Library Home » Pancha Vimsati Brahman

Pancha Vimsati Brahman

१.१.१ ओं महन्मे वोचो भर्गो मे वोचो यशो मे वोचः स्तोमं मे वोचो भुक्तिं मे वोचः सर्वं मे वोचस्तन्मावतु तन्माविशतु तेन भुक्षिषीय

१.१.२ देवो देवमेतु सोमः सोममेत्वृतस्य पथा
१.१.३ विहाय दौष्कृत्यम्
१.१.४ बद्वा नामसि सृतिः सोमसरणी सोमं गमेयम्
१.१.५ पितरो भूः पितरो भूः पितरो भूः
१.१.६ नृमण ऊर्ध्वभरसं त्वोर्ध्वभरा दृशेयम्
१.१.७ मृदा शिथिरा देवानां तीर्थं वेदिरसि मा मा हिंसीः
१.१.८ विष्णोः शिरोऽसि यशोधा यशो मयि धेहि
१.१.९ इष ऊर्ज आयुषे वर्चसे च

१.२.१ युनज्मि ते पृथिवीमग्निना सह युनज्मि वाचं सह सूर्येण युक्तो वातोऽन्तरिक्षेण ते सह युक्तास्तिस्रो विमृजः सूर्यस्य
१.२.२ ऋतस्य सदने सीदामि
१.२.३ ऋतपात्रमसि
१.२.४ वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रमसीदमहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसाय
१.२.५ मरुतो नपातोऽपाङ्क्षयाः पर्वतानाङ्ककुभः श्येना अजिरा एन्द्रं वग्नुना वहत घोषेणामीवां चातयध्वं युक्तास्थ वहत
१.२.६ इदमहममुं यजमानं पशुष्वध्यूहामि पशुषु च मां ब्रह्मवर्चसे च
१.२.७ वसवस्त्वा गायत्रेण छन्दसा सं मृजन्तु रुद्रास्त्वा त्रैष्टुभेन छन्दसा सं मृजन्त्वादित्यास्त्वा जागतेन छन्दसा सं मृजन्तु
१.२.८ पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतोऽतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशतः
१.२.९ प्रशुक्रैतु देवीमनीषास्मद्रथः सुतष्टो न वाज्यायुषे मे पचस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गाय मामायुषे मम ब्रह्मवर्चसाय यजमानस्यर्द्ध्या अमुष्य राज्याय

१.३.१ वेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत् ते वाचो मधुमत् तस्मिन्मा धाः सरस्वत्यै स्वाहा
१.३.२ सूर्यो मा दिव्याभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहा
१.३.३ योऽद्य सौम्यो वधोऽघायूनामुदीरते विषूकुहस्य धन्वनाप तान् वरुणोऽप धमतु
१.३.४ यो म आत्मा या मे प्रजा ये मे पशवस्तैरहं मनो वाचं प्र सीदामि
१.३.५ अग्नेस्तेजसेन्द्रस्येन्द्रियेण सूर्यस्य वर्चसा बृहस्पतिस्त्वा युनक्तु देवेभ्यः प्राणायाग्निर्युनक्तु तपसा सोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
१.३.६ अन्नं करिष्याम्यन्नं प्रविष्याम्यन्नं जनयिष्यामि
१.३.७ अन्नमकरमन्नमभूदन्नमजीजनम्
१.३.८ श्येनोऽसि गायत्रच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
१.३.९ सं वर्चसा पयसा सं तपोभिरगन्महि मनसा सं शिवेन सं विज्ञानेन मनसश्च सत्यैर्यथा वोऽहं चारुतमं वदानीन्द्रो वो दृशे भूयासं सूर्यश्चक्षुषे वातः प्राणाय सोमो गन्धाय ब्रह्म क्षत्राय
१.३.१० नमो गन्धर्वाय विष्वग्वादिने वर्चोधा असि वर्चो मयि धेहि

१.४.१ अध्वनामध्वपते स्वस्ति मेऽद्यास्मिन् देवयाने पथि भूयात्
१.४.२ सम्राडसि कृशानुः
१.४.३ तुथोऽसि जनधायो नभोऽसि प्रतक्वासंमृष्टोऽसि हव्यसूदनः
१.४.४ विबुरसि प्रवाहणः
१.४.५ वह्निरसि हव्यवाहनः
१.४.६ श्वात्रोऽसि प्रचेताः
१.४.७ तुथोऽसि विश्ववेदा उशिगसि कविरङ्घारिरसि बम्भारिरवस्युरसि दुवस्वान्
१.४.८ शुन्ध्युरसि मार्जालीयः
१.४.९ ऋतधामासि स्वर्ज्योतिः
१.४.१० समुद्रोऽसि विश्वव्यचाः
१.४.११ अहिरसि बुध्न्यः
१.४.१२ अजोऽस्येकपात्
१.४.१३ सगरा असि बुध्न्यः
१.४.१४ कव्योऽसि कव्यवाहनः
१.४.१५ पात माग्नयो रौद्रेणानीकेन पिष्टत मा नमो वोऽस्तु मा मा हिंसिष्ट

१.५.१ ऋतस्य द्वारौ स्थो मा मा सं ताप्तम्
१.५.२ नमः सखिभ्यः पूर्वसद्भ्यो नमो परसद्भ्यः
१.५.३ श्येनो नृचक्षा अग्नेष्ट्वा चक्षुषाव पश्यामि
१.५.४ इन्दविन्द्रपीतस्य त इन्द्रियावतो गायत्रच्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.५.५ ऊर्ध्वः सप्त ऋषीनुप तिष्ठस्वेन्द्रपीतो वाचस्पते सप्तर्त्विजोऽभ्युच्छ्रयस्व जुषस्व लोकं मार्वागव गाः
१.५.६ सोम रारन्धि नो हृदि पिता नोऽसि मम तन्मा मा हिंसीः
१.५.७ सोम गीर्भिष्ट्वा वयं वर्धयामो वाचोविदः सुमृडीको न आ विश
१.५.८ आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे
१.५.९ अवमैस्त ऊर्ध्वैस्ते काव्यैस्ते पितृभिर्भक्षितस्य मधुमतो नाराशंसस्य सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.५.१० दीक्षायै वर्णेन तपसो रूपेण मनसो महिम्ना वाचो विभूत्या प्रजापतिस्त्वा युनक्तु प्रजाभ्योऽपानाय
१.५.११ वायुर्युनक्तु मनसा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
१.५.१२ वृषकोऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
१.५.१३ इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.५.१४ सूर्यो युनक्तु वाचा स्तोमं यज्ञाय वोढवे दधात्विन्द्र इन्द्रियं सत्याः कामा यजमानस्य सन्तु
१.५.१५ स्वरोऽसि गयोऽसि जगच्छन्दा अनु त्वा रभे स्वस्ति मा सं पारया मा स्तोत्रस्य स्तोत्रं गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
१.५.१६ इन्दविन्द्रपीतस्य त इन्द्रियावतो त्रिष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.५.१७ आयुर्मे प्राणो मनोऽसि मे प्राण आयुपत्न्यामृचि यन्मे मनो यमं गतं यद्वा मे अपरागतं राज्ञा सोमेन तद्वयं पुनरस्मासु दध्नसि
१.५.१८ यन्मे यमं वैवस्वतं मनो जगाम दूरगास्तन्म आवर्तया पुनर्जीवातवे न मर्तवेऽथो अरिष्टतातये
१.५.१९ येनाह्याजिमजयद्विचक्ष्य येन श्येनं शकुनं सुपर्णं यदाहुश्चक्षुरदितावनन्तं सोमो नृचक्षा मयि तद्दधातु

१.६.१ ऐन्द्रं सहोऽसर्जि तस्य त इन्दविन्द्रपीतस्येन्द्रियावतोऽनुष्टुप्छन्दसो हरिवतः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.६.२ इन्दविन्द्रपीतस्य त इन्द्रियावतोऽनुष्टुप्छन्दसः सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
१.६.३ स्तुतस्य स्तुतमस्यूर्जस्वत् पयस्वदा मा स्तोत्रस्य स्त्रोत्रं. गम्यादिन्द्रवन्तो वनेमहि भक्षीमहि प्रजामिषम्
१.६.४ इष्टयजुषस्ते देव सोम स्तुतस्तोमस्य शस्तोक्थस्य तिरोह्न्यस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
१.६.५ ऋतस्य त्वा देव स्तोमपदे विष्णोर्धामानि वि मुञ्चाम्येतत् त्वं देव स्तोमानवकरमगन्नशीमहि वयं प्रतिष्ठाम्
१.६.६ सोमेहानु मेहि सोम सह सदस इन्द्रियेण
१.६.७ सुभूरसि श्रेष्ठो रश्मिर्देवानां संसद्देवानां यातुर्यया तन्वा ब्रह्म जिन्वसि तया मा जिन्व तया मा जनय प्रकाशं मा कुरु
१.६.८ अपां पुष्पमस्योषधीनां रस इन्द्रस्य प्रियतमं हविः स्वाहा
१.६.९ हारियोजनस्य ते देव सोमेष्टयजुषः स्तुतस्तोमस्य शस्तोक्थस्य योऽश्वसनिर्गोसनिर्भक्षस्तस्योपहूत उपहूतस्य भक्षयामि
१.६.१० देवकृतस्यैनसोऽवयजनमसि पितृकृतस्यैनसोऽवयजनमसि मनुष्यकृतस्यैनसोऽवयजनमस्यस्मत्कृतस्यैनसोऽवयजनमसि यद्दिवा च नक्तं चैनश्चकृम तस्यावयजनमसि यत् स्वपन्तश्च जाग्रतश्चैनश्चकृम तस्यावयजनमसि यद्विद्वांसश्चाविद्वांसश्चैनश्चकृम तस्यावयजनमस्येनसएनसावयजनमसि

१.६.११ अप्सु घौतस्य ते देव सोम नृभिः सुतस्य
१.६.१२ मधुमन्तं भक्षं करोमि
१.६.१३ समद्भ्य ओषधीभ्यः
१.६.१४ कामकामं म आ वर्तय
१.६.१५ ऊर्गस्यूर्जं मयि धेहि
१.६.१६ प्राण सोमपीथे मे जागृहि
१.६.१७ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र न आयूंषि तारिषत्

१.७.१ अश्वोऽस्यत्योऽसि मयोऽसि हयोऽसि वाज्यसि सप्तिरर्वाग्सि वृषासि
१.७.२ आदित्यानां पत्मान्विहि नमस्तेऽस्तु मा मा हिंसीः
१.७.३ वायोष्ट्वा तेजसा प्रति गृह्णामि नक्षत्राणां त्वां रूपेण प्रति गृह्णामि सूर्यस्य त्वा वर्चसा प्रति गृह्णामि
१.७.४ रथन्तरमसि वामदेव्यमसि बृहदसि
१.७.५ अङ्कान्यङ्कू अभितो रथं यौ ध्वान्तं वाताग्रमभिसंचरतौ दूरे हेतिरिन्द्रियवान् पतत्री ते नोऽग्नयः पप्रयः पारयन्तु
१.७.६ वैश्वानरः प्रत्नथा नाकमा रुह दिवः पृष्ठे मन्दमानः सुमन्मभिः सपूर्ववज्जन्तवे धनाः समानमय्मन् पर्येति जागृविः
१.७.७ गिदैष ते रथ एष वामश्विना रथोऽरिष्टो विश्वभेषजः
१.७.८ कृशानो सव्याना यच्छ
१.७.९ दासानो दक्षिणानव गृहाण

१.८.१ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रति गृह्णामि
१.८.२ वरुणस्त्वा नयतु देवि दक्षिणे वरुणायाश्वं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.३ वरुणस्त्वा नयतु देवि दक्षिणे रुद्राय गां तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.४ वरुणस्त्वा नयतु देवि दक्षिणेऽग्नयेऽजम्
१.८.५ अग्नये हिरण्यम्
१.८.६ अग्नीषोमाभ्यामजान्मयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.७ अन्नस्यान्नपतिः प्रादादनमीवस्य शुष्मिणो नमो विश्वजनस्य क्षामाय भुञ्जति मा मा हिंसीः
१.८.८ वरुणस्त्वा नयतु देवि दक्षिणे त्वष्ट्रेऽविं तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.९ ग्नास्त्वाऽकृन्तन्नपसोऽतन्वत वयित्र्योऽवयन्
१.८.१० वरुणस्त्वा नयतु देवि दक्षिणे बृहस्पतये वासस्तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिगृहीत्रे
१.८.११ वरुणस्त्वा नयतु देवि दक्षिणे उत्तानायाङ्गिरसायाप्राणत् तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१२ वरुणस्त्वा नयतु देवि दक्षिणे पूष्ण उष्ट्रम्
१.८.१३ वायवे मृगं तेनामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१४ जापतये हस्तिनं प्रजापतये वराहं प्रजापतये व्रीहियवांस्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१५ वरुणस्त्वा नयतु देवि दक्षिणे क्षेत्रपतये तिलमाषास्तैरमृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१६ वरुणस्त्वा नयतु देवि दक्षिणे सवित्रेऽश्वतरं वाश्वतरीं वा तयामृतत्वमशीय वयो दात्रे भूयान्मयो मह्यं प्रतिग्रहीत्रे
१.८.१७ क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामः समुद्रमाविशत् कामेन त्वा प्रति गृह्णामि कामैतत् ते

१.९.१ रश्मिरसि क्षयाय त्वा क्षयं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.२ प्रेतिरसि धर्मणे त्वा धर्मं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.३ अन्वितिरसि दिवे त्वा दिवं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.४ संधिरस्यन्तरिक्षाय त्वान्तरिक्षं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.५ प्रतिधिरसि पृथिव्यै त्वा पृथिवीं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.६ विष्टम्भोऽसि वृष्ट्यै त्वा वृष्टिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.७ प्राचोऽस्यह्ने त्वाहर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.८ अन्वासि रात्र्यै रात्रिं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.९ उशिगसि वसुभ्यस्त्वा वसून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.१० प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्रान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.११ सुदीतिरस्यादित्येभ्यस्त्वादित्यान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.९.१२ ओजोऽसि पितृभ्यस्त्वा पितॄन् जिन्व सवितृप्रसूता बृहस्पतये स्तुत

१.१०.१ तन्तुरसि प्रजाभ्यस्त्वा प्रजा जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.२ रोदस्यस्योषधीभ्यस्त्वौषधीर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.३ पृतनाषाडसि पशुभ्यस्त्वा पशून् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.४ अभिजिदसि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.५ अधिपतिरसि प्राणाय त्वा प्राणान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.६ धरुणोऽस्यपानाय त्वापानान् जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.७ संसर्पोऽसि चक्षुषे त्वा चक्षुर्जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.८ वयोधा असि क्षेत्राय त्वा क्षेत्रं जिन्व सवितृप्रसूता बृहस्पतये स्तुत
१.१०.९ त्रिवृदसि त्रिवृते त्वा सवृदसि सवृते त्वा प्रवृदसि प्रवृते त्वानुवृदस्यनुवृते त्वा सवितृप्रसूता बृहस्पतये स्तुत
१.१०.१० निरोहोऽसि निरोहाय त्वा संरोहोऽसि संरोहाय त्वा प्ररोहोऽसि प्ररोहाय त्वानुरोहोऽस्यनुरोहाय त्वा सवितृप्रसूता बृहस्पतये स्तुत
१.१०.११ वसुकोऽसि वस्यष्टिरसि वेषश्रीरसि सवितृप्रसूता बृहस्पतये स्तुत
१.१०.१२ आक्रमोऽस्याक्रमाय त्वा संक्रमोऽसि संक्रमाय त्वोत्क्रमोऽस्युत्क्रमाय त्वोत्क्रान्तिरस्युत्क्रान्त्यै त्वा सवितृप्रसूता बृहस्पतये स्तुत

२.१.१ तिसृभ्यो हिङ्करोति स प्रथमया तिसृभ्यो हिङ्करोति स मध्यमया तिसृभ्यो हिङ्करोति स उत्तमयोद्यती त्रिवृतो विष्टुतिः
२.१.२ ज्येष्ठो ज्यैष्ठिनेय स्तुवीत
२.१.३ अग्रादग्रं रोहत्यभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
२.१.४ पापवसीयसो विधृतिर्विपाप्मना वर्तते य एतया स्तुते नावगतोऽप रुध्यते नापरुद्धोऽव गच्छति । न श्रेयांसं पापीयानभ्या रोहति न जनता जनतामभ्येति नान्योऽन्यस्य प्रजा आ ददते यथाक्षेत्रं कल्पन्ते । अवर्षुकस्तु पर्जन्यो भवतीमे हि लोकास्तृचस्तान् हिङ्कारेण व्येति
२.१.५ एषा वै प्रतिष्ठिता त्रिवृतो विष्टुतिः प्रति तिष्ठति य एतया स्तुते

२.२.१ तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति स पराचीभिः परिवर्तिनी त्रिविष्टुतिः
२.२.२ प्रपरीवर्तमाप्नोति य एतया स्तुते संतता विष्टुतिः प्राणोऽपानो व्यानस्त ऋचस्तान् हिङ्कारेण सं तनोति । सर्वमायुरेति न पुरायुषः प्र मीयते य एतया स्तुते वर्षुकः पर्जन्यो भवतीमे हि लोकास्तृचस्तान् हिङ्कारेण सं दधाति
२.२.३ श्लक्ष्णेव तु वा ईश्वरा पशून्निर्मृजः सैषा च पराचोत श्रेयान् भवत्युत यादृङेव तादृङ्नेत् तु पापीयान्
२.२.४ तामेतां भाल्लवय उपासते तस्मात् ते प्रतिगृणन्तः परीवर्तान्न च्यवन्ते

२.३.१ तिसृभ्यो हिङ्करोति स पराचीभिस्तिसृभ्यो हिङ्करोति या मध्यमा सा प्रथमा योत्तमा सा मध्यमा या प्रथमा सोत्तमा तिसृभ्यो हिङ्करोति योत्तमा सा प्रथमा या प्रथमा सा मध्यमा या मध्यमा सोत्तमा कुलायिनी त्रिवृतो विष्टुतिः
२.३.२ प्रजाकामो वा पशुकामो वा स्तुवीत वै कुलानायपशवः कुलायंकुलायमेव भवति
२.३.३ एतामेवानुजावराय कुर्यादेतासामेवाग्रं परियतीनां प्रजाना[म्] अग्रं पर्येति
२.३.४ एतामेव बहुभ्यो यजमानेभ्यः कुर्यात् यत् सर्वा अग्रिया भवन्ति सर्वा मध्ये सर्वा उत्तमाः सर्वानेवैनान् समावद्भाजः करोति नान्योऽन्यमप घ्नते सर्वे समावदिन्द्रिया भवन्ति
२.३.५ वर्षुकः पर्जन्यो भवतीमे हि लोकास्तृचस्तान् हिङ्कारेण व्यति षजति
२.३.६ पापवसीयसं तु भवति
२.३.७ अधरोत्तरमपावगतो रुध्यतेव गच्छत्यपरुद्धः पापीयान् श्रेयांसमभ्या रोहति जनता जनतामभ्येत्यन्योऽन्यस्य प्रजा आ ददते न यथाक्षेत्रं कल्पन्ते

२.४.१ पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिः पञ्चपञ्चिनी पञ्चपञ्चदशस्य विष्टुतिः
२.४.२ पाङ्क्तः पुरुषः पाङ्क्तात् पशवस्तया पुरुषं च पशूंश्चाप्नोति वज्रो वै पन्चपशो यत् पञ्चपञ्च व्यूहति वज्रमेव तद्व्यूहति शान्त्या एषा वै प्रतिष्ठिता पञ्चदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते

२.५.१ पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया तिसृभ्यो हिङ्करोति स पराचीभिः सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिस्
२.५.२ त्रीन् स्तोमान् प्रतिविहिता ब्रह्मवर्चसकामः स्तुवीत
२.५.३ पञ्चभिः पञ्चदशं तिसृभिस्त्रिवृतं सप्तभिः सप्तदशम्
२.५.४ वीर्यं वै स्तोमा वीर्यमेव तदेकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते

२.६.१ तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिरुद्यती पञ्चदशस्य विष्टुतिः
२.६.२ एतया वै देवाः स्वर्गंल्लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
२.६.३ अभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव

२.७.१ पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिर्दशसप्ता सप्तदशस्य विष्टुतिः
२.७.२ एतया वै देवा असुरानत्यक्रामन्नति पाप्मानं भ्रातृव्यं क्रामति य एतया स्तुते
२.७.३ अभिक्रामन्ती विष्टुतिरभिक्रामन्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
२.७.४ गर्भिणी विष्टुतिः प प्रजया प्र पशुभिर्जायते य एतया स्तुते
२.७.५ विड्वै सप्तदशस्तस्या राजा गर्भो विश एव तद्राजानं गर्भं करोति
२.७.६ नावगतोऽप रुध्यते नापरुद्धोऽव गच्छति
२.७.७ अन्नं वै सप्तदशो यत् सप्त मध्ये भवन्ति पञ्चपञ्चाभितोऽन्नमेव तन्मध्यतो धीयतेऽनशनायुको यजमानो भवत्यनशनायुकाः प्रजाः
२.७.८ वैराजो वै पुरुषः सप्त ग्राम्याः पशवो यद्दशपूर्वा भवन्ति सप्तोत्तमा यजमानमेव तत् पशुषु प्रति ष्ठापयति
२.७.९ एषा वै प्रतिष्ठिता सप्तदशस्य विष्टुतिः प्रति तिष्ठति य एतया स्तुते

२.८.१ एष एव व्यूहः सप्तैकमध्या
२.८.२ ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत् प्रथमा भूयिष्ठा भाजयति ब्रह्मण्येव तदोजो वीर्यं दधाति ब्रह्मण एव तत् क्षत्रं च विशं चानुगे करोति क्षत्रस्यास्य प्रकाशो भवति य एतया स्तुते
२.८.३ तामेतां त्रिखर्वा उपासते तस्मात् ते स्पर्धमाना न व्लीयन्ते
२.९.१ सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया तिसृभ्यो हिङ्करोति पराचीभिः सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः सप्तास्थिता
२.९.२ भ्रातृव्यं स्तुवीत यथा सप्तास्थितेन मत्येन समी करोत्येवं पाप्मानं भ्रातृव्यं प्र रुजति
२.९.३ एतामेव बहुभ्यो यजमानेभ्यः कुर्याद्यः प्रथमो हिङ्कारः स प्रथमाया यत्तां सप्तभ्यो हिङ्करोति तेन सा सप्त भजते यत् सप्तैव मध्ये सपद्यन्ते तेन सा सप्त भजते य उत्तमो हिङ्कारः स उत्तमया यत्तां सप्तभ्यो हिङ्करोति तेन सा सप्त भजते सर्वानेवैनान् समावद्भाजः करोति नान्योऽन्यमप घ्नते समावदिन्द्रिया भवन्ति
२.९.४ तामेतामभिप्रतारिण उपासते तस्मात् त ओजिष्ठास्वानाम्

२.१०.१ एष एव व्यूह उभयः सप्तैकमध्या निर्मध्या
२.१०.२ आनुजावर स्तुवीतालोको वा एष यदानुजावरो यत् सप्तप्रथमाः सप्तोत्तमास्तिस्रो मध्ये त्र्यक्षरः पुरुषो लोकमेवास्मै तन्मध्यतः करोति तस्मिंल्लोके प्रति तिष्ठति
२.१०.३ एतामेव प्रजाकामाय कुर्यान्मध्यतो वा एष संरूढो यः प्रजां न विन्दते लोकमेवास्मै तं मध्यतः करोति तं लोकं प्रजया च पशुभिश्चानु प्र जायते
२.१०.४ एतामेवापरुद्धराजन्याय कुर्याद्विड्वै सप्तदशस्तस्या राजा गर्भो विश एव तद्राजानं निर्हन्त्यपावगतोऽप रुध्यतेऽव गच्छत्यपरुद्धः
२.१०.५ एतामेवाभिचर्यमाणाय कुर्यात् प्रजापतिर्वै सप्तदशः प्रजापतिमेव मध्यत्तः प्र विशन्त्यस्तृत्यै

२.११.१ पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया तिसृभ्यो हिङ्करोति स पराचीभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः
२.११.२ चतुरस्तोमान् प्रतिविहिता ब्रह्मवर्चसकामाः स्तुवीत पञ्चभिः पञ्चदशं तिसृभिस्त्रिवृतं नवभिस्त्रिणवं स्वयं सप्तदशः सम्पन्नो वीर्यं वै स्तोमा वीर्यमेव तदेकधा समूहते ब्रह्मवर्चस्यावरुद्ध्यै तेजस्वी ब्रह्मवर्चसी भवति य एतया स्तुते

२.१२.१ तिसृभ्यो हिङ्करोति स पराचीभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिरुद्यतीसप्तदशस्य विष्टुतिः
२.१२.२ एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव

२.१३.१ सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया पञ्चभ्यो हिङ्करोति स एकया स एकया स तिसृभिर्भस्त्रावाचीनबिला
२.१३.२ यं द्विष्यात् तस्य कुर्याद्यथावाचीनबिलया भस्त्रया प्रधूनुयादेवं यजमानस्य पशून् प्रधूनोत्यपक्रामन्ती विष्टुतिस्तया यजमानस्य पशवोऽपक्रामन्ति पापीयान् भवति य एतया स्तुते

२.१४.१ सप्तभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिः सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः सप्तसप्तिन्येकविंशस्य विष्स्टुतिः
२.१४.२ सप्त ग्राम्याः पशवस्तानेतया स्पृणोति सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्येवैतयाप्नोति
२.१४.३ एषा वै प्रतिष्थितैकविंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

२.१५.१ पञ्चभ्यो हिङ्करोति स तिसृभिः स एकया स एकया सप्तभ्यो हिङ्करोति स एकया स तिसृभिः स तिसृभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिरुद्यत्येकविंशस्य विष्टुतिः
२.१५.२ एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव
२.१५.३ सैषा त्रिवृत् प्रायणा त्रिवृदुदयना यत् त्रिवृद्बहिष्पवमानं भवति नवैता एकविंशस्योत्तमा भवन्ति प्राणा वै त्रिवृत् प्राणानेव तदुभयतो दधाति तस्मादयमर्धभागवाक्(?) प्राण उत्तरेषां प्राणानां सर्वमायुरेति न पुरायुषः प्रमीयते य एतया स्तुते
२.१५.४ तामेतां क्रद्विष उपासते तस्मात् ते सर्वमायुर्यन्ति

२.१६.१ नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः पञ्चभ्यो हिङ्करोति स एकया स तिसृभिः स एकया सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः प्रतिष्टुतिः
२.१६.२ नवभिस्त्रिवृतं प्रतिष्टौति पञ्चभिः पञ्चभिः पञ्चदशं सप्तभिः सप्तदशं स्वयमेकविंशः संपन्नः
२.१६.३ स एव स्तोमा यज्ञं वहन्ति तानुत्तमे स्तोत्रे संतर्पयति यथानडुहो वाश्वान् वाश्वतरान् वोहुषः संतर्पयेदेवमेतदुत्तमे स्तोत्रे स्तोमान् संतर्पयति तृप्यति प्रजया पशुभिर्य एतया स्तुते
२.१६.४ एतामेव पुरोधाकामाय कुर्याद्ब्रह्म वै त्रिवृत् क्षत्रमेकविंशो यत् त्रिवृतैकविंशं प्रतिपद्यते ब्रह्म तत् क्षत्रस्य पुरस्तान्निदधाति गच्छति पुरोधां न पुरोधायाश्च्यवते य एतया स्तुते
२.१६.५ तामेतां प्रावाहण्य उपासते तस्मात् ते पुरोधाया न च्यवन्त

२.१७.१ नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिस्तिसृभ्यो हिङ्करोति स पराचीभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः सूर्म्युभयत आदीप्ता
२.१७.२ ब्रह्मवर्चसकामः स्तुवीत तेजो वै त्रिवृत् त्र्यक्षरः पुरुषो यत् त्रिवृतावभितो भवतस्तिस्रो मध्ये यथा हि हिरण्यं निष्टपेदेवमेनं त्रिवृतौ निष्टपतस्तेजसे ब्रह्मवर्चसाय
२.१७.३ अपशव्येव तु वा ईश्वरा पशून्निर्दहः किलासत्त्वान्नूभयमति हि निष्टपतः
२.१७.४ एतामेवाभिशस्यमानाय कुर्याच्छमलं वा एतमृच्छति यमश्लीला वागृच्छति यैवैनमसावश्लीलं वाग्वदति तामस्य त्रिवृतौ निष्टपतस्तेजस्वी भवति य एतया स्तुते

३.१.१ नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स एकया नवभ्यो हिङ्करोति स एकया स तिसृभिः स पञ्चभिर्नवभ्यो हिङ्करोति स पञ्चभिः स एकया स तिसृभिः
३.१.२ वज्रो वै त्रिणवो वज्रमेव तद्व्यूहति शान्त्यै
३.१.३ पञ्चभिर्विहितैका परिचरा पाङ्क्ताः पशवो यजमानः परिचरा यत् पञ्चभिर्विदधात्येका परिचरा भवति यजमानमेव तत् पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता त्रिणवस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

३.२.१ सप्तभ्यो हिङ्करोति स तिसृभिः स एकया नवभ्यो हिङ्करोति स एकया स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिरुद्यती त्रिणवस्य विष्टुतिः
३.२.२ एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव

३.३.१ एकादशभ्यो हिङ्करोति स तिसृभिः स सप्तभिः स एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिः स सप्तभिरेकादशभ्यो हिङ्करोति स सप्तभिः स एकया स तिसृभिः
३.३.२ अन्तो वै त्रयस्त्रिंशः परमो वै त्रयस्त्रिंश स्तोमानां सप्तभिर्विहितैका परिचरा सप्त ग्राम्याः पशवो यजमानः परिचरा यत् सप्तभिर्विदधात्येका परिचरा भवति यजमानमेव तदन्ततः पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता त्रयस्त्रिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

३.४.१ एकादशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स तिसृभिरेकादशभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिर्नेदीयःसंक्रमा
३.४.२ अन्तो वै त्रयस्त्रिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात् संक्रामत्येवमेतन्नेदीयःसंक्रमया नेदीयःसंक्रमात् संक्रामति
३.४.३ पञ्चभिर्विहितास्तिस्रः परिचराः पाङ्क्ताः पशव एतावान् पुरुषो यदात्मा प्रजा जाया यत् पञ्चभिर्विदधाति तिस्रः परिचरा भवन्ति यजमानमेव तत् पशुषु प्रतिष्ठापयति पशुमान् भवति य एतया स्तुते

३.५.१ नवभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स एकयैकादशभ्यो हिङ्करोति स एकया स तिसृभिः स सप्तभिस्त्रयोदशभ्यो हिङ्करोति स सप्तभिः स तिसृभिरुद्यती त्रयस्त्रिंशस्य विष्टुतिः
३.५.२ एतया वै देवाः स्वर्गं लोकमायन् स्वर्गकामः स्तुवीत स्वर्गस्य लोकस्य समष्ट्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानोऽग्रादग्रं रोहत्यभिक्रामन्ती विष्टुतिरभिक्रान्त्या एवाभिक्रान्तेन हि यज्ञस्यर्ध्नोति तस्मादेतया स्तोतव्यमृद्ध्या एव

३.६.१ त्रयोदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिर्नवभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स तिसृभिः प्रत्यवरोहिणीत्रयस्त्रिंशस्य विष्टुतिः
३.६.२ यथा महावृक्षस्याग्रं सृप्त्वा शाखायाः शाखामालम्भमुपावरोहेदेवमेतयेमं लोकमुपावरोहति प्रतिष्ठित्यै
३.६.३ त्रिवृता प्रैति त्रिवृतोदेति प्राणा वै त्रिवृत् प्राणेनैव प्रैति प्राणमभ्युदेति सर्वमायुरेति न पुरायुषः प्रमीयते य एतया स्तुते
३.६.४ तामेतां करद्विष उपासते तस्मात् ते सर्वमायुर्यन्ति

३.७.१ पञ्चदशभ्यो हिङ्करोति स तिसृभिः स पञ्चभिरेकादशभ्यो हिङ्करोति स पञ्चभिः स तिसृभिः स तिसृभिः सप्तभ्यो हिङ्करोति स तिसृभिः स एकया स तिसृभिः
३.७.२ यो वै त्रयस्त्रिंशमेकविंशे प्रतिष्ठितं वेद प्रतितिष्ठति प्रतिष्ठा वा एकविंशः स्तोमानां यदेताः सप्त त्रयस्त्रिंशस्योत्तमा भवन्ति सप्तविधैकविंशस्य विष्टुतिरेकविंश एव तत् त्रयस्त्रिंशं प्रतिष्ठापयति प्रतितिष्ठति य एतया स्तुते

३.८.१ अष्टाभ्यो हिङ्करोति स तिसृभिः स चतसृभिः स एकयाष्टाभ्यो हिङ्करोति स एकया स तिसृभिः स चतसृभिरष्टाभ्यो हिङ्करोति स चतसृभिः स एकया स तिसृभिः
३.८.२ पशवो वै छन्दोगा यदष्टाभ्योऽष्टाभ्यो हिङ्करोति अष्टाशफाः पशवः शफशस्तत् पशूनाप्नोति
३.८.३ चतसृभिर्विहितैका परिचरा चतुष्पादाः पशवो यजमानः परिचरा यच्चतसृभिर्विदधात्येका परिचरा भवति यजमानमेव तत् पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिता चतुर्विंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

३.९.१ पञ्चदशभ्यो हिङ्करोति स तिसृभिः स एकादशभिः स एकया चतुर्दशभ्यो हिङ्करोति स एकया स तिसृभिः स दशभिः पञ्चदशभ्यो हिङ्करोति स एकादशभिः स एकया स तिसृभिः
३.९.२ ब्रह्मणो वा आयतनं प्रथमा क्षत्रस्य मध्यमा विश उत्तमा यत् पञ्चदशिन्यौ पूर्वे भवतश्चतुर्दशोत्तमा ब्रह्मणि चैव तत् क्षत्रे चौजो वीर्यं दधाति ब्रह्मणे चैव तत् क्षत्राय च विशमनुगां करोति क्षत्रस्येवास्य प्रकाशो भवति य एतया स्तुते
३.९.३ अस्तोमा वा एते यच्छन्दोगा अयुजो हि स्तोमा युग्मन्ति छन्दांसि यदेषा युजिनी चतुश्चत्वारिंशस्य विष्टुतिस्तेनास्तोमाः
३.९.४ एषा वै प्रतिष्ठिता चतुश्चत्वारिंशस्य विष्टुतिः प्रतितिष्ठैत् य एतया स्तुते

३.१०.१ चतुर्दशभ्यो हिङ्करोति स तिसृभिः स दशभिः स एकया पञ्चदशभ्यो हिङ्करोति स एकया स तिसृभिः स एकादशभिः पञ्चदशभ्यो हिङ्करोति स एकादशभिः स एकया स तिसृभिर्निर्मध्या
३.१०.२ अस्तीव वा अयं लोकोऽस्तीवासौ छिद्रमिवेदमन्तरिक्षं यदेषा निर्मध्या भवतीमानेव लोकाननु प्रजायते प्र प्रजया प्र पशुभिर्जायते य एतया स्तुते
३.११.१ पञ्चदशभ्यो हिङ्करोति स तिसृभिः स एकादशभिः स एकया पञ्चदशभ्यो हिङ्करोति स एकया स तिसृभिः स एकादशभिः चतुर्दशभ्यो हिङ्करोति स दशभिः स एकया स तिसृभिः
३.११.२ आज्यानां प्रथमा पृष्ठानां द्वितीयोक्थानां तृतीया
३.११.३ याज्यानां सा होतुर्या पृष्ठानां सा मैत्रावरुणस्य योक्थानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य या पृष्ठानां सहोतुर्योक्थानां सा मैत्रावरुणस्य याज्यानां सा ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य योक्थानां सा होतुर्याज्यानां सा मैत्रावरुणस्य या पृष्ठानां ब्राह्मणाच्छंसिनो यैव होतुः साच्छावाकस्य सर्वा आज्येषु सर्वाः पृष्थेषु सर्वा उक्थेषु
३.११.४ पशवो वै समीषन्ती यदेषा सर्वाणि सवनान्यनुसंचरत्यनुसवनमेवैनं पशुभिः समर्धयति पशुमन् भवति य एतया स्तुते

३.१२.१ षोडशभ्यो हिङ्करोति स तिसृभिः स द्वदशभिः स एकया षोडशभ्यो हिङ्करोति स एकया स तिसृभिः स द्वादशभिः षोडशभ्यो हिङ्करोति स द्वादशभिः स एकया स तिसृभिः
३.१२.२ अन्तो वा अष्टाचत्वारिंशः पशवश्छन्दोगा यत् षोडशभ्यःषोडशभ्यो हिङ्करोति षोडशकलाः पशवः कलाशस्तत् पशूनाप्नोति
३.१२.३ द्वादशभिर्विहितैका परिचरा द्वादशमासास्संव्वत्सरो यजमानः परिचरा यद्द्वादशभिर्विदधात्येका परिचरा भवति यजमानमेव तदन्ततस्संव्वत्सरे पशुषु प्रतिष्ठापयत्येषा वै प्रतिष्ठिताष्टाचत्वारिंशस्य विष्टुतिः प्रतितिष्ठति य एतया स्तुते

३.१३.१ षोडशभ्यो हिङ्करोति स तिसृभिः स दशभिः स तिसृभिः षोडशभ्यो हिङ्करोति स तिसृभिः स तिसृभिः स दशभिः षोडशभ्यो हिङ्करोति स दशभिः स तिसृभिः स तिसृभिर्नेदीयःसंक्रमा
३.१३.२ अन्तो वा अष्टाचत्वारिंशो यथा महावृक्षस्याग्रं सृप्त्वा नेदीयःसंक्रमात् संक्रामत्येवमेतन्नेदीयःसंक्रमया नेदीयःसंक्रमात् संक्रामति
३.१३.३ दशभिर्विहिता तिस्रः परिचरा दशाक्षरा विराडेतावान् पुरुषो यदात्मा प्रजा जाया यद्दशभिर्विदधात्त् तिस्रः परिचरा भवन्ति यजमानमेव तद्विराज्यन्नाद्येऽन्ततः प्रतिष्ठापयत्यन्नादो भवति य एतया स्तुते

४.१.१ गावो वा एतत् सत्त्रमासत तासां दशसु मास्सु शृङ्गण्यजायन्त ता अब्रुवन्नराः स्मोत्तिष्ठामोपशा नोऽज्ञतेति ता उदतिष्ठन्
४.१.२ तासां त्वेवाब्रुवन्नासामहा एवेमौ द्वादशौ मासौ संसंव्वत्सरमापयामेति तासां द्वादशसु माःसु शृङ्गाणि प्रावर्तन्त ताः सर्वमन्नाद्यमाप्नुवंस्ता एतास्तूपरास्तस्मात् ताः सर्वान् द्वादशमासः प्रेरते सर्वं हि ता अन्नाद्यमाप्नुवन्
४.१.३ सर्वमन्नाद्यमाप्नोति य एवंव्वेद
४.१.४ प्रजापतिर्वा इदमेक आसीत् सोऽकामयत बहु स्यां प्रजायेयेति स एतमतिरात्रमपश्यत् तमाहरत् तेनाहोरात्रे प्राजनयत्
४.१.५ यदेषोऽतिरात्रो भवत्यहोरात्रे एव प्रजनयन्त्यहोरात्रयोः प्रतितिष्ठन्त्येतावान् वाव संव्वत्सरो यदहस्च रात्रिश्चाहोरात्राभ्यामेव तत् संव्वत्सरमाप्नुवन्ति
४.१.६ यज्ज्योतिष्टोमो भवति यज्ञमुखं तदृध्नुवन्ति यदुक्थो यज्ञक्रतोरनन्तरयाय यद्रात्रिः सर्वस्याप्त्यै
४.१.७ स एतान् स्तोमानपश्यत् ज्योतिर्गौरौरितीमे वै लोका एते स्तोमा अयमेव ज्योतिरयं मध्यमो गौरसावुत्तम आयुः
४.१.८ यदेते स्तोमा भवन्तीमानेव लोकान् प्रजनयन्त्येषु लोकेषु प्रतितिष्ठन्ति
४.१.९ स एतं त्र्यहं पुनः प्रायौङ्क्त तेन षडहेन षट्क्रतून् प्राजनयत्
४.१.१० यदेष षडहो भवति ऋतूनेव प्रजनयन्ति ऋतुषु प्रतितिष्ठन्ति
४.१.११ स एतं षडहं पुनः प्रायुङ्क्त ताभ्यां द्वाभ्यां षडहाभ्यां द्वादशमसः प्राजनयत्
४.१.१२ यदेतौ षडहौ भवतो मासानेव प्रजनयन्ति मासेषु प्रतितिष्ठन्ति
४.१.१३ स एतौ द्वौ षडहौ पुनः प्रयुङ्क्त तैश्चतुर्भिः षडहैश्चतुर्विंशतिमर्धमासान् प्राजनयत्
४.१.१४ यदेते चत्वारः षडहा भवन्त्यर्धमासानेव प्रजनयन्त्यर्धमासेषु प्रतितिष्ठन्ति
४.१.१५ स इदं भुवनं प्रजनयित्व पृष्ठ्येन षडहेन वीर्यमात्मन्यधत्त
४.१.१६ यदेषः पृष्ठ्यः षडहो भवति वीर्य एवान्ततः प्रतितिष्ठन्ति
४.१.१७ तेन मासान् संव्वत्सरं प्राजनयद्यदेष मासो भवति संव्वत्सरमेव प्रजनयन्ति संव्वत्सरे प्रतितिष्ठन्ति

४.२.१ प्रायणीयमेतदहर्भवति
४.२.२ प्रायणीयेन वा अह्ना देवाः स्वर्गं लोकं प्रायन् यत् प्रायंस्तत् प्रायणीयस्य प्रायणीयत्वम्
४.२.३ तस्मात् प्रायणीयस्याह्न ऋत्विजा भवितव्यमेतद्धि स्वर्गस्य लोकस्य नेदिष्ठं य एतस्यर्त्विङ्न भवति हीयते स्वर्गाल्लोकात्
४.२.४ चतुर्विंशं भवति
४.२.५ चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमारभ्य प्रयन्ति
४.२.६ चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरः साक्षादेव संव्वत्सरमारभन्ते
४.२.७ यावत्यश्चतुर्विंशस्योक्थस्य स्तोत्रीयास्तावत्यः संव्वत्सरस्य रात्रयः स्तोत्रीयाभिरेव तत् संव्वत्सरमाप्नुवन्ति
४.२.८ पञ्चदशस्तोत्राणि भवन्ति पञ्चदशार्धमासस्य रात्रयोऽर्धमासश एव तत् संव्वत्सरमाप्नुवन्ति
४.२.९ पञ्चदश स्तोत्राणि पञ्चदशशस्त्राणि समासो मासश एव तत् संव्वत्सरमाप्नुवन्ति
४.२.१० तदाहुरीर्म इव वा एषा होत्रा यदच्छावाक्या यदच्छावाकमनुसंतिष्ठत ईश्वरेर्मा भवितोरिति यद्युक्थं स्मात्रैककुभञ्चोद्वंशीयञ्चान्ततः प्रतिष्ठाप्ये वीर्यं वा एते समनी वीर्य एवान्ततः प्रतितिष्ठन्ति
४.२.११ अथो खल्वाहुरग्निष्टोममेव कार्यमेष वै यज्ञः स्वर्ग्यो यदग्निष्टोम ऊर्ध्वो हि होतारमनुसंतिष्ठते
४.२.१२ द्वादशस्तोत्राण्यग्निष्टोमो द्वादश मासाः संव्वत्सरस्तेन संव्वत्सरसंमितो द्वादश स्तोत्रणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संव्वत्सरस्तेन संव्वत्सरसंमितः
४.२.१३ अथो खल्वाहुरुक्थमेव कार्यमह्नः समृद्ध्यै
४.२.१४ सर्वाणि रूपाणि क्रियन्ते सर्वं ह्येताह्नाप्यते
४.२.१५ पवन्ते वाजसातये सोमाः सहस्रपाजस इति सहस्रवती प्रतिपत् कार्या
४.२.१६ संव्वत्सरस्य रूपं सर्वनेवैनानेतया पुनाति सर्वानभिवदति
४.२.१७ अथो खल्वाहुः पवस्व वाचो अग्रिय इत्येव कार्या मुखं वा एतत् संव्वत्सरस्य यद्वाचोऽग्रं मुखत एव तत् संव्वत्सरमारभन्ते
४.२.१८ मिथुनमिव वा एषा व्याहृतिः पवस्वेति पुंसो रूपं वाच इति स्त्रियाः सोमेति पुंसो रूपं चित्राभिरिति स्त्रिया मिथुनमेवैभ्यो यज्ञमुखे दधाति प्रजननाय
४.२.१९ अग्ने युङ्क्ष्वा हि ये तवेति जराबोधीयमग्निष्टोम साम कार्यं युक्तेनैव संव्वत्सरेण प्रयन्ति चतुर्विंशत्यक्षरासु भवति चतुर्विंशस्य रूपम्
४.२.२० अथो खल्वाहुर्यज्ञायज्ञीयमेव कार्यम्
४.२.२१ पन्था वै यज्ञायज्ञीयं पथ एव तन्न यन्ति

४.३.१ अभीवर्तो ब्रह्मसाम भवति
४.३.२ अभीवर्तेन वै देवाः स्वर्गं लोकमभ्यवर्तन्त यदभीवर्तो ब्रह्मसाम भवति स्वर्गस्य लोकस्याभिवृत्त्यै
४.३.३ एकाक्षरणिधनो भवत्येकाक्षरा वै वाग्वाचैव तदारभ्य स्वर्गं लोकं यन्ति
४.३.४ साम्नेतो यन्त्यृचा पुनरायन्ति
४.३.५ साम वै असौ लोक ऋगयं यदितः साम्ना यन्ति स्वर्गं लोकमारभ्य यन्ति यदृचा पुनरायन्त्यस्मिन् लोके प्रतितिष्ठन्ति
४.३.६ यत् सामावसृजेयुरव स्वर्गाल्लोकात् पद्येरन् यदृचमनुसृजेयुर्नश्येयुरस्माल्लोकात्
४.३.७ समानं साम भवत्यन्योऽन्यः प्रगाथोऽन्यदन्यद्धि चित्रमध्वानमवगच्छन्नेति
४.३.८ वृषा वा एष रेतोधा यदभीवर्तः प्रगाथेषु रेतो दधदेति यदितः समानं साम भवत्यन्योऽन्यः प्रगाथो रेत एव तद्दधति यत् परस्तात् समानः प्रगाथो भवत्यन्यदन्यत् साम रेत एव तद्धितं प्रजनयन्ति
४.३.९ साम्नेतः प्रगाथां दुग्धे प्रगाथेन परस्तात् सामानि दुग्धे सलोमत्वाय
४.३.१० यो वा अध्वानं पुनर्निवर्तयन्ति नैनं ते गच्छन्ति येऽपुनर्निवर्तं यन्ति ते गच्छति
४.३.११ य आस्तुतं कुर्वते यथा दुग्धामुपसीदेदेवं तत्
४.३.१२ ये नास्तुतं यं कामं कामयन्ते तमभ्यश्नुवते
४.३.१३ ब्रह्मवादिनो वदन्ति यातयामाः संव्वत्सरा३ अयातयामा३ इति ते नायातयामेति वक्तव्यं पुनरन्यानि स्तोत्राणि निवर्तन्त ऊर्ध्वमेव ब्रह्मसामैति

४.४.१ पञ्चसु माःसु बार्हताः प्रगाथा आप्यन्ते
४.४.२ तेष्वाप्तेषु छन्दसी संयुज्यैतव्यम्
४.४.३ तिस्र उष्णिहः स्युरेका गायत्री तास्तिस्रो बृहत्यो भवन्ति
४.४.४ तदाहुः संशर इव वा एष च्छन्दसां यद्द्वे छन्दसी संयुञ्जन्तीति
४.४.५ चतुरुत्तरैरेव च्छन्दोभिरेतव्यम्
४.४.६ पशवो वै चतुरुत्तराणि च्छन्दसांसि पशुभिरेव तत् स्वर्गं लोकमाक्रममानयन्ति
४.४.७ एकं गायत्रीमेकाहमुपेयुरेकामुष्णिहमेकाहमेकामनुष्टुभमेकाहं बृहत्या पञ्चमास इयुः पङ्क्तिम् एकाहमुपेयुस्त्रिष्टुभा षष्ठं मासमीयुः श्वो विषुवान् भवितेति जगतीमुपेयुः
४.४.८ तदाहुरनवकॢप्तानि वा एतानि च्छन्दांसि मध्यन्दिने बृहत्या चैव त्रिष्टुभा चैतव्यम्
४.४.९ एते वै छन्दसी वीर्यवती एते प्रत्यक्षं मध्यन्दिनस्य रूपम्
४.४.१० रथन्तरेऽहनि बृहती कार्यैतद्वै रथन्तरस्य स्वमायतनं यद्बृहती स्व एव तदायतने रथन्तरं प्रतितिष्ठति बार्हतेऽहनि त्रिष्टुप्कार्यैतद्वै बृहतः स्वमायतनं यत् त्रिष्टुप्स्व एव तदायतने बृहद्रथन्तरे प्रतितिष्ठन्ती इतः
४.४.११ त्रयस्त्रिंशता प्रगाथैरेतव्यं त्रयस्त्रिंशद्देवता देवतास्वेव प्रतितिष्ठन्तो यन्ति चतुर्विंशत्यैतव्यं चतुर्विंशतिरर्धमासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति द्वादशभिरेतव्यं द्वादश मासाः संव्वत्सरः संव्वत्सर एव प्रतितिष्ठन्तो यन्ति षड्भिरेतव्यं षडृतव ऋतुष्वेव प्रतितिष्ठन्तो यन्ति चतुर्भिरेतव्यं चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठन्तो यन्ति त्रिभिरेतव्यं त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठन्तो यन्ति द्वाभ्यामेतव्यं द्विपाद्यजमानः स्वर्गस्य लोकस्याक्रान्त्या अन्येनान्येन हि पदा पुरुषः प्रतितिष्ठन्नेति

४.५.१ स्वरसामान एते भवन्ते
४.५.२ स्वर्भानुर्वा आसुरादित्यं तमसाविध्यत् तं देवाः स्वरैरस्पृण्वन् यत् स्वरसामानो भवन्त्यादित्यस्य स्पृत्यै
४.५.३ परैर्वै देवा आदित्यं स्वर्गं लोकमपारयन् यदपरयंस्तत् पराणां परत्वं
४.५.४ पारयन्त्येनं पराणि य एवंव्वेद
४.५.५ सप्तदशा भवन्ति
४.५.६ प्रजापतिर्वै सप्तदशः प्रजापतिमेवोपयन्ति
४.५.७ अनुष्टुप्छन्दसो भवन्त्यानुष्टुभो वै प्रजापतिः साक्षादेव प्रजापतिमारभन्ते
४.५.८ त्रयः पुरस्तात् त्रयः परस्ताद्भवन्ति
४.५.९ देवा वा आदित्यस्य स्वर्गाल्लोकादवपादादबिभयुस्तमेतैः स्तोमैः सप्तदशैरदृंहन् यदेते स्तोमाभवन्त्यादित्यस्य धृत्यै
४.५.१० चतुस्त्रिंशा भवन्ति वर्ष्म वै चतुस्त्रिंशो वर्ष्मणैवैनं संमिमते
४.५.११ तस्य पराचीनातिपादादबिभयुस्तं सर्वैः स्तोमैः +पर्यार्षन् विश्वजिदभिजिद्भ्यां वीर्यं वा एतौ स्तोमौ वीर्येणैव तदादित्यं पर्युषन्ति धृत्यै
४.५.१२ अनवपादायानतिपादाय
४.५.१३ तदाहुः कर्तप्रस्कन्द इव वा एष यत् त्रयस्त्रिंशत+ः सप्तदशमुपयन्तीति पृष्ठ्योऽन्तरः कार्यः
४.५.१४ तस्य यत् सप्तदशमहस्तदुत्तमं कार्यं सलोमत्वाय
४.५.१५ तदाहुरुदरं वा एष स्तोमानां यत् सप्तदशो यत् सप्तदशं मध्यतो निर्हरेयुरशनायवः प्रजाः स्युरशनायवः सत्त्रिणः
४.५.१६ त्रयस्त्रिंशादेव सप्तदश उपेत्यो वर्ष्म वै त्रयस्त्रिंशो वर्ष्म सप्तदशो वर्ष्मण एव तद्वर्ष्माभिसंक्रामन्ति
४.५.१७ नानाहुरुक्थाः कार्या३ इति यद्युक्थाः स्युः
४.५.१८ पशवो वा उक्थानि शान्तिः पशवः शान्तेनैव तद्विषुवन्तमुपयन्ति
४.५.१९ तदाहुर्विवीवधमिव वा एतद्यदग्निष्टोमो विषुवानग्निष्टोमौ विश्वजिदभिजितावथेतर उक्थाः स्युरिति
४.५.२० अग्निष्टोमा एव सर्वे कार्याः
४.५.२१ वीर्यं वा अग्निष्टोमो वीर्य एव मध्यतः प्रतितिष्ठन्ति नव संस्तुता भवन्ति नव प्राणाः प्रणेष्वेव प्रतितिष्ठन्ति

४.६.१ विषुवानेष भवति
४.६.२ देवलोको वा एष यद्विषुवान् देवओकमेव तदभ्यारोहन्ति
४.६.३ एकविंशो भवत्येकविंशो वा अस्य भुवनस्यादित्य आदित्यलोकमेव तदभ्यारोहन्ति
४.६.४ द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंशः
४.६.५ मध्यत एव यज्ञस्य प्रतितिष्ठन्ति
४.६.६ वायो शुक्रो अयामि त इति शुक्रवती प्रतिपद्भवत्यादित्यस्य रूपम्
४.६.७ वायुर्वा एतं देवतानामानशेऽनुष्टुप्छन्दसं यदतोऽन्या प्रतिपत् स्यात् प्रदहेत्
४.६.८ यन्ति वा एते प्राणादित्याहुर्ये गायत्र्याः प्रतिपदो यन्तीति यद्वयव्या भवन्ति तेन प्राणान्न यन्ति प्राणो हि वायुः
४.६.९ अथो शमयन्त्येवैनमेतया शन्तिर्हि वायुः
४.६.१० आ याहि सोमपीतय इति सौमी पावमानी
४.६.११ नियुत्वती भवति पशवो वै नियुतः शान्तिः पशवः शान्तेनैव तदादित्यमुपयन्ति
४.६.१२ दिवाकीर्त्यसामा भवति
४.६.१३ स्वर्भानुर्वा आसुरादित्यं तमसाविध्यत् तस्य देवा दिवाकीर्त्यैस्तमोऽपाघ्नन् यद्दिवाकीर्त्यानि भवन्ति तम एवास्मादपघ्नन्ति रश्मयो वा एत आदित्यस्य यद्दिवाकीर्त्यानि रश्मिभिरेव तदादित्यं साक्षादारभन्ते
४.६.१४ भ्राजाभ्राजे पवमानमुखे भवतो मुखत एवास्य ताभ्यां तमोऽपघ्नन्ति
४.६.१५ महादिवाकीर्त्यं च विकर्णं च मध्यतो भवतो मध्यत एवास्य ताभ्यां तमोऽपघ्नन्ति भासमन्ततो भवति पत्त एवास्य तेन तमोऽपघ्नन्ति
४.६.१६ दशस्तोभं भव्ति दशाक्षरा विराड्विराज्येव प्रतितिष्ठन्ति
४.६.१७ यत् त्वित्याहुः षड्भिरितो मासैरध्वानं यन्ति षड्भिः पुनरायन्ति क्व तर्हि स्वर्गो लोको यस्य कामाय सत्त्रमासत इति
४.६.१८ मूर्धानं दिव इति स्वर्गं लोकमारभन्ते
४.६.१९ अरतिं पृथिव्या इत्यस्मिं लोके प्रतितिष्ठन्ति
४.६.२० वैश्वानरमृत आजातमग्निमिति विषुवत एव तद्रूपं क्रियते
४.६.२१ कविं सम्राजमतितिहिं जनानामित्यन्नाद्यमेवोपयन्ति
४.६.२२ आसन्नापात्रं जनयन्त देवा इति जायन्त एव
४.६.२३ तत् त्रिष्टुब्जगतीषु भवति त्रैष्टुभ्जागतो वा आदित्यो यदतोऽन्यासु स्यादव स्वर्गाल्लोकात् पद्येरन्
४.६.२४ सम्राड्वतीषु भवति साम्राज्यं वै स्वर्गो लोकः स्वर्ग एव लोके प्रतितिष्ठन्ति

४.७.१ आत्मा वा एष संव्वत्सरस्य यद्विषुवान् पक्षावेतावभितो भवतो येन चेतोऽभीवर्तेन यन्ति यश्च परस्मात् प्रगाथो भवति तावुभौ विषुवति कार्यौ पक्षावेव तद्यज्ञस्यात्मन् प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै
४.७.२ इन्द्र क्रतुं न आभरेति प्रगाथो भवति
४.७.३ वसिष्ठो वा एतं पुत्रहतोऽपश्यत् स प्रजया पशुभिः प्राजायत यदेष प्रगाथो भवति प्रजात्यै
४.७.४ जीवा ज्योतिरशीमहीति ये वै स्वस्ति संव्वत्सरं संतरन्ति ते जीवा ज्योतिरश्नुवते
४.७.५ मानो अज्ञाता वृजना दुराध्यो माशिवासोऽवक्रमुरिति ये वै स्तेना रिपवस्ते दुराध्यस्तानेव तदतिक्रामति
४.७.६ त्वया व्ययं प्रवतः शश्वतीरपोऽति शूर तराम सोऽतिसंव्वत्सरो वै प्रवतः शश्वतीरपस्तमेव तत् तरन्ति
४.७.७ अद्याद्याश्वः श्वस्त्वामिदा ह्यो नरो वयमेनमिदा ह्य इति संतनयः प्रगाथा भवन्ति तेषामेकः कार्यः सलोमत्वाय श्वस्तनमेवाभिसंतन्वन्ति
४.७.८ अथो खल्वाहुरिन्द्र क्रतुं न आभरेत्येव कार्यं समृद्ध्यै
४.७.९ प्रत्यवरोहिणो मासा भवन्ति
४.७.१० यथा वा इतो वृक्षं रोहन्त्येवमेनं प्रत्यवरोहन्ति स्वर्गमेव लोकं रूढ्वास्मिंल्लोके प्रतितिष्ठन्ति

४.८.१ गौश्चायुश्च स्तोमौ भवतः
४.८.२ द्विपाद्यजमानः प्रतिष्ठित्यै
४.८.३ ऊनातिरिक्तौ भवत ऊनातिरिक्तं वा अनु प्रजाः प्रजायन्ते प्रजात्यै
४.८.४ वैराजौ भवतोऽन्नं विराडन्नाद्य एव प्रतितिष्ठन्ति
४.८.५ द्वादशाहस्य दशाहानि भवन्ति
४.८.६ विराड्वा एषा समृद्धा यद्दशाहानि विराज्येव समृद्धायां प्रतितिष्ठन्ति
४.८.७ पृष्थानि भवन्ति वीर्यं वै पृष्ठानि वीर्य एव प्रतितिष्ठन्ति च्छन्दोमा भवन्ति पशवो वै च्छन्दोमाः पशुष्वेव प्रतितिष्ठन्त्यथैतद्दशममहराप्तस्तोममाप्तच्छन्द आप्तविभक्तिकमनिरुक्तं प्राजापत्यम्
४.८.८ यदध्याहुरति तद्रेचयन्ति तस्मान्न व्युच्यम्
४.८.९ परोक्षमनुष्टुभमुपयन्ति प्रजापतिर्वा अनुष्टुब्यत् प्रत्यक्षमुपेयुः प्रजापतिमृच्छेयुः
४.८.१० यो वै सत्त्रस्य सद्वेद सद्भवति वामदेव्यं वै साम्नां सदग्निर्देवतानां विराट्छन्दसां त्रयस्त्रिंशः स्तोमानां तान्येव तदेकधा संभृत्योत्तिष्ठन्ति
४.८.११ ब्रह्मवादिनो वदन्ति यतः सत्त्रादुदस्थाता३ थिता३ इति
४.८.१२ ये रथन्तरेण स्तुत्वोत्तिष्ठन्ति ते यत उत्तिष्ठन्ति तान् ब्रूयादप्रतिष्ठाना भविष्यन्तीति ये बृहता स्तुत्योत्तिष्ठन्ति ते स्थितादुत्तिष्ठन्ति तान् ब्रूयात् स्थायुकैषां श्रीर्भविष्यति न वसीयांसो भविष्यन्तीति
४.८.१३ ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति ते सतः सदभ्युत्तिष्ठन्ति पूर्णात् पूर्णमायतनादायतनमन्तरिक्षायतना हि प्रजा
४.८.१४ त्रयस्त्रिंशदक्षरासु भवति त्रयस्त्रिंशद्देवतास्वेव प्रतिष्ठायोत्तिष्ठन्ति
४.८.१५ प्राजापत्यं वै वामदेव्यं प्रजापतावेव प्रतिष्ठायोत्तिष्ठन्ति पशवो वै वामदेव्यं पशुष्वेव प्रतिष्ठायोत्तिष्ठन्ति
४.९.१ पत्नीः संयाज्य प्राञ्च उदेत्यायं सहस्रमानव इत्यतिच्छन्दसाहवनीयमुपतिष्ठन्ते
४.९.२ इमे वै लोका अतिच्छन्दा एष्वेव लोकेषु प्रतितिष्ठन्ति
४.९.३ गोरिति निधनं भवति विराजो वा एतद्रूपं यद्गौर्विराज्येव प्रतितिष्ठन्ति
४.९.४ प्रत्यञ्चः प्रपद्य सार्पराज्ञ्या ऋग्भिः स्तुवन्ति
४.९.५ अर्बुदः सर्प एताभिर्मृतां त्वचमपाहत मृतामेवैताभिर्स्त्वचमपघ्नते
४.९.६ इयं वै सार्पराज्ञ्यस्यामेव प्रतितिष्ठन्ति
४.९.७ तिसृभिः स्तुवन्ति त्रय इमे लोका एष्वेव प्रतितिष्ठन्ति
४.९.८ मनसोपावर्तयति
४.९.९ मनसा हिङ्करोति मनसा प्रस्तौति मनसोद्गायति मनसा प्रतिहरति मनसा निधनमुपयन्त्यसमाप्तस्य समाप्त्यै
४.९.१० यद्वै वाचा न समाप्नुवन्ति मनसा तत् समाप्नुवन्ति
४.९.११ परिश्रिते स्तुवन्ति ब्रह्मणः परिगृहीत्यै
४.९.१२ ब्रह्मोद्यं वदन्ति ब्रह्मवर्चस एव प्रतितिष्ठन्ति
४.९.१३ चतुर्होतारं होता व्याचष्टे स्तुतमेव तदनुशंसति नहि तत् स्तुतं यदननुशस्तम्
४.९.१४ प्रजापतिं परिवदन्त्याप्त्वेवैनं तद्व्याचक्षते तावदापामैनमिति
४.९.१५ गृहपतिरौदुम्बरीं धारयति गृहपतिर्वा ऊर्जो यन्तोर्जमेवैभ्यो यच्छति
४.९.१६ वाचं यच्छन्ति
४.९.१७ दुग्धानीव वै तर्हि छन्दसांसि यातयामान्यन्तर्गतानि तान्येव तद्रसेनाप्याययन्ति
४.९.१८ अथो श्वस्तनमेवाभिसंतन्वन्ति
४.९.१९ आत्मदक्षिणं वा एतद्यत् सत्त्रम्
४.९.२० यदा वै पुरुष आत्मनोऽवद्यति यं कामं कामयते तमभ्यश्नुते
४.९.२१ द्वाभ्यां लोमावद्यति द्वाभ्यां त्वचं द्वाभ्यां मांसं द्वाभ्यामस्थि द्वाभ्यां मज्जानं द्वाभ्यां पीवश्च लोहितं च
४.९.२२ शिखा अनुप्रवपन्ते पाप्मानमेव तदपघ्नते लघीयांसः स्वर्गं लोकमयामेति
४.९.२३ अथो गवामेवानुरूपा भवन्ति सर्वस्यान्नाद्यस्यावरुद्ध्यै

४.१०.१ प्रजापतिः प्रजा असृजत सोऽरिच्यत सोऽपद्यत तं देवा अभिसमगच्छन्त तेऽब्रुवन्महदस्मै व्रतं संभराम यदिमं धिनवदिति तस्मै यत् संव्वत्सरमन्नं पच्यते तत् समभरंस्तदस्मै प्रायच्छंस्तदव्रजयत् तदेनमधिनोन्महन्मर्या व्रतं यदिममधिन्वीदिति तन्महाव्रतस्य महाव्रतत्वम्
४.१०.२ प्रजापतिर्वाव महांस्तस्यैतद्व्रतमन्नमेव
४.१०.३ तदाहुर्मध्यः संव्वत्सरस्योपेत्यं मध्यतो वा अन्नं जग्धं धिनोति
४.१०.४ तद्वाहुर्यन्मध्यत उपयन्त्यर्धमन्नाद्यस्याप्नुवन्त्यर्धं सम्बट्कुर्वन्तीत्युपरिष्टादेव संव्वत्सरस्योपेत्यं संव्वत्सरे वा अन्नं सर्वं पच्यते
४.१०.५ चतुर्विंशं भवति चतुर्विंशो वै संव्वत्सरोऽन्नं पञ्चविंशम्
४.१०.६ यद्वा अदश्चतुर्विंशंप्रायणीयं तदेतदुदयनीयम्
४.१०.७ यत् संव्वत्सरमन्नं संभरन्ति सैषा पञ्चविंश्युपजायते

५.१.१ वामदेव्यं महाव्रतं कार्यम्
५.१.२ त्रिवृच्छिरो भवति
५.१.३ त्रिवृद्ध्येव शिरो लोम त्वगस्थि
५.१.४ पाङ्क्त इतर आत्मा लोम त्वङ्मांसमस्थि मज्जा
५.१.५ सकृद्धिङ्कृतेन शिरसा पाराचा स्तुवते
५.१.६ तस्माच्छिरोऽङ्गानि मेद्यन्ति नानुमेद्यति न कृश्यन्त्यनुकृश्यति
५.१.७ पुनरभ्यावर्तमितरेणात्मना स्तुवते तस्मादितर आत्मा मेद्यति च कृश्यति च
५.१.८ अर्कवतीषु गायत्रीषु शिरो भवति
५.१.९ अन्नं वा अर्को ब्रह्मवर्चसं गायत्र्यन्नाद्यं चैवैभ्यो ब्रह्मवर्चसं च मुखतो दधाति
५.१.१० पञ्चदशसप्तदशौ पक्षौ भवतः प्रक्षाभ्यां वै यजमानो वयो भूत्वा स्वर्गं लोकमेति
५.१.११ तावाहुः समौ कार्यौ पञ्चदशौ वा सप्तदशौ वा सवीवधत्वाय
५.१.१२ तद्वाहुर्यत् समौ भवत एकवीर्यौ तर्हि भवत इति पञ्चदशसप्तदशावेव कार्यौ साचीव वै वयः पक्षौ कृत्वापतीयः पतति
५.१.१३ दक्षिणतो बृहत् कार्यं दक्षिणो वा अर्ध आत्मनो वीर्यवत्तरः
५.१.१४ अथो खल्वाहुरुत्तरत एव कार्यं ब्राह्मणाच्छंसिनोऽर्धात् त्रैष्टुभं वै बृहत् त्रैष्टुभो वै ब्राह्मणाच्छंसी त्रैष्टुभः पञ्चदशस्तोमः
५.१.१५ दक्षिणतो रथन्तरं कार्यं मैत्रावरुणस्यार्धाद्गायत्रं वै रथन्तरं गायत्रो मैत्रावरुणो गायत्रः सप्तदशस्तोमः
५.१.१६ एकविंशं पुच्छं भवति
५.१.१७ एकविंशो वै स्तोमानां प्रतिष्ठा तस्माद्वयः पुच्छेन प्रतिष्ठायोत्पतति पुच्छेन प्रतिष्ठाय निषीदति
५.१.१८ यज्ञायज्ञीयं पुच्छं कार्यं यज्ञायज्ञीयं ह्येव महाव्रतस्य पुच्छम्
५.१.१९ अथो खल्वाहुरतिशयं वै द्विपदां यज्ञायज्ञीयं भद्रं कार्यं समृद्ध्यै

५.२.१ वामदेव्यं महाव्रतं कार्यं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ यज्ञायज्ञीयं पुच्छम्
५.२.२ यो वै महाव्रते सहस्रं प्रोतं वेद प्र सहस्रं पशूनाप्नोति
५.२.३ तस्य प्राची दिक्शिरस्तच्छन्दोभिः सहस्रमसावन्यतरः पक्षः सनक्षत्त्रैः साहस्रोऽयमन्यतरः पक्षः स ओषधिभिश्च वनस्पतिभिश्च साहस्रोऽन्तरिक्षमात्मा तद्वयोभिः साहस्रं प्रतीची दिक्पुच्छं तदग्निभिश्च रश्मिभिश्च साहस्रं प्र ससस्रं पशूनाप्नोति य एवंव्वेद
५.२.४ तदाहुरपृष्ठं वै वामदेव्यमनिधनं हीति
५.२.५ अनायतनं वा एतत् साम यदनिधनम्
५.२.६ राजनं महाव्रतं कार्यम्
५.२.७ एतद्वै साक्षादन्नं यद्राजनं पञ्चविधं भवति पाङ्क्तं ह्यन्नम्
५.२.८ हिङ्कारवद्भवति तेन वामदेव्यस्य रूपम्
५.२.९ निधनवद्भवति तेन प्र्ष्ठस्य रूपम्
५.२.१० अतिच्छन्दःसु पञ्चनिधनं वामदेव्यं ब्रह्मसाम कार्यम्
५.२.११ अति वा एषान्यानि च्छन्दांसि यदतिच्छन्दा अत्येतदन्यान्यहान्यहर्यन्महाव्रतम्
५.२.१२ ब्रह्मसाम्नैव तदन्यान्यहान्यतिमेदयति
५.२.१३ पञ्चनिधनं भवति पाङ्क्तं ह्यन्नम्
५.३.१ इलान्दमग्निष्टोमसाम कार्यम्
५.३.२ एतद्वै साक्षादन्नं यदिलान्दमिरान्नं एतदिरायामेवान्नाद्येऽन्ततः प्रतितिष्ठन्ति
५.३.३ समुद्रो वा एतच्छन्दः सलिलं लोमशं समुद्र इव खलु वै स भवति सलिल इव लोमश इव यो भवति
५.३.४ तस्मादेतासु कार्यं समृद्ध्यै
५.३.५ व्रतमिति निधनं भवति महाव्रतस्यैव तद्रूपं क्रियते स्वरिति भवति स्वर्गस्य लोकस्य समष्ट्यै शकुन इति भवति शकुन इव वै यजमानो वयो भूत्वा स्वर्गंल्लोकमेति
५.३.६ यज्ञायज्ञीयमग्निष्टोमसाम कार्यम्
५.३.७ यद्वा अन्या वाङ्नातिवदेत् तदग्निष्टोमसाम कार्यं न वै वाग्वाचमतिवदति वाग्यज्ञायज्ञीयं वाच्येवान्ततः प्रतितिष्ठन्ति
५.३.८ वारवन्तीयमग्निष्टोमसाम कार्यम्
५.३.९ अग्निर्वा इदं वैश्वानरोऽदहन्नैतस्माद्देवा अबिभयुस्तं वरणशाखयावारयन्त यदवारयन्त तस्माद्वारवन्तीयम्
५.३.१० तस्माद्वरणो भिषज्य एतेन हि देवा आत्मानमत्रायन्त
५.३.११ तस्माद्ब्राह्मणो वारणेन न पिबेद्वैश्वानरं नेच्छमया इति
५.३.१२ पशवो वै वारवन्तीयं शान्तिः पशवः शान्तादेव तत् संव्वत्सरादुत्तिष्ठन्ति

५.४.१ प्राणेन पुरस्तादाहवनीयमुपतिष्ठन्ते प्राणमेव तज्जयन्ति
५.४.२ अपानेन पश्चात् पुच्छमुपतिष्ठन्ते अपानमेव तज्जयन्ति
५.४.३ व्रतपक्षाभ्यां पक्षावुपतिष्ठन्ते दिश एव तज्जयन्ति
५.४.४ प्रजापतेर्हृदयेनापिकक्षमुपतिष्ठन्ते ज्यैष्ठ्यमेव तज्जयन्ति
५.४.५ वसिष्ठस्य निहवेन चात्वालमुपतिष्ठन्ते स्वर्गमेव तल्लोकमाओत्वा श्रियं वदन्ते
५.४.६ वैश्वदेव्यामृचि भवति विश्वरूपं वै पशूनां रूपं पशूनेव तज्जयन्ति
५.४.७ सत्त्रस्यर्द्ध्याग्नीध्रमुपतिष्ठन्त ऋद्धावेव प्रतितिष्ठन्ति
५.४.८ चतुरक्षराणिधनं भवति चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठन्ति
५.४.९ आतमितोर्निधनमुपयन्त्यायुरेव सर्वमाप्नुवन्ति
५.४.१० श्लोकानुश्लोकाभ्यां हविर्धाने उपतिष्ठन्ते कीर्तिमेव तज्जयन्ति
५.४.११ यामेन मार्जालीयमुपतिष्ठन्ते पितृलोकमेव तज्जयन्ति
५.४.१२ आयुर्णवस्तोभाभ्यां सद उपतिष्ठन्ते ब्रह्म चैव तत् क्षत्रं च जयन्ति
५.४.१३ ऋश्यस्य साम्ना गार्हपत्यमुपतिष्ठन्ते
५.४.१४ इन्द्रं सर्वाणि भूतान्यस्तुवंस्तस्यर्श्य एकमङ्गमस्तुतमचायत् तदस्यैतेनास्तौत् तेनास्य प्रियं धामोपागच्छत् प्रियमेवास्यैतेन धामोपगच्छन्ति
५.४.१५ यत् परोऽक्षं निधनमुपेयुर्ह्रीतमुखं प्रतिमुञ्चेरन् प्रत्यक्षमुपयन्ति ह्रीतमुखमेवापजयन्ति

