Sanskrit

Narada Pancha Ratra Samhita

श्रीनारदपञ्चरात्रम्

प्रथमैकरात्रे प्रथमोऽध्यायः
ओं नमो भगवते वासुदेवाय

अथ मङ्गलाचरणम्

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥

गणेशशेषब्रह्मेशदिनेशप्रमुखाः सुराः ।
कुमाराद्याश्च मुनयः सिद्धाश्च कपिलादयः ॥ १,१.१ ॥
लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा ।
भक्त्या नमन्ति यं शश्वत्तं नमामि परात्परं ॥ १,१.२ ॥
ध्यायन्ते सततं सन्तो योगिनो वैष्णवास्तथा ।
ज्योतिर्अभ्यन्तरे रूपमतुलं श्यामसुन्दरम् ॥ १,१.३ ॥
ध्यायेत्तं परमं ब्रह्म परमात्मानमीश्वरम् ।
निरीहमतिनिर्लिप्तं निर्गुणं प्रकृतेः परं ॥ १,१.४ ॥
सर्वेशं सर्वरूपं च सर्वकारणकारणम् ।
सत्यं नित्यं च पुरुषं पुराणं परमव्ययम् ॥ १,१.५ ॥
मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयम् ।
स्वेच्छामयं परं धाम भगवन्तं सनातनम् ॥ १,१.६ ॥
स्तुवन्ति वेदा यं शश्वन्नानन्तं जानन्ति यस्य ते ।
तं स्तौमि परमानन्दं सानन्दं नन्दनन्दनम् ॥ १,१.७ ॥
भक्तप्रियं च भक्तेशं भक्तानुग्रहविग्रहं ।
श्रीदं श्रीशं श्रीनिवासं श्रीकृष्णं राधिकेश्वरम् ॥ १,१.८ ॥
ज्ञानामृतं ज्ञानसिन्धोः संप्राप्य शङ्कराद्गुरोः ।
परावराच्च परमाद्योगीन्द्राणां गुरोर्गुरोः ॥ १,१.९ ॥
वेदेभ्यो दधिसिन्धुभ्यश्चतुर्भ्यः सुमनोहरम् ।
तज्ज्ञानमन्थदण्डेन संनिर्मथ्य नवं नवम् ॥ १,१.१० ॥
नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजम् ।
विधिपुत्रो नारदोऽहं पञ्चरात्रं समारभे ॥ १,१.११ ॥

ओं नारायणाश्रमे पुण्ये पुण्यक्षेत्रे च भारत ।
सिद्धे नारायणक्षेत्रे वटमूले सुपुण्यदे ॥ १,१.१२ ॥
कृष्णांशं कृष्णभक्तं च पलं कृष्णपरायणम् ।
श्रीकृष्णचरणाम्भोजध्यानैकतानमानसम् ॥ १,१.१३ ॥
जपन्तं परमं ब्रह्म कृष्ण इत्यक्षरद्वयम् ।
सुखासने सुखासीनं कृष्णद्वैपायनं मुनिम् ॥ १,१.१४ ॥
पप्रच्छ शुकदेवश्च सर्वज्ञं पितरं मुनिः ।
कारणण्च पुराणानां पुराणं परमव्ययम् ॥ १,१.१५ ॥

श्रीशुक उवाच
भगवन् सर्वतत्त्वज्ञ वेदवेदाङ्गपारग ।
यद्यत्प्रकारं ज्ञानं च निगूढं श्रुतिसम्मतम् ॥ १,१.१६ ॥
तेषु यत्सारभूतं चाप्यज्ञानान्धप्रदीपकम् ।
तत्तत्सर्वं समालोच्य मां बोधयितुमर्हसि ॥ १,१.१७ ॥

अथ श्रीकृष्णभक्तिप्रशंशा

स पिता ज्ञानदाता यो ज्ञानं तत्कृष्णभक्तिदम् ।
सा भक्तिः परमा शुद्धा कृष्णदास्यप्रदा च या ॥ १,१.१८ ॥
तदेव दास्यं शस्तं यत्साक्षाच्चरणसेवनं ।
नित्यं गोलोकवासं च पुरतः स्तवनं हरेः ॥ १,१.१९ ॥
शश्वन्निमेषरहितं तत्पादपद्मदर्शनम् ।
शश्वत्तत्सार्धमालापसेवाकर्मनियोजनम् ॥ १,१.२० ॥
तेन सार्धमविच्छेदस्थानं परं शोभनम् ।
भक्तानां वाञ्च्छितं वस्तु सारभूतं श्रुतौ श्रुतम् ॥ १,१.२१ ॥

पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः ।
विज्ञाय ज्ञानिनं पुत्रं परमाह्लादमाप ह ॥ १,१.२२ ॥
पुत्रं शुभाशिषं कृत्वा सर्वज्ञः सर्वभावनः ।
यथाप्राप्तं गुरुमुखात्प्रवक्तुमुपचक्रमे ॥ १,१.२३ ॥

श्रीव्यास उवाच
शुक धन्योऽसि मान्योऽसि पुण्यरूपोऽसि भारते ।
पुत्रेण भवतास्माकं कुलं मुक्तं च पावनम् ॥ १,१.२४ ॥
स पुत्रः कृष्णभक्तो यो भारते सुयशस्करः ।
पुनाति पुंसां शतकं जन्ममात्रेण लीलया ॥ १,१.२५ ॥
मातामहानां शतकं मातरं मातृमातरम् ।
सोदरान् बान्धवांश्चैव भृत्यान् पत्नीं सहात्मजाम् ॥ १,१.२६ ॥
यत्कन्यां प्रतिगृह्णाति तद्आदिपुरुषत्रयम् ।
कन्याप्रदाता श्वशुरो जीवन्मुक्तः सभार्यकः ॥ १,१.२७ ॥
स्वयं विधाता भगवान् परं कृष्णपरायणः ।
कृष्णभक्तो वसिष्टस्तु तत्सुतो वैष्णवः स्वयम् ॥ १,१.२८ ॥
वैष्णवस्तत्सुतः शक्तिः कृष्णध्यानैकमानसः ।
पराशरश्च तत्पुत्रः कृष्णपादाब्जसेवया ॥ १,१.२९ ॥
जीवन्मुक्तो महाज्ञानी योगीन्द्राणां गुरोर्गुरुः ।
अहं वेदविभक्ता च श्रीकृष्णपादसेवया ॥ १,१.३० ॥
गुरुर्मे भगवान् साक्षाद्योगीन्द्रो नारदो मुनिः ।
गुरोर्गुरुर्मे शम्भुश्च योगीन्द्राणां गुरोर्गुरुः ॥ १,१.३१ ॥
तेषां पुण्येन पुत्रस्त्वं पुण्यराशिश्च मूर्तिमान् ।
पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयम् ॥ १,१.३२ ॥
श्रीकृष्णचरणाम्भोजं पादाब्जं नारदेशयोः ।
सरस्वतीं नमस्कृत्य ज्ञानं वक्ष्ये सनातनम् ॥ १,१.३३ ॥
श्रूयतां पञ्चरात्रं च वेदसारमभीप्सितम् ।
पञ्चसंवादमिष्टं च भक्तानामभिवाञ्च्छितम् ॥ १,१.३४ ॥
प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं ।
अथ षट्संवादाः ? हि गोलोके शतशृङ्गे च पर्वते ॥ १,१.३५ ॥
सुपुण्ये विरजातीरे वटमूले मनोहरे ।
पुरतो राधिकायाश्च ब्रह्माणं कमलोद्भवम् ॥ १,१.३६ ॥
तमुवाच महाभक्तं स्तुवन्तं प्रणतं सुतम् ।
पञ्चरात्रमिदं पुण्यं श्रुत्वा च जगतां विधिः ॥ १,१.३७ ॥
प्रणम्य राधिकां कृष्णं प्रययौ शिवमन्दिरम् ।
भक्त्या तं पूजयामास शङ्करः परमादरम् ॥ १,१.३८ ॥
सुखासने सुखासीनं स्वस्थं भक्तं च पूजितम् ।
पप्रच्छ वार्तां विनयी विनयेन सुखावहाम् ॥ १,१.३९ ॥
सर्वं तं कथयामास पञ्चरात्रादिकं शुभम् ।
वसन्तं वटमूले च स्वर्गे मन्दाकिनीतटे ॥ १,१.४० ॥
योगीन्द्रैरपि सिद्धेन्द्रैर्मुनीन्द्रैश्च स्तुतं प्रभुं ।
ज्ञानामृतं तमुक्त्वा स ब्रह्मलोकं जगाम ह ॥ १,१.४१ ॥
शम्भुश्च कथयामास स्वशिष्यं नारदं मुनिम् ।
नारदः कथयामास पुष्करे सूर्यपर्वणि ॥ १,१.४२ ॥
मां भक्तमनुरक्तं च पुण्याहे मुनिसंसदि ।
पञ्चरात्रमिदं शुद्धं भ्रमान्धध्वंसदीपकम् ॥ १,१.४३ ॥

अथ पञ्चरात्रपदव्याख्या

रात्रं च ज्ञानवचनं ज्ञानं पञ्चविधं स्मृतम् ।
तेनेदं पञ्चरात्रं च प्रवदन्ति मनीषिणः ॥ १,१.४४ ॥
ज्ञानं परमतत्त्वं च जन्ममृत्युजरापहम् ।
ततो मृत्युञ्जयः शम्भुः संप्राप कृष्णवक्त्रतः ॥ १,१.४५ ॥
ज्ञानं द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितम् ।
परं मुक्तिप्रदं शुद्धं यतो लीनं हरेः पदे ॥ १,१.४६ ॥
ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्णभक्तिदम् ।
तद्दास्यमधीष्टं च यतो दास्यं लभेद्धरेः ॥ १,१.४७ ॥
चतुर्थं यौगिकं ज्ञानं सर्वसिद्धिप्रदं परम् ।
सर्वस्वं योगिनां पुत्र सिद्धानां च सुखप्रदम् ॥ १,१.४८ ॥
अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च तथाकामावसायिता ॥ १,१.४९ ॥
सावज्ञं दूरश्रवणं परकायप्रवेशनम् ।
कायव्यूहं जीवदानं परजीवहरं परम् ॥ १,१.५० ॥
सर्गकर्तृत्वशिल्पं च सर्गसंहारकारणम् ।
सिद्धं च षोडशविधं ज्ञानिनां च यतो भवेत् ॥ १,१.५१ ॥
ज्ञानं च परमं प्रोक्तं तद्वै वैषयिकं नृणां ।
यदिष्टदेवी माया सा परं संमोहकारणं ॥ १,१.५२ ॥
विषये बद्धचितं च सर्वमिन्द्रियसेवनम् ।
पोषनं स्वकुटुम्बानां स्वात्मनश्च निरन्रतम् ॥ १,१.५३ ॥
प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तदेव च ।
नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परम् ॥ १,१.५४ ॥
चतुर्थं च राजसिकं भक्तस्तन्नाभिवाञ्च्छति ।
पञ्चमं तामसं ज्ञानं विद्वांस्तन्नाभिवाञ्च्छति ॥ १,१.५५ ॥
ज्ञानं पञ्चविधं प्रोक्तं पञ्चरात्रं विदुर्बुधाः ।
पञ्चरात्रं सप्तविधं ज्ञानिनां ज्ञानदं परम् ॥ १,१.५६ ॥
ब्राह्मं शैवं च कौमारं वासिष्टं कापिलं परम् ।
गौतमीयं नारदीयमिदं सप्तविधं स्मृतम् ॥ १,१.५७ ॥

अथ ग्रन्थप्रशंसा

षट्पञ्चरात्रं वेदाश्च पुराणानि च सर्वशः ।
इतिहासं धर्मशास्त्रं शात्रं च सिद्धियोगजम् ॥ १,१.५८ ॥
दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् ।
ज्ञानामृतं पञ्चरात्रं चकार नारदो मुनिः ॥ १,१.५९ ॥
पुण्यं च पापविघ्नं भक्तिदास्यप्रदं हरेः ।
सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत ॥ १,१.६० ॥
सारभूतं च सर्वेषां वेदानां परमाद्भुतम् ।
नारदीयं पञ्चरात्रं पुराणेषु सुदुर्लभम् ॥ १,१.६१ ॥
सर्वान्तरात्मा भगवान् ब्रह्मज्योतिः सनातनम् ।
परिपूर्णतमः श्रीमान् यथा कृष्णः सुरेषु च ॥ १,१.६२ ॥
यथा देवीषु पूज्या सा मूलप्रकृतिरीश्वरी ।
वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः ॥ १,१.६३ ॥
विश्वस्तानामिन्द्रियानां मनश्च शीघ्रगामिनाम् ।
ब्रह्मा च वेदविदुषां पूज्यानां च गणेश्वरः ॥ १,१.६४ ॥
सनत्कुमारो भगवान्मुनीनां प्रवरो यथा ।
बृहस्पतिर्बुद्धिमतां सिद्धानां कपिलो यथा ॥ १,१.६५ ॥
योगीन्द्रानां सतां शुद्ध ऋषिर्नारायणो यथा ।
कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः ॥ १,१.६६ ॥
सरितां च यथा गङ्गा समुद्राणां जलार्णवः ।
वृन्दावनं वनानां च वर्षानां भारतं यथा ॥ १,१.६७ ॥
पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा ।
आत्माकाशो यथाप्तानां यथा काशी पुरीषु च ॥ १,१.६८ ॥
वृक्षाणां कल्पवृक्षश्च सुरभी कामधेनुषु ।
पुष्पाणां पारिजातश्च पत्राणां तुलसी यथा ॥ १,१.६९ ॥
मन्त्राणां कृष्णमन्त्रश्च यथा विद्या धनेष्वपि ।
यथा तेजस्विनां सूर्यो मिष्टानाममृतं यथा ॥ १,१.७० ॥
आधाराणां च स्थूलानां महाविष्णुर्यथा सुत ।
सूक्ष्माणां परमाणुश्च गुरुणां मन्त्रतन्त्रदः ॥ १,१.७१ ॥
पुत्रश्च स्नेहपात्राणां नक्षत्राणां यथा शशी ।
यथा घृतं च गव्यानां शस्यानां धान्यमीप्सितम् ॥ १,१.७२ ॥
शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः ।
तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकम् ॥ १,१.७३ ॥
यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्वपि ।
पतिव्रतासु लक्स्मीश्च क्षमाशीलासु मेदिनी ॥ १,१.७४ ॥
सौभाग्यासु सुन्दरीषु राधा कृष्णप्रियासु च ।
हनुमान् वानराणां च पक्षिणां गरुडो यथा ॥ १,१.७५ ॥
वाहनानां बलवतां शङ्करस्य यथा वृषः ।
शालग्रामश्च यन्त्राणां पूजासु कृष्णपूजनम् ॥ १,१.७६ ॥
एकादशी व्रतानां च तपःस्वनशनं यथा ।
यज्ञानां जपयज्ञश्च सत्यं धर्मेषु पुत्रक ॥ १,१.७७ ॥
सुशीलं च गुणानां च पुण्येषु कृष्णकीर्तनम् ।
शोभाशु सुखदृश्येषु प्रभा तेजःसु सर्वतः ॥ १,१.७८ ॥
पोष्ट्रीणामुपकर्तृणां मित्राणां जननी यथा ।
लोकानामपि लोकेशः शेषो नागेषु पूजितः ॥ १,१.७९ ॥
सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनाम् ।
धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च ॥ १,१.८० ॥
विष्णुभक्तेषु विज्ञेषु यथैव नारदो मुनिः ।
एवं च सर्वशास्त्रेषु पञ्चरात्रं च पूजितम् ॥ १,१.८१ ॥
यथा निपीय पीयूषं न स्पृहा चान्यवस्तुषु ।
पञ्चरात्रमभिज्ञाय नान्येषु च स्पृहा सताम् ॥ १,१.८२ ॥
सर्वार्थज्ञानबीजं चाप्यज्ञानान्धप्रदीपम् ।
वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितम् ॥ १,१.८३ ॥

इति श्रीनारदपञ्चरात्रे ग्रन्थप्रशंसनं नाम प्रथमोऽध्यायः
प्रथमैकरात्रे द्वितीयोऽध्यायः
शुक उवाच
कुत्र वा पञ्चरात्रं च नारदस्य च धीमते ।
प्रदत्तं शम्भुना तात तन्मे व्याख्यातुमर्हसि ॥ १,२.१ ॥

अथ नारदस्य तपोवर्णनम्

व्यास उवाच
अधीत्य सर्वान् वेदांश्च वेदाङ्गाण्पितुरन्तिके ।
जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते ॥ १,२.२ ॥
हिमालयस्य पूर्वे य गङ्गातीरे मनोहरे ।
सिद्धे नारायणक्षेत्रे सर्वेषामभिवाञ्च्छिते ॥ १,२.३ ॥
तपश्चकार स मुनिर्दिव्यं वर्षसहस्रकम् ।
पित्रोक्तेनैव विधिना सततं संयुतः शुचिः ॥ १,२.४ ॥
शुश्रावाकाशवाणीं च तपसोऽन्ते महामुनिः ।
स्वल्पाक्षरां च बह्व्अर्थां परिणामसुखावहाम् ॥ १,२.५ ॥

अथ नारदं प्रति दैववाणी

अशरीरिष्युवाच
आधारितो यदि हरिस्तपसा ततः किम् ।
नाधारितो यदि हरिस्तपसा ततः किम् ।
अन्तर्बहिर्यदि हरिस्तपसा ततः किम् ।
नान्तर्बहिर्यदि हरिस्तपसा ततः किम् ॥ १,२.६ ॥
विरम विरम ब्रह्मन् किं तपस्यासु वत्स ।
व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञानसिन्धुम् ।
लभ लभ हरिभक्तिं वैष्णवोक्तां सुपक्वां ।
भवनिगडनिबन्धछेदिनीं कर्तनीं च ॥ १,२.७ ॥

इति श्रुत्वा च स मुनिर्विमनाः स्वर्णदीतटे ।
चकारार्थानुसन्धानं न प्रसन्नं च तन्मनः ॥ १,२.८ ॥
रुरोद स्वर्णदीतीरे स्मारं स्मारं हरेः पदम् ।
ददर्श पुरतस्तातं ब्रह्माणं सकुमारकम् ॥ १,२.९ ॥
ननाम सहसा मूर्ध्ना पितरं तं सहोदरम् ।
पाद्यमर्घ्यं च प्रददौ जवेन सादरं मुनिः ॥ १,२.१० ॥
श्लोकद्वयार्थं पप्रच्छ कुमारं जगतां विधिम् ।
सुखासीनं सुस्थिरं च सस्मितं च गतश्रमम् ॥ १,२.११ ॥
स्वात्मारामं पूर्णकामं ज्ञानिनां च गुरोर्गुरुम् ।
साश्रुनेत्रः पुलकितो भक्त्या प्रणतकन्धरम् ॥ १,२.१२ ॥
नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः ।
पुत्रेण सार्द्धमालोच्य व्याख्यां कर्तुं समारेभे ॥ १,२.१३ ॥

अथ दैववाण्यर्थः

ब्रह्मोवाच
हे वत्स पूर्वश्लोकार्थं निगूढं श्रुतिसम्मतम् ।
वेदार्थं द्विविधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः ॥ १,२.१४ ॥
आराधितो यदि हरिर्येन पुंसा स्वभक्तितः ।
किं तस्य तपसा व्यर्थं तीर्थपूतस्य नारद ॥ १,२.१५ ॥
कृष्णमन्त्रोपासकस्य जीवन्मुक्तस्य भारते ।
तपश्चोपहासबीजं तथा चर्वितचर्वणम् ॥ १,२.१६ ॥
मन्त्रग्रहणमात्रेण पुरुषाणां शतं सुत ।
पुनाति स्वस्वभक्तं च चान्धवंश्चावलीलया ॥ १,२.१७ ॥
नहि धर्मो नहि तपः श्रीकृष्णसेवनात्परम् ।
परिश्रमं च विफलं तपसा वैष्णवस्य च ॥ १,२.१८ ॥
कृष्णमन्त्रोपासकस्य तीर्थपूतस्य पुत्रक ।
तीर्थस्नानमनशनं वेदेषु च विडम्बनम् ॥ १,२.१९ ॥
पूर्वकर्मानुरोधेन यत्पापं वैष्णवस्य च ।
मन्त्रग्रहणमात्रेण नष्टं वह्नौ यथा तृणम् ॥ १,२.२० ॥
पवित्रः परमो वह्निः पवित्रं चामलं जलं ।
पवित्रं भारतं वर्षं तीर्थं यत्तुलसीदलम् ॥ १,२.२१ ॥
पुनाति लीलयैतानि शुद्धः कृष्णपरायणः ।
उपस्पर्श च भक्तस्याप्येते वाञ्च्छन्ति सादरम् ॥ १,२.२२ ॥
भक्तस्य पादरजसा सद्यः पूता वसुन्धरा ।
नहि पूतस्त्रिभुवने श्रीकृष्णसेवकात्परः ॥ १,२.२३ ॥
शालिग्रामशिलाचक्रे करोति कृष्णपूजनम् ।
तत्पादोदकनैवेद्यं नित्यं भुङ्क्ते च यः पुमान् ॥ १,२.२४ ॥
स वैष्णवो महापूतस्तन्मन्त्रोपासकः शुचिः ।
पुनाति पुंसां शतकं जन्ममात्रात्सबान्धवम् ॥ १,२.२५ ॥
वत्स श्लोकस्यैकपादं व्याख्यातं च यथागमम् ।
व्याख्यातं करोम्यन्यपादं यथाज्ञानं मिशामय ॥ १,२.२६ ॥
नाराधितो यदि हरिर्येन पुंसाधमेन च ।
किं तस्य तपसा व्यर्थं निष्फलं तत्परिश्रमः ॥ १,२.२७ ॥
व्रतान्येव हि दानानि तपांस्यनशनानि च ।
वेदोपयुक्ता यज्ञाश्च कर्माणि च शुभानि च ।
न निष्पुनात्यभक्तं च सुराकुम्भमिवापगा ॥ १,२.२८ ॥
अभक्तस्पर्शमात्रेण तीर्थानि कम्पितानि च ।
अभक्तभारदुःखेन कम्पिता सा वसुन्धरा ॥ १,२.२९ ॥
श्लोकार्धं कथितं वत्स किंचिदेव यथागमम् ।
तस्यार्धस्यापि व्याख्यानं करोमीति निशामय ॥ १,२.३० ॥
वेदसारं कृष्णमतं ममापि नहि कल्पना ।
अन्तर्बहिर्यदि हैर्येषां पुंसां महात्मनां ॥ १,२.३१ ॥
स्वप्ने जागरणे शश्वत्तपस्तेषां च निष्फलम् ।
स एव विष्णुतुल्यो हि तद्अंशो भारते मुने ॥ १,२.३२ ॥
तस्य रक्षानिबन्धेन तद्अभ्यासे सुदर्शनम् ।
ध्यानमात्रेण निष्पापः पुनाति भुवनत्रयम् ॥ १,२.३३ ॥
दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः ।
स्वयं तन्निकटं याति द्रष्टुं रक्षणाय च ॥ १,२.३४ ॥
तत्परो हि प्रियो नास्ति कृष्णस्य परमात्मनः ।
नहि भक्तात्परश्चात्मा प्राणाश्चावयवादयः ।
न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुरेव च ॥ १,२.३५ ॥
भक्तप्राणो हि कृष्णश्च कृष्णप्राणा हि वैष्णवाः ।
ध्यायन्ते वैष्णवाः कृष्णं कृष्णश्च वैष्णवांस्तथा ॥ १,२.३६ ॥
व्याख्यातं च त्रिपादं च हे मुनीन्द्र यथागमम् ।
शेषपादस्य व्याख्यानं करोमीति निशामय ॥ १,२.३७ ॥
नान्तर्बहिर्यदि हरिर्येषां पुंसां च नारद ।
तेषामपि तपो व्यर्थमन्तर्मलिनचेतसां ॥ १,२.३८ ॥
किं तज्ज्ञानेन तपसा व्रतेन नियमेन च ।
तीर्थस्नानेन पुण्येनापि अभक्तमूढचेतसां ॥ १,२.३९ ॥
कृष्णभक्तिविहीनेभ्यो द्विजेभ्यः श्वपचो महान् ।
शूकरो म्लेच्छनिवहः स्वधर्माचरेण च ॥ १,२.४० ॥
स्वधर्महीना विप्राश्चाप्यभक्ष्यभक्षणेन च ।
नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः ॥ १,२.४१ ॥
ब्रह्मणानां स्वधर्मश्च सन्ततं कृष्णसेवनम् ।
नित्यं ते भुञ्जते सन्तस्तन्नैवेद्यं पादोदकम् ॥ १,२.४२ ॥
न दत्वा हरये यस्तु यदि भुङ्क्ते द्विजाधमः ।
अन्नं विष्ठासमं मूत्रसमं तोयं विदुर्बुधाः ॥ १,२.४३ ॥
भुङ्क्ते स्वभक्ष्यं कोलश्च म्लेच्छश्च श्वपचाधमः ।
विप्रो नित्यमभक्ष्यं च भुङ्क्ते च पतितस्ततः ॥ १,२.४४ ॥
श्लोकमेकं च व्याख्यातं यथाज्ञानं च नारद ।
सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं ॥ १,२.४५ ॥
तपसो विरम ब्रह्मन् व्यर्थं भक्ततपो ध्रुवम् ।
शङ्करश्च गुरुं कृत्वा हरिभक्तिं लभाचिरम् ॥ १,२.४६ ॥
सुपक्वा हरिभक्तिश्च तरणी भवतारणे ।
गुरुरेव परं ब्रह्म कर्णधारस्वरूपकः ॥ १,२.४७ ॥
इत्येवमुक्त्वा त्वां देवी प्रजगाम सरस्वती ।
व्याख्यातस्तद्अभिप्रायः किं भूयः कथयामि ते ॥ १,२.४८ ॥

