श्रीमैत्रायणीयमानवगृह्यसूत्र:
प्रथमः पुरुषः ।
प्रथमः खण्डः
अथ मानवगृह्यसूत्रप्रारम्भः ।
ओं उपनयनप्रभृति व्रतचारी स्यात् ॥ १,१.१ ॥
मार्गवासाः संहतकेशो भाक्षाचार्यवृत्तिः सशल्कदण्डः सप्त ।
मुञ्जां मेखलां धारयेदाचार्यस्याप्रतिकूलः सर्वकारी ॥ १,१.२ ॥
यदेनमुपेयात्तदस्मै दद्याद्बहूनां येन संयुक्तः ॥ १,१.३ ॥
नास्य शय्यामाविशेत् ॥ १,१.४ ॥
न सवस्रयेत् ॥ १,१.५ ॥
न रथमारोहेत् ॥ १,१.६ ॥
नानृतं वदेत् ॥ १,१.७ ॥
न मुषितांस्त्रियं प्रेक्षेत ॥ १,१.८ ॥
न विहारार्थो जल्पेत् ॥ १,१.९ ॥
न रुच्यर्थं किंचन धारयीत ॥ १,१.१० ॥
सर्वाणि सां स्पर्शिकानि स्त्रीभ्यो वर्ज्जयेत् ॥ १,१.११ ॥
न मधुमांसे प्राश्नीयात्क्षारलवणे च ॥ १,१.१२ ॥
न स्नायादुदकं वा भ्यावेयात् ॥ १,१.१३ ॥
यदि स्नायाद्दण्ड इवाप्सु प्लवेत ॥ १,१.१४ ॥
प्रागस्तमयान्निष्क्रम्य समिधावहारेर्द्धरिण्यौ ब्रह्मवर्चसकाम इति श्रुतिः ॥ १,१.१५ ॥
इमं स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्यैधोस्येधिषीमहीति समिधमादधाति, समिदसि समेधिषीमहीति द्वितीयाम् ॥ १,१.१६ ॥
अपो अद्यान्वचारिषमित्युपतिष्ठते ॥ १,१. १७ ॥
यदग्रे तपसा तपो ब्रह्मचर्यमुपेयमसि ।
प्रियाः श्रुतस्य भूयास्मायुष्मन्तः सुमेधस इति मुखं विमृष्टे ॥ १,१.१८ ॥
भद्रं कर्णेभिः शृणुयाम देवा इति श्रोत्रे अभिमृशति ॥ १,१.१९ ॥
भद्रं पश्येमाक्षाभिर्यजत्रा इति चक्षुषी ॥ १,१.२० ॥
स्थिरै रङ्गै स्तुष्टुवां सस्तनूभिर्व्यशेम देवहितं यदायु रित्यङ्गानि ॥ १,१.२१ ॥
इह धृतिरिह स्वधृतिरिति हृदयदेशमारभ्य जपति ॥ १,१.२२ ॥
रुचं नो धेहीति पृथिवीमारभते ॥ १,१.२३ ॥
त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषमगस्त्यस्य त्र्यायुषम् ।
यद्देवानां त्र्यायुषं तन्मे अस्तु त्र्यायुषमिति भस्मानाङ्गानि संस्पृश्यापोहिष्ठीयाभिर्मार्जायते ॥ १,१.२४ ॥
इति प्रथमः खण्डः ॥१॥
द्वितीयः खण्डः ।
ओं अथ संध्यामुपास्ते ॥ १,२.१ ॥
प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे निषेद्योपस्पृश्यापामञ्जलिंपूरयित्वा प्रदक्षिणमावृत्य आयाहिविरजे देव्यक्षरे ब्रह्मसंमिते ।
गायत्रीं छन्दसां मातरिदं ब्रह्म जुषस्व मेऽ इत्यावाहयति ॥ १,२.२ ॥
आद्योजोऽसीति जपित्वा कस्ते युनक्तीति योजयित्वों भूर्भुवः स्वस्तत्सवितुरित्यष्टौ कृत्वः प्रयुङ्क्त इत्याम्नाताः कामा आदेवो यातीति त्रिष्टुभं राजवन्यस्य युञ्जत इति जगतिं वैशम्य ॥ १,२.३ ॥
उदुत्यं जातवेदसमिति द्वे निगद्य कस्ते विमुञ्जतीति विमुच्योदकाञ्जलिमुत्सृजति ॥ १,२.४ ॥
एवं प्रातस्तिष्ठन् ॥ १,२.५ ॥
एतेन धर्मेण द्वादशचतुर्विंशतिं षट्त्रिशतमष्टाचत्वारिं शतं वा वर्षाणि यो ब्राह्मणो राजन्यो वैश्यो वा द्रह्मचर्यं चरति मुण्डः शिखाजटः सर्वजटो वा मलज्ञुरबलः कृशः स्नात्वा स सर्वं विन्दते यत्किंचिन्मनसेच्छतीति ॥ १,२.६ ॥
एतेन धर्मेण साध्वधीते ॥ १,२.७ ॥
छन्दस्यर्थान्बुध्वा स्नीस्यन् गां कारयेत् ॥ १,२.८ ॥
आचार्यमर्हयोच्छ्रोत्रियः ॥ १,२.९ ॥
अन्यो वेदपाठी न तस्य स्नानम् ॥ १,२.१० ॥
आपो हिष्ठेति तिसृभिर्हिरण्यवर्णाः शुचय इति द्वाभ्यां स्नात्वाहते वाससी परिधत्ते ॥ १,२.११ ॥
वस्वसि वसुमन्तं मा कुरु सौवर्चसाय मा तेजसे ब्रह्मवर्चसाय परिदधामीति परिदधाति ॥ १,२.१२ ॥
यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः ।
एवं मे प्राण मा रिष इत्याङ्क्ते ॥ १,२.१३ ॥
हिरण्यमावध्नीते ॥ १,२.१ ॥
छत्रं धारयते दण्डं मालां गन्धम् ॥ १,२.१५ ॥
प्रतिष्ठे स्थोदैवते द्यावापृथिवी मा मा संताप्तमित्युपानहौ ॥ १,२.१६ ॥
द्विवस्त्रोऽत उर्ध्वं भवति तस्माच्छोभनं वासो भर्तव्यमिति श्रुतिः ॥ १,२.१७ ॥
आमन्त्र्यगुरून् गुरुबन्धूंश्च स्वान् गृहान्व्रजेत् ॥ १,२.१८ ॥
प्रतिषिद्धमपरया द्वारा निष्क्रमणं मलवद्वाससा सह संवस्त्रणं रजः सुनासिन्या सह शय्या गुरोर्दुरुक्तवचनमस्थाने शयनं स्मयनं सरणं स्थानं यानं गानं तस्य चेक्षणम् ॥ १,२.१९ ॥
पौर्णमास्याममावास्यायां वाग्नेयेन पशुना यजेत ॥ १,२.२० ॥
तस्य पविर्भक्षयित्वा यथासुखमत ऊर्ध्वं मधुमांसे प्राश्नीयात्क्षारलवणे च ॥ १,२.२१ ॥
इति द्वितीयः खण्डः ॥
तृतीयः खण्डः ।
यमेवं विद्वांसमभ्युदियाद्वाभ्यस्त मियाद्वा प्रतिबुध्य जपेत्
पुनर्मा मैत्विन्द्रियं पुनरायुः पुनर्भगः
पुनर्द्रविणा मैतु मां पुनर्वाह्यण मैतु माम्
अथोयथेमे धिष्ण्यासो अग्नयो यथास्थानं
कल्पयन्ता मिहैवेत्यभ्युदितः ॥ १,३.१ ॥
पुनर्मात्मा पुनरायुरैतु पुनः प्राणः पुनराकूतिरैतु वैश्वानरो वावृधानो वरेणान्तस्तिष्ठतो मे मनो अमृतस्य केतुः इत्यभ्यस्त मितः ॥ १,३.२ ॥
उभावेव वाभ्युदितो जपेदुभावेव वाभ्यस्तमितः ॥ १,३.३ ॥
यद्याचरणीयान्वाचरेदनाक्रोशेदभोज्यस्यवान्न मश्नीयादक्षि वास्पन्देत्कर्णो वाक्रोशेदग्निं वा चितिमारोहेत्स्मशानं वा गच्छेद्युपं वोस्पृशेद्रेतसो वा स्कन्देदेताभ्यामेव मन्त्राभ्यामाहुतिर्जुहुयादपि वाज्यलिप्ते समिधे वादध्यादपि वा मन्त्रावेव जपेत् ॥ १,३.४ ॥
एवमधर्ममाचर्यास्थूलम् ॥ १,३.५ ॥
स्थूले वेषणया विहरेदवस्त्रो लोमत्वगाच्छादोऽग्निमारोहेत्संग्रामे वा धातयेदपि वाग्निमिन्धानं तपसाऽत्मानमुपयोजयीत ॥ १,३.६ ॥
इति तृतीयः खण्डः
चतुर्थः खण्डः
वर्षासु श्रवणेन स्वाध्यायानुपाकुरुते ॥ १,४.१ ॥
स जुहेति
अप्वानामासि तस्यास्तेजोष्ट्रं गमयेम् ।
अहमिद्धि पितुः परिमेधामृतस्य जग्रभ सूर्य इवाजनि स्वाहा ।
सरस्वतीनामासि सरस्वन्नामासि ।
युक्तिर्नामासि योजो नामासि ।
मतिर्नामासि मने नामासि ॥
तस्यास्तेजोष्ट्रीं गमेयम् ।
तस्य तेजोष्ट्रं गमयेमिति सर्वत्रानुषजति ॥ १,४.२ ॥
युजे स्वाहा प्रयुजे स्वाहोद्युजेस्वाहेत्येतैरत्तेवासिनां योगमिच्छन्निति ॥ १,४.३ ॥
प्राक्स्विष्टकृतोथ जपति ।
ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवत्ववतु मा भवतु वक्तारम् ।
वाङ्मे मनसि प्रतिष्ठिना, मनो मे वैचि प्रतिष्ठितमाविरायुर्मयि धेहि वेदस्य वाणीः स्थ ।
ओं भूर्भुवः स्वस्तत्सवितुरिति ॥ १,४.४ ॥
दर्भपाणिस्त्रिः सावित्री मधीते ।
त्रिंश्चादितोऽनुवाकान् ।
को वा युनक्तीति च ।
उपाकुर्महेऽध्यायानुपतिष्ठन्तु छन्दासीति च ॥ १,४.५ ॥
तस्यानध्यायाः समूहन्वातो वलीकक्षारप्रभृति वर्षं न विद्योतमाने न स्तनयतीति श्रुतिराकालिकं देवतुमुलं विद्युद्धन्वोल्कात्यक्षराः शब्दाः ।
आचारेणान्ये ॥ १,४.६ ॥
अर्द्धपञ्चमान्मासानधीत्योत्सृजति पञ्चार्द्धषष्ठान्वा ॥ १,४.७ ॥
अथ जपति ऋत मवादिषं तन्मावीत्त्तद्वक्तारमावीदावीन्मामावीद्वक्तारम् ।
वाध्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितं माविरायुर्मयि धेहि ।
वेदस्य वाणीः स्थ ।
ओं भूर्भुवः स्वस्तत्सवितुरिति ॥ १,४.८ ॥
दर्भपाणिस्त्रिः सावित्रीमधीते ।
त्रींश्चादितोऽमुवाकान् को वो विमुञ्चतीति विमुच्योत्सृजामहेध्यायान्प्रतीश्वसन्तु छन्दासीति च ॥ १,४.९ ॥
प्रतिपदं पक्षिणीं रात्रीं नाधीयीत नात ऊर्ध्वमभ्रेषु ॥ १,४.१० ॥
आकालिको विद्युत्स्ननयित्नुवर्षेषु ॥ १,४.११ ॥
गोनामेषु मन्त्रब्राह्मणकल्पयितृमेधमहाव्रताष्टापदीं वैषुवतानि दिवाधीयीत वैषुवत्तमार्द्रपाणिः ॥ १,४.१२ ॥
रुदान्न नक्तं न भुक्ता न ग्रामे ॥ १,४.१३ ॥
शुक्रियस्य प्रवर्ग्यकल्पे नियमो व्याख्यातस्त्रयोविंशं तु संमील्य ॥ १,४.१४ ॥
गवां तु न सकाशे गोनामानि गार्भिणीनामसकाशेऽष्टापदींरेतो मूत्रमिति च ॥ १,४.१५ ॥
शुनीशीर्यस्य च सौर्ये चक्षुष्कामस्य चक्षुर्नो धेहि चक्षुष इति सूर्योऽपोऽवगाहत इति च आदित्यसैर्ययाम्यानि षडृचानि दिवाधीयीत ॥ १,४.१६ ॥
उपाकृत्योत्सृज्य च त्र्यहं पञ्चरात्रमेके ॥ १,४.१७ ॥
वेदारम्भणे समाप्तौ चाकालम् ॥ १,४.१८ ॥
इति चतुर्थः खण्डः ।
पञ्चमः खण्डः
अथातोऽन्तरकल्पं व्याख्यास्यामः ॥ १,५.१ ॥
दर्भमयं वासः परिधायचम्यापां नप्त्र इति तीरे जपित्वापोऽवगाह्य ओंभूर्भुवः स्वस्तत्सवितुरिति ॥ १,५.२ ॥
दर्भपाणिस्त्रिः सावित्रीमधीते त्रीं श्वादितोऽनुवाकान् ॥ १,५.३ ॥
आपो देवीर्हविष्मतीरिमा निग्राभ्यो स्थ महित्रीणामवोऽस्तु अग्नेररायुरसि देवी रापो अपां नपाद्देवीरापो मधुमतीरग्नये स्वाहा रात्रीं रात्रीमित्यष्टौ ॥ १,५.४ ॥
या ओषधयः समान्यायन्ति पुनन्तु मा पितरोऽग्नेर्मन्वे सशेवृधमधिधाः कया नश्चित्र आभुवदूतीति तिस्रः ॥ १,५.५ ॥
तच्छंयोरा वृणीमह इति मार्जयित्वा वासांस्युत्सृजायाचार्यान्पितृधर्मेण तर्पयन्ति ॥ १,५.६ ॥
श्राद्धकल्पेन शेषो व्याख्यातः ॥ १,५.७ ॥
इति पञ्चमः खण्डः ।
षष्ठः खण्डः ।
अथातोग्निं प्रवर्तयन्ति ॥ १,६.१ ॥
उत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशे वेद्याकृतिं कृत्वाहवनीयस्थाने सप्तच्छन्दांसि प्रतिष्ठाप्य विष्ठरा दर्भमुष्ठीन्वा दक्षिणाग्निस्थाने प्रौगाकृतिं कौशितं खात्वा पश्चादुत्करमपां पूरयित्वा
गार्हपत्यस्थानेऽग्निं प्रणीय युञ्जानः प्रथमं मन इत्यष्टौ दुत्वा ।
ञकूतमग्निं प्रयुजं स्वाहेति षड्जुहोति विश्वो देवस्य नेतु रिति सप्तमीम् ॥ १,६.२ ॥
यज्ञियानां समिधां त्रीं स्त्रीन् समित्पूलानुपकल्प्य प्राक्स्विष्टकृतस्तिष्ठन्तो व्याहृतिपूर्वकं खण्डिलस्यादीतस्त्रिभि रनुवाकैरेकैकेन स्वाहाकारान्ताभिरादधति ॥ १,६.३ ॥