५.५.१ आसन्दीमारुह्योद्गायति देवसाक्ष्य एव तदुपरिषद्यं जयति
५.५.२ औदुम्बरी भवत्यूर्गुदुम्बर ऊर्जमेवावरुन्द्धे
५.५.३ प्रादेशमात्री भवत्यस्य लोकस्यानुद्धानाय
५.५.४ छन्दोभिरारोहति स्वर्गमेव तल्लोकमारोहति
५.५.५ छन्दोभिरुपावरोहत्यस्मिं लोके प्रतितिष्ठति
५.५.६ सर्वेणात्मना समुद्धृत्योद्गेयमेषु लोकेषु नेद्व्याहितोऽसानीति
५.५.७ एकस्यां स्तोत्रीयायामस्तुतायां पादावुपाहरति
५.५.८ सह निधनेन प्रतिष्ठामुपयन्त्येषेष्वेव लोकेषु प्रतितिष्ठन्ते
५.५.९ प्रेङ्खामारुह्य होता शंसति महस एव तद्रूपं क्रियते
५.५.१० यदा वै प्रजा मह आविशति प्रेङ्खास्तर्ह्यारोहन्ति
५.५.११ फलकमारुह्याध्वर्युः प्रतिगृणाति
५.५.१२ कूर्चानितरेऽध्यासत ऊर्ध्वा एव तदुत्क्रामन्तो यन्ति
५.५.१३ अभिगरापगरौ भवतो निन्दत्येनानन्यः प्रान्यः शंसति य एनान्निन्दति पाप्मानमेषां सोऽपहन्ति यः प्रशंसति यदेवैषां सुष्टुतं सुशस्तं तत् सोऽभिगृणाति
५.५.१४ शूद्रार्यौ चर्मणि व्यायच्छेते तयोरार्यं वर्णमुज्जापयन्ति
५.५.१५ देवाश्च वा असुराश्चादित्ये व्यायच्छन्तस्तं देवा अभ्यजयंस्ततो देवा अभवन् । परासुरा अभवन्नात्मना परास्य भ्रातृव्यो भवति य एवंव्वेद
५.५.१६ यदार्यं वर्णमुज्जापयन्त्यात्मानमेव तदुज्जापयन्ति
५.५.१७ परिमण्डलं चर्म भवत्यादित्यस्यैव तद्रूपं क्रियते
५.५.१८ सर्वासु स्रक्तिषु दुन्दुभयो वदन्ति या वनस्पतिषु वाक्तामेव तज्जयन्ति
५.५.१९ भूमिदुन्दुभिर्भवति या पृथिव्यां वाक्तामेव तज्जयन्ति
५.५.२० सर्वा वाचो वदन्ति येषु लोकेषु वाक्तामेव तज्जयन्ति
५.५.२१ संनद्धाः कवचिनः परियन्तीन्द्रियस्यैव तद्रूपं क्रियतेऽथो महाव्रतमेव महयन्ति

५.६.१ सर्वे सहर्त्विजो महाव्रतेन स्तुवीरन्
५.६.२ अध्वर्युः शिरसोद्गायन्मैत्रावरुणो दक्षिणेन पक्षेण ब्राह्मणाच्छंस्युत्तरेण गृहपतिः पुच्छेनोद्गातात्मना
५.६.३ तद्यद्येवं कुर्युरेकैकया स्तोत्रीययास्तुतयोद्गातारमभिसमेयुः
५.६.४ तिसृभिरुद्गातात्मन उद्गीयाथ या शिरसः स्तोत्रीया तां दध्यादपराभिस्तिसृभिरुद्गीयाथ या दक्षिणस्य पक्षस्य स्तोत्रीया तां दध्यादपराभिस्तिसृभिरुद्गीयाथ योत्तरस्य पक्षस्य स्तोत्रीया तां दध्यात् तिसृभिर्वैकया वा स्तुतं स्यादथ या पुच्छस्य स्तोत्रीया तां दध्यात्
५.६.५ आत्मन्येव तदङ्गानि प्रतिदधति स्वर्गस्य लोकस्य समष्ट्यै
५.६.६ अथो खल्वाहुः कथमध्वर्युर्बह्वृचः साम गायेदित्युद्गातैव सर्वेणोद्गायेत् तदेव समृद्धं समृद्धावेव प्रतितिष्ठन्ति
५.६.७ हविर्धाने शिरसा स्तुत्वा संरब्धाः प्रत्यञ्च एयुस्ते दक्षिणेन धिष्ण्यान् परीत्य पश्चान्मैत्रावरुणस्य धिष्ण्यस्योपविश्य रथन्तरेण पञ्चदशेन स्तुवीरंस्त उदञ्चः संसर्पेयुर्जघनेन होतुर्धिष्ण्यं पश्चाद्ब्राह्मणाच्छंसिनो धिष्ण्यस्योपविश्य बृहता सप्तदशेन स्तुवीरंस्ते येनैव प्रसर्पेयुस्तेन पुनर्निःसृप्योत्तरेणाग्नीध्रं परीत्य पश्चाद्गार्हपत्यस्योपविश्य पुच्छेनैकविंशेन स्तुवीरंस्ते येनैव निःसर्पेयुस्तेन पुनः प्रसृप्य यथायतनमुपविश्यासन्दीमारुह्योद्गातात्मनोद्गायति
५.६.८ तं पत्न्योऽपघाटिलाभिरुपगायन्त्यार्त्विज्यमेव तत् पत्न्यः कुर्वन्ति सह स्वर्गंल्लोकमयामेति
५.६.९ कुलेकुलेऽन्नं क्रियते तद्यत् पृच्छेयुः किमिदं कुर्वन्तीतीमे यजमाना अन्नमत्स्यन्तीति ब्रूयुः
५.६.१० यो वै दीक्षितानां पापं कीर्तयति तृतीयमेवांशं पाप्मनो हरत्यन्नादस्तृतीयं पिपीलिकास्तृतीयम्
५.६.११ परिमाद्भिश्चरन्ति त्वक्च वा एतल्लोम च महाव्रतस्य यत् परिमादस्त्वचं चैव तल्लोम च महाव्रतस्याप्त्वावरुन्धते
५.६.१२ वाणं वितन्वन्त्यन्तो वै वाणोऽन्तो महाव्रतमन्तेनैव तदन्तमभिवादयन्ति
५.६.१३ शततन्त्रीको भवति शतायुर्वै पुरुषः शतवीर्यः
५.६.१४ तमुल्लिखेत् प्राणाय त्वापानाय त्वा व्यानाय त्वेति प्राणापानव्यानानेव तदाप्त्वावरुन्धते
५.६.१५ परि कुम्भिन्यो मार्जालीयं यन्तीदं मध्विदं मध्विति सघोषा एव तद्वयो भूत्वा सह स्वर्गंल्लोकं यन्ति

५.७.१ देवा वै वाचं व्यभजन्त तस्या यो रसोऽत्यरिच्यत तद्गौरीवितमभवदनुष्टुभमनु परिप्लवते वागनुष्टुब्वाचो रसो गौरीवितम्
५.७.२ यद्गौरीवितेनान्वहंस्स्तुवते वाच्येव तद्वाचा रसं दधति
५.७.३ रसवद्वाचा वदति य एवंव्वेदेति
५.७.४ द्व्युदासं भवति स्वर्गस्य वा एतौ लोकस्यावसानदेशौ पूर्वेणैव पूर्वमहः संस्थापयन्त्युत्तरेणोत्तरमहरभ्यतिवदन्ति
५.७.५ एतद्वै यज्ञस्य श्वस्तनं यद्गौरीवितं यद्गौरीवितमनुसृजेयुरश्वस्तना अप्रजसः स्युः
५.७.६ सं वा अन्यो यज्ञस्तिष्ठत इत्याहुर्वागेव न संतिष्ठत इति यद्गौरीवितमन्वहं भवति वाचमेव तत् पुनः प्रयुञ्जते
५.७.७ स्वर्णिधनमन्वहं भवति
५.७.८ देवक्षेत्रं वा एतेऽभ्यारोहन्ति ये स्वर्णिधनमुपयन्ति स उ वै सत्त्रिणः सत्त्रमुपनयेदित्याहुर्य एनान् देवक्षेत्रमभ्यारोहेदिति न वै देवक्षेत्र आसीन आर्तिमार्छति यत् स्वर्णिधनमन्वहं भवति नैव कां चनार्तिमार्छन्ति
५.७.९ च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्ये स्वर्णिधनमुपयन्तीति यदृचा स्वरूपं यन्त्यस्मिं लोके प्रतितिष्ठन्ति यदेकारोऽतरिक्षे यत् साम्नामुष्मिन्त् सर्वेषु लोकेषु प्रतितिष्ठन्ति स्वर्णिधनेन तुष्टुवानाः
५.७.१० सुज्ञानं भवति
५.७.११ देवा वै स्वर्गंल्लोकं यन्तोऽज्ञातादबिभयुस्त एतत् संज्ञानमपश्यंस्तेन ज्ञात्रमगच्छन् यत् सुज्ञानमन्वहं भवति ज्ञात्रमेव गच्छन्ति

५.८.१ ये वै वाचमन्नमादयन्त्यन्नादा भवन्ति ये वितर्षयन्ति रुक्षा भवन्ति
५.८.२ गौरीवितं श्यावाश्वं निहव एतानि वै सामानि वाचोऽन्नमेतेषां वागन्नं यदेतानि न च्यवन्ते वाचमेव तदन्नमादयन्ति तेन सर्वेऽन्नादा भवन्ति
५.८.३ अभिक्रान्तापक्रान्तानि भवन्त्यभिक्रान्तापक्रान्तं वै वाचो रूपम्
५.८.४ प्लवोऽन्वहं भवति
५.८.५ समुद्रं वा एते प्रस्नान्ति ये संव्वत्सरमुपयन्ति यो वा अप्लवः समुद्रं प्रस्नाति न स तत उदेति यत् प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै
५.८.६ अति विश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं दुःशस्तं तदेतेन तरन्ति
५.८.७ ओकोनिधनं षडहमुखे भवति
५.८.८ परां वा एते परावतं गच्छन्ति ये षडहस्यान्तं गच्छन्ति यदोकोनिधनं षडहमुखे भवति प्रज्ञात्यै
५.८.९ यदा वै पुरुषः स्वमोक आगच्छति सर्वं तर्हि प्रजानाति सर्वमस्मै दिवा भवति

५.९.१ एकाष्टकायां दीक्षेरन्
५.९.२ एषा वै संव्वत्सरस्य पत्नी यदेकाष्टकैतस्यां वा गतां रात्रिं वसति साक्षादेव तत् संव्वत्सरमारभ्य दीक्षन्ते
५.९.३ तस्य सानिर्या यदपोऽ नभिनन्दन्तोऽभ्यवयन्ति
५.९.४ विच्छिन्नं वा एते संव्वत्सरस्याभिदीक्षन्ते य एकाष्टकायां दीक्षन्तेऽन्तनामानावृतू भवेते
५.९.५ आर्तं वा एते संव्वत्सरस्याभिदीक्षन्ते येऽन्तनामानावृतू अभिदीक्षन्ते
५.९.६ तस्मादेकाष्टकायां न दीक्ष्यम्
५.९.७ फाल्गुने दीक्षेरन्
५.९.८ मुखं वा एतत् संव्वत्सरस्य यत् फाल्गुनो मुखत एव तत् संव्वत्सरमारभ्य दीक्षन्ते
५.९.९ तस्य सानिर्या यत् संमेघे विषुवान् संपद्यते
५.९.१० चित्रापूर्णमासे दीक्षेरन्
५.९.११ चक्षुर्वा एतत् संव्वत्सरस्य यच्चित्रापूर्णमासो मुखतो वै चक्षुर्मुखत एव तत् संव्वत्सरमारभ्य दीक्षन्ते तस्य न निर्यास्ति
५.९.१२ चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन्
५.९.१३ तेषामकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न संबट्कुर्वन्ति
५.९.१४ तेषां पूर्वपक्षे सुत्या संपद्यते पूर्वपक्षे मासाः संतिष्ठमाना यन्ति पूर्वपक्ष उत्तिष्ठन्ति तानुत्तिष्ठतः पशव ओषधयोऽनूत्तिष्ठन्ति तान् कल्याणी वागभिवदर्यरात्सुरिमे सत्त्रिण इति ते राध्नुवन्ति

५.१०.१ आ वा एते संव्वत्सरं प्याययन्ति य उत्सृजन्ति
५.१०.२ यथा वै दृतिराध्मात एवं संव्वत्सरोऽनुत्सृष्टो यन्नोत्सृजेयुरमेहेन प्रमायुकाः स्युः
५.१०.३ प्राणो वै संव्वत्सर उदाना मासा यदुत्सृजन्ति प्राण एवोदानान् दधति यो दीक्षितः प्रमीयते या संव्वत्सरस्यानुत्सृष्टस्य शुक्सा तमृच्छति
५.१०.४ तदाहुरुत्सृज्या३ं नोत्सृज्या३ इति
५.१०.५ यद्युत्सृजेयुरुक्थान्युत्सृजेयुस्तदेवोत्सृष्टं तदनुत्सृष्टम्
५.१०.६ अथो खल्वाहुरेकत्रिकं कार्यं तदेव साक्षादुत्सृष्टमभ्युत्षुण्वन्ति
५.१०.७ छिद्रो वा एतेषां संव्वत्सर इत्याहुर्ये स्तोममुत्सृजन्तीति
५.१०.८ पशुमालभन्ते स्तोममेव तदालभन्ते स्तोमो हि पशुः
५.१०.९ श्व उत्सृष्टाः स्म इति वत्सानपाकुर्वन्ति प्रातः पशुमालभन्ते तस्य वपया प्रचरन्ति ततस्सवनीयेनाष्टाकपालेन तत आग्नेयेनाष्टाकपालेन ततो दध्नैन्द्रेण ततश्चरुणा वैश्वदेवेन तत् प्रातःसवनं संतिष्ठन्ते
५.१०.१० ततः पशुपुरोडाशेनैकादशकपालेन ततः सवनीयेनैकादशकपालेन ततो मरुत्वतीयेनैकादशकपालेन ततश्चरुणैन्द्रेण तन्माध्यन्दिनं सवनं संतिष्ठन्ते
५.१०.११ पशुना प्रचरन्ति ततः सवनीयेन द्वादशकपालेन ततो वैश्वदेवेन द्वादशकपालेन ततश्चरुणाग्निमारुतेन तत् तृतीयं सवनं संतिष्ठन्ते
५.१०.१२ पृषदाज्येन प्रचर्य पत्नीस्संयाजयन्ति

६.१.१ प्रजापतिरकामयत बहु स्यां प्रजायेयेति स एतमग्निष्टोममपश्यत् तमाहरत् तेनेमाः प्रजा असृजत
६.१.२ एकादशेन च वै सता स्तोत्रेणाग्निष्टोमस्यासृजतैकादशेन च मासा संव्वत्सरस्य ता द्वादशेन च स्तोत्रेणाग्निष्टोमस्य पर्यगृह्णाद्द्वादशेन च मासा संव्वत्सरस्य
६.१.३ तस्मात् प्रजा दशमासो गर्भं भृत्वैकादशमनु प्रजायन्ते तस्माद्द्वादशं नाभ्यतिहरन्ति द्वादशेन हि परिगृहीतास्तद्य एवंव्वेद परि जाताः प्रजा गृह्णाति प्र जाता जनयन्ति
६.१.४ तासां परिगृहीतानामश्वतर्यत्यक्रामत् तस्या अनुहाय रेत आदत्ता तद्वडवायां न्यमाड्यस्माद्वडवा द्विरेतास्तस्मादश्वतर्यप्रजा आत्तरेता हि
६.१.५ तस्माद्वदक्षिणीयाति हि सा यज्ञमरिच्यतातिरिक्तस्य दक्षिणा स्यात् सलोमत्वाय षोडशिनः स्तोत्रेदेयातिरिक्तो वै षोडश्यतिरिक्त एवातिरिक्तां ददाति
६.१.६ सोऽकामयत यज्ञं सृजेयेति स मुखत एव त्रिवृतमसृजत तं गायत्री च्छन्दोऽन्यसृज्यताग्निर्देवता ब्राह्मणो मनुष्यो वसन्त ऋतुस्तस्मात् त्रिवृत् स्तोमानां मुखं गायत्री च्छन्दसामग्निर्देवतानां ब्राह्मणो मनुष्याणां वसन्त ऋतूनां तस्माद्ब्राह्मणो मुखेन वीर्यं करोति मुखतो हि सृष्टः
६.१.७ करोति मुखेन वीर्यं य एवंव्वेद
६.१.८ स उरस्त एव बाहुभ्यां पञ्चदशमसृजत तं त्रिष्टुप्छन्दोऽन्वसृज्यतेन्द्रो देवता राजन्यो मनुष्यो ग्रीष्म ऋतुस्तस्माद्राजन्यस्य पञ्चदश स्तोमस्त्रिष्टुप्छन्द इन्द्रो देवता ग्रीष्म ऋतुस्तस्मादु बाहुवीर्यो बाहुभ्यां हि सृष्टः
६.१.९ करोति बाहुभ्यां वीर्यं य एवंव्वेद
६.१.१० स मध्यत एव प्रजननात् सप्तदशमसृजत तं जगती च्छन्दोऽन्वसृज्यत विश्वे देवा देवता वैश्यो मनुष्यो वर्षा ऋतुस्तस्माद्वैश्योऽद्यमानो न क्षीयते प्रजननाद्धि सृष्टस्तस्मादु बहुपशुर्वैश्वदेवो हि जागतो वर्षा ह्यस्यर्तुस्तस्माद्ब्राह्मणस्य च राजन्यस्य चाद्योऽधरो हि सृष्टः
६.१.११ स पत्त एव प्रतिष्ठाया एकविंशमसृजत तमनुष्टुप्छन्दोऽन्वसृज्यत न का चन देवता शूद्रो मनुष्यस्तस्माच्छूद्र उत बहुपशुरयज्ञियो विदेवो हि न हि तं का चन देवताऽन्वसृज्यत तस्मात् पादावनेज्यं नाति वर्धते पत्तो हि सृष्टस्तस्मादेकविंशस्तोमानां प्रतिष्ठा प्रतिष्ठाया हि सृष्टस्तस्मादनुष्टुभं छन्दांसि नानु व्यूहन्ति
६.१.१२ पापवसीयसो विधृत्यै
६.१.१३ विधृतिः पापवसीयसो भवति य एवंव्वेद

६.२.१ यो वै स्तोमानुपदेशनवतो वेदोपदेशनवान् भवति
६.२.२ प्राणो वै त्रिवृदर्धमासः पञ्चदशः संव्वत्सरः सप्तदश आदित्य एकविंश एते वै स्तोमा उपदेशनवन्त उपदेशनवान् भवति य एवंव्वेद
६.२.३ इमे वै लोकास्त्रिणवस्त्रिणवस्य वै ब्राह्मणेनेमे लोकास्त्रिष्पुनर्नवा भवन्ति
६.२.४ एषु लोकेषु प्रतितिष्ठति य एवंव्वेद
६.२.५ देवता वाव त्रयस्त्रिंशोऽष्टौ वसव एकादश रुद्रा द्वादशादित्याः प्रजापतिश्च वषट्कारश्च त्रयस्त्रिंशौ
६.२.६ स देवेन यज्ञेन यजते य एवंव्वेद
६.२.७ यो वा अधिपतिं वेदाधिपतिर्भवति त्रयस्त्रिंशो वै स्तोमानमधिपतिः पुरुषः पशुमान्
६.२.८ तस्मान्न्यञ्चोऽन्ये पशवोऽदन्त्यूर्ध्वः पुरुषोऽधिपतिर्हि सः
६.२.९ अधिपतिः समानानां भवति य एवंव्वेद

६.३.१ एष वाव यज्ञो यदग्निष्टोमः
६.३.२ एकस्मा अन्यो यज्ञः कामायाह्रियते सर्वेभ्योऽग्निष्टोमः
६.३.३ द्वादश स्तोत्राण्यग्निष्टोमो द्वादशमासाः संव्वत्सरः संव्वत्सरं पशवोऽनु प्रजायन्ते तेन पशव्यः समृद्धः
६.३.४ द्वादश स्तोत्राणि द्वादश शस्त्राणि तच्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संव्वत्सरः संव्वत्सरं पशवोऽनुप्रजायन्ते तेन पशव्यः समृद्धः
६.३.५ अग्नौ स्तोत्रमग्नौ शस्त्रं प्रतितिष्ठति तेन ब्रह्मवर्चसस्य
६.३.६ किं ज्योतिष्टोमस्य ज्योतिष्टोमत्वमित्याहुर्विराजं संस्तुतः संपद्यते विराड्वै च्छन्दसां ज्योतिः
६.३.७ ज्योतिः समानानां भवति य एवंव्वेद
६.३.८ ज्येष्ठयज्ञो वा एष यदग्निष्टोमः
६.३.९ प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स एतमग्निष्टोममपश्यत् तमाहरत् ततोऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
६.३.१० तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवंव्वेद
६.३.११ यत् त्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं क्व तर्हि तुरीयं च्छन्दोऽनुष्टुबिति
६.३.१२ छन्दसां वा अन्ववलुप्तिं यजमानोऽन्ववलुप्यते
६.३.१३ अष्टाक्षरा गायत्री हिङ्कारो नवम एकादशाक्षरा त्रिष्टुब्द्वादशाक्षरा जगती च्छन्दोभिरेवानुष्टुभमाप्नोति यजमानस्यानवलोपाय
६.३.१४ यो वा अनुष्टुभं सर्वत्रापिं सवनान्यन्वायत्तां वेद सर्वत्रास्यापिर्भवत्येषा वा अनुष्टुप्सर्वत्रापिः सवनान्यन्वायत्ता तद्य एवं व्वेद सर्वत्रापिर्भवति
६.३.१५ यद्वै राजानोऽध्वानं धावयन्ति येऽश्वानांव्वीर्यवत्तमास्तान् युञ्जते त्रिवृत् पञ्चदश एकविंश एते वै स्तोमानांव्वीर्यवत्तमास्तानेव युङ्क्ते स्वर्गस्य लोकस्य समष्ट्यै
६.३.१६ चतुष्टोमो भवति प्रतिष्ठा वै चतुष्टोमः प्रतिष्ठित्यै

६.४.१ प्रजापतिर्देवेभ्य ऊर्जं व्यभजत् तत उदुम्बरः समभवत् प्राजापत्यो वा उदुम्बरः प्राजापत्य उद्गाता यदुद्गातौदुम्बरीं प्रथमेन कर्मणान्वारभते स्वयैव तद्देवतयात्मानमार्त्विज्याय वृणीते
६.४.२ तामुच्छ्रयति द्युतानस्त्वा मारुत उच्छ्रयतूद्दिवं स्तभानान्तरिक्षं पृण दृंह पृथिवीम्
६.४.३ तामन्वारभत आयोष्ट्वा सदने सादयाम्यवतश्छायायां समुद्रस्य हृदय इति
६.४.४ यज्ञो वा आयुस्तस्य तत् सदनं क्रियते
६.४.५ यज्ञो वा अवति तस्य सा च्छाया क्रियते
६.४.६ मध्यतो वा आत्मनो हृदयं तस्मान्मध्ये सदस औदुम्बरी मीयते
६.४.७ नमः समुद्राय नमः समुद्रस्य चक्षुष इत्याह वाग्वै समुद्रो मनः समुद्रस्य चक्षुस्ताभ्यामेव तन्नमस्करोति
६.४.८ सामा यूनर्वाहासीदित्याह साम वै यूनर्वा साम्न एव तन्नमस्करोत्यार्त्विज्यं करिष्यन्
६.४.९ यो वा एवं साम्ने नमस्कृत्य साम्नार्त्विज्यं करोति न साम्नो हीयते नैनं सामापहते
६.४.१० य एनमनुव्याहरति स आर्तिमार्छति
६.४.११ ऊर्गस्यूर्जोदा ऊर्जं मे देह्यूर्जं मे धेह्यन्नं मे देह्यन्नं मे धेहि प्रजापतेर्वा एतदुदरं यत् सद ऊर्गुदुम्बरो यदौदुम्बरी मध्ये सदसो मीयते मध्यत एव तत् प्रजाभ्योऽन्नमूर्जं दधाति
६.४.१२ तस्माद्यत्रैषा यातयामा क्रियते तत् प्रजा अशनायवो भवन्ति
६.४.१३ साम देवानामन्नं सामन्येव तद्देवेभ्योऽन्न ऊर्हं दधाति स एव तदूर्जि श्रितः प्रजाभ्य ऊर्जं विभजति
६.४.१४ उदङ्ङासीन उद्गायत्युदीचीं तादृशमूर्जा भाजयति प्रत्यङ्ङासीनः प्रस्तौति प्रतीचीं तादृशमूर्जा भाजयति दक्षिणासीनः प्रतिहरति दक्षिणां तादृशमूर्जा भाजयति प्राञ्चोऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति तस्मादेषा दिशां वीर्यवत्तमैतां हि भूयिष्ठाः प्रीणन्ति
६.४.१५ ब्रह्मवादिनो वदन्ति कस्मात् सत्यात् प्राञ्चोऽन्य ऋत्विज आर्त्विज्यं कुर्वन्तीति विपरिक्रम्योद्गातार इति दिशामभीष्ट्यै दिशामभिप्रीत्या इति ब्रूयात् तस्मात् सर्वासु दिक्ष्वन्नंव्विद्यते सर्वा ह्यभीष्टाः प्रीताः

६.५.१ प्रजापतिरकामयत बहु स्यां प्रजायेयेति सोऽशोचत् तस्य शोचत आदित्यो मूर्ध्नोऽसृज्यत सोऽस्य मूर्धानमुदहन् स द्रोणकलशोऽभवत् तस्मिन् देवाः शुक्रमगृह्णत तां वै स आयुषार्तिमत्यजीवत्
६.५.२ आयुषार्तिमतिजीवति य एवंव्वेद ।
६.५.३ रं प्रोहेद्वानस्पत्योऽसि बार्हस्पत्योऽसि प्राजापत्योऽसि प्रजापतेर्मूर्धास्यत्यायुपात्रमसीदमहं मां प्राञ्चं प्रोहामि तेजसे ब्रह्मवर्चसायेति
६.५.४ यदाह वानस्पत्य इति सत्येनैवैनं तत् प्रोहति
६.५.५ यदाह बार्हस्पत्य इति बृहस्पतिर्वै देवानामुद्गाता तमेव तद्युनक्ति
६.५.६ यदाह प्राजापत्य इति प्राजापत्यो ह्येष देवताया यद्द्रोणकलशो यदाह प्रजापतेर्मूर्धेति प्रजापतेर्ह्येष मूर्ध्न उदहन्यत
६.५.७ यदाहात्यायुपात्रमित्यति ह्येतदन्यानि पात्राणि यद्द्रोणकलशो देवपात्रं द्रोणकलशः
६.५.८ देवपात्री भवति य एवंव्वेद
६.५.९ ब्राह्मणं पात्रे न मीमांसेत यं ब्राह्मणमिव मन्यते प्र देवपात्रमाप्नोति न मनुष्यपात्राच्छिद्यते
६.५.१० वाग्वै देवेभ्योऽपक्रामत् सापः प्राविशत् तां देवाः पुनरयाचंस्ता अब्रुवन् यत् पुनर्दद्याम किं नस्ततः स्यादिति यत् कामयध्व इत्यब्रुवंस्ता अब्रुवन् यदेवास्मासु मनुष्या अपूतं प्रवेशयांस्तेनासंसृष्टा असामेति
६.५.११ शुद्धा अस्मा आपः पूता भवन्ति य एवंव्वेद
६.५.१२ सा पुनर्तात्यक्रामत् सा वनस्पतीन् प्राविशत् तान् देवाः पुनरयाचंस्तां न पुनरददुस्तानशपन् स्वेन वः किष्कुणा वज्रेण वृश्चानिति तस्माद्वनस्पतीन् स्वेन किष्कुणा वज्रेण वृश्चन्ति देवशप्ता हि
६.५.१३ तांव्वनस्पतयश्चतुर्धा वाचंव्विन्यदधुर्दुन्दुभौ वीणायामक्षे तूणवे तस्मादेषा वदिष्ठैषा वल्गुतमा वाग्वा वनस्पतीनां देवानां ह्येषा वागासीत्
६.५.१४ अधोऽधोऽक्षं द्रोणकलशं प्रोहन्ति तस्या वाचोऽवरुध्या उपर्युपर्यक्षं पवित्रं प्रयच्छन्त्युभयत एव वाचं परिगृह्णन्ति
६.५.१५ यस्य कामयेतासुर्यमस्य यज्ञं कुर्यांव्वाचंव्वृञ्जीयेति द्रोणकलशं प्रोहन् बाहुभ्यामक्षनुपस्पृशेदसुर्यमस्य यज्ञं करोति वाचंव्वृङ्क्ते योऽस्य प्रियः स्यादनुपस्पृशन्नक्षं प्रोहेत् प्राणा वै द्रोणकलशः प्राणानेवास्य कल्पयति
६.५.१६ यन्न्वित्याहुर्वाचान्यानृत्विजो वृणते कस्मादुद्गातारो वृता आर्त्विज्यं कुर्वन्तीति
६.५.१७ यद्द्रोणकलशमुपसीदन्ति तेनोद्गातारो वृताः
६.५.१८ प्राजापत्या वा उद्गातारः प्राजापत्यो द्रोणकलशो द्रोणकलश एवैनामार्त्विज्याय वृणीते
६.५.१९ प्राञ्च उपसीदन्ति प्राञ्चो यज्ञस्याग्रे करवामेति
६.५.२० अनभिजिता वा एषोद्गातॄणां दिग्यत् प्राची यद्द्रोणकलशं प्राञ्चं प्रोहन्ति दिशोऽभिजित्यै
६.५.२१ यन्न्वित्याहुरन्तराश्वः प्रासेवौ युज्यतेऽन्तरा शम्य अनड्वान् क उद्गातॄणां योग इति यद्द्रोणकलशमुपसीदन्ति स एषां योगस्तस्माद्युक्तैरेवोपसद्यं न ह्ययुक्तो वहति

६.६.१ ग्राव्णः संसाद्य द्रोणकलशमध्यूहन्ति विड्वै ग्रावाणोऽन्नं सोमो राष्ट्रं द्रोणकलशो यद्ग्रावसु द्रोणकलशमध्यूहन्ति विश्येव तद्राष्ट्रमध्यूहन्ति
६.६.२ यं द्विष्याद्विमुखान् ग्राव्णः कृत्वेदमहममुममुष्यायणममुष्याः पुत्रममुष्या विशोऽमुष्मादन्नाद्यान्निरूहामीति निरूहेद्विश एवैनमन्नाद्यान्निरूहति
६.६.३ योऽस्य प्रियः स्यात् संमुखान् ग्राव्णः कृत्वेदमहममुष्यायणममुष्याः पुत्रममुष्यां विश्यमुषिन्नन्नाद्येऽध्यूहामीत्यध्यूहेद्विश्येवैनमन्नाद्येऽध्यूहति
६.६.४ अथो तदुभयमनादृत्येदमहं मां तेजसि ब्रह्मवर्चस्सेऽध्यूहामीत्यध्यूहेत् तेजस्येव ब्रह्मवर्चस आत्मानमध्यूहति
६.६.५ यः कामयेत विशा राष्ट्रं हन्यामिति व्यूह्य ग्राव्णोऽधो द्रोणकलशं सादयित्वोपांशुसवनमुपरिष्टादभिनिदध्यादिदमहममुया विशाऽदो राष्ट्रं हन्मीति विशैव तद्राष्ट्रं हन्ति
६.६.६ यो वै दैवानि पवित्राणि वेद पूतो यज्ञियो भवति च्छन्दांसि वै दैवानि पवित्राणि तैर्द्रोणकलशं पावयन्ति
६.६.७ वसवस्त्वा गायत्रेण च्छन्दसा पुनन्तु रुद्रास्त्वा त्रैष्टुभेन च्छन्दसा पुनन्त्वादित्यास्त्वा जागतेन च्छन्दसा पुनन्त्वेतानि वै दैवानि पवित्राणि पूतो यज्ञियो भवति य एवंव्वेद
६.६.८ स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् तं देवा न व्यजानंस्तेऽत्रिमुपाधावंस्तस्यात्रिर्भासेन तमोऽपाहन् यत् प्रथममपाहन् सा कृष्णाविरभवद्यद्द्वितीयं सा रजता यत् तृतीयं सा लोहिनी यया वर्णमभ्यतृणत् सा शुक्लासीत्
६.६.९ तस्माच्छुक्लं पवित्रं शुक्रः सोमः स शुक्रत्वाय
६.६.१० यं द्विष्यात् तस्यैतेषां वर्णानामपि पवित्रे कुर्यात् पाप्मनैवैनं तमसा विध्यति कृष्णमिव हि तमो योऽस्य प्रियः स्यादासक्तिशुक्लं कुर्याज्ज्योतिर्वै हिरण्यं ज्योतिरेवास्मिन् दधाति
६.६.११ तस्मादात्रेयं चन्द्रेणेच्छन्त्यत्रिर्हि तस्य ज्योतिः
६.६.१२ अभ्यतृणत् पवित्रंव्विगृह्णन्ति हस्तकार्यमेव तद्यज्ञस्य क्रियत एतद्वा उद्गातॄणां हस्तकार्यं यत् पवित्रस्य विग्रहणम्
६.६.१३ न हस्तवेष्यान्निरृच्छति य एवंव्वेद
६.६.१४ योऽपि न विगृह्णाति प्राणादेनमन्तर्यन्ति
६.६.१५ तं ब्रूयाद्वेपमानः प्रमेष्यस इति वेपमान एव प्रमीयते
६.६.१६ प्र शुक्रैतु देवी मनीषास्मद्रथः सुतष्टो न वाजीत्युद्गाता धारामनुमन्त्रयते
६.६.१७ आयुषे मे पवस्व वर्चसे मे पवस्व विदुः पृथिव्या दिवो जनित्राच्छृण्वन्त्वापोऽधः क्षरन्तीः सोमेहोद्गायेत्याह मह्यं तेजसे ब्रह्मवर्चसायेति
६.६.१८ एष वै सोमस्योद्गीथो यत् पवते सोमोद्गीथमेव साम गायति
६.६.१९ आच्छिन्नं पावयन्ति यज्ञं चैव प्राणांश्च संतन्वन्ति संततं पावयन्ति यज्ञस्य संतत्यै

६.७.१ बृहस्पतिर्वै देवानामुदगायत् तं रक्षांस्यजिघांसन् स य एषां लोकानामधिपतयस्तान् भागधेयेनोपाधावत्
६.७.२ सूर्यो मा दिवाभ्यो नाष्ट्राभ्यः पातु वायुरन्तरिक्षाभ्योऽग्निः पार्थिवाभ्यः स्वाहेति जुहोति
६.७.३ एते वा एषां लोकानामधिपतयस्तान् भागधेयेनोपासरत्
६.७.४ करोति वाचा वीर्यं न सदस्यामार्तिमार्च्छति य एवंव्वेद
६.७.५ वाग्वै देवेभ्योऽपाक्रामत् तां देवा अन्वमन्त्रयन्त साऽब्रवीदभागास्मि भागधेयं मेऽस्त्विति कस्ते भागधेयं कुर्यादित्युद्गातार इत्यब्रवीदुद्गातारो वै वाचे भागधेयं कुर्वन्ति
६.७.६ तस्यै जुहुयाद्बेकुरानामासि जुष्टा देवेभ्यो नमो वाचे नमो वाचस्पतये देवि वाग्यत् ते वाचो मधुमत् तस्मिन्मा धाः सरस्वत्यै स्वाहेति
६.७.७ वाह्वै सरस्वती तामेव तद्भागधेयेनारभते
६.७.८ यं द्विष्यात् तस्यैतामाहुतिं जुहुयाद्वाचं मनसा ध्यायेद्वाचमेवास्य वृङ्क्ते
६.७.९ बहिष्पवमानं सर्पन्ति स्वर्गमेव तल्लोकं सर्पन्ति
६.७.१० प्रक्वाणा इव सर्पन्ति प्रतिकूलमिव हीतः स्वर्गो लोकः त्सरन्त इव सर्पन्ति मृगधर्मो वै यज्ञो यज्ञस्य शान्त्या अप्रत्रासाय
६.७.११ वाचं यच्छन्ति यज्ञमेव तद्यच्छन्ति यद्व्यववदेयुर्यज्ञं निर्ब्रूयुस्तस्मान्न व्यववद्यम्
६.७.१२ पञ्चर्त्विजः संरब्धाः सर्पन्ति पान्क्तो यज्ञो यावान् यज्ञस्तमेव संतन्वन्ति
६.७.१३ यदि प्रस्तोतावच्छिद्यते यज्ञस्य शिरश्छिद्यते ब्रह्मणे वरं दत्त्वा स एव पुनर्वर्तव्यश्छिन्नमेव तत् प्रतिदधाति
६.७.१४ यद्युद्गातावच्छिद्यते यज्ञेन यजमानो व्यृध्यतेऽदक्षिणः स यज्ञक्रतुः संस्थाप्योऽथान्य आहृत्यस्तस्मिन् देयं यावद्दास्यन् स्यात्
६.७.१५ यदि प्रतिहर्ताऽवच्छिद्यते पशुभिर्यजमानो व्यृध्यते पशवो वै प्रतिहर्ता सर्ववेदसं देयं यदि सर्ववेदसं न ददाति सर्वज्यानिं जीयते
६.७.१६ अध्वर्युः प्रस्तरं हरति
६.७.१७ यजमानो वै प्रस्तरो यजमानमेव तत् स्वर्गंल्लोकं हरति
६.७.१८ यज्ञो वै देवेभ्योऽश्वो भूत्वापाक्रामत् तं देवाः प्रस्तरेणासमयंस्तस्मादश्वः प्रस्तरेण संमृज्यमान उपावरभते यदध्वर्युः प्रस्तरं हरति यज्ञस्य शान्त्या अप्रत्रासाय
६.७.१९ प्रजापतिः पशुनसृजत तेऽस्मात् सृष्टा अशनायन्तोऽपाक्रामंस्तेभ्यः प्रस्तरमन्नं प्रायच्छत् एनमुपावर्तन्त तस्मादध्वर्युणा प्रस्तर ईषदिव विधूयो विधूतिमिव हि तृणं पशव उपावर्तन्ते
६.७.२० उपैनं पशव आवर्तन्ते य एवंव्वेद
६.७.२१ प्रस्तरमासद्योद्गायेद्धविषोऽस्कन्दाय
६.७.२२ यजमानं तु स्वर्गाल्लोका अवगृह्णाति
६.७.२३ अष्ठीवतोपस्पृशतोद्गेयं तेनास्य हविरस्कन्नं भवति न यजमानं स्वर्गाल्लोकादवगृह्णाति
६.७.२४ चात्वालमवेक्ष्य बहिष्पवमानं स्तुवन्त्यत्र वा असावादित्य आसीत् त देवा बहिष्पवमानेन स्वर्गंल्लोकमहरन् यच्चात्वालमवेक्ष्य बहिष्पवमानं स्तुवन्ति यजमानमेव तत् स्वर्गंल्लोकं हरन्ति

६.८.१ स तु वै यज्ञेन यजेतेत्याहुर्यस्य विराजं यज्ञमुखे दध्युरिति
६.८.२ नवभिः स्तुवन्ति हिङ्कारो दशमो दशाक्षरा विराड्विराजमेवास्य यज्ञमुखे दधाति
६.८.३ नवभिः स्तुवन्ति प्राणाः प्राणैरेवैनं समर्द्धयन्ति हिङ्कारो दशमस्तस्मान्नाभिरनवतृण्णा दशमी प्राणानाम्
६.८.४ नवभिः स्तुवन्ति नवाध्वर्युः प्रातःसवने ग्रहान् गृह्णाति तानेव तत् पावयन्ति तेषां प्राणानुत्सृजन्ति
६.८.५ प्रजापतिर्वै हिङ्कारस्त्रयो बहिष्पवमान्यो यद्धिङ्कृत्य प्रस्तौति मिथुनमेवास्या यज्ञमुखे दधाति प्रजननाय
६.८.६ एष वै स्तोमस्य योगो यद्धिङ्कारो यद्धिङ्कृत्य प्रस्तौति युक्तेनैव स्तोमेन प्रस्तौति
६.८.७ एष वै साम्नां रसो यद्धिङ्कारो यद्धिङ्कृत्य प्रस्तौति रसेनैवैता अभ्युद्य प्रस्तौति
६.८.८ आरण्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यद्बहिष्पवमानमेकारूपाभिः स्तुवन्ति तस्मादेकरूपा आरण्याः पशवः
६.८.९ पराचीभिः स्तुवन्ति तस्मात् पराञ्चः प्रजायन्ते पराञ्चो वितिष्ठन्ते
६.८.१० अपरिश्रिते स्तुवन्ति तस्मादपरिगृहीता आरण्याः पशवः
६.८.११ बहिः स्तुवन्त्यन्तरनुशंसन्ति तस्माद्ग्राममाहृतैर्भुञ्जते
६.८.१२ ग्रामेभ्यो वा एतत् पशुभ्यः स्तुवन्ति यदाज्यैर्नानारूपैः स्तुवन्ति तस्मान्नानारूपा ग्राम्याः पशवः
६.८.१३ पुनरभ्यावर्तं स्तुवन्ति तस्मात् प्रेत्वर्यः प्रेत्य पुनरायन्ति
६.८.१४ परिश्रिते स्तुवन्ति तस्मात् परिगृहीता ग्राम्याः पशवः
६.८.१५ अमुष्मै वा एतल्लोकाय स्तुवन्ति यद्बहिष्पवमानं सकृद्धिङ्कृताभिः पराचीभिः स्तुवन्ति सकृद्धीतोऽसौ पराङ्लोकः
६.८.१६ अस्मै वा एतल्लोकाय स्तुवन्ति यदाज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्मादयंल्लोकः पुनःपुनः प्रजायते
६.८.१७ पराञ्चो वा एतेषां प्राणा बह्वन्तीत्याहुर्ये पराचीभिर्बहिष्पवमानीभिः स्तुवत इत्यावतीमुत्तमां गायेत् प्राणानां धृत्यै
६.८.१८ च्यवन्ते वा एतेऽस्माल्लोकादित्याहुर्ये पराचीभिर्बहिष्पवमानीभिः स्तुवत इति रथन्तरवर्णमुत्तमां गायेदियं वै रथन्तरमस्यामेव प्रतितिष्ठति

६.९.१ उपास्मै गायत नर इति ग्रामकामायप्रतिपदं कुर्यात्
६.९.२ नरो वै देवानां ग्रामो ग्राममेवास्मा उपाकः
६.९.३ उप वा अन्नमन्नमेवास्मा उपाकः
६.९.४ उपोषु जातमप्तुरमिति प्रजाकामाय प्रतिपदं कुर्यात्
६.९.५ उप वै प्रजा तां जातमित्येवाजीजनत्
६.९.६ स नः पस्वस्य शं गव इति प्रतिपदं कुर्यात्
६.९.७ यां समां महादेवः पशून् हन्यात् स नः पवस्व शं गव इति चतुष्पदे भेषजं करोति
६.९.८ शं जनायेति द्विपदे शमर्वत इत्येकशफाय
६.९.९ विषेण वै तां समामोषधयोऽक्ता भवन्ति यां समां महादेवः पशून् हन्ति यच्छं राजन्नोषधीभ्य इत्याहौषधीरेवास्मै स्वदयत्युभय्योऽस्मै स्वदिताः पच्यन्तेऽकृष्टपच्याश्च कृष्टपच्याश्च
६.९.१० पवस्व वाचो अग्रिय इति प्रतिपदं कुर्याद्यं कामयेत समानानां शीरेष्ठः स्यादिति
६.९.११ पवस्व वाचो अग्रिय इत्यग्रमेवैनं परिणयति
६.९.१२ श्रीर्वै वाचोऽग्रं श्रियमेवास्मिन् दधाति
६.९.१३ एते असृग्रमिन्दव इति बहुभ्यः प्रतिपदं कुर्यात्
६.९.१४ एत इति सर्वानेवैनानृद्ध्यै भूत्या अभिवदति
६.९.१५ एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पितॄंस्तिरः पवित्र इति ग्रहानाशव इति स्तोत्रंव्विश्वानीति शस्त्रमभि सौभगेत्यन्याः प्रजाः
६.९.१६ यदेत इति तस्माद्यावन्त एवाग्रे देवास्तावन्त इदानीम्
६.९.१७ सर्वान् वृद्धिमार्ध्नुवं स्थितेव ह्येषा व्याहृतिः
६.९.१८ यदसृग्रमिति तस्मान्मनुष्याः श्वःश्वः सृज्यन्ते
६.९.१९ यदिन्दव इतीन्दव इव हि पितरः
६.९.२० मन इव
६.९.२१ यान्ताः प्रजाः सृष्टा ऋद्धिमार्ध्नुवंस्तामृध्नुवन्ति येषामेवंव्विद्वानेतां प्रतिपदं करोति
६.९.२२ छन्दांसि वै सोममाहरंस्तं गन्धर्वो विश्वावसुः पर्यमुष्णात्. तेनापः प्राविशत् तं देवता अन्वैच्छंस्तं विष्णुरप्सु पर्यपश्यत् स व्यकाङ्क्षदयं नू३ ना३ इति तं पदा प्रास्फुरत् तस्मात् पृथगिन्दवोऽसृज्यन्त स देवताभ्योऽभितस्तिष्ठन्तीभ्य एते असृग्रमिन्दव इति प्राब्रवीद्बहिष्पवमानेन वै यज्ञः सृज्यते यदेते असृग्रमिन्दव इति प्रस्तौति यज्ञमेव तत् सृष्टं देवताभ्यः प्राह
६.९.२३ व्यृद्धं वा एतदपशव्यं यत् प्रातःसवनमनिडं हि यदिडामस्मभ्यं संयतमित्याह प्रातःसवनमेव तदिडावत् पशुमत् करोति
६.९.२४ दविद्यूतत्या रुचेति व्राताय प्रतिपदं कुर्यात्
६.९.२५ दविद्यूतत्या रेचेति वै गायत्र्या रूपं परिष्टोभन्त्येति त्रिष्टुभः कृपेत्यनुष्टुभः सोमाः शुक्रा गवाशिर इति जगत्याः सर्वेषां वा एषा च्छन्दसां रूपं च्छन्दांसीव खलु वै व्रतोपदेषा प्रतिपद्भवति स्वेनैवैनांस्तद्रूपेण समर्धयति
६.९.२६ वृद्धा वा एत इन्द्रियेण वीर्येण यद्व्रात इन्द्रियं वीर्यं छन्दांसीन्द्रियेणैवैनान् वीर्येण समर्धयति

६.१०.१ अग्न आयूंषि पवस इति प्रतिपदं कुर्याद्येषां दीक्षितानां प्रमीयते
६.१०.२ अपूता इव वा एते येषां दीक्षितानां प्रमीयते यद्येषाग्निपावमानी प्रतिपद्भवत्यग्निरेवैनान्निष्टपति पवमानः पुनाति
६.१०.३ यदायूंषीत्याह य एव जीवन्ति तेष्वायुर्दधाति
६.१०.४ आ नो मित्रावरुणेति ज्योगामयाविने प्रतिपदं कुर्यात्
६.१०.५ अपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानौ मित्रावरुणौ प्राणापानावेवास्मिन् दधाति
६.१०.६ अपघ्नन् पवते मृधोऽप सोमो अराव्ण इत्यनृतमभिशस्यमानाय प्रतिपदं कुर्यात्
६.१०.७ अरावाणो वा एते येऽनृतमभिशंसन्ति तानेवास्मादपहन्ति
६.१०.८ गच्छन्निन्द्रस्य निष्कृतमिति पूतमेवैनं यज्ञियमिन्द्रस्य निष्कृतं गमयति
६.१०.९ वृषा पवस्व धारयेति राजन्याय प्रतिपदं कुर्याद्वृषा वै राजन्यो वृषाणमेवैनं करोति
६.१०.१० मरुत्वते च मत्सर इति मरुतो वै देवानां विशो विशमेवास्मा अनु नियुनक्त्यनपक्रामुकास्माद्विड्भवति
६.१०.११ विश्वा दधान ओजसेत्योजसैवास्मै वीर्येण विशं पुरस्तात् परिगृह्णात्यनपक्रामुकास्माद्विड्भवति
६.१०.१२ पवस्वेन्दो वृषासुत इति प्रतिपदं कुर्याद्यः कामयेत जने म ऋध्येतेति
६.१०.१३ कृधी नो यशसो जन इति जनतायामेवास्मा ऋध्यते
६.१०.१४ युवं हि स्थः स्वः पती इति द्वाभ्यां प्रतिपदं कुर्यात् समावद्भाजावेवैनौ यज्ञस्य करोत्युभौ यज्ञयशसेनार्पयति
६.१०.१५ प्रास्य धारा अक्षरन्निति वृष्टिकामाय प्रतिपदं कुर्यात्
६.१०.१६ प्रास्य धारा अक्षरन्निति दिवो वृष्टिं च्यावयति वृष्णः सुतस्यौजस इत्यन्तरिक्षात्
६.१०.१७ देवां अनु प्रभूषत इत्यस्मिन् लोके प्रतिष्ठापयति
६.१०.१८ ओजसा वा एतद्वीर्येण प्रदीयते यदप्रत्तं भवति यद्वृष्णः सुतस्यौजस इत्याहौजसैवास्मै वीर्येण दिवो वृष्टिं प्रयच्छति
६.१०.१९ तया पवस्व धारया यया गाव इहागमञ्जन्यास उप्नो गृहमिति प्रतिपदं कुर्याद्यः कामयेतोप मा जन्या गावो नमेयुर्विन्देत मे जन्या गा राष्ट्रमिति यदेषा प्रतिपद्भवत्युपैनं जन्या गावो नमन्ति विन्दतेऽस्य जन्या गा राष्ट्रम्

७.१.१ इमे वै लोका गायत्रं त्र्यावृद्गेयं त्रयो हीमे लोका यत् त्र्यावृद्गायत्येभिरेवैनं लोकैः संमिमीते
७.१.२ द्विरवनर्देद्धिङ्कुर्यात् तृतीयम्
७.१.३ यत् त्रिरवनर्दत्यति तद्गायत्रं रेचयति
७.१.४ यो वै गायत्रेणाप्रतिहृतेनोद्गायत्यप्रतिष्ठानो भवति हिङ्कारो वै गायत्रस्य प्रतिहारः
७.१.५ स मनसा ध्येयः प्रतिहृतेन गायत्रेणोद्गायति प्रतितिष्ठति
७.१.६ यो वा एभ्यो लोकेभ्यो गायत्रं गायति नैभ्यो लोकेभ्य आवृश्च्यत इम एनं लोका ऊर्ज्जाभिसंवसते
७.१.७ मन्द्रमिवाग्र आददीताथ तारतरमथ तारतमं तदेभ्यो लोकेभ्योऽगासीत्
७.१.८ अनिरुक्तं गेयमेतद्वै गायत्रस्य क्रूरं यन्निरुक्तं यदनिरुक्तं गायति क्रूरमेवास्य परिवृणक्ति
७.१.९ प्राणो गायत्रं न व्यवान्यात् प्राणस्याविच्छेदाय यदि व्यवानिति प्रमायुको भवति यदि न व्यवानिति सर्वमायुरेति
७.१.१० यदि व्यवान्यान्मध्य ऋचो व्यवान्यात् प्राणो वै गायत्रं प्राणः स्वरः प्राणमेव तन्मध्यत आत्मन् दधाति स सर्वमायुरेति
७.१.११ इडां पशुकामाय निधनं कुर्यात् स्वः स्वर्गकामाय यशो ब्रह्मवर्चसकामायायुरामयाविने हंसीत्यभिचरते
७.१.१२ एते वै गायत्रस्य दोहाः
७.१.१३ ब्रह्मवर्चससी पशुमान् भवति य एवंव्वेद

७.२.१ प्रजापतिर्देवेभ्य आत्मानं यज्ञं कृत्वा प्रायच्छत् तेऽन्योऽन्यस्मा अग्राय नातिष्ठन्त तानब्रवीदाजिमस्मिन्नितेति त आजिमायन् यदाजिमायंस्तदाज्यानामाज्यत्वम्
७.२.२ स इन्द्रोऽवेदग्निर्वा इदमग्र उज्ज्येष्यतीति सोऽब्रवीद्यतरो नाविदमग्र उज्जयत् तन्नौ सहेति सोऽग्निरग्र उदजयदथ मित्रावरुणावथेन्द्रोऽथैषैका होत्रानुज्जितासीत् स इन्द्रोऽग्निमब्रवीद्यत् सहावोचावही यन्नौ तदिति सैषैन्द्राग्न्यध्यर्धमग्ने स्तोत्रमध्यर्धमिन्द्रस्य
७.२.३ चत्वारि सन्ति षड्देवत्यानि
७.२.४ षड्धा विहितो यज्ञो यावान् यज्ञस्तमेवारभते
७.२.५ सर्वाणि स्वाराण्याज्यानि तज्जामि नानादेवत्यैः स्तुवन्त्यजामितायै
७.२.६ ग्राम्येभ्यो वा एतत् पशुभ्यः स्तुवन्ति यदाज्यैः पुनरभ्यावर्तं स्तुवन्ति तस्मात् पराञ्चः प्राज्यन्ते प्रत्यञ्चः प्रजायन्ते तस्मादु प्रेत्य पुनरायन्ति

७.३.१ एतावता वाव माध्यन्दिनं सवनं पुपुवे
७.३.२ त्रिभिश्च च्छन्दोभिः पञ्चभिश्च सामभिः
७.३.३ यन्माध्यन्दिनेन पवमानेन स्तुवन्ति माध्यन्दिनमेव तत् सवनं पावयन्ति
७.३.४ एतावन्ति वाव सर्वाणि सामानि यावन्ति माध्यन्दिने पवमाने
७.३.५ गायत्रं निधनवदनिधनमैडम्
७.३.६ यन्माध्यन्दिनेन पवमानेन स्तुवन्ति सर्वैरेव तत् सामभिः स्तुवन्ति
७.३.७ आत्मा वै यज्ञस्य पवमानो मुखं गायत्री प्राणो गायत्रं यद्गायत्र्यां गायत्रेण स्तुवन्ति मुखत एव तत् प्राणान् दधति
७.३.८ प्राणापाना वा एतानि च्छन्दांसि प्राणो गायत्री व्यानो बृहत्यपानस्त्रिष्टुब्यदेतैश्छन्दोभिः स्तुवन्ति प्राणापानानामविच्छेदाय
७.३.९ इमे वै लोका एतानि च्छन्दांस्ययमेव गायत्र्ययं मध्यमो बृहत्यसावुत्तमस्त्रिष्टुब्यदेतश्छन्दोभिः संहितैः स्तुवन्त्येषां लोकानामविच्छेदाय
७.३.१० यदन्यच्छन्दोऽन्तरा व्यवेयादिमांल्लोकान् विच्छिन्द्यात्
७.३.११ गायत्रेण स्तुत्वा निधनवता स्तुवन्तीयं वै गायत्र्यस्यामेव तदायतनं क्रियते
७.३.१२ यदनिधनेनाग्रे स्तुयुरनायतनो यजमानः स्यात्
७.३.१३ निधनवता स्तुवन्ति वीर्यं वै गायत्री वीर्यं निधनं वीर्येणैव तद्वीर्यं समर्धयति
७.३.१४ ऐडेन बृहतीमारभन्ते
७.३.१५ पशवो वा इडा पशवो बृहती पशुष्वेव तत् पशून् दधाति
७.३.१६ बृहत्यां भूयिष्ठानि सामानि भवन्ति
७.३.१७ तत्रापि त्रिणिधनम्
७.३.१८ अबलिष्ठ इव वा अयं मध्यमि लोकस्तस्यैव तदायतनं क्रियते
७.३.१९ त्रिणिधनं भवति त्रीणि सवनानां छिद्राणि तानि तेनापिधीयन्ते
७.३.२० त्रिणिधनं भवति त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति
७.३.२१ त्रिणिधनं भवत्येतेन वै माध्यन्दिनं सवनं प्रतिष्ठितं यत् त्रिणिधनं यत् त्रिणिधनं न स्यादप्रतिष्ठितं माध्यन्दिनं सवनं स्यात्
७.३.२२ द्व्यक्षराणि निधनानि भवन्ति द्विपाद्यजमानो यजमानमेव यज्ञे पशुषु प्रतिष्थापयति
७.३.२३ अनिधनमन्ततो भवति स्वर्गस्य लोकस्यानतिपादाय
७.३.२४ यन्निधनवत् स्याद्यजमानं स्वर्गाल्लोकान्निर्हन्यात्
७.३.२५ स्वारं भवति
७.३.२६ स्वरेण वै देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते स्वरेणैव तद्देवेभ्योऽन्ततोऽन्नाद्यं प्रयच्छति
७.३.२७ गायत्रं पुरस्ताद्भवति स्वारमन्ततः
७.३.२८ प्राणो वै गायत्रं प्राणः स्वरः प्राणानेवतदुभयतो दधाति तस्मादुभयतः प्राणाः पशवः
७.३.२९ यद्गायत्रं पुरस्ताद्भवति स्वारमन्ततः प्राणैरेव प्रैत्यपाने प्रतितिष्ठति

७.४.१ एतद्वै यज्ञस्य स्वर्ग्यं यन्माध्यन्दिनं सवनं माध्यन्दिनस्य पवमानः पवमानस्य बृहती यद्बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्वर्गस्यैव तल्लोकस्यायतने दीयन्ते
७.४.२ देवा वै च्छन्दांस्यब्रुवन् युष्माभिः स्वर्ग्यंल्लोकमयामेति ते गायत्रीं प्रायुञ्जत तया न व्याप्नुवंस्त्रिष्टुभं प्रायुञ्जत तया न व्याप्नुवञ्जगतीं प्रायुञ्जत तया न व्याप्नुवन्ननुष्टुभं प्रायुञ्जत तयाल्पकादि न व्याप्नुवंस्त आसां दिशां रसान् प्रबृह्य चत्वार्यक्षराण्युपादधुः सा बृहत्यभवत् तयेमांल्लोकान् व्याप्नुवन्
७.४.३ बृहती मर्या ययेमांल्लोकान् व्यापामेति तद्बृहत्या बृहत्त्वम्
७.४.४ पशून् वा अस्यान्तानुपादधुः पशवो वै बृहती यद्बृहत्याः स्तोत्रे दक्षिणा दीयन्ते स्व एव तदायतने दीयन्ते
७.४.५ यन्न्वित्याहुरन्यानि च्छन्दांसि वर्षीयांसि कस्माद्बृहत्युच्यत एषा हीमांल्लोकान् व्याप्नोन्नान्यच्छन्दः किं चन यानि सप्त चतुरुत्तराणि च्छन्दांसि तानि बृहतीमभिसंपद्यन्ते तस्माद्बृहत्युच्यते
७.४.६ यन्न्वित्याहुर्गायत्रं प्रातःसवनं त्रैष्टुभं माध्यन्दिनं सवनं जागतं तृतीयसवनं कस्माद्बृहत्या मध्यन्दिने स्तुवन्तीति
७.४.७ बहिष्पवमानेन वै देवा आदित्यं स्वर्गंल्लोकमहरन् स नाध्रियत तं बृहत्या मध्यन्दिनेऽस्तभ्नुवंस्तस्माद्बृहत्या मध्यन्दिनं स्तुवन्त्यादित्यं ह्येषा मध्यन्दिने दाधार
७.४.८ यैरु कैश्च च्छन्दोभिर्मध्यन्दिने स्तुवन्ति तानि त्रिष्टुभमभि संपद्यन्ते तस्मात् त्रिष्टुभो नयन्ति माध्यन्दिनात् सवनात्

७.५.१ प्रजापतिरकामयत बहु स्यां प्रजायेयेति स शोचन्नमहीयमानोऽतिष्ठत् स एतदामहीयवमपश्यत् तेनेमाः प्रजा असृजत ताः सृष्टा अमहीयन्त यदमहीयन्त तस्मादामहीयवम्
७.५.२ ता अस्मात् सृष्टा अपाक्रामंस्तासां दिवि सद्भूम्यादद इति प्राणानादत्त ता एनं प्राणेष्वात्तेषु पुनरुपावर्तन्त ताभ्य उग्रं शर्म महि श्रव इति पुनः प्राणान् प्रायच्छत् ता अस्मादुदेवायोधंस्तासां स्तौष इति मन्यूनवाशृणात् ततो वै तस्मै ताः श्रैष्ठ्यायातिष्ठन्त
७.५.३ तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवंव्वेद
७.५.४ प्रजानां च वा एषा सृष्टिः पापवसीयश्च विधृतिर्यदामहीयवम्
७.५.५ विधृतिः पापवसीयसो भवति य एवंव्वेद
७.५.६ देवा वै यशस्कामाः सत्त्रमासताग्निरिन्द्रो वायुर्मखस्तेऽब्रुव्स्न् यन्नो यश ऋच्छात् तन्नः सहासदिति तेषा मखं यश आर्च्छत् तदादायापाक्रामत् तदस्य प्रासहादित्सन्त तं पर्ययतन्त स्वधनुः प्रतिष्ठाभ्यातिष्ठत् तस्य धनुरार्त्निरूर्ध्वा पतित्वा शिरोऽच्छिनत् स प्रवर्ग्योऽभवद्यज्ञो वै मखो यत् प्रवर्ग्यं प्रवृञ्जन्ति यज्ञस्यैव तच्छिरः प्रतिदधति
७.५.७ तद्देवा यशो व्यभजन्त तस्याग्नी रौरवं प्राबृहत
७.५.८ तद्वै स पशुवीर्यं प्राबृहत पशवो वै रौरवम्
७.५.९ पशुमान् भवति य एवंव्वेद
७.५.१० अग्निर्वै रूरस्तस्यैतद्रौरवम्
७.५.११ असुरा वै देवान् पर्ययतन्त तत एतावग्नी रूरौ विष्वञ्चौ स्तोभावपश्यत् ताभ्यामेनान् प्रत्यौषत् ते प्रत्युष्यमाणा अरवन्त यदरवन्त तस्माद्रौरवम्
७.५.१२ अथेन्द्रो यौधाजयं प्राबृहत तद्वै स वज्रं प्राबृहत वज्रो वै यौधाजयम्
७.५.१३ वज्रं भ्रातृव्याय प्रहरति य एवंव्वेद
७.५.१४ इन्द्रो वै युधाजित् तस्यैतद्यौधाजयम्
७.५.१५ युधा मर्या अजैष्मेति तस्माद्यौधाजयम्
७.५.१६ अथ वायुरौशनं प्राबृहत
७.५.१७ तद्वै स प्राण्वीर्यं प्राबृहत प्राणा वा औशनम्
७.५.१८ सर्वमायुरेति य एवंव्वेद
७.५.१९ वायुर्वा उशनंस्तस्यैतदौशनम्
७.५.२० उशना वै काव्योऽसुराणां पुरोहित आसीत् तं देवाः कामदुघाभिरपामन्त्रयन्त तस्मा एतान्यौशनानि प्रायच्छन् कामदुघा वा औशनानि
७.५.२१ कामदुघा एनमुपतिष्ठन्ते य एवंव्वेद

७.६.१ प्रजापतिरकामयत बहु स्यां प्रजायेयेति स तूष्णीं मनसाध्यायत् तस्य यन्मनस्यासीत् तद्बृहत् समभवत्
७.६.२ स आदधीत गर्भो वै मेऽयमन्तर्हितस्तंव्वाचा प्रजनया इति
७.६.३ स वाचं व्यसृजत सा वाग्रथन्तरमन्वपद्यत
७.६.४ रथमर्याः क्षेप्लातारीदिति तद्रथन्तरस्य रथन्तरत्वम्
७.६.५ ततो बृहदनु प्राजायत बृहन्मर्या इदं स ज्योगन्तरभूदिति तद्बृहतो बृहत्त्वम्
७.६.६ यथा वै पुत्रो ज्येष्ठ एवं बृहत् प्रजापतेः
७.६.७ ज्येष्ठब्राह्मणं वा एतत्
७.६.८ प्र ज्यैष्ठ्यमाप्नोति य एवंव्वेद
७.६.९ यन्न्वित्याहुर्बृहत् पूर्वं प्रजापतौ समभवत् कस्माद्रथन्तरं पूर्वं योगमानश इति
७.६.१० बृहदेव पूर्वं समभवद्रथन्तरं तु पूर्वं सृष्ट्यासृजत तस्मात् पूर्वं योगमानशे
७.६.११ तयोः समानं निधनमासीत् तस्मिन्नातिष्ठेतां त आजिमैतां तयोर्हसिति बृहत् प्राणमुदजयदसिति रथन्तरमपानमभिसमवेष्टत
७.६.१२ प्राणापानौ वै बृहद्रथन्तरे ज्योगामयाविन उभे कुर्यादपक्रान्तौ वा एतस्य प्राणापानौ यस्य ज्योगामयति प्राणापानावेवास्मिन् दधाति
७.६.१३ यन्न्वित्याहुरुभे बृहद्रथन्तरे बहिर्णिधने कस्माद्बृहद्बहिर्णिधनानि भजतेऽन्तर्णिधनानि रथन्तरमिति
७.६.१४ प्राणो बृहत् तस्माद्बहिर्णिधनानि भजते बहिर्हि प्राणोऽपानो रथन्तरं तस्मादन्तर्णिधनानि भजतेऽन्तर्ह्यपानः
७.६.१५ महावृक्षौ वै बृहद्रथन्तरे निधनेन समर्प्ये
७.६.१६ यद्वै महावृक्षौ समृच्छेते बहु तत्र विभग्नं प्रभग्नं शेते
७.६.१७ ऐरं वै बृहदैडं रथन्तरं मनो वै बृहद्वाग्रथन्तरं साम वै बृहदृग्रथन्तरं प्राणो वै बृहदपानो रथन्तरमसौ वै लोको बृहदयं रथन्तरमेतानि मनसान्वीक्ष्योद्गायेत् कॢप्ताभ्यामेवाभ्यामुद्गायति

७.७.१ पशवो वै बृहद्रथन्तरे अष्टाक्षरेण प्रथमाया (?) ऋचः प्रस्तौत्यष्टाशफांस्तत् पशूनवरुन्धे
७.७.२ द्व्यक्षरेणोत्तरयोरृचोः प्रस्तौति द्विपाद्यजमानो यजमानमेव यज्ञे पशुषु प्रतिष्ठापयति
७.७.३ पञ्चाक्षरेण रथन्तरस्य प्रतिहरति पाङ्क्तांस्तत् पशूनवरुन्धे
७.७.४ चतुरक्षरेण बृहतः प्रतिहरति चतुष्पदस्तत् पशूनवरुन्धे
७.७.५ न वै बृहन्न रथन्तरमेकं छन्दोऽयच्छत् ततः ककुभावुत्तरे उपादधुस्तस्माद्बृहती प्रथमा ककुभावुत्तरे तस्माद्बृहद्रथन्तरे एकर्चेन कुर्वन्ति न हि ते एकं छन्दोऽयच्छत्
७.७.६ नव बृहतो रोहान् रोहति नव प्राणाः प्राणानेवावरुन्धे
७.७.७ त्रीन् प्रथमायां रोहति भूतं भवद्भविष्यत् तानेवावरुन्धे त्रीन्मध्यमायां रोहत्यात्मानं प्रजां पश्+ऊंस्तानेवावरुन्धे त्रीनुत्तमायां रोहति त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति
७.७.८ सर्वान् कामानवरुन्धे य एवंव्विद्वान् बृहतो रोहान् रोहति
७.७.९ वज्रेण वा एतत् प्रस्तोतोद्गातारमभिप्रवर्तयति यद्रथन्तरं प्रस्तौति समुद्रमन्तर्धायोद्गायेद्वागित्यादेयंव्वाग्वै समुद्रः समुद्रमेवान्तर्दधात्यहिंसायै
७.७.१० बलवद्गेयं वज्रमेवं प्रवृत्तं प्रत्युद्गृह्णाति
७.७.११ बल्वला कुर्वता गेयमभिलोभयतेव वज्रमेवाभिलोभयति
७.७.१२ क्षिप्रं गेयं स्वर्गस्य लोकस्य समष्ट्यै
७.७.१३ देवरथो वै रथन्तरमक्षरेणाक्षरेण प्रतिष्ठापयतोद्गेयमरेणारेण हि रथः प्रतितिष्ठति
७.७.१४ यो वै देवरथमनन्वालभ्यातिष्ठत्यवास्मात् पद्यत इयं वै देवरथ इमामालभ्योद्गायेन्नास्मादवपद्यते
७.७.१५ ईश्वरं वै रथन्तरमुद्गातुश्चक्षुः प्रमथितोः प्रस्तुयमाने संमीलेत् स्वर्दृशं प्रतिवीक्षेत नैनं चक्षुर्जहाति
७.७.१६ प्रजननं वै रथन्तरं यत् तस्थुष इत्याहास्थायुकोद्गातुर्वाग्भवत्यपि प्रजननं हन्त्यस्थुष इति वक्तव्यं सुस्थुष इति वा स्थायुकोद्गातुर्वाग्भवति न प्रजननमपि हन्ति
७.७.१७ पृष्ठानि वा असृज्यन्त तैर्देवाः स्वर्गंल्लोकमायंस्तेषां रथन्तरं महिम्ना नाशक्नोदुत्पतत्
७.७.१८ तस्य वशिष्ठो महिम्नो विनिधाय तेन स्तुत्वा स्वर्गंल्लोकमैत् तान् संभृत्योद्गायेत्
७.७.१९ यस्ते गोषु महिमा यस्ते अप्सु रथे वा ते स्तनयित्नौ य उ ते यस्ते अग्नौ महिमा तेन संभव रथन्तर द्रविणवन्न एधि

७.८.१ अपो वा ऋत्व्यमार्च्छत् तासांव्वायुः पृष्ठे व्यवर्तत ततो वसु वामं समभवत् तस्मिन्मित्रावरुणौ पर्यपश्यतां तावब्रूतांव्वामं मर्या इदं देवेष्वाजानीति तस्माद्वामदेव्यम्
७.८.२ तत् परिगृह्णन्तावब्रूतामिदमविदावेदं नौ माभ्यर्तिढ्वमिति तत् प्रजापतिरब्रवीन्मद्वा एतद्ध्यजनि मम वा एतदिति तदग्निरब्रवीन्मां (?) वा एतदन्नमजनि मम वा एतदिति तदिन्द्रोऽब्रवीच्छ्रेष्ठस्था वा एतदहं वः श्रेष्ठोऽस्मि मम वा एतदिति तद्विश्वे देवा अब्रुवन्नस्मद्देवत्यं वा एतद्यदद्भ्योऽधि समभूदस्माकं वा एतदिति तत् प्रजापतिरब्रवीत् सर्वेषां न इदमस्तु सर्व इदमुपजीवामेति तत् पृष्ठेषु न्यदधुः सर्वदेवत्यं वै वामदेव्यम्
७.८.३ यत् कवतीषु तेन प्राजापत्यं को हि प्रजापतिर्यदनिरुक्तासु तेन प्राजापत्यमनिरुक्तो हि प्रजापतिः
७.८.४ यद्गायत्रीषु तेनाग्नेयं गायत्रच्छन्दा ह्यग्निः
७.८.५ यत् पृष्ठेषु न्यददधुस्तेनैन्द्रं सर्वाणि हि पृष्ठानीन्द्रस्य निष्केवल्यानि
७.८.६ यन्मैत्रावरुणोऽनुशंसति तेन मैत्रावरुणम्
७.८.७ यद्बहुदेवत्यमुत्तमं पदं तेन वैश्वदेवं सर्वेष्वेव रूपेषु प्रतितिष्ठति
७.८.८ प्रजापतिर्वा एतां गायत्रीं योनिमपश्यत् स आदीधीतास्माद्योनेः पृष्ठानि सृजा इति
७.८.९ स रथन्तरमसृजत तद्रथस्य घोषोऽन्वसृज्यत
७.८.१० स बृहदसृजत तत् स्तनयित्नोर्घोषोऽन्वसृज्यत स वैरूपमसृजत तद्वा तस्य घोषोऽन्वसृज्यत
७.८.११ स वैरूपमसृजत तदग्नेर्घोषोऽन्वसृज्यत
७.८.१२ स शक्वरीरसृजत तदपां घोषोऽन्वसृज्यत
७.८.१३ स रेवतीरसृजत तद्गवां घोषोऽन्वसृज्यत
७.८.१४ एतैर्वा एतानि सह घोषैरसृज्यन्त
७.८.१५ सर्वेऽस्मिन् घोषाः सर्वाः पुण्या वाचो वदन्ति य एवंव्वेद

७.९.१ पिता वै वामदेव्यं पुत्राः पृष्ठानि
७.९.२ एतस्माद्वा एतानि योनेरसृज्यन्त
७.९.३ तस्मात् पृष्ठानां स्तोत्रं वामदेव्येनानुष्टुवन्ति शान्त्यै
७.९.४ यद्धि पुत्रोऽशान्तं चरति पिता तच्छमयति
७.९.५ अयं वै लोको मध्यमो वामदेव्यमेतस्माद्वा इमौ लोकौ विष्वञ्चावसृज्येतां बृहच्च रतन्तरं च
७.९.६ यद्रथन्तरेण स्तुवन्ति ये रथन्तराः पशवोऽन्तरीक्षं त उपश्रयन्ति यद्बृहता स्तुवन्ति ये बार्हताः पशवोऽन्तरीक्षं त उपश्रयन्ति ते वामदेव्यस्य स्तोत्रेणावरुद्धाः
७.९.७ ध्रुव आसीनो वामदेव्येनोद्गायेत् पशूनामुपवृत्यै
७.९.८ उपैनं पशव आवर्तन्ते य एवंव्वेद
७.९.९ अन्तरिक्षं वै वामदेव्यमधून्वतेवोद्गेयमधूतमिवान्तरिक्षं पशवो वै वामदेव्यमहिंसतेवोद्गेयं पशूनामहिंसायै
७.९.१० कथमिव वामदेव्यं गेयमित्याहुः
७.९.११ यथाङ्कुली पुत्रान् संदश्यासंभिन्दन्ती हरति यथा वातोऽप्सु शनैर्वाति
७.९.१२ स्वधूर्वामदेव्यं गेयम्
७.९.१३ यो वै स्वधूर्वामदेव्यं गायति स्वधूर्भवति
७.९.१४ यात्यस्यान्यो नियानेन नान्यस्य नियानेन याति
७.९.१५ न बृहतो न रथन्तरस्यानुरूपं गेयं स्वेनैवायतनेन गेयमायतनवान् भवति
७.९.१६ देवा वै पशून् व्यभजन्त ते रुद्रमन्तरायंस्तान् वामदेव्यस्य स्तोत्र उपेक्षते
७.९.१७ अनिरुक्तं गेयम्
७.९.१८ यन्निराह रुद्राय पशूनपिदधाति रुद्रस्तां समां पशून् धातुको भवति
७.९.१९ रेवतीषु वामदेव्येन पशुकामः स्तुवीत
७.९.२० आपो वै रेवत्यः पशवो वामदेव्यमद्भ्य एवास्मै पशून् प्रजनयति
७.९.२१ अनवर्तिः पशुतो भवति प्रजा स्वस्य मीलितेव भवति
७.९.२२ कवतीभ्यो ह्येति प्रजापतेः

