Guru Panchashika (गुरुपञ्चाशिका) by Asvaghosa
Home » Law Library Updates » Law Library » Books » Buddhist & Jaina Texts » Guru Panchashika (गुरुपञ्चाशिका) by Asvaghosa
गुरुपञ्चाशिका
अश्वघोष: (800 CE)
Buddhist Literature (Buddha)
ॐ नमो बुद्धाय।
श्रीवज्रसत्त्वपदवीप्रतिलम्भहेतोर्नत्वा यथाविधि गुरोश्चरणारविन्दम्।
तत्पर्युपास्तिरमला बहुतन्त्रगीता
संक्षिप्य कथ्यत इयं शृणुतादरेण॥१॥
अभिषेकाग्रलब्धो हि वज्राचार्यस्तथागतैः।
दशदिग्लोकधातुस्थैस्त्रिकालमेत्य वन्द्यते॥२॥
त्रिकालं परया भक्त्या सपुष्पाञ्जलिमण्डलैः।
पर्युपास्यो गुरुः (Guru) शास्ता शिरसा पादवन्दनात्॥३॥
सद्धर्मादीन् पुरस्कृत्य गृही वा नवकोऽपि वा।
वन्द्यो व्रतधरैर्बुद्ध्या लोकावद्यावहानये॥४॥
सुखासनं समुत्थानमर्थक्रियादिगौरवम्।
सर्वमेव व्रती कुर्यात् त्यक्त्वा चार्चनवन्दनम्॥५॥
प्राक् शिष्याचार्यसंबन्धः कार्यः परीक्ष्य सूरिभिः।
समानसमयभ्रंशो दोषो हि गुरुशिष्ययोः॥६॥
निष्कृपं क्रोधनं क्रूरं स्तब्धं लघुमसंयतम्।
स्वोत्कर्षकं च नो कुर्याद् गुरुं शिष्यं च बुद्धिमान्॥७॥
धीरो विनीतो मतिमान् क्षमावानार्जवोऽशठः।
मन्त्रतन्त्रप्रयोगज्ञः कृपालुः शास्त्रकोविदः॥८॥
दशतत्त्वपरिज्ञाता मण्डलालेख्यकर्मवित्।
मन्त्रव्याख्याकृदाचार्यः प्रसन्नः स्याज्जितेन्द्रियः॥९॥
तं नाथं योऽवमन्येत शिष्यो भूत्वा सचेतनः।
सर्वबुद्धापमानेन स नित्यं दुःखमाप्नुयात्॥१०॥
ईत्युपद्रवचौरैश्च ग्रहज्वरविषादिभिः।
म्रियतेऽसौ महामूढो गुरुपादाभिनिन्दकः॥११॥
राजवातानलव्यालैर्डाकिनीजलतस्करैः।
विघ्नैर्विनायकैश्चापि मारितो नरकं व्रजेत्॥१२॥
न कुर्याच्चित्तसंक्षोभमाचार्यस्य कदाचन।
यदा करोति दुष्प्रज्ञो नरके (Narak) पच्यते ध्रुवम्॥१३॥
नरका ये समाख्याता अवीच्याद्या भयानकाः।
तत्र वासः समाख्यात आचार्यस्य हि निन्दनात्॥१४॥
तस्मात् सर्वप्रयत्नेन वज्राचार्यं महागुरुम्।
प्रच्छन्नवरकल्याणं नावमन्येत् कदाचन॥१५॥
यथेष्टदक्षिणादानाद् गुरुभक्तं सगौरवम्।
उक्ता ज्वरादयस्तापा न भूयः प्रभवन्ति हि॥१६॥
अदेयैः पुत्रदाराद्यैरसुभिर्वा निजैरपि।
सेव्यः स्वसंवराचार्य किं पुनर्विभवैश्चलैः॥१७॥
यतः सुदुर्लभं वस्तु कल्पासंख्येयकोटिभिः।
बुद्धत्वमुद्योगवते ददातीहैव जन्मनि॥१८॥
नित्यं स्वसमयः साध्यो नित्यं पूज्यास्तथागताः।
नित्यं च गुरवे देयं सर्वबुद्धसमो ह्यसौ॥१९॥
यद्यदिष्टतरं लोके विशिष्टरमेव वा।
तत्तद्धि गुरवे देयं सदैवाक्षयमिच्छता॥२०॥
दत्तेऽस्मै सर्वबुद्धेभ्यो दत्तं भवति शाश्वतम्।
तस्माच्च पुण्यसंभारः संभाराद् बोधिरुत्तमा॥२१॥
ते शिष्याः करुणोत्सर्गशीलक्षान्तिगुणान्विताः।
ये नान्यत्वं कल्पयन्ति गुरोर्वज्रधरस्य च॥२२॥
चैत्यभङ्गादिभीत्याऽपि गुरोश्छायां न लङ्घयेत्।
पादुकाऽऽसनयानादेर्लङ्घनस्य तु का कथा॥२३॥
श्रूयाद् यत्नाद् गुरोराज्ञां हृष्टचित्तो महामतिः।
अशक्तः श्रावयेत् तस्मा उपपत्त्या त्वशक्तिताम्॥२४॥
गुरोः सिद्धिं समाप्नोति गुरोः स्वर्गं गुरोः सुखम्।
