॥ अभिज्ञानशाकुन्तलम् ॥
अथ अभिज्ञानशाकुंतलम् ।
प्रथमोऽङ्कः ।
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः॥१॥
(नान्द्यन्ते )
सूत्रधारः — ( नेपथ्याभिमुखमवलोक्य )
आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् ।
( प्रविश्य )
नटी – आर्यपुत्र इयमस्मि ।
सूत्रधारः — आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु
कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन
नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
नटी — सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते ।
सूत्रधारः — आर्ये कथयामि ते भूतार्थम् ।
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः॥२॥
नटी — आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः — किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव
तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् ।
सम्प्रति हि –
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः॥३॥
नटी — तथा ।
( इति गायति )
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि॥४॥
सूत्रधारः — आर्य साधु गीतम् । अहो
रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः ।
तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः ।
नटी — नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं
नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति ।
सूत्रधारः — आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु
मया तत् । कुतः ।
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा॥५॥
( इति निष्क्रान्तौ )
( प्रस्तावना )
( ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च )
सूतः — ( राजानं मृगं चावलोक्य ) आयुष्मन् ।
कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम्॥६॥
राजाः — सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं
पुनरिदानीमपि ग्रीवाभङ्गभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैण्रर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्याम् प्रयाति॥७॥
( सविस्मयम् )
तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः ।
सूतः — आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य
मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः ।
सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
राजाः — तेन हि मुच्यन्तामभीषवः ।
सूतः — यदाज्ञापयत्यायुष्मान् ।
( रथवेगं निरूप्य )
आयुष्मन्पश्य पश्य ।
मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मौद्धतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः॥८॥
राजाः — सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा
हि ।
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विछिन्नं भवति कृतसंधानमिव तत् ।
प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न
मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथज्जवात्॥९॥
सूत पश्यैनं व्यापद्यमानम् ।
( इति शरसंधानं नाटयति )
( नेपथ्ये )
भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
सूतः — ( आकर्ण्यावलोक्य च )
आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन
उपस्थिताः ।
राजाः — ( ससम्भ्रमम् )
तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः — तथा ।
( इति रथं स्थापयति )
(ततः प्रविशत्यात्मनातृतीयो वैखानसः )
वैखानसः — ( हस्तमुद्यम्य )
राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि
मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं क्व च
निशितनिपाता वज्रसाराः शरास्ते॥१०॥
तत्साधुकृतसंधानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि॥११॥
राजाः — एष प्रतिसम्हृतः ।
( इति यथोक्तं करोति )
वैखानसः — सदृशमेतत् पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्रमेवङ्गुणोपेतं चक्रवर्तिनमाप्नुहि॥१२॥
इतरौ — ( बाहू उद्यम्य ) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
राजाः — ( सप्रणामम् )
प्रतिगृहीतं ब्राह्मणवचनम् ।
वैखानसः — राजन् समिदाहरणाय प्रस्थिता वयम् । एष खलु
कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न
चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि
च ।
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति॥१३॥
राजाः — अपि संनिहितोऽत्र कुलपतिः ।
वैखानसः — इदानीमेव दुहितरं शकुंतलामतिथिसत्काराय
नियुज्य दैवं अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
राजाः — भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां
महर्षेः करिष्यति ।
वैखानसः — साधयामस्तावत् ।
( इति सशिष्यो निष्क्रान्तः )
राजाः — सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं
पुनीमहे ।
सूतः — यदाज्ञापयत्यायुष्मन् ।
( इति भूयो रथवेगं निरूपयति )
राजाः — ( समन्तादवलोक्य )
सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति ।
सूतः — कथमिव ।
राजाः — किं न पश्यति भवान् । इह हि
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते
मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः॥१४॥
कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।
एते चार्वागुपवनभुवि च्छिन्नदर्भान्कुरायां
नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति ।
सूतः — सर्वमुपपन्नम् ।
राजाः — ( स्तोकमन्तरं गत्वा )
तपोवननिवासिनामुपरोधो मा भूत् । एतावत्येव रथं स्थापय
यावदवतरामि ।
सूतः — धृताः प्रग्रहाः । अवतरत्वायुष्मान् ।
राजाः — ( अवतीर्य )
सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं
तावद्गृह्यताम् ।
( इति सूतस्याभरणानि धनुश्चोपनीयार्पयति )
सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते
तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।
सूतः — तथा ।
( इति निष्क्रान्तः )
राजाः — ( परिक्रम्यावलोक्य च )
इदमाश्रमद्वारम् । यावत्प्रविशामि ।
( प्रविश्य । निमित्तं सूचयन् )
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र॥१५॥
( नेपथ्ये )
इत इतः सख्यौ ।
राजाः — ( कर्णं दत्त्वा )
अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि ।
( परिक्रम्यावलोक्य च )
अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः
पयो दातुइत एवाभिवर्तन्ते ।
( निपुणं निरूप्य )
अहो मधुरमासां दर्शनम् ।
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः॥१६॥
यावदिमां छायामाश्रित्य प्रतिपालयामि ।
( इति विलोकयन् स्थितः )
( ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुंतल )
शकुंतला — इत इतः सख्यौ ।
अनसूया — हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः
प्रियतरा इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि
त्वमेतेषामालवालपूरणे नियुक्ता ।
शकुंतला — न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु ।
( इति वृक्षसेचनं रूपयति )
राजाः — कथमियं सा कण्वदुहिता । असाधुदर्शी खलु
तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते ।
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति॥ १७॥
भवतु । पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।
( इति तथा करोति )
शकुंतला — सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया
नियन्त्रिताऽस्मि । शिथिलय तावदेतत् ।
अनसूया — तथा ।
( इति शिथिलयति )
प्रियंवदा — ( सहासम् )
अत्र पयोधरविस्तारयितृ आत्मनो यौवनं उपालभस्व । मां किं
उपालभसे ।
राजाः — काममननुरूपमस्य वपुषो वल्कलं न
पुनरलंकारश्रियं न पुष्यति । कुतः ।
सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम्॥१८॥
शकुंतला — ( अग्रतोऽवलोक्य )
एष वातीरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः ।
यावदेनं सम्भावयामि ।
( इति परिक्रामति )
प्रियंवदा — हला शकुन्तले अत्रैव तावन्मुहूर्तं तिष्ठ
यावत्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।
शकुंतला — अतः खलु प्रियंवदासि त्वम् ।
राजाः — प्रियमपि तथ्यमाह शकुंतलां प्रियंवदा । अस्याः खलु
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम्॥१९॥
अनसूया — हला शकुन्तले इयं स्वयम्वरवधूः सहकारस्य त्वया
कृतनामधेया वनज्योत्स्नेति नवमालिका ।
एनां विस्मृताऽसि ।
शकुंतला — तदात्मानमपि विस्मरिष्यामि ।
( लतामुपेत्यावलोक्य च )
हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः
संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः
सहकारः ।
( इति पश्यन्ती तिष्ठति )
प्रियंवदा — अनसूये जानासि किं शकुंतला वनज्योत्स्नामतिमात्रं
पश्यतीति ।
अनसूया — न खलु विभावयामि । कथय ।
प्रियंवदा — यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि
नामैवमहमप्यात्मनोनुरूपं वरं लभेयेति ।
शकुंतला — एष नूनं तवात्मगतो मनोरथः ।
( इति कलशमावर्जयति )
राजाः — अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् । अथवा
कृतं संदेहेन ।
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः॥२०॥
तथापि तत्त्वत एनामुपलस्ये ।
शकुंतला — ( ससम्भ्रमम् )
अम्भो । सलिलसेकसम्भ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे
मधुकरोभिवर्तते ।
( इति भ्रमरबाधां रूपयति )
राजाः — ( सस्पृहम् )
चलपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम्
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती॥२१॥
शकुंतला — न एष धृष्टो विरमति । अन्यतो गमिष्यामि ।
कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन
मधुकरेणाभिभूयमानाम् ।
उभे — ( सस्मितम् ) के आवां परित्रातुम् । दुष्यंतमाक्रन्द ।
राजरक्षितव्यानि तपोवनानि नाम ।
राजाः — अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न
भेतव्यम् -।
( इत्यर्धोक्ते स्वगतम् )
राजभावस्त्वभिज्ञातो भवेत् । भवतु एवं तावदभिधास्ये ।
शकुंतला — ( पदान्तरे स्थित्वा । सदृष्टिक्षेपम् )
कथमितोऽपि मामनुसरति ।
राजाः — ( सत्वरमुपसृत्य )
आः
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु॥२२॥
( सर्वा राजानं दृष्टा किंचिदिव सम्भ्रान्ताः )
अनसूया — आर्य न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी
मधुकरेणाभिभूयमाना कातरीभूता ।
( इति शकुंतलां दर्शयति )
राजाः — ( शकुंतलाभिमुखो भूत्वा )
अपि तपो वर्धते ।
( शकुंतला साध्वसादवचना तिष्ठति )
अनसूया — इदानीमतिथिविशेषलाभेन । हला शकुन्तले
गच्छोटजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति।
राजाः — भवतीनां सूनृतयैव गिराकृतमातिथ्यम् ।
प्रियंवदा — तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां
मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।
राजाः — नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
अनसूया — हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् ।
अत्रोपविशामः ।
( इति सर्वा उपविशन्ति )
शकुंतला — ( आत्मगतम् )
किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि
संवृत्ता ।
राजाः — ( सर्वा विलोक्य )
अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् ।
प्रियंवदा — ( जनान्तिकम् )
अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं
प्रियमालपन्प्रभाववानिव लक्ष्यते ।
अनसूया — सखि ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् ।
( प्रकाशम् )
आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण
राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः
किन्निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा
पदमुपनीतः ।
शकुंतला — ( आत्मगतम् )
हृदय मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते ।
राजाः — ( आत्मगतम् )
कथमिदानीं आत्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु ।
एवं तावदेनां वक्ष्ये ।
( प्रकाशम् )
भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः
सोहमविघ्नक्रियौपलम्भाय धर्मारण्यमिदं आयातः ।
( शकुंतला शृङ्गारलज्जां रूपयति )
अनसूया — ( उभयोराकारं विदित्वा । जनान्तिकम् )
हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् ।
शकुंतला — ततः किं भवेत् ।
सख्यौ — इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं
करिष्यति ।
शकुंतला — युवामपेतम् । किमपि हृदये कृत्वा मत्रयेथे । न
युवयोर्वचनं श्रोष्यामि ।
राजाः — वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः ।
सख्यौ — आर्य अनुग्रह इवेयमभ्यर्थना ।
राजाः — भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः ।
इयं च वः सखी तदात्मजेति कथमेतत् ।
अनसूया — शृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो
महाप्रभावो राजर्षिः ।
राजाः — अस्ति । श्रूयते ।
अनसूया — तमावयोः प्रियसख्याः प्रभवमवगच्छ । उज्झितायाः
शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।
राजाः — उज्झितशब्देन जनितं मे कौतूहलम् ।
आमूलाच्छ्ह्रोतुमिच्छामि ।
अनसूया — शृणोत्व् आर्यः । गौतमीतीरे पुरा किल तस्य
राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका
नामाप्सराः प्रेषिता नियमविघ्नकारिणी ।
राजाः — अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् ।
अनसूया — ततो वसंतोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य –
( इत्यर्धोक्ते लज्जया विरमति )
राजाः — परस्ताज्ज्ञायत एव । सर्वथाप्सरःसम्भवैषा ।
अनसूया — अथ किम् ।
राजाः — उपपद्यते ।
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात्॥२३॥
( शकुंतलाऽधोमुखी तिष्ठति )
राजाः — ( आत्मगतम् )
लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां
वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
प्रियंवदा — ( सस्मितं शकुंतलां विलोक्य नायकाभिमुखी भूत्वा )
पुनरपि वक्तुकाम इवार्यः ।
( शकुंतला सखीमङ्गुल्या तर्जयति )
राजाः — सम्यगुपलक्षितं भवत्या । अस्ति नः
सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् ।
प्रियंवदा — अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम ।
राजाः — इति सखीं ते ज्ञातुमिच्छामि ।
वैखानसं किमनया व्रतमाप्रदानाद् –
व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमात्मसदृशेक्षणवल्लभाभिराहो
निवत्स्यति समं हरिणाङ्गनाभि॥२४॥
प्रियंवदा — आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः
पुनरस्या अनुरूपवरप्रदाने संकल्पः ।
राजाः — ( आत्मगतम् )
न दुरवापेयं खलु प्रार्थना ।
भव हृदय साभिलाषं सम्प्रति संदेहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम्॥२५॥
शकुंतला — ( सरोषमिव )
अनसूये गमिष्याम्यहम् ।
अनसूया — किन्निमित्तम् ।
शकुंतला — इमामसम्बद्धप्रलापिनीं प्रियंवदां आर्यायै गौतम्यै
निवेदयिष्यामि ।
अनसूया — सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य
स्वछन्दतो गमनम् ।
( शकुंतला न किंचिदुक्त्वा प्रस्थितैव )
राजाः — ( ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम् )
अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः॥२६॥
प्रियंवदा — ( शकुंतलां निरुध्य )
हला न ते युक्तं गन्तुम् ।
शकुंतला — ( सभ्रूभङ्गम् )
किन्निमित्तम् ।
प्रियंवदा — वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं
मोचयित्वा ततो गमिष्यसि ।
( इति बलादेनां निवर्तयति )
राजाः — भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये ।
तथा ह्यस्याः
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यपि स्तनवेपथुं
जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः॥२७॥
तदहमेनान्नृणां करोमि ।
( इत्यङ्गुलीयं दातुमिच्छति )
( उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः )
राजाः — अलमस्मानन्यथा सम्भाव्य । राज्ञः परिग्रहोयमिति
राजपुरुष मामवगच्छत ।
प्रियंवदा — तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य
वचनेनानृणेदानीमेषा ।
( किञ्चिद्विहस्य )
हला शकुन्तले मोचितास्यनुकम्पिनार्येण । अथवा महाराजेन ।
गच्छेदानीम् ।
शकुंतला — ( आत्मगतम् )
यद्यात्मनः प्रभविष्यामि ।
( प्रकाशम् )
का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा ।
राजाः — ( शकुंतलां विलोक्य । आत्मगतम् )
किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् । अथवा
लब्धावकाशा मे प्रार्थना । कुतः ।
वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसम्मुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः॥२८॥
( नेपथ्ये )
भो भोस्तपस्विनः सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः
किल मृगयाविहारी पार्थिवो दुष्यन्तः ।
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु॥२९॥
अपि च ।
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसंजातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः॥३०॥
( सर्वाः कर्णं दत्त्वा किंचिदिव सम्भ्रान्ताः )
राजाः — ( आत्मगतम् )
अहो धिक् पौरा अस्मदन्वेषिणस्तपोवनुपरुन्धन्ति । भवतु ।
प्रतिगमिष्यामस्तावत् ।
सख्यौ — आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि
न उटजगमनाय ।
राजाः — ( ससम्भ्रमम् )
गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा
प्रयतिष्यामहे ।
( सर्वे उत्तिष्ठन्ति )
सख्यौ — आर्य असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं
लज्जामहे आर्यं विज्ञापयितुम् ।
राजाः — मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।
शकुंतला — अनसूये अभिनवकुशसूच्या परिक्षतं मे चरणं
कुरबकशाखापरिलग्नं च वल्कलम् । तावत्परिपालयत मां
यावदेतन्मोचयामि ।
( शकुंतला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां
निष्क्रान्ता )
राजाः — मन्दौत्सुक्योऽस्मि नगरगमनं प्रति ।
यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु
शक्नोमि शकुंतलाव्यापारादात्मानं निवर्तयितुम् । मम हि
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य॥३१॥
( इति निष्क्रान्ताः सर्वे )
( इति प्रथमोऽङ्कः । )
द्वितीयोऽङ्कः ।
( ततः प्रविशति विषण्णो विदूषकः )
विदूषकः — ( निःश्वस्य )
भो दिष्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि ।
अयम् मृगोऽयं वहारोऽयं शार्दूल इति मध्याह्नेऽपि
ग्रीष्मविरलपादपछायासु वनराजिष्वाहिण्डयते अटवीतोऽटवी ।
पत्रसङ्करकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते । अनियतवेलं
शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे
रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे
दास्याःपुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि ।
इयतेदानीमपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिण्डकः
संवृत्तः । ह्यः किलास्मास्ववहीनेषु तत्र भवतो
मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुंतला
ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथमपि न
करोति । अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः
। यावत्तं कृताचारपरिक्रमं पश्यामि ।
( इति परिक्रम्यावलोक्य च )
एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत
इत एवागछति प्रियवयस्यः । भवतु । अन्गभन्गविकल इव भूत्वा
स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय ।
( इति दण्डकाष्ठमवलम्ब्य स्थितः )
( ततः प्रविशति यथानिर्दिष्टपरिवारो राजा )
राजाः —
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते॥१॥
( स्मितं कृत्वा )
एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति॥२॥
विदूषकः — ( तथास्थित एव )
भो वयस्य न मे हस्तपादं प्रसरति तद्वाङ्मात्रेण जापयिष्यामि ।
जयतु जयतु भवान् ।
राजाः — कुतोऽयं गात्रोपघातः ।
विदुषकः — कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि
।
राजाः — न खल्वावगच्छामि ।
विदुषकः — भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः
प्रभावेण ननु नदीवेगस्य ।
राजाः — नदीवेगस्तत्र कारणम् ।
विदुषकः — ममापि भवान् ।
राजाः — कथमिव ।
विदुषकः — एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे
वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं
श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम
गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसीद मे । एकाहमपि
तावद्विश्रम्यताम् ।
राजाः — ( स्वगतम् )
अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः ।
कुतः ।
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः॥३॥
विदुषकः — ( राज्ञो मुखं विलोक्य )
अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् ।
राजाः — ( सस्मितम् )
किमन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि ।
विदुषकः — चिरं जीव ।
( इति गन्तुमिछति )
राजाः — वयस्य तिष्ठ । सावशेषं मे वचः ।
विदुषकः — आज्ञापयतु भवान् ।
राजाः — विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन
भवितव्यम् ।
विदुषकः — किं मोदकखादिकायाम् । तेन ह्ययं सुगृहीतः क्षणः ।
राजाः — यत्र वक्ष्यामि । कः कोऽत्र भोः ।
( प्रविश्य )
दौवारिकः — ( प्रणम्य )
आज्ञापयतु भर्त्ता ।
राजाः — रैवतक सेनापतिस्तावदाहूयताम् ।
दौवारिकः — तथा ।
( इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य )
एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिरेव तिष्ठति ।
उपसर्पत्वार्यः ।
सेनापति — ( राजानमवलोक्य )
दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि
देवः
अनवरतधनुर्ज्यास्फालनक्रूरपूर्व
रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् ।
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं
गिरिचर इव नागः प्राणसारं बिभर्ति॥४॥
( उपेत्य )
जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते ।
राजाः — मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन ।
सेनापति — ( जनान्तिकम् )
सखे स्थिरप्रतिबन्धो भव । अहं
तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये ।
( प्रकाशम् )
प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् ।
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः॥५॥
विदुषकः — अपेहि रे उत्साहहेतुक । अत्रभवान्प्रकृतिमापन्नः । त्वं
तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णर्क्षिस्य कस्यापि
मुखे पतिष्यसि ।
राजाः — भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः । अतस्ते
वचो नाभिनन्दामि । अद्य तावत् ।
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम्
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथितलज्याबन्धमस्मद्धनुः॥६॥
सेनापति — यत्प्रभविष्णवे रोचते ।
राजाः — तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे
सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य ।
शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति॥७॥
सेनापति — यदाज्ञापयति स्वामी ।
विदुषकः — ध्वंसतां ते उत्साहवृत्तान्तः ।
( निष्क्रान्तः सेनापतिः )
राजाः — ( परिजनं विलोक्य )
अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वमपि स्वं नियोगमशून्यं
कुरु ।
परिजन — यद्देव आज्ञापयति ।
( इति निष्क्रान्तः )
विदुषकः — कृतं भवता निर्मक्षिकम् ।
साम्प्रतमेतस्मिन्पादपछायाविरचितवितानसनाथे शिलातले निषीदतु
भवान्यावदहमपि सुखासीनो भवामि ।
राजाः — गच्छाग्रतः ।
विदुषकः — एतु भवान् ।
( इत्युभौ परिक्रम्यौपविष्टौ )
राजाः — माधव्य अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न
दृष्टम् ।
विदुषकः — ननु भवानग्रतो मे वर्तते ।
राजाः — सर्वः कान्तमात्मीयं पश्यति । अहं तु तां
एवाश्रमललामभूतां शकुंतलामधिकृत्य ब्रवीमि ।
विदुषकः — ( स्वगतम् ) भवतु । अस्यावसरं न दास्ये ।
( प्रकाशम् )
भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते ।
राजाः — सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम्॥८॥
विदुषकः — ( विहस्य )
यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिण्ड्यां
( तिन्तिण्यां )
अभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना ।
राजाः — न तावदेनां पश्यासि येनैवमवादीः ।
विदुषकः — तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।
राजाः — वयस्य किं बहुना ।
चित्रे निवेश्य परिकल्पितसत्त्वयोगा
रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः॥९॥
विदुषकः — यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ।
राजाः — इदं च मे मनसि वर्तते ।
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं
रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुष्यानां फलमिव च तद्रूपमनघं न जाने
भोक्तारं कमिह समुपस्थास्यति विधिः॥१०॥
विदुषकः — तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि
तपस्विन इन्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति ।
राजा — परवती खलु तत्रभवती । न च संनिहितोऽत्र गुरुजनः ।
विदुषकः — अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः ।
राजाः — निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु
अभिमुखे मयि सम्हृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः॥११॥
विदुषकः — न खलु दृष्टमात्रस्य तवाङ्कं समारोहति ।
राजाः — मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो
भावस्तत्रभवत्या । तथा हि ।
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी
स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम्॥१२॥
विदुषकः — तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं
तपोवनमिति पश्यामि ।
राजाः — सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय
तावत्केनापदेशेन पुनराश्रमपदं गच्छामः ।
विदुषकः — कोऽपरोऽपदेशो युष्माकं राज्ञाम् ।
नीवारषष्ठभागमस्माकमुपहरन्त्विति ।
राजाः — मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो
रत्नराशीनपि विहायाभिनन्द्यते । पश्य ।
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः॥१३॥
( नेपथ्ये )
हन्त सिद्धार्थौ स्वः ।
राजाः — ( कर्णं दत्त्वा )
अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
( प्रविश्य )
दौवारिकः — जयतु जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ
प्रतीहारभूमिमुपस्थितौ ।
राजाः — तेन ह्यविलम्बितं प्रवेशय तौ ।
दौवारिकः — एष प्रवेशयामि ।
( इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य )
( उभौ राजानं विलोकयतः )
प्रथमः — अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवा
उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः ।
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं संचिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यःशब्दो मुनिरिति मुहुः केवलं राजपूर्वः॥१४॥
द्वितीयः — गौतम अयं स बलभित्सखो दुष्यन्तः ।
प्रथमः — अथ किम् ।
द्वितीयः — तेन हि
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः
कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये
धनुषि विजयं पौरुहूते च वज्रे॥१५॥
उभौ — ( उपगम्य )
विजयस्व राजन् ।
राजाः — ( आसनादुत्थाय )
अभिवादये भवन्तौ ।
उभौ — स्वस्ति भवते ।
( इति फलान्युपहरतः )
राजाः — ( सप्रणामं परिगृह्यः )
आज्ञापयितुमिच्छामि ।
उभौ — विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते
।
राजाः — किमाज्ञापयन्ति ।
उभौ — तत्रभवतः कण्वस्य महर्षेरसांनिध्याद्रक्षांसि न
इष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता
सनाथीक्रियतामाश्रम इति ।
राजाः — अनुगृहीतोऽस्मि ।
विदुषकः — ( अपवार्य )
एषेदानीमनुकूला तेऽभ्यर्थना ।
राजाः — ( स्मितं कृत्वा )
रैवतक मद्वचनादुच्यतां सारथिः । सबाणासनं रथमुपस्थापयेति
।
दौवारिकः — यद्देव आज्ञापयति ।
( इति निष्क्रान्तः )
उभौ — ( सहर्षम् )
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः॥१६॥
राजाः — ( सप्रणामम् )
गच्छतां पुरो भवन्तौ । अहमप्यनुपदमागत एव ।
उभौ — विजयस्व
( इति निष्क्रान्तौ )
राजाः — माधव्य अप्यस्ति शकुंतलादर्शने कुतूहलम् ।
विदुषकः — प्रथमं सपरिवाहमासीत् । इदानीं
राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ।
राजाः — मा भैषीः । ननु मत्समीपे वर्तिष्यसे ।
विदुषकः — एष राक्षसाद्रक्षितोऽस्मि ।
( प्रविश्य )
दौवारिकः — सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष
पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः ।
राजाः — ( सादरम् )
किमम्बाभिः प्रेषितः ।
दौवारिकः — अथ किम् ।
राजाः — ननु प्रवेश्यताम् ।
दौवारिकः — तथा ।
( इति निष्क्रम्य करभकेण सह प्रविश्य )
एष भर्ता । उपसर्प ।
करभकः — जयतु जयतु भर्ता । देव्याज्ञापयति । आगामिनि
चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र
दीर्घायुषावश्यं सम्भावनीयेति ।
राजाः — इतस्तपस्विकार्यम् । इतो गुरुजनाज्ञा ।
द्वयमप्यनतिक्रमणीयम् । किमत्र प्रतिविधेयम् ।
विदुषकः — त्रिशङ्कुरिवान्तरा तिष्ठ ।
राजाः — सत्यमाकुलीभूतोऽस्मि ।
कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा॥१७॥
( विचिन्त्य )
सखे त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य
तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां
पुत्रकृत्यमनुष्ठातुमर्हति ।
विदुषकः — न खलु मां रक्षोभीरुकं गणयसि ।
राजाः — ( सस्मितम् )
कथमेतद्भवति सम्भाव्यते ।
विदुषकः — यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
राजाः — ननु तपोवनोपरोधः परिहरणीय इति
सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।
विदुषकः — ( सगर्वम् )
तेन हि युवराजोऽस्मीदानीं संवृत्तः ।
राजाः — ( स्वगतम् )
चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् ।
भवतु । एनमेवं वक्ष्ये ।
( विदूषकं हस्ते गृहीत्वा । प्रकाशम् )
वयस्य ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव
तापसकन्यकायां ममाभिलाषः । पश्य ।
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः॥१८॥
विदुषकः — अथ किम् ।
( इति निष्क्रान्ताः सर्वे )
( इति द्वितीयोऽङ्कः । )
तृतीयोऽङ्कः ।
( ततः प्रविशति कुशानादाय यजमानशिष्यः )
शिष्यः — अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र
एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि ।
का कथा बाणसंधाने ज्याशब्देनैव दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति॥१॥
यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि ।
( परिक्रम्यावलोक्य च । आकाशे )
प्रियंवदे कस्यिदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि
नीयन्ते ।
( श्रुतिमभिनीय )
किं ब्रवीषि । आतपलङ्घनाद्बलवदस्वस्था शकुंतला तस्याः
शरीरनिर्वापणायेति । तर्हि यत्नादुपचर्यताम् । सा खलु भगवतः
कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै
गैतमीहस्ते विसर्जयिष्यामि ।
( इति निष्क्रान्तः )
विष्कम्भकः ।
( ततः प्रविशति कामयमानावस्थो राजा )
राजाः — ( सचिन्तं निःश्वस्य )
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम्॥२॥
( मदनबाधां निरूप्य )
भगवन्कुसुमायुध त्वया चन्द्रमसा च
विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः ।
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं
दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैंरग्निमिन्दुर्मयूखैस्त्वमपि
कुसुमबाणान्वज्रसारीकरोषि॥३॥
अथवा ।
( अद्यापि नूनं हरकोपवह्निनस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ ।
( त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः
( कथमित्थमुष्णः॥
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति॥४॥
( सखेदं परिक्रम्य )
क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं
विनोदयामि ।
( निःश्वस्य )
किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् । यावदेनामन्विष्यामि
।
( सूर्यमवलोक्य )
इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना
शकुंतला गमयति । तत्रैव तावद्गच्छामि ।
( परिक्रम्य संस्पर्शं रूपयित्वा )
अहो प्रवातसुभगोऽयमुद्देशः ।
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः॥५॥
( परिक्रम्यावलोक्य च )
अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुंतलया भवितव्यम् ।
तथा हि ।
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा॥६॥
यावद्विटपान्तरेणावलोकयामि ।
( परिक्रम्य तथा कृत्वा । सहर्षम् )
अये लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं
शिलापट्टमधिशयानासखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां
विश्रम्भकथितानि ।
( इति विलोकयन्स्थितः )
( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुंतला )
सख्यौ — ( उपवीज्य । सस्नेहम् )
हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः ।
शकुंतला — किं वीजयतो मां सख्यौ ।
( सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः )
राजाः — बलवदस्वस्थशरीरा शकुंतला दृश्यते ।
( सवितर्कम् )
तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते ।
( साभिलाषं निर्वर्ण्य )
अथ वा कृतं संदेहेन ।
स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयोर्न
तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु॥७॥
प्रियंवदा — ( जनान्तिकम् )
अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्यपर्युत्सुकेव शकुंतला ।
किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् ।
अनसूया — सखि ममापीदृश्याशङ्का हृदयस्य । भवतु । प्रक्ष्यामि
तावदेनाम् ।
( प्रकाशम् )
सखि प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः ।
शकुंतला — ( पूर्वार्धेन शयनादुत्थाय )
हला किं वक्तुकामासि ।
अनसूया — हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य
वृत्तान्तस्य । किं तु यादृशीतिहासनिबन्धेषु
कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि । कथय
किंनिमित्तं ते संतापः । विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः
प्रतीकारस्य ।
राजाः — अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे
दर्शनम् ।
शकुंतला — ( आत्मगतम् )
बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि
निवेदयितुम् ।
प्रियंवदा — सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन
आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी
छाया त्वां न मुञ्चति ।
राजाः — अवितथमाह प्रियंवदा । तथा हि
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यःक्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी॥८॥
शकुंतला — सखि कस्य वान्यस्य कथयिष्यामि ।
किंत्वायासयित्रीदानीं वां भविष्यामि ।
उभे — अत एव खलु निर्बन्धः । स्निग्धजनसंविभक्तं हि दुःखं
सह्यवेदनं भवति ।
राजाः — पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे
श्रवणकातरतां गतोऽस्मि॥९॥
शकुंतला — सखि यतःप्रभृति मम दर्शनपथमागतः स
तपोवनरक्षिता राजर्षिः ।
( इत्यर्धोक्ते लज्जां नाटयति )
उभे — कथयतु प्रियसखी ।
शकुंतला — तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि
संवृत्ता ।
राजाः — ( सहर्षम् )
श्रुतं श्रोतव्यम् ।
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य॥१०॥
शकुंतला — तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य
राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् ।
राजाः — संशयच्छेदि वचनम् ।
प्रियंवदा — ( जनान्तिकम् )
अनसूये दूरगतमन्मथाऽक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा
स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ।
अनसूया — तथा यथा भणसि ।
प्रियंवदा — ( प्रकाशम् )
सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा
महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां
सहते ।
राजाः — किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।
अनसूया — कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या
मनोरथं सम्पादयावः ।
प्रियंवदा — निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
अनसूया — कथमिव ।
प्रियंवदा — ननु स राजर्षिरस्यां स्निग्धदृष्ट्या
सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते ।
राजाः — सत्यमित्थम्भूत एवास्मि । तथा हि
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं
स्रस्तं स्रस्तं मया प्रतिसार्यते॥११॥
प्रियंवदा — ( विचिन्त्य )
हला मदनलेखोऽस्य क्रियताम् तं सुमनोगोपितं कृत्वा
देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि ।
अनसूया — रोचते मे सुकुमारः प्रयोगः किं वा शकुंतला भणति ।
शकुंतला — किं नियोगो वां विकल्प्यते ।
प्रियंवदा — तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि
ललितपदबन्धनम् ।
शकुंतला — हला चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते
मे हृदयम् ।
राजाः — ( सहर्षम् )
अयं स ते तिष्ठति संगमोत्सुको
विशङ्कसे भीरु यतोऽवधीरणाम् ।
लभेत वा प्रार्थयिता न वा श्रियं
श्रिया दुरापः कथमीप्सितो भवेत्॥१२॥
सख्यौ — अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्रीं
शारदीं ज्योत्स्नां पटान्तेन वारयति ।
शकुंतला — ( सस्मितम् )
नियोजितेदानीमस्मि ।
( इत्युपविष्टा चिन्तयति )
राजाः — स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि ।
यतः
उन्नमितै कभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन॥१३॥
शकुंतला — हला चिन्तितं मया गीतवस्तु । असंनिहितानि
पुनर्लेखनसाधनानि ।
प्रियंवदा — एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं
कुरु ।
शकुंतला — ( यथोक्तं रूपयित्वा )
हला शृणुतमिदानीं सङ्गतार्थं न वेति ।
उभे — अवहिते स्वः ।
शकुंतला — ( वाचयति )
तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि॥१४॥
राजाः — ( सहसोपसृत्य )
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः॥१५॥
सख्यौ — ( विलोक्य सहर्षमुत्थाय )
स्वागतमविलम्बिनो मनोरथस्य ।
( शकुंतलाऽभ्युत्थातुमिच्छति )
राजाः — अलमलमायासेन ।
संदष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति॥१६॥
अनसूया — इतः शिलातलैकदेशमलंकरोतु वयस्यः ।
( राजोपविशति । शकुंतला सलज्जा तिष्ठति )
प्रियंवदा — द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः
पुनर्मां पुनरुक्तवादिनीं करोति ।
राजाः — भद्रे नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति
।
प्रियंवदा — आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा
भवितव्यमित्येष वो धर्मः ।
राजाः — नास्मात्परम् ।
प्रियंवदा — तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं
भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितमस्या
अवलम्बितुम् ।
राजाः — भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।
शकुंतला — ( प्रियंवदामवलोक्यं )
हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ।
राजाः — सुन्दरि
इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः॥१७॥
अनसूया — वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ
प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय ।
राजाः — भद्रे किं बहुना
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररसना चोर्वी सखी च युवयोरियम्॥१८॥
उभे — निर्वृते स्वः ।
प्रियंवदा — ( सदृष्टिक्षेपम् )
अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि
। संयोजयाव एनम् ।
( इत्युभे प्रस्थिते )
शकुंतला — हला अशरणास्मि । अन्यतरा युवयोरागच्छतु ।
उभे — पृथिव्या यः शरणं स तव समीपे वर्तते ।
( इति निष्क्रान्ते )
शकुंतला — कथं गते एव ।
राजाः — अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।
किं शीतलैः क्लमविनोदिभिरार्द्रवातान्सञ्चारयामि
नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ
॥१९॥
शकुंतला — न माननीयेष्वात्मानमपराधयिष्ये ।
( इत्युत्थाय गन्तुमिच्छति )
राजाः — सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था ।
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः॥२०॥
( इति बलादेनां निवर्तयति )
शकुंतला — पौरव रक्ष विनयम् । मदनसंतप्तापि न खल्वात्मनः
प्रभवामि ।
राजाः — भीरु अलं गुरूजन्भयेन । दृष्ट्वा ते विदितधर्मा
तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य ।
गान्धर्वेण विवाहेन बहव्यो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः॥२१॥
शकुंतला — मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये
।
राजाः — भवतु । मोक्ष्यामि ।
शकुंतला — कदा ।
राजाः —
अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य॥२२॥
( इति मुखमस्याः समुन्नमयितुमिच्छति । शकुंतला परिहरति नाट्येन )
( नेपथ्ये )
चक्रवाकवधुके आमन्त्रयस्व सहचरम् । उपस्थिता रजनी ।
शकुंतला — ( ससम्भ्रमम् )
पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत
एवागच्छति । तद्विटपान्तरितो भव ।
राजाः — तथा ।
( इत्यात्मानमावृत्य तिष्ठति )
( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )
सख्यौ — इत इत आर्या गौतमी ।
गौतमी — ( शकुंतलामुपेत्य )
जाते अपि लघुसंतापानि तेऽङ्गानि ।
शकुंतला — आर्ये अस्ति मे विशेषः ।
गौतमी — अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति ।
( शिरसि शकुतलामभ्युक्ष्य )
वत्से परिणतो दिवसः । एहि उटजमेव गच्छामः ।
( इति प्रस्थिताः )
शकुंतला — ( आत्मगतम् )
हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि ।
सानुशयविघटितस्य कथं ते साम्प्रतं संतापः ।
( पदान्तरे स्थित्वा । प्रकाशम् )
लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय ।
( इति दुःखेन निष्क्रान्ता शकुंतला सहेतराभिः )
राजा ( पूर्वस्थानमुपेत्य । सनिःश्वासम् )
अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः । मया हि
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु॥२३॥
क्व नु खलु सम्प्रति गच्छामि । अथ वा इहैव प्रियापरिभुक्तमुक्ते
लतावलये मुहूर्तं स्थास्यामि ।
( सर्वतोऽवलोक्य )
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि॥२४॥
( आकाशे )
राजन्
सायंतने सवनकर्मणि सम्प्रवृत्ते
वेदिं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः
संध्यापयोदकपिशाः पिशिताशनानाम्॥२५॥
राजाः — अयमहमागच्छामि ।
( इति निष्क्रान्तः )
( इति तृतीयोऽङ्कः । )
चतुर्थोऽङ्कः ।
( ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ । )
अनसूया — हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा
शकुंतलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं
तथाप्येतावच्चिन्तनीयम् ।
प्रियंवदा — कथमिव ।
अनसूया — अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो
नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति
।
प्रियंवदा — विस्रब्धा भव । न तादृशा आकृतिविशेषा
गुणविरोधिनो भवन्ति । तात इदानीमिमं ऋत्तान्तं श्रुत्वा न जाने किं
प्रतिपत्स्यत इति ।
अनसूया — यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
प्रियंवदा — कथमिव ।
अनसूया — गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः
संकल्पः । तं यदि दैवमेव सम्पादयति नन्वप्रयासेन कृतार्थो
गुरुजनः ।
प्रियंवदा — ( पुष्पभाजनं विलोक्य )
सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।
अनसूया — ननु सख्याः शकुंतलायाः सौभाग्यदेवतार्चनीया ।
प्रियंवदा — युज्यते ।
( इति तदेव कर्माभिनयतः )
( नेपथ्ये )
अयमहं भोः ।
अनसूया — ( कर्णं दत्त्वा )
सखि अतिथीनामिव निवेदितम् ।
प्रियंवदा — ननूटजसन्निहिता शकुंतला ।
अनसुया — अद्य पुनर्हृदयेनासन्निहिता । अलमेतावद्भिः कुसुमैः ।
( इति प्रस्थिते )
( नेपथ्ये )
आः
अतिथिपरिभाविनि विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न
मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां प्रमत्तः प्रथमं कृतामिव
॥१॥
प्रियंवदा — हा धिक् हा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि
पूजार्हेऽपराद्धा शून्यहृदया शकुंतला ।
( पुरोऽवलोक्य )
न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा
शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः ।
अनसूया — कोऽन्यो हुतवहाद्दग्धुं प्रभवति । गच्छ । पादयोः
प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि ।
प्रियंवदा — तथा
( इति निष्क्रान्ता )
अनसूया — ( पदान्तरे स्खलितं निरूप्य )
अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम्
।
( इति पुष्पोच्चयं रूपयति )
( प्रविश्य )
प्रियंवदा — सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति ।
किमपि पुनः सानुक्रोशः कृतः ।
अनसूया — ( सस्मितम् )
तस्मिन्बहवेतदपि । कथय ।
प्रियंवदा — यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया ।
भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य
भगवतैकोऽपराधो मर्षयितव्य इति ।
अनसूया — ततस्ततः ।
प्रियंवदा — ततो न मे वचनमन्यथाभवितुमर्हति किं
त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण
एवान्तर्हितः ।
अनसूया — शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा
सम्प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं
पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुंतला भविष्यति ।
प्रियंवदा — सखि एहि । देवकार्यं तावदस्या निर्वर्तयावः ।
( इति परिक्रामतः )
प्रियंवदा — ( विलोक्य )
अनसूये पश्य तावत् । वामहस्तोपहितवदनाऽऽलिखितेव प्रियसखी ।
भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं
पुनरागन्तुकम् ।
अनसूया — प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु ।
रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी ।
प्रियंवदा — को नामोष्णोदकेन नवमालिकां सिञ्चति ।
( इति निष्क्रान्ते )
विष्कम्भकः ।
( ततः प्रविशति सुप्तोत्थितः शिष्यः )
शिष्यः — वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता
प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि
कियदवशिष्टं रजन्या इति ।
( परिक्रम्यावलोक्य च )
हन्त प्रभातम् । तथा हि ।
यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर
एकतोऽर्कः ।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु॥
२॥
अपि च ।
अन्तर्हिते शशिनि सैव कुमुद्वती मे
वृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्रसुदुःसहानि॥३॥
( प्रविश्यापटीक्षेपेण )
अनसूया — यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं
तथापि तेन राज्ञा हकुंतलायामनार्यमाचरितम् ।
शिष्यः — यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
( इति निष्क्रान्तः )
अनसूया — प्रतिबुद्धापि किं करिष्यामि । न म उचितेष्वपि
निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु
येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता । अथ वा
दुर्वासःशाप एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि
मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति ।
तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने
कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष
इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य
दुष्यन्तपरिणीतामापन्नसत्त्वां शकुंतलां निवेदयितुम् ।
इत्थङ्गतेऽस्माभिः किं करणीयम् ।
( प्रविश्य )
प्रियंवदा — ( सहर्षम् )
सखि त्वरस्व त्वरस्व शकुंतलायाः प्रस्थानकौतुकं निवर्तयितुम् ।
अनसूया — सखि कथमेतत् ।
प्रियंवदा — शृणु । इदानीं सुखशयितपृच्छिका
शकुंतलासकाशं गतास्मि ।
अनसूया — ततस्ततः ।
प्रियंवदा — तावदेनां लज्जावनतमुखीं परिष्वज्य
तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि
यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता
विद्येवशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः
सकाशं विसर्जयामीति ।
अनसूया — अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ।
प्रियंवदा — अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या
वाण्या ।
अनसूया — ( सविस्मयम् ) कथमिव ।
प्रियंवदा — ( संस्कृतमाश्रित्य )
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव॥४॥
अनसूया — ( प्रियंवदामाश्लिष्य )
सखि प्रियं मे । किं त्वद्यैव शकुंतला नीयत इत्युत्कण्ठासाधारणं
परितोषमनुभवामि ।
प्रियंवदा — सखि आवां तावदुत्कण्ठां विनोदयिष्यावः । सा
तपस्विनी निर्वृता भवतु ।
अनसूया — तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक
एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां
हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां
दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
प्रियंवदा — तथा क्रियताम् ।
( अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति )
( नेपथ्ये )
गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुंतलानयनाय ।
प्रियंवदा — ( कर्णं दत्त्वा )
अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषयः
शब्दाय्यन्ते ।
( प्रविश्य समालम्भनहस्ता )
अनसूया — सखि एहि । गच्छावः ।
( इति परिक्रामतः )
प्रियंवदा — ( विलोक्य )
एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुंतला तिष्ठति ।
उपसर्पाव एनाम् ।
( इत्युपसर्पतः )
( ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुंतला )
तापसीनामन्यतमा — ( शकुंतलां प्रति )
जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ।
द्वितीया — वत्से वीरप्रसविनी भव ।
तृतीया — वत्से भर्तुर्बहुमता भव ।
( इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः )
सख्यौ — ( उपसृत्य )
सखि सुखमज्जनं ते भवतु ।
शकुंतला — स्वागतं मे सख्योः । इतो निषीदतम् ।
उभे ( मङ्गलपात्राण्यादाय । उपविश्य )
हला सज्जा भव । यावत्ते मङ्गलसमालम्भनं विरचयावः ।
शकुंतला — इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे
सखीमण्डनं भविष्यति ।
( इति बाष्पं विसृजति )
उभे — सखि उचितं न ते मङ्गलकाले रोदितुम् ।
(इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः)
प्रियंवदा — आभरणोचितं रूपमाश्रमसुलभैः
प्रसाधनैर्विप्रकार्यते ।
( प्रविश्योपायनहस्तावृषिकुमारकौ )
उभौ — इदमलंकरणम् । अलंक्रियतामत्रभवती ।
( सर्वा विलोक्य विस्मिताः )
गौतमी — वत्स नारद कुत एतत् ।
प्रथमः — तातकाश्यपप्रभावात् ।
गौतमी — किं मानसी सिद्धिः ।
द्वितीयः — न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः
शकुंतलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति ।
तत इदानीं
क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् ।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः॥५॥
प्रियंवदा — ( शकुंतलां विलोक्य )
हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः
।
( शकुंतला व्रीडां रूपयति )
प्रथम — गौतम एह्येहि । अभिषेकोत्तीर्णाय काश्यपाय
वनस्पतिसेवां निवेदयावः ।
द्वितीयः — तथा ।
( इति निष्क्रान्तौ )
सख्यौ — अये अनुपयुक्तभूषणोऽयं जनः ।
चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः ।
शकुंतला — जाने वां नैपुणम् ।
( उभे नाट्येनालङ्कुरूतः )
( ततः प्रविशति स्नानोत्तीर्णः काश्यपः ) ।
काश्यपः — यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः॥६॥
( इति परिक्रामति )
सख्यौ — हला शकुन्तले अवसितमण्डनासि । परिधत्स्व साम्प्रतं
क्षौमयुगलम् ।
( शकुन्तलोत्थाय परिधत्ते )
गौतमी — जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान
इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुंतला — ( सव्रीडम् )
तात वन्दे ।
काश्यपः — वत्से ।
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि॥७॥
गौतमी — भगवान् वरः खल्वेषः । नाशीः ।
काश्यपः — वत्से इतः सद्यो हुतानग्नीन्प्रदक्षिणीकुरुष्व ।
( सर्वे परिक्रामन्ति )
काश्यपः — ( ऋक्छन्दसाऽऽशास्ते )
अमी वेदिं परितः कॢप्तधिष्ण्याः
समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपघ्नतो दुरितं हव्यगन्धैर्वैतानास्त्वां
वह्नयः पावयंतु॥८॥
प्रतिष्ठस्वेदानीम् ।
( सदृष्टिक्षेपम् )
क्व ते शार्ङ्गरवमिश्राः ।
( प्रविश्य )
शिष्य — भगवन् इमे स्मः ।
काश्यप — भगिन्यास्ते मार्गमादेशय ।
शार्ङ्गरव — इत इतो भवती ।
( सर्वे परिक्रामन्ति )
काश्यप — भो भोः संनिहितास्तपोवनतरवः ।
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुंतला पतिगृहं सर्वैरनुज्ञायताम्॥९॥
( कोकिलरवं सूचयित्वा )
अनुमतगमना शकुंतला तरुभिरियं वनवासबन्धुभिः ।
परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम्॥१०॥
( आकाशे )
रम्यान्तरः कमलिनीहरितैः
सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च
पन्थाः॥११॥
( सर्वे सविस्मयमाकर्णयन्ति )
गौतमी — जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि
तपोवनदेवताभिः । प्रणम भगवतीः ।
शकुंतला — ( सप्रणामं परिक्रम्य । जनान्तिकम् )
हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या
दुःखेन मे चरणौ पुरतः प्रवर्तेते ।
प्रियंवदा — न केवलं तपोवनविरहकातरा सख्येव ।
त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते ।
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः॥१२॥
शकुंतला — ( स्मृत्वा )
तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये ।
काश्यपः — अवैमि ते तस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन ।
शकुंतला — ( उपेत्य लतामालिङ्ग्य )
वनज्योत्स्ने चूतसंगतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः ।
अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि ।
काश्यपः —
संकल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयमस्यामहं
त्वयि च सम्प्रति वीतचिन्तः॥१३॥
इतः पन्थानं प्रतिपद्यस्व ।
शकुंतला — ( सख्यौ प्रति )
हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ — अयं जनः कस्य हस्ते समर्पितः ।
( इति बाष्पं विहरतः )
काश्यपः — अनसूये अलं रुदित्वा । ननु भवतीभ्यामेव
स्थिरीकर्तव्या शकुंतला ।
( सर्वे परिक्रमन्ति )
शकुंतला — तात एषोटजपर्यन्तचारिणी गर्भमन्थरा
मृगवधूर्यदाऽनघप्रसवा भवति तदा मह्यं कमपि
प्रियनिवेदयितृकं विसर्जयिष्यथ ।
काश्यपः — नेदं विस्मरिष्यामः ।
शकुंतला — ( गतिभङ्गं रूपयित्वा )
को नु खल्वेष निवसने मे सज्जते ।
( इति परावर्तते )
काश्यपः — वत्से,
यस्य त्वया व्रणविरोपणमिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसुचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते॥१४॥
शकुंतला — वत्स किं सहवासपरित्यागिनीं मामनुसरसि ।
अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं
त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
( इति रुदती प्रस्थिता )
काश्यपः —
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
बाष्पं कुरु स्थिरतया विरतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति॥१५॥
शार्ङ्गरवः — भवगान् । ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति
श्रूयते । तदिदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुमर्हति ।
काश्यपः — तेन हीमां क्षीरवृक्षछायामाश्रयामः ।
( सर्वे परिक्रम्य स्थिताः )
काश्यपः — ( आत्मगतम् )
किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम्
।
( इति चिन्तयति )
शकुंतला — ( जनान्तिकम् )
हला पश्य । नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा
चक्रवाक्यरटति दुष्करमहं करोमीति ।
अनसूया — सखि मैवं मन्त्रयस्व ।
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति॥१६॥
काश्यपः — शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुंतलां
पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः — आज्ञापयतु भगवान् ।
काश्यपः — अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं
चात्मनस्त्वय्यस्याः कथमप्य्बान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः॥१७॥
शार्ङ्गरवः — गृहीतः संदेशः ।
काश्यपः — वत्से त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो
लौकिकज्ञा वयम् ।
शार्ङ्गरवः — न खलु धीमतां कश्चिदविषयो नाम ।
काश्यपः — सा त्वमितः पतिकुलं प्राप्य —
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः॥१८॥
अनसुया — कथं वा गौतमी मन्यते ।
गौतमी — एतावान्वधूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय
।
काश्यपः — वत्से परिष्वजस्व मां सखीजनं च ।
शकुंतला — तात इत एव किं प्रियंवदानुसूये सख्यौ निवर्तिष्येते ।
काश्यप — वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया
सह गौतमी यास्यति ।
शकुंतला — ( पितरमाश्लिष्य )
कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव
देशान्तरे जीवितं धारयिष्यामि ।
काश्यपः — वत्से किमेवं कातरासि ।
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि॥१९॥
( शकुंतला पितुः पादयोः पतति )
काश्यपः — यदिच्छामि ते तदस्तु ।
शकुंतला — ( सख्यावुपेत्य )
हला द्वे अपि मां सममेव परिष्वजेथाम् ।
सख्यौ — ( तथा कृत्वा )
सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो
भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
शकुंतला — अनेन संदेहेन वामाकम्पितास्मि ।
सख्यौ — मा भैषीः । अतिस्नेहः पापशङ्की ।
शार्ङ्गरवः — युगान्तरमारूढः सविता । त्वरतामत्रभवती ।
शकुंतला — ( आश्रमाभिमुखी स्थित्वा )
तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये ।
काश्यप — श्रूयताम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्॥२०॥
गौतमी — जाते परिहीयते गमनवेला । निवर्तय पितरम् । अथ वा
चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
काश्यपः — वत्से उपरुध्यते तपोऽनुष्ठानम् ।
शकुंतला — ( भूयः पितरमाश्लिष्य ) तपश्चरणपीडितं
तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व ।
काश्यपः — ( सनिःश्वासम् )
शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् ।
उटजद्वारविरूढं नीवारबलिं विलोकयतः॥२१॥
गच्छ । शिवास्ते पन्थानः सन्तु ।
( निष्क्रान्ता शकुंतला सहयायिनश्च )
सख्यौ — ( शकुंतलां विलोक्य )
हा धिक् हा धिक् । अन्तर्हिता शकुंतला वनराज्या ।
काश्यपः — ( सनिःश्वासम् )
अनसूये गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां
प्रस्थितम् ।
उभे — तात शकुंतलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः
।
काश्यपः — स्नेहवृत्तिरेवन्दर्शिनी ।
( सविमर्शं परिक्रम्य )
हन्त भोः शकुंतलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् ।
कुतः ।
अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा॥२२॥
( इति निष्क्रान्ताः सर्वे )
( इति चतुर्थोऽङ्कः । )
पञ्चमोऽङ्कः ।
( ततः प्रविशत्यासनस्थो राजा विदूषकश्च )
विदुषकः — ( कर्णं दत्त्वा )
भो वयस्य संगीतशालान्तरेऽवधानं देहि । कलविशुद्धाया गीतेः
स्वरसंयोगः श्रूयते । जाने त्रयभवती हंसपदिका वर्णपरिचयं
करोतीति ।
राजाः — तूष्णीं भव । यावदाकर्णयामि ।
( आकाशे गीयते )
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम्॥१॥
राजाः — अहो रागपरिवाहिणी गीतिः ।
विदुषकः — किं तावद्गीत्या अवगतोऽक्षरार्थः ।
राजाः — ( स्मितं कृत्वा )
सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण
महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां
हंसपदिका । निपुणमुपालब्धाः स्म इति ।
विदुषकः — यद्भवानाज्ञापयति ।
( उत्थाय )
भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके
ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।
राजाः — गच्छ । नागरिकवृत्त्या सञ्ज्ञापयैनाम् ।
विदुषकः — का गतिः । ( इति निष्क्रान्ताः )
राजाः — ( आत्मगतम् )
किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजनविरहादृतेपि
बलवदुत्कण्ठितोस्मि । अथवा ।
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति
यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि
जननान्तरसौहृदानि॥२॥
( इति पर्याकुलस्तिष्ठति )
( ततः प्रविशति कञ्चुकी )
कञ्चुकी — अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
आचार इत्यवहितेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता
प्रस्थानविक्लवगतेरवलम्बनार्था॥३॥
भोः कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव
धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे
निवेदयितुम् । अथ वाऽविश्रमोऽयं लोकतन्त्राधिकारः । कुतः ।
भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः॥
४॥
यावन्नियोगमनुतिष्ठामि ।
( परिक्रम्यावलोक्य च )
एष देवः
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा
निषेवते श्रान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः॥५॥
( उपगम्य )
जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः
काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः
प्रमाणम् ।
राजाः — ( सादरम् )
किं काश्यपसंदेशहारिणः ।
कञ्चुकी — अथ किम् ।
राजाः — तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः ।
अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव
प्रवेशयितुमर्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः
प्रतिपालयामि ।
क`न्चुकी — यदाज्ञापयति देवः ।
( इति निष्क्रान्तः )
राजाः — ( उत्थाय )
वेत्रवति अग्निशरणमार्गमादेशय ।
प्रतिहारी — इत इतो देवः ।
राजाः — ( परिक्रामति । अधिकारखेदं निरूप्य )
सर्वः प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः । राज्ञां तु
चरितार्थता दुःखोत्तरैव ।
औत्सुक्यमात्रमवसाययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्॥६॥
( नेपथ्ये )
वैतालिकौ — विजयतां देवः ।
प्रथमः —
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पदपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम्॥७॥
द्वितीयः —
नियमयसि विमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्॥८॥
राजाः — एते क्लान्तमनसः पुनर्नवीकृताः स्मः ।
( इति परिक्रामति )
प्रतिहारी — एष अभिनवसम्मार्जनसश्रीकः
सन्निहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ।
राजाः — ( आरुह्य परिजनांसावलम्बी तिष्ठति )
वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः
स्युः ।
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो
वीरुधामित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः॥९॥
प्रतिहारी — सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति
तर्कयामि ।
( ततः प्रविशन्ति गौतमीसहिताः शकुंतलां पुरस्कृत्य मुनयः ।
पुरश्चैषां कञ्चुकी पुरोहितश्च )
कञ्चुकी — इत इतो भवन्तः ।
शार्ङ्गरवः — शारद्वत ।
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव॥१०॥
शारद्वतः — स्थाने भवान्पुरप्रवेशादित्थम्भूतः संवृत्तः ।
अहमपि
अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि॥११॥
शकुंतला — ( निमित्तं सूचयित्वा )
अहो किं मे वामेतरन्नयनं विस्फुरति ।
गौतमी — जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता
वितरन्तु ।
( इति परिक्रामति )
पुरोहितः — ( राजानं निर्दिश्य )
भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव
मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।
शार्ङ्गरवः — भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि
वयमत्र मध्यस्थाः । कुतः
भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्
॥१२॥
प्रतीहारी — देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि
विश्रब्धकार्या ऋषयः ।
राजाः — ( शकुंतलां दृष्ट्वा )
अथात्रभवती
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्॥१३॥
प्रतीहारी — देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु
दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ।
राजाः — भवतु । अनिर्वर्णनीयं परकलत्रम् ।
शकुंतला — ( हस्तमुरसि कृत्वा । आत्मगतम् )
हृदय किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव ।
पुरोहितः — ( पुरो गत्वा )
एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसंदेशः । तं
देवः श्रोतुमर्हति ।
राजाः — अवहितोऽस्मि ।
ऋषयः — ( हस्तानुद्यम्य )
विजयस्व राजन् ।
राजाः — सर्वानभिवादये ।
ऋषयः — इष्टेन युज्यस्व ।
राजाः — अपि निर्विघ्नतपसो मुनयः ।
ऋषयः —
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति धर्मांशौ कथमाविर्भविष्यति॥१४॥
राजाः — अर्थवान्खलु मे राजशब्दः । अथ भगवान्लोकानुग्रहाय
कुशली काश्यपः ।
शार्ङ्गरवः — स्वाधीनकुशलाः सिद्धिमन्तः । स
भवन्तमनामयप्रश्नपूर्वकमिदमाह ।
राजाः — किमाज्ञापयति भगवान् ।
शार्ङ्गरवः — यन्मिथःसमयादिमां मदीयां दुहितरं
भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः
शकुंतला मूर्तिमती च सत्क्रिया ।
समानयंस्तुल्यगुणं वधूवरं
चिरस्य वाच्यं न गतः प्रजापतिः॥१५॥
तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्माचरणायेति ।
गौतमी — आर्य किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति ।
कथमिति ।
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः ।
एकैकस्मिन्नेव चरिते भणामि किमेकैकम्॥१६॥
शकुंतला — ( आत्मगतम् )
किं नु खल्वार्यपुत्रो भणति ।
राजाः — किमिदमुपन्यस्तम् ।
शकुंतला — ( आत्मगतम् )
पावकः खलु वचनोपन्यासः ।
शार्ङ्गरवः — कथमिदं नाम । भवन्त एव सुतरां
लोकवृत्तान्तनिष्णाताः ।
सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते ।
प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः॥१७॥
राजाः — किमत्रभवती मया परिणीतपूर्वा ।
शकुंतला — ( सविषादम् आत्मगतम् )
हृदय साम्प्रतं ते आशङ्का ।
शार्ङ्गरवः —
किं कृतकार्यद्वेषो धर्मं प्रति विमुखता ।
कृतावज्ञा ।
राजाः — कुतोऽयमसत्कल्पनाप्रश्नः ।
शार्ङ्गरवः —
मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु॥१८॥
राजाः — विशेषेणधिक्षिप्तोऽस्मि ।
गौतमी — जाते मुहूर्तं मा लज्जस्व । अपनेष्यामि
तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति ।
( इति यथोक्तं करोति )
राजाः — ( शकुंतलां निर्वर्ण्य । आत्मगतम् )
इदमुपनतमेवं रूपमक्लिष्टकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं
न च खलु परोभोक्तुं नापि शक्नोमि हातुम्॥१९॥
( इति विचारयन्स्थितः )
प्रतीहारी — ( स्वगतम् )
अहो धर्मापेक्षिता भर्तुः । इदृशं नाम सुखोपनतं रूपं दृष्टा
कोऽन्यो विचारयति ।
शार्ङ्गरवः — भो राजन् किमिति जोषमास्यते ।
राजाः — भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः
स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं
क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ।
शकुंतला — ( अपवार्य )
आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा ।
शार्ङ्गरवः– मा तावत् ।
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन॥। २०॥
शारद्वतः — शार्ङ्गरव विरम त्वमिदानीम् । शकुन्तले
वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह ।
दीयतामस्मै प्रत्ययप्रतिवचनम् ।
शकुंतला — ( अपवार्य )
इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन । आत्मेदानीं
मे शोचनीय इति व्यवसितमेतत् ।
( प्रकाशम् )
आर्यपुत्र –
( इत्यर्धोक्ते )
संशयित इदानीं परिणये नैष समुदाचारः ।
पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं
जनं समयपूर्वं प्रतार्य साम्प्रतमीदृशैरक्षरैः प्रत्याख्यातुम् ।
राजाः — ( कर्णौ विधाय )
शान्तं पापम् ।
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् ।
कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च॥२१॥
शकुंतला — भवतु । यदि परमार्थतः परपरिग्रहशङ्किना
त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।
राजाः — उदारः कल्पः ।
शकुंतला — ( मुद्रास्थानं परामृश्य )
हा धिक् हा धिक् । अङ्गुलीयकशून्या मेऽङ्गुलिः ।
( इति सविषादं गौतमीमवेक्षते )
गौतमी — नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं
वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् ।
राजाः — ( सस्मितम् )
इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुंतला — अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते
कथयिष्यामि ।
राजाः — श्रोतव्यमिदानीं संवृत्तम् ।
शकुंतला — नन्वेकस्मिन्दिवसे नवमालिकामण्डपे
नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितमासीत् ।
राजाः — शृणुमस्तावत् ।
शकुंतला — तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक
उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन
। न पुनस्तेऽपरिचयाध्दस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया
गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि ।
सर्वः सगंधेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।
राजाः —
एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते
विषयिणः ।
गौतमी — महाभाग नार्हस्येवं मन्त्रयितुम् ।
तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य ।
राजाः — तापसवृद्धे ।
स्त्रीणामशिक्षितपटुत्वममानुषीषु
संदृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनास्त्वमपत्यजातमन्यैर्द्विजैः
परभृताः खलु पोषयन्ति॥२२॥
शकुंतला — ( सरोषम् )
अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो
धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं
प्रतिपत्स्यते ।
राजाः — ( आत्मगतम् )
संदिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया
मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने ।
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य॥२३॥
( प्रकाशम् )
भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते ।
शकुंतला — सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि
याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य
हस्ताभ्यासमुपगता ।
शार्ङ्गरवः — इत्थमात्मकृतं चापलं दहति ।
अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम्॥२४॥
राजाः — अयि भोः किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः
क्षिणुथ ।
शार्ङ्गरवः –( सासूयम् )
श्रुतं भवद्भिरधरोत्तरम् ।
आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।
परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः॥२५॥
राजाः — भोः सत्यवादिन् अभ्युपगतं तावदस्माभिरेवम् । किं
पुनरिमामतिसंधाय लभ्यते ।
शार्ङ्गरवः — विनिपातः ।
राजाः — विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् ।
शारद्वतः– शार्ङ्गरव किमुत्तरेण । अनुष्ठितो गुरोः संदेशः ।
प्रतिनिवर्तामहे वयम् ।
( राजानं प्रति )
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी॥२६॥
गौतमि गच्छाग्रतः ।
( इति प्रस्थिताः )
शकुंतला — कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां
परित्यजथ ।
( इत्यनुप्रतिष्ठते )
गौतमी — ( स्थित्वा )
वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुंतला ।
प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ।
शार्ङ्गरवः — ( सरोषं निवृत्य )
किं पुरोभागे स्वातन्त्र्यमवलम्बसे ।
( शकुंतला भीता वेपते )
शार्ङ्गरवः — शकुंतले ।
यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम्॥२७॥
तिष्ठ । साधयामो वयम् ।
राजाः — भोस्तपस्विन् किमत्रभवतीं विप्रलभसे ।
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः॥२८॥
शार्ङ्गरवः — यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा
कथमधर्मभीरुः ।
राजाः — भवन्तमेवात्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः॥२९॥
पुरोहितः — ( विचार्य )
यदि तावदेवं क्रियताम् ।
राजाः — अनुशास्तु मां भवान् ।
पुरोहितः — अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत
इदमुच्यत इति चेत् । त्वं साधुभिरादिष्टपूर्वः प्रथममेव
चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो
भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु
पितुरस्याः समीपनयनमवस्थितमेव ।
राजाः — यथा गुरुभ्यो रोचते ।
पुरोहितः — वत्से अनुगच्छ माम् ।
शकुंतला — भगवति वसुधे देहि मे विवरम् ।
( इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च )
( राजा शापव्यवहितस्मृतिः शकुंतलागतमेव चिन्तयति )
( नेपथ्ये )
आश्चर्यमाश्चर्यम् ।
राजाः — ( आकर्ण्य )
किं नु खलु स्यात् ।
( प्रविश्य )
पुरोहितः — ( सविस्मयम् )
देव अद्भुतं खलु संवृत्तम् ।
राजाः — किमिव ।
पुरोहितः — देव परावृत्तेषु कण्वशिष्येषु –
सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।
राजाः — किं च ।
पुरोहितः —
स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम॥३०॥
( सर्वे विस्मयं रूपयन्ति )
राजाः — भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं
वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् ।
पुरोहित — ( विलोक्य )
विजयस्व ।
( इति निष्क्रान्तः )
राजाः — वेत्रवति पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी — इत इतो देवः ।
( इति प्रस्थिता )
राजाः —
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम्॥३१॥
( इति निष्क्रान्ताः सर्वे )
( इति पञ्चमोऽङ्कः । )
षष्ठोऽङ्कः ।
( ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय
रक्षिणौ च )
रक्षिणौ — ( पुरुषं ताडयित्वा )
अरे कुम्भीरक कथय कुत्र त्वयेतन्मणिबन्धनोत्कीर्णनामधेयं
राजकीयमङ्गुलीयकं समासादितम् ।
पुरुषः — ( भीतिनाटितकेन )
प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी ।
प्रथमः — किं शोभनो ब्राह्मण इति कृत्वा
( कलयित्वा )
राज्ञा प्रतिग्रहो दत्तः ।
पुरुषः — शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी
धीवरः ।
द्वितियः –पाटच्चर किमस्माभिर्जातिः पृष्टा ।
श्यालः — सूचक कथयतु सर्वननुक्रमेण । मैनमन्तरा
प्रतिबध्नीतम् ।
उभौ — यदावुत्त आज्ञापयति । कथय ।
पुरुषः — अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं
करोमि ।
श्यालः — ( विहस्य )
विशुद्ध इदानीमाजीवः ।
पुरुषः — भर्तः मा एवं भण ।
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः॥१॥
श्यालः — ततस्ततः ।
पुरुषः — एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः ।
यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं
दृष्टम् । पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः ।
मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।
श्यालः — जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् ।
अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।
रक्षिणौ — तथा । गच्छ अरे ग्रन्थिभेदक ।
( सर्वे परिक्रामन्ति )
श्यालः — सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं
यावदिदमङ्गुलीयकं यथागमनं भर्ते निवेद्य ततः शासनं प्रतीष्य
निष्क्रामामि ।
उभौ — प्रविशत्वावुत्तः स्वामिप्रसादाय ।
( इति निष्क्रान्तः श्यालः )
प्रथमः — जानुक चिरायते खल्वावुत्तः ।
द्वितीयः — नन्ववसरोपसर्पणीया राजानः ।
प्रथमः — जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम्
।
( इति पुरुषं निर्दिशति )
पुरुषः — नार्हति भावोऽकारणमारणो भवितुम् ।
द्वितीयः — ( विलोक्य )
एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतोमुखो दृश्यते ।
गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यासि ।
( प्रविश्य )
श्यालः — सूचक मुच्यतामेष जालोपजीवी । उपपन्नः
खल्वस्याङ्गुलीयकस्यागमः ।
सूचकः — यथावुत्तो भणति । एष यमसदनं प्रविश्य
प्रतिनिवृत्तः ।
( इति पुरुषं परिमुक्तबन्धनं करोति )
पुरुषः — ( श्यालं प्रणम्य )
भर्तः अथ कीदृशो म आजीवः ।
श्यालः — एष भर्त्राङ्गुलीयकमूल्यसम्मितः प्रसादोऽपि दापितः ।
( इति पुरुषाय स्वं प्रयच्छति )
पुरुषः — ( सप्रणामं प्रतिगृह्य )
भर्तः अनुगृहीतोऽस्मि ।
सूचकः — एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे
प्रतिष्ठापितः ।
जानुक — आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः
सम्मतेन भवितव्यमिति ।
श्यालः — न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य
दर्शनेन भर्त्राऽभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि
पर्यश्रुनयन आसीत् ।
सूचकः — सेवितं नामावुत्तेन ।
जानुकः — ननु भण । अस्य कृते मात्स्यिकभर्तुरिति ।
( इति पुरुषमसूयया पश्यति )
पुरुषः — भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
जानुकः — एतावद्युज्यते ।
श्यालः — धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः ।
कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तच्छौण्डिकापणमेव
गच्छामः ।
(इति निष्क्रान्ताः सर्वे)
प्रवेशकः ।
( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः )
सानुमती — निर्वर्तितं मया
पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं
यावत्साधुजनस्यभिषेककाल इति साम्प्रतमस्य राजर्षेरुदन्तं
प्रत्यक्षीकरिष्यामि । मेनकासम्बन्धेन शरीरभूता मे शकुंतला ।
तया च दुहितृनिमित्तमादिष्टपूर्वास्मि ।
( समन्तादवलोक्य )
किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति
मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया
मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना
पार्श्ववर्तिनी भूत्वोपलप्स्ये ।
( इति नाट्येनावतीर्य स्थिता )
( ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपरा च
पृष्ठतस्तस्याः )
प्रथमा —
आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य ( योः ) ।
दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि॥२॥
द्वितीया — परभृतिके किमेकाकिनी मन्त्रयसे ।
प्रथमा — मधुकरिके चूतकलिकां दृष्ट्त्वोन्मत्ता परभृतिका
भवति ।
द्वितीया — ( सहर्षं त्वरयोपगम्य )
कथमुपस्थितो मधुमासः ।
प्रथमा — मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् ।
द्वितीया — सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा
चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि ।
प्रथमा — यदि ममापि खल्वर्धमर्चनफलस्य ।
द्वितीया — अकथितेऽप्येतत्सम्पद्यते यत एकमेव नौ जीवीतं
द्विधास्थितं शरीरम् ।
( सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति )
अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति ।
( इति कपोतहस्तकं कृत्वा )
त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव॥३॥
( इति चूताङ्कुरं क्षिपति )
( प्रविश्यापटीक्षेपेण कुपितः ) ।
कञ्चुकी — मा तावदनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे
त्वमाम्रकलिकाभङ्गं किमारभसे ।
उभे — ( भीते )
प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।
कञ्चुकी — न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य
शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
सन्नद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम्॥४॥
सनुमती — नास्ति संदेहः । महाप्रभावो राजर्षिः ।
प्रथमा — आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण
भट्टिनीपादमूलं प्रेषितयोः । अत्र च नौ प्रमदवनस्य पालनकर्म
समर्पितम् । तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।
कञ्चुकी — भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे — आर्य कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः
किन्निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ।
सानुमती — उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन
भवितव्यम् ।
कञ्चुकी — बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्योः कर्णपथं
नायातं शकुंतलाप्रत्यादेशकौलीनम् ।
उभे — श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
कञ्चुकी — तेन ह्यल्पं कथयितव्यम् । यदैव खलु
स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती
रहसि शकुंतला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव
पश्चात्तापमुपगतो देवः । तथा हि
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु
स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम्॥५॥
सानुमती — प्रियं मे ।
कञ्चुकी — अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे — युज्यते ।
( नेपथ्ये )
एतु एतु भवान् ।
कञ्चुकी — ( कर्णं दत्त्वा )
अये । इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।
उभे — तथा ।
(इति निष्क्रान्ते)
( ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः
प्रतीहारी च । )
कञ्चुकी — ( राजानमवलोक्य )
अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एवमुत्सुकोऽपि
प्रियदर्शनो देवः । तथा हि
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते॥६॥
सानुमती — ( राजानं दृष्ट्वा )
स्थाने खलु प्रत्यादेशविमानिताऽप्यस्य कृते शकुंतला क्लाम्यति ।
राजाः — ( ध्यानमन्दं परिक्रम्य )
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम्॥७॥
सानुमती — नन्वीदृशानि तपस्विन्या भागधेयानि ।
विदूषकः — ( अपवार्य )
लङ्घित एष भूयोऽपि शकुंतलाव्याधिना । न जाने कथं
चिकित्सितव्यो भविष्यतीति ।
कञ्चुकी — ( उपगम्य )
जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः
यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
राजाः — वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि ।
चिरप्रबोधान्न सम्भावितमस्माभिरद्य धर्मासनमध्यासितुम् ।
यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।
प्रतीहारी — यद्देव आज्ञापयति ।
( इति निष्क्रान्ता )
राजाः — वातायन त्वमपि स्वं नियोगमशून्यं कुरु ।
कञ्चुकी — यदाज्ञापयति देवः ।
( इति निष्क्रान्तः )
विदूषकः — कृतं भवता निर्मक्षिकम् । साम्प्रतं
शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।
राजाः — वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि
वचः । कुतः
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः॥८॥
विदूषकः — तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं
नाशयिष्यामि ।
( इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति )
राजाः — ( सस्मितम् )
भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः
किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ।
विषूषक — नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा ।
माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां
स्वहस्तलिखितां तत्रभवत्याः शकुंतलायाः प्रतिकृतिमानयेति ।
राजाः — ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय
।
विदूषकः — इत इतो भवान् ।
( उभौ परिक्रमतः । सानुमत्यनुगच्छति )
विदूषकः — एष मणिशिलापट्टकसनाथो माधवीमण्डप
उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति ।
तत्प्रविश्य निषीदतु भवान् ।
( उभौ प्रवेशं कृत्वोपविष्टौ )
सानुमती — लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् ।
ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।
( इति तथा कृत्वा स्थिता )
राजाः — सखे सर्वमिदानीं स्मरामि शकुंतलायाः
प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स
भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया
कदाचित्संकीर्तितं तत्रभवत्या नाम । कच्चिदहमिव विस्मृतवानसि
त्वम् ।
विदूषकः — न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनस्त्वया
परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि
मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु
बलवती ।
सानुमती — एवं न्विदम् ।
राजाः — ( ध्यात्वा )
सखे त्रायस्व माम् ।
विदूषकः — भोः किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि
सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा
गिरयः ।
राजाः — वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य
बलवदशरणोऽस्मि । सा हि
इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता
स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि
क्रूरे यत्तत्सविषमिव शल्यं दहति माम्॥९॥
सानुमती — अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे ।
विदूषकः — भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा
नीतेति ।
राजाः — कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत । मेनका किल
सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते
हृतेति मे हृदयमाशङ्कते ।
सानुमती — सम्मोहः खलु विस्मयनीयो न प्रतिबोधः ।
विदूषकः — यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या ।
राजाः — कथमिव ।
विदूषकः — न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं
चिरं द्रष्टुं पारयतः ।
राजाः — वयस्य ।
स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः॥१०॥
विदूषकः — मैवम् । नन्वङ्गुलीयकमेव निदर्शनमवश्यं
भाव्यचिन्तनीयः समागमो भवतीति ।
राजाः — ( अङ्गुलीयकं विलोक्य )
अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् ।
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु॥११॥
सानुमती — यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।
विदूषकः — भोः इयं नाममुद्रा केनोध्दातेन तत्रभवत्या
हस्ताभ्यासं प्रापिता ।
सानुमती — ममापि कौतूहलेनाकारित एषः ।
राजाः — श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया
सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।
विदूषकः — ततस्ततः ।
राजाः — पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया
प्रत्यभिहिता ।
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्
।
तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति
॥१२॥
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती — रमणीयः खल्ववधिर्विधिना विसंवादितः ।
विदूषकः — अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर
आसीत् ।
राजाः — शचीतीर्थं वन्दमानायाः सख्यास्ते
हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् ।
विदूषकः — युज्यते ।
सानुमती — अत एव तपस्विन्याः शकुंतलाया अधर्मभीरोरस्य
राजर्षेः परिणये संदेह आसीत् ।
अथ वेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् ।
राजाः — उपालप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः — ( आत्मगतम् )
गृहीतोऽनेन पन्था उन्मत्तानाम् ।
राजाः — कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि
निमग्नमम्भसि । अथवा ।
अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया॥१३॥
विदूषकः — ( आत्मगतम् )
कथं बुभुक्षया खादितव्योऽस्मि ।
राजाः — प्रिये
अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः
पुनर्दर्शनेन ।
( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता )
चतुरिका — इयं चित्रगता भट्टिनी ।
( इति चित्रफलकं दर्शयति )
विदूषकः — ( विलोक्य )
साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव
मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।
सानुमती — अहो एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तत
इति ।
राजाः —
यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम्॥१४॥
सानुमती — सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।
विदूषकः — भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च
दर्शनीयाः । कतमाऽत्र तत्रभवती शकुंतला ।
सानुमती — अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः
।
राजाः — त्वं तावत्कतमां तर्कयसि ।
विदूषकः — तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन
केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां
बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व
इषत्परिश्रान्तेवालिखिता सा शकुंतला । इतरे सख्याविति ।
राजाः — निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् ।
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात्॥१५॥
चतुरिके अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय
।
चतुरिका — आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि
।
राजाः — अहमेवैतदवलम्बे ।
( इति यथोक्तं करोति )
( निष्क्रान्ता चेटि )
राजाः — ( निःश्वस्य )
साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु
मन्यमानः ।
स्त्रोतोवहां पथि निकामजलामतीत्य जातः सखे
प्रणयवान्मृगतृष्णिकायाम्॥१६॥
विदूषकः — ( आत्मगतम् )
एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः ।
( प्रकाशम् )
भोः अपरं किमत्र लेखितव्यम् ।
सानुमति — यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालेखितुकामो
भवेत् ।
राजाः — श्रूयताम् ।
कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः
शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्॥१७॥
विदूषकः — ( आत्मगतम् )
यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां
तापसानां कदम्बैः ।
राजाः — वयस्य अन्यश्च । शकुंतलायाः प्रसाधनमभिप्रेतमत्र
विस्मृतमस्माभिः ।
विदूषकः — किमिव ।
सानुमती — वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं
भविष्यति ।
राजाः —
कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचित स्तनान्तरे॥
१८॥
विदूषकः — भोः किं नु तत्रभवती
रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमावार्य चकितचकितेव
स्थिता ।
( सावधानं निरूप्य दृष्ट्वा )
आः एष दास्याःपुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या
वदनकमलमभिलङ्घते मधुकरः ।
राजाः — ननु वार्यतामेष धृष्टः ।
विदूषकः — भवानेवाविनीतानां शासिताऽस्य वारणे
प्रभविष्यति ।
राजाः — युज्यते । अयि भोः कुसुमलताप्रियातिथे किमत्र
परिपतनखेदमनुभवसि ।
एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति॥१९॥
सानुमती — अद्याभिजातं खल्वेष वारितः ।
विदूषकः — प्रतिषिद्धापि वामैषा जातिः ।
राजाः — एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि सम्प्रति ।
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास्त्वां कारयामि
कमलोदरबन्धनस्थम्॥२०॥
विदूषकः — एवं तीक्ष्णदण्डस्य किं न भेष्यति ।
( प्रहस्य । आत्मगतम् )
एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः ।
( प्रकाशम् )
भोः चित्रं खल्वेतत् ।
राजाः — कथं चित्रम् ।
सानुमती — अहमपीदानीमवगतार्था । किं
पुनर्यथालिखितानुभाव्येषः ।
राजाः — वयस्य किमिदमनुष्ठितं पौरोभाग्यम् ।
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता॥२१॥
( इति बाष्पं विहरति )
सानुमती — पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
राजाः — वयस्य कथमेवमविश्रान्तदुःखमनुभवामि ।
प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि॥२२॥
सानुमती — सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं
शकुंतलायाः ।
( प्रविश्य )
चतुरिका — जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं
प्रस्थितास्मि ।
राजाः — किं च ।
चतुरिका — स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या
वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
विदूषकः — दिष्ट्या त्वं मुक्ता ।
चतुरिका — यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति
तावन्मया निर्वाहित आत्मा ।
राजाः — वयस्य उपस्थिता देवी बहुमानगर्विता च । भवानिमां
प्रतिकृतिं रक्षतु ।
विदूषकः — आत्मानमिति भण ।
( चित्रफलकमादायोत्थाय च )
यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिच्छन्दे
प्रासादे शब्दायय ।
( इति द्रुतपदं निष्क्रान्तः )
सानुमती — अन्यसंक्रान्तहृदयोऽपि प्रथमसम्भावनामपेक्षते ।
अतिशिथिलसौहार्द इदानीमेषः ।
( प्रविश्य पत्रहस्ता )
प्रतीहारी — जयतु जयतु देवः ।
राजाः — वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी ।
प्रतीहारी — अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
राजाः — कार्यज्ञा कार्योपरोधं मे परिहरति ।
प्रतीहारी — देव अमात्यो विज्ञापयति ।
अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः
पत्रारूढं प्रत्यक्षीकरोत्विति ।
राजाः — इतः पत्रं दर्शय ।
( प्रतिहार्युपनयति )
राजाः — ( अनुवाच्य )
कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः
। अनपत्यश्च किल तपस्वी । राजगामी तस्यार्थसंचय
इत्येतदमात्येन लिखितम् । कष्टं खल्वनपत्यता । वेत्रवति
बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि
काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् ।
प्रतीहारी — देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता
निर्वृत्तपुंसवना जायास्य श्रूयते ।
राजाः — ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ । एवममात्यं
ब्रूहि ।
प्रतीहारी — यद्देव आज्ञापयति ।
( इति प्रस्थिता )
राजाः — एहि तावत् ।
प्रतीहारी — इयमस्मि ।
राजाः — किमनेन संततिरस्ति नास्तीति ।
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापादृते तासां दुष्यन्त इति घुष्यताम्॥२३॥
प्रतीहारी — एवं नाम घोषयितव्यम् ।
( निष्क्रम्य । पुनः प्रविष्य )
काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।
राजाः — ( दीर्घमुष्णं च निःश्वस्य )
एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने
सम्पदः परमुपतिष्ठन्ते । ममाप्यन्ते पुरुवंशश्रिय एष एव
वृत्तान्तः ।
प्रतीहारी — प्रतिहतममङ्गलम् ।
राजाः — धिङ्मामुपस्थितश्रेयोवमानिनम् ।
सानुमती — असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजाः —
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा॥२४॥
सानुमती — अपरिच्छिन्नेदानीं ते संततिर्भविष्यति ।
चतुरिका — ( जनान्तिकम् )
अये अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं
मेघप्रतिच्छन्दादार्यं माधव्यं गृहीत्वागच्छ ।
प्रतीहारी — सुष्ठु भणसि ।
( इति निष्क्रान्ता )
राजाः — अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः ।
अस्मात्परं बत यथाश्रुति सम्भृतानि को नः कुले निवपनानि
नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः
पिबन्ति॥२५॥
( इति मोहमुपगतः )
चतुरिका — ( ससम्भ्रममवलोक्य )
समाश्वसितु समाश्वसितु भर्ता ।
सानुमती — हा धिक् हा धिक् । सति खलु दीपे
व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अहमिदानीमेव
निर्वृतं करोमि ।
अथ वा श्रुतं मया शकुंतलां समाश्वासयन्त्या महेन्द्रजनन्या
मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण
धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तद्युक्तमेतं कालं
प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि ।
( इत्युद्भ्रान्तकेन निष्क्रान्ता )
( नेपथ्ये )
अब्रह्मण्यम् ।
राजाः — ( प्रत्यागतः । कर्णं दत्त्वा )
अये माधव्यस्येवार्तस्वरः । कः कोऽत्र भोः ।
( प्रविश्य )
प्रतीहारी — ( ससम्भ्रमम् )
परित्रायतां देवः संशयगतं वयस्यम् ।
राजाः — केनात्तगन्धो माणवकः ।
प्रतीहारी — अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य
मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः ।
राजाः — ( उत्थाय )
मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथ वा ।
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः के पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः॥२६॥
( नेपथ्ये )
भो वयस्य अविहा अविहा ।
राजाः — ( गतिभेदेन परिक्रामन् )
सखे न भेतव्यम् ।
( नेपथ्ये )
( पुनस्तदेव पठित्वा )
कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव
त्रिभङ्गं करोति ।
राजाः — ( सदृष्टिक्षेपम् )
धनुस्तावत् ।
( प्रविश्य शार्ङ्गहस्ता )
यवनी — भर्तः एतध्दस्तावापसहितं शरासनम् ।
( राजा सशरं धनुरादत्ते )
( नेपथ्ये )
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि
चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं
भवत्विदानीम्॥२७॥
राजाः — ( सरोषम् )
कथं मामेवोद्दिशति । तिष्ठ कुणपाशन । त्वमिदानीं न भविष्यसि ।
( शार्ङ्गमारोप्य )
वेत्रवति सोपानमार्गमादेशय ।
प्रतिहारी — इत इतो देवः ।
( सर्वे सत्वरमुपसर्पन्ति )
राजाः — ( समन्ताद्विलोक्य )
शून्यं खल्विदम् ।
( नेपथ्ये )
अविहा । अविहा । अहं अत्रभवन्तं पश्यामि । त्वं मां न पश्यसि ।
बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।
राजाः — भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति । एष
तमिषुं संदधे ।
यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः॥२८॥
( इत्यस्त्रं संधत्ते )
( ततः प्रविशति विदूषकमुत्सृज्य मातलिः )
मातलिः —
कृता शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम्
।
प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः
॥२९॥
राजाः — ( ससम्भ्रममस्त्रमुपसंहरन् )
अये मातलिः । स्वागतं महेन्द्रसारथे ।
( प्रविश्य )
विदूषकः — अहं येनेष्टिपशुमारं मारितः सोऽनेन
स्वागतेनाभिनद्यते ।
मातलिः — ( सस्मितम् )
आयुष्मन्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः ।
राजाः — अवहितोऽस्मि ।
मातलिः — अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः ।
राजाः — अस्ति । श्रुतपूर्वं मया नारदात् ।
मातलिः —
सख्युस्ते स किल शतक्रतोरजय्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः
॥३०॥
स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय
प्रतिष्ठताम् ।
राजाः — अनुगृहीतोऽहमनया मघवतः सम्भावनया । अथ
माधव्यं प्रति भवता किमेवं प्रयुक्तम् ।
मातलिः — तदपि कथ्यते । किञ्चिन्निमित्तादपि
मनःसंतापादायुष्मान्मया विक्लवो दृष्टः ।
पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः ।
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः॥३१॥
राजाः — ( जनान्तिकम् )
वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र परिगतार्थं कृत्वा
मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तावत् परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः॥३२॥
इति ।
विदूषकः — यद्भवानाज्ञापयति ।
( इति निष्क्रान्तः )
मातलिः — आयुष्मान्रथमारोहतु ।
( राजा रथारोहणं नाट्यति )
( निष्क्रान्ताः सर्वे )
( इति षष्ठो अङ्कः । )
सप्तमोऽङ्कः ।
( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च )
राजाः — मातले अनुष्ठितनिदेशोऽपि मघवतः
सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
मातलिः — ( सस्मितम् )
आयुष्मन् उभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान्॥१॥
राजाः — मातले मा मैवम् । स खलु
मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां
समक्षमर्धासनोपवेशितस्य ।
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा॥२॥
मातलिः — किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः॥३॥
राजाः — अत्र खलु शतक्रतोरेव महिमा स्तुत्यः ।
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः ।
सम्भावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्॥४॥
मातलिः — सदृशं तवैतत् ।
( स्तोकमन्तरमतीत्य )
आयुष्मन् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः
।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति॥५॥
राजाः — मातले असुरसम्प्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया
न लक्षितः स्वर्गमार्गः । कतमस्मिन्मरुतां पथि वर्तामहे ।
मातलिः —
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च
प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम्
॥६॥
राजाः — मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति
।
( रथाङ्गमवलोक्य )
मेघपदवीमवतीर्णौ स्वः ।
मातलिः — कथमवगम्यते ।
राजाः — अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां
तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां
पिशुनयति रथस्ते शीकरक्लिन्ननेमिः॥७॥
मातलिः — क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते ।
राजाः — ( अधोऽवलोक्य )
मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा
हि ।
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी ।
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः ।
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते॥८॥
मातलिः — साधु दृष्टम् ।
( सबहुमानमवलोक्य )
अहो उदाररमणीया पृथिवी ।
राजाः — मातले कतमोऽयं पूर्वापरसमुद्रावगाढः
कनकरसनिस्यन्दी सांध्य इव मेघपरिघः सानुमानालोक्यते ।
मातलि — आयुष्मन् एष खलु हेमकूटो नाम
किम्पुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य ।
स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति॥९॥
राजाः — तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य
भगवन्तं गन्तुमिच्छामि ।
मातलिः — प्रथमः कल्पः ।
( नाट्येनावतीर्णौ )
राजाः — ( सविस्मयम् )
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शनतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते॥१०॥
मातलिः — एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजाः — मातले कतमस्मिन्प्रदेशे मारीचाश्रमः ।
मातलिः — ( हस्तेन दर्शयन् )
वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः॥११॥
राजाः — नमस्ते कष्टतपसे ।
मातलिः — ( संयतप्रग्रहं रथं कृत्वा )
एतौ अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।
राजाः — स्वर्गादधिकतरं निर्वृतिस्थानम्
अमृतहृदमिवावगाढोऽस्मि ।
मातलिः — ( रथं स्थापयित्वा )
अवतरत्वायुष्मान् ।
राजाः — ( अवतीर्य )
मातले भवान्कथमिदानीम् ।
मातलिः — संयन्त्रितो मया रथः । वयमप्यवतरामः ।
( तथा कृत्वा )
इत आयुष्मन् ।
( परिक्रम्य )
दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजाः — ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी॥१२॥
मातलिः — उत्सर्पिणी खलु महतां प्रार्थना ।
( परिक्रम्य । आकाशे )
अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि ।
दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै
महर्षिपत्नीसहितायै कथयतीति ।
राजाः — ( कर्णं दत्त्वा )
अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः — ( राजानमवलोक्य )
अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे
निवेदयितुमन्तरान्वेषी भवामि ।
राजाः — यथा भवान्मन्यते ।
( इति स्थितः )
मातलिः — आयुष्मन् साधयाम्यहम् ।
( इति निष्क्रान्तः )
राजाः — ( निमित्तं सूचयित्वा )
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते॥१३॥
( नेपथ्ये )
मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ।
राजाः — ( कर्णं दत्त्वा )
अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ।
( शब्दानुसारेणावलोक्य । सविस्मयम् )
अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ।
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति॥१४॥
( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः )
बालः — जृम्भस्व सिंह दन्तांस्ते गणयिष्ये ।
प्रथमा — अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि ।
हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति
कृतनामधेयोऽसि ।
राजाः — किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः ।
नूनमनपत्यता मां वत्सलयति ।
द्वितीया — एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न
मुञ्चसि ।
बालः — ( सस्मितम् )
अहो बलीयः खलु भीतोऽस्मि ।
( इत्यधरं दर्शयति )
राजाः —
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः॥१५॥
प्रथमा — वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं
दास्यामि ।
बालः — कुत्र । देह्येतत् ।
( इति हस्तं प्रसारयति )
राजाः — कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य ।
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम्॥१६॥
द्वितीया — सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ
त्वम् । मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो
मृत्तिकामयूरस्तिष्ठति । तमस्योपहर ।
प्रथमा — तथा ।
( इति निष्क्रान्ता )
बालः — अनेनैव तावत्क्रीडिष्यामि ।
( इति तापसीं विलोक्य हसति )
राजाः — स्पृहयामि खलु दुर्ललितायस्मै ।
आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति॥
१७॥
तापसी — भवतु । न मामयं गणयति ।
( पार्श्वमवलोक्य )
कोऽत्र ऋषिकुमाराणाम् ।
( राजानमवलोक्य )
भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण डिम्भलीलया
बाध्यमानं बालमृगेन्द्रम् । ( -दुर्मोक- )
राजाः — ( उपगम्य । सस्मितम् )
अयि भो महर्षिपुत्र ।
एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः॥१८
॥
तापसी — भद्रमुख न खल्वयमृषिकुमारः ।
राजाः — आकारसदृशं चेष्टितमेवास्य कथयति ।
स्थानप्रत्ययात्तु वयमेवन्तर्किणः ।
( यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य । आत्मगतम् )
अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः॥१९
॥
तापसी — ( उभौ निर्वर्ण्य )
आश्चर्यमाश्चर्यम् ।
राजाः — आर्ये किमिव ।
तापसी — अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिताऽस्मि ।
अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति ।
राजाः — ( बालकमुपलालयन् )
न चेन्मुनिकुमारोऽयमथ को स्य व्यपदेशः ।
तापसी — पुरुवंशः ।
राजाः — ( आत्मगतम् )
कथमेकान्वयो मम । अतः खलु मदनुकारिणमेनमत्रभवती मन्यते ।
अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकव्रतियतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम्॥२०॥
( प्रकाशम् )
न पुनरात्मगत्या मानुषाणामेष विषयः ।
तापसी — यथा भद्रमुखो भणति । अप्सरःसम्बन्धेनास्य जनन्यत्र
देवगुरोस्तपोवने प्रसूता ।
राजाः — ( अपवार्य )
हन्त द्वितीयमिदमाशाजननम् ।
( प्रकाशम् )
अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ।
तापसी — कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं
चिन्तयिष्यति ।
राजाः — ( स्वगतम् )
इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं
नामतः पृच्छामि । अथ वाऽनार्यः परदारव्यवहारः ।
( प्रविष्य मृन्मयूरहस्ता )
तापसी — सर्वदमन शकुंतलावण्यं प्रेक्षस्व ।
बालः — ( सदृष्टिक्षेपम् )
कुत्र वा मम माता ।
उभे — नामसादृश्येन वञ्चितो मातृवत्सलः ।
द्वितीया — वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजाः — ( आत्मगतम् )
किं वा शकुन्तलेत्यस्या मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि ।
अपि नाम मृगतृष्णिकेव
नाममात्रप्रस्तावो मे विषादाय कल्पते ।
बालः — मातः रोचते म एष भद्रमयूरः ।
( इति क्रीडनकमादत्ते )
प्रथमा — ( विलोक्य । सोद्वेगम् )
अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते ।
राजाः — अलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् ।
( इत्यादातुमिच्छति )
उभे — मा खल्वेतदवलम्ब्य कथम् । गृहीतमनेन ।
( इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः )
राजाः — किमर्थं प्रतिषिद्धाः स्मः ।
प्रथमा — शृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य
जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल
मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति ।
राजाः — अथ गृह्णाति ।
प्रथमा — ततस्तं सर्पो भूत्वा दशति ।
राजाः — भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ।
उभे — अनेकशः ।
राजाः — ( सहर्षम् । आत्मगतम् )
कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि ।
( इति बालं परिष्वजते )
द्वितीया — सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै
शकुंतलायै निवेदयावः ।
( इति निष्क्रान्ते )
बालः — मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
राजाः — पुत्रक मया सहैव मातरमभिनन्दिष्यसि ।
बालः — मम खलु तातो दुष्यन्तः । न त्वम् ।
राजाः — ( सस्मितम् )
एष विवाद एव प्रत्याययति ।
( ततः प्रविशत्येकवेणीधरा शकुंतला )
शकुंतला — विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं
श्रुत्वा न मे आशाऽऽसीदात्मनो भागधेयेषु । अथ वा यथा
सानुमत्याऽऽख्यातं तथा सम्भाव्यत एतत् ।
राजाः — ( शकुंतलां विलोक्य )
अये सेयमत्रभवती शकुंतला यैषा
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति॥२१॥
शकुंतला — ( पश्चात्तापविवर्णं राजानं दृष्ट्वा )
न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं
दारकं मे गात्रसंसर्गेण दूषयति ।
बालः — ( मातरमुपेत्य )
मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ।
राजाः — प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं
यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
शकुंतला — ( आत्मगतम् )
हृदय समाश्वसिहि समाश्वसिहि ।
परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः ।
राजाः — प्रिये ।
स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम्॥२२॥
शकुंतला — जयतु जयत्वार्यपुत्रः ।
(इत्यर्धोक्ते बाष्पकण्ठी विरमति)
राजाः — सुन्दरि ।
बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम्॥२३॥
बालः — मातः क एषः ।
शकुंतला — वत्स ते भागधेयानि पृच्छ ।
राजाः — ( शकुंतलायाः पादयोः प्रणिपत्य )
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवम्प्रायाः शुभेषु हि वृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया॥२४॥
शकुंतला — उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं
पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन
सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः ।
( राजोत्तिष्ठति )
शकुंतला — अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः ।
राजाः — उद्धृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो बद्धबिन्दुरधरं परिबाधमानः ।
तं तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम्॥२५॥
( इति यथोक्तमनुतिष्ठति )
शकुंतला — ( नाममुद्रां दृष्ट्वा )
आर्यपुत्र इदं तदङ्गुलीयकम् ।
राजाः — अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा ।
शकुंतला — विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले
दुर्लभमासीत् ।
राजाः — तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् ।
शकुंतला — नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु ।
( ततः प्रविशति मातलिः )
मातलिः — दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन
चायुष्मान्वर्धते ।
राजाः — अभूत्सम्पादितस्वादुफलो मे मनोरथः । मातले न खलु
विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।
मातलिः — ( सस्मितम् )
किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं
वितरति ।
राजाः — शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं
द्रष्टुमिच्छामि ।
शकुंतला — जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।
राजाः — अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
( सर्वे परिक्रामन्ति )
( ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः )
मारीचः — ( राजानमवलोक्य )
दाक्षायणि ।
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः॥२६॥
अदितिः — सम्भावनीयानुभावाऽस्याकृतिः ।
मातलिः — आयुष्मन् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां
पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।
राजाः — मातले ।
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचिसम्भवमिदं तत्स्रष्टुरेकान्तरम्॥२७॥
मातलिः — अथ किम् ।
राजाः — ( उपगम्य )
उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति ।
मारीच — वत्स चिरं जीव । पृथिवीं पालय ।
अदितिः — वत्स अप्रतिरथो भव ।
शकुंतला — दारकसहिता वां पादवदनं करोमि ।
मारीचः — वत्से ।
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते योग्या पौलोमीसदृशी भव॥२८॥
अदितिः — जाते भर्तुर्बहुमता भव । अयं च दीर्घायुर्वत्सक
उभयकुलनन्दनो भवतु । उपविशत ।
( सर्वे प्रजापतिमभित उपविशन्ति )
मारीचः — ( एकैकं निर्दिंशन् )
दिष्ट्या शकुंतला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम्॥२९॥
राजाः — भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् ।
अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः ।
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः॥३०॥
मातलिः — एवं विधातारः प्रसीदन्ति ।
राजाः — भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य
कस्यचित्कालस्य बन्धुभिरानीतां
स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो
युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वां
तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।
यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः॥३१॥
मारीचः — वत्स अलमात्मापराधशङ्कया । सम्मोहोऽपि
त्वय्यनुपपन्नः । श्रूयताम् ।
राजाः — अवहितोऽस्मि ।
मारीचः — यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां
शकुंतलामादाय मेनका दाक्षायणीमुपगता तदैव
ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी
सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स
चायमङ्गुलीयकदर्शनावसानः ।
राजाः — ( सोच्छ्वासम् )
एष वचनीयान्मुक्तोऽस्मि ।
शकुंतला — ( स्वगतम् )
दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं
स्मरामि । अथ वा प्राप्तो मया स हि शापो विरहशून्यहृदयया न
विदितः । अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं
दर्शयितव्यमिति ।
मारीचः — वत्से चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति
न त्वया मन्युः कार्यः । पश्य ।
शापादसि प्रतिहता स्मृतिरोधरूक्षे
भर्तर्यपेततमसि प्रभुता तवैव ।
छाया न मूर्छति मलोपहतप्रसादे
शुद्धे तु दर्पणतले सुलभावकाशा॥३२॥
राजाः — यथाह भगवान् ।
मारीचः — वत्स कच्चिदभिनन्दितस्त्वया
विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ।
राजाः — भगवन् अत्र खलु मे वंशप्रतिष्ठा ।
( इति बालं हस्तेन गृह्णाति )
मारीचः — तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् ।
पश्य ।
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात्॥३३॥
राजाः — भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे ।
अदितिः — भगवन् अस्या दुहितृमनोरथसम्पत्तेः कण्वोऽपि
तावत्च्छ्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती
तिष्ठति ।
शकुंतला — ( आत्मगतम् )
मनोरथः खलु मे भणितो भगवत्या ।
मारीचः — तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजाः — अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः — तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः । कः कोऽत्र भोः ।
( प्रविश्य )
शिष्यः — भगवन् अयमस्मि ।
मारीचः — गालव इदानीमेव विहायसा गत्वा मम
वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुंतला
तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति ।
शिष्यः — यदाज्ञापयति भगवान् ।
( इति निष्क्रान्तः )
मारीचः — वत्स त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य
रथमारुह्य ते राजधानीं प्रतिष्ठस्व ।
राजाः — यदाज्ञापयति भगवान् ।
मारीचः — अपि च ।
तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु
त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यैर्नयतमु-
भयलोकानुग्रहश्लाघनीयैः॥३४॥
राजाः — भगवन् यथाशक्ति श्रेयसे यतिष्ये ।
मारीचः — वत्स किं ते भूयः प्रियमुपकरोमि ।
राजाः — अतः परमपि प्रियमस्ति । यदीह भगवान्प्रियं कर्तुमिच्छति
तर्हीदमस्तु ।
( भरतवाक्यम् )
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयताम् ।
ममापि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः॥३५॥
( निष्क्रान्ताः सर्वे )
( इति सप्तमोऽङ्कः । )
समाप्तमिदमभिज्ञानशकुंतलं नाम नाटकम् ।