर्थं च ध्यानं समापद्यमानस्य निष्क्रामन्ति ।
[३४०।२१-३४०।२२]
एतौ चानापानौ ।
[३४०।२३]
सत्त्वाख्यौ
[३४०।२४]
नासत्त्वसंख्यातौ ।
[३४०।२५]
अनुपात्तकौ ।
[३४१।०१]
इन्द्रियविनिर्भागित्वात् ।
[३४१।०२]
नैःष्यन्दिकौ
[३४१।०३]
नौपचयिकविपाकजौ ।
कायोपचयनानुपचयात्छ्हिन्नानां पुनः प्रतिसंधानाच्च ।
[३४१।०४]
नह्येतद्विपाकरूपस्यास्ति ।
[३४१।०५]
नाधरेण लक्षयेते मनसा च तौ ॥ ६.१३ ॥
[३४१।०६]
स्वभूम्युपरिभूमिकेन च तयोश्चित्तेनोपलक्षणम् ।
नावरेणेर्यापथिक नैर्माणिकेन ।
[३४१।०७]
उक्ते द्वे अवतारमुखे ।
ताभ्यां तु समाधिलब्धा
[३४१।०८]
निष्पन्नशमथः कुर्यात्स्मृत्युपस्थानभावनाम् ।
[३४१।०९]
विपश्यनायाः संपादनार्थम् ।
कथं च पुनः कुर्यात् ।
[३४१।१०]
कायविच्चित्तधर्माणां द्विलक्षणपरीक्षणात् ॥ ६.१४ ॥
[३४१।११]
कायं स्वसामान्यलक्षणाभ्यां परीक्षते ।
वेदनां चित्तं धर्माश्च ।
[३४१।११-३४१।१२]
स्वभाव एवैषां स्वलक्षणम् ।
[३४१।१२-३४१।१३]
सामान्यलक्षणं तु अनित्यता संस्कृतानां दुःखता सास्रवाणां शुन्यताऽनात्मते सर्वधर्माणाम् ।
[३४१।१३]
कायस्य पुनः कः स्वभावः । भूतभौतिकत्वम् ।
[३४१।१४]
धर्मास्त्रिभ्योऽन्ये ।
[३४१।१४-३४१।१५]
सामाहितस्य किल कायं परमाणुशः क्षणिकतश्च पश्यतः कायस्मृत्युपस्थाणं निष्पन्नं भवति ।
[३४१।१६]
अथ स्मृत्युपस्थानानां कः स्वभावः ।
[३४१।१६-३४१।१७]
विविधस्मृत्युपस्थानं स्वभावसंस्र्गालम्बनस्मृत्युपस्थानम् ।
[३४१।१७]
तत्र स्वभावस्मृत्युपस्थानम् ।
[३४१।१८]
प्रज्ञा
[३४१।१९]
कीदृशी प्रज्ञा ।
[३४१।२०]
श्रुतादिमयी
[३४२।०१]
श्रुतमयी चिन्तामयी भावनामयी च ।
[३४२।०१-३४२।०२]
त्रिविधानि स्मृत्युपस्थानानि श्रुतचिन्ताभावनामयानि ।
[३४२।०३]
अन्ये संसर्गालम्बनाः
[३४२।०४]
अन्ये तत्सहभुवो धर्माः संसर्गस्मृत्युपस्थानम् ।
[३४२।०४-३४२।०५]
तदालम्बना आलम्बनस्मृत्युपस्थानम् ।
[३४२।०५]
स्वभावस्मृत्युपस्थानं प्रज्ञेति ।
कुत एव तत् ।
[३४२।०५-३४२।०६]
“कामे कायानुपश्यना स्मृत्युपस्थान”मिति वचनात् ।
[३४२।०६]
का पुनरनुपश्यना ।
प्रज्ञा ।
[३४२।०६-३४२।०७]
तया हि तद्वाननुपश्यः क्रियते ।
[३४२।०७-३४२।०८]
यतश्चोक्त “मध्यात्मं काये कायानुपश्यी विहरती”ति ।
[३४२।०८]
अनुपश्यमस्यास्ति दर्शनमित्यनुपश्यी ।
कायेऽनुपश्यी कायानुपश्यी ।
[३४२।०९]
कस्मात्प्रज्ञा स्मृत्युपस्थानमित्युक्ता भगवता ।
स्मृत्युद्रेकत्वादिति वैभाषिकाः ।
[३४२।१०]
स्मृतिवलाधानवृत्तित्वादिति योऽर्थः ।
दारूपाटन कीलसंधारणवत् ।
[३४२।१०-३४२।११]
एवं तु युज्यते ।
[३४२।११]
स्मृतिरनयोपतिष्ठत इति स्मृत्युपस्थानं प्रज्ञा यथादृष्टस्याभिलपनात् ।
[३४२।१२-३४२।१३]
तद्यथा ह्युक्तमायुष्मता अनिरुद्धेन “तस्य काये कायानुपशियनो विहरतः कायालल्म्बनानुस्मृतिस्तिष्ठति संतिष्ठत” इति विस्तरः ।
[३४२।१३-३४२।१४]
भगावताऽपि चोक्तं “तस्य काये कायानुपशियनो विहरत उपस्थिता स्मृतिर्भवत्यसंमूढे”ति ।
[३४२।१४-३४२।१५]
यत्र तूक्तं “कथं भिक्षवश्चतुर्णां स्मृत्युपस्थानानां समुदयश्च भवत्यस्तङ्गमश्च ।
[३४२।१५-३४२।१७]
आहरसमुदयात्कायस्य समुदयो भवत्याहारनिरोधात्कायस्यास्तङ्गम”इत्यत्रालम्बनमेव स्मृत्युपस्थानमुक्तम् ।
[३४२।१७]
स्मृतिरत्रोपतिष्ठत इति कृत्वा ।
[३४२।१७-३४२।१८]
यथालम्बनं चैषां नाम स्वपरोभयसंतत्यालम्बनत्वात्प्रत्येकमेषां त्रैविध्यम् ।
[३४२।१९]
क्रमः ।
[३४२।२०]
यथोत्पत्ति
[३४२।२१]
कस्मात्पुनरेवमुत्पत्तिः ।
औदारिकस्य पूर्वं दर्शनात् ।
[३४२।२२-३४२।२३]
यतो वा कामरागस्य कायोऽधष्ठानं स च वेदनाऽभिलाषात्स च चित्तस्यादान्तत्वात्तत्क्लेशाप्रहाणादिति वैभाषिकाः ।
[३४२।२४]
चतुष्कं तु विपर्यासविपक्षतः ॥ ६.१५ ॥
[३४३।०१-३४३।०३]
शुचिसुखनित्यात्मविपर्यासनां चतुर्णां प्रतिपक्षेण चत्वारि स्मृत्युपस्था नान्युक्तानि यथाक्रमं नाधिकन्यूनानि एवं च त्रीण्यसंभिन्नालम्बनानि चतुर्थमुभयथा ।
[३४३।०३]
यदिधर्मानेव पश्यत्यसंभिन्नालम्बनम् ।
[३४३।०३-३४३।०४]
अथ कायादीनां द्वे त्रीणि चत्वारि वा समस्तानि पश्यति संभिन्नालम्बनम् ।
[३४३।०४-३४३।०५]
एवं कायाद्यालम्बनानि स्मृत्युपस्थानान्यभ्यस्य
[३४३।०६-३४३।०७]
स धर्मस्मृत्युपस्थाने समस्तालम्बने स्थितः ।
आनत्यदुःखतः शून्यानात्मतस्तान्विपश्यति ॥ ६.१६ ॥
[३४३।०८-३४३।०९]
संभिन्नलम्बने धर्मस्मृत्युपस्थाने स्थितस्तान् कायादीन् सर्वानभिसमस्य चतुर्भिराकारैः पश्यति ।
[३४३।०९]
अनित्यतो दुःखतः शून्यतोऽनात्मतश्च ।
[३४३।१०]
ततूष्मगतोत्पत्तिः
[३४३।११-३४३।१२]
तस्माद्धर्मस्मृत्युपस्थानादेवमभ्यस्तात्क्रमेणेष्मगतं नाम कुशामूलमुत्पद्यते ।
[३४३।१२]
ऊष्मगतमिवोष्मगतम् ।
क्लेशेन्धनदहनस्यार्यमार्गाग्नेः पूर्वरूपत्वात् ।
[३४३।१३]
तच्चतुःसत्यगोचरम् ।
[३४३।१४]
तदूष्मगतं प्राकर्षिकत्वाच्चतुःसत्यालम्बनम् ।
[३४३।१५]
षोडशाकारम्
[३४३।१६-३४३।१७]
दुःखं चतुर्भिराकारैः पश्यत्यनित्यतो दुःखत्ः शून्यतोऽनात्मतश्च ।
[३४३।१७]
समुदयं चतुर्भिर्हेतुतः समुदयतः प्रभवतः प्रत्ययतश्च ।
[३४३।१७-३४३।१८]
निरोधं चतुर्भिः निरोधतः शान्ततः प्रणीततो निःसरणतश्च ।
[३४३।१८-३४३।१९]
मार्गं चतुर्भिर्मार्गतो न्यायतः प्रतिपत्तितो नैर्याणिकतश्च ।
[३४३।१९]
एषां तु विशेषणं पश्चाद्वक्षयामः ।
[३४३।२०]
ऊष्मभ्यो मूर्धानः
[३४३।२१]
तेऽपि तादृशाः ॥ ६.१७ ॥
[३४४।०१]
यादृशा ऊष्माणश्चतुःसत्यालम्बनाः षोडशाकाराश्च ।
[३४४।०१-३४४।०२]
उत्कृष्टतरत्वात्तु नामान्तरं चल कुशलमूलमूर्धत्वात्मूर्धानः ।
[३४४।०२]
एभ्यो हि पातोऽतिक्रमो वा ।
[३४४।०३]
उभयाकरणं धर्मेण
[३४४।०४]
एषां पुनरुभयेषमूष्मगतमूर्ध्नां धर्मस्मृत्युपस्थानेनाकरणम् ।
[३४४।०४-३४४।०५]
किमिदमाकरणम् ।
[३४४।०५]
सत्येष्वकाराणां प्रथमतोविन्यसनम् ।
[३४४।०६]
अन्यैरपि तु वर्धनम् ।
[३४४।०७]
चतुर्भिरपि स्मृत्युपस्थानैरेषां वर्धनम् ।
[३४४।०७-३४४।०८]
विवर्धयतः पूर्वप्रतिलब्धानामंसंमुखीभाबोऽवहुमानत्वात् ।
[३४४।०८]
मृदुमध्याधिमात्रक्रमाभिवृद्धेभ्यः पुनरुत्पद्यते
[३४४।०९]
तेभ्यः क्षान्तिः
[३४४।१०]
अधिमात्रस्य क्षमणादपरिहाणितः ।
साऽपि त्रिप्रकारा मृद्वी मध्याऽधिमात्रा च ।
[३४४।११]
द्विधा तद्वत्
[३४४।१२]
यथा मूर्धान उक्ताः एवं मृदुमध्ये क्षान्ती तथैवाकरणात् ।
[३४४।१२-३४४।१३]
विवर्धने त्वयं विशेषः ।
[३४४।१३]
सर्वस्याः
[३४४।१४]
क्षान्त्या धर्मेण वर्धनम् ॥ ६.१८ ॥
[३४४।१५]
स्मृत्युपस्थानेनैव नान्येन ।
[३४४।१६]
कामाप्तदुःखविषया त्वधिमात्रा
[३४४।१७]
क्षान्तिरिति वर्त्तते ।
अप्रधर्मसंश्लेषादसौ कामावचरदुःखालम्बनैव ।
[३४४।१८]
अत एवोष्मगतादीनां त्रैधातुकदुःखद्यालम्बनत्वसिद्धिर्नियमावचनात् ।
[३४४।१८-३४४।२०]
यदा किल रूपारुप्यप्रतिपक्षाद्येकैकसत्यालम्बनापह्लासेन यावत्कावावचरमेव दुखं द्वाभ्यां क्षणाभ्यां मनसि करोत्येषा सर्वैव मध्या क्षान्तिर्यदैकमेव क्षणं तदधिमात्रेति ।
[३४५।०१]
क्षणं च सा ।
[३४५।०२]
क्षणिका चासौ न प्राकर्षिकी ।
[३४५।०३]
तथाग्रधर्माः
[३४५।०४]
यथैवाधिमात्रा क्षान्तिः ।
[३४५।०४-३४५।०५]
तेऽपि हि कामावचरदुःखालम्बनाः क्षणिकाश्च लौकिकाश्चैतेऽग्राश्च धर्माः ।
[३४५।०५]
सर्वलौकिकश्रेष्ठत्वादिति लौकिकाग्रधर्माः ।
[३४५।०५-३४५।०६]
विना सभागहेतुना मार्गस्य तत्पुरुषकारेणाकर्षणात् ।
[३४५।०६-३४५।०७]
त एत ऊष्मगतादयः स्मृत्युपस्थानस्वभावत्वात्प्रज्ञात्मका उच्यन्ते ।
[३४५।०८]
सर्वे तु पञ्चस्कन्धाः
[३४५।०९]
सपरिवारग्रहणात् ।
[३४५।१०]
विनाप्तिभिः ॥ ६.१९ ॥
[३४५।११]
प्राप्तयो नोष्मगतादिभिः संगृह्यन्ते ।
[३४५।११-३४५।१२]
मा भूदार्यस्य तत्संमुखीभावादूष्मगतादीनां संमुखीभाव इति ।
[३४५।१२-३४५।१३]
तत्र त्रिसत्यालम्बनोष्मगताकरणे धर्मस्मृत्युपस्थानं प्रत्युत्पन्नमनागतानि चत्वारि भाव्यन्ते ।
[३४५।१४]
निरोधसत्यालम्बने तदेवोभयथा ।
सर्वत्राकाराः सभागाः ।
[३४५।१४-३४५।१५]
विवर्धने चतुर्णामन्यतमदनागतानि चत्वारि ।
[३४५।१५-३४५।१६]
तत्रैव निरोधालम्बनेऽन्त्यमनागतानिचत्वारि आकाराः सर्वे ।
[३४५।१६]
लब्धत्वाद्गोत्राणाम् ।
[३४५।१६-३४५।१७]
मूर्धाकरणे चतुःसत्यालम्बनेऽपि निरोधालम्बनवर्धने चान्त्यमनागतानि चत्वारि आकाराः सर्वे ।
[३४५।१७-३४५।१८]
त्रिसत्यालम्बनवर्धने चतुर्णामन्यतमदनागतानिचत्वारि आकाराः सर्वे ।
[३४५।१८]
क्षान्तीनां सर्वत्र चान्त्यम् ।
[३४५।१९]
अनागतानि चत्वारि आकाराः सर्वे ।
[३४५।१९-३४५।२०]
अग्रधर्मेष्वन्त्यमनागतानि चत्वारि आकाराश्चत्वार एव ।
[३४५।२०]
अन्याभावाद्दर्शनमार्गसादृश्याच्च ।
[३४५।२१]
इति निर्वेधभागीयं चतुर्धा
[३४६।०१-३४६।०२]
इत्येतानि चत्वारि निर्वेधभागीयानि कुशलमूलानि यदुतोष्मगतं मूर्धानः क्षान्तयोऽग्रधर्माश्च ।
[३४६।०२-३४६।०३]
एषां द्वे मृदूनी चलत्वात्परिहाणितः क्षान्तयो मध्यमग्रधर्मा अधिमात्रम् ।
[३४६।०३]
निर्वेधभागीयानीति कोऽर्थः ।
विध विभागे ।
[३४६।०३-३४६।०५]
निश्चितो वेधा निर्वेधः आर्यमार्गस्तेन विचिकित्सा प्रहाणात्सत्यानां च विभजनादिदं दुःखमयं यावत्मार्ग इति ।
[३४६।०५]
तस्य भागो दर्शनमार्गैकदेशः ।
[३४६।०५-३४६।०६]
तस्यावाहकत्वेन हितत्वान्निर्वेधभागीयानि ।
[३४६।०६]
तच्चैतच्चतुर्विधमपोइ निर्वेधभागीयम्
[३४६।०७]
भावनामयम् ।
[३४६।०८]
न श्रुतचिन्तामयम् ।
[३४६।०९]
अनागम्यान्तरध्यानभूमिकम्
[३४६।१०]
अनागम्यं ध्यानान्तरं चत्वारि च ध्यानान्यस्य भूमिस्तत्संगृहीतत्वात् ।
[३४६।११]
नोर्ध्व दर्शनमार्गपरिवारत्वात् ।
तदभावः कामधात्वालम्बनत्वात् ।
[३४६।११-३४६।१२]
तस्य च पूर्वपरिज्ञेयप्रहेयत्वात् ।
[३४६।१२]
तेषां रूपधातौ पञ्चस्कन्धको विपाकः ।
[३४६।१२-३४६।१३]
पूरिपूरकाण्येवनाक्षेपकाणि ।
[३४६।१३]
भवद्वेषित्वात् ।
[३४६।१४]
द्वे त्वधोऽपि वा ॥ ६.२० ॥
[३४६।१५]
वाशब्दो मतविकल्पार्थः ।
[३४६।१५-३४६।१६]
भदन्तघोषकस्य तु द्वे प्रथमे निर्वेधभागीये सप्तभूमिके कामावचरे अपि तः ।
[३४६।१७]
सर्वाण्यपि त्वेतानि चत्वारि
[३४६।१८]
कामाश्रयाणि
[३४६।१९]
त्रीणि मनुष्येष्वेवोत्पद्यन्ते ।
त्रिषु द्वीपेषु ।
उत्पादितपूर्वाणां तु देवेषु संमुखीभावः ।
[३४६।२०]
चतुर्थं देवेष्वपि ।
त्रीणि स्त्रीपुरुषा उभयाश्रयाणि लभन्ते ।
[३४६।२१]
अग्रधर्मान् द्वच्याश्रयान् लभतेऽङ्गना ।
[३४७।०१]
अग्रधर्मास्तु स्त्र्येव द्वच्याश्रयान् लभते ।
पुरुषः पुरुषाश्रयानेव ।
[३४७।०१-३४७।०२]
स्त्रीत्व स्याप्रतिसंख्यानिरोधलाभात् ।
[३४७।०२]
कथं निर्वेधभागीयानां त्यागः ।
[३४७।०३]
भूमित्यागात्त्यजत्यार्यस्तानि
[३४७।०४-३४७।०५]
यद्भूमिकान्यनेन प्रतिलब्धानिभवन्ति तां भूमि त्यजन्नार्यस्तान्यपि त्यजति नान्यथा भूमित्यागः पुनर्भूमिसंचारात् ।
[३४७।०६]
अनार्यस्तु मृत्युना ॥ ६.२१ ॥
[३४७।०७]
पृथग्जनस्तु निकायसभागत्यागेनैव त्यजतिसत्यसति वा भूमिसंचारे ।
[३४७।०८]
आद्ये द्वेपरिहाण्या च
[३४७।०९]
त्यजति मृत्युना च पृथग्जन एव ।
आर्यस्य तु नास्ति ताभ्यां परिहाणिः ।
[३४७।०९-३४७।१०]
क्षान्त्यग्रधर्माभ्यां तु पृथग्जनस्यापि नास्ति परिहाणिः ।
[३४७।११]
मौलेस्तत्रैव सत्यदृक् ।
[३४७।१२-३४७।१३]
यो मौलध्यानभूमिकानि निर्वेधभागीयान्युत्पादयति सतत्रैव जन्माति सत्यान्यवश्यं पश्यति ।
[३४७।१३]
तीव्रसंवेगत्वात् ।
[३४७।१४]
अपूर्वाप्तिर्विहीनेषु
[३४७।१५]
यदा विहिनेषु पुनर्लाभोभवत्यपूर्वाण्येव तदा लभ्यन्ते न पूर्वं त्यक्तानि ।
[३४७।१६]
प्रतिमोक्षसंवरवदनुचितयत्नसाध्यत्वात् ।
[३४७।१६-३४७।१७]
सति प्रतिसीमादैशिके परेणोत्पादयत्यसति मूलादेव ।
[३४७।१८]
एते पुनर्विहीनिपरिहाणी किंस्वभावे ।
[३४७।१९]
हानी द्वे असमन्वितिः ॥ ६.२२ ॥
[३४७।२०]
उभे अप्येते असमन्वागमस्वभावे ।
[३४७।२२]
परिहाणिस्तु दोषकृता नावश्यं विहानिः ।
[३४७।२३]
गुणविशेषकृता च सा ।
परिहीणोऽप्यूष्मगतलाभी नियतं परिनिर्वाणधर्मा भवति ।
[३४७।२४]
मोक्षभागीयात्को विशेषः ।
सत्यदर्शनासन्नतरत्वमसत्यन्तराये ।
[३४८।०१]
मूर्धलाभी न मूलच्छित्
[३४८।०२-३४८।०३]
परिहीणोऽपि मूर्धलाभी कुशलमूलानि न समुच्छिनत्ति ।
[३४८।०३]
अपायांस्तु पापादानन्तर्याण्यपि कुर्यात् ।
[३४८।०४]
क्षान्तिलाभ्यनपायगः ।
[३४८।०५-३४८।०६]
विहीनायामपि क्षान्तौ न पुनरपायान्याति तद्भूमिककर्मक्लेशदूरीकरणात् ।
[३४८।०६-३४८।०७]
क्षान्तिलाभादेव हि गतियोन्युपपत्त्याश्रयाष्टमादिभवक्लेशानां केषाञ्चिदनुत्पत्तिधर्मता प्रतिलभते ।
[३४८।०७-३४८।०९]
अपायगतीनामण्डजसंस्वेदजयोन्योरसंज्ञिसत्त्वोत्तरकुरुमहाब्रह्मोपपत्तिनां शण्ढपण्डकोभयव्यञ्जनाश्रयाणामष्टमादिभवानां दर्शनहेयक्लेशानां च ।
[३४८।०९]
तां तु यथायोगं मृद्वधिमात्रायां च ।
मृद्वच्यामपायगतीनाम् ।
[३४८।१०]
अधिमात्रायामितरेषाम् ।
निर्वेधभागीयानि त्रिगोत्राणि श्रावकादिगोत्रभेदात् ।
तत्र
[३४८।११]
शिष्यगोत्रा न्निवर्त्य द्वे बुद्धः स्यात्
[३४८।१२]
ऊष्मगतं मूर्धानं च श्रावकगोत्रादुत्पन्नं व्यावर्त्य पुनर्बुद्धः स्यादित्यस्ति संभवः ।
[३४८।१३]
क्षान्तौ तु लब्धायां नास्त्येव संभवः ।
किं कारणम् ।
[३४८।१३-३४८।१४]
अपायानां किल व्यावृत्तत्वात् ।
[३४८।१४]
बोधिसत्त्वाश्च परहित्क्रियापारतन्त्र्यादपायानप्यवगाहन्त इति ।
[३४८।१४-३४८।१५]
तस्यैव तु गोत्रस्याविवर्त्यत्वादसंभवः ।
[३४८।१६]
त्रीण्यपीतरः ॥ ६.२३ ॥
[३४८।१७]
विवर्त्य स्यादिति वर्तते ।
[३४८।१७-३४८।१८]
त्रीण्यपि निर्वेधभागीयानि श्रावकगोत्राद्वच्यावर्त्य बुद्धादिभवः स्यात्प्रत्येकबुद्ध इत्यर्थः ।
[३४८।१८-३४८।१९]
प्रत्येकबुद्धगोत्राणि तु व्यावर्तयितुमशक्यानि ।
[३४८।२०]
आबोधेः सर्वमेकत्र ध्यानान्त्ये शास्तृखड्गयोः ।
[३४८।२१]
शास्ता बुधः खड्गविषाणकल्पः प्रत्येकबुद्धः ।
[३४८।२१-३४८।२२]
तयोरेकत्रैवासने चतुर्थमेव ध्यानं निश्रित्यनिञ्ज्यपटुसमाधित्वान्निर्वेधभागीयान्यारभ्य यावद्बोधिरुत्पद्यते ।
[३४९।०१]
क्षयानुत्पादज्ञाने हि बोधिरिति पश्चादुपपादयिष्यामः ।
[३४९।०१-३४९।०२]
अशुभामारभ्य यावद्वोधिरित्यपरे ।
[३४९।०२]
येषां तु खड्गादन्योऽपि प्रत्येकबुद्धोऽस्तितद्गोत्राणां व्यावर्तनाप्रतिषेषः ।
[३४९।०३]
किं पुनः प्रथम एव जन्मनि कृतप्रयोगो निर्वेधभागीयान्युत्पादयेत् ।
[३४९।०३-३४९।०४]
नैतदस्ति अवश्यं हि
[३४९।०५]
प्राक्तेभ्यो मोक्षभागीयं
[३४९।०६]
उत्पादयितव्यम् ।
सर्वस्वल्पं हि
[३४९।०७]
क्षिप्रं मोक्षस्त्रिभिर्भवैः ॥ ६.२४ ॥
[३४९।०८]
एकस्मिन् जन्मनि मोक्षभागीयं कुशलमूलमुत्पादयेत् ।
द्वितीये निर्वेधभागीयानि ।
[३४९।०९]
तृतीये आर्यमार्गम् ।
बीजविरोपण सस्याभिवृद्धिफलोत्पत्तिक्रमवत् ।
[३४९।०९-३४९।१०]
क्रमेण हि संतानस्यास्यां धर्मतायामवतारपरिपाकविमुक्तयो भवन्तीति ।
[३४९।१०-३४९।११]
तच्च पुनर्मोक्षभागीयं वर्णयन्ति ।
[३४९।१२]
श्रुतचिन्तामयं
[३४९।१३]
न भावनामयम् ।
कति कर्माणि ।
[३४९।१४]
त्रीणि कर्माणि
[३४९।१५]
प्राधान्येन तु मनस्कर्म्म ।
[३४९।१५-३४९।१६]
तत्प्रणिधनपरिग्रहात्तु कायवाक्कर्मापि मोक्षभागोयं भवति ।
[३४९।१६-३४९।१७]
कश्चिदेकभिक्षामपि दत्त्वैक शिक्षामपि चादाय मोक्षाभिलाषवलाधानान्मोक्षभागीयान्याक्षिपति ।
[३४९।१७]
तत्त्वेतत् ।
[३४९।१८]
आक्षिप्यते नृषु ।
[३४९।१९]
मनुष्येष्वेव त्रिषु द्वीपेषु ।
नान्यत्र ।
प्रज्ञानिर्वेदयोरभावाद्यथायोगम् ।
[३४९।१९-३४९।२०]
उक्तं प्रसङ्गेन मोक्षभागीयम् ।
[३४९।२१]
अभिसमयक्रमस्तु वक्तुमारब्धः ।
तत्र च यावदग्रधर्मा उक्ताः ।
[३४९।२१-३४९।२२]
शेषं वक्तव्यम् ।
[३४९।२२]
अत इदमुच्यते ।
[३५०।०१]
लौकिकेभ्योऽग्रधर्मेभ्यो धर्मक्षान्तिरनास्रवा ॥ ६.२५ ॥
[३५०।०२]
लौकिकाग्रधर्मानन्तरमनास्रव धर्मज्ञानक्षान्तिरुत्पद्यते ।
कस्मिन्नालम्बने ।
[३५०।०३]
कामदुःखे ।
[३५०।०४]
कामावचरदुःखमस्या आलम्बनम् ।
सेयं दुःखे धर्मज्ञानक्षान्तिरित्युच्यते ।
[३५०।०४-३५०।०५]
अनास्रवज्ञानार्थं निःष्यन्देन विशेषणम् ।
[३५०।०५]
कर्मज्ञानार्थं क्षान्तिः ।
पुष्पफलवृक्षवत् ।
[३५०।०५-३५०।०६]
सैव च नियामावक्रान्तिरित्युच्यते ।
[३५०।०६]
सम्यक्त्वनियामावक्रमणात् ।
[३५०।०६-३५०।०७]
सम्यक्त्वं निर्वाणमुक्तं सूत्रे ।
[३५०।०७]
तत्र नियमो नियाम एकान्तीभावः ।
तस्याभिगमनमवक्रमणम् ।
[३५०।०८]
तस्यां चोत्पन्नायामार्यपुद्गल उच्यते ।
अनागतया पृथग्जनत्वं व्यावर्त्यते ।
[३५०।०८-३५०।०९]
एतदेव तस्याः कारित्रमनागतायामभ्युपगम्यते नान्यत् ।
[३५०।०९-३५०।१०]
प्रदीपजातिवत् ।
[३५०।१०]
लौकिकाग्रधर्मैरित्यपरे ।
न तद्धर्मत्वात्तद्विरोधित्वाददोषः ।
[३५०।११]
शत्रुस्कन्धारुढतद्घातनवत् ।
उभयैरित्यपरे ।
आनन्तर्यविमुक्तिमार्गसाध्र्म्यादिति ।
[३५०।१२]
ततोऽत्रैव धर्मज्ञानं
[३५०।१३]
ततः पुनर्दुःखे धर्मज्ञानक्षान्तेरनन्तरमत्रैअ कामावचरे दुःखे धर्मज्ञानमुत्पद्यते ।
[३५०।१४]
तत्दुःखे धर्मज्ञानमित्युच्यते ।
अनास्रवाधिकारः सर्वत्र वेदितव्यः ।
[३५०।१४-३५०।१५]
यथा च कामावचरे दुःखे धर्मज्ञानक्षान्तिर्धर्मज्ञानं चोत्पद्यते
[३५०।१६]
तथा पुनः ।
[३५०।१७]
शेषे दुःखेऽन्वयक्षान्तिज्ञाने
[३५०।१८]
दुःखे धर्मज्ञानानन्तरं रूपारुप्यावचरे दुःखे समस्तालम्बनान्वयज्ञानक्षान्तिरुत्पद्यते ।
[३५०।१९]
सा दुःखेऽन्वयज्ञानक्षान्तिरित्युच्यते ।
ततोऽन्वयज्ञानमुत्पद्यते ।
[३५०।१९-३५०।२०]
तत्दुःखेऽन्वय ज्ञानमित्युच्यते ।
[३५०।२०]
प्रथमतोधर्मतत्त्वज्ञानाद्धर्मज्ञानम् ।
[३५०।२०-३५०।२१]
तदन्वयादूर्ध्वं दुःखालम्बनमन्वयज्ञानम् ।
[३५०।२१]
तथैवानुगमनात् ।
[३५०।२१-३५०।२२]
यथा चैतानि दुःखसत्ये चत्वारि क्षान्तिज्ञानान्युत्पद्यन्ते
[३५१।०१]
सत्यत्रये तथा ॥ ६.२६ ॥
[३५१।०२]
दुःखान्वयज्ञानादनन्तरं कामावचरे समुदये धर्मज्ञानक्षान्तिरुत्पद्यते ।
[३५१।०२-३५१।०३]
ततः समुदये धर्मज्ञानम् ।
[३५१।०२-३५१।०६]
एवं समनन्तरोत्पत्तिक्रमेण शेषे समुदयेऽन्वयज्ञानक्षान्तिः समुदयेऽन्वयज्ञानं कामावचरदुःखनिरोधे धर्मज्ञानक्षान्तिर्निरोधे धर्मज्ञानं शेषे निरोधेऽन्वयज्ञानक्षान्तिर्निरोधेऽन्वयज्ञानं कामवचरदुःखप्रतिपक्षमार्गे धर्मज्ञानक्षान्तिर्मार्गे धर्मज्ञानं शेषे मार्गेऽन्वयज्ञानक्षान्तिर्मार्गेऽन्वयज्ञानम् ।
[३५१।०७]
इति षोडशचित्तोऽयं सत्याभिसमयः
[३५१।०८]
इत्यनेन क्रमेणायं सत्यानामभिसमयः षोडशचित्तको भवति ।
[३५१।०८-३५१।०९]
ये तर्हि निकायान्तरीयाः सत्यानामेकाभिसमयं वर्णयन्ति ।
[३५१।०९]
अभिप्राय एष द्रष्टव्यः ।
[३५१।०९-३५१।१०]
अभेदेन ह्यभिसमय उच्यते सत्येषु
[३५१।११]
त्रिधा ।
[३५१।१२]
दर्शनालम्बकार्याख्यः
[३५१।१३]
दर्शनाभिसमयोऽनास्रवया प्रज्ञया सत्यानाम् ।
[३५१।१३-३५१।१४]
आलम्बनाभिसमयस्तत्संप्रयुक्तैर्वेदनादिभिरपि ।
[३५१।१४]
कार्याभिसमयो विप्रयुक्तैरपि शीलजात्यादिभिः ।
[३५१।१४-३५१।१५]
दुःखे हि दृश्यमाने तस्य त्रिविधोऽभिसमयः समुदयादीनां कार्याभिसमयः ।
[३५१।१५-३५१।१६]
प्रहाणसाक्षात्करणभावनात् ।
[३५१।१६]
तद्यदि सत्यानां दर्शनाभिसमयं प्रत्येकाभिसमयं ब्रूयात् ।
[३५१।१७]
अयुक्तं ब्रूयादाकारभेदात् ।
अथाप्यनात्माकारेण सर्वेषां दर्शनमिति ब्रूयात् ।
[३५१।१८]
न तर्हि सत्यानां दुःखादितो दर्शनं स्यात् ।
एवं च सूत्रविरोधः ।
[३५१।१८-३५१।२१]
“इहार्यश्रवकस्य दुःखं वा दुःखतो मनसि कूर्वतः समुदयं वा समुदयतो यावत्मार्ग वा मार्गतो मनसि कुर्वतोऽनास्रवेण मनसिकारेण संप्रयुक्तो यो धर्माणो प्रविचय” इति ।
[३५१।२१]
भावनामार्ग एवमिति चेत् ।
न ।
यथादर्शनं भावनात् ।
[३५२।०१]
अथाप्येकस्य दर्शनाच्छेषेषु व४ त्वलाभादेकाभिसमयं ब्रूयान्न दोषः स्यात् ।
[३५२।०१-३५२।०२]
अन्तरा तु व्युत्थानमस्ति नास्तीति विचार्यं स्यात् ।
[३५२।०२-३५२।०३]
अथ पुनर्ब्रूयात्दुःखमेव परिजानन्समुदयं प्रजहाति निरोधं साक्षात्करोति मार्गं भावयति ।
[३५२।०३-३५२।०४]
अत इकाभिसमय इति ।
[३५२।०४]
एवमपि न दोषः स्यादेकस्य दर्शने शेषाणां कार्याभिसमयवचनात् ।
[३५२।०४-३५२।०५]
दर्शनाभिसमयं तु प्रति सूत्रे सत्यानां क्रमेणाभिसमय उक्तो लक्ष्यते ।
[३५२।०५-३५२।०७]
“नहैव गृहपते सत्यानामेकाभिसमयोऽपि पूर्वाभिसयय” इति विस्तरेण सदृष्टान्तानि त्रीणि सूत्राणि ।
[३५२।०७-३५२।०८]
“यो दुःखे निष्काङ्क्षो निर्विचिकित्सो बुद्धेऽपि स” इति सूत्रादेकाभिसमय इति चेत् ।
[३५२।०८]
न ।
असंमुदाचारावश्यंप्रहाणाभिसंधिवचनात् ।
[३५२।०८-३५२।०९]
य एषौक्तः षोढशचित्तकोऽभिसमयः
[३५२।१०]
सोऽग्रधर्मैकभूमिकः ॥ ६.२७ ॥
[३५२।११]
यद्भूमिकोऽग्रधर्मस्तद्भूमिकान्येतानि षोडश चित्तानि ।
[३५२।११-३५२।१२]
त पुनः षड्भूमिका इत्युक्तं प्राक् ।
[३५२।१२]
कस्मात्पुनः क्षान्तयो ज्ञानानि चवश्यं भवन्ति ।
यस्मात्
[३५२।१३]
क्षान्तिज्ञानान्यनन्तर्य मुक्तिमार्गा यथाक्रमम् ।
[३५२।१४]
अनन्तर्यमार्गाः क्षान्तयः क्लेशप्राप्तिविच्छेदं प्रत्यन्तरयितुमशक्यत्वात् ।
[३५२।१४-३५२।१५]
विमुक्तिमार्गास्तु ज्ञानानि ।
[३५२।१५-३५२।१६]
क्लेशप्राप्तिविमुक्तानां विसंयोगप्राप्तिसहोत्पादात् ।
[३५२।१६]
अत उभयैरवश्यं भवितव्यम् ।
[३५२।१६-३५२।१७]
द्वाभ्यां चौरनिष्कासनकपाटपिधानवत् ।
[३५२।१७-३५२।१८]
यदि पुनर्द्वितीयेनानन्तर्यमार्गेणैव सह विसंयोगप्राप्तिरुत्पद्येत किं स्यात् ।
[३५२।१८]
प्रहीणविचिकित्सं ज्ञानं तत्रैवालम्बने नोत्पन्नं स्यात् ।
[३५२।१८-३५२।१९]
क्षान्तिभिः क्लेशप्रहाणान्नव संयोजननिकाया ज्ञानवध्या इति शास्त्रविरोध इति चेत् ।
[३५२।१९]
न ।
[३५२।२०]
क्षान्तीनां ज्ञानपरिवारत्वात् ।
राजपरिवारकृतस्य राजकृतव्यपदेशवत् ।
[३५२।२१]
किं पुनः सर्वाणि षोडशचित्तानि सत्यदर्शनाद्दर्शनमार्गः ।
नेत्याह ।
किं तर्हि ।
[३५२।२२]
अदृष्टदृष्टेर्दृण्ट्ङ्मार्गस्तत्र पञ्चदश क्षणाः ॥ ६.२८ ॥
[३५३।०१-३५३।०२]
दुःखधर्मज्ञानक्षान्तिमारभ्य यावत्मार्गेऽन्वयज्ञान क्षान्तिरेते पञ्चदश क्षाणा दर्शनमार्गः ।
[३५३।०२]
कि कारणम् ।
अदृष्टसत्यदर्शनात् ।
[३५३।०२-३५३।०३]
षोडशे तु नास्त्यपोऊर्वं द्रव्यमिति ।
[३५३।०३]
यथाद्रष्टाभ्यसनाद्भावनामार्ग एव ।
[३५३।०३-३५३।०४]
ननु च तेनाष्यदृष्टं पश्यति मार्गेऽन्वयज्ञानक्षान्तिम् ।
[३५३।०४]
सत्यं प्रति चिन्ता न क्षणम् ।
[३५३।०४-३५३।०५]
न हि क्षणेनादृष्टेन सत्यमदृष्टं भवति ।
[३५३।०५]
यथा नैकेन लुङ्गेनालूनेन देदारमलूनं भवति ।
[३५३।०५-३५३।०७]
फलत्वादष्टज्ञानषोडशाकारभावनात्पूर्वमार्गविहानेः प्रवन्धिकत्वाच्च मार्गान्वयज्ञानं भावनामार्गः ।
[३५३।०७-३५३।०८]
अपरिहाणिस्तुदर्शनहेयक्लेशप्रहाणसंधारणात् ।
[३५३।०८]
अत एव दर्शनमार्ग इति चेत् ।
न ।
अतिप्रसङ्गात् ।
[३५३।०८-३५३।०९]
सप्त ज्ञानानि कस्माद्दर्शनमार्गः ।
[३५३।०९]
दर्शनस्यासमाप्तत्वात् ।
[३५३।०९-३५३।१०]
न हि सर्वं सत्यदर्शनं समाप्तमिति तदन्तरालत्वात्तन्यप्पि दर्शनमार्गः ।
[३५३।१०-३५३।११]
उक्तं यथा दर्शनमार्गो भावनामार्ग श्चोत्पद्यते ।
[३५३।१२]
यथेदानीमुत्पन्नार्यमार्गाणां पुद्गलानां व्यवस्थानं तथा वक्ष्यामः ।
[३५३।१२-३५३।१३]
य एते दर्शनमार्गस्वभावाः पञ्चादश क्षण उक्ता वेदितव्यौ
[३५३।१४]
मृदुतीक्ष्णेन्द्रियौ तेषु श्रद्धाधर्मानुसरिणौ ।
[३५३।१५]
मृद्धिन्द्रियस्तेसु वर्तमानः श्रद्धानुसारीत्युच्यते ।
तीक्ष्णेन्द्रियो धर्मानुसारीति ।
[३५३।१६]
श्रद्धयानुसारः श्रद्धानुसारः ।
सोऽस्यास्तीति श्रद्धानुसारी ।
[३५३।१६-३५३।१७]
श्रद्धयानुसर्तुं शीलमस्येति वा ।
[३५३।१७]
पूर्वं परसंप्रत्ययेनार्थानुसरणात् ।
एवं धर्मानुसारी ।
[३५३।१७-३५३।१८]
पूर्वं स्वयमेव सूत्रादिभिर्धर्मैरर्थानुसरणात् ।
[३५३।१८]
तौ पुनः
[३५३।१९]
अहीन
भावनाहेयौ फलाद्यप्रतिपन्नकौ ॥ ६.२९ ॥
[३५३।२०]
फलानामाद्यं स्रोत आपत्तिफलं सर्वफलप्राप्तौ तस्य प्रथमत्वात् ।
[३५३।२०-३५३।२२]
तावेव श्रद्धाधर्मानुसारिणौ यदि पूर्वं लौकिकेन मार्गेणाप्रहीणभावनाहेयौ भवतः सकलवन्धनौ तो स्रोत आपत्तिफलप्रतिपन्नकावुच्येते ।
[३५३।२३]
यावत्पञ्चप्रकारघ्नौ
[३५३।२४-३५३।२५]
यदि पूर्वं लौकिकेन मार्गेण कामावचराणं भावनाहेयानां यावत्पञ्च प्रकाराः प्रहीणा भवन्ति ।
[३५३।२५]
तथैव प्रथमफलप्रतीपन्नकावुच्येते ।
[३५४।०१]
द्वितीयेऽर्वाङ्नवक्षयात् ।
[३५४।०२]
द्वीतीयनिमित्तं द्वितीये ।
[३५४।०२-३५४।०३]
यदि तयोस्तस्मात्परेण षट्सप्ताष्टौ वा प्रकाराः पूर्वप्रहीणा भवन्ति ।
[३५४।०३]
द्वौ तौ द्वितीयफलप्रतिपन्नकावुच्येते ।
कतमच्च द्वितीयम् ।
[३५४।०४]
सकृदागामिफलम् ।
[३५४।०५]
कामाद्विरक्ताबुर्ध्व वा तृतीयप्रतिपन्नकौ ॥ ६.३० ॥
[३५४।०६-३५४।०७]
यदि पुनर्नवमस्यापि प्रकारस्य प्रहाणात्कामधातोर्वीतरागौ भवत ऊर्ध्वं वा यावदाकिञ्चन्यायतनात्तौ तृतीय प्रतीपन्नकावुच्येते ।
[३५४।०७]
कतमच्च तृतीयम् ।
[३५४।०८]
अनागामिफलम् ।
[३५४।०९]
षोडशे तु फलस्थौ तौ यत्र यः प्रतिपन्नकः ।
[३५४।१०]
षोडशे तु चित्त उत्पन्ने तौ न पुनः श्रद्धाधर्मानुसारिणावुच्येते ।
[३५४।१०-३५४।११]
नापि प्रतिपन्नकौ ।
[३५४।११]
किं तर्हि ।
फलस्थो ।
[३५४।११-३५४।१२]
यत्र फले यः प्रतिपन्नको भूतः स तदानीं तत्र फलस्थितो भवति ।
[३५४।१२]
स्रोत आपत्तिफले सकृदागामिफले वा अनागामिफले वा ।
[३५४।१३]
अर्हत्त्वं तु न शक्यमादितः प्राप्तुम् ।
दर्शनमार्गेण भावनाहेयानामप्रहाणात् ।
[३५४।१३-३५४।१४]
पूर्वं च भवाग्रवैराग्यासंभवात् ।
[३५४।१५]
श्रद्धाधिमुक्तदृष्टच्याप्तौ मृदुतोक्ष्णेन्द्रियौ तदा ॥ ६.३१ ॥
[३५४।१६]
तस्मिन्काले यो मृद्विन्द्रियः श्रद्धानुसारिपूर्वी स श्रद्धाधिमुक्त इत्युच्यते ।
[३५४।१७]
यस्तीक्ष्णेन्द्रियो धर्मानुसारिपूर्वी स दृष्टिप्राप्त इत्युच्यते ।
[३५४।१७-३५४।१८]
श्रद्धाप्रज्ञाधिकत्वेनाधिमोक्षदृष्टिप्रभावितत्वात् ।
[३५४।१८-३५४।१९]
किं पुनः कारणं प्रहीणपञ्चप्रकारोऽपि षोडशे चित्ते स्रोत आपन्न एवोच्यते न सकृदागामिफलप्रतिपन्नकः ।
[३५४।२०]
यस्मात्
[३५४।२१-३५४।२२]
फले फलविशिष्टस्य लाभो मार्गस्य नास्त्यनः ।
नाप्रयुक्तो विशेषाय फलस्थः प्रतिपन्नकः ॥ ६.३२ ॥
[३५४।२३]
फले हि लभ्यमाने फलविशिष्टो मार्गो न लभ्यत इत्येष नियमः ।
[३५४।२३-३५४।२४]
अतः फलस्थो यावन्न विशेषाय प्रयुज्यते फलान्तरप्राप्तौ तावत्प्रतिपन्नको नोच्यते ।
[३५४।२४-३५४।२५]
एवमन्यत्रापि फले वेदितव्यम् ।
[३५४।२५-३५५।०१]
यस्तु तृतीयध्यानवीतरागोऽधरां भूमि निश्रित्य नियाममवक्रामति सोऽवश्यं फलविशिष्टं मार्ग संमुखीकरोति ।
[३५५।०१-३५५।०२]
अन्यथा हि स तस्मादूर्ध्वोपपन्नः सुखेन्द्रियेणासमन्वागतः स्यात् ।
[३५५।०२-३५५।०३]
एवं तावद्भूयः कामवीतरागाणां नियामावक्रान्तौ पुद्गलव्यवस्थानम् ।
[३५५।०४]
आनुपूर्विकं तु वक्तव्यम् ।
अत इदं तावद्वच्यवस्थाप्यते ।
[३५५।०४-३५५।०५]
यथैते कामधातौ नवप्रकाराः क्लेशा उपदिष्टा एवं
[३५५।०६]
नवप्रकारा दोषा हि भूमौ भूमौ
[३५५।०७]
यावद्भवाग्रे ।
यथा च दोषाः
[३५५।०८]
तथा गुणाः ।
[३५५।०९]
तत्प्रतिपक्षा अप्यानन्तर्यविमुक्तिमार्गाख्या गुणा भूमौ भूमौ नवप्रकारा एव ।
[३५५।०९-३५५।१०]
कथं कृत्वा ।
[३५५।११]
मृदुमध्याधिमात्राणां पुनर्मृद्वादिभेदतः ॥ ६.३३ ॥
[३५५।१२]
मृदुमध्याधिमात्रा हि त्रयो मूलप्रकाराः ।
[३५५।१२-३५५।१३]
तेषां पुनः प्रत्येकं मृदुमध्याधिमात्रत्वेन त्रिविधत्वात्नव व्यवस्थाप्यन्ते ।
[३५५।१३-३५५।१५]
तद्यथा मृदुमृदुः प्रकारो मृदुमध्यो मृद्वधिमात्रो मध्यमृदुर्मध्यमध्यो मध्याधिमात्रोऽधिमात्रमृदुरधिमात्रमध्योऽधिमात्राधिमात्रश्चेति ।
[३५५।१५-३५५।१६]
तत्र मृदुमृदुनामार्गेणाधिमात्राधिमात्रस्य क्लेशस्य प्रहाणम् ।
[३५५।१६]
एवं यावदधिमात्राधिमात्रेण मृदुमृदोः ।
[३५५।१६-३५५।१८]
आदित एवाधिमात्रमार्गसंभवादुत्पन्नाधिमात्रमार्गस्य चाधिमात्रक्लेशासंभवातौदारिको हि मलश्चेलात्पूर्वं निर्दूयते पश्चात्सूक्ष्मः ।
[३५५।१८-३५५।१९]
औदारिकं च तमः सूक्ष्मेणालोकेन हन्यते सूक्ष्मं चाधिमात्रेणेत्येष दृष्टान्तयोगः ।
[३५५।१९]
शुक्ला हि धर्मा वलवन्तो दुर्बलास्तु कृष्णाः ।
[३५५।१९-३५५।२१]
क्षणिकमृदुकेनाप्यार्यमार्गेणानादिसंसारपरंपराप्यायिताधिमात्राणां क्लेशानामुन्मूलत्वात् ।
[३५५।२१-३५५।२२]
बहुकालसंवर्द्धितानां दोषाणां त्रिवृत्कर्षवत्क्षणिकाल्पप्रदीपमहातमोपघातवच्य ।
[३५५।२२]
एवं नवप्रकारेषु क्लेशेषु सर्वत्र
[३५५।२३]
अक्षीणभावनाहेयः फलस्थः सप्तकृत्परः ।
[३५६।०१]
यस्य हि फलस्थस्यैकोऽपि भावनाहेयः प्रकारोऽप्रहीणः स स्रोत आपनः ।
[३५६।०१-३५६।०२]
सप्तजन्मानि करोतीति सप्तकृत ।
[३५६।०२]
परः सर्वान्त्यः ।
[३५६।०२-३५६।०३]
न हि सर्वसप्तकृदिति ।
[३५६।०३]
सप्तकृत्वःपरम इति सूत्रपाठः ।
सप्तकृत्वः परमं जन्माऽस्येत्यर्थः ।
[३५६।०४]
प्रकर्षे परमशब्दः ।
निर्वाणस्रोतो हि मार्गस्तेन तत्र गमनात् ।
[३५६।०४-३५६।०५]
तदसावापन्न आगतः प्राप्त इति स्रोत आपन्नः ।
[३५६।०५]
कथमापन्नः ।
[३५६।०५-३५६।०६]
आद्यमार्गलाभाच्चेतष्टमकोऽपि स्यात् ।
[३५६।०६]
आद्यफललाभाच्चेत्भूयो वीतरागोऽपि स्यात् ।
कामवीतरागः ।
[३५६।०७]
सर्वफलप्रापिणमधिकृत्याद्यफललाभात् ।
किं पुनः कारणं स एव नाष्टमकः ।
[३५६।०८-३५६।०९]
प्रतिपन्नकफलमार्गलाभात्दर्शनभावनामार्गलाभात्सकलस्रोतोऽभिसमयाच्च मार्गान्वयज्ञाने ।
[३५६।०९-३५६।१०]
स एव तस्मादन्यान्सप्तोपपत्तिभवान्मनुष्येषु प्रतिसंदधाति सप्तान्तराभवान् ।
[३५६।१०]
एवं देवेष्वित्यष्टाविंशतियवान् प्रतिसंदधाति ।
[३५६।१०-३५६।११]
सप्तकसामान्यात्तु सप्तकृत्वः ।
[३५६।११]
परम उक्तः ।
सप्तस्थानकौशलसप्तपर्णवदिति वैभाषिकाः ।
[३५६।१२-३५६।१३]
यत्तर्ह्हि सूत्र उक्तं “अस्थानमनवकाशो यद्दष्टिसंपन्नः पुद्गलोऽष्टमं भवमभिनिर्वर्तयिष्यति ।
[३५६।१३]
नेदं स्थानं विद्यत” इति ।
एकस्यां गतावित्यभिप्रायः ।
[३५६।१३-३५६।१५]
यथारुतं वा कल्प्यमानेऽन्तराभवोऽपि न स्यातेवमप्यूरेध्वस्रोतसो भवाग्रपरमस्यैकस्यां गतावष्टम उपपत्तिभावो न प्राप्नोति ।
[३५६।१५-३५६।१६]
कामधात्वभि संधिवचनाददोषः ।
[३५६।१६]
किमत्र ज्ञापकं सूत्रं युक्तिर्वा ।
[३५६।१६-३५६।१७]
इह चैव किं ज्ञापकं प्रत्येकं देवमनुष्येषु सप्तकृत्वो न पोउनरुभयेष्वेव सप्तकृत्व इति ।
[३५६।१७]
एवं हि पठच्यते ।
[३५६।१८]
“सप्तकृत्वो देवाश्च मनुष्याश्चे”ति ।
प्रत्येकमपि तु काश्यपीयाः पठन्ति ।
[३५६।१९]
“सप्तकृत्वो देवान् सप्तकृत्वो मनुष्यानि”ति ।
नात्राभिनिवेष्टव्यम् ।
[३५६।१९-३५६।२०]
यश्च मनुष्येसु स्रोत आपन्नो भवति स तानेवागम्य परिनिर्वाति ।
[३५६।२०]
यो देवेषु स तानेव ।
[३५६।२१]
किं पुनः कारणमष्टमं भवं नाभिनिर्वर्तयति ।
[३५६।२१-३५६।२२]
तावता ककलेनावश्यं संततिपरिपाकात् ।
[३५६।२२]
मार्गो हि स तज्जातीयः ।
सप्तपदाशीविष दष्टवच्चातुर्थकज्वरवच्च ।
[३५६।२३]
सप्तसंयोजनावशेषत्वाच्च ।
द्वे अवरभागीये पञ्च चोर्ध्वभागीयानीति ।
[३५६।२३-३५६।२४]
अन्तरेणाप्यार्यमार्गं संमुखीकुर्वाणो न परिनिर्वाति ।
[३५६।२४-३५६।२५]
तावत्भववेदनीयस्य कर्मणो वलाधानात् ।
[३५६।२५]
असति बुद्धोत्पादग्रहस्थ एवार्हत्त्वं प्राप्नोति ।
[३५६।२५-३५६।२६]
अगारं तु पोउनर्नाध्यावसति ।
[३५६।२६]
धर्मताप्रतिलम्भिकं तु भिक्षुलिङ्ग प्रतिलभते ।
[३५६।२६-३५६।२७]
अन्याश्रमिकं लिङ्गेनेत्यपरे ।
[३५६।२७]
कस्मादविनिपातकधर्मा भवति ।
[३५६।२७-३५६।२९]
तद्गामि कर्मानुपचयादुपचितविपाकदानवैगुण्याच्च संततेर्बलवत्कुशला धिवासनात्प्रयोगाशयशुद्धितः ।
[३५६।२९]
अपायनिपाते तु कर्मण्यसौ क्षान्तिमपि नोत्पादयेत् ।
आह चात्र
[३५७।०१-३५७।०४]
“कृत्वा बुधोऽल्पमपि पापमधः प्रयाति
कृत्वा बुधो महदपि प्रजहात्यनर्थम्
मज्जन्यधोऽल्पमपि वारिणि संहतं हि
पात्रिकृतं महदपि प्लवते तदेव” इति ।
[२५७।०५]
दुःखस्यान्तं करोतीति को दुःखस्यान्तः ।
[३५७।०५]
यस्मात्परेण दुःखं नास्ति ।
[३५७।०६]
अप्रतिसंधिकं दुःखं करोतीत्यर्थः ।
अथवा निर्वाणमन्तः ।
कथं निर्वाणं करोति ।
[३५७।०७]
तत्प्राप्तिविवन्धापनयनात् ।
यथाकाशं कुरु मण्डपं पातयेति भवन्ति वक्तारः ।
[३५७।०८]
अन्योऽपि च स्यात्सप्तकृत्वः परमो न तु नियत इति नोच्यते ।
[३५७।०८-३५७।०९]
एवं तावदक्षीणभावनाहेयः फलस्थः सप्तकृत्वः परमो भवति ।
[३५७।१०]
त्रिचतुर्विधमुक्तस्तु द्वित्रिजन्मा कुलङ्कुलः ॥ ६.३४ ॥
[३५७।११]
स एव स्रोत आपन्नस्त्रिभिः ।
[३५७।११-३५७।१२]
क्लेशप्रहाणतस्त्रिचतुःपोरकारप्रहीणत्वात् ।
[३५७।१२]
इन्द्रियतस्तत्प्रतिपक्षानास्रवेन्द्रियलाभात् ।
[३५७।१२-३५७।१३]
जन्मतो द्वित्रिजन्मावशेषत्वात् ।
[३५७।१३-३५७।१४]
श्लोके तु द्वयोर्ग्रहणं स्रोत आपन्नस्य पश्चात्प्रहीणे सति तत्प्रतिपक्षानास्रवेन्द्रियस्यानुक्तसिद्धत्वात् ।
[३५७।१४-३५७।१५]
जन्म तु कदाचिदल्पीयः स्यात् ।[३५७१५]
परेण भव्यत्वाद् ।
[३५७।१५]
अतोऽस्य ग्रहणम् ।
[३५७।१५-३५७।१६]
कस्मान्न पञ्चप्रकारप्रहाणात् ।
[३५७।१६-३५७।१७]
तत्प्रहाणे षष्ठस्यावश्यं प्रहाणात्नहि तस्यैकः प्रकारः फलं विघ्नयितुं समर्थः ।
[३५७।१७]
एकवीचिकस्येव धात्वनतिक्रमात् ।
[३५७।१७-३५७।१८]
स एव कुलङ्कुलो द्विविधः ।
[३५७।१८-३५७।१९]
देवकुलङ्कुलो यो देवेष द्वे त्रीणि वा कुलानि संश्रित्य परिनिर्वाति तत्र वाऽन्यत्र वा देवनिकाये ।
[३५७।१९-३५७।२०]
मनुष्यकुलङ्कुलो यो मनुष्येषु तत्र वाऽन्यत्र व द्वीपे परिनिर्वाति ।
[३५७।२०]
स एव पुनः फलस्थः
[३५७।२१]
आपञ्चमप्रकारघ्नो द्वितीयप्रतीपन्नकः ।
[३५७।२२-३५७।२३]
यस्य फलस्थस्यैकप्रकारोयावत्पञ्चमः प्रहीणो भवति असौ द्वितीयफलप्रतिपन्नको वेदितव्यः ।
[३५७।२४]
क्षीणषष्ठप्रकारस्तु सकृदागाम्यसौ पुनः ॥ ६.३५ ॥
[३५८।०१]
द्वितीयफलप्राप्तो भवति ।
[३५८।०१-३५८।०२]
देवान् गत्वा सकृन्मनुष्यलोकागमनात्सकृदागामी ।
[३५८।०२]
परेण जन्माघावात् ।
रागद्वेषमोहानां च तनुत्वादित्युच्यते ।
[३५८।०३]
मृदुप्रकारावशेषत्वात् ।
स एव पुनः फलस्थः ।
[३५८।०४]
क्षीणसप्ताष्टदोषांश एकजन्मैकवीचिकः ।
[३५८।०५]
तृतीयप्रतिपन्नश्च
[३५८।०६]
त्रिभिः कारणैः ।
स एव सकृदागाम्येकवीचिदो वेदितव्यः ।
[३५८।०६-३५८।०७]
सप्ताष्टप्रकारप्रहाणात् ।
[३५८।०७-३५८।०८]
तत्प्रतिपक्षानास्रवेन्द्रियलाभादेकजन्मावशेषत्वात् ।
[३५८।०८]
कथमस्यैकः प्रकारः फलं विध्नयितुं शक्नोति ।
धात्वतिक्रमात् ।
[३५८।०९]
अवस्थात्रये हि कर्माणि विध्नायोपतिष्ठन्त” इत्युक्तं प्राक् ।
[३५८।०९-३५८।१०]
यथा कर्माण्येवं क्लेशा अपि वेदितव्या इति ।