आपोदिष्टीयाभिः कौसितान्मार्जयित्वा धानाभिर्ब्राब्मणान्स्वस्ति वाचयन्ति धानाभिर्ब्राह्मणान्स्वस्ति वाचयन्ति ॥ १,६.४ ॥
इति मानवे षष्ठः खण्डः ॥६॥
सप्तमः खण्डः
अथोपनिषदर्हाः ।
ब्रह्मचारी सुचरिति मेधावी कर्मकृद्धनदः प्रियो विधां वा विद्यायान्वेष्यन् ॥ १,७.१ ॥
तानि तीर्थानि ब्रह्मणः ॥ १,७.२ ॥
भार्यां विन्दते ॥ १,७.३ ॥
कृत्तिका स्वाति पूर्वैरिति वरयेत् ॥ १,७.४ ॥
रोहिणीमृगशिरः श्रवणाश्रविष्ठोत्तराणीत्युपयमे तथोद्वाहे यद्वा पुण्योक्तम् ॥ १,७.५ ॥
पञ्च विवाहकारकाणि भवन्ति वित्तं रूपं विद्या प्रज्ञा बान्धव इति ॥ १,७.६ ॥
एकालाभे वित्तं विसृजेद्द्वितीयालाभे रूपं तृतीयालाभे विद्यां प्रज्ञायां बान्धव इति च विवहन्ते ॥ १,७.७ ॥
बन्धुमतीं कन्यामस्पृष्टमैथुना समानवर्णासमानप्रवरां यवीयसीं नग्निकां श्रेष्ठाम् ॥ १,७.८ ॥
विज्ञानमस्याः कुर्यादष्टौ लोष्ठानाहरेसीता लोष्ठं वेदिलोष्ठं दूर्वालोष्ठं गोमयलोष्ठं फलवतो वृक्षस्यधस्ताल्लोष्ठं श्मशानलोष्ठ मध्वलोष्ठभिरीणलोष्ठमिति ॥ १,७.९ ॥
देवागारे स्थापयित्वाथ कन्यां ग्राहयेत्यदि स्मशानलोष्ठं गृह्णीयादध्वलोष्ठभिरिणलोष्ठं वा नो पयमेत् ॥ १,७.१० ॥
संजुष्टां धर्मेणोपयच्छेत ब्राह्मेण शौल्केन वा ॥ १,७.११ ॥
शतमिति रथं दद्यात्गोमिथुनं वा ॥ १,७.१२ ॥
इति सप्तमः खण्डः ।
अष्टमः खण्ड
पश्चादग्नेश्चत्वार्यासनान्युपकल्पयीत ॥ १,८.१ ॥
तेषूपविशन्ति पुरस्तत्प्रत्यङ्मुखो दाता पश्चात्प्राङ्मुखः प्रतिग्रहीता दातुरुत्तरतः प्रत्यङ्मुखी कन्या दक्षिणत उदङ्मुखो मन्त्रकारः ॥ १,८.२ ॥
तेषां मध्ये प्राक्तूलान्दर्भानस्तीर्या कांस्यमक्षतोदकेन पूरयित्वा अविधवास्मै प्रयच्छति ॥ १,८.३ ॥
तत्र हिरण्यम् ॥ १,८.४ ॥
अष्टौ मङ्गल्यान्यावेदयति ॥ १,८.५ ॥
मङ्गल्यान्युक्ता ददामि प्रतिगृह्णामीति त्रिर्ब्रह्मदेया पिता भ्राता वा दद्यत् ॥ १,८.६ ॥
सहिरण्यानञ्जलीनावपति धनाय त्वेतिदाता पुत्रेभ्यस्त्वेति प्रतिग्रहीता तस्मै प्रत्यावपति ॥ १,८.७ ॥
चतुर्व्यतिहृत्य ददाति ॥ १,८.८ ॥
सावित्रेण कन्यां प्रतिगृह्य प्रजापतय इति च क इदं कस्मा अदादिति सर्वत्रानुषजति कामैतत्त इतियन्तम् ॥ १,८.९ ॥
समाना वा आकूतानीति सह जपन्त्यान्तादनुवाकस्य ॥ १,८.१० ॥
खे रथस्य खे नसः युगस्य शतक्रतो अपालमिन्द्रस्त्रिः पूर्त्यवकृणोत्सूर्यत्वच मिति तेनोदकांस्येन कन्यामभिषिञ्चेत् ॥ १,८.११ ॥
इति अष्टमः खण्डः ॥८॥
नवमः खण्डः
षडध्यार्हा भवन्त्यृत्विगाचार्यो विवाह्यो राजा स्नातकः प्रियश्चेति ॥ १,९.१ ॥
अप्राकरणिकान्वा परिसंवत्सरादर्हयन्ति ॥ १,९.२ ॥
प्राकरणिकाः कर्तारः सदस्याश्च वृताः ॥ १,९.३ ॥
न जीवत्पितृकोर्ऽध्यं प्रतिगृह्णीयादितिश्रुतिरथवा प्रतिगृह्णीयात् ॥ १,९.४ ॥
अथैनमर्हयन्ति ॥ १,९. ५ ॥
कांस्ये चमसे वा दधि मधु चानीय वर्षीयसा पिधायाचमनीयप्रथमैः प्रतिपद्यन्ते ॥ १,९.६ ॥
विराजो दोहोसि विराजो दोहोसि विराजो दोहमशीय मयि दोहः पद्यायै विराजः कल्पतामित्येकैक माह्रिमाणं प्रतीक्षते ॥ १,९.७ ॥
सावित्रेण विष्टरं प्रतिगृह्य अहं वर्ष्म सदृशानामुद्यतामिव सूर्यः इदं तमभितिष्ठामि यो मा कश्चाभिदासतीति जपति ॥ १,९.८ ॥
राष्ट्रभृदसीत्याचार्य आसन्दीमनुमन्त्रयते ॥ १,९.९ ॥
मा त्वा दोष इत्यधस्तात्पादयोर्विष्टरमुपकर्षति ॥ १,९.१० ॥
विष्टर आसीनायै कैकं त्रिः प्राह ॥ १,९.११ ॥
नैव भो इत्याह नम आर्षेयायेति श्रुतिः स्पृशत्यर्घ्यम् ॥ १,९.१२ ॥
पाद्येन पादौ प्रक्षाल्य सावित्रेण मधुपर्कं प्रतिगृह्य प्रतिष्ठाप्यवसाय्य नमो रुद्राय पात्रसदे नमो रुद्राय पात्रसद इति प्रादेशेनाध्यधि प्रतिदिशं प्रदक्षिणं
सर्वतोऽभ्युद्दिशति ॥ १,९.१३ ॥
मधुवाता ऋतायत इति तिसृभिरङ्गुल्या प्रदक्षिणं प्रत्यृचं त्रिरायौति ॥ १,९.१४ ॥
अमृतोपस्तरणमसीत्युपस्तरति ॥ १,९.१५ ॥
सत्यं यशः श्रीर्मयि श्रीःश्रयतामिति मधुपर्कं त्रिः प्राश्नाति ॥ १,९.१६ ॥
अमृतापिधानमसीत्याचामति ॥ १,९.१७ ॥
सुहृदेऽवशिष्टं प्रयच्छति ॥ १,९.१८ ॥
असि पाणिर्गां प्राह ॥ १,९.१९ ॥
हतो मे पाप्मानं मे हत ओंकुरुत इति प्रेष्यति ॥ १,९.२० ॥
चतुरो ब्राह्मणान्नानागोत्रान् भोजयते ॥ १,९.२१ ॥
पश्वङ्गं पायसं वा कारयेन्नामांसो मधुपर्क इति श्रुतिः ॥ १,९.२२ ॥
यद्युत्सृजेन्माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।
प्रनुवोचं चिकितुषे जनाय मागा मनागा मदितिं वङिष्ट ।
भुर्भुवः स्वरोत्मुत्सृजतु तृणान्यत्तु ॥ १,९.२३ ॥
अथालंकारणमलंकरणमसि सर्वस्मा अलं मे भूयासम् ॥ १,९.२४ ॥
प्रणापानौ मे तर्पय उदीनरूपे मे तर्पय सुचक्षा अह मक्षिभ्यां भूयासं सुवर्चा मुखेन सुश्रुत्कर्णाभ्यां भूयासामिति यतालिङ्गमङ्गानि संस्पृशति ॥ १,९.२५ ॥
अथ गन्धोत्सदने वाससी ॥ १,९.२६ ॥
परिधास्ये यशो धास्ये दीर्घायुत्वाय जरदष्टिरस्तु
शतं जीवेमशरदः पुरूची रीयस्पोषमभिसंव्ययिष्ये
यशसा माद्यावा पृथिवी यशसेन्द्रा बृहस्पती
यशो भगश्च मारिषद्यशो मा प्रति मुच्यतामं
इत्यहतंवासः परिधत्ते ॥ १,९.२७ ॥
कुमार्याः प्रमदने भगमर्यमणं पूषणं त्वष्टारमिति यजति ॥ १,९.२८ ॥ ।
प्राक्स्विष्टकृतश्चतस्रो अविधवा नन्दीरुपवादयन्ति ॥ १,९.२९ ॥
अभ्यन्तरे कौतुके देवपत्नीर्जयति ॥ १,९.३० ॥
इति नवमः खण्डः ॥९॥
दशमः खण्डः
प्रागुदञ्चं लक्षणमुद्धृत्यावोक्ष्य स्थणिडलं गोमयेनोपलिप्य मण्डलं चतुरस्रं वा अग्निं निर्मथ्याभिमुखं प्रणयेत्तत्र ब्रह्मोपवेशनम् ॥ १,१०.१ ॥
दर्भाणां पवित्रे मन्त्रवदुत्पाद्येमंस्तोम मर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्बहिःस्तृणाति ॥ १,१०.२ ॥
उदक्प्राक्तूलान्दर्भान्प्रकृष्य दक्षिणांस्तथोत्तरानग्रेणाग्निं दक्षिणैरुत्तरानवस्तृणाति ॥ १,१०.३ ॥
दक्षिणतोऽग्नेर्ब्रह्मणे संस्तृणात्यपरं यजमानाय पश्चार्ज्झे पत्न्यै अपरमपरंशाखोदकधारयोर्लाजा धार्याश्च पश्चाद्युगधारस्य च ॥ १,१०.४ ॥
स्योना पृथिवि भवेत्येतयावस्थाप्य शमीमयीः शम्याः कृत्वान्तगोर्ष्ठेऽग्निमुपसमाधाय भर्ता भार्यामभ्युदानयति ॥ १,१०.५ ॥
वाससोन्ते गृहीत्वा
ऽअघोर चक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः वीरसूदेर्वकामा स्योना शं नो भव द्विपदे शं चतुष्पदेऽ इत्यभिपरिगृह्याभ्युदानयति ॥ १,१०.६ ॥
उत्तरेण रथं वानोवानुपरिक्रम्यान्तरेण ज्वलनवहनावतिक्रम्य दक्षिणास्यां धुर्युत्तरस्य युगतन्मनोऽधस्तात्कन्यामवस्थाप्य शम्यामुत्कृष्य हिरण्यमन्तर्धाय हिरण्यवर्णाः शुचय इति तिसृभिरद्भिरभिषिच्य अज्त्रैव बाणशब्दं कुरुतेति प्रेष्यति ॥ १,१०.७ ॥
अथास्यै वासः प्रयच्छति
या अकृन्तन्या अतन्वन्या आवन्या अवाहरन्
याश्चाग्नादेव्योऽन्तानभितोऽततनन्त ।
तास्त्वादेव्यो जरसे संव्ययन्त्वायुष्मतीदं परिधत्स्व वासःित्यहतं वासः परिधाप्यान्वारभ्याधारावाज्यभागौ हुत्वा अग्नये जनविदे स्वाहेत्युत्तरार्धे जुहोति सोमाय जनविदे स्वाहेति दक्षिणार्द्धे गन्धर्वाय जनविदे स्वाहेति मध्ये ॥ १,१०.८ ॥
युक्तो वह यदाकूतमिति द्वाभ्यामग्निंयोजयित्वा नक्षत्रमिष्ट्वा नक्षत्रदेवतांयजेत्तिथिं तिथिदेवतामृतुदेवतां च ॥ १,१०.९ ॥
सोमोददद्गन्धर्वाय गन्धर्वो दददग्नये ।
रविं च पुत्रांश्चादादग्निर्मह्यमथो इमाम्
अग्निरस्याः प्रथमो जातवेदाः
सोऽस्याः प्रज्ञा मुञ्चतु मृत्युपाशात् ।
तदिदं राजा वरुणोऽनुमन्यताम् ।
यथेद्रंस्त्रीपौत्रमगन्म रुद्रियाय स्वाह
इति हिरण्यगर्भ इत्यष्टाभिः प्रत्यृचमाज्याहुतीर्जुहुयात् ॥ १,१०.१० ॥
येन च कर्मणेचछेत्तत्र च जयान् जुहुयात्जयानांच श्रुतिस्तां यतोक्ताम् ।
आकूत्यै त्वा स्वाहा, भूत्यै त्वा स्वाह, प्रयुजे तेवा स्वाह, नभसे त्वा स्वाह, अर्यम्भणे त्वा स्वाह, समृध्यै त्वा स्वाह, जयायै त्वा स्वाह, कामाय त्वा स्वाहेत्यृचा स्तोमं प्रजापतय इति च ॥ १,१०.११ ॥
शुचिः प्रत्यङ्ङुपयन्ता तांसमीक्षस्वेत्याह ॥ १,१०.१२ ॥
तस्यां समीक्षमाणायां जपति
मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं तेऽस्तु
मम वाचमेकमना जुषस्व प्रजापतिष्ठ्वा नियुनक्तुमह्यमिति ॥ १,१०.१३ ॥
का नामासीत्याद ॥ १,१०.१४ ॥
नामधेये
प्रोक्ते देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाभ्यसाविति हस्तं गृह्णन्नाम गृह्णाति ।
प्राङ्मुख्याः प्रात्याङ्मुक ऊर्ध्वस्तिष्टन्नासीनाया दक्षिण मुत्तानं दक्षिणेन नीचारिक्त मरिक्तेन यथेन्द्रोहस्तमग्रहीत्सविता वरुणो भगः ।
गृह्णामि ते सौ भगत्वाय हस्तं मया पत्या जरदृष्टिर्यथा सत् ॥
भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गार्हपत्याय दोवाः ।
याग्रे वाक्समवदत पुरा देवासुरेभ्यः ।
तामद्य गाथां गास्यामो या स्त्रीणामुत्तमं मनः ।
सरस्वति प्रेदमव सुभगे वाजिनीवति
यां त्वा विश्वस्य भूतस्य भव्यस्य प्रागायाम्यस्याग्रतः ।
अमोह मस्मि सा त्वं सा त्वमस्याप्यमोहम् ॥
द्यौ रहं पृथिवि त्वमृक्त्वमसि सामाहम् ॥
रेतोह मस्मि रेतो धत्तम् ॥
ता एव विवाहावहै पुंसे पुत्राय कर्त्तवै ।
श्रीये पुत्राय वेधवै ॥
रायस्योषया सुप्रजास्त्वाय सुवीर्याय ॥
इति ॥ १,१०.१५ ॥
अभिदक्षिणमानीयाग्नेः पश्चात्
एतमश्मानमातिष्टतमश्मेव युवां स्थिरो भवतम्
कृण्वन्तु विश्वे देवा आयुर्वा शरदः शतम् ।
