ॐ श्रीहरिः
श्री गुरुभ्यो नमः
श्री वेदव्यासाय नमः
श्रीमदानन्दतीर्थगुरुभ्यो नमः
श्रीराघवेन्द्रतीर्थ गुरुभ्यो नमः
Krishnamruta Maharnava-Sri Madhyacharya
श्रीमत् हनुमभीममध्वान्तर्गत रामकृष्णवेदव्यासात्मक श्री लक्ष्मीहयग्रीवाय नमः
अर्चितः संस्मृतो ध्यातः कीर्तितः कथितः श्रुतः |
यो ददात्यमृतत्वं हि स मां रक्षतु केशवः || १ ||
तापत्रयेन संतप्तं यदेतदखिलं जगत् |
वक्ष्यामि शान्तये तस्य कृष्णामृत महार्णवम् || २ ||
ते नराः पशवो लोके किं तेषां जीवने फलम् |
यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः || ३ ||
संसारेsस्मिन् महाघोरे जन्मरोगभयाकुले |
अयमेको महाभागः पूज्यते यदधोक्षजः || ४ ||
स नाम सुकृती लोके कुलं तेन ह्यलङ्कृतम् |
आधारः सर्वभूतानां येन विष्णुः प्रसादितः || ५ ||
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् |
तद्विशिष्टफलं नृणां सदैवाराधनं हरेः || ६ ||
कलौ कलिमलध्वंसिसर्वपापहरं हरिम् |
येsर्चयन्ति नरा नित्यं तेsपि वन्द्या यथा हरिः || ७ ||
नास्ति श्रेयस्करं नृणां विष्णोराराधनान्मुने |
युगेsस्मिन्स्तामसे लोके सततं पूज्यते नृभिः || ८ ||
अर्चिते देव देवेशे शङ्ख चक्र गदाधरे |
अर्चिताः सर्वदेवाः स्युर्यतः सर्वगतो हरिः || ९ ||
स्वर्चिते सर्वलोकेशे सुरासुरनमस्कृते |
केशवे कंस केशिघ्ने न याति नरकं नरः || १० ||
(शङ्करः) || सकृदभ्यर्च्य गोविन्दं बिल्वपत्रेण मानवः |
मुक्तिभागी निरातन्की विष्णुलोके चिरं वसेत् || ११ ||
(शङ्करः) || सकृदभ्यर्चितो येन देवदेवो जनार्दनः |
यत्कृतं तत्कृतं तेन संप्राप्तं परमं पदम् || १२ ||
सकृदभ्यर्चितो येन हेलयाsपि नमस्कृतः |
स याति परमं स्थानं यत्सुरैरपि दुर्लभम् || १३ ||
(नारदः) || समस्तलोकनाथस्य देवदेवस्य शार्ङ्गिणः |
साक्षाद्भगवतो विष्णोः पूजनं जन्मनः फलम् || १४ ||
(पुलस्त्यः) || भक्त्यादूर्वाङ्कुरैः पुम्भिः पूजितः पुरुषोत्तमः |
हरिर्ददाति हि फलं सर्वयज्ञैश्च दुर्लभम् || १५ ||
विधिना देवदेवेशः शङ्खचक्रधरो हरिः |
फलं ददाति सुलभं सलिलेनापि पूजितः || १६ ||
(धर्मः) || नरके पच्यमानस्तु यमेन परिभाषितः |
किं त्वया नार्चितो देवः केशवः क्लेशनाशनः || १७ ||
(धर्मः) || नारसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः |
स्मरणान्मुक्तिदो नृणां स त्वया किं न पूजितः || १८ ||
द्रव्याणामप्यभावे तु सलिलेनापि पूजितः |
यो ददाति स्वकं स्थानं स त्वया किं न पूजितः || १९ ||
(ब्रह्मा) || गर्भस्थिता मृता वाsपि मुषितास्ते सुदूषिताः |
न प्राप्तायैर्हरेर्दीक्षा सर्वदुःखविमोचनी || २० ||
(मार्कण्डेयः) || सकृदभ्यर्चितो येन देवदेवो जनार्दनः |
यत्कृत्यं तत्कृतं तेन सम्प्राप्तं परमं पदम् || २१ ||
धर्मार्थकाममोक्षाणां नान्योपायस्तु विद्यते |
सत्यं ब्रवीमि देवेश ह्रुषीकेशार्चनादृते || २२ ||
(रुद्रः) || तस्य यज्ञवराहस्य विष्णोरमित तेजसः |
प्रणामं येsपि कुर्वन्ति तेषामपि नमो नमः || २३ ||
(मरीचिः) || अनाराधितगोविन्दैर्नरैः स्थानं नृपात्मज |
न हि सम्प्राप्यते श्रेष्ठं तस्मादाराधयाच्युतम् || २४ ||
(अत्रिः) || परः पराणां पुरुषस्तुष्टो यस्य जनार्दनः |
स चाप्नोत्यक्षयं स्थानं सत्यमेतत् मयोदितम् || २५ ||
(अङ्गिराः) || यस्यान्तः सर्वमेवेदमच्युतस्याव्ययात्मनः |
तमाराधय गोविन्दं स्थानमग्र्यं यदीच्छसि || २६ ||