[३५८।१०]
विपाकनिःष्यन्दफलभूम्यतिक्रमात् ।
[३५८।१०-३५८।१२]
वीचिर्नामान्तरं तस्य चैकजमव्यवहितत्वात्निर्वाणस्य एकक्लेशप्रकारव्यवहितत्वाद्वाऽनागामिफलस्यैको वीचिरस्येत्येकवीचिकः ।
[३५८।१२-३५८।१३]
तृतीयफलप्रतिपन्नकश्चैकवीचिको वेदितव्यः प्रहीणसप्ताष्टप्रकारः ।
[३५८।१३-३५८।१४]
पूर्वप्रहीणप्रकारस्तु फलप्राप्तौ न तावत्कुलङ्कुलो भवत्येकवीचिको वा यावत्फलविशिष्टो मार्गो न समुखीकृतः ।
[३५८।१५]
सोऽनागामी नवक्षयात् ॥ ६.३६ ॥
[३५८।१६]
स एवपुनः फलस्थो नवप्रकारप्रहाणादनागामी उपदिष्टः ।
[३५८।१६-३५८।१७]
कामधात्वनागमनात् ।
[३५८।१७-२५८।१८]
“पञ्चानामवरभागीयानां संयोजनानां प्रहाणादि”त्युच्यते प्रहाणसंकुलनात् ।
[३५८।१८]
अवश्यं द्वे त्रीणि वा पूर्वं प्रहीणानि भवन्ति ।
[३५८।१९]
सोऽन्तरोत्पन्नसंस्कारासंस्कारपरिनिर्वृतिः ।
[३५८।२०]
ऊर्ध्वस्रोताश्च
[३५८।२१]
अन्तरा परिनिर्वृतिरस्येत्यन्तरापरिनिर्वृतिः ।
[३५८।२१-३५८।२२]
एवमुत्पन्नस्य संस्कारेणासंस्कारेणेति योज्यम् ।
[३५८।२२]
स एवानागामी पुनः पञ्चधा भवति ।
[३५९।०१]
अन्तरापरिनिर्वायी योऽन्तराभवे परिनिर्वाति ।
[३५९।०१-३५९।०२]
उपपद्यपरिनिर्वायी य उपपन्नमात्री न चिरात्परिनिर्वात्यभियुक्तवाहिमार्गत्वात् ।
[३५९।०२]
सोपधिशेषनिर्वाणेन ।
[३५९।०२-३५९।०३]
सोऽप्पि निरूपधिशेषेणेत्यपरे ।
[३५९।०३]
नायुरुत्सर्गावशित्वात् ।
[३५९।०३-३५९।०४]
साभिसंस्कारपरिनिर्वायी किल उपपद्याप्रति प्रस्रब्धप्रयोगः ।
[३५९।०४]
साभिसंस्कारं परिनिर्वात्यभियुक्तावाहिमार्गत्वात् ।
[३५९।०५]
अनभिसंस्कारपरिनिर्वायी त्वंनभिसंस्कारेणाभियोगवाहिमार्गाभावात् ।
[३५९।०५-३५९।०६]
संस्कृतासंस्कृतालम्बनमार्गनिर्वाणादित्यपरे ।
[३५९।०६]
तत्तु न ।
अतिप्रसङ्गात् ।
[३५९।०६-३५९।०७]
सूत्रे त्वनाभिसंस्कारपरिनिर्वायी पूर्व पठच्यते ।
[३५९।०७]
तथैव च युज्यते ।
[३५९।०७-३५९।०८]
वाह्यवाहिमार्गयोरनभिसंस्काराभिसंस्कारसाध्यत्वादयत्नयत्नप्राप्तितः ।
[३५९।०८-३५९।०९]
उपपद्यपरिनिर्वायिणस्तु वाहितरोऽधिमात्रतरश्च मार्गो मृदुतराश्चानुशया इति ।
[३५९।०९-३५९।१०]
ऊर्ध्वस्रोता यस्योर्ध्वं गतिर्न तत्रिव परिनिर्वाणं यत्रोपपन्नः ।
[३५९।१०]
स्रोतो गतिरित्येकोऽर्थः ।
[३५९।११]
स ध्याने व्यवकीर्णोऽकनिष्ठगः ॥ ६.३७ ॥
[३५९।१२]
ऊर्ध्वस्रोता द्विवधो हेतुतः फलतश्च ।
हेतुतो व्यवकोर्णाव्यवकीर्णध्यानत्वात् ।
[३५९।१३-३५९।१४]
फलतोऽकनिष्ठभवाग्रपरमत्वात्तत्र येन ध्यानं व्यवकीर्णं सोऽकनिष्ठान् गत्वा परिनिर्वाति ।
[३५९।१५]
स प्लुतोऽर्धप्लुतः सर्वच्युतश्च
[३५९।१६]
स पुनरेषोऽकनिष्ठपरम ऊर्ध्वंस्रोतास्त्रिविधः ।
प्लुतादिभेदात् ।
[३५९।१६-३५९।१९]
तत्र प्लुतो नाम य इह ध्यानानि व्ययकीर्य ध्यानच्यातोपरिहीणं प्रथमं ध्यानमास्वाद्य ब्रह्मकायिकेषूपपन्नः पूर्वाभ्यासवशाच्चतुर्थं ध्यानं व्यवकीर्य तस्मात्प्रच्युतोऽकनिष्ठेषूपपद्यते ।
[३५९।१९]
एष हिमध्यानिमज्जनात्प्लुतः ।
[३५९।१९-३५९।२०]
अर्ध्प्लुतो नाम यस्ततः शुद्धावासेषूपपद्य मध्यादेकमपि स्थानान्तरं विलङ्घच्याकनिष्ठान् प्रविशति ।
[३५९।२०-३५९।२१]
महाब्रह्मस्वार्यो नोपपद्यते दृष्टिस्थानत्वादेकनायकत्वाच्चेति ।
[३५९।२१-३५९।२२]
सर्वच्युतो नाम यः सर्वाणि स्थानान्तराणि संचर्याकनिष्ठान् प्रविशति ।
[३५९।२२]
न च दकाचिदनागामी ।
[३५९।२२-३५९।२३]
तत्रैवोल्पत्यायतने द्वितीयं जन्माभिनिर्वर्तयति ।
[३५९।२३]
विशेषगामित्वात् ।
[३५९।२३-३५९।२४]
एवं चास्य परिपूर्णमनागामित्वं भवति ।
[३५९।२४]
यत्रोपपन्नस्तस्याधस्तत्र चात्यन्तमनागमनात् ।
[३५९।१४-३५९।१५]
एवं तावद्धच्याने व्यवकीर्णेऽकनिष्टगो वेदितव्यः ।
[३५९।१५-३५९।२५]
ततः
[३६०।०१]
अन्यो भवाग्रगः ।
[३६०।०२]
अव्यवकीर्णध्यान ऊर्ध्वंस्रोता भवाग्रनिष्ठो भवति ।
[३६०।०२-३६०।०४]
स हि समापत्त्यन्तराण्यास्वादयन् सर्वस्थानान्तरेषूपपद्याप्रविश्यैव शुद्धावसानारुप्यक्रमोत्पत्तितो भवाग्रं गत्वा परिनिर्वाति ।
[३६०।०४]
शमथचरितो ह्येषः ।
[३६०।०४-३६०।०५]
पूर्वकस्तु विपश्यनाचरितः ।
[३६०।०५]
अन्तरापि तु परिनिर्वाणमूर्ध्वंस्रोतसो युज्यमानं पश्यामः ।
[३६०।०५-३६०।०६]
अकनिष्ठभवाग्रपरमत्वं तु परेण गत्यभावाद्यथा सप्त कृत्वःपरमत्वं स्रोत आपन्नस्येति ।
[३६०।०६-३६०।०७]
इमे तावत्पञ्च रुपोपगा अनागामिनः ।
[३६०।०८]
आरुग्यगश्चतुर्धान्यः
[३६०।०९]
अन्य आरुप्यगोऽनागामी यो रूपवीतराग इतश्चच्युत्वारुप्येषुपपद्यते ।
[३६०।०९-३६०।१०]
स पुनश्चतुर्विध उपपद्यादिपरिनिर्वायिभेदात् ।
[३६०।१०]
त एते षडनागामिनो भवन्ति ।
ततः
[३६०।११]
इह निर्वापकोऽपरः ॥ ६.३८ ॥
[३६०।१२]
इहैव जन्मन्यपरः परिनिर्वाति ।
स दृष्टधर्मपरिनिर्वायो सप्तमः ।
[३६०।१३]
पुनस्त्रींस्त्रिविधान् कृत्वा नव रुपोपगाः स्मृताः ।
[३६०।१४]
पुनस्त्रयाणामनागामिनां त्रिधा भेदाद्रूपोपगा नवानागामिनो भवन्ति ।
[३६०।१५]
कतमेषां त्रयाणाम् ।
अन्तरोपपद्यपरिनिर्वायिणोरुर्ध्वस्रोतसश्च ।
कथं त्रिधाभेदात् ।
[३६०।१६]
अन्तरापरिनिर्वायिणस्तावदाश्वनाशुचिरपरिनिर्वाणात्दृष्टान्तत्रयेण ।
[३६०।१६-३६०।१७]
उपपद्यपरिनिर्वायिण उपपद्याभिसंस्कारानभिसंस्कारपरिनिर्वाणात् ।
[३६०।१७-३६०।१८]
सर्वे ह्येते त्रयोऽप्युपपन्न परिनिर्वाणादुपपद्यपरिनिर्वायिणः ।
[३६०।१८]
ऊर्ध्वंस्रोतसः प्लुतादिभेदात् ।
[३६०।१८-३६०।१९]
सर्वेषां वा त्रयाणामाश्वनाशुचिरपरिनिर्वाणादिति त्रित्वम् ।
[३६०।२०]
तद्विशेषः पुनः कर्मक्लेशेन्द्रियविशेषतः ॥ ६.३९ ॥
[३६०।२१]
तेषां पुनस्त्रयाणां नवानां चानागामिनां कर्मक्लेशेन्रियविशेषाद्विशेषः ।
[३६०।२१-३६१।०१]
त्रयाणां तावदभिनिर्वृत्त्युपपद्यापरपर्यायवेदनीयकर्मोपचितत्वाद्यथाक्रमं मृदुमध्याधिमात्र क्लेशसमुदाचार त्वादधिमात्रमध्यमुद्विन्द्रियत्वाच्च ।
[३६१।०१-३६१।०२]
तेषामपि नवानां प्र्त्येकमत एव यथायोगं विशेषः ।
[३६१।०२]
प्रथमयोस्त्रिकयोः क्लेशेन्द्रियविशेषात्पूर्ववत् ।
[३६१।०२-३६१।०३]
पश्चिमस्य त्रिकस्यापरपर्यायवेदनीयकर्मविशेषाच्चेति ।
[३६१।०३-३६१।०४]
त एते नवप्रकारक्लेशेन्द्रियत्वान्नवानागामिनो भवन्ति ।
[३६१।०४]
कथं तर्हि सूत्रे सप्त सत्पुरुषगतयो देशिताः ।
[३६१।०५]
ऊर्ध्वंस्रोतुरभेदेन सप्त सद्गतयो मताः ।
[३६१।०६]
ऊर्ध्वं स्रवणधर्मा ऊर्ध्वंस्रोता ।
[३६१।०६-३६१।०७]
तस्याभेदनिर्देशात्सप्त सत्पुरुषगतयः सूत्रेऽभिहिताः ।
[३६१।०७]
कस्मात्पुनरेता एव सत्पुरुषगतयो नान्याः शैक्षगतयः ।
[३६१।०७-३६१।०८]
एता हि गतयो येषां तेषां सत्येव कर्माणि वृत्तिः कुशले असत्यवृत्तिरकुशले ।
[३६१।०८-३६१।०९]
एताश्च गतीर्गतानां न पुनः प्रत्यागतिरस्ति ।
[३६१।०९]
नत्वेतद्यथोक्तमन्यत्रास्ति ।
अतः
[३६१।१०]
सदसद्वृत्त्यवृत्तिभ्यां गताओप्रत्यागतेश्च ताः ॥ ६.४० ॥
[३६१।११]
सप्त सत्पुरुषगतयो नान्या इति ।
[३६१।११-३६१।१२]
यत्तर्हि सूत्रे एवोक्तं “सत्पुरुषाः कतमः ।
[३६१।१२]
शैक्ष्यः सम्यग्दृष्टच्या समन्वागत” इति विस्तरः ।
[३६१।१२-३६१।१३]
अन्येषामप्यस्ति पोआर्यायिकं सत्पुरुषत्वम् ।
[३६१।१३-३६१।१४]
पञ्चविधस्य पापस्यात्यन्तमकरणसंवरप्रतिलम्भात्प्रायेणाकुशलप्रहाणाच्च ।
[३६१।१४]
येषां तु निष्पर्यायेण तेषामिहाध्हिकारः ।
[३६१।१५]
किं पुनः परिवृत्तजन्मनोऽप्यनागामिन एष भेदोऽस्ति ।
यस्मात्
[३६१।१६]
न परावृत्तजन्मार्यः कामे धात्वन्तरोपगः ।
[३६१।१७]
कामधातौ परावृत्तजन्मान्तर आर्यो न धात्वन्तरं गच्छति ।
[३६१।१७-३६१।१८]
अनागामि फलं प्राप्य तत्रैव जन्मनि परिनिर्वाणात् ।
[३६१।१८-३६१।१९]
रूपधातौ तु परावृत्तजन्म कदाचिदारुप्यान्प्रविशति ।
[३६१।१९]
य ऊर्ध्वंस्रोता भवाग्रपरमः ।
[३६१।१९-३६१।२०]
यत्तर्हि शक्रेणोक्तं “ये ते देवा अकनिष्ठा इति विश्रुताः ।
[३६१।२०]
अन्ते मे हीयमानस्य तत्रोपपत्तिर्भविष्यति” ।
[३६१।२०-३६१।२१]
अभिधर्मा नभिज्ञत्वादिति वैभाषिकाः ।
[३६१।२१]
भवता “प्यनिवारणं संहर्षणीयत्वा” दिति ।
[३६२।०१]
स चोर्ध्वजश्च नैवाक्षसंचारपरिहाणिभाक् ॥ ६.४१ ॥
[३६२।०२-३६२।०३]
स च कामधातौ परिवृत्तजन्मा ऊर्ध्वधातूपपन्नश्चार्यो नैवेन्द्रियाणि संचरति नापि कथञ्चित्परिहीयते ।
[३६२।०३-३६२।०४]
किं पुनः कारणं परिवृत्तजन्मान्तास्यार्यस्य रूपारुप्यप्रवेशेन्द्रियसंचारपरिहाणयो नेष्यन्ते ।
[३६२।०४]
यस्मान्न सन्ति ।
कस्मान्न सन्ति ।
[३६२।०४-३६२।०५]
जन्मान्तरपरिवासेनेन्द्रियाणां परिपक्वतरत्वादाश्रयविशेषलाभाच्च ।
[३६२।०६]
अथ कस्माद्वीतरागः शैक्षो नान्तराये परिनिर्वायी भवति ।
[३६२।०६-३६२।०८]
मार्गस्याजितत्वादसंमुखीभावतः अनुशयानां च नातिमन्दत्वात्दुःसमतिक्रामत्वात्कामवातोरिति वैभाषिकाः ।
[३६२।०८]
बहु ह्यनेन कर्तव्यं भवति ।
[३६२।०८-३६२।०९]
अकुशलाम्याकृतक्लेशप्रहाणं द्वित्रिश्रामण्यफलप्राप्तिस्त्रिधातुसमतिक्रमश्च ।
[३६२।०९]
तच्चान्तराभवस्थो न शक्तः कर्तुमिति ।
[३६२।१०]
यदुक्तं “स ध्याने व्यवकीर्णेऽकनिष्ठग” इति ।
[३६२।१०-३६२।११]
अथ कतमद्धच्यानं प्रथमतो व्यवकीर्यते ।
[३६२।१२]
आकीर्यते चतुर्थं प्राक्
[३६२।१३]
स हि सर्वकर्मण्यः समाधिः सुखप्रतिपदामग्रच्यत्वात् ।
[३६२।१३-३६२।१४]
एवं च पुनः व्यवकीर्यते ।
[३६२।१४]
अर्हन्ननागामी वा प्रवाहयुक्तमनास्रवं चतुर्थं ध्यानं समापद्यते ।
[३६२।१५]
तस्माद्वच्युत्थाय प्रवाहयुक्तं तदेव सास्रवं समापद्यते पुनश्चानास्रवम् ।
[३६२।१५-३६२।१७]
एवं प्रवाहाप्रहासेन यदा किल द्वौ क्षणावनास्रवौ समापद्यते द्वौ सास्रवौ पुनश्चानास्रवावयं व्यवकिरणस्य प्रयोगः ।
[३६२।१८]
निष्पत्ति क्षणमिश्रणात् ।
[३६२।१९]
यदा त्वनास्रवस्य क्षयस्यानन्तरं सास्रवं संमुखीकरोति सास्रवस्यानास्रवम् ।
[३६२।२०-३६२।२१]
एवं सास्रवस्य क्षणस्यानास्रवाभ्यां मिश्रणात्व्यवकिरणं निष्पन्नं भवतीति वैभाषिकाः ।
[३६२।२१-३६२।२२]
द्वौ हि क्षणावानन्तर्यमार्गसदृशौ तृती यो विमुक्तिमार्गसदृश इति ।
[३६२।२२]
एवं चतुर्थं ध्यानं व्यवकीर्य तद्वलेल्नान्यान्यपि व्यवकीर्यन्ते ।
[३६२।२२-३६२।२३]
कामधातौ त्रिषु द्वीपेषु प्रथमं व्यवकीर्यते ।
[३६२।२३]
पश्चात्परिहीणेन रूपधातौ ।
[३६२।२३-३६२।२४]
अशक्यं तु क्षणव्यवकिरणमन्यत्र बुद्धात् ।
[३६२।२४-३६२।२५]
अत इच्छातः प्रवाहत्रयसमापत्तितो निष्पन्नं भवतीति पश्यामः ।
[३६२।२६]
किमर्थं पोउनर्ध्यानं व्यवकीर्यते ।
[३६३।०१]
उपपत्तिविहारार्थं क्लेशभीरुतयाऽपि च ॥ ६.४२ ॥
[३६३।०२]
त्रिभिः कारणैर्ध्यानं व्यवकिरन्ति ।
[३६३।०२-३६२।०३]
तीक्ष्णेन्द्रिया अनागामिनः शुद्धावासोपपत्त्यर्थं दृष्टधर्मसुखविहारार्थं च ।
[३६३।०३-३६३।०४]
मृद्विन्द्रियाः क्लेशभिरुतया चास्वादनासंप्रयुक्तसमाधिदूरीकरणादपरिहीणार्थम् ।
[३६३।०४]
अर्हन्तस्तु तीक्षणेन्द्रिया दृष्टधर्मसुखविहारार्थम् ।
[३६३।०५]
मृद्विन्द्रियाः क्लेशभीरुत्वाच्चापरिहीणार्थम् ।
[३६३।०६]
अथ कस्मात्पञ्चैव शुद्धावासोपपत्तयः ।
[३६३।०६-३६३।०७]
यदेतद्वच्यवकीर्णभावितं चतुर्थं ध्यानमुक्तम्
[३६३।०८]
तत्पाञ्चविध्यात्पञ्चैव शुद्धावासोपपत्तयः ।
[३६३।०९]
सा हि व्यवकीर्णभावना पञ्चप्रकारा म्र्दुमध्याधिमात्रतरतमभेदात् ।
[३६३।०९-३६३।१०]
प्रथमायां त्रीणि चित्तानि संमुखीद्रियन्ते ।
[३६३।१०]
अनास्रवं सास्रवमनास्रवं च ।
द्वितीयायां षट् ।
[३६३।११]
तृतीयायां नव ।
चतुर्थ्यां द्वादश ।
पञ्चम्यां पञ्चदश ।
[३६३।११-३६३।१२]
तासां यथासंख्यं पञ्च शुद्धावासाः फलम् ।
[३६३।१२]
यत्तत्र सास्रवं तद्वशात्तेषूपपत्तिः ।
[३६३।१२-३६३।१३]
श्रद्धादीन्द्रियाधिक्यात्पञ्चेत्यपरे ।
[३६३।१४]
निरोधलाभ्यनागामी कायसाक्षी पुनर्मतः ॥ ६.४३ ॥
[३६३।१५]
निरोधलाभोऽस्यास्तीति निरोधलाभी ।
[३६३।१५-३६३।१६]
यो हि कश्चिदनागामी निरोधसमापत्तिलाभी स कायसाक्षीत्युच्यते ।
[३६३।१६-३६३।१७]
निर्वाणसदृशस्य धर्मस्य कायेन साक्षात्करणात् ।
[३६३।१७]
कथं पुनः कायेन साक्षात्करोति ।
चित्ताभावात्कायाश्रयोत्पत्तेः ।
[३६३।१८]
एवं तु भवितव्यम् ।
[३६३।१८-३६३।१९]
स हि तस्माद्व्युत्थायाप्रतिलब्धपूर्वा सविज्ञानकां कायशान्तिं प्रतिलभते ।
[३६३।१९-३६३।२०]
यतोऽस्यैवं भवति शान्ता वत निरोधसमापत्तिर्निर्वाणसदृशी वत निरोधसमापत्तिरिति ।
[३६३।२०]
एवमनेन तस्याः शान्तत्वं कायेन साक्षत्कृतं भवति ।
[३६३।२१]
प्राप्तिज्ञानसाक्षात्क्रियाभ्यां प्रत्यक्षीकारो हि साक्षात्क्रिया ।
[३६३।२१-३६३।२२]
अष्टादश शैक्षा” इत्यत्र सूत्रे कि कारणं कायसाक्षी नोक्तः ।
[३६३।२२]
कारणाभावात् ।
कि पुनः कारणम् ।
[३६३।२३]
अनास्रवास्तिस्रः शैक्षास्तत्फां च ।
तद्विशेषेण हि शैक्षाणां व्यवस्थानम् ।
[३६३।२३-३६३।२४]
निरोधसमापत्तिश्च नैवशैक्षानाशिक्षा फलम् ।
[३६३।२४]
अतो न तद्योगाच्धैक्षविशेष उक्तः ।
[३६३।२४-३६३।२५]
एष तावदनागामिनां यथास्थूलं भेदः ।
[३६३।२५]
सूक्ष्मं तु भिद्यमानाः सहस्रशो भिद्यन्ते ।
[३६३।२६]
अन्तरापरिनिर्वायिणस्त्रयो मृदुमध्याधिमात्रेन्द्रियभेदात् ।
भूमिभेदाच्चत्वारः ।
[३६४।०१]
परिहाणधर्मादिगोत्रभेदात्षट् ।
[३६४।०१-३६४।०२]
स्थानान्तरभेदात्षोडश भूमिवैराग्यभेदात्षट्त्रिंशत् ।
[३६४।०२-३६४।०३]
रूपधतौ सकलाबन्धनो यावच्चतुर्थध्यानाष्टप्रकारवीतरागः ।
[३६४।०३]
स्थानान्तरगोत्रवैराग्येन्द्रियभेदाद्वानवतानि पञ्चविंशतिः शतानि ।
[३६४।०४]
कथं कृत्वा ।
एकस्मिन् स्थाने षट्गोत्राणि ।
[३६४।०४-३६४।०६]
गोत्रे गोत्रे नव पुद्गलाः सकलबन्धनो यावदष्टप्रकारवीतरागः स्वस्मात्स्थानात्षण्ण्णवकानि चतुष्पञ्चाशत्षोडश चतुष्पञ्चाशत्कानि चतुःषष्टान्यष्टौ शतानि ।
[३६४।०६-३६४।०७]
इन्द्रियभेदात्पुनस्त्रिगुणा इत्येवं कृत्वा योऽधरध्याने नवप्रकारवीतरागः स उत्तरे सकलबन्धन उक्तः ।
[३६४।०७-३६४।०८]
समगणनार्थम् ।
[३६४।०८-३६४।०९]
यथान्तरापरिनिर्वायिण एवं यवदूर्ध्वस्रोतस इत्यभिसमस्य सर्वे चत्वारिंशदूनानि त्रयोदशसहस्राप्यनागामिनां भवन्ति ।
[३६४।१०]
आभवाग्राष्टभागक्षिदर्हत्त्वे प्रतिपक्षकः ।
[३६४।११]
अनागामीत्यधिकृतम् ।
[३६४।११-३६४।१२]
स खल्वयमनागामी प्रथमध्यानैकप्रकारवैराग्यात्प्रबृति यावत्भवाग्राष्टप्रकारप्रहाणादर्हत्त्वप्रतिपन्नको भवन्ति ।
[३६४।१३]
नवमस्याप्यानन्तर्यपथे
[३६४।१४-३६४।१५]
नवमस्यापि भावाग्रिकस्य प्रकारस्य प्रहाणायानन्तर्यमार्गे सोऽर्हत्त्वप्रतिपन्नक एव ।
[३६४।१६]
वज्रोपमश्च सः ॥ ६.४४ ॥
[३६४।१७]
स चानन्तर्यमार्गो वज्रोपमः समाधिरित्युच्येत ।
[३६४।१८]
सर्वानुशयभेदित्वात् ।
भिन्नत्वादसौ न पुनः सर्वान् भिनत्ति ।
[३६४।१८-३६४।१९]
सर्वास्तु भेत्तुं समर्थः ।
[३६४।१९]
सर्वानन्तर्यमार्गाणामधिमात्रतमत्वात् ।
[३६४।१९-३६४।२०]
वज्रोपमानां तु बहुभेदं वर्णयन्ति ।
[३६४।२०-३६४।२१]
अनागाम्यसंगृहीता भावाग्रिकदुःखसमुदायालम्बनैर्दुःखसमुदयान्वयज्ञानाकारैः संप्रयुक्ता अष्टौ ।
[३६४।२१]
निरोधमार्गधर्मज्ञानाकारैः संप्रयुक्ता अष्टौ ।
[३६४।२२]
निरोधान्वयज्ञानाकारैः संप्रयुक्ताः प्रथमध्याननिरोधालम्बनाश्चत्वारः ।
[३६४।२२-३६४।२३]
एवं यावत्भवाग्रनिरोधालम्बनाश्चत्वारः ।
[३६४।२३]
मार्गान्वयज्ञानाकारैः संप्रयुक्ताश्चत्वारः ।
[३६५।०१]
कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनात् ।
[३६५।०१-३६५।०२]
त इमे ज्ञानाकारालम्बनभेदभिन्ना द्वापञ्चाशद्वज्रोपमा भवन्ति ।
[३६५।०२]
यथाऽनागाम्यसंगृहीता एवं यावच्चतुर्थध्यानसंगृहीताः ।
[३६५।०३-३६५।०४]
आकाशविज्ञानानन्त्याकिञ्चन्यायतनसंगृहीता यथासंख्यमष्टाविंशतिश्चतुर्विंशतिविंशतिश्च भवन्ति ।
[३६५।०४-३६५।०५]
तेषु धर्मज्ञानस्याधोभूमिनिरोधालम्बनस्य चान्वयज्ञानस्याभावात् ।
[३६५।०५]
अधोभूमिप्रतिपक्षालम्बनं तु भवति ।
तस्यान्योऽन्यहेतुत्वादिति ।
[३६५।०५-३६५।०७]
येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालम्बनमिष्टं तेषामष्टाविंशतिमधिकान् प्रक्षीप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति ।
[३६५।०७-३६५।०८]
एवं यावच्चतुर्थध्यान संगृहीताः ।
[३६५।०८-३६५।०९]
आकाशानन्त्यायतनादिषु यथाक्रमं चत्वारिंशत्द्वात्रिंशच्चतुर्विशतिश्च भवन्ति ।
[३६५।०९]
पुनर्गोत्रेन्द्रियभेदात्भूयांसो भवन्ति ।
[३६५।१०]
यस्त्वसौ भावाग्रिको नवमः प्रकार उक्तो यस्य वज्रोपमेन प्रहाणं
[३६५।११]
तत्क्षयाप्त्या क्षयज्ञानं
[३६५।१२]
तस्य पुनर्नवमस्य प्रकारस्य सह क्षयप्राप्त्या क्षयज्ञानमुत्पद्यते ।
[३६५।१२-३६५।१३]
वज्रोपमसमाधेरनन्तरं पश्चिमो विमुक्तिमार्गः ।
[३६५।१३-३६५।१४]
अत एव तत्क्षयज्ञानं सर्वास्रवक्षयप्राप्तिसहजत्वात्प्रथमतः ।
[३६५।१५]
अशैक्षोऽर्हन्नसौ तदा ।
[३६५।१६-३६५।१७]
उत्पन्ने च पुनः क्षयज्ञाने सोऽर्हत्त्वप्रतिपन्नकः अशैक्षो भवत्यर्हश्चार्हत्त्वफलप्राप्तः ।
[३६५।१७]
फलान्तरं प्रति पुनः शिक्षितव्याभावादशैक्षः ।
[३६५।१७-३६५।१९]
अत एव स परमार्तं करणार्थत्वात्सर्वसरागपूजार्हत्त्वाच्चार्हन्निति सिद्धं भवत्यन्ये सप्त पूर्वोक्ताः पुद्गलाः शैक्षा इति ।
[३६५।१९]
केन ते शैक्षाः ।
[३६५।१९-३६५।२०]
आस्रवक्षयाय नित्यं शिक्षणशीलत्वाच्छिक्षात्रये अधिशीलमधिचित्तमधिप्रज्ञं च ।
[३६५।२०]
ताः पुनः शीलसमाधिप्रज्ञास्वभावाः ।
[३६५।२१]
पृथग्जनोऽपि शैक्षः प्राप्नोति ।
न ।
यथाभूतं सत्याप्रज्ञानात्पुनश्चापशिक्षणात् ।
[३६५।२२-३६५।२३]
अत एव द्विरभिधानं सूत्रे “शिक्षायां शिक्षते शिक्षायां शिक्षत इति शिवकतस्माच्छैक्ष इत्युच्यत” इति ।
[३६५।२३-३६५।२४]
यः शिक्षत एव नापशिक्षते स शैक्ष इत्यवधारणं यथा विज्ञायेत ।
[३६५।२४]
प्रकृतिस्थ आर्यः कथं शिक्षणशीलः ।
[३६५।२५]
आशयतः ।
स्थिताध्वगवत्प्राप्त्यनुषङ्गतश्च षिक्षात्रयस्य ।
[३६५।२५-३६५।२६]
अथ शैक्षा धर्माः कतमे ।
[३६५।२६]
शैक्षस्यानास्रवाः ।
अशैक्षाः कतमे ।
अशैक्षस्यानास्रवाः ।
[३६५।२६-३६५।२७]
निर्वाणं कस्मान्न शैक्षम् ।
[३६५।२७]
अशैक्षपृथग्जनयोरपि तद्योगात् ।
कस्मान्नाशैक्षम् ।
[३६५।२७-३६६।०१]
शैक्षपृथग्जनयोरपि तद्योगात् ।
[३६६।०१]
त एते सर्व एवाष्टावार्यपुद्गला भवन्ति ।
[३६६।०१-३६६।०२]
प्रतिपन्नकाश्चत्वारश्च फले स्थिताः ।
[३६६।०२]
तद्यथा स्रोत आपत्तिफलसाक्षात्क्रियायै प्रतिपन्नकः स्रोत आपन्नः ।
[३६६।०३]
एवं यावदर्हत्त्वफलसाक्षात्क्रियायै प्रतिंपन्नकोऽर्हन्निति ।
नामत एतेऽष्टौ भवन्ति ।
[३६६।०४]
द्रव्यतस्तु पञ्च ।
प्रथमः प्रतिपन्नकश्चत्वारश्च फलस्थाः ।
[३६६।०४-३६६।०५]
शेषाणां प्रतिपन्नकानां त्रिफलस्थाव्यतिरेकात् ।
[३६६।०५]
अनुपूर्वाधिगमं प्रत्येवमुच्यते ।
[३६६।०५-३६६।०७]
भूयःकामवीतरागौ तु स्यातां दर्शनमार्गे सकुदागाम्यनागामिफलप्रतिपन्नकौ न च स्रोत आपन्न सकृदागामिनाविति ।
[३६६।०८]
द्विविधो हि भावनामार्ग उक्तो लौकिको लोकोत्तरश्चेति ।
[३६६।०८-३६६।०९]
केनायं शैक्षंः कुतो वैराग्यं प्राप्नोति ।
[३६६।१०]
लोकोत्तरेण वैराग्यं भवाग्रात्
[३६६।११]
न लौकिकेन ।
कि कारणम् ।
[३६६।११-३६६।१२]
तत ऊर्ध्व लौकिकाभावात्स्वभूमिकस्य वा प्रतिपक्षत्वात् ।
[३६६।१२]
कस्मान्न प्रतिपक्षः ।
[३६६।१२-३६६।१३]
तत्क्लेशानुशयितत्वात् ।
[३६६।१३-३६६।१४]
यो हि क्लेशो यत्र वस्तुन्यनुशेते न तस्य तद्वस्तु ओप्रहाणाय संवर्तते यस्य च यः प्रतिपक्षो न तत्र स क्लेशोऽनुशेते इति ।
[३६६।१५]
अन्यतो द्विधा ॥ ६.४५ ॥
[३६६।१६]
भवाग्रादन्यतः सर्वतो भूमेलौकिकेनाओपि वैराग्यं लोकोत्तरेणापि ।
तत्र पुनः
[३६६।१७]
लौकिकेनार्यवैराग्ये विसंयोगाप्तयो द्विधा ।
[३६६।१८-३६६।१९]
लौकिकेन मार्गेणार्यवैराग्यं गच्छतो द्विविधा विसंयोगप्राप्तय उत्पद्यन्ते लौकिक्यो लोकोत्तराश्च ।
[३६६।२०]
लोकोत्तरेण चेत्येके
[३६६।२१]
लोकोत्तरेणाप्येवमित्यपरे ।
किं कारणम् ।
[३६६।२२]
त्यवते क्लेशासमन्वयात् ॥ ६.४६ ॥
[३६७।०१-३६७।०३]
यदि ह्यार्यमार्गेण वैराग्यं प्राप्नुवतो लौकिकी विसंयोगप्रापोतिर्नोत्पद्यते एवं सति य आर्यमार्गेणाकिञ्चन्यायतनाद्वीतरागो ध्यानं निश्रित्येन्द्रियाणि संचरति सकृत्स्नपूर्वमार्गत्यागात्केवलफलमार्गलाभाच्चोर्ध्वभूमिक्लेशविसंयोगेनासमन्वागतः स्यात् ।
[३६७।०४]
त्यक्ते च तस्मिन् तैः क्लेशैः समन्वागतः स्यादिति ।
[३६७।०५]
भवाग्राधविमुक्तोर्ध्वजातवत्त्वसमन्वयः ।
[३६७।०६-३६७।०७]
असत्यामपि तु तस्यां लौकिक्यां विसंयोगप्राप्तौ न तैः समन्वागमः स्यात् ।
[३६७।०७-३६७।०९]
तद्यथा भवाग्रादर्ध प्रकारविमुक्तस्यासत्यामपि तु लौकिक्यां तद्विसंयोगप्राप्तौ त्यक्तायामपि चेन्द्रियसंचारेण लोकोत्तरायां न पुनस्तैः क्लेशैः समन्वागमो भवति ।
[३६७।०९-३६७।१०]
यथा च पृथग्जनस्य प्रथमध्यानभूमेरुर्ध्वं जातस्य कामावचरक्लेशविसंयोगप्राप्तित्यागान्न पुनस्तैः समन्वागमो भवतीत्यज्ञापकमेतत् ।
[३६७।११]
कतपया पुनर्भूम्या कुतो वैराग्यं भवति ।
[३६७।१२]
अनास्रवेण वैराग्यमनागाम्येन सर्वतः ॥ ६.४७ ॥
[३६७।१३]
आभवाग्रात् ।
[३६७।१३-३६७।१४]
अथ यः सामन्तकं निश्रित्याधरभूमिवैराग्यं प्राप्नोति किमस्यानन्तर्यमागवत्सर्वे विमुक्तिमार्गाः सामन्तकाद्भवन्ति ।
[३६७।१४]
नेत्याह ।
किं तर्हि ।
[३६७।१५]
ध्यानात्सामन्तकाद्वाऽन्त्यो मुक्ति मार्गस्त्रिभूजये ।
[३६७।१६]
नव ह्यपपत्तिभूमयः ।
सर्वकामधातुरष्टौ च ध्यानारुप्याः ।
[३६७।१६-३६७।१७]
तत्र यावत्द्वितीयध्यानवैराग्यं त्रिभूमिजयः ।
[३६७।१७-३६७।१८]
तस्मिन् पश्चिमो विमुक्तिमार्गः सामन्तकाद्भवति ध्यानाद्वा मौलात् ।
[३६७।१९]
नोर्ध्वं सामन्तकात्
[३६७।२०]
त्रिभूमिजयादूर्ध्वं मौलादेव न पुनः सामन्तकादुपेक्षेन्द्रियसामान्यात् ।
[३६७।२०-३६७।२१]
त्रिषु हि ध्यानेषु सामन्तकमौलयोरिन्द्रियभेदात्कश्चिन्न शक्नोति मौलं ध्यानं प्रवेष्टुम् ।
[३६८।०१]
इन्द्रियसंचारस्य दुष्करत्वात् ।
[३६८।०१-३६८।०२]
अतस्त्रिभूमिवैराग्ये ध्यानसामन्तकादप्यन्यो विमुक्तिमार्गो भवति ।
[३६८।०३]
“अनास्रवेण वैराग्यमनागम्येन सर्वत” इत्युक्तमन्यैस्तु नोक्तम् ।
अत उच्यते
[३६८।०४]
आर्यैरष्टाभिः स्वोर्ध्वभूजयः ॥ ६.४८ ॥
[३६८।०५-३६८।०६]
अनास्रवैरष्टाभिर्ध्यानध्यानान्तरारुप्यैः स्वस्या ऊर्ध्वायाश्च भूमेर्वैराग्यं नाधराया वीतरागत्वात् ।
[३६८।०६-३६८।०७]
तत्र लोकोत्तरा आनन्तर्यविमुक्तिमार्गाः सत्यालम्बनत्वात्सत्याकारप्रवृत्ता इति सिद्धम् ।
[३६८।०८]
विमुक्त्यानन्तर्यपथा लौकिकास्तु यथाक्रमम् ।
[३६८।०९]
शान्ताद्युदाराद्याकाराः
[३६८।१०]
विमुक्तिमार्गाः शान्ताद्याकारा आनन्तर्यमार्गा औदारिकाद्याकाराः ।
[३६८।१०-३६८।११]
ते पुनर्यथाक्रमम्
[३६८।१२]
उक्तराधरगोचराः ॥ ६.४९ ॥
[३६८।१३]
विमुक्तिमार्गा उत्तरां भूमिं शान्ततः प्रणीततो निःसर्णतश्चाकारयन्ति संभवतः ।
[३६८।१४]
आनन्तर्यमार्गा अधरां भूमिमौदारिकतो दुःखिलतः स्थूलभित्तिकतश्च ।
[३६८।१४-३६८।१५]
अशान्तत्वादौदरिकतो महाभिसंस्कारतरत्वात् ।
[३६८।१५-३६८।१६]
अप्रणीतत्वात्दुःखिलतो बहुदौष्ठुल्यतरत्वेन प्रतिकूलभावात् ।
[३६८।१६-३६८।१७]
स्थूलभित्तिकतस्तयैव तद्भूम्यनिःसरणात्भित्त्यनिःसरणवत् ।
[३६८।१७]
एषां विपर्ययेण शान्तप्रणीतनिःसरणाकाराः ।
गत मानुषङ्गिकम् ।
[३६८।१८]
इदं तु वक्तव्यम् ।
[३६८।१९]
अथ क्षयज्ञानाकनन्तरं किमुत्पद्यते
[३६८।२०]
यद्यकोप्यः क्षयज्ञानादनुत्पादमतिः
[३६८।२१]
अकोप्यधर्मा चेदर्हन्भवति क्षयज्ञानात्समनन्तरमनुत्पादज्ञानमस्योत्पद्यते ।
[३६८।२२]
न चेत् ।
[३६९।०१]
क्षयज्ञानमशैक्षी वा दृष्टिः
[३६९।०२-३६९।०३]
न चेदकोप्यधर्मा भवति क्षयज्ञानात्क्षवज्ञानमेवोत्पद्यते अशैक्षी वा सम्यग्दृष्टिः ।
[३६९।०३]
न त्वनुत्पादज्ञानं परिहाणिसंभवात् ।
[३६९।०३-३६९।०४]
किं पुनरकोपोयधर्मणः सा नैवोत्पद्यते ।
[३६९।०५]
सर्वस्य साऽर्हतः ॥ ६.५० ॥
[३६९।०६-३६९।०७]
अकोप्यधर्मणोऽप्यनुत्पादज्ञानात्कदाचिदनुत्पादज्ञानमेवोत्पद्यते कदाचिदशैक्षी सम्यग्दृष्टिः ।
[३६९।०८]
यान्येतानि चत्वारि फलान्युक्तानि कस्यैतानि फलानि ।
श्रमण्यफलानि ।
[३६९।०९]
किमिदं श्रामण्यं नाम ।
[३६९।१०]
श्रावण्यममलो मार्गंः
[३६९।११]
अनास्रवो मार्गः श्रमण्यम् ।
तेन ह्हि श्रमणो भवति ।
क्लेशसंशमनात् ।
[३६९।१२-३६९।१३]
“शमिता अनेन भवन्ति अनेकविधाः षापका अकुशला धर्मा विस्तरेण यावज्जरामरणीयास्तस्माच्छ्रमण इत्युच्यत” इति सूत्रे वचनात् ।
[३६९।१३-३६९।१४]
अनत्यन्तशमनान्न पृथग्जनः परमार्थश्रमणः ।
[३६९।१४]
तस्य पुनः श्रामण्यस्य ।
[३६९।१५]
संस्कृतासंस्कृतं फलम् ।
[३६९।१६]
संस्कृतासंस्कृतानि हि श्रामण्यफलानि पुनश्चत्वार्युक्तानि सूत्रे ।
अपि तु
[३६९।१७]
एकान्ननवतिस्तानि
[३६९।१८]
कानि पुनस्तानि
[३६९।१९]
मुक्तिमार्गाः सह क्षयैः ॥ ६.५१ ॥
[३६९।२०-३६९।२२]
दर्शनहेयप्रहाणायाष्टावानन्त्र्यमार्गा अष्टौ विमुक्तिमार्गा भावनाहेयप्रहाणाय नवसु भूमिषु प्रत्येकं नव प्रकाराणां क्लेशानां प्रहाणाय तावन्त एवानन्तर्यमार्गा विमुक्तिमार्गाश्च ।
[३६९।२२-३७०।०१]
तत्रानन्तर्यमार्गाः श्रामण्यं विमुक्तिमार्गाः संस्कृतानि श्रामण्यफलानि ।
[३७०।०१]
तन्निष्यन्दपुरुषकारफलत्वात् ।
[३७०।०१-३७०।०२]
तेषां क्लेशानां प्रहाणान्यसंस्कृतानि श्रामण्यफलानि ।
[३७०।०२]
एवमेकान्ननवतिर्भवन्ति ।
[३७०।०२-३७०।०३]
एवं तर्हि बुद्धस्योपसंख्यानं कर्तव्यं जायते ।
[३७०।०३]
न कर्तव्यम् ।
यद्यपि भूयांसि फलानि
[३७०।०४]
चतुष्फलव्यवस्था तु पञकारणसंभवात् ।
[३७०।०५-३७०।०६]
यस्यां हि प्रहाणमार्गावस्थायां पञ्च कारणानि संभवन्ति तस्यां किअ भगवता फलं व्यवस्थापितम् ।
[३७०।०६]
कतमानि पञ्च ।
[३७०।०७]
पूर्वत्यागोऽन्यमार्गाप्तिः क्षयसंकलनं फले ॥ ६.५२ ॥
[३७०।०८]
ज्ञानाष्टकस्य लाभोऽथ षोडशाकारभावना ।
[३७०।०९]
पूर्वमार्गत्यागोऽपूर्वमार्गाप्तिः प्रतिपन्नकफलमार्गत्यागलाभात् ।
[३७०।०९-३७०।१०]
प्रहाणसंकलनं सर्वस्यैकप्राप्तिलाभात् ।
[३७०।१०]
युगपदष्टज्ञानलाभश्चतुर्विधनां धर्मान्वयज्ञानानाम् ।
[३७०।११]
षोडशाकारभावना अनित्याद्याकाराणाम् ।
[३७०।११-३७०।१२]
इमानि हि पञ्च कारणानि फले फले भवन्ति ।
[३७०।१३-३७०।१४]
यद्यनास्रवो मार्गः श्रामण्यं कथं लौकिकमार्गप्राप्तं फलद्वयं श्रामण्यफलं युज्यते ।
[३७०।१५]
लौकिकाओप्तं तु मिश्रत्वानास्रवाप्तिः धृतेः फलल्म् ॥ ६.५३ ॥
[३७०।१६-३७०।१७]
न हि तत्र लौकिकमार्गफलमेव्प्रहाणं सकृदागामिफलं वा भवत्यनागामिफलं वा ।
[३७०।१७]
किं तर्हि ।
[३७०।१७-३७०।१८]
दर्शनमार्गफलमपि प्रहाणं तत्र मिश्रीक्रियते ।
[३७०।१८]
सर्वस्य तत्फलसंगृहीतैकविसंयोगप्राप्तिलाभात् ।
[३७०।१८-३७०।१९]
अत एव हि सूत्र उक्तं “सकृदागामिफलं कतमत् ।
[३७०।१९-३७०।२०]
यत्त्रयाणां संयोजनानां प्रहाणं रागद्वेषमोहानां च ततुत्वमिति ।
[३७०।२०]
अनागामिफलं कतमत् ।
[३७०।२०-३७०।२१]
यदुत पञ्चानामवरभागीयानां सम्योजनानां प्रहाणमि”ति ।
[३७०।२१]
अनास्रवया च विसंयोगाप्राप्त्या तत्प्रहाणं सधार्यते ।
[३७०।२१-३७०।२२]
तद्वलेन परिहीणामरणात् ।
[३७०।२२]
अतोऽप्यस्य मरणं युक्तं श्रामण्यफलम् ।
[३७०।२२-३७०।२३]
यदेव चैतच्छ्रामण्ययुक्तम् ।
[३७०।२४]
ब्राह्मण्यं ब्रह्मचक्रं च तदेव
[३७०।२५]
क्लेशानां वाहनाद्वाह्मण्यं ब्रह्मचक्रं तु
[३७१।०१]
ब्रह्मावर्तनात् ।
[३७१।०२]
अनुत्तरब्रह्मण्ययोगात्भगवान्ब्रह्मा ।
[३७१।०२-३७१।०३]
“एष हि भगवान् ब्रह्मा इत्यपि शान्तः शीतीभूत इत्यपी”ति सूत्रात् ।
[३७१।०३]
तस्येदं चक्रमिति ब्राह्मं तेन प्रर्तितत्वात् ।
[३७१।०४]
धर्मचक्रं तु दृङ्मार्गः
[३७१।०५]
चङ्क्रमणाच्चक्रं तत्साधर्म्याद्दर्शनमार्गो धर्मचक्रम् ।
कथमस्य साधर्म्यम् ।
[३७१।०६]
आशुगत्वाद्यरादिभिः ॥ ६.५४ ॥
[३७१।०७]
आशुगत्वात्त्यजनक्रमणातजितजयजिताध्यवसनादुत्पतननिपत्तनाच्च ।
[३७१।०७-३७१।०८]
एवमाशुगत्वादिभिः अरादिभिः साधर्म्यादार्याष्टाङ्ङ्गो मार्गश्चक्रमिति भदन्तघोषकः ।
[३७१।०८-३७१।०९]
सम्यग्दृष्टिसंकल्पव्यायामस्मृतयो ह्यरस्थानीयाः ।
[३७१।०९-३७१।१०]
सम्यग्वाक्कर्मान्ताजीवा नाभिस्थानीयाः समाधिर्नेमिस्थानीय इति दर्शनमार्गो धर्मचक्रमिति ।
[३७१।१०-३७१।११]
कुत एततार्यकौण्डिन्यस्य तदुत्पत्तौ “प्रवर्त्तितं धर्मचक्रमि”ति वचनात् ।
[३७१।११-३७१।१२]
कथं तत्त्रिपरिवर्तं द्वादशाकारं च ।
[३७१।१२]
इदं दुःखमार्यसत्यम् ।
[३७१।१२-३७१।१३]
तत्खलु परिज्ञेयं तत्खलु परिज्ञातमित्येते त्रयः परिवर्ताः ।
[३७१।१३-३७१।१४]
एकैकस्मिंश्च परिवर्ते चक्षुरुदपादि ज्ञानं विद्या बुद्धिरुदपादि इत्येते द्वादशाकाराः ।
[३७१।१४]
प्रतिसत्येमेवं भवन्ति ।
[३७१।१४-३७१।१५]
त्रिकद्वादशकसाधर्म्यात्तु त्रिपरिवर्तं द्वादशाकारमुक्तम् ।
[३७१।१५]
द्वयसप्तस्थानकौशलादेशनावत् ।
[३७१।१५-३७१।१६]
एभिश्च परिवर्तैर्दर्शनभावनाशैक्षमार्गा यथासंख्यं दर्शता इति वैभाषिकाः ।
[३७१।१६-३७१।१७]
यद्येवं न तर्हि दर्शनमार्ग एव त्रिपरिवर्त्तो द्वादशाकार इति कथमसौ धर्मचक्रं व्यवस्थाप्यते ।
[३७१।१७-३७१।१८]
तस्मात्स एव धर्मपर्यायो धर्मचक्रं त्रिपरिर्तं द्वादशाकारं च युज्यते ।
[३७१।१८]
कथं च पुनस्त्रिपरिवर्तम् ।
[३७१।१९]
सत्यानां त्रिः परिवर्त्तनात् ।
कथं द्वादशाकारम् ।
चतुर्णां सत्यानां त्रिधाकरणात् ।
[३७१।२०]
दुःखं समुदयो निरोधो मार्ग इति ।
[३७१।२०-३७१।२१]
परिज्ञेयं प्रहेयं साक्षात्कर्तव्यं भावयितव्यमिति ।
[३७१।२१]
परिज्ञातं प्रहीणं साक्षात्कृतं भावितमिति ।
[३७१।२१-३७१।२२]
तस्य पुनः प्रवर्तनं परसंताने गमनमर्थज्ञापनात् ।
[३७१।२२]
अथवा सर्व एवार्यमार्गो धर्मचक्रं वेनेयसंतानक्रमणात् ।
[३७१।२३-३७१।२४]
तत्तु परसंताने दर्शनमार्गोत्पादनाद्वर्तयितुमारब्धमतः प्रवर्तितमित्युच्यते ।
[३७२।०१]
अथ कस्मिन्धातौ कति श्रामण्यफलानि प्राप्यन्ते ।
[३७२।०२]
कामे त्रयाप्तिः
[३७२।०३]
कामधातावेव त्रयाणां श्रामण्यफलानां प्राप्तिर्नान्यत्र ।
[३७२।०४]
अन्त्यस्य त्रिषु
[३७२।०५]
अन्त्यं श्रामण्यफलमर्हत्वं तस्य त्रिषु धातुषु प्राप्तिः ।
[३७२।०५-३७२।०६]
फलद्वयस्य तावदवीतरागप्राप्यत्वादूर्ध्वमप्राप्तिर्युक्ता ।
[३७२।०६]
तृतीयस्य तु कस्मादप्राप्तिः ।
[३७२।०७]
नोर्ध्वं हि दृक्पथः ।
[३७२।०८]
ऊर्ध्वं हि कामधातोर्दर्शनमार्गो नास्ति ।
[३७२।०८-३७२।०९]
न च तेन विनाऽस्ति वीतरागस्यानागामि फलप्राप्तिरित्येतत्कारणम् ।
[३७२।०९]
किं पुनः कारणं तत्र दर्शनमार्गो नास्ति ।
[३७२।१०]
आरुप्येषु तावत्श्रवणाभावादधोधात्वनालम्बनाच्च ।
रूपधातौ तु
[३७२।११]
असंवेगादिह विधा तत्र निष्ठेति चागमात् ॥ ६.५५ ॥
[३७२।१२]
रूपावचरा हि पृथग्जनाः समापत्तिमुखसङ्गा दुःखवेदनाभावाच्च न संविजन्ते ।
[३७२।१२-३७२।१३]
न च विना संगेनार्यमार्गः शक्तो लब्धुम् ।
[३७२।१३]
इयं तावद्युक्तिः ।
[३७२।१३-३७२।१४]
आगमोऽप्ययं “पञ्चानां पुद्गलानामिह विधा तत्र निष्ठा अन्तरापरिनिर्वायिणो यावदूर्ध्वंस्रोतस” इति ।
[३७२।१५]
विधा हि मार्गरम्भो निर्वाणोपायत्वात् ।
[३७२।१६]
इदमुक्तं “यद्यकोप्यः क्षयज्ञानादनुत्पादमति” रिति ।
[३७२।१६-३७२।१७]
तत्र किमर्हतमप्यस्ति भेदः ।
[३७२।१७]
अस्तीत्युच्यते ।
[३७२।१८]
षडर्हन्तो मताः
[३७२।१९-३७२।२०]
सूत्र उक्तं षडर्हन्तः परिहाणधर्मा चेतनाधर्मा अनुरक्षणा धर्मा स्थिताकम्पोयः प्रतिवेधनाभव्योऽकोप्यधर्मा चेति ।
[३७२।२१]
तेषां पञ्च श्रद्धाध्हिमुक्तिजाः ।
[३७३।०१]
अकोक्प्यधर्माणं वर्जयित्वाऽन्ये पञ्च श्रद्धाधिमुक्ति पूर्वकाः ।
[३७३।०२]
विमुक्तिः सामयिक्येषाम् ।
[३७३।०३]
एषां च पञ्चानां सामयिकी कान्त चेतोविमुक्तिर्वेदितव्या ।
[३७३।०३-३७३।०४]
नित्यानुरक्ष्यत्वात् ।
[३७३।०४]
अत एवैते समयविमुक्ता उच्यन्ते ।
[३७३।०४-३७३।०५]
समयापेक्षाश्चैतेऽधिमुक्ताश्चेति समयविमुक्ता मध्यपदलोपात्धृतघटवत् ।
[३७३।०५-३७३।०६]
एषां हि समयापेक्षासमाधिसंमुखीभाव उपकरणारोग्यदेशविशेषापेक्षत्वात् ।
[३७३।०७]
अकोप्याकोप्यधर्मणः ॥ ६.५६ ॥
[३७३।०८]
अकोप्यधर्मणस्त्वकोप्या विमुक्तिः ।
कोपयितुमशक्यत्वादपरिहाणितः ।
[३७३।०९]
अतोऽसमयमुक्तोऽसौ
[३७३।१०]
अत एवासमयविमुक्ति उच्यते ।
स ह्यसमयापेक्षाविमुक्तिश्च ।
[३७३।१०-३७३।११]
इच्छातः समाधिसंमुखीभावात् ।
[३७३।११-३७३।१२]
कालान्तरात्यन्तविमुक्तितो वा कोप्याकोप्यधर्मणोः समयासमये विमुक्तत्वं परिहाणिसंभवासंभवतः ।
[३७३।१३]
दृष्टिप्रप्तान्वयश्च सः ।
[३७३।१४]
स चाकोप्यधर्मा दृष्टिप्राप्तपूर्वको वेदितव्यः ।
[३७३।१५]
किं पुनरेते षडर्हन्त आदित एव तद्गोत्रा भवन्त्यथ पश्चात् ।
[३७३।१६]
तद्गोत्रा आदितः केचित्केचिदुत्तापनागताः ॥ ६.५७ ॥
[३७३।१७]
कश्चित्प्रथमत एव चेतनाधर्मगोत्रको भवति ।
[३७३।१७-३७३।१८]
कश्चित्पुनः परिहाणधर्मा भूत्वेन्द्रियाणामुत्तापनया चेतनाधर्मतां गतः ।
[३७३।१८-३७३।१९]
एवं यावदकोओप्यधर्मतां गतो वेदितव्यः ।
[३७३।१९-३७३।२०]
तत्र परिहाणधर्मा यः परिहातुं भव्यो न चेतनादिधर्मा ।
[३७३।२०]
चेतनाधर्मा यश्चेतयितुं भव्यः ।
अनुरक्षणाधर्मा योऽनुरक्षितुं भव्यः ।
[३७३।२१-३७४।०१]
स्थिताकम्प्यो यः परिहाणिप्रत्ययं बलवन्तमन्तरेणानुरक्षन्नपि स्थातुं भव्यो न हातुं नापि वर्धयितुं विनाभियोगेन ।
[३७४।०१]
प्रतिवेधनाभव्यो योऽकोप्यः प्रतिवेद्धं भव्यः ।
[३७४।०२]
अकोप्यधर्मा यो नैव परिहातुं भव्यः ।
[३७४।०२-३७४।०३]
प्रथमौ द्वौ पूर्वमेव शैक्षावस्थायां सातत्यसत्कृत्यप्रयोगविकलौ ।
[३७४।०३]
तृतीयः सातत्यप्रयोगी ।
चतुर्थः सत्कृत्यप्रयोगी ।
[३७४।०३-३७४।०४]
पञ्चम उभयथाप्रयोगी मृद्विन्द्रियस्तु ।
[३७४।०४]
षष्ठ उभयथाप्रयोगी तीक्ष्णेन्द्रियश्च ।
[३७४।०४-३७४।०५]
नचावश्यं वरिहाणधर्मा परिहीयते नापि यावत्प्रतिवेधनाभव्यः प्रतिविध्यति ।
[३७४।०५-३७४।०६]
संभवं तु प्रत्येवमुच्यते ।
[३७४।०६]
एवं कृत्वा धातुत्रयेऽपिषडर्हन्तो युज्यन्ते ।
[३७४।०६-३७४।०८]
येषां त्ववश्यं परिहीयते यावत्प्रतिविध्यति तेषां कामधातौ षट्रूपारुप्यधात्वोः स्थिताकम्प्योऽकोप्यधर्मा च ।
[३७४।०८]
तयोःपरिहाणिचेतनेन्द्रियसंचाराभावात् ।
[३७४।०९]
कः पुनरेषां कुतः परिहीयते ।
फलात्गोत्राद्वा ।
[३७४।१०]
गोत्राच्चतुर्णां पञ्चानां फलाद्धानिः
[३७४।११]
चेतनाधर्मादीनां चतुर्णां गोत्रात्परिहाणिः ।
[३७४।११-३७४।१२]
न हि परिहाणधर्मा पुनः स्वगोत्रात्परिहीयते ।
[३७४।१२-३७४।१३]
परिहाणधर्मादीनां पञ्चानां फलात्परिहाणिः ।
[३७४।१३]
तेषामपि तु
[३७४।१४]
न पूर्वकात् ।
[३७४।१५]