७.१०.१ इमौ वै लोकौ सहास्तां तौ वियन्तावब्रूतांव्विवाहंव्विवहावहै सह नावस्त्विति
७.१०.२ तयोरयममुष्मै श्यैतं प्रायच्छन्नौधसमसावस्मै
७.१०.३ तत एनयोर्निधने विपर्यक्रामतां देवविवाहो वै श्यैतनौधसे
७.१०.४ प्रवसीयांसं विवाहमाप्नोति य एवंव्वेद
७.१०.५ इतो वा इमे लोका ऊर्ध्वाः कल्पमाना यन्त्यमुतोऽर्वाञ्चः कल्पमाना आयन्ति
७.१०.६ यद्रथन्तरेण स्तुवन्तीमंल्लोकं तेन युनक्त्यन्तरिक्षंव्वामदेव्येन नौधसेनामुं यद्बृहता स्तुवन्त्यमुंल्लोकं तेन यनक्त्यन्तरिक्षंव्वामदेव्येन श्यैतेनेमम्
७.१०.७ कॢप्तानिमाल्लोकानुपास्ते य एवंव्वेद
७.१०.८ बृहद्रथन्तरे वै शैतनौधसे यद्रथन्तराय नौधसं प्रति प्रयुञ्जन्ति बृहदेवास्मै तत् प्रति प्रयुञ्जन्ति बृहद्ध्येतत् परोऽक्षं यन्नौधसं यद्बृहते श्यैतं प्रति प्रयुञ्जन्ति रथन्तरमेवास्मै तत् प्रति प्रयुञ्जन्ति रथन्तरं ह्येतत् परोऽक्षं यच्छ्यैतम्
७.१०.९ उभभ्यां बृहद्रथन्तराभ्यां स्तुते य एवंव्वेद
७.१०.१० देवा वै ब्रह्म व्यभजन्त तां नोधाः काक्षीवत आगच्छत् तेऽब्रुवन्नृषिर्न आगंस्तस्मै ब्रह्म ददामेति तस्मा एतत् साम प्रायच्छंस्तस्मान्नौधसं ब्रह्म वै नौधसम्
७.१०.११ ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति
७.१०.१२ अथैतच्छ्यैतम्
७.१०.१३ प्रजापतिः पशूनसृजत तेऽस्मात् सृष्टा अपाक्रामंस्तानेतेन साम्नाभिव्याहरत् तेऽस्मा अतिष्ठन्त ते शेत्या अभवन् यच्छेत्या अभवंस्तस्माच्छ्यैतं पशवो वै श्यैतम्
७.१०.१४ पशुकाम एतेन स्तुवीत पशुमान् भवति
७.१०.१५ प्रजापतिः प्रजा असृजत ताः सृष्टा अशोचंस्ताः श्यैतेन हुंमा इत्यभ्यजिघ्रत् ततो वै ताः समैधन्त समेधन्ते तां समां प्रजा यत्रैवं विद्वाञ्छ्यैतेनोद्गायति
७.१०.१६ एष वै यजमानस्य प्रजापतिर्यदुद्गाता यच्छ्यैतेन हिङ्करोति प्रजापतिरेव भूत्वा प्रजा अभिजिह्ग्रति
७.१०.१७ वसुनिधनं भवति पशवो वै वसु पशुष्वेव प्रतितिष्ठति

८.१.१ आष्कारणिधनं काण्वंव्वषट्कारणिधनमभिचरणीयस्य ब्रह्मसाम कुर्यादभिनिधनं माध्यन्दिने पवमाने
८.१.२ देवेषुर्वा एषा यद्वषत्कारोऽभीति वा इन्द्रो वृत्राय वज्रं प्राहरदभीत्येवास्मै वज्रं प्रहृत्य देवेष्वा वषट्कारेण विध्यति
८.१.३ त्रैककुभं पशुकामाय ब्रह्मसाम कुर्यात् त्वमङ्ग प्रशंसिष इत्येतासु
८.१.४ इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त रायोवाजो बृहद्गिरिः पृथुरश्मिस्तेऽब्रुवन् को नः पुत्रान् भरिष्यन्तीत्यहमिन्तीन्द्रोऽब्रवीत् तांस्त्रिककुबधिनिधायाचरत् स एतत् सामापश्यद्यत् त्रिककुबपश्यत् तस्मात् त्रैककुभम्
८.१.५ स आत्मानमेव पुनरुपाधावत् त्वमङ्ग प्रशंसिषो देवः शविष्ठ मर्त्यं न त्वदन्यो मघवन्नस्ति च मर्डितेन्द्र ब्रवीमि ते वच इति स एतेन च प्रगाथेनैतेन साम्ना सहस्रं पशूनसृजत तानेभ्यः प्रायच्छत् ते प्रत्यतिष्ठन्
८.१.६ यः पशुकामः स्याद्यह्प्रतिष्ठाकाम एतस्मिन् प्रगाथ एतेन साम्ना स्तुवीत प्र सहस्रं पशूनाप्नोति प्रतितिष्ठति
८.१.७ त्रिवीर्यं वा एतत् साम त्रीन्द्रियमैन्द्र्य ऋच ऐन्द्रं सामैन्द्रेति निधनमिन्द्रिय एव वीर्ये प्रतितिष्ठति
८.१.८ त्रैशोकं ज्योगामयाविने ब्रह्मसाम कुर्यात्
८.१.९ इमे वै लोकाः सहासंस्तेऽशोचन्तंस्तेषामिन्द्र एतेन साम्ना शुचमपाहन् यत् त्रयाणां शोचतामपाहंस्तस्मात् त्रैशोकम्
८.१.१० यास्मादपाहन् सा पुंश्चलीं प्राविशद्यामन्तरिक्षात् सा क्लीबं याममुष्मात् सैनस्विनम्
८.१.११ तस्मात् तेषां नाशैतव्या य एषामाशामेति तस्मा एव शुचोऽपभजते
८.१.१२ शुचा वा एष विद्धो यस्य ज्योगामयति यत् त्रैशोकं ब्रह्मसाम भवति शुचमेवास्मादपहन्ति
८.१.१३ दिवेति निधनमुपयन्ति व्युष्टिर्वै दिवा व्येवास्मै वासयति

८.२.१ आष्कारणिधनं काण्वं प्रतिष्ठाकामाय ब्रह्मसाम कुर्यात्
८.२.२ कण्वो वा एतत् सामर्ते निधनमपश्यत् स न प्रत्यतिष्ठत् स वृषदंशस्याषिति क्षुवत उपाशृणोत् स तदेव निधनमपश्यत् ततो वै स प्रत्यतिष्ठद्यदेतत् साम भवति प्रतिष्ठित्यै
८.२.३ वसिष्ठस्य जनित्रं प्रजाकामाय ब्रह्मसाम कुर्यात्
८.२.४ वसिष्ठो वा एतत् पुत्रहतः सामापश्यत् स प्रजया पशुभिः प्राजायत यदेतत् साम भवति प्रजात्यै
८.२.५ आथर्वणं लोककामाय ब्रह्मसाम कुर्यात्
८.२.६ अथर्वाणो वा एतल्लोकाकामाः सामापश्यंस्तेनामर्त्यंल्लोकमपश्यन् यदेतत् साम भवति स्वर्गस्य लोकस्य प्रजात्यै
८.२.७ अभीवर्तं भ्रातृव्यवते ब्रह्मसाम कुर्यात्
८.२.८ अभीवर्तेन वै देवा असुरानभ्यवर्तन्त यदभीवर्तो ब्रह्मसाम भवति भ्रातृव्यस्याभिवृत्यै
८.२.९ श्रायन्तीयं यज्ञविभ्रष्टाय ब्रह्मसाम कुर्यात्
८.२.१० प्रजापतिरुषसमध्यैत् स्वां दुहितरं तस्य रेतः परापतत् तदस्यां न्यषिच्यत तदश्रीणादिदं मे मा दुषदिति तत् सदकरोत् पशूनेव
८.२.११ यच्छ्रायन्तीयं ब्रह्मसाम भवति श्रीणाति चैवेनं सच्च करोति

८.३.१ देवाश्च वा असुराश्चैषु लोकेष्वस्पर्धन्त ते देवाः प्रजापतिमुपाधावंस्तेभ्य एतत् साम प्रायच्छदेतेनैनान् कालयिष्यद्धमिति तेनैनानेभ्यो लोकेभ्योऽकालयन्त यदकालयन्त तस्मात् कालेयम्
८.३.२ एभ्यो वै लोकेभ्यो भ्रातृव्यं कालयते य एवंव्वेद
८.३.३ स्तोमो वै देवेषु तरो नामासीद्यज्ञोऽसुरेषु विदद्वसुस्ते देवास्तरोभिर्वो विदद्वसुमिति स्तोमेन यज्ञमसुराणामावृञ्जत
८.३.४ स्तोमेन यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
८.३.५ साह्द्या वै नाम देवा आसंस्तेऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल्लोकमायंस्तद्देवाः लोकेयेन समतन्वन् यत् कालेयं भवति तृतीयसवनस्य संतत्यै
८.३.६ विदद्वसु वै तृतीयसवनं यत् तरोभिर्वो विदद्वसुमिति प्रस्तौति तृतीयसवनमेव तदभ्यतिवदति
८.३.७ सर्वाणि वै रूपाणि कालेयं यत् पदप्रस्तावं तेन राथन्तरं यद्बृहतो रोहान् रोहति तेन बार्हतं यत् स्तोभवान् प्रतिहारस्तेन बार्हतं यद्द्रवदिडं तेन राथन्तरं सर्वेष्वेव रूपेषु प्रतितिष्ठति

८.४.१ साध्या वै नाम देवा आसंस्ते सर्वेण यज्ञेन सह स्वर्गंल्लोकमायंस्ते देवाशीछन्दांस्यब्रुवन् सोममाहरतेति ते जगतीं प्राहिण्वन् सा त्रीण्यक्षराणि हित्वैकाक्षरा भूत्वागच्छत् त्रिष्टुभं प्राहिण्वन् सैकमक्षरं हित्वा त्र्यक्षरा भूत्वागच्छद्गायत्रीं प्राहिण्वंश्चतुरक्षराणि वै तर्हि च्छन्दांस्यासन् सा तानि चाक्षराणि हरन्त्यागच्छदष्टाक्षरा भूत्वा त्रीणि च सवनानि हस्ताभ्यां द्वे सवने दन्तैर्दंष्ट्वा तृतीयसवनं तस्माद्द्वे अंशुमती सवने धीतं तृतीयसवनं दन्तैर्हि तद्दंष्ट्वा धयन्त्यहरत् तस्य ये ह्रियमाणस्यांशवः परापतंस्ते पूतीका अभवन् यानि पुष्पाण्यवाशीयन्त तान्यर्ज्जुनानि यत् प्राप्रोथत् ते प्रप्रोथास्तस्मात् तृतीयसवन आशिरमवनयन्ति यमेव तं गावः सोममदन्ति तस्य तं रसमवनयन्ति ससोमत्वाय
८.४.२ ते त्रिष्टुब्जगत्यै गायत्रीमब्रूतामुप त्वायावेति साब्रवीत् किं मे ततः स्यादिति यत् कामयस इत्यब्रूतां साब्व्रवीन्मम सर्वं प्रातःसवनमहमुत्तरे सवने प्रणयानीति तस्माद्गायत्रं प्रातःसवनं गायत्र्युत्तरे सवने प्रणयति
८.४.३ तान् त्रिष्टुप्त्रिभिरक्षरैरुपैत् सैकादशाक्षरा भूत्वा प्राजायत तां जगत्येकेनाक्षरेणोपैत् सा द्वादशाक्षरा भूत्वा प्राजायत
८.४.४ तस्मादाहुर्गायत्री वाव सर्वाणि च्छन्दांसि गायत्री ह्येतान् पोषान् पुष्यन्त्यैदिति
८.४.५ इन्द्रस्तृतीयसवनाद्बीभत्समान उदक्रामत् तद्देवाः स्वादिष्ठयेति अस्वदयन्मदिष्ठयेति मद्वदकुर्वन् पवस्व सोम धारयेत्यपावयन्निन्द्राय पातवे सुत इति ततो वै तदिन्द्र उपावर्तत यत् स्वादिष्ठया मदिष्ठयेति प्रस्तौति तृतीयसवनस्य सेन्द्रत्वाय
८.४.६ स्वादिष्ठा वै देवेषु पशव आसन्मदिष्ठा असुरेषु ते देवाः स्वादिष्ठया मदिष्ठयेति पशूनसुराणामवृञ्जत
८.४.७ पशून् भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
८.४.८ तासु संहितम्
८.४.९ साध्या वै नामदेवा आसंस्तेऽवच्छिद्य तृतीयसवनं माध्यन्दिनेन सवनेन सह स्वर्गंल्लोकमायंस्तद्देवाः संहितेन समदधुर्यत् समदधुस्तस्मात् संहितम्
८.४.१० कालेयं पुरस्ताद्भवति संहितमुपरिष्टादेताभ्यां हि तृतीयसवनं संतायते
८.४.११ सर्वाणि वै रूपाणि संहितं यत् पदप्रस्तावं तेन राथन्तरं यद्बृहतो रोहान् रोहति तेन बार्हतं यद्पदनिधनं तेन राथन्तरं सर्वेष्वेव रूपेषु प्रतितिष्ठति

८.५.१ उष्णिक्ककुभावेते भवतः
८.५.२ उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रं प्राहरत् ककुभि पराक्रमतोष्णिहा प्राहरत् तस्मात् ककुभो मध्यमं पदं भूयिष्ठाक्षरं पराक्रमणं हि तदभि समौहत् तस्मादुष्णिह उत्तमं पदं भूयिष्ठाक्षरं पुरो गुरुरिव हि वज्रः
८.५.३ वज्रं भ्रातृव्याय प्रहरति य एवंव्वेद
८.५.४ नासिके वा एते यज्ञस्य यदुष्णिक्ककुभौ तस्मात् समानं छन्दः सती नाना यज्ञंव्वहतस्तस्मात् समानाया नासिकायाः सत्या नाना प्राणावुच्चरतः
८.५.५ प्राणा वा उष्णिक्ककुभौ तस्मात् ताभ्यां न वषट्कुर्वन्ति यद्वषट्कुर्युः प्राणानग्नौ प्रदध्युः
८.५.६ तासु सफं विफमिव वै तृतीयसवनं तृतीयसवनस्य सफत्वायाथौष्कलमेतेन वै प्रजापतिः पुष्कलान् पशूनसृजत तेषु रूपमदधाद्यदेतत् साम भवति पशुष्वेव रूपं दधाति
८.५.७ पुरोजिती वो अन्धस इति पद्या चाक्षर्या च विराजौ भवतः पद्यया वै देवाः स्वर्गंल्लोकमायन्नक्षर्यया ऋषयो नु प्राजानान् यदेते पद्या चाक्षर्या च विराजौ भवतः स्वर्गस्य लोकस्य प्रज्ञात्यै
८.५.८ तासु श्यावाश्वम्
८.५.९ श्यावाश्वमार्वनानसं सत्त्रमासीनं धन्वोदवहन् स एतत् सामापश्यत् तेन वृष्टिमसृजत ततो वै स प्रत्यतिष्ठत् ततो गातुमविन्दत गातुविद्वा एतत् साम
८.५.१० विन्दते गातुं प्रतितिष्ठत्येतेन तुष्टुवानः
८.५.११ इन्द्रस्तृतीयसवनाद्बीभत्समान उदक्रामत् तं देवाः श्यावाश्ल्वेनैहायि एहियेत्यन्वाह्वयन् स उपावर्तत यदेतत् साम भवति तृतीयसवनस्य सेन्द्रत्वाय
८.५.१२ अथैतदान्धीगवमन्धीगुर्वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत यदेतत् साम भवति पशूनां पुष्ट्यै मध्ये निधनमैडं भवत्येतेन वै तृतीयसवनं प्रतिष्ठितं यन्मध्ये निधनमैडं न स्यादप्रतिष्ठितं तृतीयसवनं स्यात्
८.५.१३ दशाक्षरं मध्यतो निधनमुपयन्ति दशाक्षरा विराड्विराज्येव प्रतितिष्ठति
८.५.१४ अभि प्रियाणि पवत इति कावं प्राजापत्यं साम
८.५.१५ प्रजा वै प्रियाणि पशवः प्रियाणि प्रजायामेव पशुषु प्रतितिष्त्शुषु प्रतितिष्ठति
८.५.१६ रश्मी वा एतौ यज्ञस्य यदौशनकावे देवकोशो वा एष यज्ञमभिसमुब्जितो यदेते अन्ततो भवतो यज्ञस्यारिष्ट्यै

८.६.१ देवा वै ब्रह्म व्यभजन्त तस्य यो रसोऽत्यरिच्यत तद्यज्ञायज्ञीयमभवत्
८.६.२ ब्रह्मणो वा एष रसो यद्यज्ञायज्ञीयं यद्यज्ञायज्ञीयेन स्तुवन्ति ब्रह्मण एव रसे यज्ञं प्रतिष्ठापयति
८.६.३ योनिर्वै यज्ञायज्ञीयमेतस्माद्वै योनेः प्रजापतिर्यज्ञमसृजत तस्माद्यज्ञायज्ञीयम्
८.६.४ तस्माद्वा एतेन पुरा ब्राह्मणा बहिष्पवमानमस्तोषत योनेर्यज्ञं प्रतनवामहा इति यज्ञं ततः स्तुवन्ति योनौ यज्ञं प्रतिष्ठापयति
८.६.५ असुरेषु वै सर्वो यज्ञ आसीत् ते देवा यज्ञायज्ञीयमपश्यंस्तेषां यज्ञायज्ञा वो अग्नय इत्यग्निहोत्रमवृञ्जत गिरागिरा च दक्षस इति दर्शपूर्णमासौ प्रप्र वयममृतं जातवेदसमिति चातुर्मास्यानि प्रियं मित्रं न शंसिषमिति सौम्यमध्वरम्
८.६.६ यज्ञा वो अग्नये गिरा च दक्षसे प्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषमिति वै तर्हि च्छन्दांस्यासंस्ते देवा अभ्यारम्भमभिनिवर्त्यं च्छन्दोभिर्यज्ञमसुराणामवृञ्जत
८.६.७ छन्दोभिर्यज्ञं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
८.६.८ एतद्ध स्म वा आह कूशाम्बः स्वायवो ब्रह्मा लातव्यः कं स्विदद्य शिशुमारी यज्ञपथेऽप्यस्ता गरिष्यति
८.६.९ एषा वै शिशुमारी यज्ञपथेऽप्यस्ता यज्ञायज्ञीयं यद्गिरागिरेत्याहात्मानं तदुद्गाता गिरति
८.६.१० ऐरं कृत्वोद्गेयमिरायां यज्ञं प्रतिष्ठापयत्यप्रमायुक उद्गाता भवति
८.६.११ वैश्वानरे वा एतदुद्गातात्मानं प्रदधाति यत् प्रप्र वयमित्याह प्रप्रीं वयमिति वक्तव्यंव्वैश्वानरमेव परिक्रामति
८.६.१२ यो वै निह्नुवानं च्छन्द उपैति पापीयानुज्जगिवान् भवत्येतद्वै निह्नुवानं च्छन्दो यन्न शंसिषमिति नु शंसिषमिति वक्तव्यं सुशंसिषमिति वा न निह्नुवानं छन्द उपैति वसीयानुज्जगिवान् भवति
८.६.१३ यस्य वै यज्ञा वागन्ता भवन्ति वाचश्छिद्रेण स्रवन्त्येते वै यज्ञा वागन्ता ये यज्ञायज्ञीयान्ता एतद्वाचश्छिद्रं यदनृतं यदग्निष्टोमयाज्यनृतमाह तदन्वस्य यज्ञः स्रवत्यक्षरेणान्ततः प्रतिष्ठाप्यमक्षरेणैव यज्ञस्य च्छिद्रमपि दधाति
८.६.१४ विराजो वा एतद्रूपं यदक्षरं विराज्येवान्ततः प्रतितिष्ठति

८.७.१ इतो वै प्रातरूर्ध्वाणि च्छन्दांसि युज्यन्तेऽमुतोऽवाञ्चि यज्ञायज्ञीयस्य स्तोत्रे युज्यन्ते यज्ञा वो अग्नये गिरा च दक्षस इति द्वादशाक्षरं प्र वयममृतं जातवेदसमित्येकादशाक्षरं प्रियं मित्रंन्न शंसिषमित्यष्टाक्षरम्
८.७.२ अनुष्टुभमुत्तमां संपादयतीयं वा अनुष्टुबस्यामेव प्रतितिष्ठति
८.७.३ वाग्वा अनुष्टुब्वाच्येव प्रतितिष्ठति ज्यैष्ठ्यं वा अनुष्टुब्जैष्ठ्य एव प्रतितिष्ठति
८.७.४ कथमिव यज्ञायज्ञीयं गेयमित्याहुर्यथानड्वान् प्रस्रावयमाण इत्थमिव चेत्थमिव चेति
८.७.५ वैश्वानरं वा एतदुद्गातानु प्रसीदन्नेतीत्याहुर्यद्यज्ञायज्ञीयस्यर्चं संप्रत्याहेति परिक्रामतेवोद्गेयंव्वैश्वानरमेव परिक्रामति
८.७.६ वैश्वानरे वा एतदध्वर्युः सदस्यानभिसृजति यद्यज्ञायज्ञीयस्य स्तोत्रमुपावर्तयति प्रावृतेनोद्गेयंव्वैश्वानरेणानभिदाहाय
८.७.७ न ह तु वै पितरः प्रावृतं जानन्ति यज्ञायज्ञीयस्य वै स्तोत्रे पितरो यथायथं जिज्ञासन्त आकर्णाभ्यां प्रावृत्यं तदेव प्रावृतं तदप्रावृतं जानन्ति पितरो न वैश्वानरो हिनस्ति
८.७.८ अपः पश्चात् पत्न्य उपसृजन्ति वैश्वानरमेव तच्छमयन्त्यापो हि शान्तिः
८.७.९ अथो रेत एव तत् सिञ्चन्त्यापो हि रेतः
८.७.१० दक्षिणानूरूनभिषिञ्चन्ति दक्षिणतो हि रेतः सिच्यते
८.७.११ महदिव प्रत्यूह्यं मन एवास्य तज्जनयन्ति
८.७.१२ उद्गात्रा पत्नीः संख्यापयन्ति रेतोधेयाय
८.७.१३ हिङ्कारं प्रति संख्यापयन्ति हिङ्कृताद्धि रेतोऽधीयत
८.७.१४ आतृतीयायाः संख्यापयन्ति त्रिवद्धि रेतः

८.८.१ देवा वा अग्निष्टोममभिजित्योक्थानि नाशक्नुवन्नभिजेतुं तेऽग्निमब्रुवंस्त्वया मुखेनेदं चयामेति सोऽब्रवीत् किं मे ततः स्यादिति यत् कामयस इत्यब्रुवन् सोऽब्रवीन्मद्देवत्यासूक्थानि प्रणयानिति
८.८.२ तस्मादाग्नेयीषूक्थानि प्रणयन्ति
८.८.३ तस्मादु गायत्रीषु गायत्रच्छन्दा ह्यग्निः
८.८.४ तेऽग्निं मुखं कृत्वा साकमश्वेनाभ्यक्रामन् यत् साकमश्वेनाभ्यक्रामंस्तस्मात् साकमश्वम्
८.८.५ तस्मात् साकमश्वेनोक्थानि प्रणयन्त्येतेन हि तान्यग्रेऽभ्यजयन्
८.८.६ स इन्द्रोऽब्रवीत् कश्चाहं चेदमन्ववैष्याव इत्यहं चेति वरुणस्तंव्वरुणोऽन्वतिष्ठदिन्द्र आहरत् तस्मादैन्द्रावरुणमनुशस्यते
८.८.७ स एवाब्रवीत् कश्चाहं चेदमन्ववैष्याव इत्यहं चेति बृहस्पतिस्तं बृहस्पतिरन्वतिष्टदिन्द्र आहरत् तस्मादैन्द्राबार्हस्पत्यमनुशस्यते स एवाब्रवीत् कश्चाहं चेदमन्ववैष्याव इत्यहं चेति विष्णुस्तं विष्णुरन्वतिष्टदिन्द्र आहरत् तस्मादैन्द्रावैष्णवमनुशस्यते
८.८.८ पशून् वा एभ्यस्तानाहरत् पशवो वा उक्थानि पशुकाम उक्थेन स्तुवीत पशुमान् भवति
८.८.९ बृहता वा इन्द्रो वृत्राय वज्रं प्राहरत् तस्य तेजः परापतत् तत् सौभरमभवत्
८.८.१० जामि वा एतद्यज्ञे क्रियत इत्याहुर्यद्रथन्तरं पृष्ठं रथन्तरं संधिर्नान्तरा बृहता स्तुवन्तीति यत् सौभरेण स्तुवन्ति बृहतैव तदन्तरा स्तुवन्ति बृहतो ह्येतत् तेजो यत् सौभरम्
८.८.११ यदि बृहत् सामातिरात्रः स्यात् सौभरमुक्थानां ब्रह्म साम कार्यं बृहदेव तत् तेजसा समर्धयति
८.८.१२ यदि रथन्तरसाम्ना सौभरं कुर्यादजामितायै
८.८.१३ देवानां वै स्वर्गंल्लोकं +यतां दिशोऽव्लीयन्त ताः सौभरेणो इत्युदस्तंभुवंस्ततो वै ता अदृंहन्त ततः प्रत्यतिष्ठंस्ततः स्वर्गंल्लोकं प्राजानन् यः स्वर्गकामः स्याद्यः प्रतिष्ठाकामः सौभरेण स्तुवीत प्र स्वर्गंल्लोकं जानाति प्रतित्ष्ठति
८.८.१४ प्रजापतिः प्रजा असृजत ताः सृष्टा आशनायंस्ताभ्यः सौभरेणोर्गित्यन्नं प्रायच्छत् ततो वै ताः समैधन्त
८.८.१५ समेधन्ते तां समां प्रजा यत्रैवंव्विद्वान् सौभरेणोद्गायति
८.८.१६ ता अब्रुवन् सुभृतं नोऽभार्षीरिति तस्मात् सौभरम्
८.८.१७ वृष्टिं वा अभ्यस्तां प्रायच्छदन्नमेव
८.८.१८ यो वृष्टिकामः स्याद्योऽन्नाद्यकामो यः स्वर्गकामः सौभरेण स्तुवीत
८.८.१९ हीषिति वृष्टिकामाय निधनं कुर्यादूर्गित्यन्नाद्यकामायो इति स्वर्गकामाय
८.८.२० सर्वे वै कामाः सौभरं सर्वेष्वेव कामेषु प्रतितिष्ठति
८.८.२१ अथैतन्नार्मेधम्
८.८.२२ नृमेधसमाङ्गिरसं सत्त्रमासीनं श्वभिरभ्याह्वयन् सोऽग्निमुपाधावत् पाहि नो अग्न एकयेति तंव्वैश्वानरः पर्युदतिष्ठत् ततो वै स प्रत्यतिष्ठत् ततो गातुमविन्दत
८.८.२३ गातुविद्वा एतत् साम विन्दते गातुं प्रतितिष्ठत्येतेन तुष्टुवानः
८.८.२४ नैव ह्येतदह्नो रूपं न रात्रेर्यदुक्थानाम्
८.८.२५ ककुप्प्रथमाथोष्णिगथ पु
रौष्णिगनुष्टुप्तेनानुष्टुभो नयन्त्यच्छावाकसाम्नः

८.९.१ हारिवर्णं भवति
८.९.२ असुरा वा एषु लोकेष्वासंस्तान् देवा हरिश्रियमित्यस्माल्लोकात् प्राणुदन्त विराजसीत्यन्तरिक्षाद्दिवोदिव इत्यमुष्मात्
८.९.३ तद्य एवं वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्येमांल्लोकानभ्यारोहति
८.९.४ हरिवर्णो वा एतत् पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत यदेतत् साम भवति पशूनां पुष्टैः
८.९.५ अङ्गिरसः स्वर्गंल्लोकं यतो रक्षांस्यन्वसचन्त तान्येतेन हरिवर्णोऽपाहन्त यदेतत् साम भवति रक्षसामपहत्यै
८.९.६ पृष्ठानि वा असृज्यन्त तेषां यत् तेजो रसोऽत्यरिच्यत तद्देवाः समभरंस्तदुद्वंशीयमभवत्
८.९.७ सर्वेषां वा एतत् पृष्ठानां तेजो यदुद्वंशीयं तस्माद्वा एतत् पुरा सजाताय नाक्रन् पापवसीयसो विधृत्यै
८.९.८ एष ह्येव पृष्ठैस्तुष्टुवानो य उद्वंशीयेन स्तुवते
८.९.९ सर्वाणि वै रूपाण्युद्वंशीयम्
८.९.१० गायन्ति त्वा गायत्रिण एति रथन्तरस्य रूपमेति हि रथन्तरम्
८.९.११ आदिर्बृहत ऊर्ध्वमिव हि बृहत्
८.९.१२ परिष्टोभो वैरूपस्य परिष्टुभं हि वैरूपम्
८.९.१३ अनुतोदो वैराजस्यानुतुन्नं हि वैराजम्
८.९.१४ अर्धेडा शक्वरीणामतिस्वारो रेवतीनाम्
८.९.१५ अर्धेडया वै देवा असुरानवहत्यातिस्वारेण स्वर्गंल्लोकमारोहन्
८.९.१६ तद्य एवंव्वेदार्धेडयैव भ्रातृव्यमवहत्यातिस्वारेण स्वर्गंल्लोकमारोहति
८.९.१७ अर्धेडया वै पूर्वं यज्ञं संस्थापयन्त्यतिस्वारेणोत्त्रमारभन्ते
८.९.१८ उपैनमुत्तरो यज्ञो नमति य एवंव्वेद
८.९.१९ पाङ्क्तं वा एतत् साम पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति
८.९.२० आष्टादंष्ट्रे ऋद्धिकामाय कुर्यात्
८.९.२१ अष्टादंष्ट्रो वैरूपोऽपुत्रोऽप्रजा अजीर्यत् स इमांल्लोकान् विचिच्छिद्वां अमन्यत स एते जरसि सामनी अपश्यत् तयोरप्रयोगादबिभेत् सोऽब्रवीदृध्नवद्योभे सामभ्यां स्तवता इति
८.९.२२ ऋषेर्वा एतत् प्राशोद्भूतं यदष्टादंष्ट्रे भवत ऋध्या एव

८.१०.१ गायत्रीषु ब्रह्मवर्चसकामायोक्थानि प्रणयेयुर्गायत्र्यां ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा गायत्री संपद्यते
८.१०.२ तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे
८.१०.३ गायत्रीषु पशुकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषोष्णिक्संपद्यते
८.१०.४ पशवो वा उष्णिक्पशूनेवावरुन्धे
८.१०.५ गायत्रीषु पुरुषकामायोक्थानि प्रणयेयुः ककुभि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा ककुप्संपद्यते
८.१०.६ पुरुषो वै ककुप्पुरुषानेवावरुन्धे
८.१०.७ विराट्स्वन्नाद्यकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषा विराट्संपद्यते
८.१०.८ अन्नं विराडन्नाद्यमेवावरुन्धे
८.१०.९ अक्षरपङ्क्तिषु ज्यैष्ठ्यकामायोक्थानि प्रणयेयुरुष्णिहि ब्रह्मसामानुष्टुभ्यच्छावाकसाम सैषानुष्टुप्संपद्यते
८.१०.१० ज्यैष्ठ्यं वा अनुष्टुब्ज्यैष्ठ्यमवावरुन्धे

९.१.१ देवा वा उक्थान्यभिजित्य रात्रिं नाशक्नुवन्नभिजेतुं तेऽसुरान् रात्रिं तमः प्रविष्टां नानुव्यपश्यंस्त एतमनुष्टुप्शिरसं प्रगाथ्मपश्यन् विराजं ज्योतिः तान् विराजा ज्योतिषानुपश्यन्तोऽनुष्टुभा वज्रेण रात्रेर्निराघ्नन्
९.१.२ यदेषोऽनुष्टुप्शिराः प्रगाथो भवति विराडेव ज्योतिषानुपश्यन्ननुष्टुभा वज्रेण रात्रेर्भ्रातृव्यं निर्हन्ति
९.१.३ तान् समन्तं पर्यायं प्राणुदन्त यत् पर्यायं प्राणुदन्त तत् पर्यायाणां पर्यायत्वम्
९.१.४ प्रथमानि पदानि पुनरादीनि भवन्ति प्रथमस्य पर्यायस्य
९.१.५ प्रथमैर्हि पदैः पुनरादाय प्रथमरात्रात् प्राणुदन्त
९.१.६ पान्तमा वो अन्धस इति प्रस्तौति
९.१.७ अहर्वै पान्तमन्धो रात्रिरह्नैव तद्रात्रिमारभन्ते
९.१.८ तासु वैतहव्यम्
९.१.९ वीतहव्यः श्रायसो ज्योग्निरुद्ध एतत् सामापश्यत् सोऽवगच्छत् प्रत्यतिष्ठदवगच्छति प्रतितिष्ठत्येतेन तुष्टुवानः
९.१.१० तमिव वा एते प्रविशन्तिये रात्रिमुपयन्ति यदेको निधनं रात्रेर्मुखे भवति प्रज्ञात्यै
९.१.११ यदा वै पुरुषः स्वमोक आगच्छति सर्वं तर्हि प्रजानाति सर्वमस्मै दिवा भवति
९.१.१२ ते मध्यमं पर्यायमश्रयन्त तेषामौर्ध्वसद्मनेन वाचमवृञ्जत
९.१.१३ वाचं भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
९.१.१४ त्रिणिधनं भवति
९.१.१५ यथा वा अह्नो माध्यन्दिनं सवनं त्रिणिधनायतनमेवमेष रात्रेर्मध्यमः पर्यायस्त्रिणिधनायतनः सलोकत्वाय
९.१.१६ मध्यमानि पदानि पुनरादीनि भवन्ति मध्यमस्य पर्यायस्य मध्यमैर्हि पदैः पुनरादायं मध्यमरात्रात् प्राणुदन्त
९.१.१७ त उत्तमं पर्यायमश्रयन्त तेषां घृतश्च्युन्निधनेन पशूनवृञ्जत पशवो वै घृतश्च्युतः
९.१.१८ पशून् भ्रातृव्यस्य वृङ्क्ते य एवंव्वेद
९.१.१९ उत्तमानि पदानि पुनरादीनि भवन्त्युत्तमस्य पर्यायस्योत्तमैर्हि पदैःपुनरादायमुत्तमरात्रात् प्राणुदन्त
९.१.२० तान् सन्धिनाभिपलायन्त
९.१.२१ तानाश्विनेनासंहाय्यमगमयन्
९.१.२२ असंहाय्यं भ्रातृव्यं गमयति य एवंव्वेद
९.१.२३ एषा वा अग्निष्टोमस्य संमा यद्रात्रिः
९.१.२४ द्वादश स्तोत्राण्यग्निष्टोमो द्वादश स्त्रोत्राणि रात्रिः
९.१.२५ एषा वा उक्थस्य संमा यद्रात्रिः
९.१.२६ त्रीण्युक्थानि त्रिदेवत्यः सन्धिः
९.१.२७ यथा वा अह्न उक्थान्येवमेष रात्रेः सन्धिर्नानारूपाण्यह्न उक्थानि नानारूपा एते तृचा भवन्ति
९.१.२८ रथन्तरं प्रतिष्ठाकामाय सन्धिं कुर्यात्
९.१.२९ इयं वै रथन्तरमस्यामेव प्रतितिष्ठति
९.१.३० बृहत् स्वर्गकामाय सन्धिं कुर्यात्
९.१.३१ स्वर्गो लोको बृहत् स्वर्ग एव लोके प्रतितिष्ठति
९.१.३२ वारवन्तीयं वा वामदेव्यं वा श्रुद्ध्यं वै तेषामेकं पशुकामाय सन्धिं कुर्यात्
९.१.३३ पशवो वा एतानि सामानि पशुष्वेव प्रतितिष्ठति
९.१.३४ आश्विनं होतानुशंसति
९.१.३५ प्रजापतिर्वा एतत् सहस्रमसृजत तद्देवेभ्यः प्रायच्छत् तस्मिन्न समराधयंस्ते सूर्यं काष्ठां कृत्वाजिमधावन्
९.१.३६ तेषामश्विनौ प्रथमावधावतां तावन्ववदन् सह नोऽस्त्विति तावब्रूतां किं ततः स्यादिति यत् कामयेथे इत्यब्रुवंस्तावब्रूतामस्मद्देवत्यमिदमुक्थमुच्याता इति तस्मादाश्विनमुच्यते
९.१.३७ सर्वाः खलु देवताः शस्यन्ते
९.१.३८ क्षिप्रं शस्यमाजिमिव ह्येते धावन्त्या सूर्यस्योदेतोः शंसेत् सूर्यं हि काष्ठामकुर्वत

९.२.१ पान्तमा वो अन्धस इति वैतहव्यमन्यक्षेत्रंवा एते प्रयन्ति ये रात्रिमुपयन्ति यदोकोनिधनं रात्रेर्मुखे भवत्योकसोऽप्रच्यावाय
९.२.२ प्र व इन्द्राय मादनमिति गौरीवितम्
९.२.३ ब्रह्म यद्देवा व्यकुर्वत ततो यदत्यरिच्यत तद्गौरीवितमभवत्
९.२.४ अतिरिक्तं गौरीवितमतिरिक्तमेतत् स्तोत्रं यद्रात्रिरतिरिक्त एवातिरिक्तं दधाति
९.२.५ वयमु त्वा तदिदर्था इति काण्वम्
९.२.६ एतेन वै कण्व इन्द्रस्य सांविद्यमगच्छदिन्द्रस्यैवैतेन सांविद्यं गच्छति
९.२.७ इन्द्राय मद्वने सुतमिति श्रौतकक्षं क्षत्रसाम प्र क्षत्रमेवैतेन भवति
९.२.८ अयं त इन्द्र सोम इति दैवोदासम्
९.२.९ अग्निष्टोमेन वै देवा इमंल्लोकमभ्यजयन्नन्तरिक्षमुक्थेनातिरात्रेणामुं. त इमंल्लोकं पुनरभ्यकामयन्त त इहेत्यस्मिंल्लोके प्रत्यतिष्ठन् यदेतत् साम भवति प्रतिष्ठित्यै
९.२.१० ऊर्ध्वसद्मनमपि शर्वरीषु प्रोहन्ति
९.२.११ असुरा वा एषु लोकेष्वासंस्तान् देवा ऊर्ध्वसद्मनेनैभ्यो लोकेभ्यः प्राणुदन्त
९.२.१२ तद्य एवंव्वेदैभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य स्व आयतने सत्त्रमास्ते
९.२.१३ आ तू न इन्द्र क्षुमन्तमित्याकूपारम्
९.२.१४ अकूपाराङ्गिरसस्यासीत् तस्या यथा गोधायास्त्वगेव त्वगासीत् तामेतेन त्रिःसाम्नेन्द्रः पूत्वा सूर्यत्वचसमकरोत् तद्वाव सा तर्ह्यकामयत यत्कामा एतेन साम्ना स्तुवते स एभ्यः कामः समृध्यते
९.२.१५ अभि त्वा वृषभा सुतं इत्यार्षभं क्षत्रसाम क्षत्रमेवैतेन भवति
९.२.१६ इदंव्वसो सुतमन्ध इति गारमेतेन वै गर इन्द्रमप्रीणात् प्रीत एवास्यैतेनेन्द्रो भवति
९.२.१७ इदं ह्यन्वोजसेति माधुच्छन्दसं प्रजापतेर्वा एषा तनूरयातयाम्नी प्रयुज्यते
९.२.१८ आ त्वेता निषीदतेति दैवातिथम्
९.२.१९ देवातिथिः सपुत्रोऽशनायंश्चरन्नरण्य उर्वारूण्यविन्दत् तान्येतेन साम्नोपासीदत् ता अस्मै गावः पृश्नयो भूत्वोदतिष्ठन् यदेतत् साम भवति पशूनां पुष्ट्यै
९.२.२० योगेयोगे तवस्तरमिति सौमेधं रात्रिषाम रात्रेरेव समृध्यै
९.२.२१ इन्द्र सुतेषु सोमेष्विति कौत्सम्
९.२.२२ कुत्सश्च लुशश्चेन्द्रं व्यह्वयेतां स इन्द्रः कुत्समुपावर्तत तं शतेन वार्ध्रीभिराण्डयोरबध्नात् तं लुशोऽभ्यवदत् प्रमुच्यस्व परि कुत्सादिहागहि किमु त्वावानाण्डयोर्बद्ध आसाता इति तास्संच्छिद्य प्राद्रवत् स एतत् कुत्सः सामापश्यत् तेनैनमन्ववदत् स उपावर्तत
९.२.२३ यदेतत् साम भवति सेन्द्रत्वाय

९.३.१ यदि सत्त्राय दीक्षेरन्नथ साम्युत्तिष्ठेत् सोममपभज्य विश्वजितातिरात्रेण यजेत सर्ववेदसेन सर्वस्मा एव दीक्षते सर्वमाप्नोति
९.३.२ या इद्दक्षिणा ददाति ताभिरिति प्रयुङ्क्ते
९.३.३ यदि पर्यायैरस्तुतमभिव्युच्छेत् पन्चदशभिर्होत्रे स्तुयुः पञ्चभिःपञ्चभिरितरेभ्यः
९.३.४ अग्ने विवस्वदुषस इति सन्धिना स्तुयुः प्राणा वै त्रिवृत् स्तोमानां प्रतिष्ठा रथन्तरं साम्नां प्राणांस्चैवोपयन्ति प्रतिष्ठां च
९.३.५ षष्टिं च त्रीणि च शतानि होता शंसति
९.३.६ तावत्यः संवत्सरस्य रात्रयः संवत्सरसंमिताभिरेव तदृग्भिराशीविनमाप्नोति
९.३.७ यदर्वाक्स्तुवन्ति तदस्तुतं यत् सम्प्रति स्तुवन्ति तत् स्तुतं यदतिष्टुवन्ति तत् सुष्टुतम्
९.३.८ यद्यर्वाक्स्तुयुर्यावतीभिर्न स्तुयुस्तावतीभिर्वातिष्टुयुर्भूयोऽक्षराभिर्वा
९.३.९ यद्यतिष्टुयुर्यावतीभिरतिष्टुयुस्तावतीभिर्वा न स्तुयुः कनीयोऽक्षराभिर्वा
९.३.१० यद्यर्वाक्स्तुयुस्त्रीडमग्निष्टोमसाम कार्यं निधनमेकेडया ये द्वे ताभ्यामेव तत् समं क्रियते
९.३.११ यद्यतिष्टुयुः स्वारमग्निष्टोमसाम कार्यमूनमिव वा एतत् साम्नो यत् स्वरस्तेनैव तत् समं क्रियते

९.४.१ यदि सोमौ संसुतौ स्यातां महति रात्रेः प्रातरनुवाकमुपाकुर्यात्
९.४.२ पूर्वो वाचं पूर्वश्छन्दांसि पूर्वो देवता वृङ्क्ते
९.४.३ वृषण्वतीं प्रतिपदं कुर्यादिन्द्रो वै वृषा प्रातःसवनादेवैषामिन्द्रंव्वृङ्क्ते
९.४.४ अथो खल्वाहुः सवनमुखेसवनमुखे कार्या सवनमुखात्सवनमुखादेवैषामिन्द्रंव्वृङ्क्ते
९.४.५ सुसमिद्धे होतव्यमग्निर्वै सर्वा देवताः सर्वा एव देवताः पश्यञ्जुहोति
९.४.६ संवेशायोपवेशाय गायत्र्यै च्छन्दसेऽभिभूतये स्वाहा संवेशायोपवेशाय त्रिष्टुभे च्छन्दसेऽभिभूतये स्वाहा संवेशायोपवेशाय जगत्यै च्छन्दसेऽभिभूतये स्वाहेति जुहोति
९.४.७ च्छन्दांसि वा अभिभूतयस्तैरेवैनानभिभवत्युभे बृहद्रथन्तरे कार्ये
९.४.८ यत्र वा इन्द्रस्य हरी तदिन्द्रः. इन्द्रस्य वै हरी बृहद्रथन्तरे यदुभे बृहद्रथन्तरे भवतः पूर्व एवेन्द्रस्य हरी आरभन्ते
९.४.९ तैरश्रवसे कार्ये
९.४.१० तुरश्रवसश्च वै पारावतानां च सोमौ संसुतावास्तां तत एते तुरश्रवाः सामनी अपश्यत् ताभ्यामस्मा इन्द्रः शल्मलिनां यमुनाया हव्यं निरावहत् यत् तैरश्रवसे भवतो हव्यमेवैषांव्वृङ्क्ते
९.४.११ पूर्वेऽभिषुणुयुः
९.४.१२ या वै पूर्वाः प्रस्नान्ति ताः पूर्वास्तीर्थं जयन्ति पूर्व एवेन्द्रमारभन्ते
९.४.१३ विहव्यं शस्यम्
९.४.१४ जमदग्नेश्च वा ऋषीणां च सोमौ संसुतावास्तां तत एतज्गमदग्निर्विहव्यमपश्यत् तमिन्द्र उपावर्तत यद्विहव्यं होता शंसतीन्द्रमेवैषांव्वृङ्क्ते
९.४.१५ यदीतरोऽग्निष्टोमः स्यादुक्थः कार्यो यद्युक्थोऽतिरात्रो यो वै भूयान् यज्ञक्रतुः स इन्द्रस्य प्रियो भूयसैवैषां यज्नक्रतुनेन्द्रंव्वृङ्क्ते
९.४.१६ अथो खल्वाहुर्दुष्प्राप इव वै परः पन्था यमेवाग्रे यज्ञक्रतुमारभेत तस्मान्नेयादिति
९.४.१७ सजनीयं शस्यमगस्त्यस्य कयाशुभीयं शस्यम्
९.४.१८ अस्या अमुष्या अद्यश्वान्मिथुनादहोरात्राभ्यामेवैनान्निर्भजति

९.५.१ यदि सोममक्रीतमपहरेयुरन्यः क्रेतव्यः
९.५.२ यदि क्रीतं योऽन्योऽभ्याशं स्यात् स आहृत्यः सोमविक्रयणे तु किं चिद्दद्यात्
९.५.३ यदि सोमं न विन्देयुः पूतीकानभिषुणुयुर्यदि न पूतीकानर्ज्जुनानि
९.५.४ गायत्री सोममाहरत् तस्या अनु विसृज्य सोमरक्षिः पर्णमच्छिनत् तस्य योऽंशुः परापतत् स पूतीकोऽभवत् तस्मिन् देवा ऊतिमविन्दन्नूतीको वा एष यत् पूतीकानभिषुण्वन्त्यूतिमेवास्मै विन्दन्ति
९.५.५ प्रतिधुक्च प्रातः पूतीकाश्च शृतं च मध्यन्दिने पूतीकाश्च दधि चापराह्णे पूतीकाश्च
९.५.६ सोमपीथो वा एतस्मादपक्रामतीत्याहुर्यस्य सोममपहरन्तीति स ओषधीश्च पशूंश्च प्रविशति तमोषधिभ्यश्च पशुभ्यश्चावरुन्धे
९.५.७ इन्द्रो वृत्रमहंस्तस्य यो नस्तः सोमः समधावत् तानि बभ्रुतूलान्यर्जुनानि यो वपाया उत्खिन्नायास्तानि लोहिततूलानि यानि बभ्रुतूलान्यर्जुनानि तान्यभिषुणुयादेतद्वै ब्रह्मणो रूपं साक्षादेव सोममभिषुणोति
९.५.८ श्रायन्तीयं ब्रह्मसाम कार्यं सदेवैनं करोति
९.५.९ यज्ञायज्ञीयमनुष्टुभि प्रोहेद्वाचैवैनं समर्धयति वारवन्तीयमग्निष्टोमसाम कार्यमिन्द्रियस्य वीर्यस्य परिगृहीत्यै
९.५.१० पञ्च दक्षिणा देयाः
९.५.११ पाङ्क्तो यज्ञो यावान् यज्ञस्तमेवारभते
९.५.१२ अवभृथादुदेत्य पुनर्दीक्षेत
९.५.१३ तत्र तद्दद्याद्यद्दास्यं स्यात्

९.६.१ यदि कलशो दीर्येत वषट्कारणिधनं ब्रह्मसाम कुर्यात्
९.६.२ अवषट्कृतो वा एतस्य सोमः परासिच्यते यस्य कलशो दीर्यते यद्वषट्कारणीधनं ब्रह्मसाम भवति वषट्कृत एवास्य सोमो भवति
९.६.३ विधुं दद्राणं समने बहूनामित्येतासु कार्यम्
९.६.४ एष हि बहूनां समने दीर्यते यत् कलशः
९.६.५ तदाहुर्न वा आर्त्यार्तिरनूद्यार्त्या वा एष आर्तिमनुवदति यः कलशो दीर्णे दद्राणवतीषु करोतीति
९.६.६ श्रायन्तीयमेव कार्यम्
९.६.७ प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानोऽमन्यत स एतच्छ्रायन्तीयमपश्यत् तेनात्मानं समश्रीणात् प्रजया पशुभिरिन्द्रियेण
९.६.८ दुग्ध इव एष रिरिचानो यस्य कलशो दीर्यते यच्छ्रायन्तीयं ब्रह्मसाम भवति पुनरेवात्मानं संश्रीणाति प्रजया पशुभिरिन्द्रियेण
९.६.९ यदि श्रायन्तीयं ब्रह्मसाम स्याद्वैष्णवीष्वनुष्टुप्सु वषट्कारणिधनं कुर्यात्
९.६.१० यद्वै यज्ञस्य स्रवति वाचं प्रतिस्रवति वागनुष्टुप्यज्ञो विष्णुर्वाचैव यज्ञस्य च्छिद्रमपिदधाति
९.६.११ यद्वै यज्ञस्य स्रवत्यन्ततः स्रवति वारवन्तीयमग्निष्टोमसाम कार्यं यज्ञस्यैव च्छिद्रं वारयते

९.७.१ यदि प्रातस्सवनात् सोमोऽतिरिच्येत अस्ति सोमो अयं सुत इति मरुत्वतीषु गायत्रेषु स्तुयुः
९.७.२ माध्यन्दिनं वा एष सवनं निकामयमानोऽभ्यतिरिच्यते यः प्रातस्सवनादतिरिच्यते तस्मान्मरुत्वतीषु स्तुवन्ति मरुत्वद्धि माध्यन्दिनं सवनं तस्मादु गायत्रीषु गायत्रं हि प्रातस्सवनम्
९.७.३ यस्मात् स्तोमादतिरिच्यते स एव स्तोमः कार्यः सलोमत्वाय
९.७.४ ऐन्द्रावैष्णवं होतानुशंसति
९.७.५ वीर्यं वा इन्द्रो यज्ञो विष्णुर्वीर्य एव यज्ञे प्रतितिष्ठति
९.७.६ यदि माध्यन्दिनात् सवनादतिरिच्येत बण्महां असि सूर्येत्यादित्यवतीषु गौरीवितेन स्तुयुः
९.७.७ तृतीयसवनं वा एष निकामयमानोऽभ्यतिरिच्यते यो माध्यन्दिनात् सवनादतिरिच्यते तस्मादादित्यवतीषु स्तुवन्त्यादित्यं हि तृतीयसवनं तस्मादु बृहतीषु बार्हतं हि माध्यन्दिनं सवनम्
९.७.८ यस्मात् स्तोमादतिरिच्येत स एव स्तोमः कार्यः सलोमत्वायैन्द्रावैष्णवं होतानुशंसति वीर्यं वा इन्द्रो यज्ञो विष्णुर्वीर्य एव यज्ञे प्रतितिष्ठति
९.७.९ यदि तृतीयसवनादतिरिच्येत विष्णोः शिपिविष्टवतीषु गौरीवितेन स्तुयुः
९.७.१० यज्ञो वै विष्णुश्शिपिविष्टो यज्ञ एव विष्णौ प्रतितिष्ठत्यतिरिक्तं गौरीवितमतिरिक्त एवातिरिक्तं दधाति
९.७.११ एतदन्यत् कुर्युरुक्थानि प्रणयेयुरुक्थानि वा एष निकामयमानोऽभ्यतिरिच्यते योऽग्निष्टोमादतिरिच्यते यद्युक्थ्येभ्योऽतिरिच्येतातिरात्रः कार्यो रात्रिं वा एष निकामयमानोऽभ्यतिरिच्यते य उक्थ्येभ्योऽतिरिच्यते यदि रात्रेरतिरिच्येत विष्णोः शिपिविष्टवतीषु बृहता स्तुयुरेषु तु वा अतिरिच्यत इत्याहुर्यो रात्रेरतिरिच्यत इति
९.७.१२ अमुं वा एष लोकं निकामयमानोऽभ्यतिरिच्यते यो रात्रेरतिरिच्यते बृहता स्तुवन्ति बृहदमुं लोकमाप्तुमर्हति तमेवाप्नोति

९.८.१ यदि दीक्षितानां प्रमीयते दग्ध्वास्थीन्युपनह्य यो नेदिष्ठी स्यात् तं दीक्षयित्वा सह यजेरन्
९.८.२ एतदन्यत् कुर्युरभिषुत्यान्यत् सोममगृहीत्वा ग्रहान् यासौ दक्षिणा स्रक्तिस्तद्वा स्तुयुर्मार्जालीये वा
९.८.३ अपि वा एतस्य यज्ञे यो दीक्षितः प्रमीयते तमेतेन निरवदयन्ते
९.८.४ यामेन स्तुवन्ति यमलोकमेवैनं गमयन्ति
९.८.५ तिसृभिः स्तुवन्ति तृतीये हि लोके पितरः
९.८.६ पराचीभिः स्तुवन्ति पराङ्हीतोऽसौ लोकः
९.८.७ सर्पराज्ञ्या ऋग्भिः स्तुवन्ति
९.८.८ अर्बुदः सर्प एताभिर्मृतां त्वचमपाहत मृतामेवैताभिस्त्वचमपघ्नते
९.८.९ ता ऋचोऽनुब्रुवन्तस्त्रिर्मार्जालीयं परियन्ति सव्यानूरूनाघ्नानाः
९.८.१० स्तुतमनुशंसत्यमुष्मिन्नेवैनं लोके निध्नुवन्ति
९.८.११ यन्ति वा एते पथ इत्याहुर्ये मृताय कुर्वन्तीत्यैन्द्रवायवाग्रान् ग्रहान् गृह्णते पुनः पन्थानमपियन्ति
९.८.१२ अग्न आयूंषि पवस इति प्रतिपत्कार्या य एव जीवन्ति तेष्वायुर्दधाति
९.८.१३ संवत्सरेऽस्थीनि याजयेयुः संव्वत्सरो वै सर्वस्य शान्तिर्यत् पुरा संव्वत्सराद्याजयेयुर्वाचमरुष्कृतां क्रूरामृच्छेयुः
९.८.१४ वृतः पवमानाः स्युः सप्तदशमितरत् सर्वम्
९.८.१५ यत् त्रिवृतः पवमाना भवन्ति प्राणा वै त्रिवृत् प्राणानेवोपयन्ति यत् सप्तदशमितरत् सर्वं प्रजापतिर्वै सप्तदशः प्रजतिमेवोपयन्ति
९.८.१६ प्राणापानैर्वा एते व्यृध्यन्त इत्याहुर्ये मृताय कुर्वन्तीति मैत्रावरुणाग्रान् ग्रहान् गृह्णते प्राणापानौ मित्रावरुणौ प्राणापानैरेव समृध्यन्ते

९.९.१ यस्य कलश उपदस्यति कलशमेवास्योपदस्यन्तं प्राणोऽनूपदस्यति प्राणो हि सोमः
९.९.२ तदाहुः पयोऽवनयेदिति
९.९.३ अथो खल्वाहुरन्तर्हितमिव वा एतद्यत् पयो हिरण्यमेवापोऽभ्यवनयेद्धिरण्यमभ्युन्नयेदिति
९.९.४ प्राणा वा आपोऽमृतं हिरण्यममृत एवास्य प्राणान् दधाति स सर्वमायुरेति
९.९.५ यस्य नाराशंस उपवायति नाराशंसमेवास्योप+वायन्तं प्राणोऽनूपदस्यति प्राणो हि सोमः
९.९.६ यमध्वर्युरन्ततो ग्रहं गृह्णीयात् तस्याप्तुमवनयेत्
९.९.७ प्रायश्चित्यै वै ग्रहो गृह्यते प्रायश्चित्येवास्मै प्रायश्चित्तिं करोति
९.९.८ यदि पीतापीतौ सोमौ संगच्छेयातामन्तः परिध्यङ्गारान्निर्वर्त्य जुहुयात् हुतस्य चाहुतस्य चाहुतस्य हुतस्य च । पीतापीतस्य सोमस्येन्द्राग्नी पिबतं सुतं स्वाहेति सैव तस्य प्रायश्चित्तिः
९.९.९ प्रजापतये स्वाहेत्यभक्षणीयस्य जुहुयादुत्तरार्ध्यपूर्वार्ध्य उपरवः
९.९.१० इन्दुरिन्दुमवागादित्यववृष्टस्य भक्षयेत्
९.९.११ तस्य त इन्द्रविन्द्रपीतस्येन्द्रियावतस्सर्वगणस्य सर्वगण उपहूत उपहूतस्य भक्षयामि
९.९.१२ हिरण्यगर्भः समवर्तताग्र इत्याज्येनाभ्युपाकृतस्य जुहुयादग्नीध्रं परेत्य भूतानां जातः पतिरेक आसीत् स दाधार पृथिवीं द्यामुतेमां तस्मै त इन्दो हविषा विधेम स्वाहेति सैव तस्य प्रायश्चित्तिः
९.९.१३ यदि ग्रावापि शीर्यते पशुभिर्यजमानो व्यृध्यते पशवो वै ग्रावाणो द्युतानस्य मारुतस्य साम्ना स्तुयुः
९.९.१४ मारुता वै ग्रावाणः स्वेनैवैनांस्तद्रूपेण समर्धयति
९.९.१५ यदि सोममभिदहेद्ग्रहानध्वर्युः स्पाशयेत स्तोत्राण्युद्गाता शस्त्राणि होताथ यथापूर्वं यज्ञेन चरेयुः पञ्च दक्षिणा देयाः पाङ्क्तो यज्ञो यावान् यज्ञस्तमारभतेऽवभृथादुदेत्य पुनर्दीक्षते तत्र तद्दद्याद्यद्दास्यं स्यात् पुरा द्वादश्या दीक्षेत यद्द्वादशीमतिनयेदन्तर्धीयेत

९.१०.१ यदि महावीरो भिद्येत तं भिन्नमभिमृशेद्य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः । संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः मा भेम निष्ट्या इवेन्द्र त्वदरणा इव । वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि । अमन्महीदनाशवोऽनुग्राभश्च वृत्रहन् । सकृत् सुते महता शूर राधसानु स्तोमं मदेमहीति महावीरं भिन्नमभिमृशेत् सैव तस्य प्रायश्चित्तिः
९.१०.२ असुर्यं वा एतस्माद्वर्णं कृत्वा तेज इन्द्रियं वीर्यमन्नाद्यं प्रजाः पशवोऽपक्रामन्ति यस्य यूपो विरोहति स ईश्वरः पापीयान् भवितोः
९.१०.३ त्वाष्ट्रं पशुं बहुरूपमालभेत त्वष्टा वै पशूनां रूपाणां विकर्ता तमेव तदुपधावति स एनं तेजसेइन्द्रियेण वीर्येणान्नाद्येन प्रजया पशुभिः पुनस्समर्धयति सैव तस्य प्रायश्चित्तिः

१०.१.१ अग्निना पृथिव्यौषधिभिस्तेनायं लोकस्त्रिवृद्वायुनान्तरिक्षेण वयोभिस्तेनैष लोकास्त्रिवृद्योऽयमन्तरादित्येन दिवा नक्षत्रैस्तेनासौ लोकस्त्रिवृदेतदेव त्रिवृत आयतनमेषास्य बन्धुता
१०.१.२ आयतनवान् बन्धुमान् भवति य एवंव्वेद
१०.१.३ तमु प्रतिष्ठेत्याहुस्त्रिवृद्ध्येवैषु लोकेषु प्रतिष्ठितः
१०.१.४ अर्धमास एव पञ्चदशस्यायतनमेषास्य बन्धुता
१०.१.५ आयतनवान् बन्धुमान् भवति य एवंव्वेद
१०.१.६ तं चौजो बलमित्याहुरर्धमासशो हि प्रजाः पशव ओजो बलं पुष्यन्ति
१०.१.७ संवत्सर एव सप्तदशस्यायतनं द्वादश मासाः पञ्चदर्तव एतदेव सप्तदशस्यायतनमेषास्य बन्धुता
१०.१.८ आयतनवान् बन्धुमान् भवति य एवंव्वेद
१०.१.९ तमु प्रजापतिरित्याहुः संवत्सरं हि प्रजाः पशवोऽनुप्रजायन्ते
१०.१.१० आदित्य एवैकविंसस्यायतनं द्वादश मासाः पञ्चवर्तस्त्रय इमे लोका असावादित्य एकविंश एतदेवैकविंशस्यायतनमेषास्य बन्धुता
१०.१.११ आयतनवान् बन्धुमान् भवति य एवंव्वेद
१०.१.१२ तमु देवतल्प इत्याहुः प्र देवतल्पमाप्नोति य एवंव्वेद
१०.१.१३ त्रिवृदेव त्रिणवस्यायतनमेषास्य बन्धुता
१०.१.१४ आयतनवान् बन्धुमान् भवति य एवंव्वेद
१०.१.१५ तमु पुष्टिरित्याहुस्त्रिवृद्ध्येवैष पुष्टः
१०.१.१६ देवता एव त्रयस्त्रिंशस्यायतनं त्रयस्त्रिंशद्देवताः प्रजापतिश्चतुस्त्रिंश एतदेव त्रयस्त्रिंशस्यायतनमेषास्य बन्धुता
१०.१.१७ आयतनवान् बन्धुमान् भवति य एवंव्वेद
१०.१.१८ तमु नाक इत्याहुर्न हि प्रजापतिः कस्मै चनाकम्
१०.१.१९ छन्दांस्येव छन्दोमानामायतनमेषैषां बन्धुता
१०.१.२० आयतनवान् बन्धुमान् भवति य एवंव्वेद
१०.१.२१ तानु पुष्टिरित्याहुः पशवो हि छन्दोमाः

१०.२.१ प्रजापतिः प्रजा असृजत सोऽताम्यत् तस्मै वाज्ज्योतिरुदगृह्णात् सोऽब्रवीत् को मेऽयं ज्योतिरुदगृह्णादिति स्वैव ते वागित्यब्रवीत् तामब्रवीद्विराजं त्वा च्छन्दसां ज्योतिष्कृत्वा यजान्ता इति
१०.२.२ तस्माद्यो विराजं स्तोमं संपद्यते तं ज्योतिष्टोमोऽग्निष्टोम इत्याचक्षते विराड्ढि छन्दसां ज्योतिः
१०.२.३ ज्योतिः समानानां भवति य एवंव्वेद
१०.२.४ अनुष्टुप्च वै सप्तदशश्च समभवतां सानुष्टुप्चतुरुत्तराणि छन्दांस्यसृजत षडुत्तरान् स्तोमान् सप्तदशस्तावेतान्मध्यतः प्राजनयताम्
१०.२.५ त्रिवृच्च त्रिणवश्च राथन्तरौ तावजश्चाश्वश्चान्वसृज्येतां तस्मात् तौ राथन्तरं प्राचीनं प्रधूनुतः
१०.२.६ पञ्चदशश्चैकविंशश्च बार्हतौ तौ गौश्चाविश्चान्वसृज्येतां तस्मात् तौ बार्हतं प्राचीनं भास्कुरुतः
१०.२.७ एवं वै विद्वांसमाहुरपि ग्राम्याणां पशूनां वाच आजानाति

१०.३.१ प्रजापतिरकामयत बहु स्यां प्रजायेयेति स आत्मन्नृत्व्यमपश्यत् तत ऋत्विजोऽसृजत यदृत्व्यादसृजत तदृत्विजामृत्विक्त्वं तैरेतं द्वादशाहमुपासीदत् सोऽराध्नोत्
१०.३.२ पिता नोऽरात्सीदिति मासा उपासीदंस्ते दीक्षयैवाराध्नुवन्नुपसत्सु त्रयोदशमदीक्षयन् सोऽ नुव्यमभवत् तस्मादुपसत्सु दिदीक्षाणोऽनुव्यं भवत्येव च हि त्रयोदशं मासं चक्षते नैव च
१०.३.३ एको दीक्षेतैको हि प्रजापतिरराध्नोद्द्वादश दीक्षेरन् द्वादश हि मासा अराध्नुवंश्चतुर्विंशतिर्दीक्षेरंश्चतुर्विंशतिर्ह्यर्धमासा अराध्नुवन्
१०.३.४ यदि पञ्चदशो दीक्षेतेमे पञ्चेमे पञ्चेमे पञ्चेमे पञ्चेमे चत्वारोऽसावेक इति निर्दिशेयुर्यस्मा अराद्धिकामाः स्युस्तमेवाराद्धिरन्वेति सर्व इतरे राध्नुवन्ति
१०.३.५ यो वै देवानां गृहपतिं वेदाश्नुते गार्हपतं प्र गार्हपतमाप्नोति
१०.३.६ संवत्सरो वै देवानां गृहपतिः स एव प्रजापतिस्तस्य मासा एव सह दीक्षिणः
१०.३.७ विन्दते सह दीक्षिणोऽश्नुते गार्हपत्यं प्र गार्हपत्यं आप्नोति य एवंव्वेद ।
१०.३.८ यो वै छन्दसां स्वराजं वेदाश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति बृहती वाव छन्दसां स्वराडश्नुते स्वाराज्यं प्र स्वाराज्यं आप्नोति य एवंव्वेद
१०.३.९ तामेतामन्नाद्याय व्यावृज्यासते यदेतं द्वादशाहं द्वादश दीक्षा स्वादशोपसदो द्वादश प्रसुतः षट्रिंशदेता रात्रयो भवन्ति षट्त्रिंशदक्षरा बृहती
१०.३.१० जायते वाव दीक्षया पुनीत उपसद्भिर्देवलोकमेव सुत्ययाप्येति
१०.३.११ एतावद्वाव संवत्सर इन्द्रियं वीर्यं यदेता रात्रयो द्वादश पूऋनमास्यो द्वादशैकष्टका द्वादशामावास्या यावदेव संवत्सर इन्द्रियं वीर्यं तदेतेनाप्त्वावरुन्धे द्वादशाहेन
१०.३.१२ त्रिंशदक्षरा वा एषा विराड्षडृतव ऋतुष्वेव विराजा प्रतितिष्ठत्यृतुभिर्विराजि
१०.३.१३ द्वात्रिंशदक्षरा वा एषानुष्टुब्वागनुष्टुप्चतुष्पादः पशवो वाचा पशून् दाधार तस्माद्वाचा सिद्धा वाचाहूता आयन्ति तस्मादु नाम जानते

१०.४.१ भूतं पूर्वोऽतिरात्रो भविष्यदुत्तरः पृथिवी पूर्वोऽतिरात्रो द्यौरुत्तरोऽग्निः पूर्वोऽतिरात्र आदित्य उत्तरः प्राणः पूर्वोऽतिरात्र उदान उत्तरः
१०.४.२ चक्षुषी अतिरात्रौ कनीनिके अग्निष्टोमौ यस्मादन्तरा अग्निष्टोमावतिरात्राभ्यां तस्मादन्तरे सत्यौ कनीनिके भुङ्क्तः
१०.४.३ संवत्सरस्य वा एतौ दंष्ट्रौ यदतिरात्रौ तयोर्न स्वप्तव्यं संवत्सरस्य दंष्ट्रयोरात्मानं नेदपिदधानीति
१०.४.४ तदाहुः कोऽस्वप्तुमर्हति यद्वाव प्राणो +जागार तदेव जागरितमिति
१०.४.५ गायत्रीं वा एतां ज्योतिःपक्षामासते यदेतं द्वादशाहमष्टौ मध्य उक्था अग्निष्टोमावभितो मासा स्वर्ग्ं लोकमेत्याजरसं ब्रह्माद्यमन्नमत्ति दीप्यमानः
१०.४.६ त्रिष्पुरस्ताद्रथन्तरं उपयन्ति त्र्यावृद्वै वाक्सर्वामेव वाचमवरुध्य सर्वमन्नाद्यं द्वादशाहं तन्वते
१०.४.७ जामि वा एतद्यज्ञे क्रियत इत्याहुर्यत् त्रिष्पुरस्ताद्रथन्तरमुपयन्तीति सौभरमुक्थानां ब्रह्मसाम भवति तेनैव तदजामि
१०.४.८ प्रत्नवत्यः प्रायणीयस्याह्नः प्रतिपदो भवन्ति तेनो एव तदजामि
१०.४.९ त्रिर्वेवोपरिष्टाद्रथन्तरमुपयन्ति त्रावृद्वै वाक्सर्वामेव वाचमवरुध्य सर्वमन्नाद्यं द्वादशाहादुत्तिष्ठन्ति

१०.५.१ त्रयो वा एते त्रिरात्रा यदेष द्वादशाहो गाय्त्रमुखः प्रथमो गायत्रमध्यो द्वितीयो गायत्रोत्तमस्तृतीयः
१०.५.२ यस्माद्गायत्रमुखः प्रथमस्तस्मादूर्ध्वोऽग्निर्दीदाय यस्माद्गायत्रमध्यो द्वितीयस्तस्मात् तिर्यङ्वायुः पवते
१०.५.३>
१०.५.४>
१०.५.५ तेजसा वा एते प्रयन्ति तेजो मध्ये दधति तेजोऽभ्युद्यन्ति ज्योतिषा वा एते प्रयन्ति ज्योतिर्मध्ये दधति ज्योतिरभ्युद्यन्ति चक्षुषा वा एते प्रयन्ति चक्षुर्मध्ये दधति चक्षुरभ्युद्यन्ति प्राणेन वा एते प्रयन्ति प्राणं मध्ये दधति प्राणमभ्युद्यन्ति ये गायत्र्या प्रयन्ति गायत्रीं मध्ये दधति गायत्रिमभ्युद्यन्ति
१०.५.६ तन्त्रं वा एतद्वितायते यदेष द्वादशाहस्तस्येतैर्(?) मयूखा यद्गायत्र्यसंव्याथाय
१०.५.७ गिरिक्षिदौच्चामन्यवेति होवाचाभिप्रतारी काक्षसेनिः कथं द्वादशाह इति यथारान्नेमिः पर्येत्येवमेनं गायत्री पर्येति अविस्रंसाय यथारा नाभौ धृता एवमस्यां द्वादशाहो धृतः
१०.५.८ अनुष्टुभं वा एतामन्नाद्याय व्यावृज्यासते यदेतं द्वादशाहम्
१०.५.९ अष्टाभिर्वा अक्षैरनुष्टुप्प्रथमं द्वादशाहस्याहर्दुयच्छत्येकादशभिर्द्वितीयं द्वादशाभिस्तृतीयम्
१०.५.१० अक्षरं त्र्यक्षरमुच्छिष्यते तदेवोत्तरं त्रिरात्रमनुविदधाति
१०.५.११ छन्दांस्येवास्यास्तृतीयं त्रिरात्रं वहन्ति
१०.५.१२ तां वा एतां प्रतीचीं तिरश्चीं पराचीमासतेऽन्नाद्याय तस्मात् प्रत्यञ्चं तिर्यञ्चं पराञ्चं प्रजाः पशुमुपजीवन्ति
१०.५.१३ छन्दांसि वा अन्योऽन्यस्य लोकमभध्यायन् गायत्री त्रिष्टुभस्त्रिष्टुब्जगत्या जगती गायत्र्यास्तानि व्यौहन् यथालोकं ततो वै तानि यंयं काममकामयन्त तमसन्वन्
१०.५.१४ यत्कामो व्यूढच्छन्दसा द्वदशाहेन यजते सोऽस्मै कामः समृध्यते
१०.५.१५ ओको वै देवानां द्वादशाहो यथो वै मनुष्या इमं लोकमाविष्टा एवं देवता द्वादशाहमाविष्टा देवता ह वा एतेन यजते य एवंव्विद्वान् द्वादशाहेन यजते
१०.५.१६ गृहा वै देवानां द्वादशाहो नागृहताया भय्यम्
१०.५.१७ यो वै द्वादशाहमग्निष्टोमेन कल्पमानं वेद कल्पतेऽस्मै प्रातःसवनेनैव प्रथमस्त्रिरात्रः कल्पते माध्यन्दिनेन द्वितीयस्तृतीयसवनेन तृतीयोऽग्निष्टोमसाम्नैव दशममहः कल्पते
१०.५.१८ कल्पतेऽस्मै य एवंव्वेद