ब्रह्माणश्च वचः श्रुत्वा जहास योगिनां गुरुः ।
सनत्कुमारो भगवानुवाच पितरं शुक ॥ १,२.४९ ॥

सनत्कुमार उवाच
पूर्वश्लोकस्य व्याख्यानं न बुद्धं शिशुना मया ।
पुत्रं शिष्यमबोधं च युक्तं बोधयितुं पुनः ॥ १,२.५० ॥
आराधितो हरिर्येन तस्य व्यर्थं तपो यदि ।
नाराधितो हैर्येन तस्य व्यर्तं तपो यदि ॥ १,२.५१ ॥
तस्यारहितौ तौ द्वौ तपसश्च स्थलं कुतः ।
तपः कुर्वन्ति ये तात त्वं मां बोधय बालकम् ॥ १,२.५२ ॥

पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः ।
दध्यौ कृष्णपदाम्भोजं परं कल्पतरुं शुक ॥ १,२.५३ ॥
क्षणं संचित्य पादाब्जं प्राप राद्धान्तमीप्सितम् ।
व्याख्यां कर्तुं समारेभे विधाता जगतामपि ॥ १,२.५४ ॥

अथ नैवेद्यप्रशंसा

ब्रह्मोवाच
धन्योऽहं भवतः पुत्रात्ज्ञानिनां च गुरोर्गुरोः ।
विष्णुभक्ताच्च धर्मिष्ठात्सत्पुत्राच्च पिता सुखी ॥ १,२.५५ ॥
धन्योऽसि पण्डितोऽसि त्वं हरिभक्तोऽसि पुत्रक ।
ममापि सफलं जन्म जीवनं च त्वया बुध ॥ १,२.५६ ॥
निबोध पूर्वश्लोकार्थं पुनर्व्याख्यां करोमि च ।
तथापि चेन्न सन्तोषो भवान् व्याख्यां करिष्यति ॥ १,२.५७ ॥
आशब्दः सम्यग्अर्थे च राधितः प्राप्तवाचकः ।
संप्राप्तश्च हरिर्येन व्यर्थस्तस्य तपःश्रमः ॥ १,२.५८ ॥
येन सम्यक्प्रकारेण संप्राप्तो हरिरीश्वरः ।
स्वप्ने ज्ञाने च ज्ञातस्तेषां व्यर्थस्तपःश्रमः ॥ १,२.५९ ॥
श्रीकृष्णविमुखं मूढं द्विजमेव नराधमम् ।
तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तम् ॥ १,२.६० ॥
यश्च मूढतमो लोके यश्च भक्तिं परां गतः ।
तावुभौ सुखसेधेते तपः कुर्वन्ति मध्यमाः ॥ १,२.६१ ॥
देवानन्यांश्च भजते हरिं जानाति तत्परः ।
तपः करोति तं प्राप्तुमाकाङ्क्षन्मध्यमो जनः ॥ १,२.६२ ॥
प्राक्तनादनुरागी च गृही संसारसंवृतः ।
तपः करोति श्रीकृष्णपादपद्मार्थमीप्सितम् ॥ १,२.६३ ॥
परं श्रीकृष्णभजनं ध्यानं तन्नामकीर्तनम् ।
तत्पादोदकनैवेद्यभक्षणं सर्ववाञ्च्छितम् ॥ १,२.६४ ॥
अतीव मूढो विप्रश्च प्राक्तनाद्गुरुदोषतः ।
तामसो हि न जानाति श्रीकृष्णं त्रिगुणात्परम् ॥ १,२.६५ ॥
अज्ञानादथ वा ज्ञानात्सत्सङ्गादेव प्राक्तनात् ।
भुङ्क्ते नैवेद्यमीशस्य कृष्णस्य परमात्मनः ॥ १,२.६६ ॥
स च मुक्तो भवेत्पुत्र मुच्यते सर्वपातकात् ।
स याति दिव्ययानेन गोलोकं लोकमुत्तमम् ॥ १,२.६७ ॥
शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनम् ।
अतीव सुश्रवं चारु मधुरं मुक्तिदं परम् ॥ १,२.६८ ॥
कान्यकुब्जः सुक्षुब्धश्च ब्राह्मणो ग्रामयाजकः ।
देवलो वृषवाहश्च महामूढश्च पातकी ॥ १,२.६९ ॥
स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्णपूजनम् ।
कृष्णभक्तसहालापदर्शनस्पर्शनं शुभं ॥ १,२.७० ॥
बभूव प्राक्तनात्तस्य क्षणमात्रं सुदुर्लभम् ।
तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः ॥ १,२.७१ ॥
पितुः पुण्येन पुत्रश्च मार्गे पतितमल्पकम् ।
स्वयं भुक्तावशेषं च पतितं वैष्णवाज्जनात् ॥ १,२.७२ ॥
सुस्निग्धाक्षतजीर्णं च रजसा मिश्रितं परम् ।
गच्छतस्तत्र विप्रस्य पतितं भक्ष्यवस्तु च ॥ १,२.७३ ॥
नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक ।
तद्वस्तु भुक्तं विप्रेण कृष्णनैवेद्यमिश्रितम् ॥ १,२.७४ ॥
सपुत्रेण क्षुधार्तेन तौ ययतुर्गृहम् ।
विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पतिव्रता ॥ १,२.७५ ॥
परम्परानुसंबन्धात्पवित्रा सा बभूव ह ।
जीवन्मुक्तो ब्राह्मणश्च बभूव स सपुत्रकः ॥ १,२.७६ ॥
कालेन तेन पुण्येन व्याघ्रभुक्तश्च कानने ।
सार्धं च व्याघ्रपुत्राभ्यां गोलोकं प्रययौ द्विज ।
पतिव्रता सहमृता भर्ता सार्धं जगाम सा ॥ १,२.७७ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे नैवेद्यप्रशंसनं नाम द्वितीयोऽध्यायः
प्रथमैकरात्रे तृतीयोऽध्यायः
सनत्कुमार उवाच

अहो तात किमाश्चर्यं कृष्णस्य परमात्मनः ।
परं नैवेद्यमाहात्म्यं विस्तराद्वद साम्प्रतम् ॥ १,३.१ ॥

अथ श्रीकृष्णमहिमवर्णनम्

ब्रह्मोवाच
एकदा ब्राह्मणो हृष्टः प्रफुल्लवदनेक्षणः ।
पुत्रेण सार्धं प्रययौ बान्धवस्य गृहं मुदा ॥ १,३.२ ॥
निमन्त्रितो विवाहेन महासंभारसंभृतः ।
भुक्त्वा पीत्वा च तद्गृहे स्वगृहं प्रययौ मुदा ॥ १,३.३ ॥
सपुत्रो ब्राह्मणो मार्गे क्षुत्पिपासार्दितः सुतः ।
ददर्श चन्द्रभागां तां नदीमतिमनोहराम् ॥ १,३.४ ॥
उवाच पुत्रः पित्रं स्नात्वा भोक्ष्यामि चेति भोः ।
क्षुत्पिपासा बलवती वर्धते तात वर्त्मनि ॥ १,३.५ ॥
पुत्रस्य वचनं श्रुत्वा तमुवाच द्विजः स्वयम् ।
भयंकरं वनमिदं समीपे सरितः सुतः ॥ १,३.६ ॥
सुशीघ्रं गच्छ ग्रामान्तं पुरो रम्यसरोवरम् ।
तत्र स्नात्वा च भोक्ष्यावो गच्छ वत्स यथासुखम् ॥ १,३.७ ॥
तातस्य वचनं श्रुत्वा जहास च चुकोप ह ।
पितरं वक्तुमारेभे रक्तपण्ग्कजलोचनः ॥ १,३.८ ॥

शिशुरुवाच
बालोऽहं दशवर्षीयस्त्वं च वृद्धश्च ज्ञानदः ।
पिता ददाति पुत्राय ज्ञानं सर्वत्र भूतले ॥ १,३.९ ॥
अहो दुरत्ययः कालो वृध्हो वदति बालवत् ।
कथं प्राक्तनमुल्लङ्घ्य ब्रूहि तात दुरत्ययम् ॥ १,३.१० ॥
प्राक्तनात्सुखदुःखं च रोगं शोकं भयं पितः ।
सुमृत्युरपमृत्युर्वा चिरायुरल्पजीवनः ॥ १,३.११ ॥
यत्र काले च यन्मृत्युर्भवनं शुभकर्म च ।
न्यूनाधिकं क्षणं नास्ति निषेकः केन वार्यते ॥ १,३.१२ ॥
यस्य हस्ते च यन्मृत्युर्विधात्रा लिखितः पुरा ।
न च तं खण्डितुं शक्तः स्वयं विष्णुश्च शङ्करः ॥ १,३.१३ ॥
तात व्यर्थमधीतं ते दुर्बुद्धेर्जन्म निष्फलम् ।
सुबुद्धेः सफलं जन्म तत्क्षणं जीवनं सुखम् ॥ १,३.१४ ॥
येन शुक्लीकृता हंसाः शुकाश्च हरितीकृताः ।
मयूराश्चित्रिता येन स मे रक्षां करिष्यति ॥ १,३.१५ ॥
येन कृष्णेन विश्वानि चासंख्यानि कृतानि च ।
चराचरं च यो रक्षेत्स मे रक्षां करिष्यति ॥ १,३.१६ ॥
घोरारण्ये सुखं शेते यो हि कृष्णेन रक्षितः ।
निर्बन्धोऽपि यस्य मरणं तस्य मन्दिरे ॥ १,३.१७ ॥
यः शेते नागशय्यासु प्राक्तनान्मङ्गलाहितः ।
यो नागभक्षितो भोगात्स भृतो गरुडान्तिके ॥ १,३.१८ ॥
न समुद्रे च म्रियते नाग्निराशौ विषानले ।
न शस्त्रेण न चास्त्रेणायुर्मर्माणि रक्षति ॥ १,३.१९ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥ १,३.२० ॥
कश्चिद्गर्भे च म्रियते कश्चिद्भूमिष्टमात्रतः ।
कश्चिद्यौवनकाले च कश्चिदेव हि वार्द्धके ॥ १,३.२१ ॥
कश्चिद्चिरायु रोगी चाप्यरोगी चापि कश्चन ।
कश्चिद्धनी दरिद्रश्च कश्चिदेव हि कर्मणा ॥ १,३.२२ ॥
कश्चित्कल्पान्तजीवी च चिरजीवी च कश्चन ।
प्राक्तनादमरः कश्चिन्निषेको बलवत्तरः ॥ १,३.२३ ॥
कश्चिद्याति च राजेन्द्रो दिव्ययानेन कर्मणा ।
कश्चित्कीटपतङ्गेषु कश्चित्पश्वादियोनिषु ॥ १,३.२४ ॥
कश्चिदेव हि सन्न्यासी कश्चिच्च नरघातकः ।
कश्चिद्गजेन्द्रगामी च पशुयायी च कश्चन ॥ १,३.२५ ॥
कश्चिद्सूक्ष्मांशुकाधारी कश्चिज्जीर्णपटी जनः ॥ १,३.२६ ॥
कश्चिन्नग्नोऽअप्यनाहारी सुधाभोजी च च कश्चन ।
कश्चिच्च सुन्दरः श्रीमान् गलत्कुष्टी च कश्चन ॥ १,३.२७ ॥
कश्चित्कुब्जश्चाङ्गहीनो बधिरः काण एव च ।
कश्चिद्दीर्घो मध्यमश्च कश्चित्खञ्जश्च वामनः ॥ १,३.२८ ॥
कश्चित्कृष्णश्च गौरश्च श्यामलश्च स्वकर्मणा ।
कश्चिद्भक्त्या च प्राप्नोति कृष्णदास्यं सुदुर्लभम् ॥ १,३.२९ ॥
ब्रह्मणः परमं स्थानं जन्ममृत्युजराहरम् ।
कश्चित्प्राप्नोति परमं ब्रह्मलोकं निरामयम् ॥ १,३.३० ॥
कश्चित्स्वर्गमिन्द्रपदं शिवलोकं स्वकर्मणा ।
कश्चित्वर्गमिन्द्रलोकं यमलोकं च कश्चन ॥ १,३.३१ ॥
कश्चिच्च नरके घोरे प्राप्नोति क्लेशमुल्वणम् ।
तादितो यमदूतेन क्षुधितस्तृषितः सदा ॥ १,३.३२ ॥
भुङ्क्ते विण्मूत्रकीटं तन्मलं श्लेष्मं गरं वसाम् ।
क्षुरधारे तप्ततैले वह्नौ शिते जले स्थले ॥ १,३.३३ ॥
प्राप्नोति दारुणं दुःखमाकल्पं पातकी पितः ।
तथा भोगावशेषे च लब्धा जन्म स्वकर्मणा ॥ १,३.३४ ॥
व्याधियुक्तः प्रमुच्येत तया चेदीश्वरेच्छया ।
यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ॥ १,३.३५ ॥
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति जन्तुषु ।
यस्याज्ञया सृष्टिविधौ मूर्मोऽनन्तं दधाति च ॥ १,३.३६ ॥
स च सर्वं च ब्रह्माण्डं लीलया चेश्वरेच्छया ।
यस्याज्ञया महाभीता सर्वाधारा वसुन्धरा ॥ १,३.३७ ॥
धरा सा सर्वस्याद्या रत्नवांश्च हिमालयः ।
स्वयं विधाता भगवान् ध्यायते यमहर्निशम् ॥ १,३.३८ ॥
यं ध्यायते च भजते स्वयं मृतुञ्जयः शिवः ।
सहस्रवक्त्रोऽयं स्तौति ध्यायते भजते सदा ॥ १,३.३९ ॥
स्वय्ं सरस्वती स्तौति यमीश्वरमभीप्सितम् ।
सेवते पादपद्मं च स्वयं पद्मालया पितः ॥ १,३.४० ॥
माया भीता च यं स्तौति दुर्गा दुर्गतिनाशिनी ।
स्तुवन्ति वेदाः सततं सावित्री वेदमातृका ॥ १,३.४१ ॥
सिद्धेन्द्राश्च मुनीन्द्राश्च योगीन्द्राः सनकादयः ।
राजेन्द्राश्चासुरेन्द्राश्च सुरेन्द्रा मनवस्तथा ॥ १,३.४२ ॥
ध्यायन्ते च भजन्ते च भक्ताः सन्तो हि सन्ततम् ।
केचिद्विदन्ति यं ब्रह्मां भगवन्तं सनातनम् ॥ १,३.४३ ॥
केचित्प्रधानं सर्वाद्यं केचिच्च ज्योतिरीश्वरम् ।
केचिच्च सर्वरूपं च सर्वकारणकारणम् ॥ १,३.४४ ॥
केचित्स्वेच्छाभयं रूपं भक्तानुग्रहविग्रहम् ।
केचित्सुरुचिरं श्यामसुन्दरं मनोहरम् ॥ १,३.४५ ॥
सानन्दं परमानन्दं गोविन्दं नन्दनन्दनम् ।
भज तात परं ब्रह्म स्मर शश्वत्सुरेश्वरम् ॥ १,३.४६ ॥

इत्येवमुक्त्वा पितरं चन्द्रभागानदीजले ।
स्नात्वा पपौ जलं स्वच्छं बुभुजे मिष्टमोदकम् ॥ १,३.४७ ॥
पिता तद्वचनं श्रुत्वा सानन्दाश्रु मुमोच सः ।
चुचुम्ब गण्डं पुत्रस्य समाश्लेषणपूर्वकम् ॥ १,३.४८ ॥
पिता स्नात्वा समारेभे सन्ध्यां कर्तुं च पूजनम् ।
सुस्नातं पितरं दृष्ट्वा पुत्रः स प्रययौ वनम् ॥ १,३.४९ ॥
पत्रं भोजनपात्रार्थमर्हतुं चञ्चलः शिशुः ।
चकार चयनं तूर्णं प्रशस्तं पत्रपञ्चकम् ॥ १,३.५० ॥
सुन्दरं कुसुमं वन्यं पूजनार्थं पितुस्तथा ।
ददर्श पुरतो बालः सुपक्वं वदरीफलम् ॥ १,३.५१ ॥
चकार चयनं तानि फलानि शोभनानि च ।
धात्रीफलं सुपक्वं च पक्वमाम्रातकं तथा ॥ १,३.५२ ॥
सुपक्वं च कदम्बं च चकार चयनं पुनः ।
सुपक्वं सुन्दरं रम्यं दाडिमं श्रीफलं तथा ॥ १,३.५३ ॥
रम्यं जम्बुफलं चैव खर्जूरं सुमनोहरम् ।
करञ्जकं च जाम्बीरं सुन्दरं चिकुरं तथा ॥ १,३.५४ ॥
तत्सर्वं चयनं कृत्वा ददर्श पुरतः सरः ।
सुनिर्मलं जलं स्वच्छं श्वेतपद्मं मनोहरम् ॥ १,३.५५ ॥
रुचिरं रक्तकह्लारं प्रस्फुटं च जलान्तिके ।
विहाय तानि सर्वाणि सरःशिरसि सुस्थले ॥ १,३.५६ ॥
पपौ सरःस्वच्छतोयं जहार पद्ममुल्वणम् ।
किंचित्सुरक्तकह्लारं पक्वं पद्मफलं तथा ॥ १,३.५७ ॥
सर्वमाहरणं कृत्वा पितरं गन्तुमुद्यतः ।
प्रफुल्लवदनः श्रीमान् सस्मितो द्विजबालकः ॥ १,३.५८ ॥
प्रफुल्लचम्पकतरुं ददर्श पुरतः शिशुः ।
मल्लिकामालतीकुन्दयूथिकामाधवीलताः ॥ १,३.५९ ॥
चकार चयनं स्फीतः पुष्पाणि सुन्दराणि च ।
पुष्पेण फलपत्रेण तस्य भारो बभूव ह ॥ १,३.६० ॥
बालो वोढुमशक्यन्तश्च ययौ गमनमन्थरः ।
न फलं बुभुजे सोऽपि धर्माधर्मभयेन च ॥ १,३.६१ ॥
पुरो ददर्श स शिशुर्घोरं व्याघ्रालयं भिया ।
तात तातेति शब्दं च चकार ह पुनः पुनः ॥ १,३.६२ ॥
न ददर्श च तातं च शार्दुलं च ददर्श सः ।
भिया सस्मार गोविन्दपादारवैन्दमीप्सितम् ॥ १,३.६३ ॥
हरिं नरहरिं रामं कृष्णं विष्णुं च माध्वम् ।
दामोदरं हृषीकेशं मुकुन्दं मधुसूदनम् ॥ १,३.६४ ॥
एतानि दश नामानि जपन् विप्रशिशुर्भिया ।
प्रययौ पुरतः शीघ्रं पुनरेव सरोवरम् ॥ १,३.६५ ॥
सरसो निर्मले तीरे पुष्पाणि च फलानि च ।
ददौ भक्त्या भगवते कृष्णाय परमात्मने ॥ १,३.६६ ॥
श्रीकृष्णपूजां कुर्वन्तं ध्यानमानां पदाम्बुजम् ।
निकटं न ययौ व्याघ्रो दृष्ट्वा बालं च दूरतः ॥ १,३.६७ ॥
व्याघ्रं ददर्श बालश्च प्रकटास्यं भयानकम् ।
विकृताकारदशनं विकटाक्षं महोदरम् ॥ १,३.६८ ॥
दृष्ट्वा च दुरतो व्याघ्रमुवास सरसस्तटे ।
दध्यौ कृष्णपदाम्भोजं जन्ममृत्युजराहरम् ॥ १,३.६९ ॥
मूलाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धं च तथाज्ञाख्यं षट्चक्रं च विभाव्य च ॥ १,३.७० ॥
कुण्डलिन्या स्वशक्त्या च सहितं परमेश्वरम् ।
सहस्रदलपद्मस्थं हृदये स्वात्मनः प्रभुम् ॥ १,३.७१ ॥
ददर्श द्विभुजं कृष्णं पीतकौशेयवाससम् ।
सस्मितं सुन्दरं शुद्धं नवीनजलदप्रभम् ॥ १,३.७२ ॥
कोटिकन्दर्पसौन्दर्यलीलाधाममनोहरम् ।
कोटिपार्वणपूर्णेन्दुप्रभाजुष्टं च सुन्दरम् ॥ १,३.७३ ॥
सुखदृश्यं सुरूपं च भक्तानुग्रहकारकम् ।
चन्दनोक्षितसर्वाङ्गं रत्नभूषणभूषितम् ॥ १,३.७४ ॥
प्रफुल्लपद्मनयनं राधावक्षःस्थलस्थितम् ।
मालतीमाल्यसम्बद्धचूडाचारुसुशोभनम् ॥ १,३.७५ ॥
धृतरत्नं रत्नपद्मं दक्षिणेन करेण च ।
वामेन मणिनिर्माणदीप्तदर्पणमुज्ज्वलम् ॥ १,३.७६ ॥
रत्नकुण्डालयुग्मेन गण्डस्थलविराजितम् ।
कौस्थुभेन मणीन्द्रेण चारुवक्षःस्थलोज्ज्वलम् ॥ १,३.७७।
मुक्ताराजिविनिन्दैकदन्तराजिविराजितम् ।
आजानुमालतीमालावनमालाविभूषितम् ॥ १,३.७८ ॥
वेदाननसरस्वत्या स्तुतं ब्रह्मेशवन्दितम् ।
पद्मापद्मालयामायासंसेवितपदाम्बुजम् ॥ १,३.७९ ॥
परिपूर्णतमं ब्रह्म परमात्मानमीश्वरम् ।
निर्लिप्तं साक्षिभूतं च भगवन्तं सनातनम् ॥ १,३.८० ॥
सर्वेशां सर्वरूपं च सर्वकारणकारणम् ।
पुरुषं परमात्मैकं परेशं प्रकृतेः परं ॥ १,३.८१ ॥
एवं भूतं विभुं दृष्ट्वा मनसा प्रणनाम तम् ।
तुष्टाव परया भक्त्या तमीशं सम्पुटाञ्जलिः ॥ १,३.८२ ॥

श्रीसुभद्र उवाच
हे नाथ दर्श्नं देहि मां भक्तं शरणागतम् ।
श्रीद श्रीश श्रीनिवास श्रीनिधे श्रीनिकेतन ॥ १,३.८३ ॥
श्रिया सेवितपादाब्ज श्रीसमुत्पत्तिकारण ।
वेदानिर्वचनियेश निरीह निर्गुणाधिप ॥ १,३.८४ ॥
सर्वाद्य सर्वनिलय सर्वबीज सनातन ।
शान्त सरस्वतीकान्त नितान्त सर्वकर्मसु ॥ १,३.८५ ॥
सर्वाधार निराधार कामपूर परात्पर ।
दुष्पारासारसंसारकर्णधार नमोऽस्तु ते ॥ १,३.८६ ॥

इत्येवमुक्त्वा स शिशु रुरोद च पुनः पुनः ।
ध्यायेन तत्पदाम्भोजं शरणं च चकार सः ॥ १,३.८७ ॥
इति विप्रकृतं स्तोत्रं त्रिसन्ध्यं यः पठेन्नरः ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ १,३.८८ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे ब्रह्मसनत्कुमारसंवादे श्रीकृष्णमहिमोपालम्भनं नाम तृतीयोऽध्यायः
प्रथमैकरात्रे चतुर्थोऽध्यायः
ब्रह्मोवाच
ब्राह्मणस्य स्तवं श्रुत्वा परितुष्टो जनार्दनः ।
कृपां चकार भगवान् भक्तेशो भक्तवत्सलः ॥ १,४.१ ॥
एतस्मिन्नन्तरे तत्र भगवान्नन्दनन्दनः ।
नारायणर्षिः कृपया चाजगाम सरोवरम् ॥ १,४.२ ॥
ददर्श ब्राह्मणवटुं तमेव मुनिपुङ्गवम् ।
तेजसा सुखदृश्येन सुन्दरं सुमनोहरम् ॥ १,४.३ ॥
पीतवस्त्रपरीधानं नवीनजलदप्रभम् ।
चन्दनोक्षितसर्वाङ्गं वनमालाविभूषितम् ॥ १,४.४ ॥
प्रसन्नवदनं शुद्धं सस्मितं सर्वपूजितम् ।
विभान्तं च जपन्तं शुद्धस्फटिकमालया ॥ १,४.५ ॥
दृष्ट्वा ननाम सहसा शिरसा विप्रपुङ्गवः ।
शुभाशिषं ददौ तस्मै दत्वा शिरसि हस्तकम् ॥ १,४.६ ॥
तमुवाच मुनिश्रेष्ठः कृपया दीनवत्सलः ।
हितं तथ्यं नीतिसारं परिणामसुखावहम् ॥ १,४.७ ॥

