Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
09/04/2026
  • Sanskrit Documents

निरुक्तम्-यास्क Niruktam of Yaska

Nirukta of Yaska- ओं समाम्नायः समाम्नातः स व्याख्यातव्यस्तमिमं समाम्नाये निघंटव इत्याचक्षते निघंटवः कस्मान्निगमा इमे भवंति छंदोभ्यः समाहृत्य समाहृत्य समाम्नातास्ते निगंतव एव संतो निगमनान्निघंटव उच्यंत इत्यौपमन्यवोऽपि वाहननादेव स्युः समाहता भवंति यद्वा समाहृता भवंति तद्यान्येतानि चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवंति तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशंति भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि तद्यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यंतं मूर्तं सत्त्वभूतं सत्त्वनामभिर्व्रज्या पक्तिरित्यद इति सत्त्वानामुपदेशो गौरश्चः पुरुषो हस्तीति भवतीति भावस्यास्ते शेते व्रजति तिष्ठतीतींद्रियनित्यं वचनमौदुंबरायणः
advtanmoy 05/11/2020 1 minute read

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram
Interpretation of Vedic Words

Home » Law Library Updates » Law Library » Sanskrit Documents » निरुक्तम्-यास्क Niruktam of Yaska

Interpretation of Vedic Words

प्रथमाष्टकः – प्रथमाध्यायः

निगमनान्निघंटव उच्यंत

प्रथमः खंडः

ओं समाम्नायः समाम्नातः स व्याख्यातव्यस्तमिमं समाम्नाये निघंटव इत्याचक्षते निघंटवः कस्मान्निगमा इमे भवंति छंदोभ्यः समाहृत्य समाहृत्य समाम्नातास्ते निगंतव एव संतो निगमनान्निघंटव उच्यंत इत्यौपमन्यवोऽपि वाहननादेव स्युः समाहता भवंति यद्वा समाहृता भवंति तद्यान्येतानि चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवंति तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशंति भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि तद्यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे व्रजति पचतीत्युपक्रमप्रभृत्यपवर्गपर्यंतं मूर्तं सत्त्वभूतं सत्त्वनामभिर्व्रज्या पक्तिरित्यद इति सत्त्वानामुपदेशो गौरश्चः पुरुषो हस्तीति भवतीति भावस्यास्ते शेते व्रजति तिष्ठतीतींद्रियनित्यं वचनमौदुंबरायणः ॥१॥

Read Next

  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)

द्वितीयः खंडः

तत्र चतुष्ट्वं नोपपद्यते युगपदुत्पन्नानां वा शब्दानामितरेतरोपदेशः शास्त्रकृतो योगश्च व्याप्तिमत्त्वात्तु शब्दस्याणीयस्त्वाच्च शब्देन संज्ञाकरणं व्यवहारार्थं लोके तेषां मनुष्यवद्देवताभिधानं पुरुषविद्यानित्यत्वात्कर्मसंपत्तिर्मंत्रो वेदे । षड्भावविकारा भवंतीति वार्ष्यायणिर्जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति जायत इति पूर्वभावस्यादिमाचष्टे नापरभावमाचष्टे न प्रतिषेधत्यस्तीत्युत्पन्नस्य सत्त्वस्यावधारणं विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद्विकारं वर्धत इति स्वांगाभ्युच्ययं सांयौगिकानां वार्थानां वर्धते विजयेनेति वा वर्धते शरीरेणेति वापक्षीयत इत्येतेनैव व्याख्यातः प्रतिलोमं विनश्यतीत्यपरभावस्यादिमाचष्टे न पूर्वभावमाचष्टे न प्रतिषेधति ॥२॥

तृतीयः खंडः

Read Next

  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)