इति दक्षिणाभ्यां पभ्द्यामश्मानमास्थापयति ॥ १,१०.१६ ॥
यथेन्द्रः सहेन्द्राण्या अवारुहद्गन्धमादनात् ।
एवं त्वमस्मादश्मनो अवरोह सह पत्न्या ॥
आरोहस्व समे पादौ प्र पूर्व्यायुष्मती कन्ये पुत्रवती भव ।
इत्येवं द्विरास्थापयति ॥ १,१०.१७ ॥
चतुः परिणयति ॥ १,१०.१८ ॥
समितं संकल्पेथामिति पर्याये पर्याये ब्रह्मा ब्रह्मजपं जपेत् ॥ १,१०.१९ ॥
इति दशमः खण्डः ॥१०॥
एकादशः खण्डः
ततो यथार्थं कर्मसन्निपातो विज्ञेयः ॥ १,११.१ ॥
अर्यम्णेऽग्नये पूष्णेऽग्नये वरुणाय च व्रीहीन् यवान्वाभिनिरूप्य प्रोक्ष्य लाजा भृजति ॥ १,११.२ ॥
मात्रे प्रयच्छति स जाताया अविधवायै ॥ १,११.३ ॥
अथास्यै द्वितीयं वासः प्रयच्छति तेनैव मन्त्रेण ॥ १,११.४ ॥
दर्भरज्वा इन्द्रण्याः संनहनमित्यन्तौ समायम्य पुमांसं ग्रन्थिं बन्ध्नाति ॥ १,११.५ ॥
सं त्वा नह्यामि पयसा पृथिव्याः संत्वा नह्याम्यद्भिरोषधीभिः ।
सं त्वा नह्यामि प्रजया धनेन सा सन्नद्धा सुनुहि भागधेयम् ।
इतियन्तरतो वस्त्रस्य योक्त्रेण कन्यां संनह्यते ॥ १,११.६ ॥
अथैनान्युपकल्पयते शूर्पां लाजा इषीका अश्मान माञ्जनम् ॥ १,११.७ ॥
चतसृभिर्दर्भेषीकाभिः शरेषीकाभिर्वा समुञजाभिः सतूलाभिरित्येकैकया त्रैककुभस्याञ्जनस्य संनिकृष्य वृत्रस्यासि कनीनिकेति भर्तुर्दक्षिणमक्षि त्रिः प्रथम माङ्क्ते तथा परं तथा पत्न्याः शेषेण तूष्णीम् ॥ १,११.८ ॥
दिशि शलाकाः प्रविध्यति यानि रक्षांस्यभितो व्रजन्त्यस्या वध्वा अग्निसकाश मागच्छन्त्याः तेषामहं प्रतिविध्यामि चक्षुः स्वस्ति वध्वै
भूतपतिर्दधातु ॥
इति ॥ १,११.९ ॥
लाजाः पश्चादग्नेरुपसाद्य शमीपर्णैः संयुज्य शूर्पे समं चतुर्धा विभज्याग्रेणाग्निं पर्याहृत्य लाजाधार्यै प्रयच्छति ॥ १,११.१० ॥
लाजा भ्राता ब्रह्मचारी वाञ्जलिनाञ्जल्योरावपति ॥ १,११.११ ॥
उपस्तरणाभिधारणैः संपातं ता अविच्छिन्नैर्जुहुतः ।
अर्यम्णं नु देवं कन्या अग्निमयक्षत
सोस्मान्देवोर्ऽयमा प्रेतो मुञ्जातु मामुतः स्वाहा ॥
तुभ्यमग्ने पर्यवहन्त्सूर्यांवहतुना सह ॥
पुनः पतिभ्यो जायां दा अग्नेः प्रजया सह ॥
पुनः पत्नी मग्निरदादायुषा सह वर्चसा ।
दीर्घायुरस्य यः पतिर्जीवाति शरदः शतम् ॥
इयं नार्युपब्रूतेऽग्नौलाजानावपन्तिका ।
दीर्धायुरस्तु मे पतिरेधन्तां ज्ञातयो ममेति ॥ १,११.१२ ॥
एवं पूषणं नु देवं वरुणं नु देवम् ॥ १,११.१३ ॥
येन द्यौ रुग्रेत्यादय उद्वाहे होमा जयाब्यातानाः संततिहोमा राष्ट्रभृतश्च ॥ १,११.१४ ॥
आकूताय स्वाहेति जयाः प्राची दिग्वसन्त ऋतुरित्यभ्यातानाः ।
प्राणादापानं संतन्विति संततिहोमा ऋता षाडृतधामेति द्वादशराष्ट्रभृतश्च ॥ १,११.१५ ॥
त्रातारमिन्द्रं विश्वादित्या इति माङ्गल्ये ॥ १,११.१६ ॥
लाजाः कामे न चतुर्थांस्विष्टकृतमिति ॥ १,११.१७ ॥
अथैनां प्राचीं सप्तपदानि प्रक्रमयत्येकमिषे द्वे ऊर्जे त्रीणि प्रजाभ्यश्चत्वारि रायस्पोषाय पञ्च भवाय षड्टतुभ्यः
सखा सप्तदीभव सुमृडीका सरस्वती ।
मा ते व्योम संदृशी ॥
विष्णुस्त्वा मुन्नयत्विति सर्वत्रानुषजति ॥ १,११.१८ ॥
पश्चादग्रे रोहिते चर्मण्यानजुडुहे प्राग्ग्रीवे लोमतो दर्भानास्तीर्य तेषु वधूमुपवेशयत्यपि वा दर्भेष्वेव ॥ १,११.१९ ॥
इमंविष्यामि वरुणस्य पाशं यज्जग्रन्थ सविता सत्यधर्मा ।
धातुश्च योनौ सुकृतस्य लोके रिष्टां मा सह पत्या दधातु ॥
इति योक्रपाशं विषाय वाससोऽन्ते बध्नाति ॥ १,११.२० ॥
अनुमतिभ्यां व्याहृतिभ्यश्च त्वन्नो अग्ने , अयाश्चाग्नेसीति च ॥ १,११.२१ ॥
शमीमयीस्तिस्रोऽक्ताः समिधः समुद्रादूर्भिरित्येताभिस्तिसृभिः स्वाहाकारान्ताभिरादधाति ॥ १,११.२२ ॥
अक्षत सक्तूनां दध्नश्च समवदायेदं हविः प्रजननं म इति हुत्याज्येनाभिजुहोति ॥ १,११.२३ ॥
कुम्भादुदकेनापोहिष्ठीयाभिर्मार्जयन्ते ॥ १,११.२६ ॥
वरो दक्षिणा ॥ १,११.२७ ॥
इत्येकादशःखम्डः ॥११॥
द्वादशः खण्डः
सुमङ्गलीरियं वधूरिमां समेतपश्य
सौभाग्यमस्यै दत्वायाथास्त्वं विपरेतन ॥
इति प्रेक्षकान्व्रजतोऽनुमन्त्रयते ॥ १,१२.१ ॥
अत्रैव सीमन्तं करोति त्रीश्येतया शलल्या समूलेन वा दर्भेण सेनाहनामेत्येतया ॥ १,१२.२ ॥
अथाभ्यञ्जन्ति
अभ्यज्यकेशान् सुमनस्यमानाः प्रजावरीर्यशसे बहुपुत्रा अघोराः ।
शिवा भर्तुः श्वशुरस्यावदायायुष्मतीः श्वश्वमतीश्चिरायुः ॥
इति ॥ १,१२.३ ॥
जीवोर्णयोपसमस्यति
समस्य केशानवृजिनानघोरान् शिखा सखीभ्यो भव सर्वाभ्यः ।
शिवा भव सुकुलोह्यमानाशिवा जनेषु सहवाहनेषु ॥
इति ॥ १,१२.४ ॥
अथैनो दधिमधु समश्रुतो यद्वा हविष्यं स्यात् ॥ १,१२.५ ॥
तस्य स्वस्ति वाचयित्वा समाना वा आकूतानीति सह जपन्ति ॥ १,१२.६ ॥
उबौ सह प्राश्नीतः ॥ १,१२.७ ॥
इति द्वादशः खण्डः ॥१२॥
त्रयोदशः खण्डः
पुण्याहे युङ्क्ते ॥ १,१३.१ ॥
युञ्जन्ति ब्रध्नमिति द्वाभ्यां युज्यमानमनुमन्त्रयते दक्षिणमथोत्तरम् ॥ १,१३.२ ॥
अहतेन वाससा दर्भैर्वा रथं संमार्ष्टि ॥ १,१३.३ ॥
अह्कून्यङ्कावबितो रथं ये धावन्ता वाता अग्निमभिये संचरन्ति दूरे हेतिः पतत्री वाजिनी वांस्ते नोऽग्नयः पप्रयः पालयन्तु इति चक्रे अभिमन्त्रयते ॥ १,१३.४ ॥
वनस्पते विड्वङ्ग इतियधिष्टानम् ॥ १,१३.५ ॥
सुकिं शुक्रं शल्मलिं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रमारोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वहतं, कृणुष्व ॥
इत्यारोहयति ॥ १,१३.६ ॥
अनुमायन्तु देवता अनुब्रह्म सुवीर्यम् ।
अनुक्षत्रं तु यद्बलमनुमामैतु मद्यशः ॥
इति प्राङभिप्रयाय प्रदक्षिणमावर्तयति ॥ १,१३.७ ॥
प्रतिमायन्तु देवताः प्रतिब्रह्म सुवीर्यम् ।
प्रतिक्षत्रं तु यद्बलं प्रति मामैतु यद्यशः ॥
इति यथास्तं यन्त मनुमन्त्रयते ॥ १,१३.८ ॥
अमङ्गल्यं चेदतिक्रामति अनुमायन्त्विति जपति ॥ १,१३.९ ॥
नमो रुद्राय ग्रामसद इति ग्रामे इमा रुद्रायेति च ॥ १,१३.१० ॥
ऽनमो रुद्रायैक वृक्षसदऽ इत्येकवृक्षे ।
ऽये वृक्षेषु शिष्पञ्जराऽ इति च ॥ १,१३.११ ॥
ऽनमो रुद्राय श्माशानसदऽ इति श्मशाने ।
ऽये भूताना मधिपतयऽ इति च ॥ १,१३.१२ ॥
ऽनमो रुद्राय चतुष्पथसदऽ इति चतुष्पथे ।
ऽये पथां पथि रक्षयऽ इति च ॥ १,१३.१३ ॥
ऽनमो रुद्राय तीर्थसदऽ इति तीर्थे ।
ऽये तीर्थानि प्रचरन्तीतिऽ च ॥ १,१३.१४ ॥
यत्रापस्तरितव्या आसीदिति समुद्राय वैणवे सिन्धूनां पतये नमः ।
नमो नदीनां सर्वासां पत्ये ।
विश्वाहा जुषतां विश्वकर्मणामिदं हविः स्वः स्वाहेत्यप्सूदकाञ्जलीन्निनयति ।
अमृतं वा आस्ये जुहोम्यायुः प्राणेऽप्यमृतं ब्रह्मणा सह मृत्युन्तरति ।
प्रासहादिति रिष्टिरिति मुक्तिरिति मुक्षीयमाणः सर्वं भयं नुदस्व स्वाहेति त्रिः परिमृज्याचामति ॥ १,१३.१५ ॥
यदि नावा तरेत्सुत्रामाणमिति जपेत् ॥ १,१३.१६ ॥
यदि रथाक्षः शम्याणीवा रिष्येतान्यद्वा रथाङ्गं तत्रैवाग्निभुपसमाधाय जयप्रभृतिभिर्हुत्वा सुमङ्गलीरियं वधूरिति जपेत्वध्वा सह वधूं समेत पश्यत ॥ १,१३.१७ ॥
व्युत्क्राम पन्थां जरितां जवेन शिवेन वैश्वानर इड्यास्याग्रतः ।
आचार्यो येन येन पथा प्रयाति तेन तेन सह ॥
इत्युभावेवोक्रामतः ॥ १,१३.१८ ॥
गोभिः सहास्तामिते ग्रामं प्रविशन्ति ब्राह्मणवचनाद्वा ॥ १,१३.१९ ॥
इति त्रयोदशः खण्डः ॥१३॥
चतुर्दशः खण्डः
अपरस्मिन्नहः संधौ गृहान्प्रतिपादयीत ॥ १,१४.१ ॥
प्रतिब्रह्मन्निति प्रत्यवरोहति ॥ १,१४.२ ॥
मङ्गलानि प्रादुर्भवन्ति ॥ १,१४.३ ॥
गोष्ठात्सन्ततामुलपराजिं स्तृणाति ॥ १,१४.४ ॥
रथादध्योपासनात्
येष्वध्येति प्रवसन्येषु सौमनसं महत् ।
तेनोपव्हयामहे ते नो जानन्त्वागतम् ॥
इति तयाभ्युपैति ॥ १,१४.५ ॥
गृहानह्ं सुमनसः प्रपद्ये वीरं हि वीरवतः सुशेवा
इरांवहन्ती घृतमुक्षमाणास्तेष्वहं सुमनाः सं वसाम ॥
इत्यभ्याहितीग्निंसोहकं सौषधमावसथं प्रतिपद्यते रोहिण्या मूलेन वा यद्वा पुण्योक्तम् ॥ १,१४.६ ॥
पश्चादग्ने रोहिते चर्मण्यानडुहे प्राग्ग्रीवे लोमतो दर्भानस्तीर्य तेषु वधूमुपवेशयत्यपि वा दर्भेष्वेव ॥ १,१४.७ ॥
अथास्यै ब्रह्मचारिममुपस्थ आवेशयति
सोमेनादित्या बलिनः सोमेन पृथिवी मही
असौ नक्षत्राणामेषामुपस्थे सोम आहितः ॥
इति ॥ १,१४.८ ॥
अथास्य तिलतण्डुलानां फलमिश्राणामञ्जलिं पूरयित्वोत्थाप्याथास्यै ध्रुमरुङतीं जीवत्तीं सप्तऋषीनिति दर्शयेत् ॥ १,१४.९ ॥
अच्युता ध्रुवा ध्रुवपत्नी द्रुवं पश्येम सर्वतः
ध्रुवासः पर्वता इमे ध्रुवा स्त्री पतिकुलेयम् ॥
इति तस्यां समीक्षमाणायांजपति ॥ १,१४.१० ॥
श्वभूते प्राजापत्यं पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति ।
आज्यशेषे दधिसमानीय तेन हुतशेषण ॥ १,१४.११ ॥
चक्रीवानडुहौ वा मे वाङ्मैतु ते मनः
चाक्रवाकं सं वननं तन्नौ सं वननं कृतम्
इति यजमानस्त्रिः प्राश्नात्यवशिष्टं तूष्णीं पत्नी ॥ १,१४.१२ ॥
अपरान्हे पिण्डपितृयज्ञः स व्याख्यातः ॥ १,१४.१३ ॥
संवत्सरं ब्रह्मचर्यं चरतो द्वादशरात्रं त्रिरात्रमेककरात्रं वा ॥ १,१४.१४ ॥
अथास्यै गृहान् विसृजेत् ॥ १,१४.१५ ॥
योक्राशं विषाय तौ संनिपातयेत्
अपश्यं त्वा मनसा दीध्यानां स्वायां तनुंृत्विये बाधमानाम् ।
उप मामुच्चा युवतिर्बभूयाः प्रजायस्व प्रजायस्व प्रजया पुत्रकामे ॥
प्रजापतिस्तन्वं मे जुषस्व त्वष्टा देवैः सहमान इन्द्रः ।
विश्वेदेवैरृतुभिः सं विदानः पुंसां बहूनां मातरौ स्याव ॥