श्रीनारायणर्षिरुवाच
अये विप्र महाभाग सफलं जीवनं तव ।
यस्मिन् कुले च जातोऽसि तद्धन्यं सुप्रशंसितम् ॥ १,४.८ ॥
भज त्वं परमानन्दं सानन्दं नन्दनन्दनम् ।
ध्रुवं यास्यसि गोलोकं परमानन्दमीप्सितम् ॥ १,४.९ ॥
तत्कुलं पावनं धन्यं यशस्यं च निरापदम् ।
यस्मिन् स्वयं भवान् जातः पुण्यः कृष्णपरायणः ॥ १,४.१० ॥
नैवेद्यं पतितं मार्गे जीर्नं श्वापदभक्षितम् ।
भुक्त्वा तवैषा बुद्धिश्च कृष्णभक्तिर्बभूव च ॥ १,४.११ ॥
कृष्णनैवेद्यमाहात्म्यं को वत्स कथितुं क्षमः ।
यद्वक्तुं न हि शक्ताश्च वेदाश्चत्वार एव च ॥ १,४.१२ ॥
वरं वृणुष्व भद्रं ते सुभद्र द्विजपुङ्गव ।
सर्वं दातुमहं शक्तो यत्ते मनसि वाञ्च्छितम् ॥ १,४.१३ ॥

नारायणवचः श्रुत्वा तमुवाच शिषुः स्वयम् ।
पुनः कम्पितसर्वाङ्गः साश्रुनेत्रः पुटाञ्जलिः ॥ १,४.१४ ॥

सुभद्र उवाच
देहि मे कृष्णपादाब्जे दृढं भक्तिं सुदुर्लभम् ।
तद्दास्यं तत्पदे वासं जरामृत्युहरं परम् ॥ १,४.१५ ॥
अन्यं वरं न गृह्णामि न मे किंचित्प्रयोजनम् ।
नाहं वरार्थी कामी च रागी वेतनभुग्यथा ॥ १,४.१६ ॥

नारायणर्षिरुवाच
श्रीकृष्णो यस्य भक्तिश्च तस्यात्र किं सुदुर्लभम् ।
अणिमादिकद्वत्रिंशत्सिद्धिः करतले परा ॥ १,४.१७ ॥
निर्विकल्पो ददात्यस्य नैव गृह्णाति वैष्णवः ।
अनिमित्तां हरेर्भक्तिं भक्ता वाञ्च्छन्ति सन्ततम् ॥ १,४.१८ ॥
गृहाण मन्त्रं कृष्णस्य परं कल्पतरुं वरम् ।
भक्तिदं दास्यदं शुद्धं कर्ममूलनिकृन्तनम् ॥ १,४.१९ ॥
लक्ष्मीर्मायाकामबीजं ङेऽन्तं कृष्णपदं तथा ।
वह्निजायान्तमन्त्रं च मन्त्रराजं मनोहरम् ॥ १,४.२० ॥

इत्येवमुक्त्वा तत्कर्णे कथयामास दक्षिणे ।
वारत्रयं मुनिश्रेष्ठः शुद्धभावेन पुत्रक ॥ १,४.२१ ॥
येन स्तोत्रेण तुष्टाव सुभद्रः परमेश्वरम् ।
आज्ञां चकार स ऋषिस्तदेव पठितुं मुदा ॥ १,४.२२ ॥
कवचं च ददौ तस्मै जगन्मङ्गलमङ्गलम् ।
ध्यानं च सामवेदोक्तं सर्वपूजाविधिक्रमम् ॥ १,४.२३ ॥
हरेर्दास्यं च तद्भक्तिर्गोलोकवासमीप्सितम् ।
जन्मद्वयान्तरे चैव कर्मभोगक्षये सति ॥ १,४.२४ ॥

सुभद्र उवाच
सत्यं कुरु महाभाग वरं मे यदि दास्यसि ।
वरं वृणोमि तत्पश्चात्यन्मे मनसि वाञ्च्छितम् ॥ १,४.२५ ॥

नारायणर्षिरुवाच
ओं सत्यं वत्स दास्यामि वरं वृणु यथेप्सितम् ।
ममाशक्यं नास्ति किंचित्दाताहं सर्वसम्पदाम् ॥ १,४.२६ ॥

सुभद्र उवाच
कण्ठे ते किं च कवचं कस्य वा सर्वपूजितम् ।
अमूल्यरत्नगुटिकायुक्तं च सुमनोहरम् ॥ १,४.२७ ॥
कवचं देहि मे देव स्वसत्यरक्षणं कुरु ।

विप्रस्य वचनं श्रुत्वा शुष्ककण्ठौष्ठातालुकः ॥ १,४.२८ ॥
वक्तुं न शक्तस्तद्वाक्यं दध्यौ कृष्णपदाम्बुजम् ।
प्रददौ गुटिकां तस्मै नोवाच कवचं मुनिः ॥ १,४.२९ ॥
तमुवाच महर्षिश्च वितुष्टश्चोन्मनाः सुत ।
वत्स क्रोधो हि देवस्य वरं तुल्यं च वाञ्च्छितम् ॥ १,४.३० ॥

नारायणर्षिरुवाच
त्रिंषत्सहस्रवर्षं च भुङ्क्ष्व राज्यं सुदुर्लभम् ।
लभस्व दुर्लभां लक्ष्मीं मायया मोहितो भव ॥ १,४.३१ ॥
मद्इष्टदेवकवचं गृहीतं येन हेतुना ।
सप्तकल्पान्तजीवस्य परत्र च भविष्यति ॥ १,४.३२ ॥
सुचिरेणैव कालेन गोलोकं च प्रायस्यसि ।
परे मृकण्डुपुत्रस्त्वं मार्कण्डेयो भविष्यसि ॥ १,४.३३ ॥
मया दत्तं च कवचं त्वां च रक्षति पुत्रक ।
तव कण्ठे स्थितिश्चाश्य प्रति जन्मनि जन्मनि ॥ १,४.३४ ॥

पुनश्च गुटिकायुक्तं कृत्वा च कवचं मुनिः ।
गले दधार भक्त्या च तद्भक्तो धर्मनन्दनः ॥ १,४.३५ ॥
वरं दत्वा च स मुनिर्ययौ गेहं स उन्मनाः ।
विप्राय कवचं दत्वा नष्टवत्सा गौर्यथा ॥ १,४.३६ ॥
भ्रात्रा नरेण पित्रा च धर्मेण च महात्मना ।
मात्रा मूर्त्या च पत्न्या च शान्त्या च भर्त्सितो मुनिः ॥ १,४.३७ ॥
विप्रः सम्प्राप्य कवचं मन्त्रं कल्पतरुं परम् ।
सरोवरात्समुत्थाय प्रज्वलन् ब्रह्मतेजसा ॥ १,४.३८ ॥
क्षणं तस्थौ सरस्तीरे वटमूले मनोहरे ।
जजाप परमं मन्त्रं सम्पूज्य जगद्ईश्वरम् ॥ १,४.३९ ॥
अथ तत्तातविप्रो हि समन्विष्य सुतं चिरम् ।
गत्वा च स्वगृहं दुःखी शोकार्तः स रुरोद च ॥ १,४.४० ॥
समुद्यता तनुं त्यक्तुं तन्माता पुत्रवार्तया ।
न तत्याज तनुं विप्रो दृष्ट्वा सुस्वप्नमुत्तमम् ॥ १,४.४१ ॥
विप्रो विप्रा गृहं त्यक्त्वा पुत्रान्वेषणपूर्वकम् ।
प्रययौ काननं घोरं सर्वैश्च बान्धवैः सहः ॥ १,४.४२ ॥
सर्वं वनं समन्विष्य प्रययुस्ते सरोवरम् ।
ददृशुस्ते शिशुं गृह्यं सूर्याभं वटमूलके ॥ १,४.४३ ॥
चुचुम्ब गण्डं पुत्रस्य विप्रो विप्रा च सारदम् ।
आशिश्लेष क्रमेणैव माता तातः पुनः पुनः ॥ १,४.४४ ॥
पुत्रश्च सर्ववृत्तान्तं कथयामास सादरम् ।
श्रुत्वा पुत्रस्य विप्रश्च विप्रा बान्धवस्तथा ॥ १,४. ४५ ॥
ययुः सर्वे स्वदेशं च परमाह्लादमानसाः ।
चन्द्रभागां समुत्तीर्य विवेश नगरं परम् ॥ १,४.४६ ॥
नगरस्थो नृपेन्द्रश्च दृष्ट्वा तेजस्विनं शिशुम् ।
ददौ तस्मै स्वकन्यां च रत्नालङ्कारभूषितम् ॥ १,४.४७ ॥
युवतीं सुन्दरीं श्यामां तप्तकञ्चनसंनिभाम् ।
पतिव्रतां महाभागां सुन्दरीं कमलाकलां ॥ १,४.४८ ॥
गजेन्द्राणां सहस्रं च प्रददौ यौतुकं मुदा ।
अश्वानां दशलक्षं च रत्नानां च सहस्रकम् ॥ १,४.४९ ॥
दासीनां निष्ककण्ठीनां सौन्दरीणां सहस्रकम् ।
वस्त्ररत्नसहस्रं च बहुमूल्यं सुदुर्लभम् ॥ १,४.५० ॥
दासानां च सहस्रं च पदातीनां त्रिलक्षकम् ।
दशलक्षं सुवर्णं च रत्नमालां सुदुर्लभाम् ॥ १,४.५१ ॥
दत्वा तस्मै च कन्यां च रुरोद च सभार्यकः ।
राजा च कन्यया सार्धं प्रययौ विप्रमन्दिरम् ॥ १,४.५२ ॥
गत्वा चापि कियद्दूरं ददर्श नगरं नृपः ।
अतीव सुन्दरं रम्यं विजित्य चामरावतीम् ॥ १,४.५३ ॥
शुद्धस्फटिकसंकाशं रत्नसारविनिर्मितम् ।
त्रिकोटिचट्टालिकागेहं नवकोटिसुमन्दिरम् ॥ १,४.५४ ॥
सप्तप्राकारयुक्तं च परिखात्रयसम्युक्तम् ।
दुर्लङ्घ्यमतिदुर्गम्यं रिपूणामपि पुत्रक ॥ १,४.५५ ॥
शिशोश्च स्वाश्रमं रम्यं सद्रत्नसारनिर्मितम् ।
स्फुरत्वज्रकपाटं च रत्नेन्द्रकलशान्वितम् ॥ १,४.५६ ॥
सद्रत्नदर्पणाइर्दीपं रत्नकुम्भैर्विराजितम् ।
प्राङ्गणं रत्नसाराढ्यं रत्नसोपानशोभितम् ॥ १,४.५७ ॥
मनोहरं राजमार्गं सिन्दूरादिपरिष्कृतम् ।
प्राकारं मणिभूषाढ्यमुच्चैराकाशस्पर्शि च ॥ १,४.५८ ॥
जगाम विस्मयं राजा दृष्ट्वा नगरमुत्तमम् ।
पित्रा मात्रा सह शिशुर्विस्मयं च ययौ मुदा ॥ १,४.५९ ॥
गजेन्द्राणां त्रिलक्षं च श्वानां शतलक्षकम् ।
चतुर्गुणं पदातीनामाययुस्तेऽप्यनुव्रजम् ॥ १,४.६० ॥
वारणेन्द्रं पुरस्कृत्य वेश्यां च नर्तकं तथा ।
द्विजांश्च पूर्णकुम्भांश्च पतिपुत्रवतीं सतीं ॥ १,४.६१ ॥
महापात्रः शिशुं दृष्ट्वा गजेन्द्रोपरिसंस्थितम् ।
मूर्ध्ना ननाम वेगेनाप्यवरुह्य गजादपि ॥ १,४.६२ ॥
शिशुं प्रवेशयामास रत्ननिर्माणमन्दिरम् ।
रत्नसिंहासनं तस्मै प्रददौ सादरं मुदा ॥ १,४.६३ ॥
कन्यादात्रे च पित्रे च मात्रे च सादरं मुदा ।
रत्नसिंःासनं रम्यं प्रददौ पात्र एव च ॥ १,४.६४ ॥
शिशुं सिषेव पात्रश्च स्वयं च श्वेतचामरैः ।
दधार रत्नछत्रं च हीराहारपरिष्कृतम् ॥ १,४.६५ ॥
उवास स सभार्यां च सुधर्म्यां महेन्द्रवत् ।
श्वसुरश्च ययौ गेहं शिशुना च पुरस्कृतः ॥ १,४.६६ ॥
त्रिंशत्सहस्रवर्षं च राजा राज्यं चकार सः ।
कालान्तरे तत्पिता च वने व्याघ्रेण भक्षितः ॥ १,४.६७ ॥
पतिव्रता महाभागा माता सहमृता सुत ।
रत्नयानेन रम्येण सस्त्रीकः कृष्णमन्दिरम् ॥ १,४.६८ ॥
प्रययौ सादरं विप्रः कृष्णनैवेद्यभक्षणात् ।
तद्अस्थि भुक्त्वा व्याघ्रश्च पूतः सद्यश्च सांप्रतम् ॥ १,४.६९ ॥
ताभ्यां सार्धं च प्रययौ गोलोकं सुमनोहरम् ।
शिशुर्देहं परित्यज्य हिमाद्रौ स्वर्णदीतटे ॥ १,४.७० ॥
दत्वा पुत्राय राज्यं च स्वर्गादपि सुदुर्लभम् ।
मृकण्डुपत्नीगर्भे च लेभे जन्म स्वकर्मणा ॥ १,४.७१ ॥
मार्कण्डेयो मुनिश्रेष्ठो बभूव परजन्मनि ।
सप्तकल्पान्तजीवी च नारायणवरेण सः ॥ १,४.७२ ॥
बभूव सांप्रतं विप्रः कृष्णनैवेद्यभक्षणात् ।
श्वभक्षितं च नैवेद्यं भुक्त्वा चेदीदृशी गतिः ।

अकामतश्चाप्यज्ञातो जीर्णमार्गस्थितं सुत ॥ १,४.७३ ॥
यो भक्षेत्कामतो ज्ञातो नित्यं नैवेद्यमीप्सितम् ।
न जानन्ति गतिस्तस्य वेदाश्चत्वार एव च ॥ १,४.७४ ॥
इति ते कथितं ब्रह्मन्नितिहासं पुरातनम् ।
आश्चर्यं मधुरं रम्यं किं भूयः श्रोतुमिच्छसि ॥ १,४.७५ ॥

श्रीनारद उवाच
श्रुतं नैवेद्यमाहात्म्यमतीव सुमनोहरम् ।
ईश्वरस्यापि हे तात कृष्णस्य परमात्मनः ॥ १,४.७६ ॥
अधुना श्रोतुमिच्छामि स्वात्मसन्देहभञ्जनम् ।
नारायणर्षेर्कण्ठे च कवचं तस्य तद्वद ॥ १,४.७७ ॥

अथ कवचप्रश्नः

सनत्कुमार उवाच
ममाप्यस्तीति सन्देहो वचने प्रपितामह ।
कस्य तत्कवचं ब्रह्मन्निदं वक्तुं त्वमर्हसि ॥ १,४.७८ ॥
स पिता स गुरुः स्वच्छः करोति भ्रमभञ्जनम् ।
शीघ्रं ब्रूहि महाभाग नारदं मां सुतप्रिय ॥ १,४.७९ ॥

पुत्रयोश्च वचः श्रुत्वा शुष्ककण्ठौष्ठतालुकः ।
उवाच वचनं ब्रह्मा स्मरन् कृष्णपदाम्बुजम् ॥ १,४.८० ॥

ब्रह्मोवाच
नारायणेन मुनिना जगन्मङ्गलमङ्गलम् ।
विप्राय कवचं दत्तं ध्यानं च पर्मात्मनः ॥ १,४.८१ ॥
तद्ब्रवीमि महाभाग त्वामेव नारदं प्रति ।
कण्ठस्थं कवचं वक्तुं नैव शक्नोमि सांप्रतम् ॥ १,४.८२ ॥
मत्कण्ठे कवचं यस्य गोपनीयं सुदुर्लभम् ।
नारायणर्षिकण्ठे च तदेव परमाद्भुतम् ॥ १,४.८३ ॥
तदेव धर्मकण्ठे च नरस्य च महात्मनः ।
अगस्त्यस्य च कण्ठे च लोमशस्य महामुनेः ॥ १,४.८४ ॥
तुलस्याश्चापि संज्ञायाः सावित्र्याश्चापि पुत्रक ।
अन्येषां च भाग्यवतां भारते च सुदुर्लभे ॥ १,४.८५ ॥

नारद उवाच
पश्चात्श्रोष्यामि कवचं जगन्मङ्गलमङ्गलम् ।
ध्यानं पूजां विधानं च कृष्णस्य परमात्मनः ॥ १,४.८६ ॥
आदौ कथय भद्रं ते परं परमभद्रकम् ।
सुभद्रप्राप्तं कवचं माहात्म्यं यस्य दुर्लभम् ॥ १,४.८७ ॥

ब्रह्मोवाच
सुभद्रप्राप्तं कवचं पश्चात्श्रोष्यसि पुत्रक ।
शङ्करस्य मुखाद्विप्र स्वगुरोर्ज्ञानिनस्तथा ॥ १,४.८८ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे ब्रह्मानारदसंवादे
प्रथमैकरात्रे कवचप्रश्नो नाम चतुर्थोऽध्यायः
प्रथमैकरात्रे पञ्चमोऽध्यायः
श्रीसनत्कुमार उवाच
तवेच्छा यत्र कवचे ध्याने तद्वद साम्प्रतम् ।
यच्छृणोमि शुभं तच्च केन श्रेयसि तृप्यते ॥ १,५.१ ॥

ब्रमोवाच
ध्यानं सामवेदोक्तं दत्तं नारायणेन वै ।
कवचं च सुभद्राय धर्मिष्ठाय महात्मने ॥ १,५.२ ॥
नवीनजलदश्यामं पीतकौशेयवाससम् ।
चन्दनोक्षितसर्वाङ्गं सस्मितं श्यामसुन्दरम् ॥ १,५.३ ॥
मालतीमाल्यभूषाढ्यं रत्नभूषणभूषितम् ।
मुनीन्द्रेशसुसिद्धेशब्रह्मेशशेषवन्दितम् ॥ १,५.४ ॥
सर्वस्वरूपं सर्वेशं सर्वबीजं सनातनम् ।
सर्वाद्यं सर्वज्ञं पुरुषं प्रकृतेः परम् ॥ १,५.५ ॥
निर्गुणं च निरीहं च निर्लिप्तमीस्वरं भजे ।
ध्यात्वा मूलेन तस्मै च दद्यात्पाद्यादिकं मुदा ॥ १,५.६ ॥
ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन्नरः ।
जप्त्वा च मन्त्रं भक्त्या दण्डवत्प्रणमेद्भुवि ।
इति ते कथितं वत्स किं भूयः श्रोतुमिच्छसि ॥ १,५.७ ॥

श्रीसनत्कुमार उवाच
ब्रूहि मे कवचं ब्रह्मन् जगन्मङ्गलमङ्गलम् ।
पूज्यं पुण्यस्वरूपं च कृष्णस्य परमात्मनः ॥ १,५.८ ॥

अथ जगन्मङ्गलमङ्गलकवचम्

ब्रह्मोवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं ।
श्रीकृष्णेनैव कथितं मह्यं च कृपया परा ॥ १,५.९ ॥
मया दत्तं च धर्माय तेन नारायणर्षये ।
ऋषिणा तेन तद्दत्तं सुभद्राय महात्मने ॥ १,५.१० ॥
अतिगुह्यतमं शुद्धं परं स्नेहाद्वदाम्यहम् ।
यद्धृत्वा पठनात्सिद्धाः सिद्धानि प्राप्नुवन्ति च ॥ १,५.११ ॥
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमाप्नुयुः ।
ऋषिश्छन्दश्च सावित्री देवो नारायणः स्वयम् ॥ १,५.१२ ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
राधेशो मे शिरः पातु कण्ठं रधेश्वरः ॥ १,५.१३ ॥
गोपीशश्चक्षुषी पातु तालु च भगवान् स्वयम् ।
गण्डयुग्मं च गोविन्दः कर्णयुग्मं च केशवः ॥ १,५.१४ ॥
गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः ।
वक्षस्थलं वासुदेवश्चोदरं चापि सोऽच्युतः ॥ १,५.१५ ॥
नभिं पातु पद्मनाभः कङ्कालं कंससूदनः ।
पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम् ॥ १,५.१६ ॥
पुण्डरीकः पादयुग्मं हस्तयुग्मं हरिः स्वयम् ।
नासां च नखरं पातु नरसिंहः स्वयं प्रभुः ॥ १,५.१७ ॥
सर्वेश्वरश्च सर्वाङ्गं सन्ततं मधुसूदनः ।
प्राच्यां पातु च रामश्च वह्नौ च वंशीधरः स्वयम् ॥ १,५.१८ ॥
पातु दामोदरो दक्षे नैरृते च नरोत्त्मः ।
पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम् ॥ १,५.१९ ॥
अनन्तश्चोत्तरे पातु ऐशान्यामीश्वरः स्वयम् ।
जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा ॥ १,५.२० ॥
पातु वृन्दावनेशश्च मां भक्तं शरणागतम् ।
इति ते कथितं वत्स कवचं परमाद्भुतम् ॥ १,५.२१ ॥
सुखदं मोक्षदं सारं सर्वसिद्धिप्रदं सताम् ।
इदं कवचमिष्टं च पूजाकाले च यः पठेत् ॥ १,५.२२ ॥
हरिदास्यमवाप्नोति गोलोके वासमुत्तमम् ।
इहैव हरिभक्तिं च जीवन्मुक्तो भवेन्नरः ॥ १,५.२३ ॥

नारद उवाच
नारायणर्षिणा दत्तं कवचं यत्सुदुर्लभम् ।
सुभद्राय ब्राह्मणाय तन्मे वक्तुमिहार्हसि ॥ १,५.२४ ॥

ब्रह्मोवाच
मद्इष्टदेव्याः कवचं कथं तत्कथयामि ते ।
मत्कण्ठे पश्य कवचं सद्रत्नगुटिकान्वितम् ॥ १,५.२५ ॥
नारायणर्षिणा दत्तं कवचं गुटिकान्वितम् ।
तथापीदं न कथितं निषिद्धं हरिणा स्मृतम् ॥ १,५.२६ ॥
तस्यर्षेश्चेष्टदेव्याश्च नोक्तं तेनेदमीप्सितम् ।
मह्यं न दत्ता गुटिका बान्धवैर्भर्त्सितेन च ॥ १,५.२७ ॥
आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति ।
प्राणा नष्टाश्च दानेन चेति वेदविदो विदुः ॥ १,५.२८ ॥
शङ्करं गच्छ भगवन् जन्मान्तरगुरुं तव ।
स एव तुभ्यं कवचं दास्यस्येव न संशयः ॥ १,५.२९ ॥
त्वत्प्राक्तनेन विप्रेन्द्र सत्वरेण शुभेन च ।
ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत्सुदुर्लभम् ॥ १,५.३० ॥
कुमार गच्छ वैकुण्ठं स्वगुरुं पश्य सत्वरम् ।
नारायणश्च कवचं तुभ्यं दास्यसि निश्चितम् ॥ १,५.३१ ॥
सनत्कुमारो भगवान् गत्वा वैकुण्ठमीप्सितम् ।
संप्राप्य कवचं वत्स कवचं तत्सुदुर्लभम् ॥ १,५.३२ ॥

आज्ञया ब्रह्मणश्चापि नारदो गन्तुमुद्यतः ।
ब्रह्मा ययौ ब्रह्मलोकं जन्ममृत्युजरापहम् ॥ १,५.३३ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे पञ्चमोऽध्यायः
प्रथमैकरात्रे षष्ठोऽध्यायः
श्रीशुक उवाच
सनत्कुमारो वैकुण्ठं ब्रह्मलोकं च ब्रह्मणि ?wहत्?।
गते ब्रह्मन् किं चकार भगवान्नारदो मुनिः ॥ १,६.१ ॥

व्यासो उवाच
मुनिस्तयोश्च गतयोः स रुरोद सरित्तटे ।
इतस्ततश्च बभ्राम मद्वियोगशुचास्पद ॥ १,६.२ ॥
स्वमानसे समालोक्य मुनिश्रेष्ठः स उन्मनाः ।
ध्यायमानो हरिपदं शिवं द्रष्टुं समुत्सुकः ॥ १,६.३ ॥
प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा ।
जगाम तपसस्थानात्कैलासाभिमुखे मुनिः ॥ १,६.४ ॥
स्नात्वा च कृतमालायां संपूज्य परमेश्वरम् ।
भुक्त्वा फलं जलं पीत्वा प्रययौ गन्धमादनम् ॥ १,६.५ ॥
ददर्श ब्राह्मणं तत्र वटमूले मनोहरे ।
कटमस्तं ध्यायमानं श्रीकृष्णचरणाम्बुजम् ॥ १,६.६ ॥
दीर्गं नग्नं गौराङ्गं दीर्घलोमभिरावृतम् ।
निमीलिताक्षं सानन्दं सानन्दाश्रुसमन्वितम् ॥ १,६.७ ॥
पाद्मे पद्मेशशेषादिसुरपूजितवन्दिते ।
श्रीपादपद्मे शोभाढ्ये शश्वत्संन्यस्तमानसम् ॥ १,६.८ ॥
बाह्यज्ञानपरित्यक्तं योगज्ञानविशारदम् ।
शिवस्य शिष्यं सद्भक्तं योगीन्द्राणां गुरोर्गुरोः ॥ १,६.९ ॥
हृत्पद्मे पद्मनाभं च परमात्मानमीश्वरम् ।
प्रदीपकलिकाकारं ब्रह्मज्योतिःसनातनम् ॥ १,६.१० ॥
साक्षिस्वरूपं परमं भगवन्तमधोक्षजम् ।
पश्यन्तं सस्मितं कृष्णं पुलकाङ्कितविग्रहम् ॥ १,६.११ ॥
सद्भावोद्रिक्तचित्तं च सद्भावं पुरुषोत्तमे ।
दृष्ट्वा महर्षिप्रवरं देवर्षिविस्मयं ययौ ॥ १,६.१२ ॥
इतस्ततश्च बभ्राम ददर्श स्वाश्रमं मुनेः ।
अतीव सुरहःस्थानं रम्यं रम्यं नवं नवम् ॥ १,६.१३ ॥
सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरम् ।
श्वेतरक्तोत्पलदलैः कमलैः कमनीयकम् ॥ १,६.१४ ॥
गुञ्जदिन्दिन्दवरैर्?wहत्? मकरन्दोदरैस्तथा ।
व्याकुलैः संकुलैः शश्वद्राजितैश्च विराजितम् ॥ १,६.१५ ॥
वन्यैर्वृक्षैर्बहुविधैः फलशाखासुशोभितैः ।
करञ्जकैश्च करजैर्बिम्बैः शाखोटिकैस्तथा ॥ १,६.१६ ॥
तिन्तिडीभिः कपित्थैश्च वटशिंशपाचन्दनैः ।
मन्दारैः सिन्धुवारैश्च ताडिपत्रैः सुशोभनैः ॥ १,६.१७ ॥
गुवाकैर्नारिकेतैश्च खर्जुरैः पनसैस्तथा ।
तालैः शालैः पियालैश्च हिन्तालैर्वकुलैरपि ॥ १,६.१८ ॥
आम्रैराम्रातकैश्चैव जम्बीरैर्दाडिमैस्तथा ।
श्रीफलैर्वदरीभिश्च जम्बुभिर्नागरङ्गकैः ॥ १,६.१९ ॥
सुपक्वफलशोभाड्यैः सुस्निग्धैः सुमनोहरैः ।
तरुणैस्तरुराजैस्च नानाजातिभिरीप्सितम् ॥ १,६.२० ॥
मल्लिकामालतीकुन्दकेतकीकुसुमैः शुभैः ।
माधवीनां लताजालैश्चर्चितं चारुचम्पकैः ॥ १,६.२१ ॥
कदम्बानां कदम्बैश्च स्वच्छैः श्वेतैश्च पुष्पितैः ।
नागेश्वराणां वृन्दैश्च दीप्तं मन्दारकैर्वरैः ॥ १,६.२२ ॥
हंसकारण्डवकुलैः पुंस्कोकिलकुलैस्तथा ।
सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरम् ॥ १,६.२३ ॥
शार्दूलैः शरभैः सिंहैर्गण्डकैर्महिषैः परम् ।
मनोहरैः कृष्णसारैश्चमरभिर्भावभूषितम् ॥ १,६.२४ ॥
महामुनिप्रभावेन हिंसादोषविवर्जितम् ।
दस्युचौरहिंस्रजन्तुभयशोकविवर्जितम् ॥ १,६.२५ ॥
सुपुण्यदं तीर्थवरं भारते सुप्रशंसितम् ।
सिद्धस्थलं सिद्धिदं तं मन्त्रसिद्धिकरं परं ॥ १,६.२६ ॥
दृष्ट्वाश्रमं मुनिश्रेष्ठो जगाम मुनिसंसदि ।
आसने च समासीनं ध्यानहीनं ददर्श तम् ॥ १,६.२७ ॥
समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षिपुङ्गवम् ।
दत्वामलं फलं मूलं संभाषां स चकार ह ॥ १,६.२८ ॥
प्रश्नं चकार स मुनिवीणापाणिं नारदम् ।
सस्मितः सस्मितं शुद्धं शुद्धवंशसमुद्भवम् ॥ १,६.२९ ॥
सद्भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्मतेजसा ।
अतिथिं ब्राह्मणवरं ब्रह्मपुत्रं च पूजितं ॥ १,६.३० ॥

मुनिरुवाच
किं नाम भवतो विप्र क्व यासीति क्व चागतः ।
क्व ते पिता स को वापि क्व वासः कुत्र संभवः ॥ १,६.३१ ॥
मां वा ममाश्रमं वापि पूतं कर्तुमिहागतः ।
मूर्तिमद्ब्रह्मतेजो हि मम भाग्यादुपस्थितः ॥ १,६.३२ ॥

अथ वैष्णवदर्शनफलम्

न ह्यम्मयानि तीर्थानि न देवा मृच्छितामयाः ।
ते पुनन्त्युरुकालेन वैष्णवो दर्शनेन च ॥ १,६.३३ ॥
सद्यः पूतानि तीर्थानि सद्यः पूता ससागरा ।
सशैलकाननद्वीपा पादस्पर्शाद्वसुन्धरा ॥ १,६.३४ ॥
धन्योऽहं कृतकृत्योऽहं सफलं मम जीवनम् ।
सहसोपस्थितो गेहे ब्राह्मणो वैष्णवोऽतिथिः ॥ १,६.३५ ॥
पूजितो वैष्णवो येन विश्वं च तेन पूजितम् ।
आश्रमं वस्तुसहितं सर्वं तुभ्यं निवेदितम् ॥ १,६.३६ ॥
फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम् ।
सुवासितं पिब स्वादु शीतलं निर्मलं जलम् ॥ १,६.३७ ॥
दुग्धं च सुरभीदत्तं रम्यं मधुरितं मधु ।
परिपक्वं फलरसं पिब स्वादु मुहुर्मुहुः ॥ १,६.३८ ॥
सुखबीज्ये सुतल्पे च शयनं कुरु सुन्दरे ।
सुशीतवातसौगन्ध्यपूतेन सुरभीकृते ॥ १,६.३९ ॥

अथातिथिपूजनफलम्

अतिथिर्यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम् ।
हरौ तुष्टे गुरुस्तुष्टो गुरौ तुष्टे जगत्त्रयम् ॥ १,६.४० ॥
अधिष्ठातातिथिर्गेहे सन्ततं सर्वदेवताः ।
तीर्थान्येतानि सर्वाणि पुण्यानि च व्रतानि च ॥ १,६.४१ ॥
तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च ।
अपूजितैरतिथिभिर्सार्धं सर्वे प्रयान्ति ते ॥ १,६.४२ ॥

अथातिथिविमुखे दोषाः
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।
पितरस्तस्य देवाश्च पुण्यं धर्मव्रताशनाः ॥ १,६.४३ ॥
यमः प्रतिष्ठा लक्ष्मीश्चाभीष्टदेवो गुरुस्तथा ।
निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषम् ॥ १,६.४४ ॥
स्त्रीघ्नैश्चैव कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः ।
विश्वासघातिभिर्दुष्टैर्मित्रद्रोहिभिरेव च ॥ १,६.४५ ॥
सत्यघ्नैश्च कृतघ्नैश्च पापिभिः स्थापिभिस्तथा ।
दानापहारिभिश्चैव कन्याविक्रियिभिस्तथा ॥ १,६.४६ ॥
सीमापहारिभिश्चैव मिथ्यासाक्षिप्रदातृभिः ।
ब्रह्मस्वहारिभिश्चैव तथा स्थाप्यस्वहारिभिः ॥ १,६.४७ ॥
वृषवाहैर्देवलैश्च तथैव ग्रामयाजिभिः ।
शूद्रान्नभोजिभिश्चैव शूद्रश्राद्धाहभोजिभिः ॥ १,६.४८ ॥
श्रीकृष्णविमुखैर्विप्रैर्हिंस्रैर्नरविघातिभिः ।
गुरावभक्तै रोगार्तैः शश्वन्मिथ्याप्रवादिभिः ॥ १,६.४९ ॥
विप्रस्त्रीगामिभिः शूद्रैर्मातृगामिभिरेव च ।
अश्वत्थघातिभिश्चैव पत्नीभिः पतिघातिभिः ॥ १,६.५० ॥
पितृमातृघातिभिश्च शरणागतघातिभिः ।
ब्राह्मणक्षत्रविट्शूद्रैः शिलास्वर्णापहारिभिः ॥ १,६.५१ ॥
तुल्यो भवति विप्रेन्द्रातिथिरेव त्वनर्चितः ।

इत्य एवमुक्त्वा मुनिः पूजयामास नारदम् ।
मिष्टं च भोजयामास शाययामास भक्तितः ॥ १,६.५२ ॥

श्रीनारद उवाच
नारदोऽहं मुनिश्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः ।
तपःस्थलादागतोऽहं यामि कैलासमीप्सितम् ॥ १,६.५३ ॥
आत्मानं पावनं कर्तुं त्वां च द्रष्टुमिहागतः ।
पुनन्ति प्राणिनः सर्वे विष्णुभक्तप्रदर्शनात् ॥ १,६.५४ ॥
को भवान् ध्यानपूतश्च नग्नश्च कटमस्तकः ।
किं ध्यायसे महाभाग श्रेष्ठदेवश्च को गुरुह् ॥ १,६.५५ ॥

मुनिरुवाच
जीवमुक्तो भवानेव पुनासि भुवनत्रयम् ।
यस्य तत्र कुले जन्म तस्य तत्तद्वचोमनः ॥ १,६.५६ ॥
पुत्रे यशसि तोये च कवित्वेन च विद्यया ।
प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणाम् ॥ १,६.५७ ॥
विधाता जगतां ब्रह्मा ब्रह्मैकतानमानसः ।
तत्पुत्रोऽसि महाख्यातो देवर्षिप्रवरो महान् ॥ १,६.५८ ॥
लोमशोऽ हं महाभाग जगत्पावनपावन ।
नग्नोऽल्पायुर्विवेकी च वाससा किं प्रयोजनम् ॥ १,६.५९ ॥
वृक्षमूले निवासे मे छत्रेण किं गृहेण च ।
रौद्रवृष्टिवारणार्थं सांप्रतं कटमस्तकः ॥ १,६.६० ॥
जलबुद्बुदविद्युद्वत्त्रैलोक्यं कृत्रिमं द्विज ।
ब्रह्मादितृणपर्यन्तं सर्वं मिथ्याइव स्वप्नवत् ॥ १,६.६१ ॥
किं कलत्रेण पुत्रेण धनेन संपदा श्रिया ।
किं वित्तेन च रूपेण जीवनाल्पायुषा मुने ॥ १,६.६२ ॥
इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम ।
मनोश्च पतनं तत्र मायया किं प्रयोजनम् ॥ १,६.६३ ॥
सर्वलोमकोत्पाटनेन केशौघोत्पाटनेन च ।
अल्पायुषो मम मुने मरणं निश्चितं भवेत् ॥ १,६.६४ ॥
ध्याये श्रीपादपद्मं तत्पाद्मपद्मेशवन्दितम् ।
परस्य प्रकृतेस्तस्य कृष्णस्य परमात्मनः ॥ १,६.६५ ॥
तस्य मेऽभीष्टदेवस्य सर्वेषां कारणस्य च ।
गुरुर्मे जगतां नाथो योगीन्द्राणां गुरुः शिवः ॥ १,६.६६ ॥
मत्कण्ठे कवचं यस्य मद्गुरुः कथयिष्यति ।
गुरोर्निषेधो यत्रास्ते तद्वक्तुं कः क्षमो भुवि ॥ १,६.६७ ॥
गुरोश्च वचनं यो हि पालनं न करोति च ।
गुरूक्तमुक्त्वा पापी स ब्रह्महत्यां लभेद्ध्रुवम् ॥ १,६.६८ ॥
स्वगुरुं शिवरूपं च तद्भिन्नं मन्यते हि यः ।
ब्रह्महत्यां लभेत्सोऽपि विघ्नस्तस्य पदे पदे ॥ १,६.६९ ॥
अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर्वचः ।
अपालने सर्वविघ्नं लभते नात्र संशयः ॥ १,६.७० ॥
आशिषा पादरजसा चोच्छिष्टालिङ्गेन च ।
मुच्यते सर्वपापेभ्यो जीवन्मुक्तो भवेन्नरः ॥ १,६.७१ ॥
स्वगुरुं शङ्करं पश्य गच्छ कैलासमीप्सितम् ।
मुच्यते विघ्नपापेभ्यो गुरोश्चरणदर्शनात् ॥ १,६.७२ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथ्मैकरात्रे
लोमशनारदसंवादे षष्ठोऽध्यायः
प्रथमैकरात्रे सप्तमोऽध्यायः
संभाष्य लोमशं तस्माज्जगाम नारदो मुनिः ।
पुष्पभद्रानदीतीरमतीव सुमनोहरम् ॥ १,७.१ ॥
यत्रास्ते शृङ्गकूटश्च शुद्धस्फटिकसन्निभिः ।
नानावृक्षसमायुक्तैस्त्रिभिरन्यैः सरोवरैः ॥ १,७.२ ॥
हंसकारण्डवाकीर्णैर्भ्रमरैर्ध्वनिसुन्दरैः ।
पुंस्कोकिलनिनादैश्च सन्ततं सुमनोहरैः ॥ १,७.३ ॥
शैत्यसौगन्ध्यमान्ध्यैश्च वायुभिः सुरभीकृतैः ।
समाधियुक्तो यत्रास्ते मार्कण्डेयो महामुनिः ॥ १,७.४ ॥
स मुनिर्नारदं दृष्ट्वा भक्त्या च प्रणनाम च ।
पप्रच्छ कुशलं शान्तं शान्तः सत्त्वगुणाश्रयः ॥ १,७.५ ॥

मार्कण्डेयो उवाच
अद्य मे सफलं जन्म जीवनं चातिसार्थकम् ।
ममाश्रमे पुण्यराशिर्ब्रह्मपुत्रश्च नारदः ॥ १,७.६ ॥
अहो देवर्षिप्रवरो दीप्तमान् ब्रह्मतेजसा ।
क्व यासि कुत आयासि किं ते मनसि वर्तते ॥ १,७.७ ॥
मानसं प्राणिनामेव सर्वकर्मैककारणम् ।
मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः ॥ १,७.८ ॥

मुनेश्च वचनं श्रुत्वा वीणापाणि स्वमीप्सितम् ।
उवाच सस्मितं शान्तं वचः सत्यं सुधोपमम् ॥ १,७.९ ॥

नारद उवाच
हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरम् ।
द्रष्टुं महादेवं च प्रणामं कर्तुमीश्वरम् ॥ १,७.१० ॥

पूजां गृहीत्वा चेत्युक्त्वा प्रययौ नारदो मुनिः ।
मार्कण्डेयश्च शोकार्तः सद्विच्छेदः सुदारुणः ॥ १,७.११ ॥
हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया ।
स्वर्गमन्दाकिनीतीरं कैलासं प्रययौ मुनिः ॥ १,७.१२ ॥
ददर्श वटवृक्षं च योजनायतमुच्छ्रितम् ।
शोभितं शतकैः स्कन्धैः रक्तपक्वफलान्वितैः ॥ १,७.१३ ॥
सुस्निग्धैः सुन्दरैः रम्यै रम्यपक्षीन्द्रसंकुलैः ।
सिद्धेन्द्रैश्च मुनीन्द्रैश्योगीन्द्रैः परिशोभितम् ॥ १,७.१४ ॥
प्रणतांस्तांश्च संभाष्य पार्वतीकाननं ययौ ।
सुन्दरं वर्तुलाकारं चतुर्योजनमीप्सितम् ॥ १,७.१५ ॥
शोभितं सुन्दरै रम्यैः सप्तभिश्च सरोवरैः ।
शश्वन्मधुकरासक्तपद्मराजिविराजितैः ॥ १,७.१६ ॥
नीलरक्तोत्पलदलपटलैः परिशोभितैः ।
पुष्पोद्यानैश्च शतकैः पुष्पितैः सुमनोहरैः ॥ १,७.१७ ॥
मल्लिकामालतीकुन्दयूथिकामाधवीलता ।
केतकीचम्पकाशोकमन्दारकविराजिका ॥ १,७.१८ ॥
नागपुन्नागकुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका ।
विष्णुक्रान्ता च तुलसी शोफली सप्तला तथा ॥ १,७.१९ ॥
एतेषां च समूहैश्च पुष्पवल्लीविराजितैः ।
आम्रैराम्रातकैस्तालनारिकेलैः पियालकैः ॥ १,७.२० ॥
खर्जूरैश्च गुवाकैश्च पलासैर्जम्बुभिस्तथा ।
दाडिम्बैश्चापि जम्बीरैर्निम्बैश्चैव वटैस्तथा ॥ १,७.२१ ॥
करञ्जैर्वदरीभिश्च परितः श्रीफलोज्ज्वलैः ।
कदम्बानां कदम्बैश्च तिन्तिण्डीनां कदम्बकैः ॥ १,७.२२ ॥
अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः ।
वटशाखोटकैः कुन्दैः शंगुभिः सप्तपर्णकैः ॥ १,७.२३ ॥
पिच्छिलैः पर्णशालैश्च गम्भारिभिश्च वल्गुकैः ।
हिङ्गुलैरञ्जनैर्वल्कैर्भूर्जपत्रैः सपत्रकैः ॥ १,७.२४ ॥
अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विराजितम् ।
कल्पवृक्षैः पारिजातैश्चारुचन्दनपल्लवैः ॥ १,७.२५ ॥
सुस्निग्धस्थलपद्मैश्च चित्रितैर्भूमिचम्पकैः ।
अन्यैश्च दुर्लभैर्वन्यैः पुष्पपत्रैर्विभूषितम् ॥ १,७.२६ ॥
सिंहेन्द्रैः शरभेन्द्रैश्च गजेन्द्रैर्गण्डकेन्द्रैः ।
शार्दूलेन्द्रैश्च महिषैरश्वैश्च वन्यशूकरैः ॥ १,७.२७ ॥
शल्लकैर्बल्लकैर्मर्कैः कूटैश्च शशकैः शकैः ।
कृष्णसारैश्च हरिणैश्चमरीचामरोज्ज्वलम् ॥ १,७.।२८ ॥
पुंस्कोकोलकुलानां च गानैश्च विराजितम् ।
मत्तानां पल्लवस्थानां माधवेषु मनोहरम् ॥ १,७.२९ ॥
शुकानां राजहंसानां मयूराणां च पुत्रकैः ।
क्षेमकरीखञ्जनानां राजिभिश्च मनोहरम् ॥ १,७.३० ॥
हरित्पीतरक्तकृष्णसुपक्वफलपत्रकैः ।
सुस्निग्धाक्षतपत्रैश्च नूतनैरभिभूषितम् ॥ १,७.३१ ॥
हिंसाभयादिरहितं सर्वेषां पशुपक्षिणां ।
परस्परं च सुप्रीतं हिंस्राणां क्षुद्रजन्तुभिः ॥ १,७.३२ ॥
तत्र क्रीडास्थलं रम्यं पार्वतीपरमेशयोः ।
मुनीन्द्रैरिन्द्रनीलैश्च पद्मरागैः परिष्कृतम् ॥ १,७.३३ ॥
क्रोशायतं परिमितं वर्तुलं चन्द्रविम्बवत् ।
अम्लानरम्भास्तम्भानां लक्षलक्षैश्च वेष्टितम् ॥ १,७.३४ ॥
चित्रितं सूक्ष्मसूत्राक्तैर्नूतनैरभिभूषितम् ।
नूतनाक्षतपत्रैश्च ललितैः परिशोभितम् ॥ १,७.३५ ॥
रक्तपीतासितैः स्निग्धैरम्लानैः सुमनोहरैः ।
परितः परितः शश्वन्मालाजालैर्विभूषितम् ॥ १,७.३६ ॥
शय्याभूतं सुतल्पैश्च स्निग्धचम्पकचन्दनैः ।
पुष्पचन्दनयुक्तेन वायुना सुरभीकृतम् ॥ १,७.३७ ॥
कस्तूरीकुङ्कमासक्तसुगन्धिचन्दनैः सितैः ।
मार्जितं चित्रितं चित्रैः परितो रङ्गवस्तुभिः ॥ १,७.३८ ॥
दृष्ट्वा तदद्भुतं शीघ्रं प्रययौ स्वर्णदीं मुनिः ।
शुद्धस्फटिकसंकासां सर्वपापविनाशिनीम् ॥ १,७.३९ ॥
भवाब्धिघोरतरणे तरणीं नित्यनूतनाम् ।
कृष्णपादप्रसूतां च जगत्पूज्यां पतिव्रतां ॥ १,७.४० ॥
स्नाट्वा कृष्णं च संपूज्य परमात्मानमीश्वरम् ।
प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परम् ॥ १,७.४१ ॥
साक्षिणं कर्मणामेव ब्रह्म ज्योतिः सनातनम् ।
प्रययौ पुरतो रम्यं राजमार्गं ददर्श सः ॥ १,७.४२ ॥
मणिभिः स्फटिकाकारैरमलैर्बहुमूल्यकैः ।
परिष्कृतं च सर्वत्र निर्मितं विश्वकर्मणा ॥ १,७.४३ ॥
सतां पुण्यवतां दृष्टमदृष्टं कृतपापिनाम् ।
धनुः शतं परिमितं चित्रराजिविराजितम् ॥ १,७.४४ ॥
दध्यं सर्वाश्रमान्तं च प्रख्यात्कोटिगुणोत्तरम् ।
रथं ददर्श पुरतो मनोयायि मनोहरम् ॥ १,७.४५ ॥
अमूल्यरत्ननिर्माणविमाणसारसुन्दरम् ।
धनुर्लक्षं परिमितं परितो वर्तुलाकृतम् ॥ १,७.४६ ॥
ऊर्ध्वस्थितमूर्ध्वगं च सहस्रचक्रसंयुतम् ।
धनुर्लक्षोऽपि सूतं च वह्निशुद्धांशुकान्वितम् ॥ १,७.४७ ॥
हीरासारविनिर्माणं सुचारुकलशोज्ज्वलम् ।
रत्नप्रदीपदीप्ताढ्यं रत्नदर्पणभूषितम् ॥ १,७.४८ ॥
मुक्ताशुक्तिनिबद्धैश्च शोभितं श्वेतचामरैः ।
माणिक्यसारहारेण मणिराजैर्विराजितम् ॥ १,७.४९ ॥
पारिजाटप्रसूतानां मायाजालैः परिष्कृतम् ।
ग्रीष्ममध्याह्नमार्तण्डं सहस्रसदृशोज्ज्वलम् ॥ १,७.५० ॥
ईश्वरेच्छाविनिर्माणं कामपुरं च कामिनाम् ।
सर्वभोगसमाविष्टं कल्पवृक्षपरं वरम् ॥ १,७.५१ ॥
ससक्तचित्रितै रम्यै रतिमन्दिरसुन्दरैः ।
गोलोकादागतं पूर्वं क्रीडार्थं शङ्करस्य च ॥ १,७.५२ ॥
विवाहे परिनिष्पन्ने पार्वतीपरमेशयोः ।
रथं दृष्ट्वा च प्रययौ कियद्दूरं महामुनिः ॥ १,७.५३ ॥
अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमम् ।
रत्नेन्द्रसारनिर्माणं शिविरैः शतकोटिभिः ॥ १,७.५४ ॥
मितैस्तस्मात्शतगुणैस्तत्र सुन्दरमन्दिरैः ।
युक्तं रत्नकपाटैश्च रत्नधातुविचित्रितैः ॥ १,७.५५ ॥
परमस्तम्भसोपानैर्वज्रमिश्रैर्विभूषितम् ।
ददर्श शिविरं शम्भोः परिखाभिस्त्रिभिर्युतम् ॥ १,७.५६ ॥
दुर्लघ्याभिरामित्राणां सुगम्याभिः सतामहो ।
प्रकारैश्च त्रिभिर्युक्तं धनुर्लक्षोच्छ्रितं सुत ॥ १,७.५७ ॥
सम्मितं सप्तभिर्द्वारैर्नानारक्षकरक्षितैः ।
धनुःशतसहस्रं च चतुरस्रं च सम्मितम् ॥ १,७.५८ ॥
अमूल्यरत्ननिर्माणं चतुःशालाशतैर्युतम् ।
अतीव रम्यं पुरतो पुरद्वारं ददर्श सः ॥ १,७.५९ ॥
पुरतो रत्नभित्तौ च कृत्रिमं च सुशोभितम् ।
पुण्यं वृन्दावनं रम्यं तन्मध्ये रासमण्डलम् ॥ १,७.६० ॥
सर्वत्र राधाकृष्णं च प्रत्येकं रतिमन्दिरे ।
रम्यं कुञ्जकुटीराणां सहस्रं सुमनोहरम् ॥ १,७.६१ ॥
सुगन्धि पुष्पशय्यानां सहस्रं चन्दनोक्षितम् ।
द्वारपालं च तत्रैव मणिभद्रं भयंकरम् ॥ १,७.६२ ॥
त्रिशूलपट्टिशधरं व्याघ्रचर्माम्बरं परम् ।
तं संभाष्य विलोक्यैवं द्वितीयद्वारमीप्सितम् ॥ १,७.६३ ॥
जगाम च मुनिश्रेष्ठो ददर्श चित्रमुत्तमम् ।
कदम्बानां समूहं च तन्मूलं च मनोहरम् ॥ १,७.६४ ॥
रत्नभित्तिसमायुक्तं कालिन्दीकूलमुत्तमम् ।
स्नातं गोपीसमूहं च नग्नसर्वाङ्गमद्भुतम् ॥ १,७.६५ ॥
कदम्बाग्रे च श्रीकृष्णं वस्त्रपुञ्जकरं परम् ।
तत्रैव शूलहस्तं च महाकालं ददर्श च ॥ १,७.६६ ॥
कृपालुं द्वारपालं तं संभाष्य नारदो मुनिः ।
प्रययौ शीघ्रगामी स तृतीयद्वारमुत्तमम् ॥ १,७.६७ ॥
ददर्श तत्र पुरतः कृत्रिमं वटमूलकम् ।
गोपानां च समूहं च पीतम्बरधरं परम् ॥ १,७.६८ ॥
बालक्रीडां च कुर्वन्तं तन्मध्ये कृष्णम् उत्तमम् ।
ब्राह्मणीभिः प्रदत्तं च भुक्तवन्तं सुपायसम् ॥ १,७.६९ ॥
कुर्वन्तं च समाधानं मुनेः वामकरेण च ।
गृहीत्वा तद्अनुज्ञां च चतुर्थं द्वारमीप्सितम् ॥ १,७.७० ॥
प्रययौ ब्रह्मपुत्रश्च ददर्श चित्रमुत्तमम् ।
गोवर्धनं पर्वतं च तत्र कृष्णकरस्थितम् ॥ १,७.७१ ॥
गोकुलं गोकुलस्थानां गोपीनां चैव रक्षणम् ।
व्याकुलं गोकुलं भीतं शक्रवृष्टिभयेन च ॥ १,७.७२ ॥
अभयं दत्तवन्तं च कृष्णं दक्षकरेण च ।
नन्दिनं द्वारपालं च शूलहस्तं च सस्मितम् ॥ १,७.७३ ॥
विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअमुत्तमम् ।
नानाकृतिमचित्राढ्यं वीरभद्रान्वितं परम् ॥ १,७.७४ ॥
तत्रैव नीपमूलं च यमुनाकुलमेव च ।
कालीयदमनं तत्र कृतिमं च ददर्श ः ॥ १,७.७५ ॥
तद्दृष्ट्वा सस्मितस्तुष्टः षष्टद्वाऋअं जगाम सः ।
द्वारे नियुक्तं बालं च शूलहस्तं चतुर्भुजम् ॥ १,७.७६ ॥
रत्नसिंहासनस्थं च सस्मितं स्वगणाधिपम् ।
ददर्श चित्रं तत्रैव मथुरागमनं हरेः ॥ १,७.७७ ॥
गोपिकानां विलापं च यशोदानन्दयोस्तथा ।
व्याकुलं गोकुलं चापि रथस्थं शरणं हरिम् ॥ १,७.७८। ॥
अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलम् ।
तद्दृष्ट्वा सप्तमद्वारं द्वारपालं ददर्श सः ॥ १,७.७९ ॥
चित्रं कौतुकयुक्तं च मथुरायाः प्रवेशनम् ।
सबलं गोपसहितं श्रीकृष्णं प्रकृतेः परम् ॥ १,७.८० ॥
मथुरानागरीभिश्च बालकैर्वानिरर्गलैः ।
वीक्षन्तं सादरं सर्वैर्नगरस्थैर्मनोहरम् ॥ १,७.८१ ॥
धनुर्भङ्गं तथा शंभोः कंसादिनिधनादिकम् ।
सभार्यं वसुदेवं च निगडान्मुक्तमीप्सितम् ॥ १,७.८२ ॥
द्वारे नियुक्तं देवेशं गणेशं गणसंयुतम् ।
ध्यानस्थं च विभान्तं च शुद्धस्फटिकमालया ॥ १,७.८३ ॥
जपन्तं परमं शुद्धं ब्रह्मज्योतिः सनातनम् ।
निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परम् ॥ १,७.८४ ॥
दृष्ट्वा तं च सुरश्रेष्ठं मुनिश्रेष्ठोऽपि नारदः ।
सामवेदोक्तस्तोत्रेण पुष्टाव परमेश्वरम् ।
साश्रुनेत्रः पुलकितो भक्तिनम्रात्मकंधरः ॥ १,७.८५ ॥

अथ गणपतिस्तोत्रम्

भो गणेश सुरश्रेष्ठ लम्बोदर परात्पर ।
हेरम्ब मङ्गलारम्भ गजवक्त्र त्रिलोचन ॥ १,७.८६ ॥
मुक्तिद शुभद श्रीद श्रीधरस्मरणे रत ।
परमानन्द परम पार्वतीनन्दन स्वयम् ॥ १,७.८७ ॥
सर्वत्र पूज्य सर्वेश जगत्पूज्य महामते ।
जगद्गुरो जगन्नाथ जगद्ईश नमोऽस्तु ते ॥१,७.८८ ॥
यत्पूजा सर्वपरतो यः स्तुतः सर्वयोगिभिः ।
यः पूजितः सुरेन्द्रैश्च मुनीन्द्रैस्तं नमाम्यहम् ॥ १,७.८९ ॥
परमाराधनेनैव कृष्णस्य परमात्मनः ।
पुण्यकेन व्रतेनैव यं प्राप पार्वती सती ॥ १,७.९० ॥
तं नमामि सुरश्रेष्ठं सर्वश्रेष्ठं गरिष्ठकम् ।
ज्ञानिश्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरम् ॥ १,७.९१ ॥

इत्येवमुक्त्वा देवर्षिस्तत्रैवान्तर्दधे विभुः ।
नारदः प्रययौ शीघ्रमीश्वराभ्यन्तरं मुदा ॥ १,७.९२ ॥
इदं लम्बोदरस्तोत्रं नारदेन कृतं पुरा ।
पूजाकाले पठेन्नित्यं जयस्तस्य पदे पदे ॥ १,७.९३ ॥
संकल्पितं पठेद्यो हि वर्षमेकं सुसंयतः ।
विशिष्टपुत्रं लभते परं कृष्णपरायणम् ॥ १,७.९४ ॥
यशस्विनं च विद्वांसं धनिनं चिरजीविनम् ।
विघ्ननाशो भवेत्तस्य महैश्वर्यं यशोऽमलम् ।
इहैव च सुखं भक्त्यान्ते याति हरेः पदम् ॥ १,७.९५ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गणपतिस्तोत्रं नाम सप्तमोऽध्यायः
प्रथमैकरात्रे अष्टमोऽध्यायः
श्रीव्यास उवाच
अथ चाभ्यन्तरं गत्वा नारदो हृष्टमानसः ।
ददर्श स्वाश्रमं रम्यमतीव सुमनोहरम् ॥ १,८.१ ॥
पयः फेननिभशय्यासहितं रत्नमन्दिरम् ।
साक्षाद्गोरोचनाभैश्च मणिस्तम्भैर्विभूषितम् ॥ १,८.२ ॥
मणीन्द्रसारसोपानैः कपाटैश्च परिष्कृतम् ।
मुक्तामाणिक्यहीराणां मालाराजिविराजितम् ॥ १,८.३ ॥
शुद्धस्फटिकसंकाशं प्राङ्गणं मणिसंस्कृतम् ।
सुन्दरं मन्दिरचयं सद्रत्नकलशोज्ज्वलम् ॥ १,८.४ ॥
रत्नपत्रपटाकीर्णं वह्निशुद्धांशुकान्वितम् ।
सुधानां च मधूनां च पूर्णकुम्भकं शतं शतम् ॥ १,८.५ ॥
दासदासीसमूहैश्च रत्नालङ्कारभूषितैः ।
पार्वतीप्रियसङ्गैश्च स्वकर्माकुलसङ्कल्पम् ॥ १,८.६ ॥
तद्दृष्ट्वा च मुनिश्रेष्ठस्तत्पराभ्यन्तरं ययौ ।
रत्नसिंहासनस्थं च शङ्करं च ददर्श सः ॥ १,८.७ ॥
व्याघ्रचर्माम्बरधरं सस्मितं चन्द्रशेखरम् ।
प्रसन्नवदनं स्वच्छं शान्तं श्रीमन्तमीश्वरम् ॥ १,८.८ ॥
विभूतिभूषिताङ्गं च परं गङ्गाजटाधरम् ।
भक्तप्रियं च भक्तेशं ज्वलन्तं ब्रह्मतेजसा ॥ १,८.९ ॥
त्रिनेत्रं पञ्चवक्त्रं च कोटिचन्द्रसमप्रभम् ।
जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनम् ॥ १,८.१० ॥
निर्लिप्तं च निरीहं च दातारं सर्वसम्पदाम् ।
स्वेच्छामयं सर्वबीजं श्रीकृष्णं प्रकृतेः परं ॥ १,८.११ ॥
सिद्धेन्द्रैश्च मुनीन्द्रैश्च देवेन्द्रैः परिसेवितम् ।
पार्श्वदप्रवरश्रेष्ठसेवितं श्वेतचामरैः ॥ १,८.१२ ॥
दुर्गासेवितपादाब्जं भद्रकालीपरिष्टुतम् ।
पुरतो हि वसन्तं तं स्कन्दं गणपतीं तथा ॥ १,८.१३ ॥
गले बद्ध्वा च वसनं भक्तिनम्रात्मकंधरः ।
योगीन्द्रं स्वगुरुं शंभुं शिरसा प्रणनाम सः ॥ १,८.१४ ॥
तुष्टाव परया भक्त्या देवर्षिर्जगतां पतिम् ।
स्वगुरुं च पशुपतिं वेदोक्तेन स्तवेन च ॥ १,८.१५ ॥

श्रीनारद उवाच
नमस्तुभ्यं जगन्नाथ मम नाथ मम प्रभो ।
भवरूपतरोर्बीज फलरूप फलप्रद ॥ १,८.१६ ॥
अबीजज प्रज प्राज सर्वबीज नमोऽस्तु ते ।
सद्भाव परमाभाव विभाव भावनाश्रय ॥ १,८.१७ ॥
भवेश भवबन्धेश भावाब्धिनाविनायक ।
सर्वाधार निराधार साधार धरणीधर ॥ १,८.१८ ॥
वेदविद्याधाराधार गङाधर नमोऽस्तु ते ।
जयेश विजयाधार जयबीज जयात्मक ॥ १,८.१९ ॥
जगद्आदे जयानन्द सर्वानन्द नमोऽस्तु त्

इत्येवमुक्त्वा देवर्षिः शम्भोश्च पुरतः स्थितः ।
प्रसन्नवदनः श्रीमान् भगवांस्तमुवाच सः ॥ १,८.२० ॥

श्रीमहादेव उवाच
वरं वृणु महाभाग यत्ते मनसि वर्तते ।
दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्वसंपदाम् ॥ १,८.२१ ॥
सुखं मुक्तिं हरेर्भक्तिं निश्चलामविनाशिनीम् ।
हरेः पादं तद्दास्यं सालोक्यादिचतुष्टयम् ॥ १,८.२२ ॥
इन्द्रत्वममरत्वं वा यमत्वमनिलेश्वरम् ।
प्रजापतित्वं ब्रह्मत्वं सिद्धत्वं सिद्धसाधनम् ॥ १,८.२३ ॥
सिद्धैश्वर्यं सिद्धिबीजं वेदविद्याधिपं परम् ।
अणिमादिकसिद्धिं च मनोयायित्वमीप्सितम् ॥ १,८.२४ ॥
हरेः पदं च गमनं सशरीरेण लीलया ।
एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत ॥ १,८.२५ ॥
तन्मे ब्रूहि मुनिश्रेष्ठ सर्वं दातुमहं क्षमः ।

शङ्करस्य वचः श्रुत्वा तमुवाच महामुनिः ॥ १,८.२६ ॥

श्रीनारद उवाच
देहि मे हरिभक्तिं च तन्नामसेवने रुचिः ।
अतितृष्णा गुणाख्याने नित्यमस्तु ममेश्वर ॥ १,८.२७ ॥

नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयम् ।
पार्वती भद्रकाली च कार्त्तिकेयो गणेश्वरः ॥ १,८.२८ ॥
सर्वं ददौ महादेवो नारदाय च धीमते ।
सर्वप्रदस्तु सर्वेशः सर्वकारणकारणः ॥ १,८.२९ ॥
नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत्शुचिः ।
हरिभक्तिर्भवेत्तस्य तन्नाम्नि गुणतो रुचिः ॥ १,८.३० ॥
दशवारजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ।
सर्वसिद्धिर्भवेत्तस्य सिद्धस्तोत्रो भवेद्यदि ॥ १,८.३१ ॥
इह प्राप्नोति लक्ष्मीं च निश्चलां लक्षपौरुषीम् ।
परिपूर्णमहैश्वर्यमन्ते याति हरेः पदम् ॥ १,८.३२ ॥
पुत्रं विशिष्टं लभते हरिभक्तं जितेन्द्रियम् ।
सुसाध्यां सुविनीतां सुव्रतां च पतिव्रताम् ॥ १,८.३३ ॥
प्रजां भूमिं यशः कीर्तिं विद्यां सकवितां लभेत् ।
प्रसूयते महाबन्ध्या वर्षमेकं शृणोति चेत् ॥ १,८.३४ ॥
गलत्कुष्ठी महारोगी सद्यो रोगात्प्रमुच्यते ।
धनी महादरिद्रश्च कृपणः सत्यवान् भवेत् ।
विप्रद्ग्रस्तो राजबद्धो मुच्यते नात्र संशयः ॥ १,८.३५ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे अष्टमोऽध्यायः
प्रथमैकरात्रे नवमोऽध्यायः
श्रीव्यास उवाच
वरं दत्वा महादेवो भक्त्या तं ब्राह्मणातिथिम् ।
पूजां चकार वेदोक्तां स्वयं वेदविदां वरः ॥ १,९.१ ॥
भुक्त्वा पीत्वा मुनिश्रेष्ठो महादेवस्य मन्दिरे ।
तिष्ठन्नुपासानां चक्रे पार्वतीपरमेशयोः ॥ १,९.२ ॥
एकदा चिरकालान्ते तमुवाच महामुनिम् ।
महादेवः सभामध्ये कृपया च कृपानिधिः ॥ १,९.३ ॥

श्रीमहादेव उवाच
किं वा ते वाञ्छितं वत्स ब्रूहि मां यदि रोचते ।
वरो दत्तः किमपरं यत्ते मनसि वर्तते ॥ १,९.४ ॥

महादेववचः श्रुत्वा तमुवाच महामुनिः ।
कैलासे च सभामध्ये यत्तन्मनसि वाञ्छितम् ॥ १,९.५ ॥

श्रीनारद उवाच
ज्ञानमाध्यात्मिकं नाम वेदसारं मनोहरम् ।
हरिभक्तिप्रदं ज्ञानं मुक्तिदं ज्ञानमीप्सितम् ॥ १,९.६ ॥
योगयुक्तं च यज्ज्ञानं ज्ञानं यत्सिद्धिदं तथा ।
संसारविषयज्ञानमेव पञ्चविधं स्मृतम् ॥ १,९.७ ॥
आश्रमाणां समाचारं तेषां धर्मपरिष्कृतम् ।
विधवानां च भिक्षूणां यतीनां ब्रह्मचारिणां ॥ १,९.८ ॥
पूजाविधानं कृष्णस्य तत्स्तोत्रं कवचं मनुम् ।
पुरश्चर्याविधानं च सर्वाह्निकमभीप्सितम् ॥ १,९.९ ॥
जीवकर्मविपाकं च कर्ममूलनिकृन्तनम् ।
संसारवासनां कां वा लक्षणं प्रकृतीशयोः ॥ १,९.१० ॥
तयोः परं वा किं वस्तु तस्यावतारवर्णमम् ।
को वा तद्अंशः कः पूर्णः परिपूर्णतमश्च कः ॥ १,९.११ ॥
नारायणर्षिकवचं सुभद्रप्रवराय च ।
यद्दत्तं किं तद्देवेश तदाराध्यं प्रयत्नतः ॥ १,९.१२ ॥
मया ज्ञानंमनापृष्ठं यद्यदस्ति सुरोत्तम ।
तन्मे कथय तत्त्वेन मामेवानुग्रहं कुरु ॥ १,९.१३ ॥
गुरोश्च ज्ञानोद्गिरणाज्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।
तत्तन्त्रं स च मन्त्रः स्याद्यतो भक्तिरधोक्षजे ॥ १,९.१४ ॥
ज्ञानं स्याद्विदुषां किंचिद्वेदव्याख्यानचिन्तया ।
स्वयं भवान् वेदकर्ता ज्ञानाधिष्ठातृदेवता ॥ १,९.१५ ॥

नारदस्य वचः श्रुत्वा सस्मितः पार्वतीपतिः ।
निरीक्ष्य पार्वतीवक्त्रं गजवक्त्रमुवाच सः ॥ १,९.१६ ॥

अथ नारदोपदेशग्रहणम्

श्रीमहादेव उवाच
अहो अनन्तदासानां माहात्म्यं परमाद्भुतम् ।
कुर्वन्त्यहैतुकीं भक्तिं ये च शश्वद्धरेः पदे ॥ १,९.१७ ॥
पद्मनाभपादपद्मं पद्मापद्मेश्वरार्चितम् ।
दिवानिशं ये ध्यायन्ते शेषादिसुरवन्दितम् ॥ १,९.१८ ॥
आलापं गात्रसंस्पर्शं पादरेणुमभीप्सितम् ।
वाञ्छन्त्येव हि तीर्थानि वसुधा चात्मशुद्धये ॥ १,९.१९ ॥
कृष्णमन्त्रोपासकानां शुद्धं पादोदकं सुत ।
पुनाति सर्वतीर्थानि वसुधामपि पार्वति ॥ १,९.२० ॥
कृष्णमन्त्रो द्विजमुखाद्यस्य कर्णं प्रयाति च ।
तं वैष्णवं जगत्पूतं प्रवदन्ति पुराविदः ॥ १,९.२१ ॥
मन्त्रग्रहणमात्रेण नरो नारायनात्मकः ।
पुनाति लीलामात्रेण पुरुषाणां शतं शतम् ॥ १,९.२२ ॥
यज्जन्ममात्रात्पूतं च तत्पितृणां शतं शतम् ।
प्रयाति सद्यो गोलोकं कर्मभोगात्प्रमुच्यते ॥ १,९.२३ ॥
मातामहादिकान् सप्त जन्ममात्रात्समुद्धरेत् ।
यत्कन्यां प्रतिगृह्णाति तस्य सप्तावलीलया ॥ १,९.२४ ॥
मातरं तत्प्रशूं भार्यां पुत्राच्च सप्तपूरुषम् ।
भ्रातरं भगिनीं कन्यां कृष्णभक्तः समुद्धरेत् ॥ १,९.२४ ॥
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः ।
फलं स लेभे पूजानां व्रती सर्वव्रतेषु च ॥ १,९.२६ ॥
विष्णुमन्त्रं यो लभेत्वैष्णवाच्च द्विजोत्तमात् ।
कोटिजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ १,९.२७ ॥
कृष्णमन्त्रोपासकानां सद्यो दर्शनमात्रतः ।
शतजन्मार्जितात्पापान्मुच्यते नात्र संशयः ॥ १,९.२८ ॥
वैष्णवाद्दर्शनेनैव स्पर्शनेन च पार्वति ।
सद्यः पूतं जलं वह्निर्जगत्पूतः समीरणः ॥ १,९.२९ ॥
दर्शनं वैष्णवानां च देवा वाञ्छन्ति नित्यशः ।
न वैष्णवात्परः पूतो विश्वेषु निखिलेषु च ॥ १,९.३० ॥

इत्युक्त्वा सङ्करः शीघ्रं नारदेन सहात्मजः ।
ययौ मन्दाकिनीतीरं नीरं क्षीरोपमं परम् ॥ १,९.३१ ॥
तत्र स्नातो महादेवी नारदश्च महामुनिः ।
समाचान्तः शुचिस्तत्र धृत्वा धौते च वासवी ॥ १,९.३२ ॥
कृष्णमन्त्रं ददौ तस्मै नारदाय महेश्वरः ।
परं कप्लतरुवरं सर्वसिद्धिप्रदं शुक ॥ १,९.३३ ॥
लक्ष्मीर्मायाकामबीजं ङेन्तं कृष्णपदं ततः ।
जगत्पूतप्रियान्तं च मन्त्रराजं प्रकीर्तितम् ॥ १,९.३४ ॥
मन्त्रं गृहीत्वा स मुनिः शिवं कृत्वा प्रदक्षिणम् ।
सप्त वारान्नमस्कृत्य स्वात्मानं दक्षिणां ददौ ॥ १,९.३५ ॥
तत्पादपद्मे विक्रीतमाजन्म मस्तकं परम् ।
मुनिना भक्तियुक्तेन स्वर्गमन्दाकिनीतटे ॥ १,९.३६ ॥
एतस्मिन्नन्तरे वत्स पुष्पवृष्टिर्बभूव ह ।
नारदोपरि तत्रैव सुश्राव दुन्दुभिर्मुनिः ॥ १,९.३७ ॥
ननर्त ब्रह्मणः पुत्रो ब्रह्मलोके निरामये ।
ब्रह्मा जगाम तत्रैव सुप्रसन्नश्च सस्मितः ॥ १,९.३८ ॥
पुत्रं शुभाशिषं कृत्वा तुष्टाव चन्द्रशेखरम् ।
शम्भुश्च पूजयामास ब्राह्मणमतिथिं तथा ।
शम्भुं शुभाशिषं कृत्वा ब्रह्मलोकं ययौ विधिः ॥ १,९.३९ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
नारदोपदेशग्रहणं नाम नवमोऽध्यायः
प्रथमैकरात्रे दशमोऽध्यायः

श्रीशुक उवाच
नारदो हि महाज्ञानी देवर्षिर्ब्रह्मणः सुतः ।
सर्ववेदविदां श्रेष्ठो गरिष्ठश्च वरिष्ठकः ॥ १,१०.१ ॥
कथं स नोपदिष्टश्च ज्ञानहीनो महामुनिः ।
तन्मां बोधय विभो सन्देहभञ्जनं कुरु ॥ १,१०.२ ॥

श्रीव्यास उवाच
नारदो ब्रह्मणः पुत्रः पुराकल्पे बभूव सः ।
सर्वज्ञानं ददौ तस्मै विधाता जगतामपि ॥ १,१०.३ ॥
वेदांश्च पाठयामास वेदाङ्गान्यपि सुव्रत ।
सिद्धविद्यां शिल्पविद्यां योगशास्त्रं पुराणकम् ॥ १,१०.४ ॥
भगवानेकदा पुत्रं कथयामास संसदि ।
सृष्टिं कुरु महाभाग कृत्वा दारपरिग्रहम् ॥ १,१०.५ ॥
ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः ।
उवाच पितरं कोपात्परं कृष्णपरायनः ॥ १,१०.६ ॥

श्रीनारद उवाच
सर्वेषामपि वन्द्यानां पिता चैव महागुरुः ।
ज्ञानदातुः परो वन्द्यो न भूतो न भविष्यति ॥ १,१०.७ ॥
स्तनदात्री गर्भधात्री स्नेहकर्त्री सदाम्बिका ।
जन्मदातान्नदाता स्यात्स्नेहकर्ता पिता सदा ॥ १,१०.८ ॥
न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुम् ।
करोति सद्गुरुः शिष्यकर्ममूलनिकृन्तनम् ॥ १,१०.९ ॥
गुरुश्च ज्ञानोद्गिरणात्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।
तत्तन्त्रं स च मन्त्रश्च कृष्णभक्तिर्यतो भवेत् ॥ १,१०.१० ॥
श्रीकृष्णविमुखो भूत्वा विषये यस्य मानसम् ।
विषमत्यमृतं त्यक्त्वा स च मूढो नराधमः ॥ १,१०.११ ॥
स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः ।
यो ददाति हरौ भक्तिं कर्ममूलनिकृन्तनी ॥ १,१०.१२ ॥
श्रीकृष्णभजनं तात सर्वमङ्गलमङ्गलम् ।
कर्मोपभोगरोगआणामौषधं तन्निकृन्तनम् ॥ १,१०.१३ ॥
अहो जगद्विधातुश्च धर्मशास्तुरियं मतिः ।
स्वयं मायामोहितश्च परं भ्रष्टं करोति च ॥ १,१०.१४ ॥
विष्णुस्त्वां मोहितां कृत्वा युयोज स्रष्टुमीश्वरः ।
न ददौ स्वात्मभक्तिं तां स्वदास्यं चातिदुर्लभम् ॥ १,१०.१५ ॥
माता ददाति पुत्राय मोदकं क्षुन्निवारकम् ।
स च बालो न जानाति कथंभूतं च मोदकम् ॥ १,१०.१६ ॥
बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः ।
पिता प्रयाति कार्यार्थं विष्णुना मोहितस्तथा ॥ १,१०.१७ ॥
संसारकूपपतितो विष्णुना प्रेरितो भवान् ।
न युक्तं पतनं तत्र तदुद्धारमभीप्सितम् ॥ १,१०.१८ ॥
ज्ञानी गुरुश्च बलवान् भवाब्धेः शिष्यमुद्धरेत् ।
गुरुः स्वयमसिद्धश्च दुर्बलः कथमुद्धरेत् ॥ १,१०.१९ ॥
गुरोरत्य्अवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ १,१०.२० ॥
स गुरुः परमो वैरी यो ददाति ह्यसन्मतिम् ।
तं नमस्कृत्य सत्शिष्यः प्रयाति ज्ञानदं गुरुम् ॥ १,१०.२१ ॥
संसारविषयोन्मत्तो गुरुरार्तः स्वकर्मणि ।
दुर्बलो दुर्वहं भारं ददाति जनकाय च ॥ १,१०.२२ ॥

नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रमुवाच सः ।
कम्पितस्तमसा धाता कोपरक्तास्यलोचनः ॥ १,१०.२३ ॥

ब्रह्मोवाच
ज्ञानं ते भवतु भ्रष्टं स्त्रीजितो भव पामर ।
सर्वजातिषु गन्धर्वः कामी सोऽपि भवान् भव ॥ १,१०.२४ ॥
पञ्चाशत्कामिनीनां च स्वयं भर्ता भवाचिरात् ।
तासां वशश्च सततं स्त्रीणां क्रीडा मृगो यथा ॥ १,१०.२५ ॥
शृङ्गारशूरो भव रे शश्वत्सुस्थिरयौवनः ।
तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव ॥ १,१०.२६ ॥
कामबाध्यो भव चिरं दिव्यवर्षसहस्रकम् ।
निर्जने निर्जने रम्ये वने क्रीडां करिष्यसि ॥ १,१०.२७ ॥
ततो वर्षसहस्रान्ते मया शप्तः स्वकर्मणा ।
विप्रदास्यां तु शूद्रायां जनिष्यसि न संशयः ॥ १,१०.२८ ॥
ततो वैष्णवसंसर्गात्विष्णोरुच्छिष्टभोजनात् ।
विष्णुमन्त्रप्रसादेन विष्णुमायाविमोहितः ॥ १,१०.२९ ॥

तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः ।
शशाप पितरं शिघ्रं दारुणं च यथोचितम् ॥ १,१०.३० ॥

अपूज्यो भव दुष्टं त्वं त्वन्मन्त्रोपासकः कुतः ।
अगम्यागमनेच्छा ते भविष्यति न संशयः ॥ १,१०.३१ ॥

नारदस्य तु शापेन सोऽपूज्यो जगतां विधिः ।
दृष्ट्वा स्वकन्यारूपं च पश्चाद्धावितवान् पुरा ॥ १,१०.३२ ॥
पुनः स्वदेहं तत्याज भर्त्सितः सनकादिभिः ।
लज्जितः कामयुक्तश्च पुनर्ब्रह्मा बभूव सः ॥ १,१०.३३ ॥
नारदस्तु नमस्कृत्य पितरं कमलोद्भवम् ।
विप्रदेहं परित्यज्य गन्धर्वश्च बभूव सः ॥ १,१०.३४ ॥
नवयौवनकालेन बलवान्मदनोद्धतः ।
जहार कन्याः पञ्चाशत्बलाच्चित्ररथस्य तु ॥ १,१०.३५ ॥
गान्धर्वेन विवाहेन ता उवाह च निर्जने ।
मूर्च्छां प्रापुश्च ताः कन्या दृष्ट्वा सुन्दरमीश्वरम् ॥ १,१०.३६ ॥
विसस्पुरुश्च पितरं मातरं भ्रातरं तथा ।
रेमिरे तेन सार्धं च कामुक्यः कामुकेन च ॥ १,१०.३७ ॥
कन्दरेर्कन्दरे रम्ये रम्ये सुन्दरमन्दिरे ।
शैले शैले सुरहसि कानने कानने तथा ॥ १,१०.३८ ॥

पुष्पोद्यने तरुद्याने नद्यां नद्यां नदे नदे ।
सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्रसरोवरे ॥ १,१०.३९ ॥
सुरेशस्यापि निकटे सुभद्रस्य तटे तटे ।
अगम्ये च महाघोरे गन्धमादनगह्वरे ॥ १,१०.४० ॥
परिजाततरुणां च पुष्पितानां मनोहरे ।
तद्अन्तरे सुन्दरे चामोदिते पुष्पवायुना ॥ १,१०.४१ ॥
मलये निलये रम्ये सुगन्धे चन्दनान्विते ।
चन्दनोक्षितसर्वाङ्गश्चन्दनाक्तेन कामिना ॥ १,१०.४२ ॥
रम्यचम्पकशय्यासु चन्दनाक्तासु सस्मिताः ।
दिवानिशं न जानन्ति कामिना सस्मितेन च ॥ १,१०.४३ ॥
विस्यन्दके शूरसेने नन्दने पुष्पभद्रके ।
स्वाहावने काम्यके च रम्यके पारिभद्रके ॥ १,१०.४४ ॥
सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रकेऽपि च ।
कालञ्जरे पञ्जरे च काञ्चीकाञ्चनकानने ॥ १,१०.४५ ॥
मधुमाधवमासे च मधूरे मधुकानने ।
वने कल्पतरूणां च विश्वकारुकृतस्थले ॥ १,१०.४६ ॥
रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे ।
सुवेले च सुपार्श्वे च प्रवालांकुरकानने ॥ १,१०.४७ ॥
मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे ।
वने केलिकदम्बानां केतकीनां मनोहरे ॥ १,१०.४८ ॥
माधवीमालतीनां च यूथिकानां वने वने ।
चम्पकानां पलाशानां कुन्दानां विपिने तथा ॥ १,१०.४९ ॥
नागेश्वरलवङ्गानामन्तरे ललितालये ।
कुमुदानां पङ्कजानां पङ्किले कोमलस्थले ॥ १,१०.५० ॥
स्थलपद्मप्रकारो च भूमिचम्पककानने ।
लाङ्गलीनां रसालानां पनसानां सुखप्रदे ॥ १,१०.५१ ॥
कदलीबदरीणां च श्रीफलानां च श्रीयुते ।
जम्बीराणां च जम्बूनां करञ्जानां तथैव च ॥ १,१०.५२ ॥
कृत्वा बिहारं ताभिश्च गन्धर्वश्चोपवर्हणः ।
दिव्यं वर्षसहस्रं च स्वाश्रमं पुनराययौ ॥ १,१०.५३ ॥
श्रुत्वा विधातुराह्वानं पुष्करं च ययौ पुनः ।
ददर्श तत्र ब्रह्माणं रत्नसिंहासनस्थितम् ॥ १,१०.५४ ॥
देवेन्द्रैश्चापि सिद्धेन्द्रैर्मुनीन्द्रैः सन्कादिभिः ।
समावृतं सभायां च रक्षोगन्धर्वकिन्नरैः ॥ १,१०.५५ ॥
सुशोभितं यथा चन्द्रं गगने भगणैः सह ।
प्रणनाम सभामध्ये ताभिः सार्धं जगद्विधिम् ॥ १,१०.५६ ॥
महेशं च गणेशं च धनेशं शेषमीश्वरम् ।
धर्मं धन्वन्तरिं स्कन्दं सूर्यसोमहुताशनम् ॥ १,१०.५७ ॥
उपेन्द्रेन्द्रं विश्वकारुं वरुणं पवनं स्मरम् ।
यममष्टौ वसून् रुद्रान् जयन्तं नलकूवरम् ॥ १,१०.५८ ॥
सर्वान् देवान्नमस्कृत्य ननाम मुनिपुङ्गवम् ।
अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसम् ॥ १,१०.५९ ॥
सर्वश्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा ।
सनकं सनन्दं च तृतीयं च सनातनम् ॥ १,१०.६० ॥
सनत्कुमारं योगीशं ज्ञानिनां च गुरोर्गुरुम् ।
वोढुं पञ्चशिखं सङ्खं भृगुमङ्गिरसं तथा ॥ १,१०.६१ ॥
आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरम् ।
मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविम् ॥ १,१०.६२ ॥
बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशम् ।
वाल्मीकिं परशुरामं संवर्तं च विभाण्डकम् ॥ १,१०.६३ ॥
देवलं च वामदेवमृशयशृङ्गं पराशारम् ।
एतान् सर्वान्नमस्कृत्य तस्थौ स पुरतो विधेः ॥ १,१०.६४ ॥
तुष्टाव सर्वान् देवांश्च मुनीन्द्रांश्च तथैव च ।
तमुवाच सभामध्ये विधाता जगतामपि ।
सस्मितः सुप्रसन्नश्च गन्धर्वमुपवर्हणम् ॥ १,१०.६५ ॥

ब्रह्मोवाच
श्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितम् ।
कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥ १,१०.६६ ॥
गोपीनां वस्त्रहरणं हरं रासमहोत्सवम् ।
ताभिः सार्धं जलक्रीडां हरेरुत्कीर्तनं कुरु ॥ १,१०.६७ ॥
कृष्णसङ्कीर्तनं तूर्णं पुनाति श्रुतिमात्रतः ।
श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह ॥ १,१०.६८ ॥
यत्रैव प्रभवेद्वत्स तन्नामगुणानुकीर्तनम् ।
तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥ १,१०.६९ ॥
तत्कीर्तनध्वनिं श्रुत्वा सर्वाणि पातकानि च ।
दूरादेव पलायन्ते वैनतेयमिवोरगाः ॥ १,१०.७० ॥
तद्दिनं सफलं धन्यं यशस्यं सर्वमङ्गलम् ।
श्रीकृष्णकीर्तनं यत्र तत्रैव नायुषो व्ययः ॥ १,१०.७१ ॥
संकीर्तनध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः ।
तेषां पादरजःस्पर्शात्सद्यः पूता वसुन्धरा ॥ १,१०.७२ ॥
तत्कीर्तनं भवेद्यत्र कृष्णस्य परमात्मनः ।
स्थानं तच्च भवेत्तीर्थं मृतानां तत्र मुक्तिदम् ॥ १,१०.७३ ॥
नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च ।
तपस्विनां च व्रतिनां व्रतानां तपसां स्थलम् ॥ १,१०.७४ ॥
वर्तते पापिनां देहे पापानि त्रिविधानि च ।
महापापोपपापातिपापान्येव स्मृतानि च ॥ १,१०.७५ ॥
हन्ता यो विप्रभिक्षूणां यतीनां ब्रह्मचारिणां ।
स्त्रीणां च वैष्णवानां च स महापातकी स्मृतः ॥ १,१०.७६ ॥
भ्रूणाघ्नश्चापि गोघ्नश्च शूद्रघ्नश्च कृतघ्नकः ।
विश्वासघाती विड्भोजी स एव ह्युपपातकी ॥ १,१०.७७ ॥
अगम्यागमिनो ये च सुरविप्रस्वहारिणः ।
अतिपातकिनश्चैते वेदविद्भिः प्रकीर्तिताः ॥ १,१०.७८ ॥
कृष्णसंकीर्त्नध्यानात्तन्मन्त्रग्रहणादहो ।
मुच्यन्ते पातकैस्तैस्तैः पापिनस्त्रिविधाः स्मृताः ॥ १,१०.७९ ॥
तपोयज्ञकृती पूतस्तीर्थस्नातव्रती तथा ।
भिक्षुर्यतिर्ब्रह्मचारी वानप्रस्थश्च तापसः ॥ १,१०.८० ॥
पवित्रः परमो वह्निः सुपवित्रं जलं यथा ।
एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीम् ॥ १,१०.८१ ॥
विष्णुपादोदकोच्छिष्टं भुञ्जते ये च नित्यशः ।
पश्यन्ति च शिलाचक्रं पूजां कुर्वन्ति नित्यशः ॥ १,१०.८२ ॥
जीवन्मुक्तास्च ते धन्या हरिदासाश्च भारते ।
पदे पदेऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवम् ॥ १,१०.८३ ॥
नहि तेषां पराभूताः पुण्यवन्तो जगत्त्रये ।
तेषां च पादरजसा तीर्थं पूतं तथा धरा ॥ १,१०.८४। ॥
तेषां च दर्शनं स्पर्शं वाञ्छन्ति मुनयः सुराः ।
पुरुषाणां सहस्रं च पूतं तज्जन्ममात्रतः ॥ १,१०.८५ ॥

इत्युक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः ।
आश्चर्यं मेनिरे श्रुत्वा देवाश्च मुनयस्तथा ॥ १,१०.८६ ॥
एतस्मिन्नन्तरे तत्र विद्याधर्यः समागताः ।
गन्धर्वाश्चापि विविधा ननृतुः किन्नरा जगुः ॥ १,१०.८७ ॥
रम्भोर्वशी घृताची च मेनका च तिलोत्तमा ।
सुधामुखी पूर्णचित्ती मोहिनी कलिका तथा ॥ १,१०.८८ ॥
चम्पावती चन्द्रमुखी पद्मा पद्ममुखीति च ।
एताश्चान्याश्च बह्व्यश्च श्वश्वत्सुस्थिरयौवनाः ॥ १,१०.८९ ॥
बृहन्नितम्बश्रोणीकास्तनभारैः समानताः ।
ईषद्धास्याः प्रसन्नास्याः कामार्ताश्च समाययुः ॥ १,१०.९० ॥
वेदज्ञा मूर्तिमन्तश्च वेदाश्चात्वार एव च ।
ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्मचारिणः ॥ १,१०.९१ ॥
समाययुस्तथा मन्दा दैवज्ञाः स्तुतिपाठकाः ।
लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः ॥ १,१०.९२ ॥
तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा ।
वारुणी मनसेन्द्राणी ताः सर्वा देवयोषितः ॥ १,१०.९३ ॥
मुनिपत्न्यश्च गन्धर्व्यो हर्षयुक्ताः समाययुः ।
अहो महोत्सवं परमानन्दमानसाः ।
विचित्रां च ब्रह्मसभां पुष्करं तीर्थमाययुः ॥ १,१०.९४ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
महोत्सवारम्भो नाम दशमोऽध्यायः

प्रथमैकरात्रे एकादशोऽध्यायः
अथ महोत्सवदर्शनम्

श्रीव्यास उवाच
अथ गन्धर्वराजस्तु भगवानाज्ञया विधेः ।
संगीतं च जगौ तत्र कृष्णरासमहोत्सवम् ॥ १,११.१ ॥
सुसमं तालमानं च सुतानं मधुरं श्रुतम् ।
वीणामृदङ्गमुरजयुक्तं ध्वनिसमन्वितम् ॥ १,११.२ ॥
रागिणीयुक्तरागेण समयोक्तेन सुन्दरम् ।
माधुर्यं मूर्च्छ्नायुक्तं मनसे हर्षकारणम् ॥ १,११.३ ॥
विचित्रं नृत्यरुचिरं रूपवेशमुत्तमम् ।
लोकानुरागबीजं च नाट्योपयुक्तहस्तकम् ॥ १,११.४ ॥
दृष्ट्वा श्रुत्वा सुराः सर्वे मुनयः सर्वयोषितः ।
मूर्च्छां प्रायुश्च सहसा चेतनां च पुनः पुनः ॥ १,११.५ ॥
गोपीनां वस्त्रहरणं गोपीगणविलापनं ।
ताभ्यो वस्त्रप्रदानं च संमानं वरदानकम् ॥ १,११.६ ॥
कात्यायनीव्रतं चापि विप्रदारान्नभोजनम् ।
महेन्द्रदर्पपूजादि भञ्जनं शैलपूजनम् ॥ १,११.७ ॥
पुनश्च शुश्रुवुः सर्वे श्रीवृन्दावनवर्णनम् ।
संप्रापुश्च पुनर्मूर्च्छां पुनः प्रापुश्च चेतनाम् ॥ १,११.८ ॥
तस्मै ददौ पुरो ब्रह्मा वह्निशुद्धांशुकं परम् ।
परं शुभाशीर्वचनं यत्तन्मानसवाञ्छितम् ॥ १,११.९ ॥
अमूल्यरत्ननिर्माणं चारुकुण्डालयुग्मकम् ।
मणीन्द्रसारमुकुटं परं रत्नाङ्गुरीयकम् ॥ १,११.१० ॥
सुगन्धि चन्दनं पुष्पं स्वपादरेणुमीप्सितम् ।
अमूल्यरत्नतिलकं रत्नभूषणमुज्ज्वलम् ॥ १,११.११ ॥
प्रत्येकं वस्तु रुचिरं तद्योषिद्भ्यश्च संददौ ।
विश्वकर्मा च निर्माणमणिं भूषणमुत्तमम् ॥ १,११.१२ ॥
प्रत्येकं शङ्खसिन्दूरं कस्तूरीयुक्तचन्दनम् ।
सकर्पूरं च ताम्बूलं रत्नेन्द्रसारदर्पणम् ॥ १,११.१३ ॥
मणिनिर्माणामञ्जोरं श्वेतचामरशोभनम् ।
मनोयायि रथं दिव्यमीस्वरेच्छाविनिर्मितम् ॥ १,११.१४ ॥
मुक्तामाणिक्यहीरेन्द्रैर्मणीन्द्रैश्च परिष्कृतम् ।
सद्रत्नमालाजालैश्च श्वेतचामरदर्पणैः ॥ १,११.१५ ॥
सुशोभितं च परितो लक्षैः सुन्दरमन्दिरैः ।
मणिमानिक्यहीराढ्यं सद्रत्नकलशोज्ज्वलम् ॥ १,११.१६ ॥
सहस्रचक्रसंसक्तं योजनायतसम्मितम् ।
धनुर्लक्षोच्छ्रितं चैव सहस्राश्वेन योजितम् ॥ १,११.१७।
एतदेव ददौ ब्रह्मा प्रहृष्टस्तुष्ट एव च ।
शम्भुस्तुष्टो ददौ हृष्टो हरिभक्तिं च निश्चलाम् ॥ १,११.१८ ॥
ज्ञानमध्यात्मिकं चैव योगज्ञानं सुदुर्लभम् ।
नानाजन्मस्मृतिज्ञानं नैपुण्यं सर्वसिद्धिषु ॥ १,११.१९ ॥
हरेश्चर्चाविधानं च स्तवनं पूजनं तथा ।
माणिक्यहीराहारं च रत्नलक्षं सुदुर्लभम् ॥ १,११.२० ॥
नागहारं ददौ शेषो नागेन्द्रमौलिमण्डनम् ।
नागकन्याशतं चैव वरभूषणभूषितम् ॥ १,११.२१ ॥
नागेभ्यश्चाभ्यं नित्यं हिस्रजन्तुभ्य एव च ।
नृपालयगतिज्ञानं सर्वलोकविलोकनम् ॥ १,११.२२ ॥
निर्विघ्नत्वं ददौ तस्मै विघ्न्राजश्च संसदि ।
सुदुर्लभं पादपद्मयुग्मरेणुमभीप्सितम् ॥ १,११.२३ ॥
अमूल्यं च निरुपमं ग्रीष्मसूर्यप्रभोपमम् ।
मणिराजं सुदीप्तं च त्रिषु लोकेषु दुर्लभम् ॥ १,११.२४ ॥
सर्वत्र विजयं चैव वाञ्च्छितं निर्मलं यशः ।
संगीतविद्याविज्ञानं तन्नैपुण्यं मनोहरम् ॥ १,११.२५ ॥
लक्षस्वर्णं धनेशश्च दासानां च शतं शतम् ।
धर्मः कीर्तिमयीं मालां स्कन्दो धैर्यं ददौ तथा ॥ १,११.२६ ॥
विषयजीर्णापहरणं ददौ धन्वन्तरिर्मनुम् ।
सूर्यः स्यमन्तकमणिं स्वर्णाभाराष्टकप्रसुम् ॥ १,११.२७ ॥
चन्द्रः श्वेताश्वरत्नं च ह्यमूल्यमुत्तमं ददौ ।
वह्निशुद्धांशुकयुगं ददौ वह्निश्च संसदि ॥ १,११.२८ ॥
उपेन्द्रो रत्नकोटिं च तदेवेन्द्रो ददौ पुरा ।
वीणाशिल्पं विश्वकर्मा वरुणश्च मणिस्रजम् ॥ १,११.२९ ॥
स्मरः शृङ्गारनैपुण्यं वीर्यस्तम्भनमेव च ।
कामसन्दीपनं ज्ञानं कामिनीप्रेममूर्छनम् ॥ १,११.३० ॥
कामिनीवशगं शिल्पं रतितत्त्वं ददौ तथा ।
पापदाहनमन्त्रं च रत्नछत्रं समीरणः ॥ १,११.३१ ॥
यमश्च धर्मतत्त्वं च नरकत्राणकारणम् ।
वसवश्च वसून् दिव्यान् रुद्रस्तेभ्योऽभयं ददौ ॥ १,११.३२ ॥
मधुपात्रं सुधापात्रं जयन्तो नलकूवरः ।
शुक्लपुष्पं शुक्लधान्यं पादरेणुमभीप्सितम् ॥ १,११.३३ ॥
मनोभिरां मनुयो ददौ तस्मै शुभाशिषम् ।
लक्ष्मीश्च परमैश्वर्यं भारती हारमुत्तमम् ॥ १,११.३४ ॥
रत्नमालां ददौ दुर्गा सर्वत्राभयमीप्सितम् ।
तत्पत्नीभ्यश्च रत्नानि सिन्दूराभरणानि च ॥ १,११.३५ ॥
क्रीडापद्मं रोहिनी च रतिः सद्रत्नदर्पणम् ।
तुलसी चातुलं माल्यं दिव्यं वसु वसुन्धरा ॥ १,११.३६ ॥
गङ्गा च विपुलं पुण्यं स्वाहा सद्रत्नपाशकम् ।
यमुना जलजं पद्ममम्लानं सार्वकालिकम् ॥ १,११.३७ ॥
वारुणीं वारुणी तुष्टा रत्नपात्रं शची ददौ ।
मनसा प्रददौ तस्मै नागानां मौलिमण्डनम् ॥ १,११.३८ ॥
गन्धर्वाश्चापि तत्पत्न्यः स्वशिल्पं प्रददुस्तथा ।
परमानन्दयुक्ताश्च मुनिपत्न्यः शुभाशिषम् ॥ १,११.३९ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
महोत्सवदर्शनं नाम एकादशोऽध्यायः
प्रथमैकरात्रे द्वादशोऽध्यायः
शुक उवाच
महोत्सवे सुनिष्पन्ने दानस्योत्तरकालतः ।
किं बभूव रहस्यं च तन्मां व्याख्यातुमर्हसि ॥ १,१२.१ ॥

श्रीव्यास उवाच
संप्राप्य दानं देवानां गन्धर्वश्चोपवर्हणः ।
तेषां च पुरतो भक्त्या विदयामास वै सदा ॥ १,१२.२ ॥
श्रुत्वा तद्वचनं ब्रह्मा तमुवाच च संसदि ।
शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगतामपि ॥ १,१२.३ ॥
मथुरागमनं चैव कृष्णस्य परमात्मनः ।
विलापं गोपगोपीनां श्रावयास्मांश्च साम्प्रतम् ॥ १,१२.४। ॥
महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः ।
गायन्तु ताश्च संगीतं नृत्यन्त्वप्सरां गणाः ॥ १,१२.५ ॥
ब्रह्मणश्च वचः श्रुत्वा ननृत्युश्चाप्सरोगणाः ।
चक्रुस्ताः सरसं गीतं विद्याधर्यश्च संसदि ॥ १,१२.६ ॥
मायिनां चैव प्रवरो गन्धर्वश्चोपवर्हणः ।
जगौ सन्धानभावेन मथुरागमनं हरेः ॥ १,१२.७ ॥
विलापं गोकुलस्थानां श्रुत्वा विप्राः सुरादयः ।
मूर्च्छां प्रापुश्च रुरुदुर्ददुर्दानं पुनः पुनः ॥ १,१२.८ ॥
गोपीनां विरहालापैर्मूर्च्छितश्चोपवर्हणः ।
विस्वरेण वितनात्तु तालभङ्गो बभूव ह ॥ १,१२.९ ॥
तत्तालभङ्गं विज्ञाय देवाश्च मुनयस्तथा ।
चुकुपुः सहसा सर्वे निर्गतास्तन्मुखाग्नयः ॥ १,१२.१० ॥
तद्दृष्ट्वा सहसा भीतो गन्धर्वश्चोपवर्हणः ।
सस्मार कृष्णं स्वभीष्टं परमात्मानमीश्वरम् ॥ १,१२.११ ॥
ददृशुः स्मृतिमात्रेण तत्तेजो नभसि स्थितम् ।
स्तम्भिता देवताः सर्वाशिचक्रपुत्तलिका यथा ॥ १,१२.१२ ॥
स्तम्भिता वह्नयः सर्वे मुनयश्च विजृम्भिताः ।
हरिस्मृतिश्चाभयदा शुभदा विघ्ननाशिनी ॥ १,१२.१३ ॥
ददृशुर्देवताः सर्वाः मुनयश्चापि योषितः ।
गन्धर्वाश्च तथैवान्ये तेजो दृश्यं सुखप्रदम् ॥ १,१२.१४ ॥
परं कुञ्ज्ञटिकाकारं कोटीन्दुकिरणप्रभम् ।
योजनायतविस्तीर्णं सुस्निग्धं सुमनोहरम् ॥ १,१२.१५ ॥
तत्तेजोऽभ्यन्तरे सर्वे ददृशू रथमुत्तमम् ।
गव्यूतिमानं विस्तीर्णं धनुष्कोटिसमुच्छ्रितम् ॥ १,१२.१६ ॥
श्वेताश्वानां च चक्राणां सहस्रेण समावृतम् ।
अमूल्यरत्नरचितमीश्वरेच्छाविनिर्मितम् ॥ १,१२.१७ ॥
नानाचित्रविचित्राढ्यं मनोयायि ममोहरम् ।
मुक्तामाणिक्यपरमहीराहारैर्विराजितम् ॥ १,१२.१८ ॥
रत्नदर्पणलक्षैश्च त्रिलक्षैः श्वेतचामरैः ।
वह्निशुद्धांशुकानां च त्रिलक्षैः परिशोभितम् ॥ १,१२.१९ ॥
त्रिकोटिभिश्च ज्वलितं क्रीडासुन्दरमन्दिरैः ।
पारिजातप्रसूनानां मन्दराणां मनोहरैः ॥ १,१२.२० ॥
मालाजालैस्त्रिलक्षैश्च मालतीनां च मण्डितम् ।
एवंभूतं रथं दृष्ट्वा ददृशुस्ते तद्अनन्तरे ॥ १,१२.२१ ॥
मध्यकोष्ठाभ्यन्तरे च किशोरं श्यामसुन्दरम् ।
वह्निशुद्धांशुकेनैव पीतवर्णेन शोभितम् ॥ १,१२.२२ ॥
रत्नकेयूरवलयरत्नमञ्जीररञ्जितम् ।
रत्नकुण्डलयुग्मेन गण्डस्थलसमुज्ज्वलम् ॥ १,१२.।२३ ॥
ईषद्धास्यप्रसन्नास्यं नित्योपास्यं सुरासुरैः ।
चन्दनोक्षितसर्वाङ्गं मालतीमाल्यमण्डितम् ॥ १,१२.२४ ॥
मणिना कौस्तुभेन्द्रेण गण्डस्थलविभूषितम् ।
परं प्रधानं परमं परमात्मानमीश्वरम् ॥ १,१२.२५ ॥
स्तुतं ब्रह्मेशशेषैश्च राधावक्षः स्थलस्थितम् ।
वेदानिर्वचनीयं च स्वेच्छामयमनीश्वरम् ॥ १,१२.२६ ॥
नित्यं नित्यं निर्गुणं च ज्योतिरूपं सनातनम् ।
प्रकृतेः परमीशानं भक्तानुग्रहकातरम् ॥ १,१२.२७ ॥
कोटिकन्दर्पलावण्यलीलाधाममनोहरम् ।
मयूरपुच्छचूडं च वरं वंशीधरं परं ॥ १,१२.२८ ॥
दृष्ट्वा तमद्भुतं रूपं तुष्टाव कमलोद्भवः ।
गणेशः शेषः शम्भुश्च तद्अन्ये मुनयः सुराः ॥ १,१२.२९ ॥

ब्रह्मोवाच
परं ब्रह्म परं धाम परमात्मानमीश्वरम् ।
वन्दे वन्द्यं च सर्वेषां सर्वकारणकारणम् ॥ १,१२.३० ॥
सर्वेश्वरं सर्वरूपं सर्वाद्यं सद्भिरीडितम् ।
वेदावेद्यं च विद्वद्भिर्न दृष्टं स्वप्नगोचरे ॥ १,१२.३१ ॥

श्रीमहादेव उवाच
सिद्धस्वरूपं सिद्धाद्यं सिद्धबीजं सनातनम् ।
प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर्गुरुम् ॥ १,१२.३२ ॥
वन्दे वन्द्यं च महतां परात्परतरं विभुम् ।
स्वात्मारामं पूर्णकामं भक्तानुग्रहकातरम् ॥ १,१२.३३ ॥
भक्तिप्रियं च भक्तेशं स्वभक्तिदास्यदं परम् ।
स्वपदप्रदमेकं च दातारं सर्वसम्पदाम् ॥ १,१२.३४ ॥

अनन्त उवाच
वक्त्राणां च सहस्रेण किं वा स्तौमि श्रुतिश्रुतम् ।
कोटिभिः कोटिभिर्वक्त्रैः को वा स्तोतुं क्षमः प्रभो ॥ १,१२.३५ ॥
किमु स्तोष्यति शम्भुश्च पञ्चवक्त्रेण वाञ्च्छितम् ।
कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्मुखः ॥ १,१२.३६ ॥
षड्वक्त्रो गजवक्त्रश्च देवाश्च मुनयोऽपि वा ।
वेदा वा किं वेदविदः स्तुवन्ति प्रकृतेः परम् ॥ १,१२.३७ ॥
वेदानिर्वचनीयं च वेदा निर्वक्तुमक्षमाः ।
वेदविज्ञातवाक्येन विद्वांसः किं स्तुवन्ति तम् ॥ १,१२.३८ ॥

श्रीगणेश उवाच
मूर्खो वदति विष्णाय बुधो वदति विष्णवे ।
नम इत्येवमर्थं च द्वयोरेव समं फलम् ॥ १,१२.३९ ॥
यस्मै दत्तं च यज्ज्ञानं ज्ञानदाता हरिः स्वयम् ।
ज्ञानेन तेन स स्तौति भावग्राही जनार्दनः ॥ १,१२.४० ॥
एकवक्त्रोऽनेकवक्त्रो मूर्खो विद्वान् स्वकर्मणा ।
अधनी च धनी वापि सपुत्रो वाप्यपुत्रकः ॥ १,१२.४१ ॥
कर्मणा परमीशं च स्तोतुं को वाप्यनुत्तमम् ।
यथाशक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः ॥ १,१२.४२ ॥
संकीर्तनं च भजनं जपनं बुद्ध्य्अनुक्रमम् ।
कुर्वन्ति सन्तोऽसन्तश्च सन्ततं परमात्मनः ॥ १,१२.४३ ॥

कार्तिकेय उवाच
सर्वान्तरात्मा भगवान् ज्ञानं च सर्वजीविनां ।
ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तम् ॥ १,१२.४४ ॥
भवेषु त्रिविधो लोकोऽप्युत्तमो मध्यमोऽधमः ।
सर्वे स्वकर्मवशगा निषेकः केन वार्यते ॥ १,१२.४५ ॥
सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्प्रभुम् ।
मद्ईश्वरस्य समता सर्वेषु किंकरेषु च ॥ १,१२.४६ ॥
भजन्ति केचित्शुद्धान्तं परमात्मानमीश्वरम् ।
केचित्तद्अंशांशं प्राप्नुवन्ति क्रमेण तम् ॥ १,१२.४७ ॥

धर्म उवाच
अहं साक्षी च सर्वेषां विधिना निर्मितः पुरा ।
विधातुश्च विधाता त्वं सर्वेश्वरं नमोऽस्तु ते ॥ १,१२.४८ ॥

देवा ऊचुः
यं स्तोतुमसमर्थश्च सहस्रायुः स्वयं विधिः ।
ज्ञानाधिदेवः शम्भुश्च तं स्तोतुं किं वयं क्षमाः ॥ १,१२.४९ ॥

वेदा ऊचुः
किं जानीमो वयं के वाप्यनन्तेशस्य यो गुणः ।
वयं वेदाश्त्वमस्माकं कारणस्यापि कारकः ॥ १,१२.५० ॥

मुनयः ऊचुः
यदि वेदा न जानन्ति माहात्म्यं परमात्मनः ।
न जानीमस्तव गुणं वेदानुसारिणो वयम् ॥ १,१२.५१ ॥

सरस्वत्युवाच
विद्याधिदेवताहं च वेदा विद्याधिदेवकाः ।
वेदाधिदेवो धाता च तद्ईशं स्तौमि किं प्रभो ॥ १,१२.५२ ॥

पद्मोवाच
यत्पादपद्मं पद्मेशः शेषाश्चान्ये सुरास्तथा ।
ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परम् ॥ १,१२.५३ ॥

सावित्र्युवाच
सावित्री वेदमाताहं वेदानां जनको विधिः ।
त्वामेव धत्ते धातरं नमामि त्रिगुणात्परम् ॥ १,१२.५४ ॥

श्रीपार्वत्युवाच
तव वक्षसि राधाहं रासे वृन्दावने वने ।
महालक्ष्मीश्च वैकुण्ठे पादपद्मार्चने रता ॥ १,१२.५५ ॥
श्वेतद्वीपे सिन्धुकन्या विष्णोरुरसि भूतले ।
ब्रह्मलोके च ब्रह्माणी वेदमाता च भारती ॥ १,१२.५६ ॥
तवाज्ञया च देवानामविर्भूता च तेजसि ।
निहत्य दैत्यान् देवारीन् दत्वा राज्यं सुराय च ॥ १,१२.५७ ॥
तत्पश्चाद्दक्षकन्याहमधुना पार्वती हरे ।
तवाज्ञया हरक्रोडे त्वद्भक्ता प्रतिजन्मनि ॥ १,१२.५८ ॥
नारायणप्रिया शश्वत्तेन नारायणी श्रुतौ ।
विष्णोरहं पराशक्तिर्विष्णुमाया च वैष्णवी ॥ १,१२.५९ ॥
अनन्तकोटि ब्रह्माण्डं मया सम्मोहितं सदा ।
विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती ॥ १,१२.६० ॥
महाविष्णोश्च माताहं विश्वानि यस्य लोमसु ।
रामेश्वरी च सर्वाद्या सर्वशक्तिस्वरूपिणी ॥ १,१२.६१ ॥
तद्रासे धारणाद्राधा विद्वद्भिः परिकीर्तिता ।
परमानन्दपादाब्जं वन्दे सानन्दपूर्वकम् ॥ १,१२.६२ ॥
यत्पादपद्मं ध्यायन्ते परमानन्दकारणम् ।
पादपद्मेशशेषाद्या मुनयो मनवः सुराः ॥ १,१२.६३ ॥
योगिनः सन्ततं सन्तः सिद्धाश्च वैष्णवास्तथा ।
अनुग्रहं कुरु विभो बुद्धिशक्तिरहं तव ॥ १,१२.६४ ॥

इति संवृतं स्तोत्रं यः पठेत्संयतः शुचिः ।
इहैव च सुखं भुङ्क्ते यात्यन्ते श्रीहरेः पदम् ॥ १,१२.६५ ॥
निवृत्तेषु च वेदेषु देवीषु मुनिपुङ्गवे ।
उपवर्हणगन्धर्वः स्तुतिं कर्तुं समुद्यतः ॥ १,१२.६६ ॥

अथ गन्धर्वकृतस्तोत्रम्

गन्धर्व उवाच
वन्दे नवघनश्यामं पीतकौशेयवाससम् ।
सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम् ॥ १,१२.६७ ॥
राधेशं राधिकाप्राणवल्लभं वल्लवीसुतम् ।
राधासेवितपादाब्जं राधावक्षःस्थलस्थितम् ॥ १,१२.६८ ॥
राधानुरागं राधिकेष्टं राधापहृतमानसम् ।
राधाधरं भवाधारं सर्वाधारं नमामि तम् ॥ १,१२.६९ ॥
राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभम् ।
राधासहचरं शश्वत्राधाज्ञापरिपालकम् ॥ १,१२.७० ॥
ध्यायन्ते योगिनो योगात्सिद्धाः सिद्धेश्वराश्च यम् ।
तं ध्याये सततं शुद्धं भगवन्तं सनातनम् ॥ १,१२.७१ ॥
सेवन्ते सन्ततं सन्तो ब्रह्मेशशेषसंज्ञकाः ।
सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥ १,१२.७२ ॥
निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् ।
नित्यं सत्यं च परं भगवन्तं सनातनम् ॥ १,१२.७३ ॥
यं सृष्टेरादिभूतं च सर्वबीजं परात्परम् ।
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ॥ १,१२.७४ ॥
बीजं नानावताराणां सर्वकारणकारणम् ।
वेदावेद्यं वेदबीजं वेदकारणकारणम् ॥ १,१२.७५ ॥
योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनम् ।

इत्येवमुक्त्वा गन्धर्वः पपात धरणीतले ॥ १,१२.७६ ॥
ननाम दण्डवद्भूमौ देवदेवं परात्परम् ।
इति तेन कृतं स्तोत्रं यः पठेत्प्रयतः शुचिः ॥ १,१२.७७ ॥
इहैव जीवन्मुक्तश्च परे याति परां गतिम् ।
हरिभक्तिं हरेर्दास्यं गोलोके च निरामयः ।
पार्षदप्रवरत्वं च लभते नात्र संशयः ॥ १,१२.७८ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गन्धर्वकृतस्तोत्रं नाम द्वादशोऽध्यायः
प्रथमैकरात्रे त्रयोदशोऽध्यायः

श्रीशुक उवाच
स्तोत्रान्तरे च काले च किं रहस्यं बभूव ह ।
तन्मे कथय भद्रं ते भगवन् भगवद्वचः ॥ १,१३.१ ॥

श्रीव्यास उवाच
स्तोत्रान्तरे च काले च गन्धर्वश्चोपवर्हणः ।
उवाच ब्रह्मसंसदि भगवन्तं सनातनम् ॥ १,१३.२ ॥

सर्वैर्देवैरहं शप्तश्चाधुना देवहेतुना ।
देवानामग्निपुञ्जश्च प्रदीप्तश्च सुमेरुवत् ॥ १,१३.३ ॥
अधुना च त्वयि गते भस्मासान्मां करिष्यति ।
अतो रक्ष जगन्नाथ मां समुद्धर्तुमर्हसि ॥ १,१३.४ ॥
त्वद्अंशशूकरेणैव धरोद्धारः कृतः पुरा ।
हिरण्याख्यं महादैत्यं निहत्य चावलीलया ॥ १,१३.५ ॥
पाद्मपद्मार्चितपदे पद्मे ते शरणागतम् ।
मामनाथं भयाक्रान्तं रक्ष रक्ष सुरानलात् ॥ १,१३.६ ॥

गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगद्ईश्वरः ।
उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्मसंसदि ॥ १,१३.७ ॥

अथ गन्धर्वमोक्षणम्

श्रीभगवानुवाच
गन्धर्वराजप्रवर स्थिरो भव भयं त्यज ।
शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते ॥ १,१३.८ ॥
सर्वेभ्योऽपि भयं नास्ति मद्भक्तानामकर्मणाम् ।
जन्ममृत्युजराव्याधिभयं तेषां न विद्यते ॥ १,१३.९ ॥
मन्मन्त्रोपासकश्चैव स्वतन्त्रो नित्यविग्रहः ।
पुनर्न विद्यते जन्म मन्त्रग्रहणमात्रतः ॥ १,१३.१० ॥
नास्ति कालाद्भयं तस्य न निषेकाद्विधेरपि ।
मन्त्रग्रहणमात्रेण मुच्यते सर्वकर्मणः ॥ १,१३.११ ॥
मन्मन्त्रो हि देहात्पापं कोटिजन्मकृतं च यत् ।
सुदीप्तो ज्वलद्अग्निश्च तृणपुञ्जं देहाद्यथा ॥ १,१३.१२ ॥
मन्मन्त्रग्रहणाद्योगान्मन्नामग्रहणस्य वा ।
तेषां पापानि वेपन्ते कोटिजन्मकृतानि च ॥ १,१३.१३ ॥
यमस्तन्नामलिखनं दूरीभूतं करोति च ।
अन्ते दास्यं च लभते गत्वा गोलोकमुत्तमम् ॥ १,१३.१४ ॥
यावदायुर्भ्रमेत्तावत्स्वतन्त्रो मत्तकुञ्जरः ।
ततः पापाः फलायन्ते वैनतेयादिवोरगाः ॥ १,१३.१५ ॥
तेषां च पादरजसा सद्यः पूता वसुन्धरा ।
पुनाति सर्वतीर्थानि दूरतो दर्शनादपि ॥ १,१३.१६ ॥
पूतश्च पवनो वह्निर्जलं च तुलसीदलम् ।
पूतान्येव हि तीर्थानि गङ्गादीनि च गायन ॥ १,१३.१७ ॥
पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पतिव्रता ।
मन्मन्त्रोपासकाश्चैव तेभ्यः पूतोत्तमाः सदा ॥ १,१३.१८ ॥
मन्त्रोपासकानां च तीर्थस्थानं व्रतं सुत ।
श्राद्धं दानं पूजनं च यथा चर्वितचर्वणम् ॥ १,१३.१९ ॥
भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः ।
तत्तन्त्रं च तथा दानमलं श्राद्धं च निष्फलम् ॥ १,१३.२० ॥
श्राद्धस्य सम्प्रदानं च कर्तुश्च पुरुषत्रयम् ।
पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्धवस्तु च ॥ १,१३.२१ ॥
केचिदेवं वदन्तीति पितृलोकार्थमेव च ।
तद्विरुद्धं च ते तुष्टा मन्त्रग्रहणमात्रतः ॥ १,१३.२२ ॥
तेषां शुभाशिषं कर्म नैव भोगाय कल्पते ।
देवान्न प्रभवेद्वत्स सिद्धधान्ये यथाङ्कुरः ॥ १,१३.२३ ॥
साक्षात्करोति तेषां च कर्ममूलनिकृन्तनम् ।
मन्त्रोपासकादन्ये कर्मभोगं च भुञ्जते ॥ १,१३.२४ ॥
मया स्वयं प्रदत्तश्च स्वमन्त्रः पुरुषाय च ।
परद्वाराद्ग्राहयित्वा भक्तं मुक्तं करोम्यहम् ॥ १,१३.२५ ॥
मया प्रदत्तमन्त्रश्च पुरा मृत्युञ्जयस्तथा ।
मृत्युञ्जयाय गोलोके शुद्धसत्त्वगुणाय च ॥ १,१३.२६ ॥
पुनः सनत्कुमाराय धर्माय ब्रह्मणे तथा ।
कपिलाय च शेषाय गणेशाय च महामते ॥ १,१३.२७ ॥
नारायणर्षये चैव धर्मपुत्राय धीमते ।
पुनर्महाविष्णवे च विश्वानि यस्य लोमसु ॥ १,१३.२८ ॥
कालाधिष्ठातृदेवाय तस्मै सर्वान्तकाय च ।
उपेन्द्राय च कामाय भृगवेऽङ्गिरसे तथा ॥ १,१३.२९ ॥
सरस्वत्यै च पद्मायै राधायै विरजातटे ।
शवित्र्यै विष्णुमायायै पार्षदेभ्यश्च पुत्रक ॥ १,१३.३० ॥
तुभ्यं न दत्तो मन्त्रोऽत्र श्रूयतां तन्निमित्तकम् ।
जनिष्यसि शूद्रयोनौ ब्रह्मणो वाक्यपालनात् ॥ १,१३.३१ ॥
इत्येवं कथितं सर्वं गच्छ वत्स यथा सुखम् ।
द्वादशाब्दान्तरे शूद्रयोनौ देवाज्जनिष्यसि ॥ १,१३.३२ ॥
पञ्चवर्षाभ्यन्तरे च मन्मन्त्रं प्राप्य विप्रतः ।
दशाब्दान्ते वपुस्त्यक्त्वा ब्रह्मपुत्रो भविष्यसि ॥ १,१३.३३ ॥
मन्मन्त्रं पुनरेवेति शम्भुवक्त्राल्लभिष्यसि ।

इत्येवमुक्त्वा सर्वात्मा तत्रैवान्तरधीयत ॥ १,१३.३४ ॥
गन्धर्वः प्रययौ तस्माद्योषिद्भिः सह पुत्रक ।
इत्येवं कथितं सर्वं पूर्ववृत्तान्तमेव च ॥ १,१३.३५ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैकरात्रे
गन्धर्वमोक्षणं नाम त्रयोदशोऽध्यायः
प्रथमैकरात्रे चतुर्दशोऽध्यायः
श्रीशुक उवाच
प्रयाते राधिकानाथे गोलोकं च निरामयम् ।
बभूव किं रहस्यं च गते गन्धर्वपुङ्गवे ॥ १,१४.१ ॥

श्रीव्यास उवाच
सर्वे देवाश्च मुनयः प्रयाते परमात्मनि ।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ १,१४.२ ॥
उवाच शम्भुर्ब्रह्माणं नीतिसारविशारदम् ।
ज्ञानाधिदेवो भगवान् परिणामसुखं वचः ॥ १,१४.३ ॥

श्रीमहादेव उवाच
रक्षिता यस्य भगवान् कल्याणं तस्य सन्ततम् ।
स यस्य विघ्नकर्ता च रक्षितुं तं च कः क्षमः ॥ १,१४.४ ॥
स्मृतिमात्रेण निर्विघ्ना ये च कृष्णपरायणः ।
विघ्नं कर्तुं के समर्थास्तेषां च मुनयः सुराः ॥ १,१४.५ ॥
कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतम् ।
देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया ॥ १,१४.६ ॥
यदि तिष्ठन्ति भूमौ च दग्धशस्या वसुन्धरा ।
जले यदि ततस्तप्तं नष्ठास्ते जलजन्तवः ॥ १,१४.७ ॥
स्थाले दहन्ति लोकांश्च वृक्षांश्च प्रलयाग्नयः ।
विधानं कर्तुमुचितमेषां च जगतां विधे ॥ १,१४.८ ॥
त्वमेव धाता जगतां पिता च विष्णुरीश्वरः ।
कालाग्निरुद्रः संहर्ता नेदानी प्रलयक्षमः ॥ १,१४.९ ॥
एते विषयिणः सर्वे कृष्णस्य परमात्मनः ।
आज्ञावहाश्च सततं दिक्पालाश्च दिग्ईश्वराः ॥ १,१४.१० ॥
तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणाम् ।
भ्रमन्ति विषये शश्वन्मोहिता मायया हरेः ॥ १,१४.११ ॥
अहं न पाता न स्रष्टा न संहर्ता च जीवनाम् ।
निर्लिप्तोऽ हं तपस्वी च हरेराराधनोन्मुखः ॥ १,१४.१२ ॥
संहारविषयं मह्यं श्रीकृष्णश्च पुरा ददौ ।
दत्वा रुद्राय तदहं तपस्यासु रतो हरेः ॥ १,१४.१३ ॥
तद्अर्चनेन ध्यानेन तपसा पूजनेन च ।
स्तवेन कवचनेनैव नाममन्त्रजपेन च ॥ १,१४.१४ ॥
मृत्युञ्जयोऽ हमधुना न च कालाद्भयं मम ।
कालः संहरते सर्वं मां विना च तथेश्वरम् ॥ १,१४.१५ ॥
पुरा सर्वादिसर्गे च कस्यचित्स्रष्टुरेव च ।
भालोद्भवाश्च ते रुद्रास्तेष्वेकोऽ हं शङ्करः ॥ १,१४.१६ ॥
कल्पश्च ब्रह्मणः पाते लये प्राकृतिके तथा ।
सर्वे नष्टा विषयिणो न भक्ताश्च यथेश्वरः ॥ १,१४.१७ ॥
असंख्यब्रह्मणः पातः कल्पश्चासंख्य एव च ।
समतीतः कतिविधो भविता या पुनः पुनः ॥ १,१४.१८ ॥
श्रीकृष्णस्य निमेषेण ब्रह्मणः पतनं भवेत् ।
तत्र प्राकृतिकाः सर्वे तिरोभूताः पुनः पुनः ॥ १,१४.१९ ॥
न प्राकृतो न विषयी नित्यदेही च वैष्णवः ।
हरेर्वरेणामरोऽहं शिवाधारस्ततस्ततः ॥ १,१४.२० ॥
जलप्लुतं च विश्वौघं लये प्राकृतिके ध्रुवम् ।
आब्रह्मलोकपर्यन्तं परं कृष्णालयं विना ॥ १,१४.२१ ॥
सर्वा देव्यो विलीनाश्च कृष्णः सत्यं सुनिश्चितम् ।
सर्वे पुमांसो लीनाश्च सत्ये नित्ये सनातने ॥ १,१४.२२ ॥
अहं कृष्णश्च प्रकृतिः पार्षदप्रवरो हरेः ।
नित्यं नित्या विद्यमाना गोलोके च निरामये ॥ १,१४.२३ ॥
एक ईशो न द्वितीय इति सर्वादिसर्गतः ।
नहि नश्यन्ति तद्भक्ताः प्रकृतिप्राकृते लये ॥ १,१४.२४ ॥
तस्य भक्तोत्तमानां च सततं स्मरणेन च ।
आयुर्व्ययो नहि भवेत्कथं मृत्युर्भविष्यति ॥ १,१४.२५ ॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित् ।
तेषां भक्तोत्तमानां च सततं स्मरणेन च ॥ १,१४.२६ ॥
जन्ममृत्युजराव्याधिभयं नाप्युपजायते ।
अत्र कल्पे भवान् ब्रह्मा व्यवस्थाता च कर्मसु ॥ १,१४.२७ ॥
स्थलं कोपानलानां च विधानं यद्विधे कुरु ।
शम्भोश्च वचनं श्रुत्वा कम्पितः कमलासनः ।
स्थलं चकार वह्नीनामाज्ञया शङ्करस्य च ॥ १,१४.२८ ॥

ब्रह्मोवच
ज्वरस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।
भस्मप्रहरणो रौद्रः कालान्तकयमोपमः ॥ १,१४.२९ ॥
भवे भवतु सर्वत्र भवकोपानलोऽधुना ।
प्राकृतेषु च देहेषु व्यापारोऽस्य मया कृतः ॥ १,१४.३० ॥
मम कोपानलः शम्भो संस्कृताग्निर्द्विजस्य च ।
भवे भवतु सर्वत्र व्यापारोऽस्य मया कृतः ॥ १,१४.३१ ॥
शेषस्य कोपवह्निश्च शेषास्येऽस्त्वधुना शिव ।
यतो विश्वं च प्रलये दहेद्गोमयपिण्डवत् ॥ १,१४.३२ ॥
वह्नेर्मुख्यानलो विश्वे व्यवहाराग्निरीश्वरः ।
भ्वत्वेव हि सर्वत्र सर्वेषामुपकारकः ॥ १,१४.३३ ॥
धर्मास्यकोपवह्निश्च कृष्णाग्निश्च भवत्वयम् ।
अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति ॥ १,१४.३४ ॥
सूर्यकोपानलश्चायं दावाग्निश्च वनेषु च ।
स्थितिरस्य तरोः स्कन्धे तद्भक्ष्याः पशुपक्षिणः ॥ १,१४.३५ ॥
चन्द्रकोपानलो विश्वे कामिनां विरहानलः ।
दम्पत्योर्विरहे शश्वद्भक्ष्यति स्म द्वयोस्तनुम् ॥ १,१४.३६ ॥
इन्द्रकोपानलः सद्यो वज्राग्निश्च बभूव ह ।
उपेन्द्रस्यानलश्चैव विद्युदेव भ्वत्वयम् ॥ १,१४.३७ ॥
रुद्राणामास्यवह्निश्च महोल्काग्निर्भवत्वयम् ।
गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति ॥ १,१४.३८ ॥
यत्र तिष्ठेत्तदुषरमेवमेवं विदुर्बुधाः ।
स्कन्दकोपानलश्चैव रणास्त्राग्निर्बभूव ह ॥ १,१४.३९ ॥
कामेतराणां देवानां मुनीनां च मुखानलः ।
जग्राहौर्वमुनिस्तत्र तेजसि ब्रह्मणः सुतः ॥ १,१४.४० ॥
स्वदक्षिणोरौ स मुनिः संस्थाप्य वेदमन्त्रतः ।
ब्रह्मणं च नमस्कृत्य शङ्करं तपसे ययौ ॥ १,१४.४१ ॥
कालेन तस्मान्निःसृत्य समुद्रे वाडवानलः ।
स बभूव पुरा पुत्र परमौर्वानलः स्वयम् ॥ १,१४.४२ ॥
कामाग्निमुल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः ।
समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि ॥ १,१४.४३ ॥
अजुहाव स्त्रियः सर्वाः सुव्रताश्च पतिव्रताः ।
आयुयुर्योषितः सर्वास्ता ऊचुः कमलोद्भवम् ॥ १,१४.४४ ॥

स्त्रिय ऊचुः
किमस्मान् ब्रूहि भगवन् शाधि नः करवाम किम् ।
आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः ॥ १,१४.४५ ॥

ब्रह्मोवाच
गृहीत्वा मदनाग्निं च मैथुने सुखदायकम् ।
विश्वे च योषितः सर्वाः शश्वत्कामा भवन्तु च ॥ १,१४.४६ ॥
ब्रह्मणश्च वचः श्रुत्वा कोपरक्तास्यलोचनः ।
तमूचुः योषितः सर्वा भयं त्यक्त्वा च संसदि ॥ १,१४.४७ ॥

स्त्रिय ऊचुः
धिक्त्वां जगद्विधिं व्यर्थं चकार परमेश्वरः ।
अपूज्यो मोहिनीशापात्पुत्रशापेन साम्प्रतम् ॥ १,१४.४८ ॥
गृहीत्वा मदनाग्निं च पुरुषाश्च तथा स्त्रियः ।
नित्यं दहन्ति सततं वास्तवं दुःसहं परम् ॥ १,१४.४९ ॥
तद्एकभागः पुरुषे त्रिभागश्चापि योषिति ।
तेन दुग्धाः स्त्रियः सर्वाश्चास्माकमपरेण किम् ॥ १,१४.५० ॥
समर्पणं चेत्पुरुषे यद्यस्मासु स्मरानलः ।
भस्मीभूतं करिष्यामो रक्षिता को भवेत्तव ॥ १,१४.५१ ॥

पतिव्रतावचः श्रुत्वा तमुवाच शिवः स्वयम् ।
हितं सत्यं नितिसारं परिणामसुखावहम् ॥ १,१४.५२ ॥

अथ कुलटोत्पत्तिः

श्रीमहादेव उवाच
त्यज द्वन्द्वं महाभाग सुव्रताभिः सहाधुना ।
पतिव्रतानां तेजश्च सर्वेभ्यश्च परं भवेत् ॥ १,१४.५३ ॥
निर्माणं कुरु देवेन्द्र कृत्यां स्त्रीजातिमीश्वर ।
तस्यै देहि दुःखबीजं कामकोपानलं परम् ॥ १,१४.५४ ॥

शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः ।
ससृजे तत्क्षणं मूर्तिं स्त्रीरूपां सुमनोहरां ॥ १,१४.५५ ॥
अहो रूपमहो वेशमहो अस्या नवं वयः ।
अहो चक्षुः कटाक्षं च मुनीनां मोहयन्मनः ॥ १,१४.५६ ॥
अहो कठिनं चारु स्तनयुग्मं सुवर्तुलम् ।
विचित्रं कठिनं स्थूलं श्रोणियुग्मं च सुन्दरम् ॥ १,१४.५७ ॥
नितम्बयुग्मं वलितं चक्राकारं सुकोमलम् ।
श्वेतचम्पकवर्णाभं सर्वावयमीप्सितम् ॥ १,१४.५८ ॥
शरत्पार्वणकोटीन्दुविनिन्दास्यं सुशोभनम् ।
ईषद्धास्यप्रसन्नास्यं वस्त्रेणाच्छादितं मुदा ॥ १,१४.५९ ॥
वपुः सुकोमलं चालं नातिदीर्घं न वखरम् ।
वह्निशुद्धांशुकं रत्नभूषणैर्भूषितं सदा ॥ १,१४.६० ॥
दाडिम्बकुमुदाकारं सान्द्रं सिन्दूरसुन्दरम् ।
कस्तूरीविन्दुना सार्धं स्निग्धचन्दनविन्दुभिः ॥ १,१४.६१ ॥
पक्वबिम्बफलाकारमधरौष्ठपुटं परम् ।
दन्तपंक्तियुगं चैव दाडिम्बबीजसन्निभम् ॥ १,१४.६२ ॥
सुचारु कवरीभारं मालतीमाल्यमण्डितम् ।
तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः ॥ १,१४.६३ ॥
दृष्ट्वा सा चन्द्ररूपं च कामोन्मत्ता विचेतना ।
कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्युवाच सा ॥ १,१४.६४ ॥
सस्पितः प्रययौ चन्द्रो लज्जया च सभातलात् ।
कामं दृष्ट्वा च चकमे कामार्ता सा गतत्रपा ॥ १,१४.६५ ॥
दुद्राव कामस्तस्माच्च तत्पश्चात्सा दधाव च ।
जहसुर्देवताः सर्वा मुनयश्चापि संसदि ॥ १,१४.६६ ॥
लज्जिता योषितह्सर्वास्तां वारयितुमक्षमाः ।
सर्वे चक्रुः परीहासं स्त्रीवर्गं शङ्करादयः ॥ १,१४.६७ ॥
कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि ।
तमश्विनीकुमारं चाप्युवाच सुरसन्निधौ ॥ १,१४.६८ ॥

कृत्याकामिन्युवाच
मां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा ।
शृङ्गारे सुखदां शान्तां परां कामातुरां वरां ॥ १,१४.६९ ॥
त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने ।
रहसि रहसि क्रीडां करिष्यामि दिवानिशम् ॥ १,१४.७० ॥
मधुपानं च दास्यामि वासितं चामलं जलम् ।
सकर्पूरं च ताम्बूलं भोगवस्तु मनोहरम् ॥ १,१४.७१ ॥
शय्यां मनोरमां कृत्वा सपुष्पचन्दनार्चिताम् ।
भगवन्तं करिष्यामि पुष्पचन्दनचर्चितम् ॥ १,१४.७२ ॥

कुमार उवाच
वचनं वद वामे मामात्मनो हृदयङ्गम ।
विहाय कपटं कान्ते कपटं धर्मनाशनम् ॥ १,१४.७३ ॥
स्त्रीधर्मं स्त्रीमनस्कामं स्त्रीस्वभावं च कीदृशम् ।
तद्आचारं कतिविधं तन्मां व्याख्यातुमर्हसि ॥ १,१४.७४ ॥

अश्विनीजवचः श्रुत्वा कामार्ता तमुवाच सा ।
कामार्तानां क्व लज्जा च क्व भयं मानमेव च ॥ १,१४.७५ ॥

अथ कुलटास्वभावकथनम्

कामिन्युवाच
स्थानं नास्ति क्षणं नास्ति नास्ति दूती तदुत्तमा ।
तेनैव युवतीनां च सतीत्वमुपजायते ॥ १,१४.७६ ॥
सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा ।
तद्रात्रं च पुलकितं योनौ कण्डूयनं परं ॥ १,१४.७७ ॥
विचेतना भवेत्सा च कामज्वरप्रपीडिता ।
सर्वं त्यजति तद्धेतोः पुत्रं कान्तं गृहं धनम् ॥ १,१४.७८। ॥
लब्ध्वा युवानं पुरुषं देशत्यागं करोति सा ।
तद्उत्तमं पुनर्लब्ध्वा तं त्यजेत्सा क्षणेन च ॥ १,१४.७९ ॥
विषं दातुं समर्था सा स्वामिनं गुणिनां वरम् ।
म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुमुत्सुका ॥ १,१४.८० ॥
त्यजेत्कुलभयं लज्जां धर्मं बन्धुं यशः श्रियम् ।
सम्प्राप्य रतिशूरं च युवानं सुरतोन्मुखम् ॥ १,१४.८१ ॥
सुदृश्यं सुन्दरमुखं शश्वन्मधुरितं वचः ।
हृदयं क्षुरधाराभं को वा जानाति तन्मनः ॥ १,१४.८२ ॥
विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे ।
तथास्थिरा च कुलटाप्रीतिः स्वप्नं च तद्वचः ॥ १,१४.८३ ॥
कुलटानां न सत्यं च न च धर्मो भयं दया ।
न लौकिकं न लज्जा स्याज्जारजिन्ता निरन्तरम् ॥ १,१४.८४ ॥
स्वप्ने जागरणे चैव भोजने शयने सदा ।
निरन्तरं कामचिन्ता जारे स्नेहो न चान्यतः ॥ १,१४.८५ ॥
कुलटा नरघातिभ्यो निर्दया दुष्टमानसाः ।
जारार्थे च सुतं हन्ति बान्धवस्य च का कथा ॥ १,१४.८६ ॥
न हि वेदा विदन्त्येवं कुलताहृदयङ्गमम् ।
कथं देवास्च मुनयः सन्तो जानन्ति निश्चयम् ॥ १,१४.८७ ॥
रतिशूरं प्रियं दृष्ट्वा क्षीरं घृतमिवाचरेत् ।
गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत्क्षणात् ॥ १,१४.८८ ॥
न विश्वसेयुस्तां दुष्टो तस्मात्सन्तो हि सन्ततं ।
न रिपुः पुरुषाणां च दुष्टस्त्रीभ्यः परो भुवि ॥ १,१४.८९ ॥
विषं मन्त्रादुपशमं जलाद्वह्निश्च निश्चितं ।
अग्नेश्च कण्ठकोच्छन्नं दुर्जनः स्तवनाद्वशः ॥ १,१४.९० ॥
लुब्धो धनेन राजा च सेवया सततं वशः ।
मिश्रं स्वच्छस्वभावेन भयेन च रिपुर्वशः ॥ १,१४.९१ ॥
आदरेण वशो विप्रो यौवती प्रेमभारतः ।
बन्धुर्वशः समतया गुरुः प्रणतिभिः सदा ॥ १,१४.९२ ॥
मूर्खो वशः कथायां च विद्वान् विद्याविचारतः ।
न हि दुष्टा च कुलटा पुंसश्च वशगा भवेत् ॥ १,१४.९३ ॥
स्वकार्ये तत्परा शश्वत्प्रीतिः कार्यानुरोधतः ।
न सर्वस्य वशीभूता विना शृङ्गारमुल्वणम् ॥ १,१४.९४ ॥
न प्रीत्या न धनेनैव न स्तवान्न सेवया ।
न प्राणदानतो वेश्या वशीभूता भवेत्क्षणम् ॥ १,१४.९५ ॥
आहारो द्विगुणस्तासां बुद्धिस्तासां चतुर्गुणा ।
षड्गुणा मन्त्रणा तासां कामश्चाष्टगुनः स्मृतः ॥ १,१४.९६ ॥
शश्वत्कामा च कुलटा न च तृप्तिश्च क्रीडया ।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ १,१४.९७ ॥
दिवानिशं च शृङ्गारं कुरुते तत्पुमान् यदि ।
न तृप्तिः कुलटानां च पुमांसं ग्रस्तुमिच्छति ॥ १,१४.९८ ॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां नासां तृप्यति सम्पदाम् ॥ १,१४.९९ ॥
न श्रेयसां मनस्तृप्तं वाडवाग्निर्न पाथसाम् ।
वसुन्धरा न रजसां न पुंसां कुलटा तथा ॥ १,१४.१०० ॥
इत्येवं कथितं किंचित् सर्वं वक्तुं च नोचितम् ।
लज्जा बीजं योषितां च निबोध भास्करात्मज ॥ १,१४.१०१ ॥

श्रुत्वा च कृत्यास्त्रीवाक्यं जहसुर्मुनयः सुराः ।
चुकुपुर्योषितः सर्वाः पद्माद्या लज्जिताः सुत ॥ १,१४.१०२ ॥
लज्जानतानना लक्ष्मीर्निर्ययौ देवमण्डलात् ।
तत्पश्चात्पार्वती सार्धं सरस्वत्या नतानना ॥ १,१४.१०३ ॥
सावित्री रोहिनी स्वाहा वारुणी च रतिः शची ।
सर्वा बभूवुरेकत्र प्रचक्रुर्मन्त्रणां च ताः ॥ १,१४.१०४ ॥
कृत्यास्त्रियः समाहूय ता ऊचुश्च क्रमेण च ।
रोधयामासुरिष्टां तां सुगोप्यामपि योषितः ॥ १,१४.१०५ ॥
तस्या मुखे ददौ हस्तं सुशीला कमलालया ।
सलज्जिता भव सुते शान्ता चेति शुभाशिषम् ॥ १,१४.१०६ ॥
सरस्वती ददौ तस्यै चाभिमानं च धैर्यताम् ।
मौखर्यं वावदूकत्वं मन्त्रणामात्मरक्षणम् ॥ १,१४.१०७ ॥
सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभम् ।
आत्मसंगोपनं चैव गाम्भीर्यं कुलतो भयम् ॥ १,१४.१०८ ॥

पार्वत्युवाच
धिक्त्वां स्वभावकुलटां लज्जिता भव सुन्दरि ।
स्वमानं गौरवं रक्ष ह्यस्माकं च स्मरातुर ॥ १,१४.१०९ ॥
जनि लभ पृथिव्यां च कायव्यूहं विधाय च ।
पुंसामष्टगुणं कामं लभस्व च पृथक्प्रृथक् ॥ १,१४.११० ॥
लज्जां चतुर्गुणां चापि द्विगुणां धैर्यतां तथा ।
अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकात् ॥ १,१४.१११ ॥
पुंसां च द्विगुणः कामो वास्तवीणां च योषिताम् ।
लज्जा चाष्टगुणा चापि धैर्यता च चतुर्गुणा ॥ १,१४.११२ ॥
कुलधर्मः कुलभयं सौशील्यं मानमूर्जितम् ।
शश्वत्तिष्ठतु पुंस्येव स्त्रीषु च ममाज्ञया ॥ १,१४.११३ ॥
यस्मात्सदसि सर्वेभ्यो लज्जाहीनः सुराधमः ।
स्त्रीस्वभावं च पप्रच्छ यज्ञभाक्न भवेत्ततः ॥ १,१४.११४ ॥
अद्यप्रभृति विश्वेषु नाग्राह्यं पापसंयुतम् ।
चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया ॥ १,१४.११५ ॥

इत्येवमुक्त्वा प्रययुर्देव्यश्च सर्वयोषितः ।
देवाश्च मुनयश्चापि ये चान्ये च समागतः ॥ १,१४.११६ ॥
देवाश्च मुनयश्चापि ये चान्ये सर्वतः सुत ।
पतिव्रताणां स्त्रीणां च लज्जा बीजस्वरूपिणी ॥ १,१४.११७ ॥

इति श्रीनारदपञ्चरात्रे ज्ञाणामृतसारे प्रथमैकरात्रे
कुलटोत्त्पतिर्नाम चतुर्दशोऽध्यायः
प्रथमैकरात्रे पञ्चदशोऽध्यायः
गते नियमिते काले गन्धर्वश्चोपवर्हणः ।
स्वयोगेन जहौ देहं भारते प्राक्तनादहो ॥ १,१५.१ ॥
स जज्ञे शुद्रयोनौ च पितुः शापेन च दैवतः ।
विष्णुप्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः ॥ १,१५.२ ॥
विमुक्तस्तातशापेन सम्प्राप्य ज्ञानमुत्तमम् ।
प्रतिजन्मस्मृतिस्तस्य कृष्णमन्त्रप्रसादतः ॥ १,१५.३ ॥
पितुः सकाशादागत्य सम्प्राप चन्द्रशेखरात् ।
श्रीकृष्णमन्त्रमतुलं स्वर्गमन्दाकिनीतटे ॥ १,१५.४ ॥
स्वर्गमन्दाकिनीतीराद्गुरुणा शङ्करेण च ।
सहितः प्रययौ तूर्णं पार्वतीसन्निधानतः ॥ १,१५.५ ॥
उवास तत्र शम्भुश्च नारदश्च महामुनिः ।
पार्वती भद्रकाली स्कन्दो गणपतिः स्वयम् ॥ १,१५.६ ॥
महाकालश्च नन्दी च वीरभद्रः प्रतापवान् ।
सिद्धा महर्षयश्च मुनयः सन्कादयः ॥ १,१५.७ ॥
योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भुसंसदि ।
यत्स्तोत्रं कवचं ध्यानं सुभद्राय च कानने ॥ १,१५.८ ॥
नारायणर्षिभगवान् ब्राह्मणाय ददौ पुरा ।
पूजाविधानं यद्यच्च पुरश्चरणपूर्वकम् ॥ १,१५.९ ॥
तदेव भगवान् शम्भुः प्रददौ नारदाय च ।
उवाच शम्भुं देवर्षिर्योगिनां च गुरोर्गुरुम् ।
पार्वतीसन्निधौ तत्र नारदश्च महामुनिः ॥ १,१५.१० ॥

भगवन् सर्वधर्मज्ञ सर्वज्ञ सर्वकारण ।
सद्यत्पृष्टं मया पूर्वं तन्मां व
्याख्यातुमर्हसि ॥ १,१५.११ ॥
यद्यत्पृष्टं त्वया ब्रह्मन् प्रत्येकं च क्रमेण च ।
पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्सभासदः ॥ १,१५.१२ ॥
आध्यात्मिकं च यज्ज्ञानं वेदानां सारमुत्तमम् ।
ज्ञानं ज्ञानिषु सारं यत्कृष्णभक्तिप्रदं शुभं ॥ १,१५.१३ ॥
निर्वाणमुक्तिदं ज्ञानं कर्ममूलनिकृन्तनम् ।
तत्सिद्धियोगान्मुक्तिश्च योगिनामपि वाञ्च्छितम् ॥ १,१५.१४ ॥
संसारविषयं ज्ञानं शश्वत्सम्मोहवेष्टितम् ।
आश्रमाणां समाचारं तेषां धर्मपरिष्कृतम् ॥ १,१५.१५ ॥
चतुर्णां वर्णनां विधानां महेश्वर ।
भिक्षूणां वैष्णवानां च यतीनां ब्रह्मचारिणाम् ॥ १,१५.१६ ॥
वानप्रस्थाश्रमाणां च पण्डितानां तथैव च ।
पतिव्रतानां यद्यच्च श्रीकृष्णपूजनं च यत् ॥ १,१५.१७ ॥
यत्स्तोत्रं कवचं मन्त्रं पुरश्चरणमीप्सितम् ।
सार्वाह्निकमभीष्टं च विपाकं कर्मजीविनाम् ॥ १,१५.१८ ॥
संसारवासनाबद्धं लक्षणं प्रकृतीशयोः ।
तयोः परं वा यद्ब्रह्म तस्यावतारवर्णनम् ॥ १,१५.१९ ॥
कस्तत्कलावतीर्णश्च कस्तद्अंशश्तथैव च ।
परिपूर्णतमः कश्च कः पूर्णः कः कलांशकः ॥ १,१५.२० ॥
कस्य वाराधने शम्भो किं फलं किं यशस्तथा ।
अङ्गाङ्गिनोर्भेदफलं विस्तीर्णं निरपेक्षकम् ॥ १,१५.२१ ॥
नारायणर्षिकवचं सुभद्रब्राह्मणाय च ।
यद्दत्तं किं तद्देवेश तद्आराध्यश्च कः सुरः ॥ १,१५.२२ ॥
अतिसंगोपनीयं च कवचं परमाद्भुतम् ।
सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा ॥ १,१५.२३ ॥
सनत्कुमारो जानाति नोक्तं तेन पुरा च माम् ।
मया ज्ञानमनापृष्टं यद्यज्जानासि मङ्गलम् ॥ १,१५.२४ ॥
वेदसारमनुपमं कर्ममूलनिकृन्तनम् ।
तन्मे कथय भद्रेश मामेवानुग्रहं कुरु ॥ १,१५.२५ ॥
अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभम् ।
पुराणेष्वितिहासे च वेदाङ्गेषु सुदुर्लभम् ॥ १,१५.२६ ॥
गुरोश्च ज्ञानोदिगरणात्ज्ञानं स्यान्मन्त्रतन्त्रयोः ।
तत्तन्तं स च मन्त्रः स्यात्कृष्णभक्तिर्यतो भवेत् ॥ १,१५.२७ ॥
ज्ञानं स्याद्विदुषां किंचिद्वेदव्याख्यानतः प्रभो ।
वेदकारणपूज्यश्त्वं ज्ञानाधिष्ठातृदेवता ॥ १,१५.२८ ॥
तस्माद्भवान् परं ज्ञानं वद वेदविदां वर ।
मां भक्तमनुरक्तं च शरणागतमीश्वर ॥ १,१५.२९ ॥

नारदस्य वचः श्रुत्वा योगिनां च गुरोर्गुरुः ।
भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः ॥ १,१५.३० ॥
इत्येवं कथितं सर्वं पूर्वाख्यानं मनोहरम् ।
हरिभक्तिप्रदं सर्वं कर्ममूलनिकृन्तनम् ॥ १,१५.३१ ॥

इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे
प्रथमैकरात्रे पञ्चदशोऽध्यायः

समाप्तश्चेदं नारदपञ्चरात्रैकरात्रम्


 

Advertisements

Categories: Sanskrit

Tagged as: