Skip to content

ADVOCATETANMOY LAW LIBRARY

Research & Library Database

Primary Menu
  • News
  • Opinion
  • Countries198
    • National Constitutions: History, Purpose, and Key Aspects
  • Judgment
  • Book
  • Legal Brief
    • Legal Eagal
  • LearnToday
  • HLJ
    • Supreme Court Case Notes
    • Daily Digest
  • Sarvarthapedia
    • Sarvarthapedia (Core Areas)
    • Systemic-and-systematic
    • Volume One
06/04/2026
  • Vedic Sanskrit Culture

Prashna Upanisad – प्रश्नोपनिषत्

advtanmoy 03/08/2019

© Advocatetanmoy Law Library

  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on Telegram (Opens in new window) Telegram

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौशल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कत्यायन्स्ते हैते ब्रह्मपरा ब्रह्मनिष्ठाः परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलदमुपसन्नाः ॥१॥

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • Yad (यद् )
  • Goudapada Karika (500 BCE) गौडपादीयकारिकाः

तान्ह स ऋषिरुवाच भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ यथाकामं प्रश्नान्पृच्छत यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥२॥

अथा कबन्धी कात्यायन उपेत्य पप्रच्छ भगवन्कुतो ह वा इमाः प्रजाः प्रजयन्त इति ॥३॥

तस्मै स होवाच प्रजकमो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते ॥ रयिं च प्राणं चेत्येतौ मे बहुधा प्रजाः करिष्यत इति ॥४॥

आदित्यो ह वै प्राणो रयिरेव चन्द्रमा रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च तस्मान्मूर्तिरेव रयिः ॥५॥

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • Yad (यद् )
  • Goudapada Karika (500 BCE) गौडपादीयकारिकाः

अथादित्य उदयन्यत्प्राचीं दिशं प्रविशति तेन प्राच्यान्प्राणान्रशिमषु संनिधत्ते यद्दक्षिणां यत्प्रतीचीं यदुदीचीं यदधो यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान्प्राणान् रशिमषु संनिधत्ते ॥६॥

स एष वैस्वानरो विस्वरूपः प्राणोऽग्निरुदयते ॥ तदेतद्दचाभ्युक्तम् ॥७॥

विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् ॥ सहस्ररशिमः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥८॥

Read Next

  • Naradaparivrajaka Upanishad: Ancient Text of Vedic Sannyasa (नारदपरिव्राजकोपनिषद्: 1200 BCE)
  • Yad (यद् )
  • Goudapada Karika (500 BCE) गौडपादीयकारिकाः

संवत्सरो वै प्रजापतिस्तस्यायने दक्षिणं चोत्तरं च ॥ तद्ये ह वै तदिष्टापूर्ते कृतमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते ॥ त एव पुनरावर्तन्ते तस्मादेते ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते ॥ एष ह वै रयिर्यः पितृयाणः ॥९॥

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमनिवष्यादित्यमभिजयन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधस्तदेष श्लोकः ॥१०॥

पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ॥अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥११॥

मासो वै प्रजापतिस्तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणस्तस्मादेते ऋषयः शुक्ल ईष्टं कुर्वन्तीतर इतरस्मिन्॥१२॥

अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥१३॥

अन्नं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ॥१४॥

तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति ते मिथुनमुत्पादयन्ते ॥ तेषामेवैष ब्रह्मलोको येषां तपो ब्रह्मचर्य येषु सत्यं प्रतिष्ठितम् ॥१५॥

तेषामसौ विरजो ब्रह्मलोको न येषु जिह्ममनृतं न माया चेति ॥१६॥

इति प्रथमः प्रश्नः ॥१॥

अथ हैनं भर्गवो वैदर्भिः पप्रच्छठ भगवन्कत्येव देवाः प्रजां विधारयन्ते कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥१॥

तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च ॥ते प्रकाश्याभिवदन्ति वयमेतद्बाणवष्टभ विधारयामः ॥२॥