अतोऽन्ये भावविकारा एतेषामेव विकारा भवंतीति ह स्माह ते यथावचनमभ्यूहितव्या न निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनो नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवंत्युच्चावचाः पदार्था भवंतीति गार्ग्यस्तद्य एषु पदार्थः प्राहुरिमे तन्नामाख्यातयोरर्थविकरणमा इत्यर्वागर्थे प्रपरेत्येतस्य प्राति लोम्यमभीत्याभिमुख्यं प्रतीत्येतस्य प्रातिलोम्यमति सु इत्यभिपूजितार्थे निर्दुरित्येतयोः प्रातिलोम्यं न्यवेति विनिग्रहार्थीया उदित्येतयोः प्रातिलोम्यं समित्येकीभावं व्यपेत्येतस्य प्रातिलोम्यमन्विति सादृश्यापरभावमपीति संसर्गमुपेत्युपजनं परीति सर्वतोभावमधीत्युपरिभावमैश्वर्यं एवमुच्चावचानर्थान्प्राहुस्त उपेक्षितव्याः ॥३॥

चतुर्थः खंडः

अथ निपाता उच्चावचेष्वर्थेषु निपतन्त्यप्युपमार्थेऽपि कर्मोपसंग्रहार्थेऽपि पदपूरणास्तेषामेते चत्वार उपमार्थे भवन्तीवेति भाषायां चान्वध्यायच्चाग्निरिवेंद्र इवेति नेति प्रतिषेधार्थीयो भाषायामुभयमन्वध्यायं नेंद्रं देवममंसतेति प्रतिषेधार्थीयः पुरस्तादुपचारस्तस्य यत्प्रतिषेधति दुर्मदासो न सुरायामित्युपमार्थीय उपरिष्टादुपाचारस्तस्य योनोपमिमीतॆ ॥

Read Next

  • Vṛddhir Ādaich (Patanjali Mahābhāṣya) Aṣṭādhyāyī-1.1.1
  • Batul Nath Sutrani (वातुलनाथ-सूत्राणि): Complete Explanation by Tanmoy Bhattacharyya
  • Yajnavalkya Shiksha (याज्ञवल्क्य शिक्षा)

चिदित्येषोऽनेककर्माचार्यश्टिदिदं ब्रूयादिति पूजायामाचार्यः कस्मादाचार्य आचारं ग्राहयत्याचिनोत्यर्थानाचिनोति बुद्धिमिति वा दधिचिदित्युपमार्थे कुल्माषांश्चिदाहरेत्यवकुत्सिते कुल्माषाः कुलेषु सीदन्तिनु इत्येषोऽनेककर्मेदं नु करिष्यतीति हेत्वपदेशे कथं नु करिष्यतीत्यनुपृष्टे नन्वेतदकार्षीदिति चाथाप्युपमार्थे भवति ॥ वृक्षस्य नु ते पुरुहूत वयाः । वृक्षस्येव ते पुरुहूत शाखा वयाः शाखा वेतेर्वातायना भवन्ति शाखाः खशयाः शक्नोतेर्वाथ यस्यागमादर्थ पृथक्त्वमह विज्ञायते न त्वौद्देशिकमिव विग्रहेण पृथक्त्वात्स कर्मोपसंग्रहश्चेति समुच्चयार्थ उभाभ्यां संप्रयुज्यतेऽहं च त्वं च वृत्रहन्नित्येतस्मिन्नेवार्थे देवेभ्यश्च पितृभ्य एत्याकारो वेति विचारणार्थे हन्ताहं पृथिवीमिमां निदधानीह वेहवेत्यथापि समुच्चयार्थे भवति ॥ ४ ॥

पंचमः खंडः

वायुर्वा त्वा मनुर्वात्वेति अह इति च ह इति च विनिग्रहार्थीयौ पूर्वेण संप्रयुज्येते अयमहेदं करोत्वयमिदमिदं ह करिष्यतीदं न करिष्यतीत्यथाप्युकार एतस्मिन्नेवार्थ उत्तरेण मृषेमे वदंति सत्यमु ते वदंतीत्यथापि पदपूरण इदमु तदु हीत्येषोऽनेककर्मेदं हि करिष्यतीति हेत्वपदेशे कथं हि करिष्यतीत्यनुपृष्टे कथं हि व्याकरीषतीत्य सूयायां किलेति विद्याप्रकर्ष एवं किलेत्यथापि न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे न किलैवं ननु किलैवं मेति प्रतिषेधे मा कार्षीर्मा हार्षीरिति च खल्विति च खलु कृत्वा खलु कृतमथापि पदपूरण एवं खलु तद्बभूवेति शश्वदिति विचिकित्सार्थीयो भाषायां शश्वदेवमित्यनुपृष्ट एवं शश्वदित्यस्वयंपृष्टेनूनमिति विचिकित्सार्थीयो भाषायामुभयमन्वध्यायं विचिकित्सार्थीयश्च पदपूरणश्चागस्त्य इंद्राय हविर्निरुप्य मरुद्भ्यः संप्रदित्सांचकार स इंद्र एत्य परिदेवयां चक्रे ॥ ५ ॥