तस्मात् सर्वप्रयत्नेन गुरोराज्ञां न लङ्घयेत्॥२५॥
स्वात्मवच्च गुरोर्द्रव्यं गुरुवच्च तदङ्गनाम्।
स्वजनानिव तल्लोकान् पश्येन्नित्यं समाहितः॥२६॥
शय्यारोहमग्रयानमुष्णीषाद्युपबन्धनम्।
न कुर्यादासने पादं कटिहस्तं च सन्निधौ॥२७॥
सुप्तेन वा निषण्णेन न स्थेयमुत्थिते गुरौ।
दक्षश्चोत्साहसम्पन्नस्तत्कार्येषु सदा भवेत्॥२८॥
श्लेष्मादीनां परित्यागः पादप्रसारणं तथा।
चङ्क्रमणं विवादं च न कुर्यात् पुरतो गुरोः॥२९॥
संवाहनं नर्तनं च न गानं न च बादनम्।
बहु संलपनं चापि न कुर्यात् पुरतो गुरोः॥३०॥
नत्वाऽऽसनात् समुत्थेयं निषत्तव्यं च भक्तितः।
निश्यप्सु सभये मार्गे प्रार्थ्याग्रे गमनं चरेत्॥३१॥
नाङ्गानि चालयेद् धीमान् न जृम्भादि समाश्रयेत्।
नाङ्गुलिस्फोटनं कुर्यात् पुरः पश्यति शास्तरि॥३२॥
पादयोः क्षालनं चाङ्गप्रोञ्छाभ्यञ्जनमर्दनम्।
पूर्वं प्रणम्य कर्तव्यं ततः कुर्याद् यदादिशेत्॥३३॥
आव्हानादौ गुरोर्नाम्नि पूज्यपादादि योजयेत्।
अन्यदा श्रद्धया ब्रूयात् सादरैस्तु विशेषणैः॥३४॥
आदिश्यताम्, करिष्यामि, प्रवदेत् साञ्जलिर्गुरुम्।
श्रुत्वाऽऽदेशं चाविचाल्य यथाऽऽदिष्टं तथा चरेत्॥३५॥
हासे कासे समुत्पन्ने करेणाच्छादयेन्मुखम्।
तदन्ते मृदुभिर्वर्णैः स्वाभिप्रायं निवेदयेत्॥३६॥
विनीतः पुरतो भूयात् सज्जो वस्त्रादिबन्धनैः।
भूजानुः साञ्जलिः श्रोतुं याचयेत् तु त्रिवारकम्॥३७॥
सत्कार्यं सर्वदा कुर्यान्निरहङ्कारचेतसा।
त्रपया पापभीत्या संवृतो नववधूरिव॥३८॥
न विलासमयीं चेष्टां कुर्यात् शास्तरि संमुखे।
अन्यच्चैवंविधं कर्म सुपरीक्ष्य त्यजेद् भृशम्॥३९॥
प्रतिष्ठायां मण्डले च होमे वा शिष्यसंग्रहे।
आख्यानादौ गुरोर्वासे नित्यं कुर्याच्च सन्निधिम्॥४०॥
प्रतिष्ठादौ लभ्यते यत् तत्सर्वं गुरवेऽर्पयेत्।
तेन दत्तं च गृण्हीयात् स्वयं चान्यांश्च तोषयेत्॥४१॥
गुरुशिष्ये स्वशिष्यत्वं न विदध्यात् कदाचन्।
स्वशिष्यं व्यावृतं कुर्यात् सत्कारादेर्गुरोः पुरः॥४२॥
आचार्यो यत्स्वयं दद्याद् गुरुर्वा यत् प्रदापयेत्।
प्रणम्य धीमता ग्राह्यं बद्धाञ्जलिपुटेन तत्॥४३॥
अविस्मृतः सर्वचर्यां यत्नात् कुर्वन् स्वबान्धवान्।
अविस्मृतेर्निराकुर्यात् प्रेम्णा हृष्टेन चेतसा॥४४॥
अनुज्ञातो गुरोः कार्यं श्रद्धालुर्नाचरेद् यदि।
रुग्णस्तु कुशले चित्ते नैवं भवति पापभाक्॥४५॥
किमन्यद्, गुरुतोषाय यच्छक्यं तत्समाचरेत्।
चर्या कार्या प्रयत्नेन न कदाप्यवहेलयेत्॥४६॥
सर्वथा सर्वदा सिद्धिराचार्य यानुगामिनी।
गुरुर्वज्रधरस्योक्तेराराध्यः सर्ववस्तुभिः॥४७॥
शिष्यः शुद्धाशयो भूत्वा त्रिरत्नं शरणं व्रजेत्।
गुरोरधीत्यानुपठेत् कुर्यादुत्सर्गमेव च॥४८॥
ततो मन्त्रादिदानेन कृत्वा सद्धर्मपात्रकम्।
पठेच्च धारयेच्चापि मूलापत्तीश्चतुर्दश॥४९॥
गुरुमनुगतशिष्यस्यानवद्यस्य कृत्वा
सकलसुहितवृद्धिं संचितं यन्मयेदम्।
कुशलपदमनन्तं तेन वै सर्वसत्वाः
विजितसुगतभावा द्राक् सुसिद्धिं लभेयुः॥५०॥
॥इति महाचार्याश्वघोषस्य गुरुपञ्चाशिका समाप्ता॥