यस्य यत्प्रथमगोत्रं स तस्मान्न परिहीयते ।
शैक्षाशैक्षमार्गाभ्यां दृढीकुतत्वात् ।
[३७४।१६]
शैक्षस्तु लौकिकलोकत्तराभ्यां दृढीकृतत्वात्न परिहीयते स्वगोत्रात् ।
[३७४।१६-३७४।१७]
यत्तु पश्चात्प्रतिलब्धमुत्तापनया तस्मात्परिहीयते ।
[३७४।१७-३७४।१८]
यस्य च यत्प्रथमं फलं स तस्माना परिहीयते ।
[३७४।१८]
शेषात्परिहीयते ।
[३७४।१८-३७४।१९]
अत एव स्रोत आपत्तिफलान्नास्ति परिहाणिः ।
[३७४।१९]
एवं च कृत्वा परिहाणधर्मणस्त्रयः प्रकारा भवन्ति ।
[३७४।१९-३७४।२०]
तदवस्थस्य परिनिर्वाणमिन्द्रियसंचारः ।
[३७४।२०]
परिहाय वा शैक्षत्वम् ।
चेतनाधर्मणश्चत्वारः ।
[३७४।२०-३७४।२१]
एत एव त्रयः परिहाणधर्मगोत्रप्रत्यागमनं च ।
[३७४।२१-३७४।२२]
एवमन्येषां त्रयाणामेकैकप्रकारवृद्धच्या यथाक्रमं पञ्च षट्सप्त प्रकारा वेदितव्याः ।
[३७४।२२-३७४।२३]
यस्य च यत्प्रथमं गोत्रं स परिहाय शैक्षोभूतस्तत्रैवावतिष्ठते नान्यस्मिन् ।
[३७४।२३-३७४।२४]
अन्यथा हि तद्गोत्रविशेष लभाद्वृद्धिरेवास्य स्यान्न परिहाणिः ।
[३७४।२५]
किं पुनः कारणं प्रथमानां नास्ति परिहाणिः ।
दर्शनहेयानामवस्तुकत्वात् ।
[३७४।२६]
आत्माधिष्ठानप्रवृत्ता ह्येते ।
सत्कायदृष्टिमूलकत्वात् ।
[३७५।०१]
स चात्मा नास्तीति ।
असदालम्बनास्तर्हि प्राप्नुवन्ति ।
नासदालम्बनाः ।
[३७५।०१-३७५।०२]
सत्यालम्बनत्वात् ।
[३७५।०२]
वितथालम्बनास्तु ।
कतमश्च क्लेशो नैवमस्ति विशेषः ।
[३७५।०२-३७५।०४]
आत्मदृष्टिहि रूपादिके वस्तुनि कारकवेदकवशवर्तित्वेनात्मत्वमभूतमध्यारोपयति तदधिष्ठानानुवृत्ताश्चान्तग्राहदृष्टच्यादय इत्यवस्तुका उच्यन्ते ।
[३७५।०४-३७५।०६]
भावनाहेयास्तु रागप्रतिघमानाविद्या रूपादिके वस्तुनि केवलं सक्त्याघातोन्नत्यसंप्रख्यानभावेन वर्तन्त इति सवस्तुका उच्यन्ते ।
[३७५।०६-३७५।०७]
अस्ति च तच्ध्रातादिमात्रं यत्र तेषां प्रवृत्तयः न त्वात्मादिलेशोऽपि ।
[३७५।०७-३७५।०८]
तथा हि भावनाहेयानामस्ति प्रतिनियतं वस्तुमनापामनापलक्षणं न तु दर्शनहेयानामात्मादिलक्षणम् ।
[३७५।०८-३७५।०९]
तस्मादप्यवस्तुकाउच्यन्ते ।
[३७५।०९-३७५।१०]
अपि खल्वार्यस्यानुपनिध्यायतः स्मृतिसंप्रमोषात्क्लेश उत्पद्यते नोपनिध्यायतो रज्ज्वामिव सर्पसंज्ञा ।
[३७५।१०-३७५।१२]
न चानुपनिध्यायत आत्मदृष्टच्यादीनामुपपत्तिर्युज्यते सन्तीरकत्वादिति नास्ति दर्शनहेयक्लेश प्रहाणात्परिहाणिः ।
[३७५।१२]
अर्हत्वादपि नास्ति परिहाणिरिति सौत्रान्तिकाः ।
[३७५।१२-३७५।१३]
एष एव चन्यायः ।
[३७५।१३]
कथमिदं गम्यते ।
आगमाद्युक्तितश्च ।
कथमागमात् ।
[३७५।१३-३७५।१४]
“तद्धि भिक्षवः प्रहीणं यदार्यया प्रज्ञया प्रहीणमि”त्युक्तम् ।
[३७५।१४-३७५।१५]
आद्यन्तयोश्च फलयोरार्ययैव प्रज्ञयाऽधिगमः ।
[३७५।१५-३७५।१६]
“शैक्षस्य चाप्रमादकरणियेऽप्रमादकरणीयं वदामी” त्युक्तं नाऽर्हतः ।
[३७५।१६-३७५।१७]
“अर्हतोऽप्यहमानन्द लाभसत्कारमन्त्रायकरं वदामी”त्यत्र सूत्रे दृष्टधमेसुखविहारमात्रादेव परिहाणिरुक्ता ।
[३७५।१७-३७५।१८]
“या त्वनेनाकोप्यचेतोविमुक्तिः कायेन साक्षात्कृता ।
[३७५।१८]
ततोऽहं न केनचित्पर्यायेण परिहाणं वदामी”ति चोक्तम् ।
[३७५।१९]
सामयिक्या अस्तीति चेत् ।
वयमप्येवं ब्रूमः ।
सा तु विचार्या ।
[३७५।१९-३७५।२०]
किमर्हत्त्वमाहोस्विद्धच्यानानीति ।
[३७५।२०-३७५।२१]
मौलो हि ध्यानसमाधिः समये संमुखीभावात्सामयिकी चिमुक्तिरित्युच्यते ।
[३७५।२१]
दृष्टधर्मसुखविहारार्थं च पुनः पुनरेषणीयत्वात्कान्तेत्युच्यते ।
[३७५।२२]
आस्वादनीयत्वादित्यपरे ।
[३७५।२२-३७५।२३]
अर्हत्त्वविमुक्तिस्तु नित्यानुगतत्वान्न युज्यते ।सामयिकी अपुनःप्रर्थनीयत्वान्न कान्तेति ।
[३७५।२३-३७५।२४]
यदि चार्हत्त्वात्परिहणिसंभवोऽभविष्यत्किमर्थं भगवानाधिचेतसिकेभ्य एव दृष्टधर्मसुखविहारेभ्यः परिहाणिमवक्ष्यत् ।
[३७५।२४-३७५।२५]
अतो गम्यते सर्वस्यैवार्हतो विमुक्तिरकोप्यादृष्टध्र्मसुखविहारेत्युस्तु ।
[३७५।२५-३७५।२६]
कश्चित्लाभसत्कारव्याक्षेपदीषात्परिहीयते वशित्वब्र्हशाद्यो मृद्विन्द्रियः ।
[३७५।२७]
कश्चिन्न परिहीयते यस्तीक्ष्णेन्द्रियः ।
तत्र यः परिहीयते स परिहाणधर्मा ।
[३७५।२७-३७५।२८]
यो न परिहीयते सोऽपरिहाणधर्मा ।
[३७५।२८]
एवं चेतनाधर्मादयोऽपि योज्याः ।
[३७५।२८-३७६।०१]
अपरिहाणधर्मस्थिताकम्प्याकोप्यधर्मणां को विशेषः ।
[३७६।०१]
अपरिहाणधर्माऽनुत्तापनागतः ।
[३७६।०२]
अकोप्यधर्मा तूत्तापनागतः ।
[३७६।०२-३७६।०३]
तौ हि यं यमेव समापत्तिविशेषमुत्पादयतस्तस्मान्न परिहीयेते ।
[३७६।०३-३७६।०४]
स्थिताकम्प्यस्तु यस्मिन्नेव गुणे स्थितस्तस्मात्केवलं न परिहीयते न त्वन्यमुत्पादयति ।
[३७६।०४]
उत्पादयति वा तस्मात्तु कम्पत इत्येव विशेषो लक्ष्यते ।
[३७६।०५-३७६।०७]
आयुष्मान्भौतिकः शैक्षीभूतः सामयिक्या विमुक्तेरत्यास्वादनान्मृद्विन्द्रियत्वाच्चभीक्ष्णं परिहीयमाणो निर्विण्नः शस्त्रमाधारयन् कायजीवितनिरपेक्षत्वान्मरणकाल एवार्हत्त्वप्राप्तः परिनिर्वृत्तश्च ।
[३७६।०७]
तस्मात्सोऽपि नार्हत्त्वात्परिहीणः ।
[३७६।०७-३७६।०८]
दशोत्तरे चोक्तम् ।
[३७६।०८]
“एको धर्म उत्पादयितव्यः सामयिकी कान्ता चेतोविमुक्तिः ।
[३७६।०८-३७६।०९]
एको धर्मः साक्षात्कर्तव्यः अकोप्या चेतोविमुक्तिरि”ति ।
[३७६।०९-३७६।१०]
यदि चार्हत्त्वं सामयिकी कान्ता चेतोविमुक्तिरभविष्यत्किमर्थं तत्रैव दशकेऽर्हत्त्वस्य द्विग्रहणमकरिष्यात् ।
[३७६।१०-३७६।११]
न च क्वचिदर्हत्त्वमुत्पादयितव्यमुक्तम् ।
[३७६।११]
किं तर्हि ।
[३७६।११-३७६।१२]
साक्षात्कर्तव्यं मृद्विन्द्रियसंगृहीतं चार्हत्त्वमुत्पादयितव्यमिति ।
[३७६।१२]
किमनेन ज्ञापितं भवति ।
[३७६।१२-३७६।१३]
यदि तावदुत्पादयितुं शक्यमित्यदपि शक्यम् ।
[३७६।१३]
अथोत्पादनमर्हतीति ।
[३७६।१३-३७६।१४]
अन्यत्सुतरामर्हति ।
[३७६।१४]
तस्मान्न सामयिकी विमुक्तिरर्हत्त्वम् ।
[३७६।१४-३७६।१५]
कथं तर्हि समयविमुक्तोऽर्हन्नुच्यते ।
[३७६।१५]
यस्य मृद्विन्द्रियत्वात्समयापेक्षः समाधिसमुखीभावः ।
[३७६।१५-३७६।१६]
विपर्ययादसमयविमुक्तः ।
[३७६।१६]
अभिधर्मेऽपि चोक्तं “त्रिभिः स्थानेः कामरागानुशयस्योत्पादो भवति ।
[३७६।१७-३७६।१८]
कामरागानुशयिओऽप्रहीणो भवत्यपरिज्ञातः कामरागपर्यवस्थानीयाश्च धर्मा आभासगता भवन्ति तत्र चायोनिशो मनस्कार” इति ।
[३७६।१८]
परिपूर्णोत्पत्तिरेवमिति चेत् ।
[३७६।१९]
कस्य वा परिपूर्णकारणस्योत्पत्तिः ।
एवं तावदागमात् ।
कथं युक्तितः ।
[३७६।१९-३७६।२१]
यदि तावदर्हतस्तद्रूपः प्रतिपक्ष उत्पन्नो येन क्लेशा अत्यन्तमनुत्पत्तिधर्मतामापन्नाः कथं पुनः परिहीयते ।
[३७६।२१]
अथ नोत्पन्नः ।
कथं क्षीणास्रवो भवति ।
[३७६।२१-३७६।२२]
अत्यन्तमनयोद्ध्रतायां तद्बीजधर्मतायामक्षीणास्रवो वा पुनः कथमर्हन्भवतीत्येवं युक्तिः ।
[३७६।२२-३७६।२३]
अङ्गारकर्षूपोमं सूत्रं तर्हि परिहार्यम् ।
[३७६।२३-३७६।२५]
यत्रेदमुक्तं “तस्य खलु श्रुतवत आर्यश्रावकस्यैवं चरत एवं विहरतः कदाचित्कर्हिचित्स्मृतिसंप्रमोषादुत्पद्यन्ते पापका अकुशला वितर्का” इति ।
[३७६।२५]
स हि तत्रार्हन्नेव ज्ञापितः ।
[३७६।२५-३७७।०१]
“दीर्घरात्र विवेकनिम्नं चित्तं भवति यावन्निर्वाणप्राग्भारमि”ति वचनात् ।
[३७७।०१-३७७।०२]
अर्हतो ह्येतद्बलमन्यत्रोक्तम् ।
[३७७।०२-३७७।०३]
“सर्वैरास्रवस्थानीयैर्धर्मैः शीतीभूतं वान्तीभूतमि”ति चाभिधानातस्त्येतदेवम् ।
[३७७।०३-३७७।०४]
यावत्तु चारो न सुप्रतिबद्धस्तावदेवं चरतोऽपि शैक्षस्यास्ति संभवः क्लेशोत्पत्ताविति शैक्षावस्थामधिकृत्यैवं वचनाददोषः ।
[३७७।०५]
प्रतिज्ञायते हि लौकिकमार्गप्रतिलब्धात्फलद्वयात्परिहाणिः ।
[३७७।०५-३७७।०६]
अर्हत्त्वादपि तु परिहाणिं वर्णयन्ति वैभाषिकाः ।
[३७७।०७]
किं पुनरिमेऽर्हन्त एव षड्गोत्रा भवन्ति अथान्येऽपि षड्गोत्रा भवन्ति ।
[३७७।०८]
शैक्षानार्याश्च षड्गोत्राः
[३७७।०९]
शैक्षपृथग्जना अप्येवं षड्गोत्राः ।
तत्पूर्वकाण्येव ह्यर्हतां गोत्राणि ।
अपि तु
[३७७।१०]
संचारो नास्ति दर्शने ॥ ६.५८ ॥
[३७७।११]
दर्शनमार्गादन्यत्रेन्द्रियसंचारो भवति ।
प्रयोगासंभवान्न दर्शनमार्गे ।
[३७७।११-३७७।१२]
कश्चित्पृथग्जनावस्थायामिन्द्रियाणि संचरति ।
[३७७।१२]
कश्चिच्छद्धाधिमुक्तावस्थायाम् ।
[३७७।१३-३७७।१६]
यदिदं सूत्र उक्तं “ये त्वनेन चत्वार आधिचैतसिका दृष्टधर्मसुखविहारा अधिगतास्ततोऽहमस्यान्यतमान्यतमस्मात्परिहाणिं वदामि या त्वनेनैकाकिना यावदकोप्या चेतोविमुक्तिः कायेन साक्षात्कृता ततोऽहं न केनचित्पर्यायेण परिहाणिं वदामी”ति ।
[३७७।१६-३७७।१७]
कथमकोप्यधर्मणो दृष्ट्धर्मसुखविहारेभ्यः परिहाणिः ।
[३७७।१८]
परिहाणिस्त्रिधा ज्ञेया प्राप्ताप्राप्तोपभोगतः ।
[३७७।१९]
प्राप्तपरिहाणिर्यदि प्रतिलब्धात्गुणात्परिहीयते ।
[३७७।१९-३७७।२०]
अप्राप्तपरिहाणिर्यदि प्राप्यं गुणं न प्राप्नोति ।
[३७७।२०]
उपभोगपरिहाणिर्यदि प्राप्तगुणं न संमुखीकरोति ।
[३७७।२०-३७७।२१]
आसां पुनः परिहाणीनाम्
[३७७।२२]
अन्त्या शास्तुरकोप्यस्य मध्या चान्यस्य तु त्रिधा ॥ ६.५९ ॥
[३७८।०१]
बुद्धस्योपभोगपरिहाणिरेव नान्या ।
अकोप्यधर्मणः सा चाप्राप्तपरिहाणिश्च ।
[३७८।०२]
पुद्गलविशेषधर्माप्रापणात् ।
अन्यस्यार्हतः प्राप्तपरिहाणिरप्यस्ति ।
[३७८।०२-३७८।०३]
अत उपभोगपरिहाणिवचनादकोप्यधर्मणः सूत्रविरोधः ।
[३७८।०३]
सर्वस्यानास्रवा विमुक्तिरकोप्या ।
[३७८।०४]
अकोप्यधर्मव्यवस्थानं तु यथा तथोक्तम् ।
अत एतद्चोद्यमित्यपरिहाणिवादी ।
[३७८।०५]
अथ योइऽर्हत्फलात्परिहीयते किमसौ पुनर्जायते ।
नास्त्येतत् ।
यस्मात्
[३७८।०६]
म्रियते न फलभ्रष्टः
[३७८।०७]
नैव हि कश्चित्फलात्परिहीणः कालं करोति ।
[३७८।०७-३७८।०९]
“धन्धा भिक्षव आर्यश्रावकस्य स्मृतिसंप्रमोषा अथ च पुनः क्षिप्रमेवान्तं परिक्षयं सपदि संगच्छनीति सूत्रे वचनात् ।
[३७८।०९]
अन्यथा ह्यनाश्वासिकं ब्रह्मचर्यं स्यात् ।
[३७८।०९-३७८।१०]
यतश्च फलात्परिहीयते तत्फलस्थेन यदकार्यं
[३७८।११]
तादकार्यं करोति न ।
[३७८।१२]
परिहीणोऽपि संस्तत्फलविरुद्धां क्रियां न करोति ।
शूरप्रस्खलनापतनवत् ।
[३७८।१३]
अथेन्द्रियाणि संचरतां कत्यानन्तर्यविमुक्तिमार्गा भवन्ति ।
[३७८।१४]
विमुक्त्यानन्तर्यपथा नवोकोप्ये
[३७८।१५-३७८।१६]
अकोप्यगोत्रे प्रतिविध्यमाने प्रितिवेधभावनाभव्यस्य नवानन्तर्यमार्गा विमुक्तिमार्गाश्च भवन्ति ।
[३७८।१६]
यथार्हत्त्वं प्राप्नुवतः ।
किं कारणम् ।
[३७८।१७]
अतिसेवनात् ॥ ६.६० ॥
[३७८।१८]
तस्य मृद्विन्द्रियगोत्रं भवतीति नाल्पेन व्यावर्त्तयितुं शक्यते ।
[३७८।१८-३७८।१९]
शैक्षाशैक्ष मार्गभ्यां दृढीकृतत्वात् ।
[३७८।२०]
दृष्टच्याप्ततायामेकैकः
[३७९।०१-३७९।०२]
दृष्टिप्राप्तायां प्रतिविध्यमानायामेक एवानन्तर्यमार्गो भवत्येको विमुक्तिमार्गः ।
[३७९।०२]
प्रयोगमार्गस्तु सर्वत्रैक एव ।
ते पुनः सर्व एवानन्तर्यविमुक्तिमार्गाः
[३७९।०३]
अनास्रवाः
[३७९।०४]
न हि सास्रवेण मार्गेणार्याणामिन्द्रियसंचारः ।
क्व पुनरिन्द्रियाणि वर्धन्ते ।
[३७९।०५]
नृषु वर्धनम् ।
[३७९।०६]
मनुष्येष्वेवेन्द्रियसंचारो नान्यत्र ।
परिहाण्यसंभवात् ।
[३७९।०७]
कः पुनः कतमां भूमि निश्रित्येन्द्रियाणि संचरति ।
[३७९।०८]
अशैक्षो नव निश्रित्य भूमीः
[३७९।०९]
अनागम्यस्यानन्तरं चत्वारि ध्यानानि त्रीणि चारुप्याणि ।
[३७९।१०]
शैक्षस्तु षट्
[३७९।११]
आरुप्यवर्ज्यः ।
किं कारणम् ।
[३७९।१२]
यतः ॥ ६.६१ ॥
[३७९।१३]
सविशेषं फलं त्यक्त्वा फलमाप्नोति वर्धयन् ।
[३७९।१४-३७९।१५]
इन्द्रियाणि हि संचरन् फलं फलविशिष्टं च मृद्विन्द्रियमार्गं त्यक्त्वा तीक्ष्णेन्द्रियगोत्रकं फलमार्गमेव प्रतिलभते ।
[३७९।१५-३७९।१६]
न चानागामिफलमारुप्यभूमिसंगृहीतमस्तीत्येतत्कारणम् ।
[३७९।१७]
त एते षडेवार्हन्तो नव भवन्ति ।
इन्द्रियभेदात् ।
कथं कृत्वा ।
[३७९।१८]
द्वौ बुद्धौ श्रावकाः सप्त नवैते नवधेन्द्रियाः ॥ ६.६२ ॥
[३८०।०१]
कतमे सप्त श्रावकाः ।
परिहाणधर्मादयः पञ्च ।
[३८०।०१-३८०।०२]
अकोप्यधर्मा च द्विविध उत्तापनागत आदितश्च तद्गोत्रः अकोप्यभेद एव ।
[३८०।०२]
द्वौ बुद्धौ प्रत्येकबुद्धो बुद्धश्च ।
[३८०।०३]
इत्यते मृदुमृद्वादिनवप्रकारेन्द्रियभेदान्नव पुद्गला भवन्ति ।
[३८०।०४]
सर्व एव त्वार्यपुद्गलाः सप्त भवन्ति ।
[३८०।०४-३८०।०५]
श्रद्धानुसारी धर्मानुसारी श्रद्धाधिमुक्तो दृष्टिओप्राप्तः कायसाक्षी प्रज्ञाविमुक्त उभयतोविमुक्तश्च ।
[३८०।०५]
एते पुनः
[३८०।०६]
प्रयोगाक्षसमापत्तिविमुक्त्युभयतः कृताः ।
[३८०।०७]
पुद्गलाः सप्त
[३८०।०८]
प्रयोगतः श्रद्धाधर्मानुसारिणौ ।
पूर्वमेव परप्रत्ययधर्मानुसाराभ्यामर्थेषु प्रयोगात् ।
[३८०।०९]
इन्द्रियत श्रद्धाधिमुक्तदृष्टिप्राप्तौ ।
[३८०।०९-३८०।१०]
मृदुतीक्ष्णेन्द्रियत्वात्श्रद्धाधिमोक्षप्रज्ञाधिक्यतः ।
[३८०।१०-३८०।११]
समापत्तितः कायसाक्षी निरोधसमापत्ति साक्षात्करणात् ।
[३८०।११]
विमुक्तितः प्रज्ञाविमुक्तः ।
समापत्तिविमुक्तितः उभयतोभागविमुक्तः ।
[३८०।१२]
नामत एते सप्त पुद्गलाः ।
[३८०।१३]
षट्त्वेते ।
[३८०।१४]
द्रव्यतस्त्वेते षट्भवन्ति ।
[३८०।१५]
द्वौ द्वौ मार्गत्रये यतः ॥ ६.६३ ॥
[३८०।१६]
दर्शनमार्गे हि द्वौ पुद्गलौ श्रद्धाधर्मानुसारिणौ ।
तावेव भावनामार्गे द्वौ भवतः ।
[३८०।१७]
श्रद्धाधिमुक्तदृष्टिप्राप्तौ ।
तौ पुनरशैक्षमार्गे द्वौ भवतः ।
समयासमयविमुक्ताविति ।
[३८०।१८]
तत्रेन्द्रियतस्त्रयः ।
श्रद्धानुसारिणः गोत्रतः पञ्च ।
मार्गतः पञ्चदश ।
[३८०।१८-३८०।१९]
अष्ट क्षान्तिसप्तज्ञानस्थाः ।
[३८०।१९]
वैराग्यतस्त्रिसप्ततिः ।
सकलबन्धनः ।
कामवैराग्यान्नव ।
[३८०।२०]
एवं यावदाकिञ्चन्यायतनवैराग्यात् ।
आश्रयतो नव ।
त्रिद्वीपषाड्देवनिकायजाः ।
[३८०।२१-३८०।२२]
इन्द्रियगोत्रमार्गवैराग्याश्रयतः पण्डिताः शतसहस्रं संपद्यन्ते सहस्राणि च सप्तचत्वारिंशच्छतानि चाष्टौ पञ्चविशतिश्च ।
[३८०।२२]
एवमन्येऽपि पुद्गलाः संभवतः संख्येयाः ।
[३८१।०१]
कोयिमुभयतोभागविमुक्त इत्युच्यते कश्च प्रज्ञाविमुक्तः ।
[३८१।०२]
निरोधलाभ्युभयतोविमुक्तः प्रज्ञयेतरः ।
[३८१।०३]
यो निरोधसमापत्तिलाभी स उभयतोभागविमुक्तः ।
[३८१।०३-३८१।०४]
प्रज्ञासमाधिबलाभ्यां क्लेशविमोक्षावरणविमुक्तत्वात् ।
[३८१।०४]
इतरः प्रज्ञाविमुक्तः ।
[३८१।०४-३८१।०५]
प्रज्ञाबलेन केवलं क्लेशावरणविमुक्तत्वात् ।
[३८१।०६-३८१।०७]
यदुक्तं भगवता “क्लेशान् प्रहायेह हि यस्तु पञ्च अहार्यधर्मा परिपूर्णः शैक्ष” इति ।
[३८१।०७]
कियता परिपूर्णः शैक्षो भवति ।
[३८१।०८]
समापत्तिन्द्रियफलैः पूर्णः शैक्षोऽभिधीयते ॥ ६.६४ ॥
[३८१।०९]
त्रिविधा शैक्षस्य परीपूरिः ।
फलतः इन्द्रियतः समापत्तितश्च ।
[३८१।०९-३८१।१०]
फलत एव श्रद्धाधिमुक्तस्याकायसाक्षिणोऽनागामिनः ।
[३८१।१०-३८१।११]
इन्द्रियत एव दृष्टिप्राप्तस्यावीतरागस्य ।
[३८१।११]
फलेन्द्रियतो दृष्टिप्राप्तस्य कायसाक्षिणोऽनागामिनः ।
[३८१।११-३८१।१२]
फलसमापत्तितः श्रद्धाधिमुक्तस्य कायसाक्षिणः ।
[३८१।१२]
फलेन्द्रियसमापत्तितो दृष्टिप्राप्तस्य कायसाक्षिणः ।
[३८१।१३]
समापत्तित एव समापत्तीन्द्रियश्च परिपूर्णत्वं नास्ति विन फलेन ।
[३८१।१४]
अशैक्षपरिपूर्णत्वं द्वाभ्याम्
[३८१।१५]
इन्द्रियतः समापत्तिश्च ।
[३८१।१५-३८१।१६]
फलेन त्वपरिपूर्णस्याशैक्षत्वमेव नास्तीति नास्य पुनः फलेन परिपूर्णपरिपूर्णत्वं व्यवस्थाप्यते ।
[३८१।१६-३८१।१७]
इन्द्रियतेवासमयविमुक्तस्य प्रज्ञाविमुक्तस्य ।
[३८१।१७]
समापत्तित एव समयविमुक्तस्योभयभागविमुक्तस्य ।
[३८१।१७-३८१।१८]
इन्द्रियसमापत्तिभ्यामसमयविमुक्तस्योभयतोभागविमुक्तस्य ।
[३८१।१९-३८१।२०]
वहव इमे मार्गभेदा उक्ता लौकिकलोकोक्त्तरदर्शनभावनाऽशैक्षमार्गाः प्रयोगानन्तर्यविमुक्तिविशेषमार्गा इति ।
[३८१।२०]
कतिविध एष समासतो मार्ग इति ।
[३८१।२१]
मार्गः समासतः ।
[३८१।२२]
विशेषमुक्त्यानन्तर्यप्रयोगाख्यश्चतुर्विधः ॥ ६.६५ ॥
[३८२।०१]
प्रयोगमार्गो यस्मादनन्तर्मानन्तर्यमार्गोत्पत्तिः ।
[३८२।०१-३८२।०२]
आनन्तर्यमार्गो येनावरणं प्रजहाति ।
[३८२।०२]
विमुक्तिमार्गो यस्तत्प्रहेयावरणविनिर्मुक्तस्तत्प्रथमत उत्पद्यते ।
[३८२।०३]
विशेषमार्गो य एभ्योऽन्यो मार्गः ।
कस्मात्मार्ग इत्युच्यते ।
[३८२।०३-३८२।०४]
एष हि निर्वाणस्य पन्था एतेन तद्गमनात् ।
[३८२।०४]
निर्वाणं मार्गयन्त्यनेनेति वा ।
[३८२।०४-३८२।०५]
विमुक्तिविशेषमार्ग योः कथं मार्गत्वम् ।
[३८२।०५-३८२।०६]
तज्जातीयादधिमात्रतरत्वादुत्तरोत्तरप्रापणात्निरूपधिशेषप्रवेशाद्वा ।
[३८२।०७]
मार्ग एव पुनः प्रतिपदित्युक्तो निर्वाणप्रतिपादनात् ।
चतस्रः प्रतिपदः ।
[३८२।०८]
अस्ति प्रतिपद्दुःखा धन्धाभिज्ञा ।
अस्ति दुःखा क्षिप्राभिज्ञा ।
[३८२।०८-३८२।०९]
एवं सुखाऽपि द्विधा ।
[३८२।०९]
तत्र
[३८२।१०]
ध्यानेषु मार्गः प्रतिपत्सुखा
[३८२।११-३८२।१२]
चतुर्ध्यानेषु मार्गः सुखा प्रतिपदङ्गपरिग्रह शमथविपश्यना समताभ्यामयिअत्नवाहित्वात् ।
[३८२।१३]
दुःखाऽन्यभूमिषु ।
[३८२।१४-३८२।१६]
अन्यास्वनागम्यध्यानान्तरारुप्यभूमिषु मार्गो दुःखा प्रतिदङ्गापरिग्रहाच्छमथविपश्यनान्यूनत्वाच्च यत्नवाहित्वात्शमथन्यूने ह्यनागम्यध्यानान्तरे विपश्यनान्यूना आरुप्या इति ।
[३८२।१६]
सा पुनर्द्विविधाऽपि प्रतिपत्
[३८२।१७]
धन्याभिज्ञा मृदुमतेः क्षिप्राभिज्ञेतरस्य तु ॥ ६.६६ ॥
[३८२।१८-३८२।१९]
मृद्विन्द्रियस्य सुखा दुःखा वा प्रतिपद्धन्धाभिज्ञा तीक्ष्णेन्द्रियस्य क्षिप्राभिज्ञा धन्धाभिज्ञा अस्यां प्रतिपदि ।
[३८२।१९]
सेयं धन्धाभिज्ञा ।
[३८२।१९-३८२।२०]
एवं क्षिप्राभिज्ञा ।
[३८२।२०]
धन्धस्य वा पुद्गलस्येयमिति धन्धाभिज्ञा ।
[३८२।२०-३८२।२१]
पुनरप्येष मार्गो बोधिपक्ष्याख्यां लभते ।
[३८२।२१]
सप्तत्रिंशद्वोधिपक्षा धर्माः ।
चत्वारि स्मृत्युपस्थानानि ।
[३८२।२२]
चत्वारि सम्यक्प्रहाणानि ।
चत्वार ऋद्धिपादाः ।
पञ्चेन्द्रियाणि ।
[३८२।२२-३८२।२३]
पञ्च बलानि ।
[३८२।२३]
सप्त बोध्यङ्गानि ।
आर्याष्टाङ्गो मार्गः इति ।
तत्र
[३८२।२४]
अनुत्पादक्षयज्ञाने बोधिः
[३८३।०१]
क्षयज्ञानमनुत्पादज्ञानं च ।
पुद्गलभेदेन तिस्रो बोधय उत्पद्यन्ते ।
[३८३।०१-३८३।०२]
श्रावकबोधिः प्रत्येकबोधिरनुत्तरा सम्यक्संबोधिरिति ।
[३८३।०२]
अशेषाविद्याप्रहाणात् ।
[३८३।०२-३८३।०३]
ताभ्यां स्वर्थस्य यथाभूत कृतापुनःकर्तव्यताववोधाच्च ।
[३८३।०४]
तादनुलोम्यतः ।
[३८३।०५]
सप्तत्रिंशत्तु तत्पक्ष्याः
[३८३।०६]
बोधेरनुलोमत्वाद्बोधिपक्ष्याः सप्तत्रिंशदुत्पद्यन्ते ।
[३८३।०७]
नामतो द्रव्यतो दश ॥ ६.६७ ॥
[३८३।०८]
दश द्रव्याणि सर्वे बोधिपक्ष्याः ।
कतमानि दश ।
[३८३।०९]
श्रद्धा वीर्यं स्मृतिः प्रज्ञा समाधिः प्रीत्युपेक्षणे ।
[३८३।१०]
प्रश्रब्धिशीलसंकल्पाः
[३८३।११]
इत्येतानि दश द्रव्याणि ।
कथं कृत्वा ।
[३८३।१२]
प्रज्ञा हि स्मृत्युपस्थितिः ॥ ६.६८ ॥
[३८३।१३]
वीर्यं सम्यक्प्रहाणाख्यमृद्धिपादाः समाधयः ।
[३८३।१४-३८३।१७]
प्रज्ञावीर्यसमाधिस्वभाधा हि स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः अत इन्द्रियाणि तावद्वलानि च नामग्राहिकया श्रद्धावीर्यस्मृतिसमाधिप्रज्ञाद्रव्याणि च स्मृत्युपस्थानानि धर्मप्रविचयसंबोध्यङ्गं सम्यगृष्टिश्च प्रज्ञैव ।
[३८३।१७]
सम्यक्प्रहाणानि वीर्यसंबोध्यङ्गं सम्यग्व्यायामश्च वीर्यमेव ।
[३८३।१७-३८३।१८]
ऋद्धिपादाः समाधिसम्बोध्यङ्गं सम्यक्समाधिश्च समाधिरेव ।
[३८३।१८-३८३।१९]
स्मृतिसंबोध्यङ्गं सम्यक्स्मृतिश्च स्मृतिरेव ।
[३८३।१९]
किमवशिष्यते ।
[३८३।१९-३८३।२०]
प्रीतिप्रस्रब्ध्युपेक्षसंबोध्यङ्गानि सम्यक्संकल्पः शीलाङ्गनि च ।
[३८३।२०-३८३।२१]
तान्येतानि पञ्च द्रव्याणि एवमेते बोधिपक्ष्या दश द्रव्याणि भवन्ति ।
[३८३।२१]
वैभषिकाणा मेकादश ।
[३८३।२१-३८४।०१]
कायवाक्कर्मणोरसंभिन्नत्वात्शीलाङ्गानि द्वे द्रव्ये इति ।
[३८४।०१-३८४।०२]
यत्त्वेतदुक्तं “प्रज्ञावीर्यसमाधिस्वभावाः स्मृत्युपस्थानादय” इति ।
[३८४।०२]
अत्र वेदितव्यम् ।
[३८४।०३]
प्रधानग्रहणं सर्वे गुनाः प्रायोगिकास्तु ते ॥ ६.६९ ॥
[३८४।०४]
प्रधानग्रहणेनैवमुक्तम् ।
[३८४।०४-३८४।०५]
सर्वे तु प्रायोगिका गुणाःः स्मृत्युपस्थानसम्यक्प्रहाणर्द्धिपादाः ।
[३८४।०५]
कस्माद्वीर्य सम्यक्प्रधानमुक्तम् ।
[३८४।०५-३८४।०६]
तेन सम्यक्कायवाङ्मनांसि प्रधीयन्ते ।
[३८४।०६]
समाधिः कस्मादृद्धिपाद उक्तः ।
तत्प्रतिष्ठत्वात्सर्वगुणसंपत्तेः ।
[३८४।०७]
ये त्वाहुः “समाधिरेवर्द्धिः पादाश्छन्दादय” इति ।
[३८४।०७-३८४।०८]
तेषां द्रव्यतस्त्रयोदश बोधिपक्ष्याः प्राप्नुवन्ति ।
[३८४।०८]
च्छन्दचित्तयोइराधिक्यात्सूत्रं च विरुध्यते ।
[३८४।०८-३८४।०९]
“ऋद्धिं च वो भिक्षवो दर्शयिष्यामि ऋद्धिपादांशच यावदृद्धिः कतमा ।
[३८४।०९-३८४।१०]
इह भिक्षुरनेकविधमृद्धिविषयं प्रत्यनुभवति ।
[३८४।१०]
एको भूत्वा बहुधा भवती”ति विस्तरः ।
[३८४।११]
कस्मादिन्द्रियाण्येव वलान्युक्तानि ।
मृद्वधिमात्रभेदादवमर्दनीयानवमर्दनीयत्वात् ।
[३८४।१२]
इन्द्रियाणां किङ्कृतोऽनुक्रमः ।
श्रद्दधानो हि फलार्थं वीर्यमारभते ।
[३८४।१२-३८४।१३]
आरब्धवीर्यस्य स्मृतिरूपतिष्ठते ।
[३८४।१३]
उपस्थितस्मृतेरविक्षेपाच्चित्तं समाधीयते ।
[३८४।१३-३८४।१४]
समाहितचित्तो यथाभूतं प्रजानातीति ।
[३८४।१५]
कस्यामवस्थायां कतमे ते बोधिपक्ष्याः प्रभाव्यन्ते ।
[३८४।१६-३८४।१७]
आदिकर्मिकनिर्वेधभागीयेषु प्रभाविताः ।
भावने दर्शने चैव सप्त वर्गा यथाक्रमम् ॥ ६.७० ॥
[३८४।१८]
आदिकर्मिकावस्थायां कायाद्युपलक्षणार्थं स्मृत्युपस्थानानि ।
[३८४।१८-३८४।१९]
विशेषाधिगमेन वीर्यसंबधंनादूष्मगतेषु सम्यक्प्रधानानि ।
[३८४।१९-३८४।२०]
अपरिहाणीयकुशलमूलप्रवेशत्वात्मूर्धष्वृद्धिपादाः ।
[३८४।२०]
अपुनःपरिहाणित आधिपत्यप्राप्तत्वात्क्षान्तिष्विन्द्रियाणि ।
[३८४।२१]
क्लेशानवमर्दनीयत्वाद्ग्रधर्मेषु बलानि लौकिकान्यधर्मानवमर्दनीयत्वाद्वा ।
[३८४।२१-३८४।२२]
बोध्यासन्नत्वात्भावनामार्गे बोध्यङ्गानि ।
[३८४।२२]
गमनप्रभावित्वाद्दर्शनमार्गे मार्गाङ्गानी ।
[३८४।२३]
तस्याशुगामित्वात् ।
संख्यानुपूर्वीविधानार्थं तु पूर्व सप्तोक्तानि पश्चादष्टौ ।
[३८४।२३-३८४।२५]
तत्र धर्मप्रविचयसंबोध्यङ्गं बोधिर्वोध्यङ्गं च सम्यग्दृष्टिर्मार्गो मार्गाङ्गं चेति वैभाषिकाः ।
[३८४।२५-३८४।२६]
अपरे पुनरभित्त्वैव क्रमं बोधिपक्ष्याणामानुपूर्वी वर्णयन्ति ।
[३८४।२६-३८५।०२]
“आदित एव तावद्वहुविधविषपव्यासेकविसारिणीनां बुद्धीनां निग्रहार्य स्मृत्युपस्थानानि चेतस उपनिबद्धानि भवन्ति यावदेव गर्धाश्रितानां स्मरसंकल्पानां प्रतिविनोदनाये”ति सूत्रे वचनात् ।
[३८५।०२-३८५।०३]
तद्वलेन वीर्यसंवर्धनाच्चतुर्विधकार्यसंपादनाय सम्यक्चित्तं प्रदधातीति सम्यक्प्रधानानि ।
[३८५।०३-३८५।०४]
ततः समाधिविशोधनादृद्धिपादाः ।
[३८५।०४]
समाधिसंनिश्रयेण लोकोत्तरधर्माधिपतिभूतानि श्रद्धादीनीन्द्रियाणि ।
[३८५।०५]
तान्येव च निर्जितविपक्षसमुदाचाराणि बलानि ।
दर्शनमार्गे बोध्यङ्गानि ।
[३८५।०६]
प्रहमतो धर्मतत्त्वावलोकातुभयोर्मार्गाङ्गानि ।
[३८५।०६-३८५।०७]
तथा ह्युक्तम् “आर्याष्टाङ्गे खलु मार्गे भावनापरिपूरि गच्छति ।
[३८५।०७-३८५।०८]
चत्वारि स्मृत्युपस्थानानि भावनापरिपूरिं गच्छन्ति यावत्सप्त बोध्यङ्गानी”ति ।
[३८५।०८-३८५।१०]
पुनश्चोक्तं “यथाभूतवचनारोचनमिति भिक्षवश्चतुर्णामार्यसत्यानामेतदधिवचनं यथागतेन मार्गेण प्रक्रमणमिति भिक्षो आर्याष्टाङ्गस्य मार्गस्यैतदधिवचनमि”ति ।
[३८५।१०-३८५।११]
तस्मादुभयोरार्याष्टाङ्गो मार्ग एष्टव्यः ।
[३८५।११]
सिद्धोऽनुक्रमः ।
[३८५।१२]
इदं तु वक्तव्यम् ।
[३८५।१२-३८५।१३]
कति बोधिपक्षा धर्माः सास्रवा इति कत्यनास्रवा इति ।
[३८५।१४]
अनास्रवाणि बोध्यङ्गमार्गाङ्गानि
[३८५।१५]
भावनादर्शनमार्ग योस्तद्वच्यवस्थापनात् ।
[३८५।१५-३८५।१६]
लौकिका अपि हि सम्यग्दृष्टच्यादयः सन्ति ।
[३८५।१६]
ते तु नार्यमार्गशब्दं लभन्ते ।
[३८५।१७]
द्विधेतरे ।
[३८५।१८]
अन्ये बोधिपक्षाः सास्रवाः ।
कस्यां भूमौ कति बोधिपक्षाः ।
[३८५।१९]
सकलाः प्रथमे ध्याने
[३८५।२०]
सर्वे सप्तत्रिंशत्प्रथमे ध्याने ।
[३८५।२१]
अनागम्ये प्रीतिवर्जिताः ॥ ६.७१ ॥
[३८५।२२]
कस्मादनागम्ये प्रीत्यभावः ।
[३८५।२२-३८५।२३]
सामन्तकानां बलवाहनीयत्वादधरभूमिसाशङ्कत्वाच्च ।
[३८६।०१]
द्वितीयेऽन्यत्र संकल्पात्
[३८६।०२]
द्वितीये ध्याने सम्यक्संकल्पवर्ज्याः षट्त्रिंशदेव ।
तत्र वितर्काभावात् ।
[३८६।०३]
द्वयोस्तद्द्वयवर्जिताः ।
[३८६।०४]
तृतीयचतुर्थयोर्ध्यानयोः प्रीतिसंकल्पाभ्यां वर्जिताः पञ्चत्रिंशत् ।
[३८६।०५]
ध्यानान्तरे च
[३८६।०६]
ताभ्यामेव द्वाभ्यां वर्जिताः पञ्चत्रिंशदेव ।
[३८६।०७]
शीलाङ्गैस्ताभ्यां च त्रिष्वरुपिषु ॥ ६.७२ ॥
[३८६।०८]
वर्जिता इति वर्तते ।
[३८६।०८-३८६।०९]
आरुप्येसु सम्यग्वाक्कर्मान्ताजीवैः प्रीतिसंकल्पाभ्यां च वर्जिता द्वात्रिंशत् ।
[३८६।१०]
कामधातौ भवाग्रे च बोधिमार्गाङ्गवर्जिताः ।
[३८६।११]
द्वार्विशतिर्बोधिपक्ष्यास्तयोरनास्रवमार्गाभावात् ।
[३८६।१२]
बोधिपक्षेषु वर्तमानस्य कस्यामवस्थायामवेत्यप्रसादलाभो वेदितव्यः ।
[३८६।१३]
त्रिसत्यदर्शने शीलधर्मावेत्यप्रसादयोः ॥ ६.७३ ॥
[३८६।१४]
लाभो मार्गाभिसमये बुद्धतत्संघयिओरपि ।
[३८६।१५-३८६।१६]
दुःखसमुदयनिरोधसत्यान्यभिसमयन् धर्मे चावेत्यप्रसादमार्यकान्तानि च शीलानि प्रतिलभते ।
[३८६।१६-३८६।१७]
मार्गसत्यमभिसमयन् बुद्धे तस्य च श्रावकसंघेऽवेत्यप्रसादं प्रतिलभेते ।
[३८६।१७-३८६।१८]
यो हि तयोः प्रसादः सोऽशैक्ष्येषु बुद्धकरकेषु धर्मेषु शैक्षायाशैक्षेषु च संघकरकेषु प्रसादः ।
[३८६।१८]
अपि शब्दाच्छीलधर्मावेत्यप्रसादौ च प्रतिलभते ।
[३८६।१९]
कोऽयमिह धर्मोऽभिप्रेतः ।
[३८७।०१]
धर्मः सत्यत्रयं बोधिसत्त्वप्रत्येकबुद्धयोः ॥ ६.७४ ॥
[३८७।०२]
मार्गश्च
[३८७।०३]
अतश्चत्वर्यपि सत्यान्यभिसमयतो धर्मावेत्यप्रसादलाभः ।
[३८७।०३-३८७।०४]
त एते श्रद्धाधिष्ठानभेदान्नामतश्चत्वारोऽवेत्यप्रसादा उच्यन्ते ।
[३८७।०५]
द्रव्यतस्तु द्वे श्रद्धा शीलं च
[३८७।०६-३८७।०७]
बुद्धधर्मसंघावेत्यप्रसादाः श्रद्धास्वभावाः आर्यकान्तानि च शीलानि शीलमिति द्वे द्रव्ये भवतः ।
[३८७।०७]
किं पुनरेते सास्रवानास्रवा एकान्तेनावेत्यप्रसादाः ।
[३८७।०८]
निर्मला ।
[३८७।०९]
अवेत्यप्रसादा इति कोऽर्थः ।
यथाभूतसत्यान्यवबुध्य संप्रत्ययोऽवेत्यप्रसादः ।
[३८७।१०]
यथा च व्युत्थितः संमुखीकरोति तथैषामानुपूर्वीम् ।
[३८७।१०-३८७।११]
कथं व्युत्थितः संमुखी करोति ।
[३८७।११-३८७।१२]
सम्यक्संबुद्धो वत भगवान् स्वाख्यातोऽस्य धर्मविनयः सुप्रतिपन्नोऽस्य श्रावकसंघ इति वैद्यभैषज्योपस्थापकभूतत्वात् ।
[३८७।१२-३८७।१३]
चित्तप्रसादकृतश्च शीलप्रसाद इत्युच्यते चतुर्थ उक्तः ।
[३८७।१३]
एवं प्रसन्नस्यैषा प्रतिपत्तिरिति ।
[३८७।१४]
आरोग्यभूतत्वाद्वा देशिक मार्ग सार्थिकयानवद्वा ।
[३८७।१४-३८७।१५]
सूत्र उक्त”मष्टाभिरङ्गै समन्वागतः शैक्षो दर्शभिरङ्गैः समन्वागतोऽशैक्ष” इति ।
[३८७।१५-३८७।१६]
कस्माच्छैक्षस्य सम्यक्विमुक्तिः सम्यग्ज्ञानं च नोक्तम् ।
[३८७।१७]
नोक्ता विमुक्तिः शैक्षाङ्ग बद्धत्वात् ।
[३८७।१८]
बद्धो हि शैक्षः क्लेशबन्धनैरद्यापीति ।
[३८७।१८-३८७।१९]
कथं बद्धस्यैव सतो विमुक्तिर्व्यवस्थाप्येत ।
[३८७।१९]
न हि बन्धनैकदेशान्मुक्तो मुक्त इत्युच्यते ।
[३८७।१९-३८७।२०]
बिना च विमुक्तच्या कथं विमुक्तिज्ञानं व्यवस्थाप्यते ।
[३८७।२०-३८७।२१]
अशैक्षस्तु सर्वक्लेशबन्धनात्यन्तनिर्मोक्षाद्विमुक्तितत्प्रत्यात्मज्ञानाभ्यां प्रभावित इति तस्यैव तद्वचनं न्याय्यम् ।
[३८८।०१]
केयं विमुक्तिर्नाम ।
[३८८।०२]
सा पुनर्द्विधा ॥ ६.७५ ॥
[३८८।०३]
संस्कृता चासंस्कृता च ।
तत्र ।
[३८८।०४]
असंस्कृता क्लेशहानमधिमुक्तस्तु संस्कृता ।
[३८८।०५]
क्लेशप्रहाणमसंस्कृता विमुक्तिः ।
अशैक्षाधिमोक्षः संस्कृता विमुक्तिः ।
[३८८।०६]
साङ्गः
[३८८।०७]
सैवासंस्कृता विमुक्तिरशैक्षाङ्गयुक्ता ।
अङ्गानां संस्कृतत्वात् ।
[३८८।०८]
सैव विमुक्ती द्वे
[३८८।०९]
सैव संस्कृता विमुक्तिर्द्वे विमुक्ती सूत्र उक्ते ।
[३८८।०९-३८८।१०]
चेतो विमुक्तिः प्रज्ञाविमुक्तिश्च ।
[३८८।१०]
विमुक्तिस्क्न्धोऽपि स एव द्रष्ट्टव्यः ।
[३८८।१०-३८८।११]
यत्तर्हि सूत्र उक्तं “कतमच्च व्याग्राबोध्यायना विमुक्तिपरिशुद्धिप्रधानम् ।
[३८८।११-३८८।१३]
इह भिक्षवो रागाच्चित्तं विरक्तं भवति विमुक्तं द्वेषान्मोहाच्चित्तं विरक्तं भवति विमुक्तमित्यपरिपूर्णस्य वा विमुक्तिस्कन्धस्य परिपूरये परिपूर्णस्य चानुग्रहाय च्छन्दोवीर्यमि”ति विस्तरः ।
[३८८।१४]
तस्मानाधिमोक्ष एव विमुक्तिः ।
किं तर्हि ।
[३८८।१४-३८८।१५]
तत्त्वज्ञानापनीतेषु रागादिषु चेतसो वैमल्यं विमुक्तिरित्यपरे ।
[३८८।१५]
उक्ता विमुक्तिः ।
[३८८।१६]
सम्यग्ज्ञानं तु सम्यग्दृष्टिः ।
व्यतिरिक्तं कतमत् ।
[३८८।१७]
ज्ञानं बोधिर्यथोदिता ॥ ६.७६ ॥
[३८८।१८]
यैव हि पूर्वं बोधिरुक्ता सैवेह सम्यग्ज्ञानं वेदितव्यम् ।
[३८८।१८-३८८।१९]
यदुत क्षयज्ञानमनुत्पादज्ञानं च ।
[३८८।२०]
कतमत्पुनश्चित्तं विमुच्यते किमतीतमनागतं प्रत्युत्पन्नम् ।
[३८८।२१-४३८।८२१]
विमुच्यते जायमानसशैक्षं चित्तमावृतेः ।
[३८९।०१]
“अनागतं चित्तमुत्पद्यमानं विसुच्यते अशैक्षमावरणेभ्य” इति शास्त्रपाठः ।
[३८९।०२]
किं पुनस्तस्यावरणम् ।
क्लेशप्राप्तिस्तदुत्पत्तिविवन्धत्वात् ।
[३८९।०२-३८९।०३]
वज्रोपमे हि समाधो स च प्रहीयते ।
[३८९।०३]
तच्चोत्पद्यमानमशैक्षं चित्तं विमुच्यते ।
सा च प्रहीणा भवति ।
[३८९।०४]
तचाशैक्षं चित्तमुत्पन्नं विमुक्तं च ।
यत्तर्हि नोत्पद्यमानं लौकिकं च ।
[३८९।०४-३८९।०५]
तदपि विमुच्यते ।
[३८९।०५]
यत्तु नियतमुत्पत्तौ तदेवोक्तम् ।
[३८९।०५-३८९।०६]
लौकिकं कुतो विमुच्यते ।
[३८९।०६]
तत एवोत्पत्त्यावरणात् ।
[३८९।०६-३८९।०७]
ननु चामुक्तस्यापि शैक्षस्य लौकिकमुत्पद्यते न तत्तादृशम् ।
[३८९।०७]
कीदृशं तत् ।
क्लेशप्राप्तिसहितम् ।
[३८९।०७-३८९।०८]
किमवस्थो मार्गस्तदुत्पत्त्यावरणं प्रजहाति ।
[३८९।०९]
निरुध्यमानो मार्गस्तु प्रजहाति तदावृतिम् ॥ ६.७७ ॥
[३८९।१०]
वर्तमान इत्यर्थः ।
[३८९।११-३८९।१२]
या चासंस्कृता विमुक्तिरुक्ता ये च त्रयोधातव उच्यन्ते प्रहाणधातुर्विंरागधातुनिरोधधातुरिति ।
[३८९।१२]
क एषां विशेषः ।
[३८९।१३]
असंस्कृतैव धात्वाख्या
[३८९।१४]
सैवासंस्कृता विमुक्तिस्त्रयो धातवः ।
तत्र पुनः
[३८९।१५]
विरागो रागसंक्षयः ।
[३८९।१६]
रागस्य प्रहाणं विरागधातुः ।
[३८९।१७]
प्रहाणधातुरन्येषाम् ।
[३८९।१८]
संक्षय इति वर्तते ।
रागादन्येषां क्लेशानां प्रहाणं प्रहाणधातुः ।
[३८९।१९]
निरोधाख्यस्तु वस्तुनः ॥ ६.७८ ॥
[३८९।२०]
संक्षय इत्येवानुवर्तते ।
क्लेशनिर्मुक्तस्य वस्तुनः प्रहाणं निरोधधातुः ।
[३८९।२१]
येन वस्तु निर्विद्यते विरज्यतेऽपि तेन वस्तुना ।
चतुष्कोटिकम् ।
कथं कृत्वा ।
[३९०।०१]
निर्विद्यते दुःखहेतुक्षान्तिज्ञानैः
[३९०।०२]
दुःखे समुदयक्षान्तिज्ञानैरेव निर्विद्यते नान्यैः ।
[३९०।०३]
विरज्यते ।
[३९०।०४]
सर्वैर्जहाति यैः
[३९०।०५]
सर्वैरपि दुःखसमुदयनिरोधमार्ग क्षान्तिज्ञानैर्विरज्यते ।
[३९०।०५-३९०।०६]
यैः क्लेशान् प्रजहाति ।
[३९०।०७]
एवं चतुष्कोटिकसंभवः ॥ ६.७९ ॥
[३९०।०८]
एवं चतुष्कोतिकं सिध्यति ।
निर्विद्यत एव दुःखसमुदयक्षान्तिज्ञानैः ।
[३९०।०९]
क्लेशान् प्रजहत्निर्वेदवस्त्वालम्बनत्वात् ।
[३९०।०९-३९०।१०]
विरज्यत एव निरोधमार्गक्षान्तिज्ञानैः क्लेशान् प्रजहत् ।
[३९०।१०]
प्रामोद्यवस्त्वालम्बनत्वात् ।
[३९०।१०-३९०।११]
उभयं पूर्वैः क्लेशान् प्रजहत् ।
[३९०।११]
नोभयमुत्तरैः क्लेशानप्रजहदिति ।
[३९०।११-३९०।१२]
तत्र वीतरागः सत्यानि पश्यन्धर्मज्ञानक्षान्तिभिः क्लेशान्न प्रजहाति ।
[३९०।१२-३९०।१३]
ज्ञानैस्तु प्रयोगविमुक्तिविशेषमार्गसंगृहीतैर्न प्रजहातीति ।
[३९०।१४-३९०।१५]
अभिधर्मकोशभाष्ये मार्गपुद्गलनिर्देशो नाम षष्ठं कोशस्थानं समाप्तमिति
[३९०।१६]
॥श्री लामावाकस्य यदत्र पुण्यम् ॥
सप्तमं कोशस्थानम्
=====================================================================
नमो बुद्धाय
=====================================================================
[३९१।०२]
क्षान्तयश्चोच्यन्ते ज्ञानानि च सम्यग्दृष्टिः सम्यग्ज्ञानं च ।
[३९१।०३]
किं पुनः क्षान्तयो न ज्ञानं सम्यग्ज्ञानं च न दृष्टिः ।
[३९१।०४]
नामला क्षान्तयो ज्ञानं
[३९१।०५]
तत्प्रहेयस्य विचिकित्साऽनुशयस्याग्रहीणत्वात् ।
[३९१।०५-३९१।०६]
दृष्टयस्तु ता सन्तिरणात्मकत्त्वात्यथा च क्षान्तयो दृष्टिर्न ज्ञानमेवं पुनः
[३९१।०७]
क्षयानुत्पादधीर्न दक् ।
[३९१।०८]
क्षयानमनुत्पादज्ञानं च न दृष्टिरसन्तीरणापरिमार्गणाशयत्वात् ।
[३९१।०९]
तद्न्योभयथार्या धीः
[३९१।१०]
क्षान्तिक्षयानुत्पादज्ञानेभ्योऽन्याऽनास्रवा प्रज्ञा दृष्टिः ज्ञानं च ।
[३९१।११]
अन्या ज्ञानं
[३९१।१२]
लौकिकी प्रज्ञा सर्वैव ज्ञानम् ।
[३९१।१३]
दृशश्च षट् ॥ ७.१ ॥
[३९१।१४]
पञ्च दृष्टयो लौकिकी च सम्यग्दृष्टिः ।
[३९१।१४-३९१।१५]
एषा षड्विधा लौकिकी प्रज्ञादृष्टिः अन्या न दृष्टिः ।
[३९१।१५]
ज्ञानं त्वेषा चान्या च ।
कियता सर्वज्ञानसंग्रहः ।
दशभिर्ज्ञानैः ।
[५९१।१६]३९११६]
समासेन तु
[३९१।१७]
सास्रवानास्रवं ज्ञानं
[३९१।१८]
तयोः पुनः
[३९१।१९]
आद्यं संवृतिज्ञापकम् ।
[३९२।०१]
यत्सास्रवं तत्संवृतिज्ञानम् ।
प्रायेण घटपटस्त्रीपुरुषादिसंवृतिग्रहात् ।
[३९२।०१-३९२।०२]
अज्ञानसंवृतत्वातित्यपरे ।
[३९२।०३]
अनास्रवं द्विधा धर्मज्ञानमन्वयमेव च ॥ ७.२ ॥
[३९२।०४]
अनास्र्वं ज्ञानं द्विधा भिद्यते ।
धर्मज्ञानमन्वयज्ञानं च ।
[३९२।०४-३९२।०५]
एवगेते द्वे ज्ञाने त्रीणि भवन्ति ।
[३९२।०५]
संवृतिज्ञानं धर्मज्ञानं च ।
तत्र
[३९२।०६]
सांवृतं सर्वविषयं
[३९२।०७]
संवृतिज्ञानस्य सर्वधर्माः सष्कृतासंस्कृता आलम्बनं संभवतः ।
[३९२।०८]
कामदुःखदिगोचरम् ।
[३९२।०९]
धर्मख्यम्
[३९२।१०]
धर्मज्ञानस्य कामावचरं दुखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् ।
[३९२।११]
अन्वयज्ञानं तूर्ध्वदुःखादिगोचरम् ॥ ७.३ ॥
[३९२।१२]
अन्वयज्ञानस्य रूपारुप्यावचरं दुःखं तत्समुदयनिरोधप्रतिपक्षाश्चालम्बनम् ।
[३९२।१३]
ते एव सत्यभेदेन चत्वारि