तान्वरिष्ठः प्राण अवाच मा मोहमापद्यथाहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामिति ॥ तेऽश्रद्दधाना बभूवुः ॥३॥

सोऽभिमानादूर्ध्वमुत्क्रमत इव तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रमन्ते तस्मिण्श्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते तस्मिं श्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्त एवं वाङ्मनश्चक्षुः श्रोत्रं च ते प्रीताः प्राणं स्तुन्वन्ति ॥४॥

एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवनेष वायुरेष पृथिवी रयिर्देवः सदसच्चामृतं यत् ॥५॥

अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् ॥ ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥६॥

प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे ॥ तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतितिष्ठसि ॥७॥

देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा ॥ ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥८॥

इन्द्रस्त्वं प्राण रेजसा हद्रोऽसि परिरक्षिता ॥ त्वमन्तरिक्षे चरसि सुर्यस्त्वं ज्योतिषां पतिः ॥९॥

यदा त्वमभिवर्षस्यथेमाः प्राणते प्रजाः ॥ आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥

व्रात्यस्त्वं प्राणैकृषिरत्ता विश्वस्य सत्पतिः ॥ वयमाद्यस्य दातारः पिता त्वं मातिरिश्व नः ॥११॥

या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रे या च च्क्षुषि ॥ या च मन्सि सं तता शिवां तां कुरु मोत्क्रमीः ॥१२॥

प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् ॥ मातेव पुत्रान्रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥१३॥

इति द्वितीयः प्रश्नः ॥२॥

अथ हैनं कौसल्यश्चाश्वलयनः पप्रच्छ ॥ भगवन्कुत एष प्राणो जायते कथमयात्यस्मिञ्छरीर शात्मानं वा प्रविभज्य कथं प्रातिष्ठते केनोत्क्रमते कथं ब्राह्ममभिधत्ते कथमध्यात्ममिति ॥१॥

तस्मै स होवाचातिप्रश्नापृच्छसि ब्रह्मिष्टोऽसीति तस्मात्तेऽहं ब्रवीमि ॥२॥

आत्मन एष प्राणो जायते ॥ यथैषा पुरुषे छायैनस्मिन्नेतदातत मनोकृतेनायात्यस्मिञ्छरीरे ॥३॥

यथा सम्राडे वाधिदृतान्विनियुङ्के एतान्ग्रामानेतान्ग्रामानधितिष्ठस्वेत्येवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव संनिधत्ते ॥४॥

पायूपस्थेऽपानं चक्षुःश्रोत्रे मुखनसिकाभ्यां प्राणः स्वयं प्रातिष्ठते मध्ये तु समानः ॥ एष ह्येतद्धुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति ॥५॥

हृदि ह्येष आत्मा ॥ अत्रैतदेकशतं नाडीनां तासां शतं शतमेकैकस्यां द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्त्यासु व्यानश्चरति ॥६॥

अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति पापेन पापमुभाभ्यामेव मनुष्यलोकम् ॥७॥

आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्वानः ॥ पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टब्यान्तरा यदाकाशः स समानो वायुर्व्यानः॥८॥

तेजो ह व उदानस्तस्मादुपशान्ततेजाः ॥ पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥९॥

यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयति ॥१०॥

य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥११॥

उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ॥ अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥१२॥

इति तृतीयः प्रश्नः ॥३॥

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ ॥ भगवन्नेतस्मिन्पुरुषे कानि स्व पन्ति कान्यस्मिन् जाग्रति कतर एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति ॥१॥

तस्मै स होवाच यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति ताः पुनःपुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मन्स्येकीभवति ॥ तेन तर्ह्येष पुरुषो न शृणो ति न पश्यति न जिघ्रति न रसयते न स्पृशते नभिवदते नादत्ते नानन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥२॥

प्राणाग्नय एवैतस्मिन्पुरे जाग्रति ॥ गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद्गार्हपत्यात्प्रणीयते प्राणयनादाहवनीयः प्राणः ॥३॥

यदुच्छ्वासनिः श्वासावेतावाहुती समं नयतीति स समानः ॥ मनो ह वाव यजमान इष्टफलमेवोदानः स एनं यजमानमहरहर्ब्रह्म गमयति ॥४॥

अत्रैष देवः स्वप्ने महिमानमनुभवति यद्दृष्टं द्दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोतो देशदिगन्तरैश्च प्रत्यनु भूतं पुनः पुनः प्रत्यनुभवति द्दृष्टं चाद्दृ च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥५॥

स यद तेजसभिभूतो भवत्यत्रैष देवः स्वप्नान्न पश्यत्यथ तदैतस्मिन्छरीर एतत्सुखं भवति ॥६॥

स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते ॥ एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते ॥७॥

पृथिवी च पृथिवीमात्रा चापश्चापोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं च श्रोत्रं च श्रोतव्यं च घ्राणं च घ्रातव्यं च रसश्च र सयितव्यं च त्वक् च स्पर्शयितव्यं च वाहक् च वक्तव्यं च हस्तौ चादातव्यं चोपस्थश्चानन्दयितव्यं च पयुश्च विसर्जयितव्यं च पादौ च गन्तव्यं च मनश्च मन्तव्यं च बुद्धिश्च बोद्धव्यं चहक्कारश्चहंकर्तव्यं च चित्तं च चेतयितव्यं च तेजश्च विद्योतयितव्यं च प्राणश्च विधारयितव्यं च ॥८॥

एष हिद्रष्टा स्प्रष्टा श्रोता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः ॥स परेऽक्षर आत्मनि संप्रतिष्ठते ॥९॥

परमेवाक्षरम् प्रतिपद्यते स यो ह वै तद्च्छयमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वो भवति ॥ तदेष श्लोकः ॥१०।

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ॥ तद्क्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥११॥

इति चतुर्थः पश्नः ॥४॥

अथ हैनं शैब्यः सत्यकामः पप्रच्छ ॥ स यो ह वै तद्ठगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत ॥ कतमं वाव स तेन लोकं जयतीति ॥१॥

तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदॐकारस्तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥२॥

स यद्येकमत्रमभिध्यायीत स तेनैव संवेदितस्तूर्णभेव जगत्यमभिसंपद्यते ॥ तमृचो मनुष्यलोकमुपनयन्ते स तत्र तपस ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥३॥

अथ यदि द्विमात्रेण मन्सि संपद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकम् ॥ स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥४॥

यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः ॥ यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवधनत्परात्परं पुरिशयं पुरुषमीक्षते ॥ तदेतौ श्लोकौ भवतः ॥५॥

तिस्रो मत्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः ॥ क्रियासु ब्राह्माभ्यन्तरमध्यमसु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥६॥

ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते तमॐकारेणैवायतनेनान्वेति विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति ॥७॥

इति पञ्चमः प्रश्नः ॥५॥

अथ हैनं सुकेशा भारद्वाजः पप्रच्छ ॥ भगवन्धिरण्यनाभः कौसल्यो रजपुत्रो ममुपेत्यैतं प्रश्नमपृच्छत ॥ षोडशकलं भरद्वज पुरुषं वेत्थठतमहं कुमरमब्रुवं नाहमिमं वेद ॥ यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति ॥ समूलो वा एष परिशुष्यति योऽनृतमभिवदति तस्मान्नार्हाम्यनृतं वक्तुम् ॥ स तूष्णीं रथमरुह्य प्रवव्राज ॥ तं त्वा पृच्छामि क्वासौ पुरुष इति॥१॥

तस्मै स होवाच ॥ इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेतह् षोडशकलाः प्रभवन्तीति ॥२॥

स ईक्षांचक्रे ॥ कस्मिन्नहमुत्क्रान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥३॥

स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथीवीन्द्रियं मनोऽन्नमन्नाद्वीयं तपो मन्त्राः कर्म लोक लोकेषु च नाम च ॥४॥

यथेमा नद्यः स्यन्दमनाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति भिद्येते तासां नमरूपे समुद्र इत्येवं प्रोच्यते ॥ एवमेवास्य परिद्रष्टुरिमाः पोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति भिद्येते चासां नामरूपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति ॥ तदेष श्लोकः ॥५॥

अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥६॥

तन्होवाचैतावदेवाहमेतत्परं ब्रह्म वेद नातः परमस्तीति ॥७॥

ते तम्र्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायः परं पारं तारयसीति ॥ नमः परमृषिभ्यो नमः परमृषिभ्याः ॥८॥

इति षष्ठः प्रश्नः ॥६॥

ॐ भद्रं कर्णेभिः शृणुयम देवा भद्रम् पश्येमक्षभिर्यजत्राः ॥ स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ॥ स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्द धातु

॥ ॐ शान्तिः शन्तिः शान्तिः ॥ इत्यथर्ववेदीया प्रश्नोपनिषत्समप्ता ॥

॥ ॐ तत्सत् ॥

Tags: Sanskrit

Post navigation

Previous: Isa Upanishad – ईशावास्योपनिषत्
Next: The Talmud (תַּלְמוּד)
Communism
Sarvarthapedia

Manifesto of the Communist Party 1848: History, Context, and Core Concepts

Arrest
Sarvarthapedia

Latin Maxims in Criminal Law: Meaning, Usage, and Courtroom Application

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

Rule of Law vs Rule by Law and Rule for Law: History, Meaning, and Global Evolution

IPS Cadre Strength 2025: State-wise Authorised Strength

Uric Acid: From 18th Century Discovery to Modern Medical Science

Christian Approaches to Interfaith Dialogue: Orthodox, Catholic, Protestant, and Pentecostal Views

Origin of Central Banking in India: From Hastings to RBI and the History of Preparatory Years (1773–1934)

Howrah District Environment Plan: Waste Management, Water Quality & Wetland Conservation

Bharatiya Nyaya Sanhita 2023: Sections (1-358), Punishments, and Legal Framework

Bengali Food Culture: History, Traditions, and Class Influences

  • Sarvarthapedia

  • Delhi Law Digest

  • Howrah Law Journal

  • Amit Arya vs Kamlesh Kumari: Doctrine of merger
  • David Vs. Kuruppampady: SLP against rejecting review by HC (2020)
  • Nazim & Ors. v. State of Uttarakhand (2025 INSC 1184)
  • Geeta v. Ajay: Expense for daughter`s marriage allowed in favour of the wife
  • Ram v. Sukhram: Tribal women’s right in ancestral property [2025] 8 SCR 272
  • Naresh vs Aarti: Cheque Bouncing Complaint Filed by POA (02/01/2025)
  • Bharatiya Nagarik Suraksha Sanhita 2023 (BNSS)
  • Bharatiya Sakshya Adhiniyam 2023 (BSA): Indian Rules for Evidence
  • Bharatiya Nyaya Sanhita (BNS) 2023
  • The Code of Civil Procedure (CPC)
  • Supreme Court Daily Digest
  • U.S. Supreme Court Orders
  • U.k. Supreme Court Orders
United Kingdom, UK

Abolition of Slave Trade Act 1807: Facts, Enforcement, and Historical Context

British Slavery and the Church of England: History, Theology, and the Codrington Estates

British Slavery and the Church of England: History, Theology, and the Codrington Estates

USA, America

United States of America: History, Government, Economy, and Global Power

Biblical Basis for Slavery, english slave trade

Biblical Basis for Slavery: Old and New Testament Laws, Narratives, and Interpretations

2026 © Advocatetanmoy Law Library

  • About
  • Global Index
  • Judicial Examinations
  • Indian Statutes
  • Glossary
  • Legal Eagle
  • Subject Guide
  • Journal
  • SCCN
  • Constitutions
  • Legal Brief (SC)
  • MCQs (Indian Laws)
  • Sarvarthapedia (Articles)
  • Contact Us
  • Privacy Policy
  • FAQs
  • Library Updates