त्रिफला – Trifala
हरीतक्याश्चामलक्या विभीतकस्य च फलम्
त्रिफलेत्युच्यते वैद्यैर्वक्ष्यामि भागनिर्णयम् १
एकभागो हरीतक्या द्वौभागौ च विभीतकम्
आमलक्यास्त्रिभागश्च सहैकत्र प्रयोजयेत् २
त्रिफला कफपित्तघ्नी महाकुष्ठविनाशिनी
आयुष्या दीपनी चैव चक्षुष्या व्रणशोधिनी ३
वर्णप्रदायिनी घृष्टा विषमज्वरनाशिनी
दृष्टिप्रदा कण्डुहरा वमिगुल्मार्शनाशिनी ४
सर्वरोगप्रशमनी मेधा स्मृतिकरी परा
हारीतसंहिता
Tags: Ayurveda Medical Science