[३९२।१४]
ते एव धर्मज्ञानान्वयज्ञाने सत्यभेदेन पुनश्चत्वारि ज्ञानानि भवन्ति ।
[३९२।१४-३९२।१५]
दुःखसमुदयनिरोधमार्गज्ञानानि ।
[३९२।१५]
तदालम्बनत्वात् ।
[३९२।१६]
एते चतुर्विधे ।
[३९२।१७]
अनुत्पादक्षयज्ञाने
[३९२।१८-३९२।१९]
एते एव धर्मज्ञानान्वयज्ञाने चतुर्विधे अदृष्टिस्वभावे क्षयज्ञानमनुत्पादज्ञानं चोच्यते ।
[३९२।२०]
ते पुनः प्रथमोदिते ॥ ७.४ ॥
[३९३।०१]
दुःखहेत्वन्वयज्ञाने
[३९३।०२-३९३।०३]
प्रथमोत्पन्ने तु क्षयज्ञानानुत्पादज्ञाने दुःखसमुदयान्वयज्ञाने दुःखसमुदयाकारैर्भावाग्रिकस्कन्धालम्बनत्वात् ।
[३९३।०३]
किं खलु वज्रोपमोऽपि ताभ्यामेकालम्वनोऽस्ति ।
[३९३।०४]
यदि दुःखसमुदयालम्वनो भवति ।
अथ निरोधमार्गालम्बनो नैकालम्बनः ।
[३९३।०५]
चतुर्भ्यः परचित्तवित् ।
[३९३।०६]
वेत्तीति वित्ज्ञानम् ।
परचित्तज्ञानं चतुर्भ्यो ज्ञानेभ्यो द्रष्टव्यम् ।
[३९३।०६-३९३।०७]
धर्मान्वयज्ञानमार्गः संवृतिज्ञानेभ्यः ।
[३९३।०७]
तस्य पुनरयं नियमः
[३९३।०८]
भूम्यक्षपुद्गलोत्क्रान्तं नष्टाजातं न वेति तत् ॥ ७.५ ॥
[३९३।०९]
भूम्यतिक्रान्तं न जानातीति ।
[३९३।०९-३९३।१०]
अधरध्यानभूमिकेनोत्तरध्यानभूमिकमिन्द्रियातिक्रान्तं न जानाति ।
[३९३।१०-३९३।११]
श्रद्धाधिमुक्तसमयमुक्तमार्गेण दृष्टिप्राप्तासमयविमुक्तार्ग पुद्गलोत्क्रान्तं न जानाति ।
[३९३।११-३९३।१२]
अनागाम्यहञ्च्छावक प्रत्येकबुद्धबुद्धमार्ग्गणामधरेणोत्तरं नष्टाजातं न जानाति ।
[३९३।१२-३९३।१३]
अतीतानागतं वर्तमानपर चित्तचैत्तविषयत्वात् ।
[३९३।१३]
किं च भूयः
[३९३।१४]
त धर्मान्वयधीपक्ष्यमन्योऽन्यं
[३९३।१५]
धर्मज्ञानपक्ष्यं परचित्तज्ञानमन्वयज्ञानपक्ष्यं चित्तं न जानाति ।
[३९३।१५-३९३।१६]
अन्वयज्ञानपक्ष्यं च धर्मज्ञानपक्ष्यं न जानाति ।
[३९३।१६]
कामधातुर्ध्वधातुप्रतिक्षालम्बनत्वात्तयोः ।
[३९३।१६-३९३।१७]
दर्शनमार्गे परचित्तज्ञानं नास्ति ।
[३९३।१७]
तदालम्बनं त्वस्ति ।
[३९३।१७-३९३।१८]
तत्र परचित्तज्ञानेन दर्ज्ञनमार्ग ज्ञातुकामः प्रयोगं कृत्वा प्रथमौ
[३९३।१९-३९३।२०]
दर्शनक्षणौ ।
श्रावको वेत्ति खङ्गस्त्रीन् सर्वान्बुद्धोऽप्रयोगतः ॥ ७.६ ॥
[३९३।२१]
श्रावको दर्शनमार्गात्परचित्तज्ञानेन द्वौ क्षणौ जानाति ।
[३९३।२१-३९३।२२]
दुःखे धर्मज्ञानक्षान्तिं धर्मज्ञानं च ।
[३९३।२२]
अन्वयज्ञानपक्षालम्बनस्यान्यप्रयोगसाध्यत्वात् ।
[३९३।२२-३९४।०१]
यावच्च स तत्र प्रयोगमार मते तावदयं षोडशचित्तमनुप्राप्तो भवतीत्यन्तरा न जानाति ।
[३९४।०१-३९४।०२]
प्रत्येकबुद्धस्त्रीन् क्षणान् ।
[३९४।०२]
प्रथमौ च द्वावष्टमं च समुदयान्वयज्ञानं मृदुप्रयोगत्वात् ।
[३९४।०३]
प्रथमद्वितीयपञ्चदशानित्यपरे ।
[३९४।०३-३९४।०४]
बुद्धस्तु सर्वानेव दर्शनमार्गक्षणानप्रयोगेण जानाति ।
[३९४।०५]
अथ क्षयज्ञानानुत्पादज्ञानयोः को विशेषः ।
[३९४।०६-३९४।०७]
क्षयज्ञानं हि सत्येषु परिज्ञातादिनिश्चयः ।
न परिज्ञेयमित्यादिरनुत्पादमतिर्मता ॥ ७.७ ॥
[३९४।०८]
क्षयज्ञानं कतमत् ।
दुःखं मे परिज्ञातमिति जानाति ।
[३९४।०८-३९४।०९]
समुदयः प्रहीणो निरोधः साक्षातकृतो मार्गो भावित इति जानाति ।
[३९४।०९-३९४।१०]
तदुपादाय यत्ज्ञानं दर्शनं विद्या बुद्धिर्बोधिः प्रज्ञा आलोकोऽभिसमयमिदमुच्यते क्षयज्ञानम् ।
[३९४।१०-३९४।११]
अनुत्पादज्ञानं कतमत् ।
[३९४।११-३९४।१२]
दुःखं मे परिज्ञातं न पोउनः परिज्ञेयमिति जानाति यावत्मार्गो भावितो न पुनर्भावयितव्य इति ।
[३९४।१२]
तदुपादाये”ति विस्तरेणोक्तं शास्त्रे ।
[३९४।१२-३९४।१३]
कथमनास्रवेण ज्ञानेनैवं जानाति ।
[३९४।१३]
तत्पृष्ठलब्धेन व्युत्थित एवं जानाति ।
[३९४।१३-३९४।१४]
अतस्तद्विशेषेण तयोर्विशेषः ।
[३९४।१४]
शास्त्रे ज्ञापिओत इति काश्मीराः ।
[३९४।१४-३९४।१५]
अनास्रवेणाप्येवं जानातीत्यपरे दर्शनवचनं तु भाष्याक्षेपात् ।
[३९४।१५]
ज्प्रत्यक्षवृत्तित्वाद्वा ।
[३९४।१५-३९४।१६]
अत एवोक्तं “यावत्ज्ञानं दर्शनमपि तदि”ति ।
[३९४।१६-३९४।१८]
इत्येतानि दश ज्ञानानि भवन्ति यदुत धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं दुःखज्ञानं समुदयञ्ण्यानं निरोधज्ञानं मार्गज्ञानं परचित्तज्ञानं क्षयज्ञानमनुत्पादज्ञानं च ।
[३९४।१८-३९४।१९]
तत्र संवृतिज्ञानमेकं ज्ञानमेकस्य च भागः ।
[३९४।१९]
धर्मज्ञानमेकं ज्ञानं सप्तानां च भागः ।
[३९४।१९-३९४।२०]
दुःखसमुदयनिरोधमार्ग क्षयानुत्पादपरचित्तज्ञानानाम् ।
[३९४।२०]
एवमन्वयज्ञानम् ।
[३९४।२०-३९४।२१]
दुःखज्ञानमेकं ज्ञानं चतुर्णा च भागः ।
[३९४।२१]
धर्मान्वयक्षयानुत्पादज्ञानानाम् ।
एवं समुदयनिरोधज्ञाने चतुर्णां भागः ।
[३९४।२२]
मार्गज्ञानमेकं ज्ञानं पञ्चानां च भागः ।
चतुर्णामनन्तरोक्तानां परचित्तस्य च ।
[३९४।२३]
परचित्तज्ञनमेकं ज्ञानं चतुर्णां च भागः ।
धर्मान्वयमार्ग संवृतिज्ञानानाम् ।
[३९४।२४]
क्षयज्ञानमेकं ज्ञानं षण्णां च भागः ।
धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानाम् ।
[३९४।२५]
एवमनुत्पादज्ञानम् ।
[३९४।१६-३९४।२६]
कस्मात्पुनरेतानि वीणि सन्ति दश व्यवस्थाप्यन्ते ।
[३९५।०१-३९५।०२]
स्वभावप्रतिपक्षान्यामाकाराकारगोचरात् ।
प्रयोगकृतकृत्यत्वहेतूपचयोतो दश ॥ ७.८ ॥
[३९५।०३]
सप्तभिः किल कारणैर्दश ज्ञानानि व्यवस्थाप्यन्ते ।
[३९५।०३-३९५।०४]
स्वभावतः संवृतिज्ञानमपरमार्थज्ञानत्वात् ।
[३९५।०४]
प्रतिपक्षतो धर्मान्वयज्ञाने ।
कामथातुर्ध्वधातुप्रतिपक्षत्वात् ।
[३९५।०५]
आकारतो दुःखसमुदयज्ञाने ।
आलम्बनाभेदात् ।
[३९५।०५-३९५।०६]
आकारालम्बनतो निरोधमार्गज्ञाने ।
[३९५।०६]
आकारालम्बनभेदात् ।
प्रयोगतः परचित्तज्ञानम् ।
न हि तेन चैत्ता न ज्ञायते ।
[३९५।०७]
चित्तज्ञानार्थे तु प्रयुक्तस्याभिनिष्पत्तेः परचित्तज्ञानमुक्तम् ।
[३९५।०७-३९५।०८]
कृतकृत्यतः क्षयज्ञानं कृतकृत्यसंतानोत्पत्तेः ।
[३९५।०८-३९५।०९]
प्रथमतः हेतूपचयतोऽनुत्पादज्ञानं सर्वानास्रवहेतुकत्वादिति ।
[३९५।१०]
सकलस्य सकलप्रतिपक्षत्वात्कामधातुप्रतीपक्षो धर्मज्ञानमित्युक्तम् ।
[३९५।११]
अपि तु
[३९५।१२]
धर्मज्ञाननिरोधे यन्मार्गे वा भावनापथे ।
[३९५।१३]
त्रिधातुप्रतिपक्षस्तत्
[३९५।१४]
निरोधमार्गज्ञाने भावनामार्गसंगृहीते त्रिधातुप्रतिपक्षः ।
[३९५।१५]
कामधातोस्तु नान्वयम् ॥ ७.९ ॥
[३९५।१६]
अन्वयज्ञानं तु सर्वथा नास्ति कामधातुपोरतिपक्षः
[३९५।१७]
एषां दशानां ज्ञानानां
[३९५।१८]
धर्मज्ञानान्वयज्ञानं षोड्डशाकारम्
[३९५।१९]
तान् पुरस्तादुपदेक्ष्यामः ।
[३९५।२०]
अन्यथा ।
[३९५।२१]
तथा च सांवृतं
[३९५।२२]
संवृतिज्ञानं षोडशाकारमन्यथाकारं च सर्वधर्माणां स्वसामान्यलक्षणादिग्रहणात् ।
[३९५।२३]
स्वैः स्वैः सत्याकारैश्चतुष्टयम् ॥ ७.१० ॥
[३९६।०१-३९६।०२]
दुःखसमुदयनिरोधमार्ग ज्ञानानि स्वैः स्वैः सत्याकारैः प्रवर्तन्त इत्येकैकं चतुराकारं भवन्ति ।
[३९६।०३]
तथा परमतोज्ञानं निर्मलं
[३९६।०४]
अनास्रवं परचित्तज्ञानं तथेव ।
स्वसत्याकारत्वाच्चुतुराकारं मार्गज्ञानत्वात् ।
[३९६।०५]
समलं पुनः ।
[३९६।०६]
शेयस्वलक्षणाकारं
[३९६।०७]
सास्रवं परचित्तज्ञानं ज्ञेयानां चित्तचैत्तानां यत्स्वलक्षणं तदाकारयति ।
[३९६।०८]
स्वलक्षणग्राहकत्वात् ।
लभयमपि तु
[३९६।०९]
एकैकद्रव्यगोचरम् ॥ ७.११ ॥
[३९६।१०-३९६।११]
यदा चित्तं गृह्लाति न तदा चित्तानां यदा वेदनां न तदा संज्ञामित्येवमादि ।
[३९६।११-३९६।१२]
यत्तर्हि भगवतीक्तम् “सरागं चित्तं सरागं चित्तमिति यथाभूतं प्रजानाती”त्येवमादि ।
[३९६।१२]
न तयोर्दुगपद्ग्रहणम् ।
वस्त्रमलायुगापद्ग्रहणवत् ।
[३९६।१२-३९६।१३]
सरागं चित्तमिति द्विधा सरागता ।
[३९६।१३]
संसृष्टसरागता संयोइग सरागता च ।
[३९६।१३-३९६।१४]
तत्र सरागं संप्रयुक्तं चित्तं द्वाभ्यां सरागं ततोऽन्यत्सास्रवं संयोगसरागतया सरागम् ।
[३९६।१४-३९६।१५]
अत्र तु सूत्रे रागसंप्रयुक्तं सरागं रागप्रतिपक्षी विगतरागमित्येके ।
[३९६।१५-३९६।१६]
यदि हि रागेणासंप्रयुक्तं विगतरागं स्यादन्यक्लेशसम्प्रयुक्तमपि स्यात् ।
[३९६।१६-३९६।१७]
एवं तर्हि तदप्रतिपक्षः सास्रवं चित्तमक्लिष्टं नैव सरागं न विगतरागं स्यादित्येवमादि ।
[३९६।१७-३९६।१८]
तस्माद्रागसंप्रयुक्ततयाऽपि सरागं चित्तमत्रेष्टव्यमित्यपरे ।
[३९६।१८-३९६।१९]
एवं यावत्समोहं विगतमोहं च वेदितव्यम् ।
[३९६।१९]
संक्षिप्तं कुशलमालम्बनाभिसंक्षेपात् ।
[३९६।१९-३९६।२०]
विक्षिप्तं क्लिष्टं विक्षेपसंप्रयोगात् ।
[३९६।२०]
संक्षिप्तं मिद्धसंप्रयुक्तं विक्षिप्तमन्यत क्लिष्टमिति पाश्चात्त्याः ।
[३९६।२१]
तदेतन्न वर्णयन्ति ।
तदेव हि चित्तं संक्षिप्तविक्षिप्तं स्यात्क्लिष्टमिद्धसंप्रयीगात् ।
[३९६।२२]
शास्त्रविरोधश्च स्यात् ।
“संक्षिप्तं चित्तं यथाभूतं प्रजानाति ।
[३९६।२२-३९६।२३]
तज्ज्ञानं चत्वारि ज्ञानानि धर्मज्ञानमन्वयज्ञानं संवृतिज्ञानं मार्गज्ञानमि”ति ।
[३९६।२४]
लीनं चित्तं क्लिष्टं कौशीद्यसंप्रयोगात् ।
प्रगृहीतं कुशलं वीर्यसंप्रयोगात् ।
[३९६।२४-३९६।२५]
परीतां क्लिष्टं व्यवदानपरीत्तैर्निषेवितत्वात् ।
[३९६।२५]
महद्गतं कुशलं तद्विपर्ययात् ।
[३९६।२५-३९७।०१]
मूलमूल्यपरिवारानुपरिवर्तकवलाल्पवहुत्वाच्च ।
[३९७।०१-३९७।०२]
क्लिष्टचित्तं द्वाभ्यामकुशलमूलाभ्यां समुलम् ।
[३९७।०२]
कुशलं त्रिभिः कुशलमूलैः ।
क्लिष्टमल्पमूल्यमयत्न-साध्यत्वात् ।
[३९७।०३]
कुशलं भुमूल्यं वहाभिसंस्कारसाध्यत्वात् ।
[३९७।०३-३९७।०४]
क्लिष्टं तज्जातीयानागतभावनाऽभावान्न महापरिवारं त्रिभिश्च स्कन्धैः सानुपरिवर्तम् ।
[३९७।०४-३९७।०५]
कुशलं तु महापरिवारं चतुर्भिश्च स्कन्धैः सानुपरिवर्तम् ।
[३९७।०५-३९७।०६]
अल्पबलं खल्वपि क्लिष्टं बहुबलं कुशलम् ।
[३९७।०६]
एकया हि दुःखे धर्मज्ञानक्षान्त्या दशानुशयात्यन्तसमुद्घातः क्रियते ।
[३९७।०७]
तस्मादपि क्लिष्टं परीत्तं कुशलं महद्गतम् ।
उद्धतं क्लिष्टमौद्धत्यसंप्रयोगात् ।
[३९७।०८]
अनुद्धतं कुक्शलं तत्प्रतिपक्षत्वात् ।
एवमब्युपशान्त्ं व्युपशान्तं च ।
[३९७।०८-३९७।०९]
असमाहितं क्लिष्टं विक्षेपसंप्रयोगात् ।
[३९७।०९]
समाहितं कुशलं तत्प्रतिपक्षत्वात् ।
[३९७।०९-३९७।१०]
अभावितं क्लिष्टं प्रतिलम्भतिषेवणभावनाभ्यामभावितत्वात् ।
[३९७।१०-३९७।११]
भावितं कुशलं ताभ्यां भावितत्वात्विमुक्तं क्लिष्टं स्वभावसंतानविमुक्तिभ्यामविमुक्तत्वात् ।
[३९७।१२]
विमुक्तं कुशलं ताभयं विमुक्तत्वादिति वैभाषिकाः ।
एवं तु सूत्रं नानुलोमितं भवति ।
[३९७।१३]
एषां च पदानां नार्थविशेष उक्तो भवति ।
[३९७।१३-३९७।१४]
सूत्र उक्तं “कथं चित्तमध्यात्मं संक्षिप्तं भवति ।
[३९७।१४-३९७।१५]
यच्चित्तं स्त्यानमिद्धसहगतमध्यात्मं संनिरोधसहगतं नो तु विपश्यनया समन्वागतम् ।
[३९७।१५-३९७।१६]
कथं वहिर्विक्षिप्तं भवति ।
[३९७।१६]
यच्चित्तं पञ्चसु कामगुणेष्वनुविक्षिप्तं भवत्यनुविसृतमि”ति ।
[३९७।१६-३९७।१७]
ननु चोक्तं तदेव चित्तं संक्षिप्तं स्याद्विक्षिप्तं चेति ।
[३९७।१७-३९७।१८]
उक्तमिदमयुक्तं तूक्तं विद्धसहगतस्य क्लिष्टस्य विक्षिप्तत्वाप्रतिज्ञानात् ।
[३९७।१८]
ननु चोक्तं शास्त्रविरोधः स्यादिति ।
[३९७।१८-३९७।१९]
वरं शास्त्रविरोधो न सूत्रविरीधः ।
[३९७।१९]
कथमेषां पदानां नार्थविशेष उक्तो भवति ।
[३९७।२०-३९७।२१]
विक्षिप्तलिलिनोद्धताव्युपशान्तासमाहिताभाविताविमुक्तानां चित्तानामभिन्नलक्षणवचनात्संक्षिप्तप्रगृहीतादीनां च ।
[३९७।२१]
न वै नोक्तः पदानामर्थविशेषो भवति ।
[३९७।२१-३९७।२२]
क्लिष्टसामान्येऽपि तद्दोषसंदर्शनात् ।
[३९७।२२-३९७।२३]
इत्यप्येतत्क्लिष्टं चित्तं विक्षिप्तं लीनमिति विस्तरः ।
[३९७।२३-३९७।२४]
एवं कुशलस्यापि गुणविशेषसंदर्शनादुक्त एवर्थविशेषो भवति ।
[३९७।२४]
सूत्रविरोधस्यापरिहारान्नैष एषां पदानामर्थः ।
[३९७।२४-३९७।२५]
यदि च सूत्रे तदेव लीनं चित्तं तदेवोद्धतमित्यभिप्रेतं स्यातिदं नोक्तं स्यात् ।
[३९७।२५-३९७।२७]
“यस्मिन्समये लीनं चित्तं भवति लयाभिर्शङ्क वा अकालस्तस्मिन्समये प्रस्रब्धिसमाध्युपेक्षासंवोध्यङ्गानां भावनायाः ।
[३९७।२७-३९७।२८]
यस्मिन्सगये उद्धातं चित्तं भवति औद्धत्याभिशङ्कि वा अकालस्तस्मिन्समये धर्मविचयवीर्यप्रीतिसंवोध्यङ्गानां भावनाया” इति ।
[३९७।२८-३९८।०१]
किं पुनर्वोध्यङ्गानां व्यग्रा भावना ।
[३९८।०१]
मनसिकरणं तेषां भावनेष्टा न संमुखीभाव इत्यदोष एषः ।
[३९८।०१-३९८।०२]
कौशीद्याधिकमत्र चित्तं लीनमित्युक्तम् ।
[३९८।०२]
औद्धत्याधिकं चोद्धतमित्यविरोधः ।
[३९८।०२-३९८।०३]
तयोस्तु सहभावात्तदेव चित्तं लीनं तदेवोद्धतमिति ब्रूमः ।
[३९८।०३]
नाभिप्रयिकं वचनं वार्यते ।
[३९८।०३-३९८।०४]
सूत्रे तु नायमभिप्राय इति ब्रूमः ।
[३९८।०४]
यत्तूक्तं “सर्वमेव रागसंप्रयुक्तं चित्तं सरागमि”ति ।
[३९८।०५]
कतमच्चित्तं रागसंप्रयुक्तम् ।
रागप्राप्तिसहितं चेत् ।
[३९८।०५-३९८।०६]
असास्रवमिति सरागं प्राप्नोति शैक्षचित्तम् ।
[३९८।०६]
रागालम्बनं चेत् ।
अर्हतोऽपि सास्रवं चित्तं सरागमिति गृह्लीयात् ।
[३९८।०७]
रागालम्बनत्वात्
कथं वा तत्सास्रवम् ।
[३९८।०७-३९८।०८]
सामान्य क्लेशालम्बनत्वादिति चेत् ।
[३९८।०८]
एवमपि समोहं गृह्लीयान्मोहालम्बनत्वात् ।
[३९८।०८-३९८।०९]
न च परचित्तज्ञानं प्राप्त्यालम्बनं नापि तच्चित्तालम्बनं रागालम्बनम् ।
[३९८।०९-३९८।१०]
तस्मान्न रागसंप्रयोगात्सरागं चित्तमत्रेष्टम् ।
[३९८।१०]
किं तर्हि ।
[३९८।१०-३९८।११]
रागसंप्रयुक्तं चित्तं सरागमसंप्रयुक्तं विगतरागमिति सूत्राभिग्रायो दृश्यते ।
[३९८।११-३९८।१२]
यत्तूक्तं “विगतरागमस्य तच्चित्तं भवति विगतद्वेषं विगतमोहमनावर्त्तिकधर्मि कामभवे रूपभवे आरुप्यभवे” इति ।
[३९८।१३]
तत्र तत्प्रप्तिविगमं संधायोक्तम् ।
[३९८।१३-३९८।१४]
ननु चोक्तमन्यक्लेशसंप्रयुक्तमपि चित्तं रागविप्रयुक्तत्वाद्विगतरागं स्यादि”ति ।
[३९८।१४]
एतेनाभिसंधिना न दोषः ।
[३९८।१४-३९८।१५]
न तु तद्विगतरागमिति कृत्वा गृह्यते ।
[३९८।१५]
किं तर्हि ।
सद्वेषं समोहमित्येवमादि ।
[३९८।१५-३९८।१६]
अलं प्रसङ्गेन सिद्धान्तो वर्ण्यताम् ।
[३९८।१७]
किं परचित्तज्ञानं परचित्तस्याकारमालम्बनं वा गृह्लाति ।
[३९८।१७-३९८।१९]
न गृह्लाति आकारलम्बननिरपेक्षंं हि तद्रक्तमिदं चित्तमिति जानाति नत्वमुष्मिन् रुपे रक्तमिति जानाति ।
[३९८।१९-३९८।२०]
अन्यथा हि तद्रूपालम्बनमपि स्यात्तदालम्बनं च परचित्तं गृह्लतः स्वभावग्रहणं प्राप्नुयात् ।
[३९८।२०-३९८।२२]
सर्वं च परचित्तज्ञानं द्रव्यस्वलक्षणचित्तचैत्तप्रत्युत्पन्नपरसंततिकामरूपप्रतिसंयुक्ताप्रतिसंयुक्तविषयं दर्शनमार्गप्रतिषिद्धं भावनामार्ग उपलभ्यते ।
[३९८।२२-३९८।२३]
शून्यताऽनिमित्तसमाधि विप्रयुक्तं क्षयानुत्पादज्ञानासंगृहीतमानन्तर्यमार्ग प्रतिषिद्धं च वेदित्तव्यम् ।
[३९८।२३]
उक्तं परचित्तज्ञानम् ।
[३९९।०१]
शेषे चतुर्दशाकारे शून्यानात्मविवर्जिते ।
[३९९।०२]
क्षयानुत्पादज्ञाने शेषे ते चतुर्दशाकारे शून्यानात्मकारौ वर्जयित्वा ।
[३९९।०२-३९९।०४]
पारमार्थिकयोरपि संवृतिभजनात्शीणा मे जातिर्नापरमस्माद्भवं प्रजानामीति तद्वलानुव्यवहारतः ।
[३९९।०५]
किमनास्रवः स्वलक्षणाकारोऽस्त्यथ न ।
काश्मीराणां तावत्
[३९९।०६]
नामलः षोडशभ्योऽन्य आकारः
[३९९।०७]
नास्त्यनास्रवाकारः षोडशाकारनिर्मुक्तः ।
[३९९।०८]
अन्येऽस्ति शास्त्रतः ॥ ७.१२ ॥
[३९९।०९]
श्रन्ये पुनरस्तीत्याहुर्वहिर्देशकाः ।
कथं गम्यते ।
शास्त्रतः इति ।
[३९९।०९-३९९।१०]
शास्त्रे ह्येवमाह ।
[३९९।१०]
“स्यादप्रतिसंयुक्तेन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयात् ।
[३९९।११]
अनित्यतो दुःखतः शून्यतोऽनात्मतः हेतुतः समुदयतः प्रभवतः प्रत्ययतः ।
[३९९।११-३९९।१२]
अस्त्येतस्थानमस्त्येतद्वस्त्विति ।
[३९९।१२]
योगविहितती विजानोयादि”ति ।
[३९९।१२-३९९।१४]
नास्यायमर्थो यदस्त्येतत्स्थानमस्त्येतद्वस्त्वित्येवं विजानीयादिति अपि त्वस्त्येतत्स्थानमस्त्येतद्वस्तु यदनित्यादितो विजानीयादिति चेत् ।
[३९९।१४]
न्
अन्यत्रावचनात् ।
[३९९।१५]
एष चेच्छास्त्रार्थोऽभविष्यत् ।
[३९९।१५-३९९।१६]
यदिदं पठच्यते “स्याद्दर्शनप्रहातव्येन चित्तेन कामप्रतिसंयुक्तान्धर्मान्विजानीयादिति ।
[३९९।१६]
आह ।
विजानीयात् ।
[३९९।१६-३९९।१८]
आत्मत आत्मीयत उच्छेदतः शाश्वततः अहेतुतोऽक्रियातोऽपवादतोऽग्रतः श्रेष्ठतो विशिष्टतः परमतः शुद्धितो मुक्तितो नैर्याणिकतः काङ्क्षातो विमतितो विचिकित्सातः ।
[३९९।१८-३९९।१९]
रज्येत द्विष्यान्मन्येत मुह्येदयोगविहिततो विजानीयादि”ति ।
[३९९।१९]
अत्राप्येवं पाठोऽभविष्यत् ।
[३९९।१९-३९९।२०]
अस्त्येतत्स्थानमस्त्येतद्वस्त्विति ।
[३९९।२०]
न त्वेवं पठच्यते ।
तस्मान्नास्यायमर्थः ।
[३९९।२१]
किं पुनरिमे षोडशाकारा नामत आहोस्वित्द्रव्यतः ।
[३९९।२१-३९९।२२]
सप्त द्रव्यतो नामतः षोडशेत्येके ।
[३९९।२२]
दुःखकाराश्चत्वारः समुदयनिरोधमार्गाकाराणामेककद्रव्यत्वात् ।
[३९९।२३]
एवं तु वर्णयन्ति ।
[४००।०१]
द्रव्यतः षोडशाकाराः
[४००।०२]
तत्प्रत्ययाधीनत्वातनित्यम् ।
षीडात्मकत्वात्दुःखम् ।
[४००।०२-४००।०३]
आत्मीयदृष्टिविपक्षेण शून्यम् ।
[४००।०३]
आत्मदृष्टिविपक्षेणानात्मा ।
हेतुर्वीजधर्मयोगेन ।
[४००।०३-४००।०४]
समुदयः प्रादुर्भावयोइगेन ।
[४००।०४]
प्रभवः प्रबन्धयोगेन ।
[४००।०४-४००।०५]
अभिनिष्पादनार्थेन प्रत्ययः ।
[४००।०५-४००।०६]
तद्यथा मृत्पिण्ददण्दचत्रसूत्रोदकसमवायात्घटाभिनिष्पत्तिर्भवति तद्वदिति ।
[४००।०६]
अक्न्धोपरमत्वात्निरोधः ।
अग्निनिर्वाषणात्शान्तः ।
[४००।०६-४००।०७]
निरूपद्रव्त्वात्प्रणीतः ।
[४००।०७]
सर्वापक्षालविमुक्तत्वान्निः सरणमिति ।
गमनार्थेन मार्गः ।
[४००।०७-४००।०८]
योगयुक्तत्वान्न्यायः ।
[४००।०८]
सम्यक्प्रतिपादनार्थेन प्रतिपत् ।
अत्यन्तसमतिक्रमणान्नैर्याणिक इति ।
[४००।०९]
अथवा अनात्यन्तिकत्वादनित्यम् ।
अभिन्यासभूतत्वात्दुःखम् ।
[४००।०९-४००।०१०]
अन्तर्व्यापारपुरुषपरहितत्त्वाच्छून्यम् ।
[४००।१०]
अकामकारित्वादनात्मा ।
[४००।१०-४००।०१०]
हेतुरागमनयोगेन ।
[४००।१०-४००।११]
समुदय उन्मज्जनयोगेन ।
[४००।११]
प्रभवः प्रसरणयोगेन ।
प्रतिसरणार्घेन प्रत्यय इति ।
[४००।११-४००।१२]
असंबन्धः संबन्धोपरमत्वान्निरोधः ।
[४००।१२]
त्रिसंस्कृतलक्षणविमुक्तत्वाच्छान्तः ।
[४००।१२-४००।१३]
कुशलत्वात्प्रणीतः ।
[४००।१३]
परमाश्वासत्वान्निः सरणमिति ।
कुमार्गविपक्षेण मार्गः ।
[४००।१३-४००।१४]
अन्यायविपक्षेण न्यायः ।
[४००।१४]
निर्वाणपुराविरोधनार्थेन प्रतिपत् ।
सर्वभवप्रतिपक्षत्वान्नैर्याणिकः ।
[४००।१५]
इत्येषां व्याख्यानमनेकपर्यायः ।
यथाभिप्रेतं प्रवक्ष्यामः ।
उदयव्ययत्वादनित्यम् ।
[४००।१६]
प्रतिकूलभावात् ।
दुःखम् ।
आत्मरहितत्वाच्छून्यम् ।
स्वयमनात्मत्वादनात्म ।
[४००।१७]
हेतुसमुदयप्रभवप्रत्ययत्वं तु यदेव सूत्र उक्तम् ।
[४००।१७-४००।१८]
“इमे पञ्चोपादानस्कन्धाश्छन्दमूलकाश्छन्दसमुदयाश्छन्दजातीयाश्छन्दप्रभवा” इति ।
[४००।१८-४००।१९]
प्रभवशब्दः केवलं पश्चात्पठितव्यः शास्त्रे ।
[४००।१९]
कः पुनरेषां विशेषः ।
चतुर्विधो हि च्छन्दः ।
[४००।२०]
अस्मीत्यभेदेनात्मभाव्च्छन्दः ।
स्यामित्यभेदेन पुनर्भवच्छन्दः ।
[४००।२०-४००।२१]
इत्यं स्यामिति भेदेन पुनर्भवच्छन्दः ।
[४००।२१]
प्रतिसंधिवन्धच्छन्दश्चतुर्थः ।
कर्माभिसंस्कारच्छन्दो वा ।
[४००।२२]
तत्र प्रथोमो दुःखस्यादिकारणत्वान्मूलहेतुः ।
फलस्येव वीजम् ।
[४००।२२-४००।२३]
द्वितीयः समुदयस्तेन तत्समुदागमात्फलस्येवाङ्कुरादिप्रसवः ।
[४००।२३-४००।२४]
तृतीयस्तज्जातीयदुःखप्रत्ययः ।
[४००।२४]
फलस्येव क्षोत्रोदकपाश्यादिकम् ।
[४००।२४-४००।२६]
क्षेत्रादिवशेन हि फलस्य गन्धरसवीर्यविपाकप्रभावभेदा भवन्ति चतुर्थः प्रभवस्ततः एव तत्संभवात्फलस्येव पुष्पावसानमिति ।
[४००।२६]
अथवा ।
[४००।२६-४०१।०१]
तृष्णाविचरितानां द्वौ पञ्चकौ द्वौ चतुष्कौ चत्वारश्छन्दाः ।
[४०१।०१-४०१।०२]
“अस्मीति भिक्षवः साति इत्थमस्मीति भवति एवमस्मीति भवति अन्यथाऽस्मीति सदस्मीति असदस्मीति ।
[४०१।०२-४०१।०३]
भविष्यामीत्यस्य भवति न भविष्यामि इत्थं भविष्यामि एवं भविष्यामि एवं भविष्यामि श्रन्यथा भविष्यामि ।
[४०१।०४-४०१।०५]
स्यामित्यस्य भवति इत्थं स्यामेवं स्यामन्यथा स्यामपितु स्यामपीत्थं स्यामप्येवं स्यामप्यन्यथा स्यामित्यस्य भवति ।
[४०१।०६]
प्रवृत्त्युपर्मत्वान्निरोधः ।
निर्दुःखत्वाच्छन्तः ।
[४०१।०६-४०१।०७]
“इति हि भिक्षवो दुःखाः संस्काराः शान्तं निर्वाणमि”ति वचनात ।
[४०१।०७]
निरुत्तरत्वात्प्रणीतः ।
[४०१।०७-४०१।०८]
अपुनरावृत्तित्वान्निःसरणम् ।
[४०१।०८]
पथिभूतत्वान्मार्गः ।
यथाभूतप्रवृत्तत्वान्न्यायः ।
[४०१।०८-४०१।०९]
प्रतिनियतत्वात्प्रतिपत् ।
[४०१।०९]
यथोक्तम्
[४०१।१०]
“एष मार्गो हि नास्त्यन्यो दर्शनस्य विशुद्धय” इति
[४०१।११]
अत्यन्तनिर्याणान्नैर्याणिकः ।
[४०१।११-४०१।१२]
अथवा नित्यसुखात्मीयात्मदृष्टिचरितानां प्रतिपक्षेणानित्यदुःखशुन्यानात्माकाराः ।
[४०१।१२-४०१।१३]
अहेत्वेकहेतुपरिणामबुद्धिपूर्वक दृष्टिचरितानां प्रतिपक्षेण हेतुसमुदयप्रभवप्रत्ययाकाराः ।
[४०१।१३-४०१।१४]
नास्ति मोक्ष इति दृष्टिचरितानां निरोधाकारः ।
[४०१।१४]
दुःखो मोक्ष इति दृष्टिचरितानां शान्ताकारः ।
[४०१।१४-४०१।१५]
ध्यानसुखप्रणीतदृष्टिचरितानां प्रणीताकारः ।
[४०१।१५-४०१।१६]
पुनः पुनः परिहाणितो नात्यन्तिको मोक्ष इति दृष्टिचरितानां निःसरणाकारः ।
[४०१।१६-४०१।१७]
नास्ति मार्गः कुमार्गोऽयमन्यो मार्गः पुनरावर्ती मार्ग इति दृष्टिचरितानां मार्गन्यायप्रतिपन्नैर्याणिकाकारा इति ।
[४०१।१८]
आकारो नाम क एष धर्मः ।
[४०१।१९]
प्रज्ञाकारः
[४०१।२०]
एवं तर्हि प्रज्ञा साकारा न भविष्यति ।
प्रज्ञान्तरासंयोगात् ।
एवं तु युक्तं स्यात् ।
[४०१।२१]
सर्वेषां चित्तचैत्तानामालम्बनग्रहणप्रकार आकार इति ।
[४०१।२२]
अथ किं प्रज्ञैवाकारयति नेत्याह ।
किं तर्हि ।
[४०१।२३]
तया सह ।
[४०१।२४]
आकारय्न्ति सालम्बाः
[४०२।०१]
प्रज्ञा चान्ये च सर्वे सालम्बना धर्मा आकारयन्ति ।
[४०२।०२]
सर्वमाकार्यते तु सत् ॥ ७.१३ ॥
[४०२।०३]
यत्किञ्चिदस्ति सर्वमाकार्यते ।
[४०२।०३-४०२।०४]
तदेवं कृत्वा सिद्धं भवति प्रज्ञा आकारश्चाकारयति चाकार्यन्ते च ।
[४०२।०४-४०२।०५]
आलम्बना आकार्यन्त एवेति ।
[४०२।०६]
अतः परमेषां ज्ञानानां कुशलादिभेदं निर्वेक्ष्यामः ।
[४०२।०७]
त्रिधाद्यं कुशलान्यन्यानि
[४०२।०८]
संवृतिज्ञानं श्लोकादौ भवत्वादाद्यम् ।
तत्त्रिविधम् ।
[४०२।०८-४०२।०९]
कुशलाकुशलाव्याकृतम् ।
[४०२।०९]
अन्यानि नव ज्ञानानि कुशलान्येव ।
[४०२।१०]
आद्यं सर्वासु भूमिषु ।
[४०२।११]
कामधाती यावद्भवाग्रे ।
[४०२।१२]
धर्माख्यं षट्सु
[४०२।१३]
धर्मज्ञानं चतुर्षु ध्यानेष्वनागम्ये ध्यानान्तरे च ।
[४०२।१४]
नवसु त्वन्वयाख्यं
[४०२।१५]
अन्वयज्ञानं तास्वेव च षट्सु भूमिष्वारुप्यत्रये च ।
[४०२।१६]
तथैव षट् ॥ ७.१४ ॥
[४०२।१७]
दुःखसमुदयनिरोधमार्गक्षयानुत्पादज्ञानान्यप्येतास्वेव नवसु भूमिष्वभेदेन ।
[४०२।१८]
भेदेन पुन्र्धर्मज्ञानसंगृहीतानि षट्सु अन्वयज्ञान संगृहीतानि नवसु ।
[४०२।१९]
ध्यानेष्वन्यमनोज्ञानं
[४०३।०१]
परचित्तज्ञानं चतुर्ष्वेव ध्यानेषु नान्यत्र ।
[४०३।०२]
कामरूपाश्रयं च तत् ।
[४०३।०३]
कामरूपधात्वोश्च तत्परचित्तज्ञानं संमुखीक्रियते ।
[४०३।०४]
कामाश्रयं तु धर्मारुयम्
[४०३।०५]
धर्मज्ञानं तु कामधात्वाश्रयमेव ।
न रूपारुप्यधात्वोः संमुखीक्रियते ।
[४०३।०६]
अन्यत्त्रैधातुकाश्रयम् ॥ ७.१५ ॥
[४०३।०७]
किं पुनरन्यत् ।
परचित्तज्ञानं धर्मज्ञाननिर्मुक्तम् ।
कृतो भूम्यश्रयनिर्देशः ।
[४०३।०८]
स्मृत्युपस्थानसंग्रहो वक्तव्यः ।
सोऽयमुच्यते ।
[४०३।०९]
स्मृत्युपस्थानमेकं धीर्निरोधे
[४०३।१०]
धीः प्रज्ञा ज्ञानमिति पर्यायाः ।
निरोधज्ञानमेकं धर्मस्मृत्युपस्थानम् ।
[४०३।११]
परचित्तधीः ।
[४०३।१२]
त्रीणि
[४०३।१३]
परचित्तज्ञानं त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि ।
[४०३।१४]
चत्वारि शेषाणि
[४०३।१५]
निरोधपरचित्तज्ञानाभ्यामन्यानि ज्ञानानि चत्वारि स्मृत्युपस्थानानि
[४०३।१६]
कतमस्य ज्ञानस्य कति ज्ञानान्यालम्बनम् ।
[४०३।१७]
धर्मधीगोचरो नव ॥ ७.१६ ॥
[४०३।१८]
धर्मज्ञानस्य नव ज्ञानान्यालम्बनमन्यत्रान्वयज्ञानात् ।
[४०४।०१]
नव मार्गान्वयदियोः
[४०४।०२]
अन्वयज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र धर्मज्ञानात् ।
[४०४।०२-४०४।०३]
मार्गज्ञानस्यापि नव ज्ञानान्यालम्बनमन्यत्र संवृतिज्ञानात् ।
[४०४।०४]
दुःखहेतुधियोर्द्वयम् ।
[४०४।०५]
दुःखसमुदयज्ञानयोर्द्वे संवृतिपरचितज्ञाने आलम्बनम् ।
[४०४।०६]
चतुर्णां दश
[४०४।०७]
संवृतिपरचित्तक्षयानुत्पादज्ञानानां दश ज्ञानान्यालम्बनम् ।
[४०४।०८]
नैकस्य
[४०४।०९]
एकस्य निरोधज्ञानस्य नैव ज्ञानमालम्बनम् ।
[४०४।१०]
योज्या धर्माः पुनर्दश ॥ ७.१७ ॥
[४०४।११]
कतमे दश ।
[४०४।१२]
त्रैधातु कामला धर्मा अकृताश्च द्विधा द्विधा ।
[४०४।१३]
संकृता धर्मा अष्टधा क्रियन्ते ।
[४०४।१३-४०४।१४]
कामरूपारुप्यावचरानास्रवाणां संप्रयुक्तविप्रयुक्तभेदात् ।
[४०४।१४]
असंस्कृता द्विधा क्रियन्ते ।
कुशलाव्याकृतभेदात् ।
[४०४।१४-४०४।१५]
इमे दश धर्माः कथं योज्याः कस्य ज्ञानस्य कत्यालम्बनमिति ।
[४०४।१५-४०४।१६]
तत्र संवृतिज्ञानस्य सर्वे दश धर्मा आलम्बनम् ।
[४०४।१६]
धर्मज्ञानस्य पञ्च ।
कामावचरानास्रवा श्चत्वारः कुशलं चासंस्कृतम् ।
[४०४।१७]
अन्वयज्ञानस्य सप्त ।
रूपारुप्यावचरानास्रवाः षट्कुशलं चासंस्कृतम् ।
[४०४।१७-४०४।१८]
दुःखसमुदयज्ञानयोः कामरूपारुप्यावचराः षट् ।
[४०४।१८]
निरोधज्ञानस्यैकः ।
[४०४।१८-४०४।१९]
कुशलमेवासंस्कृतम् ।
[४०४।१९]
मार्गज्ञानस्य द्वावनास्रवौ ।
परचित्तज्ञानस्य त्रयः ।
[४०४।१९-४०४।२०]
कामरूपावचरानास्रवाः संप्रयुक्ताः ।
[४०४।२०-४०४।२१]
क्षयानुत्पादज्ञानयोः नव धर्मा आलम्बनमव्याकृतमसंस्कृतं मुक्त्वा ।
[४०४।२२]
स्यादेकेन ज्ञानेन सर्वधर्मान् जानीयात् ।
न स्यात् ।
अपि तु
[४०५।०१]
सांवृतं स्वकलापान्यदेकं विद्यादनात्मतः ॥ ७.१८ ॥
[४०५।०२-४०५।०३]
संवृतिज्ञानं स्वस्मात्कलापादन्यान् सर्वधर्माननात्वतो जानीयात्सर्वधर्मा अनात्मान इति ।
[४०५।०३]
ज्स्वभावस्तत्सहभुवश्च धर्मास्तस्य स्वकलापः ।
[४०५।०३-४०५।०४]
तेषामग्रहणं विषयविषयिभेदादेकालम्बनत्वादिति ।
[४०५।०४]
संनिकृष्टत्वाच्च ।
[४०५।०४-४०५।०५]
तच्च कामावचरं श्रुतचिन्तामयं रूपावचरं श्रुतमयं भावनामयम् ।
[४०५।०५-४०५।०६]
तस्य व्यवच्छिन्नभूम्यालम्बनत्वात् ।
[४०५।०६]
अन्यथा हि युगपत्सर्वतो वैराग्यं स्यात् ।
गतमेतत् ।
[४०५।०७]
इदं तु वक्तव्यम् ।
कः कतिभिर्ज्ञानैः समन्वागत इति ।
[४०५।०७-४०५।०८]
पृथग्जनस्तावदेकेन समन्वागतः ।
[४०५।०८]
संवृतिज्ञानेन ।
वीतरागस्तु परचित्तज्ञानेनापि ।
आर्यः पुनः ।
[४०५।०९]
एकज्ञानान्वितो रागीप्रथमेऽनास्रवक्षणे ।
[४०५।१०]
कामावीतरागो दुःखधर्मज्ञानक्षान्तवेकेनैव संवृतिज्ञानेन समन्वागतो भवति ।
[४०५।११]
द्वितीये त्रिभिः
[४०५।१२]
दुःखधर्मज्ञाने त्रिभिः संवृतिज्ञानधर्मज्ञानदुःखज्ञानैः ।
[४०५।१३]
ऊर्ध्वस्तु चतुष्र्वेकैकवृद्धिमान् ॥ ७.१९ ॥
[४०५।१४]
अतः परं चतुर्षु क्षणेषु एकैकज्ञानवृद्धिरस्य ज्ञातव्या ।
[४०५।१४-४०५।१५]
दुःखेऽन्वयज्ञानेऽन्वयज्ञानं वर्धते ।
[४०५।१५-४०५।१६]
समुदयनिरोधमार्गधर्मज्ञानेषु समुदयनिरोधमार्गज्ञानानि वर्धन्त इति मार्गधर्मज्ञाने सप्तभिर्ज्ञानैः समन्वागतो भवति ।
[४०५।१६-४०५।१७]
वीतरागस्तु सर्वत्राधिकेन परचित्तज्ञानेन समन्वागतो वेदितव्यः ।
[४०५।१८]
अथ कस्यामवस्थायां कति ज्ञानानि भव्यन्ते ।
[४०५।१९]
यथोत्पन्नानि भाव्यन्ते क्षान्तिज्ञानानि दर्शने ।
[४०५।२०]
अनागतानि
[४०६।०१-४०६।०२]
दर्शनमार्गे यद्यदेवोत्पद्यते क्षान्तिर्ज्ञानं वा तज्जातीयमनागतं भावनां गच्छति तदाकारा एव चत्वारः ।
[४०६।०२-४०६।०३]
कस्माद्दर्शनमार्गे सभागज्ञानाकारभावनैव गोत्राणामपोरतिलब्धत्वात् ।
[४०६।०४]
तत्रैव सांवृतं चान्वयत्रये ॥ ७.२० ॥
[४०६।०५-४०६।०६]
तत्रैव दर्शनमार्गे संवृतिज्ञानं चापि भाव्यते त्रिषु दुःखसमुदयनिरोधान्वयज्ञानेषु ।
[४०६।०६]
न धर्मज्ञानेष्वकृत्स्नसत्याभिसमयात् ।
[४०६।०७]
अतोऽभिसमयान्त्याख्यं
[४०६।०८]
अत एव तदाभिसमयान्तिकं संवृतिज्ञानमाख्यावते ।
[४०६।०८-४०६।०९]
एकैकसत्याभिसमयान्ते भावनात् ।
[४०६।०९]
कस्मान्न मार्गान्वयज्ञाने भावनां गच्छति ।
[४०६।०९-४०६।१०]
मार्गसत्यस्य पूर्व लौकिकेन मार्गेणानभिसमितत्वातकृत्स्नाभिसमयाच्च ।
[४०६।१०-४०६।१२]
कृत्स्नं हि दुःखं शक्यते परिज्ञातुं समुदयः प्रहातुं निरोधः साक्षात्कर्तु न तु मार्गः शक्यते कृत्स्नो भावयितुमित्यभिसमयान्ताभावान्न तस्मिन्नाभिसमयान्तिकं भाव्यते ।
[४०६।१२-४०६।१३]
समुदयोऽपि न तदा सर्वः प्रहीणो भवतीति न स्यादाभिसमयान्तिकम् ।
[४०६।१३]
न ।
[४०६।१३-४०६।१४]
तत्सत्यदर्शनहेयः सर्वः प्रहीण्नो भवति ।
[४०६।१४-४०६।१५]
मार्गस्तद्दर्शनहेयप्रतिपक्षो न सर्वः शक्यते भावयितुं वहुगोत्रत्वातित्यस्ति महान्विशेषः ।
[४०६।१५]
दर्शनमार्गपरिवारत्वादित्यपरे ।
[४०६।१५-४०६।१६]
तदिदं साध्यत्वादज्ञापकम् ।
[४०६।१६]
किं पुनस्तदाभिसमयान्तिकं सम्वृतिज्ञानं कदाचित्संमुखीक्रियते ।
[४०६।१६-४०६।१७]
न कदाचितेकान्तेन हि
[४०६।१८]
तदानुत्पत्तिधर्मकम् ।
[४०६।१९]
कथं पुनस्तद्भावितं भवति ।
[४०६।१९-४०६।२०]
अलब्धलाभात्कथमिदानीं तत्प्रतिलब्धं यदि नैव संमुखीकर्तु शक्यते ।
[४०६।२०]
प्राप्तितः ।
[४०६।२०-४०६।२१]
यस्माल्लब्धं तस्माल्लब्धमित्यपूर्वैषा निर्देशजातिः ।
[४०६।२१]
तस्मान्नैवं भावना सिध्यति ।
[४०६।२१-४०६।२२]
एवं तु सिध्यति यदाहुः पूर्वाचार्याः ।
[४०६।२२]
कथं च पूर्वाचार्या आहुः ।
[४०६।२२-४०६।२४]
लोकोत्तरमार्ग-सामर्थ्यात्संवृतिज्ञानं भाव्यते यद्व्युत्थितः सत्यालम्बनं विशिष्टतरं लौकिकं ज्ञानं संमुखीकरोति ।
[४०६।२४-४०७।०१]
एष एव च तस्य लाभो यत्-तत्-संमुखीभाव-समर्थाश्रयलाभः ।
[४०७।०१]
गोत्रे हि लब्धे लब्धं गौत्रिकं भवति ।
एव तु नेच्छन्ति वैभाषिकाः ।
[४०७।०२]
कतिभूमिकं पुनस्तत्संवृतिज्ञानं भाव्यते ।
दर्शनमार्गस्य
[४०७।०३]
स्वधोभूमि
[४०७।०४]
यद्भूमिको दर्शनमार्गो भवति तद्भूमिकं चावरभूमिकं च संवृतिज्ञानं भाव्यते ।
[४०७।०५]
आनागम्यभूमिकश्चेद्भवति द्विभूमिकं बाव्यते ।
अनागम्यभूमिकं कामावचरं च ।
[४०७।०६]
एवं यावच्चतुर्थध्यानभूमिके दर्शनमार्गे सप्तभूमिकं संवृतिज्ञानं भाष्यते ।
[४०७।०७]
तत्र पुनः कति स्मृत्युपस्थानानि ।
[४०७।०८]
निरोधेऽन्त्यं
[४०७।०९]
निरोधेऽभिसमिते यत्संवृतिज्ञानं तदन्त्यं स्मृत्युपस्थानं धर्मस्मृत्युपस्थानम् ।
[४०७।०९-४०७।१०]
एकस्य परिसंख्यानात्सिद्धं भवति शेषं चत्वारि स्मृत्युपस्थानानीति ।
[४०७।१०-४०७।११]
तच्चैतदाभिसमयान्तिकं संवृतिज्ञानं
[४०७।१२]
स्वसत्याकारं
[४०७।१३]
यत्सत्याभिसमयाल्लभ्यते तत्सत्याकारमेव ।
[४०७।१३-४०७।१४]
तदाकारवचनादालम्बनस्य तदेव सत्यमित्युक्तं भवति ।
[४०७।१४]
दर्शनमार्गलभ्यत्वाच्च तत् ।
[४०७।१५]
यत्निकम् ॥ ७.२१ ॥
[४०७।१६]
प्रायोगिकमित्यर्थः ।
[४०७।१६-४०७।१७]
सपरिवारग्रहणात्कामरूपावचाराणि चतुष्पञ्चस्कन्धस्वभावानि ।
[४०७।१८]
षोडशे षट्सरागस्य
[४०७।१९]
भाव्यन्त इति वर्तते ।
[४०७।१९-४०७।२०]
अवीतरागस्य षोडशे मार्गान्वयज्ञानक्षणे द्वे ज्ञाने प्रत्युत्पन्ने ।
[४०७।२०]
मार्गज्ञानमार्गान्वयज्ञाने ।
पुरागतानि षट्भाव्यन्ते ।
[४०७।२०-४०७।२१]
धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानि ।
[४०८।०१]
वीतरागस्य सप्त तु ।
[४०८।०२]
वीतरागस्य परचित्तज्ञानं सप्तमं भाव्यते ।
[४०८।०३]
सरागभावना मार्गे तदूर्ध्वं सप्तभावना ॥ ७.२२ ॥
[४०८।०४-४०८।०५]
षोडशात्क्षणादुर्ध्वं भावनामार्गे यावन्न वीतरागो भवति तावत्सर्वेषु प्रयोगान्तर्यविमुक्तिविशेषमार्गेषु सप्त ज्ञानानि भाव्यन्ते ।
[४०८।०५-४०८।०६]
धर्मान्वयदुःखसमुदयनिरोधमार्गसंवृतिज्ञानानि ।
[४०८।०६]
लौकिकश्चेत्भावनामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् ।
[४०८।०७]
लोकोत्तरश्चेत्चतुर्णां धर्मज्ञानानामन्यतमत् ।
[४०८।०८-४०८।०९]
सप्तभूमिजयाऽभिज्ञाकोप्याप्त्याकीर्णभाविते
आननतर्यपथेषूर्ध्वं मुक्तिमार्गाष्टकेऽपि च ॥ ७.२३ ॥
[४०८।१०]
सप्तज्ञानानि भाव्यन्ते इति वर्तते ।
[४०८।१०-४०८।११]
सप्त भूमयः चत्वारि ध्यानानि त्रयश्चारुप्याः ।
[४०८।११-४०८।१३]
तासां जयः वैराग्यं तस्मिन् सप्तभूमिके वैराग्ये पञ्चसु चाभिज्ञासु अकोप्यप्रतिवेधे च व्यवकीर्णभाविते च ध्याने शैक्षस्य यावन्तः आनन्तर्यमार्गास्तेष्वपि सर्वेषु सप्त ज्ञानानि भाव्यन्ते तान्येव ।
[४०८।१३-४०८।१४]
लौकिकेश्चेत्भाव्नामार्गः संवृतिज्ञानं प्रत्युत्पन्नम् ।
[४०८।१४-४०८।१५]
लोकोत्तरश्चेच्चतुर्णामन्वज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् ।
[४०८।१५]
अकोप्यप्रतिवेधे तु संवृतिज्ञानं न भाव्यते ।
[४०८।१५-४०८।१६]
भवाग्राप्रति पक्षत्वात् ।
[४०८।१६]
तत्र जयज्ञानं सप्तमं वेदितव्यम् ।
[४०८।१६-४०८।१७]
सप्तभूमिवैराग्यादपि चोर्ध्वंभवाग्रवैराग्ये विमुक्तिमार्गेष्वष्टासु सप्तैव ज्ञानानि भाव्यन्ते ।
[४०८।१७-४०८।१८]
धर्मान्वयदुःखसमुदयनिरोधमार्गपरचित्तज्ञानानि ।
[४०८।१८]
संवृतिज्ञानं न भाव्यते ।
भवाग्राप्रतिपक्षत्वात् ।
[४०८।१८-४०८।१९]
प्रत्युत्पन्नं तु चतुर्णामन्वयज्ञानानां द्वयोश्च धर्मज्ञानयोरन्यतमत् ।
[४०८।२०]
शैक्षोत्तापनमुक्तौ वा षट्सप्तज्ञानभावना ।
[४०८।२१-४०८।२३]
शैक्षस्येन्द्रियोत्तापनायां विमुक्तिमार्गे सरागस्य षण्णां भावना धर्मान्वयदुःखसमुदयनिरोधमार्गज्ञानानां वितरागस्य सप्तानां परचित्तज्ञानं प्रक्षिप्य ।
[४०८।२३]
संवृतिज्ञानस्याप्युभयोरिति केचित् ।
तत्र मतविकल्पज्ञापनार्थो वाशब्धः ।
[४०८।२४]
प्रयोगमार्गे तु तयोः संवृतिज्ञानस्यापि भावना ।
[४०९।०१]
आनन्तर्यपथ षण्णां
[४०९।०२-४०९।०३]
वीतरागस्यावीतरागस्य वा शैक्षस्येन्द्रियोत्तापनायामानन्तर्यमार्गे षण्णां भावना पूर्ववत् ।
[४०९।०३]
न संवृतिज्ञानस्य ।
दर्शनमार्ग सादृश्यात् ।
[४०९।०४]
न परचित्तज्ञानस्य ।
सर्वानन्तर्यमार्ग प्रतिपिद्धत्वात् ।
किमर्थ प्रतिपिध्यते ।
[४०९।०४-४०९।०५]