(पुलस्त्यः) || परम् ब्रह्म परम् धाम योsसौ ब्रह्म सनातनम् |
तमाराध्य हरिं यान्ति मुक्तिमप्यति दुर्लभाम् || २७ ||
(पुलहः) || ऐन्द्रमिन्द्रः परम् स्थानं यमाराध्य जगत्पतिम् |
प्राप यज्ञपतिं विष्णुं तमाराधय सुव्रत || २८ ||
प्राप्नोत्याराधिते विष्णौ मनसा यद्यदिच्छति |
त्रैलोक्यान्तर्गतं स्थानं किमु लोकोत्तरोत्तरान् || २९ ||
येsर्चन्ति सदा विष्णुं शङ्खचक्रगदाधरम् |
सर्वपापविनिर्मुक्ताः परम् ब्रह्म विशन्ति ते || ३० ||
ततोsनिरुद्धं देवेशं प्रद्युम्नं च ततः परम् |
ततः संकर्षणं देवं वासुदेवं परात्परम् || ३१ ||
वासुदेवात्परं नास्ति इति वेदान्तनिश्चयः |
वासुदेवं प्रविष्टानां पुनरावर्तनं कुतः || ३२ ||
(अत्रिः) || यो यानिच्छेन्नरः कामान् नारी वा वरवर्णिनी |
तान्समाप्नोति विपुलान् समाराध्य जनार्दनम् || ३३ ||
(कौशिकः) || अनाराधित गोविन्दा ये नरा दुःखभागिनः |
आराध्य वासुदेवं स्युर्नित्यानन्दैकभागिनः || ३४ ||
(ब्रह्मा) || बाहुभ्यां सागरं तर्तुं क इच्छेत पुमान्भुवि |
वासुदेवमनाराध्य को मोक्षं गन्तुमिच्छति || ३५ ||
(शङ्करः – पराशरः) || कृते पापेsनुतापो वै यस्य पुंसः प्रजायते |
प्रायश्चित्तं तु तस्योक्तं हरिसंस्मरणं परम् || ३६ ||
नाम्नोस्ति यावती शक्तिः पापनिर्हरणे हरेः |
तावत्कर्तुं न शक्नोति पातकं पातकी जनः || ३७ ||
(ब्रह्मा) || नह्यपुण्यवतां लोके मूडानां कुटिलात्मनाम् |
भक्तिर्भवति गोविन्दे स्मरणं कीर्तनं तथा || ३८ ||
तदैव पुरुषो मुक्तो जन्मदुःख जरादिभिः |
जितेन्द्रियो विशुद्धात्मा यदैव स्मरते हरिम् || ३९ ||
प्राप्ते कलियुगे घोरे धर्मज्ञानविवर्जिते |
न कश्चित् स्मरते देवं कृष्णं कलिमलापहम् || ४० ||
न कलौ देवदेवस्य जन्म दुःखापहारिणः |
करोति मर्त्यो मूडात्मा स्मरणं कीर्तनं हरेः || ४१ ||
ये स्मरन्ति सदा विष्णुं विशुद्धेनान्तरात्मना |
ते प्रयान्ति भवं त्यक्त्वा विष्णुलोकमनामयम् || ४२ ||
गर्भ जन्म जरा रोग दुःखसंसारबन्धनैः |
न बाध्यते नरो नित्यं वासुदेव मनुस्मरन् || ४३ ||
यममार्गं महाघोरं नरकाणि यमं तथा |
स्वप्नेsपि नैव पश्येत यः स्मरेद्गरुडध्वजम् || ४४ ||
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः |
पादोदकं च निर्माल्यं मस्तके यस्य सोsच्युतः || ४५ ||
गोविन्दस्मरणं पुंसां पापराशि महाचलम् |
असंशयं दहत्याशु तूलराशिमिवानलः || ४६ ||
(अगस्त्यः) || स्मरणादेव कृष्णस्य पापसंघात पञ्जरम् |
शतधा भेदमायाति गिरिर्वज्रहतो यथा || ४७ ||
कृष्णे रताः कृष्णमनुस्मरन्तः तद्भावितास्तद्गतमानसाश्च |
ते भिन्नदेहाः प्रविशन्ति विष्णुं हविर्यथा मन्त्रहुतं हुताशे || ४८ ||
सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता |
यन्मुहूर्थं क्षणं वाsपि वासुदेवो न चिन्त्यते || ४९ ||
नारायणो नाम नरो नराणां
प्रसिद्ध चोरः कथितः पृथिव्याम् |
अनेकजन्मार्जितपापसंचयं
हरत्यशेषं स्मृत मात्र एव || ५० ||
यस्य संस्मरणादेव वासुदेवस्य चक्रिणः |
कोटिजन्मार्जितं पापं तत्क्षणादेव नश्यति || ५१ ||
किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः |
यो नित्यं ध्यायते देवं नारायणमनन्यधीः || ५२ ||
ये मानवा विगतरागपरावरज्ञा
नारायणं सुरगुरुं सततं स्मरन्ति |
ध्यानेन तेन हतकिल्बिष चेतनास्ते
मातुः पयोधररसं न पुनः पिबन्ति || ५३ ||
हे चित्त! चिन्तयस्वेह वासुदेवमहर्निशम् |
नूनं यश्चिन्तितः पुंसां हन्ति संसारबन्धनं || ५४ ||