अहं गर्भ मदधामोषधीष्वहं विश्वेषु भुवनेष्वन्तः ।
अहं प्रजा अजनयं पृथिव्या हं जनिभ्यो अपरीषु पुत्रान् ॥
इति स्त्र्यादिव्यत्यासं जपति ॥ १,१४.१६ ॥
करदिति भसहमभिभृशति ॥ १,१४.१७ ॥
जननीत्युपजननमम् ॥ १,१४.१८ ॥
बृहदिति जातं प्रतिष्ठितम् ॥ १,१४.१९ ॥
एतेन धर्मेण ऋतावृतौ संनिपातयेत् ॥ १,१४.२० ॥
इति चतुर्दशः खण्डः ॥१४॥
पञ्चदशः खण्डः
तृतीये गर्भमासे अरणी आहृत्य षष्ठेऽष्ठमे वा जयप्रभृतिभिर्हुत्वा पश्चादग्नेर्दर्भेष्वासीनीयाः पत्न्याः सर्वान् प्रमुच्य केशान्नवनीतेनाभ्यज्य
त्रिश्येनया शलल्या शमीशाखया च स पलाशया पुनः पत्नीमग्निरदादिति सीमन्तं करोति ॥ १,१५.१ ॥
इति पञ्चदशः खण्डः ॥१५॥
षोडशः खण्डः
अष्ठमे गर्भमासे जयप्रभृतिभिर्हुर्वा फलैः स्नापसित्वा या ओषधय इत्यनुवाकेनाहतेन वाससा प्रच्छाद्य गन्धपुष्पैरलंकृत्य फलानि कण्ठे वै संसृज्याग्निं प्रदक्षिणं कुर्यात् ॥ १,१६.१ ॥
प्रजां मे नर्यपाहीति मन्त्रेणोपस्थानं कृत्वा गुणवतो ब्राह्मणान् भोजयेत् ॥ १,१६.२ ॥
फलानि दक्षिणा दद्यात् ॥ १,१६.३ ॥
ततः स्वस्त्ययनंच ॥ १,१६.४ ॥
यो गुरुस्तमर्हयेत् ॥ १,१६.५ ॥
इति षोडशः खण्डः ॥१६॥
सप्तदशः खण्डः
पुत्रे जाते वरं ददाति ॥ १,१७.१ ॥
अरणिभ्यामग्निं मथित्वा तस्मिन्नायुष्यहोमाञ्दुहुयात् ॥ १,१७.२ ॥
अग्नेरायुरसीत्यनुवाकेन प्रत्यृचं प्रतिपर्यायमेकविंशतिमाज्याहुतीर्जुहोति ॥ १,१७.३ ॥
आज्यशेषे दधिमध्वपो हिरण्यशकलेनोपहत्य त्रिः प्राशापयति ॥ १,१७.४ ॥
अश्मा भव परशुर्भव हिरण्यमस्तृतं भव
वेदो वै पुत्रनामासि सजीव शरदः शतम् ॥
इति प्रादेशेनाध्यधि प्रतिमुखं प्रदक्षिणं सर्वतोऽभ्युद्धिशति ॥ १,१७.५ ॥
पलाशस्य मध्यपर्णं प्रवेष्ट्य तेनास्य कर्णयोर्जपेत्
भूस्ते ददामीति दक्षिणे भुवस्तेददामीति सव्ये स्वस्ते ददामीति दक्षिणे भूर्भुवः स्वस्ते ददामीति सव्ये ॥ १,१७.६ ॥
इषं पिन्वोर्जं पिन्वेति स्तनौ प्रधापयेत् ॥ १,१७.७ ॥
इति सप्तदशः खण्डः ॥१७॥
NB : Read or daughter
अष्टादशः खण्डः
दशम्यां रात्र्यां पुत्रस्य नाम दध्याद्घोषवदाद्यन्तरन्तस्थं द्वयक्षरं चतुरक्षरंवा त्र्यक्षरं दान्तं कुमारीणाम् ॥ १,१८.१ ॥
तेनाभिवादयितुं त्यत्का पितुर्नामधेयं यशस्यं नामधेयं देवताश्रयं नक्षत्राश्रयं देवतायाश्च प्रत्यक्षं प्रतिषिद्धम् ॥ १,१८.२ ॥
स्नात्वा सहपुत्रोऽभ्युपैति ॥ १,१८.३ ॥
अथैनमभिभृशतिऽअग्नेष्ट्वा तेजसा सूर्यस्य वर्चसा विश्वेषां त्वा देवानां क्रतुनाभिभृशामीति प्रक्षालितपाणिर्नवनीतेनाभ्याज्याग्नौ प्रताप्य ब्राह्मणाय प्रोच्यभिभृसेदिति श्रुतिः ॥ १,१८.४ ॥
वरं कर्त्रे ददाति ॥ १,१८.५ ॥
अङ्गादङ्गात्संभवसि हृदयादधिजायसे
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥
इति प्रवासादेत्य पुत्रस्य मूर्द्धनि जपेत् ॥ १,१८.६ ॥
न मधुमांसे प्राश्नीयादापशुबन्धात् ॥ १,१८.७ ॥
संवत्सरे चाजाविभ्यामग्निधन्वन्तरी यजेत् ॥ १,१८.८ ॥
इति अष्टादशः खण्डः ॥१८॥
एकोनविंशः खण्डः
अथादित्यदर्शनम् ॥ १,१९.१ ॥
चतुर्थे मासि पयसि स्तालीपाकं श्रपयित्वा तस्य जुहोति ॥ १,१९.२ ॥
आदित्यः शुक्र
उदगात्पुरस्ताद्धं सः शुचिषद्यदेदेनमिति सूर्यस्य जुहोति ॥ १,१९.३ ॥
उदुत्यं जातवेदसमित्येतयोपस्थायादित्याभिमुखं दर्शयेत्
ऽनमस्ते अस्तु भगवान् शतरश्मे तमोनुद ।
जहि मे देवदौर्भाग्यं सौभाग्येन मां संयोजयस्वऽ ।
इति ॥ १,१९.४ ॥
अथ ब्राह्मण तर्पणम् ॥ १,१९. ५ ॥
ऋषभो दक्षिणा ॥ १,१९.६ ॥
इत्यूनविंशः खण्डः ॥१९॥
विंशतितमः खण्डः
अथान्नप्राशनम् ॥ १,२०.१ ॥
पञ्चमे षष्ठे वा मासि पयसि स्थालीपाकं श्रपयित्वा स्नातमलङ्कृतमहतेन वाससा प्रच्छाद्यान्नपतेऽन्नस्य नो देहीति हुत्वा हिरण्येन प्राशयेदन्नात्परिस्रुत इत्यृचा ॥ १,२०.२ ॥
रत्नसुवर्णोपस्करणायुधानि दर्शयेत् ॥ १,२०.३ ॥
यदीच्छेत्तदुपसंगृह्णीयात् ॥ १,२०.४ ॥
ततो ब्राह्मण भोजनम् ॥ १,२०.५ ॥
वासो दक्षिणा ॥ १,२०.६ ॥
इति विंशः खण्डः ॥२०॥
एकविंशतितमः खण्डः
तृतीयस्य वर्षस्य भूयिष्टे गते चूडाः कारयेत् ॥
उदगयने ज्यौत्स्ने पुण्ये नक्षत्रेऽन्यत्र नवाभ्याम् ॥ १,२१.१ ॥
जयप्रभृतिर्हुत्वा
ऽउष्णेन वायुरुदकेनेद्यजमानस्यायुषा
सविता वरुणोदधद्यजमानाय दाशुषेऽ
इत्युष्णा अपोऽभिमन्त्रयते ॥ १,२१.२ ॥
अदितिः केशान्वपत्वाय उदन्तु जीवसे
धारयतु प्रजापतिः पुनः पुनः स्वस्तयेऽ ॥
इत्यभ्युन्दति ॥ १,२१.३ ॥
ओषधे त्रायस्वैनामिति दक्षिणास्मिन्केशान्ते दर्भमन्तर्दधाति ॥ १,२१.४ ॥
स्वधिते मैनंहिसीरिति क्षुरणाभिनिदधाति ॥ १,२१.५ ॥
येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य केशान् ।
तेन ब्राह्मणो वपत्वायुष्मानयं जरदष्ठिरस्तु ॥
येन पूषा बृहस्पतेरिन्द्रियस्य चायुषेऽवपत् ।
तेन ते वपाम्यायुषे दीर्धायुत्वाय जीवसे ॥
येन भूयश्चरत्ययं ज्योक्च पश्यति सूर्यः ।
तेन ते वपाम्यायुषे सुश्लोक्याय स्वस्तये ॥
इति तिसृभिस्त्रिः प्रवपति ॥ १,२१.६ ॥
यत्क्षुरेण वर्तयता सुतेजसा वप्तर्वपसि केशान् ।
शुन्धि शिरो मास्यायुः प्रमोर्षीः ॥
इति लौहायसं क्षुरं केशावापाय प्रयच्छति ॥ १,२१.७ ॥
मा ते केशाननुगाद्वर्च एतत्तथा धाता दधातु ते ।
तुभ्यमिन्द्रो वरुणो बृहस्पतिः सविता वर्चा आदधुः ॥
इति प्रवपतोऽनुमन्त्रयते ॥ १,२१.८ ॥
सुहृत्परिग्राहं हरितगोशकृत्पिण्डे समवचिनोति ॥ १,२१.९ ॥
उप्त्वाय केशान्वरुणास्य राज्ञो बृहस्पतिः सविता विष्णुरग्निः ।
तेभ्यो निधानं महतं न विदन्नन्तरा द्यावापृथिव्योरपस्युः ॥
इति प्रागुदीचो ह्रियमाणाननुमन्त्रयते ॥ १,२१.१० ॥
अरिक्ते पत्न्या श्लेषयेदिति श्रुतिः ॥ १,२१.११ ॥
वरं कर्त्रे ददाति पक्ष्मगुडं तिलपिश्लं च केशवापाय ॥ १,२१.१२ ॥
एतेन तु कल्पेन षोडशे वर्षे गोदानमग्निं वाध्येष्यमाणस्याग्निर्गोदानिको मैत्रायणिरिति श्रुतिः ॥ १,२१.१३ ॥
अदितिः श्मश्रुः वपत्वित्यूदेन श्मश्रुप्रवपति शुन्धि मुखमिति च ॥
इत्येकविंशः खण्डः ॥२१॥
द्वाविंशः खण्डः
सप्तमे नवमे वोपायनम् ॥ १,२२.१ ॥
आगन्त्रा समगन्महि प्रथममर्तिं युयोतु नः ।
अरिष्टाः संचरेमहि स्वस्ति चरता दिशः ।
स्वस्त्यागृहेभ्यः ॥
इत्युप्तकेशेन स्नातेनाक्तेनाभ्यक्तेनालंकृतेन यज्ञोपवीतिना समेत्य जपति ॥ १,२२.२ ॥
अथास्मै वासः प्रयच्छति
या अकृन्तन्या अतन्वन्या आवन्या अवाहरन्
याश्चाग्न्या देव्योऽन्तानभितोऽभितोऽततनन्त
तास्त्वा देव्यो जरसे संव्ययन्त्वायुष्मन्निदं परिधत्स्व वासः ॥
इत्यहतं वासःपरिधाप्यान्वारभ्याधारावाज्यभागौ हुत्वायशेषे दध्यानीय दधिक्राव्णो अकारिषमिति दधि त्रिः प्राश्नाति ॥ १,२२.३ ॥
को नामासीत्याह ॥ १,२२.४ ॥
नामधेये प्रोक्तेऽऽदेवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां हस्तं गृह्णाम्यसाविति हस्तं गृह्णन्नाम गृह्णाति प्राङ्मुखस्य प्रत्यङ्मुख ऊर्ध्वस्तिष्ठन्नासीनस्य दक्षिणमुत्तानं दक्षिणेन नीचारीक्तमरिक्तेन सविता ते हस्तमग्रहीदासावग्निराचार्यस्तव देवसवितरेषते ब्रह्मचारी त्वं गोपाय समावृतत् ।
कस्य ब्रह्मचार्यसि ।
प्राणस्य ब्रह्मचार्यसि ।
कस्त्वा कमुपनयते ।
काय त्वा परिददामि ।
कस्मै त्वा परिददामि ।
तस्मै त्वा परिददामि ।
भगाय त्वा परिददाम्यर्यम्णे त्वा परिददामि सवित्रे त्वा परिददामि सरस्वत्यै त्वा परिददामीन्द्राग्निभ्यां त्वा परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामिसर्वेभ्यस्त्वा देवेभ्यः परिददामीति परिददाति ॥ १,२२.५ ॥
ब्रह्मणोग्रन्थिरसि स ते मा विस्रसदिति हृदयदेशमारभ्य जपति ।
प्राणानांग्रन्थिरसीति प्राणदेशम् ॥ १,२२.६ ॥
ऋतस्य गोप्त्री तपसस्तरुत्री घ्नती रक्षः सहमाना अरातीः
सानःसमगन्तमभिपर्य्येहि भद्रे धर्त्तारस्ते सुभगे मेखले मारिषाम ॥
इति मौञ्जीं पृथिवीं त्रिगुणां मेखलामादत्ते ॥ १,२२.७ ॥
युवासुवासा इति मेखलां प्रदक्षिणं त्रिः परिव्ययति ॥ १,२२.८ ॥
पुंस स्त्रीन्ग्रन्थीन्बध्नाति ॥ १,२२.९ ॥
इयं दुरुक्तात्परिबाधमाना वर्णं पुराणं पुनतीम आगात्
प्राणापानाभ्यां बलमाभजन्ती शिवादेवी सुभगे मेखले मारिषाम ।
इति तस्यां परिवीतायां जपति
मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं ते अस्तु
मम वाचमेकव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यम् ॥
इति ॥ १,२२.१० ॥
यज्ञियस्य वृक्षस्य दण्डं प्रदाय कृष्णाजिनं चादित्यमुपस्थापयति
अध्वनामध्वपते श्रैष्ठ्यस्य स्वस्त्यस्याध्वनः पारमशीय ।
तच्चक्षुर्देवहितं पुरस्ताच्छुक्रमुच्चरत् ॥
पश्येम शरदः शतं जीवेम शरदः शतम् ।
शृणुयाम शरदः शतं प्रब्रवाम शरदः शतम् ।
अदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥
या मेधाप्सरःसु गन्धर्वेषु च यन्मनः ।
दैवी या मानुषी मेधा सा मामाविशतामिहैव ॥
इति ॥ १,२२.११ ॥
अभिदक्षिणमानीयाग्नेः पश्चात्
एह्यश्मानमातिष्ठाश्मेव त्वं स्थिरो भव ।
कृण्वन्तु विश्वे देवा आयुष्टे शरदः शतम् ॥
इति दक्षिणेन पादेनाश्मानमास्थापयति ॥ १,२२.१२ ॥
पश्चादग्नेर्महदुपस्तीर्य सूपस्थलं कृत्वा प्राङासीनः प्रत्यङ्ङासीनायानुवाचयति गायत्रीं सावित्रिमपि ह्येके त्रिष्टुभमपि ह्येके जगतीमोमित्यपत्का व्याहृतिभिश्च ॥ १,२२.१३ ॥
तां त्रिरवगृह्णीयात्तां द्विरवकृत्य तांसकृत्समस्येत्पादशोर्ऽधर्चशः सर्वामन्तेन ॥ १,२२.१४ ॥