षष्टः खंडः

न नूनमस्ति नोश्वः कस्तद्वेद यदद्भुतं । अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥ (ऋ. सं. १-१७०-१) न नूनमस्त्यद्यतनं नो एव श्वस्तनमद्यास्मिन्द्यवि द्युरित्यह्नो नामधेयं द्योतत इति सतः श्व उपाशुसनीयः कालो ह्यो हीनः कालः कस्तद्वेद यदद्भुतं । कस्तद्वेद यदभूतमिदमपीतरदद्भु तदुभूतमिवान्यस्य चित्तमभिसंचर्येण्यमभिसंचार्यन्यो नानेयश्चित्तं चेततेरुताधीतं विनश्यतीत्यप्याध्यातं विनश्यत्याध्यातमभिप्रेतमथापि पदपूरणः ॥ ६ ॥

सप्तमः खंडः

नूनं सा ते प्रति वरं जरित्रे दुहीयदिंद्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ (ऋ. सं. २-१६-९) सा ते प्रतिदुग्धां वरं जरित्रे वरो वरयितव्यो भवति जरिता गरिता दक्षिणा मघोनी मघवती मघमिति धननामधेयं महंतेर्दानकर्मणो दक्षिणा दक्षतेः समर्धयति कर्मणो व्यृद्धं समर्धयतीत्यपि वा प्रदक्षिणागमनाद्दिशमभिप्रेत्य दिग्धस्तप्रकृतिर्दक्षिणो हस्तो दक्षतेरुत्साहकर्मणो दाशतेर्वा स्याद्दानकर्मणो हस्तो हंतेः प्राशुर्हनने देहि स्तोतृभ्यः कामान्मास्मानतिदंहीर्मास्मानतिहाय दा भगो नो अस्तु बृहद्वदेम स्वे वेदने भगो भजतेर्बृहदिति महतो नामधेयं परिवृढं भवति वीरवंतः कल्याणवीरा वा वीरो वीरयत्यमित्रान्वेतेर्वा स्याद्गतिकर्मणो वीरयतेर्वा सीमिति परिग्रहार्थीयो वा पदपूरणो वा । प्र सीमादित्यो असृजत् । प्रासृजदिति वा प्रासृजत्सर्वश इति वा वसीमतः सुरुचो वेन आवरिति च व्यवृणोत्सर्वत आदित्यः सुरुच आदित्यरश्मयः सुरोचनादपि वा सीमेत्येतदनर्थकमुपबंधमाददीत पंचमिकर्माणं सीम्नः सीमतः सीमातो मर्यादातः सीमा मर्यादा विषीव्यति देशाविति त्व इति विनिग्रहार्थीयं सर्व नामानुदात्तमर्धनामेत्येके ॥ ७ ॥

अष्टमः खंडः

ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उत्वः ॥ (ऋ. सं. १०-७१-११) इत्यृत्विक्कर्मणां विनियो गमाचष्ट ऋचामेकः पोषमास्ते पुपुष्पान् होतर्गर्चनी गायत्रमेको गायति शक्वरीषूद्गाता गायत्रं गायतेः स्तुतिकर्मणः शक्वर्य ऋचः शक्नोतेस्तद्यदाभिर्वृत्रमशकद्धंतुं तच्छक्वरीणां शक्वरीत्वमिति विजायते ब्रह्मैको जाते जाते विद्यां वदति ब्रह्मा सर्वविद्यः सर्वं वेदितुमर्हति ब्रह्मा परिवृढः श्रुततो ब्रह्म परिवृढु सर्वतो यज्ञस्य मात्रां विमिमीत एकोऽध्वर्युरध्वर्युरध्वरयुरध्वरं युनक्त्यध्वरस्य नेताध्वरं कामयत इशि वापि वाधीयाने पुरुषबंधोऽध्वर इति यज्ञनाम ध्वरतिर्हिंसा कर्मा तत्प्रतिषेधो निपात इत्येके तत्कथमनुदात्त प्रकृति नाम स्याद्दृष्टव्ययं तु भवत्युत त्वं सख्ये स्थिरपीतमाहुरिति द्वितीयायामुतो त्वस्मै तन्वं विसस्र इति चतुर्थ्यामधापि प्रथमाबहुवचने ॥ ८ ॥