१०.६.१ एति प्रेत्याशुमद्वीतिमद्रुक्मत् तेजस्वद्युञ्जानं प्रथमस्याह्नो रूपं त्रिवृतः स्तोमस्य गायत्रस्य छन्दसो रथन्तरस्य साम्नः
१०.६.२ वृषवद्वृत्रवद्रयिमद्विश्ववदुपस्थितं द्वितीयस्याह्नो रूपं पञ्चदशस्य स्तोमस्य त्रैष्टुभस्य छन्दसो बृहतः साम्नः
१०.६.३ उद्वत् त्रिवद्दिग्वत् गोमट्टषभवत् तृतीयस्याह्नो रूपं सप्तदशस्य स्तोमस्य जागतस्य छन्दसो वैरूपस्य साम्नः
१०.६.४ राजन्वज्जनवद्वत् सूर्यवद्विराडनुतोदवच्चतुर्थस्याह्नो रूपमेकविंशस्य स्तोमस्यानुष्टुभस्य छन्दसो (?) राजस्य वै साम्नः
१०.६.५ चित्रवच्छिशुमत् पङ्क्तिः शक्वरी द्यूनाक्षरा गोमदृषभवद्वज्र्यभिमत् पञ्चमस्याह्नो रूपं त्रिणवस्य स्तोमस्य पाङ्क्तेन छन्दसो शक्वरीणां साम्नः
१०.६.६ परिवत् प्रतिवत् सप्तपदा द्विपदा विनाराशंसा गोमदृषभवत् षष्ठस्याह्नो रूपं त्रयस्त्रिंशस्य स्तोमस्य सर्वेषां छन्दसां रूपं (?) रेवतीनां साम्नः
१०.६.७ यस्मादेषा समाना सती षडहविभक्तिर्नानारूपा तस्माद्विरूपः संव्वत्सरः
१०.६.८ विरूपमेनमनुप्रजायते य एवंव्वेद

१०.७.१ अग्न इति प्रथमस्याह्नो रूपमग्निविभक्तेरग्निमिति द्वितीयस्याग्निनेति तृतीयस्याग्निरिति चतुर्थस्य
१०.७.२ देवा वै श्रियमैच्छंस्तान्न प्रथमेऽहन्यविन्दन्न द्वितीये न तृतीये ताञ्चतुर्थेऽहन्यविन्दन् विन्दते श्रियं य एवं वेदाग्नेरिति पञ्चमस्य तेनो श्रीः प्रत्युपोदितेत्याहुः
१०.७.३ अप्रतिवाद्येनं भ्रातृव्यो भवति य एवं वेद
१०.७.४ अग्न इति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति
१०.७.५ यस्मादेषा समाना सत्यग्निव्भक्तिर्नानारूपा तस्माद्यथर्त्वादित्यस्तपति

१०.८.१ इन्द्रेति प्रथमस्याह्नो रूपमिन्द्रविभक्तेरिन्द्रमिति द्वितीयस्येन्द्रेणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्रादिति पञ्चमस्येन्द्रेति षष्ठस्य येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति यस्मादेषा समाना सतीन्द्रविभक्तिर्नानारूपा तस्माद्यथर्त्वोषधयः पच्यन्ते

१०.९.१ यदृचा प्रस्तौति तत् प्रथमस्याह्नो रूपं स्वरविभक्तेर्यत् पुरस्तात् स्तोभं तद्द्वितीयस्य यदुभयतः स्तोभं तत् तृतीयस्य यदनुतुन्नं तच्चतुर्थस्य यदभ्यारब्धं तत् पञ्चमस्य यदिहकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपम्
१०.९.२ स्वराणां यस्मादेषा समाना सती स्वरविभक्तिर्न्नानारूपा तस्माद्यथर्तु वायुः पवते

१०.१०.१ पदनिधनं प्रथमस्याह्नो रूपं निधनविभक्तेर्बहिर्णिधनं द्वितीयस्य निंनिधनं तृतीयस्येनिधनञ्चतुर्थस्याथकारणिधनं पञ्चमस्य यदिहाकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपं निधनानां यस्मादेषा समाना सती निधनविभक्तिर्न्नानारूपा तस्मादिमे लोकाः सह सन्तो नानैव

१०.११.१ द्रवदिडं प्रथमस्याह्नो रूपमिडाविभक्तेरूर्ध्वेडं द्वितीयस्य परिष्टुब्धेडं तृतीयस्येडाभिरैडं चतुर्थस्याध्यर्धेडं पञ्चमस्य यदिहाकारेणाभ्यस्तं तत् षष्ठस्याह्नो रूपमिडानां यस्मादेषा समाना सतीडाविभक्तिर्न्नानारूपा तस्मात् समानाः सन्तः पशवो नानारूपाः

१०.१२.१ भरद्वाजायना वै सत्त्रमासत तानपृच्छन् किं प्रथमेनाह्ना कुरुतेति प्रैवैमेति किं द्वितीयेनेत्यवसमेवाकुर्महीति किं तृतीयेनेति पर्येवाप्लवामहीति किं चतुर्थेनेति सतैव सदप्यदध्मेति किं पञ्चमेनेति प्राणानेव विच्छिन्दन्त ऐमेति किं षष्ठेनेतीदमेवागच्छामेति इति
१०.१२.२ यस्य पदेन प्रस्तौत्यथ स्वारमभि वाव तेन देवाः पशूनपश्यन् यत् पुरस्तात् स्तोभं अथ स्वारमुदेव तेनासृजनत यदुभयतः स्तोभमथ स्वारमेभ्य एव तेन लोकेभ्यो देवाः पशुभ्योऽन्नाद्यं प्रायच्छन् यदनुतुन्नमथ स्वारमुपैव तेनाशिक्षन् यस्य मध्ये निधनमथ स्वारं गर्भांस्तेनादधत तानि हवतास्वारेण प्राजनयन्
१०.१२.३ इमं वाव देवा लोकं पदनिधनेनाभ्यजयन्नमुं बहिर्णिधनेनान्तरिक्षं दिङ्निधनेनामृतत्वमीनिधनेनागच्छन् ब्रह्मवर्चसमथनिधनेनावारुन्धतास्मिन्नेव लोक इहनिधनेन प्रत्यतिष्ठन्
१०.१२.४ इमं वाव देवा लोकं द्रवदिडेनाभ्यजयन्नमुमूर्ध्वेडेनान्तरिक्षं परिष्टुब्धेडेन प्रतिष्ठामिडाभिरैडेनावारुन्धत प्रतिष्ठायाध्यर्धेडेन व्यजयन्तास्मिन्नेव लोक इहेडेन प्रत्यतिष्ठन्
१०.१२.५ न वाक्संवत्सरमतिवदतीडैव संवत्सरमतिवदति गर्भेण संवत्सरे पर्यावृत्य प्रजायेते तेनातिवदति
१०.१२.६ ता वा एताश्चतस्रः षडहं पराच्य इडा अतियन्त्येषा नूतैषा विषूच्येषा प्रतीच्येतद्वीडम्
१०.१२.७ संवत्सरोऽग्निर्वाक्सम्वत्सरो यदग्निर्विभज्यते वाचमेव तद्विभजन्ति
१०.१२.८ द्वे द्वे अक्षरे विभजन्ति द्वौ द्वौ हि मासावृतुरथो मासानामेव तद्रूपं क्रियते
१०.१२.९ षडहानि विभजन्ति षडृतव ऋतूनां धृत्या ऋतूनां प्रतिष्ठित्या अथो ऋतूनामेव तद्रूपं क्रियते षडु पुरुषा यानग्निरनुविह्रियते
१०.१२.१० यदिदं बहुधाग्निर्विह्रियते तदसावादित्यः सर्वाः प्रजाः प्रत्यङ्तस्मादेते देवते विभक्तिमानशाते नातोऽन्या का चन
११.१.१ स्तोमो युज्यते सत्त्रियेभ्योऽ हर्भ्यः प्रत्नवतीभिश्चोपवतीभिश्च
११.१.२ यत् प्रत्नवत्यो उपवतीभ्यः पूर्वा युज्यन्ते ब्रह्म तत् पूर्वं क्षत्राद्युज्यते ब्रह्म हि पूर्वं क्षत्रम्
११.१.३ मनस्तत् पूर्वं वाचो युज्यते मनो हि यद्धि मनसाभिगच्छति तद्वाचा वदति
११.१.४ बृहत् तत् पूर्वं रथन्तराद्युज्यते बृहद्धि पूर्वं रथन्तराद्विजित्या तु वै रथन्तरं पूर्वं योगमानशे
११.१.५ सम्भार्यास्तृचा भवन्ति यथाशिष्ठान् वहिष्ठान् सम्भरेदेवमेवैतान् सम्भरन्ति गत्यै
११.१.६ नव भवन्ति नवाहस्य युक्त्या ऋचर्चैवाहर्युनक्ति यथाप्रार्थस्य शम्या अवदध्यादेवमेवैतन्नवाहस्य शम्या अवदधाति गत्यै
११.१.७ त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय

११.२.१ उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तदाज्येषु
११.२.२ निराहावन्त्याज्यानि भवन्ति युक्तमेव तैराह्वयति
११.२.३ अग्न आयाहि वीतय आ नो मित्रावरुणायाहि सुषमा हि त इन्द्राग्नी आगतं सुतमिति राथन्तरमेव तद्रूपं निर्द्योतयति स्तोमः इति

११.३.१ प्र सोमासो विपश्चित इति गायत्री भवति प्रेत्या अभिद्रोणानि बभ्रव इत्यभिक्रान्त्यै स्तुता इन्द्राय वायव इति संस्कृत्यै प्र सोम देव वीतय इति प्रेत्यै प्र तु द्रवेति प्रेत्यै प्र वा एतेनाह्ना यन्ति
११.३.२ गायत्रं भवति
११.३.३ यदेव गायत्रस्य ब्राह्मणम्
११.३.४ आश्वं भवति
११.३.५ अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत स प्राजायत बहुरभवत् प्रजायते बहुर्भवत्याश्वेन तुष्टुवानः
११.३.६ एकाक्षरं निधनमुपयन्ति रथन्तरस्यानतिवादाय
११.३.७ अनतिवाद्येनं भ्रातृव्यो भवति य एवं वेद
११.३.८ सोमसाम भवति
११.३.९ यथा वा इमा अन्या ओषधयः एवं सोम आसीत् स तपोऽतप्यत स एतत् सोमसामापश्यत् तेन राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति सोमसाम्ना तुष्टुवानः
११.३.१० यौधाजयं भवति यदेव यौधाजयस्य ब्राह्मणम्
११.३.११ औशनं यदौशनस्य स्तोमः

११.४.१ अभि त्वा शूर नो नु म इत्यभीति रथन्तरस्य रूपं रथन्तरं ह्येतदहः
११.४.२ कया नश्चित्र आभुवदिति कवत्यस्तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेराप्त्यै
११.४.३ तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसोऽभिवत्सं न स्वसरेषु धेनव इत्यभीति रथन्तरस्य रूपं रथन्तरं ह्येतदहः
११.४.४ इन्द्रं गीर्भिर्हवामह इति हवन्त एवैनम्
११.४.५ तरोभिर्वो विदद्वसुमिति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत् तरोभिर्वो विदद्वसुमित्याह यज्ञमेव तद्युनक्ति
११.४.६ रथन्तरं भवति ब्रह्म वै रथन्तरं ब्रह्म प्रायणीयमहर्ब्रह्मण एव तद्ब्रह्माक्रम्य प्रयन्ति
११.४.७ इयं वै रथन्तरमस्यामेव प्रतिष्ठाय सत्त्रमासते
११.४.८ वामदेव्यं भवति पशवो वै वामदेव्यं पशूनामवरुद्ध्यै प्राजापत्यं वै वामदेव्यं प्रजापतावेव प्रतिष्ठाय सत्त्रमासते
११.४.९ नौधसं भवति ब्रह्म वै नौधसं ब्रह्म प्रायणीयमहर्ब्रह्मण एव तद्रह्माक्रमन्ते
११.४.१० कालेयं भवति समानलोके वै कालेयञ्च रथन्तरञ्चेयं वै रथन्तरं पशवः कालेयमस्याञ्चैव पशुषु च प्रतिष्ठाय सत्त्रमासते
११.४.११ द्रवदिडं तथा ह्येतस्याह्नो रूपं स्तोमः

११.५.१ प्र सोमासो मदच्युत इति गायत्री भवति मदवद्वै रसवृत् तृतीयसवनं मदमेव तद्रसं दधात्यया पस्वस्व देवयुरित्येति रथन्तरस्य रूपं राथन्तरं ह्येतदहः पवतेऽहर्यतो हरिरिति बृहतो रूपं बृहदेव तदेतस्मिन्नहनि युनक्ति तद्युक्तं श्व आरभन्ते प्र सुन्वानायान्धस इति प्रवत्यो भवन्ति प्रणिनीण्यमिव ह्येतदहरभि प्रियाणि पवते च नोहित इत्यभीति रथन्तरस्य रूपं राथन्तरं ह्येतदहः
११.५.२ यज्ञा यज्ञा वो अग्नय इत्यग्नेर्वै यज्ञो यज्ञ एव तद्यज्ञं प्रतिष्ठापयति
११.५.३ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
११.५.४ संहितं भवति व्यक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैव सत्त्रमासते
११.५.५ सफं भवति
११.५.६ सफेन वै देवा इमान् लोकान् समाप्नुव्वन् यत् समाप्नुवंस्तत् सफस्य सफत्वमिमानेवैतेन लोकान् समाप्य सत्त्रमासते
११.५.७ आक्षारं भवति
११.५.८ अष्टौ वा एताः कादुघा आसंस्तासाम् (?) एका समशीर्यत सा कृषिरभवदृध्यतेऽस्मै कृषौ य एवं वेद
११.५.९ तासु देवासुरा अस्पर्धन्त ते देवा असुरान् कामदुघाभ्य आक्षारेणानुदन्त नुदते भ्रातृव्यं कामदुघाभ्य आक्षारेण तुष्टुवानः
११.५.१० एभ्यो वै लोकेभ्यो रसोऽपाक्रामत् तं प्रजापतिराक्षारेणाक्षारयद्यदाक्षारयत् तदाक्षारस्याक्षारत्वम्
११.५.११ तस्माद्यः पुरा पुण्यो भूत्वा पश्चात् पापीयान् स्यादाक्षारं ब्रह्म साम कुर्वीतात्मन्येवेदिन्द्रियं वीर्यं रसमाक्षारयति
११.५.१२ जनुषैकर्चो भवतोऽह्नो धृत्यै यद्वा एतस्याह्नोऽधृतं तदेताभ्यां दाधार
११.५.१३ गौरीवितं भवति
११.५.१४ गौरीवितिर्वा एतच्छाक्त्यो ब्राह्मणोऽतिरिक्तमपश्यत् तद्गौरीवितमभवत्
११.५.१५ अतिरिक्तं वा एतदतिरिक्तेन स्तुवन्ति यद्गौरीवितेनाहीनाञ्छवस्तनवद्भवत्यपि प्रजाया उपकॢप्तम्
११.५.१६ वृषा वा एतद्वाजिसाम वृषभो रेतोधा अद्य स्तुवन्ति श्वः प्रजायते
११.५.१७ अनुष्टुभि छन्दसां क्रियतेऽनुष्टुब्भि छन्दसां योनिः स्वायामेव तद्योनौ रेतो धत्ते प्रजात्यै
११.५.१८ प्रजायते बहुर्भवति य एवं वेद
११.५.१९ द्व्युदासं भवत्येतौ वा उदासौ स्वर्गस्य लोकस्यावसानदर्शौ पूर्वेण पूर्वमहः संस्थापयन्त्युत्तरेणोत्तरमहरभ्यतिवदन्ति
११.५.२० तद्यथादः पूर्वेद्युः स्पष्टं तृणोदकमन्ववस्यन्तो यन्त्येवमेव ताभ्यां स्वर्गं लोकमन्ववस्यन्तो यन्ति
११.५.२१ गौतमं भवति
११.५.२२ सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
११.५.२३ यदु चैवानुष्त्टुभस्य मध्ये निधनस्य ब्राह्मणं तद्दु चैतस्य
११.५.२४ कावं भवति
११.५.२५ लोकबिन्दुः साम विन्दते लोकं कावेन तुष्टुवानः
११.५.२६ स्वारसु स्वरेण स्वरेण हि देवेभ्योऽन्ततोऽन्नाद्यं प्रदीयते स्वरेणैव तद्देवेभ्योऽन्ततोऽन्नाद्यं प्र यच्छति
११.५.२७ यज्ञायज्ञीयं भवति
११.५.२८ वाग्यज्ञायज्ञीयं वाचि यज्ञः प्रतिष्ठितो वाच्येव तद्यज्ञमन्ततः प्रतिष्ठापयन्ति तं वाचोऽधि श्व आरभन्ते
११.५.२९ त्रिवृदेव स्तोमो भवति तेजसे ब्रह्मवर्चसाय

११.६.१ प्रतिपद्भवति
११.६.२ समारभते द्विरात्रस्याव्रिस्रंसाय
११.६.३ पवस्वेन्दो वृषासुत इत्यनुरूप्यो भवति वृषावद्वा एत ऐन्द्रं त्रैष्टुभमहर्यत् द्वितीयं तदेव तदभिवदति
११.६.४ पूर्वमु तद्रूपमपरेण रूपेणानुवदति यत् पूर्वं रूपमपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वम्
११.६.५ अनुरूप एनं पुत्रो जायते य एवं वेद
११.६.६ स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानामवरुध्यै
११.६.७ वृषण्वन्तस्तृचा भवतीन्द्रियस्य वीर्यस्यावरुध्यै
११.६.८ तृच उत्तमो भवति
११.६.९ येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
११.६.१० पञ्ददश एव स्तोमो भवति
११.६.११ ओजस्येव तद्वीर्ये प्रतितिष्ठति ओजो वीर्यं पञ्चदशः

११.७.१ उभाभ्यां वै रूपाभ्यां बहिष्पवमान्यो युज्यन्ते यत्सामा स्तोमो भवति तदाज्येषु
११.७.२ निराहोपस्थितान्याज्यानि भवन्ति
११.७.३ अग्निं दूतं वृणीमहे मित्रं वयं हवामह इन्द्रमिद्गाथिनो बृहदिन्द्रो अग्ना नमो बृहदिति बार्हतमेव तद्रूपं निर्द्योतयति स्तोमः

११.८.१ वृषा पवस्व धारयेति गायत्री भवत्यह्नो धृत्यै
११.८.२ वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः
११.८.३ पुनानस्सोम धारयेति धृत्यै
११.८.४ वृषा शोणो अभिकनिक्रदद्गा इति
११.८.५ वृषण्वत्यस्त्रिष्टुभो रूपेण समृद्धा वृषण्वद्वा एतदैन्द्रं त्रैष्टुभमहर्यत् द्वितीयं तदेव तदभिवदति
११.८.६ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
११.८.७ यौक्ताश्वं भवति
११.८.८ युक्ताश्वो व आङ्गिरसः शिशू जातौ विपर्यहरत् तस्मान्मन्त्रोऽपाक्रामत् स तपोऽतप्यत स एतद्यौक्ताश्वमपश्यत् तं मन्त्र उपावर्तत तद्वाव स तर्ह्यकामयत कामसनि सम यौक्ताश्वं काममेवैतेनावरुन्धे
११.८.९ आयास्ये भवतः
११.८.१० अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नाद्यमाश्नात् तं शुगार्च्छत् स तपोऽतप्यत स एते आयास्ये अपश्यत् ताभ्यां शुचमपाहताप शुचं हत आयास्याभ्यां तुष्टुवानः
११.८.११ एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत् तामयास्य आयास्याभ्यामच्यावयत् च्यावयति वृष्टिमायास्याभ्यां तुष्टुवानः
११.८.१२ अन्नाद्यं वाव तदेभ्यो लोकेभ्योऽपाक्रामत् तदयास्य आयास्याभ्यामच्यावयत् च्यावयत्यन्नाद्यमायास्याभ्यां तुष्टुवानः
११.८.१३ वासिष्ठं भवति
११.८.१४ वसिष्ठो वा एतेन वैडवः स्तुत्वाञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः

११.९.१ त्वामिद्धि हवामह इति त्वमिति बृहतो रूपं बार्हतं ह्येतदहः
११.९.२ अभिप्रवः सुराधसमिति युञ्जते वै पूर्वेणाह्ना ह्येतेन प्रयन्ति
११.९.३ त्वामिदा ह्यो नर इत्यद्य चैव ह्यश्च समारभते द्विरात्रस्याविस्रंसाय
११.९.४ बृहद्भवति वर्ष्म वै बृहद्वर्ष्म द्वितीयमहर्वर्ष्मण एव तद्वर्ष्माक्रमन्ते
११.९.५ श्येतं भवति साम्नोर्वाहो यज्ञस्य सन्तत्यै
११.९.६ माधुच्छन्दसं भवति सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
११.९.७ ऊर्ध्वेडं तथा ह्येतस्याह्नो रूपं स्तोमः

११.१०.१ यस्ते मदो वरेण्य इति गायत्री भवति
११.१०.२ मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
११.१०.३ पवस्व मधुमत्तम इति पवन्त इव ह्येतेनाह्ना मधुमत्तम इत्यन्नं वै मध्वन्नाद्यमेव तद्यजमाने दधाति
११.१०.४ इन्द्रमच्छ सुता इम इतीन्द्रियस्य वीर्यस्यावरुध्यै
११.१०.५ अयं पूषा रयिर्भग इति
११.१०.६ अनुष्टुभः सत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः
११.१०.७ वृषामतीनां पवते विचक्षण इति जगत्यः सत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः
११.१०.८ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
११.१०.९ हाविष्मतं भवति
११.१०.१० हविष्मांश्च वै हविष्कृच्चाङ्गिरसावास्तां द्वितीयेऽहनि हविष्मानराध्नोन्नवमेऽहनि हविष्कृत्
११.१०.११ अयं हविष्मानित्येव जातमहर्जातं सोमं प्राह देवेभ्यः साम्नैवास्मा आशिषमाशास्ते साम हि सत्याशीः
११.१०.१२ शङ्कु भवत्यह्नो धृत्यै यद्वा अधृतं शङ्कुना तद्दाधार
११.१०.१३ तदु सीदन्तीयमियाहुरेतेन वै प्रजापतिरूर्ध्व इमान् लोकानसीदद्यदसीदत् तत् सीदन्तीयस्य सीदन्तीयत्वमूर्ध्व इमान् लोकान् सीदति सीदन्तीयेन तुष्टुवानः
११.१०.१४ सुज्ञानं भवति
११.१०.१५ स्वर्वद्वै राथन्तरं रूपं स्वर्णधनं बार्हतम्
११.१०.१६ स्वर्णधनं भवति तथा ह्येतस्याह्नो रूपम्
११.१०.१७ प्लुवौ वा एतावुपोहन्ते स्वर्गस्य लोकस्य समष्ट्यै
११.१०.१८ गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
११.१०.१९ क्रौञ्चं भवति
११.१०.२० वाग्वै क्रौञ्चं वाग्द्वादशाहो वाच्येव तद्वाचा स्तुवते यज्ञस्य प्रभूत्यै
११.१०.२१ यामं भवति
११.१०.२२ एतेन वै यमोऽनपजय्यममुष्य लोकस्याधिपत्यमाश्नुतानपजय्यममुष्य लोकस्याधिपत्यमश्नुते यामेन तुष्टुवानः
११.१०.२३ एतेन वै यमी यमं स्वर्गं लोकमगमयत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः

११.११.१ एह्यू षु ब्रवाणि त इत्येहिवत्यै भवन्ति तृतीयस्याह्न उपहवाय सन्तत्यै
११.११.२ अपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वाय
११.११.३ एवाह्यसि वीरयुरिति समानं वदन्तीदमित्थमसदिति
११.११.४ इन्द्रं विश्वा अवीवृधन्नित्यवर्धन्त ह्येतर्हि यजमानमेवैतया वर्धन्ति
११.११.५ साकमश्वं भवत्युक्थानामभिजित्या अभिक्रान्त्यै
११.११.६ एतेन ह्यग्र उक्थान्यध्यजयन्नेतेनाभ्यक्रामन्
११.११.७ आमहीयवं भवति कॢप्तिश्चान्नाद्यञ्च समानं वदन्तीषु क्रियत इदमित्थमसदिति
११.११.८ क्षत्रं वा एतदहरभिनिर्वदति यत् पञ्चदशं यद्गायत्रीषु ब्रह्मसाम भवति ब्रह्म चैव तत् क्षत्रञ्च सयुजी करोति ब्रह्मैव क्षत्रस्य पुरस्तान्निदधति ब्रह्मणे क्षत्रञ्च विशञ्चानुगे करोति
११.११.९ ब्रह्म वै पूर्वमहः क्षत्रं द्वितीयं यद्गायत्रीषु ब्रह्म साम भवति ब्रह्म तद्यशसार्धयति ब्रह्म हि गायत्री
११.११.१० तदु समानं वदन्तीषु क्रियते समृद्ध्यै
११.११.११ आष्टादंष्ट्रे भवतः
११.११.१२ ऐयाहा इति वा इन्द्रो वृत्रमहन्नैयादोहोवेति न्यगृह्णाद्वार्त्रघ्ने सामनी वीर्यवती
११.११.१३ ओजो एवैताभ्यां वीर्यमवरुन्धे
११.११.१४ पञ्चदश एव स्तोमो भवत्योजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्यं पञ्चदशः

१२.१.१ दविद्युतत्यारुचेति तृतीयस्याह्नः प्रतिपद्भवति
१२.१.२ दविद्युतती वै गायत्री परिष्टोभन्ती त्रिष्टुब्गवाशीर्जगती त्रीणि रूपाणि समारभते त्रिरात्रस्याविस्रंसाय
१२.१.३ एते असृग्रमिन्दव इत्यनुरूपो भवति
१२.१.४ एत इति वै प्रजापतिर्देवानसृजतासृग्रमिति मनुष्यानिन्दव इति पित्.ऋंस्तदेव तदभिवदति
१२.१.५ पूर्वमु चैव तद्रेपमपरेण रूपेणानुवदति यत् पूर्वं रूपमपरेण रूपणोऽनुवदति तदनुरूपस्यानुरूपत्वमनुरूप एनं पुत्रो जायते य एवं वेद
१२.१.६ स्तोत्रीयानुरूपौ तृचो भवतः प्राणापानानामवरुध्यै
१२.१.७ राजा मेधाभिरीयते पवमानो मनावध्यन्तरिक्षेण यातव इति
१२.१.८ अन्तरिक्षदेवत्यस्तृचो भवत्यन्तरिक्षदेवत्यमेतदहर्यत् तृतीयं तदेव तदभिवदति
१२.१.९ पञ्चर्चौ भवति पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाद्यस्यावरुध्यै
१२.१.१० तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युपयान्ति
१२.१.११ सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै

१२.२.१ अग्निनाग्निः समिध्यत इत्याग्रेयमाज्यं भवति
१२.२.२ पूर्वे एव तदहनी समिद्धे तृतीयमहरभिसमिन्धे
१२.२.३ मित्रं हुवे पूतदक्षमिति राथन्तरं मैत्रावरुणम्
१२.२.४ हुव इति वै राथन्तरं रूपम्
१२.२.५ रथन्तरमेतत् परोक्षं यद्वैरूपं राथन्तरमेव तद्रूपं निर्द्योतयति
१२.२.६ इन्द्रेण सं हि दृक्षुस इत्यैन्द्रम्
१२.२.७ समिव वा इमे लोका ददृशिरेऽन्तरिक्षदेवत्यमेतदहर्यत् तृतीयं तदेव तदभिवदति
१२.२.८ ता हुवे ययोरिदमिति राथन्तरमैन्द्राग्नम्
१२.२.९ हुव इति वै राथन्तरं रूपं रथन्तरमेतत् परोक्षं यद्वैरूपं राथन्तरमेव तद्रूपं निर्द्योतयति स्तोमः

१२.३.१ उच्चा ते जातमन्धस इति गायत्री भवति
१२.३.२ उद्वद्वा एतदहर्यत् तृतीयं तदेव तदभिवदति
१२.३.३ अन्धस्वती भवत्यहर्वा अन्धोऽह्न आरम्भः
१२.३.४ अभि सोमास आयव इति
१२.३.५ अभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः
१२.३.६ तिस्रो वाच ईरयति प्रवह्निरिति तृतीयस्याह्नो रूपं तेन तृतीयमहरारभन्ते
१२.३.७ त्रिष्टुभः सत्यो जगत्यो रूपेण जागतं ह्येतदहः
१२.३.८ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१२.३.९ वैष्टम्भं भवति
१२.३.१० अहर्वा एतदव्लीयत तद्देवा वैष्टम्भैर्व्यष्टभ्नुवंस्तद्वैष्टम्भस्य वैष्टम्भत्वम्
१२.३.११ दिश इति निधनमुपयन्ति दिशां धृत्यै
१२.३.१२ पौरूमद्गं भवति
१२.३.१३ अहर्वा एतदव्लीयमानं तद्रक्षांस्यन्वसचन्त तस्माद्देवाः पौरूमद्गेन रक्षांस्यपाघ्नन्नप पाप्मानं हते पौरूमद्गेन तुष्टुवानः
१२.३.१४ देवाश्च वासुराश्चास्पर्धन्त ते देवा असुराणां पौरूमद्गेन पुरोऽमज्जयन् यत् पुरोऽमज्जयंस्तस्मात् पौरूमद्गं पाप्मानमेवैतेन भ्रातृव्यं मज्जयति
१२.३.१५ गौतमं भवति
१२.३.१६ यदेव गौतमस्य ब्राह्मणम्
१२.३.१७ उभयतः स्तोत्रं तथा ह्येतस्याह्नो रूपम्
१२.३.१८ अन्तरिक्षं भवति
१२.३.१९ अन्तरिक्षदेवत्यमेतदहर्यत् तृतीयमन्तरिक्ष एव तदन्तरिक्षेण स्तुवते प्रतिष्ठायै
१२.३.२० आष्कारणिधनं काण्वं भवति
१२.३.२१ असिति वै राथन्तरं रूपं हसिति बार्हतं तृतीयमेव तद्रूपमुपयन्ति समृध्यै
१२.३.२२ अङ्गिरसां संक्रोशो भवति
१२.३.२३ एतेन वा अङ्गिरसः संक्रोशमानाः स्वर्गं लोकमापन् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः स्तोमः

१२.४.१ यद्याव इन्द्र ते शतमिति शतवत्यो भवन्ति
१२.४.२ शतवद्वै पशूनां रूपं सहस्रवत् पशूनामेवैताभी रूपमवरून्धे
१२.४.३ वयङ्घत्वा सुतावन्त इति सतोबृहत्यो वर्षीयश्छन्द आक्रमतेऽनपभ्रंशाय
१२.४.४ तरणिरित् सिषासति वाजं पुरन्ध्या युजा। आव इन्द्रं पुरुहूतं न मे गिरेत्यावदक्षरमुद्धतमिव वै तृतीयमहर्यदेव तावदक्षरं भवत्यहरेवैतेन प्रतिष्ठापयति
१२.४.५ पञ्चनिधनं वैरूपं पृष्ठं भवति दिशां धृत्यै
१२.४.६ पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाघस्यावरूध्यै
१२.४.७ दिशां वा एतत् साम यद्वैरूपं दिशो ह्येवैतेनाभिवदति
१२.४.८ अथ यत् पञ्चनिधनं तेनर्तूनां पञ्च ह्यृतवः
१२.४.९ ऋतुभिश्च वा इमे लोका दिग्भिश्चावृतास्तेष्वेवोभयेषु यजमानं प्रतिष्ठापयति यजमानं वा अनुप्रतितिष्ठन्तमुद्गाता प्रतितिष्ठति य एवं विद्वान् वैरूपेणोद्गायति
१२.४.१० दिग्वद्भवति भ्रातृव्यस्यापनुत्यै
१२.४.११ दिशं विशमिति निधनमुपयन्ति दिशां धृत्यै
१२.४.१२ हसित्युपरिष्टाद्दिशां निधनमुपयन्ति तेन बार्हतम्
१२.४.१३ राथन्तरो वा अयं लोको बार्हतोऽसावुभे एव तद्बृहद्रथन्तरयो रूपेणापराध्नोति
१२.४.१४ अनड्वाहौ वा एतौ देवयानौ यजमानस्य यद्बृहद्रथन्तरे तावेव तद्युनक्ति स्वर्गस्य लोकस्य समष्ट्यै
१२.४.१५ अश्ववद्भवति प्रजात्यै
१२.४.१६ यथा मण्डूक आट्करोत्येवं निधनमुपयन्त्ययातयामतायै
१२.४.१७ द्वादश वैरूपाणि भवन्ति द्वादशमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति
१२.४.१८ विरूपः संवत्सरो विरूपमन्नाद्यस्यावरुध्यै
१२.४.१९ महावैष्टम्भं ब्रह्मसाम भवत्यन्नाद्यस्यावरुध्यै
१२.४.२० यदा वै पुरुषोऽन्नमत्त्यथान्तरतो विष्टब्धः
१२.४.२१ दिश इति निधनमुपयन्ति दिशां धृत्यै
१२.४.२२ सतो बृहतीषु स्तुवन्ति पूर्वयोरह्नोः प्रत्युद्यमाय
१२.४.२३ रौरवमच्छावाकसाम भवति
१२.४.२४ अग्निर्वै रूरो रूद्रोऽग्निः
१२.४.२५ अग्निर्वा एतस्य पशूनपक्रमयति यस्य पशवोऽपक्रामन्त्यग्निरेव तस्य पशूनभिक्रमयति यस्य पशवोऽभिक्रामन्ति
१२.४.२६ अभ्यभ्येवास्य पशवः क्रामन्ति य एवं विद्वान् रौरवेण स्तुवते
१२.४.२७ परिष्टुब्धेडं तथा ह्येतस्याह्नो रूपं स्तोमः

१२.५.१ “तिस्रो वाच उदीरत”इति तृतीयस्याह्नो रूपं तेन तृतीयमहरारभन्ते
१२.५.२ उद्वद्वा एतत् त्रिवदहर्यत् तृतीयं तदेव तदभिवदति
१२.५.३ “ा सोता परिषिञ्चत”इति परिवत्यो भवन्ति
१२.५.४ अन्तो वै तृतीयमहस्तस्यैताः पर्याप्त्यै
१२.५.५ “सखाय आनिषीदत”इत्युद्धत्तमिव वै तृतीयमहर्यदाह निषीदतेत्यहरेवैतेन प्रतिष्ठापयति
१२.५.६ “सुतासो मधुमत्तमा”इत्यनुष्टुभः सत्यो जगत्यो रूपेण जागतं ह्येतदहः
१२.५.७ “पवित्रं ते विततं ब्रह्मणस्पत”इति
१२.५.८ विततमिव वा इदमन्तरिक्षमन्तरेमे अन्तरिक्षदेवत्यमेतदहर्यत् तृतीयं तदेव तदभिवदति
१२.५.९ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१२.५.१० पाष्ठौहं भवति
१२.५.११ पष्ठवाड्वा एतेनाङ्गिरसश्चतुर्थस्याह्नो वाचं वदन्तीमुपाशृणोत् स हो वागिति निधनमुपैत् तदस्याभ्युदितं तदहरवसत्
१२.५.१२ वाचः साम भवति
१२.५.१३ वाग्वै द्वादशाहो वाच्येव तद्वाचा स्तुवते यज्ञस्य प्रभूत्यै
१२.५.१४ निष्किरीयाः सत्त्रमासत ते तृतीयमहर्न प्राजानंस्तानेतत् साम गायमानान् वागुपाप्लवत् तेन तृतीयमहः प्राजानंस्तेऽब्रुवन्नियं वाव नस्तृतीयमहरदीदृशदिति तृतीयस्यैवैषाह्नो दृष्टिः
१२.५.१५ शौक्तं भवति
१२.५.१६ शुक्तिर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
१२.५.१७ गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
१२.५.१८ त्वाष्ट्रीसाम भवति
१२.५.१९ इन्द्रं वा अक्ष्यामयिणं भूतानि नास्वापयंस्तमेतेन त्वाष्ट्रयोऽस्वापयंस्तद्वाव तास्तर्ह्यकामयन्त
१२.५.२० कामसनि साम त्वाष्ट्रीसाम काममेवैतेनावरुन्धे
१२.५.२१ इन्द्रो वृत्राद्विभ्यद्गां प्राविशत् तं त्वाष्ट्रयोऽब्रुवं जनयामेति तमेतैः सामभिरजनयं जायामहा इति वै सत्त्रमासते जायन्त एव
१२.५.२२ अरिष्टं भवति
१२.५.२३ देवाश्च वा असुराश्चास्पर्धन्त यं देवानामघ्नन्न स समभवद्यमसुराणां सं सोऽभवत् ते देवास्तपोऽतप्यन्त त एतदरिष्टमपश्यंस्ततोऽयं देवानामघ्नत् सं सोऽभवद्यमसुराणां न स समभवदनेनारिषामेति तदरिष्टस्यारिष्टत्वमरिष्टया एवारिष्टमन्ततः क्रियते
१२.५.२४ त्रीडं भवति त्रिरात्रस्य धृत्यै
१२.५.२५ द्रवन्तीमिडामुत्तमामुपयन्ति चतुर्थस्याह्नः सन्तत्यै स्तोमः

१२.६.१ प्रमंहिष्ठाय गायतेति
१२.६.२ यद्गायतेति महस एव तद्रूपं क्रियते
१२.६.३ “तं ते मदङ्गणीमसीति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
१२.६.४ “श्रुधी हवं तिरश्च्या”इति श्रुत्या एव
१२.६.५ प्रमंहिष्ठीय भवति
१२.६.६ प्रमंहिष्ठीयेन वा इन्द्रो वृत्राय वज्रं प्रावर्तयत् तमस्तृणुत भ्रातृव्यवान् प्रमंहिष्ठीयेनोक्थानि प्रणयेत स्तृणुते भ्रातृव्यं वसीयां आत्मना भवति
१२.६.७ हारिवर्णं भवति
१२.६.८ इन्द्रश्च वै नमुचिश्चासुरः समदधातां न नो नक्तन्न दिवाहनन्नार्द्रेण न शुष्केणेति तस्य व्युष्टायामनुदित आदित्येऽपां फेनेन शिरोऽछिनदेतद्वै न नक्तं न दिवा यत् व्युष्टायामनुदित आदित्य एतन्नार्द्रन्न शुष्कं यदपां फेनस्तदेनं पापीयां वाचं वददन्ववर्तत वीरहन्न द्रुहो द्रुह इति तन्नर्चा न साम्नापहन्तुमशक्नोत्
१२.६.९ हारिवर्णस्यैव निधनेनापाहत
१२.६.१० अपशुचंहते हारिवर्णस्य निधनेन श्रियं च हरश्चोपैति तुष्टुवानः
१२.६.११ तैरश्चयं भवति
१२.६.१२ अङ्गिरसः स्वर्गं लोकं यन्तो रक्षांस्यन्वसचन्त तान्येतेन तिरश्चाङ्गिरसस्तिर्यङ्पर्यवैद्यत् तिर्यङपर्यवैत् तस्मात् तैरश्च्यं पाप्मा वाव स तानसचत तं तैरश्च्येनापाघ्नताप पाप्मानं हते तैरश्च्येन तुष्टुवानः
१२.६.१३ सप्तदश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै

१२.७.१ “प्र त आश्विनीः पवमानधेनव”इति चतुर्थस्याह्नः प्रतिपद्भवति
१२.७.२ आप्ते त्रिरात्रे रूपेण गायत्र्यो द्वितीयं प्रयन्ति प्रति वै गायत्र्या रूपम्
१२.७.३ जगती प्रतिपद्भवति जागतमेतदहर्यत् तृतीयं जगत्या एव तज्जगतीमभिसंक्रामन्ति
१२.७.४ यदतोऽन्या प्रतिपत्स्यात् प्रतिकूलं वानुकूलं वा स्यात्
१२.७.५ पवमानो अजीजनदित्यनुरूपो भवति
१२.७.६ जनद्वद्वा एतदहर्यच्चतुर्थमन्नाद्यं जनयति विराजं जनयत्येकविंशं स्तोमं जनयति
१२.७.७ पूर्वमु चैव तद्रूपमपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वम्
१२.७.८ अनुरूप एनं पुत्रो जायते य एवं वेद
१२.७.९ स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानामवरुध्यै
१२.७.१० षडृचौ भवत ऋतूनां धृत्यै
१२.७.११ तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१२.७.१२ एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति

१२.८.१ “जनस्य गोपा अजनिष्ट जागृविः”इत्याग्नेयमाज्यं भवति
१२.८.२ जनद्वद्वा एतदहर्यच्चतुर्थमन्नाद्यं जनयति विराजं जनयत्येकविंशं स्तोमं जनयति
१२.८.३ “यं वां मित्रावरूणा”इति बार्हतं मैत्रावरूणम्
१२.८.४ बृहदेतत् परोक्षं यद्वैराजं बार्हतमेव तद्रूपं निर्द्योतयति
१२.८.५ “िन्द्रो दधीचो अस्थभिर्”इति दाधीचस्तृचो भवति
१२.८.६ दध्यङ्वा आङ्गिरसो देवानां पुरोधानीय आसीदन्नं वै ब्रह्मणः पुरोधा अन्नाद्यस्यावरुध्यै
१२.८.७ “ियं वामस्य मन्मन”इत्यैन्द्राग्नम्
१२.८.८ “िन्द्राग्नी पूर्व्यस्तुतिरभ्राद्वृष्टिरिवाजनि”इत्यानुष्टुभी वै वृष्टिरानुष्टुभमेतदहर्यच्चतुर्थं समीच्यौ विराजौ दधात्यन्नाद्याय स्तोमः

१२.९.१ “पयस्व दक्षसाधन”इति गायत्री भवति सिध्यै
१२.९.२ यत् पवस्वेति तद्बृहतो रूपं बार्हतं ह्येतदहः
१२.९.३ “तवाहं सोम रारण सख्य इन्दो दिवे दिव् पुरूणि बभ्रो निचरन्ति मामव परिधींरतितां इहि”इति
१२.९.४ अति ह्यायञ्छकुना इव पप्तिमेत्यति ह्यपतत्
१२.९.५ पुनानो अक्रमीदभीति
१२.९.६ गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
१२.९.७ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१२.९.८ चतुर्णिधनमाथर्वणं भवति चतूरात्रस्य धृत्यै
१२.९.९ चतुष्पदानुष्टुभानुष्टुभमेतदहर्यच्चतुर्थम्
१२.९.१० भेषजं वाथर्वणानि भेषजमेव तत् करोति
१२.९.११ निधनकामं भवति
१२.९.१२ एकं वा अन्येन निरुक्तेन निधनेन कामं सनोत्यथैतन्निधनकामं सर्वेषां कामानामवरुध्यै
१२.९.१३ आष्टादंष्ट्रं भवति
१२.९.१४ यदेवाष्टादंष्ट्रस्य ब्राह्मणम्
१२.९.१५ आभीशवं भवत्यह्नो धृत्यै
१२.९.१६ यद्वा अधृतमभीशुना तद्दाधार
१२.९.१७ अनुतुन्नं गायति तथा ह्येतस्याह्नो रूपम्
१२.९.१८ चतुर्णिधनमाङ्गिरसं भवति चतूरात्रस्य धृत्यै
१२.९.१९ स्वः पृष्ठं तथा ह्येतस्याह्नो रूपम्
१२.९.२० सत्त्रासाहीयं भवति
१२.९.२१ यद्वा असुराणामसोढमासीत् तद्देवाः सत्त्रासाहीयेनासहन्त सत्त्रैनानसक्ष्महीति तत् सत्त्रासाहीयस्य सत्त्रासाहीयत्वम्
१२.९.२२ सत्त्रा भ्रातृव्यं सहते सत्त्रासाहीयेन तुष्टुवानः
१२.९.२३ गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१२.९.२४ वृषण्वत्यो गायत्रयो भवन्ति तदु त्रैष्टुभाद्रूपान्नयन्ति स्तोमः

१२.१०.१ “पिबा सोममिन्द्र मन्दतु त्वा यन्ते सुषाव हर्यश्वाद्रिः। सोतुर्बाहुभ्यां सुयतो नार्वा”इत्ययतमिव वै चतुर्थमहस्तस्यैव यत्यै
१२.१०.२ विश्वाः पृतना अभिभृतरन्नर इत्यतिजगती वर्षीययश्छन्द आक्रमतेऽनपभ्रंशाय
१२.१०.३ अपभ्रंश इव वा एष यज्जयायसश्छन्दसः कनीयश्छन्द उपैति यदेषा चतुर्थेऽहन्यतिजगती क्रियतेऽनपभ्रंशाय
१२.१०.४ यो राजा चर्षणीनामिति
१२.१०.५ राज्ये ह्येतर्हि वाचोऽगच्छन् राज्यमेवैतया यजमानं गमयन्ति
१२.१०.६ छन्दोभिर्वै देवा आदित्यं स्वर्गं लोकमहरन् स नाध्रियत तं वैराजस्य निधनेनादृंहंस्तस्मात् पराङ्चार्वाङ्चादित्यस्तपति पराङ्चार्वाङ्चेकारः
१२.१०.७ प्रस्तावं प्रस्तुत्य विष्टम्भान् विष्टभ्नोति मुखत एव तदन्नाद्यं धत्ते मुखं हि साम्नः प्रस्तावः
१२.१०.८ दशकृत्वो विष्टभ्नोति दशाक्षरा विराङ्वैराजमन्नमन्नाद्यस्यावरुध्यै
१२.१०.९ त्रिंशत्कृत्वो विष्टभ्नोति भूयसोऽन्नाद्यस्यावरुध्यै
१२.१०.१० वैराजं साम भवति विराट्सु स्तुवन्ति वैराजा विष्टम्भाः समीचीर्विराजो दधात्यन्नाद्याय
१२.१०.११ अनुतुन्नं गायति रेतोधेयायानुतुन्नाद्धि रेतो धीयते
१२.१०.१२ दक्षिण ऊरावुद्गतुरग्निं मन्थन्ति दक्षिणतो हि रेतः सिच्यते
१२.१०.१३ उपाकृतेऽहिङ्कृते मन्थन्ति जातमभिहिङ्करोति
१२.१०.१४ तस्माज्जातं पुत्रं पशवोऽभिहिङ्कुर्वन्ति
१२.१०.१५ तस्मै जातायामीमांसन्त गार्हपत्ये प्रहरामा३ आग्नीध्रा३ आहवनीया३ इति
१२.१०.१६ आहवनीये प्रहरन्त्येतदायतनो वै यजमानो यदा हवनीये स्वमेव तदायतनं ज्योतिष्मत् करोति
१२.१०.१७ ज्योतिष्मान् ब्रह्मवर्चसी भवति य एवं वेद
१२.१०.१८ अभिजुहोति शान्त्यै
१२.१०.१९ आज्येनाभिजुहोति तेजो वा आज्यं तेज एव तदात्मन् धत्ते
१२.१०.२० “प्रेद्धो अग्ने दीदिहि पुरो न”इति विराजाभिजुहोत्यन्नं विराडन्नाद्यस्यावरुध्यै
१२.१०.२१ त्रैशोकं ब्रह्मसाम भवति
१२.१०.२२ अतिजगतीषु स्तुवन्त्यह्न उत्क्रान्त्या उद्वा एतेनाह्ना क्रामन्ति
१२.१०.२३ दिवेति निधनमुपयन्ति पाप्मनोऽपहत्या अपपाप्मानं हते त्रैशोकेन तुष्टुवानः
१२.१०.२४ भारद्वाजस्य पृश्न्यछावाकसाम भवति
१२.१०.२५ अन्नं वै देवाः पृश्नीति वदन्त्यन्नाद्यस्यावरुध्यै
१२.१०.२६ इडाभिरैडं तथा ह्येतस्याह्नो रूपं स्तोमः

१२.११.१ “परिप्रिया दिवः कविर्”इति परिवत्यो भवन्त्यन्तो वै चतुर्थमहस्तस्यैताः पर्याप्त्यै
१२.११.२ त्वं ह्यङ्ग दैव्येति त्वमिति बृहतो रूपं बार्हतं ह्येतदहः
१२.११.३ सोमः पुनान ऊर्मिणा व्यंवारं विधावति। अग्रे वाचः पवमानः कनिक्रददिति
१२.११.४ अग्रं ह्येतर्हि वाचोऽगच्छन्नग्रमेवैतया यजमानं गमयन्ति
१२.११.५ “पुरो जितीवो अन्धसा”इति विराजौ वैराजं ह्येतदहः
१२.११.६ “सोमः पवते जनिता मतीनाम्”इति प्रातस्सवने षोडशिनं गृहीतं तं तृतीयसवने प्रजनयन्ति
१२.११.७ त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते
१२.११.८ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१२.११.९ और्णायवं भवति
१२.११.१० अङ्गिरसो वै सत्त्रमासत तेषामाप्तः स्पृतः स्वर्गो लोक आसीत् पन्थानं तु देवयानं न प्राजानंस्तेषां कल्याण आङ्गिरसो ध्यायमुदव्रजत् स ऊर्णायुं गन्धर्वमप्सरसां मध्ये प्रेङ्खयमाणमुपैत् स इयामिति यां यामभ्यदिशत् सैनमकामयत तमभ्यवदत् काल्याणा३ इत्यासो वै वः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं न प्रजानीथेदं साम स्वर्ग्यं लोकमेष्यथ मा तु वोचोहमदर्शमिति
१२.११.११ स ऐत् कल्याणः सोऽब्रवीदाप्तो वै नः स्पृतः स्वर्गो लोकः पन्थानं तु देवयानं प्रजानीम इदं साम स्वर्ग्यं तेन स्तुत्वा स्वर्गं लोकमेष्याम इति कस्तेऽवोचदित्यहमेवादर्शमिति तेन स्तुत्वा स्वर्गं लोकमायन्नहीयत कल्याणोऽनृतं हि सोऽवदत् स एषः श्वित्रः
१२.११.१२ स्वर्ग्यं वा एतत् साम स्वर्गलोकः पुण्यलोको भवत्यौर्णायवेन तुष्टुवानः
१२.११.१३ बृहत्कं भवति
१२.११.१४ सामार्षेयेण प्रशस्तं त्वं हीत्यन्नाद्यस्यावरुध्यै हीति वा अन्नं प्रदीयते षोडशिनमु चैवैतेनोद्यच्छति
१२.११.१५ आतीषादीयं भवति
१२.११.१६ आयुर्वा आतीषादीयमायुषोऽषरुध्यै
१२.११.१७ आतमितोर्निधनमुपयन्त्यायुरेव सर्वमाप्नुवन्ति
१२.११.१८ नानदं भवति
१२.११.१९ ज्यायोऽभ्यारम्भमतिहाय पञ्चमहः षष्ठस्याह्न आरम्भस्तेन षष्ठमहरारभन्ते सन्तत्यै
१२.११.२० षोडशाक्षरेण प्रस्तौति षोडशिनमु चैवैतेनोद्यच्छति
१२.११.२१ आन्धीगवं भवति
१२.११.२२ कयोरन्नाद्यमवरून्ध आन्धीगवेन तुष्टुवानः
१२.११.२३ वात्सप्रं भवति
१२.११.२४ एतस्मिन् वै वैराजं प्रतिष्ठितं प्रतितिष्ठति वात्सप्रेण तुष्टुवानः
१२.११.२५ वत्सप्रीर्भालन्दनः श्रद्धां नाविन्दत स तपोऽतप्यत स एतद्वात्सप्रमपश्यत् स श्रद्धामविन्दत श्रद्धा विन्दामहा इति वै सत्त्रमासते विन्दते श्रद्धाम्
१२.११.२६ ईनिधनं तथा ह्येतस्याह्नो रूपं निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१२.१२.१ “ग्निं वो वृधन्तम्”इति
१२.१२.२ अवर्धन्त ह्येतर्हि यजमानमेव तथा वर्धयन्ति
१२.१२.३ “वयमु त्वामपूर्व्य”इत्यपूर्वां ह्येतर्हि प्रजापतेस्तनूमगच्छन्नपूर्वमेवैतया यजमानं गमयन्ति
१२.१२.४ “िममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम्”इति ज्यैष्ठं ह्येतर्हि वाचोऽगच्छन् ज्यैष्ठ्यमेवैतया यजमानं गमयन्ति
१२.१२.५ सैन्धुक्षितं भवति
१२.१२.६ सिन्धुक्षिद्वै राजन्यर्षिर्ज्योगपरुद्धश्चरन् स एतत् सैन्धुक्षितमपश्यत् सोऽवागच्छत् प्रत्यतिष्ठदवगच्छति प्रतितिष्ठति सैन्धुक्षितेन तुष्टुवानः
१२.१२.७ सौभरं भवति बृहतस्तेजः
१२.१२.८ पन्नमिव वै चतुर्थमहस्तदेतेन बृहतस्तेजसोत्तभ्नोति सौभरेण
१२.१२.९ वसिष्ठस्य प्रियं भवति
१२.१२.१० एतेन वै वसिष्ठ इन्द्रस्य प्रेमाणमगच्छत् प्रेमाणं देवतानां गच्छति वासिष्ठेन तुष्टुवानः स्तोमः

१२.१३.१ इन्द्रश्च बृहच्च समभवतां तमिन्द्रं बृहदेकया तन्वात्यरिच्यत तस्या अबिभेदनया माभिभविष्यतीति सोऽब्रवीत् षोडशी तेऽयं यज्ञक्रतुरस्त्विति स षोडश्यभवत् तदस्य जन्म
१२.१३.२ अतिश्रिया भ्रातृव्यं रिच्यते यो गायत्रीषु द्विपदासु बृहता षोडशिना स्तुते
१२.१३.३ “ुप नो हरिभिः स्तुतम्”इत्येता वै गायत्र्यो द्विपदा एतासु स्तोतव्यम्
१२.१३.४ इन्द्रः प्रजापतिमुपाधावद्वृत्रं हनानीति तस्मा एतामनुष्टुभमपहरसं प्रायच्छत् तया नास्तृणुत यदस्तृता व्यनदत् तन्नानदस्य नानदत्वम्
१२.१३.५ तं पुनरुपाधावत् तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत् तमस्तृणुत
१२.१३.६ स्तृणुते तं यं तुस्तूर्षते य एवं वेद
१२.१३.७ तस्माद्धरिवतीषु स्तुवन्ति हरिवतीः शंसन्ति हरिवतीषु ग्रहो गृह्यते हरो ह्यस्मै निर्माय प्रायच्छत्
१२.१३.८ एकविंशायतनो वा एष यत् षोडशी सप्त हि प्रातस्सवने होत्रा वषट्कुर्वन्ति सप्त माध्यन्दिने सवने सप्त तृतीयसवने
१२.१३.९ गौरीवितं भवति
१२.१३.१० गौरीवितिर्वा एतच्छाक्त्यो ब्रह्मणोऽतिरिक्तमपश्यत् तद्गौरीवितमभवदतिरिक्तं एतदतिरिक्तेन स्तुवन्ति यद्गौरीवितेन षोडशिनं श्वस्तनवान् भवत्यपि प्रजाया उपकॢप्तः
१२.१३.११ विशालं लिब्जया श्रूत्याभ्यधादिति होवाचोपोदितिर्गोपालेयोऽनुष्टुभि नानदमकर्गौरीवितेन षोडशिनमस्तोष्टाञ्जसा श्रियमुपागान्न श्रिया अवपद्यत इति
१२.१३.१२ एष वै विशालं लिब्जया भूत्याभिदधाति योऽनुष्टुभि नानदं कृत्वा गौरीवितेन षोडशिना स्तुतेऽञ्जसा श्रियमुपैति न श्रिया अवपद्यते
१२.१३.१३ शक्वरीषु षोडशिना स्तुवीत यः कामयेत वज्री स्यामिति
१२.१३.१४ वज्रो वै षोडशी वज्रः शक्वर्यो वज्रेणैवास्मै वज्रं स्पृणोति वज्री भवति
१२.१३.१५ अनुष्टुप्सु षोडशिना स्तुवीत यः कामयेत न मा वागतिवदेत्
१२.१३.१६ वज्रो वै षोडशी वागनुष्टुब्वज्रेणैवास्मै वाचं स्पृणोति नैनं वागतिवदति
१२.१३.१७ “सावि सोम इन्द्र त”इत्येतासु स्तोतव्यम्
१२.१३.१८ विराट्स्वन्नाद्यकामः षोडशिना स्तुवीत वज्रो वै षोडशी वैराजमन्नं वज्रेणैवास्मा अन्नं स्पृणोत्यन्नादो भवति
१२.१३.१९ “प्र वो महे वृधे भरध्वम्”इत्येतासु स्तोतव्यम्
१२.१३.२० त्रयस्त्रिंशदक्षरा वा एता विराजो यदेकविंशतिः प्रतिष्ठा सा यद्द्वादश प्रजातिः सा
१२.१३.२१ प्रतिष्ठाय प्रजायते नो चान्तस्थायां जीर्यते य एवं वेद
१२.१३.२२ अथ वा एता एकपदास्त्र्यक्षरा विष्णोश्छन्दो भुरिजः शक्वर्यः
१२.१३.२३ एताभिर्वा इन्द्रो वृत्रमहन् क्षिप्रं वा एताभिः पाप्मानं हन्ति क्षिप्रं वसीयान् भवति
१२.१३.२४ चतुस्त्रिंशदक्षराः संस्तुतो भवति त्रयस्त्रिंशद्देवत्ताः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिमेवोपयन्त्यरिष्ट्यै
१२.१३.२५ हिरण्यं सम्प्रदायं षोडशिना स्तुवते ज्योतिष्मानस्य षोडशी भवति
१२.१३.२६ अश्वः कृष्ण उपतिष्ठति साम्येक्षयाय भ्रातृव्यलोकमेव स विधमंस्तिष्ठति
१२.१३.२७ एकाक्षरं वै देवानामवमं छन्द आसीत् सप्ताक्षरं परमं नवाक्षरमसुराणामवमं छन्द आसीत् पञ्चदशाक्षरं परमं देवाश्च वा असुराश्चास्पर्धन्त तान् प्रजापतिरानुष्टुभो भूत्वान्तरातिष्ठत् तं देवासुरा व्यह्वयन्त स देवानुपावर्तत ततो देवा अभवन् परासुराः
१२.१३.२८ भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
१२.१३.२९ ते देवा असुराणामेकाक्षरेणैव पञ्चदशाक्षरमवृञ्जत द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरमष्टाभिरेवाष्टाववृञ्जत
१२.१३.३० एवमेव भ्रातृव्याद्भूतिं वृङ्क्ते य एवं वेद
१२.१३.३१ अपरुद्धयज्ञ इव वा एष यत् षोडशी कनीयस्विन इव वै तर्हि देवा आसन् भूयस्विनोऽसुराः कनीयस्विन भूयस्विनं भ्रातृव्यं वृङ्क्ते य एवं वेद
१२.१३.३२ “यस्मादन्यो न परोऽस्ति जातो य आबभूव भुवनानि विश्वा। प्रजापतिः प्रजया सम्विदानस्त्रीणि ज्योतीं षि सचते स षोडशी”इत्युद्गाता ग्रहमवेक्षते
१२.१३.३३ ज्योतिष्मानस्य षोडशी भवति य एवं वेद
१२.१३.३४ एकविंश एव स्तोमो भवति प्रतिष्ठायै प्रतितिष्ठति

१३.१.१ “गोवित् पवस्व वसुविद्धिरण्यविद्”इति पञ्चमस्याह्नः प्रतिपद्भवति
१३.१.२ गोविद्वा एतद्वसुविद्धिरण्यविद्यच्छक्वर्यः
१३.१.३ पशवश्शक्वर्यः सर्वं पशुभिर्विन्दते
१३.१.४ “त्वं सुवीरो असि सोमविश्वविद्”इत्येष याव सुवीरो यस्य पशवस्तदेव तदभिवदति
१३.१.५ तास्ते क्षरन्तु मधुमद्घृतं पय”इति मधुमद्वै घृतं पयः पशवः क्षरन्ति तदेव तदभिवदति
१३.१.६ “पवमानस्य विश्वविद्”इत्यनुरूपो भवति
१३.१.७ विश्वमेव तद्वित् तमभिवदति विश्वं हि पशुभिर्विन्दते
१३.१.८ “प्र ते सर्गा असृक्षत”इति सृष्टानीव ह्येतर्ह्यहानि
१३.१.९ पूर्वमु चैव तद्रूपमपरेण रूपेणानुवदति यत् पूर्वं रूपेणानुवदति तदनुरूपस्यानुरूपत्वम्, अनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरुपौ तृचौ भवतः प्राणापानानामवरुध्यै
१३.१.१० सप्तर्चौ भवतः छन्दसां धृत्यै
१३.१.११ चतुरृचो भवति प्रतिष्ठायै
१३.१.१२ तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१३.१.१३ त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद्वा एष पुष्टः

१३.२.१ “तव श्रियो वर्षस्येव विद्युत”इत्याग्नेयमाज्यं भवति
१३.२.२ श्रीर्वै पशवः श्रीः शक्वर्यः तदेव तदभिवदति
१३.२.३ “ग्नेश्चिकित्र उषसामिवेतय”इतीतानीव ह्येतर्ह्यहानीति
१३.२.४ “ा ते यतेन्ते रथ्यो यथा पृथग्”इत्येव ह्येतर्ह्यहानि यतन्ते
१३.२.५ “पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण”इति मैत्रावरुणम्
१३.२.६ यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजति
१३.२.७ “ुत्तिष्ठन्नोजसा सह”इत्यैन्द्रम्
१३.२.८ पञ्च वा ऋतव उत्थानस्य रूपमोजसा सहेत्योजसैव वीर्येण सहोत्तिष्ठन्ति
१३.२.९ “िन्द्राग्नी युवामिम”इति राथन्तरमैन्द्राग्नम्
१३.२.१० रथन्तरमेतत् परोक्षं यच्छक्वर्यो राथन्तरमेव तद्रूपं निर्द्योतयति स्तोमः

१३.३.१ “र्षा सोम द्युमत्तम”इति विष्णुमत्यो गायत्र्यो भवन्ति
१३.३.२ ब्रह्म वै गायत्री यज्ञो विष्णुर्ब्रह्मण्येव तद्यज्ञं प्रतिष्ठापयति
१३.३.३ “सोम उष्वाणस्सोतृभिर्”इति सिमानां रूपं स्वेनैवैतास्तद्रूपेण समर्धयति
१३.३.४ “यत् सोम चित्रमुक्थ्यम्”इति गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
१३.३.५ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१३.३.६ यण्वं भवति पशवो वै यण्वं पशूनामवरुध्यै
१३.३.७ सन्ततं गायति यज्ञस्य सन्तत्ये
१३.३.८ अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्
१३.३.९ शाकलं भवति
१३.३.१० एतेन वै शकलः पञ्चमेऽहनि प्रत्यतिष्ठत् प्रतितिष्ठति शाकलेन तुष्टुवानः
१३.३.११ वार्शं भवति
१३.३.१२ वृशो वैजानस्त्र्यरुणस्य त्रैधातवस्यैक्ष्वाकस्य पुरोहित आसीत् स ऐक्ष्वाकोऽधावयत् ब्राह्मणकुमारं रथेन व्यच्छिनत् स पुरोहितमब्रवीत् तव मा पुरोधायामिदमीदृगुपागादिति तमेतेन साम्ना समैरयत् तद्वाव स तर्ह्यकामयत कामसनि साम वार्शं काममेवैतेनावरुन्धे
१३.३.१३ अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्
१३.३.१४ मानवं भवति
१३.३.१५ एतेन वै मनुः प्रजापतिं भूमानमगच्छत् प्रजायते बहुर्भवति मानवेन तुष्टुवानः
१३.३.१६ आनूपं भवति
१३.३.१७ एतेन वै वध्र्यश्व आनूपः पशूनां भूमानमाश्नुत पशूनां भूमानमश्नुत आनूपेन तुष्टुवानः
१३.३.१८ वाम्रं भवति
१३.३.१९ मामार्षेयेण प्रशस्तं यं वै गामश्वं पुरुषं प्रशंसन्ति वाम इति तं प्रशंसन्त्यहरेवैतेन प्रशंसन्ति
१३.३.२० अध्यर्धेडं तथा ह्येतस्याह्नो रूपम्
१३.३.२१ त्रिणिधनमाग्नेयं भवति प्रतिष्ठायै
१३.३.२२ अग्रिः सृष्टो नोददीप्यत तं प्रजापतिरेतेन साम्नोपाधमत् स उददीप्यत दीप्तिश्च वा एतत् साम ब्रह्मवर्चसं च दीप्तिश्चैवैतेन ब्रह्मवर्चसं चावरुन्धे
१३.३.२३ शैशवं भवति
१३.३.२४ शिशुर्वा आङ्गिरसो मन्त्रकृतां मन्त्रकृदासीत् स पित्.ऋन् पुत्रका इत्यामन्त्रयत, तं पितरोऽब्रुवन्न धर्मं करोषि यो नः पित्.ऋन् सतः पुत्रका इत्यामन्त्रयम इति, सोऽब्रवीदहं वाव वः पितास्मि यो मन्त्रकृदस्मीति, तं देवेष्वपृच्छन्त ते देवा अबुवन्नेष वाव पिता यो मन्त्रकृदिति तद्वै स उदजयदुज्जयति शैशवेन तुष्टुवानः
१३.३.२५ गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१३.३.२६ विष्णुमत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्न यन्ति स्तोमः

१३.४.१ इन्द्रः प्रजापतिमुपाधावद्वृत्रं हनानीति तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्यं निर्माय प्रायच्छदेतेन शक्नुहीति तच्छक्वरीणां शक्वरीत्वं सीमानमभिनत् तत् सिमा मह्न्यमकरोत् तन्मह्न्या महान् घोष आसीत् तन्महानाम्न्यः
१३.४.२ दिशः पञ्चपदा दाधारर्तून् षट्पदा छन्दांसि सप्तपदा पुरुषं द्विपदा
१३.४.३ द्व्योपशाः संस्तुता भवन्ति तस्माद्द्व्योपशाः पशवः
१३.४.४ इडे अभितोऽथकारं तस्माच्छृङ्गे तीक्ष्णीयसी स्तूपात्
१३.४.५ उपक्षुद्रा गायति तस्मादुपक्षुद्राः पशवः
१३.४.६ अंसश्लिष्टा गायति तस्मादसंश्लिष्टाः पशवः
१३.४.७ नानारूपा गायति तस्मान्नानारूपाः पशवः
१३.४.८ आपो वै क्षीररसा आसंस्ते देवाः पापवसीयसादबिभयुर्यदप उपनिधाय स्तुवते पापवसीयसो विधृत्यै
१३.४.९ विधृतिः पापवसीयसो भवति य एवं वेद
१३.४.१० गायत्रमयनं भवति ब्रह्मवर्चसकामस्य स्वर्णिधनं मधुनामुष्मिंल्लोक उपतिष्ठते, त्रैष्टुभमयनं भवत्योजस्कामस्याथकारणिधन माज्येनामुष्मिंल्लोक उपतिष्ठते, जागतमयनं भवति पशुकामस्येडानिधनं पयसामुष्मिंल्लोक उपतिष्ठते
१३.४.११ अञ्जसार्यो माल्यः शक्वरीः प्रारौत्सीदिति होवाचालम्मं पारिजानतं रजनः कौणयो यद्येनाः प्रतिष्ठापं शक्ष्यतीत्येतद्वा एतासामञ्जयति प्रतिष्ठिता य आभिः क्षिप्रं प्रस्तुत्य क्षिप्रमुद्गायति
१३.४.१२ शक्वरीभिः स्तुत्वा पुरीषेण स्तुवते
१३.४.१३ पशवो वै शक्वर्यो गौष्ठः पुरीषं गोष्ठमेव तत् पशुभ्यः पर्यस्यन्ति तमेवैनान् प्रवर्त्यन्त्यविस्रंसाय
१३.४.१४ “िन्द्रो मदाय वावृध”इत्यवर्धन्त ह्येतर्हि
१३.४.१५ तासु बार्हद्गिरम्
१३.४.१६ “स्वादोरित्था विषुवत”इति विषुवान् वै पञ्चममहस्तासु रायोवाजीयम्
१३.४.७ इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तेषां त्रय उदशिष्यन्त पृथुरश्मिर्बृहद्गिरी रायोवाजस्तेऽब्रुवन् को न इमान् पुत्रान् भरिष्यतीत्यहमितीन्द्रोऽब्रवीत् तानाधिनिधाय परिचार्यं चरद्(?) वर्धयंस्तान् वर्धयित्वाब्रवीत् कुमारका वरान् वृणीध्वमिति, क्षत्रं मह्यमित्यब्रवीत् पृथुरश्मिस्तस्मा एतेन पार्थुरश्मेन क्षत्रं प्रायच्छत् क्षत्रकाम एतेन स्तुवीत क्षत्रस्यैवास्य प्रकाशो भवति, ब्रह्मवर्चसं मह्यमित्यब्रवीत् बृहाद्गिरिस्तस्मा एतेन बार्हद्गिरेण प्रायच्छत् ब्रह्मवर्चसकाम एतेन स्तुवीत ब्रह्मवर्चसी भवति, पशून्मह्यमित्यब्रवीद्रायोवाजस्तस्मा एतेन रायोवाजीयेन पशून् प्रायच्छत् पशुकाम एतेन स्तुवीत पशुमान् भवति
१३.४.१८ पार्थुरश्मं राजन्याय ब्रह्मसाम कुर्यात् बार्हद्गिरं ब्राह्मणाय रायोवाजीयं वैश्याय स्वेनैवेनांस्तद्रूपेण समर्धयति स्तोमः

१३.५.१ “साव्यंशुर्मदाय”इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
१३.५.२ “भि द्युम्नं बृहद्यश”इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोस्सह रूपमुपैत्युभौ हि वर्णावेतदहः
१३.५.३ “प्राणा शिशुर्महीनाम्”इति सिमानां रूपं मह्यो हि सिमाः स्वेनैवैनास्तद्रूपेण समर्धयति
१३.५.४ “पवस्व वाजसातय”इति वैष्णव्योऽनुष्टुभो भवन्ति
१३.५.५ यज्ञो वै विष्णुर्यदत्र नापि क्रियते तद्विष्णुना यज्ञेनापि करोति
१३.५.६ “िन्दुर्वाजी पवते गोन्योघा”इति सिमानां रूपं स्वेनैवैनास्तद्रूपेण समर्धयति
१३.५.७ त्रिष्टुभः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते
१३.५.७ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१३.५.९ सन्तनि भवति पञ्चमस्याह्नस्सन्तत्यै
१३.५.९० वाग्वा एषा प्रतता यद्द्वादशाहस्तस्या एष विषुवान् यत् पञ्चममहस्तामेवैतेन सन्तनोति
१३.५.११ च्यावनं भवति
१३.५.१२ प्रजातिर्वै च्यावनं प्रजायते बहुर्भवति च्यावनेन तुष्टुवानः
१३.५.१३ एभ्यो वै लोकेभ्यो वृष्टिरपाक्रामत् तां प्रजापतिश्च्यावनेनाच्यावयद्यदच्यावयत् तच्च्यावनस्य च्यावनत्वं च्यावयति वृष्टिं च्यावनेन तुष्टुवानः
१३.५.१४ क्रोष भवति
१३.५.१५ एतेन वा इन्द्र इन्द्रक्रोशे विश्वामित्रजमदग्नी इमा गाव इत्याक्रोशत् पशुनामवरुध्यै क्रोशं क्रियते
१३.५.१६ गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
१३.५.१७ ऋषभः शाक्वरो भवति
१३.५.१८ पशवो वै शक्वर्यः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
१३.५.१९ पार्थं भवति
१३.५.२० एतेन वै पृथुर्वैन्य उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशुनामाधिपत्यमश्नुते पार्थेन तुष्टुवानः
१३.५.२१ अष्टेडः पदस्तोभो भवति
१३.५.२२ इन्द्रो वृत्राय वज्रमुदयच्छत् तं षोडशभिर्भोगैः पर्यभुजत् स एतं पदस्तोभमपश्यत् तेनापावेष्टयदपावेष्टयन्निव गायेत् पाप्मनोऽपहत्यै
१३.५.२३ पाप्मा वाव स तमगृह्णात् तं पदस्तोभेनापाहताप पाप्मानं हते पदस्तोभेन तुष्टुवानः
१३.५.२४ पदोरुत्तममपश्यत् तत् पदस्तोभस्य पदस्तोभत्वम्
१३.५.२५ द्वादशनिधनो भवति प्रतिष्ठायै
१३.५.२६ दाशस्पत्यं भवति
१३.५.२७ यां वै गां प्रशंसन्ति दाशस्पत्येति तां प्रशंसन्त्यहरेवैतेन प्रशंसन्ति
१३.५.२८ निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१३.६.१ “ाते अग्न इधीमहि”इति
१३.६.२ अपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वायैव
१३.६.३ “िन्द्राय साम गायत”इति पूर्णाः ककुभस्तेनानशनायुको भवति
१३.६.४ पुरुषो वै ककुप्पुरुषमेव तन्मध्यतः प्रीणाति
१३.६.५ “सावि सोम इन्द्र त”इति सिमानां रूपं स्वेनैवैनांस्तद्रूपेण समर्धयति
१३.६.६ सञ्जयं भवति
१३.६.७ देवाश्च वा असुराश्च समदधत यतरे नः सञ्जयांस्तेषां नः पशवोऽसानिति ते देवा असुरान् सञ्जयेन समजयन् यत् समजयंस्तस्मात् सञ्जयं पशूनामवरुध्यै सञ्जयं क्रियते
१३.६.८ सौमित्रं भवति
१३.६.९ दीर्घजिह्वी वा इदं रक्षो यज्ञहा यज्ञियानवलिहत्यचरत् तामिन्द्रः कयाचन मायया हन्तुं नाशंसताथ ह सुमित्रः कुत्सः कल्याण आस तमब्रवीदिमामच्छा ब्रूष्वेति तामच्छा ब्रूत सैनमब्रवीन्नाहैतन्न शुश्रुव प्रियमिव तु मे हृदयस्येति तामज्ञपयत् तां संस्कृतेऽहतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम सौमित्रं काममेवैतेनावरुन्धे
१३.६.१० सुमित्रः सन् क्रूरमकरित्येनं वागभ्यवदत् तं शुगार्च्छत् स तपोऽतप्यत स एतत् सौमित्रमपश्यत् तेन शुचमपाहतापशुचं हते सौमित्रेण तुष्टुवानः
१३.६.११ महावैश्वामित्रं भवति
१३.६.१२ पाप्मानं हत्वा यदमहीयन्त तन्महावैश्वामित्रस्य महावैश्वामित्रत्वम्
१३.६.१३ हाया इहया ओहा ओहेति पशूनेवैतेन न्यौहन्त
१३.६.१४ त्रीडं भवति त्रिरात्रस्य धृत्यै
१३.६.१५ द्रवन्तीमिडामुत्तमामुपयन्ति षष्ठस्याह्नः सन्तत्यै
१३.६.१६ त्रिणव एव स्तोमो भवति प्रतिष्ठायै पुष्ट्यै त्रिवृद्वा एष पुष्ठः