यत्तिसृणां प्रातरन्वाह यद्द्वयोर्यदेकस्याः सं वत्सरे द्वादशाहे षडहे त्र्यहे वा तस्मात्सद्योऽनूच्येति श्रुतिः ॥ १,२२.१५ ॥
वरं कर्त्रे ददाति कांस्यं वसनं च ॥ १,२२.१६ ॥
यस्य तु मेधाकामः स्यात्पलाशं नवनीतेनाभ्याज्य तस्य च्छायायां वाचयेत्सुश्रवः सुश्रवा असि ।
यथा त्वं सुश्रवःसुश्रवा असि एवं मां सुश्रवः सौश्रवं कुरु ॥
यथा त्वं देवानां निधिपो असि
एवमहं मनुष्याणां वेदानां निधिपो भूयासम् ॥
इति ॥ १,२२.१७ ॥
अतेह वा अयमेषां वेदानामेकं द्वौ त्रीन् सर्वान्वेति यमेवंविद्वांसमुपनयतीति श्रुतिः ॥ १,२२.१८ ॥
व्याख्यातं ब्रह्मचर्यम् ॥ १,२२.१९ ॥
अथ भैक्षं चरते मातरमेवाग्रे याश्चान्याः सुहृदो यावत्यो वा सन्निहिताः स्युः ॥ १,२२.२० ॥
आचार्याय भैक्षमुपकल्पयते तेनानुज्ञाते भुञ्जीतेति श्रुतिः ॥ १,२२.२१ ॥
इति द्वाविंशः खण्डः ॥
त्रयोविंशः खण्डः
अथ दीक्षा चातुर्हैतुकी संवत्सरम् ॥ १,२३.१ ॥
चतुर्होतॄन्स्वकर्मणो जुहुयात्सह षड्ढोत्रा सप्तहोतारम् ॥ १,२३.२ ॥
अन्ततो व्रतं प्रदायादितो द्वावनुवाकावनुवाचयेत् ॥ १,२३.३ ॥
एवमेवोद्दीक्षां जुहुयात् ॥ १,२३.४ ॥
अथ दीक्षाग्निकीद्वादशरात्रम् ॥ १,२३. ५ ॥
युञ्जानः प्रथमं मन इतियष्टौ हुत्वाकूतमग्निं प्रयुञ्जं स्वाहेति षड्जुहोति विश्वोदेवस्य नेतुरिति सप्तमीम् ॥ १,२३.६ ॥
व्रतं प्रदायादितोषष्टावनुवाकाननुवाचयेत् ॥ १,२३.७ ॥
त्रिषवणमुदकमाहरेत्त्रिंस्त्रीन्कुम्भान् ॥ १,२३.८ ॥
एकेन वाससान्तर्हितायां भूमौ शयीत भस्मनि करीषे सिकतासु वा ॥ १,२३.९ ॥
नोदकमभ्यवेयात् ॥ १,२३.१० ॥
समाप्ते घृतवतापूपेनेष्ट्वा वात्सं प्रावचयेत् ॥ १,२३.११ ॥
ततो घृतवद्भिरपूपैर्ब्राह्मणान् भोजयेत् ॥ १,२३.१२ ॥
एवमेवोद्दीक्षां जुहुयात् ॥ १,२३.१३ ॥
अथ दीक्षाश्वमेधिकी ह्वाहशरात्रम् ॥ १,२३.१४ ॥
वैतसमिध्ममुपसमाधाय नवमेनानुवाकेन हुत्वा षष्ठेनोपस्थाप्य व्रतं प्रदायादित एकविंशत्यनुवाकाननुवाचयेत् ॥ १,२३.१५ ॥
त्रिषवणमश्वस्यघासमाहरेत्त्रीं स्त्रीन्पुलान् ॥ १,२३.१६ ॥
एकेन वाससानन्तर्हितायां भूमौ शयीत भस्मनि करीषे सिकतासु वा ॥ १,२३.१७ ॥
या ओषधयःसमान्यायन्ति पुनन्तु मा पितरोऽग्नेर्मन्वा इति चतुर्भिरनुवाकैरपोभिमन्त्र्य स्नानमाचरेत् ॥ १,२३.१८ ॥
एवमेवोद्दीक्षां जुहुयात् ॥ १,२३.१९ ॥
शादं दद्भिरिति चतुर्दशानुवाकाननुवाचयेत् ॥ १,२३.२० ॥
रहस्यमध्येष्यमाणः प्रवर्ग्यम् ॥ १,२३.२१ ॥
आदेशे यथा पुरस्ताद्व्याख्यातम् ॥ १,२३.२२ ॥
आदितः पञ्चविंशत्यनुवाकाननुवाचयेत् ॥ १,२३.२३ ॥
त्रैविद्यसमुपनयनेन व्याख्यातम् ॥ १,२३.२४ ॥
आदितस्त्रीननुवाकाननुवाचयेत् ॥ १,२३.२५ ॥
व्याख्यातानि व्रतानि व्याख्यातानि व्रतानि ॥ १,२३.२६ ॥
उदुत्तमं वरुणपाशमिति मेखलामुन्मुञ्चति ॥ १,२३.२७ ॥
इति मैत्रायणीयमानवगृह्ये त्रयोविंशः खण्डः प्रथमः पुरुषः समाप्तः ॥![]()
(सप्तमे नवमे वोपायनम् ॥१॥
आगन्त्रा समगन्मही प्रथममर्त्तिं युयोतु नः ।
अरिष्टाः संचेरमहि स्वस्ति चरतादिशः ।
स्वस्त्याग्रहेभ्यः ॥
इत्युप्तकेशेन स्नातेनाक्तेनाभ्यक्तेनालंकृतेन यज्ञोपवीतिनासमेत्य जपति ॥ १२२२) (अथास्मैवासः प्रयच्छति
या अकृन्तन्या अतन्वन्या आवन्या अवाहरन् ।
याश्च ग्ना देव्योऽन्तानभितोऽततनन्त ॥
तास्वा देव्यो जरमे सं व्ययन्त्वायुष्मानिदं परिधत्स्व वासः ॥
इत्यहतं वासः ॥)॥
(पु. १२२ ६७८९)
(इयं दुरुक्तात्परिबाधमाना वर्णं पुराणं पुनतीम आगात् ।
प्राणापानाभ्यां बलमाभजन्ती शिवा देवी सुभगे मेखले मारिषाम ॥
इति तस्यां परिवीतायां जपति
मम व्रते ते हृदयं दधातु मम चित्तमनुचित्तं ते अस्तु
मम वाचमेककव्रतो जुषस्व बृहस्पतिष्ट्वा नियुनक्तु मह्यम् ॥
इति ॥१०॥
यज्ञियस्य वृक्षस्य दण्डं प्रदाय कृष्णाजिनं चादित्यमुपस्थापयति
अध्वानमध्वपते श्रैष्ठ्यस्य स्वस्तस्याध्वनः पारमशीय ।
तच्चक्षुर्देवहितं पुरस्तच्चुक्रमुच्चरत् ॥
शृणुयाम शरदः शतं जीवेम शरदः शतम् ।
अदीनाः स्याम शरदः शतं भूयश्च शरदः शतात् ॥
या मेधाप्सरःसु गन्धर्वेषु च यन्मनः ।
दैवी या मानुषी मेधा सा मामाविशतामिहैव ॥
इति ॥११॥
अभिदक्षिणमानीयाग्नेः पश्चात्
एह्यश्मानमातिष्ठाश्मेव त्वं स्थिरो भव ।
कृण्वन्तु विश्वे देवा आयुष्चे शरदः शतम् ॥
(इति दक्षिणेन पादेनाश्मानमास्थापयति ॥१२॥
पश्चादग्नेर्महदुपस्तीर्य सूपस्थलं कृत्वा प्राङासीनः प्रत्यङ्ङासीनायानुवाचयति गायत्रीं सावित्रीमपि ह्येके त्रिष्टुभमपि ह्येके जगतीमोमित्युत्त्का व्याहृतिभिश्च ॥१३॥
तां त्रिरवगृङ्णीयात्तां द्विरवकृत्य तां सकृत्समस्येत्पादशोर्ऽधर्चशः सर्वामन्तेन ॥१४॥
यत्तिसृणां प्रातरन्वाह यत्द्वयोर्यदेकस्याः संवत्सरे द्वादशाहे षडहे त्र्यहे (वा तस्मात्सद्योऽनूच्यति श्रुतिः ॥१५॥
वरं कर्त्रे ददाति कांस्यं वसनं च ॥१६॥
यस्य तु मेधाकामः स्यात्पलाशं नवनीतेनाभ्यज्य तस्य छायायांवाचयेत् ।
सुश्रवः सुश्रवा असि
यथा त्वंसुश्रवः सुश्रवा असि एवं मां सुश्रवः सौश्रवसं कुरु ॥
यथा त्वं देवानां वेदानां निधिपो असि ।
एवमहं मनुष्याणां वेदानां निधिपो भूयासमिति ॥१७॥
(अधीतेह वा अयमेषां वेदानामेकं द्वौ त्रीन् सर्वान्वेति यमेनं विद्वांसमुपनयतीति श्रुतिः ॥१८॥
व्याख्यातं ब्रह्मचर्यम् ॥१९॥
अथ भैक्षं चरते मातरमेवाग्रे याश्चान्याः सुहृदो यावत्यो वा सन्निहिताः स्युः ॥२०॥
आचार्याय भैक्षमुपकल्पयते तेनानुज्ञातो वा भुञ्जीतेति श्रुतिः ॥२१॥
द्वितीयः पुरुषः ।
औद्वाहिकं प्रेतपिता शालाग्निंकुर्वीत ॥ २,१.१ ॥
अन्यत्र ततः प्रेते पितरि प्रज्वलन्तोऽग्निं जागरयेयुः पर्वणि ज्यैत्स्ने पुण्ये नक्षत्रेऽन्यत्र नवम्याः ॥ २,१.२ ॥
स्नातः शुचिरहतवासाः ॥ २,१.३ ॥
वाग्यतावरणिपामि जागृतः ॥ २,१.४ ॥
अवकाशेऽक्षतान्यवान्पिष्ट्वा मन्थमायौत्यनालम्बमिक्षुशलाकया बहुलम् ॥ २,१.५ ॥
हिरण्यपाणिं सवितारं वायुमिन्द्रं प्रजापतिम् ।
विश्वान्देवानङ्गिरसो हवामहे
अमुं क्रव्यादं शमयन्त्वग्निम् ॥
इति मन्थेनाग्निमवसिञ्चति ॥ २,१.६ ॥
सोमो राजा विभजतूभाग्निर्व्विभाजयन् ।
इहैवास्तु हव्यवाहनोऽग्निः क्रव्यादं नुदस्व ॥
इति कटे कृतायां वाग्निंसमारोप्य प्रहिणोति ॥ २,१.७ ॥
क्रव्यादमग्निं प्रहिणोमि दूरं यमराज्यं गच्छतु रिप्रवाहः ।
इहैवायमितरो जातवेदा देवेभ्यो हव्या वहतु प्रजानन् ॥
इत्यग्निमादाय दक्षिणा प्रत्यघरन्ति ॥ २,१.८ ॥
सहाधिकरणैर्यन्ति ॥ २,१.९ ॥
स्वकृत इरिणे
सीसे मलिम्लुचामहे शिरोमिमुपबर्हणे ।
अव्यामसितायामृष्ट्वास्तं प्रेतसुदानवः ॥
इति सीसमुपधान्येन्यस्याध्यधि ॥ २,१.१० ॥
धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मार्जयन्ते ॥ २,१.११ ॥
अनपेक्षमाणाः प्रत्यायन्ति ॥ २,१.१२ ॥
नलैर्वेतसशाखया वा पदानि लोपयन्ते
मृत्योः पदानि लोपयन्ते यदेतद्द्राघीर्य आयुः प्रतिरं दधानः ।
आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवन्तु यज्ञियासः ॥ २,१.१३ ॥
अनड्वाहं प्लवमन्वारभध्वं येनावेपत्सरमा रपन्ती ॥
इति ॥ २,१.१४ ॥
अग्न्यायतनमुद्धत्यावोक्ष्याग्न्याधेयिक्यान्पार्थिवान्संभारान्निर्वपत्यूषसिकतवर्जम् ॥ २,१.१५ ॥
अरणिभ्यामग्निं मथित्वा हिरण्यशकलं च न्युप्य प्रागुदयादुपस्थकृतो भूरिति ज्वलन्तमादधाति ॥ २,१.१६ ॥
गौर्वासः कांस्यं च दक्षिणा ॥ २,१.१७ ॥
इति द्वितीयपुरुषे प्रथमः खण्डः ॥१॥
द्वितीयः खण्डः
प्रागुदञ्चं लक्षणमुद्धत्यावोक्ष्य स्थण्डिलं गोमयेनोपलिप्यमण्डलं चतुरस्रंवाग्निं निर्मथ्याभिमुखं प्रणयेत् ॥ २,२.१ ॥
दर्भाणां पवित्रे मन्त्रवदुत्पाद्याग्नेयं स्थालीपाकं श्रपयति ॥ २,२.२ ॥
पवित्रान्तर्हितेऽप आनीय तण्डुलानोप्य मेक्षणेन प्रदक्षिणं पर्यायुवञ्जीव तण्डुलं श्रपयति ॥ २,२.३ ॥
घृतेनानुत्पूतेन नवनीतेन वोत्पूतेन शृतमभिधार्योत्तरत उद्वासयति ॥ २,२.४ ॥
इमं स्तोममर्हत इत्यग्निं परिसमुह्य पर्युक्ष्य परिस्तीर्य पश्चादग्नेरेकवद्दर्हिस्तृणाति ॥ २,२.५ ॥
उदक्प्राक्तूलान्दर्भान्प्रकृष्य दक्षिणां स्तथोत्तरानग्रेणाग्निं दक्षिणैरुत्तरानवस्तृणाति ॥ २,२.६ ॥
दक्षिणतोग्नेर्ब्राह्मणे संस्तृणात्यपरं यजमानाय पश्चार्द्धे पत्न्यै ॥ २,२.७ ॥
उत्तरतः संस्तीर्णे पवित्रे स्रुक्स्रुवावाज्यस्थालीं प्रक्षाल्य संस्तीर्णे द्वे द्वे प्रयुनक्ति ॥ २,२.८ ॥
तूष्णीं दक्षिणत आज्यं निरूप्य मन्त्रवत्पर्यग्निं कृत्वा तूष्णीं स्रुक्स्रुवौ संमृज्यादब्धेन त्वा चक्षुषावेक्ष इति पत्न्याज्यामवेक्षते ॥ २,२.९ ॥
तूष्णीमधिश्रित्योपाधिश्रित्य पश्चादग्नेरुपसाद्य मन्त्रवदुत्पूयावेक्षते ॥ २,२.१० ॥
तेजोसीत्याज्यं यजमानोऽवेक्षते ॥ २,२.११ ॥
आज्यस्थाल्यां स्रुवं निधायाग्रेण स्थालीपाकमन्वायातयत्यपरेण मेक्षणम् ॥ २,२.१२ ॥
तूष्णीं प्राञ्चमिध्ममुपसमाधाय ब्रह्माणमामन्त्र्य ओं जुहुधीत्युक्ते दक्षिणेन हस्तेनान्तरेण जानुनी प्राङासीन आधारौ जुहोति प्राजापत्यमुत्तरार्धे प्राञ्चं मनसा ऐन्द्रं दक्षिणार्द्धे प्राञ्चमेव ॥ २,२.१३ ॥
अथाज्यभागौ जुहोत्याग्नेयमुत्तरार्द्धे सौम्यं दक्षिणार्द्धे समावनक्ष्णौ ॥ २,२.१४ ॥
युक्तो वह यदाकूतमिति द्वाभ्यामग्निं योजयित्वा नक्षत्रमिष्ट्वा नक्षत्रदेवतां यजेत्तिथिं तिथिदेवतामृतमृतुदेवतां च ॥ २,२.१५ ॥
उपस्तीर्याप उपस्पृश्य मेक्षणेन स्थालीपाकस्यावद्यति मध्यात्पूर्वार्द्धाद्द्वितीयं पश्चार्द्धात्तृतीयं यदि पञ्चावदानस्य ॥ २,२.१६ ॥
अवत्तमभिधार्य स्थालीपाकं प्रत्यभिधारयति ॥ २,२.२७ ॥
अग्नये स्वाहेति मध्ये जुहोति ॥ २,२.१८ ॥
यो देवानामसीति रौद्रस्य ॥ २,२.१९ ॥
जयान्हुत्वाजायस्य स्विष्टकृते समवद्यत्युत्तरार्द्धात्सकृद्द्विमात्रम् ।
द्विर्वा यदि पञ्चावदानस्य ॥ २,२.२० ॥
अवत्तं द्विरभिधार्य नात उर्ध्वंस्थालीपाकं प्रत्यभिधारयति ॥ २,२.२१ ॥
अग्नये स्विष्टकृते स्वाहेत्यसंसक्तमुत्तरार्द्धपूर्वार्द्धे जुहोति ॥ २,२.२२ ॥
मेक्षणं दर्भांश्चाधायानुमतिभ्यांव्याहृतिभिश्च त्वं नो अग्ने, स त्वं नो अग्ने
अयाश्चाग्नेऽसीत्येताभिर्जुहुयात् ॥ २,२.२३ ॥
वि ते मुञ्चामि रशनां वि रश्मीनीति च दुत्वा पवित्रेऽनु प्रहृत्याज्येनाभिजुहोति ॥ २,२.२४ ॥
एधोऽस्येधीषीमहीति समिधमादधाति समिदसि समेधिषीमहीति द्वितीयाम् ॥ २,२.२५ ॥
अपो अद्यान्वचारिषमित्युपतिष्ठते ॥ २,२.२६ ॥
आपोहिष्ठीयाभिर्मार्जयेत् ॥ २,२.२७ ॥
पूर्णपात्रं दक्षिणा ॥ २,२.२८ ॥
बर्हिनुप्रहरति ॥ २,२.२९ ॥
एतेन स्थालीपाकेन स्थालीपाकाः सर्वे व्याख्याताः ॥ २,२.३० ॥
इति द्वितीयपुरुषे द्वितीयः खण्डः ॥२॥
तृतीयः खण्डः
अग्नये स्वाहेति सायं जुहोति प्रजापतय इति द्वितीयाम् ॥ २,३.१ ॥
सूर्याय स्वाहेति प्रातः प्रजापतय इति द्वितीयाम् ॥ २,३.२ ॥
अग्नीषोमीयः स्थालीपाकः पौर्णमास्यामैन्द्राग्नोऽमावास्यायामुभयत्र चाग्नेयः आगन्तुः पूर्वः पौर्णमास्यामुत्तरोमावास्यायाम् ॥ २,३.३ ॥
आश्वयुज्यां पौर्णमास्यां प्रतर्नित्येषु स्थालीपाकेषु स्थालीपाकमन्वायातयति ॥ २,३.४ ॥
तस्याग्निंरुद्रं पशुपतिमीशानं त्र्यम्बकं शरदं प्रषातकं गा इति यजति ॥ २,३.५ ॥
दधिघृतमिश्रः प्रषातकस्तस्या नो मित्रावरुणा प्रवाहवेति च हुत्वाम्भः स्थाम्भो वो भक्षीयेति गाः प्राशापयति ॥ २,३.६ ॥
अवसृष्टाश्च वसेयुः ॥ २,३.७ ॥
ब्राह्मणान् घृतवभ्दोजयेत् ॥ २,३.८ ॥
नानिष्ट्वाग्रयणेन नवस्याश्नीयात् ॥ २,३.९ ॥
पर्वण्याग्रयणं कुर्वीत वसन्ते यवानां शरदि व्रीहीणाम् ॥ २,३.१० ॥
अग्रपाकस्य पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति सजूर्द्यावापृथिवीभ्यां स्वाहा सजूः सोमाय स्वाहेति ॥ २,३.११ ॥
शरदि सोमाय श्यामाकानां वसन्तेवेणुयवानामुभयत्र वाज्येन ॥ २,३.१२ ॥
वत्सः प्रथमजो दक्षिणा ॥ २,३.१३ ॥
ब्राह्मण एव हविः शेषं भुज्जीतेति श्रुतिः ॥ २,३.१४ ॥
इति द्वितीयपुरुषे तृतीयः खण्डः ॥३॥
चतुर्थः खण्डः
पशुना यक्ष्यमाणः पाकयज्ञोपचाराग्निमुपचरति ॥ २,४.१ ॥
पशुबन्धवत्तूष्णीमावृद्देवताहोमवर्जम् ॥ २,४. २ ॥
प्रोक्ष्यानुमान्योपपाय्य पर्यग्निं कृत्वा शामित्रं प्रणीय वपाश्रपणीभ्यामुदञ्चं प्रक्रममाणमन्वारभन्ते ॥ २,४.३ ॥
संज्ञप्यमानमवेक्षते ॥ २,४.४ ॥
संज्ञप्तंस्नपयित्वा यथादैवतं वपामुत्कृत्य श्रपयित्वाऽधारावाज्यभागौ हुत्वाजातवेदो वपया गच्छ देवांस्त्वंहि होता प्रथमो बभूव ।
घृतस्याग्ने तन्वा संभव सत्याः सन्तु यजमानस्य कामाः स्वाहा ।
इति
वपां जुहोति ॥ २,४.५ ॥
स्वाहा स्वहेति परिवप्यौ ॥ २,४.६ ॥
स्थालीपाकमन्वायातयति समानदेवतं पशुना ॥ २,४.७ ॥
तध्धुतावाज्यभागौ ॥ २,४.८ ॥
अनिरुक्तः स्विष्टकृत् ॥ २,४.९ ॥
पाशुबन्धिकानामवदानानां रसस्यावदाय दैवतैः प्रचर्य वसाहोमशेषेण दिशः प्रतिजयति यथा वाजिनेन वनस्पतिमाज्यस्य ॥ २,४.१० ॥
जयान् हुत्वा त्र्यङ्गाणां स्विष्टकृते समवद्यति ॥ २,४.११ ॥
स्थालीपाकेन शेषो व्याख्यातः ॥ २,४.१२ ॥
पशोः पशुरेव दक्षिणा ॥ २,४.१३ ॥
इति द्वितीयपुरिषे चतुर्थः खण्डः ॥४॥
पञ्चमः खण्डः
रौद्रः शरदि शूलगवः ॥ २,५.१ ॥
प्रागुदीच्यां दिशि ग्रामस्या सकाशे निशि गवां मध्ये तष्टो यूपः ॥ २,५.२ ॥
प्राक्स्विष्टकृतोऽष्ठौ शोणितपुटान्नमस्ते रुद्रमन्यव इति प्रभृतिभिरष्टभिरनुवाकैर्दिक्ष्वन्तर्दिक्षु चोपहरेत् ॥ २,५.३ ॥
नाशृतं ग्राममाहरेत् ॥ २,५.४ ॥
शेषं भूमौ निखनेदपि चर्म ॥ २,५.५ ॥
अयूपानेके पाकयज्ञपशूनाहुः ॥ २,५.६ ॥
इति द्वितीयपुरुषे पञ्चमः खण्डः ॥५॥
![]()
षष्ठः खण्डः
अथातो ध्रुवाश्वकल्पं व्याख्यास्यामः ॥ २,६.१ ॥
आश्वयुज्यां पौर्णमास्याम् ॥ २,६.२ ॥
ऋत्विगव्यङ्गः स्नातः शुचिरहतवासाः ॥ २,६.३ ॥
प्रागस्तमयान्निष्क्रम्योत्तरतो ग्रामस्य पुरस्ताद्वा शुचौ देशेऽश्वत्थस्याधस्तान्न्यग्रोधस्य वापां वा समीपे वेद्यकृतिं कृत्वा तस्यां चतुष्कोणवनस्पतिशाखायामसक्तचीरायां गन्धस्रग्दामवत्यां चतुर्दिशं विन्यस्तोदकुम्मसहिरण्यबीजपिटिकायामपूपस्रस्तरलाजोल्लोपिकमङ्गलफलाक्षवत्यां सर्वगन्धसर्वरससर्वौषधीः सर्वरत्नानि चोपकल्प्य प्रतिसरदधिमधुमोदकस्वस्तिकनन्द्यावर्तवत्यामग्निं
प्रणीयाश्वत्थपलाशखदिररोहितकोदुम्बराणामन्यतमस्येध्ममुपससाधाय तिस्रः प्रधानदेवता यजत्युच्चैःश्रवसं वरुणं विष्णुमिति स्थालीपाकैः पशुभिश्चाश्विनौ चाश्वयुजौ चाज्यस्य ॥ २,६.४ ॥
जयान् हुत्वा या ओषधयः समन्न्यायन्ति पुनन्तु मा पितरोऽग्नेर्मन्व इति चतुर्भिरनुवाकौरपोऽभिमन्त्र्याश्वान्स्नपयति ॥ २,६.५ ॥
गन्धस्नग्दामभिरलंकृत्य प्रदक्षिणं देवयजनं त्रिः परियन्ति ॥ २,६.६ ॥
प्राहर्षं कारयन्ति ॥ २,६.७ ॥
इष्टे यथास्थानं व्रजन्ति ॥ २,६.८ ॥
गौरनड्वांश्च दक्षिणा ॥ २,६.९ ॥
इति द्वितीयपुरुषे षष्ठः खण्डः ॥६॥
सप्तमः खण्डः
आग्रहायण्यां पौर्णमास्यां पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति
अपः श्वेतपदाग्राहि पूर्वेण चापरेण च ।
सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धव्यः स्वाहा ॥
श्वेतो रुषत्यो विदधात्यश्वो दधद्गर्भं वृषः सत्वर्यां ज्योक् ।
समं जनाश्चक्रमयो वसानाः प्रोषादसाविरसि विश्वमेतत् ॥
शेताय रौषिश्वाय स्वाहा, न वै श्वेतस्याभ्याचारे अहिर्जघान किंचन ।
श्वेताय वैताहव्याय स्वाहा. ॥
अभयं नः प्राजापत्येभ्यो भूयात्स्वाहा ॥
इति ॥ २,७.१ ॥
स्रस्तरेऽहतं वास उदग्दशमास्तीर्योदकां व्रीहीन् यवान्वास्य परिषिञ्चति स्योना पृथिवी भवेति द्वाभ्यां सुत्रामाणमिति द्वाभ्याम् ॥ २,७.२ ॥
शमीशाखया च सपलाशयोदञ्च त्रिः समुन्मार्ष्टि स्योना पृथिवी भवेति द्वाभ्यां सूत्रमाणमिति द्वाभ्यां नमो अस्तु सर्पेभ्य इति तिसृभिश्च ॥ २,७.३ ॥
शाम्यन्तु सर्पाः स्वशया भवन्तु ये अन्तरिक्ष उत ये दिवि श्रिताः ।
इमां महीं प्रत्यवरोहेम ।
शिवामजस्रां शिवां शान्तां सुहेमन्तामुत्तरामुत्तरां समांक्रियासम् ॥
इति ज्येष्ठ प्रथमानुदीच आवेशयति ॥ २,७.४ ॥
उदीर्घं जीवो असुर्न आगादयः प्रागात्तम आज्योतिरेति ।
आरैकपन्थां यातवे सूर्यायागन्मा यत्न प्रतरं न आयुः ।
इति कनिष्ठप्रथमानुज्जिहते ॥ २,७.५ ॥
चैत्र्यामुद्ग्रोणम् ॥ २,७.६ ॥
न तत्र स्तालीपाको न शाखया समुन्मार्ष्टि ॥ २,७.७ ॥
अयं तल्पः प्रतरणो वसूनां विश्वार्त्विभ्य(?) तल्पो अस्मान् ।
ज्योग्जीवेम सर्ववीरा वयं तम ॥
इति तल्पमभिमन्त्र्यते ॥ २,७.८ ॥
त्राणि नाभ्यानि फाल्गुन्यामाषाढ्यां कार्तिक्याम् ॥ २,७.९ ॥
तासु नाधीयीत ॥ २,७.१० ॥
तासु पयसि स्थालीपाकः स व्याख्यातः ॥ २,७.११ ॥
इति द्वितीयपुरुषे सप्तमः खण्डः ॥७॥
अष्टमः खण्डः
तिस्रोऽष्टकाः ॥ २,८.१ ॥
ऊर्ध्वमाग्रहायण्याः प्राक्फाल्गुन्यास्तमिश्राणामष्टम्यः ॥ २,८.२ ॥
तासु नाधीयीत ॥ २,८.३ ॥
तासु पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति
या देव्यष्टकेष्वपसापस्तमास्तपा अवया असि ।
त्वं यज्ञे वरुणस्यावया असि तस्यै त एना विधेम ॥
उलूखला ग्रावाणो घोषमकुर्वत हविः कृण्वन्तः परिवत्सरीयम्
एकाष्टके सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृदो वयं ते ॥
यां जनाः प्रतिनन्दन्ति रात्रीं धेनुमिवायतीम् ।
संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥
संवत्सरस्य प्रतिमां ये त्वा रात्रीमुपासते ।
तेषामायुष्मतीं प्रजांरायस्पोषेण संसृजस्व ॥
इति चतस्रः स्थालीपाकस्य ॥ २,८.४ ॥
अष्ठकार्यै सुराधसे
स्वादेति सर्वत्रानुषजति ॥ २,८.५ ॥
हेमन्तो वसन्ते ग्रीष्मऋतवः शिवानः शिवानो वर्षा अभयाश्चिरं नः वैश्वानरोऽधिरतिः प्राणादो नो अहोरात्रे कृणुतां दीर्घमायुः ॥
शान्ता पृथिवी शिवमन्तरिक्षं द्यौर्नो देव्यभयं कृणोतु ।
शिवा दिशः प्रदिश आदिशो न आपो विद्युतः परिपान्त्वायुः ॥
आपो मरीचीः परिपान्तु विश्वतो धाता समुद्रो अभयं कृणोतु ।
भूतं भविष्यदुत भद्रमस्तु मे ब्रह्मभिगूर्त्तं स्वराक्षाणः ॥
कविरग्निरिन्द्रः सोमः सूर्यो वायुरस्तु मे अग्निर्वैश्वानरो अपहन्तु पापम् ।
बृहस्पतिः सविता शर्म यच्छतु श्रियं विराजं मयि पूषा दधातु ॥
इति पञचाज्यस्य ॥ २,८.६ ॥
जयान्हुत्वेडामग्न इति स्विष्टकृदिति ॥ २,८.७ ॥
एवं सर्वासु ॥ २,८.८ ॥
इति द्वितीयपुरुषेऽष्टमः खण्डः ॥८॥
नवमः खण्डः
उत्तमायाः प्रदोषे चतुष्पथेऽङ्गशो गां कारयेत् ॥ २,९.१ ॥
यो य आगच्छेत्तस्मै तस्मै दद्यात् ॥ २,९.२ ॥
श्वोऽन्यां कारयेत् ॥ २,९.३ ॥
तस्यावपां जुहुयात्
वह वपां जातवेदः पितृभ्यो यत्रैतान्वेत्थ निहितान्पराके मेदसो घृतस्य कुल्या अभिनिःस्रवन्तु सत्याः सन्तु यजमानस्य कामाः स्वाहा ।
इति ॥ २,९.४ ॥
अथास्या वक्षसा उदगोदनं श्रपयति ॥ २,९.५ ॥
तस्याष्टकाहोमकल्पेन शेषो व्याख्यातः ॥ २,९.६ ॥
अवशिष्टं भक्तं रन्धयति ॥ २,९.७ ॥
श्वोऽवशिष्टं भक्तं रन्धयित्वा पिण्डानामावृता त्रीन्मांसौदनपिण्डान्निदधाति ॥ २,९.८ ॥
श्राद्धमपरपक्षे पितृभ्यो दद्यात् ॥ २,९.९ ॥
अनुगुप्तमन्नं ब्राह्मणान् भोजयेन्नावेदविद्भुञ्जीतेति श्रुतिः ॥ २,९.१० ॥
यदि गवा पशुना वा कुर्वीत प्रोक्षणमुपपायनं पर्यग्निकरणमुल्मुकहरणं वपाहोममिति ॥ २,९.११ ॥
त्रैधं वपां जुहुयात्स्थालीपाकमवदानानि च ॥ २,९.१२ ॥
सोमाय पितृमते स्वधा नम इति
जुहोति यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम् ।
अग्नये काव्यवाहनाय स्वधा नम इति तृतीयाम् ॥ २,९.१३ ॥
एवं मासि मासि नियतं तन्त्रं पिण्डपितृयज्ञे ॥ २,९.१४ ॥
इति द्वितीये नवमः खण्डः ॥९॥
दशमः खण्डः
फाल्गुन्यां पौर्णमास्यां पुरस्ताद्धानापूपाभ्यां भगं चार्यमणंच यजेत् ॥ २,१०.१ ॥
इन्द्राण्या हविष्यान् पिष्ट्वा पिष्टानि समुत्पूय यावन्ति पशुजातानि तावतो मिथुनान् प्रतिरूपान् श्रपयित्वा कांस्येऽध्याज्यान्कृत्वा तेनैव रुद्राय स्वाहेति ।
ईशानायेत्येके ॥ २,१०.२ ॥
सायमपूपाभ्यां प्रचरत्यग्नीन्द्राभ्याम् ॥ २,१०.३ ॥
आग्नेयस्तुन्दिलो न तस्य स्त्रियः प्राश्नन्ति सर्वामात्या इतरस्य ॥ २,१०.४ ॥
स्थालीपाकेनेन्द्राणीं शवो वा ॥ २,१०.५ ॥
संघेष्वेकवद्बर्हिरग्निराधाराज्यभागाज्याहुतयः स्विष्टकृच्च ॥ २,१०.६ ॥
अग्निरिन्द्रः सोमः सीता सवितासरस्वत्यश्चिनानुमती रेवती राका पूषा रुद्र इत्येतैरायोजन पर्ययनप्रवपनप्रलवसीतायज्ञखलयज्ञतन्तीयज्ञानडुद्यज्ञेष्वेता देवता इति यजति सांवत्सरेषु च पर्वसु ॥ २,१०.७ ॥
नद्युदधिकूपतडागेषु वरुणंयजत्योषधिवनस्पतिषु सोममनादिष्टदेवतेष्वग्निम् ॥ २,१०.८ ॥
इति द्वितीये दशमः खण्डः ॥१०॥
एकादशः खण्डः
अवसानं समं समूलम् ॥ २,११.१ ॥
दक्षिणाप्रवणमन्नकामस्य मारुकास्तत्र प्रजा भवन्ति ॥ २,११.२ ॥
सर्वतः समवस्रावम् ॥ २,११.३ ॥
समवस्रुत्य वा यस्मात्प्रागुदीचीरापो निर्वहेयुस्तद्वा ॥ २,११.४ ॥
गर्तं खात्वा यत्तैः पांसुभिः प्रतिपूर्येत तद्वा ॥ २,११.५ ॥
यदि धारयिष्णूदकतरं स्यात् ॥ २,११.६ ॥
इदमहं विशमन्नाद्याय तेजसे ब्रह्मवर्चसाय परिगृह्णामीति वेश्म परिगृह्य गर्ते हिरण्य निधायाच्युताय ध्रुवाय भौमाय स्वाहेति जुहोति ॥ २,११.७ ॥
समीचीनामासीति पर्यायैरुपतिष्ठते प्रतिदिशं द्वाभ्यां मध्ये ॥ २,११.८ ॥
उदकांस्येऽश्मानं व्रीहीन्यवान्वस्य परिषिञ्चति स्योनापृथिवी भवेति द्वाभ्यां
सुत्रमाणामिति द्वाभ्याम् ॥ २,११.९ ॥
शमीशाखया च पलाशयोदञ्चं त्रिः समुन्मार्ष्टि स्योना प्रथिवि भवेति द्वाभ्यां सुत्रमाणमिति द्वाभ्यां नमो अस्तु सर्पेभ्य इति तिसृभिश्च ॥ २,११.१० ॥
इदं तत्सर्वतो भद्रमयमूर्जोऽयं रसः ।
प्राप्यैवं मानुषान्कामान्यदशीर्ष्णी तल्लप्स्यसि ॥
इति मध्यमां स्थूणामासिच्य गर्त आसिञ्चति ॥ २,११.११ ॥
इहैव तिष्ठ नितरा तिल्वला स्थिरावति ।
मध्ये पोषस्य पुष्पतामा त्वा परिसृतः कुम्भः ।
आ वत्से जगतो सह आ दध्नः कलशमैरयम् ॥
इति मध्यमां स्थूणामभि मन्त्र्यते ॥ २,११.१२ ॥
वसूनां त्वा वसुवीर्यस्याहोरात्रयोश्चेति गर्ते स्थूणामवदधाति ॥ २,११.१३ ॥
ऋतेऽवस्थूणा अधिरोह वंशो अग्ने विराजमुपसेधशक्रम् ॥
इति मध्यमं वं शमवददाति ॥ २,११.१४ ॥
तूष्णीं शिष्टाः स्थूणा वंशाश्च ॥ २,११.१५ ॥
प्राग्द्वारं दक्षिणाद्वारं वा मापयित्वा गृहानहं सुमनसः प्रपद्ये वीरं हीत्येतया प्रपद्यते यथा पुरस्ताद्व्याख्यातम् ॥ २,११.१६ ॥
प्रैतुराजा वरुणो रेवतीभिरस्मिन्स्थाने तिष्ठतु पुष्यमाणः ।
इरां वहन्ती घृतमुक्षमाणास्तेष्वहं सुमनाः सं वसाम ॥
इत्युत्तरपूर्वस्यां दिशि प्रतिपानमुदकुम्भमवस्थापयति ॥ २,११.१७ ॥
समुद्रं वः प्रहिणोमि स्वांयोनिमभिगच्छत
अरिष्टा अस्माकं वीरा मा परासेचि मत्पयः ।
इत्युदञ्चनम् ॥ २,११.१८ ॥
वास्तोष्पत्यं पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति ।
अमीवहा वास्तोष्पते वास्तोष्पत इत्येताभ्याम्
वास्तोष्पते प्रतरणो न अधि गयस्फानो गोभिरश्वेभिरिन्दो
अजरासस्ते सख्ये व्याम पितेव पुत्रान्प्रति नो जुषस्व ॥
वास्तोष्पते शग्मया सं सदा ते सक्षीमहि रणवया गातुमत्या पाहि क्षेम उत योगे वरं नो यूयं पात स्वस्तिभिः सदा नः ॥
इति ॥ २,११.१९ ॥
जयप्रभृतिसमानम् ॥ २,११.२० ॥
इति द्वितीय एकादशः खण्डः ॥११॥
द्वादशः खण्डः
वैश्वदेवस्य सिद्धस्य सायं प्रातर्बलिं हरेत् ॥ २,१२.१ ॥
अग्नीषोमौ धन्वन्तरिं विश्वान्देवान्प्रजापतिमग्निं स्विष्टकृतमित्येवं होमो विधीयते ॥ २,१२.२ ॥
अथ बलिं हरत्यग्नये नमः सोमाय धन्वन्तरये विश्वेभ्यो देवेभ्यः प्रजापतये अग्नये स्विष्टकृत इत्यग्न्यागार उत्तरामुत्तराम् ॥ २,१२.३ ॥
अभ्द्य इत्युदकुम्भसकाशे ॥ २,१२.४ ॥
ओषधिभ्य इत्योषधिभ्यो वनस्पतिभ्य इति गृहमध्यमायां स्थूणायाम् ॥ २,१२.५ ॥
गृह्याभ्यो देवताभ्य इति गृहमध्ये ॥ २,१२.६ ॥
धर्मायाधर्मायेति द्वारे ॥ २,१२.७ ॥
मृत्यव आकाशायेत्याकाशे ॥ २,१२.८ ॥
अन्तर्गोष्ठायेत्यन्तर्गोष्ठे ॥ २,१२.९ ॥
बर्हिवैश्रवणायेति बहिः प्राचीम् ॥ २,१२.१० ॥
विश्वेभ्यो देवेभ्य इति वेश्मनि ॥ २,१२.११ ॥
इन्द्रायेन्द्रपुरुषेभ्य इति पुरस्तात् ॥ २,१२.१२ ॥
यमाय यमपुरुषेभ्य इति दक्षिणतः ॥ २,१२.१३ ॥
वरुणाय वरुणपुरुषेभ्य इति पश्चात् ॥ २,१२.१४ ॥
सोमाय सोमपुरुषेभ्य इत्युत्तरतः ॥ २,१२.१५ ॥
ब्रह्मणे ब्रह्मपुरुषेभ्य इति मध्ये ॥ २,१२.१६ ॥
प्राचीमापातिकेभ्यः सम्पातिकेभ्य ऋक्षेभ्यो यक्षेभ्यः पिपीलिकाभ्यः पिशाचेभ्योऽप्सरोभ्यो गन्धर्वेभ्यो गुह्यकेभ्यः शैलेभ्यः पन्नगेभ्यः ॥ २,१२.१७ ॥
दिवाचारिभ्यो भूतेभ्य इति दिवा नक्तं चारिभ्यो भूतेभ्य इति नक्तम् ॥ २,१२.१८ ॥
धन्वन्तरये धन्वन्तरितर्पणम् ॥ २,१२.१९ ॥
अद्भिः संसृज्य पितृभ्यः स्वधेति शेषं दक्षिणा भूमौ निनयेत् ॥ २,१२.२० ॥
पाणी प्रक्षाल्याचम्यातिथिं भोजयित्वावशिष्टस्याश्नीयात् ॥ २,१२.२१ ॥
इति द्वितीयपुरुषे द्वादशः खण्डः ॥१२॥
त्रयोदशः खण्डः
अथातः षष्ठीकल्पं व्याख्यास्यामः ॥ २,१३.१ ॥
शुक्लपक्षस्य पञ्चभ्यां प्रत्यङ्मुखो हविष्यमन्नमश्रीत ॥ २,१३.२ ॥
अधः शयीत दर्भेषु शालीपलालेषु वा प्राक्शिरा ब्रह्मचारी ॥ २,१३.३ ॥
श्वोभूत उदित आदित्ये स्नानं पानं भोजनमनुलेपनं स्रजो वासांसि न प्रत्याचक्षीत ॥ २,१३.४ ॥
यावद्दद्यात्तावदश्नीयाद्यद्यद्दद्यात्तदश्नीयादन्यत्रामेध्यपातकिभ्योऽभिनिविष्टकवर्जनम् ॥ २,१३.५ ॥
अस्तमित आदित्ये पयसि स्थालीपाकं श्रपयित्वाथैतैर्नामधेयैर्जुहोति
धनदां वसुमीशानां कामदां सर्वकामिनाम्
पुण्यां यशस्विनीं देवीं षष्ठीं शक्र जुषस्व मे ॥
नन्दी भूतिश्च लक्ष्मीश्चादित्या च यशस्विनी
सुमना वाक्च सिद्धिश्च षष्ठी मे दिशतां धनम् ॥
पुत्रान्पशून्धनं धान्यं बह्वश्चाजगवेडकम्
मनसा यत्प्रणीतं च तन्मे दिशतु हव्यभुक् ॥
कानदां रजनीं विश्वरूपां षष्ठीमुपवर्त्ततु मे धनम्
साम काम कामपत्नी षष्ठी मे दिशतां धनम् ॥
आकृतिः प्रकृतिवर्चनी धावनिः पद्मचारिणी मन्मना भव स्वाहा ॥
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ।
नानापत्रका (क) सा देवी पुष्टिश्चातिसरस्वती
अरिं देवीं प्रपद्येयमुपवर्त्तयतु मे धनम् ॥
हिरण्यप्रकारादेवि मां वर आगच्छत्वायुर्यशश्च स्वाहा ॥
अश्वपूर्णां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुपव्हये श्रीर्मादेवी जुषताम् ॥
उपयन्तु मां देवगणास्त्या(ना)गाश्च तपसा सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् श्रीः श्रद्धां (कीर्तिं वृद्धिं ग. च.) दधातु मे ॥
श्रियै स्वाहा, ह्रियै स्वाहा, लक्ष्म्यै स्वाहा, उपलक्ष्म्यै स्वाहा, नन्हायै स्वाहा, हरिद्रायै स्वाहा, षष्ठ्यै स्वाहा, समृद्ध्यै स्वाहा, जयायै स्वाहा, कामायै स्वाहेति ॥ २,१३.६ ॥
जयप्रभृति समानम् ॥ २,१३.७ ॥
षण्मासान्प्रयुञ्जीत त्रीन्वोभयतः पक्षान् ॥ २,१३.८ ॥
शतसाहस्रसंयोग एकवरो वा ॥ २,१३.९ ॥
गैरनड्वांश्च दक्षिणा ॥ २,१३.१० ॥
इति द्वितीये त्रयोदशः खण्डः ॥१३॥
![]()
चतुर्दशः खण्डः
अथातो विनायकान्वयाख्यास्यामः ॥ २,१४.१ ॥
शालकटङ्कटश्च कूष्माण्डराजपुत्रश्चोस्मितश्च देवयजनश्चेति ॥ २,१४.२ ॥
एतैरधिगतानामिमानि रुपाणि भवन्ति ॥ २,१४.३ ॥
लोष्ठं मृद्गाति ॥ २,१४.४ ॥
तृणानि च्छिनत्ति ॥ २,१४.५ ॥
अङ्गेषु लेखान् लिखति ॥ २,१४.६ ॥
अपस्वप्नं पश्यति ॥ २,१४.७ ॥
मुण्डान् पश्यति ॥ २,१४.८ ॥
जटिलान् पश्यति ॥ २,१४.९ ॥
काषायवाससः पश्यति ॥ २,१४.१० ॥ ।
उष्ट्रान्सूकरान् गर्दभान्दिवाकीर्त्यादीनन्यांश्चाप्रयतान्स्वप्नान्पश्यति ॥ २,१४.११ ॥
अन्तरिक्षं क्रामति ॥ २,१४.१२ ॥
अध्वानं व्रजन्मन्यते पृष्ठतो मे कश्चिदनुव्रजति ॥ २,१४.१३ ॥
एतैः खलुविनायकैराविष्टा राजपुत्रा लक्षणवन्तो राज्यं न लभन्ते ॥ २,१४.१४ ॥
कन्याः पतिकामा लक्षणवत्यो भर्तॄन्न लभन्ते ॥ २,१४.१५ ॥
स्त्रियः प्रजाकामा लक्षणवत्यः प्रजां न लभन्ते ॥ २,१४.१६ ॥
स्त्रीणामाचारवतीनामपत्यानि म्रियन्ते ॥ २,१४.१७ ॥
श्रोत्रियोऽध्यापक आचार्यत्वं न प्राप्नोति ॥ २,१४.१९ ॥
अध्येतॄणामध्ययने महाविघ्नानि भवन्ति ॥ २,१४. १९ ॥
वणिजां वणिक्पथो विनश्यति ॥ २,१४.२० ॥
कृषिकराणां कृषिरल्पफसा भवति ॥ २,१४.२१ ॥
तेषां प्रायश्चित्तम् ॥ २,१४.२२ ॥
मृगाखरकुलायमृत्तिकारोचना गुग्गुलाः ॥ २,१४.२३ ॥
चतुर्भ्यः प्रस्रवणेभ्यश्चतुरुदकुम्भानव्यङ्गानाहरेत् ॥ २,१४.२४ ॥
सर्वगन्धसर्वरससर्वौषधीः सर्वरत्नानि चोपकल्पय प्रतिसरदधिमधुघृतमिति ॥ २,१४.२५ ॥
एतान् संभारान्संसृज्य ऋषभचर्मारुह्याथैनं
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
ताभिष्ट्वाभिषिञ्चामि पावमानीः पुनन्तु त्वा ॥
अग्निना दत्ता, इन्द्रेण दत्ता, सोमेन दत्ता, वरुणेन दत्ता, वायुना दत्ता,विष्णुना दत्ता बृहस्पतिना दत्ता, विश्वैर्देवैर्दत्तः, सर्वैर्देवैर्दत्ता ओषधय आपो वरुणसंमितास्ताभिष्ट्वाभिषिञ्चामि पावमानीः पुनन्तु त्वेति
सर्वत्रानुषजति
यत्ते केशेषु दैर्भाग्यं सीमन्ते तत्र मूर्द्धनि ।
ललाटे कर्णयोरक्ष्णोरापस्ततु ते सदा ॥
भगं ते वरुणे राजा भ्रसूर्यो बृहस्पतिः ।
भगमिन्द्रश्च वायुश्चसप्तर्षयो ददुः ॥
इति ॥ २,१४.२६ ॥
अधिस्त निशायां सद्यः पीडितसर्षपतैलममौदुम्बरेण स्रुवेण चतस्र आहुतिर्जुहोति (ओं) शालकटङ्कटाय स्व कूष्माडराजपुत्राय स्वाहा, उस्मिताय स्वाहा, देवयजनाया स्वाहेति ॥ २,१४.२७ ॥
अत ऊर्ध्वं ग्रामचतुष्पथे नगरचतुष्पथे निगमचतुष्पथे सर्वतोमुखान्दर्भानास्तीर्य नवे शूर्पे बलिमुपहरति फलीकृतांस्तण्डुलानफलीकृतांस्तण्डुलानामं मांसं पक्वं मांसमामान्मत्स्यान्पक्वान्मत्स्यानामानपूपान्पक्वानपूपान्पिष्टान्गन्धानपिष्टान्गन्धा मधुपानं मैरेयपानं सुरापानं मुक्तं माल्यं ग्रथिथं माल्यं रक्तं माल्यं शुक्लं माल्यं रक्तपीतशुक्लकृष्णनीलहरितचित्रवासांसि माकल्माषमूलभलमिति ॥ २,१४.२८ ॥
अथ देवानामावाहनं विमुखः शेयेनो बको यक्षः कलहो भीरुर्विनायकः कूष्माण्डरा यज्ञाविक्षेपी कुलङ्गापमारो यूपकेशी सूपरक्रोडी हैमवतो, जम्भको विरूपाक्षो लोहिताक्षो वैश्रवणो महासेनो महादेवो महाराज इति ।
एते मे देवाः प्रीयन्तां प्रीता मां प्रीणयन्तु तृप्ता मां तर्पयन्त्विति ॥ २,१४.२९ ॥
अधिष्ठितेर्ऽद्धरात्र आचार्यो ग्रहानुपतिष्ठते ।
भगवति भगं मे देदि, वर्णवति वर्णं मे देहि, रूपवति रूपं मे देहि, तेजस्विनि तेजो मे देहि, यशस्विनि यशो मे देहि, पुत्रवति पुत्रान्मे देहि, सर्ववति सर्वान्कामान्मे प्रदेहीति ॥ २,१४.३० ॥
अत ऊर्ध्वमुदित आदित्ये विमले सुमुहूर्त्ते सूर्यपूजापूर्वकमर्ध्यदानमुपस्थानं च
नमस्ते अस्तु भगवन् शतरश्मे तमोनुद जहि मे देव दौर्भग्यं सौभाग्येन मां संयोजयस्व ॥
इति ॥ २,१४.३१ ॥
अथ ब्राह्मणतर्पणम् ॥ २,१४.३२ ॥
ऋषबो दक्षिणा ॥ २,१४.३३ ॥
इति द्वितीये चतुर्दशः खण्डः ॥१४॥
पञ्चदशः खण्डः
यदि दुःस्वप्नं पश्येद्व्याहृतिभिस्तिलान् हुत्वा दिशा उपतिष्ठेत् ।
बोधश्च मा प्रतिबोधश्च पुरस्ताद्गोपायताम् ।
अस्वप्नश्च मानवद्राणश्च दक्षिणतो गोपायताम् ॥
गोपायमानं च मां रक्षमाणं च पश्चाद्गोपायताम् ।
जागृविश्च मारुन्धती चोत्तरतो गोपायताम् ॥
विष्णुश्च मे पृथिवी च नागाश्चाधस्ताद्गोपायताम् ।
बृहस्पतयश्च मे विश्वे च मे देवा द्यौश्चोपरिष्ठाद्गोपायताम् ॥ २,१५.१ ॥
एवं यस्मिंश्चोत्पन्नेऽनर्थान् शङ्केत ॥ २,१५.२ ॥
व्याहृतिभिस्तिलान् हुत्वा तपः प्रतिपद्येत द्वादशरात्रं षड्रात्रं त्रिरात्रमोकरात्रं वा ॥ २,१५.३ ॥
यदि समुत्पातं मन्येत तद्वा ॥ २,१५.४ ॥
यदि पर्वसु मार्तिकं भिद्यते पार्थिवमासि पृथिवीं दृंहस्व योनिं गच्छ स्वाहेत्यप्सु प्रहरेत् ॥ २,१५.५ ॥
यद्यर्चा दह्येद्वा नश्येद्वा प्रपतेद्वा प्रभजेद्वा प्रहसेद्वा प्रचलेद्वा, स्थाल्या वा स्थालीमासिच्य दक्षिणोत्तरा वा स्थाली भिद्येतोत्तरा वोपलाशे नियम्य द्वारवंशो वा स्फुटेत् ।
गौर्वा गां धयेत्, स्त्री वा स्त्रियमाहन्यात्, कर्तसंसर्गे , हलसंसर्गे, मुसलप्रपतने, मुसलंवावशीर्येतान्यस्मिंश्चाद्भुत एताभिर्जुहुयात्
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्तिनः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बृहस्पतिर्दधातु ।
स्वस्ति नो मिमीतामाश्विना भगः स्वस्ति देव्यदितिरनर्वणः ।
स्वस्ति पूषा असुरो दधातु नः स्वस्तिद्यावापृथिवी सुचेतुना ॥
स्वस्तये वायुमुपब्रवामहै सोमं स्वस्ति भुवनस्य यस्पतिः ।
बृहस्पतिं सर्वगणं स्वस्तये स्वस्तय आदित्यासो भवन्तु नः ॥
विश्वे देवा नो अद्या स्वस्तये वैश्वानरो वसुराग्निः स्वस्तये ।
देवा अवन्त्वृभवः स्वस्तये स्वस्ति नो रुद्रः पात्वंहसः ॥
स्वस्ति नः पश्यासु धन्वसु स्वस्त्यप्सु व्रजने स्वर्वतः ।
स्वस्ति नः पथ्याकृतेषु योनिषु स्वस्ति राये मनुतो दधातु नः ॥
त्रातारमिन्द्रं, मा ते अस्यां, विन इन्द्र, मृगो न भीमस्तं, शंयोरावृणीमह इति दशाहुतयः ॥ २,१५.६ ॥
जयप्रभृति समानम् ॥ २,१५.७ ॥
इति द्वितीये पुरुषे पञ्चदशः खण्डः ॥१५॥
षोडशः खण्डः
सर्पेभ्यो बिभ्यत्श्रावण्यां तूषणीं भौममेककपालंश्रपयित्वाक्षतसक्तून् पिष्ट्वा स्वकृत इरिणे दर्भानास्तीर्याच्युताय ध्रुवाय भौमाय स्वाहेति जुहोति ॥ २,१६.१ ॥
समीचि नामासीति पर्यायैरुपतिष्ठते प्रतिदिशं द्वाभ्यां मध्ये ॥ २,१६.२ ॥
अक्षतसक्तूनां सर्पबलिं हरति ईशानायेत्येके
सर्पोऽसि सर्पाणामधिपतिस्त्वयि सर्वे सर्पाः ।
बलिहारोऽस्तु सर्पाणां नमो अस्तुषुर्मारिरिषुर्माहिंसिषुर्मादां सि सर्पाः ॥
मानो अग्ने विसृजो अधाया विष्यवे रिपवे दुच्छुनायै ।
मा दत्वते दशते मादते नो मा रीषते सहसावन्परादाः ॥
सर्पोऽसि सर्पाणामधिपतिरत्नेन मनुष्यां स्रायसेऽपूपेन सर्पान् ॥
त्वयि सन्तं मयि सन्त माक्षिषुर्मारीरिषुर्मा हिंसिषु मा दाङ्क्षु सर्पाः ॥
नमो अस्तु सर्पेभ्य इति तिसृभिश्च ॥ २,१६.३ ॥
ध्रुवामुं ते परिददामीति सर्वामात्यान्नामग्राहमात्मानं च ॥ २,१६.४ ॥
एतेन धर्मेण चतुरो मासान्सर्पबलिंहृत्वा विरमति ॥ २,१६.५ ॥
तूष्णीमपि क्षुद्रा प्रक्षालितपाणिः ॥ २,१६.६ ॥
इति द्वितीये षोडशः खण्डः ॥१६॥
सप्तदशः खण्डः
अयूथिके भयार्त्ते कपोते गृहान् प्रविष्टे तस्याज्नौ पदं दृश्येत दधानि सकतुषु घृते वा देवाः कपोत इति प्रत्यृचं जपेज्जुहुयाद्वा देवाः कपोत इषितो यदिच्छन्दूतो निरृत्या इदमाजगाम ।
तस्मा अर्चाम कृष्णवाम निष्कृतिं शं नो अस्तु द्विपदे शं चतुष्पदे ॥
शिवः कपोत इषितो नो अस्त्वनागा देवाः शकुनो गृहेषु
अग्निर्हि विप्रो जुषतां हविर्नः परिहेतिः पक्षिणो नो वृणाक्तु ॥
हेतिः पक्षिणी न दभात्यस्मानाष्ट्यां पदं कृणुते अग्निधाने ।
सं नो गोभ्यश्च पुरुषेभ्यश्चास्तु मानो हिंसीदिह देवाः कपोतः ॥
यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ कृणोति ।
यस्य दूतः प्रहित एष एतत्तस्मै यमाय नमो अस्तु मृत्यवे ॥
ऋचा कपोतं नुदत प्रमोदमिषं मदन्तः परि गां नयध्वम् ।
संयोपयन्तो दुरितानि विश्वा हित्वा न ऊर्जं प्रपतात्पतिष्ठः ॥
इति ॥ २,१७.१ ॥
पदमादाय दक्षिणा प्रत्यघरन्ति ॥ २,१७.२ ॥
सहाधिकरणैर्यन्ति ॥ २,१७.३ ॥
स्वकृत इरिणे पदं न्यस्याध्यधि ॥ २,१७.४ ॥
धाम्नो धाम्न इति तिसृभिः परोगोष्ठं मारजयन्ते ॥ २,१७.५ ॥
अनपेक्षमाणाः प्रत्यायन्ति ॥ २,१७.६ ॥
अग्न आयूंषि पवसे अग्निरृषिरग्ने पवस्वेति प्रत्येत्य जपन्ति ॥ २,१७.७ ॥
इति द्वितीये सप्तदशः खण्डः ॥१७॥
![]()
अष्टादशः शण्डः
षडाहुतं प्रतिपदि पुत्रकामः ॥ २,१८.१ ॥
पयसि स्थालीपाकं श्रपयित्वा तस्य जुहोति
ब्रह्मणाग्निः संविदानो रक्षोहा बाधातामितः ।
अमी वा यस्ते गर्भं दुर्णामा योनिमाशये ।
यस्ते गर्भममी वा दुर्णामा योनिमाशये ।
अग्निष्ठं ब्रह्मणा सह निष्क्रम्यादमनीनशत् ॥
यस्ते हन्ती पतयन्तं निषत्स्नुं यः सरीसृपम् ।
जातं यस्ते जिघांसति तमितो नाशयामसि ॥
यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।
प्रजांयस्ते जिघांसति तमितो नाशयामसि ॥
ये ते घ्नन्त्यप्सो गन्धर्वा गोष्ठाश्च ये ।
क्रव्यादंसुर देविनं तमितो नाशयामसि ॥
यस्त ऊरु विहरत्यन्तरा दम्पती शये ।
योनिं यो अन्तरारेढि तमितो नाशयामसि ॥
अभिन्नाण्डा वृद्धगर्भा अरिष्ठा जीवसूकरी ।
विजायतां प्रजायतामियं भवतु तोकिनी ॥
विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
आसिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥
गर्भं धेहि सीतीवालि गर्भं धेहि सरस्वति ।
गर्भं ते अश्विनौ देवावाधत्तां पुष्करस्रजा ॥
हिरण्ययी अरणीयं निर्मन्थतो अश्विना ।
तं ते गर्भं हवामहे दशमे मासि सूतवे ॥
परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् ।
चक्षुष्मते शृणवते ते ब्रवीमि मानः प्रजां रीरिषो मोत वीरान् ॥
इति द्वादशगर्भवेदिन्यः षडाद्याः स्थालीपाकस्य षडुतरा आज्यस्य ॥ २,१८.२ ॥
जयप्रभृति समानम् ॥ २,१८.३ ॥
नैजमेषं स्थालीपाकं श्रपयित्वा यथा षाडाहुतम्
नेजमेष परापत सुपुत्रः पुनरापत ।
अस्यै मे पुत्रकामायै पुनराधेहि यः पुमान् ॥
यथेयं पृथिवी मह्यमुत्ताना गर्भमादधे ।
एवं तं गर्भमाधेहि दशमे मासि सूतवे ॥
विष्णोः श्रेष्ठेन रुपेणास्यां नार्यां गवीन्याम् ।
पुमांसं पुत्रमाधेहि दशमे मासि सूतवे ॥
पाकयज्ञान्समासाद्य एकाज्यामेकबहिर्षि ।
एकं स्विष्टकृतं पुर्यन्नाना सत्यपि दैवते नाना सत्यपि दैवते ॥ २,१८.४ ॥
इति द्वितीयपुरुषेऽष्टादशः खण्डः ॥१८॥
इति मैत्रायणीयमानवगृह्यसूत्रे द्वितीयपुरुषाख्यो भागः ।
सूत्रं च समाप्तम् ॥
![]()