नवमः खंडः

अक्षण्वंतः कर्णवंतः सखायो मनोजवेष्वसमाबभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ (ऋ. सं. १०-७१-७) अक्षिमंतः कर्णवंतः सखायोऽक्षि चष्टेरनक्तेरित्याग्रायणस्तस्मादेते व्यक्ततरे इव भवत इति ह विज्ञायते कर्णः कृंततेर्निकृत्तद्वारो भवत्यृच्छतेरित्याग्रायण ऋच्छंतीव खे उदगंतामिति ह विज्ञायते मनसां प्रजवेष्वसमा बभूवः । आस्यदघ्ना अपरे उपकक्षदघ्ना अपरे । अस्यमस्कतेः । आस्यंदत एतदन्नमिति वा । दघ्नं दघ्यतेः प्रवतिकर्मणः । दस्यतेर्वा स्याद्विदस्ततरं भवति । प्रस्नेया ह्रदा इवैके । प्रस्नेया ददृशिरे स्नानार्हाः ह्रदो ह्रादतेः शब्दकर्मणः ह्लादतेर्वा स्याच्चीतीभावकर्मणोऽथापि समुच्चयार्थे भवति पर्याया इव त्वदाश्विनमाश्चिनं च पर्यायाश्चेत्यथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रंथेषु वाक्यपूरणा आगच्छंति पदपूरणास्ते मिताक्षरेष्वनर्थकाः कमीमिद्विति ॥ ९ ॥

दशमः खंडः

निष्ट्वक्त्रासश्चिदिन्नरो भूरितोका वृतादिव । बिभ्यस्यंतो ववाशिरे शिशिरं जीवनाय कं । शिशिरं जीवनाय शिशिरं शृणातेः शम्नातेर्वा । एमेनं सृजता सुते । आसृजतैनं सुते । तमिद्वर्धंतु नो गिरः तं वर्धयंत नो गिरः स्तुतयो गिरो गृणातेः । अयमु ते समतसि । अयं ते समतसीवोऽपि दृश्यते । सुविदुरिव (काठक. सं. ८-३ तथा ८-१३) सु विज्ञायेते इवाथापि नेत्येष इदित्येतेन संप्रयुज्यते परिभये ॥ १० ॥

एकादशः खंडः

हविर्भिरेके स्वरितः सचंते सुन्वंत एके सवनेषु सोमान् । प्राचीर्मदंत उत दक्षिणाभिर्नेज्विह्मायंत्यो नरकं पतामेति नरकं न्यरकं नीचैर्गमनं नास्मिन्रमणं स्थानमल्पमप्यस्तीति वाथापि न चेत्येष इदित्येतेन संप्रयुज्यतेऽनु पृष्टे न चीत्सुरां पिबंतीति सुरा सुनोतेरेवमुच्चावचेष्वर्थेषु निपतंति त उपेक्षितव्याः ॥ ११ ॥

द्वादशः खंडः

इतीमानि चत्वारि पदजातान्यनुक्रांतानि नामाख्याते चोपसर्गनिपाताश्च तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च न सर्वाणीति गार्ग्यो वैयाकरणानां चैके तद्यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां संविज्ञातानि तानि । यथा गौरश्वः पुरुषो हस्तीत्यथ चेत्सर्वाण्याख्यातजानि नामानि स्युर्यः कश्च तत्कर्म कुर्यात्सर्वं तत्सत्त्वं तथाचक्षीरन्यः कश्चाध्वानमश्नुवीताश्वः स वचनीयः स्याद्यत्किंचित्तृंद्यात्तृणं तदथापि चेत्सर्वाण्याख्यातजानि नामानि स्युर्यावद्भिर्भावैः संप्रयुज्येत तावद्भ्यो नामधेयप्रतिलंभः स्यात्तत्रैवं स्थूणा दरशया वा संजनी च स्यात् ॥ १२ ॥