१३.७.१ “ज्योतिर्यज्ञस्य पवते मधुप्रियम्”इति षष्ठस्याह्नः प्रतिपद्भवति
१३.७.२ ज्योतिर्वै गायत्री छन्दमां ज्योतिः रेवती साम्नां ज्योतिस्त्रयस्त्रिंशः स्तोमानां ज्योतिरेव तत् सम्यक्संदधास्यपि ह पुत्रस्य पुत्रो ज्योतिष्मान् भवति
१३.७.३ “मधु प्रियम्”इति पशवो वै रेवत्यो मधुप्रियं तदेव तदभिवदति
१३.७.४ “मदिन्तमो मत्सर इन्द्रियो रस”इतीन्द्रियं वै वीर्यं रसः पशवस्तदेव तदभिवदति
१३.७.५ “मृक्षत प्रवाजिन”इत्यनुरूपो भवति
१३.७.६ सृष्टानीव ह्येतर्ह्यहानि
१३.७.७ पूर्वमु चैव तद्रूपमपरेण रूपेणानुवदति यत् पूर्वं रूपमपरेण रूपेणानुवदति तदनुरूपस्यानुरूपत्वमनुरूप एनं पुत्रो जायते य एवं वेद स्तोत्रीयानुरूपौ तृचौ भवतः प्राणापानानामवरुध्यै
१३.७.८ दशर्चौ भवतो दशाक्षरा विराट्वैराजमन्नमन्नाद्यस्यावरुध्यै
१३.७.९ उत्तरो दशर्चो भवति सोदर्क इन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय
१३.७.१० यत्र वे देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन्
१३.७.११ चतुरृचो भवति प्रतिष्ठायै
१३.७.१२ ध्वस्रे वै पुरुषन्ती तरन्तपुरुमीढाभ्यां वैतदश्विभ्यां सहस्राण्यदित्सतां तावैक्षेतां कथं नाविदमात्तमप्रतिगृहीतं स्यादिति तौ प्रत्येतां ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे (दप्रहे) तरत् स मन्दी धावतीति ततो वै तत् तयोरात्तमप्रतिगृहीतमभवत्
१३.७.१३ आत्तमस्याप्रतिगृहीतं भवति य एवं वेद
१३.७.१४ विनाराशंसो भवत्युभयस्यान्नाद्यस्यावरुध्यै मानुषस्य च दैवस्य च
१३.७.१५ तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१३.७.१६ त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः
१३.८.१ “िमं स्तोममर्हते जातवेदस”इत्याग्नेयमाज्यं भवति सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन्
१३.८.२ “प्रतिवां सूर उदित”इति सूरवन्मैत्रावरुणम्
१३.८.३ अन्तो वै सूरोऽन्त एतत् षष्ठमहरह्नामन्त एव तदन्ते स्तुवते प्रतिष्ठायै
१३.८.४ “भिन्धि विश्वा अपद्विष”इत्यैन्द्रं सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन्
१३.८.५ “यज्ञस्य हि स्थ ऋत्विज”इत्यैन्द्राग्नं सोदर्कमिन्द्रियस्य वीर्यस्य रसस्यानतिक्षाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन् स्तोमः

१३.९.१ “िन्द्रायेन्दो मरुत्वत”इति मरुत्वत्यो गायत्र्यो भवन्ति
१३.९.२ मरुत्वद्धि माध्यन्दिनं सवनम्
१३.९.३ “मृज्यमानः सुहस्त्य”इति सिमानां रूपम्
१३.९.४ समानं वै सिमानां रूपं रेवतीनां च सिमाभ्यो ह्यधिरेवत्यः प्रजायन्ते
१३.९.५ “ेतमु त्यं दश क्षिप”इत्यादित्या आदित्या वा इमाः प्रजास्तासामेव मध्यतः प्रतितिष्ठति
१३.९.६ गायत्र्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
१३.९.७ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१३.९.८ इषोवृधीयं भवति
१३.९.९ पशवो वा इषोवृधीयं पशूनामवरुध्या इषे वै पञ्चममहर्वृधे षष्ठमवर्धन्त ह्येतर्हि यजमानमेवैतेन वर्धयन्ति
१३.९.१० क्रौञ्चं भवति
१३.९.११ क्रुङ्ङेष्यमहरविन्ददेष्यमिव वै षष्ठमहरेवैतेन विन्दन्ति
१३.९.१२ वाजदावर्यो भवन्ति
१३.९.१३ अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै यदा हि वा अन्नमथ गौरथाश्वोऽथ पुरुषो वाजी
१३.९.१४ रेवत्यो भवन्ति प्रतिष्ठायै
१३.९.१५ षण्णिधनी षड्रात्रस्य धृत्यै
१३.९.१६ आपो वै रेवत्यस्ता यत् पृष्ठं कुर्युरपशुर्यजमानः स्यात् पशूनस्य निर्दहेयुर्यत्र वा आपो विवर्तन्ते तदोषधयो जायन्तेऽथ यत्रावतिष्ठन्ते निर्मृतुकास्तत्र भवन्ति तस्मात् पवमाने कुर्वन्ति पराचा हि पवमानेन स्तुवते
१३.९.१७ मेथी वा इषोवृधीयं रज्जुः क्रौञ्चं वत्सो वाजदावर्यो रेवत्यो मातरो यदेतान्येवं सामानि क्रियन्त एवमेव प्रत्तां दुग्धे
१३.९.१८ औक्ष्णोरन्ध्रे भवतः
१३.९.१९ उक्ष्णोरन्ध्रो वा एताभ्यां काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
१३.९.२० वाजजिद्भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये षष्ठमहरागच्छन्ति
१३.९.२१ अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै
१३.९.२२ वरुणसाम भवति
१३.९.२३ एतेन वै वरुणो राज्यमाधिपत्यमगच्छद्यशोऽभवद्राज्यमाधिपत्यं गच्छति यशो भवति वरुणसाम्ना तुष्टुवानः
१३.९.२४ अङ्गिरसां गोष्ठो भवति
१३.९.२५ पशवो वै रेवत्यो गौष्ठमेव तत् पशुभ्यः पर्यस्यन्ति तमेवैनान् प्रवर्तयन्त्यविस्रंसाय
१३.९.२६ इहवद्वामदेव्यं भवति
१३.९.२७ एतेन वै वामदेवोऽन्नस्य पुरोधामगच्छदन्नं वै ब्रह्मणः पुरोधा अन्नस्यावरुध्यै
१३.९.२८ गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्ञ्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१३.९.२९ मरुत्वत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्न यन्ति स्तोमः

१३.१०.१ यातयामान्यन्यानि छन्दांस्ययातयामा गायत्री तस्माद्गायत्रीषु स्तुवन्ति
१३.१०.२ “सुरूप कृत्नुमूतय”इत्यभ्यारम्भेण षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठमहरारभन्ते सन्तत्यै
१३.१०.३ “ुभे यदिन्द्र रोदसी”इति षट्पदाः षष्ठस्याह्नो रूपं तेन षष्ठमहरारभन्ते सन्तत्यै
१३.१०.४ रेवतीषु वारवन्तीयं पृष्ठं भवति
१३.१०.५ अपां वा एष रसो यद्रेवत्यो रेवतीनां रसो यद्वारवन्तीयं सरसा एव तद्रेवतीः प्रयुङ्क्ते यद्वारवन्तीयेन पृष्ठेन स्तुवते
१३.१०.६ रेवद्वा एतद्रैवत्यं यद्वारवन्तीयमस्य रेवान् रेवात्या जायते
१३.१०.७ रेवान् भवति य एवं वेद
१३.१०.८ केशिने वा एतद्दाल्भ्याय सामाविरभवत् तदेनमब्रवीदगातारो मा गायन्ति मा मयोद्गासिषुरिति कथं त आगा भगव इत्यब्रवीदागेयमेवास्म्यागायन्निव गायेत् प्रतिष्ठायै तदलम्मं पारिजानतं पश्चादक्षं शयानमेतामागां गायन्तमजानात् तमब्रवीत् पुरस्त्वा दधा इति तमब्रुवन् को न्वयं कस्मा अलमित्यलं नु वै मह्यमिति तदलम्मस्यालम्मत्वम्
१३.१०.९ इहेहेति गायेत् प्रतिष्ठायै
१३.१०.११ ऋषभो रैवतो भवति
१३.१०.११ पशवो वै रैवत्यः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
१३.१०.१२ श्येनो भवति
१३.१०.१३ श्येनो ह वै पूर्वप्रेतानि वयांस्याप्नोति पूर्वप्रेतानीव वै पूर्वाण्यहानि तेषामाप्त्यै श्येनः क्रियते
१३.१०.१४ श्येनो वा एतदहः सम्पारयितुमर्हति स हि वयसामाशिष्ठस्तस्यानपहननाय सम्पारणायैतत् क्रियतेऽन्तो हि षष्ठं चाहः सप्तमं च
१३.१०.१५ ब्रह्मवादिनो वदन्ति यद्बृहदायतनानि पृष्ठान्यथैते द्वे गायत्र्यौ द्वे जगत्यौ क्व तर्हि बृहत्यो भवन्तीति
१३.१०.१६ ये द्वे जगत्योः पदे ते गायत्र्या उपसम्पद्येते तत् सर्वा बृहत्यो भवन्त्यायतने पृष्ठानि यातयत्यायतनवान् भवति
१३.१०.१७ षट्पदासु स्तुवन्ति षड्रात्रस्य धृत्यै
१३.१०.१८ सप्तपदया यजति सप्तमस्याह्नः सन्तत्यै स्तोमः

१३.११.१ “परिस्वानो गिरिष्ठा”इति परिवत्यो गायत्र्यो भवन्ति सर्वस्य पर्याप्त्यै
१३.११.२ “ससुन्वेयो वसूनाम्”इति पशवो वै वसु पशूनामवरुध्यै
१३.११.३ “तं वस्सखायो मदाय”इति वालखिल्याः
१३.११.४ वालखिल्यावेतौ तृचौ षष्ठे चाहनि सप्तमे च
१३.११.५ यदेतौ वालखिल्यौ तृचौ भवतोऽह्नोरेव व्यतिषङ्गयाव्यतिस्रंसाय सन्तत्यै
१३.११.६ “सोमाः पवन्त इन्दव”इत्यनुष्टुभो निभसदो भवन्ति प्रतिष्ठायै
१३.११.७ “या पवा पवस्वैना वसूनि”इति त्रिष्टुभस्सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते
१३.११.८ गायत्रं भवति यदेव गायत्रस्य ब्रह्माणम्
१३.११.९ वैदन्वातानि भवन्ति
१३.११.१० विदन्वान् वै भार्गव इन्द्रस्य प्रत्यहंस्तं शुगार्च्छत् स तपोऽतप्यत स एतानि वैदन्वतान्यपश्यत् तैः शुचमपाहतापशुचं हते वैदन्वतैस्तुष्टुवानः
१३.११.११ भरद्वाजस्य लोमत भवति
१३.११.१२ पशवो वै लोम पशूनामवरुध्यै
१३.११.१३ तदु दीर्घमित्याहुरायुर्वै दीर्घमायुषोऽवरुध्यै
१३.११.१४ कार्णश्रवसं भवति शृण्वन्ति तुष्टुवानम्
१३.११.१५ कर्णश्रवा वा एतदाङिगरसः पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत यदेतत् साम भवति पशूनां पुष्ट्यै
१३.११.१६ गौरीवितं भवति गौरिवितस्य ब्राह्मणम्
१३.११.१७ मधुश्च्युन्निधनं भवति
१३.११.१८ परमस्यान्नाद्यस्यावरुध्यै परमं वा एतदन्नाद्य यन्मधु
१३.११.१९ प्रजापतेर्वा एतौ स्तनौ यद्घृतश्च्युन्निधनं च मधुश्च्युन्निधनं च यज्ञो वै प्रजापतिस्तमेताभ्यां दुग्धे यं कामं कामयते तं दुग्धे
१३.११.२० क्रौञ्चे भवतः
१३.११.२२ श्नौष्ठं भवति
१३.११.२३ श्नुष्टिर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गात् लोकान्न च्यवते तुष्टुवानः
१३.११.२४ अग्नेर्वा एतद्वैश्वानरं साम दीदिहीति निधनमुपयन्ति दीदा एव ह्यग्निर्वैश्वानरः
१३.११.२५ निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१३.१२.१ ब्रह्मवादिनो वदन्ति प्रायणतो द्विपदाः कार्या उदयनता३ इति
१३.१२.२ उदयनत एव कार्याः पुरुषो वै द्विपदाः प्रतिष्ठायै
१३.१२.३ वाचा वै सर्वं यज्ञं तन्वते तस्मात् सर्वां वाचं पुरुषो वदति सर्वा ह्यस्मिन् संस्तुता प्रतितिष्ठति
१३.१२.४ गूर्दो भवति
१३.१२.५ गोपायनानां वै सत्त्रमासीनानां किरातकुल्यावसुरमाये अन्तःपरिध्यसून् प्राकिरतां तेऽऽग्रे त्वन्नो अन्तम”इत्यग्निमुपासीदंस्तेनासूनस्पृण्वंस्तद्वाव ते तर्ह्यकामयन्त कामसनि साम गूर्दः काममेवैतेनावरुन्धे
१३.१२.६ गोतमस्य भन्द्र भवति
१३.१२.७ आशिषमेवास्मा एतेनाशास्ते साम हि सत्याशीः
१३.१२.८ एतेन वै गोतमो जेमानं महिमानमगच्छत् तस्माद्ये च पराञ्चो गोतमाद्ये चार्वाञ्चस्त उभये गोतमा ऋषयो ब्रुवते
१३.१२.९ उद्वंशपुत्रा भवति
१३.१२.१० यद्वा उद्वंशीयं तदुद्वंशपुत्रः
१३.१२.११ अर्धेडामतिस्वरति
१३.१२.१२ तस्मादूधर्धारा अति चरन्तीडायामन्ततः पशुषु प्रतितिष्ठति
१३.१२.१३ कॢप्त उपरिष्टादृक्साम च विमुच्येते अभ्यु स्वरेण सप्तममहः स्वरति सन्तत्यै
१३.१२.१४ ऊहुषीव वा एतर्हि वाग्यदा षडहः सन्तिष्ठते न बहु वदेन्नान्यं पृच्छेन्नान्यस्मै प्रब्रूयात्
१३.१२.१५ मधु वाशयेद्घृतं वा यथेहुषो बहं प्रत्यनक्ति तथा तत्
१३.१२.१६ त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः

१४.१.१ आप्यन्ते वा एतत् स्तोमाश्छन्दांसि यत् षडह आप्यते
१४.१.२ आप्ते षडहे छन्दांसि स्तोमान् कृत्वा प्रयन्ति
१४.१.३ “प्र काव्यमुशनेवर ब्रुवाण”इति गायत्र्या रूपेण प्रयन्ति
१४.१.४ इयं वै गायत्र्यस्यामेव प्रतिष्ठाय प्रयन्ति
१४.१.५ त्रिष्टुप्प्रतिपद्भवति
१४.१.६ ओजो वीर्यं त्रिष्टुबोजस्येव वीर्ये पराक्रम्य प्रयन्ति
१४.१.७ स्तोत्रीयस्तृचो भवति प्राणापानानामवरुध्यै
१४.१.८ हरिवत्यो भवन्ति छन्दोमानामयातयामतायै
१४.१.९ द्वादशर्चौ भवतः
१४.१.१० द्वादश मासाः संवत्सरः संवत्सरमेव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै
१४.१.११ चतुर्विंशतिर्भवन्ति चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सरमेव तत्पूर्वस्मै षडहाय प्रत्युद्यच्छति सवीवधतायै
१४.१.१२ दृत ऐन्द्रोत इति होवाचाभिप्रतारी काक्षसेनिर्ये महावृक्षस्याग्रं गच्छन्ति क ते ततो भवन्ति प्रराजन् पक्षिणः पतन्त्यवापक्षाः पद्यन्ते
१४.१.१३ ये वै विद्वांसस्ते पक्षिणो येऽविद्वांसस्तेऽपक्षास्त्रिवृत् पञ्चदशावेव स्तोमौ पक्षौ कृत्वा स्वर्ग लोकं प्रयन्ति
१४.१.१४ चतुर्विंश एव स्तोमो भवति तेज से ब्रह्मवर्चसाय

१४.२.१ “मूर्धानं दिवो अरतिं पृथिव्या”इत्याग्रेयमाज्यं भवति
१४.२.२ मूर्धा वा एष दिवो यस्तृतीयस्त्रिरात्रः
१४.२.३ “वैश्वानरमृत आजातमग्निम्”इति वैश्वानर इति वा अग्नेः प्रियं धाम प्रियेणैवैनं तद्धाम्ना परोक्षमुपशिक्षति
१४.२.४ “प्र वो मित्राय गायत”इति द्यावापृथिवीयं मैत्रावरुणं द्यावापृथिवी वै मित्रावरुणयोः प्रियं धाम प्रियेणैवैनौ तद्धाम्ना परोक्षमुपशिक्षति
१४.२.५ “िन्द्रायाहि चित्रभानव्”इत्यार्भवमैन्द्रमृभवो वा इन्द्रस्य प्रियं धाम प्रियेणैवैनं तद्धाम्ना परोक्षमुपशिक्षति
१४.२.६ “तमीडिष्व यो अर्चिषा”इत्यनिरुक्तमैन्द्राग्नं देवतानामनभिधर्षायोत्तमार्धेऽनिराह देवतानामप्रणाशाय स्तोमः

१४.३.१ “वृषा पवस्व धारय”इति गायत्री भवत्यह्नो धृत्यै
१४.३.२ वृषण्वत्यस्त्रिष्टुभो रूपेण त्रैष्टुभं ह्येतदहः
१४.३.३ “पुनानः सोम धारय”इति धृत्यै
१४.३.४ “प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतम्”इति प्रवत्यो भवन्ति प्रणिनीषेण्यमिव ह्येतदहः
१४.३.५ जगत्यः सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
१४.३.७ सन्तनि भवति सप्तमस्याह्नः सन्तत्यै
१४.३.८ यथा वै व्योकसौ विप्रद्रवत एवमेते षष्ठं चाहः सप्तमं च विप्रद्रवतस्तौ यथा समानीय संयुज्यादेवमेवैते एतेन साम्ना संयुनक्ति
१४.३.१० यज्ञो वै देवेभ्योऽपाक्रामत् स सुपर्णरूपं कृत्वाचरत् तं देवा एतैः सामभिरारभन्त यज्ञ इव वा एष यच्छन्दोमा यज्ञस्यैवैष आरम्भः
१४.३.११ रोहितकूलीयं भवत्याजिजित्यायै
१४.३.१२ एतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिमजयत्
१४.३.१३ विश्वामित्रो भरतानां मनस्सत्यायात् सोऽदन्तिभिर्नाम जनतयांशं प्रास्यते मां मां यूयं अस्तिकां जयाथेमानि मह्यं यूयं पूरयाथ यदीमाविदं रोहितावश्माचितं कूलमुद्वहात इति स एते सामनी अपश्यत् ताभ्यां युक्त्वा प्रासेधत् स उद्जयत्
१४.३.१४ आजिर्वा एष प्रततो यद्द्वादशाहस्तस्यैते उज्जित्यै
१४.३.१५ कण्वरथन्तरं भवति तेजो वा एतद्रथन्तरस्य यत् कण्वरथन्तरम्
१४.३.१६ सरसमेव तद्रथन्तरं प्रयुङ्क्ते यत् कण्वरथन्तरेण सप्तमेऽहनि स्तुवते
१४.३.१७ जामि द्वादशाहस्यास्तीति ह स्माहोग्रदेवो राजनिर्बार्हतं षष्ठमहर्बार्हतं सप्तमं यत् कण्वरथन्तरं भवति तेनाजामि
१४.३.१८ गौङ्गवं भवति
१४.३.१९ अग्निरकामयतान्नादः स्यामिति स तपोऽतप्यत स एतद्गौङ्गवमपश्यत् तेनान्नादोऽभवद्यदन्नं वित्वा गर्दद्यदगङ्गूयत् तद्गौङ्गवस्य गौङ्गवत्वमन्नाद्यस्यावरुध्यै गौङ्गवं कियते
१४.३.२० यत् साम देवता प्रशंयति तेन यजमानाः सत्याशिषः सत्याशिषोऽसामेति वै सत्त्रमासते सत्याशिष एव भवन्ति
१४.३.२१ आयास्यं भवति तिरश्चीननिधनं प्रतिष्ठायै
१४.३.२२ अयास्यो वा आङ्गिरस आदित्यानां दीक्षितानामन्नमाश्नात् स व्यभ्रंशत स एतान्यायास्यान्यपश्यत् तैरात्मानं समश्रीणाद्विभ्रष्टमिव वै सप्तममहर्यदेतत् साम भवत्यहरेव तेन संश्रीणाति
१४.३.२३ प्रवद्भर्गवं भवति

१४.४.१ “वयं घत्वा सुतावन्त”इति बृहत्यो वर्षीयश्छन्द आक्रमतेऽनपभ्रंशाय
१४.४.२ “नकिष्टं कर्मणा नशद्”इति बृहत्यः सत्योऽभ्यारम्भेण जगत्यः
१४.४.३ अपभ्रंश इव वा एष यज्ज्यायसः स्तोमात् कनीयांसं स्तोममुपयन्ति यदेता अभ्यारम्भेण जगत्यो भवन्त्यह्न एव प्रत्युत्तम्भाय
१४.४.४ अभिनिधनं काण्वं भवित
१४.४.५ अभिनिधनेन वा इन्द्रो वृत्राय वज्रं प्राहरत् तमस्तृणुत स्तृणुते भ्रातृव्यमभिनिधनेन तुष्टुवानः
१४.४.७ वैखानसा वा ऋषय इन्द्रस्य प्रिया आसंस्तान् रहस्युर्देवमलिम्लुड्मुनिमरणेऽमारयत् तं देवा अब्रुवन् क्व तर्षयो (?)ऽभूवान्निति तान् प्रैषमैच्छत् तान्नाविन्दत् स इमान् लोकानेकधारेणापुनात् तान्मुनिमरणेऽविन्दत् तानेतेन साम्ना समैरयत् तद्वाव स तर्ह्यकामयत कामसनि साम वैखानसं काममेवैतेनावरुन्धे स्तोमः

१४.५.१ “यस्ते मदो वरेण्य”इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
१४.५.२ “ेषस्य धारया सुत”इति ककुभः सत्योऽभ्यारम्भेण त्रिष्टुभः
१४.५.३ अपभ्रंश इव वा एष यत् ज्यायसः स्तोमात् कनीयांसं स्तोममुपयन्ति यदेता अभ्यारम्भेण त्रिष्टुभो भवन्त्यह्न एव प्रत्युत्तम्भाय
१४.५.४ “सखाय आनिषीदत”इति वालखिल्या वालखिल्यावेतौ तृचौ षष्ठे चाहनि सप्तमे च यदेतौ वाखिल्यौ तृचौ भवतोऽह्नोरेव व्यतिषङ्गायाव्यवस्रंसाय सन्तत्यै
१४.५.५ “पुरोजिती वो अन्धस”इति विराडन्नं विराडन्नाद्यस्यावरुध्यै
१४.५.६ “प्र वाज्यक्षार्”इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिः
१४.५.७ अथो एतद्(?) ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते
१४.५.८ ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्
१४.५.९ “ये सोमासः परावति”इति परावतमिव वा एतर्हि यज्ञो गतस्तमेवैतेनान्विच्छन्ति
१४.५.१२ दक्षणिधनं भवति
१४.५.१३ प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टा अबला इवाच्छदयंस्तास्वेतेन साम्ना दक्षायेत्योजो वीर्यमदधाद्यदेतत् साम भवत्योज एव वीर्यमात्मन् धत्ते
१४.५.१४ शार्करं भवति
१४.५.१५ इन्द्रं सर्वाणि भूतान्यस्तुवन् स शर्करं शिशुमारर्षिमुपेत्याब्रवीत् स्तुहि मेति सोऽपः प्रस्कन्दन्नब्रवीदेतावतोऽहं त्वां स्तुयामिति तस्मादपां वेगमवेजयत् स हीन इवामन्यत स एतत् सामापश्यत् तेनापोऽनुसमाश्नुत तद्वाव स तर्ह्यकामयत कामसनि साम शार्करं काममेवैतेनावरुन्धे
१४.५.१३ प्लवो भवति
१४.५.१७ समुद्रं वा एते प्रस्नान्तीत्याहुर्ये द्वादशाहमुपयन्तीति यो वा अप्लवः समुद्रं प्ररुनाति न स तत उदेति यत प्लवो भवति स्वर्गस्य लोकस्य समष्ट्यै
१४.५.१८ अतिविश्वानि दुरिता तरेमेति यदेवैषां दुष्टुतं दुश्शस्तं तदेतेन तरन्ति
१४.५.१९ एकादशाक्षरणिधनो भवत्येकादशाक्षरा त्रिष्टुबोजीवीर्यं त्रिष्टुबोजस्येव वीर्ये प्रतितिष्ठति
१४.५.२० गौरीवितं भवति यदेव गौरीवितस्य ब्रह्मणम्
१४.५.२१ कार्तयशं भवति
१४.५.२२ हीति निधनमुपयन्ति पाप्मनोऽपहत्यै
१४.५.२३ अप पाप्मानं हते कार्तयशेन तुष्टुवानः
१४.५.२४ साहैविषं भवति
१४.५.२५ सुहविर्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
१४.५.२६ ब्रह्मावादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषश्छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानामयातयामतायै
१४.५.२७ जराबोधीयं भवत्यन्नाद्यस्यावरुध्यै
१४.५.२८ अन्नं वै जराबोधीयं मुखं गायत्री मुख एव तदन्नं धत्तेऽन्नमत्ति
१४.५.२९ अन्नादो भवति य एवं वेद
१४.५.३० गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१४.५.३१ इडान्ताः पावमाना भवन्ति पशवो वा इडाः पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति स्तोमः

१४.६.१ “ा ते वत्सो मनो यमद्”इत्यपच्छिदिव वा एतद्यज्ञकाण्डं यदुक्थानि यदेति सलोमत्वायैव
१४.६.२ “त्वं न इन्द्राभर”इति पूर्णाः ककुभः
१४.६.३ अपभ्रंश इव वा एष यज्जयायसः स्तोमात् कनीयांसं स्तोममुपयन्ति यदेताः पूर्णाः ककुभो भवन्त्यनपभ्रंशाय
१४.६.६ वत्सश्च वै मेधातिथिश्च काण्वावास्तां तं वत्सं मेधातिथिराक्रोशदब्राह्मणोऽसि शूद्रापुत्र इति सोऽब्रवीदृतेनाग्निं व्ययाव यतरो नौ ब्रह्मीयानिति वात्सेन वत्सो व्यैन्मैधातिथेन मेधातिथिस्तस्य न लोम च नौषत् तद्वाव स तर्ह्यकामयत कामसनि साम वात्सं काममेवैतेनावरुन्धे
१४.६.७ सौश्रवसं भवति
१४.६.८ उपगुर्वै सौश्रवसः कुत्सस्यौरवस्य पुरोहित आसीत् स कुत्सः पर्यशपद्य इन्द्रं यजाता इति स इन्द्रः सुश्रवसमुपेत्याब्रवीद्यजस्व माशनायामिवा इति तमयजत स इन्द्रः पुरोडाशस्तः कुत्समुपेत्याब्रवीदयक्षत मा क्व ते परिशप्तमभूदिति कस्त्वा यष्टेति सुश्रवा इति स कुत्स औरव उपागाः सौश्रवसस्योद्गायत औदुम्बर्या शिरोऽच्छिनत् स शुश्रवा इन्द्रमब्रवीत् त्वत्तनाद्वै मेदमीदृगुपागादिति तमेतेन साम्ना समैरयत् तद्वाव स तर्ह्यकामयत कामसनि साम सौश्रवसं काममेवैतेनावरुन्धे
१४.६.९ वीङ्कं भवति
१४.६.१० च्यवनो वै दाधीचोऽश्विनोः प्रिय आसीत् सोऽजीर्यत् तमेतेन साम्नाप्सु व्यैङ्कयतां तं पुनर्युवानमकुरुतां तद्वाव तौ तर्ह्यकामयेतां कामसनि साम वीङ्कं काममेवैतेनावरुन्धे
१४.६.११ चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय

१४.७.१ “शिशुं जज्ञानं हर्यतं मृजन्ति”इत्यष्टमस्याह्नः प्रतिद्भवति
१४.७.२ शिशुरिव वा एष सप्तमेनाह्ना जायते तमष्टमेनाह्ना मृजन्ति
१४.७.३ स्तोत्रीयस्तृचो भवति प्राणापानानामवरुध्यै
१४.७.४ हरिवत्यो भवन्ति छन्दोमानामयातयामतायै
१४.७.५ नवर्चा भवन्ति
१४.७.७ पञ्चर्चो भवति पञ्चपदा पङ्क्तिः पाङ्क्तमन्नमन्नाद्यस्यावरुध्यै
१४.७.८ बाणवान् भवत्यन्तो वै बाणोऽन्त एतदष्टममह्नामन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
१४.७.९ त्रयस्तृचा भवन्ति प्राणापानानां सन्तत्यै

१४.८.१ “ग्निं वो देवमग्निभिः सजोषा”इत्याग्नेयमाज्यं भवति
१४.८.२ अग्निभिरित्येव पूर्वाण्यहानि अभि समिद्धान्यष्टममहरभिसमिन्धे
१४.८.३ “मित्रं वयं हवामह”इति बार्हतं मैत्रावरुणम्
१४.८.४ उग्रगाधमिव वा एतच्छन्दोमास्तद्यथात उग्रगाधे व्यातिषज्य गाहन्त एवमेवैतद्रूपे व्यतिषजति छन्दोमानामसंव्याथाय
१४.८.५ “तमिन्द्रं वाजयामसि”इत्यैन्द्रम्
१४.८.६ अष्टमेन वै देवा अह्नेन्द्रमवाजयन्नवमेन पाप्मानमघ्नन्नहरेवैतेन वाजयन्ति
१४.८.७ “िन्द्रे अग्ना नमो बृहद्”इति बार्हतमैन्द्राग्नम्
१४.८.८ उग्रगाधमिव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवमेवैतद्रपे व्यतिषजति छन्दोमानामसंव्याथाय स्तोमः

१४.९.१ “ध्वर्यो अद्रिभिः सुतम्”इति गायत्री भवत्यह्नो धृत्यै
१४.९.२ गायत्र्यः सत्यस्त्रिष्टुभोरूपेण त्रैष्टुभं ह्येतदहः
१४.९.३ “भि सोमास आयव”इत्यभीति रथन्तरस्य रूपं बृहदिति बृहत उभयोः सह रूपमुपैत्युभौ हि वर्णावेतदहः
१४.९.४ “धर्ता दिवः पवते कृत्व्यो रस”इत्यधृत इव वा एषस्त्र्यहो यद्धर्तेति धृत्या एव
१४.९.५ जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभो लोके क्रियन्ते
१४.९.६ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१४.९.७ वैरूपं भवति
१४.९.८ पशवो वै वैरूपं पशूनामवरुध्यै विरूपः संवत्सरो विरूपमन्नमन्नाद्यस्यावरुध्यै
१४.९.९ आशु भार्गवं भवति
१४.९.१० अहर्वा एतदव्लीयत तद्देवा आशुनाभ्यधिन्वंस्तदाशोराशुत्वम्
१४.९.११ मार्गीयवं भवति
१४.९.१२ देवं वा एतं मृगयुरिति वदन्त्येतेन वै स उभयेषां पशूनामाधिपत्यमाश्नुतोभयेषां पशूनामाधिपत्यमश्नुते मार्गीयवेण तुष्टुवानः
१४.९.१३ सौमित्रं भवति
१४.९.१४ यदेव सौमित्रस्य ब्राह्मणम्
१४.९.१५ ऐटतं भवति
१४.९.१६ इटन् वा एतेन काव्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
१४.९.१७ साकमश्वं भवति यदेव साकमश्वस्य ब्राह्मणम्
१४.९.१८ तदु धुरां सामेत्याहुः प्राणा वै धुरः प्राणानामवरुध्यै
१४.९.१९ विलम्बसौपर्णं भवति
१४.९.२० आत्मा वा एष सौपर्णानां यदष्टमेऽहनि पक्षावेतावभितो भवतो ये सप्तमनवमयोर्वीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा पक्षौ विलम्बते तस्माद्विलम्बसौपर्णम्
१४.९.२२ स्वर्गस्य लोकस्य समष्ट्यै सौपर्णं क्रियते
१४.९.२३ द्वितीयं ह्येतद्रूपं यच्छन्दोमाः
१४.९.२४ पशवो वै वामदेव्यं पशवश्छन्दोमाः पशुष्वेव तत् पशून् संदधाति
१४.९.२५ गायत्रपार्श्वं भवति
१४.९.२६ अहर्वा एतदव्लीयत तद्देवा गायत्रपार्श्वेन समतन्वंस्तस्माद्गायत्रपार्श्वम्
१४.९.२७ त्रिरात्रो यद्व्यशीर्यत तमेतैः सामभिरभिषज्यन् गायत्रपार्श्वेनोपायच्छन् सन्तनिना समतन्वन् संकृतिना समस्कुर्वन् प्रतिष्ठितौ पूर्वौ त्रिरात्रावप्रतिष्ठित एष यदेतान्येव सामानि क्रियन्त एतस्यैव प्रतिष्ठित्यै
१४.९.२८ पौरुहन्मनं भवति
१४.९.२९ पुरुहन्मा वा एतेन वैखानसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
१४.९.३० अभ्याघात्यं भवत्यभ्याघात्यसामानो हि छन्दोमाः
१४.९.३१ द्वैगतं भवति
१४.९.३२ द्विगद्वा एतेन भार्गवो द्विः स्वर्गं लोकमगच्छदागत्य पुनरगच्छत् द्वयोः कामयोरवरुध्यै द्वैगतं क्रियते
१४.९.३३ हारायणं भवति
१४.९.३४ इन्द्रस्तेजस्कामो हरस्कामस्तपोऽतप्यत, स एतद्धारायणमपश्यत् तेन तेजो हरोऽवारुन्ध तेजस्वी हरस्वी भवति हारायणेन तुष्तुवानः
१४.९.३५ अछिद्रं भवति
१४.९.६६ यद्वा एतस्याह्नश्छिद्रमासीत् तद्देवा अच्छिद्रेणाप्यौहंस्तदच्छिद्रस्याच्छिद्रत्वम्
१४.९.३७ बार्हदुक्थं भवति
१४.९.३८ बृहदुक्थो वा एतेन वाम्नेयोऽन्नस्य पुरोधामगच्छदन्नं वै ब्रह्मणः पुरोधामन्नाद्यस्यावरुध्यै
१४.९.३९ उद्वद्भार्गवं भवति
१४.९.४० प्रवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्
१४.९.४१ निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१४.१०.१ “क ईं वेद सुते सचा”इति सतोबृहत्यः
१४.१०.२ अपभ्रंश इव वा एष यस्सप्तमेऽहनि सतोबृहत्यो भवन्ति नाष्टमे तस्मादष्टमे कार्या अनपभ्रंशाय
१४.१०.३ तदाहुः शिथिलमिव वा एतच्छन्दो यत् सतोबृहातीत्येषा वै प्रतिष्ठिता बृहती या पुनःपदा यदिन्द्र प्रागपागुदगिति दिशां विमर्शः प्रतिष्टित्यै
१४.१०.४ तासु नैपातिथं ब्रह्मसाम
१४.१०.५ सामार्षेयवत् स्वर्गाय युज्यते स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
१४.१०.६ “ुभयं शृणवच्च न”इति
१४.१०.७ यच्च पृष्ठानि यानि चैतान्यहानि तेषामुभयेषां सन्तत्यै
१४.१०.८ तासु वैयश्वम्
१४.१०.९ व्यश्वो वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्या एतत् पृष्ठानामन्ततः क्रियते स्तोमः

१४.११.१ “पवस्व देव आयुषगिन्द्रं गच्छतु ते मद”इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
१४.११.३ “प्राणा शिशुर्महीनाम्”इति प्राणवत्यो भवन्ति प्राणानेव तद्यजमाने दधाति
१४.११.४ “भी नो वाजसातमम्”इत्यभीति रथन्तरस्य रूपं राथन्तरं ह्येतदहः
१४.११.५ “पवस्व सोम महान् समुद्र”इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिरथो एतद्ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्
१४.११.६ “हिन्वन्ति सूरमुस्रय”इति गायत्र्यः सत्यो जगत्यो रूपेण तस्माज्जगतीनां लोके क्रियन्ते
१४.११.७ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१४.११.८ स्वाशिरामर्को भवति
१४.११.९ अन्नं वा अर्कोऽन्नाद्यस्यावरुध्यै प्राणा वै स्वाशिरः प्राणानामरुध्यै
१४.११.९० सुरूपं भवति
१४.११.१२ पशवो वै सुरूपं पशूनामवरुध्यै
१४.११.१२ भासं भवति भाति तुष्टुवानः
१४.११.१३ पदनिधनं राथन्तरं ह्येतदहः
१४.११.१४ स्वर्भानुर्वा आसुर आदित्यं तमसाविध्यत् स न व्यरोचत तस्यात्रिर्भासेन तमोऽपाहन् स व्यरोचत यद्वै तद्भा अभवत् तद्भासस्य भासत्वम्
१४.११.१५ तम इव वा एतान्यहानि यच्छन्दोमास्तेभ्य एतेन साम्ना विवासयति
१४.११.१६ काक्षीवतं भवति
१४.११.१७ काक्षीवान् वा एतेनौशिजः प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवति काक्षीवतेन तुष्टुवानः
१४.११.१८ आसितं भवति
१४.११.१९ असितो वा एतेन दैवलस्त्रयाणां लोकानां दृष्टिमपश्यत् त्रयाणां कामानामवरुध्या आसितं क्रियते
१४.११.२० ऐषिरं भवति
१४.११.२२ त्रैतं भवति प्रतिष्ठायै
१४.११.२३ पदनिधनं राथन्तरं राथन्तरं ह्येतदहः
१४.११.२४ नाथविन्दु साम विन्दते नाथं नाथविन्दून्येतान्यहानि यत् छन्दोमा नाथमेवैतैर्विन्दते
१४.११.२५ गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
१४.११.२६ कौत्सं भवति
१४.११.२७ एतेन वै कुत्सोऽन्धसो विपानमपश्यत् स ह स्म वै सुरादृतिनोपवसथं धारयत्युभयस्यान्नाद्यस्यावरुध्यै कौत्सं क्रियते
१४.११.२८ शुद्धाशुद्धीयं भवति
१४.११.२९ इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् तमश्लीला वागभ्यवदत् सोऽशुद्धोऽमन्यत स एतच्छुद्धाशुद्धीयमपश्यत् तेनाशुध्यच्छुध्यति शुद्धाशुद्धीयेन तुष्टुवानः
१४.११.३० क्रौञ्चं भवति यदेव क्रौञ्चस्य ब्राह्मणं यत् द्वितीयेऽहनि
१४.११.३१ रयिष्ठं भवति
१४.११.३२ पशवो वै रयिष्ठं पशूनामवरुध्यै
१४.११.३३ औदलं भवति
१४.११.३४ उदलो वा एतेन वैश्वामित्रः प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवत्यौदलेन तुष्टुवानः
१४.११.३६ ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषछन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदाश्छन्दोमानामयातयामतयौ
१४.११.३७ विशोविशीयं भवति
१४.११.३८ अग्निरकामयत विशो विशोऽतिथिस्स्यां विशो विश आतिथ्यमश्नुवीयेति स तपोऽतप्यत स एतद्विशोविशीयमपश्यत् तेन विशो विशोऽतिथिरभवत् विशो विश आतिथ्यमश्नुत विशो विशोऽतिथिर्भवति विशो विश आतिथ्यमश्नुते विशोविशीयेन तुष्टुवानः
१४.११.३९ गायत्रीषु स्तुवन्ति प्रतिष्टायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१४.११.४० इडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति स्तोमः

१४.१२.१ “प्रेष्ठं वो अतिथिम्”इत्यातिथ्यस्यैव तद्रूपं क्रियते
१४.१२.२ “ैन्द्र नो गधि प्रिय”इतीन्द्रियस्य वीर्यस्यावरुध्यै
१४.१२.३ “पुरां भिन्दुर्युवा कविरमितौजा अजायत् इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुत”इति धृत्या एव
१४.१२.४ औशनं भवति
१४.१२.५ उशना वै काव्योऽकामयत यावानितरेषां काव्यानां लोकस्तावन्तं स्पृणुयामिति स तपोऽतप्यत स एतदौशनमपश्यत् तेन तावन्तं लोकमस्पृणोद्यावानितरेषां काव्यानामासीत् तद्वाव स तर्ह्यकामयत कामसनि सामौशनं काममेवैतेनावरुन्धे
१४.१२.६ सांवर्तं भवति
१४.१२.७ देवानां वै यज्ञं रक्षांस्यजिघांसंस्तान्येतेन इन्द्रः संवर्तमपावपद्यत् संवर्तमपावपत् तस्मात् सांवर्तं पाप्मा वाव स तानसचत तं सांवर्तेनापाघ्नताप पाप्मानं हते सांवर्तेन तुष्टुवानः
१४.१२.८ मारुतं भवति
१४.१२.९ मासा वै रश्मयो मरुतो रश्मयो मरुतो वै देवानां भूयिष्ठा भूयिष्ठा असामेति वै सत्त्रमासते भूयिष्ठा एव भवन्त्यृतुमन्ति पूर्वाण्यहान्यनृतवः छन्दोमा यदेतत् साम भवति तेनैतान्यहान्यहान्यृतुमन्ति भवन्ति
१४.१२.१० चतुश्चत्वारिंश एव स्तोमो भवत्योजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्ये त्रिष्टुप्
१५.१.१ “क्रान् समुद्रः परमे विधर्मन्न्”इति नवमस्याह्नः प्रतिपद्भवति
१५.१.२ परमं वा एतदहर्विधर्म विधर्म वा एतदन्यैरहर्भिरहर्यन्नवमं ज्येष्ठं हि वरिष्ठम्
१५.१.३ “मत्सि वायुमिष्टये राधसे न”इति वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णति तदेव तदवयजति
१५.१.४ स्तोत्रीयस्तृचो भवति प्राणापानानामवरुध्यै
१५.१.५ दशर्चो भवति दशाक्षरा विराट वैराजमन्नमन्नाद्यस्यावरुध्यै
१५.१.६ सप्रभृतयो भवान्तीन्द्रियस्य वीर्यस्य रसस्यानतिचाराय यत्र वै देवा इन्द्रियं वीर्यं रसमपश्यंस्तदनुन्यतुदन्
१५.१.७ अष्टर्चो भवति
१५.१.८ (अष्टाशफाः पशवः शफशस्तत् पशूनाप्नोति) अष्टाक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे
१५.१.९ षडृचा भवन्त्यृतूनां धृत्यै
१५.१.१० चत्वारः षडृचा भवन्ति चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सर एव प्रतितिष्ठति
१५.१.११ सवानुत्तमः षडृचो भवत्युभयस्य परोक्षप्रत्यक्षस्यावरुध्यै
१५.१.१२ तृच उत्तमो भवति येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति
१५.१.१३ अष्टाचत्वारिंश एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै

१५.२.१ “गन्म महा नमसा यविष्ठम्”इत्याग्नेयमाज्यं भवति
१५.२.२ गच्छन्तीव वा एते ये नवममहर्गच्छन्ति
१५.२.३ “यो दीदाय समिद्धस्वे दुरोण”इति दीदायेव ह्येष यो नवभिरहर्भिस्तुष्टुवानःऽऽस्वाहुतम्”इति स्वाहुतो ह्येष यो नवभिरहर्भिराहुतोऽऽविश्वतः प्रत्यञ्चम्”इति विश्वतो ह्येष प्रत्यङ्
१५.२.४ “त्वं वरुण उत मित्रो अग्न”इति वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णति तदेव तदवयजति
१५.२.५ “मित्रं हुवे पूतदक्षम्”इति राथन्तरं मैत्रावरुणम्
१५.२.६ उग्रगाधमिव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवमेवैतद्रूपे व्यतिषजति छन्दोमानामसंव्याथाय
१५.२.७ “महां इन्द्रो य ओजसा”इत्यैन्द्रमष्टमेन वै देवा अह्नेन्द्रमवाजयन्नवमेन पाप्मानमघ्नन्नहरेवैतेन महयन्ति
१५.२.८ “ता हुवे ययोरिदम्”इति राथन्तरमैन्द्राग्नम्
१५.२.९ उग्रगाधमिव वा एतद्यच्छन्दोमास्तद्यथात उग्रगाधे व्यतिषज्य गाहन्त एवमेवैतद्रूपे व्यतिषजति छन्दोमानामसंव्याथाय स्तोमः

१५.३.१ “पवमानस्य जिघ्नतो हरेश्चन्द्रा असृक्षत”इति हरिवत्यो गायत्र्यो भवन्ति छन्दोमानामयातयामतायै
१५.३.२ “पवमानस्य जिघ्नत”इति वै बृहतो रूपंऽऽहरेश्चन्द्रा असृक्षत”इति जगत्या उभयोः सहरूपमुपैति साम्नश्च छन्दसश्च
१५.३.३ “परीतो षिञ्चता सुतम्”इति परिवत्यो भवन्त्यन्तो वै नवममहस्तस्यैताः पर्याप्त्यै
१५.३.४ “सावि सोमो अरुषो वृषा हरिर्”इति जगत्यस्सत्यस्त्रिष्टुभो रूपेण तस्मात् त्रिष्टुभां लोके क्रियन्ते
१५.३.५ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१५.३.६ भरद्वाजस्यादारसृद्भवति
१५.३.७ दिवोदासं वै भरद्वाजपुरोहितं ननाजनाः पर्ययन्त स उपासीददृषे गातुं मे विन्देति तस्मा एतेन साम्ना गातुमविन्दद्गातुविद्वा एतत्सामानेन दारे नासृन्मेति तददारसृतोऽदारसृत्त्वं विन्दते गातुं न दारे धावत्यदारसृता तुष्टुवानः
१५.३.८ सुरूपं भवति यदेव सुरूपस्य ब्राह्मणम्
१५.३.९ हरिश्रीनिधनं भवति
१५.३.१० पशवो वै हरिश्रियः पशूनामवरुध्यै श्रियं च हरश्चोपैति तुष्टुवानः
१५.३.११ सैन्धुक्षितं भवति यदेव सैन्धुक्षितस्य ब्राह्मणम्
१५.३.१२ गतनिधनं वाभ्रवं भवति गत्यै
१५.३.१३ वभ्रुर्वा एतेन कौम्भ्योऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
१५.३.१४ इडानां संक्षारो भवति
१५.३.१५ पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति
१५.३.१६ ऋषभः पावमानो भवति
१५.३.१७ पशवो वै छन्दोमाः पशुष्वेव तन्मिथुनमप्यर्जति प्रजात्यै न ह वा अनृषभाः पशवः प्रजायन्ते
१५.३.१८ पृष्ठं भवति
१५.३.१९ पृष्ठं वा एतदह्नां यन्नवमं पृष्ठ एव तत् पृष्ठेन स्तुवते प्रतिष्ठायै
१५.३.२० कौल्मलबर्हिषं भवति
१५.३.२१ कुल्मलबर्हिर्वा एतेन स्वर्गं लोकमपश्यत् प्रजातिं भूमानमगच्छत् प्रजायते बहुर्भवति कौल्मलबर्हिषेण तुष्टुवानः
१५.३.२२ अर्कपुष्पं भवति
१५.३.२३ अन्नं वै देवा अर्क इति वदन्ति रसमस्य पुष्पामिति सरसमेवान्नाद्यमवरुन्धेऽर्कपुष्पेण तुष्टुवानः
१५.३.२४ दैर्घ्यश्रवसं भवति
१५.३.२५ दीर्घश्रवा वै राजन्य ऋषिर्ज्योगपरुद्धोऽशनायंश्चरन् स एतद्दैर्घश्रवसमपश्यत् तेन सर्वाभ्यो दिग्भ्योऽन्नाद्यमवारुन्ध सर्वाभ्यो अदिग्भ्योऽन्नाद्यमवारुन्धे दैर्घश्रवसेन तुष्टुवानः
१५.३.२६ वैयश्वं भवति यदेव वैयश्वस्य ब्राह्मणम्
१५.३.२७ अभीशवं यदाभीशवस्य
१५.३.२८ देवस्थानं भवति प्रतिष्ठायै संस्कृति भवति संंस्कृत्यै
१५.३.२९ अहर्वा एतदव्लीयत तद्देवा देवस्थाने तिष्ठन्तः संकृतिना समस्कुर्वंस्तत् संकृतेः संकृतित्वं देवस्थानेन वै देवाः स्वर्गे लोके प्रत्यतिष्ठन् स्वर्गे लोके प्रतितिष्टामेत्येतत्
१५.३.३० वरुणाय देवता राज्याय नातिष्ठन्त स एतद्देवस्थानमपश्यत् ततो वै तास्तस्मै राज्यायातिष्ठन्त तिष्ठन्तेऽस्मै समानाः श्रेष्ठ्याय
१५.३.३१ क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद
१५.३.३२ भर्गो भर्गेण तुष्टुवानो भवति यशो यशसा
१५.३.३३ वासिष्ठं भवति यदेव वासिष्ठस्य ब्राह्मणम्
१५.३.३४ दीर्घतमसोऽर्को भवत्यन्नं वा अर्कोऽन्नाद्यस्यावरुध्यै
१५.३.३५ सामराजं भवति साम्राज्यमाधिपत्यं गच्छति सामराज्ञा तुष्टुवानः
१५.३.३६ तदु संवदित्याहुः संवता वै देवाः स्वर्गं लोकं प्रायन्नुद्वतोदायन्
१५.३.३७ निधनान्ताः पवमाना भवन्त्यह्नो धृत्यै स्तोमः

१५.४.१ “श्रायन्त इव सूर्यम्”इति सूर्यवत्यो भवन्ति
१५.४.२ आदित्यदेवत्यं ह्येतदहरन्तो वै सूरोऽन्त एतन्नवममह्नामन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
१५.४.३ “यत इन्द्र भयावहे ततो नो अभयं कृधि। मघवञ्छग्धि तव तन्न ऊतये विद्विषो विमृधो जहि”इति द्विषश्चैव मृधश्च नवमेनाह्ना विहत्य दशमेनाह्नोत्तिष्ठन्ति
१५.४.५ श्रीर्वै श्रायन्तीयं श्रीर्नवममहः श्रियमेव तच्छ्रियां प्रतिष्ठापयति
१५.४.६ समन्तं भवति
१५.४.७ समन्तेन पशुकामः स्तुवीत पुरोधाकामः समन्तेन स्तुवीत
१५.४.८ आग्नेयी पृथिव्याग्नेयो ब्राह्मण ऐन्द्री द्यौरैन्द्रो राजन्योऽन्तरिक्षेण द्यावापृथिवी समन्ते अन्तरिक्षेणैवैनं समन्तं करोति विन्दते पशून् प्र पुरोधामाप्नोति य एवं विद्वान् समन्तेन स्तुवते स्तोमः

१५.५.१ “त्वं सोमासि धारयुर्”इति गायत्री भवत्यह्नो धृत्यै त्वमिति बृहतो रूपं बार्हतं ह्येतदहः
१५.५.२ “त्वं ह्यङ्ग दैव्या”इति त्वमिति बृहतो रूपं बार्हतं ह्येतदहः
१५.५.३ “पवस्व देव वीतय”इति बृहतो रूपं बार्हतं ह्येतदहः
१५.५.४ “परित्यं हर्यतं हरिम्”इति परिवत्यो भवन्त्यन्तो वै नवममहस्यैताः पर्याप्त्यै
१५.५.५ “पवस्व सोम महे दक्षाय”इत्यक्षरपङ्क्तिः स्तोमानां प्रभूतिरथो एतद्ध्येवैतर्हि छन्दोऽयातयाम यदक्षरपङ्क्तिस्तेन छन्दोमा अयातयामानः क्रियन्ते ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इत्येतच्छन्दसो यदेता अक्षरपङ्क्तय इति ब्रूयात्
१५.५.६ “ुपोषु जातमप्तुरम्”इति गायत्र्यस्सत्यो जगत्यो रूपेण तस्मात् जगतीनां लोके क्रियन्ते
१५.५.७ गायत्रं भवति यदेव गायत्रस्य ब्रह्मणम्
१५.५.८ आश्वसूक्तं भवति
१५.५.९ अग्निं वै पूर्वैरहर्भिराजुहोत्यथैतदादित्यदैवत्यमहः शुक्र आहुत इत्यसौ वा आदित्यः शुक्रस्तमेवैतेनाजुहोति
१५.५.१० शाम्मदं भवति
१५.५.११ शम्मद्वा एतेनाङ्गिरसोऽञ्जसा स्वर्गं लोकमपश्यत् स्वर्गस्य लोकस्यानुख्यात्यै स्वर्गाल्लोकान्न च्यवते तुष्टुवानः
१५.५.१३ आशिषमेवास्मा एतेनाशास्ते साम हि सत्याशीः
१५.५.१४ दावसुर्वा एतदाङ्गिरसः पशुकामः सामापश्यत् तेन सहस्रं पशूनसृजत् यदेतत् साम भवति पशूनां पुष्ट्यै
१५.५.१५ प्रतीचीनेडं काशीतं भवति
१५.५.१६ पराचीभिर्वा अन्याभिरिडाभी रेतो दधदथैतत् प्रतीचीनेडं काशीतं प्रजात्यै तस्मात् पराञ्चो गर्भाः सम्भवन्ति प्रत्यञ्चः प्रजायन्ते तस्मादुतेऽवाचीनबिलेभ्यो नावपद्यन्त एतेन ह्येव ते धृताः
१५.५.१७ हाविष्कृतं भवति प्रतिष्ठायै कृतानुवाद एव सः
१५.५.१८ सौपर्णं भवति यदेव सौपर्णस्य ब्रह्मणम्
१५.५.१९ वैश्वमनसं भवति
१५.५.२० विश्वमनसं वा ऋषिमध्यायमुद्व्रजितं रक्षोऽगृह्णात् तमिन्द्रोऽचायदृषिं वै रक्षोऽग्रहीदिति तमभ्यवददृषे कस्त्वैष इति, स्थाणुरिति ब्रूहीति रक्षोऽब्रवीत्, स स्थाणुरित्यब्रवीत् तस्मै वा एतेन प्रहरेत्यस्मा इषीकां वज्रं प्रयच्छन्नब्रवीत् तेनास्य सीमानमभिनत् सैषेन्द्रेणतेषीका पाप्मा वाव स तमगृह्णात् तं वैश्वमनसेनापाहतापपाप्मानं हते वैश्वम
नसेन तुष्टुवानः
१५.५.२१ गौरीवितं भवति यदेव गौरीवितस्य ब्राह्मणम्
१५.५.२२ निहवो भवत्यन्नाद्यस्यावरुध्यै
१५.५.२३ हीति वा अन्नं प्रदीयत ईत्याग्रिरन्नमत्ति
१५.५.२४ ऋषयो वा इन्द्रं प्रत्यक्ष नापश्यन् स वसिष्ठोऽकामयत कथमिन्द्रं प्रत्यक्षं पश्येयमिति स एतन्निहवमपश्यत् ततो वै स इन्द्रं प्रत्यक्षमपश्यत्, स एनमब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिता भरताः प्रजनिष्यन्तेऽथ मान्येभ्य ऋषिभ्यो मा प्रवोच इति तस्मा एतान् स्तोमभागानब्रवीत् ततो वै वसिष्ठपुरोहिता भरताः प्राजायन्त सेन्द्रं वा एतत् साम यदेतत् साम भवति सेन्द्रत्वाय
१५.५.२५ यद्वाहिष्ठीयं भवति
१५.५.२६ ब्रह्मयशसं वा एतानि सामान्यृचा श्रोत्रीयाणि ब्रह्मायशसी भवति यद्वाहिष्ठीयेन तुष्टुवानः
१५.५.२७ आसितं भवति यदेवासितस्य ब्राह्मणम्
१५.५.२८ साध्रं भवति सिद्ध्यै
१५.५.२९ आकूपारं भवति
१५.५.३० अकूपारो वा एतेन कश्यपो जेमानं महिमानमगच्छज्जेमानं महिमानं गच्छत्याकूपारेण तुष्टुवानः
१५.५.३१ विधर्म भवति धर्मस्य विधृत्यै
१५.५.३२ ब्रह्मवादिनो वदन्ति यत् षडहे स्तोमाश्छन्दांस्याप्यन्ते किं छन्दसश्छन्दोमा इति पुरुषच्छन्दस इति ब्रूयात् पुरुषो वै पाङ्क्तः पुरुषो द्विपदा छन्दोमानामयातयामतायै
१५.५.३३ श्रुध्यं भवति
१५.५.३४ पशवो वै श्रुध्यं पशूनामवरुध्यै
१५.५.३५ प्रजापतिः पशूनसृजत तेऽस्मात् सृष्टा अपाक्रामंस्तानेतेन साम्ना श्रूधिया एहियेत्यन्वह्वयत् त एनमुपावर्तन्त यदेतत् साम भवति पशूनामुपावृत्यै
१५.५.३६ उपैनं पशव आवर्तन्ते य एवं वेद
१५.५.३७ गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्तीडान्ताः पवमाना भवन्ति पशवो वा इडा पशवश्छन्दोमाः पशुष्वेव तत् पशून् दधाति स्तोमः

१५.६.१ आग्रेयीषु पूर्वेषामह्नामुक्थानि प्रणयन्त्यथैतस्याह्न आग्नेय्यैन्द्रयां प्रणयन्त्युभयोरेव रूपयोः प्रतितिष्ठति
१५.६.२ ऐध्मवाहं भवति
१५.६.३ आग्नेय्यैन्द्रीषु स्तुवन्ति ब्रह्म चैव तत् क्षत्रं च सयुजीकरोति ब्रह्मैव क्षत्रस्य पुरस्तान्निदधाति ब्राह्मणे क्षत्रं च विशं चानुगे करोति
१५.६.४ त्रैककुभं भवति
१५.६.५ ओजस्येव तद्वीर्ये प्रतितिष्ठत्योजो वीर्यं त्रैककुभम्
१५.६.६ उद्वंशीयं भवति यदेवोद्वंशीयस्य ब्राह्मणम्
१५.६.७ अष्टाचत्वारिंशं एव स्तोमो भवति प्रतिष्ठायै प्रजात्यै
१५.७.१ गायत्रं वै सप्तममहस्त्रैष्टुभमष्टमं जागतं नवममथैतदानुष्टुभमहर्यद्दशमम्
१५.७.२ तदाहुर्यदानुष्टुभं स्तोम्यां प्रत्यक्षमुपेयुः परां परावतं यजमानो गच्छेन्न प्रतितिष्ठेदिति या वै चतुर्विंशतिर्गायत्र्यस्ता अष्टादशानुष्टुभोऽनुष्टुभमेव तत् स्तोम्यां परोक्षमुपयन्ति प्रतिष्ठायै प्रतितिष्ठति
१५.७.३ प्रजापतिं वा एतेनाह्ना परिवेविषति तत्र व्यववद्यं यद्वै श्रेष्ठे परिविष्यमाणो वदत्यन्नाद्यस्य सोऽवग्रहस्तस्मान्न व्यववद्यमन्नाद्यस्यानवग्राहाय
१५.७.४ तदु व्यववद्यं यथा श्रेष्ठाय बलिं ह्रियमाणं पन्थानं पर्यनुवेदयति गत्यै तथा तत्
१५.७.५ यावत्यनुष्टुप्तावतीं वाचं सम्पाद्य विब्रूयुस्तद्वनतिरिक्तं स्वस्यो चैव यज्ञस्यारिष्ट्यै
१५.७.६ अभि वा एते देवानारोहन्तीत्याहुर्ये दशभिरहर्भिः स्तुवत इति पञ्चानामह्नामनुरूपैः प्रत्यवयन्ति यथाभ्यारुह्य प्रत्यवरोहेत् तथा तन्नवर्चो भवति या एवामूः प्रयच्छन् या अवदधाति ता एता उदस्यति
१५.७.७ वारुण्येषा भवति यद्वै यज्ञस्य दुरिष्टं तद्वरुणो गृह्णाति तदेव तदवयजत्यादित्यैषा भवतीयं वा अदितिरस्यामेव प्रतितिष्ठति
१५.७.८ चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मर्चसाय

१५.८.१ “सुषमिद्धो न आवह”इत्याप्रिय आज्यानि भवन्ति
१५.८.२ प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानामन्यत स एतान्याप्रिय आज्यान्यपश्यत् तैरात्मानमाप्रीणात् दुग्ध इव वा एष रिरिचानो यो दशभिरहर्भिस्तुष्टुवानो यदेतान्याप्रिय आज्यानि भवन्त्यात्मानमेवैतैराप्रीणाति
१५.८.३ “यदद्य सूर उदित”इति सूरवन्मैत्रावरुणम्
१५.८.४ अन्तो वै सूरोऽन्त एतद्दशममह्नामन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
१५.८.५ “ुत् त्वा मदन्तु सोमा”इत्युद्वदैन्द्रमुत्थानस्य रूपम्
१५.८.६ “िन्द्राग्नी आगतं सुतम्”इति येनैव रूपेण प्रयन्ति तदभ्युद्यन्ति स्तोमः

१५.९.१ “ुच्चा ते जातमन्धस”इत्युद्वत्यो गायत्र्यो भवन्त्युत्थानस्य रूपम्
१५.९.२ “पुनानस्सोम धारय”इति पन्थानमेव तत् पर्यवयन्ति
१५.९.३ “ा जागृविर्विप्र ऋतं मतीनाम्”इति यदाप्ते प्रवतीः कुर्युरतिपद्येरन्यदावत्यो भवन्त्यनतिपादाय
१५.९.४ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१५.९.५ आमहीयवं भवति कॢप्तिश्चान्नाद्यं च कॢप्तिं चैवैतेनान्नाद्यं चाभ्युत्तिष्ठन्ति
१५.९.६ आजिगं भवत्याजिजित्यायै
१५.९.७ आजिर्वा एष प्रततो यत् द्वादशाहस्तस्यैतदुज्जित्यै
१५.९.८ आभीकं भवत्यभिक्रान्त्यै
१५.९.९ आङ्गिरसस्तपस्तेपानाः शुचमशोचंस्त एतत् सामापश्यंस्तानभीकेऽभ्यवर्षत् तेन शुचमशमयन्त यदभीकेऽभ्यवर्षत् तस्मादाभीकं यामेव पूर्वैरहर्भिः शुचं शोचन्ति तामेतेनान्न शमयित्वोत्तिष्ठन्ति
१५.९.१० उत्सेधो भवति
१५.९.११ उत्सेधेन वै देवाः पशूनुदसेधन्निषेधेन पर्यगृह्णन्
१५.९.१२ अन्तरोत्सेधनिषेधौ यज्ञायज्ञीयम्
१५.९.१३ पशवोऽन्नाद्यं यज्ञायज्ञीयं पशूनेव तदन्नाद्यमुत्सेधनिषेधाभ्यां परिगृह्णाति
१५.९.१४ माध्यन्दिने वै पवमाने देवा यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकमारोहंस्तद्य एवं वेद माध्यन्दिन एवैतत् पवमाने यज्ञायज्ञीयेन यज्ञं संस्थाप्य स्वर्गं लोकमारोहति
१५.९.१५ अथो परोक्षमनुष्टुभं सम्पद्यतेऽहरेषा वै प्रत्यक्षमनुष्टुप्यद्यज्ञायज्ञीयं तद्यत् तृतीयसवने कुर्युः प्रत्यक्षमनुष्टुभमृच्छेयुस्तस्मान्माध्यन्दिने कुर्वन्ति तेन परोक्षमनुष्टुभमुपयन्ति
१५.९.१६ गौरीवितं भवति
१५.९.१७ एतद्वै यज्ञस्य श्वस्तनं यद्गौरीवितमेतदायतनो यजमानो यन्मध्यन्दिनो यद्गौरीवितं मध्यन्दिने भवति श्वस्तनमेव तद्यजमान आत्मन् धत्ते स्तोमः

१५.१०.१ “कया नश्चित्र आभुवद्”इति कवत्यस्तेन प्राजापत्याः को हि प्रजापतिः प्रजापतेराप्त्यै
१५.१०.२ “मा चिदन्यद्विशंसत”इत्युत्थानमेव तदाशिषो ह्येतर्हि
१५.१०.३ “ुदु त्ये मधुमत्तमा”इत्युद्वत्य उदयनीयेऽहन्येतदाशिषो ह्येवैतर्हि
१५.१०.४ “तरोभिर्वो विदद्वसुम्”इति स्तोमो वै तरो यज्ञो विदद्वसुः स्तोमेन वै यज्ञो युज्यते यत् तरोभिर्वो विदद्वसुमित्याह यज्ञमेव तद्युनक्ति
१५.१०.५ वामदेव्यस्यर्क्षु रथन्तरं पृष्ठं भवति
१५.१०.६ गायत्री वै रथन्तरस्य योनिः स्वायामेव तद्योनौ रथन्तरं प्रतिष्ठापयति
१५.१०.७ तेजो वै गायत्री छन्दसा तेजो रथन्तरं साम्ना तेजश्चतुर्विंशस्तोमानां तेज एव तत् सम्यक्संदधात्यपि ह पुत्रस्य पुत्रस्तेजस्वी भवति
१५.१०.८ अष्टाक्षरेण प्रथमाया ऋचः प्रस्तौत्यष्टाशफांस्तत्पशूनवरुन्धे
१५.१०.९ द्य्वक्षरेणोत्तरयोरृचोः प्रस्तौति द्विपाद्यजमानो यजमानमेव यज्ञे पशुषु प्रतिष्ठापयति
१५.१०.१० गायत्रं वै रथन्तरं गायत्रच्छन्दो यद्गायत्रीषु रथन्तरं भवति तेन स्वायां जनतायामृध्नोतीमे वै लोका गायत्री यद्गायत्रीषु रथन्तरं भवतीमानेव तल्लोकान् समाप्योत्तिष्ठन्ति
१५.१०.११ मैधातिथं भवति
१५.१०.१२ एतेन वै मेधातिथिः काण्वो विभिन्दुकाद्व्यूध्नीर्गा उदसृजत पशूनामवरुध्यै मैधातिथं क्रियते
१५.१०.१३ अभीवर्तो ब्रह्मसाम भवत्येकाक्षरनिधनः प्रतिष्ठायै
१५.१०.१४ एकाक्षरा वै वाग्वाच्येव प्रतिष्ठायोत्तिष्ठन्ति
१५.१०.१५ कालेयमच्छावाकसाम भवति
१५.१०.१६ समानलोके वै कालेयं च रथन्तरं चेयं वै रथन्तरं पशवः कालेयमस्यां चैव पशुषु च प्रतिष्ठायोत्तिष्ठन्ति स्तोमः

१५.११.१ “स्वादिष्ठया मदिष्ठया”इति गायत्री भवति मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति
१५.११.२ गायत्रं भवति यदेव गायत्रस्य ब्राह्मणम्
१५.११.३ संहितं भवति द्य्वक्षरणिधनं प्रतिष्ठायै प्रतिष्ठायैवोत्तिष्ठन्ति
१५.११.४ सफं भवति
१५.११.५ सफेन वै देवा इमान् लोकान् समाप्नुवन्त् समाप्नुवंस्तत् सफस्य सफत्वमिमानेवैतेन लोकान् समाप्योत्तिष्ठन्ति
१५.११.६ रोहितकूलीयं भवति यदेव रोहितकूलीयस्य ब्राह्मणम्
१५.११.७ श्यावाश्वान्धीगवे भवतः समीच्यौ विराजौ दधात्यन्नाद्याय
१५.११.८ पिपीलिकामध्यासु स्तुवन्ति
१५.११.९ इन्द्रो वृत्रं हत्वा नास्तृषीति मन्यमानः परां परावतमगच्छत् स एतामनुष्टुभं व्यौहत् तां मध्ये व्यवासर्पदिन्द्रगृहे वा एषोऽभये यजते अभय उत्तिष्ठति य एवं विद्वानेतासु स्तुवते
१५.११.१० यज्ञायज्ञीयनिधनं सौहविषं भवति यज्ञायज्ञीयादेव तत् तृतीयसवेने न यन्ति
१५.११.११ वाजजिद्भवति
१५.११.१२ सर्वस्याप्त्यै सर्वस्य जित्यै सर्वं वा एते वाजं जयन्ति ये दशममहरागच्छन्त्यन्नं वै वाजोऽन्नाद्यस्यावरुध्यै
१५.११.१३ दशाक्षरं निधनमुपयन्ति दशरात्रस्य धृत्यै दशाक्षरा विराड्वैराजमन्नमन्नाद्यस्यावरुध्यै
१५.११.१४ सूर्यवतीषु स्तुवन्त्यन्तो वै सूरोऽन्त एतद्दशममह्नामन्त एव तदन्तेन स्तुवते प्रतिष्ठायै
१५.११.१५ उपवत्यो भवन्ति प्रतिष्ठायै परिवत्यो भवन्ति सर्वस्य पर्याप्त्यै
१५.११.१६ चतुर्विंश एव स्तोमो भवति तेजसे ब्रह्मवर्चसाय

१५.१२.१ विराट्सु वामदेव्यमग्निष्टोमसाम भवति शान्त्यै कॢप्त्यै
१५.१२.२ सद्वै वामदेव्यं साम्नां सद्विराट्छन्दसां सत् त्रयस्त्रिंशः स्तोमानां सतामन्तान् संधायोत्तिष्ठन्त्यपि ह पुत्रस्य सत्त्वमश्नुते
१५.१२.३ ब्रह्मवादिनो वदन्ति यतस्सत्त्रादुदस्थाता३ स्थिता३ इति यद्यत इति ब्रूयुरप्रतिष्ठाना अप्रजसो भविष्यन्तीत्येनान् ब्रूयाद्यत् स्थितादिति ब्रूयुः स्थायुकैषां श्रीर्भविष्यति न वसीयांसो भविष्यन्तीत्येनान् ब्रूयात् पूर्णादेव पूर्णमभ्युदस्थामेति ब्रूयुः
१५.१२.४ एते वै पूर्णात् पूर्णमभ्युत्तिष्ठन्ति ये वामदेव्येन स्तुत्वोत्तिष्ठन्ति
१५.१२.५ अन्तरिक्षं वै वामदेव्यमन्तरिक्षेणेदं सर्वं पूर्णम्
१५.१२.६ एष वै समृद्धः स्तोमो यत् त्रयस्त्रिंशस्त्रयस्त्रिंशदक्षरासु समृद्धावेव प्रतितिष्ठन्ति
१५.१२.७ सर्वेषां वा एताश्छन्दसां रूपं यात् त्रिपदास्तेन गायत्र्यो यदेकादशाक्षराणि पदानि तेन त्रिष्टुभो यत् द्वादशाक्षरं पदं तेन जगत्यो यत् त्रयस्त्रिंशदक्षरास्तेन विराजस्तेनैव चानुष्टुभो न ह्येकस्मादक्षराद्विराधयन्ति
१५.१२.८ त्रयस्त्रिंश एव स्तोमो भवति प्रतिष्ठायै देवतासु वा एष प्रतिष्ठितः
१६.१.१ प्रजापतिर्वा इदमेक आसीन्नाहरासीन्न रात्रिरासीत् सोऽस्मिन्नन्धे तमसि प्रासर्पत् स ऐच्छत् स एतमभ्यपद्यत ततो वै तस्मै व्यौच्छद्व्युष्टिर्वा एष आह्रियते यद्वै तज्ज्योतिरभवत् तत् ज्योतिषो ज्योतिष्ट्वम्
१६.१.२ एष वाव प्रथमो यज्ञानां य एतेनानिष्ट्वाथान्येन यजते गर्तपत्यमेव तज्जीयते प्र वा मीयते
१६.१.३ यथा वा इदमग्नेर्जातादग्नयो विह्रियन्त एवमेतस्मादध्यन्ये यज्ञा विह्रियन्ते
१६.१.४ यो हि त्रिवृदन्यं यज्ञक्रतुमापद्यते स तं दीपयति यः पञ्चदशः स तं यः सप्तदशः स तं य एकविंशः स तम्
१६.१.५ एतत् तद्यदाहुरेको यज्ञ इत्येतद्धि सर्वे ज्योतिष्टोमा भवन्ति
१६.१.६ अस्थूरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतस्त्रिवृत् पञ्चदशौ प्रातःसवनं पञ्चदशसप्तदशौ माध्यन्दिनं सवनं सप्तदशैकविंशौ तृतीयसवनम्
१६.१.७ या मितदक्षिणैव स्यादेष एव कार्य इयं वै ज्योतिरियममितस्य यन्त्रिकैषा वा एतं यन्तुमर्हति
१६.१.८ तस्य नवतिशतं स्तोत्रीयास्तासां या अशीतिशतं ताः षट्त्रिंशिन्यो विराजः षडृतव ऋतुष्वेव विराजा प्रतितिष्ठति
१६.१.९ अथ या दशैषा वा आत्मन्या विराडेतस्यां वा इदं पुरुषः प्रतिष्ठितः
१६.१.५ गौश्चाश्वश्चाश्वतरश्च गर्दभश्चाजाश्चावयश्च व्रीहयश्च यवाश्च तिलाश्च माषाश्चैतस्यामेव विराजि प्रतितिष्ठति
१६.१.११ तस्य द्वादशं शतं दक्षिणाः
१६.१.१२ वीरहा वा एष देवानां यः सोममभिषुणोति याः शतं वैरं तद्देवानवदयतेऽथ या दश दश प्राणाः प्राणांस्ताभिः स्पृणोति यैकादश्यात्मानं तया या द्वादशी सैव दक्षिणा
१६.१.१३ श्लेष्म वा एतद्यज्ञस्य यद्दक्षिणा न वा अश्लेष्मा रथो वहत्यथ श्लेष्मवता यं कामं कामयते तमभ्यश्नुत एवमेतेन दक्षिणावता यं कामं कामयते तमभ्यश्नुते
१६.१.१४ शुभो वा एता यज्ञस्य यद्दक्षिणा यद्दक्षिणावता यजते शुभमेवास्मिन् दधाति
१६.१.१ अथैष गौः
१६.१.२ गवा वै देवा असुरानेभ्यो लोकेभ्योऽनुदन्तैभ्यो लोकेभ्यो भ्रातृव्यं नुदते य एवं वेद
१६.१.३ यद्वै तद्देवा असुरानेभ्यो लोकेभ्यो गोवयंस्तद्गोर्गोत्वम्
१६.१.४ गोवयति पाप्मानं भ्रातृव्यं य एवं वेद
१६.१.५ तस्य पञ्चदशं बहिष्पवमानं वज्रो वै पञ्चदशो वज्रमेव तत् पुरस्तान्निदधाति तेन विजयते
१६.१.६ पशुस्तोमो वा एष एवमिव वै पशुः समाहितः शिरः स्थवीयोऽणीयस्यो ग्रीवा पार्श्वाभ्यां वरीयां सक्थिभ्यां वरिष्ठः
१६.१.७ यत् पञ्चदशं बहिष्पवमानं भवति त्रिवृत् त्याज्यानि सप्तदश माध्यन्दिनं सवनमेकविंशं तृतीयसवनं रूपेणैवैनं तत् समर्धयति
१६.१.८ एका संस्तुतानां विराजमतिरिच्यते तस्मात् पशोः पश्चादतिरिक्तम्