अप्रतिपक्षत्वात् ।
[४०९।०६]
भवाग्रविजये तथा ॥ ७.२४ ॥
[४०९।०७]
भवाग्रवैराग्येऽप्यानन्तर्यमार्गेषु षण्णां भावना तथैव ।
[४०९।०८]
नवानां तु क्षयज्ञाने
[४०९।०९]
भवाग्रवैराग्ये नवमो विमुक्तिमार्गः क्षयज्ञानम् ।
[४०९।०९-४०९।१०]
तत्र नवानां ज्ञानानां भावना अन्यत्रानुत्पादज्ञानात् ।
[४०९।११]
अकोप्यस्य दश भावना ।
[४०९।१२]
यस्त्वकोप्यधर्मा भवति तस्य दशानां ज्ञानानां भावना ।
[४०९।१२-४०९।१३]
अनुत्पादज्ञानलाभात् ।
[४०९।१४]
तत्संचरेऽन्त्यमुक्तौ च
[४०९।१५]
योऽप्यकोप्यतां संचरति तस्याप्यन्त्ये विमुक्तिमार्गे दशानां भावना ।
[४०९।१६]
प्रोक्तशेषेऽष्टभावना ॥ ७.२५ ॥
[४०९।१७]
किं पुनः शेषम् ।
[४०९।१७-४०९।१९]
कामवैराग्ये नवमो विमुक्तिमार्गः सप्तभूमिवैराग्याभिज्ञाव्यवकीर्णभावितेषु विमुक्तिमार्गः अकोप्यप्रतिवेधोऽष्टौ विमुक्तिमार्गाः सर्वे च वीतरागस्य प्रयोगविशेषमार्गाः ।
[४०९।१९]
तेषु सर्वेष्वष्टौ ज्ञानानि भाव्यन्ते ।
[४०९।२०]
अनागतभावनया क्षयानुत्पादज्ञाने हित्वा ।
शैक्षस्यैवम् ।
[४०९।२०-४०९।२१]
अशैक्षस्य पुनरभिज्ञादिप्रयोगविमुक्तविशेषमार्गेषु नव ज्ञानानि दश वा ।
[४०९।२१-४०९।२३]
अभिज्ञाव्यवकीर्णभावितानन्तर्यविमुक्तिमार्गेषु त्वष्टौ नव वा द्वयोस्त्वभ्हिज्ञाविमुक्तिमार्गयोरव्याकृतत्वान्न किचिदनागते भाव्यते ।
[४०९।२३-४१०।०१]
पृथग्जनस्य तु कामत्रिध्यानवैराग्यान्त्यविमुक्तिमार्गेषु ध्यानभूमिकेषु च प्रयोगाभिज्ञात्रयविमुक्तिमार्गाप्रमाणादिगुणाभिनिर्हारेषु संवृतिज्ञानमनागतं भाव्यते परचित्तज्ञानं चान्यत्र निर्वेधभागीयेभ्यः ।
[४१०।०१]
तेषु हि परचित्तज्ञानं न भाव्यते ।
दर्शनमार्गपरिवारत्वात् ।
[४१०।०२]
अन्यत्रापूर्वमार्गलाभे संवाऋतिज्ञानमेवानागतं भाव्यते ।
[४१०।०३]
अथ कस्मिन्मार्गे कतिभूमिकं ज्ञानं भाव्यते ।
[४१०।०३-४१०।०४]
संवृतिज्ञानं तावद्यद्भूमिको मार्गो यां च प्रथमतो भूमि लभते तद्भूमिकमनागतं भाव्यते ।
[४१०।०४-४१०।०५]
अनास्रवं तु न केवलं यद्भूमिको मार्गः ।
[४१०।०५]
किं तर्हि ।
[४१०।०६]
यर्द्वराग्याय यल्लाभस्तत्र चाधश्च भाव्यते ।
[४१०।०७-४१०।०९]
यद्भूमिवैराग्यायापि हि द्विविधोऽपि मार्गो भवति प्रयोगमार्गादिः यां च भूमि लभते वैराग्यतस्त्द्भूमिकान्यधोभूमिकानि चानास्रवाणि ज्ञानानि भावनां गच्छन्ति ।
[४१०।१०]
सास्रवाश्च क्षयज्ञाने
[४१०।११-४१०।१३]
क्षयज्ञाने तु सर्वभूमिकाः सास्रवा अपि गुणाः क्षयज्ञानलाभिका भावनां गच्छन्ति अ४ भानापानस्मृतिस्मृत्युपस्थानाप्रमाणविमोक्षादयः रज्जुच्छेदादुच्छ्वसन्तीव पेडासाधर्म्येण ।
[४१०।१३-४१०।१४]
स्वचित्ताधिराज्यप्राप्तस्य प्राप्तिभिः सर्वकुशलधर्मप्रत्युद्गमनादाधिराज्यपोरप्तौ प्राभृतेन विषयप्रत्युद्गमनवत् ।
[४१०।१५]
यत्किचिल्लभ्यते तत्सर्व भाव्यते ।
यदपूर्व लभ्यते तत्भाव्यते ।
[४१०।१६]
लब्धपूर्व न भाव्यते ॥ ७.२६ ॥
[४१०।१७]
यद्विहीनं पुनर्लभ्यते न त्त्भाव्यते ।
भावितोत्सृष्टत्वात् ।
[४१०।१८]
किं खलु प्रतिलम्भ एव भावना नेत्युच्यते ।
चतुर्विधा हि भावना ।
[४१०।१९]
प्रतिलम्भभावना निषेवणभावना प्रतिपक्षभावना विनिर्धावनभावना च ।
तत्र
[४१०।२०-४१०।२१]
प्रतिलम्भनिषेवाख्ये शुभसंस्कृतभावने ।
प्रतिपक्षविनिर्धवभावने सास्रवस्य तु ॥ ७.२७ ॥
[४११।०१]
प्रतिलम्भनिषेवणभावने कुज्ञलसंस्कृतानां धर्माणामनागतानामेका प्रत्युत्पन्नानामुभे ।
[४११।०२]
प्रतिपक्षविनिर्धावनभावने सास्रवाणां धर्माणाम् ।
[४११।०२-४११।०३]
तदेवं कुशलसास्रवाणां चतस्रो भावना भवन्ति ।
[४११।०३]
अनास्रवाणां द्वे क्लिष्टाव्याकृतानां च ।
[४११।०३-४११।०४]
बाह्याभिधर्मिकाणां षट्भाव्नाः ।
[४११।०४]
एताश्चतस्रः संवरभावना विभावन च ।
[४११।०४-४११।०५]
इन्द्रियाणां पूर्वी कायस्योत्तरा ।
[४११।०५-४११।०६]
“षडिगानीन्द्रियाणि सुदान्तानि यावत्सुभावितानि तथा सन्त्यस्मिन्काये क्लेशा” इति विस्तरः ।
[४११।०६-४११।०७]
ते तु प्रतिपक्षनिर्धावभावनान्तर्भूते इति काश्मीराः ।
[४११।०७-४११।०८]
सामान्येन सर्वेषां पुद्गलानां क्षय
ज्ञाने गुणभावनोक्ता ।
[४११।०९]
अष्टादशावेणिकास्तु बुद्धधर्मा बलादयः ।
[४११।१०]
ये बुद्धस्यैव भगवतः क्षयज्ञाने भावनां गच्छन्ति नान्यस्य ।
कतमेऽष्टादश ।
[४११।११]
दश बलानि चत्वारि वैशारद्यानि त्रीणि स्मृत्युपस्थानानि महाकरुणा च ।
[४११।११-४११।१२]
असाधारणं ह्यावेणिकमित्युच्यते ।
[४११।१२]
तत्र
[४११।१३]
स्थानास्थाने दश ज्ञानानि
[४११।१४]
स्थानास्थानज्ञानबलं दश ज्ञानानि ।
[४११।१५]
अष्टौ कर्मफले
[४११।१६]
कमविपाकज्ञानबलमष्टी ज्ञानानि ।
निरोधमार्गज्ञाने हित्वा ।
[४११।१७]
नव ॥ ७.२८ ॥
[४११।१८]
ध्यानाद्यक्षाध्हिमोक्षेषु धातौ च
[४११।१९]
ध्यानविमोक्षसमाधिसमापत्तिज्ञानबलं नव ज्ञानानि ।
निरोध ज्ञानं हित्वा ।
[४११।१९-४११।२०]
एवमिन्द्रियपरापरज्ञान बलं नानाधिमुक्तिज्ञानबलं नानाधातुज्ञानबलं वेदितव्यम् ।
[४११।२१]
प्रतिपत्सु तु ।
[४१२।०१]
दश वा
[४१२।०२]
नव वेति मतविकल्पाऽर्थो वाशब्दः ।
यदि सफला प्रतिपत्गृह्यते ।
[४१२।०२-४१२।०३]
सर्वत्रगामिनी प्रतिपज्ज्ञानबलं दश ज्ञानानि ।
[४१२।०३]
न चेन्नव ।
अन्यत्र निरोधज्ञानात् ।
[४१२।०४]
संवृतिज्ञानं द्वयोः
[४१२।०५]
पूर्वनिवासानुस्मृतिज्ञानबलं च संवृतिज्ञानम् ।
[४१२।०६]
षट्दश वा क्षये ॥ ७.२९ ॥
[४१२।०७]
आस्रवक्षयज्ञानबलं सड्ज्ञानानि धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानिम् ।
[४१२।०८]
यदि निरोधज्ञानमेवास्रवक्षयज्ञानम् ।
[४१२।०८-४१२।०९]
अथ क्षीणस्रवसंताने ज्ञानमास्रवक्षयज्ञानं ततो दश ज्ञानानि ।
[४१२।१०]
उक्तः स्वभावो भूमिरिदानीमुच्यते ।
[४१२।११]
प्राङिनविसच्युतोत्पादबलध्यानेषु
[४१२।१२]
च्युतिरेव च्युतम् ।
पूर्वनिवासच्युत्युपपतीज्ञानं बलं चतुर्ध्यानभूमिकम् ।
[४१२।१३]
शेषितम् ।
[४१२।१४]
सर्वभूमिषु
[४१२।१५]
शेषं बलं सर्वभूमिसंगृहीतम् ।
ताः पुनरेकादश ।
[४१२।१५-४१२।१६]
कामधातुरनागम्य ध्यानान्तरं ध्यानारुप्याश्च ।
[४१२।१६]
सर्वाणि ।
जम्बूद्वीपपुरुषाश्रयाणि ।
अन्यत्र दुद्धानुत्पादात् ।
[४१२।१६-४१२।१७]
तदेतद्दशविधं ज्ञानमन्यस्य बलं नोच्यते ।
[४१२।१७]
बुद्धस्यैव बलमिति ।
[४१२।१८]
केनास्य बलमव्याहतं यतः ॥ ७.३० ॥
[४१२।१९]
यस्मादस्य सर्वत्र ज्ञेये ज्ञानभव्याहतं वर्तते तस्माद्वलम् ।
[४१२।१९-४१२।२०]
अनेषां तु व्याहन्यते ।
[४१२।२०-४१३।०१]
ज्ञानं ववचिदिच्छतामप्यप्रवृत्तेरिति नार्हति तद्बलाध्यां लब्धुम् ।
[४१३।०१-४१३।०२]
स्थविरशारिपुत्रेण प्रव्रज्यापेक्षपुरुषप्रत्याख्यानं श्येनोपद्रुतस्य पक्षिण उपपत्त्यादीपर्यन्ताज्ञानं चात्रोदाहरणम् ।
[४१३।०२-४१३।०३]
एवं तावदव्याहतज्ञानत्वाद्बुद्धानां ज्ञेयवदनन्तं मानसं बलम् ।
[४१३।०४]
नारायणबलं काये
[४१३।०५]
काये पुनर्बुद्धस्य नारायणं बलं वर्णयति
[४१३।०६]
संधिष्वन्ये
[४१३।०७]
सन्धौ सन्धौ नारायणबलमित्यपरे ।
[४१३।०७-४१३।०८]
मानसवत्कायिकमप्यस्यान तं बलमिति भदन्तः ।
[४१३।०८]
अन्यथा ह्यननतज्ञानबलसहिष्णु नं स्यादिति ।
[४१३।०८-४१३।०९]
नागग्रन्धिशङ्कलाशङ्कुसंधयश्च बुधप्रत्येकबुद्धचक्रवर्तिनः ।
[४१३।१०]
किं पुनर्नारायणस्य बलस्य प्रमाणम् ।
[४१३।११]
दशाधिकम् ।
[४१३।१२]
हस्त्यादिसप्तकबलम्
[४१३।१३]
यद्दशानां प्राकृतहस्तिनां बलं तदेकस्य गन्धहस्तिनः ।
[४१३।१३-४१३।१४]
एवं महानग्नप्रस्कन्दिवराङ्गचानूरनारायणानां दशोत्तरवृद्धिर्वत्तव्या ।
[४१३।१४-४१३।१५]
प्राकृतगन्धहस्तिमहानग्नप्रस्कन्दिनां दशात्तरवृद्धच्यार्धनारायणं बलं तत्द्विगुणं नारायण मित्यपरे ।
[४१३।१५-४१३।१६]
यथा तु वहुतर तथा युज्यते ।
[४१३।१७]
स्प्रष्टव्यायतनं च तत् ॥ ७.३१ ॥
[४१३।१८]
तच्चतत्कायिकं बलं सर्वस्यैव स्प्रष्टव्यायतनस्वभावं महाभूतविशेष एव ।
[४१३।१९]
उपादायरूपं सप्तभ्योऽर्थान्तरमित्यपरे ।
उक्तानि वलानि ।
[४१३।२०]
वैशारध्यं चतुर्धा तु
[४१३।२१]
यथासूत्रम् ।
एतानि पुनश्चत्वारि वैशारद्यानि
[४१४।०१]
यथाद्यदशमे बले ।
[४१४।०२]
द्वितीयसप्तमे चैव ।
[४१४।०३-४१४।०४]
यथा स्थानास्थानज्ञानबलमेवं सम्यक्संबुद्धस्य वत मे सते इत्येतद्वैशारद्यं वेदितव्यम् ।
[४१४।०४]
यथास्रवक्षयज्ञानबलमेवं क्षीणास्रवस्य वत मे सत इत्येतद्वैशारद्यम् ।
[४१४।०५-४१४।०६]
यथा कर्मस्वकज्ञानवलमेवं ये वा पुनर्मया श्रावकाणामन्तरायिका धर्मा आध्याता इत्येतद्वैशारद्यम् ।
[४१४।०६-४१४।०७]
यथा सर्वत्रगामिनी प्रतिपज्ज्ञानं वलमेवं यो व पुनर्मया श्रावकाणां निर्याणाय मार्ग आध्यात इत्येतद्वैशारद्यं वेदितव्यम् ।
[४१४।०७-४१४।०८]
कथं न ज्ञानमेव वैशार्द्यम् ।
[४१४।०८]
निर्भयता हि वैशारद्यम् ।
[४१४।०८-४१४।०९]
एभिश्च निर्भयो भवति ।
[४१४।०९]
ज्ञानकृतं वैशारद्यं युज्यते ।
न ज्ञानमेव ।
[४१४।१०]
त्रीणि स्मृत्युपस्थानानि पर्षद्भेदात्भवन्ति यथासूत्रम् ।
तत्त्वेतत्
[४१४।११]
स्मृतिप्रज्ञात्मकं त्रयम् ॥ ७.३२ ॥
[४१४।१२]
स्मृतिसंप्रज्ञानस्वभावान्येतानि त्रीणि स्मृत्युपस्थानानि ।
[४१४।१२-४१४।१३]
यदा श्रावकस्यापि शुश्रूषमाणाशुश्रूपमाणोभयेष्वानन्दी न भवत्याघातो वा ।
[४१४।१४]
कस्मादेते आवेणिका बुद्धधर्मा उच्यन्ते ।
सवासनप्रहाणात् ।
[४१४।१४-४१४।१६]
अथवा यस्य श्रावकास्तस्य चच्छूश्रूषमाणाशुश्रूषमाणोभयेषु सौमनस्याद्यवकाशः सुतरां न तथाऽन्यस्येति तस्यैव तानुत्पादादाश्चर्य व्यवस्थाप्यते नान्यस्येति ।
[४१४।१७]
महाकरुणेदानी वक्तव्या ।
सेयमुच्यते ।
[४१४।१८]
महाकृपा संवृतिधीः
[४१४।१९]
संवृतिज्ञानात्मिका महाकरुणा ।
[४१४।१९-४१४।२०]
अन्यथा हि न सर्वसत्त्वालम्बना सिध्येत्न च त्रिदुःखताकारा ।
[४१४।२०]
करुणावत् ।
कस्मादियं महाकरुणेत्युच्यते ।
[४१४।२१]
संभाराकारगोचरैः ।
[४१५।०१]
समत्वादाधिमाव्याच्च
[४१५।०२]
सभारेण महापुण्यज्ञानसंभारसमुदागमात् ।
आकारेण त्रिदुःखताकरणात् ।
[४१५।०३]
आलम्बनेन त्रिधातुकालम्बनात् ।
समत्येन सर्वसत्त्वेषु समवृत्तित्वात् ।
[४१५।०३-४१५।०४]
अभिमात्रत्वेन सर्वस्त्त्वेषु समवृत्तित्वात् ।
[४१५।०४]
अधिमात्रत्वेन ततोऽधिमात्रतराभावात् ।
[४१५।०५]
करुणामहाकरुणयोः किं नानाकरणम् ।
[४१५।०६]
नानाकरणमष्ट्धा ॥ ७.३३ ॥
[४१५।०७]
स्वभावतोऽद्वेषामोहस्वभावत्वात् ।
[४१५।०७-४१५।०८]
आकारत एकत्रिदुःखताकारत्वात् ।
[४१५।०८]
आलम्बनत एकत्रिधात्वालम्बनत्वात् ।
[४१५।०८-४१५।०९]
भूमितश्चतुर्ध्यानचतुर्थध्यानभूमिकत्वात् ।
[४१५।०९]
संतानतः श्रावकादिबुद्धसंतानजत्वात् ।
[४१५।०९-४१५।१०]
लाभतः कामधातुभवाग्रवैराग्यलभ्यत्वात् ।
[४१५।१०]
अपरित्राणपरित्राणतः अतुल्यकरुणायनाच्च ।
[४१५।११]
किं पुनः सर्वे बुद्धाः सर्वप्रकारसामान्या भवन्ति ।
नेत्याह ।
[४१५।१२-४१५।१३]
संभारधर्मकायाभ्यां जगतश्चार्थचर्यया ।
समता सर्वबुद्धानां नायुर्जातिप्रमाणतः ॥ ७.३४ ॥
[४१५।१४]
त्रिभिः कारणैः साम्यं सर्वबुद्धानाम् ।
[४१५।१४-४१५।१५]
सर्वपुण्यज्ञानसंभारसमुदागमतः धर्मकायपरिनिष्पत्तितः अर्थचर्यया च लोकस्य ।
[४१५।१५]
आयुर्जातिगोत्रप्रमाणकृतस्तु भेदो भवति ।
[४१५।१६-४१५।१७]
चिराल्पतरजीवनात्क्षत्रियव्राह्मणजातिभेदात्काश्यपगौतमादिगोत्रभेदातल्पानल्पप्रमाणभेदाच्च यथकालमिति ।
[४१५।१७-४१५।१९]
एतामेव च त्रिविधां संपदं मनसिकुर्वाणेन विदुषा शक्यं बुद्धानां भगवतामन्तिके तीव्रप्रेम गौरवं चोत्पादयितुं यदुत हेतुसंपदं फलसंपदमुपकारसंपदं च ।
[४१५।१९]
तत्र चतुर्धा हेतुसंपत् ।
[४१५।१९-४१५।२०]
सर्वपुण्यज्ञानसंभाराभ्यासो दीर्घकालाभ्यासो निरन्तराभ्यासः सत्कृत्याभ्यासश्च ।
[४१५।२०]
चतुर्विधा फलसंपत् ।
[४१५।२१]
ज्ञानसंपत्प्रहाणसंपत्प्रभावसंपद्रूपकयसंपच्व ।
चतुर्विधोपकारसंपत् ।
[४१५।२१-४१५।२३]
अपायत्रयसंसारदुःखात्यन्तनिर्मोक्षसंपत्यानत्रयसुगति प्रतिष्ठापनसंपद्वा ।
[४१५।२३]
ज्ञानसंपत्पुनश्चतुर्विधा ।
[४१५।२३-४१६।०१]
अनुपदिष्टज्ञानं सर्वत्रज्ञान सर्वथाज्ञानमयत्नज्ञानं च ।
[४१६।०१]
चतुर्विधा प्रहाणसंपत् ।
[४१६।०१-४१६।०२]
सर्वक्लेशप्रहाणमत्यन्तप्रहाणं सवासनप्रहाणं सर्वसमाधिसमापत्त्यावरणप्रहाणं च चतुर्विधा प्रभावसंपत् ।
[४१६।०२-४१६।०४]
बाह्यविषयनिर्माणपरिणामना धिष्ठानवशित्यसंपतायुरुत्प्तर्गाधिष्ठानवशित्वसंपतावृताकाशदूरक्षीप्रगमनाल्पवहुत्वप्रवेशन वशित्वसंपत्विविधनिजाश्चर्यधर्मसंपच्च ।
[४१६।०४-४१६।०५]
चतुर्विधा रूपकायसंपत् ।
[४१६।०५]
लक्षणसंपतनुव्यञ्जनसंपत्बलसंपत्वज्रसारास्थिसंपत् ।
[४१६।०६]
इत्येतत्सामासिकं बुद्धानां माहात्म्यम् ।
अनन्तप्रभेदं तु तद्भिद्यमानं जायते ।
[४१६।०७-४१६।०८]
तच्च पुनर्बुद्धा एव सकलं ज्ञातुं बक्तुं च समर्थाः यद्यनेकासंख्येयं कल्पं जीवितमधितिष्ठेयुः ।
[४१६।०८]
एवं च तावदनन्ताद्भूतगुणज्ञानप्रभावोपकारमाहरत्नाकरास्तथागताः ।
[४१६।०९-४१६।१०]
अथ चपुनर्बालाः स्वगुणदारिद्रच्यहताधिमोक्षाः श्रुण्वन्तोऽपि तां तादृशीं गुणसमृद्धिं बुद्धं च नाद्रियन्ते तस्य च धर्मम् ।
[४१६।१०-४१६।११]
पण्डितास्तु पुनर्मज्जाभिरपि तं भगवन्तमभिप्रपद्यन्ते तस्य च धर्मम् ।
[४१६।११-४१६।१३]
ते हे श्रद्धामात्रकेणाप्येकान्तिकेनाभिप्रसन्ना अनियतविपाकानां पापानां राशीनभिभूय दैवीं मानुषीं च श्रियमभिभूय निर्वाणपरायणाः संवर्तन्ते ।
[४१६।१३]
अत एव तथागता अनुत्तरं पुण्यक्षेत्रमुच्यन्ते ।
[४१६।१४]
अवन्ध्येष्ठपोरकृष्टाशुस्वन्तफलत्वात् ।
उक्तं हि भगवता
[४१६।१५-४१६।१६]
“येऽन्यानपि जिने कारान्करिष्यन्ति विनायके ।
विचित्रं स्वर्गमागम्य ते लप्स्यन्तेऽमृतं पदमि”ति ।
[४१६।१७]
इमे तावदष्टादश बुद्धानामावेणिका धर्मा उच्यन्ते ॥
[४१६।१८]
शिष्यसाधारणा अन्ये धर्माः
[४१६।१९]
श्रावकसाधारणास्त्वन्ये गुणा बुद्धानाम् ।
[४१६।२०]
केचित्पृथग्जनैः ।
[४१६।२१]
के पुनस्त इति यथायोगम्
[४१६।२२]
अरणाप्रणिधिज्ञानप्रतिसंविद्गुणादयः ॥ ७.३५ ॥
[४१७।०१-४१७।०२]
अरणप्रणिधिज्ञानप्रतिसंविदभिज्ञाध्यानारुप्यांप्रमाणविमोक्षाभिभ्वायतनकृत्स्नायतनादयः ।
[४१७।०२-४१७।०४]
तत्रारणा नाम कश्चिदेवार्हन् क्लेशप्रभवं सत्त्वानां दुःखं विदित्वात्मानं च दक्षिणीयविशेषं परेषां तदालम्बनं क्लेशोत्पादं परिहर्तुकामस्तादृशं ज्ञानमुत्पादयति भेन परेषां सर्वथाऽपि रणं नोत्पादयति ।
[४१७।०४-४१७।०५]
न कस्यचित्तदालम्बनो राग उत्पद्यते द्वेषो मानो वा ।
[४१७।०५]
नैषा प्रतिपत्कञ्चिदेव रणयतीत्यरणा ।
सा पुनरेषा
[४१७।०६]
संवृतिज्ञानमरणा
[४१७।०७]
अयमस्या स्वभावः ।
[४१७।०८]
ध्यानेऽन्त्ये
[४१७।०९]
चतुर्थध्यान भूमिका सुखप्रतिपदामग्रत्वात् ।
[४१७।१०]
अकोप्यधर्मणः ।
[३४१।७११-४१७११]
नान्यस्यार्हतः ।
[४१७।११-४१७।१२]
अन्यो हि स्वसंतानादपि कदाचित्क्लेशरणं परिहर्तु न शक्नोति ।
[४१७।१३]
नृजा
[४१७।१४]
मनुष्येष्वेवोत्पद्यते त्रिषु द्वीपेषु ।
[४१७।१५]
अनुत्पन्नकामाप्तसवस्तुक्लेशगोचराः ॥ ७.३६ ॥
[४१७।१६-४१७।१७]
अनागताः कामावचराः सवस्तुकाः क्लेशाः अस्या आलम्बनं नापरेषां क्लेश उदपादीत्येवं प्रवृत्तत्वात् ।
[४१७।१७-४१७।१८]
अवस्तुकास्तु क्लेशा न शक्याः परिहर्तुं सर्वत्रगाणां सकलस्वभूम्यालम्बनत्वात् ।
[४१७।१८]
यथा चारणोक्ता
[४१७।१९]
तथैव प्रणिधिज्ञानं
[४१८।०१]
तदपि हि संवृतिज्ञानं ध्यानेऽन्त्येऽकोप्यधर्मणः मनुष्याश्रयं च
[४१८।०२]
सर्वालम्बं तु तत्
[४१८।०३]
सर्वधर्मालम्बनं तु प्रणिधिज्ञानमित्येव विशेषः ।
[४१८।०३-४१८।०४]
आरुप्यास्तु न साक्षात्प्राणिधिज्ञानेन ज्ञायन्ते ।
[४१८।०३]
किं तर्हि ।
निष्पन्नचरितविशेषात् ।
[४१८।०४-४१८।०५]
कर्षकनिदर्शनं चात्रेति वैभाषिकाः ।
[४१८।०५-४१८।०६]
प्रणिधिपूर्वकं ज्ञानं प्रणिधिज्ञानं यद्धि प्रणिधाय प्रान्तकोटिकं चतुर्थ ध्यानं समापद्यते ।
[४१८।०६]
इदं जानीयामिति तद्यथाभूतं जानाति ।
सर्वस्तत्समाधिविषयः
[४१८।०७-४१८।०८]
तथा ।
धर्मार्थयोर्निरुक्तौ च प्रतिभाने च संविदः ॥ ७.३७ ॥
[४१८।०९]
चतस्रो हि प्रतिसंविदः ।
[४१८।०९-४१८।१०]
धर्मप्रतिसंविदर्थप्रतिसंविन्निरुक्तिप्रतिसंवित्प्रतिभानप्रतिसंविच्च ।
[४१८।१०-४१८।११]
ता अपि धर्मार्थनिरुक्तिप्रतिभानप्रतिसंविदस्तथैव यथाऽरणा ।
[४१८।११]
किमासां तथैव अकोप्यधर्ममनुष्याश्रयत्वम् ।
[४४१।८११-४१८१२]
आलम्बनभूमिस्वभावविशेषस्त्वासां पृथगुच्यते ।
[४१८।१३]
तिस्रो नामथवाग्ज्ञानमविवर्त्य यथाक्रमम् ।
[४१८।१४-४१८।१५]
नामपदव्यञ्जनकायेष्वर्थवाचिता अविवर्त्यज्ञानं धर्माथंनिरुक्तिप्रतिसंविदो यथाक्रमम् ।
[४१८।१६]
चतुर्थीयुक्तोमुक्ताभिलापमार्गवशित्वयोः ॥ ७.३८ ॥
[४१८।१७]
अविवर्त्यं ज्ञानमिति वर्तते ।
[४१८।१७-४१८।१८]
युक्तमुताभिलापितायां समाधिवशिसंप्रक्याने चाविवर्त्यं ज्ञानं प्रतिभानसंवित् ।
[४१८।१९]
वाङ्मार्गालम्बना चासौ
[४१८।२०]
वाक्च मार्गश्च तस्याः आल्म्वनम् ।
[४१८।२१]
नव ज्ञानानि
[४१९।०१]
नवज्ञानस्वभावा प्रतिभानप्रतिसंविदन्यत्र निरोधज्ञानात् ।
[४१९।०२]
सर्वभूः ।
[४१९।०३]
सर्वभूमिका चासौ कामधातौ यावत्भवाग्रे वाङ्मार्गयोरन्यतरालम्बनात् ।
[४१९।०४]
दश षड्वाऽर्थसंवित्
[४१९।०५]
अर्थप्रतिभानसंवित्सर्वधर्माश्च्चेदर्था दश ज्ञानानि ।
[४१९।०५-४१९।०६]
निर्वाणं चेदर्थः षट्ज्ञानानि ।
[४१९।०६]
धर्मान्वयनिरोधक्षयानुत्पादसंवृतिज्ञानानि ।
[४१९।०७]
सा सर्वत्र
[४१९।०८]
सा पुनरेषाऽर्थप्रतिसंवित्सर्वभूमिका ।
[४१९।०९]
अन्ये तु सांवृतम् ॥ ७.३९ ॥
[४१९।१०-४१९।११]
अन्ये तु द्वे धर्मनिरुक्तिप्रतिसविदौ संवृतिज्ञानस्वभावे नामकायादिवागालम्बनस्वभावत्वात् ।
[४१९।१२]
कामध्यानेषु धर्मे वित्
[४१९।१३-४१९।१४]
धर्मप्रतिसंवित्पञ्चभूमिका कामधातुचतुर्थध्यानसंगृहीता ऊर्ध्वं नामकायाभावात् ।
[४१९।१५]
वाचि प्रथमकामयोः ।
[४१९।१६]
वाङ्निरुक्तिरित्येकोऽर्थः ।
[४१९।१६-४१९।१७]
निरुक्तिप्रतिसंवित्कामधातुप्रथमध्यानभूमिका ऊर्ध्वं वितर्काभावात् ।
[४१९।१७]
प्रज्ञप्तौ तु प्रतिसंविदामेव निर्देशः ।
[४१९।१७-४१९।१९]
“पदव्यञ्जने तस्यैवर्थे तस्यैकद्विवहुस्त्रीपुरुषाद्यधिवचने तस्यासक्ततायामविवर्त्यज्ञानं धर्माविप्रतिसंविद” इत्यत एवासां क्रमसिद्धिः ।
[४१९।१९]
निर्वचनं निरुक्तिः ।
[४१९।१९-४१९।२०]
यथा रुप्यते तस्माद्रूपमित्येवमादि ।
[४१९।२०]
उत्तरोत्तरप्रतिभा प्रतिभानमित्यपरे ।
[४१९।२०-४१९।२१]
आसां च किल प्रतिसंविदां गणितं बुद्धवचनं शब्दवैद्या हेतुविद्या च पूर्वप्रयोगो यथाक्रमम् ।
[४१९।२१-४२०।०१]
नाप्येतेष्वकृतकौशलस्ता उत्पादयितुं शक्नोतीति ।
[४२०।०१]
बुद्धवचनमेव तु सर्वासां प्रयोगं वर्णयन्ति ।
[४२०।०२]
यस्य चैका तस्यावश्यं चतस्रः प्रतिसंविदी भवन्ति ।
[४२०।०३]
विकलाभिर्न तल्लाभी
[४२०।०४]
नहि विकलाभिस्ताभिः प्रतिसंविल्लाभी भवति ।
[४२०।०५]
ये चैत उपदिष्टा अरणादयो गुणाः ।
[४२०।०६]
षडेते प्राण्तकोटिकाः ॥ ७.४० ॥
[४२०।०७]
प्रान्तकोटिकध्यानवलेनैषां लाभः ।
[४२०।०८]
तत्षडिवधं
[४२०।०९]
तदपि प्रान्तकोटिकं चतुर्थ ध्यानं षडात्मकम् ।
[४२०।०९-४२०।१०]
अरणाप्रणिधिज्ञानं तिस्रः प्रतिसंविदः ।
[४२०।१०]
तदेव प्रन्तकोटिकम् ।
[४२०।१०-४२०।११]
निरुक्तिप्रतिसंविदस्तद्वलेन लाभो न तु सा चतुर्थध्यानभूमिका ।
[४२०।१२]
किं पुनरिदं प्रान्तकोटिकं नाम ।
[४२०।१२-४२०।१३]
ध्यानमन्त्यं चतुर्थं ध्यानम् ।
[४२०।१४]
सर्वभूम्यनुलोमितम् ।
[४२०।१५]
वृद्धिकाष्टागतं तच्च
[४२०।१६]
कथं सर्वभूम्यनुलोमितम् ।
कामावचराच्चित्तात्प्रथमं ध्यानं समापद्यते ।
[४२०।१७]
ततो द्वितीयमेवं क्रमेण यावन्नैवसंज्ञानासंज्ञायतनम् ।
[४२०।१७-४२०।१८]
प्रतिलोमं पुनर्यावत्कामावचरं चित्तं ततः पुनरनुलोमं यावच्चतुर्थध्यानमेवं सर्वभूम्यनुलोमितम् ।
[४२०।१८-४२०।१९]
कथं वृद्धिकाष्टागतम् ।
[४२०।१९]
तथाभावितान्मृदुनो मध्यं मध्यादधिमात्रं समापद्यते ।
[४२०।१९-४२०।२०]
वृद्धिप्रकर्षो हि वृद्धिकाष्टा ।
[४२०।२०]
इदमीदृशं प्रान्तकोटिकं प्रगताऽन्त कोटिरस्येति कृत्वा ।
[४२०।२०-४२०।२१]
कोटिः पुनरत्र वृद्धिः प्रकारो वा ।
[४२०।२१]
चतुष्कोटिकवत् ।
[४२०।२२]
एते पुनः बुद्धतुणाः
[४२१।०१]
बुद्धान्यस्य प्रयोगजाः ॥ ७.४१ ॥
[४२१।०२]
बुद्धादन्यस्य प्रायोगिका न वैराग्यलाभिकाः ।
बुद्धस्य नास्ति किञ्चित्प्रायोगिकम् ।
[४२१।०३]
तस्य सर्वधर्मेश्वरत्वादिच्छामात्र प्रतिबधः सर्वगुणसंपत्संमुखीभावः ।
[४२१।०३-४२१।०४]
इमे तावच्छ्रादकसाधारणगुणा अभिज्ञादयः पृथग्जनैरपि ।
[४२१।०५]
केयमभिज्ञा नाम ।
[४२१।०६]
ऋद्ध्हिश्रोत्रमनःपूर्वजन्मच्युत्युदयक्षये ।
[४२१।०७]
ज्ञातसाक्षीक्रियाऽभिज्ञा षड्विधा
[४२१।०८]
ऋद्धिविषये ज्ञानसाक्षात्क्रिया अभिज्ञा ।
[४२१।०८-४२१।०९]
दिव्यश्रोत्रचेतःपर्यायपूर्वनिवासानुस्मृतिच्युत्युत्पपादास्रवक्षयज्ञानसाक्षात्क्रिया अभिज्ञाः ।
[४२१।०९]
एताः षडभिज्ञा ।
[४२१।०९-४२१।१०]
आसां पञ्च पृथग्जनैः साधारणाः ।
[४२१।१०]
सर्वास्त्वेताः
[४२१।११]
मुक्तिमार्गधीः ॥ ७.४२ ॥
[४२१।१२]
विमुक्तिमार्गप्रज्ञास्वभावाः ।
श्रामण्यफलवत् ।
[४२१।१३]
चतस्रः संवृतिज्ञानं
[४२१।१४]
चेतःपर्यायास्रवक्षयज्ञानाभिज्ञे हित्वा ।
[४२१।१५]
चेतसि ज्ञानपञ्चकम् ।
[४२१।१६]
चेतःपर्यायाभिज्ञा पञ्च धर्मान्वयमार्गसंवृतिपरचित्तज्ञानानि ।
[४२१।१७]
क्षयाभिज्ञा बलं यद्वत्
[४२१।१८]
यथास्रवक्षयज्ञानवलमुक्तं तथा वेदितव्या ।
षड्दश ज्ञानानीति ।
[४२१।१८-४२१।१९]
सर्वभूमिकाऽप्येषा तथैव ज्ञात्व्या ।
[४२१।१९]
शेषास्तु
[४२२।०१]
पञ्च ध्यानचतुष्टये ॥ ७.४३ ॥
[४२२।०२]
पञ्चाभिज्ञाः चतुर्थध्यानभूमिकाः ।
कस्मादारुप्यभूमिका न सन्ति ।
[४२२।०२-४२२।०३]
तिस्रस्तावन्न सन्ति ।
[४२२।०३]
रूपालम्बनत्वात् ।
[४२२।०३-४२२।०४]
चेतःपर्यायाभ्हिज्ञापि नास्ति रूपतीर्थाभिनिष्पाद्यत्वात् ।
[४२२।०४]
पूर्वनिवासस्मृतिरप्यनुपूर्वावस्थान्तरमरणाभिनिष्पत्तेः ।
[४२२।०४-४२२।०५]
स्थानगोत्राद्यालम्बनत्वाच्च ।
[४२२।०५-४२२।०६]
परचित्तं हि ज्ञातुकाम आत्मनः कायचित्तयोर्निमित्तमुद्गृह्लाति ।
[४२२।०६-४२२।०७]
कीदृशेऽपि मे काये कीदृशं चित्तं भवत्येवं परेषामप्याभुजतश्चित्तज्ञानादभिनिष्पन्ना भवति ।
[४२२।०७]
अभिनिष्पन्नायामभिज्ञायां रूपनिरपेक्षो जानाति ।
[४२२।०७-४२२।०९]
पूर्वनिवासं समनुस्मर्तुकामः समनन्तरनिरुद्धमनोविज्ञानो निमित्तमुद्गृह्य तत्समनन्तरप्रातिलोम्येनावस्थान्तराणि मनसिकरोति ।
[४२२।०९-४२२।१०]
यावत्संधिचित्तम् ।
[४२२।१०]
ततोऽन्तराभवस्यैकक्षणं मरणेऽपि निष्पन्नो भवति ।
[४२२।१०-४२२।११]
एवं परस्यापि स्मरति ।
[४२२।११-४२२।२११]
अभिनिष्पन्नायां विलङ्घ्यापि स्मरणम् ।
[४२२।११]
अनुभूतपूर्वस्यैव स्मरणम् ।
[४२२।१२]
शुद्धावासानां कथं स्मरणम् ।
श्रवणेनानुभूतत्वात् ।
[४२२।१२-४२२।१३]
आरुप्यच्युतस्येहोपपन्नस्य परसंतत्यधिष्ठानेनोत्पादनम् ।
[४२२।१३]
अन्येषां स्वसंतत्यधिष्ठानेन ।
[४२२।१३-४२२।१४]
ऋद्ध्यादीनां तु लघत्वशब्दालोकमनसिकरणं प्रयोगः ।
[४२२।१४]
ताः पुनरेताः पञ्चाभिज्ञाः
[४२२।१५]
स्वाधोभूविषयाः
[४२२।१६]
यद्भूमिका ऋद्धच्यभ्हिज्ञा भवति तां भूमि तया गच्छति ।
[४२२।१६-४२२।१७]
निर्मिणोति वा अधरां नोक्तराम् ।
[४२२।१७-४२२।१८]
एवं दिव्यश्रोत्राभिज्ञया स्वभूमिकमेव शब्दं शृणोत्यधरभूमिकं वा नोर्ध्वभूमिकम् ।
[४२२।१८]
चेतः पर्यायाभिज्ञया नोर्ध्वभूमिकं चित्तं जानाति ।
[४२२।१८-४२२।१९]
पूर्वनिवासानुस्मृत्या न स्मरति ।
[४२२।१९]
च्युतोपपादाभिज्ञया न पश्यति ।
[४२२।१९-४२२।२०]
अत एवारुप्यभुमिकं चित्तं चेतःपर्यायपूर्वनिवासभिज्ञाभ्यां न गृह्लात्युर्ध्वभूमिकत्वात् ।
[४२२।२१]
कथमेता लभ्यन्ते ।
अतुचित्ताः प्रयोगतः
[४२२।२२]
लभ्या उचितास्तु विरागतः ।
[४२२।२३]
जन्मान्तराभ्यस्ता अभिज्ञा वैराग्यतो लभ्यन्ते वैशेषिक्यः प्रयोगतः ।
[४२२।२३-४२२।२४]
सर्वासां तु प्रयोगेणोत्पादनम् ।
[४२२।२५]
तृतीया त्रीप्युपस्थानानि
[४२३।०१]
चेतःपर्यायाभिज्ञा त्रीणि वेदनाचित्तधर्मस्मृत्युपस्थानानि ।
[४२३।०१-४२३।०२]
चित्तचैत्तालम्ल्बनत्वात् ।
[४२३।०३]
आद्यं श्रोत्रर्द्विवक्षुषि ॥ ७.४४ ॥
[४२३।०४]
अभिज्ञेति वर्तते ।
[४२३।०४-४२३।०५]
ऋद्धिदिव्यश्रोत्रदिव्यचक्षुरभिज्ञा आद्यं स्मृत्युपस्थानमित्यर्थः ।
[४२३।०५]
रूपालम्बनत्वात् ।
ऋद्धिश्चतुर्बाह्यायतनालम्बनाऽन्यत्र शब्दात् ।
[४२३।०६]
दिव्यश्रोत्रचक्षुरभिज्ञे शब्दरूपायतनालम्बने ।
[४२३।०६-४२३।०७]
कथं तर्हि “च्युतोपपादज्ञानेनैव जानाति अमी भवन्तः सत्त्वाः कायदुश्चरितेन समन्वागताः” इत्येवमादि ।
[४२३।०७-४२३।०८]
न तत्तेन जानाति ।
[४२३।०८]
अभिज्ञापरिवारज्ञानं तु तदन्यदार्याणामुत्पद्यते येनैवं जानन्ति ।
[४२३।०९]
अनिर्धारणाच्छेषे चतुःस्मृत्युपस्थानस्वभावे इति सिद्धम् ।
[४२३।१०]
अव्याकृते श्रोत्रचक्षुरभिज्ञे इतराः शुभाः ।
[४२३।११]
दिव्यचक्षुःश्रोत्राभिज्ञे अव्याकृते ।
ते पुनश्चक्षुःश्रोत्रविज्ञानसंप्रयुक्तप्रज्ञे ।
[४२३।१२]
कथं तर्हि ते चतुर्ध्यानभूमिके सिध्यतः ।
आश्रयवशेन तद्भूमिनिर्देशात् ।
[४२३।१२-४२३।१३]
तदाश्रये हि चक्षुःश्रोत्रे चतुर्ध्यानभूमिके ।
[४२३।१३]
आनन्तर्यमार्गवशेन वा ।
[४२३।१३-४२३।१४]
अन्याश्चतस्रः कुशलाः ।
[४२३।१४]
यत्तर्हि प्रकरणेषूक्तम् “अभिज्ञा कतमा ।
कुशला प्रज्ञे”ति ।
[४२३।१४-४२३।१५]
प्रधानिक एष निर्देशो वाहुलिको वा ।
[४२३।१५]
आसां चाभिज्ञानां
[४२३।१६]
तिस्रो विद्याः
[४२३।१७]
पूर्वनिवासच्युत्युपपादास्रवक्षयज्ञानसाक्षात्क्रियास्तिस्रः अशैक्ष्यो विद्या उच्यन्ते ।
[४२३।१८]
कस्मादेता एव नान्याः ।
[४२३।१९]
अविद्यायाः पूर्वान्तादौ निवर्त्तनात् ॥ ७.४५ ॥
[४२३।२०]
एता हि पूर्वापरान्तमध्यसंमोहं व्यावर्तयन्ति यथाक्रमम् ।
आसां परमार्थेन
[४२४।०१]
अशैक्ष्यन्त्या
[४२४।०२]
आस्रवक्षयज्ञानसाक्षात्क्रियैवाशैक्षी विद्या ।
[४२४।०३]
तदास्ये द्वे तत्संतानसुद्भवात् ।
[४२४।०४]
अन्ये द्वे अशैक्ष्यसंतानसंभूतत्वादशैक्ष्यावुच्येते ।
नैव तु ते शैक्ष्यो नाशैक्ष्यौ ।
[४२४।०४-४२४।०५]
किं पुनरेते अभिज्ञे शैक्ष्यस्य नोच्येते ।
[४२४।०५]
यतः शैक्ष्यौ विद्ये नोच्येते ।
[४२४।०६]
इष्टे शैक्ष्स्य नोक्ते तु विद्ये साविद्यसंततेः ॥ ७.४६ ॥
[४२४।०७]
न हि साविद्यसंताने विद्याव्यवस्थानं युज्यते ।
पुनरप्यविद्याभिभवात् ।
[४२४।०८]
आसां चाभिज्ञानाम्
[४२४।०९]
आद्या तृतीया षष्ठी च प्रातिहार्याणि
[४२४।१०-४२४।११]
ऋद्धिचेतःपर्यायास्रवक्षयाभिज्ञास्त्रीणि प्रातिहार्याणि यथाक्रममृद्धच्यादेशनानुशासनप्रातिहार्याणि ।
[४२४।११-४२४।१२]
विनेयमनसामादितोऽत्यर्थ हरणात्प्रातिहार्याणि प्रातिशब्दयोरादिकर्मबृशार्थत्वात् ।
[४२४।१२-४२४।१३]
प्रतिहतमध्यस्थानां मनांस्येभिः प्रतिहरन्तीति प्रातिहार्याणि वा ।
[४२४।१३]
एषां पुनः
[४२४।१४]
शासनम् ।
[४२४।१५]
अग्च्र्यम्
[४२४।१६]
अनुशासनं प्रतिहार्यमग्च्य म् ।
[४२४।१७]
अव्यभिचारित्वाद्धितेष्टफलयोजनात् ॥ ७.४७ ॥
[४२४।१८]
ऋद्धच्यादेशने हि विद्यया विकेइयेते ।
[४२४।१८-४२४।१९]
अस्ति हि च गान्धारी नाम विद्या ययाफाशेन गच्छति ईक्षणिका च नाम विद्या यया परचित्तं जानाति ।
[४२४।१९-४२५।०१]
न तु यथाभूतानुशासनमन्यथा शक्यं कर्तुमव्य्भिचारित्वात् ।
[४२५।०१-४२५।०३]
प्रधानमावर्जनमात्रं च ताभ्यामनुशासनप्रातिहार्येण तु हितेन इष्टेनफलेन योगो भवत्युपायोपदेशादित्येवावश्यमृद्धिरित्युच्यते ।
[४२५।०४]
केयमृद्धिः ।
वैभाषिकन्यायेन
[४२५।०५]
ऋद्धिः समाधिः
[४२५।०६]
ऋध्यत्यनेनेति कृत्वा योजयितव्यम् ।
किं तेन समृध्यति ।
[४२५।०७]
गमनं निर्माणं च
[४२५।०८]
ततस्तत्र
[४२५।०९]
गतिस्त्रिधा ।
[४२५।१०]
शरीरवाहिनी आधिमोक्षिकी मनोजवा च तत्र गतिः ।
[४२५।११]
शास्तुर्मनोजवा
[४२५।१२]
मनस इवास्या रव इति मनोजवा गतिर्बुद्धस्यैव नान्यस्य ।
[४२५।१२-४२५।१३]
सुदूरमपि देशं चित्तोत्पादकालेल्न गमनात् ।
[४२५।१३]
अत ए”वाचिन्त्यो बुद्धानां बुद्धविषय” इत्युक्तं भगवता ।
[४२५।१४]
इतरे तु गती बुद्धस्यानुक्तसिद्धे ।
[४२५।१५]
अन्येषां वाहिन्यप्याधिमोक्षिकी ॥ ७.४८ ॥
[४२५।१६]
श्रावकप्रत्येकबुद्धानां शरीरवाहिनी च गतिः ।
पक्षिवत्क्रमेण शरीरवाहनात् ।
[४२५।१७]
आधिमोक्षिकी च दूरस्यासन्नाधिमोक्षेणाशुगमनात् ।
निर्माणं पुनर्द्विविधम् ।
[४२५।१८]
कामावचरं रूपावचरं च ।
तत्र तावत्
[४२५।१९]
कामाप्तं निर्मितं बाह्यं चतुरायतनं
[४२५।२०]
कामावचरं निर्माणं रूपरसगन्धस्प्रष्टव्यायतनस्वभावम् ।
तत्पुनर्
[४२६।०१]
द्विधा ।
[४२६।०२]
स्वपरशरीरसंबद्धम् ।
[४२६।०३]
रूपाप्तं द्वे तु
[४२६।०४]
रूपावचरनिर्माणं द्वे रूपस्प्रष्टव्यायतने ।
तत्र गन्धरसाभावात् ।
[४२६।०४-४२६।०५]
तदपि द्विविधं तथैव ।
[४२६।०५-४२६।०६]
कामधाताविदं चतुर्विधं निर्माणमेवं रूपधातवित्यष्टविधं समासतो निर्माणम् ।
[४२६।०६-४२६।०७]
कथं रूपधातूपपन्नस्य कामावचरनिर्माणे गन्धरसाभ्यां न समन्वागमो भवति ।
[४२६।०७]
वस्त्राभरणवन्न समन्वागमः ।
[४२६।०७-४२६।०८]
द्वच्यायातनं निर्मिणोतीत्यपरे ।
[४२६।०८]
किं खल्वभिज्ञयैव निर्माणं निर्मीयते ।
नेत्युच्यते ।
किं तर्हि ।
[४२६।०९]
अभिज्ञाफलैः ।
[४२६।१०]
निर्माणचित्तैस्तानि चतुर्दश ॥ ७.४९ ॥
[४२६।११]
तानि पुनश्चतुर्दश निर्माणचित्तानि
[४२६।१२]
यथाक्रमं ध्यानफलं द्वे यावत्पञ्च ।
[४२६।१३]
प्रथमध्यानफलं द्वे कामधातुप्रथमध्यानभूमिके निर्माणचित्ते ।
[४२६।१३-४२६।१४]
द्वितीयध्यानफलं त्रीणि कामधातुप्रथमद्वितीयध्यानभूमिकानि ।
[४२६।१४-४२६।१५]
एवं तृतीयचतुर्थध्यानभूमिकानि चत्वारि पञ्च च योज्यानि ।
[४२६।१५]
स्वभूमिकाधरभूमिकं निर्माणचित्तं ध्यानफलं वेदितव्यम् ।
[४२६।१६]
नोर्ध्वजम् ।
[४२६।१७]
नोर्ध्वभूमिकं निर्माणचित्तमधरध्यानफलमस्ति ।
[४२६।१७-४२६।१८]
द्वितीयादिध्यानफलं कामावचरं निर्माणं प्रथमध्यानभूमिकाद्गतितो विशिष्यते ।
[४२६।१९]
तल्लभो ध्यानवत्
[४२६।२०]
तेषां च निर्माणचित्तानां ध्यानवल्लाभः ।
[४२६।२०-४२६।२१]
कि खलु निर्माणचित्तादेव स्यात्व्युत्थानम् ।
[४२६।२१]
नास्त्येतत् ।
यस्मादुत्पद्यते ।
[४२७।०१]
शुद्धात्तत्स्वतश्च
[४२७।०२]
शुद्धकाद्धच्यानादन्तरं निर्माणचित्तमुत्पद्यते निर्माणचित्तद्वा नान्यतः ।
[४२७।०३]
ततोऽपि ते ॥ ७.५० ॥
[४२७।०४]
निर्माणचित्तादपि शुद्धकं ध्यानं निर्माणचित्तं चोत्पद्यते नान्यत् ।
[४२७।०४-४२७।०५]
न हि समाधिफलस्थितस्वाप्रविश्य पुनः समाधिं तस्मात्व्युत्थानमस्ति ।
[४२७।०५-४२७।०६]
सर्वस्य च निर्मितस्य
[४२७।०७]
स्वभूमिकेन निर्माणं
[४२७।०८]
नान्यभूमिकेन निर्माणचित्तेनान्यभूमिकं निर्माणं निर्मीयते ।
[४२७।०९]
भाषणं त्वधरेण च ।
[४२७।१०]
स्वभूमिकेन चेति च-शब्दः ।
[४२७।१०-४२७।११]
कामधातुप्रथमध्यानभूमिको हि निर्मितः स्वभूमिकेनैव चित्तेन भाष्यते ।
[४२७।११]
ऊर्ध्वभूमिकस्तु प्रथमध्यानभूमिकेन ।
[४२७।११-४२७।१२]
ऊर्ध्वं विज्ञप्तिसमुत्थापकाभावात् ।
[४२७।१२]
वहूनां निर्मितानां भाषणं
[४२७।१३]
निर्मात्रैव सहाशास्तुः
[४२७।१४]
बुद्धादन्यस्य निर्माणं निर्मात्रा सह भाषते ।
[४२७।१४-४२७।१५]
यदा च वहवो निर्मिता भवन्ति तदा युगपत्भाषन्ते ।
[४२७।१६]
एकस्य भाषमाणस्य भाषन्ते सह निर्मिताः ।
[४२७।१७]
एकस्य तूष्णींभूतस्य सर्वेतूष्णीं भवन्ति त” इति गाथा ।
[४२७।१८]
बुद्धस्य पूर्व पश्चाद्वा यथेच्छं निर्मिता भाषन्ते ।
[४२७।१८-४२७।१९]
यदा भाषणचित्तं तदा निर्माणचित्ताभावो निर्माणचित्ताभावान्निर्मिताभाव इति कथमेनं भाषयन्ति ।
[४२७।२०]
अधिष्ठायान्यवर्त्तनात् ॥ ७.५१ ॥
[४२८।०१]
निर्माणमधिष्ठायावस्थानकामतयाऽन्येन मनसा वाचं प्रवर्तयन्ति ।
[४२८।०१-४२८।०२]
किं जीवित एवाधिष्ठानमनुवर्तते अथ मृतश्चापि ।
[४२८।०३]
मृतस्याप्यस्त्यधिष्ठानं
[४२८।०४]
आर्यमहाकश्यपाधिष्ठानेन तदस्थिसंकलावस्थानात् ।
तत्तु
[४२८।०५]
नास्थिरस्य
[४२८।०६]
अस्थिरस्य तु भावस्य नास्त्यधिष्ठानम् ।
आर्यकाश्यपेन मांसादीनामध्हिष्ठानात् ।
[४२८।०७]
अपरे तु न ।
[४२८।०८]
अपरे पुनराहुर्नास्ति मृतस्याधिष्ठानम् ।
[४२८।०८-४२८।०९]
अस्थिशङ्कलावस्थानं तु देवतानुभावादिति ।
[४२८।०९]
किमेकेन चित्तेनैकमेव निर्मित निर्मिणोति ।
[४२८।१०]
आदावेकमनेकेन जितायां तु विपर्ययात् ॥ ७.५२ ॥
[४२८।११]
आदित एकं निर्मितमनेकेन निर्माणचित्तेन निर्मिणोति ।
[४२८।११-४२८।१२]
जितायां त्वभिज्ञायामेकेन चित्तेनानेकं निर्मिणोति यावन्निर्मातुमिष्टं भवति ।
[४२८।१२-४२८।१३]
अथ किं सर्वनिर्माणचित्तमव्याकृतं भवति ।
[४२८।१४]
अव्याकृतं भावनाजं
[४२८।१५]
यद्भावनाफलं तदवश्यमव्याकृतं भवति ।
[४२८।१६]
त्रिविधं तूपपतीजम् ।
[४२८।१७-४२८।१८]
उपपत्तिप्रतिलम्भिकं तु निर्माणचित्तं कुशलाकुशलमव्याकृतं भवति देवनागपिशाचादीनाम् ।
[४२८।१८-४२८।१९]
तत्कृतं च स्वपरशरीरनिर्माणं नवायतनिकं भवत्यशब्दरुप्यायतनत्वादिन्द्रियाविनिर्भूतत्वात् ।
[४२८।१९]
न त्विन्द्रियं निर्मीयते ।
[४२८।१९-४२८।२०]
किमेषैव द्विविधर्द्धिभावनामयी चोपपत्तिलाभिका च ।
[४२८।२०]
एषा च द्विविधा
[४२९।०१]
ऋद्धिर्मन्त्रौषधाभ्यां च कर्मजा चेति पञ्चधा ॥ ७.५३ ॥
[४२९।०२]
समास्तः पञ्चविधामृद्ध्हिं वर्णयन्ति ।
[४२९।०२-४२९।०३]
भावनाफलमुपपत्तिलाभिकं मन्त्रजामौषधजां कर्मजां च ।
[४२९।०३]
यथा मान्धातुरन्तराभविकानां च ।
[४२९।०४]
यदिदं दिव्यश्रोत्रमुक्तं चक्षुश्च ।
[४२९।०४-४२९।०५]
किमेते दिव्ये एव आहोस्वित्दिव्ये एव दिव्ये ।
[४२९।०५]
यथा बोधिसत्त्वचक्रवर्तिगृहपतिरत्नानाम् ।
[४२९।०६]
दिव्यश्रोत्राक्षिणी
[४२९।०७]
यस्मात्ते
[४२९।०८]
रूपप्रसादौ ध्यानभूमिकौ ।
[४२९।०९-४२९।११]
ध्यानसमापन्नस्य शब्दालोकाभोगप्रयोगेण ध्यानभूमिकानि भूतान्युपादाय रूपप्रसादौ निर्वर्तेते चक्षुःश्रोत्रसामन्तके रूपशब्द्योर्दर्शनश्रवणहेतू इति ध्यानभूमिकत्वात्दिव्ये एव ते चक्षुःश्रोत्रे ।
[४२९।११]
ते च पुनः
[४२९।१२]
सभागाविकले नित्यं दूरसूक्ष्मादिगोचरे ॥ ७.५४ ॥
[४२९।१३-४२९।१४]
नास्ति दिव्यं चक्षुः श्रोत्रं च तत्सभागं नित्यं विज्ञानसहितत्वात्नापि विकलं काणविब्रान्ताभावात् ।
[४२९।१४]
रूपावचरसत्त्ववत् ।
[४२९।१४-४२९।१५]
दूरसूक्ष्मवतान्यपि रूपाणि शब्धाश्च तयिओर्विष्यः ।
[४२९।१५]
आह चात्र
[४२९।१६-४२९।१७]
दूरस्थमावृतं सूक्ष्मं सर्वतश्च न पश्यति ।
मांसचक्षुर्यतो रूपमतो दिव्यं दृगिष्यते ॥
[४२९।१८]
कियद्दूरं पुनर्दिव्येन चक्षुषा पश्यति ।