त्रयोदशः खंडः

अथापि य एषां न्यायवान्कार्मनामिकः संस्कारो यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन्पुरुषं पुरिषय इत्याचक्षीरन्नष्टेत्यश्वं तर्दनमिति तृणमथापि निष्पन्नेऽभिव्याहारेऽभिविचारयंति प्रथनात्पृथिवीत्याहुः क एनामप्रयिष्यत्किमाधारश्चेत्यथानन्वितेऽर्थेऽप्रादेशिके विकारे पदेभ्यः पदेतरार्धान्त्संचस्कार शाकटायन एतेः कारितं च यकारादिं चांतकरणमस्तेः शुद्धं च सकारादिं चाथापि सत्त्वपूर्वो भाव इत्याहुरपरस्माद्भावात्पूस्यर्वस्यप्रदेशो नोपपद्यत इति तदेतन्नोपपद्यते ॥ १३ ॥

चतुर्दशः खंडः

यथो हि नु वा एतत्तद्यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन गुणेनान्वितौ स्यातां सर्वं प्रादेशिकमित्येवं सत्यनुपालंभ एषभवति यथो एतद्यः कश्च तत्कर्म कुर्यात् सर्वं तत्सत्त्वं तथाचक्षीरन्निति पश्यामः समानकर्मणां नामधेयप्रतिलंभमे केषां नैकेषां यथा तक्षा परिव्राजको जीवनो भूमिज इत्येतेनैवोत्तरः प्रत्युक्तो यथो एतद्यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन्निति सन्त्यल्पप्रयोगाः कृतोऽप्यैकपदिका यथा व्रततिर्दमूना चाट्य अट् णारो जागरूको दर्वि होमीति यथो एतन्निष्पन्नेऽभिव्याहारेऽभिविचारयन्तिति भवति हि निष्पन्नेऽभिव्याहारे योगपरीष्टिः प्रथनात् पृथिवीत्याहुः क एनामप्रथयिष्यत् किमाधारश्चेत्यथ वै दर्शनेन पृथुरप्रथिता चेदप्यन्यैः तथाप्येवं सर्व एव दृष्टप्रवादा उपालभ्यन्ते ॥ यथो एतत्पदेभ्यः पदेतरार्धान्त्संचस्कारेति योऽनन्वितेऽर्थे संचस्कार स तेन गर्ह्यः सैषा पुरुषगर्हा न शास्त्रगर्हा इति यथो एतदपरस्माद्भावात्पूर्वस्य प्रदेशो नोपपद्यत इति पश्यामः पूर्वोत्पन्नानां सत्त्वानामपरस्माद्भावान्नामधेयप्रतिलंभमेकेषां नैकेषां यथा बिल्वादो लंबचूडक इति बिल्वं भरणाद्वा भेदनाद्वा ॥ १४ ॥

पंचदशः खंडः

अथापीदमन्तरेण मन्त्रेष्टर्थप्रत्ययो नविद्यतेऽर्थमप्रतियतो नात्यन्तं स्वरसंस्कारोद्देशस्तदिदं विद्यास्थानं व्याकरणस्य कार्त्स्न्यं स्वार्थसाधकं च यदि मन्त्रार्थप्रत्ययायानर्थकं भवतीति कौत्सोऽनर्थका हि मन्त्रास्तदेतेनोपेक्षितव्यं नियतवाचोयुक्तयो नियतानुपूर्व्य भवन्त्यत्रापि ब्राह्मणेन रूपसंपन्ना विधीयन्ते । उरुप्रथस्वेति प्रथयति । प्रोहाणीति प्रोहत्यथाप्यनुपपन्नार्था भवन्ति । ओषदे त्रायस्वैनं स्वधिते मैनं हिंसीरित्याह हिंसन्नथापि विप्रतिषिद्धार्थ भवन्ति । एक एव रुद्रोऽवतस्थे न द्वितीयः । असंख्याता सहस्रणि ये रुद्रा अधि भूम्यां । अशत्रुरिंद्र जज्ञिषे शतंसेना अजयत्साकमिंद्र इत्यथापि जानन्तं संप्रेष्यत्यग्नये समिध्यमानायानुब्रूहीत्यथाप्याहादितिः सर्वमिति । अदितिर्द्यौरदितिरंतरिक्षमिति । तदुपरिष्टाद्व्याख्यास्यामोऽथाप्यविस्पष्टार्था भवन्त्यम्यग्यादृश्मिञ्जारयायि काणुकेति ॥ १५ ॥

षोडशषः खंडः

अर्धवन्तः शब्दसामान्यादेतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत् कर्म क्रियमाणमृग्यजुर्वाभिवदतीत च ब्राह्मणं क्रीळन्तौ पूत्रैर्नप्तृभिरिति यथो एतन्नियतवाचोयुक्तयो नियतानुपूर्व्य भवन्तीति लौकिकेष्वप्येतद्यथेंद्राग्नी पितापुत्राविति यतो एतद्ब्राह्मणेन रूपसंपन्ना विधीयंत इत्युदितानुवादः स भवति यथो एतदनुपपन्नार्था भवन्तीत्याम्नायवचनादहिंसा प्रतीयेत यथो एतद्विप्रतिषिद्धार्था भवन्तीति लौकिकेष्वपेतद्यथाऽसपत्नोऽयं ब्राहणोऽनमित्तॊ राजेति यथो एतज्जानंतं संप्रेष्यतीति जानन्त मधुपर्कं प्राहेत्यथो एतददितिः सर्वमिति लौकिकेष्वप्येतद्यथा सर्वरसा अनुप्राप्तः पानीयमिति यधो एतदविस्पष्टार्था भवन्तीति नैष स्थाणोरपराथो यदेनमंधो न पश्यति पुरुषापराधः स भवति यथा जानपदीषु विद्यातःपुरुष विशेषो भवति पारोपर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति ॥ १६ ॥

सप्तदशः खंडः

अथापीदमंचरेण पदविभागो न विद्यते । अवसाय पद्वते रुद्र मृळेति पद्वदवसं गावः पथ्यदनमवतेर्गत्यर्थस्यासौ नामकरणस्तस्मान्नावगृह्णंत्यवसायाश्वानिति स्यतिरुपसृष्टो विमोचने तस्मादवगृह्णंति दूतो निर्ऋत्या इदमाजगामेति पंचम्यर्थप्रेक्षा वा षष्ठ्यर्थप्रेक्षावाः कारांतं परोनिर्ऋत्या आचक्ष्वेति चतुर्थ्यर्थप्रेक्षैकारंतं परःसंनिकर्षः संहिता पदप्रकृतिः संहिता पदप्रकृतिनि सर्वचरणानां पार्षदान्यथापि याज्ञे दैवतेन बहवः प्रदेशा भवंति तदेतेनोपेक्षितव्यंते चेद्ब्रू युर्लिंगज्ञा अत्रस्म इति । इंद्र नत्वा शवसा देवता वायुं पृणंतीति वायुलिंगं चेंद्रलिंगं चाग्नेये मंत्रेऽग्निरिव मन्योत्विषितः सहस्वेति तथाग्निर्मान्यवे मंत्रे त्विषितो ज्वलितस्तिषिरित्यप्यस्य दीप्तिनाम भवत्यथापि ज्ञानप्रशंसा भवत्यज्ञान निंदा च ॥ १७ ॥

अष्टादशः खंडः

स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थं । योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा । यद्गृहीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कृॆधो न तज्व्वलति कर्हिचित् । स्थाणुस्तिष्ठतेरर्थोऽर्तेररणस्थो वा ॥ १८ ॥

अथैकोनविंशः खंडः

उत त्वः पश्यन्न ददर्श वाचमु त्वः शृण्वन्न शृणोत्येनां । उतो त्वस्मै तन्वं १ वि सस्रे जायेव पश्य उशती सुवासाः ॥ (ऋ. सं. १०-७१-४) अप्येकः पश्यन्न पश्यति वाचमपि च शृण्वन्न शृणोत्येनामित्यविद्वांसमाहार्धमप्येकस्मै तन्वं विसस्र इति स्वमात्मानं विवृणुते ज्ञानं प्रकाशनमर्थस्याहानया वाचोपमोत्तमया वाचा जायेव पत्ये कामयमाना सुवासा ऋतुकालेषु सुवासाः कल्याणवासाः कामयमाना ऋतुकालेषु । यथा स एनां पश्यति स शृणोतीत्यर्थज्ञप्रशंसा । तस्योत्तरा भूयसे निर्वचनाय ॥ १९ ॥

विंशः खंडः

उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वंत्यपि वाजिनेषु । अधेन्वा चरति माययैष वाचं शुश्रुवान् अफलामपुष्पां ॥ (ऋ. सं. १०-७१-५) आप्येकं वाक्सख्ये स्थिरपिमाहू रममाणं विपीतार्थं देवसख्ये रमणीये स्थान इति वा विज्ञातार्थं यं नाप्नुवंति वाग्ञ्जेयेषु बलवत्स्वप्यधेन्वा ह्येष चरति मायया वाक्पतिरूपया नास्मै कामान्दुग्धे वाग्दोह्यान्देवमनुष्यस्थानेषु यो वाचं श्रुतवान्भवत्यफलामपुष्पामित्यफलास्मा अपुष्पा वाग्भवतीति वा किंचित्पुष्पफलेति वार्थं वाचः पुष्पफलमाह याज्ञदैवते पुष्पफले देवताध्यात्मे वां साक्षात्कृतधर्माण ऋषयो बभूवुस्तेऽवरेभ्योऽ साक्षात्कृतधर्मभ्य उपदेशेन मंत्रान्संप्रादुरुपदेशाय ग्लायंतोऽवरे बिल्मग्रहणायेमं ग्रंथं समाम्नासिषुर्वेदं च वेदांगानि च बिल्मिं भिल्मं भासनमिति वैतावंतः समानकर्माणो धातवो धातुर्दधातेरेतावंत्यस्य सत्त्वस्य नामधेयान्येतावतामर्थानामिदमभिधानं नैघंटुकं तत् । अश्वं न त्वा वारवंतं । अश्वमिव त्वा वालवंतं वाला दंशवारणार्था भवंति दंशो दशतेः । मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठा मृगो मार्ष्टेर्गतिकर्मणो भीमो भिभ्यत्यस्माद्भीष्मोऽ प्येतस्मादेव । कुचर इति चरतिकर्म कुत्सितमथ चेद्देवताभिधानं क्वायं न चरतीति गिरिष्ठा गिरस्थायी गिरिः पर्वतः समुद्गीर्णो भवति पर्ववान् पर्वतः पर्व पुनः पृणातेः प्रीणातेर्वार्धमासपर्व देवानस्मिन् प्रीणंतीति तत्प्रकृतीतरत्संधिसामान्यान्मेघस्थायी मेघोऽपि गिरिरेतस्मादेव तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते तदुपरिष्टाद्व्याख्यास्यामो नैघंटुकानि नैगमानीहेह ॥ २० ॥


Total 14 chapters 

प्रथमाध्यायः-द्वितीयोऽध्यायः-तृतीयोध्यायः-चतुर्थाध्यायः-पंचमाध्याये-षष्ठोऽध्यायः
सप्तमोऽध्यायः-अष्टमोऽध्यायः-नवमाध्यायस्य-दशमाध्यायः-एकादशाध्यायः-द्वादशाध्यायः
त्रयोदशाध्यायः-चतुर्दशोऽध्यायः


Tags: Nirukta

Post navigation

Previous: Plain Writing Act of 2010-USA
Next: List of the Vedic Rishis
Communism
Sarvarthapedia

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
United Kingdom, UK

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

British Slavery and the Church of England: History, Theology, and the Codrington Estates

USA, America

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery, english slave trade

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates