देवी कालोत्तरागमः-Devi Kalottara Agama
Home » Law Library Updates » Law Library » Sanskrit Documents » देवी कालोत्तरागमः-Devi Kalottara Agama
Those who meditate on the Supreme Being, who is empty, pure and silent, they attain the supreme abode free from birth and death
ये ध्यायन्ति परं शून्यं निष्कलं निरवस्थितम् । ते यान्ति परमं स्थानं जन्ममृत्युविवर्जितम् (Devi kalottara)
देवीकालोत्तरागमः
सर्वेषामपि मुक्त्यर्थं मुक्तिमार्गस्य दर्शनम् ।
देवेश ज्ञानमाचारं कृपया कथयस्व मे ॥ १ ॥
ईश्वर उवाच
Read Next
ज्ञानाचारौ वरारोहे कथयामि तवाधुना ।
प्रविशन्ति यतो मोक्षं ज्ञानिनो ध्वस्तकल्मषम् ॥ २ ॥
येषां बोधेन संजातं कालज्ञानं वरानने ।
न तेषां जायते बोधः शास्त्रकोटिशतैरपि ॥ ३ ॥
अतो हि निर्भयो विद्वान्निःशङ्को विगतस्पृहः ।
ज्ञानोत्साहपरो भूयात्श्रद्दद्धानो निराकुलः ॥ ४ ॥
निर्ममः करुणोपेतः सर्वभूताभयप्रदः ।
भजेत्कालोत्तरं देवि मुमुक्षुर्योगतत्परः ॥ ५ ॥
स ब्रह्मा स शिवो विष्णुः स इन्द्रः स षडाननः ।
स गुरुः सर्वदेवाश्च स योगी स तपोधनः ॥ ६ ॥
पण्डितः स महाभागः कृतार्थः परमार्थतः ।
चलद्वायुसमं चित्तं ध्रियते येन निश्चलम् ॥ ७ ॥
स उपायो मिमोक्षस्य सदुपात्तगुणस्तु सः ।
सा प्रज्ञा तदिह स्थैर्यं तत्पुण्यं व्यवसायिनाम् ॥ ८ ॥
तदेव तीर्थं दानं च स तपश्च न संशयः ।
येनोपायेन बध्येत वायुभिश्चलनं मनः ॥ ९ ॥
Read Next
चित्ते चलति संसारो निश्चलो मोक्ष एव तु ।
तस्माच्चित्तं स्थिरं कुर्यात्प्रज्ञया परया बुधः ॥ १० ॥
एकान्तिकं सुखं यत्र तथाइवात्यन्तिकं भवेत् ।
निष्कर्मणि परे तत्त्वे को न रज्येत पण्डितः ॥ ११ ॥
निवृत्तो विषयज्ञानात्निष्कलज्ञानतत्परः ।
अनिच्छन्नपि मेधावी लभते मोक्षमक्षयम् ॥ १२ ॥
अस्मिताकलया युक्तं चैतन्यं सकलं स्मृतम् ।
अस्मितारहितं चेतश्चैतन्यं शक्तिरुच्यते ॥ १३ ॥
Read Next
तथा प्रकाशितं विश्वं शक्तिध्यानमुदाहृतम् ।
सर्वालम्बविनिर्मुक्तं निष्कलं ज्ञानमुच्यते ॥ १४ ॥
अहमंशेन यच्छून्यं चिन्मात्रालोकमद्वयम् ।
मुक्तिबीजं तदाख्यातं परयोगप्रवर्तकम् ॥ १५ ॥
चक्राणि नाडयः पद्म- देवताबीजमण्डलम् ।
रूपमित्यादिकं किञ्चिद्ध्येयं नैव कदाचन ॥ १६ ॥
कुहकं मन्त्रजालं च प्राणायामादि धारणम् ।
सर्वमेतन्न कर्तव्यं मोक्षमक्षयमिच्छता ॥ १७ ॥
नात्र पूजा नमस्कारो न जपो ध्यानमेव च ।
केवलं ज्ञानमित्युक्तं वेदितव्यं न किञ्चन ॥ १८ ॥
बहिराहितचित्तानां जायन्ते बन्धहेतवः ।
बहिश्चित्तं निवार्यैव विन्दन् लोके न सीदति ॥ १९ ॥
नात्र किञ्चिद्बहिर्नान्तं न मध्यं नाप्यधः क्वचित् ।
सर्वाकारं निराकारं स्वसंवेद्यं विराजते ॥ २० ॥
यद्यदालोक्य यो जन्तुः कुरुते कर्मसञ्चयम् ।
तद्गतिर्जायते यस्मान्निरालोकं तु चिन्तयेत् ॥ २१ ॥
हेतुर्नास्ति फलं नास्ति नास्ति कर्म स्वभावतः ।
असद्भूतमिदं सर्वं नास्ति लोको न लौकिकः ॥ २२ ॥
निरालम्बमिदं सर्वं निरालम्बप्रकाशितम् ।
निरालम्बमिदं कृत्वा निरालम्बो भविष्यति ॥ २३ ॥
व्योमाकारं महाशून्यं व्यापकं यो न भावयेत् ।
संसारी स भवेल्लोके बीजकोशक्रिमिर्यथा ॥ २४ ॥
ज्ञानोत्पत्तिनिमित्तं तु क्रियाश्चर्याः प्रकीर्तिताः ।
योगं सालम्बनं त्यक्त्वा निष्प्रपञ्चं विचिन्तयेत् ॥ २५ ॥
पातालात्शक्तिपर्यन्तं सर्वमेतदभीप्सितम् ।
भग्नं यैः शून्यमन्त्रेण ते स्मृताः शून्यवेदिनः ॥ २६ ॥
विषये लोलुपं चित्तं मर्कटादपि चञ्चलम् ।
सर्वशून्यपदे स्थित्वा ततो निर्वाणमेष्यति ॥ २७ ॥
सर्वतत्त्वाद्यसम्भिन्नं देहाद्भिन्नं तथैव च ।
अहमस्माद्यसम्भिन्नं चैतन्यं सर्वतोमुखम् ॥ २८ ॥
आकाशमिव सर्वं तु सबाह्याभ्यन्तरं प्रिये ।
परानन्दमरूपं तु पश्यन्नानन्दभाग्भवेत् ॥ २९ ॥
निरिन्धनो यथा वह्निः स्वयमेव प्रशाम्यति ।
ग्राह्याभावान्मनस्तद्वत्स्वयमेव प्रलीयते ॥ ३० ॥
मोहिका मूर्च्छिका माया स्वप्नश्चेति चतुर्विधः ।
सुषुप्तिर्जागृतिश्चैव सर्वमेतत्परित्यजेत् ॥ ३१ ॥
देहात्सूक्ष्मगतात्प्राणाच्चित्ताद्बुद्धेरहङ्कृतेः ।
सर्वस्माद्भिन्न एवाहं चिन्तयन् लभते चितम् ॥ ३२ ॥
सदाभिभूतये चित्तं निद्रया स्मरणादिना ।
बोधयित्वा प्रयत्नेन कुर्यात्स्वस्थं पुनः पुनः ॥ ३३ ॥
यदा स्थिरं भवेच्चित्तं चालयन्न कथंचन ।
न किञ्चिच्चिन्तयेत्तत्र स्थिरमेव तु कारयेत् ॥ ३४ ॥
आश्रयालम्बनं चित्तं तद्वत्कुर्यान्निराश्रयम् ।
चञ्चलं निश्चलं कुर्यात्निश्चलं न तु चालयेत् ॥ ३५ ॥
सर्वभूतलये जाते यद्यद्व्योम सुनिर्मलम् ।
तत्तद्रूपं स्वकं ध्यायेद्व्याप्तं चैव तु निर्मलम् ॥ ३६ ॥
तदेव जन्मसाफल्यं पाण्डित्यमिदमेव हि ।
चलद्वायुसमं चित्तं निश्चलं ध्रियते हि यत् ॥ ३७ ॥
नैवोर्ध्वं धारयेच्चित्तं न मध्यं नाप्यधः क्वचित् ।
अन्तर्भावविनिर्मुक्तं सदा कुर्यान्निराश्रयम् ॥ ३८ ॥
निद्रायां बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।
पक्षद्वयपरित्यागे सम्प्राप्ते नैव चालयेत् ॥ ३९ ॥
निराश्रयं सदा चित्तं सर्वालम्बनवर्जितम् ।
मनोऽवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् ॥ ४० ॥
सर्वालम्बनशून्यं च धारयित्वा मनो हृदि ।
यज्ज्ञानं जायते स्पष्टं तदभ्यासपरो भवेत् ॥ ४१ ॥
ये ध्यायन्ति परं शून्यं निष्कलं निरवस्थितम् ।
ते यान्ति परमं स्थानं जन्ममृत्युविवर्जितम् ॥ ४२ ॥
देवा देव्यस्तथा चान्ये धर्माधर्मौ च तत्फलम् ।
आश्रयाश्रयिविज्ञानं संसारस्य च बन्धनम् ॥ ४३ ॥
आश्रयो द्वन्द्वमित्युक्तं द्वन्द्वत्यागात्परोदयः ।
जीवन्मुक्तस्तदा योगी देहत्यागाद्विमुच्यते ॥ ४४ ॥
वैराग्येण वपुस्त्यागो न वै कार्यो मनीषिणा ।
आरम्भतः क्रियानाशे स्वयमेव विपत्स्यते ॥ ४५ ॥
हृत्सरोजे ह्यहंरूपा या चितिर्निर्मलाचला ।
अहङ्कारपरित्यागात्सा चितिर्मोक्षदायिनी ॥ ४६ ॥
सर्वोपाधिविनिर्मुक्तं चिद्रूपं यन्निरन्तरम् ।
तच्छिवोऽहमिति ध्यात्वा सर्वासक्तिं विसर्जयेत् ॥ ४७ ॥
देशजात्यादिसम्बद्धान् वर्णाश्रमसमन्वितान् ।
भावानेतान् परित्यज्य स्वभावं भावयेद्बुधः ॥ ४८ ॥
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं तं न पश्यामि यो मम ॥ ४९ ॥
अहमेव परं ब्रह्म जगन्नाथो महेश्वरः ।
इति स्यान्निश्चितो मुक्तो बद्धः स्यादन्यथा पुमान् ॥ ५० ॥
अशरीरं यदात्मानं पश्यति ज्ञानचक्षुषा ।
तदा भवति शान्तात्मा सर्वतो विगतस्पृहः ॥ ५१ ॥
योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः ।
अकायो निर्गुणो ह्यात्मा सोऽहमस्मि न संशयः ॥ ५२ ॥
विज्ञाप्तिमात्रो हि सदा विशुद्धः सर्वत्र यस्मात्सततं विमुक्तः ।
नादेयहेयो ह्यहमप्रतर्क्यस्तस्मात्सदा ब्रह्ममयो विशोकः ॥ ५३ ॥
आमस्तकं पादतलावसानं सान्तर्बहिश्चर्मपटावनद्धम् ।
तत्कृत्स्नमेवामृतरूपमन्यच्चिद्रूपमात्मानमनन्यसिद्धिम् ॥ ५४ ॥
ईशोऽहमेवास्य चराचरस्य पिता च माता च पितामहश्च ।
ध्यानं समास्थाय पदं चतुर्थं ध्यायन्ति मामेव विमुक्तिकामाः ॥ ५५ ॥
ब्रह्मादिभिर्देवमनुष्यनागैर्गन्धर्वयक्षाप्सरसां गणैश्च ।
यज्ञैरनेकैरहमेव पूज्यो मामेव सर्वे प्रतिपूजयन्ति ॥ ५६ ॥
तपोभिरुग्रैर्विविधैश्च दानैर्मामेव सर्वे प्रतिपूजयन्ति ।
भूतानि चाहं स्थिरजङ्गमानि यावन्ति चान्यान्यहमेव तानि ॥ ५७ ॥
न स्थूलसूक्ष्मो न च शून्यरूपो ज्ञानैकरूपो जगदेकबन्धुः ।
निरन्तरो निर्मल ईश्वरोऽहं स्वप्नाद्यवस्थाच्युतिनिष्प्रपञ्चः ॥ ५८ ॥
अनादिविज्ञानमजं पुराणं गुहाशयं निष्कलमप्रपञ्चम् ।
निरञ्जनं निष्प्रतिमं निरीशमदृश्यमग्राह्यमचिन्त्यरूपम् ॥ ५९ ॥
सनातनं ब्रह्म निरन्तरं यत्पदे पदे सोऽहमिति प्रपश्येत् ।
यो भावतस्तिष्ठति निष्प्रकम्पः स ब्रह्मभूतोऽमृततामुपैति ॥ ६० ॥
ज्ञानमेवं वरारोहे कथितं मोक्षसिद्धये ।
आचारं कथ्यमानं तु साम्प्रतं शृणु तं मया ॥ ६१ ॥
न स्नानं न जपः पूजा होमो नैव च साधनम् ।
अग्निकार्यादिकार्यं च नैतस्यास्ति महेश्वरि ॥ ६२ ॥
नियमोऽपि न तस्यास्ति क्षेत्रपीठे च सेवनम् ।
नार्चनं पितृकार्यादि तीर्थयात्रा व्रतानि च ॥ ६३ ॥
धर्माधर्मफलं नास्ति न तिथिर्लौकिकक्रिया ।
सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः ॥ ६४ ॥
समयाचारनिःशेषान् कृत्यजातं तु बन्धनम् ।
संकल्पं च विकल्पं च ये चान्ये कुलधर्मिकाः ॥ ६५ ॥
सिद्धीश्च विविधाकाराः पातालादि रसायनम् ।
प्रत्यक्षेणापि लभ्येरन्नैव गृह्णीत साधकः ॥ ६६ ॥
सर्वे ते पशुबन्धाः स्युरधोमार्गप्रदायकाः ।
एतैर्नास्ति परा मुक्तिश्चिद्रूपं व्यापकं विना ॥ ६७ ॥
येन केन विशेषेण सर्वावस्थोऽपि योगधृक् ।
क्षेत्रपीठे च सन्देहाद्वर्जयेद्यदि कौतुकम् ॥ ६८ ॥
कृमिकीटपतङ्गाश्च तथा देवि वनस्पतीन् ।
न नाशयेद्बुधो जीवान् परमार्थमतिर्यतः ॥ ६९ ॥
न मूलोत्पाटनं कुर्यात्पत्त्रच्छेदं विवर्जयेत् ।
भूतपीडां न कुर्वीत पुष्पाणां च निकृन्तनम् ॥ ७० ॥
स्वयंपतितपुष्पैस्तु कर्तव्यं शिवपूजनम् ।
मारणोच्चाटनादीनि विद्वेषस्तम्भने तथा ॥ ७१ ॥
ज्वरभूतग्रहावेश- वश्याकर्षणमोहनम् ।
न कुर्यात्क्षुद्रकर्माणि काष्ठपाषाणपूजनम् ॥ ७२ ॥
समोऽमित्रे च मित्रे च समो लोष्टे च काञ्चने ।
अभिलाषो न कर्तव्य इन्द्रियार्थे कदाचन ॥ ७३ ॥
आत्मारामो भवेद्योगी निर्भयो विगतस्पृहः ।
समनिन्दाप्रशंसश्च सर्वभूतसमस्तथा ॥ ७४ ॥
समदृष्टिस्तु कर्तव्या यथात्मनि तथा परे ।
विवादं लोकगोष्ठीं च कलहाश्च विवर्जयेत् ॥ ७५ ॥
शास्त्रगोष्ठीं न कुर्वीत कुभाषितसुभाषितान् ॥ ७६ ॥
ईर्ष्यां पैशुन्यदम्भे च रागं मात्सर्यमेव च ।
कामक्रोधौ भयं शोकं त्यजेत्सर्वं शनैः शनैः ॥ ७७ ॥
सर्वद्वन्द्वविनिर्मुक्तः सन्ततं जनवर्जितः ।
अनेनैव शरीरेण सर्वज्ञः सन् प्रकाशते ॥ ७८ ॥
ज्ञानेनैव यथा मोक्षस्तथा सिद्धिर्निरर्थिका ।
तथापि भोगमिच्छन्तः सिद्धिमिच्छन्ति साधकाः ॥ ७९ ॥
अणिमादिगुणावाप्तिर्जायतां वा न जायताम् ।
तथापि मुच्यते देही पतिं विज्ञाय निर्मलम् ॥ ८० ॥
पञ्चभूतात्मको देहः शिवस्तत्रैव तिष्ठति ।
शिवाद्यवनिपर्यन्तो लोकोऽयं शङ्करात्मकः ॥ ८१ ॥
ईदृशं ज्ञानिनं दृष्ट्वा पूजयन्ति च ये नराः ।
गन्धं पुष्पं फलं धूपं स्नानं वस्त्रं च भोजनम् ॥ ८२ ॥
निवेदयन्ति ये केचिद्वाङ्मनःकायकर्मभिः ।
तथैव ते विमुच्यन्ते मुक्तिमार्गाभिकाङ्क्षिणः ॥ ८३ ॥
स्तुतिनिन्दाकरास्तस्य पुण्यपापे समाप्नुयुः ।
यज्ज्ञानाचरणं पृष्टं तत्सर्वं कथितं मया ।
कालज्ञानं वरारोहे किमन्यत्परिपृच्छसि ॥ ८४ ॥