यस्य यादृशं चक्षुर्भवति ।
[४२९।१८-४२९।२०]
श्रावकप्रत्येकबुद्धबुद्धास्त्वनभ्हिसंस्कारेण साहस्रद्विसाहस्रत्रिसाहस्रकान् लोकधातून् यथासंख्यं पश्यन्ति ।
[४२९।२०]
अभिसंस्कारेण तु
[४३०।०१]
द्वित्रिसाहस्रकासंख्यदृशोऽर्हत्खङ्गवैशिकाः ।
[४३०।०२]
सर्वाभ्हिसंस्कारेण सह श्रावकोऽपि द्विसाहस्र लोकधातुं दिव्येन चक्षुषा पश्यति ।
[४३०।०३]
त्रिसाहस्रं खङ्गविषाणकल्पः ।
[४३०।०३-४३०।०४]
बुद्धस्तु भगवानसंख्येयान् लोकहातून् पश्यति यावदेवेच्छति ।
[४३०।०५]
किमृद्धिरेवोपपत्तिलाभिका भवत्यर्हान्यदपि ।
[४३०।०६]
अन्यदप्युपपत्त्याप्तं
[४३०।०७]
दिव्यश्रोत्रादिकमपि चतुष्टयमुपपत्तिप्रतिलभ्यमस्ति ।
[४३०।०७-४३०।०८]
न तूपपत्त्याप्तं किञ्चिदभिज्ञाख्यां लभते ।
[४३०।०८]
यत्तूपपत्तिप्रतिलम्भिकं दिव्यं चक्षुः
[४३०।०९]
तद्दृश्यो नान्तरीभवः ॥ ७.५५ ॥
[४३०।१०]
अभिज्ञाचक्षुषैव ह्यन्तराभवो दृश्यते ।
नोपपत्तिप्रतिलब्धेन ।
[४३०।११]
चेतोज्ञानं तु तत्त्रेधा
[४३०।१२]
उपपत्त्याप्तमिति वर्तते ।
[४३०।१२-४३०।१३]
परचित्तज्ञानं तूपपत्तिप्रतिलब्धं त्रिविधं वेदितव्यं कुशलाकुशलाव्याकृतम् ।
[४३०।१४]
तर्कविद्याकृतं च यत् ।
[४३०।१५-४३०।१६]
यच्चापि तार्किकं परचित्तज्ञानं नैमित्तिकानां यच्च विद्याकृतं तदपि त्रिविधं वेदितव्यम् ।
[४३०।१६]
न यथा भावनाफलं कुशलमेव ।
[४३०।१६-४३०।१७]
उपपत्तिप्रतिलम्भिकाभ्यां तु परचित्तज्ञानपूर्वनिवासानुस्मृतिभ्यां
[४३०।१८]
जानते नारका आदौ
[४३०।१९]
यावन्न दुःखवेदनाभ्याहता भवन्ति ।
अन्यगतिस्था नित्यं जानते ।
[४३०।२०]
नृणां नोत्पत्तिलाभिकम् ॥ ७.५६ ॥
[४३१।०१]
मानुष्याणामेतद्यथोक्तमृद्धच्यादिकं नास्त्युपपत्तिप्रातिलम्भिकम् ।
[४३१।०१-४३१।०२]
यत्तर्हि प्रकृतिजातिस्मरा भवन्ति ।
[४३१।०२]
कर्मविशेषजाऽसौ तेषाम् ।
[४३१।०२-४३१।०३]
त्रिविधा हि पूर्वनिवासानुस्मृतिर्भावनाफलमुपपत्तिलब्धा कर्मजा चेति ॥
=====================================================================
[४३१।०४]
॥॥ अभिधर्मकोशभाष्ये ज्ञाननिर्देशो नाम सप्तमं कोशस्थानम् ॥॥
[४३१।०५]
स्थविरश्रीलामावाकस्य यदत्र पुण्यम् ।
अष्टमं कोशस्थानम्
=====================================================================
ओं नमो बुद्धाय
=====================================================================
[४३२।०२-४३२।०३]
ज्ञानाधिकारेण ज्ञानमयानां गुणानां कृतो निर्देशः ।
[४३२।०३-४३२।०४]
अस्य स्वभावानां तु कर्तव्य इत्यादित एव ध्यानान्यारभ्यन्ते सर्वगुणाश्रयत्वात् ।
[४३२।०५]
द्विधा ध्यानानि
[४३२।०६]
समासतो द्विविधानि ध्यानान्युपपत्तिसमापत्तिध्यानभेदात् ।
तानि पुनः
[४३२।०७]
चत्वारि
[४३२।०८]
प्रथमं ध्यानं यावच्चतुर्थम् ।
तत्र ध्यानोपपत्तयः पुनर्न वक्तव्याः ।
[४३२।०८-४३२।०९]
लोकनिर्देशकोशस्थाने हि
[४३२।१०]
प्रोक्तास्तदुपपत्तयः ।
[४३२।११]
कथं प्रोक्ताः ।
[४३२।१२]
“पृथक्पृथक् ।
[४३२।१३]
ध्यानं त्रिभूमिकं तत्र चतुर्थ त्वष्टभूमिकमि”ति ।
[४३२।१४]
समापत्तिध्यानं तु वक्तव्यम् ।
अत उच्यते
[४३२।१५]
समापत्तिः शुभैकाग्य्रं
[४३२।१६]
अभेदेन कुशलचित्तैकाग्रता ध्यानम् ।
समाधिस्वभावत्वात् ।
[४३२।१७]
पञ्चस्कन्धास्तु सानुगम् ॥ ८.१ ॥
[४३२।१८]
सपरिवारं तु पञ्चस्कन्धस्वभावं वेदितव्यम् ।
केयमेकाग्रता नाम ।
एकालम्बनता ।
[४३२।१९]
एवं तर्हि चित्तान्येवैकालम्बनानि समाधिर्न चैतसिकं धर्मान्तरमिति प्राप्नोति ।
[४३३।०१]
न चित्तान्येव समाधिः ।
येन तु तान्येकाग्राणि वर्तन्ते स धर्मः समाधिः ।
[४३३।०१-४३३।०२]
सैव चित्तैकाग्रता ।
[४३३।०२-४३३।०३]
ननु च क्षणिकत्वात्सर्वं चित्तमेकाग्रं द्वितीयस्य तस्मादविक्षेप इति चेत् ।
[४३३।०३]
संप्रयुक्ते समाधिवैयर्थ्यम् ।
[४३३।०३-४३३।०४]
यत एव च स्माधिस्तत एव चित्तानामेकालम्बनत्वं किं नेष्यते ।
[४३३।०४-४३३।०५]
महाभूमिकत्वाच्च समाधेः सर्वचित्तानामेकाग्रताप्रसङ्गः ।
[४३३।०५]
न दुर्बलत्वात्समाधेः ।
चित्तान्येवैकाग्राणि समाधिः ।
[४३३।०६-४३३।०७]
तथा ह्यधिचित्तं शिक्षा चित्तपरिशुद्धिप्रधानं च सूत्रे चत्वारि ध्यानान्युक्तानीत्यपरे ।
[४३३।०८]
ध्यानमिति कोऽर्थः ।
ध्यायन्त्यनेनेति ।
प्रजानन्तीत्यर्थः ।
[४३३।०८-४३३।०९]
समाहितचित्तस्य यथाभूतप्रज्ञानात् ।
[४३३।०९]
चिन्तनार्थो ह्येष धातुः ।
चिन्तनं च प्रज्ञेति सिद्धान्तः ।
[४३३।०९-४३३।१०]
एवं तर्हि सर्वसमाधिध्यानप्रसङ्गः ।
[४३३।१०]
न ।
प्रकर्षयुक्ते तन्नामविधानाद्भास्करवत् ।
[४३३।१०-४३३।११]
कश्च प्रकर्षयुक्तः ।
[४३३।११]
योऽङ्गसमायुक्तः समाधिः ।
[४३३।११-४३३।१२]
स हि शमथविपश्यनाभ्यां युगन्द्धवाहित्वाद्दृष्टधर्मसुखविहार उक्तः सुखा च प्रतिपदिति ।
[४३३।१२]
सुतरां तेन ध्यायन्ति ।
[४३३।१३]
क्लिष्टस्य कथं ध्यानत्वम् ।
मिथ्योपनिध्यानात् ।
अतिप्रसङ्गः ।
[४३३।१३-४३३।१४]
न । तत्प्रतिरूप एव तत्संज्ञाविनेवेशात्पूतिबीजवत् ।
[४३३।१४]
उक्तानि चाकुशलानि ध्यानान्यपि भगवता ।
[४३३।१५]
कीदृशं पुनः कुशलमैकाग्य्रं प्रथमं ध्यानं कीदृशं यावच्चतुर्थम् ।
[४३३।१५-४३३।१६]
प्रथमं तावत्
[४३३।१७]
विचारप्रीतिसुखवत्
[४३३।१८]
विचारप्रीतिसुखसंयुक्तं कुशलमैकाग्य्रं तत्प्रथमं ध्यानम् ।
[४३३।१८-४३३।१९]
विचारवचनाद्वितर्कोऽप्युक्तो भवति ।
[४३३।१९]
साहचर्याद्धूमाग्निवत् ।
[४३३।१९-४३३।२०]
न हि प्रीतिसुखवान्विचारो विना वितर्केणास्ति ।
[४३३।२०]
शेषं पुन्र्ध्यानत्रयं
[४३३।२१]
पूर्वपूर्वाङ्गवर्जितम् ।
[४३३।२२]
शुभैकाग्र्यमिति वर्तते ।
[४३३।२२-४३३।२३]
विचारविवर्जितं प्रीतिसुखवत्द्वितीयं विचारप्रीतिवर्जितं तृतीयं विचारप्रीतिसुखवर्जितं चतुर्थमिति ।
[४३३।२३-४३३।२४]
यथा ध्यानानि
[४३३।२५]
तथारूप्याः
[४३४।०१]
केन प्रकारेण ।
एतेऽपि हि द्विधा उपपत्तिसमापत्तितः ।
[४३४।०१-४३४।०२]
चत्वारश्च एषामपि चोपपत्तय उक्ताः ।
[४३४।०२-४३४।०३]
समापत्त्यारुप्यास्वभेदेन कुशलैकाग्रतास्वभावा इत्यनेन प्रकारेण सपरिवाराः
[४३४।०४]
चतुस्कन्धाः
[४३४।०५]
अनुपरिवर्तिरूपाभावात्
[४३४।०६]
अधोभूमिविवेकजाः ॥ ८.२ ॥
[४३४।०७]
चतुर्थध्यानविवेकजं ह्याकाशानन्त्यायतनम् ।
[४३४।०७-४३४।०८]
तद्विवेकजं विज्ञानानन्त्यायतनम् ।
[४३४।०८]
तद्विवेकजमाकिञ्चन्यायतनम् ।
[४३४।०८-४३४।०९]
तद्विवेकजं नैवसंज्ञानासम्ज्ञायतनमित्येवं चत्वार आरुप्याः ।
[४३४।०९]
कोऽयं विवेको नाम ।
येन मार्गेणाधस्ताद्विमुच्यते ।
[४३४।०९-४३४।१०]
वैराग्यगमनात् ।
[४३४।१०]
त एव चारुप्याः
[४३४।११]
विभूतरूपसंज्ञाख्याः सह सामन्तकैस्त्रिभिः ।
[४३४।१२]
आकाशानन्त्यायतनसामन्तकं चतुर्थध्यानालम्बनत्वाद्विभूतरूपसंज्ञाख्यां न लभते ।
[४३४।१३]
न हि तत्र रूपसंज्ञा विभूता न विगतेत्यर्थः ।
[४३४।१३-४३४।१४]
यदुक्तं “चतुस्कन्धा” इति साध्यं तावदेतदारुप्येषु रूपं नास्तीति ।
[४३४।१४]
यदि हि स्यात्कथमारुप्या उच्येरन् ।
[४३४।१४-४३४।१५]
ईषद्रूपत्वा दापिङ्गलवत् ।
[४३४।१५]
कीदृशं तावदीषद्रूपं तत्रेष्यते ।
[४३४।१५-४३४।१६]
यदि कायवाक्संवरमात्रं कथं तदभावे तत्संवरौ भविष्यतः ।
[४३४।१६]
न चासति भूते भौतिकं युज्यते ।
[४३४।१७]
अनास्रवसंवरवच्चेत् ।
सास्रवभूतसद्भावात् ।
स्मापत्तावपि तत्प्रतिषेध उक्तः ।
[४३४।१८]
अथ कायोऽप्यस्तीन्द्रियाण्यपि रूपीणि ।
कथं तदीषद्रूपा इष्यन्ते ।
[४३४।१८-४३४।१९]
परिमाणाल्पत्वाच्चेत् ।
[४३४।१९]
उदकजन्तुकेष्वप्यदृश्यरुपेषु प्रसङ्गः ।
अच्छत्वाच्चेत् ।
[४३४।१९-४३४।२०]
अन्तराभवरूपावचरेष्वपि प्रसङ्गः ।
[४३४।२०]
यतो नाच्छतरं चेत् ।
भवाग्रमेवारुप्यं स्यात् ।
[४३४।२०-४३४।२१]
समापत्तिवत्तदुपपत्तिविशेषात् ।
[४३४।२१-४३४।२२]
ध्यानोपपत्तिरूपस्यापि चाधरभूमिकेन्द्रियाग्रहणात्कस्तत्र विशेषः ।
[४३४।२२]
द्वयोरन्वर्था संज्ञा नारुप्यधातोरिति चेत् ।
काऽत्र युक्तिः ।
[४३४।२२-४३४।२५]
आयुरुष्मणोः संसृष्टवचनान्नडकलापीद्वयवन्नामरूपयोरन्योन्यनिश्रितवचना “द्विज्ञानप्रत्ययं नामरूपमि”ति वचनातन्यत्ररूपाद्यावत्संस्कारेभ्यो विज्ञानस्यागतिगतिप्रतिषेधाच्चारूप्येषु रूपास्तित्वसिद्धिरिति चेत् ।
[४३४।२५]
न ।
[४३४।२५-४३४।२६]
संप्रधार्यं तावदेतद्यदिदमायुरुष्मणोः संसृष्टत्वमुक्तम् ।
[४३४।२६]
किमिदं कामावचरमायुः संधायोक्तमाहोस्वित्सर्वमिति ।
[४३४।२६-४३५।०१]
यच्च नामरूपयोरन्योन्याश्रितत्वमुक्तं किमिदं कामरूपावचरं नाम संधायोक्तमाहोस्वित्सर्वमिति ।
[४३५।०१-४३५।०२]
यच्च विज्ञानप्रत्ययं नामरूपमुक्तं किमत्र सर्व विज्ञानं नामरूपस्य प्रत्ययमुक्तमाहोस्वित्सर्वे नामरूपं विज्ञानप्रत्ययमिति ।
[४३५।०३]
यच्चान्यत्र रूपादिभ्यो विज्ञानस्यागतिप्रतिषेधः ।
[४३५।०३-४३५।०४]
किमत्र सर्वैरेव तैर्विना तत्प्रतिषेध आहोस्वितेकेनापीति ।
[४३५।०४]
अविशेषवचनान्न संप्रधार्यमिति चेत् ।
[४३५।०४-४३५।०५]
अतिप्रसङ्गः ।
[४३५।०५]
बाह्यस्यापि ह्यष्मण आयुषा बिना भावो न प्राप्नोति ।
[४३५।०५-४३५।०६]
बाह्यस्यापि च रूपस्य नामाश्रितत्वमविशेषवचनात् ।
[४३५।०६-४३५।०७]
चतुर्विज्ञानस्थितिवच्चाहारचतुष्कवचनाद्रूपारुप्यधात्वोरपि कवडीकाराहारप्रसङ्गः ।
[४३५।०७-४३५।०८]
“अतिक्रम्य देवान् कवडीकारा हारभक्षानि”ति वचनात्प्रीत्याहारवचनाच्चाप्रसङ्ग इति चेत् ।
[४३५।०८-४३५।०९]
आरुप्येष्वपि रूपस्याप्रसङ्गः ।
[४३५।०९]
“रूपाणां निःसरणमारुप्याः” ।
[४३५।०९-४३५।१०]
“ये ते शान्ता विमोक्षा अतिक्रम्य रूपाण्यारुप्याः” ।
[४३५।१०-४३५।११]
“अरुपिणः सन्ति सत्त्वाः सर्वशो रूपसंज्ञानां समतिक्रमादि”ति वचनात् ।
[४३५।११]
सति हि रुपे स्वं रूपमवश्यं संजानीरन्निति ।
[४३५।११-४३५।१२]
औदारिकमधोभूमिकं रूपमभिसंधायोक्तमिति चेत् ।
[४३५।१२]
कवडीकारेऽपि तुल्यम् ।
[४३५।१२-४३५।१३]
ध्यानानामपि चाधोभूमिनिःसरणत्वादारुप्य प्रसङ्गः ।
[४३५।१३]
वेदनादिनिःसरणं च किं नोक्ताः ।
[४३५।१४]
अधोभूमिकवेदनानिःसरणात् ।
रूपजातिं तु कुत्स्नामतिक्रान्ता न वेदनादिजातिम् ।
[४३५।१५]
अतो रूपाणां निःसरणमुक्ताः ।
[४३५।१५-४३५।१६]
भवेन भवस्यानिःसरणवचनं तु तेनैव तस्यानिःसरणादसर्वानत्यन्त निःसरणाच्च ।
[४३५।१६-४३५।१७]
ध्यानेसु चोक्तं भगवता “यत्तत्र भवति रूपगतं वा यावद्विज्ञानगतं वेति ।
[४३५।१७-४३५।१८]
आरुप्येषु तूक्तं “यत्तत्र भवति वेदनागतं वा यावद्विज्ञानगतं वे”ति ।
[४३५।१८-४३५।१९]
सत्यां तेसु रूपजातौ कस्माद्रूपगतं वेति नावक्ष्यत् ।
[४३५।१९]
तस्मात्
[४३५।२०]
नारुप्ये रूपसद्भावः
[४३५।२१]
कथमिदानीमनल्पकल्पोच्छिन्नाद्रूपात्पुनरपि रुपोत्पत्तिस्ततः प्रच्युतानाम् ।
[४३५।२२]
रुपोत्पत्तिस्तु चित्ततः ॥ ८.३ ॥
[४३५।२३]
रूपस्य चित्तादेवोत्पत्तिस्तद्विपाकहेतुपरिभाविताल्लब्धवृत्तितः ।
[४३५।२३-४३५।२४]
कथमनाश्रित्य रूपं चित्तं वर्तते ।
[४३५।२४]
कस्मान्न वर्तितव्यम् ।
इहैवमदर्शनात् ।
[४३५।२४-४३५।२५]
कवडीकारान्तरेणाऽपि विना रूपधातौ न वर्तितव्यम् ।
[४३५।२५]
किं कारणम् ।
इहैवमदर्शनात् ।
[४३५।२५-४३५।२६]
उक्तं च पूर्वं यथा वर्तते ।
[४३५।२६]
गतमेतदिदं वक्तव्यम् ।
[४३६।०१-४३६।०२]
किमेपामाकाशानन्त्यायतनादीनामाकाशादय एवालम्बनं यत एवं समाख्यायते ।
[४३६।०२]
न हि ।
कथं तर्हि ।
त्रयस्तावत् ।
[४३६।०३]
आकाशानन्त्यविज्ञानानन्त्याकिञ्चन्यसंज्ञकाः ।
[४३६।०४]
तथाप्रयोगात्
[४३६।०५-४३६।०६]
अनन्तमाकाशमनन्तं विज्ञानं नास्ति किञ्चिदित्येव मनसिकुर्वाणस्तेषु प्रयुज्यन्ते यथासंख्यम् ।
[४३६।०६]
अत एषामेताः संज्ञा इति ।
[४३६।०७]
मान्द्याक्तु नसंज्ञनाप्यसंज्ञकः ॥ ८.४ ॥
[४३६।०८]
मृदुत्वात्तु संज्ञाया नैवसंज्ञानासंज्ञायतनमुक्तम् ।
[४३६।०८-४३६।०९]
न हि सा पट्वी संज्ञा न च पुनर्नैव संज्ञेति ।
[४३६।०९-४३६।१०]
“यद्यपि तत्राप्येवं प्रयुज्यन्ते संज्ञारोगः संज्ञागण्दः संज्ञाशल्यः आसंज्ञिकसंमोहः एतच्छान्तमेतत्प्रणीतं यदुत नैवसंज्ञानासंज्ञायतनमिति ।
[४३६।११]
कस्मात्तु तैस्तदेवं गृह्यत इत्यवश्यमिदं वक्तव्यं जायते ।
मृदुत्वात्संज्ञामित्येतदेवोक्तम् ।
[४३६।१२]
इति मौलं समापत्तिद्रव्यमष्टविधं
[४३६।१३-४३६।१४]
इत्येतान्यष्टौ मौलानि समापत्तिद्रव्याणि यदुत चत्वारि ध्यानानि चत्वार आरुप्या इति ।
[४३६।१४]
तेषां पुनः
[४३६।१५]
त्रिधा ।
[४३६।१६]
सप्त
[४३६।१७]
भवाग्रादन्यानि सप्त त्रिविधानि ।
[४३६।१८]
आस्वादनावच्छूद्धानास्रवाणि
[४३६।१९]
आस्वादनासंप्रयुक्तानि शुद्धकान्यनास्रवाणि च ।
[४३७।०१]
अष्टमं द्विधा ॥ ८.५ ॥
[४३७।०२]
भवाग्रमास्वादनासंप्रयुक्तं शुद्धकं च ।
अनास्रव नास्ति ।
तत्र पुनः
[४३७।०३]
आस्वादनासंप्रयुक्तं सतृष्णं
[४३७।०४]
तृष्णा ह्यास्वादना ।
[४३७।०५]
लौकिकं शुभम् ।
[४३७।०६]
शुद्धकं
[४३७।०७-४३७।०८]
लौकिकं कुशलं समापत्तिद्रव्यं शुद्धकमुच्चयतेऽलोभादि शुद्धधर्मयोगात् ।
[४३७।०८]
किं पुनस्तेनास्वादनासंप्रयुक्तेनास्वाद्यते ।
[४३७।०९]
तत्तदास्वाद्यं
[४३७।१०]
तच्छुद्धकं समापत्तिद्रव्यं तेनास्वाद्यते समनन्तरातीतम् ।
[४३७।१०-४३७।११]
यदास्वादयति तस्माद्व्युत्थितो येनास्वादयति तत्समापन्नः ।
[४३७।१२]
लोकत्तरमनास्रवम् ॥ ८.६ ॥
[४३७।१३]
यल्लोकोत्तरं समापत्तिद्रव्यं तदनास्रवम् ।
[४३७।१३-४३७।१४]
एषां च समापत्तिद्रव्याणां ध्यानान्येव भवन्ति नारुप्याः ।
[४३७।१४]
तत्र
[४३७।१५]
पञ्चाद्ये
[४३७।१६]
प्रथमे भागे पञ्चाङ्गानि ।
[४३७।१७]
तर्कचारौ च प्रीतिसौख्यसमाधयः ।
[४३७।१८-४३७।१९]
वितर्को विचारः प्रीतिः सुखं चित्तैकाग्रता चेत्येतानि पञ्चाङ्गानि समाधिः किलाङ्गं ध्यानं च ।
[४३७।१९]
शेषाण्यङ्गानीति ।
[४३७।१९-४३७।२०]
यथा चतुरङ्गा सेना एवं पञ्चाङ्गं ध्यानम् ।
[४३८।०१]
प्रीत्यादयः प्रसादश्च द्वितीयेऽङ्गचतुष्टयम् ॥ ८.७ ॥
[४३८।०२]
द्वितीये ध्याने चत्वार्यङ्गानि ।
[४३८।०२-४३८।०३]
अध्यात्मसंप्रसादः प्रीतिः सुखं चित्तेकाग्रता च ।
[४३८।०४]
तृतीये पञ्च तूपेक्षा स्मृतिः प्रज्ञा सुखं स्थितिः ।
[४३८।०५]
तृतीये तु ध्याने पञ्चाङ्गानि ।
उपेक्षा स्मृतिः संप्रज्ञानं सुखं स्माधिश्च ।
[४३८।०६]
समाधिपर्यायो हि स्थितिः ।
“सम्यक्समाधिः कतमः ।
[४३८।०६-४३८।०७]
या चित्तस्य स्थिति”रिति सूत्रे वचनात् ।
[४३८।०८]
चत्वार्यन्तेऽसुखादुःखोपेक्षास्मृतिसमाधयः ॥ ८.८ ॥
[४३८।०९]
चतुर्थं ध्यानमन्त्यम् ।
तत्र चत्वार्यङ्गानि ।
[४३८।०९-४३८।१०]
अदुःखासुखा वेदना उपेक्षापरिशुद्धिः स्मृतिपरिशुद्धिः समाधिश्च ।
[४३८।१०-४३८।११]
तान्येतान्यष्टादश ध्यानाङ्गानि भवन्ति ।
[४३८।११]
प्रथमतृतीययोः पञ्चाङ्गत्वात् ।
द्वितीयचतुर्थयोश्चतुरङ्गत्वात् ।
[४३८।१२]
नामत एवम् ।
[४३८।१३]
द्रव्यतो दश चैकं च
[४३८।१४]
द्रव्यत एतान्येकादश भवन्ति ।
प्राथमध्यानिकानि पञ्च ।
[४३८।१४-४३८।१५]
द्वितीयेऽध्यात्मसंप्रसादो वर्धते ।
[४३८।१५]
तृतीये उपेक्षास्मृतिसंप्रज्ञानसुखानि ।
चतुर्थेऽदुःखासुखा वेदनेति ।
[४३८।१६]
अत एवोच्यते यान्यङ्गानि प्रथमे ध्याने द्वितीयेऽपि तानीति चतुष्कोटिकम् ।
[४३८।१६-४३८।९१७]
प्रथमा कोटिर्वितर्कविचारौ ।
[४३८।१७]
द्वितीया अध्यात्मसंप्रसादः ।
[४३८।१७-४३८।१८]
तृतीया प्रीतिः सुखं चित्तैकाग्रता च ।
[४३८।१८]
चतुर्थी कोटिरुक्तनिर्मुक्ता धर्मा इति ।
[४३८।१८-४३८।१९]
एवं सर्वाणि ध्यानाङ्गानि परस्परं योज्यानि ।
[४३८।१९]
कस्मात् ।
तृतीये ध्याने सुखं द्रव्यान्तरमुच्यते ।
[४३८।१९-४३८।२०]
यस्मात्तद्वेदनासुखं ध्यानयोस्तु
[४३८।२१]
प्रस्रब्धिसुखमाद्ययोः ।
[४३८।२२]
प्रथमद्वितीययोस्तु ध्यानयोः प्रस्रब्धिसुखमित्युक्तम् ।
[४३८।२२-४३८।२३]
इह प्रस्रब्धिसुखं तत्र वेदनासुखमिति कुत एतत् ।
[४३८।२३]
द्वयोर्ध्यानसमापत्त्योः सुखेन्द्रियायोगात् ।
[४३८।२४]
न हि तत्तयोः कायिकं युज्यते ।
समापन्नस्य विज्ञानकायाभावात् ।
[४३८।२४-४३८।२५]
नापि चैतसिकं प्रीतिवचनात् ।
[४३८।२५]
प्रीतिर्हि सौमनस्यम् ।
[४३८।२५-४३८।२६]
न च सुखसौमनस्ययोर्यौगपद्यमस्ति ।
[४३८।२६]
न चापि तयोः पर्यायेण ध्याने वृत्तिर्युक्ता पञ्चाङ्गवचनादिति ।
[४३९।०१]
अपरे पुनराहुः ।
[४३९।०१-४३९।०२]
नास्त्येव चैतसिकं सुखेन्द्रियं त्रिष्वपि हि ध्यानेषु ।
[४३९।०२]
कायिकमेव सुखमङ्गं व्यवस्थापितमिति ।
[४३९।०२-४३९।०३]
यत्तर्हि सुत्र उक्तं “सुखेन्द्रियं कतमत् ।
[४३९।०३-४३९।०४]
यत्सुखवेदनीयेन स्पर्शेन स्पृष्टस्योत्पद्यते कायिकं चैतसिकं सातं वेदितं वेदनागतमिदमुच्यते सुखेन्द्रियमि”ति ।
[४३९।०४]
अध्यारोपित एष पाठः ।
[४३९।०५]
केनापि सर्वनिकायान्तरेषु कायिकमित्येव पाठात् ।
[४३९।०५-४३९।०६]
“सुखं च कायेन प्रतिसंवेदयत” इति स्वशब्देन वचनाच्च ।
[४३९।०६]
मनस्कायेनेतिचेत् ।
एवमुक्त्वा को गुणः ।
[४३९।०६-४३९।०७]
चतुर्थे ध्याने प्रस्रब्धिभूयस्त्वेऽपि सुखावचनाच्च ।
[४३९।०७-४३९।०८]
सुखवेदनानुकूला प्रस्रब्धिः सुखमिति चेत् ।
[४३९।०८]
तृतीये प्रस्रब्धिसुखावचनं कस्मात् ।
उपेक्षोपहतत्वादिति चेत् ।
[४३९।०८-४३९।०९]
न उपेक्षयैव तद्वृद्धिः ।
[४३९।०९]
पूर्विकाभ्यस्ताद्विशेषात् ।
[४३९।०९-४३९।११]
“यस्मिन्समये आर्यश्रावकः प्रविवेकजां प्रीतिं कायेन साक्षात्कृत्वोपसंपद्य विहरती”त्यत्र सूत्रे प्रस्रब्धिसुखयोः पृथग्वचनान्न प्रस्रब्धिरेव सुखम् ।
[४३९।११]
समापन्नस्य कथं कायविज्ञानमिति चेत् ।
[४३९।१२]
समाधिविशेषजेन प्रस्रब्धिसंज्ञकेन सुखवेदनीयेन वायुना कायस्फुरणात् ।
[४३९।१२-४३९।१३]
बहिर्विक्षेपास्समाधिब्रंश इति चेत् ।
[४३९।१३]
न ।
[४३९।१३-४३९।१४]
समाधिजस्यान्तःकायसंभूतस्य कायसुखस्य समाध्यनुकूलत्वात् ।
[४३९।१४-४३९।१५]
कायविज्ञा नकाले व्युत्थितः स्यादिति चेत् ।
[४३९।१५]
न ।
अत एव ।
[४३९।१५-४३९।१६]
कामावचरेण कायेन्द्रियेण रूपावचरस्प्रष्टव्यविज्ञानानुत्पत्तिरिति चेत् ।
[४३९।१६]
न ।
प्रस्रब्धिविज्ञानस्योत्पत्तेः ।
[४३९।१६-४३९।१७]
अनास्रवे अपि स्प्रष्टव्यकायविज्ञाने स्याताम् ।
[४३९।१७]
मा भूत्किञ्चिदङ्गं सास्रवं किञ्चिदनास्रवमिति चेत् ।
[४३९।१८]
कायिकप्रस्रब्धिवोध्यङ्ग वचनात् ।
इष्टे बोध्यङ्गानुकूलत्वादिति चेत् ।
[४३९।१९]
अनास्रवत्वमप्येवम् ।
“सास्रवा धर्माः कतमे ।
[४३९।१९-४३९।२०]
चक्षुर्यावदेव स्प्रष्टव्यमि”त्यस्य सूत्रस्य विरोधादिति चेत् ।
[४३९।२०]
न ।
अन्यस्प्रष्टव्य कायविज्ञानाभिसंधिवचनात् ।
[४३९।२१]
न चानास्रवे किञ्चिदङ्गं सास्रवं किचिदनास्रवं स्यादिति चेत् ।
[४३९।२१-४३९।२२]
अयौगपद्यात्को दोषः सुखप्रीत्यसमवधानान्न पञ्चाङ्गं स्यादिति चेत् ।
[४३९।२२-४३९।२३]
न संभवं प्रत्युपदेशान्द्वितर्कविचारवत् ।
[४३९।२३]
साध्यमिति चेत् ।
[४३९।२३-४३९।२४]
सिद्धं चित्तस्यौदारिकसूक्ष्मतयोर्विरोधात्दोषावचनाच्च ।
[४३९।२४-४३९।२५]
तस्माद्यान्येव प्रथमध्याने पञ्चाङ्गानि तेषां द्वित्रिचतुरङ्गापकर्षेण द्वितीयादिध्यानव्यवस्थानम् ।
[४३९।२५-४४०।०१]
अत एव च प्रथमे ध्याने पञ्चानामङ्गत्वमुक्तम् ।
[४४०।०१]
तदपकर्षेणोत्तरध्यानव्यवस्थापनात् ।
न तु संज्ञादीनामङ्गत्वमुक्तम् ।
[४४०।०२]
किमर्थ वा पञ्चानामेवाङ्गत्वमुक्तम् ।
उपकारकत्वादिति चेत् ।
न ।
[४४०।०२-४४०।०३]
वितर्कविचाराभ्यां स्मृतिप्रज्ञयोरपकारकतरत्वात् ।
[४४०।०३]
अस्त्येष एकेषां वादः ।
[४४०।०३-४४०।०४]
नैव तु पूर्वाचार्या एवं निर्दिशन्ति स्म यावन्तः प्रज्ञान्तम् ।
[४४०।०४]
तस्माद्विचार्यमेतत् ।
[४४०।०४-४४०।०५]
अध्यात्मसंप्रसादो नाम क एष धर्मः ।
[४४०।०५-४४०।०६]
वितर्क-विचार-क्षोभ-विरहात्प्रशान्तवाहिता संततेरध्यात्मसंप्रसादः ।
[४४०।०६-४४०।०७]
सोर्मिकेव हि नदी वितर्कविचारक्षोभिता संततिरप्रसन्ना वर्तते इति ।
[४४०।०७-४४०।०८]
न तर्हि स द्रव्यान्तरमिति कथं द्रव्यत एकादशाङ्गानि भवन्ति ।
[४४०।०८]
तस्मात्तर्हि
[४४०।०९]
श्रद्धा प्रसादः
[४४०।१०]
तस्य हि द्वितीयध्यानलात्समाहिभूमिनिह्सरणे संप्रत्यय उत्पद्यत्
[४४०।१०-४४०।११]
सोऽत्रध्यात्मसंप्रसाद इति ।
[४४०।११]
नैव हि वितर्कविचारसमाधयो नाप्यधात्मसंप्रसादो द्रव्यान्तराणीत्यपर्
[४४०।११-४४०।१२]
कथमसति द्रव्यान्तरत्वे चैतसिकत्वं सिद्ध्यति ।
[४४०।१२]
अवस्थाविसेसो हि नाम चेतसश्चेतसिको भवति ।
[४४०।१३]
नत्वेष शस्त्रसिद्धान्तः । यदुक्तं “प्रीतिर्हि सौमनस्यम्” इति ।
[४४०।१३-४४०।१४]
कथमिदं गम्यते ।
किमन्यत्भवतु ।
[४४०।१४]
यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः
[४४०।१४-४४०।१५]
सौमनस्यं तु त्रिष्वपि ध्यानेषु सुखमिति ।
[४४०।१५]
[४४०।१४-४४०।१५]
यथेच्छन्ति निकायान्तरीयाः धर्मान्तरमेव चैतसिकं प्रीतिः सौमनस्यं तु त्रिष्वपि ध्यानेसु सुखमिति ।
[४४०।१५-४४०।१६]
न वै सुखं ध्यानेषु सौमनस्यं युज्यते ।
[४४०।१७]
प्रीतिस्तु सौमनस्यं द्विधागमात् ॥ ८.९ ॥
[४४०।१८-४४०।१९]
उक्तं हि भगवता अविपरीतकसूत्रे तृतीयं ध्यानमुक्त्वा “अत्रास्योत्पन्नं सौमनस्येन्द्रियमपरिशेषं निरुध्यत इति ।
[४४०।१९-४४०।२०]
चतुर्थे च ध्याने सुखेन्द्रियं निरुध्यत” इत्युक्तम् ।
[४४०।२०-४४०।२१]
पुनश्चोक्तं “सुखस्य च प्रहाणात्दुःखस्य च प्रहाणात्पूर्वमेव च सौमनस्यदौर्मनस्ययोरस्तङ्गमादि”त्यतोऽपि न तृतीये ध्याने सौमनस्येन्द्रियमस्ति ।
[४४०।२२]
तस्मात्प्रीतिरेव सौमन्स्यं न सुखम् ।
[४४१।०१-४४१।०२]
किं पुनः क्लिष्टेष्वपि ध्यानेषु यथाविहितान्यङ्गानि भवन्ति ।
[४४१।०२]
न हि किं तेषु न विद्यते ।
[४४१।०३]
क्लिष्टेष्वसत्प्रीतिसुखं प्रसादः संप्रधीः स्मृटिः ।
[४४१।०४]
उपेक्षास्मृतिशुद्धिश्च
[४४१।०५]
प्रथमे ध्याने विवेकजं प्रीतिसुखं नास्ति ।
क्लेशाविविक्तत्वात् ।
[४४१।०५-४४१।०६]
द्वितीये ध्यानेऽध्यात्मसंप्रसादो नास्ति ।
[४४१।०६]
क्लेशाविलत्वात् ।
तृतीये स्मृतिसंप्रजन्यं नास्ति ।
[४४१।०७]
क्लिष्टसुखसंब्र्हमितत्वात् ।
च्चतुर्थे उपेक्षास्मृतिपरिशुद्धिर्नास्ति ।
क्लेशमलिनत्वात् ।
[४४१।०८]
एवं तावत्केचिदाहुः ।
[४४१।०९]
केचित्प्रस्रब्ध्युपेक्षणे ॥ ८.१० ॥
[४४१।१०]
केचित्पुनः प्रथमद्वितीययोः क्लिष्टयोः प्रस्रब्धिर्नास्ति ।
[४४१।१०-४४१।११]
तृतीयचतुर्थयोरुपेक्षा नास्ति ।
[४४१।११]
कुशलल्महाभूमिकत्वादनयोरिति ।
[४४१।११-४४१।१२]
त्रीणि च ध्यानानि सेञ्जितानि उक्तानि भगवता ।
[४४१।१२]
सापक्षालत्वात् ।
[४४१।१३]
अष्टापक्षालमुक्तत्वादानिञ्जं तु चतुर्थकम् ।
[४४१।१४]
के पुनस्तेऽपक्षालाः ।
[४४१।१५]
वितर्कचारौ श्वासौ च सुखादि च चतुष्टयम् ॥ ८.११ ॥
[४४१।१६]
वितर्कविचारौ सुखदुःखे सौमनस्यदौर्मनस्ये श्वासप्रश्वासाश्च ।
[४४१।१६-४४१।१७]
एषामष्टानामेकोऽप्यपक्षालश्चतुर्थे नास्त्यतस्तदानेञ्ज्यमुक्तम् ।
[४४१।१७-४४१।१८]
वितर्कविचारप्रीतिसुखैरकम्पनीयत्वादानेञ्ज्यं चतुर्थं ध्यानं सूत्रे निर्वात प्रदीपनिदर्शनादित्यपरे ।
[४४१।१९]
द्वयोर्ध्यानयोः सौमनस्यमुक्तं प्रीतिवचनात् ।
तृतीये सुखं चतुर्थे उपेक्षा ।
[४४१।२०]
तस्किं या ध्यानसमापत्तिषु वेदनास्ता एव ध्यानोपपत्तिषु ।
[४४१।२१]
नेत्याह ।
किं तर्हि ।
[४४२।०१-४४२।०२]
सौमनस्यसुखोपेक्षा उपेक्षासुमनस्कते ।
सुख्होपेक्षे उपेक्षा प्रविदो ध्यानोपपत्तिषु ॥ ८.१२ ॥
[४४२।०३]
प्रथमध्यानोत्पत्तो तिस्रो वेदनाः ।
[४४२।०३-४४२।०४]
सुखं त्रिविज्ञानकायिकं सौमनस्यं मनोभूमिकम् ।
[४४२।०४]
उपेक्षा चतुर्विज्ञानकायिकी ।
[४४२।०४-४४२।०५]
द्वितीयध्यानोपपत्तौ द्वे वेदने सौमनस्योपेक्षे मनोभूमिके ।
[४४२।०५]
सुखं नास्त्यस्य विज्ञानकायाभावात् ।
[४४२।०५-४४२।०६]
तृतीयध्यानोपपत्ती द्वे वेदने ।
[४४२।०६]
सुखोपेक्षे मनोभूमिके ।
चतुर्थध्यानोपपत्तावुपेक्षैव ।
[४४२।०७-४४२।०८]
यदि द्वितीयादिषु ध्यानेषु त्रयो विज्ञानकाया न संविद्यन्ते वितर्कविचारौ च कथं ते पश्यन्ति यावत्स्पृशन्ति कथं चाविज्ञप्ति समुत्थापयन्ति ।
[४४२।०८-४४२।०९]
न वे केषूपपन्नानां चक्षुर्विज्ञानादयोन सन्ति ।
[४४२।०९]
न तु स्वभूमिकाः ।
किं तर्हि ।
[४४२।१०]
कायाक्षिश्रोत्रविज्ञानं विज्ञप्त्युत्थापकं च यत् ।
[४४२।११]
द्वितीयादौ तदाद्याप्तं
[४४२।१२-४४२।१३]
प्रथमध्यानभूमिकं चक्षुःश्रोत्रकायविज्ञानं विज्ञप्तिसमुत्थापकं च द्वितीयादिषु च ध्यानेषु संमुखीकुर्वन्ति ।
[४४२।१३-४४२।१४]
निर्माणचित्तवद्येन ते पश्यन्ति यावद्विज्ञप्ति समुत्थापयन्ति ।
[४४२।१५]
अक्लिष्टाव्याकृतं च तत् ॥ ८.१३ ॥
[४४२।१६-४४२।१७]
अनिवृताव्याकृतं च तत्प्रथमध्यानभूमिकं विज्ञानं वेदितव्यं यत्ते संमुखीकुर्वन्ति ।
[४४२।१७]
न क्लिष्टं वीतरागत्वान्न कुशलं हीनत्वादिति ।
[४४२।१८]
अवसितं ध्यानकार्यम् ।
[४४२।१९]
अथ शुद्धकादीनां ध्यानारुप्याणां कथं लाभः ।
[४४२।२०]
अतद्वान् लभते शुद्धं वैराग्येणोपपत्तितः ।
[४४२।२१]
असमन्वागतस्तेन शुद्धकं धयनमारुप्यं वा प्रतिलभते ।
अधोभूमिवैराग्याद्वा ।
[४४२।२२]
अधोभूम्युपपत्तितो वा ।
अन्यत्र भवाग्रात् ।
न हि तस्योपपत्तितो लाभः ।
[४४२।२३]
अतद्वानिति किमर्थ समन्वागतः ।
[४४२।२३-४४२।२४]
शुद्धकेन प्रयोगतोऽपि निर्वेधभागीयं शुद्धकं प्रतिलभते परिहाणितो वा हानभागीयम् ।
[४४२।२४-४४३।०१]
अत एवोच्यते “स्याच्छुद्धकं ध्यानं वैराग्येण प्रतिलभेत वैराग्येण विजह्यात् ।
[४४३।०१]
एवं परिहाण्या चोपपत्त्या च ।
[४४३।०२]
स्याद्धानभागीयं प्रथमं धयानम् ।
तद्धि कामवैराग्येण लभ्यते ।
[४४३।०२-४४३।०३]
ब्रह्मलोकवैराग्येण त्यज्यते ।
[४४३।०३]
ब्रह्मलोकवैराग्यपरिहाण्या लभ्यते ।
कामवैराग्यप्रहाण्या त्यज्यते ।
[४४३।०४]
उपरिष्टाद्ब्रह्मलोक उत्पद्यमानो लभते ।
[४४३।०४-४४३।०५]
तस्मात्पुनः कामधातावुपपपद्यमानो विजहातीति ।
[४४३।०६]
अनास्रवं तु वैराग्यात्
[४४३।०७]
अतद्वान् लभते इति वर्तते ।
[४४३।०७-४४३।०८]
तद्वांस्तु क्षयज्ञानतोऽप्यशैक्षं लभते इन्द्रियसंचारतोऽपि शैक्षशैक्षम् ।
[४४३।०८]
ननु च नियामा वक्रान्तितोऽप्यनास्रवं प्रथमतो लभते ।
[४४३।०९]
नावश्यमानुपूर्विकेणालाभात् ।
यथा त्ववश्यं लभते तथोक्तम् ।
[४४३।१०]
क्लिष्टं हान्युपपत्तितः ॥ ८.१४ ॥
[४४३।११]
अतद्वान् लभत इत्येवानुवर्तते ।
[४४३।११-४४३।१२]
परिहाणितो यदि तद्वैराग्यात्परिहीयते ।
[४४३।१२]
उपपत्तितो यद्युपरिभूमेरधरायामुपपद्यते ।
[४४३।१३]
कतमस्मात्समापत्तिद्रव्यादनन्तरं कत्युपपद्यन्ते ।
[४४३।१३-४४३।१४]
अनास्रवप्रथमध्यानान्तरं षडुत्पद्यन्ते ।
[४४३।१४]
स्वभूमिके शुद्धकानास्रवे द्वितीयतृतीयध्यानभूमिके च ।
[४४३।१४-४४३।१५]
आकिञ्चन्यायतनानन्तरं सप्त ।
[४४३।१५-४४३।१६]
स्वभूमिके शुद्धकानास्रवे विज्ञानाकाशानन्त्यायतनभूमिके च ।
[४४३।१६]
भवाग्रं शुद्धकमेवानास्रवाभावात् ।
द्वितीयध्यानान्तरमष्टौ ।
[४४३।१६-४४३।१७]
स्वभूमिके शुद्धकानास्रवे तृतीयचतुर्थप्रथमध्यानभूमिके च ।
[४४३।१७]
विज्ञानानन्त्यायतनानन्तरं नव ।
[४४३।१८-४४३।१९]
स्वभूमिके द्वे आकाशानन्त्यायतनचतुर्थध्यानभूमिकानि चत्वारि आकिञ्चन्यायतनभवाग्रभूमिकानि त्रीणीति ।
[४४३।१९]
एवमन्यध्यानारुप्यानन्तरं दश द्रव्याणि योज्यानि ।
[४४३।२०]
एष तु संक्षेपः ।
[४४३।२१]
तृतीयाद्यावदूर्ध्वाधोऽनास्रवानन्तरं शुभम् ।
[४४३।२२]
उत्पद्यते
[४४४।०१-४४४।०२]
शुभग्रहणेन शुद्धमनास्रवं च गृह्यते कुशलत्वातनास्रवस्य समापत्ति द्रव्यस्यानन्तरं स्वभूमिके च शुद्धानास्रवे उत्पद्येते ।
[४४४।०२]
ऊर्ध्वाधोभूमिके च तृतीवाद्यावत् ।
[४४४।०३]
व्युत्क्रान्तकसमापत्तारो हि तृतीयात्परेण लङ्घयितुं नोत्सहन्ते ।
[४४४।०३-४४४।०४]
अन्वयज्ञानानन्तरं चारुप्यान् समापद्यन्ते न धर्मज्ञानानन्तरम् ।
[४४४।०४-४४४।०५]
तस्याधराश्रयालम्बनत्वादिति ।
[४४४।०५]
यथा चानास्रवादनन्तरमुक्तं वेदितव्यम् ।
[४४४।०६]
तथा शुद्धात्क्लिटं चापि स्वभूमिकम् ॥ ८.१५ ॥
[४४४।०७]
स्वभूमिकं क्लिष्टमधिकं शुद्धकादनन्तरमुत्पद्यते ।
शेषं यथैवानास्रवात् ।
[४४४।०७-४४४।०८]
अनास्रवस्य हि समनन्तरं क्लिष्टोत्पत्तिर्नास्तीति ।
[४४४।०९]
क्लिष्टात्स्वं शुद्धकं क्लिष्टं
[४४४।१०]
क्लिष्टात्समापत्तिद्रव्यादनन्तरं स्वभूमिके शुद्धकक्लिष्टे उत्पद्येते ।
[४४४।११]
एवं चाधरशुद्धकम् ।
[४४४।१२]
क्लेशोत्पीडितो ह्यधरमपि समापत्तिं शुद्धकं बहु मन्यते ।
[४४४।१२-४४४।१३]
यदि क्लिष्टं परिच्छिद्याधः संचरति ।
[४४४।१३]
कुशलात्संचरितो भवति न क्लिष्टात् ।
अथापरिच्छिद्य कथं संचरति ।
[४४४।१४-४४४।१५]
पूर्वावेधात्पूर्वं हि स एवङ्कामो भवति वरमधस्तात्शुद्धकं नोपरिष्टात्क्लिष्टमिति ।
[४४४।१५]
पूर्वाभिप्रायं च संततिरनुवर्तते सत्त्वानाम् ।
[४४४।१५-४४४।१६]
प्रणिधाय सुप्तस्याभिप्रेतकालप्रबोधवत् ।
[४४४।१६]
अनास्रवं तु क्लिष्टादनन्तरं सर्वथा नोत्पद्यते ।
[४४४।१६-४४४।१७]
समापत्तिकालं प्रत्येतदुक्तम् ।
[४४४।१७-४४४।१८]
शुद्धकात्क्लिष्टाच्च समनन्तरं स्वभूमिकमेव क्लिष्टमुत्पद्यते नान्यभूमिकमिति ।
[४४४।१९]
च्युतौ तु शुद्धकात्क्लिष्टं सर्वं
[४४४।२०]
च्युतिकाले तु उपपत्तिलाभिकाच्छुद्धकादनन्तरं सर्वभूमिकं क्लिष्टमुत्पद्यते ।
[४४४।२१]
क्लिष्टात्तु नोत्तरम् ॥ ८.१६ ॥
[४४५।०१]
क्लिष्टात्तु ध्यानारूप्यादनन्तरं च्युतिकाले स्वाधरभूमिकं क्लिष्टमुत्पद्यते ।
[४४५।०१-४४५।०२]
नोर्ध्वभूमिकम् ।
[४४५।०२-४४५।०३]
न च सर्वस्माच्छुद्धकादनाश्रवं समापत्तिद्रव्यमुत्पद्यते ।
[४४५।०३]
किं तर्हि ।
[४४५।०४]
चतुर्धा शुद्धकं हानभागीयादि
[४४५।०५]
हानभागीयं विशेषभागीयं स्थितिभागीयं निर्वेधभागीयमिति चतुर्विधं शुद्धकम् ।
[४४५।०६]
भवाग्रं तु त्रिविधमन्यत्र विशेषभागीयात् ।
किमस्य लक्षणम् ।
[४४५।०७-४४५।०८]
यथाक्रमम् ।
क्लेशोत्पत्तिस्वभूम्यूर्ध्वानास्रवानुगुणं हि तत् ॥ ८.१७ ॥
[४४५।०९-४४५।१०]
क्लेशोत्पत्त्यनुगुणं हानभागीयं स्वभूम्यनुगुणं स्थितिभागीयमूर्ध्वभूम्यनुगुणं विशेषभागीयमनास्रवानुगुणं निर्वेधभागीयम् ।
[४४५।१०]
तस्मादनास्रवमुत्पद्यते ।
[४४५।११]
अथैषां चतुर्णा कति कस्मादनन्तरमुत्पद्यन्ते ।
[४४५।१२]
द्वे त्रीणि त्रीणि चैकं च हान भागाद्यनन्तरम् ।
[४४५।१३]
हानभागीयं हानभाक् ।
तस्मादनन्तरं द्वे उत्पद्येते ।
हानिस्थितिभागीये ।
[४४५।१३-४४५।१४]
स्थितिभागीयानन्तरं त्रीण्यन्यत्र निर्वेधभागीयात् ।
[४४५।१४-४४५।१५]
विशेषभागीयादनन्तरं त्रीण्यन्यत्र हानभागीयात्निर्वेधभागीयादनन्तरं तदेवैकमिति ।
[४४५।१६]
कथं व्युत्क्रान्तकसमापत्तिरुत्पद्यते ।
[४४५।१७]
गत्वागम्य द्विधा भूमीरष्टौ श्लिष्टैकलङ्घिताः ॥ ८.१८ ॥
[४४५।१८]
व्युत्क्रान्तकसमापत्तिर्विसभागतृतीयगा ।
[४४५।१९]
गत्वेत्यनुलोमं समापद्य ।
आगम्येति प्रतिलोमं समापद्य ।
[४४५।१९-४४६।०१]
द्विधेति सास्रवानास्रवा भूमीः ।
[४४६।०१]
अष्टाविति ध्यानारुप्यसमापत्तीः ।
श्लिष्टा इत्यनुक्रमेण ।
[४४६।०१-४४६।०२]
एकलङ्घिता इत्येकामेकामुत्क्रम्य ।
[४४६।०२-४४६।०३]
सास्रवा अष्टौ भूमिरनुलोमप्रतिलोमसमापत्तितो निर्जित्य अनास्रवाश्च सप्त ।
[४४६।०३-४४६।०४]
पश्चात्सास्रवात्प्रथमाद्ध्यानात्सास्रवं तृतीयं समापद्यते ।
[४४६।०४]
तस्मादाकाशानन्त्यायतनं तस्मादाक्ंिचन्यावतनम् ।
[४४६।०४-४४६।०५]
एवं पुनः प्रतिलोमं निर्जित्य अनास्रवा अप्येकलङ्घिता अनुलोमप्रतिलोमं च समापद्यते ।
[४४६।०६]
अयं प्रयोगो व्युत्क्रान्तकसमापत्तेः ।
[४४६।०६-४४६।०७]
यदा तु प्रथमात्सास्रवात्तृतीयमनास्रवं ध्यानं समापद्यते तस्मात्सास्रवमाकाशानन्त्यायतनं तस्मादनास्रवमाकिञ्चन्यायतनम् ।
[४४६।०८]
एवं पुनः प्रतिलोमम् ।
तदा विसभागतृतीयद्रव्यगमनादभिनिष्पन्ना भवति ।
[४४६।०८-४४६।०९]
अतिविप्रकृष्टत्वान्न चतुर्थी समापद्यते ।
[४४६।०९-४४६।१०]
तां च त्रिषु द्वीपेषु असमयविमुक्त एवार्हन्नुत्पादयति ।
[४४६।१०]
निःक्लेशत्वात्समाधिवशित्वाच्च ।
[४४६।१०-४४६।११]
दृष्टिप्राप्तस्य यद्यपि तीक्ष्णेन्द्रियत्वात्समाधौ वशित्वं न तु निष्क्लेशः ।
[४४६।११-४४६।१२]
समयविमुक्तो यद्यपि निःक्लेशो नत्वस्य समाधौ वशित्वमिति ।
[४४६।१३]
केनाश्रयेण कति ध्यानारुप्याः संमुखीक्रियन्ते ।
[४४६।१४]
स्वाधोभूम्याश्रया एव
[४४६।१५]
ध्यानाश्रया एव
[४४६।१६]
ध्यानारूप्याः
[४४६।१७]
भवाग्रं भवाग्रे च संमुखीक्रियते अधश्च यावत्कामधातौ ।
[४४६।१७-४४६।१८]
शेषाणि स्वस्यां भूमावधश्चेति ।
[४४६।१८-४४६।१९]
किं कारणमूर्ध्वोपपन्नो नाधरां समापत्ति संमुखीकरोति ।
[४४६।१९]
तस्मात्तस्य
[४४६।२०]
वृथाऽधरम् ॥ ८.१९ ॥
[४४६।२१]
नहि तस्याधरेण समापत्तिद्रव्येण किञ्चित्प्रयोजनं विधीयते ।
[४४५।२१-४४६।२१]
निहीनत्वात् ।
[४४६।२२]
उत्सर्ग कृत्वाऽपवादं करोति
[४४६।२३]
आर्याकिञ्चन्यसांमुख्यात्भवाग्रे त्वास्रवक्षयः ।
[४४६।२४]
भवाग्रे तूपपन्नस्यानास्रवाकिञ्चन्यायतनसंमुखीभावादास्रवक्षयो भवति ।
[४४६।२४-४४६।२५]
कथं तत्रोपपन्नस्य तत्संमुखीभावः ।
[४४६।२५]
स्वस्याभावात्तस्य चाभ्यासात् ।
[४४७।०१]
अथैषां ध्यानारूप्याणां किमालम्बनम् ।
[४४७।०२]
सतृष्णाः स्वभवालम्बाः
[४४७।०३]
आस्वादनासंप्रयुक्ताः स्वभूमिकं भवमालम्बन्ते ।
भवग्रहणेन सास्रवं वस्तु गृह्यते ।
[४४७।०४]
नाधरमालम्बन्ते वीतरागत्वान्नोत्तरं तृष्णापरिछिन्नत्वात्भूमीनाम् ।
[४४७।०४-४४७।०५]
नानास्रवं कुशलत्वप्रसङ्गादिति ।
[४४७।०६]
ध्यानं सद्विषयं शुभम् ॥ ८.२० ॥
[४४७।०७]
कुशलं ध्यानं शुभकमनास्रवं च ।
तत्सर्वालम्बनं यत्किञ्चिदस्ति संस्कृतमसंस्कृतं वा ।
[४४७।०८]
न मौलाः कुशलारूप्याः सास्रवाधरगोचराः ।
[४४७।०९-४४७।१०]
मौलानां कुशलारूप्याणामधोभूमिकं सास्रवं वस्तु नालम्बनं स्वोर्ध्वभूम्यालम्बनत्वात् ।
[४४७।१०]
अनास्रवं त्वालम्बनम् ।
[४४७।१०-४४७।११]
सर्वान्वयज्ञानपक्ष्यो न धर्मज्ञानपक्षो नाधोभूमिनिरोधः ।
[४४७।११]
सामन्तकानन्तर्यमार्गाणां त्वधरा भूमिरालम्बनम् ।
[४४७।११-४४७।१२]
एषां च पुनस्त्रिविधानां ध्यानानां रूप्यारूप्याणाम्
[४४७।१३]
अनास्रवेण हीयन्ते क्लेशाः
[४४७।१४]
न शुद्धकेन ।
कुत एव क्लिष्टेन ।
वीतरागत्वान्नाधः ।
[४४७।१४-४४७।१५]
तस्यैव तदप्रतिपक्षत्वान्न स्वभूमौ ।
[४४७।१५]
विशिष्टतरत्वान्नोर्ध्वमिति ।
[४४७।१६]
समन्तकेन च ॥ ८.२१ ॥
[४४७।१७]
ध्यानारूप्यसामन्तकेन च क्लेशाः प्रहीयन्ते शुद्धकेनापि ।
अधोभूमिप्रतिपक्षत्वात् ।
[४४७।१८]
कति पुनः सामन्तकानि ।
[४४७।१९]
अष्टौ सामन्तकान्येषां
[४४७।२०]
एकैकस्यैकैकं येन तत्प्रवेशः ।
किं तान्यपि त्रिविधानि तथैव च तेषु वेदना ।
[४४७।२१]
नेत्युच्यते ।
[४४७।२२]
शुद्धादुःखासुखानि हि ।
[४४८।०१-४४८।०२]
शुद्धकानि च तान्युपेक्षेन्द्रियसंप्रयुक्तानि च यन्तबाह्यत्वादधोभूम्युद्वेगानपगमात्वैराग्यपथत्वाच्च नास्वादनासंप्रयुक्तानि ।
[४४८।०३]
आर्यं चाद्यं
[४४८।०४-४४८।०५]
आद्यं सामन्तकमनागम्यं तच्छुद्धकं चानास्रवं च यद्यपि सामन्तकचित्तेन प्रतिसंधिबन्धः क्लिष्टो भवति ।
[४४८।०५]
समाहितस्य तु क्लिष्टत्वं प्रतिषिध्यते ।
[४४८।०६]
त्रिधा केचित्
[४४८।०७]
केचित्पुनरिच्छन्ति ।
[४४८।०७-४४८।०८]
आस्वादनासंप्रयुक्तमप्यनागम्यं सामन्तकं चोच्यते ध्यानान्तरं च ।
[४४८।०८]
किमिदमेकार्थमाहोस्विन्नानार्थम् ।
सामन्तकं हि वैराग्यमार्गः ।
[४४८।०९]
अतर्क ध्यानमन्तरम् ॥ ८.२२ ॥
[४४८।१०]
ध्यानमेव हि वितर्कासंप्रयुक्तं ध्यानान्तरं ध्यानविशेषत्वात् ।
[४४८।१०-४४८।११]
अत एव द्वितीयादिषु ध्यानेषु न व्ययस्थाप्यते विशेषाभावादिति ।
[४४८।११]
तत्पुनर्ध्यानान्तरं
[४४८।१२]
त्रिधा
[४४८।१३]
आस्वादनासंप्रयुक्तं शुद्धकमनास्रवं च ।
[४४८।१४]
अदुःखासुखं तच्च
[४४८।१५]
नात्र सुखं दुःखमित्यदुःखासुखमुपेक्षेन्द्रियसंप्रयुक्तमित्यर्थः ।
[४४८।१५-४४८।१६]
न प्रीतिसंप्रयुक्तं साभिसंस्कारवाहित्वात् ।
[४४८।१६]
अत एव दुःखा प्रतिपत् ।
[४४८।१६-४४८।१७]
तस्य तर्हि ध्यानान्तरस्य कः फलविशेषः ।
[४४८।१७]
तद्धि
[४४८।१८]
महाब्रह्मफलं च तत् ।
[४४८।१९]
तां हि ध्यानान्तरिकां भावयित्वा महाब्रह्मा भवति ।
[४४८।१९-४४८।२०]
पुनः सर्वसमाधीन् संकलय्य त्रयः समाधयः उक्ताः सूत्रे ।
[४४८।२०]
सवितर्कः सविचारः समाधिः ।
अवितर्को विचारमात्रः ।
[४४९।०१]
अवितर्कोऽविचार इति ।
[४४९।०१-४४९।०२]
तत्र ध्यानान्तरं तावदवितर्को विचारमात्रः समाध्हिरिति ज्ञापितम् ।
[४४९।०२]
वितर्कमात्रप्रतिषेधात् ।
ततः
[४४९।०३]
सवितर्कविचारोऽधःसमाधिः
[४४९।०४]
तस्माद्ध्यानान्तरादधःसमाधिः सवितर्कः सविचारः ।
प्रथमं ध्यानमनागम्यं च ।
[४४९।०५]
परतोऽद्वयः ॥ ८.२३ ॥
[४४९।०६]
नात्र द्वयमस्तीत्यद्वयः ।
परेण तु ध्यानान्तरात्समाधिरवितर्कोऽविचारः ।
[४४९।०६-४४९।०७]
द्वितीयध्यानसामन्तकाद्यावत्भवाग्रम् ।
[४४९।०७]
पुनस्त्रयः उक्ताः ।
[४४९।०७-४४९।०८]
शून्यतासमाधिरप्रणिहित आनिमित्तश्च ।
[४४९।०८]
तत्र
[४४९।०९]
आनिमित्तः समाकारैः
[४४९।१०]
निरोधसत्याकारैः संप्रयुक्तः समाधिरानिमित्तश्चतुराकारः ।
[४४९।१०-४४९।११]
निर्वाणं हि दशनिमित्तापगतत्वादनिमित्तम् ।
[४४९।११]
तदालम्बनः समाधिरानिमित्तः ।
[४४९।११-४४९।१२]
पञ्चविषयस्त्रीपुरुषत्रिसंस्कृतलक्षणनिमित्तानि दश ।
[४४९।१३]
शून्यतानात्मशुन्यतः ।
[४४९।१४]
प्रवर्तते
[४४९।१५]
अनात्मशून्यताकाराभ्यां संप्रयुक्तः शून्यतासमाधिद्वर्च्याकारः ।
[४४९।१६]
अप्रणिहितः सत्याकारैरतः परैः ॥ ८.२४ ॥
[४४९।१७]
परैः शेषैः सत्याकारैः संप्रयुक्तः समाधिप्रणिहितो दशाकारः ।
[४४९।१७-४४९।१८]
अनित्यदुःखतद्धेतुभ्य उद्वेगात्मार्गस्य च कोलोपमतयाऽवश्यत्याज्यत्वात्तदाकारः समाधिरप्रणिहितः ।
[४५०।०१]
तदतिक्रमाभिमुखत्वात्शून्यतानात्मताभ्यां तु नोद्वेगो निर्वाणसामान्यात् ।
[४५०।०१-४५०।०२]
त एते त्रयः समाधयो द्विविधाः ।
[४५०।०३]
शुद्धामलाः
[४५०।०४]
शुद्धकाश्चानास्रवाश्च ।
लौकिकलोकोत्तरत्वात् ।
लौकिका एकादशसु भूमिषु ।
[४५०।०५]
लोकोत्तरा यत्र मार्गः ।
[४५०।०६]
निर्मलास्तु ते विमोक्षमुखत्रयम् ।
[४५०।०७]
अनास्रवास्त्वेते त्रयः समाधयस्त्रीणि विमोक्षमुखान्युच्यन्ते ।
[४५०।०७-४५०।०८]
शून्यता विमोक्षमुखमप्रणिहितमानिमित्तं विमोक्षमुखमिति ।
[४५०।०८]
मोक्षद्वारत्वात् ।
पुनश्चोच्यन्ते ।
[४५०।०९]
शून्यताशून्यताद्याख्यास्त्रयोऽपरसमाधयः ॥ ८.२५ ॥
[४५०।१०]
शून्यताशून्यता अप्रणिहिताप्रणिहितः आनिमित्तानिमित्तश्च ।
[४५०।१०-४५०।११]
शून्यताद्यालम्बनत्वात्तन्नाम ।
[४५०।११]
तेषां पुनः
[४५०।१२]
आलम्बेते अक्षैक्षं द्वौ शून्यतश्चाप्यनित्यतः ।
[४५०।१३]
अशैक्षं समाधिं द्वावपरसमाधी आलम्बेते ।
[४५०।१३-४५०।१४]
शून्यताशून्यता अशैक्षं शून्यतासमाधिमालम्बते शून्यताकारेण ।
[४५०।१४-४५०।१५]
अप्रणिहिताप्रणिहितोऽप्यशैक्षमप्रणिहितमनित्याकारेण ।
[४५०।१५-४५०।१६]
न दुःखतो न हेत्वादितोऽनास्रवस्यातल्लक्षणत्वान्न मार्गाकारैः दूषणीयत्वात् ।
[४५०।१७]
आनिमित्तानिमित्तस्तु शान्ततोऽसंख्यया क्षयम् ॥ ८.२६ ॥
[४५०।१८-४५०।१९]
आनिमित्तानिमित्तस्तु समाधिरशैक्षस्यानिमित्तस्याप्रतिसंख्यानिरोधमालम्बते ।
[४५०।१९]
शान्ताकारेण ।
अनास्रवस्य प्रतिसंखयानिरोधाभावात् ।
[४५०।१९-४५०।२०]
न निरोधप्रणीतनिःसरणाकारैरनित्यतानिरोधसाधारणत्वादव्याकृतत्वा
दविसंयोगाच्च ।
[४५०।२०-४५०।२१]
एकान्तेन चैते परसमाधयः
[४५०।२२]
सास्रवाः
[४५१।०१]
आर्यमार्गद्वेषित्वात्नह्येवमनास्रवा इति ।
कुत्रोत्पद्यन्ते ।
[४५१।०२]
नृषु
[४५१।०३]
मनुष्येष्वेव न देवेषु ।
कस्योत्पद्यन्ते ।
[४५१।०४]
अकोप्यस्य
[४५१।०५]
नान्यस्यार्हतः ।
कतिभूमिकाः ।
[४५१।०६]
सप्तसामन्तवर्जिताः ।
[४५१।०७]
सप्त सामन्तकानि हित्वान्यास्वेकादशसु भूमिषु ।
[४५१।०७-४५१।०८]
कामधात्वनागम्यध्यानान्तरध्यानारुप्येषु ।
[४५१।०८]
पुनश्चतस्रः समाधिभावना उच्यन्ते ।
[४५१।०८-४५१।०९]
अस्ति समाधिभावना आसेविता भाविता वहुलीकृता दृष्टधर्मसुखविहाराय संवर्तते” इति विस्तरः ।
[४५१।०९]
तत्र
[४५१।१०]
समाधिभावना ध्यानं शुभमाद्यं सुखाय हि ॥ ८.२७ ॥
[४५१।११]
कुशलं प्रथमं शुद्धकमनास्रवं वा दृष्टधर्मसुखविहाराय समाधिभावना ।
[४५१।११-४५१।१२]
तदादिकत्वादन्यान्यपि ज्ञेयानि ।
[४५१।१२-४५१।१३]
नावश्यं संपरायसुखविहारायापरिहिणोर्ध्वोपपन्नपरिनिर्वृतानां तदभावात् ।
[४५१।१४]
दर्शनायाक्ष्यभिज्ञेष्टा
[४५१।१५]
दिव्यचक्षुरभिज्ञा ज्ञानदर्शनाय समाधिभावना ।
[४५१।१६]
धीभेदाय प्रयोगजाः ।
[४५१।१७]
प्रयोगजाः सर्वे गुणास्त्रैधातुका अनास्रवाः प्रज्ञाप्रभेदाय समाधिभावना ।
[४५१।१८]
वज्रोपमोऽन्त्ये यो ध्याने सास्रवक्षयभावना ॥ ८.२८ ॥
[४५२।०१]
यश्चतुर्थध्याने वज्रोपमः समाधिः स आस्रवक्षयाय समाधिभावना ।
[४५२।०१-४५२।०२]
आत्मोपनायिकी किलैषा भगवतो धर्मदेशना ।
[४५२।०२]
अतश्चतुर्भ्य एवाह ।
[४५२।०२-४५२।०३]
कृतः समाधीनां कालगतो निर्देशः ।
[४५२।०४]
इदानीं समाधिसंनिश्रितानां गुणानां निर्देशकाल इति व्याख्यायन्ते
[४५२।०५]
अप्रमाणानि चत्वारि
[४५२।०६]
मैत्री करुणा मुदितोपेक्षा च ।
अप्रमाणसत्त्वालम्बनत्वात् ।
किमर्थं चत्वार्येव ।
[४५२।०७]
व्यापादादिविपक्षतः ।
[४५२।०८]
व्यापादविंहिसाऽरतिकामरागव्यापादबहुलानां तत्प्रहाणाय चत्वारि यथासंख्यम् ।
[४५२।०९]
अशुभोपेक्षयोः कामरागप्रतिपक्षत्वे को विशेषः ।
[४५२।०९-४५२।१०]
वर्णरागस्याशुभा मैथुनरागस्योपेक्षेति वैभाषिकाः ।
[४५२।१०]
एवं तु युज्यते ।
[४५२।१०-४५२।११]
मैथूनरागस्याशुभा मातापितृपुत्रज्ञातिरागस्योपेक्षेति ।
[४५२।११]
तत्र
[४५२।१२]
मैत्र्यद्वेषः
[४५२।१३]
अद्वेषस्वभावा मैत्री
[४५२।१४]
अपि करुणा
[४५२।१५]
करुणाप्येवम् ।
[४५२।१६]
मुदिता सुमनस्कता ॥ ८.२९ ॥
[४५२।१७]
सौमनस्यस्वभावा मुदिता ।
[४५२।१८]
उपेक्षाऽलोभः
[४५२।१९]
अलोभात्मिकोपेक्षा ।
कथं व्यापादप्रतिपक्षः ।
तस्य लोभाकृष्टत्वात् ।
[४५२।१९-४५२।२०]
उभयस्वभावा त्वसौ युज्यते ।
[४५२।२०]
एषां तु मैत्र्यादीनां
[४५३।०१]
आकारः सुखिता दुःखिता वत ।
[४५३।०२]
मोदन्तामिति सत्त्वाश्च
[४५३।०३]
सुखिता वत सत्त्वा इति मनसिकुर्वन्मैत्रीं समापद्यते ।
[४५३।०३-४५३।०५]
दुःखिता वत सत्त्वा इति करुणां मोदन्तां वत सत्त्वा इति मुदितां सत्त्वा इत्येव मनसि कुर्वन्नुपेक्षां समापद्यते ।
[४५३।०५]
माध्यस्थ्यात् ।
अतद्वतां सुखाधिमोक्षत्वात्कथं न विपरीतत्वं भवति ।
[४५३।०६]
सन्त्वित्यभिप्रायात् ।
आशयस्याविपरीतत्वाद्वाऽधिमुक्तिसंज्ञानात् ।
[४५३।०६-४५३।०७]
अथवा क एवं विपरीतत्वे दोषः ।
[४५३।०७]
अकुशलत्वमिति चेत् ।
[४५३।०७-४५३।०८]
न कुशलमूलत्वाद्व्यापादादिप्रतिपक्षत्वाच्च ।
[४५३।०८]
उक्त एषामाकारः ।
[४५३।०९]
कामसत्त्वास्तु गोचरः ॥ ८.३० ॥
[४५३।१०]
कामावचराः सत्त्वा एषामालम्बनम् ।
तदालम्बनानां व्यापादादीनां प्रतिपक्षत्वात् ।
[४५३।११]
यत्तूक्तमेकां दिशमधिमुच्येतेति तद्भाजनेन भाजनगतं दर्शितम् ।
[४५३।११-४५३।१२]
कतिभूमिकान्येतानि ।
[४५३।१३]
ध्यानयोर्मुदिता
[४५३।१४]
प्रथमद्वितीयध्यानयोर्मुदिता ।
सौमनस्यत्वात् ।
[४५३।१५]
अन्यानि षट्सु
[४५३।१६]
अन्यानि त्रीणि अप्रमाणानि षट्सु भूमिषु ।
[४५३।१६-४५३।१७]
अनागम्ये ध्यानान्तरेध्यानेषु च ।
[४५३।१७]
सप्रयोगमौलग्रहणात् ।
[४५३।१८]
केचित्तु पञ्चसु ।
[४५३।१९]
केचित्पुनः अनागम्यं हित्वा पञ्चस्वेतानीच्छन्ति ।
दशस्वित्यपरे ।
[४५३।१९-४५३।२०]
कामधातुं सामन्तकानि च प्रक्षिप्य समाहितासमाहितमौलल्प्रयोगग्रहणात् ।
[४५३।२०-४५३।२१]
यदुक्तं “व्यापादादिविपक्षत” इति किमप्रमाणैरपि क्लेशग्रहणं भवति ।
[४५३।२२]
न तैः प्रहाणं
[४५४।०१]
मौलध्यानभूमिकत्वादधिमुक्तिमनस्कारत्वात्सत्त्वालम्बनत्वाच्च ।
[४५४।०१-४५४।०२]
तत्प्रयोगेण तु व्यापादादिविष्कम्भणात्तत्प्रतिपक्षत्वमुक्तम् ।
[४५४।०२]
प्रहाण दूरीकरणाच्च ।
[४५४।०२-४५४।०३]
कामधात्वनागम्यभूमिकानि हि मैत्र्यादीनि मौलाप्रमाणसदृशानि संविद्यन्ते ।
[४५४।०३-४५४।०४]
तैस्तान्विष्कम्भ्य प्रहाणमार्गैः प्रजहाति ।
[४५४।०४]
ततो वीतरागावस्थायां मौलाप्रमाणलाभात् ।
[४५४।०४-४५४।०५]
बलवत्प्रत्ययलाभेऽपि तैरनाधृष्यो भवति ।
[४५४।०५]
कथं पुनरादिकर्मिको मैत्र्यां प्रयुज्यते ।
[४५४।०५-४५४।०७]
यथा सुखितमात्मानं मन्यते परान्वा शृणोति बुद्धबोधिसत्त्वार्यश्रावकांस्तथा सत्त्वानां तत्सुखमधिमुच्यते एवं सुखिता वत सन्तु सत्त्वा इति ।
[४५४।०७-४५४।०८]
न चेच्छक्नोति क्लेशस्योद्भतवृत्तित्वात्स मित्रपक्षं त्रिधा भित्त्वाऽधिमात्रे तत्सुखमधिमुच्यते ।
[४५४।०८-४५४।०९]
ततो मध्ये मृदौ च ।
[४५४।०९]
तेषु चेत्समां मैत्रीं लभते तत उदासीनपक्षे ।
[४५४।०९-४५४।१०]
ततः शत्रूपक्षं त्रिधा भित्त्वा मृदौ तत्सुखमधिमुच्यते ।
[४५४।१०]
ततो मध्येऽधिमात्रे च ।
[४५४।१०-४५४।११]
ततश्चेदधिमात्र इव मित्रपक्षे सुखाधिमोक्षो न व्यावर्तते ।
[४५४।११-४५४।१२]
ततः क्रमेण ग्रामराष्ट्रसुखाधिमोक्षो यावदेकां दिशं यावत्सर्व लोकं मैत्र्या स्फुरति ।
[४५४।१२-४५४।१३]
यस्तु सर्वगुणग्राही समैत्रीं क्षिप्रमुत्पादयति ।
[४५४।१३-४५४।१४]
शक्यं हि समुच्छिन्न कुशलमूलेऽपि गुणग्राहिणा भवितुं प्रत्येकबुद्धे च दोष ग्राहिणा पूर्वं पुण्यापुण्यफलसंदर्शनात् ।
[४५४।१४-४५४।१६]
एवं करुणायां मुदितायां च प्रयुज्यते अमी सत्त्वा बहुविधव्यसनीधनिमग्ना अप्येवं दुःखाद्विमुच्येरनप्येवातिप्रमोदेरन्नित्यधिमुच्यमान उपेक्षां तूदासीनपक्षादारभते ।
[४५४।१६-४५४।१७]
एतानि चाप्रमाणानि
[४५४।१८]
नृष्वेव जन्यन्ते
[४५४।१९]
मनुष्येषूत्पाद्यन्ते ।
नान्यत्र ।
[४५४।२०]
किं पुनर्य एकेनाप्रमाणेन समन्वागतः सोऽवश्यं सर्वैः ।
किन्तु
[४५४।२१]
त्र्यन्वितो ध्रुवम् ॥ ८.३१ ॥
[४५४।२२]
तृतीयचतुर्थध्यानोपपन्नो मुदितया न समन्वागतो भवति ।
[४५४।२२-४५४।२३]
त्रिभिस्त्वप्रमाणलाभी नित्यं समन्वागतो भवति ।
[४५४।२४]
अष्टौ विमोक्षाः
[४५५।०१]
रूपी रूपाणि पश्यतीति प्रथमो विमोक्षः ।
[४५५।०१-४५५।०२]
अध्यात्मरूपसंज्ञी बहिर्धा रूपाणि पश्यतीति द्वितीयः ।
[४५५।०२-४५५।०३]
शुभं विमोक्षं कायेन साक्षात्कृत्वोपसंपद्य विहरतीति तृतीयः ।
[४५५।०३]
चत्वार आरुप्याः ।
संज्ञावेदितनिरोधश्चाष्टमः ।
तेषां
[४५५।०४]
प्रथमावशुभा
[४५५।०५]
प्रथमौ द्वौ विमोक्षावशुभास्वभावौ ।
[४५५।०५-४५५।०६]
विनीलकाद्याकारत्वात् ।
[४५५।०६]
अत एतयोरशुभावन्नयो वेदितव्यः ।
एतौ च
[४५५।०७]
ध्यानयोर्द्वयोः ।
[४५५।०८]
प्रथमद्वितीययोर्ध्यानयोर्नान्यस्यां भूमौ ।
[४५५।०८-४५५।०९]
कामावचरप्रथमध्यानभूमिकयोर्वर्णरागयोः प्रतिपक्षेण यथासंख्यम् ।
[४५५।१०]
तृतीयोऽन्त्ये
[४५५।११]
शुभो विमोक्षश्चतुर्थध्याने ।
[४५५।१२]
स चालोभः
[४५५।१३]
सोऽप्यलोभस्वभावो नत्वशूभास्वभावः ।
शुभाकारत्वात् ।
[४५५।१३-४५५।१४]
सपरिवारास्त्वेते पञ्चस्कन्धस्वभावाः ।
[४५५।१४]
आरुप्यविमोक्षास्तु
[४५५।१५]
शुभारुप्याः समाहिताः ॥ ८.३२ ॥
[४५५।१६-४५५।१७]
कुशलाः समाहिता एव चारूप्यविमोक्षाख्यां लभन्ते न क्लिष्टा नाप्यसमाहितास्तद्यथामरणभवे ।
[४५५।१७]
अन्यदाप्यसमाहिताः सन्तीत्यपरे ।
[४५५।१७-४५५।१८]
सामन्तकविमुक्ति मार्गा अपि विमोक्षाख्यां लभन्ते ।
[४५५।१८]
नानन्तर्यमार्गा अधरालम्बनत्वात् ।
[४५५।१८-४५५।१९]
वैमुख्यार्थो हि विमोक्षार्थ इति ।
[४५५।२०]
निरोधस्तु समापत्तिः
[४५६।०१]
संज्ञावेदितनिरोधस्तु अष्टमो विमोक्षो निरोधसमापत्तिः ।
सा च पूर्व निर्दिष्टा ।
[४५६।०२]
संज्ञावेदितवैमुख्यात्सर्वसंस्कृताद्वा ।
समापत्त्यावरणविमोक्षणाद्विमोक्ष इत्यपरे ।
[४५६।०३]
तां तु समापद्यन्ते ।
[४५६।०४]
सूक्ष्मसूक्ष्मादनन्तरम् ।
[४५६।०५]
भवाग्रं हि संज्ञा सूक्ष्मं तत्पुनः सूक्ष्मतरं कृत्वा निरोधं समापद्यन्ते ।
समापन्नानां तु
[४५६।०६]
स्वशुद्धकाधरार्येण व्युत्थानं चेतसा ततः ॥ ८.३३ ॥
[४५६।०७-४५६।०८]
भावाग्रिकेण वा शुद्धकेन चेतसा ततो व्युत्थानं भवत्याकिञ्चन्यायतन भूमिकेन वा सास्रवेण ।
[४५६।०८-४५६।०९]
तदेवं तस्याः सास्रवं समापत्तिचित्तं भवति सास्रवानान्तर्य तु व्युत्थानचित्तमिति ।
[४५६।०९]
एषां च विमोक्षाणां
[४५६।१०]
कामाप्तदृश्यविषयाः प्रथमाः
[४५६।११]
कामावचरमेषां रूपायतनमालम्बनममनोज्ञं मनोज्ञं च यथायोगम् ।
[४५६।१२-४५६।१३]
ये त्वरूपिणः ।
तेऽन्वयज्ञानपक्षोर्ध्वस्वभूदुःखादिगोचराः ॥ ८.३४ ॥
[४५६।१४-४५६।१५]
आरूप्यविमोक्षाणां स्वभूमिकोर्ध्वभूमिकं दुःखं तद्धेतुनिरोधौ चालम्बनं सर्वश्चान्वयज्ञानपक्षो मार्गः ।
[४५६।१५]
अप्रतिसंख्यानिरोधश्चेति वक्तव्यमाकाशं चैकस्येति ।
[४५६।१६]
कस्मान्न तृतीये ध्याने विमोक्षः ।
[४५६।१६-४५६।१७]
द्वितीयध्यानभूमिकवर्णरागाभावात्सुखमण्डेञ्जितत्वाच्च ।
[४५६।१७]
तस्माच्छुभं विमोक्षमुत्पादयति ।
[४५६।१७-४५६।१८]
अशुभया लीनं संततिं प्रमोदयितुं जिज्ञासनार्थं वा ।
[४५६।१८]
कच्चिदशुभाविमोक्षौ निष्पन्नाविति ।
[४५६।१८-४५६।१९]
एवं च पुनस्तौ निष्पन्नौ भवतो यदि शुभतोऽपि मनसि कुर्वतः क्लेशो नोत्पद्यत इति ।
[४५६।२०]
द्वाभ्यां हि कारणाभ्यां योगिनो विमोक्षादीनुत्पादयन्ति ।
[४५६।२०-४५६।२१]
क्लेशदूरीकरणार्थं समापत्तिवशित्वार्थं च ।
[४५६।२१]
अरणादिगुणाभिनिर्हाराय आर्यायाश्चर्द्धेः ।
[४५६।२१-४५६।२२]
सा पुनर्यया वस्तुपरिणामाधिष्ठानायुरुत्सर्गादीनि क्रियन्ते ।
[४५६।२२-४५६।२३]
कस्मात्तृतीयाष्टमयोरेव साक्षात्करणमुक्तं नान्येषाम् ।
[४५६।२३-४५६।२४]
प्रधानत्वाद्धातुभूमिपर्यन्तावस्थितत्वाच्च ।
[४५७।०१]
अभिभ्वायतनान्यष्टौ
[४५७।०२-४५७।०३]
अध्यात्मं रूपसंज्ञी वहिर्धा रूपाणि पश्यति परीत्तानि सुवर्णानि दुर्वर्णानि तानि खलु रूपाण्यभिभूयजानात्यभिभूय पश्यतीत्येवंसंज्ञी भवतीदं प्रथममभिभ्वायतनम् ।
[४५७।०४]
एवमधिमात्राणि ।
अध्यात्ममरूपसंज्ञ्येवमेव । इत्येतानि चत्वारि ।
[४५७।०४-४५७।०५]
अध्यात्ममरूपसंज्ञ्येव पुनर्नीलपीतलोहितावदातानि पश्यतीत्यष्टौ भवन्ति ।
[४५७।०५]
तेषां
[४५७।०६]
द्वयमाद्यविमोक्षवत् ।
[४५७।०७]
यथा प्रथमो विमोक्ष एवं द्वे अभिभ्वायतने प्रथमद्वितीये ।
[४५७।०८]
द्वे द्वितीयवत्
[४५७।०९]
यथा द्वितीयो विमोक्ष एवं द्वे अभिभ्वायतने तृतीयचतुर्थे ।
[४५७।१०]
अन्यानि पुनः शुभविमोक्षवत् ॥ ८.३५ ॥
[४५७।११]
यथा शुभो विमोक्ष एवमन्यानि चत्वारि ।
अयं तु विशेषः तैर्वैमुख्यमात्रम् ।
[४५७।१२]
एभिस्त्वालम्बनाभिभवनं यथेच्छमधिमोक्षात्क्लेशानुत्पादाच्च ।
[४५७।१३]
दश कृत्स्नानि
[४५७।१४]
दश कृत्स्नायतनानि निरन्तरकृत्स्नस्फरणात् ।
[४५७।१४-४५७।१५]
पृथिव्यप्तेजोवायुनीलपीतलोहितावदातकृत्स्नानि ।
[४५७।१५]
आकाशविज्ञानानन्त्यायतनकृत्स्ने च ।
तेषाम्
[४५७।१६]
अलोभाष्टौ
[४५७।१७]
प्रथमान्यष्टावलोभस्वभावानि
[४५७।१८]
ध्यानेऽन्त्ये
[४५७।१९]
चतुर्थ एव ध्याने ।
[४५८।०१]
गोचरः पुनः ।
[४५८।०२]
कामाः
[४५८।०३]
कामावचररूपायतनमेषा मालम्बनम् ।
वायोः स्प्रष्टव्यायतन मित्येके ।
[४५८।०४]
द्वे शुद्धकारुप्ये
[४५८।०५]
द्वे पश्चिमे कृत्स्ने शुद्धकारूप्यस्वभावे ।
[४५८।०६]
स्वचतुःस्कन्धगोचरे ॥ ८.३६ ॥
[४५८।०७]
स्वभूमिकाश्चत्वारः स्कन्धा अन्योरालम्बनम् ।
[४५८।०७-४५८।०८]
विमोक्षप्रावेशिकान्यभिभ्वायतनानि ।
[४५८।०८]
अभिभ्वायतनप्रावेशिकानि कृत्स्नायतनानि ।
उत्तरोत्तरविशिष्टत्वात् ।
[४५८।०९-४५८।१०]
सर्वाणि चैतानि विमोक्षादीनि पृथग्जनार्यसांतानिकानि स्थापयित्वा निरोधविमोक्षम् ।
[४५८।११]
निरोध उक्तः
[४५८।१२]
निरोधविमोक्षः पूर्वमेवोक्तः सर्वैः प्रकारैः ।
[४५८।१३]
वैराग्यप्रयोगाप्तं तु शेषितम् ।
[४५८।१४]
निरोधादन्यानि विमोक्षादीनि वैराग्यलाभिकानि प्रायोगिकाणि च ।
[४५८।१४-४५८।१५]
उचितानुचितत्वात् ।
[४५८।१६]
त्रिधात्वाश्रयमारूप्यसंज्ञं शेषं मनुष्यजम् ॥ ८.३७ ॥
[४५८।१७]
आरुप्यविमोक्षा आरुप्यकृत्स्ने च त्रैधातुकाश्रयाणि शेषं मनुष्याश्रयमेव ।
[४५८।१८]
उपदेशसामर्थ्येनोत्पादनात् ।
कथं रूपारुप्यधात्वोरारूप्यध्यानविशेषोत्पादनम् ।
[४५८।१९]
त्रिभिः कारणैर्ध्यानारूप्यसमापत्तीनामुपपत्तिर्हेतुकर्मधर्मताबलैः ।
तत्र
[४५८।२०]
हेतुकर्मबलाद्धात्वोरारूप्योत्पादनं द्वयोः ।
[४५९।०१]
द्वयो रूपारूप्यधात्वोरारूप्यसमापत्त्युत्पादनम् ।
[४५९।०१-४५९।०३]
हेतुबलादासन्नाभीक्ष्णाभ्यासात्कर्मबलाच्चोर्ध्वभूमिकस्यापरपर्यायवेदनीयस्य कर्मणः प्रत्युपस्थितविपाकत्वात् ।
[४५९।०३]
नह्यधस्तादवीत रागेणोर्ध्व शक्यमुत्पत्तुमिति ।
[४५९।०४]
ध्यानानां रूपधातौ तु ताभ्यां धर्मतयापि च ॥ ८.३८ ॥
[४५९।०५-४५९।०६]
रूपधातौ ध्यानोत्पादनमेताभ्यां हेतुकर्मबलाभ्यां धर्मतया च संवर्तनीकाले ।
[४५९।०६]
तदानीं हि सर्वस्त्त्वा एवाधरभूमिकास्तद्ध्यानमुत्पादयन्ति ।
[४५९।०६-४५९।०७]
कृत्स्नानां धर्माणामुद्भूतवृत्तित्वात् ।
[४५९।०७]
कियच्चिरं पुनरयं सद्धर्मः स्थास्यति ।
[४५९।०७-४५९।०८]
यत्रेमे ईदृशानां धर्माणां प्रकाराः प्रज्ञायन्ते ।
[४५९।०९]
सद्धर्मो द्विविधः शास्तुरागमाधिगमात्मकः ।
[४५९।१०]
तत्रागमः सूत्रविनयाभिधर्मा अधिगमो बोधिपक्ष्या इत्येष द्विविधः सद्धर्मः ।
[४५९।११]
धातारस्तस्य वक्तारः प्रतिपत्तार एव च ॥ ८.३९ ॥
[४५९।१२]
आगमस्य हि धारयितारो वक्तारः ।
अधिगमस्य प्रतिपत्तारः ।
[४५९।१२-४५९।१३]
अतो यावदेते स्थास्यन्ति तावत्सद्धर्म इति वेदितव्यम् ।
[४५९।१३]
तेषां तु वर्षसहस्र मवस्थानमाहुः ।
[४५९।१४]
अधिगमस्यैवम् ।
आगमस्य तु भूयांसं कालमित्यपरे ।
[४५९।१५]
योऽयमिह शास्त्रेऽभिधर्म उक्तः किमेष एव शास्त्राभिधर्मो देशितः ।
[४५९।१६-४५९।१९]
काश्मीरवैभाषिकनीतिसिद्धः प्रायो मयाऽयं कथितोऽभिधर्मः ।
यद्दुर्गृहीतं तदिहास्मदागः सद्धर्मनीतौ मनयः प्रमाणम् ॥ ८.४० ॥
[४६०।०१-४६०।०२]
प्रायेण हि काश्मीरवैभाषिकाणां नीत्यादिसिद्ध एषोऽस्माभिरबिधर्म आख्यातः ।
[४६०।०२]
यदत्रास्माभिर्दुर्गृहीतं सोऽस्माकमपराधः ।
[४६०।०२-४६०।०३]
सद्धर्मनीतौ तु पुनर्बुद्धा एव प्रमाणं बुद्धपुत्राश्च ।
[४६०।०४-४६०।०७]
निमीलिते शास्तरि लोकचक्षुषि क्षयं गते साक्षिजने च भूयसा ।
अदृष्टतत्त्वैर्निरवग्रहैः कृतं कुतार्किकैः शासनमेतदाकुलम् ॥ ८.४१ ॥
[४६०।०७-४६०।११]
गतेऽथ शान्तिं परमां स्वयंभुवि स्वयंभुवः शासनधुर्धरेषु च ।
जगत्यनाथे गुनघातिभिर्मतैः निरङ्कुशैः स्वैरमिहाद्य चर्यते ॥ ८.४२ ॥
[४६०।१२-४६०।१३]
इति कण्ठगतप्राणं विदित्वा शासनं मुनेः ।
बलकालं मलानां च न प्रमाद्यं मुमुक्षुभिः ॥ ८.४३ ॥
=====================================================================
[४६०।१४]
॥ अभिधर्मकोशभाष्ये समापत्तीनिर्देशो नामाष्टमकोशस्थानमिति ॥
नवमं कोशस्थानम्
=====================================================================
नमो बुद्धाय
=====================================================================
[४६१।०२]
किं खल्वतोऽन्यत्र मोक्षो नास्ति ।
नास्ति ।
[४६१।०२-४६१।०३]
किं कारणम् ।
[४६१।०३]
वितथात्मदृष्टिनिविष्टत्वात् ।
[४६१।०३-४६१।०४]
नहि ते स्कन्धसंतान एवात्मप्रज्ञप्तिं व्यवस्यन्ति ।
[४६१।०४]
किं तर्हि ।
[४६१।०४-४६१।०५]
द्रव्यान्तरमेवात्मानं परिकल्पयन्ति आत्मग्राहप्रभवाश्च सर्वक्लेशा इति ।
[४६१।०५-४६१।०६]
कथं पुनरिदं गम्यते स्कन्धसंतान एवेदमात्माभिधानं वर्तते नान्यस्मिन्नभिधेय इति ।
[४६१।०६]
प्रत्यक्षानुमानाभावात् ।
[४६१।०६-४६१।०७]
ये हि धर्माः सन्ति तेषां प्रत्यक्षमुपलब्धिर्भवत्यसत्यन्तराये ।
[४६१।०७]
तद्यथा षण्णां विषयाणां मनसश्च ।
अनुमानं च ।
[४६१।०८]
तद्यथा पञ्चानामिन्द्रियाणाम् ।
तत्रेदमनुमानम् ।
[४६१।०८-४६१।०९]
सति कारणे कारणान्तरस्याभावे कार्यस्याभावो दृष्टो भावे च पुनर्भाविस्तद्यथाङ्कुरस्य ।
[४६१।०९-४६१।११]
सत्येव चाभासप्राप्ते विषये मनस्कारे च कारणे विषयग्रहणस्याभावो दृष्टः पुनश्च भावोऽन्धवधिरादीनामनन्धावधिरादीनां च ।
[४६१।११-४६१।१२]
अतस्तत्रापि कारणान्तरस्याभावो भावश्च निश्चीयते ।
[४६१।१२]
यच्च तत्कारणान्तरं तदिन्द्रियमित्येतदनुमानम् ।
[४६१।१२-४६१।१३]
न चैवमात्मनोऽस्तीति नास्त्यात्मा ।
[४६१।१४]
यत्त्र्हि वात्सीपुत्रियाः पुद्गलं सन्तिमिच्छन्ति ।
विचार्यं तावदेतत् ।
[४६१।१४-४६१।१५]
किं ते द्रव्यत इच्छन्त्याहोस्वित्प्रज्ञप्तितः ।
[४६१।१५]
किं चेदं द्रव्यत इति किं वा प्रज्ञप्तितः ।
[४६१।१६]
रूपादिवत्भावान्तरं चेत्द्रव्यतः ।
[४६१।१६-४६१।१७]
क्षीरादिवत्समुदायश्चेत्प्रज्ञप्तितः ।
[४६१।१७]
किं चातः ।
यदि तावत्द्रव्यतः ।
[४६१।१७-४६१।१८]
संभिन्न स्वभावत्वात्स्कन्धेभ्योऽन्यो वक्तव्य इतरेतरस्कन्धवत् ।
[४६१।१८]
कारणं चास्य वक्तव्यम् ।
असंस्कृतो वा ।
[४६१।१९]
अतस्तीर्थिकदृष्टिप्रसङ्गो निष्प्रयोजनत्वं च ।
अथ प्रज्ञप्तितः ।
वयमप्येवं त्रूमः ।
[४६१।२०]
नैव हि द्रव्यतोऽस्ति नापि प्रज्ञप्तितः ।
किं तर्हि ।
[४६१।२०-४६१।२१]
आध्यात्मिकानुपात्तान्वर्त्तमानान् स्कन्धानुपादाय पुद्गलः प्रज्ञप्यते ।
[४६१।२१-४६१।२२]
तदिदमन्धवचनमनुन्मीलितार्थं न बुध्यामहे ।
[४६१।२२]
किमिदमुपादायेति ।
[४६१।२२-४६१।२३]
यद्ययमर्ह्तः स्कन्धानां लक्ष्यते तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति ।
[४६१।२३]
यथा रूपादीनालम्व्य तेष्वेव क्षीरप्रज्ञप्तिः ।
[४६१।२३-४६१।२४]
अथायमर्थः स्कन्धान् प्रतीयेति ।
[४६१।२४]
स्कन्धानां पुद्गलप्रज्ञप्तिकारणत्वात् ।
स एव दोषः ।
[प्४६।१२४-४६१२५]
न स एवं प्रज्ञप्यते ।
[४६१।२५]
कथं तर्हि यथेन्धनमुपादायाग्निः ।
[४६१।२५-४६२।०१]
कथं चेन्धनमुपादायाग्निः प्रज्ञप्यते ।
[४६२।०१-४६२।०२]
न हि विनेन्धनेनाग्निः प्रज्ञप्यते न चान्य इन्धनादग्निः शक्यते प्रज्ञपयितुं नाप्यनन्यः ।
[४६२।०२]
यदि हान्यः स्यादनुष्णमिन्धनं स्यात् ।
[४६२।०२-४६२।०३]
अथानन्यः स्याद्दाह्यमेव दाहकं स्यात् ।
[४६२।०३]
एवं न च विना स्कन्वैः पुद्गलः प्रज्ञप्यते ।
[४६२।०३-४६२।०४]
न चान्यः स्कन्धेभ्यः शक्यते प्रतिज्ञातुं शाश्वतप्रसङ्गात् ।
[४६२।०४]
नाप्यनन्य उच्छेदप्रसङ्गदिति ।
[४६२।०५]
अङ्ग तावद्ब्रूहि किगिन्धनं कोऽन्निरिति ।
[४६२।०५-४६२।०६]
ततो ज्ञास्यामः कथमिन्धनमुपादायाग्निः प्रज्ञप्यत इति ।
[४६२।०६-४६२।०७]
किमत्र वक्तव्यं दाह्यमिन्धनं दाहकोऽग्निः ।
[४६२।०७]
एतदेवात्र वक्तव्यं किं दाह्यं कोक्दाहक इति ।
[४६२।०७-४६२।०८]
लोके हि तावदप्रदीप्तं काष्ट्ःादिकमिन्धनमुच्यते दाह्यं च ।
[४६२।०८]
प्रदीप्तमग्निर्दाहकश्च ।
[४६२।०८-४६२।०९]
यच्च भस्वरं चोष्णं च भृशं च तेन हि तदिध्यते ध्यते च ।
[४६२।०९]
संततिविकारापादानात् ।
[४६२।०९-४६२।१०]
तच्चोभयमष्टद्रव्यकं तच्चेग्धनं प्रतीत्याग्निरुत्पद्यते ।
[४६२।१०-४६२।११]
यथा क्षीरं प्रतीत्य दधि मधु प्रतीत्यशुक्तम् ।
[४६२।११]
तस्माधिग्धनमुपादायेत्युच्यते ।
अन्यश्च स तस्माद्भिन्नकालत्वात् ।
[४६२।११-४६२।१२]
यदि चैयं पुद्गलः स्कन्धान् प्रतीत्योत्पद्यते स तेभ्योऽन्यश्चानित्यश्च प्राप्नोति ।
[४६२।१२-४६२।१४]
अथ पुनस्तत्रैव काष्ठादौ प्रदीप्ते यदीष्ण्यं तदग्निस्तत्सहजातानि त्रीणि भूतानीन्धनमिष्यन्ते ।
[४६२।१४]
तयोरपि सिद्धमन्यत्वं लक्षणभेदात् ।
[४६२।१५]
उपादायार्थस्तु वक्तव्यः ।
कथं तदिन्धनमुपादाय सोऽग्निः प्रज्ञप्यत इति ।
[४६२।१६]
न हि तत्तस्य कारणं नापि तत्प्रज्ञप्तेः ।
अग्निरेव हि तत्प्रज्ञप्तेः कारणम् ।
[४६२।१७]
यद्याश्रयार्थ उपादायार्थः सहभावार्थो वा ।
[४६२।१७-४६२।१८]
स्कन्धा अप्येवं पुद्गलस्याश्रयसहभूताः प्राप्नुवन्तीति विस्पष्टमन्यत्वं प्रतिज्ञायते ।
[४६२।१८-४६२।१९]
तदभावे च पुद्गलाभावः प्राप्नोति ।
[४६२।१९]
इन्धनभाव इवाग्न्यभावः ।
[४६२।२०]
यत्तु तदुक्तं यदीन्धनादन्योऽग्निः स्यादनुष्णमिन्धनं स्यादिति ।
[४६२।२०-४६२।२१]
किमिदमुष्णं नाम ।
[४६२।२१-४६२।२२]
यदि तावादीष्ण्यमनुष्णमेवेन्धनमन्यभूतस्वभावत्वात् ।
[४६२।२२]
अथ यदौष्ण्यवत् ।
[४६२।२२-४६२।२३]
अन्यदपि तदुष्णस्वभावादग्नेरुष्णं सिध्यत्यीष्ण्ययोगादिति ।
[४६२।२३]
नास्त्यन्यत्वे दोषः ।
[४६२।२३-४६२।२४]
अथ पुनः सर्वमेव तत्प्रदीप्तं काष्ठादिकमिन्धनं चाग्निश्चेष्यते ।
[४६२।२५]
तदुपादायार्थश्च वक्तव्यः ।
स्कन्धा एव च पुद्गला इत्यनन्यत्वमनिवार्यं प्राप्नोति ।
[४६२।२६]
तस्मान्न सिध्यत्येतत् ।
[४६२।२६-४६३।०१]
यथेन्धनमुपादायाग्निः प्रज्ञप्यते एवं स्कधानुपादाय पुद्गलः इति ।
[४६३।०१-४६३।०२]
यदि चायमन्यः स्कन्धेभ्यो न वक्तव्यः “पञ्चविधं ज्ञेयमतीतानागतं प्रत्युपन्नमसंस्कृतमवक्तव्यमि”ति न वक्तव्यं प्राप्नोति ।
[४६३।०२-४६३।०३]
नैव हि तदतीतादिभ्यः पञ्चमं नापञ्चमं वक्तव्यम् ।
[४६३।०३-४६३।०४]
यदा च पुद्गलः प्रज्ञप्यते कि तावत्स्कन्धानुपलभ्य प्रज्ञप्यते आहोस्वित्पुद्गलम् ।
[४६३।०४-४६३।०५]
यदि तावत्स्कन्धांस्तेष्वेव पुद्गलप्रज्ञप्तिः प्राप्नोति ।
[४६३।०५]
पुद्गलस्यानुपलम्भात् ।
[४६३।०५-४६३।०६]
अथ पुद्गलं कथमस्य स्कन्धानुपादाय प्रज्ञप्तिर्भवति ।
[४६३।०६]
पुद्गल एव हि तस्या उपादानं प्राप्नोति ।
[४६३।०६-४६३।०७]
अथ मतं सत्सु स्कन्धेषु पुद्गल उपलभ्यते ततः स्कन्धानुपादायास्य प्रज्ञप्तिरुच्यत इति ।
[४६३।०७-४६३।०८]
तदेवं रूपस्यापि चक्षुर्मनस्कारालोकेषु सत्सूपलम्भात्तानुपादाय प्रज्ञप्तिर्बक्तव्या ।
[४६३।०८-४६३।०९]
रूपवच्च पुद्गलस्यान्यत्वं स्पष्टम् ।
[४६३।१०]
इदं तावद्वक्तव्यम् ।
[४६३।१०-४६३।११]
षण्णां विज्ञानानां कतमेन पुद्गलो विज्ञेयः ।
[४६३।११]
षड्भिरपीत्युच्यते ।
कथं कृत्वा ।
[४६३।११-४६३।१३]
चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्यपुद्गलं प्रतिभावयति चक्षुर्विज्ञेयः पुद्गलो वक्तव्यः नो तु वक्तव्यो रूपाणि वानो वा ।
[४६३।१३-४६३।१४]
एवं यावत्मनोविज्ञेयान् चेद्धर्मान् प्रतीत्य पुद्गलं प्रतिविभावयति मनोविज्ञेयः पुद्गलो वक्तव्यो नो तु वक्तव्यो धर्मा वा नो वा ।
[४६३।१४-४६३।१५]
एवं तर्हि क्षीरादिभिः समानः प्राप्नोति ।
[४६३।१५-४६३।१७]
चक्षुर्विज्ञेयानि चेद्रूपाणि प्रतीत्य क्षीरं विभावयत्युदकं वा चक्षुर्विज्ञेयं क्षीरमुदकं चेति वक्तव्यं नो तु वक्तव्यं रूपाणि वा नो वा ।
[४६३।१७]
एवं घ्राणजिह्वाकायविज्ञेयं वक्तव्यं नो तु वक्तव्यं स्प्रष्टव्यानि वा नो वा ।
[४६३।१८]
माभूत्क्षीरोदकयोश्चतुष्ट्वप्रसङ्ग इति ।
[४६३।१८-४६३।१९]
अतो यथा रूपादीन्येव क्षीरमुदकं वा प्रज्ञप्यते समस्तान्येवं स्कन्धाः पुद्गल इति सिद्धम् ।
[४६३।२०]
यच्चोच्यते चक्षुर्विज्ञेयानि रूपाणि प्रतीत्य पुद्गलं प्रतिविभावयतीति ।
[४६३।२१]
कोऽस्य वाक्यस्यार्थः ।
[४६३।२१-४६३।२२]
किं तावद्रूपाणि पुद्गलोपलब्धेः कारणं भवतिति आहोस्विद्रूपाण्युपलभमानः पुद्गलमुपलभत इति ।
[४६३।२२-४६३।२३]
यदि रूपाणि पुद्गलोपलब्धेः कारणं भवन्ति स च तेभ्योऽन्यो न वक्तव्यः ।
[४६३।२३-४६३।२४]
एवं तर्हि रूपमप्यालोकचक्षुर्मनस्कारेभ्योऽन्यन्न वक्तव्यम् ।
[४६३।२४-४६३।२५]
तेषां तदुपलब्धिकारणत्वात् ।
[४६३।२५]
अथ रूपाण्युपलभमानः पुद्गलमुपलभते ।
[४६३।२५-४६३।२६]
किं तयैवोपलब्ध्योपलभते आहोस्विदन्यया ।
[४६३।२६]
यदि तयैव ।
[४६३।२६-४६३।२७]
रूपादभिन्नस्वभावः पुद्गलः प्राप्नोति रूप एव वा तत्प्रज्ञाप्तिः ।
[४६३।२७]
इदं च रूपमयं पुद्गलः कथमिदं गम्यते ।
अथैवं न परिच्छिद्यते ।
[४६४।०१]
कथमिदं प्रतिज्ञायते रूपमप्यस्ति पुद्गलोऽप्यस्तीति ।
[४६४।०१-४६४।०२]
उपलब्धिवशेन हि तस्यास्तित्वं प्रतिज्ञायते ।
[४६४।०२]
एवं यावद्धर्मेभ्यो वक्तव्यम् ।
[४६४।०२-४६४।०३]
अथान्यया भिन्नकालो पलम्भादन्यो रूपात्प्राप्नोति ।
[४६४।०३]
नीलादिय पीतं क्षणादिव च क्षणान्तरम् ।
[४६४।०३-४६४।०४]
एवं यावद्धर्मेभ्यो वक्तव्यम् ।
[४६४।०४]
अथ रूपपुद्गलवक्तदुपलब्ध्योरप्यन्यानन्यत्वमवक्तव्यम् ।
[४६४।०५]
तेन तर्हि संस्कृतेऽप्यवक्तव्यं भवतीति सिद्धान्तभेदः ।
[४६४।०५-४६४।०६]
यदि चायमस्ति नो तु वक्तव्यो रूपाणि वा तो वा ।
[४६४।०६-४६४।०७]
किं तर्हि भगवतोक्तं “रूपमनात्मा यावद्विज्ञानमनात्मे”ति ।
[४६४।०८]
येन चायं चक्षुर्विज्ञानेन पुद्गल उपलभ्यते ।
[४६४।०८-४६४।०९]
किं तद्रूपाणि प्रतीत्योत्पद्यते आहोस्वित्पुद्गलमुभयं वा ।
[४६४।०९]
यदि रूपाणि प्रतीत्योत्पद्यते ।
[४६४।०९-४६४।१०]
नोत्सहिष्यते पुद्गलं विज्ञातुं शब्दादिवत् ।
[४६४।१०-४६४।११]
यमेव हि विषयं चक्षुर्विज्ञानेषु प्रतीत्योत्पद्यते विज्ञानं स एव तस्यालम्बनप्रत्ययः ।
[४६४।११-४६४।१२]
अथ पुद्गलं प्रतीत्योत्पद्यते उभयं वा ।
[४६४।१२]
इदमुत्सूत्रम् ।
[४६४।१२-४६४।१३]
सूत्रे हि निर्धारितं द्वयं प्रतीत्य विज्ञानस्योत्पादो भवतीति ।
[४६४।१३]
“तथा चक्षुर्भिक्षो हेतू रूपाणि प्रत्ययश्चक्षुर्विज्ञानस्योत्पादाय ।
[४६४।१३-४६४।१४]
तत्कस्य हेतोः ।
[४६४।१४]
यत्किञ्चित्भिक्षो चक्षुर्विज्ञानं सर्वं तच्चक्षुः प्रतीत्य रूपाणि चेति ।
[४६४।१५]
अनित्यश्च पुद्गल एवं प्राप्नोति ।
[४६४।१५-४६४।१६]
“ये हि हेतयो ये प्रत्यया विज्ञानस्योत्पादाय तेऽप्यनित्या” इति सूत्रे वचनात् ।
[४६४।१६-४६४।१७]
अथ पुद्गलो न तस्यालम्बनं न तर्हि तेन विज्ञेयः ।
[४६४।१८]
यदि च पुद्गलः षड्विज्ञानविज्ञेयः प्रतिज्ञायते ।
[४६४।१८-४६४।१९]
स श्रोत्रविज्ञानविज्ञेयत्वाद्रूपादन्यः प्राप्नोति शब्धवत् ।
[४६४।१९-४६४।२०]
चतुर्विज्ञानविज्ञेयत्वाच्छब्दादन्यः प्राप्नोति रूपवत् ।
[४६४।२०]
एवमन्येभ्योऽपि योज्यम् ।
इदं च सूत्रपदं वाधितं भवति ।
[४६४।२०-४६४।२२]
“यानीमानि ब्राह्मण पञ्चेन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविष्यं प्रत्यनुभवन्ति ।
[४६४।२२]
नान्यदन्यस्य गोचरविष्यं प्रत्यनुभवति ।
[४६४।२२-४६४।२३]
तद्यथा चक्षुरिन्द्रियं श्रोत्रेन्द्रियं घ्राणेन्द्रियं जिह्वेन्द्रियं कायेन्द्रियम् ।
[४६४।२३-४६४।२४]
मन एषं पञ्चानामिन्द्रियाणां गोचरविषयं प्रत्यनुभवति मनश्चैषां प्रतिसरणमि”ति ।
[४६४।२४]
न वा पुद्गलो विषयः ।
[४६४।२४-४६४।२५]
न चेद्विषयो न तर्हि विज्ञेयः ।
[४६४।२५-४६४।२६]
यद्येवं मनैन्द्रियस्याप्यव्यभिचारः प्राप्नोति ।
[४६४।२६-४६४।२७]
षडिमानीन्द्रियाणि नानागोचराणि नानाविषयाणि स्वं स्वं गोचरविषयमाकाङ्क्षन्ती त्युक्तं षट्प्राणकोपमे ।
[४६४।२७]
न त्त्रेन्द्रियमेम्वेन्द्रियं कृत्वोक्तम् ।
[४६४।२७-४६५।०१]
पञ्चानां दर्शनाद्या काङ्क्षणासंभवात्तद्विज्ञानानां च ।
[४६५।०१-४६५।०२]
अतस्तदाधिपत्याध्याकृतमत्र मनोविज्ञानेन्द्रियं कृत्वोक्तम् ।
[४६५।०२-४६५।०३]
यच्च तत्केवलं मन आधिपत्याध्याकृतं मनोविज्ञानं नैवं तदन्येषां विषयमाकाङ्क्षत्यतो नास्त्येष दोषः ।
[४६५।०३-४६५।०६]
उक्तं च भगवता “सर्वाभिज्ञेयं वो भिक्षवो धर्मपर्यायं देशयिष्यामी”त्युक्त्वा चक्षुरभिज्ञेयं रूपाणि चक्षुर्विज्ञानं चक्षुःसंस्पर्शो यदपि तच्चक्षुःसंस्पर्शप्रत्ययमध्यात्ममुत्पद्यते वेदितं सुःखं वा अदुःखासुखं वा यावत्मनःसंस्पर्शप्रत्ययम् ।
[४६५।०६-४६५।०७]
अयमुच्यते सर्वाभिज्ञेयपरिज्ञेयो धर्मपर्यायः इति ।
[४६५।०७]
अत एतावदेवाभिज्ञेयं प्रतिज्ञेयं चेत्यवर्धार्यते न पुद्गलः ।
[४६५।०७-४६५।०८]
तस्माद्विज्ञेयोऽप्यसौ न भवति ।
[४६५।०८]
प्रज्ञाविज्ञानयोः समानविषयत्वात् ।
[४६५।०८-४६५।०९]
चक्षुष च पुद्गलं पश्यामिति पश्यन्त पौद्गलिका अनात्मना आत्मानं पश्याम इति दृष्टिस्थानमापन्ना भवन्ति ।
[४६५।१०]
सूत्रे च भगवता नीतमेतत् ।
“स्कन्धेष्वेव पुद्गलाध्ये”ति मानुष्यकसूत्रम् ।
[४६५।११-४६५।१३]
“चक्षुःप्रतीत्य रूपाणि चोत्पद्यते चक्षुर्विज्ञानं त्रयाणां संनिपातः स्पर्शः स्पर्शसहजाता वेदना संज्ञा चेतना इतीमे चत्वारो रुपिणः स्कन्धाश्वक्षुरिन्द्रियं च रूपमेतावन्मनुष्यत्वमुच्यते ।
[४६५।१३-४६५।१४]
अत्रेयं संज्ञा सत्त्वो नरो मनुष्यो मानवश्च पोषः पुरुषः पुद्गलो जीवो जन्तुरिति ।
[४६५।१४-४६५।१५]
अत्रेयं प्रतिज्ञा अहं चक्षुषा रूपाणि पश्यामीति ।
[४६५।१५-४६५।१६]
अत्रायं व्यवहार इत्यपि स आयुष्मानेवंनामा एवञ्जात्य एवङ्गोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवन्दीर्घायुरेवञ्चिरस्थितिक एवमायुःपर्यन्त इति ।
[४६५।१६-४६५।१७]
इति हि भिक्षवः संज्ञामात्रकमेवैत द्व्यवहारमात्रकमेवैतत् ।
[४६५।१७-४६५।१८]
सर्व इमे धर्माः अनित्याः संस्कृताश्चेति ताः प्रतीत्यसमुत्पन्ना इति ।
[४६५।१८]
नीतार्थं च सूत्रं प्रतिसरणमुक्तं भगवता ।
[४६५।१९]
तस्मान्न पुनः परीक्ष्यते ।
[४६५।१९-४६५।२०]
तथा चोक्तं “सर्वमस्तीति ब्राह्मण यावदेव द्वादशायनानी”ति ।
[४६५।२०]
यदि चायं पुद्गलो नायतनं न सोस्तीति सिद्धम् ।
[४६५।२०-४६५।२१]
अथायतनं न तर्ह्यवक्तव्यः ।
[४६५।२१-४६५।२२]
तेषामपि चैवं पश्यतो “यावता भिक्षो चक्षुर्यावता रूपाणि विस्तरेण एतावता भिक्षो तथागतः सर्वं च प्रज्ञापयति सर्वप्रज्ञप्तिं चे”ति ।
[४६५।२२-४६५।२५]
बिम्बिसारसूत्रे चोक्तम् “आत्मा आत्मेति भिक्षवो बालोऽश्रुतवान् पृथग्जनः प्रज्ञप्तिमनुपतितो न त्वात्रा त्मा वा आत्मीयं वा दुःखमिदमुत्पद्य मानमुत्पद्यते” इति विस्तरः ।
[४६५।२५]
शैलयाप्यर्हन्त्या मारमारभ्योक्तम् ।
[४६६।०१-४६६।०४]
“मन्यसे कि नु सत्त्वेति मारदृष्टिगतं हि ते ।
शून्यः संस्कारपुञ्जोऽयं नहि सत्त्व्जोत्र विद्यते ॥
यथैव ह्यङ्गसंभारात्संज्ञा रथ इति स्मृता ।
एवं स्कन्धानुपादाय संवृत्या सत्त्व उच्यते” ॥ इति ।
[४६६।०५]
क्षद्रकेऽपि चागमे दारिद्रब्राह्मणमथिकृत्योक्तं
[४६६।०६-४६६।०७]
शृणु त्वं स्वादरे धर्मः सर्वग्रन्थिप्रमोचनम् ।
यथा संक्लिश्यते चित्तं यथा चित्तं विशुध्यति ॥
[४६६।०८-४६६।०९]
आत्मैव ह्यात्मनो नास्ति विपरीतेन कल्प्यते ।
नास्तीह सत्त्व आत्मा वा धर्मास्त्वेते सहेतुकाः ॥
[४६६।१०-४६६।११]
द्वादशैव भवाङ्गानि स्कन्धायतनधातवः ।
विचिन्त्य सर्वाण्येतानि पुद्गलो नोपलभ्यते ॥
[४६६।१२-४६६।१३]
शून्यमध्यात्मकं पश्य शून्यं पश्य बहिर्गतम् ।
न लभ्यते सोऽपि कश्चिद्यो भावयति शून्यतामि”ति ।
[४६६।१४]
तथोक्तं “पञ्चादीनवा आत्मोपलम्भे ।
आत्मदृष्टिर्भवति सत्त्वदृष्टिः ।
[४६६।१५]
निर्विशेषो भवति तीर्थिकैः सार्धम् ।
उन्मार्गप्रतिपन्नो भवति ।
[४६६।१५-४६६।१६]
शून्यतायामस्य चित्तं न प्रस्कन्दति न प्रसीदति न संतिष्ठते न विमुच्यते ।
[४६६।१६-४६६।१७]
आर्यधर्मा अस्य न व्यवदायन्त” इति ।
[४६६।१७]
न वैत एवं ग्रन्धं प्रमाणं कुर्वन्ति ।
किं कारणम् ।
[४६६।१७-४६६।१८]
नास्माकमयं निकाये पठच्यत इति ।
[४६६।१८-४६६।१९]
किं पुनस्तेषां निकाय एव प्रमाणमाहोस्विद्बुद्धवचनम् ।
[४६६।१९]
यदि निकाय एव प्रमाणं न तर्हि तेषां बुधः शास्ता ।
[४६६।१९-४६६।२०]
न च ते शाक्यपुत्रीया भवन्ति ।
[४६६।२०]
अथ बुद्धवचनं प्रमाणम् ।
अयं ग्रन्थः कस्मान्न प्रमाणम् ।
[४६६।२१]
नहि किलैतत्बुद्धवचनमिति ।
किं कारणम् ।
नास्माकं निकाये पठच्यत इति ।
[४६६।२२]
अयमन्यायो वर्तते ।
कोऽत्रान्यायः ।
[४६६।२२-४६६।२४]
यो हि ग्रन्थः सर्वेषु निकायान्तरेष्वाम्नायते न च सूत्रं धर्मतां वा बाधते सोऽस्माभिरपाठान्न बुद्धवचनमिति वचनं केवलं साहसमात्रम् ।
[४६६।२४]
किं चेदमपि तेषां सूत्रं नास्ति “सर्वधर्मा अनातान” इति ।
[४६७।०१]
स्यात्मतम् ।
नैव हि पुद्गलो धर्म उच्यते नाप्यन्यो धर्मादिति ।
[४६७।०१-४६७।०२]
एवं तर्हि न मनोविज्ञेयः सिध्यति ।
[४६७।०२]
द्वयं प्रतीत्य विज्ञानस्योत्पादः इत्यवधारणात् ।
[४६७।०२-४६७।०३]
इह चैवं विकल्प्यते “अनात्मन्यातेति संज्ञाविपर्यास श्चित्तविपर्यासो दृष्टिविपर्यास” इति ।
[४६७।०४]
अनात्मन्यात्मेति विपर्यासो न त्वात्मनि किं च पुनः ।
[४६७।०४-४६७।०५]
“नात्मा स्कन्धायतनधातवः” यत्तावदुक्तं प्राक्”नो तु वक्तव्यं रूपाणि वा नो वे”ति तत्तावदशोचम् ।
[४६७।०५-४६७।०७]
उक्तं च सूत्रान्तरे “ये केचित्भिक्षवः श्रमणा वा ब्राह्मणा वा आत्मेति समनुपश्यन्तः समनुपश्यन्ति सर्वे त इमानेव पञ्चोपादानस्कन्धानि”ति ।
[४६७।०८]
तस्मात्सर्व एवानात्मन्यात्मग्राहः ।
[४६७।०८-४६७।१०]
तथोक्तं “ये केचिदनेकविधं पूर्वनिवासं समनुस्मरन्तः समनुस्मार्षुः समनुस्मरन्ति समनुस्मरिष्यन्ति वा पुनः सर्वे त इमानेव ओपञ्चोपादनस्कन्धानि”ति ।
[४६७।१०-४६७।११]
यद्येवमिदं कस्मादाह “रूपवानहमभूवमतीते अध्वनी”ति ।
[४६७।११]
एवमनेकविधं ये समनुस्मरन्तीति प्रदर्शयति ।
[४६७।११-४६७।१२]
यदि तु रूपवन्तं पुद्गलं पश्येत्सत्कायदृष्टिप्रसङ्गः स्यात् ।
[४६७।१२]
अपाठ एव त्वन्न शरणं स्यात् ।
[४६७।१२-४६७।१३]
तस्मात्प्रज्ञाप्तिसत्पुद्गलो राशिधारावत् ।
[४६७।१४]
यद्येवं तर्हि न बुद्धः सर्वज्ञः प्रप्नोति ।
[४६७।१४-४६७।१५]
न हि किञ्चिच्त्रित्तमस्ति चैत्ता वा यत्सर्वं जानीयात् ।
[४६७।१५]
क्षणिकत्वात् ।
पुद्गलस्तु जानीयात् ।
[४६७।१५-४६७।१६]
एवं तर्हि चित्तविनाशे पुद्गलस्याविनाशाभ्युपगमात्नित्यत्वमस्याभ्युपेतं भवति ।
[४६७।१६-४६७।१७]
नैव च वयं सर्वत्र ज्ञानसंमुखीभावाद्बुद्धं सर्वज्ञमाचक्ष्महे ।
[४६७।१७]
किं तर्हि ।
सामर्थ्यात्
[४६७।१७-४६७।१९]
या ह्यसौ बुद्धाख्या संततिस्तस्या इदमस्ति सामर्थ्यं यदाभोगमात्रेणाविपरीतं ज्ञानमुत्पद्यते यत्रेष्टम् ।
[४६७।१९]
आह चात्र ।
[४६७।२०-४६७।२१]
संतानेन समर्थत्वाद्यथाग्निः सर्वभुङ्मतः
तथा सर्वविदेष्टव्योऽसकृत्सर्वस्य वेदनात् ।
[४६७।२२]
कथमिदं गम्यते ।
अतीतादिवचनात् ।
[४६७।२३-४६७।२४]
“ये चाभ्यतीताः संबुद्धा ये च बुद्धा अनागताः ।
यश्च एतर्ह्हि संबुद्धो बहूनां शोकनाशन” इति ।
[४६८।०१]
स्कन्धा एव च त्रैयध्विका इष्यन्ते न पुद्गला युष्माभिः ।
[४६८।०१-४६८।०२]
यदि स्कन्धा एव पुद्गलाः कस्मादिदमाह ।
[४६८।०२-४६८।०३]
“भारं च वो भिक्षवो देशयिष्यामि भारादानं च भारनिक्षेपणं च भारहारं चे”ति ।
[४६८।०३]
कस्मादिदं न वक्तव्यं स्यात् ।
[४६८।०३-४६८।०४]
न हि भार एव भारहारो युक्तः ।
[४६८।०४]
किं कारणम् ।
नह्येवं दृश्यत इति ।
अवक्तव्योऽपि न युक्तः ।
[४६८।०५]
किं कारणम् ।
न ह्येवं दृश्यते ।
भारादानस्यापि स्कन्धासंग्रहप्रसङ्गाच्च ।
[४६८।०६]
इत्यर्थमेव भारहारं निर्दिदेश भगवान् ।
[४६८।०६-४६८।०७]
“योऽसावायुप्मानेवंनामा यावदेवञ्चिरस्थितिक एवमायुःपर्यन्तः” स एष यथा विज्ञायेत ।
[४६८।०७-४६८।०८]
मान्यथा विज्ञायि नित्यो वा अवक्तव्यं वेति ।
[४६८।०८-४६८।०९]
स्कन्धा एव च स्कन्धानामुपधाताय संवर्तन्ते पूर्वका उत्तरेषामिति भारं च भारहारं च कृत्वोक्ताः ।
[४६८।०९]
उपघातार्थो हि भार इति ।
[४६८।१०]
अस्त्येव पुद्गलो यस्मादुक्तं “नास्ति सत्त्व उपपादुक इति मिथ्यादृष्टिः” ।
[४६८।११]
कश्चैवमाह नास्ति सत्त्व उपपादुक इति ।
[४६८।११-४६८।१२]
सत्त्वस्तु यथाऽस्ति तथा विभक्तो भगवतेति ब्रूमो मानुष्यकसूत्रे ।
[४६८।१२-४६८।१३]
तस्माद्यः परत्रोपपादुकसत्त्वाख्यस्कन्धसंतानापवादं करोति तस्यैषा मिथ्यादृष्टिर्नास्ति सत्त्व उपपादुक इति ।
[४६८।१४]
स्कन्धानामुपपादुकत्वात् ।
[४६८।१४-४६८।१५]
अथैषा मिथ्यादृष्टिः पुद्गलापवादिका सती किंप्रहातव्या भवेत् ।
[४६८।१५]
नह्येषा दर्शनभावनाप्रहातव्या युज्यते ।
पुद्गलस्य सत्त्वेष्वन्तर्भावात् ।
[४६८।१६]
“एकः पुद्गलो लोक उत्पद्यमान उत्पद्यते” इति वचनात्न स्कन्धा इति चेत् ।
[४६८।१७]
न ।
समुदायेऽप्येकोपचारादेकतिलैकतण्डुलवतेकराश्येकवचनवच्च ।
[४६८।१८]
संस्कृत इति वा पुद्गलो वक्तव्य उत्पतीमत्त्वाभ्युपगमात् ।
[४६८।१८-४६८।१९]
न स एवमुत्पद्यते यथा स्कन्धा अपूर्वप्रादुर्भावात् ।
[४६८।१९]
किं तर्हि ।
स्कन्धान्तरोपादानात् ।
[४६८।१९-४६८।२०]
यथा याज्ञिको जातो वैयाकरणो जात इत्युच्यते विद्योपादानात् ।
[४६८।२०-४६८।२१]
भिक्षुर्जातः परिव्राजको जात इति लिङ्गोपादानात् ।
[४६८।२१]
बुद्धोजातो व्याधितो जात इत्यवस्थान्तरोपादानादिति ।
[४६८।२२]
न प्रतिक्षेपात्सूत्र एव हि प्रतिक्षिप्तं भगवता परमार्थशून्यतायाम् ।
[४६८।२२-४६८।२३]
“इति हिभिक्षवोऽस्ति कर्मास्ति विपाकः कारकस्तु नोपलभ्यते ।
[४६८।२३-४६८।२४]
य इमांश्च स्कन्धान्निक्षिपति अन्यांश्च स्कन्धान् प्रतिसंदधात्यन्यत्र धर्मसंकेतादिति ।
[४६८।२४-४६८।२५]
फल्गुसूत्रे चोक्तम् “उपादत्त इति फल्गु न वदामीति ।
[४६८।२५-४६८।२६]
तस्मान्नास्ति स्कन्धानां कश्चिदुपादाता नापि निक्षिप्ता ।
[४६८।२६-४६९।०१]
कं च तावद्भवान्याज्ञिकं यावद्वच्या धित मधिमुच्यते ।
[४६९।०१]
दृष्टातं करोति पुद्गलं यदि ।
सोऽसिद्धः ।
अथ चित्तचैत्ताः ।
न ।
[४६९।०२]
तेषां प्रतिक्षणमपूर्वोत्पत्तिरेव ।
अथ शरीरम् ।
तस्यापि तथा ।
[४६९।०२-४६९।०३]
शरीरविद्यालिङ्गवच्च स्कन्धपुद्गलयोरन्यत्वमापद्यते ।
[४६९।०३]
जीर्ण शरीरान्तरमेव ज्याधितं च ।
[४६९।०३-४६९।०४]
प्रतिषिद्धो हि सांख्यीयः परिणामवादः ।
[४६९।०४]
तस्माददृष्टान्ता एते ।
[४६९।०५-४६९।०६]
यदि च स्कन्धानामपूर्वोत्पादो न पुद्गलस्येष्यते सोऽन्यश्च तेभ्यो नित्यश्च स्फुटं दीपितो भवति ।
[४६९।०६]
पञ्च स्कन्धा एकः पुद्गल इति ब्रूवता कथमन्यत्वं नोच्यते ।
[४६९।०७]
कथं तावत्भूतानि चत्वारि रूपं त्वेकं न च भूतेभ्य्योऽन्यद्रूपम् ।
पाक्षिक एष दोषः ।
[४६९।०८]
कतमस्मिन्पक्ष ।
भूतमात्रिकपक्षे ।
[४६९।०८-४६९।०९]
तथापि तु यथा भूतमात्रं रूपमेवं स्कन्धमात्रं पुद्गल इत्यभ्युपेतं भवति ।
[४६९।०९-४६९।१०]
यदि स्कन्धमात्रं पुद्गलः कस्मात्भगवता स जीवस्तच्छरीरकन्यो वेति नव्याकृतम् ।
[४६९।१०]
प्रष्टुराशयापेक्षया ।
[४६९।१०-४६९।११]
स हि जीवद्रव्यमेकमन्तर्व्यापार पुरुषमधिकृत्य पृष्टवान् ।
[४६९।११-४६९।१२]
स च कस्मिश्चिन्नास्तीति कथमस्यान्यत्वमनन्यत्वं वा व्याक्रियताम् ।
[४६९।१२]
कौर्मस्येव रोम्णोऽन्तःखरता मृदुता वा ।
[४६९।१३]
एष च ग्रन्थः पूर्वकैरेव निर्मोचितः ।
[४६९।१३-४६९।१४]
स्थाविरो हि नागसेनःकलिङ्गेन राज्ञोपसंक्रम्योक्तः ।
[४६९।१४-४६९।१५]
“पृच्छेयमहं भदन्तं बहुवोल्लकाश्च श्रवणा भवन्ति ।
[४६९।१५]
यदि यदेव पृच्छेयं तदेव व्याकुर्या इति ।
पृच्छेत्युक्तः पृष्टवान् ।
[४६९।१५-४६९।१६]
किं नु स जीवस्तच्छरीरमन्यिओ जीवोऽन्यच्छरीरमिति ।
[४६९।१६]
अव्याकृतमेतदित्यवोचत्स्थविरः ।
[४६९।१७]
स आह ।
ननु भदन्तः पूर्वमेव प्रतिज्ञां कारितो नाऽन्यद्वच्याकर्तव्यमिति ।
[४६९।१७-४६९।१८]
किमिदमन्यदेवोक्तमव्याकृतमेतदिति ।
[४६९।१८]
स्थविर आह ।
[४६९।१८-४६९।१९]
अहमपि महाराजं पृच्छेयं बहुवोल्लकाश्च राजानो भवन्ति ।
[४६९।१९]
यदि यदेव पृच्छेयं तदेव व्याकुर्या इति ।
[४६९।१९-४६९।२०]
पृच्छेत्युक्तः पृष्टवान् ।
[४६९।२०-४६९।२१]
यस्तेऽन्तःपुरे आभ्रवृक्षस्तस्य किमम्लानि फलानि आहोस्वित्मधुराणीति ।
[४६९।२१]
नैव ममान्तःपुरे कश्चिदाभ्रवृक्षोऽस्तीत्याह ।
[४६९।२१-४६९।२२]
ननु मया पूर्वमेव महाराजः प्रतिज्ञां कारितो नान्यद्वच्याकर्तव्यमिति ।
[४६९।२२]
किमिदमन्यदेवोक्तमाभ्र एव नास्तीति ।
[४६९।२३]
स आह कथमसतो वृक्षस्य फलानामम्लतां मधुरतां वा व्याकरोमीति ।
[४६९।२३-४६९।२४]
एवमेव महाराज स एव जीवो नास्ति कुतोऽस्य शरीरादन्यतामनन्यतां वा व्याकरोमीति ।
[४६९।२५]
कस्मात्भगवताऽपि नोक्तं नास्त्येवेति ।
प्रष्टुराशयापेक्षया ।
[४६९।२५-४६९।२७]
स हि यस्यापि स्कन्धसंतानस्य जीव इत्याख्या तस्याप्यभावं प्रतीयादिति मिथ्यादृष्टिं पातितः स्यात् ।
[४६९।२७]
प्रतोत्य समुत्पादस्याज्ञानात् ।
[४६९।२७-४७०।०१]
स चतद्देशनाया अक्षमः ।
[४७०।०१]
इतश्चैतदेवं निश्चीयते ।
[४७०।०१-४७०।०३]
यत्भगवतोक्तम् “अस्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां नन्वकल्पं स्याद्वचनाय सर्वधर्मा अनात्मान इति ।
[४७०।०३-४७०।०५]
नास्त्यात्मेत्यानन्द वत्ससगोत्राय परिव्राजकाय प्रश्नं पृष्टो व्याकुर्यां ननु वत्ससगोत्रः परिव्राजकः पूर्वमेव संमूढो भूयस्या मात्रया संमोहमापद्येत अभूत्मे आत्मास मे एतर्हि नास्तीति ।
[४७०।०५-४७०।०६]
अस्त्यात्मेत्यानन्द शाश्वताय परेति ।
[४७०।०६]
नास्त्यात्मेत्यानन्दोच्छेदाय परेतीति विस्तरः ।
आह चान्न
[४७०।०७-४७०।०८]
दृष्टिदंष्ट्रावभदं च ब्रंशं चापेक्ष्य कर्मणाम् ।
देशयन्ति जिना धर्म व्याग्रीपीतापहारवत् ॥
[४७०।०९-४७०।१०]
आत्मास्तित्वं ह्युपगतो भिन्नः स्याद्दृष्टिदंष्ट्रया
भ्रंशं कुक्शलपोतस्य कुर्यादप्राप्य संवृतिमि”ति ।
[४७०।११-४७०।१२]
पुनराह
असत्त्वाद्भगवान् जीवं तत्त्वान्यत्वेन नावदत् ।
नास्तीत्यपि च नावोचन्माभूत्प्राज्ञप्तिकोप्यसन् ॥
[४७०।१३-४७०।१४]
यत्र हि स्कन्धसंताने शुभाशुभफलास्तिता ।
जीवाख्या तत्र सा न स्यात्जीवनास्तित्वदेशनात् ॥
[४७०।१५-४७०।१६]
प्रज्ञप्तिमात्रं स्कन्धेसु जीव इत्यपिनावदत् ।
अभव्यः शून्यतां बोद्धुं तदानीं तादृशो जनः ॥
[४७०।१७-४७०।१८]
तथा ह्यात्मास्ति नास्तीति पृष्टो वास्त्येव नावदत् ।
आशयापेक्षाया प्रष्टुः सति त्वस्तीति नाह किम् ॥
[४७०।१९]
शाश्वतलोकादीनामप्यवयाकरणं प्रष्टुराशयापेक्षया ।
[४७०।१९-४७०।२०]
यदि हि तावदात्मा लोक इष्टः स्यात्तस्याभावादयुक्तं चतुर्धा व्याकरणम् ।
[४७०।२०-४७१।०१]
अथ सर्व एव संसारो लोकस्तस्याप्ययुक्तम् ।
[४७१।०१]
शाश्वते लोके न कस्यचित्परिनिर्वाणं प्राप्नुयात् ।
शाश्वते लोके न कस्यचित्परिनिर्वाणं प्राप्नुयात् ।
[४७१।०२]
अशाश्वते सर्वेपामुच्छेदः प्राप्नुयात् ।
[४७१।०२-४७१।०३]
उभयथात्वे नियमत एकेषां परिनिर्वाणं प्राप्नुयातेकेषां न ।
[४७१।०३]
अनुभयथात्वे नैव परिनिर्वाणं नापरिनिर्वाणं प्राप्नुयात् ।
[४७१।०४-४७१।०५]
अतो मार्गधीनत्वात्परिनिर्वाणस्य चतुर्धापि नियमो न व्याक्रियते निर्ग्रन्थ४ आवकचटकवत् ।
[४७१।०५]
अत एवान्तवान् लोक इति चतुष्काव्याकरणम् ।
तुल्यार्थो ह्येष चतुष्कः ।
[४७१।०६-४७१।०७]
तथाहि मुक्तिकः परिव्राजक एव चतुष्कं पृष्ट्वा पुनः पृष्टवान् किं नु सर्वो लोकोऽनेन मार्गेण निर्यात्याहोस्विदेकदेशो लोकस्ये”ति ।
[४७१।०७-४७१।०९]
स्थविर आनन्द आह “यमेव त्वं मुक्तिक तत्प्रथमतो भगवन्तं प्रश्नं पृष्टवांस्तमे वैतर्हि पृच्छस्यनेन पर्यायेणे”ति सर्वम् ।
[४७१।०९-४७१।१०]
भवति तथागतः परं मरनादित्यपि चतुष्कः प्रष्टुराशयापेक्षया न व्याकृतः ।
[४७१।१०]
स हि मुक्त्वामानं तथागतं कृत्वा पृष्टवान् ।
[४७१।११-४७१।१२]
पौद्गलिकस्तु पर्यनुयोज्यः किं कारणं भगवान् जीवन्तं पुद्गलमस्तीति व्याकरोति परं मरणान्न व्याकरोतीति ।
[४७१।१२]
शाश्वत दोषप्रसङ्गः ।
[४७१।१३-४७१।१४]
इदं तर्हि कस्माद्वच्याकरोति “भविष्यसि त्वं मैत्रेयानागतेऽध्वनि तथागतोऽर्हन् संयक्संबुद्ध” इति ।
[४७१।१४-४७१।१५]
कस्माच्च श्रावकमभ्यतीतं कालगतमुपपत्तौ व्याकरोत्यमुकोऽमुत्रोपपन्न इति ।
[४७१।१५]
एवमपि हि शाश्वतत्वप्रसङ्गः ।
[४७१।१५-४७१।१७]
यदि च भगवान् पूर्वं पुद्गलं दृष्ट्वा परिनिर्वृतं पुनः न पश्यत्यज्ञानान्न व्यकरोतीति सर्वज्ञत्वं शास्तुरुत्पादितं भवति न वा सोऽस्तीत्यभ्युपगन्तव्यम् ।
[४७१।१७-४७१।१८]
अथ पश्यत्यनुच्यमानोऽप्यसावस्ति शाश्वतश्चेति सिद्धं भवति ।
[४७१।१८]
अर्थतदपि न वक्तव्यं पश्यति वा नवेति ।
[४७१।१८-४७१।१९]
एवं तर्हि इदमपि शनैः शनैरवक्तव्यं क्रियतां सर्वज्ञो वा न वा भगवान्न वेति ।
[४७१।१९-४७१।२०]
अस्त्येव पुद्गलो यस्मात्सत्यतः स्थितितो नास्ति मे आत्मेति दृष्टिस्थानमुक्तम् ।
[४७१।२०-४७१।२१]
अस्तीत्यपि दृष्टिस्थानमुक्तम् ।
[४७१।२१]
तस्मादज्ञापकमेतत् ।
[४७१।२१-४७१।२२]
उभयमपि त्वेतदन्तग्राहदृष्टि शाश्वतोच्छेददृष्टिसंगृहीतमित्याभिधर्मिकाः ।
[४७१।२२]
तथैव च युक्तम् ।
[४७१।२२-४७१।२३]
“अस्त्यात्मेत्यानन्द शाश्वताय परैति नास्त्यात्मेत्यानन्दोच्छेदाय परैती”ति वात्स्यसूत्रे वचनात् ।
[४७१।२४]
यदि तर्हि पुद्गलो नास्ति क एष संसरति ।
[४७१।२४-४७१।२५]
नहि संसार एष संसरतीति युक्तम् ।
[४७१।२५-४७२।०१]
उक्तं च भगवता “अविद्यानिवरणानां सत्त्वनां संधावतां संसरतामि”ति ।
[४७२।०१]
अथ पुद्गलः कथं संसरति ।
[४७२।०१-४७२।०२]
स्कन्धान्तरत्यागोपादानात् ।
[४७२।०२]
उक्तोत्तर एष पक्षः ।
[४७२।०२-४७२।०३]
यथातु क्षणिकोऽग्निः संतत्या संसरतीत्युच्यते तथा सत्त्वाख्यः स्क्न्धसमुदायस्तृष्णोपादानः संसरतीत्युच्यते ।
[४७२।०३-४७२।०५]
यदि स्कन्धामात्रमिदं कस्मादाह भगवान् “ग्रहमेव स तेन कालेन तेन समयेन सुनेत्रो नाम शास्ताऽभूवमि”ति ।
[४७२।०५]
कस्मान्न वक्तव्यं स्यात् ।
अन्यत्वात्स्कन्धानाम् ।
[४७२।०५-४७२।०६]
अथ किं पुद्गलः ।
[४७२।०६]
स एवासौ ।
शाश्वतो हि स्यात् ।
[४७२।०६-४७२।०७]
तस्मादहमेव स इत्येकसंतानतां दर्शयति ।
[४७२।०७]
यथा स एवाग्निर्दहन्नागत इति ।
[४७२।०७-४७२।०८]
यदि चात्मा भवेत्त्थागता एव सुव्यक्तं पश्येयुः ।
[४७२।०८]
पश्यतां चात्मग्राहो दृढतरः स्यादात्मस्नेहश्च ।
[४७२।०८-४७२।०९]
“आत्मनि च सत्यात्मीयं भवती”ति सूत्रे वचनादात्मग्राहोऽप्येषां स्कन्धेष्वधिकं प्रवर्तेत ।
[४७२।०९-४७२।१०]
सैषा स्यात्सत्कायदृष्टि ।
[४७२।१०]
आत्मीयदृष्टौ च सत्यामात्मीयस्नेहः ।
[४७२।१०-४७२।११]
एवमेषां दृढतरात्मात्मीयस्नेहपरिसादितवन्धनानां मोक्षो दूरतरीभवेत् ।
[४७२।११-४७२।१२]
अथ मतं नैवात्मनि प्रवर्तते स्नेह इति ।
[४७२।१२-४७२।१३]
तत्क इदानीमेष योगो यदनात्मन्यात्मधिमोक्षात्स्नेह उत्पद्यते आत्मन्येव तु नोत्पद्यते ।
[४७२।१३-४७२।१४]
तस्मात्दृष्टच्यर्वुदमेतस्मिन् शासने उत्पन्नं य एष एकेषां पुद्गलग्राह एकेषां सर्वनास्तिताग्राहः ।
[४७२।१४-४७२।१५]
येऽपि च द्रव्यान्तरमेवात्मानं मन्यन्ते तीर्थकारास्तेपामेव मोक्षाभावदोषो निष्कम्पः ।
[४७२।१६-४७२।१७]
यदि तर्हि सर्वथापि नास्त्यात्मा कथं क्षणिकेषु चित्तेषु चिरानुभूतस्यार्थस्य स्मरणं भवति प्रत्यभिज्ञानं वा ।
[४७२।१७-४७२।१८]
स्मृतिविषयसंज्ञान्वयाच्चित्तविशेषात् ।
[४७२।१८]
कीदृशाच्चित्तविशेषात्यतोऽनन्तरं स्मृतिर्भवति ।
[४७२।१८-४७२।१९]
तदाभोगसदृशसम्वन्धिसंज्ञादिमतोऽनुपहत प्रभावादाश्रयविशेषशोकव्याक्षेपादिभिः ।
[४७२।२०-४७२।२१]
तादृशोऽपि ह्यतदन्वयश्चित्तविशेषो न समर्थः तां स्मृतिं भवयितुं तदन्वयोऽपि चान्यादृशो न समर्थस्तां स्मृतिं भवयितुम् ।
[४७२।२१-४७२।२२]
लभयथा तु समर्थ इत्येवं स्मृतिर्भवत्यन्यस्यां सामर्थ्यादर्शनात् ।
[४७२।२२]
कथमिदानीमन्येन चेतसा दृष्टमन्यत्स्मरति ।
[४७२।२२-४७२।२३]
एवं हि देवदत्तचेतसा दृष्टं यज्ञदत्तचेतः स्मरेत् ।
[४७२।२३]
नासम्बन्धात् ।
[४७२।२३-४७२।२४]
न हि तयोः संबन्धोऽस्ति अकार्य कारणभावाद्यथैकसंतानिकयोः ।
[४७२।२४-४७२।२५]
न च ब्रूमोऽन्येन चेतसा दृष्टमन्यत्स्मरतीति ।
[४७२।२५]
अपि तु दर्शनचित्तात्स्मृतिचित्तमन्यदुत्पद्यते ।
[४७२।२५-४७२।२६]
संततिपरिणत्या यथोक्तमिति क एवं सति दोषः ।
[४७२।२६]
स्मरणादेव च प्रत्यभिज्ञानं भवति ।
[४७२।२७]
असत्यात्मनिक एष स्मरति ।
स्मरतीति कोऽर्थः ।
स्मृत्या विषयं गृह्लाति ।
[४७२।२८]
किं तद्ग्रहणमन्यत्स्मरणात् ।
स्मृतिं तर्हि कः करोति ।
[४७२।२८-४७३।०१]
उक्तः स यस्तां करोति स्मृतिहेतुचित्तविशेषः ।
[४७३।०१]
यत्तर्हि चैत्रः स्मरतीत्युच्यते ।
[४७३।०१-४७३।०२]
ततो चैत्राख्यात्संतानात्तां भवन्तीं दृष्ट्वोच्यते चैत्रः स्मरतीति ।
[४७३।०२-४७३।०३]
असत्यात्मनि कस्येवं स्मृतिः ।
[४७३।०३]
किंर्थैषा षष्ठी ।
स्वाम्यर्था ।
यथा कस्य कः स्वामी ।
यथा गोश्चैत्रः ।
[४७३।०४]
कथमसौ तस्याः स्वामी ।
तदाधीनो हि तस्या वाहदोहादिषु विनियोगः ।
[४७३।०४-४७३।०५]
क्व च पुनः स्मृतिर्विनियोक्तव्या व एवं तस्याः स्वामी मृग्यते ।
[४७३।०५]
स्मर्तव्येऽर्थे ।
[४७३।०५-४७३।०६]
किमर्थ विनियोक्तव्या ।
[४७३।०६]
स्मरणार्थम् ।
अहो सूक्तानि सुखैधितानाम् ।
[४७३।०६-४७३।०७]
सैव हि नाम तदर्थं विनियोक्तव्येति ।
[४७३।०७]
कथं च विनियोक्तव्या ।
उत्पादनत अहोस्वित्संप्रेषणतः ।
[४७३।०८]
स्मृतिगत्ययोगादुत्पादनतः ।
हेतुरेव तर्हि स्वामी प्राप्नोति फलमेव च स्वम् ।
[४७३।०९]
यस्माद्धेतोराधिपत्यं फले फलेन च तद्वान् हेतुरिति ।
[४७३।०९-४७३।१०]
यो ह्येव हेतुः स्मृतेस्तस्यैवासौ ।
[४७३।१०-४७३।१२]
यश्चापि स चैत्राभिधानः संस्कारसमूहसंतान एकतो गृहीत्वा गवाख्यस्वामीत्युच्यते स चापि तस्य देशान्तरविकारोत्पत्तौ कारणभावं चेतसि कृत्वा न तु खलु कश्चिदेकश्चैत्रो नामास्ति न चापि गौः ।
[४७३।१२-४७३।१३]
तस्मात्तत्रापि न हेतुभावं व्यतीत्यास्ति स्वामिह्बावः ।
[४७३।१३]
एवं को विजानाति कस्य विज्ञानमित्येवमादिषु वक्तव्यम् ।
[४७३।१४]
तस्य हेतुरिन्द्रियार्थमनस्कारा यथायोगमित्येष विशेषः ।
[४७३।१५]
योऽप्याह भावस्य भवित्रपेक्षत्वात्सर्वो हि भावो भवितारमपेक्षते ।
[४७३।१५-४७३।१६]
यथा देवदत्तो गच्छतीत्यत्र गतिर्भावो गन्तारं देवदत्तमपेक्षते ।
[४७३।१६]
तथा विज्ञानं भावः ।
[४७३।१७]
तस्माद्यो विजानाति तेन भवितव्यमिति ।
स वक्तव्यः ।
[४७३।१८]
कोऽयं देवदत्त इति ।
यद्यात्मा स एव साध्यः ।
अथ व्यवहारपुरुषः ।
[४७३।१८-४७३।१९]
सोऽपि न कश्चिदेकः संस्कारा हि त एवंनामानः ।
[४७३।१९-४७३।२०]
तत्र यथा देवदत्तो गच्छति यथा विजानाति ।
[४७३।२०]
कथं च देवदत्तो गच्छति ।
[४७३।२०-४७३।२२]
क्षणिका हिसंस्कारा अभिन्नसंताना देवदत्त इति बालैरेकसत्त्वपिण्डग्रहेणाधिमुक्ताः स्वस्य संतानस्य देशान्तरे कारणं भवन्त उच्यन्ते गच्छति देवदत्त इति ।
[४७३।२२]
सा च देशान्तरोपत्तिर्गतिरित ।
[४७३।२२-४७३।२३]
ज्वालाशब्दसंतानयोर्गच्छतिगमनाभिधानवत् ।
[४७३।२३-४७३।२४]
त एव च पुनर्विज्ञानस्य कारणं भवन्त उच्यन्ते जानाति देवदत्त इति ।
[४७३।२४]
आर्यैरपि तेषां संज्ञया तथोच्यन्ते व्यवहारार्थम् ।
[४७३।२५]
यत्तर्हि “विज्ञानं विजानाती”ति सूत्र उक्तं किं तत्र विज्ञानं करोति ।
[४७३।२५-४७३।२६]
न किञ्चित्करोति ।
[४७३।२६]
यथा तु कार्यं कारणमनुविधीयत इत्युच्यते ।
[४७३।२६-४७३।२७]
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् ।
[४७३।२७]
एवं विज्ञानमपि विजानातीत्युच्यते ।
[४७३।२७-४७४।०१]
सादृश्येनात्मलाभादकुर्वदपि किञ्चित् ।
[४७४।०१]
किं पुनरस्य सादृश्यम् ।
तदाकारता ।
[४७४।०१-४७४।०२]
अत एव तदिन्द्रियादप्युत्पन्नं विषयं विजानातीत्युच्यते नेन्द्रियम् ।
[४७४।०२-४७४।०३]
अथवा तथाऽत्रापि विज्ञानसंतानस्य विज्ञाने कारणभावाद्विज्ञानं विजानातीति वचनान्निर्दोषं कारणे दर्तृशब्दनिर्देशात् ।
[४७४।०४]
घण्टा रौतीति यद्वत् ।
[४७४।०४-४७४।०५]
अपि खलु यथा प्रदीपो गच्छति तथा विज्ञानं विजानातीति ।
[४७४।०५]
कथं च प्रदीपो गच्छति ।
[४७४।०५-४७४।०६]
प्रदीप इत्यर्चिषां संतान उपचर्यते ।
[४७४।०६]
स देशान्तरेषूत्पद्यमानस्तं देशं गच्छतीत्युच्यते ।
[४७४।०६-४७४।०७]
एवं विज्ञानमपि चित्तानां संतान उपचर्यते ।
[४७४।०७]
तद्विषयान्तरेषूत्पद्यमानं तं विषयं विजानातीत्युच्यते ।
[४७४।०८-४७४।०९]
यथा चाभिजायते तिष्ठति रूपमित्यत्र भवितुर्भावादनर्थन्तरत्वमेवं विज्ञानस्यापि स्यात् ।
[४७४।०९-४७४।१०]
यदि विज्ञानाद्विज्ञानमुत्पद्यते नात्मानः कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रदिवत् ।
[४७४।१०]
स्थित्यन्यथात्वस्य संस्कृत्लक्षणत्वात् ।
[४७४।११]
एष हि संस्कृतस्य स्वभावो यदवश्यं प्रबन्धस्यान्यथात्वं भवति ।
[४७४।११-४७४।१३]
अन्यथा हि निकामध्यानसमाहितानां सदृशकायचित्तोत्पत्तौ प्रथमक्षणनिंर्विशेषत्वात्पश्चादपि न स्यात्स्वयं व्युत्थानम् ।
[४७४।१३]
क्रमोऽपि हि चित्तानां नियत एव ।
[४७४।१३-४७४।१४]
यतो नूत्पत्तव्यं तत एव तस्योत्पादात् ।
[४७४।१४]
तुल्याकारमपि हि किञ्चिदुत्पादने समर्थं भवति ।
[४७४।१४-४७४।१५]
गोत्रविशेषात् ।
[४७४।१५-४७४।१७]
यद्यथा स्त्रीचित्तानन्तरं यदि तत्कायविदूषणाचित्तमुत्पन्नं भवति तत्पतिपुत्रादिचित्तं वा पुनश्च पश्चात्संततिपरिणत्या स्त्रीचित्तमुत्पद्यते तत्समर्थ भवति तत्कायविदूषणाचित्तोत्पादने तत्पतिपुत्रादिचित्तोत्पादने वा ।
[४७४।१७]
तद्गोत्रत्वात् ।
[४७४।१८]
अन्यथा न समर्थम् ।
[४७४।१८-४७४।१९]
अथ पुनः पर्यायेण स्त्रीचित्ताद्वहुविधं चित्तमुत्पन्नं वहुतर मासन्नतरं वा तदेवोत्पद्यते ।
[४७४।१९]
तद्भावनाया वलीयस्त्वात् ।
[४७४।२०]
अन्यत्र तत्कालिकात्कायबाह्यप्रत्ययविशेषात् ।
[४७४।२०-४७४।२१]
सैव बलीयसी भावना कस्मान्नित्यं न फलति ।
[४७४।२१-४७४।२२]
स्थित्यन्यथात्वस्य संस्कृतलक्षणत्वात्तस्य चान्यथात्वस्यान्यभावनाफलोत्पत्तावानुगुण्यात् ।
[४७४।२२]
एतद्धि सर्वचित्तप्रकारेषु दिङ्मात्रम् ।
[४७४।२२-४७४।२३]
निरन्तरकारणज्ञाने तु बुद्धानां प्रभुत्वम् ॥
[४७४।२३]
एवं ह्याहुः ।
[४७४।२४-४७४।२५]
सर्वाकारकारणमेकस्य मयूरचन्द्रकस्यापि ।
नासर्वज्ञैर्ज्ञेयं सर्वज्ञबलं हि तज्ज्ञानमि”ति ॥
[४७४।२६]
प्रागेवारुपिणां चित्तभेदानाम् ।
[४७५।०१-४७५।०३]
य एव त्वयमेकीयस्तीर्थिक आत्मप्रभवां चित्तोत्पत्तिं मन्यते तस्यैवेदं स्फुटं चोद्यमापद्यते कस्मान्न नित्यं तादृशमेवोत्पद्यते न च क्रमनियमेनाङ्कुरकाण्डपत्रादिवदिति ।
[४७५।०३]
मनःसंयोगविशेषापेक्षत्वादिति चेत् ।
न ।
अन्यसंयोगासिद्धेः ।
[४७५।०४-४७५।०५]
संयोगिनोस्तु परिच्छिन्नत्वादप्राप्तिपूर्विका प्राप्तिः सम्योग इति लक्षणव्याख्यानाच्चात्मानः परिच्छेदप्रसङ्गः ।
[४७५।०५-४७५।०६]
ततो मनःसम्चारादात्मनः संचारप्रसङ्गो विरागस्य वा ।
[४७५।०६]
प्रदेशसंयोग इति चेत् ।
न ।
तस्यैव तत्प्रदेशत्वायोगात् ।
[४७५।०६-४७५।०८]
अस्तु वा संयोगस्तथापि नित्यमविशिष्टे मनसि कथं संयोगविशेषः ।
[४७५।०८]
बुद्धिविशेषापेक्ष इति चेत् ।
[४७५।०८-४७५।०९]
स एव परिचोद्यते कथं बुद्धिविशेष इति ।
[४७५।०९]
संस्कारविशेषापेक्षादात्ममनः संयोगादिति चेत् ।
[४७५।०९-४७५।१०]
चित्तादेवास्तु संस्कारविशेषापेक्षत्वात् ।
[४७५।१०-४७५।११]
नहि किञ्चिदात्मनः उपलभ्यते सामर्थ्मौषध कार्यसिद्धाविव कुहकवैद्यफुःस्वाहानाम् ।
[४७५।११]
सत्यात्मनि तयोः संयोग इति चेत् ।
[४७५।१२]
वाङ्मात्रम् ।
आश्रयः स इति चेत् ।
यथा कः कस्याश्रयः ।
[४७५।१२-४७५।१३]
न हि ते चित्रवदरादिवदाधार्ये नापि स कुडच्यकुण्डादिवदाधारो युक्तः ।
[४७५।१३-४७५।१४]
प्रतिघातियुतदोषात्नैव स एवमाश्रयः ।
[४७५।१४]
कथं तर्हि ।
यथा गन्धादीनां पृथिवीति चेत् ।
[४७५।१४-४७५।१५]
अतिपरितोषिताः स्मः ।
[४७५।१५]
इदमेव हि नः प्रत्यायकं नास्त्यात्मेति ।
[४७५।१५-४७५।१६]
यथा न गन्धादिभ्योऽन्या पृथिवीति ।
[४७५।१६]
को हि स गन्धादिभ्योऽन्यां पृथिवीं निर्धारयति ।
[४७५।१६-४७५।१७]
व्यपदेशस्तु पृथिव्या गन्धादय इति विशेषणार्थम् ।
[४७५।१७-४७५।१८]
ते ह्येव तदाख्या गन्धादयो यथा प्रतीयेरन्नान्य इति ।
[४७५।१८]
काष्ठप्रतिमायां शरीरव्यपदेशवत् ।
[४७५।१८-४७५।१९]
सत्यपि च संस्कारविशेषापेक्षत्वे कस्मान्न युगपत्सर्वज्ञानोत्पत्तिः ।
[४७५।१९]
यो हि बलिष्ठस्तेनान्येषां प्रतिवन्धः ।
[४७५।२०]
स एव वलिष्ठः कस्मान्नित्यं न फलति ।
योऽस्य न्यायः सोऽस्तु भावनायाः ।
[४७५।२१]
आत्मा तु निरर्थकः कल्प्यते ।
[४७५।२२]
अवश्यमात्माभ्युपगन्तव्यः ।
[४७५।२२-४७५।२३]
स्मृत्यादीनां गुणपदार्थत्वात्तस्य चार्थादवश्यं द्रव्याश्रितत्वात्तेषां चान्याश्रयायोगादिति चेत् ।
[४७६।०१]
न ।
न ह्येषां गुणपदार्थत्वं सिद्धम् ।
सर्वमेव नो विद्यमानं द्रव्य ।
[४७६।०१-४७६।०२]
“षट्द्रव्याणि श्रामण्यफलानी”ति वचनात् ।
[४७६।०२]
नाप्येषां द्रव्याश्रितत्वं सिद्धम् ।
[४७६।०२-४७६।०३]
परीक्षितो ह्याश्रयार्थः ।
[४७६।०३]
तस्माद्यत्किञ्चिदेव तत् ।
[४७६।०४]
आत्मन्यसति किमर्थः कर्मारम्भः ।
[४७६।०४-४७६।०५]
अहं सुखी स्यामहं दुःखी न स्यामित्येवमर्थः ।
[४७६।०५]
कोऽसावहं नाम यद्विषयिओऽयमहङ्कारः ।
स्कन्धविषयः ।
कथं ज्ञायते ।
[४७६।०६]
तेषु स्नेहात् ।
गौरादिबुद्धिभिः सामानाधिकरण्यात्तु ।
[४७६।०६-४७६।०८]
गौरोऽहमहं श्यामः स्थूलोऽहमहं कृशः जीर्णोऽहमहं युवेति गौरादिबुद्धिभिः सामानाधिकरणोऽयमहङ्कारो दृश्यते ।
[४७६।०८]
न चात्मन एते प्रकारा दृश्यन्ते ।
तस्मादपि स्कन्धेष्वयमिति गम्यते ।
[४७६।०९-४७६।१०]
आत्मन उपकारकेऽपि शरीर आत्मोपचारो यथा य एवायं स एवाहं स एवायं मे बृत्य इति भवत्युपकारकेऽपि आत्मोपचारो नत्वहङ्कारः ।
[४७६।१०-४७६।११]
सति शरीरालम्बनत्वे परशरीरालम्वनोऽपि कस्मान्न भवति ।
[४७६।११]
असंवन्धात् ।
[४७६।११-४७६।१२]
येनैव हि सहास्य संवन्धः कायेन चित्तेन वा यत्रैवायमहङ्कार उत्पद्यते नान्वत्र ।
[४७६।१२-४७६।१३]
अनादौ संसार्र एवमभ्यासात् ।
[४७६।१३]
कश्च संबन्धः ।
कार्यकारणभावः ।
[४७६।१३-४७६।१४]
यद्यात्मा नास्ति कस्यायमहङ्कारः ।
[४७६।१४]
इदं पुनस्तदेआयातं “किमर्थैषा षष्ठीति ।
[४७६।१४-४७६।१५]
यावद्य एवास्य हेतुस्तस्यैवायमि”ति ।
[४७६।१५]
कश्चान्यो हेतुः ।
[४७६।१५-४७६।१६]
पूर्वाहङ्कारपरिभावितं स्वसंततिविषयं सावद्यं चित्तम् ।
[४७६।१६]
असत्यात्मनि क एष सुखितो दुःखितो वा ।
[४७६।१६-४७६।१७]
यस्मिन्नाश्रये सुखमुत्पन्नं दुःखं वा ।
[४७६।१७]
यथा पुष्पितो वृक्षः फलितं वनमिति ।
[४७६।१७-४७६।१८]
कः पुनरनयोराश्रयः ।
[४७६।१८]
षडायतनम् ।
यथा कृत्वा तथोक्तम् ।
[४७६।१९]
असत्यात्मनि क एषां कर्मणां कर्ता कश्च फलानां भोक्ता भवति ।
[४७६।१९-४७६।२०]
कर्तेति क एष वाह्यर्थः ।
[४७६।२०]
करोतीति कर्ता ।
भुङ्क्त इति भोक्ता ।
पर्याय उच्यते नार्थः ।
[४७६।२१]
“स्वतन्त्रः कर्ते”ति कर्तृ लक्षणमाचक्षते लाक्षणिकाः ।
[४७६।२१-४७६।२२]
अस्ति पुनः क्वचिदेव कार्ये कस्यचित्स्वातन्त्र्यम् ।
[४७६।२२]
लोके दृष्टं देवदत्तस्य स्नानासनगमनादौ ।
[४७६।२२-४७६।२३]
कः पुनर्भवान् देवदत्तमुदाहरति ।
[४७६।२३]
यद्यात्मानं स एव साध्यः ।
अथ पञ्चस्कन्धकं स एव्कर्ता ।
[४७६।२४]
त्रिविधं चेदं कर्म कायवाङ्मनस्कर्म ।
[४७६।२४-४७६।२५]
तत्र कायकर्मणि तावत्कायस्य चित्तपरतन्त्रा वृत्तिः ।
[४७६।२५-४७६।२६]
चित्तस्यापि काये स्वकारणपरतन्त्रा वृत्तिस्तस्याप्येवमिति नास्ति कस्यचित्स्वातन्त्र्यम् ।
[४७६।२६]
प्रत्ययपरतन्त्रा हि सर्वे भावाः प्रवर्तन्ते ।
[४७६।२६-४७६।२७]
आत्मनोऽपि च निरपेक्षस्याकारणत्वाभ्युपगमात्र स्वातन्त्र्यं सिध्यति ।
[४७६।२८]
तस्मान्नैवंलक्षणमुपलभ्यते कश्चित्कर्ता ।
[४७६।२८-४७७।०१]
यत्तु यस्य प्रधानं कारणं तत्त्स्य कर्तेत्युच्यते ।
[४७७।०१]
न च आत्मनः क्वचिदपि कारणत्वं दृश्यते ।
[४७७।०१-४७७।०२]
तस्मात्स एवमपि न कर्ता युज्यते ।
[४७७।०२-४७७।०३]
स्मृतिजो हि च्छन्दः च्छन्दजो वितर्को वितर्कात्प्रयत्नः प्रयत्नाद्वायुस्ततः कर्मेति किमत्रात्मा कुरुते ।
[४७७।०३-४७७।०४]
फलस्यापिच क उपभोगो यमयमात्मा कुर्वन्नुपभोक्ता कल्प्यते ।
[४७७।०४]
उपलभिरिति चेत् ।
नात्मनः उपलब्धौ सामर्थ्यं विज्ञाने प्रतिपेधात् ।
[४७७।०५]
असत्यात्मनि कस्मादसत्त्वाधिष्ठानः पापपुण्योपचयो न भवति ।
[४७७।०५-४७७।०६]
वेदनाद्यनाश्रयत्वात्तदाश्रयश्च षडायतनं नात्मा यथा तथोक्तम् ।
[४७७।०७]
कथमसत्यात्मनि वेनष्टात्कर्मण आयत्यां फलोत्पत्तिः ।
[४७७।०७-४७७।०८]
आत्मन्यपि सति कथं विनष्टात्कर्मण आयत्यां फलोत्पत्तिः ।
[४७७।०८]
तदाश्रिताद्धर्माधर्मात् ।
[४७७।०८-४७७।०९]
यथा कःकिमाश्रित इत्युक्तोत्तरैषा वाचो युक्तिः ।
[४७७।०९]
तस्मादनाश्रितादेव धर्माधर्मात्भवतु ।
[४७७।०९-४७७।१०]
नैव तु वयं विनष्टात्कर्मण आयत्यां फलोत्पत्तिं ब्रूमः ।
[४७७।१०]
किं तर्हि ।
[४७७।१०-४७७।११]
तत्संततिपरिणामविशेषाद्वीजफलवत् ।
[४७७।११]
यथा वीजात्फलमुत्पद्यत इत्युच्यते ।
[४७७।११-४७७।१२]
न च तद्विनष्टाद्वीजादुत्पद्यते ।
[४७७।१२]
नाप्यनन्तरमेव ।
किं तर्हि ।
[४७७।१२-४७७।१३]
तत्संततिपरिणामविशेषादङ्कुरकाण्डपत्रादिक्रमनिष्पन्नात्पुष्पावसानात् ।
[४७७।१३-४७७।१४]
तत्पुनः पुष्पान्निष्पन्नं कस्मात्तस्य वीजस्य फलमित्युच्यते ।
[४७७।१४]
तदाहितं हि तत्परयापुष्पे सामर्थ्यम् ।
[४७७।१४-४७७।१५]
यदि हि तत्पूर्विकान्नभविष्यत्तत्तादृशस्य फलस्योतोपत्तौ न समर्थमभविष्यत् ।
[४७७।१५-४७७।१६]
एवं कर्मणः फलमुत्पद्यत इत्युच्यते ।
[४७७।१६]
न च तद्विनिष्टात्कर्मण उत्पद्यते नाप्यनन्तरमेव ।
[४७७।१७]
किं तर्हि ।
तत्संततिपरिणामविशेषात् ।
[४७७।१७-४७७।१८]
का पुनः संततिः कः परिणामः को विशेषः ।
[४७७।१८-४७७।१९]
यः कर्मपूर्व उत्तरोत्तरचित्तप्रवसः सा संततिस्तस्या अन्यथोत्पत्तिः परिणामः ।
[४७७।१९-४७७।२०]
स पुनर्थोऽन्तरं फलोत्पादनसमर्थः सोऽन्तपरिणामविशिष्टत्वात्परिणमविशेषः ।
[४७७।२०]
तद्याथा सोपादानं मरणचित्तं पुनर्भवस्य ।
[४७७।२०-४७७।२१]
त्रिविधकर्मपूर्वकत्वेऽपि यत्कर्म गुरु वा भवत्यासन्नमभ्यस्तं वा यत्कृतं सामर्थ्यं द्योत्यते नत्वन्यस्य ।
[४७७।२२]
आह च
[४७७।२३-४७७।२४]
“यत्गुरु यच्चासन्नं यच्चाभ्यस्तं कृतं च यत् ।
पूर्वं पूर्वं पूर्वं वीपच्यते कर्मसंसारे” ॥
[४७७।२५]
तत्र विपाकहेत्वाहितं तु विपाकफलदानसामर्थ्यं विपाकं दत्त्वा विनिवर्तते ।
[४७७।२५-४७७।२६]
सभागहेत्वाहितं तु निष्यन्दफलदानसामर्थ्यं क्लिष्टानां प्रतिपक्षोदयाद्विनिवर्तते ।
[४७७।२७]
अक्लिष्टानां चित्तसंतानात्यन्तविनिवृत्तेर्यदा परिनिर्वाति ।
[४७८।०१]
अथ कस्माद्विपाकाद्विपाकान्तरं नोत्पद्यते वीजफलादिव फलान्तरम् ।
[४७८।०१-४७८।०२]
न तावत्दृष्टान्तेन सर्वं समानं भवति ।
[४७८।०२]
तत्रापि तु न फलादेव पुनः फलान्तरमुत्पद्यते ।
[४७८।०२-४७८।०३]
किं तर्हि ।
[४७८।०३]
विक्लित्तिविशेषजाद्विकारविशेषात् ।
[४७८।०३-४७८।०४]
यो हि तत्र भूतप्रकाराङ्कुरं निर्वर्तयति स तस्य वीजं नान्यः ।
[४७८।०४-४७८।०५]
भाविन्या तु संज्ञाया सादृश्याद्वा पूर्वकोऽपि संतानो बीजमित्याख्यायते ।
[४७८।०५-४७८।०७]
एवमिहापि तस्माद्विपाकाद्यदि सदसद्धर्मश्रवणा दिप्रत्ययविशेषजः कुशलसास्रवोऽकुशलो वा चित्तविकार उत्पद्यते तस्मात्पुनर्विकारान्तरमुत्पद्यते नान्यथेति समानमेतत् ।
[४७८।०७]
अथवा पुनरेतदेवं विज्ञातव्यम् ।
[४७८।०७-४७८।०९]
यथा लाक्षारसरञ्जितात्मातुलुङ्गपुष्पात्संततिपरिणामविशेषजः फले रक्तः केशर उपजायते न च तस्मात्पुनरन्यः एवं कर्मजाद्विपाकात्न पुनर्विपाकान्तरमिति ।
[४७८।०९-४७८।१०]
यथास्थूलमिदमस्मद्बुद्धिगम्यं दर्शितम् ।
[४७८।१०-४७८।११]
नानाविधशक्तिभिन्नैस्तु कर्मभिरधिवासिताः संततय एतामवस्थां गता ईदृशं फलमभिनिवर्तयन्तीति बुद्धानामेव विषयः ।
[४७८।११]
आह खल्वपि
[४७८।१२-४७८।१३]
“कर्म तद्भावनां तस्या वृत्तिलाभं ततः फलम् ।
नियमेन प्रजानाति बुद्धादन्यिओ न सर्वथा ॥
[४७८।१४-४७८।१७]
इत्येतां सुविहितहेतुमार्गशुद्धां
बुद्धानां प्रवचनधर्मतां निशम्य ।
अन्धानां विविधकुदृष्टिचेष्टितानां
तीर्थ्यानां मतमपविध्य यान्त्यनन्धाः ॥
[४७८।१८-४७८।२१]
इमं हि निर्वाणपुरैकवर्तिनीं
तथागतादित्यवचोंऽशुभास्वतीम् ।
निरात्मतामार्यसहस्रवाहितां
न मन्दचक्षुर्विवृतामपीक्षते ॥
[४७८।२२-४७८।२३]
इति दिङ्मात्रमेवेदमुपदिष्टं सुमेधसाम् ।
ब्रणदेशोविषस्येव स्वसामर्थ्यविसर्पण इति ।
[४७९।०१-४७९।०२]
पुद्गलकोशमभिधर्मकोशभाष्यं समाप्तमिति ।
कृतिरियमाचार्यवसुबन्धुपादानामिति ॥
[४७९।०३-४७९।०४]
ये धर्महेतुप्रभवा हेतुं तेषां तथागतो ह्यवदत् ।
तेषां च यो निरोध एवंवादी महाश्रमणः ॥
[४७९।०५-४७९।०६]
देवधर्मोऽयं प्रवरमहायान सकलतथागतशासनधूर्द्धरस्य उत्तरापथिकपण्डितस्थविरश्रीलामावाकस्य यदत्र पुण्यमित्यादि ।
[४७९।०७]
॥ शुभमस्तु ॥