१६.२.१ अथैष गौः
१६.२.२ गवा वै देवा असुरानेभ्यो लोकेभ्योऽनुदन्तैभ्यो लोकेभ्यो भ्रातृव्यं नुदते य एवं वेद
१६.२.३ यद्वै तद्देवा असुरानेभ्यो लोकेभ्यो गोवयंस्तद्गोर्गोत्वम्
१६.२.४ गोवयति पाप्मानं भ्रातृव्यं य एवं वेद
१६.२.५ तस्य पञ्चदशं बहिष्पवमानं वज्रो वै पञ्चदशो वज्रमेव तत् पुरस्तान्निदधाति तेन विजयते
१६.२.६ पशुस्तोमो वा एष एवमिव वै पशुः समाहितः शिरः स्थवीयोऽणीयस्यो ग्रीवा पार्श्वाभ्यां वरीयांसक्थिभ्यां वरिष्ठः
१६.२.७ यत् पञ्चदशं बहिष्पवमानं भवति त्रिवृन्त्याज्यानि सप्तदश माध्यन्दिनं सवनमेकविंशं तृतीयसवनं रूपेणैवैनं तत् समर्धयति
१६.२.८ एका संस्तुतानां विराजमतिरिच्यते तस्मात् पशोः पश्चादतिरिक्तम्

१६.३.१ अथैष आयुः
१६.३.२ आयुषा वै देवा असुरानायुवतायुते भ्रातृव्यं य एवं वेद
१६.३.३ स्वर्गकामो यजेत
१६.३.४ ऊर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय
१६.३.५ एतेनैवामयाविनं याजयेदतिरात्रः कार्यः
१६.३.६ स गायत्रीं संपद्यते प्राणो गायत्र्यायुरेष आयुश्चैवास्मिन् प्राणं चोभे समीची दधाति
१६.३.७ स्वर्ग्या वा एते स्तोमा यत् ज्योतिर्भवति ज्योतिरेवास्मै स पुरस्ताद्धरत्यथैष गौरेकया विराजमतिरिक्त आरम्भणमेव तदथैष आयुरेकस्या विराज ऊन आसाद एव सोऽथो ऊनातिरिक्तौ स्तोमौ मिथुनौ प्रजात्यै
१६.३.८ एते वै त्रिकद्रुकाः स्तोमा एतैर्वा इन्द्रः सर्वां तृप्तिमतृप्यत्
१६.३.९ तृप्यति प्रजया पशुभिर्य एवं वेद

१६.४.१ प्रजापतिः प्रजा असृजत ता अस्मै श्रैष्ठ्याय नातिष्ठन्त स आसां दिशां प्रजानां च रसं प्रवृह्य स्रजं कृत्वा प्रत्यमुञ्चत ततोऽस्मै प्रजाः श्रैष्ठ्यायातिष्ठन्त
१६.४.२ तिष्ठन्तेऽस्मै समानाः श्रैष्ठ्याय य एवं वेद
१६.४.३ सोऽकामयतेन्द्रो मे प्रजायां श्रेष्ठः स्यादिति तामस्मै स्रजं प्रत्यमुञ्चत् ततो वा इन्द्राय प्रजाः श्रैष्ठ्यायातिष्ठन्त तच्छिल्पं पश्यन्त्यो यत् पितर्यपश्यन्
१६.४.४ तस्माद्यः पुत्राणां दायं धनतममिवोपैति तं मन्यन्तेऽयमेवेदं भविष्यतीति
१६.४.५ ततो वा इदमिन्द्रो विश्वमजयद्यद्विश्वमजयत् तस्माद्विश्वजित्
१६.४.६ सोऽकामयत यन्मेऽनभिजितं तदभिजयेयमिति स एतमभिजितमपश्यत् तेनानभिजितमभ्यजयत्
१६.४.७ यदभिजिद्भवत्यनाभिजितस्याभिजित्यै
१६.४.८ तौ वा एताविन्द्रस्तोमौ वीर्यवन्तौ शिल्पं वा एतौ नाम स्तोमावास्ताम्
१६.४.९ पश्यते गृहे शिल्पं य एवं वेद
१६.४.१० न वै यमौ नाम स्तोमौ स्तो यो यमाभ्यां यजेतैताभ्यां यजेत समृध्यै
१६.४.११ पुनरभ्यावर्तं स्तोमा भवन्ति पुनरभ्यावर्तं ह्येताभ्यामिन्द्रोऽजितमजयत्
१६.४.१२ त्रींस्त्रिवृदभिजितः प्रणयति त्रीन् पञ्चदशः त्रीन् सप्तदशः त्रीनेकविंशस्ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः प्रजापतिः प्रजापतिमेवाप्नोति
१६.४.१३ चतुरस्त्रिवृद्विश्वजितः प्रणयति चतुरः पञ्चदशश्चतुरः सप्तदशस्ते द्वादश संपद्यन्ते द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिमेवाप्नोति

१६.५.१ “ुप त्वा जामयो गिर”इत्युपवती प्रतिपद्भवति स्तोमस्य रूपम्
१६.५.२ प्राणैर्वा एष व्यृध्यत इत्याहुर्यः सर्वं ददाति सर्वान् स्तोमान् सर्वाणि पृष्ठान्युपैतीति यद्वायव्या भवति प्राणानां समृध्यै
१६.५.३ सरस्वतश्च सरस्वत्याश्चोत्तरे भवतः
१६.५.४ मिथुनं वा एतद्यत् सरस्वांश्च सरस्वती च मिथुनमेवास्य यज्ञमुखे दधाति प्रजननाय
१६.५.५ सावित्री चतुर्थी भवति
१६.५.६ दुष्करं वा एष करोति यः सर्वं ददाति यत् सावित्री भवति सवितृप्रसृतं मे कर्मासदिति सवितृप्रसूतमेवास्य कर्म भवति
१६.५.७ ब्राह्मणस्पत्या पञ्चमी भवति
१६.५.८ ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्मैवास्य यज्ञमुखे दधाति
१६.५.९ आग्निपावमानी षष्ठी भवति
१६.५.१० अग्निरेवैनं निष्टपति पवमानः पुनाति पूतमेवैनं यज्ञियं पृष्ठान्युपनयति
१६.५.११ यन्ति वा एते पथ इत्याहुर्ये संभार्याः कुर्वते
१६.५.१२ पावमान उत्तमस्तृचो भवति तेन पथो नयन्ति
१६.५.१३ स तु वै पृष्ठैः स्तुवीतेत्याहुर्य एतानि बहिष्पवमाने युञ्ज्यादिति
१६.५.१४ उपवती प्रतिपद्भवत्युप वै रथन्तरं रथन्तरमेवास्मै तया युनक्ति
१६.५.१५ सरस्वती द्वितीया भवति स्वर्गो लोकः सरस्वान् स्वर्गो लोको बृहद्बृहदेवास्मै तया युनक्ति
१६.५.१६ सरस्वत्यास्तृतीया भवति वाग्वै सरस्वती वाग्वैरूपं वैरूपमेवास्मै तया युनक्ति
१६.५.१७ सावित्री चतुर्थी भवति प्रजापतिर्वै सविता प्रजापतिर्वैराजं वैराजमेवास्मै तया युनक्ति
१६.५.१८ ब्राह्मणस्पत्या पञ्चमी भवति ब्रह्म वै ब्रह्मणस्पतिर्ब्रह्म शक्वर्यः शक्वरीरेवास्मै तया युनक्ति
१६.५.१९ आग्निपावमानी षष्ठी भवति गायत्री वै रेवती गायत्रच्छन्दा अग्नी रेवतीरेवास्मै तया युनक्ति
१६.५.२० न चत्वारि षड्भ्यो विभवन्ति यदनिरुक्तानि तेन विभवन्ति
१६.५.२१ सर्वाणि स्वाराण्याज्यानि तज्जामि नानादेवत्यैः स्तुवन्त्यजामितायै
१६.५.२२ “सुषमिद्धो न आवह”इत्याप्रिय आज्यानि भवन्ति
१६.५.२३ प्रजापतिः प्रजा असृजत स दुग्धो रिरिचानोऽमन्यत स एतान्याप्रिय आज्यान्यपश्यत् तैरात्मानम् [थुस्Bई॑ Kष्षात्मनम्] आप्रीणाद्दुग्ध इव वा एष रिरिचानो यः सर्वं ददाति यदाप्रिय आज्यानि भवन्त्यात्मानमेवैतैराप्रीणाति
१६.५.२४ एतर्हि तु वै पृष्ठानि यथायतनं कल्पन्त इत्याहुर्यद्रथन्तरं प्रथमं बृहदुत्तमं मध्य इतराणीति
१६.५.२४ जामि वा एतद्यज्ञे क्रियत इत्याहुर्यत् सर्वाणि निधनवन्ति सह क्रियन्त इति यदन्तरा सोमा यन्त्यन्तरोक्थानि शस्यन्तेऽन्तरा वषट्कुर्वन्ति तेनाजामि
१६.५.२६ व्यत्यासमिडाश्च निधनानि चाहुस्तेनाजामि
१६.५.२७ च्यवन्ते वा एतद्रेवत्यः स्वादायतनादित्याहुर्यत् त्रयस्त्रिंशात् स्तोमाद्यन्तीति यद्गायत्र्यो भवन्ति तेनायतनान्न च्यवन्ते या हि का च गायत्री सा रेवती

१६.६.१ परशुभिर्वा एष व्यृध्यत इत्याहुर्यः सर्वं ददाति तच्छवीं परिधत्ते पशुभिरेव समृध्यते
१६.६.२ रोहिणी छवी भवत्येतद्वै पशुनां भूयिष्ठं रूपं यद्रोहितं साक्षादेवैनानवरुन्धे
१६.६.३ अरण्ये तिस्रो वसत्यारण्यं ताभिरन्नाद्यमवरुन्धे
१६.६.४ उदुम्बरे वसत्यूर्गुदुम्बर ऊर्जमेवावरुन्धे
१६.६.५ खनित्रेण जीवत्यवृत्तिमपजयति
१६.६.६ उभयतःक्ष्णुदभ्रिर्भवत्युभयत एवास्मा अन्नाद्यं रजत्यस्माच्च लोकादमुष्माच्च
१६.६.७ निषादेषु तिस्रो वसत्यस्यां वा एते परीत्ता यदेवास्यामन्नाद्यं तदवरुन्धे
१६.६.८ जने तिस्रो वसति जन्यं ताभिरन्नाद्यमवरुन्धे
१६.६.९ समानजने तिस्रः समानजन्यं ताभिः
१६.६.१० द्वादशैता रात्रयो भवन्ति द्वादशमासाः संवत्सरः संवत्सरमन्वन्नाद्यं प्रजायते तदेवाप्त्वावरुन्धे
१६.६.११ संवत्सरं न याचेदामाद्यमिव वा एतद्यः सद्योदत्तं प्रत्यत्ति सद्यो वै देवानं संवत्सरः
१६.६.१२ नोदीयमानं प्रति नुदेन्नाद्यस्याप्रतिनोदाय
१६.६.१३ उष्णीषं बिभर्ति शिल्पत्वाय
१६.६.१४ न मृन्मयेन पिबेदाहुतिर्वा एषा यद्ब्राह्मणस्य मुखं न वै मृन्मयमाहुतिमानशेऽथ यदमृन्मयपो भवति स्व एव मुख आहुतिं जुहोति

१६.७.१ पञ्चविंशोऽग्निष्टोमः
१६.७.२ सर्वजिता वै देवाः सर्वमजयन् सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति
१६.७.३ तस्य महाव्रतं पृष्ठम्
१६.७.४ अर्क्यं शस्यते
१६.७.५ चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशोऽन्नं व्रतं संवत्सरादेतेनान्नाद्यमवरुन्धे
१६.७.६ अन्नादो भवति य एवं वेद
१६.७.७ एतेन वै गौराङ्गिरसः सर्वं पाप्मानमतरत् सर्वं पाप्मानं तरत्येतेन स्तोमेन तुष्टुवानः

१६.८.१ अथैष ज्योतिः
१६.८.२ पराङ्वै त्रिरात्रोऽर्वाङग्निष्टोमो यस्त्रिरात्रे विभ्रंशते न तस्मिन् पुनरस्त्यथ योऽग्निष्टोमे प्रायश्चित्तिमत् तदपि ह्येतेनैकविंशतिदक्षिणेन पुनर्यजेत यस्मिन् ह्येव यज्ञक्रतौ विभ्रंशते सैव तस्य प्रायश्चित्तिः
१६.८.३ उपसदि सहस्रं प्रातरनुवाकमन्वाह तदसौ लोकः सहस्रं दक्षिणास्तदन्तरिक्षं सहस्रमेतान्यक्षराणि तदयं लोक एषु लोकेषु प्रतितिष्ठति य एवं वेद
१६.८.४ ऋक्स्था वा अन्यत् सहस्रमित्याहुरक्षरेस्था अन्यदिति यत् त्रिरात्रे दीयते तदृक्स्था। अथ यदग्निष्टोमे तदक्षरेस्था
१६.८.५ यत् सहस्राक्षरासु ब्रह्मसाम भवति सहस्रस्यैव सा प्रतिष्टुतिः
१६.८.६ यावद्वै सहस्रं गाव उत्तराधरा इत्याहुस्तावदस्मात् लोकात् स्वर्गो लोक इति तस्मादाहुः सहस्रयाजी वा इमान् लोकान् प्राप्नोति
१६.८.७ पशुभिर्वा एष व्यृध्यत इत्याहुर्यः सद्यः सहस्रं ददातीति पङ्क्तिषु ब्रह्मसाम भवति पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञ एव पशुषु प्रतितिष्ठति
१६.८.८ त्रिवृतं स्तोमं संपद्यते विराजं छन्दः
१६.८.९ प्राणो वै त्रिवृदन्नं विराट्न वै प्राण ऋतेऽन्नात् पारयति नान्नमृते प्राणात् प्राणेषु चैवान्नाद्ये च प्रतितिष्ठति

१६.९.१ अथैष सर्वज्योतिः सर्वस्याप्तिः सर्वस्य जितिः सर्वमेवैतेनाप्नोति सर्वं जयति
१६.९.२ परमो वा एष यज्ञः परमं सहस्रं परमतां गच्छति य एवं वेद
१६.९.३ तस्य द्विशताः स्तोत्रीया अन्तो वै वाचो द्विशतमन्तः सहस्रमन्त एव तदन्तं प्रतिष्टापयति
१६.९.४ कृतस्तोमो वा एष सर्वमेवैतेनाप्नोति सर्वं जयति सर्वं हि कृतेन जयति
१६.९.५ विराजं संपद्यतेऽन्नं विराडन्नाद्यमेवावरुन्धे
१६.९.६ एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति

१६.१०.१ अथैष विश्वज्योतिरुक्थ्यः
१६.१०.२ पशवो वा उक्थानि पशवो विश्वं ज्योतिर्विश्व एव ज्योतौ पशुषु प्रतितिष्ठति
१६.१०.३ अहर्भिर्वै त्रिरात्र इमान् लोकानाप्नोति सवनैरेष उत्तममुत्तरं त्रिरात्रस्याहर्वर्षीय उत्तरमुत्तरमेतस्य सवनं वर्षीयस्तेन त्रिरात्रमाप्नोत्युत्तर उत्तर एषां लोकानां ज्यायांस्तेनेमान् लोकानाप्नोति
१६.१०.४ अस्थूरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमौ सवनं वहतः
१६.१०.५ त्रिवृत्पञ्चदशौ प्रातःसवनं सप्तदशपञ्चविंशौ माध्यन्दिनं सवनं चतुर्विंशैकविंशौ तृतीयसवनम्
१६.१०.६ यद्वै युक्ते सन्तत आधीयते वहति तद्यथा युक्ते सन्तत आदध्यादेवमेतस्मिन् सहस्रमाधीयते
१६.१०.७ उभे बृहद्रथन्तरे भवतः
१६.१०.८ इयं वै रथन्तरं द्यौर्बृहदेवास्माल्लोकाद्गायत्येवामुष्मादुभयोरनयोर्लोकयोः प्रतितिष्ठति
१६.१०.९ अनुष्टुभ्याथर्वणं भवति
१६.१०.१० भेषजं वै देवानामथर्वाणो भेषजायैवारिष्ट्यै
१६.१०.११ उद्वंशीयमुक्थानामन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
१६.१०.१२ उक्थो भवति पशवो वा उक्थानि पशवः सहस्रं पशुष्वेव तत् पशून् दधाति

१६.११.१ यो वा अग्निष्टोमे त्रिरात्रं प्रोतं विद्यात् सोऽग्निष्टोमे सहस्रं दद्यात् त्रिरात्रायतनं हि सहस्रम्
१६.११.२ “ुपास्मै गायता नरःऽऽऽऽुपोषु जातमप्तुरंऽऽऽऽपवस्व वाचो अग्रिय”इति प्रतिपदो भवन्त्येतद्वै त्रिरात्रमकः
१६.११.३ पवमाने रथन्तरं करोति पवमानस्यान्त्यं वामदेव्यं बृहत् पृष्ठम्
१६.११.४ इयं वै रथन्तरमन्तरिक्षं वामदेव्यं द्यौर्बृहदिमे लोकास्त्रिरात्रो यदेतानि सामानि सध्र्यञ्चि करोतीमानेव तल्लोकान् संदधाति तेन त्रिरात्रमाप्नोति
१६.११.५ ककुभं प्राचीमुदूहति
१६.११.६ पुरो ह्येतया सत्या अपशुवीर्यं करोति
१६.११.७ तस्यामिडानां संक्षारः पुरुषो वै ककुप्पशव इडानां संक्षार आत्मन्येव तत् पशून् प्रतिष्ठापयति
१६.११.८ “प्रत्नं पीयूषं पूर्व्यं यदुक्थम्”इति सतोबृहत्यो भवन्ति
१६.११.९ सतोबृहत्या वै देवा इमान् लोकान् व्याप्नुवन्निमानेवैताभिर्लोकान् व्याप्नोति
१६.११.१० ता वा एता गायत्र्यो यत् त्रिपदास्तेन गायत्र्यस्ता वा एता जगत्यो यद्द्वादशाक्षराणि पदानि तेन जगत्यस्ता वा एता बृहत्यो यत् षट्त्रिंशदक्षरास्तेन बृहत्यः सर्वेषां वा एताश्छन्दसां रूपं सर्वाणि रूपाणि पशूनामवरुन्धे
१६.११.११ एतद्वै प्रत्यक्षं महाव्रतं तस्य गायत्रं शिरो बृहद्रथन्तरे पक्षौ वामदेव्यमात्मा यज्ञायज्ञीयं पुच्छं दक्षिणा एवार्क्यमेष वाव प्रत्यक्षं महाव्रतेन स्तुवते य एतेन यजते
१६.११.१२ तस्य बृहत् पृष्ठं पङ्क्तिषु ब्रह्मसाम तदाहुश्छन्दो व्याधीयते यद्बृहत् पृष्ठं भवति पङ्क्तिषु ब्रह्मसामेति
१६.११.१३ श्रायन्तीयमेव कार्यं न छन्दो व्याधीयते
१६.११.१४ एषो सहस्रस्य प्रतिष्टुतिः
१६.११.१५ सहस्रमन्यमभितिष्ठतीत्याहुः सहस्रमन्योऽन्वातिष्ठतीति
१६.११.१६ ककुभं प्राचीमुदूहत्यथ यदेषा द्विपदा ककुभो लोके क्रियते सहस्रस्यैव सोऽन्वास्थायः
१६.११.१७ अनुष्टुभं संपद्यते वागनुष्टुब्वाक्त्रिरात्रस्तेन त्रिरात्रमाप्नोति

१६.१२.१ आदित्याश्चाङ्गिरसश्चादीक्षन्त ते स्वर्गे लोकेऽस्पर्धन्त तेऽङ्गिरस आदित्येभ्यः श्वः सुत्यां प्राब्रुवंस्त आदित्या एतमपश्यंस्तं सद्यः परिक्रीयायास्यमुद्गातारं वृत्वा तेन स्तुत्वा स्वर्गं लोकमायन्नहीयन्ताङ्गिरसः
१६.१२.२ भ्रातृव्यवान् यजेत
१६.१२.३ भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
१६.१२.४ तस्मा अमुमादित्यमश्वं श्वेतं कृत्वा दक्षिणामानयंस्ते प्रतिगृह्य व्यभ्रंशत स एतान्यायास्यान्यपश्यत् तैरात्मानं समश्रीणात्
१६.१२.५ तदायास्यानि भवन्ति भेषजायैव शान्त्यै
१६.१२.६ स्वर्गकामो यजेत
१६.१२.७ बृहतीं संपद्यते बृहत्या वै देवाः स्वर्गं लोकमायन् स्वर्गमेवैतेन लोकमाप्नोति
१६.१२.८ पशुकामो यजेत
१६.१२.९ पशवो वै बृहती पशुष्वेव प्रतितिष्ठति

१६.१३.१ एतस्यैवैकविंशमग्निष्टोमसाम कृत्वामयाविनं याजयेत्
१६.१३.२ प्राणो वै त्रिवृत् प्राण आदित्यः प्राणैरेष व्यृध्यते य आमयावी प्राणैरेवैनं समर्धयति [थुस्Bई॑ Kष्ष्सेएम्स्तो रेअद्समर्ङ्घयति]
१६.१३.३ विराजं संपद्यतेऽप वा एतस्मादन्नाद्यं क्रामति य आमयाव्यन्नं विराडन्नद्यमेवास्मिन् दधाति
१६.१३.४ एकविंशोऽग्निष्टोमो भवत्यप्रतिष्ठितो वा एष य आमयावी प्रतिष्ठैकविंशः प्रत्येव तिष्ठति
१६.१३.५ एतेनैवान्नाद्यकामो वा प्रतिष्ठाकामो वा यजेतान्नं विराट्प्रतिष्ठैकविंशोऽत्त्यन्नं प्रतितिष्ठति
१६.१३.६ उर्वरा वेदिर्भवत्येतद्वा अस्या वीर्यवत्तमं वीर्येणैव यज्ञं समर्धयति
१६.१३.७ खल उत्तरवेदिरत्र हि स रसः समवैति सरसमेव यज्ञं करोति
१६.१३.८ खलेवाली यूपो भवत्येतया हि तं रसमुत्कृषन्ति
१६.१३.९ त्रिवत्सः साण्डः सोमक्रयणः सेन्द्रत्वाय
१६.१३.१० सर्वा दिशोऽश्वरथाः सोमप्रवाका विधावन्ति
१६.१३.११ सर्वाभ्य एवास्मै दिग्भ्योऽन्नाद्यमवरुन्धे
१६.१३.१२ योजने चतुर्वाहिणा प्राच्यां दिशि प्राहैवमिव वा अध्वानो विमिता यैवाध्वनो मात्रातां धावयन्ति त्रैपदे प्रष्ठिवाहिनोदीच्यां गव्यूतौ द्व्योगेन प्रतिच्यां क्रोशे स्थूरिणा दक्षिणैतद्वै दिशां रूपं यदैव दिशां रूपं तेन यज्ञं समर्धयन्ति
१६.१३.१३ सक्षीरदृतयो रथा भवन्ति ततो यन्नवनीतमुदियात् तदाज्येऽपि कार्यं सद्यस्त्वाय

१६.१४.१ अथैषोऽङ्गिरसामनुक्रीः
१६.१४.२ एतेन वा अङ्गिरस आदित्यानाप्नुवन् यो हीन आनुजावर इव स्यात् स एतेन यजेताप्नोति पूर्वेषां प्रहामाप्नुवन् ह्येतेनाङ्गिरस आदित्यान्
१६.१४.३ तस्य चतुर्विंशौ पवमानौ
१६.१४.४ चतुर्विंशत्यक्षरा गायत्री गायत्र्या वै देवा इमान् लोकान् व्याप्नुवन्निमानेवैतेन लोकान् व्याप्नोति
१६.१४.५ तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
१६.१४.६ उभये स्तोमा युग्मन्तश्चायुजश्[थुस्Bई॑ Kष्ष्चार्युजश्] च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
१६.१४.७ विराजं संपद्यतेऽन्नं विराडन्नाद्यमेवावरुन्धे
१६.१४.८ एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति

१६.१५.१ अथैष विश्वजिच्छिल्पः
१६.१५.२ शिल्पं वा एष स्तोमानां पश्यति गृहे शिल्पं य एवं वेद
१६.१५.३ तस्याष्टादशौ पवमानौ
१६.१५.४ चक्रीवान् वा एष यज्ञः कामाय यं कामं कामयते तमेतेनाभ्यश्नुते यत्र हि चक्रीवता कामयते तदभ्यश्नुते
१६.१५.५ स्वर्गकामो यजेत
१६.१५.६ स्वर्गो लोकः पृष्ठानि स्वर्गमेवैतेन लोकमाप्नोति
१६.१५.७ तेजो ब्रह्मवर्चसं पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिंस्तेजो ब्रह्मवर्चसं दधाति
१६.१५.८ अन्नं पशवः पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिन्नन्नाद्यं पशून् दधाति
१६.१५.९ तदाहुर्नानालोकानि पृष्ठानि यदेकस्मिन् यज्ञक्रतौ समवरुध्यन्त ईश्वरो यजमानोऽप्रतिष्ठातोरिति
१६.१५.१० एकविंशं होतुः पृष्ठं भवति प्रतिष्ठा वा एकविंशो मध्य एव यज्ञस्य प्रतितिष्ठत्येकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति
१६.१५.११ द्वावेतावेकविंशौ भवतो द्विपाद्यजमानो यजमानमेव यज्ञे पशुषु च प्रतिष्ठापयति

१६.१६.१ अथैष एकत्रिकः प्रजापतेरुद्भित्
१६.१६.२ एतेन वै प्रजापतिरेषां लोकानामुदभिनत्
१६.१६.३ कृतस्तोमो वा एष उद्भिन्नं ह्येव कृतस्य
१६.१६.४ यदेकया स्तुवन्त्येको वै प्रजापतिः प्रजापतिमेवाप्नोत्यथ यत् तिसृभिस्त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति
१६.१६.५ ता उ चतस्रस्संपद्यन्ते चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठति
१६.१६.६ गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे
१६.१६.७ प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
१६.१६.८ “या रुचा हरिण्या पुनान”इत्यार्भवः पवमानः
१६.१६.९ सर्वेषां वा एषा छन्दसां रूपं सर्वेष्वेव छन्दःस्वार्भवं पवमानं प्रतिष्ठापयति
१६.१६.१० तस्यां गायत्रपार्श्वं न गायत्रादेति न साम्नो न निधनात्

१७.१.१ देवा वै स्वर्गं लोकमायंस्तेषां दैवा अहीयन्त व्रात्यां प्रवसन्तस्त आगच्छन् यतो देवाः स्वर्गं लोकमायंस्तेन तं स्तोमं न छन्दोऽविन्दन् येन तानाप्स्यंस्ते देवा मरुतोऽब्रुवन्नेतेभ्यस्तं स्तोमं तच्छन्दः प्रयच्छत येनास्मानाप्नवानिति तेभ्य एतं षोडशं स्तोमं प्रायच्छन् परोक्षमनुष्टुभं ततो वै ते तानाप्नुवन्
१७.१.२ हीना वा एते हीयन्ते ये व्रात्यां प्रवसन्ति न हि ब्रह्मचर्यं चरन्ति न कृषिं वणिज्यां षोडशो वा एतत् स्तोमः समाप्तुमर्हति
१७.१.३ मरुत्स्तोमो वा एष यानि क्षुद्राणि छन्दांसि तानि मरुताम्
१७.१.४ ककुभं प्राचीमुदूहत्यथ यदेषा द्विपदा ककुभो लोके क्रियते रूपेणैवेनांस्तत् समर्धयति
१७.१.२ “धाहीन्द्र गिर्वण”इति विषमं छन्दो विषम इव वै व्रातः सर्वानेवैतान् समान् करोति
१७.१.६ तासु द्यौतानम्
१७.१.७ द्युतानो मारुतस्तेषां गृहपतिरासीत् त एतेन स्तोमेनायजन्त ते सर्व आर्ध्नुवन् यदेतत् साम भवत्यृध्या एव
१७.१.८ यन्निरुक्तं निधनमुपेयुर्गृहपतिरेवर्ध्नुयादपेतर आर्ध्नीताथ यदनिरुक्तमुपयन्ति सर्वानेवैतानृद्धौ भूतौ प्रतिष्ठापयति
१७.१.९ गरगिरो वा एते ये ब्रह्माद्यं जन्यमन्नमदन्त्यदुरुक्तवाक्यं दुरुक्तमाहुरदण्ड्यं दण्डेन घ्नन्तश्चरन्त्यदीक्षिता दीक्षितवाचं वदन्ति षोडशो वा एतेषां स्तोमः पाप्मानं निर्हन्तुमर्हति यदेते चत्वारः षोडशा भवन्ति तेन पाप्मनोऽधि निर्मुच्यन्ते
१७.१.१० “देवो वो द्रविणोदा”इत्यग्निष्टोमसाम कार्यं देवतास्वेवैनान् प्रतिष्ठापयति
१७.१.११ अथो खल्वाहुःऽऽदर्शि गातुवित्तम”इत्येव सतोबृहतीषु कार्यं विषम इव वै व्रातः सर्वानेवैनान् सतोबृहतः करोति
१७.१.१२ तदाहुः शिथिलमिव वा एतत् छन्दश्चराचरं यत् सतोबृहतीऽऽदेवो वो द्रविणोदा”इत्येव कार्यम्
१७.१.१३ एषा वै प्रतिष्ठिता बृहती या पुनःपदा तद्यत् पदं पुनरारभते तस्मात् पुत्रो मातरमध्येति
१७.१.१४ उष्णीषं च प्रतोदश्च ज्याह्णोडश्च विपथश्च फलकास्तीर्णः कृष्णशं वासः कृष्णवलक्षे अजिने रजतो निष्कस्तद्गृहपतेः
१७.१.१५ वलूकान्तानि दामतूषाणीतरेषां द्वे द्वे दामनी द्वे द्वे उपानहौ द्विषंहितान्यजिनानि
१७.१.१६ एतद्वै व्रात्यधनं यस्मा एतद्ददति तस्मिन्नेव मृजाना यान्ति
१७.१.१७ त्रयस्त्रिंशता त्रयस्त्रिंशता गृहपतिमभिसमायन्ति त्रयस्त्रिंशद्धि देवा आर्ध्नुवनृध्या एव
१७.२.१ अथैष षट्षोडशी ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्
१७.२.२ अभिपूर्वेण वा एते पाप्मना गृहीता ये नृशंसा निन्दिताः सन्तो व्रात्यां प्रवसन्ति यत् षट्षोडशानि स्तोत्राणि भवन्ति तेन पाप्मानोऽधि निर्मुच्यन्ते
१७.२.३ यदेकविंशोऽग्निष्टोमो भवति प्रतिष्ठाया एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति
१७.२.४ उक्थो भवति पशवो वा उक्थानि पशवो नृशंसमग्र्यं परिणयन्ति पशुभिरेवैनानग्र्यं परिणयति

१७.३.१ अथैष द्विषोडशो ये कनिष्ठाः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्
१७.३.२ हीना वा एते अहीयन्ते ये कनिष्ठाः सन्तो व्रात्यां प्रवसन्ति यत् त्रिवृतः पवमाना भवन्ति मुखं वै त्रिवृत् स्तोमानां मुखत एवैनान् यज्ञस्य परिणयति
१७.३.३ यद्वै षोडशे स्तोत्रे भवतस्तेन पाप्मनोऽधि निर्मुच्यन्ते
१७.३.४ एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति

१७.४.१ अथैष शमनीचामेढ्राणां स्तोमो ये ज्येष्ठाः सन्तो व्रात्यां प्रवसेयुस्त एतेन यजेरन्
१७.४.२ अग्रादग्रं रोहन्त्यूर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय
१७.४.३ एतेन वै शमनीचामेढ्रा अयजन्त तेषां कुषीतकः सामश्रवसो गृहपतिरासीत् तान् लुशाकपिः खार्गलिरनुव्याहरदवाकीर्षत कनीयांसौ स्तोमावुपागुरिति तस्मात् कौषीतकानां न कश्चनातीव जिहीते यज्ञाव कीर्णा हि

१७.५.१ इन्द्रो वै त्रिशिरसं त्वाष्ट्रमहंस्तमश्लीला वागभ्यवदत् सोऽग्निमुपाधावत् स एतदग्निस्तोत्रमपश्यत् तदात्मन्यधिविधाय तेनैनमयाजयत् तेनास्याश्लीलां वाचमपाहन्
१७.५.२ अपाश्लीलां वाचं हते य एवं वेद
१७.५.३ योऽपूत इव स्यादग्निष्टुता यजेताग्निनैवास्य पाप्मानमपहत्य त्रिवृता तेजो ब्रह्मवर्चसं दधाति
१७.५.४ तदाहुर्यत् त्रिवृद्भवत्येकस्मादेवाङ्गात् पाप्मानमपहन्ति मुखादेवेति
१७.५.५ ज्योतिष्टोम एव कार्यः
१७.५.६ यत् त्रिवृद्भवति यदेवास्य मुखतोऽपूतं तत् तेनापहन्ति यत् पञ्चदशो यदेवास्योरस्तो बाह्वोरपूतं तत् तेनापहन्ति यत् सप्तदशो यदेवास्य मध्यतोऽपूतं तत् तेनापहन्ति यदेकविंशो यदेवास्य पदोरष्ठीवतोरपूतं तत् तेनापहन्ति
१७.५.७ वैश्वानरं वा एष प्रविशतीत्याहुर्योऽग्निष्टुता यजत इति वारवन्तीयमग्निष्टोमसाम कार्यं तस्य यदपूतं तदग्निः क्षापयत्यथेतरः शुचिः पूत उदेति

१७.६.१ त्रिवृदग्निष्टुदग्निष्टोमस्तस्य वायव्यास्वग्निष्टोमसाम
१७.६.२ ब्रह्मवर्चसकामो यजेत
१७.६.३ तेजो वै त्रिवृद्ब्रह्मवर्चसं यद्वायव्यास्वग्निष्टोमसाम भवत्युपैवैनं तद्धमति
१७.६.४ यथा हिरण्यं निष्टपेदेवमेनमग्निष्टुन्निष्टपति

१७.७.१ एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो यजेत
१७.७.२ जरत्कक्षो वा एष योऽपशुर्यथा वै जरत्कक्षे पशवो न रमन्त एवमेतस्मिन् पशवो न रमन्ते योऽपशुर्यदा वै जरत्कक्षमग्निर्दहत्यथैनमभिवर्षत्यथास्मिन्नोषधयो जायन्तेऽथ वै तस्मिन् पशवो रमन्ते
१७.७.३ रमन्तेऽस्मिन् पशवो य एवं वेद
१७.७.४ यदेवास्यापशव्यं तदग्निष्टुन्निर्दहति यदग्निष्टुन्निर्दहति तदद्भी रेवतीभिः शमयति

१७.८.१ ज्योतिष्टोमेनाग्निष्टुता यज्ञविभ्रष्टो यजेत
१७.८.२ यस्मिन् वा यज्ञक्रतौ विभ्रंशेत
१७.८.३ अग्निर्वा एतस्य हव्यमत्ति यो यज्ञे विभ्रंशते न देवता हव्यं गमयत्यग्निमेवैकधर्ध्नोति
१७.८.४ यद्वै संशीर्यतेऽथान्यन्निष्कुर्वन्ति तेन तद्याति यदा वाव तन्निष्कुर्वन्त्यथ तद्याति येष्वेव स्तोमेषु विभ्रंशते यस्मिन् यज्ञक्रतौ तैरेव यजेत येष्वेव स्तोमेषु विभ्रंशते यस्मिन् यज्ञक्रतौ तेष्वेव प्रतितिष्ठति

१७.९.१ सप्तदशेनाग्निष्टुतान्नाद्यकामो यजेत
१७.९.२ अन्नं वै सप्तदशोऽग्निरन्नाद्यस्य प्रदाताग्निरेवास्मा अन्नाद्यं प्रयच्छति
१७.९.३ अन्नादो भवति य एवं वेद
१७.९.४ सर्वः सप्तदशो भवति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति

१७.१०.१ त्रिवृदग्निष्टोमस्तस्यानिरुक्तं प्रातःसवनम्
१७.१०.२ प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टा अपाक्रामन् स एतदनिरुक्तं प्रातःसवनमपश्यत् तेनासां मध्यं व्यवैत् ता एनमुपावर्तन्त पर्येनमाविशन्
१७.१०.३ ग्रामकामो यजेत यदेतदनिक्तं प्रातःसवनं भवति मध्यमेवासां व्यवैत्युपैनमावर्तन्ते पर्येनं विशन्ति
१७.१०.४ स एष प्रजापतेरपूर्वो नास्मात् पूर्वो भवति य एवं वेद

१७.११.१ त्रिवृदग्निष्टोमः
१७.११.२ तस्य प्रातःसवने सन्नेषु नाराशंसेष्वेकादशदक्षिणा व्यादिशत्यश्वद्वादशा मध्यन्दिने ता उभयीरपाकरोत्येकादश तृतीयसवने ता वशायामपाकरोति
१७.११.३ त्रयस्त्रिंशदेता दक्षिणा भवन्ति त्रयस्त्रिंशद्देवता देवता एवाप्नोत्यश्वश्चतुस्त्रिंशो दक्षिणानां प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिमेवाप्नोति
१७.११.४ स एष बृहस्पतिसवो बृहस्पतिरकामयत देवानां पुरोधां गच्छेयमिति स एतेनायजत स देवानां पुरोधामगच्छत्
१७.११.५ गच्छति पुरोधां य एवं वेद
१७.११.६ स एष स्थपतिसवो यं स्थापत्यायाभिषिञ्चेरन् स एतेन यजेत
१७.११.७ गच्छति स्थापत्यं य एवं वेद
१७.११.८ कृष्णाजिनेऽध्यभिषिच्यत एतद्वै प्रत्यक्षं ब्रह्मवर्चसं ब्रह्मवर्चस एवाध्यभिषिच्यते
१७.११.९ आज्येनाभिषिच्यते तेज आज्यं तेज आत्मन् धत्ते

१७.१२.१ त्रिवृदग्निष्टोमः स सर्वस्वारो यः कामयेतानामयतामुं लोकमियामिति स एतेन यजेत
१७.१२.२ प्राणो वै त्रिवृत् प्राणः स्वरः प्राणानेवास्य बहिर्णिरादधाति ताजक्प्रमीयते
१७.१२.३ त्रिवृद्वै स्तोमानां क्षेपिष्ठो यत् त्रिवृद्भवत्याशीयः संगच्छाता इत्यनन्तो वै स्वरोऽनन्तोऽसौ लोकोऽनन्तमेवैनं स्वर्गं लोकं गमयति
१७.१२.४ अभिवत्यः प्रवत्यो भवन्त्यस्मादेवैनं लोकात् स्वर्गं लोकं गमयन्ति
१७.१२.५ आर्भवपवमाने स्तूयमान औदुम्बर्या दक्षिणा प्रावृतो निपद्यते तदेव संगच्छते
१७.१२.६ स एष शुनस्कर्णस्तोम एतेन वै शुनस्कर्णो बाष्किहोऽयजत तस्माच्छुनस्कर्णस्तोम इत्याख्यायते

१७.१३.१ त्रिवृदग्निष्टोमो वैश्वदेवस्य लोकः
१७.१३.२ आग्नेयी प्रतिपद्वैश्वदेवः पशुर्बार्हस्पत्यानुबन्ध्या
१७.१३.३ न यूपं मिन्वन्ति नोत्तरवेदिं निवपन्ति
१७.१३.४ परिधौ पशुं नियुञ्जन्ति
१७.१३.५ पञ्चाशद्दक्षिणा
१७.१३.६ अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसमश्नाति न स्त्रियमुपैति
१७.१३.७ ततश्चतुर्षु मासेषु वरुणप्रघासानां लोके द्विदिवः
१७.१३.८ वारुणी प्रतिपन्मारुतः पशुः
१७.१३.१ कवती प्रतिपद्वारुणः पशुः
१७.१३.१० मैत्रावरुण्यनूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशू नियुञ्जन्ति
१७.१३.११ शतं दक्षिणा अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसमश्नाति न स्त्रियमुपैति
१७.१३.१२ ततश्चतुर्षु मासेषु साकमेधानां लोके त्रिरात्रः
१७.१३.१३ अनीकवती प्रतिपदाग्नेयः पशुर्मारुती प्रतिपदैन्द्राग्नः पशुर्वैश्वकर्मणी प्रतिपदेकादशिनी पशवः सौर्यानूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशून्नियुञ्जन्ति पञ्चाशच्छतं दक्षिणा
१७.१३.१४ अहतं वसानोऽवभृथादुदेति चतुरो मासो न मांसमश्नाति न स्त्रियमुपैति
१७.१३.१५ ततश्चतुर्षु मासेषु शुनासीर्यस्य लोके ज्योतिष्टोमोऽग्निष्टोमः
१७.१३.१६ उपवती प्रतिपद्वायव्यः पशुराश्विन्यनूबन्ध्या मिन्वन्ति यूपं न्युत्तरवेदिं वपन्ति यूपे पशुं नियुञ्जन्ति द्वादशं शतं दक्षिणा
१७.१३.१७ अग्निः संवत्सरः सूर्यः परिवत्सरश्चन्द्रमा इदावत्सरो वायुरनुवत्सरोऽग्निं संवत्सरं वैश्वदेवेनाप्नोति सूर्यं परिवत्सरं वरुणप्रघासैश्चन्द्रमसमिदावत्सरं साकमेधैर्वायुमनुवत्सरं शुनासीर्येण
१७.१३.१८ हविर्यज्ञैर्वै देवा इमं लोकमभ्यजयन्नन्तरिक्षं पशुमद्भिः सोमैरमुमिमानेव लोकानाप्नोत्येषु लोकेषु प्रतितिष्ठति य एवं वेद
१७.१४.१ यदाग्निहोत्रं जुहोत्यथ दश गृहमेधिन आप्नोत्येकया रात्र्या, यदा दश संवत्सरानग्निहोत्रं जुहोत्यथ दर्शपूर्णमासयाजिनमाप्नोति, यदा दश संवत्सरान् दर्शपूर्णमासाभ्यां यजतेऽथाग्निष्टोमयाजिनमाप्नोति, यदा दशभिरग्निष्टोमैर्यजतेऽथ सहस्रयाजिनमाप्नोति, यदा दशभिः सहस्रैर्यजतेऽथायुतयाजिनमाप्नोति, यदा दशभिरयुतैर्यजतेऽथ प्रयुतयाजिनमाप्नोति, यदा दशभिः प्रयुतैर्यजतेऽथ नियुतयाजिनमाप्नोति, यदा दशभिर्नियुतैर्यजतेऽथार्बुदयाजिनमाप्नोति, यदा दशभिरर्बुदैर्यजतेऽथ न्यर्बुदयाजिनमाप्नोति, यदा दशभिर्न्यर्बुदैर्यजतेऽथ निखर्वकयाजिनमाप्नोति, यदा दशभिर्निखर्वकैर्यजतेऽथ बद्वयाजिनमाप्नोति, यदा दशभिर्बद्वैर्यजतेऽथाक्षितयाजिनमाप्नोति यदा दशभिरक्षितैर्यजतेऽथ गौर्भवति, यदा गौर्भवत्यथाग्निर्भवति यदाग्निर्भवत्यथ संवत्सरस्य गृहपतिमाप्नोति
१७.१४.२ यदा संवत्सरस्य गृहपतिर्भवत्यथ वैश्वदेवस्य मात्रामाप्नोत्यतो वा इतरे परस्तरां परस्तरामेव सर्वे
१७.१४.३ एतानेव लोकानाप्नोत्येतान् लोकान् जयति य एवं वेद

१८.१.१ सप्तदशोऽग्निष्टोमः
१८.१.२ देवाश्च वा असुराश्च प्रजापतेर्द्वयाः पुत्रा आसंस्तेऽसुरा भूयांसो बलीयांस आसन् कनीयांसो देवास्ते देवाः प्रजापतिमुपाधावन् स एतमुपहव्यमपश्यत्
१८.१.३ स ऐक्षत यन्निरुक्तमाहरिष्याम्यसुरा मे यज्ञं हनिष्यन्तीति सोऽनिरुक्तमाहरत्
१८.१.४ स उत्तमे स्तोत्रेऽऽदेवो वो द्रविणोदा”इति देवानभिपर्यावर्तत
१८.१.५ ततो देवा अभवन् परासुराः
१८.१.६ भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
१८.१.७ अथो खल्वाहुःऽऽयज्ञायज्ञा वो अग्नय”इत्येव कार्यम्
१८.१.८ अग्निर्वै सर्वा देवतास्तेन न देवतानां कां चनान्तरेति
१८.१.९ इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत् तमश्लीला वागभ्यवदत् स प्रजापतिमुपाधावत् तस्मा एतमुपहव्यं प्रायच्छत् तं विश्वे देवा उपाह्वयन्त तस्मादुपहव्यः
१८.१.१० अभिशस्यमानं याजयेत्
१८.१.११ देवता वा एतं परिव्रजन्ति यमनृतमभिशंसन्ति देवता एवास्यान्नमादयन्ति
१८.१.१२ तस्य पूतस्य स्वदितस्य मनुष्या अन्नमदन्ति
१८.१.१३ ग्रामकामो यजेत
१८.१.१४ मारुती भवति मरुतौ वै देवानां विशो विशमेवास्मा अनुनियुनक्त्यनपक्रामुकास्माद्विड्भवति
१८.१.१५ पशुकामो यजेत पौषी भवति
१८.१.१६ पशवो वै पूषा पशूनेवावरुन्धे
१८.१.१७ वैश्वदेवी भवति विश्वे ह्येनं देवा उपाह्वयन्त
१८.१.१८ बृहत्सामा भवति
१८.१.१९ प्रजापतिर्ह्येनमिन्द्राय प्रायच्छत्
१८.१.२० अश्वः श्यवो दक्षिणा
१८.१.२१ स ह्यनिरुक्तः
१८.१.२२ स ब्रह्मणे देयः
१८.१.२३ ब्रह्मा वा ऋत्विजामनिरुक्तः स्वेनैवैनं तद्रूपेण समर्धयति
१८.१.२४ यावद्ध वै कुमारे सद्यो जात एनो नास्मिंस्तावच्च नैनो भवति य एवं वेद

१८.२.१ सप्तदशोऽग्निष्टोमः
१८.२.२ तस्य द्वादश दीक्षोपसदः
१८.२.३ स्वर्गकामो यजेत
१८.२.४ द्वादश मासाः संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गमेवैतेन लोकमाप्नोति
१८.२.५ घृतव्रतो भवति
१८.२.६ देवव्रतं वै घृतं देवव्रतेनैव देवता अप्येति
१८.२.७ उत्तरेणोत्तरेण काण्डेनोपैत्युत्तर उत्तर एषां लोकानां ज्यायान् स्वर्गस्य समष्ट्यै
१८.२.८ बृहत्साम भवति बृहता वै देवाः स्वर्गं लोकमायन् स्वर्गमेवेतेन लोकमाप्नोति
१८.२.९ ऋतमुक्त्वा प्रसर्पन्त्यृतेनैवैनं स्वर्गं लोकं गमयन्ति
१८.२.१० सोमचमसो दक्षिणा देवतयैव देवता अप्येति
१८.२.११ औदुम्बरो भवत्यूर्गुदुम्बर ऊर्जमेवावरुन्धे
१८.२.१२ सगोत्राय ब्रह्मणे देयः सोमपीथस्याविदोहाय
१८.२.१३ सर्वः सप्तदशो भवति
१८.२.१४ द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरः स्वर्गो लोकः स्वर्गमेवैतेन लोकमाप्नोति

१८.३.१ सप्तदशोऽग्निष्टोमः
१८.३.२ तस्य दीक्षणीयायामिष्टौ द्वादशमानं हिरण्यं ददाति चतुर्विंशतिमानं प्रायणीयायां द्वे चतुर्विंशतिमाने आतिथ्यायां चत्वारि चतुर्विंशतिमानानि प्रातः प्रथमायामुपसद्यष्टौ चतुर्विंशतिमानान्यपराह्णे प्रथमायामुपसदि षोडशचतुर्विंशतिमानानि प्रातर्मध्यमायामुपसदि द्वात्रिंशतं चतुर्विंशतिमानान्यपराह्णे मध्यमायामुपसदि चतुःषष्टिं चतुर्विंशतिमानानि प्रातरुत्तमायामुपसद्यष्टाविंशतिशतं चतुर्विंशतिमानान्यपराह्ण उत्तमायामुपसदि द्वे अष्टाविंशतिशतमाने अग्नीषोमीयस्य पशोर्वपायां चत्वार्यष्टाविंशतिशतमानानि प्रातः पशोर्वपायामष्टावष्टाविंशतिशतमानानि प्रातःसवने सन्नेषु नाराशंसेषु षोडशाष्टाविंशतिशतमानानि माध्यन्दिने सवनेऽनडुच्छतं च रुक्मो होतुः स्रगुद्गातुर्द्वात्रिंशतमष्टाविंशतिशतमानानि तृतीयसवने सन्नेषु नाराशंसेषु चतुःषष्टिमष्टाविंशतिशतमानान्युदयनीयायामिष्टावष्टाविंशतिशतमष्टाविंशतिशतमानानि वशाया वपायाम्
१८.३.३ एष वा अनडुहो लोकमाप्नोति य एवं वेद
१८.३.४ एष वै ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वानेतेन यजते

१८.४.१ सप्तदशोऽग्निष्टोमः
१८.४.२ तस्य प्रातःसवनीयान् सोमान् प्रतिदुहा श्रीणाति शृतेन मध्यन्दिने दध्ना तृतीयसवने
१८.४.३ पशुकामो यजेत
१८.४.४ यत् सर्वाणि सवनान्याशीर्वन्ति भवन्त्यनुसवनमेवैनं पशुभिः सर्मर्धयति प्रजा त्वस्य मीलितेव भवति शुक्रिये हि सवने पयसा श्रीणाति
१८.४.५ वैश्यं याजयेत्
१८.४.६ एतद्वै वैश्यस्य समृद्धं यत् पशवः पशुभिरेवैनं समर्धयति
१८.४.७ तस्य कण्वरथन्तरं पृष्ठम्
१८.४.८ सदोविशीयं ब्रह्मसाम
१८.४.९ पशवो वै कण्वरथन्तरं पशवः सदोविशीयमाभिपूर्वानेवास्मिन् पशून् दधाति
१८.४.१० सर्वः सप्तदशो भवति
१८.४.११ द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरं पशवोऽनुप्रजायन्ते तानेवाप्त्वावरुन्धे

१८.५.१ सप्तदश उक्थ्यः
१८.५.२ इन्द्रो वृत्रमहन् स विष्वङ्वीर्येण व्यार्च्छत् तस्मै देवाः प्रायश्चित्तिमैच्छंस्तं न किं चनाधिनोत् तं तीव्रसोम एवाधिनोत्
१८.५.३ सोमातिपवितं याजयेत्
१८.५.४ छिद्र इव वा एष यं सोमोऽतिपवते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
१८.५.५ राजानमपरुद्धं याजयेत्
१८.५.६ विड्वा एतमतिपवते यो राजापरुध्यते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
१८.५.७ ग्रामकामो यजेत
१८.५.८ ग्रामो वा एतमतिपवते योऽलं ग्रामाय सन् ग्रामं न विन्दते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
१८.५.९ प्रजाकामो यजेत प्रजा वा एतमतिपवते योऽलं प्रजायाः सन् प्रजां न विन्दते यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
१८.५.१० पशुकामो यजेत पशवो वा एतमतिपवन्ते योऽलं पशुभ्यः सन् पशून्न विन्दते यत् तीव्रसोमेन यजते पिहित्या [थुस्Bई॑ऽपिहित्या Kष्ष्] एवाच्छिद्रतायै
१८.५.११ आमयाविनं याजयेत् प्राणा वा एतमतिपवन्ते य आमयावी यत् तीव्रसोमेन यजते पिहित्या एवाच्छिद्रतायै
१८.५.१२ शतमाशिरं दुहन्ति तीव्रयन्त्येवैनम्
१८.५.१३ तत् ता उ एव दक्षिणाः
१८.५.१४ अभ्यभिसोमानुन्नयन्ति तीव्र एनं धिनवदित्युभावध्वर्यू सर्वे चमसाध्वर्यवोऽच्छावाकाय प्रतिगृणन्ति तीव्रयन्त्येवैनम्
१८.५.१५ तदभक्षयन्त ऋत्विजश्चमसानवजिघ्रन्ति तीव्रयन्त्येवैनं तत् तानच्छावाकस्य स्तोत्रे भक्षयन्ति तीव्रयन्त्येवैनम्
१८.५.१६ तद्यत् सवनानि व्यवभक्षयेयुरपक्रामुका यजमानाच्छ्रीः स्यात् सकृत्सकृत् सवनानामन्ततो भक्षयन्ति सवनानामसंभेदाय
१८.५.१७ रथन्तरं साम भवति
१८.५.१८ इयं वै रथन्तरमस्यां वा एष न प्रतितिष्ठति यो न प्रतितिष्ठत्यस्यामेवैनं प्रतिष्ठापयति
१८.५.१९ श्रायन्तीयं ब्रह्मसाम भवत्येतदेवास्मिञ्छ्रीणाति
१८.५.२१ वागनुष्टुप्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
१८.५.२२ विशोविशीयमग्निष्टोमसाम भवत्येतदेवास्मिन् सर्वं प्रतिष्ठापयति
१८.५.२३ उद्वंशीयमुक्थानामन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
१८.५.२४ उक्थ्यो भवति पशवो वा उक्थानि पशुष्वेव प्रतितिष्ठति

१८.६.१ सप्तदश उक्थ्यः षोडशिमान् सप्तदशी
१८.६.२ यावान् वै प्रजापतिरूर्ध्वस्तावांस्तिर्यङ्
१८.६.३ यावन्त इमे लोका ऊर्ध्वास्तावन्तस्तिर्यञ्चः
१८.६.४ वाजपेययाजी वाव प्रजापतिमाप्नोति
१८.६.५ यत् सप्तदश स्तोत्राणि तेनोर्ध्वमप्नोति यत् सर्वः सप्तदशस्तेन तिर्यञ्चम्
१८.६.६ तस्य नानावीर्याणि सवनानि
१८.६.७ अनिरुक्तं प्रातःसवनं वाजवन्माध्यन्दिनं सवनं चित्रवत् तृतीयसवनम्
१८.६.८ यदनिरुक्तं प्रातःसवनं भवत्यनिरुक्तो वै प्रजापतिः प्रजापतिमेवाप्नोति यद्वाजवन्माध्यन्दिनं सवनं अन्नं वै वाजोऽन्नाद्यस्यावरुध्यै यच्चित्रवत् तृतीयसवनं स्वर्गस्य लोकस्य समष्ट्यै
१८.६.९ वियोनिर्वाजपेय इत्याहुः प्राजापत्यः सन्निरुक्तसामेति यदनिरुक्तं प्रातःसवनं तेन सयोनिः
१८.६.१० रथन्तरं साम भवत्याशीय उज्झित्यै
१८.६.११ इयं वै रथन्तरमस्यामेवाध्यभिषिच्यते
१८.६.१२ तस्माद्वाजपेययाज्यप्रत्यवरोही
१८.६.१३ अस्यां हि सोऽध्यभिषिच्यते
१८.६.१४ अभीवर्तो ब्रह्मसाम भवति ब्रह्मणो वा एष ऋषभ ऋषभतामेवैनं गमयति
१८.६.१५ यज्ञायज्ञीयमनुष्टुभि भवति वागनुष्टुप्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
१८.६.१६ वारवन्तीयमग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै
१८.६.१७ उद्वंशीयमुक्थानामन्ततो भवति सर्वेषां वा एतत् पृष्ठानां रूपं सर्वेष्वेव रूपेषु प्रतितिष्ठति
१८.६.१८ गौरीवितं षोडशिसाम भवति
१८.६.१९ अतिरिक्तं गौरीवितमतिरिक्तः षोडश्यतिरिक्त एवातिरिक्तं दधाति
१८.६.२० तदाहुर्जामि वा एतद्यज्ञे क्रियते यदुद्वंशीयाद्गौरीवितेन स्तुवते स्वारात् स्वारेणेति
१८.६.२१ न जाम्यस्ति सवनं संतिष्ठते
१८.६.२२ उक्थं शस्यते वषट्कारोऽन्तरा तेनाजामि
१८.६.२३ अपच्छिदिव वा एतद्यज्ञकाण्डं यत् षोडशी तेनाजामि
१८.६.२४ यज्ञारण्ये संतिष्ठत इत्याहुरत्युक्थान्येत्यति षोडशिनं न रात्रिं प्राप्नोतीति
१८.६.२५ विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति
१८.६.२६ एषा वै प्रजापतेः पशुष्ठा तनूर्यच्छिपिविष्टः प्राणो वै बृहत् प्राण एव पशुषु प्रतितिष्ठति
१८.६.२७ बृहता स्तुवन्ति बृहदमुं लोकमाप्तुमर्हति तमेवाप्नोति

१८.७.१ प्रजापतिरकामयत वाजमाप्नुयां स्वर्गं लोकमिति स एतं वाजपेयमपश्यद्वाजपेयो वा एष वाजमेवैतेन स्वर्गं लोकमाप्नोति
१८.७.२ शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति तेजो ब्रह्मवर्चसं ताभिरवरुन्धे
१८.७.३ वाजवत्यो माध्यन्दिने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै
१८.७.४ अन्नवत्यो गणवत्यः पशुमत्यस्तृतीयसवने भवन्ति भूमानं ताभिरवरुनधे
१८.७.५ सर्वः सप्तदशो भवति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति
१८.७.६ हिरण्यस्रज ऋत्विजो भवन्ति महस एव तद्रूपं क्रियते
१८.७.७ एष मेऽमुष्मिन् लोके प्रकाशोऽसदिति
१८.७.८ ज्योतिर्वै हिरण्यं ज्योतिरेवास्मिन् दधाति
१८.७.९ आजिं धावन्ति यजमानमुज्जापयन्ति स्वर्गमेवैनं तल्लोकमुज्जापयन्ति
१८.७.१० नाकं रोहति स्वर्गमेव तल्लोकं रोहति
१८.७.११ सरजसे रोहति मनुष्यलोकादेवैनमन्तर्दधाति
१८.७.१२ वाजिनां साम ब्रह्मा रथचक्रेऽभिगायति वाजो वै स्वर्गो लोकः स्वर्गमेवैनं तल्लोकमुज्जापयति
१८.७.१३ विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति स्वर्गमेव तल्लोकं रूढ्वा ब्रध्नस्य विष्टपमभ्यतिक्रामति

१८.८.१ अग्निष्टोमं प्रथममाहरति यज्ञमुखं वा अग्निष्टोमो यज्ञमुखमेवारभ्य सवमाक्रमते
१८.८.२ अथैषोऽभिषेचनीयः
१८.८.३ तस्य द्वात्रिंशाः पवमाना द्वात्रिंशदक्षराऽनुष्टुब्वागनुष्टुब्यावती वाक्तयैव सूयते
१८.८.४ संशर इव वा एष छन्दसां यद्विषमा स्तोमा अयथापूर्वमिति
१८.८.५ यत् समाः पवमानास्तेनासंशरस्तेन यथापूर्वम्
१८.८.६ आत्मना वा अग्निष्टोमेनर्ध्नोत्यात्मना पुण्यो भवत्यथ यदुक्थानि पशवो वा उक्थानि विडुक्थानि यदुक्थानि भवन्त्यनुसन्तत्या एव
१८.८.७ “वायो शुक्रो अयामित”इति वायव्या प्रतिपद्भवति वाग्वै वायुर्वाचमेवास्य यज्ञमुखे युनक्ति तयाभिषिच्यते सर्वस्या एव वाचः सूयते सर्वा एनं वाचो राजेति वदन्ति
१८.८.८ संभार्या भवन्ति पृष्ठान्येव ताभिर्युनक्ति यन्नानादेवत्यास्तेन युनक्ति वीर्यं वै पृष्ठानि वीर्य एवाध्यभिषिच्यते
१८.८.९ यन्ति वा एते यज्ञमुखादित्याहुर्ये संभार्याः कुर्वत इति
१८.८.१० यत्ऽऽपवस्य वाचो अग्रिय”इति तेन यज्ञमुखान्न यन्ति
१८.८.११ “दविद्युतत्या रुचा”इति छन्दसां रूपं छन्दांस्येवास्य यज्ञमुखे युनक्ति तैरभिषिच्यते
१८.८.१२ “ेतमु त्यं दश क्षिप”इत्यादित्या आदित्या वा इमाः प्रजास्तासामेव मध्यतः सूयते
१८.८.१३ “पवस्वेन्दो वृषा सुत”वृषण्वत्यो भवन्ति त्रिष्टुभो रूपं वीर्यं वै त्रिष्टुप्वीर्य एवाध्यभिषिच्यते
१८.८.१४ “ुत्ते शुष्मास ईरत”इत्युद्वत्यो भवन्त्युद्वद्वा अनुष्टुभो रूपमानुष्टुभो राजन्यस्तस्मादुद्वत्यो भवन्ति
१८.८.१५ “पवमानस्य ते कव”इति प्राणानां कॢप्त्यै
१८.८.१६ “ध क्षपा परिष्कृत”इत्यनुष्टुप्प्रथमानुष्टुबुत्तमा वाग्वा अनुष्टुब्वाचैव प्रयन्ति वाचमभ्युद्यन्ति
१८.८.१७ छिन्नमिव वा एतद्यदेकर्चा यदेतावानुष्टुभौ तृचावभितो भवतो बहवः पुरएतारो भवन्ति बहवः पश्चापिनः
१८.८.१८ सौर्यानुष्टुबुत्तमा भवति स्वर्गस्य लोकस्य समष्ट्यै

१८.९.१ वरुणस्य वै सुषुवाणस्य भर्गोऽपाक्रामत् स त्रेधापतद्भृगुस्तृतीयमभवच्छ्रायन्तीयं तृतीयमपस्तृतीयं प्राविशत्
१८.९.२ यद्भार्गवो होता भवति तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे यत् श्रायन्तीयं ब्रह्मसाम भवति तेनैव तदिन्द्रियं वीर्यमाप्त्वारुन्धे यत् पुष्करस्रजं प्रतिमुञ्चते तेनैव तदिन्द्रियं वीर्यमाप्त्वावरुन्धे
१८.९.३ दशमी भवति
१८.९.४ दश चमसा दश चमसाध्वर्यवो दश दश चमसमभियन्त्या दशमात् पुरुषादन्वाख्याय प्रसर्पन्ति दश समृद्धो ह्येष यज्ञ एनं वाव ते तद्यज्ञमन्वैच्छन् य एतेन यजत एतदेवेन्द्रियं वीर्यमात्त्वास्मिन् दधाति
१८.९.५ सर्वः सप्तदशो भवति द्वादश मासाः पञ्चर्तवः स वै संवत्सरः संवत्सरादेवेन्द्रियं वीर्यमाप्त्वावरुन्धे
१८.९.६ इन्द्रो वृत्रमहंस्तस्येयं चित्राण्युपैद्रूपाण्यसौ नक्षत्राणामवकाशेन पुण्डरीकं जायते यत् पुष्करस्रजं प्रतिमुञ्चते वृत्रस्यैव तद्रूपं क्षत्रं प्रतिमुञ्चते
१८.९.७ द्वादश पुष्करा भवन्ति द्वादश मासाः संवत्सरः संवत्सरेऽन्तर्भूतं च भव्यं च भूतेन चैवैनं भव्येन च समर्धयति
१८.९.८ स्रगुद्गातुस्सौर्य उद्गाता न वै तस्मै व्यौच्छदथो व्येवास्मै वासयति
१८.९.९ रुक्मो होतुराग्नेयो होताथो अमुमेवास्मा आदित्यमुन्नयति
१८.९.१० प्राकाशावध्वर्योर्याविव ह्यध्वर्यू अथो चक्षुषी एवास्मिन् दधाति
१८.९.११ अश्वः प्रस्तोतुः प्राजापत्योऽश्वः प्राजापत्यः प्रस्तोताथो प्रेव ह्यश्वः प्रोथति प्रेव प्रस्तोता स्तौति
१८.९.१२ धेनुः प्रतिहर्तुः पय एवास्मिन् दधाति
१८.९.१३ वशा मैत्रावरुणस्य वशं मा नयादिति
१८.९.१४ ऋषभो ब्राह्मणाच्छंसिनो वीर्यं वा ऋषभो वीर्यमेवास्मिन् दधाति
१८.९.१५ वासः पोतुः पवित्रत्वाय
१८.९.१६ वरासी नेष्टुरनुलम्बेव ह्येषा होत्रा
१८.९.१७ स्थूरि यवाचितमच्छावाकस्य स्थूरिरिव ह्येषा होत्राथो निर्वरुणत्वायैव यवा न वै तर्हि यदस्यां दक्षिणा अभ्यभवन्नथो अस्य त एव तेनाभीष्टाः प्रीता भवन्ति
१८.९.१८ अनड्वानग्नीधो युक्त्यै
१८.९.१९ अजः सुब्रह्मण्यायै
१८.९.२० वत्सतर्युन्नेतुः साण्डस्त्रिवत्सो ग्रावस्तुतो मिथुनत्वाय
१८.९.२१ द्वादश पष्ठौह्यो गर्भिण्यो ब्रह्मणो द्वादश मासाः संवत्सरः संवत्सर एव प्रतितिष्ठत्यथ यद्गर्भिण्यो वाग्वै धेनुर्मन्त्रो गर्भो वाच्येवास्य मन्त्रं दधात्यामन्त्रणीयो भवत्यथ यद्धेनुभव्या द्वादश पयांसि तान्येवास्मिन् दधाति तस्मादाहुः पयस्वी राजा पुण्य इति

१८.१०.१ यो वै सवादेति नैनं सव उपनमत्यथ यः सामभ्य एति पापीयान् सुषुवाणो भवति
१८.१०.२ संभार्या भवन्ति पृष्ठान्येव ताभिर्युनक्ति
१८.१०.३ एतानि वाव सामानि यत् पृष्ठानि
१८.१०.४ यत् संभार्या भवन्ति तदेव सामभ्यो नैति
१८.१०.५ यानि देवराज्ञां सामानि तैरमुष्मिन् लोक ऋध्नोति यानि मनुष्यराज्ञां तैरस्मिन्नुभयोरनयोर्लोकयोरृध्नोति देवलोके च मनुष्यलोके च
१८.१०.६ सामत्रिष्टुभ्यध्यभिषिच्यते वीर्यं वै साम त्रिष्टुप्वीर्य एवाध्यभिषिच्यते
१८.१०.७ एकादश राजसामानि भवन्त्येकादशाक्षरा त्रिष्टुबोजो वीर्यं त्रिष्टुबोजस्येव वीर्येऽध्यभिषिच्यते
१८.१०.८ यत् त्रिवृतमभिषेचनीये कुर्युर्ब्रह्म क्षत्रायापिदध्युर्यत् त्रिवृतमुद्धरन्ति ब्रह्म तत् क्षत्रादुद्धरन्ति तस्माद्भरतां प्रतिदण्डा ब्रह्मणा न हि ते त्रिवृतमभिषेचनीये कुर्वन्ति
१८.१०.९ एकविंशोऽभिषेचनीयस्योत्तमः सप्तदशो दशपेय एकविंशः केशवपनीयस्य प्रथमः क्षत्रं वा एकविंशो विट्सप्तदशः क्षत्रेणैवास्मै विशमुभयतः परिगृह्णात्यनपक्रामुकास्माद्विट्भवति
१८.१०.१० यद्वै राजसूयेनाभिषिच्यते तत् स्वर्गं लोकमारोहति स यदिमं लोकं नोपावरोहेदति जनं वा गच्छेदुद्वा माद्येद्यदेषोऽर्वाचीनस्तोमः केशवपनीयो भवत्यस्य लोकस्यानुद्धानाय यथा शाखायाः शाखामालम्भमुपावरोहेदेवमेतेनेमं लोकमुपावरोहति प्रतिष्ठायै

१८.११.१ इन्द्रो वृत्रमहन् स विष्यङ्वीर्येण व्यभ्रंशत स एतच्छ्रायन्तीयमपश्यत् तेनात्मानं समश्रीणादिन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यच्छ्रायन्तीयं ब्रह्मसाम भवति पुनरेवात्मानं संश्रीणाति
१८.११.२ यज्ञायज्ञीयमनुष्टुभि भवति वाचा वा एष व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति वागनुष्टुब्वाचो रसो यज्ञायज्ञीयं वाच्येवास्य रसं दधाति
१८.११.३ वारवन्तीयमग्निष्टोमसाम भवतीन्द्रियेण वा एष वीर्येण व्यृध्यते यो राजसूयेनाभिषिच्यते वृत्रं हि हन्ति यद्वारवन्तीयमग्निष्टोमसाम भवतीन्द्रियस्य वीर्यस्य परिगृहीत्यै
१८.११.४ अश्रयन् वाव श्रायन्तीयेनावारयन्त वारवन्तीयेनेन्द्रियस्य वा एषा वीर्यस्य परिगृहीतिः
१८.११.५ अप्रतिष्ठितो वा एष यो राजसूयेनाभिषिच्यते यदा वा एतेन द्विरात्रेण यजतेऽथैव प्रतिष्ठा
१८.११.६ यावन्ति संवत्सरस्याहोरात्राणि तावत्य एताः स्तोत्रीयाः संवत्सर एव प्रतितिष्ठति
१८.११.७ अग्निष्टोमः पूर्वमहरतिरात्र उत्तरं नानैवाहोरात्रयोः प्रतितिष्ठति
१८.११.८ अमावास्यायां पूर्वमहरुद्रिष्ट [एम्. Cअलन्दुद्दृष्ट] उत्तरं नानैवार्धमासयोः प्रतितिष्ठति पौर्णमास्यां पूर्वमहर्व्यष्टकायामुत्तरं नानैव मासोः प्रतितिष्ठति तदाहुर्य एव समानपक्षे पुण्याहनी स्यातां तयोरेव कार्यं समृध्यै
१८.११.९ अपशव्यो द्विरात्र इत्याहुर्द्वे ह्येते छन्दसी गायत्रं च त्रैष्टुभं च जगतीमन्तर्यन्तीति न तेन जगती कृता यत् तृतीयसवने क्रियते
१८.११.१० यदा वा एषाहीनस्याहर्भजते साह्वस्य वा सवनमथैव जगती कृता त्रैशोकमुत्तरस्याह्नो ब्रह्मसाम भवति वैखानसमच्छावाकसाम यच्छुक्रिये सवने क्रियेते तेनैव जगती कृता तेन पशव्यः
१८.११.११ व्युष्टिर्वा एष द्विरात्रो व्येवास्मै वासयति

१९.१.१ अथैष राट्
१९.१.२ यो राज्य आशंसमानो राज्यं न प्राप्नुयात् स एतेन यजेत राजैवैनं राजानं करोति तं तु वैराजेति वदेयुर्यं राजा राजानं कुर्याद्राजैवैनं राजानं करोति
१९.१.३ छन्दोऽन्ये यज्ञाः संपद्यन्ते स्तोममेष वीर्यं वै स्तोमो वीर्य एवाध्यभिषिच्यते
१९.१.४ अष्टावेकविंशाः संस्तुतो भवत्यष्टौ वै वीरा राष्ट्रं समुद्यच्छन्ति राजभ्राता च राजपुत्रश्च पुरोहितश्च महिषी च सूतश्च ग्रामणी च क्षत्ता च संग्रहीता चैते वै वीरा राष्ट्रं समुद्यच्छन्त्येतेष्वेवाध्यभिषिच्यते
१९.१.५ क्षत्रं वा एकविंशः प्रतिष्ठा क्षत्रस्येवास्य प्रकाशो भवति प्रतितिष्ठति य एवं वेद

१९.२.१ अथैष विराडन्नाद्यकामो यजेत
१९.२.२ परोक्षमन्ये यज्ञा विराजं संपद्यन्ते प्रत्यक्षमेष विराजं संपन्नः
१९.२.३ प्रत्यक्षमेतेनान्नाद्यमवरुन्धेऽन्नादो भवति य एवं वेद
१९.२.४ सर्वो दशदशी भवति दशाक्षरा विराड्वैराजमन्नमन्नाद्यस्यावरुध्यै
१९.२.५ ता उ पञ्च पञ्च भवन्ति पाङ्क्तो यज्ञः पाङ्क्ता पशवो यज्ञ एव पशुषु प्रतितिष्ठति
१९.२.६ एतेनैव प्रतिष्ठाकामो यजेत दशभिर्वा इदं पुरुषः प्रतिष्ठितोऽस्यामेव प्रतितिष्ठति

१९.३.१ अथैष औपशदः
१९.३.२ गन्धर्वाप्सरसां स्तोमः प्रजाकामो यजेत गन्धर्वाप्सरसो वै मनुष्यस्य प्रजाया वाप्रजस्ताया वेशते तेषामत्र सोमपीथस्तान् स्वेन भागधेयेन प्रीणाति तेऽस्मै तृप्ताः प्रीताः प्रजां प्रयच्छन्ति
१९.३.३ एकैका स्तोत्रीयोपजायते प्रजामेवास्मा उपजनयति
१९.३.४ ककुभं प्राचीमुदूहति पुरुषो वै ककुब्गर्भ एव स मध्यतो धीयते
१९.३.५ अथ यदेषा द्विपदा ककुभो लोके क्रियते गर्भ एव तद्धि तं प्रजनयति
१९.३.६ च्यावनं भवति प्रजातिर्वै च्यावनम्
१९.३.७ प्रजायते बहुर्भवति य एवं वेद
१९.३.८ वसिष्ठस्य जनित्रे भवतो वसिष्ठो वा एते पुत्रहतः सामनी अपश्यत् स प्रजया पशुभिः प्राजायत यदेते सामनी भवतः प्रजात्यै
१९.३.९ द्वे संस्तुतानां विराजमतिरिच्येते द्वे स्त्रिया ऊने प्रजननाय प्रजननमेव तत् क्रियते प्रजात्यै

१९.४.१ अथैष पुनःस्तोमः
१९.४.२ यो बहु प्रतिगृह्य गरगीरिव मन्येत स एतेन यजेत
१९.४.३ यैकादशी यदेव पूर्ववयसे बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नमत्ति प्रातःसवनाय तन्निहरति
१९.४.४ अथ या द्वादशी यदेवोत्तरवयसे बहु प्रतिगृह्णति यद्गरं गिरति यदनन्नमत्ति तृतीयसवनाय तन्निहरति
१९.४.५ वैराजो वै पुरुषः स मध्यतोऽशुद्धो मध्यत एवैनं पाप्मनो मुञ्चति
१९.४.६ शुद्धाशुद्धीये भवतः
१९.४.७ इन्द्रो यतीन् सालावृकेयेभ्यः प्रायच्छत् तमश्लीला वागभ्यवदत् सोऽशुद्धोऽमन्यत स एते शुद्धाशुद्धीये अपश्यत् ताभ्यामशुध्यत्
१९.४.८ यदेव बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नमत्ति यदशुद्धो मन्यते तदेताभ्यां शुध्यति
१९.४.९ गौषूक्तं चाश्वसूक्तं च भवतः
१९.४.१० गौषूक्तिश्चाश्वसूक्तिश्च बहु प्रतिगृह्य गरगिरावमन्येतां तावेते सामनी अपश्यतां ताभ्यां गरं निरघ्नाताम्
१९.४.११ यदेव बहु प्रतिगृह्णाति यद्गरं गिरति यदनन्नमत्ति तदेताभ्यां निर्हते
१९.४.१२ पञ्चदश स्तोत्राणि भवन्त्योजो वीर्यं पञ्चदशः पाप्मन एवैनं मुक्त्वौजसा वीर्येण समर्धयति

१९.५.१ अथैष चतुष्टोमः
१९.५.२ पशुकामो यजेत
१९.५.३ यच्चतसृभिर्बहिष्पवमानं भवति चतुष्पादाः पशवः पशूनेवावरुन्धे
१९.५.४ यदष्टाभिराज्यान्यष्टाशफाः पशवः शफशस्तत् पशूनाप्नोति
१९.५.५ यत् द्वादशो माध्यन्दिनः पवमानो द्वादश मासाः संवत्सरः संवत्सरं पशवोऽनु प्रजायन्ते तानेवावरुन्धे
१९.५.६ यत् षोडशानि पृष्ठानि षोडश कलाः पशवः कलाशस्तत् पशूनाप्नोति
१९.५.७ यद्विंश आर्भवः पाङ्क्तत्वमेषां तदाप्नोति
१९.५.८ यच्चतुर्विंशोऽग्निष्टोमश्चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे
१९.५.९ प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
१९.५.१० एकं साम बहूनि छन्दांसि तस्मादेको बहून् पोषान् पुष्यति
१९.५.११ आत्मा वा अग्निष्टोमः पशवश्छन्दांस्यात्मन्येव तत् पशून् प्रतिष्ठापयति नोक्थो नाग्निष्टोमो न हि ग्राम्याः पशवो नारण्याः

१९.६.१ अथ यस्य चत्वारि स्तोत्राणि चतसृभिश्चत्वार्यष्टाभिश्चत्वारि द्वादशभिश्चत्वारि षोडशभिः स गां नातिवदति
१९.६.२ षोडशकलाः पशवः कलाशस्तत् पशून् [Kष्ष्। Bई प्रशून्] आप्नोति
१९.६.३ उक्थ्यः षोडशिमान् भवति पशवो वा उक्थानि वज्रः षोडशी वज्रेणैवास्मै पशून् परिगृह्णात्यनपक्रामुका अस्मात् पशवो भवन्ति नोक्थो नातिरात्रो न हि ग्राम्याः पशवो नारण्याः

१९.७.१ असुराणां वै बलस्तमसा प्रावृतोऽश्मापिधानश्चासीत् तस्मिन् गव्यं वस्वन्तरासीत् तं देवा नाशक्नुवन् भेत्तुं ते बृहस्पतिमब्रुवन्निमान्न उत्सृजेति स उद्भिदैव बलं व्यच्यावयद्बलभिदाभिनत् तानुत्सेधेनैवोदसृजन्निषेधेन पर्यगृह्णात्
१९.७.२ पशुकामो यजेत
१९.७.३ यदुद्भिदा यजेत बलमेवस्मै विच्यावयति यद्बलभिदा बलमेवास्मै भिनत्ति
१९.७.४ उत्सेधनिषेधौ ब्रह्मसामनी भवत उत्सेधेनैवास्मै पशूनुत्सिध्य निषेधेन परिगृह्णाति
१९.७.५ “यज्ञ इन्द्रमवर्धयद्”इति ब्रह्मण आज्यं रूपेण समृद्धम्
१९.७.६ सप्तिसप्तदशौ भवतो यत् सप्तभिः स्तुवन्ति सप्त ग्राम्याः पशवः पशूनेवावरून्धे सप्तपदा शक्वरी पशवः शक्वरी पशूनेवावरून्धेऽथ यत् सप्तदशभिः प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति
१९.७.७ गायत्रीं संपद्यते तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते

१९.८.१ अथैषोऽपचितिरपचितिकामो यजेतापचित्यैवास्मा अपचितिं विन्दति
१९.८.२ तस्य चतुर्विंशौ पवमानौ चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेजसैवास्मै ब्रह्मवर्चसेनापचितिं विन्दति
१९.८.३ उभे बृहद्रथन्तरे भवत उभाभ्यामेवास्मै बृहद्रथन्तराभ्यामपचितिं विन्दति
१९.८.४ भर्गयशसी भवतो भर्गेणैवास्मै भर्गो दधाति यशसा यशः
१९.८.५ उभये स्तोमा युग्मन्तश्चायुजश्चोभयैरेवास्मै स्तोमैरपचितिं विन्दति
१९.८.६ तदाहुर्विलोमान स्तोमा ईश्वरा यजमानं विक्षेतोर्वि ह्यतियन्तीति
१९.८.७ एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति

१९.९.१ अथैष सर्वस्तोमोऽपचितिरपचितिकामो यजेत सर्वैरेवास्मै स्तोमैरपचितिं विन्दति
१९.९.२ विराजं संपद्यत एष वा अपचितो योऽन्नादोऽन्नं विराडन्नाद्यमेवास्मिन् दधाति
१९.९.३ उभे बृहद्रथन्तरे भवतो भर्गयशसी भवत उभये स्तोमाश्छन्दोमाश्च पृष्ठ्याश्चोभयैरेवास्मै स्तोमैरपचितिं विन्दति
१९.९.४ तस्य छन्दोमाः पृष्ठानि पशवो वै छन्दोमा अन्नं पृष्ठान्यभिपूर्वमेवास्मिन्नन्नाद्यं पशून् दधाति यच्छन्दोमवांस्तेन द्वादशाहयाजिनमाप्नोति
१९.९.५ तदाहुर्नानालोकाः स्तोमाश्छन्दोमाश्च पृष्ठ्याश्च यदेकस्मिन् यज्ञक्रतौ समवरुध्यन्त ईश्वरो [चोर्र्. Cअलन्द्॑ Bई । Kष्षीश्वरा] यजमानोऽप्रतिष्ठातोरिति
१९.९.६ एकविंशोऽग्निष्टोमो भवति प्रतिष्ठा वा एकविंशः प्रतिष्ठामेव तदभ्यायन्ति

१९.१०.१ पक्षी वा एष स्तोमः
१९.१०.२ पक्ष्येष निधीयते
१९.१०.३ न वा अपक्षः पक्षिणमाप्नोत्यथ यदेष पक्ष्यपक्षिणि निधीयते तस्मात् पक्षिणः पक्षैः पतन्ति
१९.१०.४ पक्षी ज्योतिष्मान् पुण्यान् लोकान् संचरति य एवं वेद
१९.१०.५ त्रिवृतावभितो भवतस्तेजो ब्रह्मवर्चसं त्रिवृत् तेज एव ब्रह्मवर्चसमवरुन्धे
१९.१०.६ अथ पञ्चदशौ वीर्यं वै पञ्चदशो वीर्यमेवावरुन्धे
१९.१०.७ अथ सप्तदशौ पशवो वै सप्तदशः पशूनेवावरुन्धे
१९.१०.८ अथैकविंशौ प्रतिष्ठा वा एकविंशो मध्यत एव यज्ञस्य प्रतितिष्ठति
१९.१०.९ अथ त्रिणवाविमे वै लोकास्त्रिणव एष्वेव लोकेषु प्रतितिष्ठति
१९.१०.१० अथ त्रयस्त्रिंशो वर्ष्म वै त्रयस्त्रिंशः
१९.१०.११ वर्ष्म स्वानां भवति य एवं वेद
१९.१०.१२ एष वाव ब्रध्नस्य विष्टपो यदेतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपमारोहति
१९.१०.१३ मध्यतो वा अग्निर्वरिष्ठस्तस्मादेते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते
१९.१०.१४ त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रैति प्राणमभ्युदेति

१९.११.१ अथैष ज्योतिः
१९.११.२ तस्य त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि चतुर्विंशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि
१९.११.३ प्राणो वै त्रिवृदात्मा पञ्चदशः
१९.११.४ मुखं गायत्र्यन्नं वै सप्तदशो मुखत एव तदन्नं धत्ते
१९.११.५ अन्नमत्त्यन्नादो भवति य एवं वेद
१९.११.६ माध्यन्दिनेन वै पवमानेन देवाः स्वर्गं लोकमायन् यदेष चतुर्विंशो माध्यन्दिनः पवमानो भवति स्वर्गस्य लोकस्याक्रान्त्यै चतुर्विंशत्यक्षरा गायत्री तेजो ब्रह्मवर्चसं गायत्री तेज एव ब्रह्मवर्चसमवरुन्धे प्राणो गायत्री प्रजननं प्राणादेव गायत्र्याः प्रजायते
१९.११.७ उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
१९.११.८ पक्षि वा एतच्छन्दः पक्षी ज्योतिष्मान् पुण्यान् लोकान् संचरति य एवं वेद
१९.११.९ मध्यतो वा अग्निर्वरिष्ठस्तस्मादेते स्तोमा मध्यतो वरिष्ठाः क्रियन्ते
१९.११.१० एका संस्तुतानां विराजमतिरिच्यत एकाकिनमेवैनमन्नाद्यस्याध्यक्षं करोति
१९.११.११ ज्योतिर्वा एषोऽग्निष्टोमो ज्योतिष्मन्तं पुण्यं लोकं जयति य एवं विद्वानेतेन यजते

१९.१२.१ अथैष ऋषभः
१९.१२.२ ऋषभो वा एष स्तोमानामृषभतां गच्छति य एवं वेद
१९.१२.३ राजन्यं याजयेदृषभो वै पशूनामधिपती राजन्यो मनुष्याणाम्
१९.१२.४ यो वा अस्ति सोऽधिपतिः
१९.१२.५ अधिपतिः समानानां भवति य एवं वेद
१९.१२.६ तस्य सदोविशीयं माध्यन्दिने पवमाने भवति विशमेवास्मै सवनाभ्यां परिगृह्णात्यनपक्रामुकास्माद्विड्भवति
१९.१२.७ समन्तं भवति समन्तामेवास्मै विशं करोत्यनपक्रामुकास्माद्विड्भवति
१९.१२.८ उभे बृहद्रथन्तरे भवत इयं वै रथन्तरं द्यौर्बृहदेवास्माल्लोकाद्गायत्र्येवामुष्मादुभयोरनयोर्लोकयोः प्रतितिष्ठति
१९.१२.९ अनुष्टुभि बृहद्भवत्यन्तो वा अनुष्टुप्छन्दसामन्तो बृहत् साम्नामन्तो राजन्यो मनुष्याणामन्त एव तदन्तं प्रतिष्ठापयति तस्माद्यो राजन्यानां हीयते न स पुनरग्रं पर्येति

१९.१३.१ यो वै वाजपेयः स राजसूयो यो राजसूयः स वरूणसवोऽथैष गोसवः स्वाराज्यो वा एष यज्ञः
१९.१३.२ स्वाराज्यं गच्छति य एवं वेद
१९.१३.३ प्रजापतिर्हि स्वाराज्यं परमेष्ठी स्वाराज्यम्
१९.१३.४ परमेष्ठितां गच्छति य एवं वेद
१९.१३.५ उभे बृहद्रथन्तरे भवतस्तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
१९.१३.६ अयुतं दक्षिणास्तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
१९.१३.७ प्रतिदुहाभिषिच्यते तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
१९.१३.८ बृहतः स्तोत्र प्रत्यभिषिच्यते तद्धि स्वाराज्यं स्वाराज्यं गच्छति य एवं वेद
१९.१३.९ अनुद्धते दक्षिणत आहवनीयस्याभिषिच्यतेऽस्यामेवानन्तर्हितेऽध्यभिषिच्यते
१९.१३.१० सर्वः षट्त्रिंशस्तेन गोसवः

१९.१४.१ अथैष मरुत्स्तोम एतेन वै मरुतोऽपरिमितां पुष्टिमपुष्यन्नपरिमितां पुष्टिं पुष्यति य एवं वेद
१९.१४.२ यद्गणशः स्तोमास्तेन मरुत्स्तोमो गणशो हि मरुतः
१९.१४.३ एतेनैव त्रीन् याजयेत्
१९.१४.४ यत् त्रीणि त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठन्ति
१९.१४.५ यत् त्रीणि पञ्चदशानि नाना वीर्ये
१९.१४.६ यत् त्रीणि सप्तदशानि नाना पशुषु
१९.१४.७ यत् त्रीण्येकविंशानि नाना प्रतितिष्ठन्ति
१९.१४.८ प्रतितिष्ठति य एवं वेद

१९.१५.१ अथैष इन्द्राग्न्योः कुलायः प्रजाकामो वा पशुकामो वा यजेत प्रजा वै कुलायं पशवः कुलायं गृहाः कुलायं कुलायमेव भवति
१९.१५.२ एतेनैव द्वौ याजयेत्
१९.१५.३ यत् षट्त्रिवृन्ति स्तोत्राणि भवन्ति नाना ब्रह्मवर्चसे प्रतितिष्ठतो यत् द्वे पञ्चदशे नाना वीर्ये यत् द्वे सप्तदशे नाना पशुषु यत् द्वे एकविंशे नाना प्रतितिष्ठतः प्रतितिष्ठति य एवं वेद

१९.१६.१ अथैष पञ्चदश इन्द्रस्तोम उक्थ्यः
१९.१६.२ एतेन वा इन्द्रोऽत्यन्या देवता अभवदत्यन्याः प्रजा भवति य एवं वेद
१९.१६.३ राजन्यं याजयेत्
१९.१६.४ सर्वः पञ्चदशो भवत्योजो वीर्यं पञ्चदश ओजसैवैनं वीर्येण समर्धयति
१९.१६.५ ऐन्द्रीषु भवन्तीन्द्रियेणैवैनं वीर्येण समर्धयति
१९.१६.६ उक्थ्यो भवति पशवो वा उक्थानि विडुक्थानि विशमेवास्मै पशूननुनियुनक्त्यनपक्रामुकास्माद्विड्भवति
१९.१६.७ पञ्चदश स्तोत्राणि पञ्चदशानि भवन्त्योजो वीर्यं पञ्चदशोऽभिपूर्वमेवास्मिन्नोजो वीर्यं दधाति

१९.१७.१ अथैष इन्द्राग्न्योः स्तोम एतेन वा इन्द्राग्नी अत्यन्या देवता अभवतामत्यन्याः प्रजा भवति य एवं वेद
१९.१७.२ त्रिवृत् पञ्चदशो भवति
१९.१७.३ ब्रह्म वै त्रिवृत् क्षत्रं पञ्चदशो ब्रह्मण इव चास्य क्षत्रस्येव च प्रकाशो भवति य एवं वेद
१९.१७.४ राजा च पुरोहितश्च यजेयाताम्
१९.१७.५ गायत्रीं च जगतीं च संपद्यते
१९.१७.६ तेजो ब्रह्मवर्चसं गायत्र्या ब्राह्मणोऽवरुन्धे विशं राजा जगत्या प्रविशति
१९.१७.७ पुरोधाकामो यजेत
१९.१७.८ बृहस्पतिरकामयत देवानां पुरोधां गच्छेयमिति स एतेनायजत स देवानां पुरोधामगच्छद्गच्छति पुरोधां य एवं वेद

१९.१८.१ अथैष विघनः
१९.१८.२ इन्द्रोऽकामयत पाप्मानं भ्रातृव्यं विहन्यामिति स एतं विघनमपश्यत् तेन पाप्मानं भ्रातृव्यं व्यहन् वि पाप्मानं भ्रातृव्यं हते य एवं वेद
१९.१८.३ यत् त्रिवृद्भवति प्राणांस्तेनावरुन्धे यत् द्वादशः संवत्सरं तेन यत् पञ्चदशो वीर्यं तेन यत् सप्तदशोऽन्नाद्यं तेन यदेकविंशः प्रतिष्ठा तेन यन्नवदशः प्रजननं तेन यच्चतुर्विंशो ब्रह्मवर्चसं तेन यत् त्रिणवो वज्रं भ्रातृव्याय प्रहरति
१९.१८.४ पशुकामो यजेत बृहतीं संपद्यते पशवो वै बृहती पशूनेवावरुन्धे
१९.१८.५ षडेता बृहत्यो भवन्ति षडृतवः संवत्सरः संवत्सरं पशवोऽनु प्रजायन्ते तानेवाप्त्वावरुन्धे

१९.१९.१ इन्द्रमदेव्यो माया अयचन्त स प्रजापतिमुपाधाववत् तस्मा एतं विघनं प्रायच्छत् तेन सर्वा मृधो व्यहत यद्व्यहत तद्विघनस्य विघनत्वम्
१९.१९.२ सर्वा मृधो विहते य एवं विद्वान् विघनेन यजते यमेवं विद्वान् विघनेन याजयति
१९.१९.३ पशुकामो यजेत पशवो वै बृहती पशुष्वेव प्रतितिष्ठति

२०.१.१ त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशोऽग्निष्टोमः सोक्थ्यः पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२०.१.२ ज्योतिष्टोमेनातिरात्रेणर्द्धिकामो यजेताभिक्रमो वा एष स्तोमानामभिक्रान्त्या अभिक्रान्तेन हि यज्ञस्यर्ध्नोति
२०.१.३ एषोऽग्निष्टोम एष उक्थ्य एषोऽतिरात्रोऽग्निष्टोमेन वै देवा इमं लोकमभ्यजयन्नुक्थ्यैरन्तरिक्षं रात्र्यामुं लोकमजयन्नहोरात्राभ्यामभ्यवर्तन्त
२०.१.४ पराच्यो वा अन्या व्युच्छन्ति प्रतीच्योऽन्या एषा वाव प्रतीची व्युच्छति याश्विनेन व्युच्छति प्रतीचीरेवास्मा उषसो विवासयति
२०.१.५ द्वे संस्तुतानां विराजमतिरिच्येते एषा वै स्तनवती विराट्यं कामं कामयते तमेतां दुग्धे
२०.१.६ त्रिवृता प्रैति त्रिवृतोदेति प्राणो वै त्रिवृत् प्राणेनैव प्रैति प्राणमभ्युदेति

२०.२.१ त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२०.२.२ सर्वस्तोमेनातिरात्रेण बुभूषन् यजेत सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति
२०.२.३ यत् त्रिवृद्बहिष्पवमानं भवति तत् त्रिवृतं स्तोममाप्नोति गायत्रीं छन्दो यत् पञ्चदशान्याज्यानि तत् पञ्चदशं स्तोममाप्नोति त्रिष्टुभं छन्दो यत् सप्तदशो माध्यन्दिनः पवमानस्तत् सप्तदशं स्तोममाप्नोति जगतीं छन्दो यदेकविंशानि पृष्टानि तदेकविंशं स्तोममाप्नोत्यनुष्टुभं छन्दो यत् त्रिणव आर्भवस्तत् त्रिणवं स्तोममाप्नोति पङ्क्तिं छन्दो यत् त्रयस्त्रिंशोऽग्निष्टोमस्तत् त्रयस्त्रिंशं स्तोममाप्नोति विराजं छन्दो यदुष्णिक्ककुभौ क्रियेते तदुष्णिक्ककुभावाप्नोति यदाश्विनं शस्यते तत् सर्वमेवैतेनाप्नोति सर्वं जयति
२०.२.४ प्राञ्चं वै त्रयस्त्रिंशो यज्ञं प्रभुजति तमध्वर्युरेकादशिन्या पुरस्तात् प्रत्युद्यच्छत्येकादश रशना एकादश पशव एकादश यूपा भवन्ति तत् त्रयस्त्रिंशे त्रयस्त्रिंशं प्रतिष्ठापयति
२०.२.५ तया समुद्यतया रात्र्या यं यं कामं कामयते तं तमभ्यश्नुते यं यं कामं कामयते तं तमभ्यश्नुते य एवं वेद

२०.३.१ त्रिवृद्बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं छन्दोमा इतराणि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथममथैकविंशमथ सप्तदशमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् सन्धिस्त्रिवृत् प्रथममतिरिक्तस्तोत्रमथ पञ्चदशमथ सप्तदशमथैकविंशम्
२०.३.२ प्रजापतिः पशूनसृजत तेऽस्मात् सृष्टा अपाक्रामंस्तानग्निष्टोमेन नाप्नोत् तानुक्थैर्नाप्नोत् तान् षोडशिना नाप्नोत् तान् रात्र्या नाप्नोत् तान् सन्धिना नाप्नोत् तानाश्विनेन नाप्नोत् तानग्निमब्रवीदिमान्म ईप्सेति तानग्निस्त्रिवृता स्तोमेन जराबोधीयेन साम्ना नाप्नोत् तानिन्द्रमब्रवीदिमान्म ईप्सेति तानिन्द्रः पञ्चदशेन स्तोमेन सत्त्रासाहीयेन साम्ना नाप्नोत् तान् विश्वान् देवानब्रवीदिमान्म इप्सतेति तान् विश्वे देवाः सप्तदशेन स्तोमेन मार्गींयवेण साम्ना नाप्नुवंस्तान् विष्णुमब्रवीदिमान्म ईप्सेति तान् विष्णुरेकविंशेन स्तोमेनाप्नोद्वारवन्तीयेनावारयतेदं विष्णुर्विचक्रम इति व्यक्रमत
२०.३.३ यस्मात् प्र प्रेव पशवो भ्रंशेरन् स एतेन यजेत
२०.३.४ एतेन वै देवा जैत्वानि जित्वा यं यं काममकामयन्त तं तमाप्नुवन् यं कामं कामयते तमेतेनाप्नोति
२०.३.५ तदप्तोर्याम्नोऽप्तोर्यामत्वम्

२०.४.१ त्रिवृद्बहिष्पवमानं पञ्चदशं होतुराज्यं नवसप्तदशानि स्तोत्राण्येकविंशोऽग्निष्टोमः सोक्थः पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२०.४.२ नवसप्तदशेनातिरात्रेण प्रजाकामो यजेत नव वै प्राणाः प्रजापतिः सप्तदशः प्राणेभ्य एव तदधि प्रजापतेः प्रजाः प्रजायन्ते
२०.४.३ ककुभं प्राचीमुदूहति पुरुषो वै ककुप्गर्भो वा एष मध्यतो धीयते
२०.४.४ तस्यां साकमश्वम्
२०.४.५ प्रजापतिः प्रजा असृजत ता न प्राजायन्त स एतत् सामापश्यत् ता अश्वो भूत्वाभ्यजिघ्रत् ताः प्राजायन्त प्रजननं वा एतत् साम
२०.४.६ प्रजायते बहुर्भवति य एवं वेद
२०.४.७ द्विपदां ककुभो लोके करोति गर्भमेव तद्धितं मध्यतः प्रजनयति
२०.४.८ अतिरात्रो भवत्यहोरात्रे वा अनु प्रजाः प्रजायन्तेऽहोरात्रे एवानु प्रजया पशुभिः प्रजायते

२०.५.१ त्रिवृत् बहिष्पवमानं पञ्चदशान्याज्यानि पञ्चदशो माध्यन्दिनः पवमानः सप्तदशानि पृष्ठानि सप्तदश आर्भव एकविंशोऽग्निष्टोमः सप्तदशान्युक्थानि पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२०.५.२ विषुवतातिरात्रेण ज्येष्ठं ज्यैष्ठिनेयं याजयेद्विषुवान् वा एष स्तोमानां विषुवानेव भवति यदेक एकविंशो भवत्येकविंशो वा इतोऽसावादित्य द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका
२०.५.३ असावादित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति
२०.५.४ एष वा उदेति न वा एनमन्यत् ज्योतिषां ज्योतिः प्रत्युदेति
२०.५.५ नैनमन्यः स्वेषु प्रत्युदेति य एवं वेद

२०.६.१ पञ्चदशं बहिष्पवमानं त्रिवृन्त्याज्यानि सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस्त्रिवृत् सन्धिर्गोष्टोमेनातिरात्रेण भ्रातृव्यवान् यजेत गवा वै देवा असुरानेभ्यो लोकेभ्योऽनुदन्त रात्र्यानपजय्यमजयन्नेभ्यो लोकेभ्यो भ्रातृव्यं प्रणुद्य रात्र्यानपजय्यं जयति

२०.७.१ त्रिवृत् बहिष्पवमानं पञ्चदशान्याज्यानि सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनं सोक्थं पञ्चदशी रात्रिस्त्रिवृत् सन्धिरायुष्टोमेनातिरात्रेण स्वर्गकामो यजेतोर्ध्वाः स्तोमा यन्त्यनपभ्रंशाय यदतिरात्रो भवत्यहोरात्राभ्यामेव स्वर्गं लोकमेति

२०.८.१ त्रिवृत् बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्य पञ्चदशं ब्राह्मणाच्छंसिनः सप्तदशमच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशं होतुः पृष्ठमेकविंशं मैत्रावरुणस्य त्रिणवं ब्राह्मणाच्छंसिन एकविंशमच्छावकस्य त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत् सन्धिरभिजितातिरात्रेण भ्रातृव्यवान् यजेताभिजिता वै देवा असुरानिमान् लोकानभ्यजयत् रात्र्यानपजय्यमजयन्नभिजितैव भ्रातृव्यमिमान् लोकानभिजित्य रात्र्यानपजय्यं जयति

२०.९.१ त्रिवृत् बहिष्पवमानं पञ्चदशं होतुराज्यं सप्तदशं मैत्रावरुणस्यैकविंशं ब्राह्मणाच्छंसिनः पञ्चदशमच्छावाकस्य सप्तदशो माध्यन्दिनः पवमान एकविंशं होतुः पृष्ठं त्रिणवं मैत्रावरुणस्य
२०.९.१ सप्तदशं ब्राह्मणाच्छंसिन एकविंशमच्छावाकस्य त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिः त्रिवृत् सन्धिर्विश्वजितातिरात्रेण पशुकामो यजेत
२०.९.२ रेतो हि नाभानेदिष्ठीयं पशवो वालखिल्या यन्नाभानेदिष्ठीयं पूर्वं शस्यत उत्तरा वालखिल्या रेतसस्तत् पशवः प्रजायन्ते रूपाणि विकरोति यद्वार्षाकपमृतुषु प्रतितिष्ठति यदेवयामरुत्

२०.१०.१ त्रिवृत् आतिरात्रेण ब्रह्मवर्चसकामो यजेत तेजो वै त्रिवृत् ब्रह्मवर्चसं तेज एव ब्रह्मवर्चसमवरुन्धे तेजसि ब्रह्मवर्चसे प्रतितिष्ठति पञ्चदशेनातिरात्रेण वीर्यकामो यजेतौजो वीर्यं पञ्चदश ओज एव वीर्यमवरुन्ध ओजसि वीर्ये प्रतितिष्ठति सप्तदशेनातिराच्रेणान्नाद्यकामो यजेतान्नं वै सप्तदशोऽन्नाद्यमेवावरुन्ध एकविंशेनातिरात्रेण प्रतिष्ठाकामो यजेत प्रतिष्ठा वा एकविंशो यदतिरात्रो भवत्यहोरात्रयोरेव प्रतितिष्ठति

२०.११.१ ज्योतिष्टोमोऽग्निष्टोमः पूर्वमहः सर्वस्तोमोऽतिरात्र उत्तरम्
२०.११.२ तस्य चतुर्विंशं बहिष्पवमानं पञदशान्याज्यानि सप्तदशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणव आर्भवस्त्रयस्त्रिंशोऽग्निष्टोमः प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथममथैकविंशमथ सप्तदशमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२०.११.३ अङ्गिरसः स्वर्गं लोकमायंस्तेषां हविष्मांश्च हविष्कृच्चाङ्गिरसावहीयेता तावागच्छेतां यतोऽङ्गिरसः स्वर्गं लोकमायंस्तावतप्येतां तावेते सामनी अपश्यतां ताभ्यां द्विरात्रमतन्वातां तेन स्वर्गं लोकमैताम्
२०.११.४ यः पौण्यो हीन इव स्यात् स एतेन यजेताप्नोति पूर्वेषां प्रहामाप्नुतां हि तावङ्गिरसः
२०.११.५ प्रजाकामो यजेत द्वितीयं ह्येतद्यत् प्रजाः
२०.११.६ स्वर्गकामो यजेत द्वितीयाद्धि लोकात् परो लोकोऽभिप्रक्रम्यो दुराधो द्विरात्र इत्याहुर्यदग्निष्टोमः पूर्वमहर्भवत्युक्थ्यमन्तर्यन्ति यद्युक्थ्योऽग्निष्टोमम्
२०.११.७ यज्ज्योतिरुक्थ्यः पूर्वमहर्भवति नाग्निष्टोममन्तर्यन्ति नोक्थानि
२०.११.८ तदाहुरेषा वाव यज्ञस्य मात्रा यदग्निष्टोमो यदग्निष्टोमः पूर्वमहर्भवति यज्ञस्य मात्रां नातिक्रामत्यथोत्तरस्याह्न उक्थेभ्योऽधि रात्रिमुपयन्ति तेनोक्थान्यनन्तरितानि
२०.११.९ चतुर्विंशं बहिष्पवमानं भवत्युत्तरस्याह्नश्चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
२०.११.१० उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
२०.११.११ सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति

२०.१२.१ अथ यस्य ज्योतिरुक्थ्यः पूर्वमहर्भवत्यायुरतिरात्र उत्तरम्
२०.१२.२ तिस्रः पूर्वस्याह्नो विराजमतिरिच्यन्ते द्वाभ्यामुत्तरमहर्विराज ऊनमूनातिरिक्तं वा अनुप्रजाः प्रजायन्ते
२०.१२.३ प्र प्रजया प्र पशुभिर्जायते य एवं वेद
२०.१२.४ एका संस्तुतानां विराजमतिरिच्यते एकाकिनमेवैनमन्नाद्यस्याध्यक्षं करोति
२०.१२.५ एतेन वै चित्ररथं कापेया अयाजयंस्तमेकाकिनमन्नाद्यस्याध्यक्षमकुर्वंस्तस्माच्चैत्ररथीनामेकः क्षत्रपतिर्जायतेऽनुलम्ब इव द्वितीयः

२०.१३.१ अथ यस्य त्रिवृत् पञ्चदशोऽग्निष्टोमः पूर्वमहर्भवत्यायुरतिरात्र उत्तरम्
२०.१३.२ मिथुनाभ्यां स्तोमाभ्यामुत्तरमहः प्रजनयन्ति तत् प्रजातं श्व आरभन्ते चक्रे वा एते साकंवृती यत् त्रिवृत् पञ्चदशौ स्तोमौ यं कामं कामयते तमेतेनाभ्यश्नुते यत्र यत्र हि चक्रीवता कामयते तत् तदभ्यश्नुते
२०.१३.३ अथ यदायुरतिरात्रो भवति प्रतिष्ठित्यै
२०.१३.४ एतेन वै कपिवनो भौवायन इष्ट्वारूक्षतामगच्छत्
२०.१३.५ अरूक्षो भवति य एवं विद्वानेतेन यजते

२०.१४.१ त्रिवृत् प्रातःसवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातःसवनं सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनं सोक्थमेकविंशं प्रातःसवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंश आर्भवश्चतुस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि षोडशं प्रथमं रात्रिषाम पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२०.१४.२ प्रजापतिर्वा इदमेक आसीत् तस्य वागेव स्वमासीद्वाग्द्वितीया स ऐक्षतेमामेव वाचं विसृजा इयं वा इदं सर्वं विभवन्त्येष्यतीति स वाचं व्यसृजत सेदं सर्वं विभवन्त्यैत् सोर्ध्वोदातनोद्यथापां धारा सन्ततैवं तस्या एति तृतीयमच्छिनत् तद्भूमिरभवदभूदिव वा इदमिति तद्भूमेर्भूमित्वं केति तृतीयमच्छिनत् तदन्तरिक्षमभवदन्तरेव वा इदमिति तदन्तरिक्षस्यान्तरिक्षत्वं हो इति तृतीयमूर्ध्वमुदास्यत् तत् द्यौरभवदद्युतदिव वा इति तद्दिवो दिवत्वम्
२०.१४.३ एषा वाव प्रत्यक्षं वाग्यज्जिह्वाग्रेणैतद्वाचो वदति यदेति मध्येनैतद्वाचो वदति यत् केति सर्वयैतद्वाचो रसोऽध्यूर्ध्व उद्वदति यद्धो इति
२०.१४.४ यदेतानि रूपाण्यन्वहं व्यज्यन्ते मुखत एव तद्वाचं विसृजन्ते मुखतो यज्ञियं कर्म
२०.१४.५ प्रजापतिर्वा इदमेकाक्षरां वाचं सतीं त्रेधा व्यकरोत् त इमे लोका अभवन् रूक्षा अनुपजीवनाः स ऐक्षत कथमिमे लोका लोम गृह्णीयुः कथमुपजीवनीयाः स्युरिति स एतं त्रिरात्रमपश्यत् तमाहरत् तेनेमान् लोकानन्वातनोत् ततो वा इमे लोका लोमागृह्णंस्तत उपजीवनीया अभवंस्त्रिरात्रस्य वा इदं पुष्टं त्रिरात्रस्योदरणं यदिदमेषु लोकेष्वधि
२०.१४.६ गच्छति पशूनां भूमानं द्विपदां चतुष्पदां य एवं वेद
२०.१४.७ प्रजापतिर्यद्वाचं व्यसृजत साक्षरदेवेति प्रथमं क्षेति द्वितीयं रेति तृतीयं येन येन वै रूपेण प्रजापतिर्वाचं व्यसृजत तेन तेन रूपेणाज्यानि चारभ्यन्तेऽहानि चाप्यन्ते
२०.१३.८ तदाहुर्ब्रह्मवादिनोऽक्षरेस्थो वै त्रिरात्र इत्येकाक्षरा वै वाक्त्र्यक्षरमक्षरं त्र्यक्षरः पुरुषः स वा एनं वेदेत्याहुर्य एनं पुरुषसम्मितं वेदेति

२०.१५.१ एतेन वै देवा एषु लोकेष्वार्ध्नुवन्नेतेन स्वर्गं लोकमायन्
२०.१५.२ वाग्वै त्रिरात्रो वाचो रूपेणाज्यानि चाहानि च विभज्यन्त एकाक्षरा वै वाक्त्र्यक्षरमक्षरमक्षरस्य रूपेण विभज्यन्ते त्रयो गन्धर्वास्तेषामेषा भक्तिरग्नेः पृथिवी वायोरन्तरिक्षमसावादित्यस्य द्यौस्त्रयो घर्मास उषसं सचन्ते
२०.१५.३ अग्निरुषसं सचते वायुरुषसं सचतेऽसावादित्य उषसं सचते
२०.१५.४ त्रीणि मिथुनानि तान्येषः
२०.१५.५ मिथुनं द्वे सम्भवतो मिथुनाद्यत् प्रजायते तत् तृतीयम्
२०.१५.६ इन्द्रो वृत्राय वज्रमुदयच्छत् सोऽब्रवीन्मा मे प्रहर्षीरस्ति वा इदं मयि वीर्यं तत् ते प्रदास्यामीति तदस्मै प्रायच्छत् तद्विष्णुः प्रत्यगृह्णात् स द्वितीयं स तृतीयमुदयच्छत् स एवाब्रवीन्मा मे प्रहार्षीरस्ति वा इदं मयि वीर्यं तत् ते प्रदास्यामीति तदस्मै प्रायच्छत् तद्विष्णुः प्रत्यगृह्णादेतद्वाच तदभ्यनूच्यते
२०.१५.७ उभौ जिग्यथुर्न पराजयेथे न पराजिग्ये कतरश्च नैनोः इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वितद्(?) ऐरयेथामिति
२०.१५.८ एतद्वा आभ्यां तत् सहस्रं प्रायच्छत्
२०.१५.९ तस्यैषा भक्तिर्य आर्षेयो विद्वांस्तस्मै प्रथमेऽहनि देयं यथा वा इयं एवं स प्रतिष्ठितेयं प्रतिष्ठितः सः
२०.१५.१० योऽनार्षेयो विद्वांस्तस्मै द्वितीयेऽहनि देयं यथा वा अन्तरिक्षमेवं सोऽन्तरिक्षमित्यन्तरिक्षं विदुर्वेदं तस्य विदुः
२०.१५.११ य आर्षेयो विद्वांस्तस्मै तृतीयेऽहनि देयं यथा वै द्यौरेवं स द्यौरिति दिवं विदुर्बन्धु तस्य विदुः
२०.१५.१२ शतान्यन्वहं दीयन्ते एषा वाव यज्ञस्य मात्रा यच्छतं सैव साविच्छिन्ना दीयते दशतोऽन्वहं दीयन्ते दशाक्षरा विराड्वैराजो यज्ञः सैव सा विच्छिन्ना दीयते
२०.१५.१३ त्रयस्त्रिंशच्च त्रीणि च शतानि प्रथमेऽहनि देयास्तथा द्वितीये तथा तृतीये
२०.१५.१४ अथैषा द्विदेवत्या त्रिरूपा ब्रह्मणो द्वे तृतीये तृतीयमग्नीधः
२०.१५.१५ काम्यासि प्रियासि हव्यासीडे रन्ते सरस्वति महि विश्रुत एतानि तेऽघ्न्ये नामानि देवेषु नः सुकृतो ब्रूतात्

२०.१६.१ इदं वाव प्रथमेनाह्ना व्यकरोद्यदिदमस्यामध्यायत् त मूलमिदं द्वितीयेन यदिदं प्राणादेजत्यदस्तृतीयेन यद्वर्षति यन्नक्षत्राणि यदमुं लोकं भेजे
२०.१६.२ तदाहुर्ब्रह्मवादिनो महाव्रतं वा एतद्यदेष त्रिरात्र इति तस्यै तदेव मुखं यदेतेषामह्वां बहिष्पवमानं ये अभितोऽहनी तौ पक्षौ यन्मध्यममहः स आत्माग्निष्टोमसामानि पुच्छम्
२०.१६.३ यदेवासावुदेति तन्मुखं ये अभितोऽहनी तौ पक्षौ यन्मध्यममहः स आत्माग्निः पुच्छम्
२०.१६.४ यदेवासावुदेति तन्मुखं ये अभितोऽहनी तौ पक्षौ यन्मध्यममहः स आत्मा यदस्तमेति तत् पुच्छम्
२०.१६.५ एतावान् वाव त्रिरात्रो गायत्रः प्राणस्त्रैष्टुभं चक्षुर्जागतं श्रोत्रं सर्वमायुरेति य एवं वेद
२०.१६.६ तदाहुर्ब्रह्मवादिनः कियांस्त्रिरात्र इतीयानिति ब्रूयादियद्धयेतदभ्यथो इयानिति ब्रूयादियद्धयेवैतदभिपरा३ङर्वा३ङित्याहुः पराङिति ब्रूयात् पराङ्हि वदति पराङ्पश्यति पराङ्प्राणित्येका३ द्वा३ उ त्रया३ इत्याहुरेक इति ब्रूयात् समानो ह्येष यत् प्राणोऽपानो व्यानस्तद्यथा वा अदो मणौ सूत्रमोतमेवमेषु लोकेषु त्रिरात्र ओतः शोभतेऽस्य मुखं य एवं वेद
२०.१६.७ यद्वै त्रिरात्रस्य सलोम तदस्य विलोम यदस्य विलोम तदस्य सलोम तद्यदेतत् परं सदहरवरं क्रियते यजमानायैव तत् पशून् परिगृह्णाति प्रजननाय न ह्यमुष्मिन् लोके पशवः प्रजायन्ते
२०.१६.८ एते वाव छन्दसां वीर्यवत्तमे यद्गायत्री च त्रिष्टुप्च यदेते अभितो भवतो मध्ये जगती वीर्यवतीभ्यामेव तच्छन्दोभ्यां पशून् परिगृह्णाति प्रजननाय न ह्यमुष्मिन् लोके पशवः प्रजायन्ते
२०.१६.९ असौ वाव त्रिरात्रो यथोदेत्येवं प्रथममहर्यथा मध्यन्दिन एवं द्वितीयं यथास्तमेत्येवं तृतीयं गच्छत्यमुष्यसायुज्यं गच्छति सावेश्यं य एवं वेद

२१.१.१ इन्द्रो मरुतः सहस्रमजिनात् स्वां विशं सोमाय राज्ञे प्रोच्य तस्माद्राज्ञे प्रोच्य विंश जिनन्ति तौ यमोऽशृणोन्मरुतो ह सहस्रमज्याशिष्टामिति स आगच्छत् सोऽब्रवीदुप मास्मिन् सहस्रे ह्वयेथामिति तमुपाह्वयेतां स यमोऽपश्यदेकाङ्गां सहस्रेऽपि सहस्रस्य पयो बिभ्रतीं सोऽब्रवीदियमेव ममास्तु सहस्रं युवां विकल्पयेथामिति तावब्रूतां यथा वाव त्वमेतां पश्यस्येवमावमेतां पश्याव इति
२१.१.२ तया वा इदं सहस्रं विकल्पयामहा इत्यब्रुवंस्तामुदके प्रावेशयंस्तेऽब्रवन्न शानाहरामहै यस्मै न इयं प्रथमायादेष्यति इति तेऽंशानाहरन्त सोमस्य प्रथम ऐदथेन्द्रस्याथ यमस्य
२१.१.३ तेऽब्रुवन् सोमाय राज्ञ उदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयस इति सा बभ्रुः पिङ्गाक्ष्येकवर्षोदैत् तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयसः सा या सोमक्रयणी सैव सा
२१.१.४ तृतीयेन चास्य तस्या आत्मनस्तृतीयेन च सहस्रस्य पयसः सोमः क्रीतो भवति य एवं विद्वान् सोमं क्रीणाति यस्मा एवं विदुषे सोमं क्रीणन्ति
२१.१.५ तेऽब्रुवन्निन्द्रायोदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयस इति सा शबली पष्ठौह्युदैत् तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयसः सा येन्द्रियैष्या सैव सा
२१.१.६ तृतीयेन चास्य तस्या आत्मनस्तृतीयेन च सहस्रस्य पयस इन्द्रियैष्या दत्ता भवति य एवं विद्वानिन्द्रियैष्यां ददाति यस्मा एवं विदुष इन्द्रियैष्यां ददाति
२१.१.७ तेऽब्रुवन् यमायोदेहि तृतीयेन चात्मनस्तृतीयेन च सहस्रस्य पयस इति सा जरती कुष्ठाशृङ्ग्यदैद्धूम्रा वा दित्यौहीर्मतो ह्रसीयसी तृतीयेन चात्मनः तृतीयेन च सहस्रस्य पयसः सा यानुस्तरणी सैव सा
२१.१.८ तृतीयेन चास्य तस्या आत्मनस्तृतीयेन च सहस्रस्य पयसोऽनुस्तरणी कृता भवति य एवं विद्वाननुस्तरणीं करोति यस्मा एवं विदुषेऽनुस्तरणीं कुर्वन्ति नाचकृवान्मन्यते
२१.१.९ तदाहुर्ब्रह्मवादिनो न वा अमुष्मिन् लोके सहस्रयाडलोकोऽस्तीति तद्यावदितः सहस्रस्य गौर्गवि प्रतिष्ठिता तावदस्माल्लोकादसौ लोकः सरस्रयाजी वा इमान् लोकान् व्याप्नोत्यथो यावत् सहस्रं योजनान्यथो सहस्रमाश्वीनान् यथो यावत् सहस्रमह्नयानि तद्गवा गवा स्पृणोति समाक्रमणाय वा एता दीयन्ते
२१.१.१० सहस्रं यदसृजत तस्य तार्प्यं योनिरासीद्यत् तार्प्यं प्रत्यस्य नयति सयोनित्वाय

२१.२.१ प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टाः पराच्य आयन्नत्स्यति न इति बिभ्यत्यः सोऽब्रवीदुप मा वर्तध्वं तथा वै वोऽत्स्यामि यथाद्यमाना भूयस्यः प्रजनिष्यथ इति ताभ्यो वैनं ऋतं ब्रूहीत्यब्रुवंस्ताभ्य ऋतनिधनेनर्तमब्रवीदीनिधनेनावयत् त्रिणिधनेन प्राजनयदेतैर्ह वा इदं सामभिर्मृत्युः प्रजा अत्ति च प्रजनयति
२१.२.२ अद्यमानस्य भूयो भवति य एवं वेद
२१.२.३ ज्येष्ठसामानि वा एतानि श्रेष्ठसामानि प्रजापतिसामानि
२१.२.४ गच्छति ज्यैष्ठयं श्रैष्ठयं य एवं वेद
२१.२.५ एतैर्वै सामभिः प्रजापतिरिमान् लोकान् सर्वान् कामान् दुग्धे यदाच्या दुग्धे तदाच्या दोहानामाच्या दोहत्वम्
२१.२.६ सर्वानिमान् लोकान् कामान् दुग्धे य एवं विद्वानेतैस्सामभिः स्तुते
२१.२.७ इमे वै लोका एतानि सामान्ययमेवर्तनिधनमन्तरिक्षमीनिधनं द्यौस्त्रिणिधनम्
२१.२.८ यथा क्षेत्रज्ञः क्षेत्राण्यनुसञ्चरत्येवमिमान् लोकाननुसञ्चरति य एवं वेद
२१.२.९ अग्नेर्वा एतानि वैश्वानरस्य सामानि यत्र वा एतैरशान्तैः स्तुवन्ति तत् प्रजा देवो घातुको भवत्यग्निमुपनिधाय स्तुवते स्वाया एव तद्देवतायाः साम्येक्षाय नमस्कृत्योद्गायति शान्तैस्स्तुवन्ति

२१.३.१ वाग्वै शबली तस्यास्त्रिरात्रो वत्सस्त्रिरात्रो वा एतां प्रदापयति
२१.३.२ तद्य एवं वेद तस्मा एषा प्रत्ता दुग्धे
२१.३.३ योऽलमन्नाद्याय सन्नथान्नं नाद्यात्
२१.३.४ बरासीं परिधाय तप्तं पिबन् द्वादश रात्रीरधः शयीत
२१.३.५ या द्वादशी स्यात् तस्या उपव्युषं शबलीहोमं हुत्वा पुरा वाग्भ्यः सम्प्रवदितोर्यत्र ग्राम्यस्य पशोर्नाशृणुयात् तदरण्यं परेत्य दर्भस्तम्बमालभ्य शबलि शबलीति त्रिराह्वयेद्यदन्यच्छुनश्च गर्दभाच्च प्रतिवाश्यते सा समृद्धा
२१.३.६ यदि न प्रतिवाश्येत संवत्सरे पुनराह्वयेत
२१.३.७ शबलि समुद्रोऽसि विश्वव्यचा ब्रह्म देवानां प्रथमजा ऋतस्यान्नमसि शुक्रमसि तेजोऽस्यमृतमसि तां त्वा विद्म शबलि दीद्यानां तस्यास्ते पृथिवी पादोऽन्तरिक्षं पादो द्यौः पादः समुद्रः पाद एषासि शबलि तां त्वा विद्म सा न इषमूर्जं धुक्ष्व वसोर्धारां शबलि प्रजानां शचिष्ठा व्रतमनुगेषं स्वाहा

२१.४.१ चतुष्टोमोऽग्निष्टोम एकविंश उक्थ्यः सर्वस्तोमोऽतिरात्रः
२१.४.२ प्रजापतेर्वा अक्ष्यश्वत् तत् परापतत् तदश्वोऽभवत् तदश्वस्याश्वत्वं तद्देवा अश्वमेधेन प्रत्यदधुरेष वाव प्रजापतिं सर्वं करोति योऽश्वमेधेन यजते
२१.४.३ एष वाव सशरीरः सम्भवत्यमुष्मै लोकाययोऽश्वमेधी
२१.४.४ सरघा वा अश्वस्य सक्थ्यावृहत् तद्देवाश्चतुष्टोमेन प्रत्यदधुर्यच्चतुष्टोमो भवत्यश्वस्य सर्वत्वाय
२१.४.५ यत् तिस्रोऽनुष्टुभश्चतस्रो गायत्रीः करोति तस्मात् त्रिभिस्तिष्ठन् प्रतितिष्ठति सर्वान् पलायमानः प्रतिदधाति
२१.४.६ अन्तो वा अश्वः पशूनामन्तोऽनुष्टुप्छन्दसामन्तो विष्णुर्देवतानामन्तश्चतुष्टोमस्स्तोमानामन्तस्त्रिरात्रो यज्ञानां यद्वैप्लव्योऽनुष्टुभः प्रतिपदो भवन्ति चतुष्टोम स्तोमस्त्रिरात्रो यज्ञोऽन्त एव तदन्तं प्रतिष्ठापयति
२१.४.७ एकविंशमहर्भवति यस्मिन्नश्व आलभ्यत एकविंशो वा इतोऽसावादित्यो द्वादश मासाः पञ्चर्तवस्त्रय इमे लोका असावादित्य एकविंश आदित्यस्यैवैनं मात्रां गमयति
२१.४.८ तस्य महानाम्न्यः पृष्ठं भवन्ति
२१.४.९ अन्यदन्यद्वा एताश्छन्दोऽन्योन्य एते पशव आलभ्यन्त एता वा एतं समाप्नुवन्ति यन्महानाम्न्यः पृष्ठं भवन्त्यश्वस्य सर्वत्वाय
२१.४.१० पार्थुरश्मं ब्रह्मसाम भवति
२१.४.११ ईश्वरो वा एषोऽयतोऽधृतः परां परावतमेतो रश्मिना वा अश्वो धृतो यत् पार्थुरश्मं ब्रह्मसाम भवत्यश्वस्यैव यत्यै
२१.४.१२ सर्वस्तोमोऽतिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति
२१.४.१३ एकयूपो वैकादशिनी वान्येषां यज्ञानां भवत्येकविंशिन्यश्वमेधस्य खादिरो वा बैल्वो वा पार्णो वाऽन्येषां यज्ञानां भवति नैचुदार एकविंशत्यरत्निरश्वमेधस्य नान्येषां पशूनां तेजन्या अवद्यन्त्यवद्यन्त्यश्वमेधस्य दक्षिणतोऽन्येषां पशूनामवद्यन्त्युत्तरतोऽश्वमेधस्य प्लक्षशाखास्वन्येषां पशूनामवद्यन्ति वेतसशाखास्वश्वमेधस्य यूपे ग्राम्यान् पशून्नियुञ्जन्त्यारोकेष्वारण्यान् धारयन्त्या ग्राम्यान् पशून् लभन्ते प्रारण्यान् सृजन्ति

२१.५.१ त्रयस्त्रिवृतोऽतिरात्राः सर्वे षोडशिमन्तः
२१.५.२ यो राज्य आशंसेत स एतेन यजेत
२१.५.३ राजा वा एष स्तोमानां राज्यमेवास्मिन् दधाति
२१.५.४ यदाक्षाराणि प्रथममहर्भजन्त एकाक्षरा वै वाग्वाचोऽनतिवादाय
२१.५.५ अथ यत् द्व्यक्षरणिधनमाज्यदोहं भवत्युत्तरयोरहोरभिसन्तत्या अन्वहमाज्यदोहानि भवन्त्यन्वहमेवैनं पशुभिः समर्धयन्ति
२१.५.६ सर्वे षोडशिमन्तो भवन्तीन्द्रियं वीर्यं षोडशीन्द्रियेणैवैनान् वीर्येण समर्धयति

२१.६.१ चतुर्विंशाः पवमानास्त्रिवृन्त्याज्यानि पञ्चदशानि पृष्ठानि सप्तदशोऽग्निष्टोमश्चतुश्चत्वारिंशाः पवमानाः पञ्चदशान्याज्यानि सप्तदशानि पृष्ठान्येकविंशोऽग्निष्टोमः सोक्थोऽष्टाचत्वारिंशाः पवमाना एकविंशान्याज्यानि त्रिणवानि पृष्ठानि त्रयस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत् सन्धिश्छन्दोमपवमानः
२१.६.२ पशुकामो यजेत्
२१.६.३ पशवो वै छन्दोमा यच्छन्दोमाः पवमाना भवन्ति पशूनेवावरून्धे
२१.६.४ उभये स्तोमा युग्मन्तश्चायुजश्च तत् मिथुनं तस्मान्मिथुनात् प्रजायते

२१.७.१ त्रिवृत् प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनमष्टाचत्वारिंशं तृतीयसवनं सोक्थमेकविंशं प्रातस्सवनन् त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं सोक्थमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् सन्धिरन्तर्वसुः
२१.७.२ इमे लोकास्त्रिरात्रः
२१.७.३ अस्तीव वा अयं लोकोऽस्तीवासौ छिद्रमिवान्तरिक्षम्
२१.७.४ अस्तीव त्रिरात्रस्य प्रथममहरस्तीवोत्तमं छिद्रमिव मध्यतः
२१.७.५ पशवो वै छन्दोमा यच्छन्दोमा मध्यतो भवन्त्यपिहित्या एवाच्छिद्रतायै

२१.८.१ त्रिवृत् प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं एकविंशं प्रातस्सवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं सोक्थं चतुर्विंशं प्रातस्सवनं चतुश्चत्वारिंशं माध्यन्दिनं सवनमष्टाचत्वारिंशं तृतीयसवनं सोक्थमेकविंशः षोडशी पञ्चदशी रात्रिस्त्रिवृत् सन्धिः पराकः
२१.८.२ पराकेण वै देवाः स्वर्गं लोकमायन् स्वर्गकामो यजेत पराङेवैतेन स्वर्गं लोकमाक्रमते
२१.८.३ यद्वा एतस्याकं तदस्य पराक्तत् पराकस्य पराकत्वम्
२१.८.४ न वै तत्र जग्मुषे किञ्चनाऽकम्
२१.८.५ नास्मा अकं भवति य एवं वेद
२१.८.६ प्रजायास्त्वकॢप्तः पराङ्ह्येवैतेन स्वर्गं लोकमाक्रमते तद्यदेकविंशः षोडशी भवति पञ्चदशी रात्रिस्त्रिवृत् सन्धिस्तेनास्मिन् लोके प्रतितिष्ठति
२१.९.१ चतुर्विंशाः पवमानास्त्रिवृन्त्याज्यानि पञ्चदशानि पृष्ठानि सप्तदशोऽग्निष्टोमश्चतुर्विंशाः पवमानाः पञ्चदशान्याज्यानि सप्तदशानि पृष्ठान्येकविंशोऽग्निष्टोमः सोक्थश्चतुर्विंशाः पवमानाः सप्तदशान्याज्यान्येकविंशनि पृष्ठानि त्रिणवोऽग्निष्टोमः सोक्थश्चतुर्विंशाः पवमाना एकविंशान्याज्यानि त्रिणवानि पृष्ठानि त्रयस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत् सन्धि
२१.९.२ अत्रिरकामयत चत्वारो मे वीरा आजायेरन्निति स एतमपश्यत् तस्य चत्वारो वीरा आजायन्तास्य चत्वारो वीरा जायन्ते य एवं वेद
२१.९.३ एकं स्तोममुत्सृज्यैकमभ्यारभते वीरजननं वै स्तोमो वीरमेवास्मै तत् प्रजनयति
२१.९.४ चतुर्विंशाः पवमाना भवन्ति चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
२१.९.५ उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
२१.९.६ अग्निष्टोमः प्रथममहरूक्थो द्वितीयं षोडशी तृतीयमतिरात्रश्चतुर्थं नानावीर्यतायै
२१.९.७ नानावीर्याण्यहानि करोति
२१.९.८ गायत्रं वै प्रथममहस्त्रैष्टुभं द्वितीयं जागतं तृतीयमानुष्टुभं चतुर्थम्
२१.९.९ तदाहुर्यत् तृतीयेऽहनि षोडशिनं गृह्णीयुस्तृतीयेनाह्नानुष्टुभमाप्नुयुरच्छन्दश्चतुर्थमहः स्यादानुष्टुभो वै षोडशीति
२१.९.१० चतुर्थेऽहनि षोडशी ग्रहीतव्यः स्व आयतने षोडशी गृह्यते
२१.९.११ छन्दोभिरहानि नानावीर्याणि करोति
२१.९.१२ नौधसं प्रथमस्याह्नो ब्रह्मसाम श्यैतं द्वितीयस्य श्रायन्तीयं तृतीयस्य त्रैशोकं चतुर्थस्य
२१.९.१३ तदाहुरपभ्रंश इव वा एष यत् ज्यायसः छन्दसोऽधि कनीयश्छन्द उपैतीति
२१.९.१४ तद्यदेषा चतुर्थेऽहन्यतिजगती क्रियतेऽनपभ्रंशाय
२१.९.१५ कालेयं प्रथमस्याहोऽच्छावाकसाम माधुच्छन्दसं द्वितीयस्य रौरवं तृतीयस्य समन्तं चतुर्थस्य नानावीर्यतायै नानावीर्याण्यहानि करोति
२१.९.१६ “भित्वा वृषभा सुत”इति तृतीयस्याह्नो रथन्तरंऽऽकस्तमिन्द्र त्वा वसव”इति वामदेव्यंऽऽयज्ञा यथा अपूर्व”इति चतुर्थस्याह्नो बृहत्ऽऽेदु मधोर्मदिन्तरम्”इति वामदेव्यं छन्दसां नानावीर्यतायै नानावीर्याण्यहानि कारोति

२१.१०.१ त्रिवृत् पञ्चदशोऽग्निष्टोमः प्रथममहः
२१.१०.२ अथोत्तरस्याह्नोश्चतुर्विंशं वहिष्पवमानं पञ्चदशानि त्रीण्याज्यानि सप्तदशमच्छावाकस्यैकविंशो माध्यन्दिनः पवमानः सप्तदशे द्वे पृष्ठे एकविंशं तृतीयसवनंं सोक्थम्
२१.१०.३ तृतीयस्याह्न एकविंशं बहिष्पवमानं त्रीणि चाज्यानि पञ्चदशमच्छावाकस्य चतुर्विंशो माध्यन्दिनः पवमान एकविंशानि पृष्ठानि त्रिणवं तृतीयसवनं द्वे चोक्थे एकविंशमच्छावाकस्य
२१.१०.४ चतुर्थस्याह्नश्चतुर्विशाः पवमानाः पञ्चदशं होतुराज्यं सप्तदशानि त्रीण्येकविंशानि पृष्ठानि त्रयस्त्रिंशोऽग्निष्टोम एकविंशान्युक्थानि सषोडशिकानि पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२१.१०.५ जमदग्निः पुष्टिकाम एतमाहरत् स इमान् पोषानपुष्यत्
२१.१०.६ यदिदमाहुर्नवा ऊर्वौ पलितौ सञ्जानाते इति
२१.१०.७ तत् सर्वानेवैतेन पोषान् पुष्यति
२१.१०.८ जगती छन्दोभिः सम्पद्यते
२१.१०.९ जगती वै छन्दसां परमं पोषं पुष्टा परममेवैते पोषं पुष्यति
२१.१०.१० पुरोडाशिन्य उपसदो भवन्ति पशवो वै पुरोडाशाः पशुष्वेव प्रतितिष्ठन्ति
२१.१०.११ अग्ने वेर्होत्र वेरध्वरमापितरं वैश्वानरमवसेऽकरिन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.१२ देवावश्विनौ मधुकशयाद्येमं यज्ञं यजमानाय मिमिक्षतमिन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.१३ देव विष्ण उर्वद्यास्मिन् यज्ञे यजमानायाधि विक्रमस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.१४ देव सोम रेतोधा अद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.१५ देव सवितः सुसावित्रमद्यास्मिन् यज्ञे यजमानासुवस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.१६ देव धातः सुधाताद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.१७ देवा ग्रावाणो मधुमतीमद्यास्मिन् यज्ञे यजमानाय वाचं वदतेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.१८ देव्यनुमतेऽन्वद्येमं यज्ञं यजमानाय मन्यस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.१९ देव्यदिते स्वादित्यामद्यास्मिन् यज्ञे यजमानायासुवस्वेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.२० देव्य आपो नन्नम्यध्वमद्यास्मिन् यज्ञे यजमानायेन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.२१ सदस्सदः प्रजावानृभुर्जुषाण इन्द्राय देवेभ्यो जुहुता हविस्स्वाहा
२१.१०.२२ देव त्वष्टः सुरेतोधा अद्यास्मिन् यज्ञे यजमानायैधीन्द्राय देवेभ्यो जुहुता हविः स्वाहा
२१.१०.२३ आग्नेय एककपाल आश्विनो द्विकपालो वैष्णवस्त्रिकपालः सौम्यश्चतुष्कपालः सावित्रः पञ्चकपालो धात्रः षट्कपालो मारूतः सप्तकपालो बार्हस्पत्योऽष्टाकपालो मैत्रो नवकपालो वारूणो दशकपाल ऐन्द्र एकादशकपालो वैश्वदेवो द्वादशकपालः

२१.११.१ त्रिवृत प्रातस्सवनं पञ्चदशं माध्यन्दिनं सवनं सप्तदशं तृतीयसवनं पञ्चदशं प्रातस्सवनं सप्तदशं माध्यन्दिनं सवनमेकविंशं तृतीयसवनं सोक्थं सप्तदशं प्रातस्सवनमेकविंशं माध्यन्दिनं सवनं त्रिणवं तृतीयसवनं सोक्थमेकविंशं प्रातस्सवनं त्रिणवं माध्यन्दिनं सवनं त्रयस्त्रिंशं तृतीयसवनं प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२१.११.२ वसिष्ठः पुत्रहतो हीन इवामन्यत स एतमपश्यत् सोऽग्रं पर्यैद्यो हीन इव मन्येत स एतेन यजेत
२१.११.३ यत् स्तोमात् स्तोममभिसंक्रामत्यग्रादेवाग्रं रोहति वसिष्ठस्य जनित्रे भवतः प्रजात्यै
२१.११.४ प्रत्यवरोहीण्युत्तमस्याह्न उक्थानि भवन्ति प्रतिष्ठित्यै

२१.१२.१ त्रिवृदग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थ एकविंशोऽतिरात्रो विश्वामित्रस्य सञ्जयः
२१.१२.२ जह्नुवृचीवन्तो राष्ट्र आहिंसन्त स विश्वामित्रो जाह्नवो राजैतमपश्यत् स राष्ट्रमभवदराष्ट्रमितरे
२१.१२.३ भ्रातृव्यवान् यजेत
२१.१२.४ भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
२१.१२.५ ज्योतिर्वा एष विहृतः
२१.१२.६ ज्योतिः प्रजानां भवति य एवं वेद
२१.१२.७ चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठति
२१.१२.८ एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठति

२१.१३.१ द्वे त्रिवृती सवने पञ्चदशमेकं द्वे पञ्चदशे सवने सप्तदशमेकं द्वे सप्तदशे सवने एकविंशमेकं द्वे एकविंशे सवने त्रिणवमेकं द्वे त्रिणवे सवने त्रयस्त्रिंशमेकं प्रत्यवरोहीण्युक्थानि त्रिणवं प्रथमं द्वे एकविंशे सषोडशिके पञ्चदशी रात्रिस्त्रिवृत् सन्धिः
२१.१३.२ देवाश्च वा असुराश्चास्पर्धन्त ते न व्यजयन्त तेऽब्रुवन् वाचो मिथुनेन विजयामहै यतरे नो वाचो मिथुनं न प्रतिविन्दांस्ते परा भवानिति ते देवा एक इत्यब्रुवन्नेकेत्यसुरा वाचो मिथुनं प्रत्यविन्दन् द्वाविति देवा अब्रुवन् द्वे इत्यसुरा वाचो मिथुनं प्रत्यविन्दनंस्त्रय इति देवा अब्रुवंस्तिस्र इत्यसुरा वाचो मिथुनं प्रत्यविन्दंश्चत्वार इति देवा अब्रुवंश्चतस्त्र इत्यसुरा वाचो मिथुनं प्रत्यविन्दन् पञ्चेति देवा अब्रुवन्नासुरा अविन्दंस्ततो देवा अभवन् परासुराः
२१.१३.३ भवत्यात्मना परास्य भ्रातृव्यो भवति य एवं वेद
२१.१३.४ संवत्सरं वा एषां तद्वीर्यमन्नाद्यमवृञ्जत
२१.१३.५ संवत्सरं वीर्यमन्नाद्यं भ्रातृव्यस्य वृङ्क्ते य एवं वेद
२१.१३.६ पञ्चरात्रो वा एष पाङ्क्तः पुरूषः पाङ्क्ताः पशवस्तेन पुरूषं च पशूंश्चाप्नोति
२१.१३.७ आस्थरिर्वा एष सन्ततो यज्ञो द्वौ द्वौ हि स्तोमावहर्वहतो यं कामं कामयते तमेतेनाभ्यश्नुते
२१.१३.८ यत्र यत्र ह्यस्थूरिणा कामयते तत् तदभ्यश्नुते
२१.१३.९ अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै
२१.१३.१० प्रत्यवरोहीण्युत्तमस्याह्न उक्थानि भवन्ति प्रतिष्ठित्यै

२१.१४.१ त्रिवृदग्निष्टोमः पञ्चदश उक्थः सप्तदश उक्थः पञ्चदश उक्थः सप्तदशोऽतिरात्रः पञ्चशारदीयो मरुतां स्तोमः
२१.१४.२ यः कामयेत बहु स्यामिति स एतेन यजेत
२१.१४.३ मरूतो वै देवानां भूयिष्ठा बहुरेव भवति
२१.१४.४ सप्तदशं स्तोमा नातियन्ति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोति
२१.१४.५ अगस्त्यो वै मरूद्भ्य उक्ष्णः प्रौक्षत् तानिन्द्रायाबध्नात् ते वज्रमादायाभ्यपतन् स एतत् कयाशुभीयमपश्यत् तेनाशमयत्
२१.१४.६ यत् कयाशुभीयं शस्यते शान्त्या एव
२१.१४.७ सप्तदश पृश्नीनुक्ष्णः पञ्चवर्षान् सप्तदश पृश्नीस्त्रिवत्सा अप्रवीतास्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति
२१.१४.८ ततः संवत्सरे नवनीतपृश्नीररूणा आनयन्ति तांश्चैवोक्ष्णस्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे राजीवा आनयन्ति तांश्चैवोक्ष्णस्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे पिशङ्गीरानयन्ति तांश्चैवोक्ष्णस्तान् पर्यग्निकृतान् प्रोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति ततः संवत्सरे सारङ्गीरानयन्ति तांश्चैवोक्ष्णस्तान् पर्यग्निकृतान् पोक्षितानेतरा लभन्ते प्रेतरान् सृजन्ति
२१.१४.९ ततः संवत्सरे सोमा भवन्ति
२१.१४.१० त्रींस्त्रीनन्वहमालभन्ते पञ्चोत्तमेऽहनि
२१.१४.११ अजोऽग्नीषोमीयः
२१.१४.१२ ऐन्द्रा मारूतो उक्षाणो मारूत्यो वत्सतर्यः
२१.१४.१३ यदि रूद्रोऽभिमन्योताग्नये रूद्रवते पुरोडाशमष्टाकपालं निरूप्याथान्यमालभेत
२१.१४.१४ यदि संशीर्यैत भौममेककपालं निरूप्याथान्यमालभेत
२१.१४.१५ यद्यवसीदेर्नैरृतं चरुं निरूप्याथान्यमालभेत यद्यप्सु म्रियेतापोनप्त्रीयं चरुं निरूप्याथान्यमालभेत यद्यन्धस्यात् सौर्यं चरुं निरूप्याथान्यमालभेत
२१.१४.१६ यदि श्लवणो वा कुटो वा स्याद्बार्हस्पत्यं चरुं निप्याथान्यमालभेत
२१.१४.१७ यदि पलायेत वायव्यं चरुं निरूप्याथान्यमालभेत
२१.१४.१८ यदि प्रासहाजयेयुरिन्द्राय प्रसह्वन एकादशकपालं निरूप्याथान्यमालभेत
२१.१४.१९ यद्यन्येन मृत्युना म्रियेत प्राजापत्यं द्वादशकपालं निरूप्याथान्यमालभेत
२१.१४.२० एतेन वा एकयावा गान्दमो वेतस्वतीष्ट्वा सर्वामृद्धिमार्ध्नोत्
२१.१४.२१ सर्वामृद्धिमृध्नोति य एवं वेद

२१.१५.१ ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्यो महाव्रतं गौरुक्थ्य आयुरतिरात्रः
२१.१५.२ संवत्सरो वै व्रतं तस्य वसन्त ऋतुर्मुखं ग्रीष्मश्च वर्षाश्च पक्षौ शरन्मध्यं हेमन्तः पुच्छम्
२१.१५.३ तस्माच्छरदमोषधयोऽभिसम्पच्यन्ते शरद्धि मध्यं संवत्सरस्य
२१.१५.४ अकृतं वा एते कुर्वन्ति ये पुरा संवत्सरात् व्रतमुपयन्ति
२१.१५.५ एतद्वै व्रतमाप्तं यत् पञ्चरात्रे पञ्च ह्यृतवः
२१.१५.६ आप्तेन व्रतेन स्तुते सर्वमायुरेति य एवं वेद

२२.१.१ पृष्ठयः षडहः
२२.१.२ ऋतवो न प्रत्यतिष्ठंस्त एतेन प्रत्यतिष्ठन् प्रतिष्ठाकामो यजेत प्रत्येव तिष्ठति
२२.१.३ षड्वा ऋतव ऋतुष्वेवैतेन प्रतितिष्ठति पृष्ठयः षडहो भवति प्रत्यक्षमृध्यै
२२.१.४ प्रत्यक्षं ह्येतेनर्तव आर्ध्नुवन्नृध्या एव

२२.२.१ त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यः सप्तदश उक्थ्यो ज्योतिर्गौरायुरतिरात्रः
२२.२.२ यः कामयेत सर्वमायुरियामिति स एतेन यजेत
२२.२.३ यत् त्र्यहः पुरस्ताद्भवति त्रयः प्राणापानव्यानास्त एव तत् संधीयन्ते
२२.२.४ अथ यत् ज्योतिर्गौरायुरतिरात्रो भवति प्रतिष्ठित्यै

२२.३.१ अभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः
२२.३.२ अन्यस्मै वै कामाय सत्त्रमन्यस्मै यज्ञो न तत्सत्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रम्
२२.३.३ सत्त्रमिव वा एतद्यदनुलोमं पृष्ठानि यदेकधा पृष्ठानि भवन्त्येकधैवास्मिंस्तदोजो वीर्यं दधाति
२२.३.४ अन्नं पृष्ठान्यन्नाद्यमेवास्मिन् दधाति
२२.३.५ पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठति
२२.३.६ अभ्यासङ्ग्यः पञ्चाहो भवति सन्तत्यै
२२.३.७ विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै

२२.४.१ पृष्ठयः षडहो महाव्रतमतिरात्रः
२२.४.२ सप्त ऋषय एतेनार्ध्नुवंस्तेनर्द्धिस्तस्मादेतेन यजन्त ऋद्ध्या एव
२२.४.३ सप्त शिरसि प्राणाः प्राणा इन्द्रियाणीन्द्रियाण्येवैतेनाप्नोति
२२.४.४ सप्त ग्राम्याः पशवस्तानेतेनाप्नोति
२२.४.५ व्रतं सप्तमस्याह्नः पृष्ठं भवति तद्ध्यनाप्तमन्नं वै व्रतमन्नाद्यमेवैतेनाप्नोति
२२.४.६ पृष्ठयः षडहो भवति प्रत्यक्षमृध्यै
२२.४.७ प्रत्यक्षं ह्येतेन सप्त ऋषय आर्ध्नुवन्नृध्या एव

२२.५.१ पृष्ठयः षडहः सप्तदशं महाव्रतमतिरात्रः
२२.५.२ तस्य त्रिवृच्छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम्
२२.५.३ एतेन वै प्रजापतिः प्रजा असृजत
२२.५.४ प्र प्रजया प्र पशुभिर्जायते य एवं वेद
२२.५.५ सप्तदशो वै प्रजापतिर्यत् सप्तदशं व्रतं भवति प्रजापतिमेवाप्नोति
२२.५.६ यत् त्रिवृच्छिरो भवति नव प्राणाः प्राणेष्वेव प्रति तिष्ठति
२२.५.७ यत् पञ्चदशौ पक्षौ सवीवधत्वाय
२२.५.८ सप्तदश आत्मा भवति प्रजापतिर्वै सप्तदशः प्रजा पतिमेवाप्नोति
२२.५.९ एकविंशं पुच्छ भवति प्रतिष्ठित्यै

२२.६.१ पृष्ठयः षडहश्छन्दोमपवमानं महाव्रतमतिरात्रः
२२.६.२ पशुकामो यजेत
२२.६.३ पशवो वै छन्दामाः
२२.६.४ यच्छदोमाः पवमाना महाव्रतस्य भवन्ति पशूनेवावरून्धे
२२.६.५ उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते

२२.७.१ अभ्यासङ्ग्यः पञ्चाहोऽथ त्रयस्त्रिंशामहस्तस्य चतुस्त्रिंशोऽग्निष्टोमः सप्तदशं महाव्रतमतिरात्रस्तस्य चतुर्विंशं बहिष्पवमानं त्रिवृच्छिरः पञ्चदशौ पक्षौ सप्तदश आत्मैकविंशं पुच्छम्
२२.७.२ एतेन वै जमदग्निः सर्वान् पोषानपुष्यत् सर्वानेवैतेन पोषान् पुष्यति
२२.७.३ यदभ्यासङ्ग्यः पञ्चाहः पुरस्ताद्भवति सन्तत्या एव
२२.७.४ अथैतत् त्रयस्त्रिंशमहस्त्रयस्त्रिंशद्देवता देवता एवाप्नोति
२२.७.५ तस्य चतुस्त्रिंशोऽग्निष्टोमः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतिमेवाप्नोति
२२.७.६ चतुर्विंशं बहिष्पवमानं भवति महाव्रतस्य चतुर्विंशत्यक्षरा गायत्री प्रजननं गायत्री प्रजात्यै
२२.७.७ उभये स्तोमा युग्मन्तश्चायुजश्च तन्मिथुनं तस्मान्मिथुनात् प्रजायते
२२.७.८ यत् त्रिवृच्छिरो भवति नव प्राणाः प्राणेष्वेव प्रतितिष्ठति यत् पञ्चदशौ पक्षौ सवीवधत्वाय सप्तदश आत्मा भवति प्रजापतिर्वै सप्तदशः प्रजापतिमेवाप्नोत्येकविंशं पुच्छं भवति प्रतिष्ठित्यै

२२.८.१ ज्योतिष्टोमोऽग्निष्टोमो गौरुक्थ्य आयुरुक्थ्योऽभिजिदग्निष्टोमो विश्वजिदग्निष्टोमः सर्वजिदग्निष्टोमः सर्वस्तोमोऽतिरात्रः
२२.८.२ एतेन वा इन्द्रोऽत्यान्या देवता अभवदत्यन्या प्रजा भवति य एवं वेद
२२.८.३ यत् ज्योतिर्गौरायुस्त्र्यहः पुरस्ताद्भवति प्रज्ञातान् स्तोमानुपैतीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठति
२२.८.४ अथाभिजिदभिजिता वै देवा इमान् लोकानभ्यजयन् विश्वजिता विश्वमजयन् सर्वजिता सर्वमजयन्
२२.८.५ सर्वस्तोमातिरात्रो भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेवैतेनाप्नोति सर्वं जयति

२२.९.१ चत्वारि त्रिवृन्त्यहान्यग्निष्टोममुखानि विश्वजिन्महाव्रतं ज्योतिष्टोमोऽतिरात्रः
२२.९.२ एतेन वै प्रजापतिः पुरूषमसृजत स सर्वस्यान्नाद्यस्याधिपत्यमगच्छत्
२२.९.३ सर्वस्यान्नाद्यस्याधिपत्यं गच्छति य एवं वेद
२२.९.४ शिरो वा अग्रे सम्भवतः सम्भवति चतुर्धा विहितं वै शिरः प्राणश्चक्षुः श्रोत्रं वागात्मा वै पृष्ठानि यत् पृष्ठान्युपैति शिर एवात्मानमनुसन्दधाति
२२.९.५ एतद्वै पुरूषमकस्तस्मा अन्नमेव व्रतमपिदधाति
२२.९.६ अथ यत् ज्योतिष्टोमोऽतिरात्रो भवत्यकॢप्तस्य कॢप्त्यै

२२.१०.१ पृष्ठयः स्तोमः षडहो विश्वजिदतिरात्रः
२२.१०.२ अन्यस्मै वै कामाय सत्त्रमन्यस्मै यज्ञो न तत् सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रं सत्त्रमिव वा एतद्यदनुलोमं पृष्ठानि यदैकधा पृष्ठानि भवत्येकधैवास्मिंस्तेजो वीर्यं दधात्यन्नं पृष्ठान्यन्नाद्यमेवास्मिन् दधाति पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठति
२२.१०.३ यद्वै मनुष्याणां प्रत्यक्षं तद्देवानां परोक्षमथ यन्म मनुष्याणां परोक्षं तद्देवानां प्रत्यक्षम्
२२.१०.४ एतद्वै परोक्षं व्रतं यद्विश्वजित् प्रत्यक्षमेवैतेनान्नाद्यमवरुन्धे

२२.११.१ पृष्ठयः षडहो महाव्रतं ज्योतिष्टोमोऽतिरात्रः
२२.११.२ एतेन वै देवा देवत्वमगच्छन्
२२.११.३ देवत्वं गच्छति य एवं वेद
२२.११.४ एतद्वै व्रतमाप्तं यदष्टरात्रेऽग्निष्टोमो हि व्रतं सम्पद्यते
२२.११.५ अथ यत् ज्योतिष्ठोमोऽतिरात्रो भवत्यकॢप्तस्य कॢप्त्यै
२२.११.६ अष्टरात्रेण वै देवाः सर्वमाश्नुवत
२२.११.७ सर्वमश्नुते य एवं वेद

२२.१२.१ पृष्ठयः षडहो ज्योतिर्गौरायुरतिरात्रो देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावंस्तेभ्य एतेन नवरात्रेणामृतत्वं प्रायच्छत्
२२.१२.२ एतद्वाव मनुष्यस्यामृतत्वं यत् सर्वमायुरेति वसीयान् भवति
२२.१२.३ सर्वमायुरेति वसीयान् भवति य एवं वेद
२२.१२.४ नवरात्रो वा एष नव प्राणाः प्राणेष्वेव प्रतितिष्ठति
२२.१२.५ पृष्ठयः षडहो भवति प्रत्यक्षमृद्धया अथ यत् ज्योतिर्गौरायुरतिरात्रो भवति प्रतिष्ठित्यै

२२.१३.१ ज्योतिष्टोमोऽग्निष्ठोमो गौरुक्थ्य आयुरुक्थ्योऽभ्यासङ्ग्यः पञ्चाहो विश्वजिदतिरात्रः पशुकामो यजेत
२२.१३.२ यत् ज्योतिर्गौरायुस्त्र्यहः पुरस्ताद्भवति प्रज्ञातान् स्तोमानुपैतीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठति
२२.१३.३ अथ यदभ्यासङ्ग्यः पञ्चाहो मध्यतो भवति पाङ्क्तः पुरूषः पाङ्क्ताः पशवस्तेन पुरूषं च पशूंश्चाप्नोति
२२.१३.४ विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै

२२.१४.१ त्रिवृदग्निष्टोमः पञ्चदश उक्थ्यस्त्रिवृदग्निष्टोमः सप्तदशोऽग्निष्टोम एकविंश उक्थ्यः सप्तदशोऽग्निष्टोमस्त्रिणवोऽग्निष्टोमस्त्रयस्त्रिंश उक्थ्यस्त्रिणवोऽग्निष्टोमो विश्वजिदतिरात्रः
२२.१४.२ इन्द्रोऽसुरान् हत्वाकार्यं चकृवां अमन्यत तं देवा एतेन स्तोमेनायाजयन् स पाप्मनो नैर्दश्यमगच्छत्
२२.१४.३ तस्मादिषुहतो वा दण्डहतो वा दशमीं नैर्दश्यं गच्छति
२२.१४.४ दश दशिनी वा एषा विराडन्नं विराडन्नाद्यमेवास्मिन् दधाति
२२.१४.५ अग्निष्टोमेन वै देवा असुरान्निगृह्य मध्यत उक्थैः प्रजया पशुभिः प्राजायन्ताग्निष्टोमेनैव भ्रातृव्यं निगृह्य मध्यत उक्थ्यैः प्रजया पशुभिः प्रजायते
२२.१४.६ त्रिककुब्वा एष यज्ञः
२२.१४.७ त्रिककुप्समानानां च प्रजानां च भवति य एवं वेद
२२.१५.१ त्रयस्त्रिवृतोऽग्निष्टोमास्त्रयः पञ्चदश उक्थ्यास्त्रयः सप्तदश उक्थ्या एकविंशोऽतिरात्रः कुसुरुविन्ददशरात्रः
२२.१५.२ य
ः कामयेत बहु स्यामिति स एतेन यजेत
२२.१५.३ यद्गणशः स्तोमो बहुरेव भवति
२२.१५.४ सह त्रिवृत सह पञ्चदशाः सह सप्तदशाः
२२.१५.५ एकविंशोऽतिरात्रो भवति प्रतिष्ठित्यै
२२.१५.६ ज्योतिर्वा एष विहृतः
२२.१५.७ ज्योतिष्प्रजानां भवति य एवं वेद
२२.१५.८ चतुष्टोमो वा एष चतुष्पादाः पशवः पशुष्वेव प्रतितिष्ठति
२२.१५.९ एकविंशं स्तोमा नातियन्ति प्रतिष्ठा वा एकविंशः प्रत्येव तिष्ठति
२२.१५.१० एतेन वै कुसुरूविन्द औद्दालकिरिष्ट्वा भूमानमाश्नुत
२२.१५.११ भूमानमश्नुते य एवं वेद

२२.१६.१ अभ्यासङ्ग्यः पञ्चाहश्चत्वारश्छन्दोमः विश्वजिदतिरात्रः पशुकामो यजेत
२२.१६.२ यदभ्यासङ्ग्यः पञ्चाहः पुरस्ताद्भवति पाङ्क्तः पुरुषः पाङ्क्ताः पशवस्तेन पुरूषं च पशूंश्चाप्नोति
२२.१६.३ छन्दोमा मध्यतो भवन्ति पशवो वै छन्दोमाः पशूनामवरुध्यै
२२.१६.४ विश्वजिदतिरात्रो भवति विश्वस्याभिजित्यै

२२.१७.१ त्रिष्टोमोऽग्निष्टोमो ज्योतिरुक्थ्यस्त्रिष्टोमोऽग्निष्टोमो गौरुक्थ्योऽभिजिदग्निष्टोमो गौरुक्थ्यो विश्वजिदग्निष्टोम आयुरुक्थ्यो विश्वजिदग्निष्टोमस्य सर्वस्तोमोऽतिरात्रः
२२.१७.२ देवा वा असुरैर्हन्यमानास्ते प्रजापतिमुपाधावंस्तेभ्य एतां देवपुरं प्रायच्छत् तां प्राविशन्
२२.१७.३ अभिचार्यमाणं याजयेदेतामेव देवपुरं प्रविशत्यसृत्यै

२२.१८.१ अभ्यासङ्ग्यः षडहस्त्रयश्छन्दोमाश्चतुष्टोमोऽग्निष्टोमो विश्वजिदतिरात्रः
२२.१८.२ स्वाराज्यो वा एष यज्ञः
२२.१८.३ स्वाराज्यं गच्छति य एवं वेद
२२.१८.४ प्रजापतिर्हि स्वाराज्यं परमेष्ठी स्वाराज्यम्
२२.१८.५ परमेष्ठितां गच्छति य एवं वेद
२२.१८.६ उभे बृहद्रथन्तरे भवतस्तद्धि स्वाराज्यमयुतं दक्षिणास्तद्धि स्वाराज्यं षड्विंशस्तोमो भवति स हि स्वाराज्यं चतुष्टोमस्तोमः स ह्यन्तोऽन्ते श्रिया गच्छति य एवं वेद
२२.१८.७ एतेन वै क्षेम धृत्वा पौण्डरीकं इष्ट्वा सुदाम्नस्तीर उत्तरे
२२.१८.८ सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नोति य एवं वेद

२३.१.१ अतिरात्रः पृष्ठयः षडहः सर्वस्तोमोऽतिरात्रश्चत्वारश्छन्दोमा अतिरात्रः
२३.१.२ एष वा आप्तो द्वादशाहो यत् त्रयोदशरात्रः
२३.१.३ समानो ह्येष यत् प्रयणीयश्चोदयनीयश्चातिरात्रौ कामं कामयन्ते तमेताभिरभ्यश्नुवते
२३.१.४ गृहपतेस्तु वागुपदासुका भवति तद्यन्मध्ये सर्वस्तोमोऽतिरात्रो भवति तेन गृहपतेर्वागनुपदासुका भवति
२३.१.५ एता वा अर्यलगृहपतय आरूणिहोतारः सुभगासूपयन्ति ते सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एता उपयन्ति

२३.२.१ अतिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
२३.२.२ वाग्वा एषा प्रतायते यदेष द्वादशाहस्तां विच्छिन्द्युर्यन्मध्येऽतिरात्रं कुर्युः
२३.२.३ यदुपरिष्टाद्व्रतमुपयन्ति न वाचं विच्छिन्दन्त्याप्नुवन्ति त्रयोदशं मासम्
२३.२.४ एता वै प्रतिष्ठितास्त्रयोदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.३.१ अतिरात्रः पृष्ठयः षडहः पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रः
२३.३.२ कामसनयो वा एता रात्रयः
२३.३.३ विराढ्ढि दशात्मैकादशी प्रजा द्वादशी पशवस्त्रयोदशी कामाय चतुर्दशी
२३.३.४ सर्वानेवैताभिः कामानवरून्धते
२३.३.५ एता वाव ब्रध्नस्य विष्टपो यदेतौ त्रयस्त्रिंशौ मध्यतः संधीयेते तेन ब्रध्नस्य विष्टपं रोहन्ति
२३.३.६ द्विः पृष्ठान्युपयन्त्यभिपूर्वमेवैताभिरन्नाद्यं दधते

२३.४.१ अतिरात्रो ज्योतिर्गौरायुस्त्र्यहः पृष्ठ्य षडह आयुर्गौर्ज्योतिरतिरात्रः
२३.४.२ यांस्तल्पे वोदके वा विवाहे वा मीमांसेरंस्त एता उपेयुः
२३.४.३ यत् ज्योतिर्गौरायुस्त्र्यहः प्रज्ञातां स्तोमानुपयन्ति
२३.४.४ इमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठान्ति
२३.४.५ अथ यत् पृष्ठयः षडहो मध्यतो भवत्येषु वाव देवतल्पो देवतल्पमेव तदारोहन्ति तल्प्या भवन्ति
२३.४.६ प्रवसीयसस्तल्पमाप्नुवन्ति
२३.४.७ अथ यदायुर्गौर्ज्योतिरतिरात्रो येनेतो यन्ति तेन पुनरायन्ति

२३.५.१ अतिरात्रो गौश्चायुश्च द्वे अहनी द्वादशाहस्य दशाहान्यतिरात्रः
२३.५.२ यद्गौश्चायुश्च द्वे अहनी भवतो मिथुनौ स्तोमावुपयन्ति प्रजात्यै
२३.५.३ अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
२३.५.४ एता वै प्रतिष्ठिताश्चतुर्दश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.६.१ अतिरात्रः पृष्ठयः षडहो महाव्रतं पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रः
२३.६.२ एताभिर्वै देवा देवत्वमगच्छन् देवत्वं गच्छन्ति य एता उपयन्ति
२३.६.३ एतद्वै देवानां सत्त्रं तदद्यापि देवाः सत्त्रमासते
२३.६.४ पौर्णमास्यतिरात्रोऽथ यानि षडहानि स पृष्ठयः षडह एकाष्टका महाव्रतमथ यानि षडहानि स पृष्ठयः षडहोऽमावास्यातिरात्रः
२३.६.५ तस्मात् तर्हि मनुष्याणां न सुतो देवानां हि तर्हि सुतः प्रत्यक्षमेवैताभिर्देवता अभ्यारोहन्ति
२३.६.६ प्रतिनोदात् तु भय्यमितरमनुपक्षो दीक्षेरन्नप्रतिनोदाय

२३.७.१ अतिरात्रस्त्रिवृदग्निष्टुदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहः पृष्ठयः षडह आयुर्गौर्ज्योतिरतिरात्रः
२३.७.२ क्षत्रं वा एता रात्रयोऽभिनिर्वदन्ति
२३.७.३ ब्रह्मवर्चसकामा उपेयुः
२३.७.४ यत् त्रिवृदग्निष्टुदग्निष्टोमो भवति ब्रह्म तद्यशसार्धयति
२३.७.५ ब्रह्म वै त्रिवृत्
२३.७.६ यत् ज्योतिर्गौरायुस्त्र्यहः प्रज्ञातान् स्तोमानुपयन्तीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठन्त्यथ यत् पृष्ठयः षडहो मध्यतो भवत्यन्नं वै पृष्टान्यन्नमेव तन्मध्यतो धीयते तस्मान्मध्ये सदन्नं धिनोत्यथ यदायुर्गौर्ज्योतिरतिरात्रो येनेतो यन्ति तेन पुनरायन्ति

२३.८.१ त्रिवृदग्निष्टुदग्निष्टोमो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः
२३.८.२ अन्यस्मै वै कामाय सत्त्रमन्यस्मै यज्ञो न तत् सत्त्रेणाप्नोति यस्मैकं यज्ञो न तद्यज्ञेनाप्नोति यस्मैकं सत्त्रम्
२३.८.३ यदन्यतोऽतिरात्रास्तेन यज्ञोऽथ यानि द्वादशाहस्य दशाहानि तेन सत्त्रम्
२३.८.४ उभावेवैताभिः कामाववरून्धते

२३.९.१ अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वादशाहस्य दशाहान्यतिरात्रः प्रजाकामा उपेयुः
२३.९.२ एताभिर्वै प्रजापतिः प्रजा असृजत प्र प्रजया प्र पशुभिर्जायन्ते य एता उपयन्ति
२३.९.३ यत् ज्योतिर्गौरायुस्त्र्यहः प्रजातान् स्तोमानुपयन्तीमानेव लोकानेष्वेव लोकेषु प्रतितिष्ठन्ति
२३.९.४ अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
२३.९.५ एता वै प्रतिष्ठिताः पञ्चदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.१०.१ एता एव समहाव्रताः
२३.१०.२ एताभिर्वा इन्द्रः परमां विजितिं व्यजयत परमामेवैताभिर्विजितिं विजयन्ते
२३.१०.३ पञ्चदशो वै वज्रो न वा अगृहीतेन वज्रेण वीर्यं करोति या षोडश्यारम्भणमेव तद्गृहीतेन वज्रेण वीर्यं करोति

२३.११.१ अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः
२३.११.२ एताभिर्वै प्रजापतिरनन्तां श्रियमजयदनन्ता वा एता यत् पञ्चाहविधाः
२३.११.३ यत् पञ्चाहोऽनन्तादेव प्रजायन्ते
२३.११.४ अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
२३.११.५ एता वै प्रतिष्ठिताः सप्तदश रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.१२.१ अतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः
२३.१२.२ देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावंस्तेभ्य एतेनाष्टादशरात्रेणामृतत्वं प्रायच्छत्
२३.१२.३ एतद्वाव मनुष्यस्यामृतत्वं यत् सर्वमायुरेति वसीयान् भवति
२३.१२.४ सर्वमायुर्यन्ति वसीयांसो भवन्ति य एता उपयन्ति
२३.१२.५ द्विर्वा एता नव नव प्राणा अभिपूर्वमेवैताभिरायुर्दधते

२३.१३.१ एता एव समहाव्रताः
२३.१३.२ एताभिर्वै वायुरारण्यानां पशुनामाधिपत्यं गच्छन्ति य एता उपयन्ति
२३.१३.३ मृगसत्रं वा एतत्
२३.१३.४ एताभिर्वा आरण्याः पशवो नाकृताः प्रजायन्ते
२३.१३.५ अनाकृतमेषां प्रजायते य एता उपयन्ति

२३.१४.१ अत्रिरात्रोऽभिप्लवः षडहोऽभिजिच्च विश्वजिच्च द्वे अहनी द्वादशाहस्य दशाहान्यतिरात्रः
२३.१४.२ पुरूषकामा उपेयुरेताभिर्वै प्रजापतिः पुरूषमसृजत
२३.१४.३ स सर्वस्यान्नाद्यस्याधिपत्यमगच्छत् सर्वस्यान्नाद्यस्याधिपत्यं गच्छन्ति य एता उपयन्ति
२३.१४.४ पुरूषसत्रं वा एतत्
२३.१४.५ विंशो वै पुरूषो दश हि हस्त्या अङ्गुल्यो दश पाद्याः
२३.१४.६ यदेता विंशती रात्रयो भवन्त्येष्वेवैताभिर्लोकेषु पुरूषं प्रतिष्ठापयन्ति
२३.१४.७ एता वै प्रतिष्ठिता विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.१५.१ अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽभिप्लवः षडहोऽतिरात्रः पशुकामा उपेयुः
२३.१५.२ एताभिर्वा आदित्याः सप्त ग्राम्यान् पशूनुदसृजन्त पशूनेवैताभिरुत्सृजन्ति (उत्सृजन्ते)
२३.१५.३ त्रिर्वै सप्त सप्तादित्याः
२३.१५.४ पशव आदित्याः
२३.१५.५ आदित्या अस्मिंल्लोके ऋद्धा आदित्या अमुष्मिन्
२३.१५.६ पशवोऽस्मिनृतवोऽमुष्मिन्
२३.१५.७ उभयोरनयोर्लोकयोरृध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति

२३.१६.१ अतिरात्रः पृष्ठयः षडहस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पृष्ठयः षडहस्त्रयस्त्रिंशारम्भणोऽतिरात्रो ब्रह्मवर्चसकामा उपेयुः
२३.१६.२ स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् तस्मै देवाः प्रायश्चित्तिमैच्छंस्त एता अविन्दंस्ताभिरस्मात् तमोऽपाघ्नन्
२३.१६.३ अप तमो घ्नते य एता उपयन्ति
२३.१६.४ सौमापौषं पशुमुपालभ्यमालभेरन्
२३.१६.५ सोमो वै ब्राह्मणः पशवः पूषा स्वामेव तद्देवतां पशुभिर्बंहयन्ते त्वचमेवाक्रत
२३.१६.६ मनोरृचः सामिधेन्यो भवन्ति
२३.१६.७ मनुर्वै यत् किं चावदत् तद्भेषजं भेषजतायै
२३.१६.८ नैदाधीय उपेयुः
२३.१६.९ तद्ध्येष प्रति तेजिष्ठं तपति
२३.१६.१० किलासत्वात् तु भयमति ह्येभ्योऽपहन्ति
२३.१६.११ एता वा उग्रदेवो राजनिरुपैत् स किलासोऽभवत्
२३.१६.१२ अकिलासो भवति य एवं विद्वानेता उपैति

२३.१७.१ अतिरात्रो ज्योतिर्गौरायुस्त्र्यहोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चान्नाद्यकामा उपेयुः
२३.१७.२ पञ्चर्तवो द्वादश मासास्त्रय इमे लोका असावादित्य एकविंशोऽन्नं द्वाविंशमेभ्यो लोकेभ्यः संवत्सरादमुष्मादादित्यादन्नाद्यमवरुन्धते य एता उपयन्ति

२३.१८.१ अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहोऽभिप्लवः षडहो द्वादशाहस्य दशाहान्यतिरात्रः प्रतिष्ठाकामा उपेयुः
२३.१८.२ एताभिर्वै प्रजापतिरेषु लोकेषु प्रत्यतिष्ठत्
२३.१८.३ यदेतास्त्रयोविंशती रात्रयो भवन्ति त्रय इमे लोका एष्वेवैताभिर्लोकेषु प्रतितिष्ठन्ति
२३.१८.४ एता वै प्रतिष्ठितास्त्रयोविंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.१९.१ अतिरात्रः पृष्ठयः स्तोमः षडहस्त्रयस्त्रिंशमहरनिरुक्तमुपहव्यस्य तन्त्रे कॢप्त तस्य कण्वरथन्तरं मध्यन्दिनेऽथ त्रयस्त्रिंश निरुक्तं त्रिणवं द्वे एकविंशे त्रिणवं त्रयस्त्रिंशमहर्निरुक्तं त्रयस्त्रिंशमहरनिरुक्तं पृष्ठयः स्तोमः षडहः प्रत्यङ्त्रिवृदहरनिरुक्तं ज्योतिष्टोमोऽग्निष्टोमोऽतिरात्रः
२३.१९.२ एताभिर्वै देवाः स्वर्गे लोके समसीदन् स्वर्गे लोके सीदामेत्येताः
२३.१९.३ एता वाव ब्रध्नस्य विष्टपो यदेते त्रयस्तिंशा मध्यतः संधीयन्ते तेन ब्रध्नस्य विष्टपं रोहन्ति
२३.१९.४ मध्यतः पृष्ठान्युपयन्त्यन्नं वै पृष्ठान्यन्नमेव तन्मध्यतो धीयते तस्मान्मध्ये सदन्नं धिनोति
२३.१९.५ सप्ताहा वा एते
२३.१९.६ अतो वै प्रजाः प्रजायन्ते
२३.१९.७ प्र प्रजया प्र पशुभिर्जायन्ते य एता उपयन्ति
२३.१९.८ अपशव्यं वा एतत् सत्त्रं यदच्छन्दोमं यत् सप्ताहास्तेन छन्दोमवत्यस्तेन पशव्याः
२३.१९.९ त्रयस्त्रिंशस्त्रयस्त्रिंशमन्वेति त्रिवृत् त्रिवृतमग्रादग्रं रोहन्ति यत् त्रयस्त्रिंशस्त्रयस्त्रिंशमन्वेति प्राणात् प्राणेषु प्रतितिष्ठन्ति
२३.१९.१० यत् त्रिवृत् त्रिवृतम्
२३.१९.११ विलोमानो वा एता रात्रयो यत् ज्योतिरग्निष्टोम उत्थानीयमहर्भवत्यकॢप्तस्य कॢप्त्यै

२३.२०.१ अतिरात्रो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः प्रजाकामा वा पशुकामा वोपेयुः
२३.२०.२ कॢप्ताद्वै योनेः प्रजाः पशवः प्रजायन्ते यत् कॢप्तौ षडहावुपयन्ति कॢप्तादेव योनेः प्रजया पशुभिः प्रजायन्ते
२३.२०.३ अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
२३.२०.४ एता वै प्रतिष्ठिताश्चतुर्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति

२३.२१.१ एता एव समहाव्रताः
२३.२१.२ एताभिर्वै प्रजापतिः सर्वमन्नाद्यमवारून्ध
२३.२१.३ चतुर्विंशतिः संवत्सरस्यार्धमासाः संवत्सरः पञ्चविंशोऽन्नं व्रतं संवत्सरादेताभिरन्नाद्यमवरून्धते य एता उपयन्ति

२३.२२.१ अतिरात्रो गौश्चायुश्च द्वे अहनी द्वावभिप्लवौ षडाहौ द्वादशाहस्य दशाहान्यतिरात्रः
२३.२२.२ ऋतवो न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति
२३.२२.३ षड्वा ऋतव ऋतुष्वेवैताभिः प्रतितिष्ठन्ति
२३.२२.४ यद्गौश्चायुश्च द्वे अहनी भवतो मिथुनौ स्तोमावुपयन्ति प्रजात्यै
२३.२२.५ यत् कॢप्तौ षडहावुपयन्ति कॢप्त्या एव
२३.२२.६ अथ यानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
२३.२२.७ एता वै प्रतिष्ठिता षड्विंशती रात्रयः प्रतितिष्ठन्ति य एता उपयन्ति
२३.२३.१ अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्र ऋद्धिकामा उपेयुः
२३.२३.२ एताभिर्वै नक्षत्राणि सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एता उपयन्ति
२३.२३.३ यदेता सप्तविंशती रात्रयो भवन्ति सप्तविंशतिर्नक्षत्राणि नक्षत्रसम्मिता वा एता रात्रयो नक्षत्राणामेवर्धिमृध्नुवन्ति

२३.२४.१ एता एव समहाव्रताः पशुकामा उपेयुर्यदेता अष्टाविंशती रात्रयो भवन्त्यष्टाशफाः पशवः शफश एवैताभिः पशूनवरून्धते

२३.२५.१ अतिरात्रो ज्योतिर्गौरायुर्गौरायुः पञ्चाहो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः
२३.२५.२ एताभिर्वै प्रजापतिरनन्तां श्रियमजयत्
२३.२५.३ अनन्ता वा एता या एकयानत्रिंशन्नेति वै वाचोऽनन्तम्
२३.२५.४ यदेता एकयानत्रिंशद्रात्रयो भवन्त्यनन्तामेवैताभिः श्रियं जयन्ति

२३.२६.१ अतिरात्रस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रोऽन्नाद्यकामा उपेयुः
२३.२६.२ परोक्षमन्यानि सत्त्राणि विराजं सम्पद्यन्ते प्रत्यक्षमेता विराजं सम्पन्नाः
२३.२६.३ प्रत्यक्षमेताभिरन्नाद्यमवरून्धते य एता उपयन्ति

२३.२७.१ एता एव समहाव्रता एताभिर्वै प्रजापतिरभिपूर्वमन्नाद्यमवारून्ध
२३.२७.२ अन्नं विराडन्नं व्रतम्
२३.२७.३ अभिपूर्वमेवैताभिरन्नाद्यमवरून्धते

२३.२८.१ अतिरात्रो गौश्चायुश्च द्वे अहनी त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः
२३.२८.२ अनुष्टुब्वा एता रात्रयः
२३.२८.३ द्वात्रिंशदक्षरानुष्टुप्
२३.२८.४ वागनुष्टुप्
२३.२८.५ चतुष्पादाः पशवः
२३.२८.६ वाचा पशून् दाधार
२३.२८.७ एताभी रात्रीभिः
२३.२८.८ तस्मात् ते वाचा सिद्धा वाचाहूता आ यन्ति

२४.१.१ अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्र एकः पञ्चाहो द्वादशाहस्य दशाहान्यतिरात्रः
२४.१.२ प्रजापतिः प्रजा असृजत ता न प्रत्यतिष्ठंस्ता एताभिः प्रत्यतिष्ठन्निमे लोका न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन् प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति
२४.१.३ अरूपेण वा एताः सरूपा अरूपेण प्रजाः सरूपा अरूपेणेमे लोकाः सरूपा यद्रथन्तरस्य लोकं बृहदापद्यते बृहतो रथन्तरमरूपेणैवैभ्यस्तत् सरूपं प्रजनयन्ति
२४.१.४ लुप्यते वा एतत् षष्ठमहर्यत् पञ्चाहानुपयन्ति नर्तवः कल्पन्तेः यत् पृष्ठयः षडहस्तेन षष्ठमहर्न लुप्यते तेनर्तवः कल्पन्ते
२४.१.५ अथ यानि द्वादशाहस्य दशाहानि तेन पञ्चाहेभ्यो न यन्ति
२४.१.६ ऊधर्वा अन्तरिक्षं स्तनावभितोऽनेन वा एष देवेभ्यो दुग्धेऽमुना प्रजाभ्यः
२४.१.७ इदं वा अन्तरिक्षं वियदिमौ स्तनावभितः
२४.१.८ तदभ्यनूक्ता
२४.१.९ त्रिंशति त्रयः परो ये देवा बर्हिरासत व्यन्नह द्विता तनेति
२४.१.१० ऊधर्वै मध्यमोऽतिरात्रः स्तनावभितः
२४.१.११ यदेषोऽनतिरात्रः स्यादूधः प्रतिहरेत्
२४.१.१२ तस्मादतिरात्रः कार्य ऊधसोऽप्रतिहाराय
२४.१.१३ त्रयस्त्रिंशद्देवता एताभिरार्ध्नुवंस्तेनर्धिस्तस्मादेताभिर्यजन्त ऋध्या एव
२४.१.१४ नाना ब्रह्मसामान्युपयन्त्यह्ना नाना वीर्यतायै नानैव वीर्याण्यवरून्धते

२४.२.१ अतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहोऽतिरात्रोऽभिप्लवः षडहो द्वादशाहस्य दशाहानि महाव्रतं चातिराश्च
२४.२.२ आदित्याश्चाङ्गिरसश्चैतत् सत्त्रं समदधतादित्यानामेकविंशतिरङ्गिरसां द्वादशाह आदित्या अस्मिंल्लोक ऋद्धा आदित्या अमुष्मिन्नङ्गिरसोऽस्मिन्नङ्गिरसोऽमुष्मिन् द्वयं सत्त्रं यावद्द्वयेन सत्त्रेणर्ध्नुवन्ति तावत्येतासामृद्धिः

२४.३.१ अतिरात्रस्त्रयः पञ्चाहा विश्वजिदतिरात्रस्त्रयः पञ्चाहा अतिरात्रः
२४.३.२ अपशव्यं वा एतत् सत्त्रं यदच्छन्दोमं यद्विश्वजिति छन्दोमानुपयन्ति तेन छन्दोमवत्यस्तेन पशव्याः
२४.३.३ पक्षिण्यो वा एता रात्रयो यं कामं कामयन्ते तमेताभिरभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत् तदभ्यश्नुते
२४.३.४ त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैरेव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति

२४.४.१ अतिरात्रो ज्योतिर्गौरायुस्त्र्यहस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्चर्धिकामा उपेयुः
२४.४.२ एताभिर्वै प्रजापतिः सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नुवन्ति य एता उपयन्ति
२४.४.३ यदेताश्चतुस्त्रिंशद्रात्रयो भवन्ति त्रयस्त्रिंशद्देवताः प्रजापतिश्चतुस्त्रिंशो देवतानां प्रजापतेरेवर्धिमृध्नुवन्ति
२४.५.१ अतिरात्रो ज्योतिर्गौरायुः पञ्चाहस्त्रयोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः
२४.५.२ यदेताः पञ्चात्रिंशद्रात्रयो भवन्ति पाङ्क्ताः पशवः पशूनेवैताभिरवरुन्धते

२४.६.१ अतिरात्रश्चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः
२४.६.२ एताभिर्वै देवा आदित्यमस्तभ्नुवन्नादित्यलोकं जयन्ति य एता उपयन्ति
२४.६.३ बृहती वा एता रात्रयः स्वाराज्यं छन्दसां बृहती यो वै पशूनां भूमानं गच्छति स स्वाराज्यं गच्छति प्र स्वाराज्यमाप्नुवन्ति य एता उपयन्ति

२४.७.१ एता एव समहाव्रताः
२४.७.२ एताभिर्वै प्रजापतिरुभौ कामाववारून्धान्नं व्रतं पशवो बृहत्युभावेवैताभिः कामाववरून्धते

२४.८.१ अतिरात्रो गौश्चायुश्च द्वे अहनी चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः पशुकामा उपेयुः स्पष्टोऽर्थः
२४.८.२ यदेता अष्टात्रिंशद्रात्रयो भवन्त्यष्टाशफाः पशवः शफश एवैताभिः पशुनवरून्धते

२४.९.१ अतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चत्वारोऽभिप्लवाः षडहा द्वादशाहस्य दशाहान्यतिरात्रः
२४.९.२ एताभिर्वै प्रजापतिरनन्ता श्रियमजयदनन्ता वा एता या एकयानचत्वारिंशन्नेति वै वाचोऽनन्तम्
२४.९.३ यदेता एकयानचत्वारिंशद्रात्रयो भवन्त्यनन्तामेवैताभिः श्रियं जयन्ति

२४.१०.१ एता एव समहाव्रताः
२४.१०.२ सर्वा वा एता विराजो दशिनी प्रथमा विंशिनी द्वितीया त्रिंशिनी तृतीयैषा वै परमा विराट्यच्चत्वारिंशद्रात्रयः पङ्क्तिर्वै परमा विराट्
२४.१०.३ परमायामेव विराजि प्रतितिष्ठन्ति

२४.११.१ अतिरात्रस्त्रीणि त्रिवृन्त्यहान्यग्निष्टोममुखान्यतिरात्रो दश पञ्चदशा उक्थ्याः षोडशिमद्दशममहरतिरात्रो द्वादश सप्तदशा उक्थ्या अतिरात्रः पृष्ठयः षडहोऽतिरात्रो द्वादशैकविंशा उक्थ्या अतिरात्रः
२४.११.२ प्रजापतिः प्रजा असृजत ता अविधृता असञ्जानाना अन्योन्यामादंस्तेन प्रजापतिरशोचत् स एता अपश्यत् ततो वा इदं व्यावर्तत गावोऽभवन्नश्वा अश्वाः पुरूषाः पुरूषा मृगा मृगाः
२४.११.३ वि पाप्मना वर्तन्ते य एता उपयन्ति
२४.११.४ यदतिरात्रा अन्तरा विधृत्यै तस्मान्नेतर इतरस्मिन् रेतो दधाति
२४.११.५ यत् पृष्ठ्याः स्तोमाः स सृष्टास्तस्मादजावयः पशूनां सह चरन्ति तस्मादु गर्दभो वडवाया रेतो दधाति
२४.११.६ अपशव्यं वा एतत् सत्त्रं यदच्छन्दोमं यत् सन्धिषामसु छन्दांस्युपयन्ति तेन छन्दोमवत्यस्तेन पशव्याः
२४.११.७ गायत्रीषु जराबोधीयमुष्णिक्षु श्रुध्यमनुष्टुप्सु नानदं बृहतीषु रथन्तरं पङ्क्तिषु रायोवाजीयं त्रिष्टुप्स्वौशनं जगतीषु कावम्
२४.११.८ ऊर्ध्वानि छन्दांस्युपयन्त्यनपभ्रंशाय
२४.११.९ प्राणो वै स्वरो यत् स्वरावन्ततो भवतस्तस्मात् द्वावन्ततः प्राणौ

२४.१२.१ अतिरात्रौ द्वावभिप्लवौ षडहौ गौश्चायुश्चातिरात्रौ द्वावभिप्लवौ षडहावभिजिच्च विश्वजिच्चतिरात्रावेकोऽभिप्लवः षडहः सर्वस्तोमश्च नव सप्तदशश्चातिरात्रो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
२४.१२.२ आदित्यानां यमातिरात्राः
२४.१२.३ यमेवैषा श्रीर्भवति य एता उपयन्ति
२४.१२.४ एताभिर्वा आदित्या द्वन्द्वमार्ध्नुवन्मित्रश्च वरूणश्च धाता चार्यमा चांशश्च भगश्चेन्द्रश्च विवस्वाश्चैतासामेव देवतानामृद्धिमृध्नुवन्ति य एता उपयन्ति
२४.१२.५ तदभ्यनूक्ता
२४.१२.६ अष्टौ पुत्रासो अदितेर्ये जातास्तन्वं परि देवा उपप्रैत् सप्तभिः परा मार्ताण्डमास्यदिति
२४.१२.७ आदित्या अस्मिंल्लोक ऋद्धा आदित्या अमुष्मिन्नुभयोरनयोर्लोकयोरृध्नुवन्ति देवलोके च मनुष्यलोके च य एता उपयन्ति
२४.१३.१ अतिरात्रश्चत्वारोऽभिप्लवाः षडहाः सर्वस्तोमोऽतिरात्रो द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः
२४.१३.२ प्रजापतिः प्रजा असृजत स रूक्षोऽभवत् तं रूक्षं नाजनन् स आ चाङ्क्ताभि चाङ्क्त
२४.१३.३ य आत्मानं नेव जानीरंस्त एता उपेयुर्यदा चाञ्जतेऽभि चाञ्जते शुभमेवात्मन् दधते जानन्त्येनान्
२४.१३.४ गौग्गुलवेन प्रातस्सवने सौगन्धिकेन माध्यन्दिने सवने पैतुदारवेण तृतीयसवने
२४.१३.५ अग्निर्वै देवानां हौत्रमुपैष्यञ्छरीरमधूनुत तस्य यन्मां समासीत् तद्गुग्गुल्वभवद्यत् स्नाव तत् सुगन्धितेजनं यदस्थि तत् पोतुदार्वेतानि वै देवसुरभीणि देवसुरभिभिरेव तदभ्यञ्जते

२४.१४.१ अतिरात्रश्चतुर्विंशं प्रायणीयमहस्त्रयोऽभिप्लवाः षडहा अभिजित् त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजिदेकोऽभिप्लवः षडह आयुश्च गौश्च द्वे आहनी द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च संवत्सरसं मिता यावती संवत्सरस्यर्द्धिस्तावत्येतासामृद्धिः
२४.१४.२ तदाहुर्यच्चतुर्विंशमहः प्रयणीयं कुर्युः संवत्सरमारभ्य न समापयेयुरिति त्रिवृदेव कार्यं प्राणा वै त्रिवृत् प्राणानेवोपयन्ति
२४.१४.३ अथो खल्वाहुश्चतुर्विंशमेव कार्यं समृध्यै
२४.१४.४ अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद्दिवाकीर्त्यमभितः स्वरसामानो भवन्ति शिरस्येव तत् प्राणा धीयन्ते
२४.१४.५ अथ यावन्त्यौ प्राणौ तौ विश्वजिदभिजितावथैते गोआयुषी मिथुनौ स्तोमावुपयन्ति प्रजात्यै
२४.१४.६ अथैतानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननाय
२४.१४.७ अथैतद्व्रतमन्नं वै व्रत न वा अन्यत्र मुखादन्नं धिनोति यदुपरिष्टाद्व्रतमुपयन्ति मुखत एव तदन्नाद्यं धीयते तस्मान्मुखे सदन्नं धिनोति
२४.१४.८ अथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तमभ्युधन्ति

२४.१५.१ अतिरात्रो नव त्रिवृन्त्यहान्यग्निष्टोममुखष्षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नव पञ्चदशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नव सप्तदशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो नवैकविंशान्यहान्यग्निष्टोममुखः षडहोऽथ यानि त्रीण्यहान्यग्निष्टोमावभित उक्थ्यं मध्यतो द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
२४.१५.२ एताभिर्वै सविता सर्वस्य प्रसवमगच्छत्
२४.१५.३ सर्वस्य प्रसवं गच्छन्ति य एता उपयन्ति
२४.१५.४ यद्गणशः स्तोमा बहव एव भवन्ति सह त्रिवृतः सह पञ्चदशाः सह सप्तदशाः सहैकविंशाः सवितुर्वा एताः ककुभः
२४.१५.५ ककुभः समानानां च प्रजानां च भवन्ति य एता उपयन्ति

२४.१६.१ अतिरात्रश्चत्वारोऽभिप्लवाः षडहा महाव्रतं द्वावभिप्लवौ षडहौ द्वादशाहस्य दशाहान्यतिरात्रः
२४.१६.२ ऋतवो न प्रत्यतिष्ठंस्त एताभिः प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः
२४.१६.३ प्रत्येव तिष्ठन्ति षड्वा ऋतव ऋतुष्वेवैताभिः प्रतितिष्ठन्ति यत् कॢप्तान् षडहानुपयन्ति कॢप्त्या एव
२४.१६.४ अथैतद्व्रतमन्नं वै व्रतं न वा अन्यत्र मध्यादन्नं धिनोति यद्व्रतं मध्यत उपयन्ति मध्यत एव तदन्नाद्यं धीयते तस्मान्मध्ये सदन्नं धिनोति
२४.१६.५ यत् कॢप्तौ षडहावुपयन्ति कॢप्त्या एव
२४.१६.६ अथैतानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननायाथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति

२४.१७.१ अतिरात्रः षडभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
२४.१७.२ एताभिर्वा इन्द्राग्नी अत्यन्या देवता अभवतामत्यन्याः प्रजा भवन्ति य एता उपयन्ति
२४.१७.३ इन्द्राग्नी वै देवानामोजिष्ठा ओजिष्ठा भवन्ति य एता उपयन्ति
२४.१७.४ यत् कॢप्तान् षडहानुपयन्ति कॢप्त्या एवाथैतानि द्वादशाहस्य दशाहानि वाचमविच्छिन्नामुपयन्ति प्रजननायाथैतद्व्रतमथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तमभ्युधन्ति

२४.१८.१ अतिरात्रश्चतुर्विंशं प्रायणीयमहस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहोऽभिजित् त्रयस्स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भण एकोऽभिप्लवः षडह आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रतश्चातिरात्रश्च तदेतदेकषष्टिरात्रं दैवानां व्रात्यानाम्
२४.१८.२ दैवा वै व्रात्याः सत्त्रमासत बुधेन स्थपतिना ते ह वा अनिर्याच्य वरुणं राजानं देवयजनं दिदीक्षुस्तान् ह वा वरूणो राजानु व्याजहारान्तरेमि वो यज्ञियाद्भागधेयान्न देवयानं पन्थानं प्रज्ञास्यथेति तस्मात् तेभ्यो न हविर्गृह्णन्ति न ग्रहम्
२४.१८.३ अथ ह वै तर्हि नौषधीषु पय आसीन्न क्षीरे सर्पिर्न मांसे मेदो न त्वचि लोमानि न वनस्पतिषु पलाशानि तद्यत एतदेकषष्टिरात्रं दैवा व्रात्या उपायंस्ततो वै तानि भुतान्येतैर्वीर्यैः समसृज्यन्त तेजस्वन्त्येवासन् पयस्वन्ति
२४.१८.४ तदेष श्लोकोऽभ्यनूच्यते
२४.१८.५ किमकर्तेति यत् पुत्रान्मुहुर्दैवां अपृच्छत मही बुधस्यासीद्दीक्षा स क्षीरे सर्पिराहरत्
२४.१८.६ महीं दीक्षां सौमायनो बुधो यदुदयच्छदनन्दत् सर्वमाप्नोन्मन्मांसे मेदोऽधा इति
२४.१८.७ दरिद्रा आसन् पशवः कृशाः सन्तो व्यस्थकाः सौमायनस्य दीक्षायां समसृज्यन्त मेदसेति
२४.१८.८ तद्य एतदेकषष्टिरात्रमुपेयुस्ते देवयजनमध्यवसाय गार्हपत्य आहुतिं जुहयुर्देव वरुण देवयजनं नो देहि स्वाहेति ते दत्ते देवजने यजन्ते
२४.१८.९ ते सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति

२४.१९.१ अतिरात्रो ज्योतिर्गौरायुस्त्र्यहश्चतुर्दशाभिप्लवाः षडहा द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
२४.१९.२ देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावंस्तेभ्य एतेन शतरात्रेणामृतत्वं प्रायच्छदेतद्वाव मनुष्यस्यामृतत्वं यत् सर्वमायुरेति वसीयान् भवति सर्वमायुर्यन्ति वसीयांसो भवन्ति य एतदुपयन्ति
२४.१९.३ अभिप्रयायमभिषुण्वन्त्यभिक्रान्त्यै समानत्राभिषुण्वन्ति प्रतिष्ठित्यै

२४.२०.१ अतिरात्रश्चतुर्विंशं प्रायणीयमहश्चत्वारोऽभिप्लवाः षडहाः पृष्ठ्यः षडहः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहोऽभिजित् त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानो विश्वजित् पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणस्त्रयोऽभिप्लवाः षडहाः पृष्ठ्यः षडहस्त्रयस्त्रिंशारम्भणश्चत्वारोऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थस्त्रयोऽभिप्लवाः षडहा आयुश्च गौश्च द्वे अहनी द्वादशाहस्य दशाहानि महाव्रञ्चातिरात्रश्च
२४.२०.२ संवत्सरब्राह्मणं ब्राह्मणम्

२५.१.१ अतिरात्रश्चतुर्विंशं प्रायणीयमहर्द्वौ त्रिवृत् पञ्चदशौ षडहौ पृष्ठ्यः षडहो द्वौ त्रिवृत् पञ्चदशौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस्त्रयस्त्रिवृत् पञ्चदशाः षडहाः पृष्ठ्यः षडहस्त्रिवृद्बृहस्पतिस्तोमस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ट्यः षडहस्त्रयस्त्रिंशारम्भण एकः पञ्चदशस्त्रिवृत् षडहो द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृत उद्भिच्च बलभिच्च द्वे अहनी द्वौ पञ्चदशत्रिवृतौ षडहौ पृष्ठ्यः षडहो द्वौ पञ्चदशत्रिबृतौ षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थः पञ्चदशत्रिवृत् षडहः पृष्ठ्यः षडहः पञ्चदशत्रिवृत् षडहो गौश्चायुश्च द्वे अहनी छन्दोमदशाहोऽष्टाचत्वारिंशं प्रथममहरथ चतुश्चत्वारिंशं चत्वारिंशं षट्त्रिंशं द्वात्रिंशं त्रिंशं द्वे अष्टाविंशे पञ्चविंशं चतुर्विंशं महाव्रतं चातिरात्रश्च
२५.१.२ आदित्यानां मध्ये पृष्ठ्यम्
२५.१.३ मध्ये पृष्ठ्येन वा आदित्याः स्वर्गं लोकमाक्रमन्त यन्मध्ये पृष्ठान्युपयन्ति स्वर्गस्य लोकस्याक्रान्त्यै
२५.१.४ अन्नं वै पृष्ठान्यन्नमेव तन्मध्यतो धीयते तस्मान्मध्ये सदन्नं धिनोति
२५.१.५ पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठन्ति
२५.१.६ चक्रे वा एते साकंवृतीयत् त्रिवृत् पञ्चदशौ स्तोमौ यं कामं कामयन्ते तमेतेनाभ्यश्नुवते यत्र यत्र हि चक्रीवता कामयते तत् तदभ्यश्नुते
२५.१.७ अथैष त्रिवृद्बृहस्पतिस्तोम एतेन वै बृहस्पतिर्देवानां पुरोधामगच्छत् पुरोधकामा उपेयुर्गच्छन्ति पुरोधां पुर एनान् दधते
२५.१.८ अथैते स्वरसामानः शिरो वै दिवाकीर्त्यं प्राणाः स्वरसामानो यद्दिवाकीर्त्यमभितः स्वरसामानो भवन्ति शिवस्येव तत् प्राणा धीयन्ते
२५.१.९ अथैष पञ्चदश इन्द्रस्तोम उक्थ्य एतेन वा इन्द्रोऽत्यन्या देवता अभवदत्यन्याः प्रजा भवन्ति य एतदुपयन्ति
२५.१.१० अथैतानि द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृतो मध्यतः पाप्मनो मुच्यन्त एष वाव देवतल्पो देवतल्पमेव तदारोहन्ति तल्प्या भवन्ति प्रवसीयसस्तल्पमाप्नुवन्ति
२५.१.११ अथैतावुद्भिद्बलभिदावेताभ्यां वै बृहस्पतिर्देवेभ्यः पशूनुदसृजत् पशूनेवैताभ्यामुत्सृजन्ते
२५.१.१२ अथैते गो आयुषी मिथुनौ स्तोमावुपयन्ति प्रजात्यै
२५.१.१३ अथैष छन्दोमदशाहश्छन्दसां दोहोऽर्वाञ्चि छन्दांस्युपयन्ति तस्मादर्वाञ्चो भुञ्जन्तः पशव उपतिष्ठन्ते
२५.१.१४ अथैद्व्रतमन्नं वै व्रतं न वा अन्यत्र मुखादन्नं धिनोति यदुपरिष्टाद्व्रतमुपयन्ति मुखत एव तदन्नाद्यं धीयते तस्मान्मुखे सदन्नं धिनोति
२५.१.१५ अथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति

२५.२.१ अतिरात्रश्चतुर्विंशं प्रायणीयमहः पृष्ठ्यः षडहश्चत्वारस्त्रिवृतोऽभिप्लवाः षडहाः स मासः स द्वितीयः स तृतीयः स चतुर्थः स पञ्चमस्त्रयस्त्रिवृतोऽभिप्लवाः षडहाः पृष्ठ्यः षडहस्त्रिवृद्बृहस्पतिस्तोमस्त्रयः स्वरसामानो दिवाकीर्त्यमहस्त्रयः स्वरसामानः पञ्चदश इन्द्रस्तोम उक्थ्यः पृष्ट्यः षडहस्त्रयस्त्रिंशारम्भण एकस्त्रिवृदभिप्लवः षडहो द्वादशाहस्य दशाहानि व्यूढा अग्निष्टोमास्त्रिवृत उद्भिच्च बलभिच्च द्वे अहनी चत्वारस्त्रिवृतोऽभिप्लवाः षडहाः पृष्ठ्यः षडहौ स मासः स द्वितीयः स तृतीयः स चतुर्थो द्वौ त्रिवृतावभिप्लवौ षडहौ पृष्ठ्यः षडह आयुश्च गौश्च द्वे अहनी छन्दोमदशाहश्चतुर्विंशं प्रथममहर्द्वे अष्टाविंशे त्रिंशं द्वात्रिंशं षट्त्रिंशं चत्वारिंशं चतुश्चत्वारिंशमष्टाचत्वारिंशं चतुर्विंशं महाव्रतं चातिरात्रश्चाङ्गिरसां पुरस्तात् पृष्ठ्यम्
२५.२.२ पुरस्तात् पृष्ठ्येन वा अङ्गिरसः स्वर्गं लोकमाक्रमन्त यत् पुरस्तात् पृष्ठान्युपयन्ति स्वर्गस्य लोकस्याक्रान्त्यै
२५.२.३ अन्नं वै पृष्ठान्यन्नमेव तन्मुखतो धीयते तस्मान्मुखे सदन्नं धिनोति पशवः पृष्ठानि पशुष्वेव प्रतितिष्ठन्ति
२५.२.४ यदन्यच्चक्राभ्यां साकवृद्भ्यां तत्समानमा छन्दोमदशाहात्
२५.२.५ अथैष छन्दोमदशाहश्छन्दसां दोह ऊर्ध्वानि छन्दांस्युपयन्त्यनपभ्रंशायैष वाव देवयानः पन्थाः प्र देवयानं पन्थानमाप्नुवन्ति य एतदुपयन्त्यथैतद्व्रतम्
२५.२.६ अथैतौ प्रायणीयोदयनीयावतिरात्रौ येनैष प्राणेन प्रयन्ति तमभ्युद्यन्ति

२५.३.१ अतिरात्रस्त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासं त्रयस्त्रिंशेन मासं महाव्रतं त्रयस्त्रिंशेन मासं त्रिणवेन मासमेकविंशेन मासं सप्तदशेन मासं पञ्चदशेन मासं त्रिवृता मासमतिरात्रः
२५.३.२ ऋतवो न प्रत्यतिष्ठंस्त एतेन प्रत्यतिष्ठन् प्रतिष्ठाकामा उपेयुः प्रत्येव तिष्ठन्ति षड्वा ऋतव ऋतुष्वेवैतेन प्रतितिष्ठन्ति
२५.३.३ यद्गतं मध्यत उपयन्ति मध्यत एव तदन्नाद्यं धीयते तस्मान्मध्ये धिनोति
२५.३.४ पक्षि वा एतत् सत्त्रायणं यं कामं कामयन्ते तमेतेनाभ्यश्नुवते यत्र यत्र हि पक्षी कामयते तत् तदभ्यश्नुते
२५.३.५ त्रिवृता प्रयन्ति त्रिवृतोद्यन्ति प्राणा वै त्रिवृत् स्तोमानां प्राणैरेव प्रयन्ति प्राणेषु प्रतितिष्ठन्ति
२५.३.६ एतद्वै दृतिवातवन्तौ खाण्दव उपेतो विषुवति वातवानुत्तिष्ठति समापयति दृतिस्तस्मात् तनीयांसो वातवता भूयांसो दार्तेयाः

२५.४.१ मासं दीक्षिता भवन्ति ते मासि सोमं क्रीणन्ति तेषां द्वादशोपसद उपसद्भिश्चरित्वा सोममुपनह्य मासमग्निहोत्रं जुह्वति मासं दर्शपूर्णमासाभ्यां यजन्ते मासं वैश्वदेवेन मासं वरुणप्रघासैर्मासं साकमेधैर्मासं शुनासीर्येण त्रिवृता मासं पञ्चदशेन मासं सप्तदशेन मासमेकविंशेन मासं त्रिणवेन मासमष्टादश त्रयस्त्रिंशान्यहानि द्वादशाहस्य दशाहानि महाव्रतं चातिरात्रश्च
२५.४.२ अग्निहोत्रं दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्योऽध्वरः सप्तहोता
२५.४.३ एते वाव सर्वेण यज्ञेन यजन्ते य एतदुपयन्ति सर्व एव भवन्ति
२५.४.४ ते सर्वे कुण्डपायिनोऽत्सरुकैश्चमसैर्भक्षयन्ति
२५.४.५ यो होता सोऽध्वर्युः स पोता य उद्गाता स नेष्टा सोऽच्छावाको यो मैत्रावरुणः स ब्रह्मा स प्रतिहर्तायः प्रस्तोता स ब्राह्मणाच्छंसी स ग्रावस्तुत् यः प्रतिप्रस्थाता सोऽग्नीत् स उन्नेता गृहपतिर्गृहपतिः सुब्रह्मण्यस्सुब्रह्मण्यः

२५.५.१ संवत्सरं दीक्षिता भवन्ति संवत्सरमुपसद्भिश्चरन्ति संवत्सरं प्रसुतो भवति
२५.५.२ तत् संवत्सरं दीक्षिता भवन्ति तप एव तेन तप्यन्ते यत् संवत्सरमुपसद्भिश्चरन्ति पुनत एव तेन यत् संवत्सरं प्रसुतो भवति देवलोकमेव तेनापि यन्ति
२५.५.३ एतेन वै तपश्चितो देवाः सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति

२५.६.१ त्रयस्त्रिवृतः संवत्सरास्त्रयः पञ्चदशास्त्रयः सप्तदशास्त्रय एकविंशाः प्रजापतेर्द्वादशसंवत्सरम्
२५.६.२ एतेन वै प्रजापतिः सर्वस्य प्रसवमगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतदुपयन्ति
२५.६.३ यत् त्रयस्त्रिवृतः संवत्सरा भवन्ति तेजो ब्राह्मवर्चसं त्रिवृत् तेज एव ब्रह्मवर्चसमवरुन्धते यत् त्रयः पञ्च दशा ओजो वीर्यं पञ्चदश ओज एव वीर्यमवरुन्धते यत् त्रयः सप्तदशा अन्नं वै सप्तदशोऽन्नाद्यमेवावरुन्धते यत् त्रय एकविंशाः प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठन्ति
२५.६.४ एतेन वै नैमिशीयाः सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति
२५.६.५ ते ह सप्तदशेभ्य एवाध्युत्तस्थुस्त उ होचुर्यो नः प्रजायामृध्यातै स एतत् सत्त्रं समापयादिति तदेतत् समीप्सन्तो ब्राह्मणास्सत्त्रमासते

२५.७.१ नव त्रिवृतः संवत्सरा नव पञ्चदशा नव सप्तदशा नवैकविंशाः शाक्त्यानां षट्त्रिंशत् संवत्सरम्
२५.७.२ एतेन वै गौरीवितिः शाक्तस्तरसपुरोडाशो यव्यावत्यां सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति
२५.७.३ बृहती वा एतत् सत्त्रायणं स्वाराज्यं छन्दसां बृहती प्र स्वाराज्यमाप्नुवन्ति य एतदुपयन्ति
२५.७.४ तदेतच्छाक्त्यानां दशवीरमेषां दश वीरा जायन्ते य एतदुपयन्ति

२५.८.१ पञ्चविंशतिस्त्रिवृतः संवत्सराः पञ्चविंशतिः पञ्चदशाः पञ्चविंशतिः सप्तदशाः पञ्चविंशतिरेकविंशाः साध्यानां शतसंवत्सरम्
२५.८.२ साध्या वै नाम देवेभ्यो देवाः पूर्व आसंस्त एतत् सत्त्रायणमुपायंस्तेनार्ध्नुवंस्ते सगवः सपुरुषाः सर्व एव सह स्वर्गं लोकमायन्नेवं वाव ते सह स्वर्गं लोकं यन्ति य एतदुपयन्ति
२५.८.३ आयुर्वा एतत् सत्त्रायणं शतायुः पुरुषो यावदेवायुस्तदवरुन्धते न ह्यत्यायुषं सत्त्रमस्ति
२५.८.४ तदभ्यनूक्ता तानीदहानि बहुलान्यासन् या प्राचीनमुदिता सूर्यस्य यतः परि जार इवाचरन्त्यूषा (?) दादृशे न पुनर्यतीवेति
२५.८.५ ज्योतिष्टोमस्यायनेन यन्ति ज्योतिरेव भवन्ति
२५.८.६ एकविंशोऽन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविंशोऽन्ततः स्तोमानां भवति प्रतिष्ठा वा एकविंशोऽन्तत एव यज्ञस्य प्रतितिष्ठन्ति

२५.९.१ अतिरात्रः सहस्रमहान्यतिरात्रोऽग्नेः सहस्रसाव्यम्
२५.९.२ एतेन वा अग्निः सवस्य प्रसवमगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतदुपयन्ति
२५.९.३ अग्नेर्वै सर्वमाद्यं सर्वमेषामाद्यं भवति य एतदुपयन्ति
२५.९.४ अथ यत् सहस्रसाव्यं भवति सहस्राक्षरा वै परमा विराट्परमायामेव विराजि प्रतितिष्ठन्ति

२५.१०.१ सरस्वत्या विनशने दीक्षन्ते
२५.१०.२ तेषां द्वादश दीक्षा द्वादशोपसदः
२५.१०.३ यदहरतिरात्रो भवति तदहर्वत्सानपाकुर्वन्ति संस्थितेऽतिरात्रे सान्नाय्येन यजन्ते
२५.१०.४ सान्नाय्येनेष्ट्वाध्वर्युः शम्यां परास्यति सा यत्र निपतति तद्गार्हपत्यस्ततः षट्त्रिंशतं प्रक्रमान् प्रक्रमति तदाहवनीयः
२५.१०.५ चक्रीवत् सदश्चक्रीवद्धविर्धानं चक्रीवदाग्नीध्रमुलूखलबुध्नो यूपः प्रकृष्य उपोप्त एव नोपरवान् खनन्ति
२५.१०.६ ते तमापूर्यमाणमावास्येन यन्ति
२५.१०.७ तेषां पौर्णमास्यां गोष्टोमस्तोमो भवत्युक्थ्यो बृहत्सामा
२५.१०.८ संस्थिते गोष्टोमे पौर्णमासं निर्वपन्ते ते तमपक्षीयमाणं पौर्णमासेन यन्ति तेषाममावास्यायामायुष्टोमस्तोमो भवत्युक्थ्यो रथन्तरसामा
२५.१०.९ मित्रावरुणयोरयनम्
२५.१०.१० एतेन वै मित्रावरुणाविमान् लोकानाजयतामहोरात्रौ वै मित्रावरुणावहर्मित्रो रात्रिर्वरुणोऽर्धमासौ वै मित्रावरुणौ य आपूर्यते स मित्रो योऽपक्षीयते स वरुणः स एष मित्रो वरुणे रेतः सिञ्चति
२५.१०.११ सरस्वत्या वै देवा आदित्यमस्तभ्नुवन् सा नायच्छत् साभ्यव्लीयत तस्मात् सा कुब्जिमतीव तं बृहत्यास्तभ्नुवन् सायच्छत् तस्माद्बृहती छन्दसां वीर्यवत्तमादित्यं हि तयास्तभ्नुवन्
२५.१०.१२ प्रतीपं यन्ति न ह्यन्वीपमष्ट वै पूर्वेण पक्षसा यन्ति
२५.१०.१३ तद्धि प्रत्येकाप्येति
२५.१०.१४ दृषद्वत्येव
२५.१०.१५ दृषद्वत्या अप्ययेऽपोनप्त्रीयं चरुं निरुप्याथातियन्ति
२५.१०.१६ चतुश्चत्वारिंशदाश्वीनानि सरस्वत्या विनशनात् प्लक्षः प्रास्रवणस्तावदितः स्वर्गो लोकः सरस्वतीसम्मितेनाध्वना स्वर्गं लोकं यन्ति
२५.१०.१७ एतेन वै नमी साप्यो वैदेहो राजाञ्जसा स्वर्गं लोकमैदञ्जसागामेति तदञ्जस्कीयानामञ्जस्कीयत्वम्
२५.१०.१८ स एतदवभृथमभ्यवैद्य एष उत्तरेण स्थूलार्मं ह्रदस्तद्धास्य शतं गावः सहस्रं सम्पेदुः
२५.१०.१९ शते गोष्वृषभमप्यृजन्ति(?) ता यदा सहस्रं सम्पद्यन्तेऽथोत्थानम्
२५.१०.२० यदा सर्वज्यानिं जीयन्तेऽथोत्थानं यदा गृहपतिर्म्रियतेऽथोत्थानम्
२५.१०.२१ यदा प्लक्षं प्रास्रवणमागच्छन्त्यथोत्थानम्
२५.१०.२२ प्लक्षं प्रास्रवणमागम्याग्नये कामायेष्टिं निर्वपन्ते तस्यामश्वां च पुरुषीं च धेनुके दत्वा
२५.१०.२३ कारपचवं प्रति यमुनामवभृथमभ्यवयन्ति

२५.११.१ अतिरात्रस्त्रिवृत् पञ्चदशमिन्द्राग्न्योरयनं गोआयुषी इन्द्रकुक्षी अतिरात्रः
२५.११.२ एतेन वा इन्द्राग्नी अत्यन्या देवता अभवतामत्यन्याः प्रजा भवन्ति य एतदुपयन्ति
२५.११.३ इन्द्राग्नी वै देवानामोजिष्ठा ओजिष्ठा भवन्ति य एतदुपयन्ति
२५.११.४ अथ यत् त्रिवृत् पञ्चदशमिन्द्राग्न्योरयनं गोआयुषी इन्द्रकुक्षी भवतोऽसंव्याथाय

२५.१२.१ अतिरात्रो ज्योतिर्गौरायुस्त्र्यहो विश्वजिदभिजिताविन्द्रकुक्षी अतिरात्रः
२५.१२.२ एतेन वार्यमैतं लोकमजयत्
२५.१२.३ यदाहुरर्यम्णः पन्था इत्येष वाव देवयानः पन्थाः
२५.१२.४ प्र देवयानं पन्थानमाप्नुवन्ति य एतदुपयन्ति
२५.१२.५ तस्मादेषोऽरुणतम इव दिव उपददृशेऽरुणतम इव हि पन्थाः
२५.१२.६ अथ यत् ज्योतिर्गौरायुस्त्र्यहो विश्वजिदभिजिताविन्द्रकुक्षी भवतोऽसंव्याथाय

२५.१३.१ संवत्सरं ब्राह्मणस्य गा रक्षेत् संवत्सरं व्यर्णे नैतन्धवेऽग्निमिन्धीत संवत्सरे परीणह्यग्नीनादधीत
२५.१३.२ स दक्षिणेन तीरेण दृषद्वत्या आग्नेयेनाष्टाकपालेन शम्यापरासीयात्
२५.१३.३ इन्द्रश्च रुशमा चांशं प्रास्येतां यतरो नौ पूर्वो भूमिं पर्येति स जयतीति भूमिमिन्द्रः पर्यैत् कुरुक्षेत्रं रुशमा सोऽब्रवीदजैषं त्वेत्यहमेव त्वामजैषमितीन्द्रोऽब्रवीत् तौ देवेष्वपृच्छेतां ते देवा अब्रुवन्नेतावती वाव प्रजापतेर्वेदिर्यावत् कुरुक्षेत्रमिति तौ न व्यजयेताम्
२५.१३.४ स य आग्नेयेनाष्टाकपालेन दक्षिणेन तीरेण दृषद्वत्याः शम्यापरास्येति त्रिप्लक्षान् प्रति यमुनामवभृथमभ्यवैति तदेव मनुष्येभ्यस्तिरो भवति

२५.१४.१ आग्नेयोऽष्टाकापाल ऐन्द्र एकादशकपालो वैश्वदेवश्चरुः
२५.१४.२ अदीक्षितः कृष्णाजिनं प्रतिमुञ्चते यददीक्षितः कृष्णाजिनं प्रतिमुञ्चते यो मानुष्यृद्धिस्तां तेनर्ध्नोति
२५.१४.३ अथ यत् तपस्तप्यते या दैवी तां तेन
२५.१४.४ यदाग्नेयोऽष्टाकपालो भवत्यग्निमुखा वै देवता मुखत एव तद्देवता ऋध्नोत्यथो प्रातस्सवनमेव तेनाप्नोत्यथ यदैन्द्र एकादशकपालो भवत्यैन्द्रं वै माध्यन्दिनं सवणं माध्यन्दिनमेव सवनं तेनाप्नोत्यथ यद्वैश्वदेवश्चरुर्भवति वैश्वदेवं वै तृतीयसवनं तृतीयसवनमेव तेनाप्नोति
२५.१४.५ एतेन वै पुरो देवमुनिः सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नोति य एतदुपैति

२५.१५.१ अतिरात्रावभितोऽग्निष्टोमा मध्ये सर्वो दशदशी संवत्सरो द्वादशो विषुवान् सर्पसामानि विषुवति क्रियन्ते
२५.१५.२ एतेन वै सर्पा एषु लोकेषु प्रत्यतिष्ठन्नेषु लोकेषु प्रतितिष्ठन्ति य एतदुपयन्ति
२५.१५.३ जर्वरो गृहपतिः धृतराष्ट्र ऐरावतो ब्रह्मा पृथुश्वरा दौरेश्रवस उद्गाता ग्लावश्चाजगावश्च प्रस्तोतृप्रतिहर्तारौ दत्तस्तापसो होता शितिपृष्ठो मैत्रावरुणः तक्षको वैशालेयो ब्राह्मणाच्छंसी शिखानुशिखौ नेष्टापोतारौ अरुण आटोच्छावाकः तिमिर्घो दौरेश्रुतोऽग्नीत् कौतस्तावध्वर्यू अरिमेजयश्च जनमेजयश्चार्बुदो ग्रावस्तु दजिरः सुब्रह्मण्यः चक्कपिशङ्गावुन्नेतारौ षण्डकुषण्डावभिगरापगरौ
२५.१५.४ एतेन वै सर्पा अपमृत्युमजयन्नपमृत्युं जयन्ति य एतदुपयन्ति तस्मात् ते हित्वा जीर्णां त्वचमतिसर्पन्त्यप हि ते मृत्युमजयन् सर्पा वा आदित्या आदित्यानामिवैषां प्रकाशो भवति य एतदुपयन्ति

२५.१६.१ गवामयनं प्रथमः संवत्सरोऽथादित्यानामथाङ्गिरसाम्
२५.१६.२ एतेन वै गावः प्रजातिं भूमानमगच्छन् प्रजायन्ते बहवो भवन्ति य एतदुपयन्त्येतेन वा आदित्या एषु लोकेषु प्रत्यतिष्ठन् प्रतितिष्ठन्ति य एतदुपयन्त्येतेन वा अङ्गिरसः स्वर्गं लोकमायन् स्वर्गं लोकं यन्ति य एतदुपयन्ति
२५.१६.३ पर आह्णारस्त्रसदस्युः पौरुकुत्सो वीतहव्यः श्रायसः कक्षीवानौशिजस्त एतत् प्रजातिकामाः सत्त्रायणमुपायंस्ते सहस्रं सहस्रं पुत्रानपुष्यन्नेवं वाव ते सहस्रं सहस्रं पुत्रान् पुष्यन्ति य एतदुपयन्ति

२५.१७.१ अतिरात्रः सहस्रं त्रिवृतः संवत्सरा अतिरात्रः प्रजापतेः सहस्रसंवत्सरम्
२५.१७.२ एतेन वै प्रजापतिः सर्वस्य प्रसवमगच्छत् सर्वस्य प्रसवं गच्छन्ति य एतदुपयन्ति
२५.१७.३ एतद्वै प्रजापतिर्जीर्या मूर उपैत् तेन जरामपाहताप जरां घ्नते य एतदुपयन्ति
२५.१७.४ तदेतत् प्रजापतेः सहस्रसंवत्सरमेतेन वै प्रजापतिः सर्वामृद्धिमार्ध्नोत् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति

२५.१८.१ पञ्च पञ्चाशतस्त्रिवृतः संवत्सराः पञ्च पञ्चाशतः पञ्चदशा पञ्च पञ्चाशतः सप्तदशाः पञ्च पञ्चाशत एकविंशा विश्वसृजां सहस्रसंवत्सरम्
२५.१८.२ एतेन वै विश्वसृज इदं विश्वमसृजन्त यद्विश्वमसृजन्त तस्मात् विश्वसृजः
२५.१८.३ विश्वमेनाननु प्रजायते य एतदुपयन्ति
२५.१८.४ तपो गृहपतिर्ब्रह्म ब्रह्मेरा पत्न्यमृतमुद्गाता भूतं प्रस्तोता भविष्यत् प्रतिहर्तर्तव उपगातार आर्तवाः सदस्याः सत्यं होतर्तं मैत्रावरुण ओजो ब्राह्मणाच्छंसी त्विषिश्चापचितिश्च नेष्टापोतारौ यशोऽच्छावाकोऽग्निरेवाग्नीद्भगो ग्रावस्तुदूर्गुन्नेता वाक्सुब्रह्मण्यः प्राणोऽध्वर्युरपानः प्रतिप्रस्थाता दिष्टिर्विशास्ता बलं ध्रुवगोपमाशा हविष्येष्यहोरात्राविध्मवाहौ मृत्युः शमितैते दीक्षन्ते
२५.१८.५ तदेष श्लोको विश्वसृजः प्रथमे सत्त्रमासत सहस्रसमं प्रसुतेन यन्तस्ते ह यज्ञे भुवनस्य गोपा हिरण्मयः शकुनो ब्रह्मनामेति
२५.१८.६ ब्रह्मणः सलोकतां सार्ष्टितां सायुज्यं गच्छन्ति य एतदुपयन्ति तदेतद्विश्वसृजां सहस्रसंवत्सरमेतेन वै विश्वसृजः सर्वामृद्धिमार्ध्नुवन् सर्वामृद्धिमृध्नुवन्ति य एतदुपयन्ति

Red

%d bloggers like this: